पृष्ठ २/५२६

जलाशयः, पुं, (जलस्य आशय आधारः ।)

जलाधारः । स तु पुष्करिण्यादिः । इत्यमरः ।
१ । १० । २६ ॥ (यथा, मनुः । ४ । १२९ ।
“न स्नानमाचरेद्भुक्त्रा नातुरो न महानिशि ।
न वासोभिः सहाजस्रं नाविज्ञाते जलाशये ॥”
जलं आशेते तिष्ठत्यत्र । आ + शी + “पुंसि
संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति
घः ।) समुद्रः । इति हेमचन्द्रः ॥ शृङ्गाटकः ।
इति राजनिर्घण्टः ॥

जलाशया, स्त्री, (जले जलसमीपे आशेते उद्भव-

तीति । आ + शी + अच् । स्त्रियां टाप् ।)
गुण्डालावृक्षः । इति राजनिर्घण्टः ॥

जलाश्रयः, पुं, (जले जलप्रचुरप्रदेशे आश्रय उत्-

पत्तिस्थानं यस्य ।) वृत्तगुण्डतृणम् । इति राज-
निर्घण्टः ॥

जलाश्रया, स्त्री, (जले जलबहुलप्रदेशे आश्रयो

यस्याः ।) शूलीतृणम् । बलाका । इति राज-
निर्घण्टः ॥

जलाष्ठीला, स्त्री, (जलेनाष्ठीला संहता ।) पुष्क-

रिणी । इति हारावली । ४२ ॥

जलाह्वयं, क्ली, (जले आह्वयः स्पर्द्धा यस्य ।) उत्-

पलम् । इति राजनिर्घण्टः ॥

जलिका, स्त्री, (जलं उत्पत्तिस्थानत्वेनास्त्यस्याः ।

जल + “अत इनिठनौ ।” ५ । २ । ११५ । इति ठन्
स्त्रियां टाप् ।) जलौका । इत्यमरटीकायां भरतः ॥

जलुका, स्त्री, (जले तिष्ठतीति । जल + बाहुलकात्

उकः ।) जलौका । इति शब्दरत्नावली ॥

जलूका, स्त्री, (जलुका । पृषोदरादित्वात् दीर्घः ।)

जलौका । इति हेमचन्द्रः । ४ । २७० ॥ (यथा,
देवीभागवते । १ । १५ । १८ ।
“जलूकेव सदा नारी रुधिरं पिबतीति वै ।
मूर्खस्तु न विजानाति मोहितो भावचेष्टितैः ॥”)

जलेचरः, पुं, (जले चरतीति । चर + “चरेष्टः ।”

३ । २ । १६ । इति टः । “तत्पुरुषे कृति बहु-
लम् ।” ६ । ३ । १४ । इत्यलुक् ।) जलचर-
पक्षी । स तु हंसमद्गुवकादिः । तस्य मांस-
गुणाः । गुरुत्वम् । उष्णत्वम् । स्निग्धत्वम् । मधु-
रत्वम् । वायुनाशित्वम् । शुक्रकारित्वञ्च । इति
राजवल्लभः ॥ (जलचारिणि, त्रि । यथा, महा-
भारते । १ । २१७ । ११ ।
“स तमादाय कौन्तेयो विस्फुरन्तं जलेचरम् ।
उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः ॥”)

जलेच्छया, स्त्री, (जलमेतीति जलेत् जलप्रचुर-

स्थानम् । इ + क्विप् । तत्र शेते उद्भवतीति ।
शी + अच् । स्त्रियां टाप् ।) हस्तिशुण्डा-
वृक्षः । इति शब्दरत्नावली ॥

जलेजातं, क्ली, (जले जातमुत्पन्नम् ।) पद्मम् ।

इति शब्दरत्नावली ॥

जलेन्द्रः, पुं, (जलस्य इन्द्रः अधिपतिः ।) वरुणः ।

महोदधिः । जम्भलः । इति मेदिनी । रे, १५८ ॥

जलेन्धनः, पुं, (जलान्येव इन्धनानि यस्य ।) वाड-

वाग्निः । इति भूरिप्रयोगः ॥

जलेरुहा, स्त्री, (जले रोहति उद्भवतीति । रुह

+ कः । “तत्पुरुषे कृतीति ।” अलुक् ।)
कुटुम्बिनीवृक्षः । इति राजनिर्घण्टः ॥

जलेवाहः, पुं, (जले जलमध्ये वाहते जलमग्न-

द्रव्यस्य लाभार्थं प्रयतते इति । वाह प्रयत्ने +
अच् ।) जातिविशेषः । डुवरु इति भाषा ॥
यथा, पाद्म पातालखण्डे ।
“जलेवाहानथाहूय बहूंस्तत्र न्ययोजयत् ।
तत् कृत्वा परमं यत्नमापुराभरणं न तत् ॥”

जलेशयः, पुं, (जले शेते इति । शी + अच् ।

“तत्पुरुषे कृतीति ।” अलुक् ।) मत्स्यः । इति
त्रिकाण्डशेषः ॥ (कारणतोयशायित्वात् विष्णुः ।
यथा, हरिवंशे । २२ । ६८ ।
“नमोऽस्त्वनन्तपतये अक्षयाय महात्मने ।
जलेशयाय देवाय पद्मनाभाय विष्णवे ॥”
महादेवः । यथा, महाभारते । १३ । १७ । ९८ ।
“तुम्बवीणो महाक्रोध ऊर्द्ध्वरेता जलेशयः ॥”
जलाशायिनि, त्रि ॥)

जलेश्वरः, पुं, (जलस्य ईश्वरः ।) वरुणः । इति

शब्दरत्नावली ॥ (यथा, महाभारते । १ । २२६ । ३ ।
“तमब्रवीत् धूमकेतुः प्रतिगृह्य जलेश्वरम् ।
चतुर्थं लोकपालानां देवदेवं सनातनम् ॥”
जलानामाश्रयत्वात्) समुद्रश्च ॥

जलोका, स्त्री, (जलमोकं आश्रयो यस्याः । पृषो-

दरादित्वात् साधुः ।) जलौका । इत्यभर-
टीकायां भरतः ॥

जलोच्छ्वासः, पुं, (जलानां उच्छ्वासः ।) जलाशयं

परिपूर्य्य समधिकजलस्य सर्व्वतो वहनम् । इति
केक्कटः ॥ समधिकजलस्योपायैर्निष्कासनम् ।
इति स्वामी ॥ जलात्युपचये पुष्करिण्यादावुपायेन-
जलनिष्कासनम् । इति सर्व्वस्वम् ॥ सेतुभङ्गादि-
भयेन जलाशयादुपायैर्ज्जलवहिष्करणम् ।
इत्यन्ये ॥ पुष्करिण्यादौ जलप्रवेशार्थमुपायः
मुयान् इति ख्यात इत्येके । इति भरतः ॥
तत्पर्य्यायः । परीवाहः २ । इत्यमरः । १ । १० । १० ॥

जलोदरं, क्ली, (जलप्रधानं उदरं यस्मात् ।)

जठरामयः । तस्य निदानादि यथा, --
“यः स्नेहपीतोऽप्यनुवासितो वा
वान्तो विरिक्तोऽप्यथवा निरूढः ।
पिबेज्जलं शीतलमाशु तस्य
स्रोतांसि दुष्यन्ति हि तद्बहानि ॥
स्नेहोपलिप्तेष्वथवापि तेषु
दकोदरं पूर्ब्बवदभ्युपैति ।
स्निग्धं महत्तत् परिवृत्तनाभि-
समाततं पूर्णमिवाम्बुना च ॥
यथा दृतिः क्षुभ्यति कम्पते च
शब्दायते चापि दकोदरन्तत् ॥
जन्मनैवोदरं सर्व्वं प्रायः कृच्छ्रतमं मतम् ।
बलिनस्तदजाताम्बु यत्नसाध्यं नवोत्थितम् ॥”
इति माधवकरः ॥
(अस्य सकारणलक्षणचिकित्सितं यथा,
हारीते चिकित्सितस्थाने २७ अध्याये ।
आत्रेय उवाच ।
“विषमाशनोपवेशात् पीततोयादथापि वा ।
श्रमाध्वश्वासनिष्क्रान्तादतिव्यायामतोऽपि वा ॥
पीतन्तूदरमेवञ्च तस्माज्जातं जलोदरम् ।
उदरं सजलं यस्य सघोषमतिवर्द्धितम् ॥
श्वयथुः पादयोः शोथो जलोदरस्य लक्षणम् ।
विरेकं वमनं कुर्य्यात् पाचनानि च कारयेत् ॥
क्षारयोगश्च वटकस्तेन तदुपशाम्यति ।
तस्मान्नाभेर्वलीभागे वज्जयित्वाङ्गुलद्बयम् ॥
जलनाडीञ्चानुमन्य कुशपत्रेण वेष्टयेत् ।
एरण्डजलनालञ्च तत्र सञ्चारयेद्बुधः ॥
अन्तर्गतं जलं स्राव्यं ततः सन्धारयेद्द्रुतम् ।
यदा न धरते तच्च तदा दाहः प्रशस्यते ॥
कणा कल्कं परिस्राव्य घृतं देयं चतुर्गुणम् ।
शुण्ठी विषा समं पाच्यं पानमालेपनं हितम् ॥
शस्त्रकर्म्म भिषक् श्रेष्ठो विज्ञातेनैव कारयेत् ।
दुष्करं शस्त्रकर्म्मैव न कुर्य्यत् यत्र तत्र तु ॥
अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत् ।
तस्मादवश्यकर्त्तव्यमीश्वरं साक्षिकारिणा ॥” * ॥)

जलोद्भवा, स्त्री, (जले उद्भवो यस्याः ।) लघु-

ब्राह्मी । इति राजनिर्घण्टः ॥ (कालानुशारिवा ।
शिउली छोपरं इति च यस्य ख्यातिः ।
यथास्याः पर्य्यायाः ।
“शीतली शीतकुम्मी च शुक्लपुष्पा जलोद्भवा ।
कालानुशारिवा तस्याः प्रवाहो नतवद्गुणैः ॥”
इति वैद्यकरत्नमालायाम् ॥)

जलोद्भूता, स्त्री, (जले उद्भूता ।) गुण्डालाक्षुपः ।

इति राजनिर्घण्टः ॥

जलोरगी, स्त्री, (जले उरगी सर्पिणीव ।)

जलौका । इत्यमरटीकासारसुन्दरी ॥

जलौकसः, स्त्री, (जले ओको वासस्थानं यासाम् ।)

जलौका । सान्तबहुवचनान्तोऽयं शब्दः । इत्य-
मरः । १ । १० । २२ ॥

जलौकसः, पुं, स्त्री, (जलमेव ओको वासस्थानं

तदस्त्यस्येति । अर्शआदित्वादच् ।) जलौका ।
इत्यमरटीकायां रायमुकुटः ॥ अकारान्तोऽयम् ॥

जलौकाः, [स्] स्त्री, (जलमेव ओको वसतिस्थानं

यस्याः ।) जलौका । इति भरतः ॥ (यदुक्तम् ।
“गृह्णाति साधुरपरस्य गुणं न दोषं
दोषान्वितो गुणिगुणं परिहाय दोषम् ।
बालस्तनात् पिबति दुग्धमसृग्विहाय
त्यक्त्रा पयो रुधिरमेव न किं जलौकाः ॥”
जलवासिनि, त्रि । यथा, महाभारते । १३ ।
५० । १० ।
“जलोकसां स सत्त्वानां बभूव प्रियदर्शनः ॥”
विवरणमस्या यथा, --
“नृपाढ्य-बाल-स्थविर-भीरु-दुर्ब्बल-नारीसुकु-
माराणामनुग्रहार्थं परमसुकुमारोऽयं शोणि-
तावसेचनोपायोऽभिहितो जलाकसः । तत्र
वातपित्तकफ-दुष्ट-शोणितं यथासङ्ख्यं शृङ्ग-
जलौकालावुभिरवसेचयेत् स्निग्धशीतरूक्षत्वात्
सर्व्वाणि सर्व्वर्व्वा ॥”
“उष्णं समधुरं स्निग्धं गवा शृङ्गं प्रकीर्त्तितम् ।
तस्माद्वातोपसृष्टे तु हितं तदवसेचने ॥
शीताधिवासा मधुरा जलौका वारिसम्भवा ।
पृष्ठ २/५२७
तस्मात् पित्तोपसृष्टे तु हिता सा त्ववसेचने ॥
अलावुकटुकं रूक्षं तीक्ष्णञ्च परिकीर्त्तितम् ।
तस्मात् श्लेष्मोपसृष्टे तु हितं तदवसेचने ॥”
“अथ जलायुका वक्ष्यन्ते । जलमासामायुरिति
जलायुका जलमासामोक इति जलौकसः ।
ता द्वादश, तासां सविषाः षट् तावत्य एव
निर्व्विषाः । तत्र सविषाः कृष्णा कर्व्वुरा अल-
गर्द्दा इन्द्रायुधा सामुद्रिका गोचन्दना चेति ।
तास्वञ्जनचूर्णवर्णा पृथुशिराः कृष्णा । वर्म्मि-
मत्स्यवदायता छिन्नोन्नतकुक्षिः कुर्व्वुरा ।
रोमशा महापार्श्वा कृष्णमुख्यलगर्द्दा । इन्द्रा-
युधवदूर्द्ध्वराजिभिश्चित्रा इन्द्रायुधा । ईषदसित-
पीतिका विचित्रपुष्पाकृतिचित्रा सामुद्रिका ।
गोवृषणवदधोभागे द्बिधाभूताकृतिरणुमुखी
गोचन्दनेति । ताभिर्द्दष्टे पुरुषे दंशे श्वयथु-
रतिमात्रं कण्डूर्मूर्च्छा ज्वरोदाहश्छर्द्दिर्म्मदः
सदनमिति लिङ्गानि भवन्ति । तत्र महागदः
पानालेपननस्यकर्म्मादिषूपयोज्यः । इन्द्रायुधा-
दष्टमसाध्यमित्येताः सविषाः सचिकित्सिता
व्याख्याताः ।
अथ निर्व्विषाः । कपिला पिङ्गला शङ्कुमुखी
मूषिका पुण्डरीकमुखी सावरिका चेति ।
तत्र मनःशिलारञ्जिताभ्यामिव पार्श्वाभ्यां पृष्ठे
स्निग्धमुद्गवर्णा कपिला । किञ्चिद्रक्ता वृत्तकाया
पिङ्गाशुगा च पिङ्गला । यकृद्बर्णा शीघ्रपायिनी
दीर्घतीक्ष्णमुखी शङ्कुमुखी मूषिकाकृतिवर्णा-
ऽनिष्टगन्धा च मूषिका । मुद्गवर्णा पुण्डरीक-
तुल्यवक्त्रा पुण्डरीकमुखी । स्निग्धा पद्मपत्रवर्णा-
ष्टादशाङ्गुलप्रमाणा सावरिका सा च पश्वर्थे ।
इत्येता अविषा व्याख्याताः । तासां यवन-
पाण्ड्यसह्यपौतनादीनि क्षेत्राणि । तेषु महा-
शरीरा बलवत्यः शीघ्रपायिन्यो महाशना
निर्व्विषाश्च विशेषेण भवन्ति । तत्र सविषमत्स्य-
कीटदर्दुरमूत्रपुरीषकोषजाताः कलुषेष्वम्भःसु
च सविषाः । पद्मोत्पलनलिनकुमुदसौगन्धिक-
कुवलयपुण्डरीकशैवालकोथजाता विमलेषु
अम्भःसु च निर्व्विषाः ॥”
“क्षेत्रेषु विचरन्त्येताः सलिलेषु सुगन्धिषु ।
न च सङ्कीर्णचारिण्यो न च पङ्केशयाः सुखाः ॥”
“अथैनां नवे महति घटे सरस्तडागोदकपङ्क-
मावाप्य निदध्यात् । भक्षार्थे चासामुपहरे-
च्छैबलं वल्लूरमौदकांश्च कन्दांश्चूर्णीकृत्य शय्यार्थं
तृणमौदकानि च पत्राणि । द्ब्यहात्त्र्यहा-
च्चान्यज्जलं भक्ष्यं च दद्यात् सप्तरात्रात् सप्त-
रात्राच्च घटमन्यं संक्रामयेत् ॥”
“स्थूलमध्याः परिक्लिष्टाः पृथ्य्वो मन्दविचेष्टिताः ।
अग्राहिण्योऽल्पपायिन्यः सविषाश्च न पूजिताः ॥
अथ जलौकोऽवसेकसाध्यव्याधितमुपवेश्य संवेश्य
वा विरुक्ष्य चास्य तमवकाशं मृद्गोमयचूर्णैर्यद्य-
रुजः स्यात् । गृहीताश्च ताः सर्षपरजनी-
कल्कोदकप्रदिग्धगात्रीः सलिलसरकमध्ये मुहूर्त्त-
स्थिता विगतक्लमा ज्ञात्वा ताभी रोगं ग्राह-
येत् । सूक्ष्मशुक्लार्द्रपिचुप्लोतावच्छन्नां कृत्वा
मुखमपावृणुयादगृह्णन्त्यै क्षीरबिन्दुं शोणित-
बिन्दुं वा दद्याच्छस्त्रपदानि वा कुर्व्वीत यद्येव-
मपि न गृह्णीयात्तदन्यां ग्राहयेत् । यदा च
निविशतेऽश्वखुरवदाननं कृत्वोन्नम्य च स्कन्धं
तदा जानीयाद् गृह्णातीति गृह्णन्तीञ्चार्द्रवस्त्रा-
वच्छन्नां धारयेत् सेचयेच्च । दंशे तोदकण्डू-
प्रादुर्भावैर्ज्जानीयाच्छुद्धमियमादत्त इति शुद्ध-
माददानामपनयेत् । अथ शोणितगन्धन न
मुञ्चेन्मुखमस्याः सैन्धवचूर्णेनावकिरेत् । अथ
पतितां तण्डुलकण्डनप्रदिग्धगात्रीं तैल-लवणा-
भ्यक्तमुखीं वामहस्ताङ्गुष्ठाङ्गुलीभ्यां गृहीत-
पुच्छां दक्षिणहस्ताङ्गुष्ठाङ्गुलीभ्यां शनैः शनै-
रनुलोमानुमार्ज्जयेदामुखाद्वामयेत्तावद् यावत्
सम्यग्वान्तलिङ्गानीति । सम्यग्वान्ता सलिल-
सरकन्यस्ता भोक्तुकामा सती चरेत् । या
सीदति न चेष्टते सा दुर्व्वान्ता तां पुनः सम्यग्-
वामयेत् । दुर्व्वान्ताया व्याधिरसाध्य इन्द्रमदो
नाम भवति । अथ सुवान्तां पूर्ब्बवत् सन्नि-
दध्यात् शोणितस्य च योगायोगानवेक्ष्य जलौको
व्रणान्मधुनावघट्टयेच्छीताभिरद्भिश्च परिषेच-
येद्बध्नीत वा व्रणं कषायमधुर-सिग्धशीतैश्च
प्रदेहैः प्रदिह्यादिति ।”
“क्षेत्राणि ग्रहणं जातीः पोषणं सावचारणम् ।
जलौकसाञ्च योवेत्ति तत् साध्यान् स जयेद्गदान् ॥”
इति सूत्रस्थाने त्रयोदशाध्याये सुश्रुतेनोक्तम् ॥)

जलौका, स्त्री, (जलमेव ओकं वसतिस्थानं

यस्याः ।) जलजन्तुविशेषः । जोँक इति भाषा ।
तत्पर्य्यायः । रक्तपा २ जलौकसः ३ इत्य-
मरः । १ । १० । २२ ॥ जलूका ४ जलाका ५
जलौकाः ६ जलोरगी ७ जलायुका ८ जलिका ९
जलासुका १० जलजन्तुका ११ वेणी १२ जला-
लोका १३ जलौकसः १४ जलौकसी १५ ।
इति भरतः ॥ जलौकसम् १६ जलौकसा १७ ।
इति रायमुकुटः ॥ रक्तपायिनी १८ रक्तसन्द-
शिका १९ तीक्ष्णा २० वमनी २१ जल-
जीवनी २२ । इति राजनिर्घण्टः ॥ रक्तपाता २३
वेधिनी २४ जलसर्पिणी २५ जलसूचिः २६
जलाटनी २७ जलाका २८ जलपटात्मिका २९
जलिका ३० जलालुका ३१ । इति शब्दरत्ना-
वली ॥ (यथा सुश्रुते शारीरस्थानेऽष्टमेऽध्याये ।
“सिरा-विषाणतुम्बैस्तु जलौकाभिः पदैस्तथा ।
अवगाढं यथापूर्ब्बं निर्हरेद्दुष्टशोणितम् ॥”
अस्या विवरणमन्यत् सविस्तरं जलौकःशब्दे
व्याख्यातम् ॥)

जल्प, वाचि । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) अन्तःस्थतृतीयोपधः । जल्पति ।
इति दुर्गादासः ॥ (यथा, महाभारते । ७ ।
१४६ । १२ ।
“नारिं जित्वा विकत्थन्ते नच जल्पन्ति दुर्वचः ॥”)

जल्पः, पुं, (जल्प वाचि + घञ् ।) विजिगीषोः

कथा । परमतखण्डनपूर्ब्बकं स्वमतव्यवस्थापनम् ।
इति जटाधरो गौतमश्च ॥ (“यथोक्तोपपन्न-
श्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः ॥”
इति न्यायसूत्रम् । १ । ४२ ॥
“स वादो द्बिविधः संग्रहेण जल्पो वितण्डा च ।
तत्र पक्षाश्रितयोर्वचनं जल्पः ।”
“यथैकस्य पक्षः पुनर्भवोऽस्तीति नास्तीत्यपरस्य
तौ च स्वपक्षं स्वस्वहेतुभिः स्थापयतस्तत्परपक्ष-
मुद्भावयतः एषः जल्पः ।” इति चरके विमान-
स्थानेऽष्टमेऽध्याये ॥) कथा । (यथा, भाग-
वते । १ । ७ । १७ ।
“इति प्रियां वल्गुविचित्रजल्पैः
स सान्त्वयित्वाच्युतमित्रसूतः ॥”)

जल्पनं, क्ली, (जल्प + भावे ल्युट् ।) कथनम् ।

यथा, --
“किं मिथ्या शतजल्पनेन सततं रे वक्त्र रामं
वद ॥”
इत्युद्भटः । (जल्पतीति । जल्प + नन्द्यादित्वात्
ल्युः । कथके, त्रिं ॥)

जल्पाकः, त्रि, (जल्पतीति । जल्प + “जल्पभिक्ष-

कुट्टलुण्टवृङः षाकन् ।” ३ । २ । १५५ । इति
षाकन् ।) बहुकुत्सितभाषी । तत्पर्य्यायः ।
वाचालः २ वाचाटः ३ बहुगर्ह्यवाक् ४ ।
इत्यमरः । ३ । १ । ३६ ॥ (स्त्रियां षित्वात् ङीप् ।
यथा, भट्टिः । ७ । १९ ।
“जल्पाकीभिः सहासीनः स्त्रीभिः प्रजविना
त्वया ॥”)

जल्पितं, त्रि, (जल्प्यते स्म इति । जल्प + क्तः ।

उक्तम् । इत्यमरः । ३ । १ । १०७ ॥ (यथा,
पञ्चतन्त्रे । १ । १४९ । “भो भो गोरम्भ !
सत्यमेतत् यत् त्वया जल्पितंम् । किं देवी
दन्तिलेन समालिङ्गिता ॥”) कथने, क्ली ।
(यथा, पञ्चतन्त्रे । २ । १३२ ।
“सा प्राह भो प्रियतम ! मिथ्याजल्पितमेतत् ॥”)

जवः, पुं, (जवनमिति । जु वेगगतौ + “ऋदो-

रप् ।” ३ । ३ । ५७ । इति अप् ।) वेगः ।
(यथा, महाभारते । ३ । १४१ । २१ ।
“यस्य बाहूबले तुल्यः प्रभावे च पुरन्दरः ।
जवे वायुर्म्मुखे सोमः क्रोधे मृत्युः सनातनः ॥”)
वेगवति, त्रि । इति मेदिनी । वे, ७ ॥

जवनं, क्ली, (जु वेगगतौ + भावे ल्युट् ।) वेगः ।

इत्यमरः । ३ । २ । ३९ ॥

जवनः, पुं, (जु + “जुचङ्क्रम्येति ।” ३ । २ । १५० ।

इति युच् ।) वेगः । वेगयुक्ताश्वः । देश-
विशेषः । इउनान इति पारस्यभाषा । इति
हेमचन्द्रः ॥ श्रीकारी मृगः । घोटकः । इति
राजनिर्घण्टः ॥ म्लेच्छजातिविशेषः । एष पूर्ब्बं
जवनदेशोद्भवः क्षत्त्रिय आसीत् सगरराजेनास्य
सर्व्वशिरोमुण्डनं सर्व्वधर्म्मवहिष्कृतत्वञ्च चकार ।
इति हरिवंशः ॥ (स्कन्दस्य सैनिकविशेषः
यथा, महाभारते । ९ । ४५ । ७२ ।
“शृणु नामानि चाप्येषां येऽन्ये स्कन्दस्य
सैनिकाः ॥”
पृष्ठ २/५२८
इत्युपक्रम्याह ।
“लोहाजवक्त्रो जवनः कुम्भवक्त्रश्च कुम्भकः ॥”)
वेगयुक्ते त्रि । इति मेदिनी । ने, ६६ ॥ (यथा,
महाभारते । ३ । १६ । १६ ।
“अपायाज्जवनैरश्वैः शाम्बबाणप्रपीडितः ॥”)

जवनालं, क्ली, (जवनाय अलति पर्य्याप्नोतीति । अल

+ अच् ।) फलविशेषः । जनार इति भाषा ॥
अस्य गुणाः । स्वादुत्वम् । शीतत्वम् । वायुकारि-
त्वम् । कफपित्तनाशित्वञ्च । इति राजवल्लभः ॥

जवनिका, स्त्री, (जवनं वेगेन प्रतिरोधनमस्त्यस्याः ।

जवन + ठन् । टाप् च ।) व्यवधायकवस्त्रम् ।
कानात् इति भाषा ॥ तत्पर्य्यायः । प्रतिसीरा २
तिरस्करिणी ३ । इत्यमरः । २ । ६ । १२० ॥ यव-
निका ४ यमनिका ५ तिरस्कारिणी ६ । इति
तट्टीका ॥ अन्तस्पटः ७ पटी ८ चित्रा ९ काण्ड-
पटः १० । इति शब्दरत्नावली ॥ (यथा,
माघे । ४ । ५४ ।
“समीरशिशिरः शिरःसु वसतां
सतां जवनिका निकामसुखिनाम् ॥”)

जवनी, स्त्री, (जूयते आच्छाद्यतेऽनया । जु +

करणे ल्युट् । स्त्रियां ङीप् ।) अपटी । कानात्
इति भाषा ॥ (यथा, आर्य्यासप्तशत्याम् । ५३८ ।
“व्रीडाप्रसरः प्रथमं तदनु च रसभावपुष्टचेष्टेयम् ।
जवनीविनिर्गमादनु नटीव दयिता मनो
हरति ॥”)
ओषधीभेदः । इति हेमचन्द्रः ॥ (जवनजातिस्त्री ।
यथाह ।
“जवनी नवनीतकोमलाङ्गी
शयनीये यदि नीयते कथञ्चित् ॥”
वेगशीला । यथा, ऋग्वेदे । १ । ५१ । २ ।
“इन्द्रं दक्षासऋभवो मदच्युतं
शतक्रतुं जवनी सूनृतारुहत् ॥”)

जवसं, क्ली, (जूयते भक्षार्थं प्राप्यते गवादिभि-

रिति । जु + बाहुलकात् कर्म्मणि असच् ।)
घासः । इति शब्दरत्नावली ॥

जवा, स्त्री, (जवते रक्तवर्णत्वं गच्छतीति । जु

गतौ + अच् । ततष्टाप् ।) स्वनामख्यातपुष्प-
वृक्षः । तत्पर्य्यायः । ओड्रपुष्पम् २ । इत्य-
मरः । २ । ४ । ७६ ॥ जपा ३ ओड्राख्या ४
रक्तपुष्पी ५ अर्कप्रिया ६ रागपुष्पी ७ प्रतिका ८
हरिवल्लभा ९ । (यथा, माघे । ६ । ४६ ।
“अनुवनं वनराजिबधूमुखे
बहलरागजवाधरचारुणि ॥”)
अस्या गुणाः । कटुत्वम् । उष्णत्वम् । इन्द्र
लुप्तविनाशकारित्वम् । विच्छर्द्दिजन्तुजनकत्वम् ।
सूर्य्याराधनसाधनत्वञ्च । इति राजनिर्घण्टः ॥
मलमूत्रस्तम्भनरञ्जनकारित्वम् । इति राज-
वल्लभः ॥
(यस्मिन्नियं व्यवह्नियते तद्यथा, --
“सकाञ्जिकं जवापुष्पं भृष्टं ज्योतिष्मतीदलम् ।
दूर्व्वापिष्टञ्च संप्राश्य वनिता त्वार्त्तवं लभेत् ॥”
इति वैद्यकचक्रपाणिसंग्रहे योनिव्यापदधिकारे ॥)

जवादि, क्ली, सुगन्धिद्रव्यभेदः । तत्पर्य्यायः । गन्ध-

राजम् २ कृत्रिमम् ३ मृगघर्म्मजम् ४ समूह-
गन्धम् ५ गन्धाढ्यम् ६ स्निग्धम् ७ साम्राणि-
कर्द्दमम् ८ सुगन्धतैलनिर्य्यासम् ९ कटुमोदम् १० ।
अस्य लक्षणम् । नीरसत्वम् । स्निग्धत्वम् ।
ईषत्पिङ्गत्वम् । सुगन्धदत्वम् । आतपे बहला-
मोदत्वम् । राज्ञां योग्यत्वञ्च । अस्य गुणाः ।
सौगन्धिकत्वम् । स्निग्धत्वम् । उष्णत्वम् । सुखा-
वहत्वम् । वाते हितत्वम् । राज्ञां मोहना-
ह्लादकारकत्वञ्च । इति राजनिर्घण्टः ॥

जवाधिकः, पुं, (जवेन वेगेन अधिकः ।) वेगाधिक-

घोटकः । इत्यमरः । २ । ८ । ४५ ॥ अतिशय-
वेगयुक्ते, त्रि ॥

जवापुष्पं, क्ली, (जवायाः स्वनामख्यातवृक्षंस्य

पुष्पम् । यद्वा, जवैव पुष्पम् ।) ओड्रपुष्पम् ।
इति शब्दरत्नावली ॥

जवी, [न्] त्रि, (जवो तेगः सोऽस्यास्तीति ।

जव + इनिः ।) वेगयुक्तः । इति हेमचन्द्रः । ३ ।
१५८ ॥ (यथा, याज्ञवल्के । २ । १११ ।
“समकालमिषुं क्षिप्तमानीयान्यो जवी नरः ।
गतेतस्मिन् निमग्नाङ्गं पश्येच्चेत् शुद्धिमाप्नुयात् ॥”
पुं, उष्ट्रः । घोटकः । इति राजनिर्घण्टः ॥

जष, ञ वधे । इति कविकल्पद्रुमः ॥ (भ्वां-उभं-

सकं-सेट् ।) ञ, जषति जषते । परस्मैपदी-
त्यन्ये । इति दुर्गादासः ॥

जस, इ क रक्षणे । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) इ क, जंसयति । इति दुर्गा-
दासः ॥

जस, उ इर् य मोक्षे । इति कविकल्पद्रुमः ॥

(दिवां-परं-सकं-सेट् । उदित्त्वात् क्त्रावेट् ।)
उ, जसित्वा जस्त्वा । इर्, अजसत् अजासीत् ।
अस्मात् पुषादित्वात् नित्यं ङ इत्यन्ये । य,
जस्यति वत्सं गोपः । इति दुर्गादासः ॥

जस, क वधे । अनादरे । इति कविकल्पद्रुमः ॥

(चुरां-परं-सकं-सेट् ।) क, जासयति । इति
दुर्गादासः ॥

जसुरिः, पुं, (जस्यते मुच्यते हन्यते वाऽनेनेति ।

जस + “जसिसहोरुरिन् ।” उणां । २ । ७३ ।
इति उरिन् ।) वज्रम् । इत्युणादिकोषः ॥

जहकः, पुं, (जहाति परित्यजतीति । ओ हाक

लि त्यागे + “जहातेर्द्वे च ।” उणां । २ । ३४ ।
इति क्वुन् द्वित्वञ्च ।) कालः । इति त्रिकाण्ड-
शेषः ॥ त्यागकर्त्तरि, त्रि । इत्युणादिकोषः ॥
बालः । निर्म्मोहः । निर्म्मोकः । इति संक्षिप्तसारे
उणादिवृत्तिः ॥

जहा, स्त्री, (जहातीति । हा + बाहुलकात् शः ।)

मुण्डितिका । इति शब्दचन्द्रिका ॥ मुण्डिरी
इति भाषा ॥

जहानकः, पुं, प्रलयः । इति हेमचन्द्रः । २ ।

७५ ॥

जहुः, पुं, (जहातीति । हा + बाहुलकात् उन्

द्वित्वञ्च ।) अपत्यम् । यथा । “इति कृतानुषङ्ग
आशनशयनाटनस्नानादिषु सह मृगजहुना
स्नेहानुबद्धहृदयः आसीत् ।” इति श्रीभागवते
पञ्चमस्कन्धे आदिभरतचरिते । ८ । ११ ॥
“इत्येवं कृतोऽनुषङ्गो आसक्तिर्य्येन । मृगजहुना
मृगापत्येन सह । स्नेहानुबद्धं हृदयं येन ।”
इति तट्टीकायां श्रीधरस्वामी ॥

जह्नः, पुं, (जहातीति । हा + “जहातेर्द्वे अन्त-

लोपश्च ।” उणां । ३ । ३६ । इति नुः द्वित्व-
मन्तलोपश्च ।) विष्णुः । राजर्षिभेदः । स
चन्द्रवंशोद्भवकुरुराजपुत्त्रः । गङ्गागमनकाले येन
गङ्गा पीता पुनर्भगीरथप्रार्थनेन ऊरुं भित्त्वा
वहिर्निर्गमिता तेन सा जाह्नवीति ख्याता ।
इति रामायणम् ॥

जह्नुतनया, स्त्री, (जह्नोस्तनया ।) गङ्गा । इत्य-

मरः । १ । १० । ३१ ॥

जह्नुसप्तमी, स्त्री, (जह्नोः सप्तमी । अस्यां तिथौ

जह्नमुनिना हि गङ्गा पीता पुनस्त्यक्ता अतो-
ऽस्यास्तथात्वम् ।) वैशाखशुक्लसप्तमी । तन्नाम-
कारणं यथा वाराहे नारदाम्बरीषसंवादे ।
“वैशाखशुक्लसप्तम्यां जाह्नवी जह्नना पुरा ।
क्रोधात् पीता पुनस्त्यक्ता कर्णरन्ध्रात्तु दक्षिणात् ॥
तस्यां समर्च्चयेद्देवीं गङ्गां भुवनमेखलाम् ।
स्नात्वा सम्यग्विधानेन स धन्यः सुकृती नरः ॥
तस्यां सन्तर्पयेद्देवान् पितॄन् मर्त्त्यान् यथाविधि ।
साक्षात् पश्यन्ति ते गङ्गास्नातकं गतपातकम् ॥”
इति श्रीहरिभक्तिविलासे १४ विलासः ॥
अपि च उत्तरकामाख्यातन्त्रे ११ पटले ।
“शुक्लपक्षस्य सप्तभ्यां वैशाखे जह्नपुत्त्रिकाम् ।
प्रपूजयेत् सुखार्थाय स्वर्गमोक्षफलाप्तये ॥”

जह्नुसुता, स्त्री, (जह्नोः सुता ।) गङ्गा । इति

राजनिर्घण्टः ॥ (यथा, महाभारते । १ । ९८ । १८ ।
“अहं गङ्गा जह्नुसुता महर्षिगणसेविता ॥”)

जा, स्त्री, (जायते सम्बन्धिनी या । जन + बाहु-

लकात् डः ।) याता । भर्त्तुर्भ्रातृपत्नी । इत्येका-
क्षरकोषः ॥

जागरः, पुं, स्त्री, (जागृ जागरणे + भावे घञ् ।

“जाग्रोऽविचीति ।” ७ । ३ । ८५ । इति
गुणः ।) जागरणम् । इत्यमरः । २ । ८ । ६४ ॥
(यथा, आर्य्यासप्तशत्याम् । ३६० ।
“प्रोञ्छति तवापराधं मानं मर्द्दयति निवृत्तिं
हरति ।
स्वकृतान्निहन्ति शपथान् जागरदीर्घा निशा
सुभग ! ॥”
जागर्त्ति जीवति संग्रामस्थलेऽनेनेति । जागृ +
करणे घञ् ।) कवचे, पुं, । इति तट्टीका ॥

जागरणं, क्ली, (जागृ + भावे ल्युट् ।) निद्रा-

भावः । जागा इति भाषा ॥ तत्पर्य्यायः ।
जागर्य्या २ जागरा ३ जागरः ४ । इति हेम-
चन्द्रः ॥ जाग्रिया ५ जागर्त्तिः ६ । इत्यमर-
टीका ॥ (यथा, महाभारते । ३ । १२६ । १२ ।
“रात्रिजागरणात् श्रान्ताः सौद्युम्निः समतीत्य-
तान् ॥”)
पृष्ठ २/५२९

जागरिता, [ऋ] त्रि, (जागर्त्तीति । जागृ +

तृच् ।) जागरणशीलः । इत्यमरः । ३ । १ । ३२ ॥

जागरी, [न्] त्रि, (जागरो जागरणमस्त्यस्येति ।

जागर + “अत इनिठनौ ।” ५ । २ । ११५ । इति
इनिः ।) जागरूकः । इति हेमचन्द्रः । ३ । १०७ ॥

जागरूकः, त्रि, (जागर्त्तीति । जागृ + “जाग-

रूकः ।” ३ । २ । १६५ । इति ऊकः ।) जाग-
रणशीलः । जागरणकर्त्ता । तत्पर्य्यायः । जाग-
रिता २ । इत्यमरः । ३ । १ । ३२ ॥ जागरी ३ ।
इति हेमचन्द्रः । ३ । १०७ ॥ (यथा, रघुः । १० । २४ ।
“अजस्य गृह्णतो जन्म निरीहस्य हतद्बिषः ।
स्वपतो जागरूकस्य याथार्थं वेद कस्तव ॥”
कर्त्तव्यपालनाद्यर्थं अप्रमत्तः । यथा, रघुः ।
१४ । ८५ ।
“निगृह्य शोकं स्वयमेव धीमान्
वणाश्रमावेक्षणजागरूकः ॥”)

जागर्त्तिः, स्त्री, (जागृ + भावे क्तिन् ।) जागरणम् ।

इत्यमरटीकायां रायमुकुटः ॥

जागर्य्या, स्त्री, (जागृ + “जागर्त्तेरकारो वा ।”

३ । ३ । १०१ । इत्यस्य वार्त्तिकोक्त्या यक् ।
“जाग्रोऽविचीति ।” ७ । ३ । ८५ । इति
गुणः ।) जागरणम् । इत्यमरः । ३ । १ । १९ ॥

जागुडं, क्ली, (जागुडे तदाख्यया प्रसिद्धे देशे

भवमित्यण् ।) कुङ्कुमम् । इति त्रिकाण्डशेषः ॥
(देशविशेषः । यथा, माघे । २० । ३ ।
“अभिचैद्यमगाद्रथोऽपि शौरे-
रवनिं जागुडकुङ्कुमाभिताम्रैः ॥”
जागुडोऽभिजनोऽस्येत्यण् । तद्देशवासिनि, त्रि, ।
यथा, महाभारते । ३ । ५१ । २४ ।
“जागुडान् रामठान् मुण्डान् स्त्रीराज्यानथ-
तङ्गनान् ॥”)

जागृ, क्ष लु जागरे । इति कविकल्पद्रुमः ॥

(अदां-परं-अकं-सेट् ।) क्ष, जाग्रति । लु,
जागर्त्ति । दिशो निरीक्षमाणस्य नास्ति जाग-
रतो भयमिति पचादित्वादनि जागर इवाचर-
तीति क्वौ शत्रन्तम् । इति दुर्गादासः ॥

जागृविः, पुं, (जागर्त्ति साक्षिस्वरूपतयेति । जागृ +

“जॄशॄस्तॄजागृभ्यः क्विन् ।” उणां । ४ । ५४ ।
इति क्विन् ।) अग्निः । इति हेमचन्द्रः । ४ ।
१६५ ॥ (यथा, ऋग्वेदे । ५ । ११ । १ ।
“जनस्य गोपा अजनिष्ट जागृविरग्निः ॥”
जागर्त्ति प्रजानां शुभाशुभकार्य्यदर्शनार्थमिति ।
नृपतिः । इत्युज्ज्वलदत्तः ॥)

जाग्रत्, त्रि, (जागर्त्तीति । जागृ + शतृ ।) जाग-

रणविशिष्टः । यथा, --
“गङ्गोत्तुड्गतरङ्गसङ्गतजटाजूटाअजाग्रत्फणि-
स्फुर्ज्जत्फुत्कृतिभीतिसम्भृतचमत्कारस्फुरत्-
सम्भ्रमा ॥”
इति काव्यचन्द्रिका ॥
(जागरणम् । यथा, मनौ । १ । ५७ ।
“एवं स जाग्रत्स्वप्नाभ्यामिदं सर्व्वं चराचरम् ।
सञ्जीवयति चाजस्रं प्रमापयति चाव्ययः ॥”)

जाग्रिया, स्त्री, (जागृ + “जागर्त्तेरकारो वा ।”

इति पक्षे शस्ततो रिङादेशः ।) जागरणम् ।
इत्यमरटीकायां रायमुकुटः ॥

जाघनी, स्त्री, (जघनस्य समीपम् । जघन +

शैषिकोऽण् । ततः स्त्रियां ङीप् ।) ऊरुः ।
इति त्रिकाण्डशेषः ॥ (यथा, मनुः । १० । १०८ ।
“क्षुधार्त्तश्चात्तुमभ्यागाद्बिश्वामित्रः श्वजाघनीम् ।
चण्डालहस्तादादाय घर्म्माधर्म्मविचक्षणः ॥”
विश्वामित्रस्य जाघनीहरणकथा महाभारते
शान्तिपर्व्वणि १४१ अध्याये द्रष्टव्या ॥)

जाङ्गलं, क्ली, (जाङ्गलेषु स्थलजपशुविशेषेषु भवम् ।

जाङ्गल + अण् ।) मांसम् । इति हेमचन्द्रः ॥

जाङ्गलः, पुं, (जङ्गले भवः । जङ्गल + अण् ।)

कपिञ्जलपक्षी । इति मेदिनी । ले, ९५ ॥
निर्व्वारिदेशः । इति शब्दरत्नावली ॥ (अस्य
लक्षणं यथा, --
“स्वल्पोदकतृणो यस्तु प्रवातः प्रचुरातपः ।
स ज्ञेयो जाङ्गलो देशः बहुधान्यादिसंयुतः ॥”)
भावप्रकाशमतेऽस्य लक्षणं यथा, --
“आकाशशुभ्र उच्चश्च स्वल्पपानीयपादपः ।
शमीकरीरविल्वार्कपीलुकर्कन्धुसङ्कुलः ॥
हरिणैणर्क्षपृषतगोकर्णखरसङ्कुलः ।
सुस्वादुफलवान् देशो वातलो जाङ्गलः स्मृतः ॥”
(“खरपरुषविशालाः पर्व्वताः कण्टकीर्णाः
दिशि दिशि मृगतृष्णा भूरुहाः शीर्णपर्णाः ।
अतिखररविरश्मिः पांशुभृत् शुष्कभूमिः
सरसरसविहीनः कूपकाम्भःप्रकर्षः ॥
तदनुविरसशस्याद्दारुणो गोमनुष्यः
प्रभवति रसमांसं रूक्षभावञ्च सम्यक् ।
पुनरपि हिमवाहं शालिशस्यं न चेक्षु-
र्भवति रुधिरपित्तं कोपमाशु ह्युपैति ॥”
इति च हारीते प्रथमस्थाने चतुर्थेऽध्याये ॥)
तस्य गुणाः । वातपित्तकारित्वम् । उष्णत्वम् ।
रूक्षत्वञ्च । तद्देशीयजलगुणः । अनूपदेशात्
विपरीतत्वम् । इति राजवल्लभः ॥ रूक्षत्वम् ।
लवणत्वम् । लघुत्वम् । तनुत्वम् । पथ्यत्वम् ।
वह्निकफबहुविकारकारित्वञ्च । इति भाव-
प्रकाशः ॥ जङ्गलदेशोद्भवश्च ॥

जाङ्गलः, त्रि, स्थलजपशुविशेषः । यथा, --

“हरिणैणकुरङ्गर्ष्यपृषतन्यङ्कुशम्बराः ।
राजीवोऽपि च मुण्डी चेत्याद्या जाङ्गलसंज्ञकाः ॥
हरिणस्ताम्रवर्णः स्यादेणः कृष्णः प्रकीर्त्तितः ।
कुरङ्ग ईषत्ताम्रः स्याद्धरिणाकृतिको महान् ॥
ऋष्यो नीलाण्डको लोके स रोरु इति कीर्त्तितः ।
पृषतश्चन्द्रबिन्दुः स्याद्धरिणात् किञ्चिदल्पकः ॥
न्यङ्कुर्बहुविषाणोऽथ शम्बरो गवयो महान् ।
राजीवस्तु मृगो ज्ञेयो राजीभिः परितो वृतः ॥
यो मृगः शृङ्गहीनः स्यात् स मुण्डीति निगद्यते ॥”
तस्य मांसस्य गुणाः । मधुरत्वम् । रूक्षत्वम् ।
कषायत्वम् । लघुत्वम् । वल्यत्वम् । बृंहणत्वम् ।
वृष्यत्वम् । दीपनत्वम् । दोषहरत्वम् । मूकत्व-
प्तिन्मिनत्वगद्गदत्वार्द्दितवाधिर्य्यारुचिच्छर्द्दिप्रमेह
सुखजरोगश्लीपदगलगण्डवायुनाशित्वञ्च । इति
भावप्रकाशः ॥ शीतत्वम् । मनुष्यहितत्वम् । इति
राजवल्लभः ॥ * ॥

जाङ्गलिः, पुं, (जाङ्गलो जङ्गलभवः सर्पादिर्ग्राह्य-

तयास्त्यस्यैति । जाङ्गल + बहुलवचनात् इञ् ।)
व्यालग्राही । इति शब्दरत्नावली ॥

जाङ्गली, स्त्री, (जङ्गले भवा । जङ्गल + अण् । ततो

ङीप् ।) शूकशिम्बी । इति । मेदिनी । ले, ९५ ॥
(यथास्याः पर्य्यायाः ।
“कपिकच्छुरात्मगुप्ता वृष्या प्रोक्ता च मर्कटी ।
अजरा कण्डुरा व्यङ्गा दुष्पर्शा प्रावृषायणी ॥
जाङ्गली शूकशिम्बी च सैव प्रोक्ता महर्षिभिः ॥”
इति भावप्रकाशस्य पूर्ब्बस्वण्डे प्रथमे भागे ॥)

जाङ्गुलं, क्ली, (जङ्गुलमेव । स्वार्थे अण् ।)

विषम् । जानिलीफलम् । इति शब्दरत्नावली ॥

जाङ्गुलिः, पुं, (जङ्गुलं विषं व्यवहांर्य्यतया विद्यते-

ऽस्येति । जङ्गुल + बाहुलकात् इञ् ।) विष-
वैद्यः । इति शब्दरत्नावली ॥ सापुडे इति भाषा ॥

जाङ्गुलिकः, पुं, (जाङ्गुलो विषप्रधानः सर्पादि-

र्ग्राह्यतयास्त्यस्येति । जाङ्गुल + टन् ।) व्याल-
ग्राही । इत्यमरः । १ । ८ । ११ ॥

जाङ्गुली, स्त्री, (जङ्गुलस्य इयम् । “तस्येदम् ।”

४ । ३ । १२० । इत्यण् । ततो ङीप् ।) विष-
विद्या । इति हेमचन्द्रः ॥

जाङ्घिकः, पुं, (जङ्घाभिश्चरतीति । जङ्घा +

“पर्पादिभ्यष्ठन् ।” ४ । ४ । १० । इति ठन् । यद्बा,
जङ्घाभिर्जीवतीति । “वेतनादिभ्यो जिवति ।”
४ । ४ । १२ । इति ठञ् ।) उष्ट्रः । श्रीकारी-
वृक्षः । इति राजनिर्घण्टः ॥ जङ्घाजीवी ।
धावकादिः । तत्पर्य्यायः । जङ्घाकरिकः २ ।
इत्यमरः । २ । ८ । ७३ ॥ (प्रशस्तजङ्घाविषिष्टे,
त्रि । यथा, भोजराजकृतयुक्तिकल्पतरौ ।
“जाङ्गलस्था जाङ्घिकाश्च श्वानस्ते राजसा
मताः ॥”)

जाज्वल्यमानः, त्रि, (भृशं ज्वलतीति । ज्वल +

यङ् + शानच् ।) देदीप्यमानः । यथा, चण्डी ।
“जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् ॥”

जाटलिः, पुं स्त्री, (जाटं सङ्घातं लातीति । ला

+ बाहुलकात् किः ।) वृक्षविशेषः । इति
लिङ्गादिसंग्रहे अमरः ॥

जाड्यं, क्ली, (जडस्य भावः । जड + ष्यञ् ।)

जडता । तत्पर्य्यायः । स्तम्भः २ । (यथा,
पञ्चदशी । ६ । ९६ ।
“विना जाड्यानुभूतिं न कथञ्चिदुपपद्यते ॥”)
मौर्ख्यम् । इति हेमचन्द्रः ॥

जाड्यारिः, पुं, (जाड्यस्य अरिः शत्रुः । भक्षणेन

जाड्यदोषनिराकरणात् तथात्वम् ।) जम्बीरः ।
इति राजनिर्घण्टः ॥

जातं, क्ली, (जन + कर्त्तरि क्तः ।) व्यक्तम् ।

समूहः । (यथा, भट्टिः । ३ । ३३ ।
“अन्याहुतिं हावयितुं सविप्रा-
श्चिचीषयन्तोऽध्वरपात्रजातम् ॥”
पृष्ठ २/५३०
भावे क्तः ।) जन्म । (पारिभाषिकपुत्त्रविशेषे,
पुं । यथा, पञ्चतन्त्रे । १ । ४४१ -- ४४२ ।
“जातः पुत्त्रोऽनुजातश्च अतिजातस्तथैव च ।
अपजातश्च लोकेऽस्मिन् मन्तव्याः शास्त्रवेदिभिः ॥
मातृतुल्यगुणो जातस्त्वनुजातः पितुः समः ।
अतिजातोऽधिकस्तस्मादपजातोऽधमाधमः ॥”)
उत्पन्ने त्रि । इति मेदिनी । ते, १९ ॥ (यथा,
हितोपदेशे । १ । १४ ।
“कोऽर्थः पुत्त्रेण जातेन यो न विद्वान् न धार्म्मिकः ।
काणेन चक्षुषा किं वा चक्षुःपीडैव केवलम् ॥”)

जातकं, क्ली, (जातं जन्म तदधिकृत्य कृतो ग्रन्थः

इत्यण् ततः स्वार्थे कन् । यद्वा, जातेन शिशो-
र्जन्मना कायतीति । कै + कः ।) जातबाल
कस्य शुभाशुभनिर्णायकग्रन्थः । तस्य भेदाः ।
जातकदीपिका १ जातकामृतम् २ जातक-
तरङ्गिणो ३ जातककौमुदी ४ जातकरत्ना-
करः ५ जातकसारः ६ जातकार्णवः ७ जातक-
चन्द्रिका ८ लघुजातकम् ९ बृहज्जातकम् १०
इत्यादि । इति ज्योतिषम् ॥

जातकः, पुं, कारण्डी । भिक्षुः । (जात + स्वार्थे

कन् ।) जाते, त्रि । इति धरणिः ॥

जातकर्म्म, क्ली, (जातस्य जाते सति वा यत्

कर्म्म ।) दशसंस्कारान्तर्गतसंस्कारविशेषः ।
तस्य क्रमो यथा । पुत्त्रे जाते पिता नाभिं मा
कृन्तत स्तनञ्च मा दत्त इत्यभिधाय कृतस्नानः
कृतवृद्धिश्राद्धः प्रक्षालितशिलायां ब्रह्मचारिणा
कुमार्य्या गर्भवत्या वा श्रुतस्वाध्यायशीलब्राह्मणेन
वा अनावृतलोष्टपिष्टौ व्रीहियवौ दक्षिणहस्ता-
नामिकाङ्गुष्ठाभ्यां गृहीत्वा मन्त्रेण कुमारस्य
जिह्वां मार्ष्टि । ततस्तथैव सुवर्णेन घृतं गृहीत्वा
मन्त्रेण तथैव कुमारस्य जिह्वां मार्ष्टि । ततः
पुनरपि सुवर्णेन घृतं गृहीत्वा मन्त्रेण तथैव
कुमारस्य जिह्वां मार्ष्टि । ततो नाभिं कृन्तत
स्तनञ्च दत्तेति पिता ब्रूयात् । स्नानं पुनः
पिता न कुर्य्यात् । इति भवदेवभट्टः ॥

जातवेदाः, [स्] पुं, (विद्यते लभ्यते इति । विद्

लाभे + असुन् । जातं वेदो धनं यस्मात् ।)
अग्निः । (अस्य निरुक्तिरुक्ता यथा, महाभारते
२ । ३१ । ४१ ।
“पावनात् पावकश्चासि वहनाद्धव्यवाहनः ।
वेदास्त्वदर्थं जाता वै जातवेदास्ततो ह्यसि ॥”)
चित्रकवृक्षः । इत्यमरः । १ । १ । ५६ ॥
(जाते जाते सर्व्वप्रपञ्चस्य स्वस्मिन् अध्यस्ततया
विद्यते यो जीवः । यद्बा, जातानि सर्व्वाणि
कारणत्वेन विदन्ति यमिति । विद् ज्ञाने +
असुन् । अन्तर्य्यामी परमेश्वरः । यथा, भाग-
वते । ५ । ७ । १४ । “ॐ परो रजः सवितु
र्जातवेदो देवस्य भर्गो मनसेदं जजान ॥” “जातं
वेदो धनं कर्म्मफलं यस्मात् कर्म्मफलदमित्यर्थः ॥”
इति श्रीभागवतटीकाकृत् श्रीधरस्वामी ॥)

जातरूपं, क्ली, (जातं प्रशस्तं रूपं यस्य ।)

स्वर्णम् । (यथा, भागवते । १ । १७ । ३८ ।
“पुनश्च याचमानाय जातरूपमदात् प्रभुः ॥”)
धुस्तूरः । इत्यमरः । २ । ९ । ९५ । उत्पन्नरूपे,
त्रि । यथा, नैषधे । १ । १२९ ।
“न जातरूपच्छदजातरूपता
द्बिजस्य दृष्टेयमिति स्तुवन् मुहुः ॥”

जातापत्या, स्त्री, (जातमपत्यमस्याः ।) प्रसूता ।

इत्यमरः । २ । ६ । १६ ।

जातिः, स्त्री, (जायतेऽस्यामिति । जन् + अधि-

करणे क्तिन् ।) गोत्रम् । (जन + भावे क्तिन् ।)
जन्म ॥ अश्मन्तिका । आमलकी । सामान्यम् ।
तत्तु ब्राह्मणक्षत्त्रियवैश्यशूद्रात्मकम् । छन्दः ।
जातीफलम् । मालती । इति मेदिनी । ते,
१९ ॥ (अस्याः पर्य्याया यथा, --
“जातिर्ज्जाती च सुमना मालती राजपुत्त्रिका ।
चेतिका हृद्यगन्धा च सा पीता स्वर्णजातिका ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
काम्पिल्लः । इति विश्वः ॥ गोत्वादिः । तस्य
लक्षणं यथा, मुग्धबोधे ।
“आकृतिग्रहणा जातिर्लिङ्गानाञ्च ब सर्व्वभाक् ।
सकृदाख्यातनिर्ग्राह्या गोत्रञ्च चरणैः सह ॥”
अस्यार्थः । “आक्रियते व्यज्यतेऽनयेति आकृतिः
संस्थानं आकृत्या ग्रहणं ज्ञानं यस्याः सा
आकृतिग्रहणा जातिराकृतिग्रहणा भवति
संस्थानव्यङ्ग्या इत्यर्थः । तेन मनुष्यगोमृगहंसा-
दीनां पृथक् पृथक् संस्थानैर्व्यज्यमाना मनुष्यत्व-
गोत्वमृगत्वहंसत्वादिर्जातिः । एवं ब्राह्मण-
क्षत्त्रियवैश्यशूद्राणां पृथक् संस्थानाभावाद्ब्राह्म-
णत्वादेर्जातित्वं नायातमिति लक्षणान्तरमाह
लिङ्गानाञ्च न सर्वभागिति या सर्व्वाणि
लिङ्गानि न भजते सा च जातिरित्यर्थः ।
स्त्रीपुंसयोरपत्यान्ता द्विचतुःषट्पदोरगाः ।
जातिभेदाः पुमाख्याश्च इत्यमरसिंहे जाति-
भेदानां स्त्रीपुंसयोरेवेति नियमे ब्राह्मणादीनां
सर्व्वलिङ्गभाजित्वाभावाज्जातित्वम् । किन्तु
अज्ञातहंसस्य जनस्य हंसं दृष्टवतोऽपि तस्य
संस्थानेन हंसत्वं व्यञ्जितुं न शक्यते इति हंस-
स्यापि जातित्वं नायातमिति पूर्ब्बलक्षणस्य
दोषः । एवं देवदत्तादिसंज्ञाशब्दस्यापि सर्व्व-
लिङ्गभाजित्वाभावाज्जातित्वापत्तिरिति द्वितीय-
लक्षणस्य दोषः इति दोषद्बयमपाकर्त्तुं द्बयो-
र्लक्षणयोर्विशेषणमाह सकृदाख्यातनिर्ग्र्याह्येति
सकृदेकवारमाख्यातेन उपदेशेन निर्निश्चयेन
ग्राह्या ग्रहीतुं शक्या इत्यर्थः । तेन ईदृशो
हंस इत्युपदेशे हंसं दृष्टवतस्तस्य संस्थानेन
हंसत्वं व्यञ्जितुं शक्यत एवेति पूर्ब्बलक्षणस्य न
दोषः । एवं देवदत्तादिसंज्ञाशब्दस्य एकस्मिन्नु-
पदेशेऽपि अन्यस्मिन् ज्ञानाभावात् जातित्वं न
स्यादिति परलक्षणस्यापि न दोषः । गार्ग्य-
पुरुषः गार्गी स्त्री गार्ग्यं कुलमिति सर्व्वलिङ्ग-
भाजित्वात् संस्थानव्यङ्ग्यत्वाभावाच्च गार्ग्यादीनां
जातित्वानुपपत्तौ तृतीयलक्षणमाह गोत्रञ्चेति ।
पुत्त्रपौत्त्रप्रभृतिकमपत्यं गोत्रमिति पूर्ब्बाचार्य्य-
परिभाषितं गोत्रमिह ग्रह्यते गार्गीवात्सी-
त्यादि । चतुर्थलक्षणमाह चरणैः सहेति चर-
णञ्च जातिरित्यर्थः । चरणशब्दो वेदैकदेशवाची
कठादिरूपः स च अध्ययनक्रियासम्बन्धेन प्रवृ-
त्तत्वात् क्रियावाचक एव न तु जातिवाचकः
तेनास्य जातिसंज्ञार्थं चरणैः सहेत्युक्तं गार्ग्या-
दिनां षित्वादीपि सिद्धेऽपि जातिसंज्ञा फलन्तु
गार्गी भार्य्या यस्यासौ गार्गीभार्य्य इत्यादौ
नोप्ताककोङित्यादिना पुंवद्भावनिषेधः । गार्गी
चासौ भार्य्या चेति गार्ग्यभार्य्या इत्यादौ
कोङादिः पुंवदित्यादिना पुनः पुंवद्भावः ।” इति
दुर्गादासः ॥
“सामान्यं द्विविधं प्रोक्तं परञ्चापरमेव च ।
द्रव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते ॥
परभिन्ना तु या जातिः सैवापरतयोच्यते ।
व्यापकत्वात् परापि स्यात् व्याप्यत्वादपरापि च ॥
द्रव्यत्वादिकजातिस्तु परापरतयोच्यते ॥”
इति भाषापरिच्छेदे । ८-९ ॥
तल्लक्षणन्तु “नित्यत्वे सत्यनेकसमवेतत्वम् ।”
इति सिद्धान्तमुक्तावली ॥

जातिकोशं, क्ली, (जातेः कोशमिवेति ।) जाती-

फलम् । इति भावप्रकाशः ॥

जातिकोषं, क्ली, (जातेः कोषमिव ।) जाती-

फलम् । इति हेमचन्द्रः । ३ । ३०७ ॥
(जयित्री इति लोके प्रसिद्धम् । तदत्र जाती-
फलानामावरणदलं व्यवहृतम् । तद्यथा वैद्यक-
रसेन्द्रसारसंग्रदे कासाधिकारे शृङ्गाराभ्ररसे ।
“कर्पूरं जातिकोषं सजलमिभकणातेजपत्रंलवङ्गं
मांसी तालीशचोचे गजकुसुमगदं धातकी
चेति तुल्यम् ।
पथ्या धात्री विभीतं त्रिकटुरपि पृथक्त्वर्द्ध-
शाणं द्विशाण-
मेलाजातीफलाख्यं क्षितितलविधिनाशुद्धगन्धस्य
कोलम् ॥”
जातिकोषजातीफलयोरेकस्मिन्नौषधे समुल्लेखा-
दत्रैव जयित्रीति लोकप्रसिद्धम् । औषधन्तु
सर्व्वत्रैव प्रयुज्यते ॥)

जातिकोषी, स्त्री, (जातिकोषमस्या अस्तीति ।

“अर्श-आदिभ्योऽच् ।” ५ । २ । १२७ । इत्यच्
ततो ङीप् ।) जातीपत्री । इति राजनिर्घण्टः ॥

जातिफलं, क्ली, (जात्याख्यं फलमिति ।) जाती-

फलम् । इति हेमचन्द्रः । ३ । ३०७ ॥

जातिभ्रंशकरं, क्ली, (जातेर्भ्रंशं करोतीति । कृ +

टः ।) नवविधपापान्तर्गतपापविशेषः । यथा,
मनुः । ११ । ६७ ।
“ब्राह्मणस्य रुजः कृत्याघ्रातिरघ्रेयमद्ययोः ।
जैह्मं पुंसि च मैथुन्यं जातिभ्रंशकरं स्मृतम् ॥”
“ब्राह्मणस्य दण्डहस्तादिना पीडाक्रिया अघ्रेयं
लशुनपुरीषादि जैह्मं कुटिलत्वं वक्रता ।” इति
कुल्लूकभट्टः ॥

जातिवैरं, क्ली, (जात्या स्वभावतो वैरं शत्रुत्वम् ।)

स्वाभाविकशत्रुत्वम् । तत्पञ्चविधम् । स्त्रीकृतम् १
पृष्ठ २/५३१
यथा श्रीकृष्णशिशुपालयोः ॥ वास्तुजम् २ यथा
कौरवपाण्डवानाम् ॥ वाग्जम् ३ यथा द्रोण-
द्रुपदयोः ॥ सापत्नम् ४ मूषिकनकुलयोः ॥ अप-
राधजम् ५ यथा पूजनीब्रह्मदत्तयोः ॥ इति
महाभारतम् ॥

जातिसारं, क्ली, (जात्या स्वभावतः सारोऽत्र ।)

जातीफलम् । इति राजनिर्घण्टः ॥ (जातीफल-
शब्देऽस्य विवृतिर्ज्ञेया ॥)

जाती, स्त्री, (जन + क्तिच् । ततो वा ङीप् ।) जाती-

पुष्पम् । चमेली इति हिन्दी भाषा ॥ तत्पर्य्यायः
सुरभिगन्धा २ मुमनाः ३ सुरप्रिया ४ चेतकी ५
सुकुमारा ६ सन्ध्यापुष्पी ७ मनोहरा ८ राज-
पुत्त्री ९ मनोज्ञा १० मालती ११ तैलभाविनी १२
जनेष्टा १३ हृद्यगन्धा १४ । (एतस्या हि
सर्व्वपुष्पेषु श्रेष्ठत्वमुक्तम् । यथा, “पुष्पेषु जाती
नगरेषु काञ्ची ।” इति उद्भटः ॥) अस्या
गुणाः । तिक्तत्वम् । शीतत्वम् । कफमुखपाक-
नाशित्वम् । इति राजनिर्घण्टः ॥ उष्णत्वम् ।
तुवरत्वम् । लघुदोषशिरोऽक्षिदन्तरोगविषकुष्ठ-
व्रणरक्तदोषनाशित्वञ्च । इति भावप्रकाशः ॥
तत्कुट्मलस्य गुणः । नेत्ररोगव्रणविस्फोटकुष्ठ-
नाशित्वम् । इति राजनिर्घण्टः ॥

जातीकोशं, क्ली, (जातीत्याख्यया कोशमिव फल-

मिति यावत् ।) जातीफलम् । इति हेम-
चन्द्रः । ३ । ३०७ ॥ (क्वचित् पुंलिङ्गेऽपि दृश्यते ।
यथा, सुश्रुते सूत्रस्थाने ४६ अध्याये ।
“जातीकोशोऽथ कर्पूरं जातीकटुकयोः फलम् ।
कक्कोलकं लवङ्गञ्च तिक्तं कटुकफापहम् ॥”)

जातीकोषं, क्ली, (जातीत्याख्यया कोषमिव

फलम् ।) जातीफलम् । इति हेमचन्द्रः ॥

जातीपत्री, स्त्री, (जातीपत्त्रमिवास्त्यस्यामिति ।

“अर्शआदिभ्योऽच् ।” ५ । २ । १२७ । इत्यच् ।
ततो ङीप् ।) जातीफलत्वक् । जैत्री इति
भाषा । तत्पर्य्यायः । जातिकोषी २ सुमनः-
पत्रिका ३ मालतीपत्रिका ४ सौमनसायनी ५
जातिपत्री ६ । अस्या गुणाः । कटुत्वम् । तिक्त-
त्वम् । सुरभित्वम् । कफजाड्यनाशित्वम् । वक्त्र-
वैषद्यजननत्वञ्च । इति राजनिर्घण्टः ॥ लघु-
त्वम् । स्वादुत्वम् । उष्णत्वम् । रुचिवर्णकारि-
त्वम् । कफकासवमिश्वासतृष्णाविषनाशित्वञ्च ।
इति भावप्रकाशः ॥ दुर्गन्धनाशित्वम् । इति
राजवल्लभः ॥

जातीफलं, क्ली, (जातीत्याख्यं फलम् ।) सुगन्ध-

फलविशेषः । जायफल इति भाषा ॥ तत्-
पर्य्यायः । जातीकोषम् २ । इत्यमरः । २ । ६ । १३२ ॥
जातीकोशम् ३ जातिफलम् ४ । इति तट्टीका ॥
जातिशस्यम् ५ शालूकम् ६ मालतीफलम् ७
मज्जसारम् ८ जातिसारम् ९ पपुटम् १०
सुमनःफलम् ११ फलञ्जातिः १२ फलञ्जाती १३
कोशम् १४ कोषम् १५ जातिकोषम् १६ कोष-
कम् १७ । इति शब्दरत्नावली ॥ (यथा,
बृहत्संहितायाम् । १६ । ३० ।
“जातीफलागुरुवचापिप्पल्यश्चन्दनं च भृगोः ॥”)
अस्य गुणाः । कषायत्वम् । उष्णत्वम् । कटु-
त्वम् । कण्ठामयार्त्तिवातातीसारमेहनाशि-
त्वम् । वृष्यत्वम् । दीपनत्वम् । लघुत्वञ्च । इति
राजनिर्घण्टः ॥ रसे तिक्तत्वम् । तीक्ष्णत्वम् ।
रोचनत्वम् । ग्राहित्वम् । स्वरहितत्वम् । श्लेष्मा-
निलमुखवैरस्यमलदौर्गन्ध्यकृष्णताकृमिकासवमि-
श्वासशोषपीनसहृद्रुञ् नाशित्वञ्च । इति भाव-
प्रकाशः ॥ तृष्णाशूलनाशित्वम् । इति राज-
वल्लभः ॥

जातीयः, त्रि, (जातौ भवः । “वृद्धाच्छः ।”

४ । २ । ११४ । इति छः । जातिभवः । यथा,
कथासरित्सागरे । २३ । ४८ ।
“प्राग्जन्मभिन्नजातीयाः परिहृत्यैव कन्यकाः ॥”)
तद्धितप्रत्ययविशेषः । स तु प्रकारार्थे भवति ।
यथा । तार्क्किकजातीया । इति मुग्धबोध-
मतम् । (पाणिनिमते तु जातीयर् ॥)

जातीरसं, क्ली, (जात्या रसः इव रसो यस्य ।)

वोलः । इति राजनिर्घण्टः ॥

जातु, व्य, (जन + क्तुन् । पृषोदरात् साधुः ।)

कदाचित् । इत्यमरः । ३ । ४ । ४ ॥ (यथा,
मनुः । २ । ९४ ।
“न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते ॥”)
सम्भावितार्थः । (यथा, महाभारते । ५ । १७९ । २२ ।
“को जातु परंभावां हि नारीं व्यालीमिव
स्थिताम् ।
वासयेत गृहे जानन् स्त्रीणां दोषो महात्ययः ॥”)
गर्हार्थः । इति शब्दरत्नावली ॥
(“जातु निन्दसि गोविन्दं जातु निन्दसि शङ्करम् ॥”
इति मुग्धबोधव्याकरणम् ॥)

जातुकं, क्ली, (जातु गर्हितं निन्दितं दूषितमित्यर्थः

कं जलं यस्मादिति ।) हिङ्गु । इति शब्द-
चन्द्रिका ॥

जातुधानः, पुं, (धीयते सन्निधीयते इति धानं

सन्निधानमस्य जातु गर्हितं । धानमभिधानमस्ये-
त्येके ।) यातुधानः । राक्षसः । इत्यमरटीकायां
रमानाथः ॥ (यथा, कालिकास्तोत्रे ।
(“जातुधानाः पिशाचाश्च कुष्माण्डा भैरवा-
दयः ॥”

जातुषं, त्रि, (जतुनो विकारः । “त्रपुजतुनोः

षुक् ।” ४ । ३ । १३८ । इति अण् षुक् च ।)
जतुविकारः । जतुनिर्म्मितम् । इति जटाधरः ॥
(यथा, पञ्चतन्त्रे । १ । १२० ।
“अन्यप्रतापमासाद्य यो दृढत्वं न गच्छति ।
जातुषाभरणस्येव रूपेणापि हि तस्य किम् ॥”)

जातोक्षः, पुं, (जातश्चासौ उक्षा चेति । जातः

प्राप्तदम्यावस्थः उक्षा इत्यर्थः । “अचतुरेति ।”
५ । ४ । ७७ । इति निपातनात् साधुः ।) उत्-
पन्न उक्षा । इत्यमरः । २ । ९ । ६१ ॥ उत्-
पन्नो दृष्टदम्यभावः प्राप्तबलीवर्द्दभाव उक्षा ।
इति भरतः ॥

जात्यः, त्रि, (जातौ भवः इति यत् ।) कुलीनः ।

श्रेष्ठः । इति हेमचन्द्रः ॥ (यथा, महाभारते ।
१३ । १६ । ९ ।
“स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः ॥”)
कान्तः । इति जटाधरः ॥ (यथा, महाभारते ।
५ । ३३ । १२२ ।
“अतीव स ज्ञायते ज्ञातिमध्ये
महामणिर्ज्जात्य इव प्रसन्नः ॥”)

जात्यन्धः, त्रि, (जात्या जन्मनैव अन्धः ।) जन्मान्धः

यथा, मनुः । ९ । २०१ ।
“अनंशौ क्लीवपतितौ जात्यन्धवधिरौ तथा ।
उन्मत्तजडमूकाश्च ये च केचिन्निरिन्द्रियाः ॥”

जादो, त्रि, (जात इत्यस्य जादो इतेत्यत्प्रयोगस्तु

प्राकृतलङ्केश्वरसम्मत इति बोध्यम् ।) जातः ।
इति प्राकृतलङ्केश्वरः ॥

जानकी, स्त्री, (जनकस्य मिथिलाधिपस्यापत्यं

स्त्रीत्यण् ङीप् च ।) सीता । इति त्रिकाण्ड-
शेषः ॥ (यथा, महाभारते । ३ । २७३ । १ ।
“प्राप्तमप्रतिमं दुःखं रामेण भरतर्षभ ! ।
रक्षसा जानकी तस्य हृता भार्य्या बलीयसा ॥”)

जानपदः, पुं, (जानेन जन्मना पद्यते इति अप् ।)

जनः । (यथा, याज्ञवल्क्ये । २ । ३७ ।
“देयं चौराहृतं द्रव्यं राज्ञा जानपदाय तु ।
अदद्धि समवाप्नोति किल्विषं यस्य तस्य तत् ॥”
जनपद एव । स्वार्थे अण् ।) देशः । इति
मेदिनी । दे, ४ । ४८ ॥ जनपदे भवः । इति
“उत्सादिभ्योऽञ् । ४ । १ । ८६ इत्यञ् । देशभवे,
त्रि ॥ यथा, मनुः । ८ । ४१ ।
“जातिजानपदान् धर्म्मान् श्रेणीधर्म्मांश्च
धर्म्मवित् ॥”)

जानु, क्ली, (जायते इति । जन् “दॄसनिजनिचरि-

चटिभ्यो ञुण् ।” उणां १ । ३ । इति ञुण् ।)
ऊरुजङ्घयोर्म्मध्यभागः । हाँटु इति भाषा ॥
(यथा, महाभारते । ४ । ३२ । ३९ ।
“तस्य जानु ददौ भीमो जघ्ने चैनमरत्निना ॥”)
तत्पर्य्ययायः । ऊरुपर्व्व २ अष्ठीवत् ३ अष्ठी-
वान् ४ । इत्यमरः । २ । ६ । ७२ ॥ चक्रिका ५ ।
इति राजनिर्घण्टः ॥

जापः, पुं, (जप + भावे घञ् ।) जपः । इति

जटाधरः ॥

जापकः, त्रि, (जपतीति । जप् + ण्वुल् ।) जप-

कर्त्ता । (यथा, महाभारते । १२ । १९६ । ३ ।
“जापकानां फलावाप्तिं श्रोतुमिच्छामि भारत ! ।
किं फलं जपतामुक्तं क्व वा तिष्ठन्ति जापकाः ॥”
जपेन कृतं जपजन्यमित्यर्थः । जप् + अण् +
स्वार्थे कन् । जपजन्ये, त्रि । यथा, महा-
भारते । १२ । १९९ । ४९ ।
“अथवा सर्व्वमेवेह मामकं जापकं फलम् ॥”)

जापनं, क्ली, (जप् + स्वार्थे णिच् + भावे ल्युट् ।)

निरसनम् । निर्व्वर्त्तनम् । इति धरणिः ॥ (जपः ।
यथा, संवर्त्तकसंहितायाम् । २०९ ।
“मुच्यते सर्व्वपापेभ्यो गायत्र्याश्चैव जापनात् ॥”)
पृष्ठ २/५३२

जाबालः, पुं, (जबालाया अपत्यं पुमानिति ।

अण् ।) अजाजीवः । इत्यमरः । २ । १० । ११ ॥
मुनिविशेषः । (यथा, ब्रह्मवैवर्त्ते । १ । १६ । १४ ॥
“जाबालो याजलिः पैलः करथोऽगस्त्य एव च ।
एते वेदाङ्गवेदज्ञाः षोडशव्याधिनाशकाः ॥”
उपनिषद्विशेषः । यथा, मौक्तिकोपनिषदि ।
“ब्रह्मकैवल्यजाबालश्वेताश्वो हंस आरुणिः ।
दर्शनशास्त्रविशेषः । यथा, रामचन्द्रदत्तशाप
प्रकरणे ।
“अधीत्य कूटजाबालं शार्गालिं योनिमाप्नुयात् ॥”)

जाबालिः, पुं, (जबालाया अपत्यं पुमान् इति ।

इञ् ।) मुनिविशेषः । यथा, रामायणम् ॥
“सुयज्ञं वामदेवञ्च जाबालिमथ काश्यपम् ।”
(तथाच ब्रह्मवैवर्त्ते । २ । ४ । ७० ।
“ऋष्यशृङ्गो भरद्बाजश्चास्तीको देवलस्तथा ।
जैगीषव्योऽथ जाबालिर्यद्धृत्वा सर्व्वपूजितः ॥”)

जामदग्न्यः, पुं, (जमदग्नेरपत्यं पुमान् इति ।

“गर्गादिभ्यो यञ् ।” ४ । १ । १०५ । इति
यञ् ।) जमदग्निपुत्त्रः । परशुरामः । इति
हेमचन्द्रः ॥ (यथा, देवीभागते । २५ । ४१ ।
“पित्राज्ञया जामदग्न्येन पूर्ब्बं
छिन्नं शिरो मातुरिति प्रसिद्धम् ॥”)

जामाता, [ऋ] पुं, (जायां माति मिमीते-

मिनोति वा । “नप्तृनेष्टृत्वष्टृहोतृपोतृभ्रातृ-
जामात्रिति ।” उणां । २ । ९६ । इति निपा-
तनात् साधुः ।) दुहितृपतिः । इत्यमरः । २ ।
६ । ३२ । जामाइ इति भाषा ॥ (यथा,
हरिवंशे । ११६ । २५ ।
“जामाता त्वभवत्तस्य कंसस्तस्मित् हते युधि ॥”)
सूर्य्यावर्त्तः । धवः । इति मेदिनी । ते, ११० ॥

जामिः, स्त्री, (जम् + इञ् । इन् निपातनात्

साधुरित्येके ।) स्वसा । कुलस्त्री । इत्यमरः ।
३ । ३ । १४२ ॥ (यथा, मनुः । ३ । ५७ ।
“शोचन्ति जामयो यत्र विनश्यन्त्याशु तत्-
कुलम् ॥”)

जामी, स्त्री, (जामि + वा ङीष् ।) जामिः ।

इति शब्दरत्नावली ॥ (यथा, महाभारते ।
१३ । ४६ । ७ ।
“यामीशप्तानि गेहानि निकृत्तानीव कृत्यया ॥”)

जामेयः, पुं, (जाम्या अपत्यमिति । “स्त्रीभ्यो

ढक् ।” ४ । १ । १२० । इति ढक् ।) भागिनेयः ।
इति हेमचन्द्रः ॥

जाम्बवं, क्ली, (जम्ब्वाः फलम् । “जम्ब्वा वा ।” ४ ।

३ । १६४ । इवेत्यण् तस्य विधानात् न लुक् ।)
जम्बूफलम् । इत्यमरः । २ । ४ । १९ ॥ (यथा,
मुश्रुते । १ । ४६ ।
“अत्यर्थं वातलं ग्राहि जाम्बवं कफपित्तजित् ॥”)
मुवर्णम् । इति राजनिर्घण्टः ॥ जाम्बवति, पुं ।
इति शब्दभेदः ॥

जाम्बवती, स्त्री, (जाम्बवतो अपत्यं स्त्री । अण्

ततो ङीप् ।) श्रीकृष्णपत्नी । जाम्बवत्कन्या । इति
श्रीभागवतम् ॥ (यथा, हरिवंशे । ३८ । ४१ ।
“लेभे जाम्बवतीं कन्यामृक्षराजस्य सम्मताम् ॥”)
नागदमनी । इति राजनिर्घण्टः ॥

जाम्बवान्, [त्] पुं, (जम्बोर्वर्णं जाम्बवं तदस्या-

स्तीति मतुप् मस्य वः । पृषोदरादित्वात् साधुः ।
जम्बुतुल्यकृष्णत्वादस्य तथात्वम् ।) ऋक्षराजः ।
स ब्रह्मपुत्त्रः । यथा, रामायणे ।
“ऋक्षराजस्य पुत्त्रोऽत्र महाप्राज्ञः सुदुर्ज्जयः ।
पितामहसुतश्चात्र जाम्बवानिति विश्रुतः ॥”)
(यथाच, हरिवंशे । ३८ । ३५ ।
“धात्र्या कुमारमादाय सुतं जाम्बवतो नृप ! ॥”)

जाम्बवी, स्त्री, (जाम्बवस्याकारोऽस्त्यास्याः इति ।)

नागदमनी । इति राजनिर्घण्टः ॥

जाम्बुवान्, [त्] पुं, (जाम्बवान् पृषोदरात् साधुः ।)

जाम्बवान् । इति भरतो द्विरूपकोषश्च ॥

जाम्बूनदं, क्ली, (जम्बूनद्यां भवमिति । अण् ।)

स्वर्णम् । धुस्तूरः । इति राजनिर्घण्टः ॥ स्वर्ण-
विशेषः । यथा । “मेरुमन्दरपर्व्वतस्थजम्बूफलाना-
मत्युच्चनिपातनविशीर्णानां अनस्थिप्रायाणां
इभकायनिभानां रसेन जम्बूनामनदी इलावृतं
वहति तस्या उभयोस्तीरयोर्मृत्तिका जम्बू-
रसेनानुविध्यमाना वाय्वर्कसंयोगविपाकेन सदा-
मरलोकाभरणं जाम्बूनदं नाम स्वर्णं भवति ।”
इति श्रीभागवतम् ॥

जायकं, क्ली, (जयति अपरं गन्धमिति । जि +

ण्वुल् ।) कालीयकम् । कालिया इति ख्यातं
पीतवर्णसुगन्धिकाष्ठम् । इत्यमरः । २ । ६ । १२५ ॥

जाया, स्त्री, (जायते पुत्त्ररूपेणात्माऽस्यामिति ।

जन् + यक आत्वञ्च ।) भार्य्या । इत्यमरः ।
२ । ६ । ६ ॥ (यथा, मनुः । ९ । ८ ।
“पतिर्भार्य्यां संप्रविश्य गर्भो भूत्वेह जायते ।
जायायास्तद्धि जायात्वं यदस्यां जायते पुनः ॥”)

जायाजीवः, पुं, (जाया आजीवः जीवनोपायो

यस्य इति । जायया जीवतीति वा । जीव +
अच् । जायायाः सङ्गीतनर्त्तनादिना जीवना-
दस्य तथात्वम् ।) नटः । इत्यमरः । २ । १० । १२ ॥

जायानुजीवी, [न्] पुं, (जायया अनुजीवतीति ।

अनु + जीव + णिनिः ।) नटः । वकपक्षी । इति
मेदिनी । ने, १५५ ॥ वेश्यापतिः । इति शब्द-
रत्नावली ॥ दुस्थः । इति हेमचन्द्रः ॥

जायापती, पुं, (जाया च पतिश्चेति तौ ।) भार्य्या-

पती । माग्भातार इति भाषा ॥ नित्यद्विव-
चनान्तोऽयं शब्दः । इत्यमरः । २ । ६ । ३८ ॥

जायी, [न्] पुं, (जै + णिनिः । यद्बा, जि +

णिनिः ।) ध्रुवकभेदः । यथा, --
“जायीति नाम्ना ध्रुवको द्बाविंशत्यक्षरान्वितः ।
सन्निपातेन तालेन शृङ्गारेऽभीष्टदो रसे ॥”
इति सङ्गीतदामोदरः ॥
(यथा, महाभारते । ३ । ३५ । ८ ।
“अफलं जन्म तस्याहं मन्ये दुर्ज्जातजायिनः ॥”)

जायुः, पुं, (जयति रोगान् इति । जि + उण् ।)

औषधम् । इत्यमरः । २ । ६ । ५० ॥ (जय-
तीति । जयशीले, त्रि ॥)

जारः, पुं, (जीर्य्यति स्त्रियाः सतीत्वमनेन । जॄ +

करणे घञ् ।) उपपतिः । इत्यमरः । २ । ६ । ३५ ॥
(यथा, याज्ञवल्क्ये । २ । ३० ।
“जारं चौरेत्यभिवदन् दाप्यः पञ्चशतं दमम् ॥”
जारयति नाशयति इति । जॄ + णिच् + अच् ।
हन्ता । यथा, ऋग्वेदे । १ । ६६ । ४ ।
“यमोह जातो यमो जनित्वं जारः कनीनां
पतिर्ज्जनीनाम् ॥”)

जारजः, त्रि, (जारात् उपपतेर्ज्जायते इति । जन् +

डः ।) उपपतिजातसन्तानः । इत्यमरः । २ ।
६ । ३६ ॥ (यथा, मनुः । ३ । १५८ । श्लोके
कुल्लूकभट्टधृतटीकायाम् ।
“अमृते जारजः कुण्डो मृते भर्त्तरि गोलकः ॥”)

जारणी, स्त्री, (जारयति परिपाकं कारयतीति ।

जॄ + णिच् + ल्युः । ततो ङीप् ।) स्थूलजीरकः ।
इति राजनिर्घण्टः ॥

जारी, स्त्री, (जारयति जीर्णं कारयतीति । जॄ +

णिच् + अच् + गौरादित्वात् ङीष् ।) ओषधी-
विशेषः । इति मेदिनी । रे, ३९ । जाडी इति
भाषा ॥

जारूत्थः, पुं, (जरूथं मासं तदर्हतीति । जरूथ

+ ञ्यः ।) त्रिगुणदक्षिणाकयज्ञः । (यथा,
महाभारते । ३ । २९० । ७० ।
“ततो देवर्षिसहितः सरितं गोमतीमनु ।
दशाश्वमेधानाजह्ने जारूथ्यान् स निरर्गलान् ॥”)

जालं, क्ली, (जल्यते आच्छाद्यतेऽनेनेति । जल-

संवरणे + करणे घञ् । यद्बा, जले क्षिप्यते
इति । जल + “शेषे ।” ४ । २ । ९२ । इत्यण् ।)
स्वनामख्यातसूत्रादिनिर्म्मितमत्स्यादिघारणो-
पायः । तत्पर्य्यायः । आनायः २ । इत्यमरः ।
३ । ३ । १९९ ॥ जालकम् ३ । इति शब्द-
रत्नावली ॥ (यथा, आर्य्यासप्तशत्याम् । ५५८ ।
“वंशावलम्बनं यद् यो विस्तारो गुणस्य
यावनतिः ।
तज्जालस्य खलस्य च निजाङ्कसुप्तप्रणाशाय ॥”)
गवाक्षः । (यथा, रघुः । ६ । ४३ ।
“प्रासादजालैर्जलवेणिरम्यां
रेवां यदि प्रेक्षितुमस्ति कामः ॥”)
क्षारकः । स तु अस्फुटकलिकाकुष्माण्डादि-
क्षुद्रफलञ्च । दम्भः । समूहः । इति मेदिनी ।
ले, १९ ॥ (यथा, रघुः । ७ । ६२ ।
“ततो धनुष्कर्षणमूढहस्तं
एकांशपर्य्यस्तशिरस्त्रजालम् ॥”
वंशलौहादिनिर्म्मितजालवद्द्रव्यविशेषः । यथा,
भट्टिः । १ । ८ ।
“अन्तर्निविष्टोज्ज्वलरत्नभासो
गवाक्षजालैरभिनिष्पतन्त्यः ॥”)
इन्द्रजालम् । इति हेमचन्द्रः । ३ । ५९० ॥

जालः, पुं, (जालयति शाखाप्रशाखादिभिः संवृ-

णोतीति । जल संवरणे + णिच् + “नन्दि-
ग्रहीति ।” ३ । १ । १३४ । इत्यच् ।) कदम्बवृक्षः ।
इति मेदिनी । ले, १९ ॥
पृष्ठ २/५३३

जालकं, क्ली, (जल संवरणे + भावे घञ् । जालेन

ईषदावरणेन कायति प्रकाशते इति । कै +
कः । जाल + स्वार्थे कन् वा ।) अस्फुटकलिका ।
इति भरतः ॥ (यथा, मेघदूते । ९९ ।
“तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन
प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् ॥”)
कुष्माण्डादिक्षुद्रफलम् । इति सारसुन्दरी ॥
तत्पर्य्यायः । क्षारकः २ । इत्यमरः । २ । ४ ।
१६ ॥ कोरकः । दम्भः । कुलायः । आनायः ।
इति मेदिनी । के, ९२ ॥ (यथा, सुश्रुते ।
उत्तरतन्त्रे ७ अध्याये ।
“दृष्टिर्भृशं विह्वलति द्वितीयं पटलं गते ।
मक्षिकान् मशकान् केशान् जालकानि च
पश्यति ॥”)
समूहः । इति शब्दरत्नावली ॥ (यथा, शाकु-
न्तले प्रथमाङ्के ।
“बद्धं कर्णशिरीषरोधि वदने घर्म्माम्भसां जालकं
बन्धे स्रंसिनि चैकहस्तयमिताः पर्य्याकुला
मूर्द्धजाः ॥”
वंशलौहादिनिर्म्मितजालाकृतिद्रव्यविशेषः । यथा,
पञ्चतन्त्रे । ३ । १७ । ९ ।
“ततो यष्टिं शलाकाञ्च जालकं पञ्जरं तथा ।
बभञ्ज लुब्धको दीनां कपोतीञ्च मुमोच ताम् ॥”)

जालकं, क्ली स्त्री, (जल संवरणे + भावे घञ् ।

जालेन आवरणेन कायति प्रकाशते इति ।
कै + कः ।) मोचकफलम् । इति मेदिनी ॥ के, ९२ ॥

जालकः, पुं, (जालेन वंशलौहादिनिर्म्मितजाला-

कृतिद्रव्यविशेषेण कायतीति । कै + कः ।)
गवाक्षः । इति हेमचन्द्रः । ४ । ७८ ॥

जालकारकः, पुं, (जालं करोतीति । कृ + ण्वुल् ।

जालस्य कारको वा ।) मर्कटकः । इति हेम-
चन्द्रः । ४ । २७६ ॥ जालकर्त्तरि, त्रि ॥

जालकिनी, स्त्री, (जालकं लोमसमूहस्तदस्त्यस्या

इति । “अत इनिठनौ ।” ५ । २ । ११५ । इति इनि-
स्ततो ङीप् ।) मेषी । इति हेमचन्द्रः । ४ । ३ । ४३ ॥

जालगर्द्दभः, पुं, रोगविशेषः । तस्य लक्षणं यथा,

“विसर्पवत् सर्पति यः शोथस्तनुरपाकवान् ।
दाहज्वरकरः पित्तात् स ज्ञेयो जालगर्द्दभः ॥”
अपाकवान् ईषत्पाकवान् । पित्तकृतत्वेन सर्व्वथा
पाकाभावस्यायुक्तत्वात् । अयमग्निवात इति
ख्यातः ॥ * ॥ अथ विकृतेन्द्रवृद्धागर्द्दभिकाजाल-
गर्द्दभानां चिकित्सा ।
“विकृतामिन्द्रवृद्धाञ्च गर्द्दभीं जालगर्द्दभम् ।
पैत्तिकस्य विसर्पस्य क्रियया साधयेद्भिषक् ।
पाके तु रोपयेदाज्यैः पक्वैर्म्मधुरभेषजैः ॥”
इति भावप्रकाशः ॥

जालगोणिका, स्त्री, (जालवत् गोण्या छिद्रवस्त्रेण

कायतीति । कै + कः । ततो ह्नस्वः ।) दधि-
मन्थनभाण्डविशेषः । तत्पर्य्यायः । कण्ठाला २ ।
इति शब्दरत्नावली ॥

जालन्धरः, पुं, त्रिगर्त्तदेशः । इति हेमचन्द्रः ।

४ । १४ ॥ (देशोऽयं पीठस्थानानामन्यतमः ।
अत्र भगवती विश्वमुखीमूर्त्त्या विराजते ।
यथा, देवीभागवते । ७ । ३० । ७६ ।
“जालन्धरे विश्वमुखी तारा किष्किन्धपर्व्वते ॥”
जालन्धरोऽभिजन एषामिति । अण् ।) तद्दे-
शस्थे पुं भूम्नि । (दैत्यविशेषः । यथा,
काशीखण्डे । २१ । १०६ ।
“पुरा जालन्धरं दैत्यं ममापि परिकम्पनम् ।
पादाङ्गुष्ठाग्ररेखोत्थं चक्रं सृष्ट्वा हरोऽहरत् ॥”
ऋषिविशेषः । इति व्याकरणम् ॥)

जालपात् [द्] पुं, (जालमिव पादौ यस्य ।)

हंसः । इति त्रिकाण्डशेषः ॥ (यथाह सम्बर्त्तः ।
१४६ ।
“टिट्टिभं जालपादञ्च कोकिलं कुक्कुटं तथा ॥”)

जालप्राया, स्त्री, (जालस्य प्रायो बाहुल्यं यत्र ।)

अङ्गरक्षिणी । इति हेमचन्द्रः । ३ । ४३३ ॥
लोहार साँजोया इति भाषा ॥

जालवर्व्वूरकः, पुं, (जालाकारो वर्व्वूरकः । शाक-

पार्थिवादिवत्समासः ।) वर्व्वूरवृक्षविशेषः ।
तत्पर्य्यायः । छत्राकः २ स्थूलकण्टकः ३ सूक्ष्म-
शाखः ४ तनुच्छायः ५ रन्ध्रकण्टः ६ । अस्य
गुणाः । रूक्षत्वम् । वातामयकफनाशित्वम् ।
पित्तदाहकारित्वम् । कषायत्वम् । उष्णत्वञ्च ।
इति राजनिर्घण्टः ॥

जालिकः, पुं, (जालेन जीवतीति । जाल + “वेतना-

दिभ्यो जीवति ।” ४ । ४ । १२ । इति ठन् ।
यद्वा, जालेन चरतीति । “पर्पादिभ्यः ष्ठन् ।” ४ ।
४ । १० । इति ठन् ।) कैवर्त्तः । इति त्रिकाण्ड-
शेषः ॥ वागुरिकः । जालेन मृगबन्धनकर्त्ता
इत्यमरः । २ । १० । १४ ॥ मर्कटकः । इति हेम-
चन्द्रः । ४ । २७७ ॥ (ऐन्द्रजालिकः । इति
व्याकरणम् ॥)

जालिकः, त्रि, (जालेन जीवतीति । जाल + ठन् ।)

ग्रामजाली । जालोपजीवी । इति मेदिनी । के, ९४ ॥

जालिका, स्त्री, (जालं जालवदाकृतिरस्ति

अस्याः । जाल + “अत इनिठनौ ।” ५ । २ ।
११५ । इति ठन् ।) वस्त्रविशेषः । गिरि-
सारः । (जलमेवेति स्वार्थे अण् । ततो जालं
सलिलं उत्पत्तित्वेनास्त्यस्या इति ठन् ।)
जलौका । विधवा । भटानामश्मरचिताङ्ग-
रक्षिणी । इति मेदिनी । के, ९४ ॥

जालिनी, स्त्री, (जालं चित्रकर्म्मवस्तुसमूहो

विद्यतेऽस्यामिति । इनिस्ततो ङीप् ।) चित्र-
शाला । इति हेमचन्द्रः । ४ । ६५ ॥ (जालं
आनायसदृशद्रव्यं विद्यतेऽस्या इति ।) कोशा-
तकी । इति राजनिर्घण्टः ॥ (यथास्याः
पर्य्याया भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।
“धामार्गवः पीतपुष्पो जालिनी कृतवेधना ।
राजकोशातकी चेति तथोक्ता राजिमत्फला ॥”
घोषातकी । इति रत्नमाला ॥ प्रमेहरोगिणः
पीडकाविशेषः । यथा, सुश्रुते निदानस्थाने ६
अध्याये । “तत्र वसामेदोभ्यामभिपन्नशरीरस्य
त्रिभिर्दोषैश्चानुगतधातोः प्रमेहिणो दश पीडका
जायन्ते । तद्यथा, शराधिका सर्षपिका
कच्छपिका जालिनी विनता पुत्त्रिणी मसूरिका
अलजी विदारिका विद्रधिका चेति ।”
“जालिनी तीव्रदाहा तु मांसजालसमावृता ॥”)

जाली, स्त्री, (जालं जालाकृतिरस्ति अस्याः

अच् ततो गौरादित्वात् ङीष् ।) ज्योत्स्नी ।
इत्यमरः । २ । ४ । ११८ ॥ झिङ्गा । इति
ख्याता । पटोलः । इति राजनिर्घण्टः ॥

जाल्मः, त्रि, (जालयति दूरीकरोति हिताहित-

ज्ञानमिति । जल + णिच् + बाहुलकात् मः ।)
पामरः । (यदुक्तम् ।
“क्षणं विश्राम्यतां जाल्म ! स्कन्धं ते यदि बाधति ।
न तथा बाधते स्कन्धं यथा बाधति बाधते ॥”)
क्रूरः । असमीक्ष्यकारी । इति मेदिनी । मे,
१३ ॥ (यथा, माघे । १५ । ३३ ।
“त्वयि पूजनं जगति जाल्म !
कृतमिदमपाकृते गुणैः ।
हासकरमघटते नितरां
शिरसीव कङ्कतमपेतमूर्द्धजे ॥”)

जाषकं, क्ली, (जस्यति मुञ्चति सद्गन्धादिकमिति ।

जस + ण्वुल् । पृषोदरादित्वात् सस्य षत्वम् ।)
कालीयनामगन्धद्रव्यम् । इत्यमरटीकासार-
सुन्दरी ॥

जाहकः, पुं, घोङ्घः । घोघ इति भाषा ।

मार्ज्जारः । खट्वा । कारुण्डिका । इति मेदिनी ।
के, ९२ ॥ विलेशयजन्तुविशेषः । तत्पर्य्यायः ।
गात्रसङ्कोची २ मण्डली ३ बहुरूपकः ४ काम-
रूपी ५ विरूपी ६ विलवासः ७ । इति राज-
निर्घण्टः ॥

जाह्नवी, स्त्री, (जह्नोरपत्यं स्त्री । जह्नु + अण् +

ङीप् ।) गङ्गा । इति हेमचन्द्रः । ४ । १४७ ॥
एतन्नामकारणं यथा, --
“जानुद्वारा पुरा दत्त्वां जह्नुः संपीय कोपतः ।
तस्य कन्यास्वरूपा च जाह्नवी तेन कीर्त्तिता ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥ * ॥
तस्यां तिथिविशेषे स्नानफलं यथा, --
“सामान्यदिवसस्नानसङ्कल्पं शृणु सुन्दरि ! ।
पुण्यं दशगुणञ्चैव मौषलस्नानतः परम् ॥
ततस्त्रिंशद्गुणं पुण्यं रविसंक्रमणे दिने ।
अमायाञ्चापि तत्तुल्यं द्विगुणं दक्षिणायने ॥
ततो दशगुणं पुण्यं नराणाञ्चोत्तरायणे ।
चातुर्म्मास्यां पौर्णमास्यामनन्तं पुण्यमेवच ॥
अक्षयायाञ्च तत्तुल्यं नैतद्वेदनिरूपितम् ।
असंख्यपुण्यफलदमेतेषु स्नानदानकम् ।
सामान्यदिवसस्नानात् दानात् शतगुणं भवेत् ॥
मन्वन्तरायां देवेशि ! युगाद्यायां तथैव च ।
माघस्य सितसप्तम्यां भीष्माष्टम्यां तथैव च ॥
ततोऽपि द्बिगुणं पुण्यं नन्दायां भवदुर्ल्लभे ! ।
दशहरादशम्याञ्च युगाद्यादि समं फलम् ॥
नन्दासमञ्च वारुण्यां महत्पूर्ब्बे चतुर्गुणम् ।
ततश्चतुर्गुणं पुण्यं द्बिमहत्पूर्ब्बके सति ॥
पुण्यं कोटिगुणञ्चैव सामान्यस्नानतो हि यत् ।
पृष्ठ २/५३४
चन्द्रोपरागसमये सूर्य्ये दशगुणं ततः ॥
पुण्येऽप्यर्द्धोदये काले ततः शतगुणं फलम् ।
सर्व्वेषामेव सङ्कल्पं वैष्णवानां विपर्य्ययः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥

जि, जये । अभिभवे । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-अकं-सकंच-अनिट् ।) जय उत्कर्षः स्वीका-
रश्च । उत्कर्षेऽकर्म्मकः । जयन्ति यमुनाकूले रहः-
केलयः । मखैरसङ्ख्यैरजयत् सुरालयमिति काद-
म्बरी । जयति शत्रुं बली । अनभिधानादस्मात्
तुवन्त्वोः प्रयोगाभावः । किञ्च तयोः स्थाने
तिवन्तीति । किञ्च तुपः स्थाने तातङ् दृश्यते ।
यथा, भावगम्यलयः कोऽपि जयताद्वागगोचरः ।
इति दुर्गादासः ॥

जिः, त्रि, (जयतीति । जि + बाहुलकात् डिः ।)

जेता । पिशाचे, पुं । इत्येकाक्षरकोषः ॥

जिगत्नुः, पुं, (गच्छतीति । गम + “गमेः सन्वच्च ।”

उणां ३ । ३१ । इति क्त्नुः सन्वत्कार्य्यञ्च ।
अनुदात्तोपदेशे इत्यादिना मलोपः ।) प्राण-
वायुः । इत्युणादिकोषः ॥

जिगमिषा, स्त्री, (गन्तुमिच्छा । गम + सन् +

अ । ततष्टाप् ।) गमनेच्छा । इति व्याकरणम् ॥

जिगीषा, स्त्री, (जेतुमिच्छा । जि + सन् + अ ।

ततष्टाप् ।) जयेच्छा । (यथा, महाभारते
१ । ७६ । ६ ।
“जिगीषया ततो देवा वव्रिरेऽङ्गिरसं मुनिम् ॥”)
व्यवसायः । प्रकर्षः । इति मेदिनी । षे, ३६ ॥

जिघत्सा, स्त्री, (अत्तुमिच्छा । अद् भक्षणे +

सन् + अः । “लुङ्सनोर्घसॢ ।” २ । ४ । ३७ ।
इति घसॢ ।) क्षुधा । इति हेमचन्द्रः । ३ । ५७ ॥

जिघत्सुः, त्रि, (अत्तुमिच्छुः । अद् + सन् +

“लुङ्सनोर्घसॢ ।” २ । ४ । ३७ । इति घस्-
लादेशः । ततः “सनाशंसभिक्ष उः ।” ३ । २ ।
१६८ । इति उः ।) क्षुधितः । इत्यमरः ।
३ । १ । २० ॥

जिघांसकः, त्रि, (जिघांसति हन्तुमिच्छतीति । हन

+ सन् + ण्वुल् ।) हननेच्छुकः । इति व्याक-
रणम् ॥

जिघांसा, स्त्री, (हन्तुमिच्छा । हन् + सन् +

“अभ्यासाच्च ।” ७ । ३ । ५५ । इति कुत्वम् ।
“अज्झनगमां सनि ।” ६ । ४ । १६ । इति
दीर्घः । ततः अप्रत्ययस्ततःस्त्रियां टाप् ।)
हननेच्छा । इति व्याकरणम् ॥ (यथा, मनुः ।
११ । २०६ ।
“जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ॥”)

जिघांसुः, पुं, (हन्तुमिच्छुः । हन् + सन् + “सना-

शंसभिक्ष उः ।” ३ । २ । १६८ । इति उः ।)
शत्रुः । इति हेमचन्द्रः । ३ । ३९३ । हननेच्छौ,
त्रि । यथा, भट्टिः ।
“प्रशान्तचेष्टं हरिणं जिघांसुः ॥”
(यथाच, महाभारत । ३ । १५४ । १८ ।
“जिघांसवः क्रोधवशाः सुभीमा
भीमं समन्तात् परिवव्रुरुग्राः ॥”)

जिघ्रः, त्रि, (जिघ्रतीति । घ्रा गन्धोपादाने +

“पाघ्राध्माधेट्दृशः शः ।” ३ । १ । १३७ । इति
शः ।) घ्राणकर्त्ता । यथा, साहित्यदर्पणे ।
“स्वामी निश्वसितेऽप्यसूयति मनोजिघ्रः
सपत्नीजनः ॥”

जिङ्गिनी, स्त्री, वृक्षविशेषः । तत्पर्य्यायः ।

झिङ्गिनी २ झिङ्गी ३ सुनिर्यासा ४ प्रमो-
दिनी ५ । (यथा, गारुडे १९४ अध्याये ।
“जिङ्गिन्येरण्डकं रुद्र ! शूकशिम्बीसमन्वितम् ।
शीतोदकञ्च तन्नस्यो बाहुग्रीवाव्यथां हरेत् ॥”
यथाच, वाभटे सूत्रस्थाने १५ अध्याये ॥
“रोध्रशावरकरोध्रपलाशा
जिङ्गिनी सरलकट्फलयुक्ताः ।
कुत्सिताम्बकदली गतशोकाः
सैलवालुपरिपेलवमोचाः ॥”)
अस्या गुणाः । मधुरत्वम् । उष्णत्वम् । कषा-
यत्वम् । योनिशोधनत्वम् । कटुत्वम् । व्रण-
हृद्रोगवातातीसारनाशित्वम् । पटुत्वञ्च । इति
भावप्रकाशस्य पूर्ब्बखण्डे १ मे भागे ॥

जिङ्गी, स्त्री, मञ्जिष्ठा । इत्यमरः । २ । ४ । ९० ॥

(यथा, भैषज्यरत्नावल्यां कुष्ठचिकित्सायाम् ।
“आचु जिङ्गी महातिक्ता विशाला छपि-
पत्रकम् ॥”)

जिज्ञासा, स्त्री, (ज्ञातुमिच्छा । ज्ञा + सन् +

अः । स्त्रियां टाप् ।) ज्ञातुमिच्छा । यथा, --
“अथातो ब्रह्मजिज्ञासा ।”
इति शारीरकप्रथमसूत्रम् ॥
तत्पर्य्यायः । अनुयोगः १ प्रश्नः २ पृच्छा ३
निरूपणा ४ । इति जटाधरः ॥

जिज्ञासितः, त्रि, (जिज्ञासास्य जाता । तार-

कादित्वात् इतच् । यद्वा ज्ञा + सन् + कर्म्मणि
क्तः ।) कृतजिज्ञासः । पृष्टः । विचारितः ।
यथा, श्रीभागवते १ । ५ । ४ ।
“जिज्ञासितमधीतञ्च ब्रह्म यत्तत् सनातनम् ॥”
“किञ्च यत् सनातनं नित्यं परं ब्रह्म तच्च त्वया
जिज्ञासितं विचारितं अधीतं अधिगतं प्राप्त-
ञ्चेत्यर्थः ।” इति श्रीधरस्वामी ॥

जिज्ञासुः, त्रि, (ज्ञातुमिच्छुः । ज्ञा + सन् + “सना-

शंसभिक्ष उः ।” ३ । २ । १६८ । इति उः ।)
आत्मज्ञानेच्छुः । यथा, श्रीभगवद्गीतायां ७ । १५ ॥
“चतुर्व्विधा भजन्ते मां जनाः सुकृतिनोऽर्ज्जुन ! ।
आर्त्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ! ॥”
सामान्यबोधेच्छकश्च ॥

जिज्ञास्यः, त्रि, (जिज्ञास्यते इति । ज्ञा + सन् +

कर्म्मणि यत् ।) जिज्ञासितव्यः । जिज्ञासनीयः ।
(विचार्य्यम् । यथा, भागवते । २ । ९ । ३५ ।
“एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनात्मनः ।
अन्वयव्यतिरेकाभ्यां यत् स्यात् सर्व्वत्र सर्व्वदा ॥”
“आत्मनस्तत्त्वजिज्ञासुना एतावदेव जिज्ञास्यं
विचार्य्यम् ॥” इति श्रीधरस्वामी ॥)

जितः, पुं, (जितं जयमस्यास्तीति । अच् ।)

अर्हदुपासकविशेषः । इति हेमचन्द्रः ॥

जितः, त्रि, (जि + कर्म्मणि क्तः ।) प्राप्तपरा-

जयः । तत्पर्य्यायः । पराभूतः २ परिभूतः ३
अभिभूतः ४ भग्नः ५ पराजितः ६ । इति
हेमचन्द्रः ॥ (यथा, मनुः । ४ । १८१ ।
“एभिर्जितैश्च जयति सर्व्वान् लोकानि-
मान् गृही ॥”)

जितकाशिः, पुं, (जितेन जयोद्यमेन काशते प्रका-

शते इति । काश + इन् ।) दृढमुष्टिः । इति
भारतटीकायां नीलकण्ठः ॥

जितकाशी [न्] त्रि, (जितेन जयेन काशते

इति । काश + णिनिः ।) जययुक्तः । तत्-
पर्य्यायः । जिताहवः २ । इति हेमचन्द्रः ।
३ । ४७० ॥ (यथा, हरिवंशे । १७५ । १४१ ।
“अनिरुद्धं रणे वासो जितकाशी महाबलैः ।
वाचं प्रोवाच संक्रुद्धो गृह्यतां हन्यतामिति ॥”)

जितनेमिः, पुं, (जिता नेमिर्य्येन ।) अश्वत्थ-

निर्म्मितदण्डः । तत्पर्य्यायः । आश्वत्थः २ ।
इति हेमचन्द्रः । ३ । ४९० ॥

जितशत्रुः, पुं, (जितः शत्रुर्येन ।) वृत्तार्हत्-

पिता । इति हेमचन्द्रः । १ । ३६ ॥ कृतशत्र-
पराजये, त्रि ॥

जिताक्षरः, त्रि, (जितानि आयत्तीकृतानि अक्ष-

राणि येन ।) कृताक्षरजयः । वशीभूताक्षरकः ।
दृष्टिमात्रेणाक्षरबोधेन पाठक्षमः । इति लोक-
प्रसिद्धिः ॥

जितामित्रः, पुं, (जिता अमित्रा रागद्बेषादयो

वाह्यावरणादयश्च येन इति ।) विष्णुः । इति
शब्दरत्नावली ॥ (यथा, महाभारते । १३ ।
१४९ । ६९ ।
“अजो महार्हः स्वाभाव्यो जितामित्रः
प्रमोदनः ॥”
जितीऽमित्रः शत्रुर्येन ।) कृतशत्रुपराजये, त्रि ॥
(यथा, मार्कण्डेये । ३४ । ११३ ।
“ऋणप्रदाता वैद्यश्च श्रोत्रियः सजला नदी ।
जितामित्रो नृपो यत्र बलवान् धर्म्मतत्परः ॥”)

जितारिः, पुं, (जिता अरयः कामक्रोधादयो येन ।)

बुद्धः । इति त्रिकाण्डशेषः ॥ वृत्तार्हत्पिता ।
इति हेमचन्द्रः । १ । ३६ ॥ (कुरुपुत्त्रस्या-
विक्षितः पुत्त्राणामन्यतमः । यथा, महाभा-
रते । १ । ९५ । ५० ।
“अविक्षितः परिक्षिच्च शवलाश्वश्च वीर्य्यवान् ।
आदिराजो विराजश्च शिल्पिनश्च महाबलः ।
उच्चैःश्रवा भङ्गकारो जितारिश्चाष्टमः स्मृतः ॥”)
जितशत्रौ, त्रि ॥

जिताष्टमी, स्त्री, (जिता पुत्त्रसौभाग्यदानेन सर्व्वोत्-

कर्षेण स्थिता या अष्टमी ।) गौणाश्विनकृष्णा-
ष्टमी । सैव जीमूताष्टमी । यथा, “आश्विन-
कृष्णाष्टम्यां जीमूतवाहनपूजा । तत्राष्टमी
प्रदोषव्यापिनी ग्राह्या । भविष्योत्तरे ।
“इषे मास्यसिते पक्षे अष्टमी या तिथिर्भवेत् ।
पुत्त्रसौभाग्यदा स्त्रीणां ख्याता सा जीवपुत्त्रिका ॥
शालिवाहनराजस्य पुत्त्रो जीमूतवाहनः ।
पृष्ठ २/५३५
तस्यां पूज्यः स नारीभिः पुत्त्रसौभाग्यलिप्सया ॥
प्रदोषसमये स्त्रीभिः पूज्यो जीमूतवाहनः ।
पुस्करिणीं विघायाथ प्राङ्गणे चतुरस्रिकाम् ॥”
किञ्च विष्णुघर्म्मोत्तरे ।
“पूर्ब्बेद्युरपरेद्युर्व्वा प्रदोषे यत्र चाष्टमी ।
तत्र पूज्यः सदा स्त्रीभी राजा जीमूतवाहनः ॥”
तथा च । यद्दिने प्रदोषव्यापिनी अष्टमी तत्रैव
व्रतं उभयदिने चेत् परदिने त्रिसन्ध्यव्यापित्वात् ।
उभयदिने प्रदोषाव्याप्तौ उदयगामिन्यां तदुक्तं
निर्णयामृतसिन्धौ ।
“लक्ष्मीव्रतं चाभ्युदिते शशाङ्के
यत्राष्टमी चाश्विनकृष्णपक्षे ।
तत्रोदयं वै कुरुते दिनेश-
स्तदा भवेज्जीवितपुत्त्रिका सा ॥” इति ।
अस्यामष्टम्यां स्त्रीभिर्न भोक्तव्यम् ।
“आश्विनस्यासिताष्ठम्यां याः स्त्रियाऽन्नं हि
भुञ्जते ।
मृतवत्सा भवेयुस्ता वैधव्यञ्च भवेद्ध्रुवम् ॥”
इति वचनात् ।
इति वाचस्पतिमिश्रकृतचमत्कारचिन्तामणिः ॥

जिताहवः, पुं, (जित आहवो युद्धं येन ।) जित-

काशी । इति हेमचन्द्रः । ३ । ४७० ॥

जितेन्द्रियः, त्रि, (जितानि वशीकृतानि इन्द्रि-

याणि श्रोत्रादीनि येन ।) वशीकृतेन्द्रियः ।
तत्पर्य्यायः । शान्तः २ श्रान्तः ३ । इति
हेमचन्द्रः ॥ (यथा, शब्दचिन्तामणिधृतवचनम् ।
“श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः ।
न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥”)

जितेन्द्रियाह्वः, पुं, (जितेन्द्रियं आह्वयते स्पर्द्धते

इति । आ + ह्वे + कः ।) कामवृद्धिवृक्षः ।
इति राजनिर्घण्टः ॥

जित्तमः, पुं, (अयमेषामतिशयेन जित् जयशीलः ।

जित् + तमप् ।) जितुमः । मिथुनराशिः । इति
ज्योतिषतत्त्वम् ॥ जयशीलानां मध्ये उत्तमश्च ॥

जित्या, स्त्री, (जि + “विपूयविनीयजित्यामुञ्ज-

कल्कहलिषु ।” ३ । १ । ११७ । इति क्यप् ।)
हलिः । इति हेमचन्द्रः । ३ । ५५४ ॥ (सिद्धान्त-
कौमुदीमते तु पुंलिङ्गान्तोऽयं शब्दः ॥)

जित्वरः, त्रि, (जयतीति । जि + “इण्नशजि-

शर्त्तिभ्यः क्वरप् ।” ३ । २ । १६३ । इति क्वरप् ।)
जेता । इत्यमरः । २ । ८ । ७७ ॥ (यथा,
माघे । २ । ९ ।
“करदीकृतभूपालो भ्रातृभिर्जित्वरैर्दृशाम् ।
विनाप्यस्मदलम्भूष्णुरिज्यायै तपसः सुतः ॥”)

जित्वरी, स्त्री, (जयति सर्व्वोत्कर्षेन वर्त्तते इति ।

जि + क्वरप् । “टिड्ढेति ।” ४ । १ । १५ ।
इति ङीप् ।) काशी । इति त्रिकाण्डशेषः ॥

जिनः, पुं, (जयतीति । जि + “इण् षिञ् जीति ।”

उणां । ३ । २ । इति नक् ।) अर्हन् । बुद्धः ।
विष्णुः । इति हेमचन्द्रः । २ । १३० ॥ अति-
वृद्धः । इत्युणादिकोषः ॥ जित्वरे, त्रि । इति
मेदिनी । ने, ८ ॥

जिनयोनिः, पुं, मृगः । इति शब्दरत्नावली ॥

जिनसद्म, [न्] क्ली, (जिनानां सद्म गृहम् ।)

जिनगृहम् । तत्पर्य्यायः । चैत्यः २ विहारः ३ ।
इति हेमचन्द्रः । ४ । ६० ॥

जिनेन्द्रः, पुं, (जिनानां इन्द्रः ।) बुद्धः । इति

हलायुधः ॥

जिम, उ भक्षे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् । उदित्त्वात् क्त्रावेट् ।) उ, जिमित्वा
जिन्त्वा । इति दुर्गादासः ॥

जिरि, र न हिंसायाम् । इति कविकल्पद्रुमः ॥

(स्वां-परं-सकं-सेट् ।) रेफोपधः । र, वैदिकः ।
न, जिरिणोति । इति दुर्गादासः ॥

जिव, इ प्रीणने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) ह्नखी । इ, जिम्ब्यते । जिम्बति
लोकः पितरम् । इति दुर्गादासः ॥

जिवाजिवः, पुं, (जीवञ्जीवः पृषोदरादित्वात् साधुः ।)

जीवञ्जीवपक्षी । इति शब्दरत्नावली ॥

जिव्रिः, पुं, (जीर्य्यत्यनेनेति । जॄष वयोहानौ +

“जीर्य्यतेः क्रिन् रश्च वः ।” उणां ५ । ४९ ।
इति क्रिन् । इरादिकार्य्यं रेफस्यच वः । बाहु-
लकात् हनि चेति न दीर्घः ।) समयः । पक्षी ।
इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (जीर्णे,
त्रि । यथा, ऋग्वेदे । १ । ७० । ५ ।
“वित्वा नरः पुरुत्रा सपर्य्यन् पितुर्न जिव्रेर्वि वेदोभरन्त ॥”)

जिष, उ सेके । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् । उदित्त्वात् क्त्वा वेट् ।) उ, जेषित्वा
जिष्ट्वा । इति दुर्गादासः ॥

जिष्णुः, पुं, (जयतीति । जि जये + “ग्लाजिस्थश्च

ग्स्नुः ।” ३ । २ । १३९ । इति ग्स्नुः ।) विष्णुः ।
इति हेमचन्द्रः । २ । १२८ ॥ (यथा, महा-
भारते । ५ । ७० । १३ ।
“विष्णुर्व्विक्रमणाद्देवो जयनाज्जिष्णुरुच्यते ।
शाश्वतत्वादनन्तश्च गोविन्दो वेदनाद्गवाम् ॥”)
इन्द्रः । (यथा, अथर्व्ववेदे । ११ । ९ । १८ ।
“जयंश्च जिष्णुश्चामित्रा जयतामिन्द्रमेदिनौ ॥”)
अर्ज्जुनः । (यथा, महाभारते । ४ । ४२ । २१ ।
“अहं दुरापो दुर्द्धर्षो दमनः पाकशासनिः ।
तेन देवमनुष्येषु जिष्णुर्नामास्मि विश्रुतः ॥”
भौत्यस्य मनोः पुत्त्राणामन्यतमः । यथा, हरि-
वंशे । ७ । ८८ ।
“तरङ्गभीरुर्व्वष्मश्च तरस्वानुग्र एव च ।
अभिमानी प्रवीरश्च जिष्णुः संक्रन्दनस्तथा ॥
तेजस्वी सबलश्चैव भौत्यस्यैते मनोः सुताः ॥”)
जेतरि त्रि । इति मेदिनी । णे, १३ ॥ (यथा,
रघुः । ४ । ८५ ।
“इति जित्वा दिशो जिष्णुर्न्यवर्त्तत रथोद्धतम् ।
रजो विश्रामयन् राज्ञां छत्त्रशून्येषु भौलिषु ॥”)

जिह्मं, क्ली, (जहातीति । हा + “जहातेः सन्वदा-

लोपश्च ।” उणां । १ । १४० । इति मन् ।)
तगरवृक्षः । इति मेदिनी । मे, १३ ॥

जिह्मः, त्रि, (जहाति परित्यजति सारल्यमिति ।

हा + “जहातेः सन्वदालोपश्च ।” उणां । १ ।
१४० । इति मन् ।) कुटिलः । (यथा, महा-
भारते । १ । १०२ । १८ ।
“सक्रोधामर्षजिह्मभ्रूकषायीकृतलोचनाः ॥”)
मन्दः । इति मेदिनी । मे, १३ ॥

जिह्मगः, पुं, (जिह्मं कुटिलं वक्रमित्यर्थः यथा

स्यात् तथा गच्छतीति । गम + डः ।) सर्पः ।
(यथा, महाभारते । १ । ९ । १९ ।
“स लब्ध्वा दुर्ल्लभां भार्य्यां पद्मकिञ्जल्कवर्च्चसम् ।
व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः ॥”
जिह्मं मन्दं गच्छतीति ।) मन्दगे, त्रि । इति
मेदिनी । गे, २५ ॥

जिह्ममोहनः, पुं, (जिह्वं कुटिलं यथा तथा मुह्य-

तीति । मुह + “नन्दिग्रहीति ।” ३ । १ । १३४ ।
इति ल्यः । यद्वा, जिह्मस्य कुटिलस्य सर्पस्य
मोहनश्चित्तमोहनः । भक्ष्यत्वात् ।) भेकः । इति
शब्दरत्नावली ॥

जिह्मशल्यः, पुं, (जिह्मं कुटिलं शल्यं यस्मात् ।)

खदिरः । इति जटाधरः ॥

जिह्वं, क्ली, (जिह्मं निपातनात् मस्य वत्वे साधुः ।)

तगरमूलम् । इति रत्नमाला ॥

जिह्वः, पुं स्त्री, (हूयते आहूयनेऽनेनेति । ह्वे + बाहु-

लकात् डप्रत्ययेन द्बित्वादौचेति साधुः ।) जिह्वा ।
इत्यमरटीकायां भरतः ॥ (यथा, हरिवंशे ।
११२ । ६५ ।
“द्विसहस्रेण जिह्वेन वासुकिः कथयिष्यति ॥”)

जिह्वलः, त्रि, (जिह्वेन जिह्वया लाति आदत्ते

परद्रव्याणीति । जिह्व + ला + कः ।) लुब्धः ।
लोलुपः । यथा, श्राद्धतत्त्वे ।
“श्राद्धं कृत्वा परश्राद्धे भुञ्जते ये च जिह्वलाः ।
पतन्ति नरके घोरे लुप्तपिण्डोदकक्रियाः ॥”

जिह्वा, स्त्री, (जयति रसमनयेति । जि + “शेता-

यह्वजिह्वाग्रीवाप्वामीवाः ।” उणां । १ । १५४ ।
इति वन् प्रत्ययेन हुगागमे निपातनात् साधुः ।)
रसज्ञानेन्द्रियम् । जिव् इति भाषा । तत्-
पर्य्यायः । रसज्ञा २ रसना ३ । इत्यमरः ।
२ । ६ । ९१ ॥ रशना ४ रसनम् ५ जिह्वः ६ ।
इति तट्टीका ॥ रसालः ७ सुधास्रवा ८ रसिका
९ रसाङ्का १० । इति शब्दरत्नावली ॥ रसा
११ लोला १२ रसाला १३ रसला १४ ललना
१५ । इति जटाधरः ॥ (यथा, मुकुन्दमाला-
याम् । २६ ।
“जिह्वे ! कीर्त्तय केशवं मुररिपुं चेतो ! भज श्रीधरं
पाणिद्बन्द्व ! समर्च्चयाच्युतकथां श्रोत्रद्बय ! त्वंशृणु ।
कृष्णं लोकय लोचनद्वय ! हरेर्गच्छाङ्घ्रियुग्मालयं
जिघ्र घ्राण ! मुकुन्दपादतुलसीं मूर्द्धन्नमाधो-
क्षजम् ॥”)
अस्याः परीक्षा यथा, भावप्रकाशे ।
“शाकपत्रप्रभा रूक्षा स्फुटिता रसनानिलात् ।
रक्ता श्यामा भवेत् पित्ताल्लिप्तार्द्रा धवला कफात् ॥
परिदग्धा खरस्पर्शा कृष्णा दोषत्रयेऽधिके ।
सैव दोषद्वयाधिक्ये दोषद्वितयलक्षणा ॥”
(यथास्या उत्पत्तिविषयः ।
पृष्ठ २/५३६
“उदरे पच्यमानानामाध्मानाद्रुक्मसारवत् ।
कफशोणितमांसानां सारो जिह्वा प्रजायते ॥”
इति सुश्रुते शारीरस्थाने ४ र्थे अध्याये ॥)

जिह्वानिर्लेखनं, क्ली, (जिह्वाया निर्लेखनं संस्कारः ।)

जिह्वामार्ज्जनम् । जिवआँचडान इति भाषा ।
जिह्वामार्ज्जनद्रव्यम् । जिवाँचडा चेयाडि
इति भाषा । तत् दशाङ्गुलं कोमलं कृशं
स्वर्णरूप्यताम्रलोहनिर्म्मितं जिह्वामलापकर्षणे
प्रशस्तम् । तस्य गुणः । वक्त्रवैरस्यजिह्वाश्रित-
मलनाशित्वम् । आरोग्यरुचिकारित्वञ्च । इति
राजवल्लभः ॥
(“जिह्वानिर्लेखनं रौप्यं सौवर्णं वार्क्षमेव च ।
तन्मलापहरं शस्तं मृदुश्लक्ष्णं दशाङ्गुलम् ।
मुखवैरस्यदौर्गन्ध्य-शोफजाड्यहरं सुखम् ॥”
अस्याधिक्येन रोगजनकता यथा, --
“जिह्वातिलेखनाच्छुष्कभक्षणादभिघाततः ।
कुपितो हनुमूलस्थः स्रंसयित्वानिलो हनू ॥
करोति विवृतास्यत्वमथवा संवृतास्यताम् ।
हनुस्रंसः स तेन स्यात् कृच्छ्राच्चर्व्वणभाषणम् ॥”
इति वाभटे निदानस्थाने पञ्चदशेऽध्याये ॥)

जिह्वापः, पुं, (जिह्वया पिबतीति । पा + “आतो-

ऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।)
कुक्कुरः । व्याघ्रः । विडालः । भल्लूकः । इति
शब्दरत्नावली ॥ चित्रकव्याघ्रः । इति विश्वः ॥

जिह्वामलं, क्ली, (जिह्वाया मलम् ।) जिह्वा-

स्थितमलम् । तत्पर्य्यायः । कुलुकम् २ । इति
त्रिकाण्डशेषः ॥

जिह्वामूलीवः, पुं, (जिह्वामूले भवः । “जिह्वा-

मूलाङ्गुलेश्छः ।” ४ । ३ । ६२ । इति छः ।)
वज्राकृतिवर्णः । वोपदेवेनास्य मू इति संज्ञा
कृता । स तु कखपरे विसर्गस्थाने भवति । यथा
हरि × काम्यः । अस्योच्चारणं विसर्गवत् । इति
व्याकरणम् ॥
“अधोविरेकयुक्ताग्रामात्रवद्बयरूपकः ।
जिह्वामूलीय इत्येव गजकुम्भोपमोऽपरः ॥”
इति सुपद्मव्याकरणटीका ॥

जिह्वारदः, पुं, (जिह्वा एव रदो दन्त इव यस्य ।)

पक्षी । इति हारावली । ५६ ॥

जिह्वारोगः, पुं, (जिह्वाया रोगः ।) मुखरोगा-

न्तर्गतरसनाजातव्याधिः । तत्र जिह्वारोगाणां
निदाननामसङ्ख्याः प्राह ।
“वातजः पित्तजश्चापि कफजोऽलाससंज्ञकः ।
उपजिह्विका च गदा जिह्वायां पञ्च कीर्त्तिताः ॥”
तत्र वातजस्य लक्षणमाह ।
जिह्वानिलेनस्फुटिता प्रसुप्ता
भवेच्च शाकच्छदनप्रकाशा ।
स्फुटितामनाग्विदीर्णा । प्रसुप्ता रसानभिज्ञ-
तया सुप्तेव । शाकच्छदनप्रकाशा शाको मरु-
भूमिजो दुमः तद्वत् कण्टकचिता ॥ * ॥
पित्तजमाह ।
पित्तात् सदाहैरुपचीयते च
दीर्घैः सरक्तैरपिकण्टकैश्च ।
अयं रोगो लोके जलीति ख्यातः । जाडीति
वङ्गभाषा ॥ * ॥ कफजमाह ।
कफेन गुर्व्वीं बहलाचिता च
मांसोच्छ्रयैः शाल्मलिकण्टकाभैः ।
बहला स्थूला । मांसोच्छ्रयैः मांसजकण्टकैः ॥ * ॥
अलासमाह ।
जिह्वातले यः श्वयथुः प्रगाढः
सोऽलाससंज्ञः कफरक्तमूर्त्तिः ।
जिह्वां सरुक् स्तम्भयति प्रवृद्धो
मूले च जिह्वा भृशमेति पाकम् ॥
प्रगाढः प्रकर्षेण गाढो दारुणः । कफरक्तमूर्त्तिः
कफरक्ताभ्यां मूर्त्तिर्यस्य स कफरक्तज इत्यर्थः ।
जिह्वास्तम्भेन वायुरप्यत्र बोद्धव्यः । भृशं पाकेन
पित्तञ्च । अतस्त्रिदोषजोऽयम् । असाध्यत्व-
ञ्चास्य ॥ * ॥ उपजिह्विकामाह ।
जिह्वाग्ररूपः श्वयथुश्च जिह्वा-
मुन्नाम्य जातः कफरक्तयोनिः ।
प्रसेककण्डूपरिदाहयुक्तः
प्रकथ्यतेऽसायुपजिह्विकेति ॥
जिह्वाग्ररूपः जिह्वाग्राकृतिः ॥” * ॥
अथ जिह्वारोगाणां चिकित्सा ।
“जिह्वागतविकाराणां शस्तं शोणितमोक्षणम् ।
गुडुचीपिप्पलीनिम्बकवलः कटुभिः सुखः ॥
ओष्ठप्रकोपेऽनिलजे यदुक्तं प्राक्चिकित्सितम् ।
कण्टकेष्वनिलोत्थेषु तत् कार्य्यं भिषजा खलु ॥
पित्तजे परिघृष्टे तु निःसृते दुष्टशोणिते ।
प्रतिसारणगण्डूषनस्यञ्च मधुरं हितम् ॥
कण्टकेषु कफोत्थेषु लिखितेष्वसृजः क्षये ।
पिप्पल्यादिर्म्मधुयुतः कार्य्यस्तु प्रतिसारणे ॥
उपजिह्वान्तु संलिख्य क्षारेण प्रतिसारयेत् ।
शिरोविरेकगण्डूषधूमैश्चैनामुपाचरेत् ॥
व्योषक्षाराभयावह्निचूर्णमेतत् प्रघर्षणम् ।
उपजिह्वाप्रशान्त्यर्थमेभिस्तैलञ्च पाचयेत् ॥”
इति भावप्रकाशः ॥

जिह्वालिट् [ह्] पुं, (जिह्वया लेढीति । लिह

+ क्विप् ।) कुक्कुरः । इति भूरिप्रयोगः ॥

जिह्वाशल्यः, पुं, (जिह्वाया शल्यमिव । अभिधानात्

पुंस्त्वम् ।) खदिरवृक्षः । इति राजनिर्घण्टः ॥

जिह्वास्वादः, पुं, (जिह्वया स्वाद आस्वादनम् ।)

लेहनम् । इति हेमचन्द्रः । ३ । ८८ ॥

जीनः, त्रि, (जिनाति जीर्य्यतीति । ज्या वयो

हानौ + “गत्यर्थेति ।” क्तः । ग्रहिज्येति सम्प्र-
सारणम् । हल इति दीर्घः । लादिश्चेति
नत्वम् ।) वृद्धः । इत्यमरः । २ । ६ । ४२ ॥
(चर्म्मपुटे । यथा, मनुः । ११ । १३८ ।
“जीनकार्म्मुकवस्तावीन् पृथग् दद्यात् विशुद्धये ॥”)

जीमूतः, पुं, (जयति आकाशमिति । जि +

“जेर्मूट्चोदात्तः ।” उणां ३ । ९१ । इति क्तः ।
मूडागमो धातोदीर्घश्च ।) पर्व्वतः । (यथा-
मत्स्यपुराणे । १२० । ७५ ।
“जीमूतो द्रावणश्चैव मैनाकश्चन्द्रपर्व्वतः ।
आयतास्ते महाशैलाः समुद्रं दक्षिणं प्रति ॥” * ॥
जीवनं जलं मूत्रयति स्रावयतीति । पृषोदरा-
दित्वात् साधुः । इति पुरुषोत्तमदेवः ।) मेघः ।
(यथा, महाभारते । ६ । १९ । ३१ ।
“राजानमन्वयुः पश्चात् जीमूता इव वार्षिकाः ॥”)
मुस्ता । देवताडवृक्षः । इत्यमरः । ३ । ३ । ५८ ॥
इन्द्रः । भृतिकरः । घोषकलता । इति हेम-
चन्द्रः ॥ (यथा, चरके सूत्रस्थाने प्रथमेऽध्याये ।
“धामार्गवमथेक्ष्वाकु जीमूतं कृतवेधनम् ॥”
सूर्य्यः । यथा, महाभारते । ३ । ३ । सूर्य्य-
स्याष्टोत्तरशतनामकीर्त्तने । २२ ।
“वरुणः सागरोऽंशुश्च जीमूतो जीवनोऽरिहा ॥”
ऋषिविशेषः । यथा, महाभारते ५ । १११ । २४ ।
“जीमूतस्यात्र विप्रर्षेरुपतस्थे महात्मनः ॥”
मल्लविशेषः । भीमसेनस्तु विराटगृहवासकाले
नियुद्धेनैनं निहतवान् । यथा, महाभारुते ।
४ । १२ । २२ ।
“ततस्तु वृत्रसङ्काशं मीमो मल्लं समाह्वयत् ।
जीमूतं नाम तं तत्र मल्लं विख्यातविक्रमम् ॥”
स्वनामख्यातो दशार्हस्य पौत्त्रः । यथा, हरि
वंशे । ३२ । २५ ।
“दशार्हस्य सुतो व्योमा व्योम्नो जीमूत
उच्यते ॥”
वपुष्मत्पुत्त्रः । स तु शाल्मलद्वीपस्य ईश्वर-
विशेषः । यथा, ब्रह्माण्डे ३६ अध्याये ।
“शाल्मलस्येश्वराः सप्त सुतास्ते तु वपुष्मतः ।
श्वेतश्च हरितश्चैव जीमूतो रोहितस्तथा ॥”
अस्य वर्षस्तु एतन्नाम्नैव विख्यातः । यथा,
तत्रैव, --
“जोमूतस्य च जीमूतो रोहितस्य च रोहितः ॥”
ऊनचत्वारिंशदक्षरवृत्तिविशेषः । तल्लक्षणा-
दिकं छन्दःशब्दे द्रष्टव्यम् ॥)

जीमूतकूटः, पुं, (जीमूतो मेघः कूटे शिखरे यस्य ।

अत्युन्नतत्वादेवास्य तथात्वम् ।) पर्व्वतः । इति
हारावली । ५१ ॥

जीमूतमूलं, क्ली, (जीमूतस्यं मुस्ताया मूलमिव

मूलमस्य ।) शटी । इति रत्नमाला ॥

जीमूतवाहनः, पुं, (जीमूतो मेघो वाहनं यस्य ।)

इन्द्रः । मेघवाहन इत्यमरदर्शनात् । धर्म्मरत्न-
नामकस्मृतिसंग्रहकर्त्ता ॥ (यदुक्तं दायभागे ।
“बहुविधपूर्ब्बनिवन्धृव्याख्यासञ्जातसंशयस्यैतत्
जीमूतवाहनकृतं प्रकरणमपनुत्तये ध्येयम् ॥
परिभद्रकुलोद्भूतः श्रीमान् जीमूतवाहनः ।
दायभागं चकारेमं विदुषां संशयच्छिदे ॥”
शालिवाहननृपस्य पुत्त्रः । आश्विनकृष्णा-
ष्टम्यां पुत्त्रसौभाग्यकामाभिर्नारीभिरयं पूज्यः ।
एतद्विवरणं जिताष्टमीशब्दे द्रष्टव्यम् ॥ जीमूत-
केतोर्नृपस्य पुत्त्रः । यथा, कथासरित्सागरे ।
२२ । २४ ।
“अथ तस्याचिरादेव राज्ञः सूनुरजायत ।
जीमूतवाहनं तं च नाम्ना स विदधे पिता ॥”)

जीमूतवाही, [न्] पुं, (जीमूतं वहति जीमूता-

कारेणात्मानं परिणामयतीत्यर्थः । वह +
पृष्ठ २/५३७
णिनिः । मेघयोनित्वादेवास्य तथात्वम् ।) धूमः ।
इति हेमचन्द्रः ॥

जीरः, पुं, (जवतीति । जु गतौ + “जोरी च ।”

उणां २ । २३ । इति रक् ईश्चान्तादेशः ।)
जीरकः । खड्गः । इति मेदिनी । रे, ३९ ॥
अनुः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥
(विद्यावति, त्रि । यथा, ऋग्वेदे । १ । ४४ । ११ ।
“मनुष्वद्देव धीमहि प्रचेतसं जीरं दूतममर्त्त्यम् ।”
“जीरं विद्यावन्तम् ।” इति दयानन्दभाष्यम् ॥)

जीरकः, पुं, (जीर + संज्ञायां कन् ।) वणिग्-

द्रव्यविशेषः । जीरा इति भाषा । तत्पर्य्यायः ।
जरणः २ अजाजी ३ कणा ४ । इत्यमरः ।
२ । ९ । ३६ ॥ जीर्णः ५ जीरः ६ दीप्यः ७
जीरणः ८ अजाजिका ९ वह्निशिखः १०
मागधः ११ दीपकः १२ । इति जटाधरः ॥
अस्य गुणाः । कटुत्वम् । उष्णत्वम् । दीपन-
त्वम् । वातगुल्माध्मानातीसारग्रहणीक्रिमि-
नाशित्वञ्च । इति राजनिर्घण्टः ॥ रुचिस्वर-
कारित्वम् । गन्धयुक्तत्वम् । कफवातनाशित्वम् ।
पाके कटुत्वम् । तीक्ष्णत्वम् । लघुत्वम् । पित्त-
वर्द्धनत्वञ्च । इति राजवल्लभः ॥ अपि च ।
शुक्लजीरा कृष्णजीरा कलौञ्जी एषां नामानि
गुणाश्च ।
“जीरको जरणोऽजाजी कणा स्याद्दीर्घजीरकः ।
कृष्णजीरः सुगन्धश्च तथैवोद्गारशोधनः ॥
कलाजाजी तु सुषवी कालिका चोपकालिका ।
पृथ्वीका कारवी पृथ्वी पृथुस्तूष्णोपकुञ्चिका ॥
उपकुञ्ची च कुञ्ची च बृहज्जीरक इत्यपि ।
जीरकत्रितयं रूक्षं कटुकं दीपनं लघु ॥
संग्राहि पित्तलं मेध्यं गर्भाशयविशुद्धिकृत् ।
ज्वरघ्नं पाचनं बल्यं वृष्यं रुच्यं कफापहम् ॥
चक्षुष्यं पवनाध्मानगुल्मच्छर्द्द्यतिसारहृत् ॥”
इति भावप्रकाशः ॥

जीरणः, पुं, (जीरकः पृषोदरादित्वात् कस्य णः ।)

जीरकः । इति राजनिर्घण्टः ॥

जीरिका, स्त्री, (जीर्य्यतीति । जॄ + बाहुलकात्

रिक् । ईश्चान्तादेशः । ततः स्वार्थे कन् ।)
वंशपत्रीतृणम् । इति राजनिर्घण्टः ॥

जीर्णं, क्ली, (जीर्य्यति स्मेति । जृ ष् वयोहानौ +

गत्यर्थेति क्तः । निष्ठातस्य नत्वम् ।) शैलजम् ।
इति राजनिर्घण्टः ॥ (वयःप्रकारविशेषः । यथा,
“तद्बयो यथा स्थूलभेदेन त्रिविधम् । बालं
मध्यं जीर्णमिति ।” इति चरके विमानस्थाने-
ऽष्टमेऽध्याये ॥)

जीर्णः, पुं, (जीर्य्यत्यनेनेति । जॄ + करणे क्तः ।)

जीरकः । इति राजनिर्घण्टः ॥ (वृक्षः । इति
हेमचन्द्रः । ४ । १८० ॥)

जीर्णः, त्रि, (जीर्य्यतीति । जॄ + “गत्यर्थाकर्म्मक-

श्लिषेति ।” ३ । ४ । ७२ । इति कर्त्तरि
क्तः ।) वृद्धः । इत्यमरः । २ । ६ । ४२ ॥ पुरा-
तनः । इति हेमचन्द्रः ॥ (यथा, देवीभाग-
वते । १ । २० । १७ ।
“तत्याज देहंधर्म्मात्मा देही जीर्णमिवाम्बरम् ॥”)
गतबहुवयः । जराविशिष्टः । पक्वः । पाक-
विशिष्टः ॥ * ॥ (यथा, चाणक्ये । ७९ ।
“जीर्णमन्नं प्रशंसीयात् भार्य्याञ्च गतयौवनाम् ।
रणात् प्रत्यागतं शूरं शस्यञ्च गृहमागतम् ॥”)
अथ जीर्णद्रव्याणि ।
“नारीकेलफलेषु तण्डुलमथ क्षीरं रसाले हितं
जम्बीरोत्थरसो घृते समुचितः सर्पिस्तु मोचा-
फले ।
गोधूमेषु च कर्क्कटी हिततमा मांसात्यये काञ्जिकं
नारङ्गे गुडभक्षणञ्च कथितं पिण्डारके कोद्रवः ॥
पिष्टान्ने सलिलं पियालफलजे पथ्या हिता माषजे
खण्डंक्षीरभवे तु तक्रमुचितं कोष्णाम्बु कोलम्बजे ।
मत्स्ये चूतफलं त्वजीर्णशमनं मध्वम्बुपानात्यये
तैलं पौष्करजे कटुप्रशमनं शेषांस्तु बुद्ध्या
जयेत् ॥
पनसे कदलं कदले च घृतं
घृतपाकविधावपि जम्बुरसः ।
तदुपद्रवशान्तिकरं लवणं
लवणेषु च तण्डुलवारि वरम् ॥
नारिकेलफलतालबीजयोः
पाचनं य इह तण्डुलं विदुः ।
ते वदन्ति मुनयोऽथ तण्डुलान्
क्षीरवारि परिपाचयत्यपि ॥
दाडिमामलकतालतिन्दुकी-
बीजपूरलवलीफलान्यपि ।
वाकुलेन फलेन च पाचयेत्
पाकमेति बकुलं स्वमूलतः ॥
मधूक-मालूर-नृपादनानां
परूषखर्ज्जूरकपित्थकानाम् ।
पाकाय पेयं पिचुमर्द्दबीजं
घृतेऽपि तक्रं प्रवदन्ति पथ्यम् ॥
गोधूममाषहरिमन्थसतीनमुद्ग-
पाको भवेदिति च मातुलपत्रकेण ।
खर्ज्जूरिकाविशकशेरुसितासु शस्तं
शृङ्गाटके मधुफलेष्वपि भद्रमुस्तम् ।
पिशितपनसयोः स्यादाम्रबीजेन पाकः
कृशरमहिषयोषित्क्षीरयोः सैन्धवेन ।
चिपिटपरिणतिः स्यात् पिप्पलीदिप्पकाभ्या-
मपहरति तुषाम्भो वैदलानामजीर्णम् ॥
कर्पूरपूगीफलनागवल्ली-
काश्मीरजातीफलजातिकाशम् ।
कस्तूरिका सिह्लकनारिकेल-
जलं पचत्याशु समुद्रफेनः ॥
श्यामाकनीवारकुलत्थषष्टि-
निष्पावकङ्गूदधिमस्तकस्तु ।
चिञ्चाकुलत्थौ तिलतैलयोगात्
जटाब्दनादस्य निहन्त्यथाम्रम् ॥
कशेरुशृङ्गाटमृणालमृद्दी-
खर्ज्जूरखण्डा अपि नागरेण ।
पलाशभस्माम्बु तथार्द्रजो वा
रसो निहन्याद्रसमिक्षुजातम् ॥
अम्लेन केनाप्यथ व्योषणेन
कोष्णाम्बुना वा घृतमेति पाकम् ।
तिलादितैलान्यपि काञ्जिकेन
सर्ज्जस्य मज्जा पनसामलक्यौ ॥
किमत्र चित्रं बहुमांसमत्स्य-
भोजी सुखी स्यात् परिपीय शुक्तम् ।
इत्यद्भुतं केवलवह्निपक्व-
मांसेन मत्स्यं परिपाकमेति ॥
कपोतपारावतनीलकण्ठ-
कपिञ्जलानां पिशितानि जग्ध्वा ।
काशस्य मूलं परिपेयमुष्णं
सुखीभवेन्ना बहुशो न भूतम् ॥
व्योषै रसाला सुरभीयवस्तु-
मण्डेन कोष्णेन विपाकमेति ।
शङ्खस्य चूर्णेन हयारिनारी-
पयोदधिक्षीरमुपैति पाकम् ॥
वटो वेसवाराल्लवङ्गेन फेणी-
शमं पर्पटः शिग्रुबीजेन याति ।
कणामूलतो लड्डुका पूपकादे-
र्व्विपाको भवेच्छष्कुलीमण्डयोश्च ॥
श्वाविद्गोधा गण्डकाश्चित्रतैलाद्-
यावत् क्षारात् कोलकूर्म्मादयोऽपि ।
जीर्य्यन्त्येवं पायसो मुद्गयूषात्
सामुद्रादप्यारनालं सुखाय ॥
तप्तं तप्तं हेम वा तारमग्नौ
तोये क्षिप्तं सप्तकृत्यस्तदम्भः ।
पीत्वावश्यं दीर्घकालोपपन्न-
मम्भो जीर्णं शीघ्रमेवं जहाति ॥
पालङ्किकाकेमुककारवल्ली-
वार्त्ताकुवंशाङ्कुरमूलकानाम् ।
उपोदकालावुपटोलकानां
सिद्धार्थको मेघवरस्य पक्ता ॥
शुण्ठीसतीनस्य च नागरङ्ग-
जम्बीरयोः कोद्रवको निहन्ता ।
जरामिरा गैरिकचन्दनाभ्या-
मभ्येति शीघ्रं बहुशो न भूतम् ॥
पटोलवंशाङ्कुरकारवल्ली-
फलान्यलावूनि बहूनि जग्धा ।
क्षारोदकं ब्रह्मतरोर्न्निपीय
भोक्तुं पुनर्व्वाञ्छति तावदेव ॥
विपच्यते शूरणको गुडेन
तथालुकं तण्डुलतोयपानात् ।
जम्बीरनीरेण निशारशोनं
मुस्तेन तूर्णं परिपाकमेति ॥
चञ्चूकसिद्धार्थकवास्तुकानां
गायत्त्रिसारक्वथितेन पाकः ।
शाकानि सर्व्वाण्युपयान्ति पाकं
क्षारेण सद्यस्तिलनालजेन ॥
आम्रातकोदुम्बरपिप्पलीनां
फलानि च प्लक्षवटादिकानाम् ।
स्युः शामनं पर्य्युषितोदकेन
पियालमज्जा च कदुष्णकेन ॥
पृष्ठ २/५३८
स्नेहाजीर्णं रोगिणां मुद्गचूर्णं
ज्वालां मुस्तो हन्ति वैरेचकानाम् ।
माषो भूयान्निम्बमूलेन पाक-
श्चिञ्चा मुञ्चत्यम्लतां चूर्णयोगात् ॥
उष्णेन शीतं शिशिरेण चोष्ण-
मम्लेन च क्षारगणो गुणाय ।
स्नेहेन तीक्ष्णं वमनातियोगे
सिता हिता स्यादिति काशिराजः ॥
ताम्बूलमध्यस्थितचूर्णकेन
संदह्यते यस्य मुखं नरस्य ।
तैलेन वा केवत्वकाञ्जिकेन
सुखाय गण्डूषमसौ विदध्यात् ॥
शीतोदकं नस्यजरोगहारि
नारीपयश्चाञ्जनरुग्विनाशि ।
एलोदकं धूमगदे प्रशस्तं
धात्रीप्रलेपोऽतिविरेचनेषु ॥
मृगस्य मांसं श्रमजेऽनुकूलं
प्रवातसुप्तिः सुरतावसाने ।
क्षीरोषणासैन्धवसाधितन्तु
च्छागाण्डमुक्तं सुरतातिरेके ॥
श्रवणपूरणजे तिलतैलतः
श्रवणपूरणमेव सुखं विदुः ।
कबलजेषु गदेष्वथ कारयेत्
कबलमार्द्रकजद्रवजं पुनः ॥”
इति जीर्णमञ्जरी ॥

जीर्णज्वरः, पुं, (जीर्णः पुरातनो ज्वरः ।) पुरा-

तनज्वररोगः । अथ जीर्णज्वराधिकारः । तत्र
जीर्णज्वरस्य सामान्यलक्षणमाह ।
“यो द्वादशभ्यो दिवसेभ्य ऊर्द्धं
दोषत्रयस्तद्द्विगुणेभ्य ऊर्द्धम् ।
नृणां तनौ तिष्ठति मन्दवेगो
भिषग्भिरुक्तो ज्वर एष जीर्णः ॥” * ॥
जीर्णज्वरस्यैव विशेषं वातवलासकमाह ।
“नित्यं मन्दज्वरो रूक्षः शूनः कृच्छ्रेण सिध्यति ।
स्तब्धाङ्गः श्लेष्मभूयिष्ठो नरो वातवलासकी ॥”
वातवलासकाख्यो ज्वरोऽस्यास्ति इति वात-
वलासकी । नर ईदृग्भवेत् । शूनः शोथी ।
श्लेष्मभूयिष्ठो बहुलश्लेष्मकः ॥ * ॥
अथ जीर्णज्वरस्य सामान्यचिकित्सा ।
“जीर्णज्वरी नरः कुर्य्यान्नोपवासं कदाचन ।
लङ्घनात् स भवेत् क्षीणो ज्वरस्तु स्याद्बली यतः ॥
पुराणेऽपि ज्वरे दोषा यद्यपथ्यैः पुनस्तथा ।
लङ्घयेत्तत्र तं पश्चात् पूर्ब्बवत् कारयेत् क्रियाम् ॥”
तथा पूर्ब्बवत् ॥ * ॥
“निदिग्धिकानागरकामृतानां
क्वाथं पिबेन्मिश्रितपिप्पलीकम् ।
जीर्णज्वरारोचककासशूल-
श्वासाग्निमान्द्यार्द्दितपीनसेषु ॥
हन्त्यूर्द्ध्वजानयं प्रायः सायं तेनोपयुज्यते ॥”
इति त्रिकण्टकक्वाथः ॥ * ॥
“पिप्पलीचूर्णसंयुक्तक्वाथश्छिन्नोद्भवोद्भवः ।
जीर्णज्वरकफध्वंसी पञ्चमूलकृतोऽथवा ॥
अमृतायाः कषायन्तु शीतलीकृतमीरितम् ।
मधुपादयुतं पीतं जीर्णज्वरहरं परम् ॥
पिप्पलीमधुसंमिश्रं गुडूचीस्वरसं पिबेत् ।
जीर्णज्वरकफप्लीहकासारोचकनाशनम् ॥
जीर्णज्वरेऽग्निमान्द्ये च शस्यते गुडपिप्पली ।
कासाजीर्णारुचिश्वासहृत्पाण्डुज्वररोगनुत् ॥
द्विगुणः पिप्पलीचूर्णाद्गुडोऽत्र भिषजां मतः ।
पिप्पली मधुसंयुक्ता मेदःकफविनाशिनी ॥
श्वासकासज्वरहरी पाण्डुप्लीहोदरापहा ।
आमलं चित्रकं पथ्या पिप्पली सैन्धवं तथा ॥
चूर्णितोऽयं गणो ज्ञेयः सर्व्वज्वरहरः परः ।
भेदी रुचिकरः श्लेष्महर्त्ता दीपनपाचनः ॥”
इति आमलक्यादिचूर्णम् ॥ * ॥
“द्राक्षामृता शटी शृङ्गी मुस्तकं रक्तचन्दनम् ।
नागरं कटुका पाठा भूनिम्बः सदुरालभः ॥
उशीरं धान्यकं पद्मं बालकं कण्टकारिका ।
पुष्करं पिचुमर्द्दञ्च दशाष्टाङ्गमिदं स्मृतम् ॥
जीर्णज्वरारुचिश्वासकासश्वयथुनाशनम् ॥”
इति द्राक्षाद्यष्टादशाङ्गक्वाथः ॥ * ॥
“त्रिवृद्ध्या पञ्चवृद्ध्या वा सप्तवृद्ध्याथवा कणाः ।
गव्यक्षीरेण संपिष्टा पिबेद्दश दिनानि हि ॥
तथैव न्यूनयेदेता एवं विंशतिवासरान् ।
पिबतां ज्वरशान्तिः स्यात् पाण्डरोगश्च शाम्यति ॥
कासः श्वासोऽग्निमान्द्यञ्च कफाधिक्यञ्च नश्यति ।
त्रयादिवृद्धिर्यथाकफवृद्धिः । दुग्धवृद्धिर्यथाग्निवृद्धिः ।
इति वर्द्धमानपिप्पली ॥ * ॥
“वातश्लेष्मज्वरोक्ता स्यात् क्रिया वातवलासके ।
जीर्णे ज्वरे कफे क्षीणे दाहतृष्णासमन्विते ॥
पयः पीयूषसदृशं तन्नवे तु विषोपमम् ।
चन्दनाद्यं हितं तैलं शीर्षाधिकारकीर्त्तितम् ॥
तथा नारायणन्तैलं जीर्णज्वरहरं परम् ॥”
इति जीर्णज्वराधिकारः । इति भावप्रकाशः ॥

जीर्णदारुः, पुं, (जीणमिव दारुयस्य ।) वृद्धदारक-

भेदः । विधाराविशेष इति लोके । तत्पर्य्यायः ।
जीर्णफञ्जी २ सुपुष्पिका ३ अजरा ४ सूक्ष्म-
पर्णा ५ । अस्य गुणाः । गौल्यत्वम् । पिच्छि-
लत्वम् । कफवातकासामदोषनाशित्वम् । बल्य-
त्वञ्च । इति राजनिर्घण्टः ॥

जीर्णपत्रिका, स्त्री, (जीर्णानि पत्राण्यस्याः । कप्

ततष्टापि अत इत्वम् ।) वंशपत्रीतृणम् । इति
राजनिर्घण्टः ॥

जीर्णपर्णः, पुं, (जीर्णानि पर्णानि यस्य ।) कदम्बः ।

इति राजनिर्घण्टः ॥ (जीर्णं पर्णं पत्रम् ।)
पुरातनपत्र, क्ली ॥ (जीर्णं पर्णं ताम्बूलं इति
विग्रहे पुरातनताम्बूले च । यदुक्तं वैद्यके ।
“पर्णमूले भवेद्व्याधिः पर्णाग्रे पापसम्भवः ।
जीर्णपर्णं हरेदायुः शिराबुद्धिप्रणाशिनी ॥”)

जीर्णबुध्नः, पुं, (जीर्णोऽदृढो बुध्नो मूलमस्य ।)

पट्टिकालोध्रः । इति राजनिर्घण्टः ॥

जीर्णबुध्नकं, क्ली, (जीर्णो बुध्नो मूलं यस्य । ततः

कप् ।) परिपलम् । इति राजनिर्घण्टः ॥
केओटमुता इति भाषा ॥

जीर्णवज्रं, क्ली, (जीर्णं वज्रं हीरकमिव ।)

वैक्रान्तमणिः । इति राजनिर्घण्टः ॥

जीर्णवस्त्रं, क्ली, (जीर्णं पुरातनं वस्त्रम् ।) पुरा-

तनवस्त्रम् । तत्पर्य्यायः । पटच्चरम् २ । इत्य-
मरः । २ । ६ । ११५ ॥

जीर्णा, स्त्री, (जीर्य्यत्यनयेति । ज + करणे क्तः ।)

स्थूलजीरकः । इति राजनिर्घण्टः ॥

जीर्णिः, स्त्री, (जॄ + क्तिन् ।) ज्यानिः । जीर्णता ।

इत्यमरः । ३ । २ । ९ ॥

जीर्णोद्धारः, पुं, (जीर्णानां भग्नमन्दिरादीनां

उद्धारः संस्कारः ।) भग्नमन्दिरादेः संस्कारः ।
यथा, विष्णुधर्म्मोत्तरतृतीयकाण्डे ।
“यस्य राज्ञस्तु विषये देववेश्म विशीर्य्यते ।
तस्य सीदति तद्राज्यं देववेश्म यथा तथा ॥
कृत्वा शीर्णस्य संस्कारं तथा देवेशवेश्मनि ।
द्बिगुणं फलमाप्नोति नात्र कार्य्या विचारणा ॥”
विष्णुरहस्ये ।
“पतितस्य च यः कर्त्ता पतमानस्य रक्षिता ।
विष्णोरायतनस्येह स नरो विष्णुलोकभाक् ॥”
अग्निपुराणे ।
“पतितं पतमानन्तु तथार्द्धस्फुटितं नरः ।
समुद्धृत्य हरेर्धाम द्बिगुणं फलमाप्नुयात् ॥”
देवीपुराणे ।
“मूलाच्छतगुणं पुण्यं प्राप्नुयाज्जीर्णकारकः ।
तस्मात् सर्व्वप्रयत्नेन जीर्णस्योद्धारमाचरेत् ॥”
हयशीर्षपञ्चरात्रे ।
“वापीकूपतडागानां सुरधाम्नां तथानघ ! ।
प्रतिमानां सभानाञ्च संस्कर्त्ता यो नरो भुवि ॥
पुण्यं शतगुणं तस्य भवेन्मूलान्न संशयः ।
प्रतिष्ठाया विधिः कार्य्यस्तथा मन्दिरनिर्म्मिते ॥
प्रायः श्रीहयशीर्षोक्तेरनुसारेण वैष्णवैः ।
देवालयप्रतिष्ठा च ख्याता तल्लिखनेन किम् ॥
श्रीमूर्त्तिस्थापनेनैव संपूर्णा सा विशेषतः ।
देवगृहं देवतायाः प्रतिष्ठाविधिना सदा ॥
संस्कार्य्यं मनुजानान्तु समुदायोक्तकर्म्मणा ॥”
इति श्रीहरिभक्तिविलासे २० विलासः ॥

जीर्विः, पुं, (जीर्य्यति छिन्नीभवत्यनेनेति । जॄ +

“जॄशॄस्तॄजागृभ्यः क्विन् ।” उणां ४ । ५४ ।
इति करणे क्विन् ।) कुठारः । इति सिद्धान्त-
कौमुद्यामुणादिवृत्तिः ॥ (जीर्य्यतीति । कर्त्तरि
क्विन् ।) शकटम् । कायः । पशुः । इति
संक्षिप्तसारे उणादिवृत्तिः ॥

जीव, ऋ प्राणे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) ऋ, अजीजिवत् अजिजीवत् ।
प्राणः प्राणधारणम् । जीवति लोकः । इति
दुर्गादासः ॥

जीवः, पुं, (जीवनमिति । जीव + “हलश्च ।”

३ । ३ । १२१ । इति घञ् ।) असुधारणम् ।
इत्यमरः । २ । ८ । ११९ । (यथा, हरिवंशे ।
१७४ । ७३ ।
“त्वमेष चिन्तय सखि ! नोत्तरं प्रतिभाति मे ।
खकार्य्ये मुह्यते लोको यथा जीवं लभाम्वहम् ॥”)
पृष्ठ २/५३९
(जीवतीति । जीव प्राणे + “इगुपधज्ञेति ।”
३ । १ । १३५ । इति कः ।) प्राणी । (यथा,
भागवते । १ । १३ । ४४ ।
“अहस्तानि सहस्तानामपदानि चतुष्पदाम् ।
फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् ॥”)
वृत्तिः । वृक्षविशेषः । (स एव महानिम्बवृक्षः ।
तत्पर्य्याया यथा, --
“महानिम्बः स्मृतोद्रेका रम्यको विषमुष्टिकः ।
केशामुष्टिनिम्बकश्च कार्म्मुको जीव इत्यपि ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
बृहस्पतिः । इति मेदिनी । वे, ८ ॥ (यथा,
काशीखण्डे । १७ । ४४ ।
“अस्माल्लिङ्गार्च्चनान्नित्यं जीवभूतोऽसि मे यतः ।
अतो जीव इति ख्यातिं त्रिषु लोकेषु यास्यसि ॥”)
कर्णः । इति धरणी ॥ क्षेत्रज्ञः । तत्पर्य्यायः ।
आत्मा २ पुरुषः ३ पुद्गलः ४ अन्तर्यामी ५
ईश्वरः ६ । इति त्रिकाण्डशेषः । (यथा, भग-
वद्गीतायाम् । १३ । २ टीकायां श्रीधरस्वामिपादाः ।
“तञ्च क्षेत्रज्ञं संसारिणं जीवं वस्तुतः सर्व्व-
क्षेत्रेष्वनुगतं मामेव विद्धि ॥”) तस्य स्वरूपं
यथा, --
“कर्म्मणा जीवरूपश्च सन्ततं तत्फलप्रदः ।
कर्म्मरूपश्च भगवान् श्रीकृष्णः प्रकृतेः परः ॥
सोऽपि तद्धेतुरूपश्च कर्म्म तेन भवेत् सति ।
जीवः कर्म्मफलं भुङ्क्ते आत्मा निर्लिप्त एव च ॥
आत्मनः प्रतिविम्बश्च देही जीवः स एव च ।
प्राणदेहादिभृद्देही स जीवः परिकीर्त्तितः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥ * ॥
(तथाच भागवते । १२ । १८४ । १७ ।
“जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते ॥”)
वेदान्तमते घटावच्छिन्नाकाशवत् शरीरत्रित-
यावच्छिन्नं चैतन्यम् । केषाञ्चिन्मते दर्पणस्थमुख-
प्रतिविम्बवत् बुद्धिस्थचैतन्यप्रतिविम्बम् ॥ (जीव-
यति लोकानन्तर्य्याम्यात्मकरूपेणेति । जीव +
णिच् + अच् । विष्णुः । यथा, महाभारते ।
१३ । १५९ । ६८ ।
“जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः ॥”
जीवनविशिष्टे, त्रि । यथा, महाभारते । १२ ।
२८८ । २३ ।
“मृते वा त्वयि जीवेवा यदा भोक्ष्यति वैजनः ॥”)

जीवः, पुं क्ली, (जीव + भावे घञ् ।) जीवितम् ।

इति मेदिनी । वे, ९ ॥ (यथा, भागवते ।
१ । २ । १० ।
“जीवस्य तत्त्वजिज्ञासा नार्थो यश्चेह कर्म्ममिः ॥”
“जीवस्य जीवनस्य च पुनर्द्धर्म्मानुष्ठानद्वारा
कर्म्मभिर्य्य इह प्रसिद्धः स्वर्गादिः सोऽर्थो न
भवति ।” इति तट्टीकायां श्रीधरस्वामी ॥)

जीवकः, पुं, (जीवयति आरोग्यं करोतीति । जीव

+ णिच् + ण्वुल् ।) अष्टवर्गान्तर्गतौषधविशेषः ।
तत्पर्य्यायः । कूर्च्चशीर्षः २ मधुरकः ३ शृङ्गः ४
ह्नस्वाङ्गः ५ । इत्यमरः । २ । ४ । १४२ ॥ जीवनः
६ दीर्घायुः ७ प्राणदः ८ जीव्यः ९ भृङ्गाह्वः १०
प्रियः ११ चिरञ्जीवी १२ मधुरः १३ मङ्गल्यः १४
कूर्च्चशीर्षकः १५ वृद्धिदः १६ आयुष्मान् १७
जीवदः १८ बलदः १९ । अस्य गुणाः । मधु-
रत्वम् । शीतत्वम् । रक्तपित्तानिलार्त्तिक्षय-
दाहज्वरनाशित्वम् । शुक्रश्लेष्मविवर्द्धनत्वञ्च ।
इति राजनिर्घण्टः ॥ बलकारित्वम् । कार्श्य-
वातनाशित्वम् । तस्य रूपं यथा, --
“जीवकर्षभकौ ज्ञेयौ हिमाद्रिशिखरोद्भवौ ।
रसोनकन्दवत्कन्दौ निःसारौ सूक्ष्मपत्रकौ ॥
जीवकः कूर्च्चकाकारः ऋषभो वृषशृङ्गवत् ।
जीवकर्षभकस्थाने विदारीमूलम् ॥”
इति भावप्रकाशः ॥ * ॥
प्राणकः । पीतशालः । क्षपणः । इति मेदिनी ।
के, ९५ ॥

जीवकः, त्रि, (जीवति प्रभुसेवावृत्त्या इति । जीव

+ ण्वुल् ।) सेवकः । वृद्ध्याशी । जीवी ॥
(यथा, महाभारते । १३ । १४१ । ६६ ।
“त्रैविद्यो ब्राह्मणो विद्वान् न चाध्ययनजीवकः ॥”)
अहितुण्डिकः । इति मेदिनी । के, ९५ ॥

जीवजीवः, पुं, (जीवेन भक्ष्यक्षुद्रकीटादिना जीव-

तीति । जीव + अच् । यद्वा, जीवञ्जीव + पृषो-
दरात् साधुः ।) जीवञ्जीवपक्षी । इति शब्द-
रत्नावली ॥

जीवञ्जीयः, पुं, (जीवं जीवयति विषदोषं नाशय-

तीति । कृत्यल्युटो बहुलमिति बाहुलकात्
खच् ।) चकोरपक्षी । इत्यमरः । २ । ५ । ३५ ॥
(अपरः पक्षिविशेषः । विषादिविकृतस्यान्नादेः
परीक्षार्थमस्यावश्यकत्वं भवति । यथा, वाभटे
सूत्रस्थाने ७ अध्याये १६ ।
“हंसः प्रस्खलति ग्लानिर्ज्जीवञ्जीवस्य जायते ।
चकोरस्याक्षिवैराग्यं क्रौञ्चस्य स्यान्मदोदयः ॥”)
वृक्षविशेषः । इति मेदिनी । वे, ५९ ॥

जीवत्तोका, स्त्री, (जीवत् तोकं अपत्यं अस्याः ।)

जीवत्पुत्त्रिका । तत्पर्य्यायः । जीवसूः २ ।
इति हेमचन्द्रः ॥

जीवत्पतिः, स्त्री, (जीवन् पतिर्यस्याः ।) सधवा ।

इति हेमचन्द्रः ॥

जीवत्पितृकः, पुं, (जीवन् पिता यस्य इति कप् ।)

विद्यमानपितृकः । यथा, --
“अमास्नानं गयाश्राद्धं दक्षिणामुखभोजनम् ।
नजीवत्पितृकः कुर्य्यात् कृतेऽपि पितृहा भवेत् ॥”
इति तिथ्यादितत्त्वम् ॥

जीवथः, पुं, (जीवत्यनेनेति । जीव + “शीङ्शपि-

रुगमिवञ्चिजीवि प्राणिभ्योऽथः ।” उणां ३ ।
११३ । इति अथः ।) प्राणः । कूर्म्मः । मयूरः ।
मेघः । धार्म्मिके चिरायुषि च त्रि । इत्युणादि-
कोषः ॥

जीवदः, पुं, (जीवं जीवनं ददाति औषधादि-

सुप्रयोगेणेति । दा + कः ।) वैद्यः । विद्बिट् ।
इति मेदिनी । दे, २९ ॥ जीवनदातरि, त्रि ॥

जीवदात्री, स्त्री, (जीवं जीवनं ददातीति । दा +

तृच् ङीप् च ।) ऋद्धिः । इति राजनिर्घण्टः ॥

जीवधनं, क्ली, (जीव एव धनमिति ।) गवा-

दिकम् । इति त्रिकाण्डशेषः ॥

जीवनं, क्ली, (जीव्यतेऽनेनेति । जीव + करणे

ल्युट् ।) वृत्तिः । (यथा, भागवते । १ । १३ । ४४ ।
“अहस्तानि सहस्तानामपदानि चतुष्पदाम् ।
फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् ॥”
“जीवनं जीविकेति ॥” तट्टीकायां श्रीधरस्वामी ॥)
जलम् । (यथा, आर्य्यासप्तशत्याम् । ४६३ ।
“यमुनाया इव तस्याः सखि ! मलिनं जीवनं
मन्ये ॥”
जीव + भावे ल्युट् ।) प्राणधारणम् । इति
मेदिनी । ने, ६९ ॥ (यथा, हटयोगप्रदी-
पिकायाम् । २ । ३ ।
“यावद्वायुः स्थितो देहे तावज्जीवनमुच्यते ॥”
“प्राणान् हन्ति जगत्प्राणो जीवनं हन्ति
जीवनम् ।
किमाश्चर्य्यं क्षारभूमौ प्राणदा यमदूतिका ॥”
इत्युद्भटः ॥)
हैयङ्गवीनम् । इति शब्दचन्द्रिका ॥ मज्जा ।
इति राजनिर्घण्टः ॥ (गङ्गा । यथा, काशी-
खण्डे । २९ । ६५ ।
“जीवनं जीवनप्राणा जगज्ज्येष्ठा जगन्मयी ॥”)

जीवनः, पुं, (जीवयति सेवनादिना । जीव +

कर्त्तरि ल्युः ।) जीवकौषधम् । वातः । इति
राजनिर्घण्टः ॥ क्षुद्रफलकवृक्षः । इति शब्द-
चन्द्रिका ॥ पुत्त्रः । इति हेमचन्द्रः ॥ (सर्व्वान्
प्राणरूपेण जीवयतीति । जीव + णिच् + कर्त्तरि
ल्युः । विष्णुः । यथा, महाभारते । १३ । १४९ । ११२ ।
“वीरहा रक्षणः सन्तो जीबनः पर्य्यवस्थितः ॥”
शिवः । महाभारते । १३ । १७ । १२१ ।
“निर्जीवो जीवनो मन्त्रः शुभाज्ञो बहुकर्कशः ॥”)

जीवनकं, क्ली, (जीव्यतेऽनेन । जीव + करणे ल्युट् ।

ततः स्वार्थे कन् ।) अन्नम् । इति हेमचन्द्रः ॥

जीवनयोनिः, स्त्री, (जीवनस्य योनिः कारणम् ।)

यत्नविशेषः । स तु अतीन्द्रियः शरीरे प्राण-
सञ्चारकारणम् । इति भाषापरिच्छेदः ॥

जीवनहेतुः, पुं, (जीवनस्य हेतुरुपायः ।) वर्त्त-

नोपायः । स च दशविधः । यथा, --
“विद्या शिल्पं भृतिः सेवा गोरक्षं विपणिः कृषिः ।
वृत्तिर्भैक्षं कुशीदञ्च दश जीवनहेतवः ॥”
इति गारुडे २१४ अध्यायः ॥

जीवना, स्त्री, (जीवयतीति । जीव + णिच् + युच्

ल्युः वा ततष्टाप् ।) मेदौषधम् । इति मेदिनी ।
ने, ६९ ॥

जीवनाघातं, क्ली, (जीवनं आहन्त्यनेनेति । आ +

हन् + करणे घञ् ।) विषम् । इति शब्द-
चन्द्रिका ॥

जीवनावासः, पुं, (आवसत्यस्मिन् । आ + वस + घञ् ।

जीवनं जलं आवासोऽस्य ।) वरुणः । इति
शब्दरत्नावली ॥ (वारिवासिनि, त्रि ॥)

जीवनिका, स्त्री, (जीवन + ठन् । टाप् । यद्वा, जीवनी

+ संज्ञायां कन् ह्रस्वश्च ।) हरीतकी । इति राज-
पृष्ठ २/५४०
निर्घण्टः ॥ (हरीतकीशब्दे विवरणविशेषोऽस्याः
ज्ञातव्यः ॥)

जीवनी, स्त्री, (जीवत्यनेनेति । जीव + करणे ल्युट्

ङीप् च ।) जीवन्ती । (पर्य्याया यथा, --
“जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा ।
मङ्गल्यनामधेया च शाकश्रेष्ठा पयस्विनी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
काकोली । डोडी । मेदा । महामेदा । इति
राजनिर्घण्टः ॥ यूथी । इति शब्दचन्द्रिका ॥

जीवनीयं, क्ली, (जीव्यतेऽनेन अस्माद्बा । जीव +

करणे अपादाने वा अनीयर् ।) जलम् ।
इति हेमचन्द्रः ॥ (जीवनप्रदे, त्रि । यथा,
सुश्रुते । १ । ४५ ।
“गोक्षीरमनभिष्यन्दि स्निग्धं गुरु रसायनम् ।
जीवनीयं यथा वातपित्तप्नं परमं स्मृतम् ॥”)

जीवनीयगणः, पुं, (जीवनीयानामोषधीनां गणः ।)

औषधविशेषः । यथा, वैद्यकपरिभाषायाम् ।
“अष्टवर्गश्च पर्णिन्यौ जीवन्ती मधुकन्तथा ।
जीवनीयगणः प्रोक्तो जीवनस्तु पुनस्तया ॥”
(“जीवन्ती काकोल्यौ मेदे द्वे मुद्गमाषपर्ण्यौ च ।
ऋषभकजीवकमधुकं चेति गणो जीवनीयाख्यः ॥”
इति च वाभटे सूत्रस्थाने पञ्चदशेऽध्याये ॥)

जीवनीया, स्त्री, (जीवनीय + टाप् ।) जीवन्ती ।

इत्यमरः । २ । ४ । १४२ ॥

जीवनेत्री, स्त्री, (जीवं नयतीति । जीव + नी + तृच्

+ ङीप् च ।) सैंहली । इति राजनिर्घण्टः ॥

जीवनौषधं, क्ली, (जीवनस्य औषधं उपाय-

विशेषः ।) येन म्रियमाणो जीवति तदौषधम् ।
जीवरक्षाकारि । जीवनोपायः । तत्पर्य्यायः ।
जीवातः २ । इत्यमरः । २ । ९ । १२० ॥

जीवन्तः, पुं, (जीवयति जीव्यतेऽनेन वा । जीव +

“रुहिनन्दिजीविप्राणिभ्यः षिदाशिषि ।” उणां ।
३ । १२७ । इति झच् ।) औषधम् । प्राणः ।
आयुर्व्विशिष्टे, त्रि । इत्युणादिकोषः ॥ जीव-
शाकः । इति राजनिर्घण्टः ॥

जीवन्तिकः, पुं, (जीवान्तकः । पृषोदरात् साधुः ।)

जीवान्तकः । इत्यमरटीकासारमुन्दरी ॥

जीवन्तिका, स्त्री, (जीवयतीति । जीव + झच् + कन्

टाप् च । कापि अत इत्वम् ।) वन्दा । वृक्षो-
परिजातवृक्षः । गुडूची । जीवाख्यशाकः ।
इति मेदिनी । के, १९० ॥ जीवन्ती हरीतकी ।
इति राजनिर्घण्टः ॥

जीवन्ती, स्त्री, (जीवन्त + ङीष् ।) लताविशेषः ।

जीवै इति जीयाती इति च भाषा । तत्-
पर्य्यायः । जीवनी २ जीवनीया ३ जीवा ४
मधुः ५ । इत्यमरः । २ । ४ । १४२ ॥ जीवना ६
मधुस्रवा ७ स्रवा ८ । इति तट्टीका ॥ पय-
स्विनी ९ जीव्या १० जीवदा ११ जीवदात्री १२
शाकश्रेष्ठा १३ जीवभद्रा १४ भद्रा १५ मङ्गल्या
१६ क्षुद्रजीवा १७ यशस्या १८ शृङ्गाटी १९
जीवदृष्टा २० काञ्जिका २१ शशशिम्बिका २२
सुपिङ्गला २३ । इति राजनिर्घण्टः ॥ मधु-
श्वासा २४ जीववृषा २५ सुखङ्करी २६ मृग-
राटिका २७ जीवपत्री २८ जीवपुष्पा २९ ।
इति केचित् ॥ (यथा, --
“वरा शाकेषु जीवन्ती सर्षपास्त्ववराः परम् ॥”
इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥)
अस्या गुणाः । मधुरत्वम् । शीतत्वम् । रक्त-
पित्तवायुक्षयदाहज्वरनाशित्वम् । कफवीर्य्य-
विवर्द्धनत्वञ्च । इति राजनिर्घण्टः ॥ स्वादुत्वम् ।
स्निग्धत्वम् । त्रिदोषनाशित्वम् । रसायनत्वम् ।
बलकारित्वम् । चक्षुर्हितत्वम् । ग्राहित्वम् ।
लघुत्वञ्च । इति भावप्रकाशः ॥ श्वासकासधातु-
क्षयनाशित्वम् । स्वरकारित्वञ्च । सुराष्ट्रदेशज-
स्वर्णवर्णहरीतकी । सा स्नेहपाके प्रशस्ता
जीर्णरोगनाशिनी । इति राजवल्लभः ॥ (अस्याः
लक्षणं व्यवहरश्च यथा, --
“जीवप्रस्वर्णवर्णिनी ॥”
“जीवन्ती सर्व्वरोगहृत् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
शमी । गुडूची । (पर्य्याया यथा, --
“गुडूची मधुपर्णी स्यादमृतामृतवल्लरी ।
छिन्ना च्छिन्नरुहा च्छिन्नोद्भवा वत्सादनीति च ॥
जीवन्ती तन्त्रिका सोमा सोमवल्ली च कुण्डली ।
चक्रलक्षणिका धीरा विशल्या च रसायनी ॥
चन्द्रहासी वयस्था च मण्डली देवनिर्म्मिता ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
वन्दा । इति मेदिनी । ते, ११२ ॥ डोडी ।
इति राजनिर्घण्टः ॥ (जीव इति शाक-
विशेषः । शर्करावन्मधुरपुष्पा व्रततिः । अस्याः
पर्य्याया यथा, --
“जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा ।
मङ्गल्यनामधेया च शाकश्रेष्ठा पयस्विनी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

जीवन्मुक्तः, त्रि, (जीवन्नेव मुक्तः आत्मज्ञानेन

मायाबन्धरहितः ।) जीवद्दशायां मायाबन्ध-
रहितः । (यथा, देवीभागवते । १ । १६ । ४८ ।
“जीवन्मुक्तः स राजर्षिर्ब्रह्मज्ञानमतिः शुचिः ।
तथ्यवक्तातिशान्तश्च योगी योगप्रियः सदा ॥”)
तल्लक्षणं यथा । “स्वस्वरूपाखण्डशुद्धब्रह्मज्ञानेन
तदज्ञानबाधनद्बारा स्वस्वरूपाखण्डे ब्रह्मणि
साक्षात्कृते सति अज्ञानतत्कार्य्यसञ्चितकर्म्म-
संशयविपर्य्ययादीनामपि बाधितत्वादखिलबन्ध-
रहितो ब्रह्मनिष्ठः ।
‘भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्व्वसंशयाः ।
क्षीयन्ते चास्य कर्म्माणि तस्मिन् दृष्टे परावरे ॥’
इत्यादिश्रुतेः ।
अयन्तु व्युत्थानसमये मांसशोणितमूत्रपुरीषादि-
भाजनेन शरीरेण आन्ध्यमान्द्यापटुत्वादिभाज-
नेनेन्द्रियग्रामेण अशनायापिपासाशोकमोहादि-
भाजनेनान्तःकरणेन च तत्तत्पूर्ब्बपूर्ब्बवासनया
क्रियमाणानि कर्म्माणि भुज्यमानानि ज्ञाना-
विरुद्धान्यारब्धफलानि च पश्यन्नपि बाधितत्वात्
परमार्थतो न पश्यति । यथा इदमिन्द्रजाल-
मिति ज्ञानवान् तदिन्द्रजालं पश्यन्नपि परमार्थ-
मिदमिति न पश्यति । सचक्षुरचक्षुरिव सकर्णो-
ऽकर्ण इव समना अमना इव सप्राणोऽप्राण
इव इत्यादिश्रुतेः । उक्तञ्च ।
‘सुषुप्तवज्जाग्रति यो न पश्यति
द्वयञ्च पश्यन्नपि चाद्वयत्वतः ।
तथापि कुर्व्वन्नपि निष्क्रियश्च यः
स आत्मविन्नान्य इतीह निश्चयः ॥’ इति ।
अस्य ज्ञानात् पूर्ब्बं विद्यमानानामेवाहार-
विहारादीनां अनुवृत्तिवच्छुभवासनानामेवानु-
वृत्तिर्भवति । शुभाशुभयोरौदासीन्यं वा । तदु-
क्तम् ।
‘बुद्धाद्वैतसतत्त्वस्य यथेष्टाचरणं यदि ।
शुनां तत्त्वदृशाञ्चैव को भेदोऽशुचिभक्षणे ॥
ब्रह्मवित्त्वं तथामुक्त्रा स आत्मज्ञो न चेतरः’ इति ।
तदानीममानित्वादीनि ज्ञानसाधनान्यद्वेष्टृत्वा-
दयः सद्गुणाश्चालङ्कारवदनुवर्त्तन्ते । तदुक्तम् ।
‘उत्पन्नात्मावबोधस्य ह्यद्बेष्टृत्वादयो गुणाः ।
अयत्नतो भवन्त्यस्य न तु साधनरूपिणः ॥’ इति ।
किं बहुना अयं देहयात्रामात्रार्थमिच्छानिच्छा-
परेच्छाप्रापितानि सुखदुःखलक्षणान्यारब्ध-
फलान्यनुभवन्नन्तःकरणाभासादीनामवभासकः
सन् तदवसाने प्रत्यगानन्दपरब्रह्मणि प्राणे
लीने सति अज्ञानतत्कार्य्यसंस्काराणामपि
विनाशात् परमकैबल्यमानन्दैकरसमखिलभेद-
प्रतिभासरहितमखण्डं ब्रह्मावतिष्ठते । न तस्य
प्राणा उत्क्रामन्त्यत्रैव समवलीयन्ते विमुक्तश्च
विमुच्यते । इत्येवमादिश्रुतेः ।” इति वेदान्त-
सारः ॥

जीवपुत्त्रकः, पुं, (जीवः प्राणन् पुत्त्र इव । पुत्त्र-

वद्धर्षजनकत्वात् तथात्वम् । इवार्थे कन् ।) इङ्गुदी-
वृक्षः । इति शब्दरत्नावली ॥ वृक्षविशेषः ।
इत्यमरटीकायां रमानाथः ॥ जीयापुता इति
भाषा ॥

जीवपुष्पा, स्त्री, (जीवयतीति । जीव + णिच् +

अच् । जीवं प्राणदं पुष्पमस्याः ।) बृह-
ज्जीवन्ती । इति राजनिर्घण्टः ॥

जीवप्रिया, स्त्री, (जीवानां प्राणिनां प्रिया

हितकारित्वात् ।) हरीतकी । इति राज-
निर्घण्टः ॥

जीवभद्रा, स्त्री, (जीवानां प्राणिनां भद्रं मङ्गलं

यस्याः ।) जीवन्तीलता । वृद्धिनामौषधम् ।
इति राजनिर्घण्टः ॥

जीवमन्दिरं, क्ली, (जीवस्य आत्मनो मन्दिरं गृह-

मिव ।) शरीरम् । इति शब्दचन्द्रिका ॥

जीवला, स्त्री, (जीवं उदरस्थकृमिं लाति गृह्णाति

नाशयतीति । ला + “आतोऽनुपसर्गे कः ।”
३ । २ । ३ । इति कः ।) सैंहली । इति राज-
निर्घण्टः ॥

जीववल्ली, स्त्री, (जीवयतीति जीवा प्राणदात्री ।

सा चासौ वल्ली चेति ।) क्षीरकाकोली । इति
राजनिर्घण्टः ॥
पृष्ठ २/५४१

जीवशाकः, पुं, (जीवो हितकरः शाकः । जीवाख्यः

शाको वा ।) मालवे प्रसिद्धशाकविशेषः । तत्-
पर्य्यायः जीवन्तः २ रक्तनालः ३ ताम्रपत्रः ४
प्रवालः ५ शाकवीरः ६ सुमधुरः ७ मेषकः ८ ।
अस्य गुणाः । सुमधुरत्वम् । बृंहणत्वम् । वस्ति-
शोघनत्वम् । दीपनत्वम् । पाचनत्वम् । बल्य-
त्वम् । वृष्यत्वम् । पित्तापहारकत्वञ्च । इति
राजनिर्घण्टः ॥

जीवशुक्ला, स्त्री, (जीवयतीति । जीव + णिच् +

अच् । जीवा हितकरी शुक्ला शुभ्रवर्णलता ।)
क्षीरकाकोली । इति राजनिर्घण्टः ॥

जीवश्रेष्ठा, स्त्री, (जीवाय जीवनाय श्रेष्ठा ।)

ऋद्धिनामौषधम् । इति राजनिर्घण्टः ॥

जीवसंज्ञः, पुं, (जीव इति संज्ञा यस्य । यद्बा,

जीवस्य संज्ञा आख्या संज्ञा यस्य ।) कामवृद्धि-
वृक्षः । इति राजनिर्घण्टः ॥

जीवसाधन, क्ली, (जीवस्य जीवनस्य साधनं कार-

णम् ।) धान्यम् । इति राजनिर्घण्टः ॥

जीवसूः, स्त्री, (जीवं प्राणिनं सूते इति । सू +

क्विप् ।) जीवत्तोका । जीवत्पुत्त्रिका । हेमचन्द्रः ।
३ । १९४ ॥ (यथा, महाभारते । १ । २०० । ७ ।
“जीवसूर्वीरसूर्भ्रद्रे ! बहुसौख्यगुणान्विता ।
सुभगा भागसम्पन्ना यज्ञपत्नी पतिव्रता ॥”)

जीवस्थानं, क्ली, (जीवस्य जीवनस्य स्थानम् ।)

मर्म्म । इति हलायुधः ॥

जीवा, स्त्री, (जीवयतीति । जीव + णिच् + अच् ।

ततष्टाप् ।) जीवन्तीवृक्षः । मौर्व्वी । (यथा,
आर्य्यासप्तशत्याम् । ३ । २१ ।
“निर्गुण इति मृत इति च द्वावेकार्थाभिधायिनौ
विद्धि ।
पश्य धनुर्गुणशून्यं निर्ज्जीवं तदिह शंसन्ति ॥”
“निर्गता जीवा ज्या यस्मात् तत् । ‘जीवा ज्या
शिञ्जिनीत्यपि’ इत्यभिधानात् ।” इति तट्टीका ॥)
वचा । शिञ्जितम् । भूमिः । इति मेदिनी । वे, ८ ॥
जीवितम् । इति जटाधरः ॥

जीवातुः, पुं, क्ली, (जीवत्यनेनेति । जीव + “जीवे-

रातुः ।” उणां । १ । ८० । इति करणे आतुः ।)
भक्तम् । जीवनौषधम् । (यथा, काशीखण्डे ।
२९ । ६५ ।
“जीवजीवातुलतिका जन्मिजन्मनिवर्हिणी ॥”
“जीवानां प्राणिनां जीवनौषधरूपा ।” इति
तट्टीका ॥ * ॥ (जीव + भावे आतुः ।) जीवितम् ।
इति मेदिनी । ते, ११२ ॥ (यथा, उत्तरराम-
चरिते २ अङ्के ।
“रे हस्त दक्षिण ! मृतस्य शिशोर्द्विजस्य
जीवातवे विसृज शूद्रमुनौ कृपाणम् ।
रामस्य गात्रमसि दुर्व्वहगर्भखिन्न-
सीताविवासनपटोः करुणा कुतस्ते ॥”)

जीवात्मा, [न्] पुं, (जीवस्य जीवनस्य आत्मा

अधिष्ठाता । यद्बा, जीवश्चासौ आत्मा चेति
कर्म्मधारयः ।) देही । तत्पर्य्यायः । पुनर्भवी २
जीवः ३ असुमान् ४ सत्त्वम् ५ देहभृत् ६
जन्तुः ७ जन्युः ८ । इति हेमचन्द्रः ॥ प्राणी ९
चेतनः १० जन्मी ११ शरीरी १२ । इत्यमरः ।
१ । ४ । ३० ॥ (यथा, भागवते । ८ । २२ । २५ ।
“यदा कदाचित् जीवात्मा संसरन्निजकर्म्मभिः ।
नानायोनिष्वनीशोऽयं पौरुर्षां गतिमाव्रजेत् ॥”
“एवं चतुर्व्विंशतिभिस्तत्त्वैः सिद्धे वपुर्गृहे ।
जीवात्मा नियतो नित्यं वसति स्वात्मदूतवान् ॥
स देही कथ्यते पापपुण्यदुःखसुखादिभिः ।
व्याप्तो बद्धश्च मनसा कृत्रिमैः कर्म्मबन्धनैः ॥
कामक्रोधौ लोभमोहावहङ्कारश्च पञ्चमः ।
दशेन्द्रियाणि बुद्धिश्च तस्य बन्धाय देहिनः ॥
आप्नोति बन्धमज्ञानादात्मज्ञानाच्च मुच्यते ॥”
इति पूर्ब्बखण्डे पञ्चमेऽध्याये शार्ङ्गधरेणोक्तम् ॥)

जीवाधारः, पुं, (जीवस्य क्षेत्रज्ञस्य आधारः

आश्रयस्थानम् ।) क्षेत्रम् । इति हेमचन्द्रः ॥

जीवान्तकः, पुं, (जीवं अन्तयति नाशयतीति ।

अन्त + णिच् + ण्वुल् ।) जीवनार्थं पक्षि-
घातकः । तत्पर्य्यायः । शाकुनिकः २ । इत्य-
मरः । २ । १० । १४ ॥ जीवनाशके, त्रि ॥

जीवाला, स्त्री, (जीवं उदरस्थकृमिं आलाति

गृह्णाति नाशयतीत्यर्थः । आ + ला + कः ।)
सैंहिली । इति राजनिर्घण्टः ॥

जीविका, स्त्री, (जीव्यतेऽनयेति । जीव + “गुरीश्च

हलः ।” ३ । ३ । १०३ । इत्यः । ततः संज्ञायां कन्
टापि अत इत्वञ्च ।) जीवनोपायः । तत्पर्य्यायः ।
आजीवः २ वार्त्ता ३ वृत्तिः ४ वर्त्तनम् ५ जीव-
नम् ६ । इत्यमरः । २ । ९ । १ ॥ जीवः ७ ।
इति शब्दरत्नावली ॥ (यथा, मनुः । ४ । ११ ।
“अजिह्मामशठां शुद्धां जीवेद्ब्राह्मण-
जीविकाम् ॥”)
जीवन्ती । इति मेदिनी । के, ९५ ॥

जीवितं, क्ली, (जीव + भावे क्तः ।) जीवनम् ।

इति हेमचन्द्रः ॥ (यथा, उत्तररामचरिते ३ अङ्के ।
“त्वं जीवितं त्वमसि मे हृदयं द्वितीयं
त्वं कौमुदी नयनयोरमृतं त्वमङ्के ।
इत्यादिभिः प्रियशतैरनुरुद्ध्य मुग्धां
तामेव, शान्तमथवा किमिहोत्तरेण ॥” * ॥
कर्त्तरि क्तः ।) जीवनयुक्ते, त्रि ॥ (यथा, रघुः ।
१२ । ७५ ।
“कामं जीवति मे नाथ इति सा विजहौ
शुचम् ।
प्राङ्मत्वा सत्यमस्यान्तं जीवितास्मीति
लज्जिता ॥”)

जीवितकालः, पुं, (जीवितस्य जीवनस्य कालः ।)

आयुः । इत्यमरः । २ । ८ । १२० ॥

जीवितज्ञा, स्त्री, (जीवितस्य जीवनस्य ज्ञा ज्ञानं

यस्याः । नाडीस्पन्दनेन हि जीवानां जीवनज्ञाना-
दस्यास्तथात्वम् ।) नाडी । इति राजनिर्घण्टः ॥

जीवितेशः, पुं, (जीवितस्य ईशः प्रभुः ।) प्राण-

नाथः । यमः । (यथा, रघुः । ११ । २० ।
“राममन्मथशरेण ताडिता
दुःसहेन हृदये निशाचरी ।
गन्धवद्रुधिरचन्दनोक्षिता
जीवितेशवसतिं जगाम सा ॥”
“जीवितेशस्य अन्तकस्य प्राणेश्वरस्य च वसतिं
जगाम ।” इति तट्टीकायां मल्लिनाथः ॥)
चन्द्रः । सूर्य्यः । इति शब्दरत्नावली ॥ जीवातुः ।
इति हेमचन्द्रः ॥ जीवितेश्वरे, त्रि । इति
मेदिनी । शे, ३५ ॥

जीवी, [न्] पुं, (जीवोऽस्त्यस्येति । जीव +

इनिः ।) प्राणी । यथा, ब्रह्मवैवर्त्ते गणेशखण्डे ।
“जीविनां दारुणो रोगः कर्म्मभोगः शुभाशुभः ।
भक्तो वैद्यस्तं निहन्ति कृष्णभक्तिरसायनात् ॥”

जीव्या, स्त्री, (जीवाय जीवनाय हिता । जीव +

यत् ।) गोक्षुरदुग्धा । जीवन्ती । हरीतकी ।
इति राजनिर्घण्टः ॥

जु, रंहसि । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-अनिट् ।) रंहो वेगगतिः । जवति घोटकः ।
इति दुर्गादासः ॥

जु, ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-

सकं-अनिट् ।) ङ, जवते । इति दुर्गादासः ॥

जुग, इ त्यागे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) इ, कर्म्मणि जुङ्ग्यते । इति दुर्गादासः ॥

जुगुप्सनं, क्ली, (गुप + स्वार्थे सन् + ल्युट् ।) निन्दा ।

इति हेमचन्द्रः । २ । १८५ ॥ (निन्दाशीले, त्रि । तत्र
“अनुदात्तेतश्च हलादेः ।” ३ । २ । १४९ । इति
युच् ॥)

जुगुप्सा, स्त्री, (गुप निन्दायाम् + सन् + भावे अ-

स्ततष्टाप् ।) निन्दा । इत्यमरः । १ । ६ । १३ ॥
(यथा, साहित्यदर्पणे । ३ । १७६ ।
“दोषेक्षणादिभिर्गर्हा जुगुप्सा विषयोद्भवा ॥”)

जुङ्गः, पुं, (जुगि + अच् ।) वृद्धदारकः । इत्य-

मरः । २ । ४ । १३७ ॥ (यथास्य पर्य्यायाः ।
“जुङ्गर्क्ष्यगन्धाच्छगलान्त्र्यावेगी वृद्धदारकः ॥”
इति वैद्यकरत्नमालायाम् ॥)

जुङ्गकः, पुं, (जुङ्ग + स्वार्थे कन् ।) वृद्धदारकवृक्षः ।

इति राजनिर्घण्टः ॥

जुङ्गा, स्त्री, (जुङ्ग + टाप् ।) जुङ्गः । इत्यमर-

टीकायां रमानाथः ॥

जुङ्गितः, त्रि, (जुग इ त्यागे + कर्म्मणि क्तः ।)

त्यक्तः । इति व्याकरणम् ॥

जुटकं, क्ली, (जुट् संहतौ + “इगुपधेति ।” ३ ।

१ । १३५ । इति कः । ततः संज्ञायां कन् ।)
जटा । इति शब्दरत्नावली ॥

जुटिका, स्त्री, (जुटक + टाप् । टापि अत

इत्वञ्च ।) शिखा । इति शब्दरत्नावली ॥ झुँटी
इति टिकी । इति च भाषा ॥ (यथा,
आह्निकतत्त्वधृतब्रह्मपुराणवचनम् ।
“जुटिकाञ्च ततो बद्ध्वा ततः कर्म्म समारभेत् ॥”)

जुड, क नोदे । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) क, जोडयति । नोदः प्रेर-
णम् । इति दुर्गादासः ॥

जुड, श गतौ । इति कविकल्पद्रुमः ॥ (तुदां-परं-सकं-

सेट् ।) श, जुडति जोडिता । इति दुर्गादासः ॥
पृष्ठ २/५४२

जुड, शि बन्धे । इति कविकल्पद्रुमः ॥ (तुदां-

परं-सकं-सेट् ।) शि, जुडति अजुडीत् । तानु-
च्छृङ्खलतापन्नान् शृङ्खलेन जुडत्यसौ । जुजोड ।
इति दुर्गादासः ॥

जुत, ऋ ङ दीप्तौ । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-अकं-सेट् ।) ऋ, अजुजोतत् । ङ,
जोतते । इति दुर्गादासः ॥

जुन, श गतौ । इति कविकल्पद्रुमः ॥ (तुदां-

परं-सकं-सेट् ।) श, जुनति जोनिता । इति
दुर्गादासः ॥

जुर्व्व, ई वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) ह्नस्वी । जूः जुरौ जुरः । ई, जूर्णः ।
इति दुर्गादासः ॥

जुल, क पिषि । इति कविकल्पद्रुमः ॥ (चुरां-परं-

सकं-सेट् ।) क, जोलयति । पिषि चूर्णीकरणे ।
इति दुर्गादासः ॥

जुष, कि तर्के । तृप्तौ । इति कविकल्पद्रुमः ॥

(चुरां पक्षे भ्वां-परं-सकं-अकं च-सेट् ।) कि,
जोषयति जोषत्यन्यगुणं सुधीः । तर्कयतीत्यर्थः ।
इति दुर्गादासः ॥

जुष, श ङ ई ञि मुदि । सेवे । इति कविकल्प-

द्रुमः ॥ (तुदां-आत्मं अकं-सकं च-सेट् ।) पञ्चम-
स्वरी । श ङ, जुषते । ई ञि, जुष्टोऽस्ति ।
मुदि हर्षे । इति दुर्गादासः ॥

जुष्ककः, पुं, (जुष् + कक् । ततः संज्ञायां कन् ।)

यूषः । इति शब्दचन्द्रिका ॥

जुष्टं, क्ली, (जुष्यते स्म इति । जुष + क्तः ।) उच्छि-

ष्टम् । सेविते, त्रि । इति मेदिनी । टे, १५ ॥
(यथा, भट्टिः । १ । ४ ।
“पुण्यो महाब्रह्मसमूहजुष्टः
सन्तर्पणो नाकसदां वरेण्यः ॥”)

जुष्यः, त्रि, (जुष् + कर्म्मणि क्यप् ।) सेव्यः ।

इति मुग्धबोधम् ॥

जुहुवानः, पुं, (हूयते इति । हु + कर्म्मणि कानच् ।)

कठिनहृदयः । अग्निः । वृक्षः । इति संक्षिप्त-
सारे उणादिवृत्तिः ॥

जुहूः, स्त्री, (जुहोत्यनया । इति हु + “हुवः

श्लुवच्च ।” उणां । २ । ६० । इति क्विप् निपातनात्
दीर्घत्वं द्वित्वञ्च ।) पलाशकाष्ठनिर्म्मितार्द्धचन्द्रा-
कृतियज्ञपात्रम् । जुहोत्यनया जुहूः । इत्यमर-
भरतौ ॥ (यथा, ऋग्वेदे । १ । ७६ । ५ ।
“अग्ने ! मन्त्रया जुह्वा यजस्व ॥”)

जुहूराणः, पुं, (जुह्वं रणति इति । “कर्म्मण्यण् ।”

३ । २ । १ । इत्यण् ।) अग्निः । अध्वर्य्युः । इति
विश्वः ॥ चन्द्रः । इत्युणादिकोषः ॥

जुहूवान्, [त्] पुं, (जुहूः पात्रं होमक्रियोद्देश्य-

तयास्त्यस्मिन् । जुहू + मतुप निपातनात् मस्य
वत्वम् ।) अग्निः । इति शब्दरत्नावली ॥

जूः, स्त्री, (जु + “क्विब्वचिप्रच्छीति ।” उणां । २ ।

५७ । क्विप् दीर्घश्च ।) आकाशः । सरस्वती ।
पिशाची । जवनम् । इति शब्दरत्नावली ॥ त्वरा-
गमनम् । गमनम् । इति मेदिनी । जे, २ ॥

जूटः, पुं, (जट सङ्घाते + अच् निपातनादूत्वागमे

साधुः ।) शिवजटा । इत्यमरटीकायां भरतः ।
जटा । इति शब्दरत्नावली ॥

जूटकं, क्ली, (जूट + स्वार्थे कन् ।) केशबन्धः ।

जटा । इति भूरिप्रयोगः ॥

जूतिः, स्त्री, (जु वेगे + “ऊतियूतिजूतीति ।”

३ । ३ । ९७ । इति क्तिन् निपातनात् दीर्घत्वञ्च ।)
वेगः । इत्यमरः । ३ । २ । ३९ ॥ (यथा, अथर्व्व-
वेदे । १३ । २ । १३ ।
“तं समाप्नोति जूतिभिः ॥”)

जूतिका, स्त्री, (जूत्या कायतीति । कै + कः ।

तत ष्टाप् ।) कर्पूरभेदः । इति राजनिर्घण्टः ॥

जूर, ङ य ई ज्यानौ । वधे । इति कविकल्पद्रुमः ॥

(दिवां-आत्मं-अकं-सकं-च-सेट् ।) दीर्घी । ङ
य, जूर्य्यते । ई, जूर्णः । ज्यानिर्गतबहुवयोभावः ।
इति दुर्गादासः ॥

जूर्णाख्यः, पुं, (जूर + क्तः । जूर्ण इति आख्या यस्य ।)

तृणविशेषः । उलू इति भाषा ॥ तत्पर्य्यायः ।
सूच्यग्रः २ स्थूलकः ३ दर्भः ४ खरच्छदः ५ ।
इति रत्नमाला ॥ उलूकम् ६ उलपः ७ । इति
केचित् ॥

जूर्णाह्वयः, पुं, (जूर्ण इति आह्वयः आख्या यस्य ।)

देवधान्यम् । इति हेमचन्द्रः ॥

जूर्णिः, स्त्री, (ज्वर + “वीज्याज्वरिभ्यो निः ।”

उणां । ४ । ४८ । इति निः । “ज्वरत्वरेति ।” ६ ।
४ । २० । इत्यूट् च ।) वेगः । इत्युणादिकोषः ॥
आदित्यः । देहः ब्रह्मा । ज्वरः । इति संक्षिप्त-
सारे उणादिवृत्तिः ॥

जूर्त्तिः, स्त्री, (ज्वर् + भावे क्तिन् । “ज्वरत्वरे-

त्यादिणा” ऊट्च ।) ज्वरः । इत्यमरः । ३ । २ । ३९ ॥

जूष, ञ वधे । इति कविकल्पद्रुमः ॥ (भ्वां-उभं-

सकं-सेट् ।) षष्ठस्वरी । ञ, जूषति जूषते ।
परस्मैपदीत्यन्ये । इति दुर्गादासः ॥

जूषं, क्ली, पुं, (यूष + पृषोदरात् साधुः ।) यूषम् ।

मुद्गादिक्वाथरसः । इति लिङ्गादिसंग्रहटीकायां
भरतः ॥

जूषणं, क्ली, (जूष्यतेऽनेनेति । जूष + करणे ल्युट् ।)

वृक्षविशेषः । इति शब्दचन्द्रिका ॥ धाइफुल
इति भाषा ॥

जृ, न्यक्कारे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-अनिट् ।) न्यक्कारस्तिरस्करणम् । जरति
शत्रुं शूरः । इति दुर्गादासः ॥

जृभ, इ ङ जृम्भे । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-अकं-सेट् ।) सप्तमस्वरी । इ, जृम्भ्यते ।
ङ, जृम्भते । इति दुर्गादासः ॥

जृभ, ङ ई जृम्भे । गात्रशैथिल्य इति यावत् ।

इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-अकं-सेट् ।)
ङ, जर्भते । ई, जृब्धः । इति दुर्गादासः ॥

जृम्भः, पुं क्ली, (जृम्भ + भावे घञ् ।) मुखादिविकाशः ।

हाइ इति भाषा ॥ तत्पर्य्यायः । जृम्भणम् २
जृम्भा ३ जृम्भिका ४ । इति शब्दरत्नावली ॥
जम्भा ५ जम्भका ६ । इति राजनिर्घण्टः ॥
(अस्य लक्षणं यथा, सुश्रुते । ३ । ४ ।
“निद्रार्त्तस्येव यस्येहा तस्य तन्द्रां विनिर्द्दिशेत् ।
पीत्वैकमनिलोच्छासमद्वेष्टन् विवृताननः ॥
यन्मुञ्चति सनेत्रास्रं स जृम्भ इति संज्ञितः ॥”)
“जृम्भात्यर्थं समीरणात् ।” इति वैद्यकम् ॥
“क्षुदुत्पतनजृम्भेषु जीवोत्तिष्ठाङ्गुलिध्वनिः ।
अवश्यमेव कर्त्तव्यश्चान्यथा तद्बधी भवेत् ॥”
इति कर्म्मलोचनम् ॥ * ॥
विकाशः । स्फारितः । इति शब्दरत्नावली ॥
(यथा, प्रबोधचन्द्रोदये । ४ । २८ । “एताश्च प्रति-
मुकुललग्नमधुपावलीरणितमुखरा जृम्भारम्भ-
भरविगलन्मकरन्ददुर्द्दिनाः कुसुमसुरभयः ॥”)

जृम्भणं, क्ली, (जृम्भ + भावे ल्युट् ।) जृम्भः । इत्य-

मरः । १ । ७ । ३५ ॥ (यथा, सुश्रुते । ३ । ४ ।
“इन्द्रियार्थेष्वसंप्राप्तिर्गौरवं जृम्भणं क्लमः ॥”)

जृम्भा, स्त्री, (जृम्भ + भावे घञ् ततष्टाप् ।)

जृम्भः । इति शब्दरत्नावली ॥ (यथा, देवी-
भागवते । १ । १५ । ६१ ।
“तुष्टिः पुष्टिः क्षमा लज्जा जम्भा तन्त्रा च
शक्तयः ॥”)

जृम्भिका, स्त्री, (जृम्भा + स्वार्थे कन् टापि अत

इत्वञ्च ।) जृम्भः । इति शब्दरत्नावली ॥
(निद्रावेगधारणजनितरोगविशेषः । यथा, वाभटे
सूत्रस्थाने चतुर्थेऽध्याये ।
“निद्राया मोहमूर्द्धाक्षिगौरवालस्यजृम्भिकाः ।
अङ्गमर्द्दश्च तत्रेष्टः स्वप्नः संवाहनानि च ॥”
जृम्भ + णिच् + ण्वुल् । टापि अत इत्वम् ।
जृम्भणकारकोऽस्त्रविशेषः । यथा, महाभारते ।
५ । ९ । ५२ ।
“असृजंस्ते महासत्त्वा जृम्भिकां वृत्तनाशि-
नीम् ॥”)

जृम्भितं, क्ली, (जृभि + भावे क्तः ।) विचेष्टितम् ।

प्रवृद्धम् । जृम्भा । स्फुटितम् । इति हेमचन्द्रः ॥
(यथा, कथासरिसागरे । २६ । ८९ ।
“अहो कि मे तदाश्चर्य्यमायाडम्बरजृम्भितम् ॥”)
स्त्रीणां करणम् । इति मेदिनी । ते, ११२ ॥

जृम्भिणी, स्त्री, (जृभि + णिनिः ।) एलापर्णी ।

इति शब्दचन्द्रिका ॥ (एलापर्णीशब्देऽस्या
विशेषो ज्ञेयः ॥)

जॄ, इर् ष म य ज्याने । इति कविकल्पद्रुमः ॥

(दिवां-परं-अकं-अनिट् ।) इर्, अजरत् अजा-
रीत् । ष, जरा । म, जरयति । य, जीर्य्यति ।
ज्यानं गतबहुवयोभावः । इति दुर्गादासः ॥

जॄ, गि कि ज्याने । इति कविकल्पद्रुमः ॥ (क्र्यां-

चुरांपक्षे भ्वां-च-परं-अकं-नेट् ।) गि, जॄणाति
जीर्णः जीर्णिः । कि, जारयति जरति । इति
दुर्गादासः ॥