पृष्ठ २/५९८

तरान्धुः, पुं, (तराय तरणाय तरे तरणे वा

अन्धुरिव अतिगभीरमध्यदेशत्वात् तथात्वम् ।)
नौकाविशेषः । भड इति भाषा । तत्पर्य्यायः ।
होडः २ वहनम् ३ वार्व्वटः ४ वहित्रम् ५ ।
इति त्रिकाण्डशेषः ॥

तरालुः, पुं, (तराय तरणार्थं अलति पर्य्याप्नोतीति ।

अल + उन् ।) नौकाविशेषः । इति हारावली ॥

तरिः, स्त्री, (तरत्यनया इति । तॄ + “अच इः ।”

उणां । ४ । १३८ । इति इः ।) नौका । इत्य-
मरः । १ । १० । १० ॥ (यथा, महाभारते । १ ।
१०० । ४८ ।
“साब्रवीद्दाशकन्यास्मि धर्म्मार्थं वाहये तरिम् ॥”)
दशा । वस्त्रादिपेटकः । इति हेमचन्द्रः ॥

तरिकः, पुं, (तराय तरणाय हितः । तॄ + ठन् ।)

प्लवः । इति त्रिकाण्डशेषः ॥ (तरणे तरण-
निमित्तकदेयशुल्केऽधिकारोऽस्त्यस्य । तरण-
शुल्कग्रहणाधिकारी । यथा, याज्ञवल्क्ये । २ ।
२६६ ।
“तरिकः स्थलजं शुल्कं गृह्नन् दाप्यः पणान् दश ॥”)

तरिका, स्त्री, (तरिक + टाप् ।) नौका । इति

शब्दरत्नावली ॥

तरिणी, स्त्री, (तरस्तरणं कृत्यत्वेनास्त्यस्याः

इति इनिः ङीप् च ।) नौका । इति हेमचन्द्रः ॥

तरिता, स्त्री, (तर + इतच् ।) तर्ज्जनी । इति

शब्दचन्द्रिका ॥ गृञ्जनम् । गाँजा इति भाषा ।
यथा, कुलार्णवतन्त्रे ।
“सम्बिदा कालकूटञ्च ताम्रकूटञ्च धुस्तुरम् ।
अहिफेनं खर्ज्जुरसस्तारिका तरिता तथा ॥”

तरिरथः, पुं, (तरेर्नौकाया रथ इव तत्परि-

चालनात्तथात्वम् ।) अरित्रम् । इति हारा-
वली ॥

तरीः, स्त्री, (तरत्यनया इति । तॄ + “अवितॄस्तृ-

तन्त्रिभ्य ईः ।” उणां । ३ । १५८ । इति ईः ।)
नौका । (यथा, माघे । ३ । ७६ ।
“तरीषु तत्रत्यमफल्गुभाण्डम् ॥”)
गदा । वस्त्रादिपेटकः । इत्युणादिकोषः ॥
धूमः । इति त्रिकाण्डशेषः ॥ द्रोणी । इति
जटाधरः ॥ दशा । इति मेदिनी । रे, ४० ॥

तरीषः, पुं, (तॄ + “कृतॄभ्यामीषण् ।” उणां । ४ ।

२६ । इति ईषण् ।) शोभनाकारः । भेलः ।
व्यवसायः । इत्युणादिकोषः ॥ समुद्रः । समर्थः ।
इति संक्षिप्तसारे उणादिवृत्तिः ॥ स्वर्गः । इति
मेदिनी । षे, ३७ ॥

तरीषी, स्त्री, (तरीष + संज्ञायां ङीष् ।) इन्द्र-

कन्या । इति मेदिनी । षे, ३८ ॥

तरुः, पुं, (तरति समुद्रादिकमनेनेति । तॄ +

“भृमृशीतॄचरीति ।” उणां । १ । ७ । इति
उः ।) वृक्षः । इत्यमरः । २ । ४ । ५ ॥ (यथा,
रघुः । ३ । ७० ।
“मुनिवनतरुच्छायां देव्या तया सह शिश्रिये ॥”)

तरुकूणिः, पुं, (तरौ वृक्षे कूणयतीति । कूण +

इन् ।) वाग्गुदपक्षी । इति त्रिकाण्डशेषः ॥

तरुजीवनं, क्ली, (तरोर्जीवनं जीवनकारणम् ।)

वृक्षमूलम् । इति शब्दचन्द्रिका ॥

तरुणं, क्ली, (तॄ + “त्रो रश्च लो वा ।” उणां । ३ ।

५४ । इति उनन् ।) कुब्जपुष्पम् । इति मेदिनी ।
णे, ४९ ॥

तरुणः, पुं, (तॄ + उनन् ।) स्थूलजीरकः । एरण्डः ।

इति राजनिर्घण्टः ॥

तरुणः, त्रि, (तरति प्लवते प्रमोदसलिले इति ।

तॄ + त्रो रश्च लो वा ।” उणां । ३ । ५४ । इति
उनन् ।) युवा । इति मेदिनी । णे, ४९ ।
(यथा, महाभारते । १ । ४० । २६ ।
“तरुणस्तस्य पुत्त्रोऽभूत्तिग्मतेजा महातपाः ॥”)
नूतनः । इति धरणिः ॥ (यथा, छन्दोमञ्जर्य्याम् ।
“तरुणं सर्षपशाकं नवौदनं पिच्छिलानि
दधीनि ।
स्वल्पव्ययेन सुन्दरि ! ग्राम्यजनोमिष्टमश्नाति ॥”)

तरुणज्वरः, पुं, (तरुणश्चासौ ज्वरश्चेति ।) सप्ता-

हावधिज्वरः । (यथा, चक्रदत्तः ।
“आसप्तरात्रं तरुणं ज्वरमाहुर्म्मनीषिणः ॥”

तरुणदधि, क्ली, (तरुणं तरुणलक्षणोक्तं दधीति ।)

पञ्चदिनातीतदधि । इति वैद्यकम् ॥
“शुष्कं मांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि ।
प्रभाते मैथुनं निद्रा सद्यःप्राणहराणि षट् ॥”
इति चाणक्ये । ६४ ॥

तरुणी, स्त्री, (तरुण + गौरादित्वात् ङीष् ।)

द्बितीयवयाः स्त्री । (यथा, --
“ततस्तु तरुणी ज्ञेया द्बात्रिंशद्बत्सरावधि ।
निदाघशरदोर्बाला हिता विषयिणी मता ॥
तरुणी शीतसमये ॥”
‘नित्यम्बाला सेव्यमाना नित्यं वर्द्धयते बलम् ।
तरुणी ह्नासयेच्छक्तिम् ॥”
“वृद्धोऽपि तरुणीं गत्वा तरुणत्वमवाप्नुयात् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
भूयोभूयः प्रवर्त्तमानरजाः स्त्री । इत्यमरटीका-
सारसुन्दरी ॥ तत्पर्य्यायः । युवती २ । इत्य-
मरः । २ । ६ । ८ ॥ तलुनी ३ युवतिः ४ । इति
भरतः ॥ यूनी ५ दिक्करी ६ धनिका ७
धनीका ८ । इति शब्दरत्नावली ॥ गृहकन्या ।
दन्तीवृक्षः । चीडानामगन्धद्रव्यम् । पुष्पविशेषः ।
सेउती इति भाषा ॥ तत्पर्य्यायः । सहा २
कुमारी ३ गन्धाढ्या ४ चारुकेशरा ५ भृङ्गेष्टा ६
रामतरुणी ७ सुदला ८ बहुपत्रिका ९ भृङ्ग-
वल्लभा १० । इति राजनिर्घण्टः ॥ सेवती ११ ।
यथा, नारसिंहपुराणे ।
“चम्पकात् पुष्पशतकादशोकं पुष्पमुत्तमम् ।
अशोकात् पुष्पसाहस्रात् सेवतीपुष्पमुत्तमम् ।
सेवतीपुष्पसाहस्रात् कुब्जकं पुष्पमुत्तमम् ॥”
(यथा, भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
“शतपत्री तरुण्युक्ता कर्णिका चारुकेशरा ।
महाकुमारी गन्धाढ्या लाक्षाकृष्णातिमञ्जला ॥”
अस्या गुणाः । शिशिरत्वम् । स्निग्धत्वम् ।
पित्तदाहज्वरमुखपाकतृष्णाविच्छर्द्दिनाशित्वम् ।
मधुरत्वञ्च । इति राजनिर्घण्टः ॥

तरुणीकटाक्षमालः, पुं, (तरुणीनां कटाक्षाणां

माला यत्र ।) तिलकवृक्षः । इति राजनिर्घण्टः ॥

तरुतूलिका, स्त्री, (तरुस्थिता तूलिका चित्रशलाका

इव । यद्वा, तरौ वृक्षे दोलयतीति । दुल क्षेपे
+ ण्वुल् । टापि अत इत्वम् । पृषोदरादित्वात्
साधुः ।) वातुलिः । इति हारावली ॥ वादुड
इति भाषा ॥ तरुदूलिकापि पाठः ॥

तरुनखः, पुं, (तरौ तरोर्वा नख इव ।) कण्टकः ।

इति हारावली ॥

तरुभुक्, [ज्] पुं, (तरुं भुनक्तीव । भुज +

क्विप् ।) वन्दाकः । इति राजनिर्घण्टः ॥

तरुमृगः, पुं, (तरौ तिष्ठन् मृग इव । शाक-

पार्थिववत् मध्यपदलोपी समासः । यद्वा, तरु
प्रियो मृगः पशुः ।) वानरः । इति शब्दरत्ना-
वली ॥

तरुरागं, क्ली, (तरो रागो रक्तिमाभा यस्मात् ।)

किशलयम् । नूतनपल्लवः । इति हारावली ॥

तरुराजः, पुं, (तरूणां राजा अत्युच्चत्वादस्य तथा-

त्वम् । समासे टच् ।) तालवृक्षः । इति राज-
निर्घण्टः ॥ (सर्व्वपूज्यत्वात् स्वर्लोकभोग्यत्वाच्च
पारिजातपुष्पवृक्षः । यथा, हरिवंशे । १२४ । ५५ ।
“यदेतदाहृतं स्वर्गात् तत् त्वदर्थं मया विभो ! ।
देवोपभोग्यमेतद्धि तरुराजसमुद्भवम् ॥”)

तरुरुहा, स्त्री, (तरौ रोहतीति । रुह + कः ।

टाप् ।) बन्दाकः । इति राजनिर्घण्टः ॥

तरुरोहिणी, स्त्री, (तरुषु रोहतीति । रुह +

णिनिः + ङीप् ।) वन्दाकः । इति राजनिर्घण्टः ॥

तरुवल्ली, स्त्री, (तरुषु वल्लीव तरुर्वल्लीव वा ।)

जतुकालता । इति राजनिर्घण्टः ॥

तरुशायी, [न्] पुं, (तरौ तरुकोठरे शाखायां

वा शेते इति । शी + णिनिः ।) पक्षी । इति
हारावली ॥

तरुसारः, पुं, (तरोः सारः ।) कर्पूरः । इति

हारावली ॥ (यथा, सुश्रुते चिकित्सित-
स्थाने ३५ अध्याये । “तत्रनेत्राणि सुवर्णरजत-
ताम्रायोरीतिदन्तशृङ्गमणितरुसारमयानि
श्लक्षाणीति ॥” कर्पूरशब्देऽस्य विवृतिर्ज्ञातव्या ॥)

तरुस्था, स्त्री, (तरौ तिष्ठतीति । स्था + कष्टाप्

च ।) वन्दाकः । इति राजनिर्घण्टः ॥

तरूटः, पुं, (तरोः ऊट इव ।) उत्पलकन्दः ।

अस्य गुणाः । गुरुत्वम् । विष्टम्भित्वम् । शीतल-
त्वञ्च । इति राजवल्लभः ॥ (यथा, चरके सूत्र-
स्थाने सप्तविंशेऽध्याये ।
“तरूटविसशालूकक्रौञ्चादनकशेरुकम् ।
शृङ्गाटकं कलोड्यञ्च गुरुविष्टम्भि शीतलम् ॥”)

तर्क, क दीप्तौ । इति कविकल्पद्रुमः ॥ (चुरां-

परं-अकं-सेट् ।) क, तर्कयति । वितर्कणेऽप्ययम् ।
(अत्र सकं ।) तर्कयत्यन्यगुणं सुधीः । इति
दुर्गादासः ॥
पृष्ठ २/५९९

तर्कः, पुं, (तर्क + भावे घञ् ।) आकाङ्क्षा । वितर्कः ।

व्यभिचारशङ्कानिवर्त्तकः । इति भाषापरिच्छेदः ॥
(यथा, महाभारते । ३ । १९९ । १०८ ।
“शुष्कतर्कं परित्यज्य आश्रयस्व श्रुतिं स्मृतिम् ॥”)
स च पञ्चविधः । यथा । आत्माश्रयः १ अन्यो-
न्याश्रयः २ चक्रकः ३ अनवस्था ४ प्रमाण-
वाधितार्थकः ५ । इति जगदीशः ॥ एषां लक्ष-
णानि तत्तच्छब्दे द्रष्टव्यानि ॥ ऊहः । हेतु-
शास्त्रम् । तत्तु मीमांसादि । इति मेदिनी ।
के, २५ । (यथा, मनुः । १२ । १०६ ।
“आर्षं धर्म्मोपदेशञ्च वेदशास्त्राविरोधिना ।
यस्तर्केणानुसन्धत्ते स धर्म्मं वेद नेतरः ॥”
न्यायशास्त्रम् । यथा, नैषये ।
“यत्काव्यं मधुवर्षिधर्षितपरास्तर्केषु यस्यो-
क्तयः ॥”
ज्ञानम् । यथा, महाभारते । १ । १६८ । १८ ।
“तं वै फलार्थिनं मन्ये भ्रातरं तर्कचक्षुषा ॥”
अर्थवाद इति कर्कोपाध्यायः । यथा, अक्ताः
शर्करा उपदधातीति विधिः श्रूयते । तत्राञ्जन-
साधनं घृतं तैलं वा तन्मध्ये केनाक्ता इति
संशये तेजो वै घृतमित्यर्थवादात् घृतेनाक्ता
इति निर्णीयते । अतस्तर्कोऽर्थवादः ॥”)

तर्ककः, पुं, (तर्केण आकाङ्क्षया कायति प्रकाशते

इति । कै + कः ।) याचकः । इति हेमचन्द्रः ॥
(यथा, महाभारते । १२ । ४५ । ६ ।
“तथानुजीविनो भृत्यान् संश्रितानतिथीनपि ।
कामैः सन्तर्पयामास कृपणांस्तर्ककानपि ॥”
तर्कयतीति । तर्क + ण्वुल् ।) तर्ककारकश्च ॥

तर्कविद्या, स्त्री, (तर्कोपदेष्ट्री विद्या तर्करूपा

या विद्या वा ।) न्यायविद्या । तत्पर्य्यायः ।
आन्वीक्षिकी २ । इत्यमरः । १ । ६ । ५ ॥ (यथा,
महाभारते । १३ । ३७ । १२ ।
“आन्विक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम् ॥)

तर्कारी, स्त्री, (तर्कं ऋच्छतीति । ऋ + कर्म्म-

ण्यण् ।” ३ । २ । १ । इत्यण् । ङीप् च ।)
जयन्तीवृक्षः । इत्यमरः । ४ । २ । ६५ ॥
(पर्य्यायोऽस्या यथा, वैद्यकरत्नमालायाम् ।
“वैजयन्ती च तर्कारी जयन्ती विजया जया ॥”
अस्या गुणा यथा, --
“तर्कारी वरुणं स्वादु सतिक्तं कफवातजित् ॥”
इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥
अस्याः व्यवहारो यथा, --
“तर्कारी विश्वशिग्रुसुरसवत्सकनिम्बजैः ।
पत्रमूलफलैस्तोयं शृतमुष्णञ्च सेचनम् ॥”
इति चरके चिकित्सास्थाने सप्तविंशेऽध्याये ॥
इयं गणिकारिकापि वाच्या । तत्पर्य्याया यथा,
“अग्निमन्थो जयः स स्याच्छ्रीपर्णी गणिकारिका ।
जया जयन्ती तर्कारी नादेयी वैजयन्तिका ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

तर्किणः, पुं, चक्रमर्दवृक्षः । इतिरत्नमाला ॥ तर्कि-

लोऽपि पाठः ॥ (चक्रमर्द्दशब्देऽस्य विवृति-
र्वाख्याता ॥)

तर्की, [न्] त्रि, (तर्कयितुं शीलमस्य यद्बा तर्कय-

तीति । तर्क + णिनिः ।) तर्कविशिष्टः । मीमां-
सकः । यथा, --
“त्रैविद्यो हैतुकस्तर्की नैरुक्तो धर्म्मपाठकः ।
त्रयश्चाश्रमिणः पूर्ब्बे परिषत् स्याद्दशावरा ॥”
इति मनुः । १२ । १११ ॥

तर्कुः, स्त्री, (कृत् + उः । निपातनात् साधुः ।)

सूत्रनिर्म्माणयन्त्रम् । टेको इति भाषा ॥ तत्-
पर्य्यायः । कपालनालिका २ । इति त्रिकाण्ड-
शेषः ॥ तर्कुटी ३ सूत्रला ४ । इति हारावली ॥
(कुम्भकारस्य चक्राकारशिलाभाण्डम् । यथा,
अनर्घराघवे । २ । ६ ।
“शङ्के सम्प्रति यावदभ्युदयते तत्तर्कुटङ्कोन्मृजा
रज्यद्बिम्बरजश्छटावलयितो देवस्त्विषामीश्वरः ॥”)

तर्कुटं, क्ली, (तर्कयति सूत्रोत्पादकतया शोभते

इति । तर्क दीप्तौ + बाहुलकात् उटन् ।) कर्त्त-
नम् । इति त्रिकाण्डशेषः ॥ काटनाकाटा इति
भाषा ॥

तर्कुटी, स्त्री, (तर्कुट + स्त्रियां गौरादित्वात्

ङीष् ।) तर्कुः । इति हारावली । २१३ ।

तर्कुपिण्डः, पुं, (तर्कुस्थितः पिण्डः । मध्यपदलोपि-

समासः ।) तर्कुस्थितमृत्पिण्डः । टेकोर
वाँटुल इति भाषा ॥ तत्पर्य्यायः । वर्त्तिनी २ ।
इति जटाधरः ॥ तर्कुपीठी ३ वर्त्तुला ४ । इति
हारावली । २१३ ॥

तर्कुपीठी, स्त्री, (तर्कुस्थिता पीठी स्वल्पो मृत्-

पिण्डः ।) तर्कुपिण्डः । इति हारावली । २१३ ॥

तर्कुलासकः, पुं, (लासयति शोभयतीति । लस

कान्तौ + णिच् + ण्वुल् । तर्कुः सूत्रनिर्म्माण-
यन्त्रं तस्या लासकः ।) झल्लोलः । इति हारा-
वली । २१३ ॥ खरसा इति भाषा ॥

तर्कुशाणः, पुं, (तर्कोः शाणः ।) सामकः । इति

त्रिकाण्डशेषः ॥ टेकोर शाण इति भाषा ॥

तर्क्षुः, पुं, (तरक्षुः पृषोदरादित्वात् साधुः ।)

तरक्षुः । इति शब्दरत्नावली ॥

तर्क्ष्यः, पुं, यवक्षारः । इति रत्नमाला ॥

तर्ज्ज, भर्त्सने । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-सकं-सेट् ।) तर्ज्जति । इति दुर्गादासः ॥

तर्ज्ज, क ङ भर्त्से । इति कविकल्पद्रुमः ॥ (चुरां-

आत्मं सकं-सेट् ।) क ङ, तर्ज्जयते । भर्त्स-
स्तर्ज्जनम् । तामतर्ज्जयदम्बरे । इति रघुप्रयो-
गस्तु तर्ज्वनं तर्ज्जः । तर्ज्जं करोतीति ञौ साध्यः ।
इति दुर्गादासः ॥

तर्ज्जनं, क्ली, (तर्ज्ज + भावे ल्युट् ।) भर्त्सनम् ।

यथा । अधीरायास्तर्ज्जनताडनादि । इति रस-
मञ्जरी ॥ (यथाच कुमारे । ६ । ४५ ।
“भ्रूभेदिभिः सकम्पोष्ठैर्ललिताङ्गुलितर्ज्जनैः ।
यत्र कोपैः कृताः स्त्रीणामाप्रसादार्थिनः
प्रियाः ॥”)

तर्ज्जनी, स्त्री, (तर्ज्यतेऽनयेति । तर्ज्ज भर्त्सने +

करणे ल्युट् । ततः स्त्रियां ङीप् ।) अङ्गुष्ठ-
समीपाङ्गुलिः । तत्पर्य्यायः । प्रदेशिनी २ ।
इत्यमरः । २ । ६ । ८१ ॥ सा तु गर्भस्थस्य
चतुभिर्म्मासैर्भवति । इति सुखबोधः ॥ (यथा,
कथासरित्सागरे । १७ । ८८ ।
“तच्छ्रुत्वा श्वशुरं तं सा बधूः सोमप्रभा क्रुधा ।
विलोक्य भ्रामयामास यमाज्ञामिव तर्ज्जनीम् ॥”)

तर्ज्जिकः, पुं, (तर्ज्जस्तर्ज्जनमस्त्यत्र । तर्ज्ज + ठन् ।)

देशविशेषः । तत्पर्य्यायः । तायिकः २ । इति
हेमचन्द्रः । ४ । २४ ॥

तर्णः, पुं, (तर्णोति तृणादिकं भक्षयतीति । तृण्

भक्षणे + अच् ।) वत्सः । इति हेमचन्द्रः ।
४ । ३२६ ॥

तर्णकः, पुं, (तर्ण एव । स्वार्थे कन् ।) सद्योजात-

वत्सः । इत्यमरः । २ । ९ । ६१ ॥ कोमले
वाछुर इति भाषा ॥ (यथा, राजतरङ्गिण्याम् ।
५ । ४३६ ।
“म्लानक्षीरां वरां पत्नीं रुद्धद्बारां निपात्यते ।
आलिङ्ग्यमानां क्रन्दद्भिस्तर्णकैरिव दारकैः ॥”
बालकः । यथा, अनर्घराघवे । २ । २३ ।
“मुनिविनियोगलूनप्ररूढमृदुशाद्बलानि
बर्हींषि ।
गोकर्णतर्णकोऽयं तर्णोत्युपकण्ठकच्छेषु ॥”)

तर्णिः, पुं, (तरणिः पृषोदरादित्वादलोपः ।)

सूर्य्यः । प्लवः । इति शब्दार्थकल्पतरुः ॥

तर्त्तरीकं, क्ली, (तीर्य्यतेऽनेनेति । तॄ + “फर्फरीका-

दयश्च ।” उणां । ४ । २० । इति ईकप्रत्ययेन
निपातनात् साधुः ।) नौका । (तरतीति । कर्त्तरि
ईकः ।) पारगे, त्रि । इति मेदिनी । के, १९१ ॥

तर्द, हिंसे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

सेट् ।) तर्दति । इति दुर्गादासः ॥

तर्दूः, स्त्री, (तरति प्लवते इति । तॄ + “त्रो दुक् च ।”

उणां । १ । ९१ । इति ऊः दुगागमश्च ।)
दारुहस्तकः । इत्यमरः । २ । ९ । ३४ । काठेर
हाता इति भाषा ॥

तर्पणं, क्ली, (तृप प्रीणने + भावे ल्युट् ।) तृप्तिः ।

प्रीणनम् । इत्यमरः । २ । ९ । ५६ ॥ (यथा,
कथासरित्सागरे । २६ । २३६ ।
“तत्राहूय तरोर्मूले वेतालं नृकलेवरे ।
पूजयित्वाकरोत्तस्य नृमांसबलितर्पणम् ॥”)
यज्ञकाष्ठम् । इति हेमचन्द्रः ॥ (तृप्यन्ति पितरो
येन । तृप् + करणे ल्युट् ।) देवर्षिपितृमनु-
ष्याणां जलाञ्जलिदानेन तृप्तिसम्पादनम् । यथा,
“एवं स्नात्वा पितॄन् देवान् मनुष्यांस्तर्पयेन्नरः ।
नाभिमात्रे जले स्थित्वा चिन्तयेदूद्ध्वमानसः ॥
आगच्छन्तु मे पितर इमं गृह्णन्त्वपोऽञ्जलिम् ।
त्रींस्त्रीञ्जलाञ्जलीन्दद्यादाकाशे दक्षिणे तथा ॥
वसित्वा वसनं शुक्लं स्थले चास्तीर्णवर्हिषि ।
विधिज्ञास्तर्पणं कुर्य्युर्न पात्रे तु कदाचन ॥
यदपां क्रूरमांसन्तु यदमेध्यन्तु किञ्चन ।
अशान्तं मलिनं यच्च तत् सर्व्वमपगच्छतु ॥
गृहीत्वानेन मन्त्रेण तोयं सव्येन पाणिना ।
प्रक्षिपेद्दिशि नैरृत्यां रक्षोपहतयेऽद्भुतम् ॥
अनाक्षिकन्तु यद्भुक्तं पापाद्यच्च प्रतिग्रहम् ।
पृष्ठ २/६००
दुष्कृतं यच्च मे किञ्चिद्बाङ्मनःकायकर्म्मभिः ॥
पुनातु मे तदिन्द्रस्तु वरुणः सबृहस्पतिः ।
सविता च भगश्चैव मुनयः सनकादयः ॥
आब्रह्मस्तम्बपर्य्यन्तं जगत् तृप्यत्विति ब्रुवन् ।
क्षिपेदपोऽञ्जलोंस्त्रींस्तु कुर्व्वन् सङ्क्षेपतर्पणम् ॥”
इति गारुडे २१५ अध्यायः ॥
तर्पणविशेषस्तु गारुडे २१९ अध्याये तथा
वह्निपुराणे नित्याह्निकस्नानविधिनामाध्याये च
द्रष्टव्यः ॥ * ॥ जीवत्पितृकस्य तर्पणनिषेधो
यथा, --
“दर्शस्नानं गयाश्राद्धं तिलैस्तर्पणमेव च ।
न जीवत्पितृको भूप ! कुर्य्यात् कृत्वाघमाप्नुयात् ॥”
इति कालिकापुराणे ८९ अध्यायः ॥
महायज्ञविशेषः । तत्तु पितृयज्ञः । पितॄणां
कव्यजलादीनाञ्च विधिना जलान्नदानेन तृप्ति-
सम्पादनम् । इत्यमरटीकायां भरतः ॥ “तत्
द्बिविधं प्रधानं अङ्गञ्च । तत्राद्यं यथा, --
‘तर्पणञ्च शुचिः कुर्य्यात् प्रत्यहं स्नातको द्बिजः ।
देवेभ्यश्च ऋषिभ्यश्च पितृभ्यश्च यथाक्रमम् ॥’
इति शातातपः ॥
विधवामधिकृत्य काशीखण्डे ।
‘तर्पणं प्रत्यहं कार्य्यं भर्त्तुः कुशतिलोदकैः ।
तत्पितुस्तत्पितुश्चापि नामगोत्रादिपूर्ब्बकम् ॥’
द्बितीयं यथा, ब्रह्मपुराणे ।
‘नित्यं नैमित्तिकं काम्यं त्रिविधं स्नानमुच्यते ।
तर्पणन्तु भवेत्तस्य अङ्गत्वेन व्यवस्थितम् ॥’
तर्पणाकरणे दोषः । यथा, योगियाज्ञवल्क्यः ।
“नास्तिक्यभावाद्यश्चापि न तर्पयति वै सुतः ।
पिबन्ति देहरुधिरं पितरो वै जलार्थिनः ॥”
तस्य निषिद्धस्थानादि यथा । “नेष्टकारचिते
स्थाने पितॄंस्तर्पयेत् ।” इति शङ्खलिखितौ ॥
‘यन्न सर्व्वाय चोत्सृष्टं यच्चाभोज्यनिपानजम् ।
तद्बर्ज्यं सलिलं तात ! सदैव पितृकर्म्मणि ॥’
इति मार्कण्डेयपुराणम् ॥ * ॥
तस्य विधानं यथा । स्नातश्चार्द्रवासा देवपितृ-
तर्पणमम्भःस्थ एव कुर्य्यात् परिवर्त्तितवासाश्चेत्
तीरमुत्तीर्य्येति । इति विष्णुः ॥ तीर्थे विशेषो
यथा, मत्स्यपुराणे ।
‘तिलोदकाञ्जलिर्द्देयो जलस्थैस्तीर्थवासिभिः ॥’
तीर्थे स्थलस्थश्चेत् तर्पणं करोति तदा जलैक-
चरणः आचम्य कुर्य्यात् तस्य जले च तर्पणमवि-
रुद्धम् । स्थले तर्पणं दर्भेषु कार्य्यम् । यथा, --
‘प्रागग्रेषु सुरांस्तर्प्येत् मनुष्यांश्चैव मध्यतः ।
पितॄंश्च दक्षिणाग्नेषु दद्यादिति जलाञ्जलीन् ॥’
इति आग्नेयपुराणम् ॥
अशुचिदेशे तु ।
‘यत्राशुचिस्थलं वा स्यादुदके देवतापितॄन् ।
तर्पयेत्तु यथाकाममप्सु सर्व्वं प्रतिष्ठितम् ॥’
इति विष्णुः ॥
‘प्रादेशमात्रं उद्धृत्य सलिलं प्राङ्मुखः सुरान् ।
उदद्मनुष्यांस्तर्प्येत पितॄन् दक्षिणतस्तथा ॥’
इति दक्षः ॥
उद्धृतोदके तु ।
‘पात्राद्बा जलमादाय शुचौ पात्रान्तरे क्षिपेत् ।
जलपूर्णेऽथवा गर्त्ते न स्थले तु विवर्हिषि ॥’
इति हारीतः ॥
‘यद्युद्धृतैः प्रसिञ्चेत्तु तिलान् संमिश्रयेज्जले ।
अतोऽन्यथा तु सव्येन तिला ग्राह्या विचक्षणैः ॥’
इति योगियाज्ञवल्क्यः ॥
“अङ्गुष्ठानामिकाभ्याञ्च दक्षिणस्येतरात् करात् ।
तिलान् गृहीत्वा पात्रस्थान् ध्यायन् सन्तर्पयेत्
पितॄन् ॥”
इति नारदः ॥ * ॥
देवतर्पणं यथा, --
‘ब्रह्माणं तर्पयेत् पूर्ब्बं विष्णुं रुद्रं प्रजापतिम् ।
देवा यक्षास्तथा नागा गन्धर्व्वाप्सरसोऽसुराः ॥
क्रूराः सर्पाः सुपर्णाश्च तरवो जम्भकाः स्वगाः ।
विद्याधरा जलाधारास्तथैवाकाशगामिनः ॥
निराहाराश्च ये जीवाः पापे धर्म्मे रताश्च ये ।
तेषामाप्यायनायैतद्दीयते सलिलं मया ॥’
इदं उपवीतिना प्राङ्मुखेन दैवतीर्थेन कार्य्यम् ॥
मनुष्यतर्पणं यथा, --
‘सनकश्च सनन्दश्च तृतीयश्च सनातनः ।
कपिलश्चासुरिश्चैव वोढुः पञ्चशिखस्तथा ॥
सर्व्वे ते तृप्तिमायान्तु मद्दत्तेनाम्बुना सदा ॥’
इदं निवीतिना मनुष्यतीर्थेन सामगेन प्रत्यङ्-
मुखेन कार्य्यम् । अन्यवेदिना उदङ्मुखेन
कार्य्यम् ॥ * ॥ तत ऋषितर्पणं प्राङ्मुखेन
उपवीतिना दैवतीर्थेन कार्य्यम् । ततो दिव्य-
पितृतर्तणं दक्षिणामुखेन प्राचीनावीतिना
सतिलजलेन पितृतीर्थेन कार्य्यम् । ततः पितृ-
तर्पणम् ॥ * ॥ भीष्माष्टम्यां भीष्मतर्पणम् । तस्य
मन्त्रो यथा, --
‘वैयाघ्रपद्यगोत्राय साङ्कतिप्रवराय च ।
अपुत्त्राय ददाम्येतत् सलिलं भीष्मवर्म्मणे ॥’
प्रार्थनमन्त्रो यथा, --
‘भीष्मः शान्तनवो वीरः सत्यवादी जितेन्द्रियः ।
आभिरद्भिरवाप्नोतु पुत्त्रपौत्त्रोचितां क्रियाम् ॥’
प्रेतचतुर्द्दश्यां यमतर्पणं यथा, --
‘यमाय धर्म्मराजाय मृत्यवे चान्तकाय च ।
वैवस्वताय कालाय सर्व्वभूतक्षयाय च ॥
औडुम्बराय दघ्नाय नीलाय परमेष्ठिने ।
वृकोदराय चित्राय चित्रगुप्ताय वै नमः ॥’
प्रत्येकनामभिस्त्रींस्त्रीनञ्जलीन् दद्यात् ॥ * ॥
तिलतर्पणनिषेधो यथा, --
‘रविशुक्रदिने चैव द्बादश्यां श्राद्धवासरे ।
सप्तम्यां जन्मदिवसे न कुर्य्यात् तिलतर्पणम् ॥’
इति स्मृतिः ॥
‘संक्रान्त्यां निशि सप्तम्यां रविशुक्रदिने तथा ।
श्राद्धे जन्मदिने चैव न कुर्य्यात्तिलतर्पणम् ॥’
इति मत्स्यपुराणम् ॥
तत्र प्रतिप्रसवो यथा, --
‘अयने विषुवे चैव संक्रान्त्यां ग्रहणेषु च ।
उपाकर्म्मणि चोत्सर्गे युगादौ मृतषासरे ॥
सूर्य्यशुक्रादिवारेऽपि न दोषस्तिलतर्पणे ।
तीर्थे तिथिविशेषे च कार्य्यं प्रेते च सर्व्वदा ॥’
इति स्मृतिः ॥
‘तीर्थे तिथिविशेषे च गङ्गायां प्रेतपक्षके ।
निषिद्धेऽपि दिने कुर्य्यात् तर्पणं तिलमिश्रितम् ॥’
इति मरीचिवचनम् ॥ * ॥
तिलाभावे प्रतिनिधिर्यथा ।
‘तिलानामप्यभावे तु सुवर्णरजतान्वितम् ।
तदभावेऽपि सिञ्चेत्तु दर्भैर्मन्त्रेण चाप्यथ ॥’
इति याज्ञवल्क्यः ॥ * ॥
अशक्तौ । आब्रह्मस्तम्बपर्य्यन्तं जगत्तृप्यतु ।
इत्यनेन त्रोंस्तर्पयेत् ।” इत्याह्निकतत्त्वम् ॥
काशीखण्डमते तु ।
“आब्रह्मस्तम्बपर्य्यन्तं देवर्षिपितृमानवाः ।
तृप्यन्तु सर्व्वे पितरो मातृमातामहादयः ॥
अतीतकुलकोटीनां सप्तद्बीपनिवासिनाम् ।
आब्रह्मभुवनाल्लोकादिदमस्तु तिलोदकम् ॥” * ॥
जन्माष्टम्यां तर्पणस्य फलं यथा, --
“तस्यां तिथौ वारिमात्रं पितॄणां यः प्रयच्छति ।
गयाश्राद्धं कृतं तेन शताब्दं नात्र संशयः ॥”
इतिब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥

तर्पणी, स्त्री, (तृप्यतेऽनयेति । तृप + करणे ल्युट् ।

स्त्रियां ङीप् ।) गुरुस्कन्धवृक्षः । स च श्लेष्मणा-
वृक्षः । इति शब्दमाला ॥ (सर्व्वजनतृप्ति-
प्रदायित्वात् गङ्गा । यथा, काशीखण्डे । २९ । ७२ ।
“तर्पणी तीर्थतीर्था च त्रिपथा त्रिदशेश्वरी ॥”
प्रीतिप्रदे, त्रि । यथा, सुश्रुते सूत्रस्थाने ४६
अध्याये ।
“क्षुत्तृट्श्रमग्लानिहरी पेया वातानुलोमनी ।
विलेपी तर्पणी हृद्या ग्राहिणी बलवर्द्धिनी ॥”)

तर्पणेच्छुः, पुं, (तर्पणमिच्छतीति । इष + उः

निपातनात् साधुः ।) भीष्मः । इति शब्द-
रत्नावली ॥ तर्पणाकाङ्क्षिणि, त्रि ॥

तर्पिणी, स्त्री, (तर्पयति प्रीणयतीति । तृप् +

णिच् + णिनिः । ततो ङीप् ।) पद्मचारिणी ।
इति शब्दचन्द्रिका ॥

त(र्ब्ब)र्ब, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) रेफोपधः । तर्बति । इति दुर्गा-
दासः ॥

तर्बटः, पुं, (तर्बति द्रुतं गच्छतीति । तर्ब +

बाहुलकात् अटन् ।) वत्सरः । इति शब्द-
रत्नावली ॥ चक्रमर्द्दः । इति राजनिर्घण्टः ॥

तर्म्म, [न्] क्ली, (तरतीति । तॄ + “सर्व्व-

धातुभ्यो मनिन् ।” उणां ४ । १४४ । इति
मनिन् ।) यूपाग्रम् । इत्यमरः । २ । ७ । १९ ॥

तर्षः, पुं, (तृष पिपासायाम् + भावे घञ् ।) अभि-

लाषः । (यथा, महाभारते । १२ । २०४ । ६ ।
“तर्षच्छेदो न भवति पुरुषस्येह कल्मषात् ।
निवर्त्तते तदा तर्षः पापमन्तगतं यदा ॥”)
तृष्णा । इत्यमरः । २ । ९ । ५५ ॥ (यथा,
राजतरङ्गिण्याम् । ३ । ४८० ।
“लवणार्णवपानेन तर्षोत्कर्षमिवोद्बहन् ।
पृष्ठ २/६०१
यत्प्रतापो रिपुस्त्रीणां सनेत्राम्भोऽभजन्मुखम् ॥”
यथा, वैद्यकचक्रपाणिसंग्रहे तृष्णाधिकारे ।
“काश्मर्य्यशर्करायुक्तं चन्दनोशीरपद्मकम् ।
द्राक्षामधुकसंयुक्तं पित्ततर्षे जलं पिबेत् ॥”
तीर्य्यतेऽनेनेति । तॄ प्लवनतरणयोः + “वृतॄ-
वदिहनीति ।” उणां ३ । ६२ । इति सः ।)
प्लवः । (तीर्य्यतेऽसौ इति कर्म्मणि सः ।) समुद्रः ।
इत्युणादिकोषः ॥ सूर्य्यः । इति संक्षिप्तसारे
उणादिवृत्तिः ॥

तर्षणं, क्ली, (तृष + भावे ल्युट् ।) पिपासा ।

इति जटाधरः ॥ (अभिलाषः । यथा, भाग-
वते । ३ । २५ । ७ ।
“निर्व्विण्णा नितरां भूमन्नसदिन्द्रियतर्षणात् ।
येन संभाव्यमानेन प्रपन्नान्धं तमः प्रभो ! ॥”)

तर्षितः, त्रि, (तर्षोऽस्य जातः । तर्ष + तारकादि-

त्वात् इतच् ।) तृषितः । इति त्रिकाण्ड-
शेषः ॥ (यथा, भागवते । ९ । ६ । २७ ।
“राजा तद्यज्ञसदनं प्रविष्टो निशि तर्षितः ।
दृष्ट्वा शयानान् विप्रांस्तान् पपौ सन्त्रजलं
स्वयम् ॥”
जाताभिलाषः । यथा, रामायणे । २ । १०४ । १ ।
“वशिष्ठः पुरतः कृत्वा दारान् दशरथस्य च ।
अभिचक्राम तं देशं रामदर्शनतर्षितः ॥”)

तल, गतौ । (भ्वां-परं-सकं-सेट् ।) सौत्रधातु-

रयम् । तालिशः । इति दुर्गादासः ॥

तल, कि प्रतिष्ठितौ । इति कविकल्पद्रुमः ॥ (चुरां-

पक्षे भ्वां-परं-अकं-सेट् ।) कि, तालयति तलति
व्रतम् । संपूर्णं स्यादित्यर्थः । इति दुर्गादासः ॥

तलं, क्ली पुं, (तलतीति । तल प्रतिष्ठायाम् +

पचाद्यच् ।) स्वरूपम् । यथा महीतलम् ।
(यथाच माघे । २ । १११ ।
“कृत्वा कृत्यविदस्तीर्थेष्वन्तः प्रणिधयः पदम् ।
विदाङ्कुर्व्वन्तु महतस्तलं विद्बिषदम्भसः ॥”
“तलं स्वरूपं प्रमाणमिति यावत् ॥” इति
तट्टीकायां मल्लिनाथः ॥) अनूर्द्ध्वम् । इति मेदिनी ।
ले, २१ ॥ (अधः । इत्यमरः । ३ । ३ । २०१ ॥
यथा, मनुः । २ । ५९ ।
“अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते ॥”
यथा च शान्तिशतके । २ । १९ ।
“वासो वल्कलमास्तरः किशलयान्योक-
स्तरूणां तलं
मूलानि क्षतये क्षुधां गिरिनदीतोयं
तृषाशान्तये ॥”
हस्तादीनासुपरिभागः । यथा, --
“तलं प्रत्यङ्गुलीनां याः कण्डरा बाहुपृष्ठतः ।
बाह्वोः कर्म्मक्षयकरी -- ॥”
इति माधवकृतरुग्विनिश्चये वातव्याधौ ॥
“तलं हस्तस्योपरिभागः तलशब्दोऽत्र उपरि-
वचनः यथा भूतलमिति गयदासः । तेनाय-
मर्थः, बाह्वोः पृष्ठं बाहुपृष्ठं तत आरभ्य हस्त-
तलं लक्ष्यीकृत्येति ॥” इति विजयरक्षितकृत-
व्याख्यानम् ॥)

तलं, क्ली, (तलतीति । तल + अच् ।) ज्याघात-

वारणा । (यथा, --
“ततः समुत्पेतुरुदायुधास्ते
महीक्षितो बद्धतलाङ्गुलित्राः ॥”)
इति महाभारते । १ । १९० । १५ ।
काननम् । कार्य्यवीजम् । इति मेदिनी । ले,
२१ ॥ गर्त्तः । इति त्रिकाण्डशेषः ॥ पादतलस्य
मध्यम् । इति हेमचन्द्रः । ३ । २८२ ॥ (यथा,
भागवते । ८ । २० । २३ ।
“रसामचष्टाङ्घ्रितलेऽथ पादयो-
र्महीं महीध्रान् पुरुषस्य जङ्घयोः ।
पतत्त्रिणो जानुनि विश्वमूर्त्ते-
रूर्व्वोगणं मारुतमिन्द्रसेनः ॥”
हस्तस्य मध्यमपि । यथा, मनुः । ४ । १४३ ।
“पृष्ट्वैतानशुचिर्नित्यमद्भिः प्राणानुपस्पृशेत् ।
गात्राणि चैव सर्व्वाणि नाभिं पाणितलेन तु ॥”)

तलः, पुं, तालवृक्षः । चपेटः । (यथा, मार्क-

ण्डेये । ९० । १६ ।
“स मुष्टिं पातयामास हृदये दैत्यपुङ्गवः ।
देव्यास्तञ्चापि सा देवी तलेनोरस्यताडयत् ॥”
करतलाघातजन्यशब्दः । यथा, महाभारते ।
३ । २७७ । २४ ।
ततः प्रहसिताः सर्व्वे तेऽन्योन्यस्य तलान् ददुः ॥”)
त्सरुः । सव्यपाणिना तन्त्रीघातः । इति मेदिनी ।
ले, २१ ॥ स्वभावः । आधारः । इति हेम-
चन्द्रः ॥ महादेवः । यथा, महाभारते शिव-
सहस्रनामस्तोत्रे । १३ । १७ । १२८ ।
“तलस्तालः करस्थाली ऊर्द्ध्वसंहननो महान् ॥”)

तलकं, क्ली, (तलेन गभीरगर्त्तेन कायतीति ।

कै + कः ।) पुष्करिणी । इति हारावली । ४२ ॥
तलाओ इति हिन्दी भाषा ॥

तलप्रहारः, पुं, (तलेन पाणितलेन प्रहारो यस्य ।)

चपेटः । तत्पर्य्यायः । चर्व्वा २ । इति हारा-
वली । १६७ ॥ (यथा, मार्कण्डेये । ९० । १७ ।
“तलप्रहाराभिहतो निपपात महीतले ॥
तलस्य प्रहारः ।) तलाघातः ॥

तलसारकं, क्ली, (तले सारो यस्य कप् ।)

घोटकस्यान्नभोजनपात्रम् । इति केचित् ॥
घोटकस्य वक्षस्थलबन्धनरज्जुः । तत्पर्य्यायः ।
वक्रपट्टः २ तलिका ३ । इति हेमचन्द्रः । ४ ।
३१७ ॥

तलहृदयं, क्ली, (तलस्य पादतलस्य हृदयमिव ।)

पादतलस्य मध्यम् । इति हेमचन्द्रः । ३ । २८२ ॥

तला, स्त्री, (तल + स्त्रियां टाप् ।) गोधा ।

ज्याघातवारणा । इत्यमरः । २ । ८ । ८४ ।

तलाची, स्त्री, (तलमञ्चतीति । अन्च + क्विप् ।

स्त्रियां ङीष् ।) नलनिर्म्मितकटः । इति हारा-
वली । १७७ ॥

तलातलं, क्ली, (नास्ति तलं यस्येति अतलम् ।

तलादपि अतलम् । अत्यन्तनिम्नतयास्य तथा-
त्वम् ।) पातालविशेषः । इति शब्दमाला ॥
तत्र मयनामा दानवेन्द्रस्त्रिपुराधिपतिर्भगवता
त्रिपुरारिणा त्रिलोक्याः शं चिकीर्षुणा निदग्ध-
स्वपुरत्रयस्तत्प्रसादात् लब्धपदो मायाविनामा-
चार्य्यो महादेवेन परिरक्षितो विगतसुदर्शन-
भयो महीयते ।” इति श्रीभागवतम् ॥

तलिका, स्त्री, (तलं वक्षसोऽधोभागो बन्धनस्थान-

त्वेनास्त्यस्या इति । तल + ठन् ।) तलसारकम ।
इति हेमचन्द्रः । ४ । ३१७ ॥

तलितं, क्ली, भृष्टमांसम् । यथा, --

“शुद्धमांसविधानेन मांसं सम्यक् प्रसाधितम् ।
पुनस्तदाज्ये संभृष्टं तलितं प्रोच्यते बुधैः ॥”
अस्य गुणाः । यथा, भावप्रकाशे । १ । १ ।
“तलितं वलमेधाग्निमांसौजःशुक्रवृद्धिकृत् ।
तर्पणं लघु सुस्निग्धं रोचनं दृढताकरम् ॥”

तलिनं, क्ली, (तल्यते शयनार्थं गम्यतेऽत्र । तल +

“तलिपुलिभ्यां च ।” उणां । २ । ५३ । इति
इनन् ।) शय्या । इति हारावली । १७२ ॥

तलिनः, त्रि, (तल + इनन् ।) विरलः । स्तोकः ।

स्वच्छः । इति मेदिनी । ने, ७० ॥ दुर्ब्बलः ।
इति हेमचन्द्रः ॥

तलिमं, क्ली, (तल + बाहुलकात् इमन् ।) कुट्टिमम् ।

तल्पम् । चन्द्रहासः । वितानकः ॥ इति मेदिनी ।
मे, ४४ ॥

तलुनः, पुं, (तरति वेगेन गच्छतीति । त + “त्रोरश्च

लो वा ।” उणां । ३ । ५४ । इति उनन् रस्य
लश्च ।) पवनः । युवा । इति मेदिनी । ने, ७० ॥

तलुनी, स्त्री, (तलुन + गौरादित्वात् ङीष् ।)

तरुणी । युवती । इति शब्दरत्नावली ॥

तलेक्षणः, पुं, (तले अधोभागे ईक्षणं दृष्टिरस्य ।)

शूकरः । इति शब्दार्थकल्पतरुः ॥

तलोदरी, स्त्री, (तलमतिगभीरमपूर्य्यतयेतिभावः

उदरं यस्याः । बह्वच्कत्वेऽपि “नासिकोदरौष्ठ-
जङ्घादन्तकर्णशृङ्गाच्च ।” ४ । १ । ५५ । इति
ङीष् । आद्ययोर्बह्वज्लक्षणो निषेधो बाध्यते
पुरस्तादपवादन्यायात् ।) भार्य्या । इति शब्दार्थ-
कल्पतरुः ॥

तलोदा, स्त्री, (तले उदकं यस्याः । उदकशब्द-

स्योदादेशश्च ।) नदी । इति त्रिकाण्डशेषः ॥

तल्कं, क्ली, (तल् + बाहुलकात् कन् ।) वनम् ।

इति त्रिकाण्डशेषः ॥

तल्पं, क्ली पुं, (तल्यते शयनार्थं गम्यतेऽत्र । तल +

“खष्पशिल्पशष्पवाष्परूपपर्पतल्पाः ।” उणां ।
३ । २८ । इति पप्रत्ययेन निपातनात् साधुः ।)
शय्या । (यथा, मनुः । ३ । ३ ।
“स्रग्विणं तल्प आसीनमर्हयेत् प्रथमं गवा ॥”)
अट्टालिका । दाराः । इत्यमरभरतौ ॥ (यथा,
सम्बर्त्तकसंहितायाम् । १५८ ।
“पितृव्यदारगमने भ्रातृभार्य्यागभे तथा ।
गुरुतल्पव्रतं कुर्य्यात् नान्या निष्कृतिरुच्यते ॥”)

तल्पकीटः, पुं, (तल्पे शय्यायां जातः कीटः ।)

कीटविशेषः । छारपोका इति भाषा । यथा,
“जन्न्मैकं तल्पकीटश्च तदा शूद्रो भवेद्ध्रुवम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृणाजम्मखण्डम् ॥
पृष्ठ २/६०२

तल्पनं, क्ली, (तल्प इवाचरति । तल्प + क्विप् +

ल्युश्च ।) करिपृष्ठम् । इति भूरिप्रयोगः ॥
पृष्ठवंशस्य मांसम् । इति हारावली ॥

तल्लं, क्ली, (तस्मिन् भूदेशे लीयते इति । ली +

डः ।) विलम् । इति त्रिकाण्डशेषः ॥

तल्लः, पुं, (तस्मिन् लीयते इति । ली + डः ।)

जलाधारविशेषः । इति मेदिनी । ले, २२ ॥
तलाओ इति हिन्दीभाषा ॥

तल्लजः, पुं, (तत् प्रसिद्धं यथास्यात् तथा लजतीति ।

लज + अच् ।) प्रशस्तः । इत्यमरः ॥ अयं
अजहल्लिङ्गः समासे उत्तरपदे भवति । यथा
कुमारीतल्लजः । इत्यमरटीका ॥

तल्ली, स्त्री, (तत् प्रसिद्धं यथा तथा लसतीति । लस

+ डः स्त्रियां ङीष् च ।) तरुणी । इति
मेदिनी । ले, २२ ॥

तवक्षीरं, क्ली, (तु + अच् । तवं क्षीरमिति नित्य-

कर्म्मधारयः ।) तोयाक्षीर इति ख्यातम् । तत्-
पर्य्यायः । पयःक्षीरम् २ यवजम् ३ यवजोद्-
भवम् ४ । अस्य गुणाः । मधुरत्वम् । शिशिर-
त्वम् । दाहपित्तक्षयकासकफश्वासास्रदोषनाशि-
त्वञ्च । इति राजनिर्घण्टः ॥

तवक्षीरी, स्त्री, (तवक्षीर + ङीष् ।) गन्धपत्रा ।

इति राजनिर्घण्टः ॥

तवराजः, पुं, (तु + अच् तवः पूर्णः सन् राजते ।

राज + अच् ।) यवासशर्करा । इति राज-
निर्घण्टः ॥ (यवासशर्कराशब्देऽस्य विवृति-
र्ज्ञातव्या ॥)

तवराजोद्भवखण्डः, पुं, (उद्भवत्यस्मादिति । उत् +

भू + अच् । उद्भव उत्पत्तिस्थानम् । तवराज
उद्भवोऽस्य । यद्बा, तवराजात् उद्भवतीति ।
उद् + भू + अच् ।) ततः कर्म्मधारयः । यवास-
शर्कराभवखण्डः । तत्पर्य्यायः । सुधामोदकजः २
खण्डजोद्भवजः ३ सिद्धमोदकः ४ अमृतसारजः ५
सिद्धखण्डः ६ । अस्य गुणाः । दाहतापतृष्णा-
मोहमूर्च्छाश्वासनाशित्वम् । इन्द्रियतर्पणत्वम् ।
शीतत्वम् । सदासुमधुरत्वञ्च । इति राज-
निर्घण्टः ॥

तविषः, पुं, (तव + “तवेर्णिद्वा ।” उणां । १ । ४९ ।

इति टिषच् ।) स्वर्गः । समुद्रः । इति सिद्धान्त-
कौमुद्यामुणादिवृत्तिः ॥

तविषी, स्त्री, (तविष + संज्ञायां ङीष् ।) नदी ।

देवकन्या । भूमिः । इति सिद्धान्तकौमुद्या-
मुणादिवृत्तिः ॥ (बलम् । यथा, ऋग्वेदे । १ । ३५ । ४ ।
“कृष्णरजांसि तविषीं दघानः ॥”)

तष्टः, त्रि, (तक्ष + क्तः । पृषोदरात् कलोपे साधुः ।)

तनूकृतः । इत्यमरः । ३ । १ । ९९ ।

तष्टा, [ऋ] पुं, (तक्षकार्श्ये + तृच् पृषोदरात्

कलोपे साधुः ।) त्वष्टा । छुतार इति भाषा ।
विश्वकर्म्मा । आदित्यविशेषः । इत्यमरटीकायां
रमानाथः ॥

तस, इ कि अलङ्कृतौ । इति कविकल्पद्रुमः ॥

(चुरां-पचे भ्वां-परं-सकं-सेट् ।) इ, कर्म्मणि
तंस्यते । कि, तंसयति तंसति हारो जनम् ।
इति दुर्गादासः ॥

तस, य उ इर उत्क्षेपे । इति कविकल्पद्रुमः ॥

(भ्वां-परं-सकं-सेट् । उदित्वात् क्त्वावेट् ।) य,
तस्यति धूलिं वायुः । उ, तसित्वा तस्त्वा ।
इर्, अतसत् । अतासीत् । अतसीत् । अस्मात्
पुषादित्वात् नित्यं ङ इत्यन्ये । इति दुर्गादासः ॥

तसरः, पुं, (तनोतीति । तन + “तनृषिभ्यां क्सरन् ।”

उणां ३ । ७५ । इति सरन् किच्च ।) त्रसरः ।
सूत्रवेष्टनम् । इत्युणादिकोषः ॥ (यथा, वाजस-
नेयसंहितायाम् । १९ । ८३ ।
“रसं परिसुता न रोहितं
नग्नहुर्धीरस्तसरं न वेम ॥”)

तस्करः, पुं, (तत् करोतीति । कृ + “दिवाविभेति ।”

३ । २ । २१ । इत्यस्य सूत्रस्य “किं यत्तद्-
बहुषु कृञोज्विधानम् ।” इति वार्त्तिकोक्तेरच् ।
ततः । “तद्बृहतोः करपत्योः इति सुट्दलोपौ ।
चौरः । पृक्काशाकः । इति रत्नमाला ॥ मदन-
वृक्षः । इति जटाधरः ॥ कर्णः । यथा, रघुः ।
१ । २७ ।
“व्यावृत्ता यत् परस्वेभ्यः श्रुतौ तस्करता स्थिता ॥”
“तस्करः कर्णचौरयोरिति कोषान्तरम् ।” इति
तट्टीका ॥

तस्करस्नायुः, पुं, (तस्करस्य पृक्काशाकस्य स्नायु-

रिव ।) काकनासालता । इति राजनिर्घण्टः ॥

तस्करी, स्त्री, (तद् + कृ + चौरान्यर्थे टः टित्त्वात्

ङीप् । सुटि दलोपे च साधुः ।) कोपना नारी ।
इति शब्दार्थकल्पतरुः ॥

ताटङ्कः, पुं, (ताडङ्क + पृषोदरात् साधुः ।)

ताडङ्कः । इति द्बिरूपकोषटीकायां भरतः ॥
(यथा, देवीभागवते । १२ । ६ । ७१ ।
“तलोदरी तिरोभावा ताटङ्कप्रियवादिनी ॥”)

ताटस्थ्यं, क्ली, (तटस्थ + भावे ष्यञ् ।) उदा-

सीनत्वम् । निकटस्यत्वम् । यथा, ताटस्थ्येन
उदासीनत्वेन इति । तटस्थो निकटस्थः प्रसिद्ध-
पूर्ब्बप्रणय इति च काव्यप्रकाशटीकायां चण्डि-
दासः ॥

ताडः, पुं, (तड + भावे घञ् ।) ताडनम् ।

शब्दः । मुष्टिमेयतृणादि । इति मेदिनी । डे, १४ ॥
पर्व्वतः । इति हेमचन्द्रः ॥

ताडका, स्त्री, राक्षसीविशेषः । सा सुकेतुयक्ष-

कन्या ब्रह्मवरेण सहस्रहस्तिबलयुता धुन्धुदैत्य-
पुत्त्रस्य सुन्दस्य भार्य्या मारीचमाता सुन्दे
निहते पुत्त्रेण सह अगस्त्यमृषिं धर्षयितुमुद्यता
तस्य शापात् सपुत्त्रा राक्षसत्वं गता श्रीरामेण
निहता । इति रामायणम् ॥

ताडकाफलं, क्ली, (तारकेव नक्षत्रमिव फलमस्य ।

रस्य डत्वम् ।) बृहदेला । इति रत्नमाला ॥

ताडङ्कः, पुं, (तालं तालपमिव अङ्क्यते लक्ष्यते

इति । अङ्क + घञ् । लस्य डत्वम् । शकन्ध्वा-
दित्वात् साधुः ।) कर्णभूषा । कानतडका इति
भाषा ॥ तत्पर्य्यायः । कर्णदर्पणः २ । इति
त्रिकाण्डशेषः ॥ ताटङ्कः ३ । इति द्विरूपकोष-
टीकायां भरतः ॥ कर्णिका ४ तालपत्रम् ५ ।
इत्यमरः ॥ ताडपत्रम् ६ । इति हेमचन्द्रः ।
३ । ३२० ॥ कर्णमुकुरः ७ । इति जटाधरः ॥
(यथा, मनसाध्याने ।
“ताडङ्काङ्गदमेखलागुणरणन्मञ्जीरतां प्रापितां
कैरातीं वरदाभयोद्यतकरां देवीं त्रिनेत्रां
भजे ॥”)

ताडनं, क्ली, (ताडि + भावे ल्युट् ।) आघातः ।

यथा, शृङ्गारतिलके ।
“श्लाघ्यं नीरसकाष्ठताडनशतं श्लाघ्यः प्रचण्डातपः ॥”
यथाच, गारुडे ९६ अध्याये ।
“श्रुतिस्मृत्युक्तमाचारं कुर्य्यान्मर्म्माणि न स्पृशेत् ।
न निन्दाताडने कुर्य्यात् सुतं शिष्यञ्च ताडयेत् ।
आचरेत् सर्व्वदा धर्म्मं तद्विरुद्धन्तु नाचरेत् ॥”
अपि च चाणक्ये । १२ ।
“लालने बहवो दोषास्ताडने बहवो गुणाः ।
तस्मात् पुत्त्रञ्च शिष्यञ्च ताडयेन्न तु लालयेत् ॥”

ताडनी, स्त्री, (ताड्यतेऽनयेति । ताडि + करणे

ल्युट् स्त्रियां ङीप् ।) अश्वताडनयष्टिः । तत्-
पर्य्यायः । चर्म्मयष्टिः २ कशा ३ भीमा ४ चर्म्म-
लालिका ५ । इति शब्दमाला ॥

ताडपत्रं, क्ली, (तालस्य पत्रमिव । लस्य डत्वम् ।)

ताडङ्कः । इति हेमचन्द्रः । ३ । ३२० ॥

ताडिः, स्त्री, (ताडयति पत्रैः शोभते इति ।

तड दीप्तौ + णिच् + इन् ।) वृक्षविशेषः । इत्य-
मरटीकायां भरतः ॥ ताडियात् इति भाषा ॥

ताडी, स्त्री, (ताडिः कृदिकारादिति वा ङीष् ।)

पत्रद्रुमः । इत्यमरमेदिनीकरौ ॥ तत्पर्य्यायः ।
ताडिः २ ताली ३ तालिः ४ । इति भरतः ॥
ताडियात् इति भाषा ॥ (यथा, राजतर-
ङ्गिण्याम् । ३ । ३२८ ।
“शुष्यत्तमालपत्राणि शीर्णताडीदलानि च ।
तत्सेनार्णवतीराणि चक्रेऽरिस्त्रीमुखानि च ॥”)
आभरणविशेषः । इति दुर्गसिंहः ॥

ताडुलः, पुं, (ताडयतीति । तड + णिच् + उल ।)

ताडयिता । इति संक्षिप्तसारे उणादिदृत्तिः ॥

ताड्यमानः, पुं, (ताड्यते असौ । ताडि + कर्म्मणि

शानच् ।) पटहादिः । इति त्रिकाण्डशेषः ॥
ताडनयुक्ते, त्रि । (यथा, कुमारे । १ । ४५ ।
“अप्यन्यपुष्टा प्रतिकूलशब्दा
श्रोतुर्व्वितन्त्रीरिव ताड्यमाना ॥”)

ताण्डवं, क्ली, पुं, नृत्यम् । इत्यमरः । १ । ७ । १० ॥

ताण्डेन मुनिना कृतं ताण्डि नृत्यशास्त्रं तद-
स्यास्तीति । इति भरतः ॥ तण्डुना प्रोक्तमिति
स्वामी ॥
(“पुंनृत्यं ताण्डवं प्राहुः स्त्रीनृत्यं लास्यमुच्यते ॥”
इति शब्दार्थचिन्तामणिधृतवचनेन पुंनृत्यम् ॥)
तृणविशेषः । उद्धतनृत्यम् । इति मेदिनी । वे,
३६ ॥ (यथा, मत्स्यपुराणे । १ । १ ।
“प्रचण्डताण्डवाटोपे प्रक्षिप्ता येन दिग्गजाः ।
भवन्तु विघ्नभङ्गाय भवस्य चरणाम्बुजाः ॥”)
पृष्ठ २/६०३

ताण्डवतालिकः, पुं, (ताण्डवे शिवनृत्यकाले

यस्तालः स कार्य्यतयास्त्यस्येति । ठन् ।) नन्दी ।
स शिवद्वारी । इति त्रिकाण्डशेषः ॥

ताण्डवप्रियः, पुं, (ताण्डवं उद्धतनृत्यं प्रियमस्य ।)

शिवः । इति शब्दमाला ॥

ताण्डि, क्ली, (ताण्डेन मुनिना कृतम् । ताण्ड +

बहुलवचनात् इञ् ।) नृत्यशास्त्रम् । इत्यमर-
टीकायां भरतः ॥

तातः, पुं, (तनोति विस्तारयति गोत्रादिकमिति ।

तन + “दुतनिभ्यां दीर्घश्च ।” उणां । ३ । ९० ।
इति क्तः दीर्घश्च । अनुदात्तेति नलोपः ।)
पिता । इत्यमरः । २ । ६ । २८ । (यथा,
रघुः । ९ । ७५ ।
“हा तातेति क्रन्दितमाकर्ण्यविषण्ण-
स्त स्यान्विष्यन् वेतसगूढं प्रभवं सः ।
शल्यप्रोतं प्रेक्ष्य सकुम्भं मुनिपुत्त्रं
तापादन्तःशैल्य इवासीत् क्षितिपोऽपि ॥”)
अनुकम्प्यः । इति मेदिनी । ते, २१ ॥ (यथा,
भागवते । १ । १४ । ३९ ।
“कच्चित्तेऽनामयं तात ! भ्रष्टतेजा विभासि मे ।
अलब्धमानोऽवज्ञातः किं वा तात ! चिरो-
षितः ॥”)
पूज्ये, त्रि । इति शब्दरत्नावली ॥ (यथा, रघौ ।
१ । ७२ । वशिष्ठं प्रति दिलीपोक्तिः ।
“तस्मात् मुच्ये यथा तात ! संविधातुं तथार्हसि ।
इक्ष्वाकूणां दुरापेऽर्थे त्वदघीना हि सिद्धयः ॥”)

तातगुः, पुं, (तातस्य पितुरिव गौर्वाचकशब्दो

यत्र । गवान्तत्वात् गौण्ये ह्रस्वः ।) क्षुद्रतातः ।
पितृव्यः । जनकस्य हिते, त्रि । इति मेदिनी ।
गे, ३६ ॥

तातजनयित्र्यौ, स्त्री, (तातश्च जनयित्री च ते ।)

मातापितरौ । इत्यमरः ॥ द्बिवचनान्तोऽयम् ॥

ताततुल्यः, त्रि, (तातस्य पितुस्तुल्यः ।) पितृ-

समः । तत्पर्य्यायः । मनोजवसः २ । इति हेम-
चन्द्रः । ३ । १५२ ॥ मनोजवः ३ पितृसन्निभः ४ ।
इत्यमरः । तातलः ५ इति मेदिनी ॥

तातनः, पुं, (तातं मनोहरं यथा तथा नृत्यतीति ।

बृत् + बाहुलकात् डः ।) खञ्जनपक्षी । इति
त्रिकाण्डशेषः ॥

तातलः, पुं, (तापं लातीति । ला + कः । पृषोदरादि-

त्वात् पस्य तः ।) रोगः । पाकः । लौहकूटः ।
मनोजवः । इति मेदिनी । ले, ९८ ॥ तप्तमात्रे,
त्रि । इत्यजयपालः ॥

तातिः, पुं, पुत्त्रः । इति जटाघरः ॥

तात्कालिकः, त्रि, (तत्काले भवः । तत्काल +

“आपदादिपूर्ब्बपदात्कालान्तात् ।” ४ । २ ।
११६ । इत्यस्य वार्त्तिकोक्त्या ठञ् ।) तत्काल-
भवः । यथा, शुद्धितत्त्वे शङ्खः ।
“ततः श्राद्धमशुद्धौ तु कुर्य्यादेकादशे तथा ।
कर्त्तुस्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः ॥”

तात्पर्य्यं, क्ली, (तत्परस्य भावः । तत्पर +

ष्यञ् ।) अभिप्रायः । इति शब्दार्थकल्पतरुः ॥
वक्तुरिच्छा । (यथा, भाषापरिच्छेदे । ८४ ।
“आकाङ्क्षा वक्तुरिच्छा तु तात्पर्य्यं परिकीर्त्ति-
तम् ॥”)

तादात्म्यं, क्ली, (तदात्मनो भावः । तदात्मन् +

ष्यञ् ।) तत्स्वरूपम् । अभेदसम्बन्धः । इति
न्यायशास्त्रम् ॥

तादृक्, [श्] त्रि, स इव दृश्यतेऽसौ । (तद् +

दृश् + “त्यदादिषु दृशेरनालोचने कञ्च ।” ३ ।
२ । ६० । इति क्विन् । “आ सर्व्वनाम्नः ।”
६ । ३ । ९१ । इति आत्वम् ।) तादृशः ।
ताहार मत इति भाषा ॥ इति मुग्धबोधम् ॥
(यथा, पञ्चतन्त्रे । १ । २७९ ।
“यादृशैः सेव्यते भृत्यैर्यादृशांश्चोपसेवते ।
कदाचिन्नात्र सन्देहस्तादृग् भवति पूरुषः ॥”)

तादृक्षः, त्रि, (स इव दृश्यते इति । तद् + दृश्

+ त्यदादिष्वित्यत्र क्सोऽपि वाच्य इति क्सः ।)
तादृक् । इति मुग्धबोघम् ॥ (यथा, राज-
तरङ्गिण्याम् । ४ । २४२ ।
“ततः प्रभृति तादृक्षयोग्यार्थप्राप्तिलालसः ।
परिहासपुरे चक्रे स्थिरां गुर्व्वीं सपर्व्विणीम् ॥”)

तादृशः, त्रि, (स इव दृश्यते इति । तद् +

दृश् + “त्यदादिष्विति ।” ३ । २ । ६० । इति
कञ् ।) तादृक् । (यथा, पञ्चतन्त्रे । १ । ४३५ ।
“उपदेशो न दातव्यो यादृशे तादृशे जने ॥”)

तानं, क्ली, (तन दु ञ विस्तारे + भावे घञ् ।)

विस्तारः । ज्ञानविषयः । इति शब्दार्थकल्पतरुः ॥

तानः, पुं, (तन्यते गीतमनेनेति । तन + घञ् ।)

गानाङ्गविशेषः । यथा, सङ्गीतदामोदरे ।
“विस्तार्य्यन्ते प्रयोगा यैर्मूर्च्छनाशेषसंश्रयाः ।
तानास्तेऽप्यूनपञ्चाशत् सप्तस्वरसमुद्भवाः ॥
तेभ्य एव भवन्त्यन्ये कूटतानाः पृथक् पृथक् ।
ते स्युः पञ्चसहस्राणि त्रयस्त्रिंशच्छतानि च ॥”

तानवं, क्ली, (तनोर्भावः । तनु + “इगन्ताच्च लघु-

पूर्ब्बात् ।” ५ । १ । १३१ । इत्यण् ।) गात्रे
तनुता । यथा, उज्ज्वलनीलमणिः ।
“तानवत् तनुता गात्रे दौर्ब्बल्यभ्रमणादिकृत् ॥”
(यथा, आर्य्यासप्तशत्याम् । ३९३ ।
“परपतिनिर्द्दयकुलटाशोषित शठ ! नेर्ष्यया न
कोपेन ।
दग्धममतोपतप्ता रोदिमि तव तानवं वीक्ष्य ॥”)

तानूरः, पुं, (तन् + बाहुलकात् ऊरण् ।) पयसां

भ्रमः । आवर्त्तः । इति भूरिप्रयोगः ॥

तान्तः, त्रि, (तम + क्तः ।) श्रान्तः । इति

शब्दार्थकल्पतरुः ॥ (यथा, प्रद्युम्नविजये । २ अङ्के ।
“पान्थं श्रान्तिनितान्ततान्तमतुलं सन्तोषयत्या-
मृशन्
यत्रात्यन्तघनच्छदैर्व्विटपिभिश्छन्ने निरस्तातपे ॥”)

तान्त्रिकः, त्रि, (तन्त्रं सिद्धान्तं अधीते वेद वा ।

तन्त्र + “उक्थादित्वात् ठक् ।) ज्ञातसिद्धान्तः ।
शास्त्रतत्त्वज्ञः । इत्यमरः । २ । ८ । १५ ॥ तन्त्रशास्त्र-
वेत्ता तत्सम्बन्धी च ॥ (यथा, भागवते । ८ । ६ । ९ ।
“श्रेयोऽर्थिभिर्वैदिकतान्त्रिकेण ॥”)

तापः, पुं, (तप + घञ् ।) सन्तापः । (यथा,

भागवते । ३ । १४ । ४८ ।
“नैदाघजं तापमिवोडुराजः ॥”)
कृच्छ्रम् । इति मेदिनी । पे, ७ ॥ (त्रिविघ
दुःखम् । यथा देवीभागवते । १ । १ । ७ ।
“दीर्घायुर्भव सर्व्वज्ञ ! तापत्रयविवर्ज्जितः ॥”)

तापकः, पुं, (तापयतीति । तप + णिच् + ण्वुल् ।)

ज्वरः । इति शब्दरत्नावली ॥ तापकर्त्तरि त्रि ॥

तापत्यः, पुं, (तपती सूर्य्यकन्या तस्या अपत्यं

पुमान् । तपती + ण्यः ।) अर्ज्जुनः । इति
पुराणम् ॥ (यथा, महाभारते । ५ । ४६ । २ ।
“तस्मात्तापत्य ! यत्किञ्चिन्नॄणां श्रेय इहेप्सितम् ।
तस्मिन् कर्म्मणि योक्तव्या दान्तात्मानः
पुरोहिताः ॥”
तपतीवंशोद्भवकौरवमात्रम् । यथा, तत्रैव ।
१ । १७१ । ६९ ।
“सोऽहं त्वयेह विजितः संख्ये तापत्यवर्द्धन ! ॥”
तपत्या उपाख्यानम् । तपती + ष्यञ् । तप-
त्युपाख्याने, क्ली । यथा, तत्रैव । १ । २ । १०९ ।
“तापत्यमथ वाशिष्टमौर्व्वञ्चाख्यानमुत्तमम् ॥”
एतदुपाख्यानन्तु महाभारते आदिपर्व्वणि १७२
अध्याये द्रष्टव्यम् ॥)

तापनः, पुं, (तापयतीति । तप + णिच् + कर्त्तरि

ल्युः ।) सूर्य्यः । इति हेमचन्द्रः । २ । ९ ॥
(यथा, महाभारते । ५ । ४६ । २ ।
“शुक्राद्ब्रह्म प्रभवति ब्रह्म शुक्रेण वर्द्धते ।
तच्छ्रक्रं ज्योतिषां मध्ये तप्तं तपति तापनम् ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥”)
कामबाणुः । इति जटाघरः ॥ (यदुक्तं, --
“सम्मोहनोन्मादनौ च शोषणस्तापनस्तथा ।
स्तम्भनश्चेति कामस्य पञ्च बाणाः प्रकीर्त्तिताः ॥”)
सूर्य्यकान्तमणिः । इति राजनिर्घण्टः ॥ (क्ली,
नरकविशेषः । यथा, याज्ञवल्क्ये । ३ । २२४ ।
“असिपत्रवनञ्चैव तापनञ्चैकविंशकम् ॥”
भावे ल्युट् । तापकरणम् । यथा, सुश्रुते । १ । ४१ ।
“तद्दहनपचनदारणतापनप्रकाशनप्रभावर्णकर-
मिति ॥”) तापयितरि, त्रि ॥ (यथा, महा-
भारते । १ । १९ । २१ ।
“ततोऽम्बराच्चिन्तितमात्रमागतं
महाप्रभं चक्रममित्रतापनम् ॥”)

तापसं, क्ली, तमालपत्रम् । इति राजनिर्घण्टः ॥

तेजपात इति भाषा ॥

तापसः, त्रि, (तपोऽस्त्यस्येति । तपस् + “अण्च ।”

५ । २ । १०३ । इति अण् । यद्बा, तपः शील-
मस्य । “छत्रादिभ्यो णः ।” ४ । ४ । ६२ ।
इति णः ।) तपस्वी । इत्यमरः । २ । ७ । ४२ ॥
(यथा, मनुः । ६ । २७ ।
“तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् ॥”
तपःसम्बन्धी । यथा, गोः रामायणे । २ । ५२ । ५ ।
“तापसं व्रतमाश्रित्य ततो गुहसुवाच ह ॥”)
पुं, दमनकवृक्षः । वकपक्षी । इति राजनिर्घण्टः ॥
(इक्षुविशेषः । यथा, सुश्रुते । १ । ४५ ।
पृष्ठ २/६०४
“कान्तारस्तापसेक्षुश्च काष्ठेक्षुः सूचिपत्रकः ॥”
“इत्येता जातयः स्थौल्यात् गुणान् वक्ष्याम्यतः
परम् ॥”
“कान्तारतापसाविक्षू वंशकानुगुणौ मतौ ॥”)

तापसतरुः, पुं, (तापसप्रियस्तरुर्वृक्षः ।) इङ्गुदी-

वृक्षः । इत्यमरः । २ । ४ । ४६ ॥ (इङ्गुदीशब्दे-
ऽस्य विवरणं ज्ञातव्यम् ॥)

तापसद्रुमः, पुं, (तापसप्रियो द्रुमः ।) इङ्गुदी-

वृक्षः । इति हेमचन्द्रः । ४ । २०९ ॥ (पर्य्यायो-
ऽस्य यथा, --
“इङ्गुदोऽङ्गारवृक्षश्च तिक्तकस्तापसद्रुमः ॥”
इति, भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

तापसद्रुमसन्निभा, स्त्री, (तापसद्रुमस्य सन्निभा

समा ।) गर्भदात्रीक्षुपः । इति राजनिर्घण्टः ॥

तापसप्रियः, पुं, (तापसानां प्रियः ।) प्रियाल-

वृक्षः । इति राजनिर्घण्टः ॥ (इङ्गुदीवृक्षः ।
यथा, वैद्यकरत्नमालायाम् ।
“पीतपुष्पोऽङ्गारपुष्प इङ्गुदी तापसप्रियः ॥”)

तापसप्रिया, स्त्री, (तापसानां प्रिया ।) द्राक्षा ।

इति राजनिर्घण्टः ॥ (द्राक्षाशब्देऽस्या गुणा-
दयो ज्ञातव्याः ॥)

तापहरी, स्त्री, (तापं अरुचिजन्यसन्तापं हर-

तीति । हृ + बाहुलकात् टः । स्त्रियां ङीप् ।)
व्यञ्जनविशेषः । यथा, --
“घृते हरिद्रासंयुक्ता माषाणां भर्जयेद्वटीः ।
तण्डुलांश्चापि निर्धौतान् सहैव परिभर्जयेत् ॥)
सिद्धियोग्यं जलं तत्र प्रक्षिप्य कुशलः पचेत् ।
लवणार्द्रकहिङ्गूनि मात्रया तत्र निःक्षिपेत् ॥
एषां सिद्धिं समायाता प्रोक्ता तापहरी बुधैः ॥”
अस्या गुणाः ।
“भवेत्तापहरी वल्या वृष्या श्लेष्माणमाचरेत् ।
बृंहणी तर्पणी रुच्या गुर्व्वी तत्र गुणाः स्मृताः ॥”
ताहरी इति लोके । इति भावप्रकाशः ॥
तापहारिण्यां त्रि ॥

तापिञ्छः, पुं, (तापिनं सन्तप्तं छदति आच्छा-

दयतीति । छद् + अन्येष्वपीति डः । पृषो-
दरादित्वात् साधुः ।) तमालवृक्षः । इत्यमरः ।
२ । ४ । ६८ ॥ (यथा, गीतगोविन्दे । ११ । ११ ।
“व्यक्ष्णोर्निक्षिपदञ्जनं श्रवणयोस्तापिञ्छगुच्छा-
वलीम् ॥”
क्ली, तापिञ्छस्य पुष्पम् । फले लुगिति तद्धित-
लुक् । द्विहीनं प्रसवे सर्व्वमिति नपुंसकत्वम् ।
तापिञ्छपुष्पम् । यथा, माघे । १ । २२ ।
“प्रफुल्लतापिञ्छनिभैरभीषुभिः
शुभैश्च सप्तच्छदपांशुपाण्डुभिः ॥”)

तापिञ्जं, क्ली, (तापिनं जयतीति । जि + डः ।)

धातुमाक्षिकम् । इति राजनिर्घण्टः ॥

तापिञ्जः, पुं, तापिञ्छः । इत्यमरटीकायां भरतः ॥

तापी, स्त्री, (तापयतीति । तप + णिच् + अच् ।

गौरादित्वात् ङीष् ।) तापिनी नदी । सा
पश्चिमवाहिनी बिन्ध्याचले प्रसिद्धा । इति राज-
निर्घण्टः ॥ (यथा, मात्स्ये । ११३ । २७ ।
“तापी पयोष्णी निर्व्विन्ध्या क्षिप्रा च ऋषभा
नदी ।
बिन्ध्यपादप्रसूतास्ताः सर्व्वाः शीतजलाः
शुभाः ॥”
इयं सह्यपादोद्भवा इति विष्णुपुराणम् । २ ।
३ । ११ ॥
“तापी तापा च गोलोमी गोमती शालिता
मही ।
सरस्वती युता नद्यो नर्म्मदा पश्चिमानुगाः ॥
आसां जलं घनं शीतं पित्तघ्नं कफकृत्तथा ।
वातदोषहरं हृद्यं कण्डुकुष्ठविनाशनम् ॥”
इति हारीते प्रथमे स्थाने सप्तमेऽध्याये ॥)
यमुना । इति त्रिकाण्डशेषः ॥

तापी, [न्] (तापोऽस्यास्तीति । ताप + “अत

इनिठनौ” ५ । २ । ११५ । इति इनिः ।)
बुद्धः । इति त्रिकाण्डशेषः ॥ तापयुक्ते, त्रि ॥

ताप्यं, क्ली, (तापे हितम् । ताप + यत् ।) धातु-

माक्षिकम् । इति रत्नमाला ॥ हेमचन्द्रे पुंलिङ्गो-
ऽयम् । ४२१ ॥ (यथा, भावप्रकाशे ।
“ताप्यस्य पलत्रितयं द्वे लोहश्रावणीकायाः ॥”)

ताप्यकं, क्ली, (ताप्यमेव । स्वार्थे कन् ।) माक्षि-

कम् । इति राजनिर्घण्टः ॥ (माक्षिकशब्दे
विवृतिरस्य ज्ञेया ॥)

ताप्युत्थसंज्ञकं, क्ली, (ताप्युत्थासंज्ञा यस्य । कप् ।)

माक्षिकधातुः । इति रत्नमाला ॥

तामः, पुं, (ताम्यत्यनेनेति । तम + करणे घञ् ।)

भीषणः । दोषः । इत्यजयपालः ॥

तामरं, क्ली, (तामं म्लानिं रातीति । रा + कः ।)

जलम् । घृतम् । इति भरतधृतरुद्रः ॥

तामरसं, क्ली, (तामरे जले सस्तीति । सस् +

डः । यद्वा, बाहुलेकात् अमेरप्यसच् । तस्य
णित्त्वञ्च । धातोस्तुगागमश्च । णित्वात् वृद्धिः ।
इत्युज्जलदत्तः । ३ । ११७ ॥) पद्मम् । (यथा,
राजेन्द्रकर्णपूरे । ५४ ।
“जाता तामरसोदरे भगवतो धातुः कृतार्था
स्थितिः ॥”)
सारसः । इत्यमरः । १ । १० । ४० ॥ स्वर्णम् ।
ताम्रम् । इति मेदिनी । से, ५३ ॥ (द्बादशा-
क्षरच्छन्दोविशेषः । तस्य लक्षणादिकं छन्दः-
शब्दे द्रष्टव्यम् ॥)

तामलकी, स्त्री, भूम्यामलकी । इत्यमरः । २ । ४ ।

१२७ ॥ (यथा, सुश्रुते उत्तरतन्त्रे ३९ अध्याये ।
“कटुकेन्द्रयवोशीरसिंही तामलकीघनैः ॥”)

तामलिप्तं, क्ली, देशविशेषः । तमलुक् इति

भाषा ॥ तत्पर्य्यायः । दाम-
लिप्तम् २ तामलिप्ती ३ तमालिनी ४ स्तम्बपूः ५
विष्णुगृहम् ६ । इति हेमचन्द्रः । ४ । ४५ ॥
तमोलिप्ती ७ वेलाकूलम् ८ तमालिका ९ । इति
त्रिकाण्डशेषः ॥

तामलिप्ती, स्त्री, देशविशेषः । तमलुक् इति

भाषा ॥ तत्पर्य्यायः । दाम-
लिप्तम् २ तामलिप्ती ३ तमालिनी ४ स्तम्बपूः ५
विष्णुगृहम् ६ । इति हेमचन्द्रः । ४ । ४५ ॥
तमोलिप्ती ७ वेलाकूलम् ८ तमालिका ९ । इति
त्रिकाण्डशेषः ॥

तामसं, त्रि, (तम एव । तमस् + स्वार्थे अण् ।)

प्रकृतिगुणविशेषः । तद्धर्म्मा यथा, --
“त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।
सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥
यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः ।
प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥
यातयामं गतरसं पूतिपर्य्युषितञ्च यत् ।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥
मूढग्राहेणात्मनो यत् पीडया क्रियते तपः ।
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।
असत्कृतमवज्ञानं तत्तामसमुदाहृतम् ॥”
इति श्रीभगवद्गीतायां १७ अध्यायः ॥ * ॥
किञ्च तत्रैव १८ अध्याये ।
“नियतस्य तु सन्न्यासः कर्म्मणो नोपपद्यते ।
मोहात्तस्य परित्यागस्तामसः परिकीर्त्तितः ॥
यत्तु कृत्स्नवदेकस्मिन् कार्य्ये सक्तमहेतुकम् ।
अतत्त्वार्थवदल्पञ्च तत्तामसमुदाहृतम् ॥
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् ।
मोहादारभ्यते कर्म्म यत्तत्तामसमुच्यते ॥
अयुक्तः प्राकृतस्तब्धः शटो नैकृतिकोऽलसः ।
विषादी दीर्घसूत्री च कर्त्ता तामस उच्यते ॥
अधर्म्मं धर्म्ममिति या मन्यते तमसावृता ।
सर्व्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ ! तामसी ।
यया स्वप्नं भयं शोकं विषादं मदमेव च ।
न विमुञ्चति दुर्म्मेधा धृतिः सा तामसी मता ॥
यदग्रे चानुबन्धे च सुखमोहनमात्मनः ।
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥”

तामसः, पुं, (तमस्तमोगुणः प्रघानत्वेनास्त्यस्येति ।

अण् ।) सर्पः । खलः । इति मेदिनी । से, २५ ॥
उलूकः । इति राजनिर्घण्टः ॥ चतुर्थमनुः ।
अस्मिन्मन्वन्तरे हरिनामा विष्णोरवतारः ।
त्रिशिखनामा इन्द्रः । वैधृतयो देवाः । ज्योति-
र्घामादयः सप्तर्षयः । वृषख्यातिनरादयो मनु-
सुताः । इति श्रीभागवतम् ॥ * ॥ तमोगुण-
युक्ते, त्रि ॥ (यथा, मनुः । १२ । ३३ ।
“लोभः स्वप्नोऽधृतिः क्रौर्य्यं नास्तिक्यं भिन्न-
वृत्तिता ।
याचिष्णुता प्रमादश्च तामसं गुणलक्षणम् ॥”)
तामसमुनयो यथा । कणादः १ गौतमः २ शक्त्रिः ३
उपमन्युः ४ जैमिनिः ५ दुर्व्वासाः ६ मृकण्डुः ७
बृहस्पतिः ८ भार्गवः ९ जमदग्निः १० ॥ तामस-
शास्त्राणि यथा । असुरमोहनार्थशिवकृत-
शैवपाशुपतादि १ कणादकृतनग्ननीलपटादि २
ब्राह्मणरूपिभगवद्कृतबौद्धशास्त्रम् ३ जैमिनि-
कृतनिरीश्वरसांख्यम् ४ ॥ तामसपुराणानि यथा ।
मात्स्यम् १ कौर्म्मम् २ लैङ्गम् ३ शैवम् ४
स्कान्दम् ५ आग्नेयम् ६ ॥ तामसस्मृतयो यथा ।
गौतमम् १ बार्हस्पत्यम् २ सामुद्रम् ३ यमम् ४
शाङ्ख्यम् ५ औशनसम् ६ ॥ * ॥ राजसतामस-
कर्म्माणि यथा, --
“यत् शैवं दैवतं पैत्रमौपदैवं तथाध्वरम् ।
शाक्तं शैवं गाणपत्यं यागहोमादिकं तथा ॥
पृष्ठ २/६०५
पौरोहित्यं याजनञ्च देवल्कं ग्रामयाजकम् ।
विष्णुसेवापराधञ्च तथा नामापराधकम् ॥
असत्प्रतिग्रहं देवि ! साङ्कल्पमाभिचारिकम् ।
पशुजीवादिहननं पातकञ्चोपपातकम् ॥
अतिपापं महापापमनुपातकमेव च ।
लोभं मोहमहङ्कारं कामं क्रोधं मदन्तथा ॥
एतद्यदपरं कर्म्म गर्हितञ्च वरानने ! ।
राजसं तामसं प्रोक्तं मया च मुनिभिः सदा ॥”
इति पाद्मोत्तरखण्डम् ॥

तामसिकं, त्रि, (तमसा तमोगुणेन निर्वृत्तम् ।

तमस् + ठञ् ।) तामसम् । तमोगुणकार्य्यम् ॥

तामसी, स्त्री, (तमोऽन्धकारः प्राधान्येन अस्ति

अस्याम् । तमस् + अण् । स्त्रियां ङीष् ।)
निशा । दुर्गा । इति मेदिनी । से, २५ ॥ जटा-
मांसी । इति राजनिर्घण्टः ॥ (तमोगुणसम्ब-
न्धिनी । यथा, देवीभागवते । ३ । ८ । ५ ।
“सात्त्विकी राजसी चैव तामसी च तथा परा ।
श्रद्धा तु त्रिविधा प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः ॥”)

तामिस्रं, क्ली, (तमिस्रं अन्धकारततिरस्त्यस्येति ।

तमिस्र + अण ।) अन्धकारमयनरकम् । इति
मनुः ॥ परवित्तापत्यकलत्रापहर्त्ता यमदूतैर्निपा-
त्यते यत्र । इति श्रीभागवतम् ॥ (अन्धकारमये,
त्रि । यथा, महाभारते । ३ । १६२ । १० ।
“तामिस्रं प्रथमं पक्षं वीतशोकभयो वस ॥”
अन्धकारविचारिणि । यथा, रघुः । १५ । २ ।
“लवणेन विलुप्तेज्यास्तामिस्रेण तमभ्ययुः ॥”)

तामिस्रः, पुं, (तमिस्रं तमोगुणोत्थः क्रोधः

प्रचुरतयास्त्यस्येति । अण् ।) भोगेच्छाप्रतिघाते
क्रोघः । इति श्रीभागवतटीकायां स्वामी ॥
(यथा, भागवते । ३ । १२ । २ ।
“ससर्ज्जाग्रेऽन्धतामिस्रमथ तामिस्र आदिकृत् ॥”)

ताम्बूलं, क्ली, (तम + “खर्जिपिञ्जादिभ्य ऊरो-

लचौ ।” उणां । ४ । ९० । इति ऊलच् बुगा-
गमो दीर्घश्च ।) पर्णम् । पान इति भाषा ।
अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्ण-
त्वम् । मधुरत्वम् । क्षारत्वम् । कषायत्वम् ।
वातकृमिकफदुःखदोषनाशित्वम् । कामाग्नि-
सन्दीपनत्वम् । स्त्रीसम्भाषणभूषणत्वम् । धृति-
वक्त्रपाटवोत्साहकान्तिकारित्वम् । सुप्तोत्थिते
भुक्ते च शस्तत्वम् । दन्तास्यदृग्गदे त्याज्यत्वम् ।
स्वर्गेऽपि दुर्लभत्वञ्च । इति राजवल्लभः ॥
अपि च । तीक्ष्णत्वम् । पीनसकासनाशित्वम् ।
रुच्यत्वम् । दाहकारित्वञ्च ॥ * ॥ कृष्णपर्णस्य
गुणाः । तिक्तत्वम् । उष्णत्वम् । कषायत्वम् ।
दाहवक्त्रजाड्यमलधारित्वञ्च ॥ * ॥ शुभ्रपर्णस्य
गुणाः । श्लेष्मवातामयनाशित्वम् । पथ्यत्वम् ।
रुच्यत्वम् । दीपनत्वम् । पाचनत्वञ्च ॥ * ॥
सद्यस्त्रोटितताम्बूलभक्षणगुणाः । मुखरोगजाड्य-
दोषवातारोचकरक्तमलविष्टम्भकान्तिकारित्वम् ॥
त्रिरात्रत्रोटितभूयोजलयोजितताम्बूलगुणाः ।
उत्तमत्वम् । रुचिबलकारित्वम् । त्रिदोषार्त्ति-
नाशित्वञ्च ॥ * ॥
“शिरापर्णन्तु शैथिल्यं कुर्य्यात्तस्यास्रहृद्रसः ।
शीर्णं त्वग्दोषदन्तस्य भक्षिते तु सितासिते ॥
अनिधाय मुखे पर्णं पूगं स्वादयते नरः ।
मतिभ्रंशो दरिद्रः स्यादन्ते न स्मरते हरिम् ॥”
इति राजनिर्घण्टः ॥ * ॥
“पर्णमूले वसेद्ब्याधिः पर्णाग्रे पापसञ्चयः ।
चूर्णपर्णं हरेदायुः शिरा बुद्धिविनाशिनी ॥
नायुरग्रे विषं मूले मध्येऽलक्ष्मीर्व्यवस्थिता ।
तस्मादग्रञ्च मूलञ्च मध्यं पर्णस्य वर्ज्जयेत् ॥
चूर्णाधिकं हरति गन्धमथाधिपूगं
रागं तथाधिकदलञ्च सुगन्धिकारि ।
ताम्बूलमुत्तममिदं रसनाग्रभिन्न-
पर्णं निशास्वधिकखण्डितपर्णमह्नि ॥
ताम्बूलं न हितं प्रोक्तं शरीरे रूक्षदुर्ब्बले ।
ज्वरास्यशोषपित्तास्रमदमूर्च्छाक्षिरोगिषु ॥
ताम्बूलात्युपयोगात् स्याच्छोषः पित्तानिलास्रता ।
देहदृक्केशदन्ताग्निश्रोत्रवर्णबलक्षयः ॥”
इति राजवल्लभः ॥ * ॥
“विना पणं मुखे दत्त्वा गुवाकं भक्षयेद्यदि ।
तावद्भवति चण्डालो यावद्गङ्गां न गच्छति ॥”
इति कर्म्मलोचनम् ॥ * ॥
“ताम्बूलं विधवास्त्रीणां यतिनां ब्रह्मचारिणाम् ।
तपस्विनाञ्च विप्रेन्द्र ! गोमांससदृशं ध्रुवम् ॥”
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डम् ॥ * ॥
अस्य नामानि गुणाश्च । यथा, भावप्रकाशे ।
“ताम्बूलवल्ली ताम्बूली नागिनी नागवल्लरी ।
ताम्बूलं विशदं रुच्यं तीक्ष्णोष्णं तुवरं सरम् ॥
वश्यं तिक्तकटुक्षारं रक्तपित्तकरं लघु ।
बल्यं श्लेष्मास्यदौर्गन्धमलवातश्रमापहम् ॥”
क्रमुकम् । इति मेदिनी । ले, ९७ ॥

ताम्बूलकरङ्कः, पुं, (ताम्बूलस्य ताम्बूलरक्षणाय

वा करङ्कः ।) ताम्बूलपात्रम् । पानेर वाटा इति
भाषा ॥ तत्पर्य्यायः । स्थगी २ । इति हेम-
चन्द्रः । ३ । ३८२ ॥

ताम्बूलदः, त्रि, (ताम्बूलं ददातीति । दा + कः ।)

ताम्बूलदाता । तत्पर्य्यायः । वाग्गुलिकः २ ।
इति त्रिकाण्डशेषः ॥

ताम्बूलपत्रः, पुं, (ताम्बूलस्य पत्रमिव पत्रमस्य ।)

पिण्डालुः । इति राजनिर्घण्टः ॥ (ताम्बूलपर्णे,
क्ली । यथा, सुश्रुते । १ । ४६ ।
“ताम्बूलपत्रं तीक्ष्णोष्णं कटुपित्तप्रकोपनम् ॥”)

ताम्बूलरागः, पुं, (ताम्बूलस्य चर्व्वितताम्बूलस्य

राग इव रागोऽत्र ।) मसूरः । इति हारा-
वली । १३३ ॥ ताम्बूलस्य रङ्गञ्च ॥

ताम्बूलवल्लिका, स्त्री, (ताम्बूलस्य वल्ली ततः स्वार्थे

कन् टापि पूर्ब्बह्रस्वश्च ।) ताम्बूली । इति शब्द-
रत्नावली ॥

ताम्बूलवल्ली, स्त्री, (ताम्बूलस्य वल्ली ।) ताम्बूल-

लता । पानेर गाछ । इति भाषा ॥ तत्पर्य्यायः ।
ताम्बूली २ नागवल्ली ३ । इत्यमरः । २ । ४ ।
१२० ॥ पर्णलता ४ सप्तशिरा ५ सर्पलता ६
फणिवल्ली ७ भुजगलता ८ भक्ष्यपत्रा ९ । इति
राजनिर्घण्टः ॥ ताम्बूलवल्लिका १० पर्णवल्ली ११
ताम्बूलिः १२ । इति शब्दरत्नावली ॥ नागिनी १३
नागवल्लरी १४ । इति भावप्रकाशः ॥

ताम्बूली, स्त्री, (ताम्बूल + गौरादित्वात् संज्ञायां

वा ङीष् ।) ताम्बूलवल्ली । इत्यमरः । २ । ४ । १२० ॥
(यथा, कथासरित्सागरे । ९ । ८१ ।
“ताम्बूलीश्च सहाम्लानिमालातिलकयुक्तिभिः ॥”)

ताम्रं, क्ली, (तम्यते आकाङ्क्ष्यते इति । तमु

काङ्क्षायाम् + “अमितम्योर्दीर्घश्च ।” उणां । २ ।
१६ । इति रक् उपधाया दीर्घश्च ।) तैजस-
घातुविशेषः । तामा इति ताँवा इति च भाषा ॥
तत्पर्य्यायः । ताम्रकम् २ शुल्वम् ३ म्लेच्छ-
मुखम् ४ द्ब्यष्टम् ५ वरिष्ठम् ६ उडुम्बरम् ७ ।
इत्यमरः । २ । ९ । ९७ ॥ द्विष्ठम् ८ उदम्बरम् ९
औदुम्बरम् १० उदुम्बरम् ११ औडुम्बरम् १२ ।
इति तट्टीका ॥ तपनेष्टम् १३ अम्बकम् १४
अरविन्दम् १५ रविलोहम् १६ रविप्रियम् १७
रक्तम् १८ नैपालिकम् १९ रक्तधातु २० मुनि-
पित्तलम् २१ अर्कम् २२ सूर्य्याङ्गम् २३ लोहि-
तायसम् २४ । इति शब्दरत्नावली ॥ सुपक्वस्य
तस्य गुणाः । मधुरत्वम् । कषायत्वम् । तिक्त-
त्वम् । विपाके कटुत्वम् । शीतलत्वम् । कफपित्त-
विबन्धशूलपाण्डूदरगुल्मनाशित्वञ्च । इति राज-
निर्घण्टः ॥ अम्लत्वम् । सारकत्वम् । रोपण-
त्वम् । लघुत्वम् । लेखनत्वम् । अर्शोज्वरकुष्ठ-
कासश्वासक्षयपीनसाम्लपित्तशोथकृमिनाशि-
त्वम् । अल्पबृंहणत्वञ्च । इति भावप्रकाशः ॥
परिणामशूलप्लीहवाय्वामशूलबहुरोगनाशित्वम् ।
शुद्धिकारित्वम् । बलायुस्तेजःपुष्टितुष्टिकारित्वं
नित्यसेवने वलीपलितनाशित्वञ्च ॥ * ॥ मृद्-
वेष्टितशूरणकन्दगर्भनिहितगोमयाग्निभस्मीकृत-
पञ्चामृतद्बारा पञ्चपुटदत्तताम्रस्य गुणाः ।
वान्तिभ्रान्तिशूलाग्निमान्द्याम्लपित्तनाशित्वम् ।
बलकारित्वञ्च ॥ * ॥ अशोधितताम्रदोषाः ।
आयुःशुक्रबलनाशित्वम् । रोगवृद्धिच्छर्द्दिमूर्च्छा-
भ्रमक्लेदनानारोगकुष्ठशूलविदाहस्वेदारुचिचित्त-
सन्तापकारित्वम् । विषतुल्यत्वञ्च । इति सुख-
बोधः ॥ * ॥ तस्योत्पत्तिर्यथा, --
“शुक्रं यत् कार्त्तिकेयस्य पतितं धंरणीतल ।
तस्मात् ताम्रं समुत्पन्नमिदमाहुः पुराविदः ॥”
तस्य लक्षणं यथा, --
“जपाकुसुमसङ्काशं स्निग्धं मृदुं घनं क्षमम् ।
लोहनागोज्झितं ताम्रं मारणाय प्रशस्यते ॥
कृष्णरूक्षमतिस्तब्धं श्वेतञ्चापि घनासहम् ।
लोहनागयुतञ्चेति शुल्वं दुष्टं प्रकीर्त्तितम् ॥”
तस्य शोघनविधिर्यथा, --
“पत्तलीकृतपत्राणि ताम्रस्याग्नौ प्रतापयेत् ।
निषिञ्चेत् तप्ततप्तानि तैले तक्रे च काञ्जिके ॥
गोमूत्रे च कुलत्थानां कषाये च त्रिधा त्रिधा ।
एवं ताम्रस्य पत्राणां विशुद्धिः संप्रजायते ॥”
अथ तस्य मारणविधिर्यथा, --
“सूक्ष्माणि ताम्रपत्राणि कृत्वा संस्वेदयेद्बुधः ।
पृष्ठ २/६०६
वासरत्रयमम्लेन ततः खल्ले विनिःक्षिपेत् ॥
पादांशं सूतकं दत्त्वा याममम्लेन मर्द्दयेत् ।
तत उद्धृत्य पत्राणि लेपरेद्द्विगुणेन च ।
गन्धकेनाम्लघृष्टन तस्य कुर्य्याच्च गोलकम् ॥
ततः पिष्ट्वा च मीनाक्षीं चाङ्गेरीं सपुनर्नवाम् ।
तत्कल्केन बहिर्गोलं लेपयेद्द्व्यङ्गुलोन्मितम् ॥
धृत्वा तद्गोलकं भाण्डे शरावेण च रोघयेत् ।
बालुकाभिः प्रपूर्य्याथ विभूतिलवणाम्बुभिः ॥
दत्त्वा भाण्डमुखे मुद्रां ततञ्चुल्यां विपाचयेत् ।
क्रमवृद्ध्याग्निना सम्यक् यावद्यामचतुष्टयम् ॥
स्वाङ्गशीतं ससुद्धृत्य मर्द्दयेच्छूरणद्रवैः ।
यामैकं गोलकं तच्च निःक्षिपेच्छूरणोदरे ॥
मृदा लेपस्तु कर्त्तव्यः सर्व्वतोऽङ्गुष्ठमात्रकः ।
पाच्यं गजपुटे क्षिप्तं मृतं भवति निश्चितम् ॥
वमनञ्च विरेकञ्च भ्रमं क्लममथारुचिम् ।
विदाहं स्वेदमुत्क्लेदं न करोति कदाचन ॥”
इति भावप्रकाशः ॥ * ॥
शुल्वनिभः । अरुणवर्णः । इति हेमचन्द्रः
शब्दरत्नावली च ॥ तद्बति, त्रि ॥
(“न विषं विषमित्याहुस्ताम्रञ्च विषमुच्यते ।
एकदीषो विषे त्वष्टौ दोषास्ताम्रे प्रकीर्त्तिताः ॥
भ्रमो मूर्च्छा विदाहश्च उत्क्लेदशोषवान्तयः ।
अरुचिश्चित्तसन्ताप एते दोषा विषोपमाः ॥
तस्माद्बिशुद्धं ताम्रं हि ग्राह्यं रोगोपशान्तये ।
पटुना रविदुग्धेन ताम्रपत्राणि लेपयेत् ॥
अग्नौ सन्ताप्य निर्गुण्डीरसे सिञ्चेत् पुनः पुनः ॥
मतान्तरम् ।
गोमूत्रेण पचेद्यामं ताम्रपत्रं दृढाग्निना ।
शुध्यते नात्र सन्देहो मारणञ्चात्र कथ्यते ॥
इति ताम्रशोधनम् ॥ * ॥
अथ ताम्रमारणम् ।
सूतमेकं द्विधा गन्धं यामं मर्द्द्यन्तु कन्यया ।
द्वयोस्तुल्यं ताम्रपत्रं लिप्त्वा स्थाल्यां निधापयेत् ।
सम्यक् शूरणजैः सार्द्धं पार्श्वे भस्म निधापयेत् ।
चतुर्यामं पचेच्चुल्ल्यां पात्रपृष्ठे सगोमये ॥
जलं पुनः पुनर्द्देयं स्वाङ्गशीतं विमर्द्दयेत् ।
म्रियते नात्र सन्देहः सर्व्वरोगेषु योजयेत् ॥
मतान्तरम् ।
जम्ब्वाम्भसा सैन्धवसंयुतेन
सगन्धकं स्थापय शुल्वपत्रम् ।
पक्वायमानं पुटयेत् सुयुक्त्या
वातादिकं यावदुपैति शान्तिम् ॥
अन्यतरमतम् ।
शुद्धं ताम्रदलं विमर्द्द्या पटुना क्षारेण जम्बीरजै
नींरैर्घस्रमिदं स्नुह्यर्कपयसा लिप्तं धमेत् सप्तधा ।
निर्गुण्ड्यम्बुहिमं रसेन्द्रकलितं दुग्धाज्यगन्धेन तत्
तुल्येनाथ मृतंभवेत् सुपठितं पञ्चामृतेन त्रिधा ॥
गुणा यथा, --
वान्तिभ्रान्तिविवर्ज्जितं क्षयरुजाकुष्ठानि
पाण्ड्वामयं
शूलं मेहगुदाङ्कुरानिलगदानुक्तानुपानैर्जयेत् ।
गुञ्जामात्रमिदन्ततो द्बिगुणितं तच्छुद्धकायेन चेत्
भुक्तः स्थौल्यजरापमृत्युशमनं पथ्याशिना वत्स-
रात् ॥
ताम्रमुष्णं गरहरं यकृत्प्लीहोदरापहम् ।
क्रिमिशूलामवातघ्नं ग्रहण्यर्शोऽम्लपित्तजित् ॥”
इति ताम्रमारणम् ॥ * ॥
इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि-
कारे ॥)

ताम्रः, पुं, (ताम्रस्येव वर्णोऽस्त्यस्य । अच् ।

ताम्रवर्णत्वादस्य तथात्वम् ।) कुष्ठरोगविशेषः ।
इति कर्म्मविपाकः ॥ (द्बीपभेदः । यथा, महा-
भारते । २ । ३१ । ६५ ।
“द्वीपं ताम्राह्वयञ्चैव पर्व्वतं रामकं तथा ॥”)

ताम्रकं, क्ली, (ताम्र + स्वार्थे संज्ञायां वा कन् ।)

ताम्रम् । इत्यमरः । २ । ९ । ९७ ॥

ताम्रकर्णी, स्त्री, (ताम्रवर्णौ कर्णौ यस्याः

स्त्रियां ङीष् ।) अञ्जना नाम पश्चिमदिग्घस्ति-
पत्नी । इत्यमरः । १ । ३ । ५ ॥

ताम्रकारः, पुं, (ताम्रं करोति ताम्रधातुभिः

पात्रादिकं निर्म्मातीति । कृ + अण् ।) वर्ण-
सङ्करजातिविशेषः । तत्पर्य्यायः । ताम्रिकः २
शौल्विकः ३ ताम्रकुदृकः ४ । इति शब्दरत्ना-
वली ॥ अस्योत्पत्तिः कंसकारशब्दे द्रष्टव्या ॥

ताम्रकुट्टकः, पुं, (ताम्रं कुट्टयतीति । कुट्ट + ण्वुल् ।)

ताम्रकारः । इत्यमरः । २ । १० । ८ ॥

ताम्रकूटः, पुं क्ली, (ताम्रनिर्म्मितं कूटमिव

ताम्रस्य कूटमिव वा ।) क्षुपविशेषः । तामाक्
इति भाषा । यथा, --
“सम्बिदा कालकूटञ्च ताम्रकूटञ्च धुस्तुरम् ।
अहिफेणं खर्ज्जुरसः तारिका तरिता तथा ॥
इत्यष्टौ सिद्धिद्रव्याणि यथा सूर्य्याष्टकं प्रिये ॥”
इति कुलार्णवतन्त्रम् ॥

ताम्रक्रमिः, पुं, (ताम्रवर्णः क्रमिः कीटः ।) इन्द्र-

गोपकीटः । इति भूरिप्रयोगः हारावली च ॥

ताम्रगर्भं, क्ली, (ताम्रं गर्भ उत्पत्तिस्थानमस्य ।)

तुत्थम् । इति राजनिर्घण्टः ॥

ताम्रचूडः, पुं स्त्री, (ताम्रा ताम्रवर्णा चूडा

अस्य ।) कुक्कुटः । इत्यमरः । २ । ५ । १७ ॥
(यथा, महाभारते । ३ । २२४ । २४ ।
“अपरेणाग्निदायादस्ताम्रचूडं भुजेन सः ।
महाकायमुपश्लिष्टं कुक्कुटं बलिनां वरम् ॥”
यथा चोत्तरतन्त्रे ३९ अध्याये सुश्रुतेनोक्तम् ।
“ताम्रचूडस्य मांसेन पिबेद्बा मद्यमुत्तमम् ॥”)
कुक्कुरद्रुः । इति राजनिर्घण्टः ॥

ताम्रदुग्धा, स्त्री, (ताम्रं रक्तवर्णं दुग्धं क्षीरं

रसोऽस्याः ।) गोरक्षदुग्धा । इति राज-
निर्घण्टः ॥

ताम्रपट्टं, क्ली, (ताम्रेण निर्म्मितं पट्टं पत्रम् ।)

ताम्रनिर्म्मितलेखनपत्रम् । यथा, --
“दत्त्वा भूमिं निबन्धं वा कृत्वा लेख्यन्तु कारयेत् ।
आगामिभद्रनृपतिः परिज्ञानाय पार्थिवः ॥
पटे वा ताम्रपट्टे वा समुद्रोपरिचिह्नितम् ॥”
इति मिताक्षरा ॥

ताम्रपत्रः, पुं, (ताम्रं ताम्रवर्णं पत्रमस्य ।)

जीवशाकः । इति राजनिर्घण्टः ॥ ताम्र-
निर्म्मितपत्रे, क्ली ॥

ताम्रपर्णी, स्त्री, दीर्घिकाभेदः । इति भूरिप्रयोगः ॥

नदीविशेषः । इति पुराणम् ॥ (यथा, रघुः ।
४ । ५० ।
“ताम्रपर्णीं समेतस्य मुक्तासारं महोदधेः ॥”)

ताम्रपल्लवः, पुं, (ताम्रवर्णं पल्लवमस्य ।)

अशोकवृक्षः । इति राजनिर्घण्टः ॥ (अस्य
पर्य्याया यथा, --
“अशोको हेमपुष्पश्च वञ्जुलस्ताम्रपल्लवः ।
कङ्केलिः पिण्डपुष्पश्च गन्धपुष्पो नटस्तथा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

ताम्रपाकी, [न्] पुं, (पच्यते इति । पच + घञ्

कुत्वञ्च । ताम्रः ताम्रवर्णः पाकः परिणति-
रस्त्यस्येति । इनिः ।) गर्द्दभाण्डवृक्षः । इति
रत्नमाला ॥

ताम्रपादी, स्त्री, (ताम्रो रक्तवर्णः पादो मूल-

देशोऽस्याः ।) हंसपदी । इति राजनिर्घण्टः ॥
(हंसपदीशब्दे विवृतिरस्या ज्ञातव्या ॥)

ताम्रपुष्पः, पुं, (ताम्रवर्णं पुष्पमस्य ।) रक्त-

काञ्चनः । इति जटाघरः ॥ (अस्य पर्य्यायाः
यथा भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।
“कोविदारश्चमरिकः कुद्दालो युगपत्रकः ।
कुण्डली ताम्रपुष्पश्च स्मन्तकः स्वल्पकेशरी ॥”)
भूमिचम्पकः । इति शब्दचन्द्रिका ॥

ताम्रपुष्पिका, स्त्री, (ताम्रवर्णं पुष्पमस्याः । कप्

टापि अत इत्वञ्च ।) रक्तत्रिवृत् । इति राज-
निर्घण्टः ॥ (रक्तत्रिवृत्शब्दे ज्ञातव्यमस्या विव-
रणम् ॥)

ताम्रपुष्पी, स्त्री, (ताम्रवर्णं पुष्पमस्या इति ।

ङीष् ।) धातकी । (अस्याः पर्य्याया यथा, --
“घातकी धातुपुष्पी च ताम्रपुष्पी च कुञ्जरा ।
सुभिक्षा बहुपुष्पी च वह्निज्वाला च सा स्मृता ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
पाटलावृक्षः । इति राजनिर्घण्टः ॥ (पर्य्यायाः
यथा, --
“पाटलिः पाटला मोघा मधुदूती फलेरुहा ।
कृष्णवृन्ता कुवेराक्षी कालस्थाल्यलिवल्लभा ॥
ताम्रपुष्पी च कथिता परा स्यात् पाटला सिता ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

ताम्रफलः, पुं, (ताम्रं ताम्रवर्णं फलमस्य ।)

अङ्कोटवृक्षः । इति राजनिर्घण्टः ॥

ताम्रमूला, स्त्री, (ताम्रं ताम्रवर्णं मूलमस्याः ।)

दुरालभा । (यथा, भावप्रकाशे । ज्वराधिकारे
श्वासचिकित्सायाम् ।
“सिंही व्याघ्री ताम्रपर्णी पटोली ॥”)
लज्जालुः । इति राजनिर्घण्टः ॥ कच्छुरा ।
इति रत्नमाला ॥ खिराइ इति भाषा ॥

ताम्रवर्णः, पुं, (ताम्रस्येव वर्णोऽस्य ।) पल्लि-

षाहतृणम् । इति राजनिर्घण्टः ॥ (भारत-
वर्षीयद्वीपभेदः । यथा, मात्स्ये । ११३ । ८ ।
पृष्ठ २/६०७
“भारतस्यास्य वर्षस्य नव भेदान् निबोध मे ।
इन्द्रद्वीपः कसेरुश्च ताम्रवर्णो गभस्तिमान् ॥”)

ताम्रवर्णा, स्त्री, (ताम्रस्येव वर्णमस्या इति ।

टाप् ।) ओड्रपुष्पवृक्षः । इति शब्दचन्द्रिका ॥

ताम्रवल्ली, स्त्री, (ताम्रवर्णा वल्ली । मध्यपदलोपी

समासः ।) मञ्जिष्ठा । इति रत्नमाला ॥ चित्र-
कूटदेशप्रसिद्धा लता । तत्पर्य्यायः । ताम्रा २
ताली ३ तमाली ४ तमालिका ५ सूक्षवल्ली ६
सुलोमा ७ शोधनी ८ तालिका ९ । अस्या
गुणाः । कषायत्वम् । कफदोषमुखकण्ठोत्थ-
रोगनाशित्वम् । श्लेष्मशुद्धिकारित्वञ्च । इति
राजनिर्घण्टः ॥

ताम्रवीजः, पुं, (ताम्रवर्णं वीजमस्य ।) कुलत्थः ।

इति राजनिर्घण्टः ॥

ताम्रवृक्षः, पुं, (ताम्रमिव रक्तवर्णो वृक्षः ।)

रक्तचन्दनम् । कुलत्थः । इति रत्नमाला ॥

ताम्रवृन्तः, पुं, (ताम्रमिव रक्तवर्णं वृन्तमस्य ।)

कुलत्थः । इति त्रिकाण्डशेषः ॥

ताम्रवृन्ता, स्त्री, (ताम्रमिव रक्तवर्णं वृन्तमस्याः इति

टाप् ।) कुलत्थिका । इति हेमचन्द्रः । ४ । २४१ ॥

ताम्रशिखी, [न्] पुं स्त्री, (ताम्रवर्णा शिखा

चूडा अस्त्यस्य । इति इनिः ।) कुक्कुटः ।
इति जटाधरः ॥

ताम्रसारं, क्ली, (ताम्रवत् रक्तवर्णः सारोऽस्य ।)

रक्तचन्दनम् । इति रत्नमाला ॥

ताम्रसारकं, क्ली, (ताम्रसार + स्वार्थे कन् ।)

रक्तचन्दनम् । इति राजनिर्घण्टः ॥

ताम्रसारकः, पुं, (ताम्रवत् रक्तवर्णः सारोऽस्येति

कप् ।) रक्तखदिरः । इति राजनिर्घण्टः ॥

ताम्रा, स्त्री, (ताम्र + टाप् ।) सैंहली । इति

राजनिर्घण्टः ॥ (प्रजापतेः कश्यपस्य पत्नीना-
मन्यतमा । यथा, मात्स्ये । ६ । २ ।
“सुरभिर्विनता तद्बत्ताम्रा क्रोधवशा इरा ॥”
सप्तत्वगन्तर्गतचतुर्थत्वग्विशेषः । यथा, --
“चतुर्थी ताम्रा नामाष्टभागप्रमाणा विविध-
किलासकुष्ठाधिष्ठाना ॥” इति सुश्रुते शारीर-
स्थाने चतुर्थेऽध्याये ॥)

ताम्राकुः, पुं, उपद्वीपभेदः । इति शब्दमाला ॥

ताम्राक्षः, पुं, (ताम्रे रक्ताभे अक्षिणी यस्य ।

अक्षिन् + समासे षच् ।) कोकिलः । इति
त्रिकाण्डशेषः ॥ (ताम्रनयने, त्रि । यथा,
भागवते । १ । ७ । ३३ ।
“तत आसाद्य तरसा दारुणं गौतमीसुतम् ।
बबन्धामर्षताम्राक्षः पशुं रसनया यथा ॥”)

ताम्राभं, क्ली, (ताम्रमिवाभातीति । आ + भा +

कः । ताम्रवदाभा अस्येति वा रक्तवर्णत्वात्
तथात्वम् ।) रक्तचन्दनम् । इति शब्दचन्द्रिका ॥
(पर्व्वतविशेषः । यथा, ब्रह्माण्डे ४७ अध्याये ।
“रुचका निषधं प्राप्ता ताम्राभं निषधादपि ॥”)

ताम्रार्द्धं, क्ली, (ताम्रस्यार्द्धं अर्द्धभागतया उत्-

पत्तिकारणमस्य ताम्रस्यार्द्ध उत्पादकोऽस्य इति
वा ।) कांस्यम् । इति त्रिकाण्डशेषः ॥

ताम्रिकः, पुं, (ताम्रं तत्पात्रादिनिर्म्माणं कार्य्य-

त्वेनास्त्यस्य । ताम्र + ठन् ।) कंसकारः । इति
शब्दरत्नावली ॥ ताम्रनिर्म्मिते, त्रि । यथा,
कार्षिके ताम्रिके पणः । इत्यमरः । २ । ९ । ८८ ॥
(यथा, मनुः । ८ । १३६ ।
“कार्षापणन्तु विज्ञेयस्ताम्रिकः कार्षिकः पणः ॥”)

ताम्रिका, स्त्री, (ताम्रवद्वर्णाभा अस्त्यस्या इति

ठन् ततः टाप् ।) गुञ्जा । इति राज-
निर्घण्टः ॥ मानरन्धावाद्यम् । इति भूरि-
प्रयोगः ॥

ताम्री, स्त्री, (ताम्रस्य विकारः । इति अण्

ततो ङीप् ।) वाद्यविशेषः । तत्पर्य्यायः । मान-
रन्ध्रा २ विकारिका ३ । इति त्रिकाण्डशेषः ॥

ताय, ऋ ङ पालने । सन्ततौ । इति कविकल्प-

द्रुमः ॥ (भ्वां-आत्मं-सकं-सेट् ।) सन्ततिर्विस्तारः ।
ऋ, अततायत् । ङ, तायते विद्यां सुधीः ।
इति दुर्गादासः ॥

तायिकः, पुं, (ताये पालने साधुरिति ठञ् ।)

तर्ज्जिकाभिधदेशः । इति हेमचन्द्रः । ४ । २४ ॥

तारं, क्ली, (तार्य्यते विस्तार्य्यते इति । तॄ + णिच् +

घञ् ।) रूप्यम् । इति मेदिनी । ते, ४३ ॥
(“दग्धोत्तीर्णं सुशीतं यन्निर्म्मलं कुन्दसन्निमम् ।
गुरुस्निग्धकुमारञ्च तारसुत्तममिष्यते ॥”
अशुद्धस्यामृतस्यास्य गुणा यथा, --
“आयुः शुक्रं बलं हन्ति रोगसंघं करोति च ।
अशुद्धञ्चामृतन्तारं शुद्धमार्य्यमतो बुधैः ॥”
अस्य मारणं यथा, --
“कण्टवेघ्यं तारपत्रं दिह्याद्द्विगुणहिङ्गुलम् ।
पातयन्त्रे रसो ग्राह्यो रजतं मृतमुच्यते ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणा-
धिकारे ॥) मुक्ता । इति राजनिर्घण्टः ॥
(यथा, रसेन्द्रसारसंग्रहे त्रैलोक्यचिन्तामणि-
वटिकायाम् ।
“हारं सुवर्णं सुमृतञ्च तारम् ॥”
“तारं मौक्तिकम् । तारशब्देनात्र मौक्तिक-
मेवोच्यते न तु रजतम् ।” इति तट्टीका ॥
गौणसिद्धिभेदः । यथा, “विहन्यमानस्य दुःखस्य
त्रित्वात् तद्विघातास्त्रय इति इमा मुख्यास्त्रिस्रः
सिद्धयस्तदुपायतया त्वितरा गौण्यः पञ्चसिद्धय-
स्तत्रापि हेतुमत्तया तिस्रः हेतुतया पञ्च
व्यवस्थिताः । तास्वाद्या अध्ययनादिलक्षणाः
सिद्धयो हेतवः मुख्यास्तु हेतुमत्यः । विधिवद्-
गुरुमुखादध्यात्मविद्यानां अक्षरस्वरूपग्रहण-
मध्ययनं प्रथमसिद्धिस्तारमुच्यते ॥” इति तत्त्व-
कौमुदी ॥ अक्षिमध्यम् । इति मेदिनी । रे,
४३ ॥)

तारः, पुं, वानरविशेषः । मुक्ताविशुद्धिः । शुद्ध-

मौक्तिकः । इति मेदिनी । रे, ४३ ॥ (तार्य्यते
उत्तार्य्यते भवसागरादनेन । तॄ + णिच् + घञ् ।
यद्वा तारयति स्वोच्चारणजपादिभिर्लोकान् ।
तॄ + णिच् + अच् । एतन्निरुक्तिर्यथा, काशी-
खण्डे । ७३ अध्याये ।
“तारयेद् यद् भवाम्बोधेः स्वजपासक्त-
मानसम् ।
ततस्तार इति ख्यातो यस्तं ब्रह्माव्यलोकयत् ॥”)
प्रणवः । इति तन्त्रम् ॥ (यथा, महागणपति-
स्तोत्रे । २ ।
“तारश्रीपरशक्तिकामवसुधारूपानुगं यं विदु-
स्तस्मै स्तात् प्रणतिर्गणाधिपतये यो रागिणा-
भ्यर्थ्यते ॥”)
तरणम् । इति विश्वः ॥ कूर्च्चबीजम् । इति
तन्त्रसारम् ॥ (नक्षत्रम् । इति मेदिनी । रे,
४३ ॥ अत्युच्चशब्दः । इति हेमचन्द्रः । ६ । ३८ ॥
यथा, हेमचन्द्रटीकायाम् ।
“नृणामुरसि मन्द्रस्तु द्वाविंशतिबिधो ध्वनिः ।
स एव कण्ठमध्यः स्यात् तारः शिरसि गीयते ॥”
विष्णुः । यथा, महाभारते । १३ । १४९ । ११७ ।
“अशोकस्तारणस्तारः शूरः सौरिर्जनेश्वरः ॥”
राक्षसविशेषः । यथा महाभारते । ३ । २८४ । ९ ।
“युयुधे लक्षणश्चापि तथैवेन्द्रजिता सह ।
विरूपाक्षेण सुग्रीवस्तारेण च निखर्व्वटः ॥”
दैत्यविशेषः । यथा, हरिवंशे । ४३ । ९ ।
“तारस्तु क्रोशविस्तारमायसं वायसध्वजम् ॥”)
महादेवः ।
“काश्यां विश्वेश्वरोऽहं गिरिपतितनयासंयुतो
वामभागे
शुण्डादण्डेन दक्षे त्रिपथगतटिनीतीर-
शुद्धाम्बुभागे ।
मायावीजञ्च कर्णे सुरमुनिसहितो ध्यानयुक्तं
वदामि
प्रीत्या लोकस्य तस्मात् सुरमुनिगणकैरुच्यते
तारनाम ॥”
इति शब्दार्थचिन्तामणिः ॥)

तारः, त्रि, अत्युच्चशब्दविशिष्टः । इति मेदिनी ।

रे, ४४ ॥ स्फुरितकिरणः । निर्म्मलः । इति
धरणिः ॥ (तारं मुक्तास्त्यत्रेति अच् । मुक्ता-
विशिष्टः । यथा, अमरुशतके । २८ ।
“उरसि निहितस्तारो हारः कृता जघने
घने ॥”)

तारकं, क्ली, (तारेण कनीनिकया कायतीति ।

कै + कः ।) चक्षुः । इति मेदिनी । के, १०० ॥

तारकं, क्ली, स्त्री, (तारमेव । स्वार्थे कन् ।)

चक्षुस्तारा । नक्षत्रम् । इति मेदिनी । के, १०० ॥

तारकः, पुं, (तारयति दैत्यानिति । तॄ + णिच् +

ण्वुल् ।) द्वादशमन्वन्तरीयेन्द्रशत्रुरसुरविशेषः ।
यथा, --
“मनोस्तु दक्षपुत्त्रस्य द्बादशस्यात्मजान् शृणु ।
देववानुपदेवश्च देवश्रेष्ठो विदूरथः ॥
मित्रवात् मित्रदेवश्च मित्रविन्दश्च वीर्य्यवान् ।
मित्रवाहः सुवर्च्चाश्च दक्षपुत्त्रमनोः सुताः ॥
तपस्वी सुतपाश्चैव तपोमूर्त्तिस्तपोरतिः ।
तपोधृतिर्द्युतिश्चान्य ऋषयश्च तपोधनाः ॥
सुधर्म्माणः सुतपसो हरिता रोहितास्तथा ।
सुरारयो गणाः पञ्च प्रत्येकं दशको गणः ॥
पृष्ठ २/६०८
ऋतघामा च तन्त्रेन्द्रस्तारको नाम तद्रिपुः ।
हरिर्नपुंसको भूत्वा घातयिष्यति शङ्कर ! ॥
इति गारुडे ८७ अध्याये ॥
(अपरोऽसुरविशेषः । कार्त्तिकेयः एनं निहत-
वान् । यथा, मतस्यपुराणे । १४५ । ५ -- ११ ।
“वज्राङ्गो नाम दैत्योऽभूत्तस्य पुत्त्रस्तु तारकः ।
सुरानुद्बासयामास पुरेभ्यः स महाबलः ॥
ततस्ते ब्रह्मणोऽभ्यासं जग्मुर्भयनिपीडिताः ।
भीतांश्च त्रिदशान् दृष्ट्वा ब्रह्मा तेषामुवाच ह ॥
सन्त्यजध्वं भयं देवाः ! शङ्करस्यात्मजः शिशुः ।
तुहिनाचलदौहित्रस्तं हनिष्यति दानवम् ॥
ततः काले तु कस्मिंश्चित् दृष्ट्वा वै शैलजां शिवः ।
स्वरेतो वह्निवदने व्यसृजत्कारणान्तरे ॥
तत्प्राप्तं वह्निवदने रेतो देवानतर्पयत् ।
विदार्य्य जठराण्येषां अजीर्णं निर्गतं मुने ! ॥
पतितं तत् सरिद्वरे ततस्तु शरकानने ।
तस्मात्तु स समुद्भूतो गुहो दिनकरप्रभः ।
स सप्तदिवसो वालो निजघ्ने तारकासुरम् ॥”
अस्य विशेषविवरणन्तु तत्रैव १४५ अध्यायमारभ्य
१५९ अध्यायेषु द्रष्टव्यम् ॥ तारयतीति । तॄ +
णिच् + ण्वुल् ।) कर्णधारः । इति मेदिनी । के,
९९ ॥ भेलकः । इति शब्दरत्नावली ॥ (तरणो-
पायः । यथा, हठयोगप्रदीपिकायाम् । ४ । ४० ।
“केचिदागमजालेन केचिन्निगमसङ्कुलैः ।
केचित्तर्केण मुह्यन्ति नैव जानन्ति तारकम् ॥”
“तारयतीति तारकस्तं तारकं तरणोपायं
नैव जानन्ति ।” इति तट्टीका ॥ महादेवः ।
वथा, महाभारते । १२ । २८४ । ३५ ।
“गर्भमांसशृगालाय तारकाय तराय च ।
नमो यज्ञाय यजिने हुताय प्रहुताय च ॥”)
त्रातरि, त्रि । इति मेदिनी । के, १०० ॥ (यथा,
प्रबोधचन्द्रोदये । २ । १३ ।
“कथयति भगवान् इहान्तकाले
भवभयकातरतारकं प्रबोधम् ॥”
स्त्रियां टापि अत इत्वम् । यथा, गोः रामा-
यणे । २ । ९७ । २३ ।
“नारीणां तारिकाः काश्चित् काश्चित् परम-
वाजिनाम् ॥”)

तारकजित्, पुं, (तारकं तारकासुरं जयतीति ।

जि + क्विप् तुगागमश्च ।) कार्त्तिकेयः । इत्यमरः ।
१ । १ । १४२ ॥ (एतद्विवरणं मात्स्ये १५९
अध्याये द्रष्टव्यम् ॥)

तारकब्रह्म, क्ली, (तारकं संसारसागरपारकारकं

ब्रह्म ।) षडक्षरमन्त्रविशेषः । यथा, --
“षडक्षरं महामन्त्रं तारकं ब्रह्म उच्यते ।
ये भजन्ति च मां भक्त्या तेषां मुक्तिर्न संशयः ॥
रामाय नम इत्येवमुच्चार्य्य मन्त्रमुत्तमम् ।
सर्व्वदुःखहरञ्चैतत् पापिनामपि मुक्तिदम् ॥
इमं मन्त्रं जपन्नित्यममलस्त्वं भविष्यसि ।
भग्मास्थिधारणाद्यस्तु सम्भूतश्चाशुचिस्त्रयि ॥
मङ्गलं तद्भूत सर्व्वं मन्मन्त्रोच्चारणात् शुभात् ।
लमप्यनेन श्रीरामतारकाख्येन मन्त्रतः ॥
भूत्वा काश्यां विश्वनाथो मदाज्ञापरिपालकः ।
कृत्वा मुक्तान् जीवमात्रान् मानुषादीन् परं
पदम् ॥
अन्यत् किन्ते भयं मन्त्रप्रभावात् प्रापयिष्यसि ।
इति सन्दिश्य मां विष्णुर्विससर्ज्ज मरुद्गणान् ॥”
इति पाद्मोत्तरखण्डे श्रीशिवं प्रति श्रीविष्णु-
वाक्यम् ॥ अपि च ।
“मुमूर्षोर्मुनिकर्ण्यान्तु अर्द्धोदकनिवासिनः ।
अहं दिशामि ते मन्त्रं तारकं ब्रह्मवाचकम् ॥
ॐ श्रीरामरामरामेत्येतत्तारकमुच्यते ।
अतस्त्वं जानकीनाथ ! परं ब्रह्म विनिश्चितम् ॥”
इति पाद्मोत्तरखण्डे श्रीरामं प्रति श्रीशिव-
वाक्यम् ॥

तारका, स्त्री, क्ली, (तरति तारयति वा । तॄ +

णिच् + ण्वुल् । टाप् । “तारका ज्योतिषि ।”
७ । ३ । ४५ । इत्यस्य वार्त्तिकोक्त्या न अत
इत्वम् ।) नक्षत्रम् । (यथा, मार्कण्डेये । १५ । ७१ ।
“अप्-बिन्दवो यथाम्भोधौ यथा वा दिवि
तारकाः ।
यथा वा वर्षतो धारा गङ्गायां सिकता यथा ॥”)
कनीनिका । इति मेदिनी । के, १०० ॥
(यथा, रघुः । ११ । ६९ ।
“क्षत्त्रकोपदहनार्च्चिषं ततः
सन्दधे दृशमुदयतारकाम् ॥”)
इन्द्रवारुण्यां स्त्री । इति राजनिर्घण्टः ॥

तारकारिः, पुं, (तारकस्य तारकासुरस्य अरिः ।)

कार्त्तिकेयः । इति हेमचन्द्रः । २ । १२३ ॥

तारकिणी, स्त्री, (तारकाः सन्त्यत्र । तारका +

इनिः ङीप् ।) रात्रिः । इति राजनिर्घण्टः ॥

तारकितं, त्रि, (तारकाः सञ्जाता अस्य । तारका

+ “तदस्य सञ्जातं तारकादिभ्य इतच् ।”
५ । २ । ३६ । इति इतच् ।) तारकायुक्तम् ।
यथा, --
“सिति निशा दृशदि स्फुटदुत्पतत्
कणगणाधिपतारकिताम्बरः ॥”
इति नैषधम् ॥

तारणः, पुं, (तारयतीति । तॄ + णिच् + ल्युः ।)

भेलकः । इति शब्दरत्नावली ॥ (संसारसागरात्
तारयतीति । विष्णुः । यथा, महाभारते । १३ ।
१४९ । ५० ।
“अशोकस्तारणस्तारः शूरः सर्व्वजनेश्वरः ॥”
महादेवः । यथा, तत्रैव । १३ । १७ । ११७ ।
“तोरणस्तारणो वातः परिधीपतिखेचरः ॥”
क्ली, षष्ठिवत्सरेषु अष्टादशवत्सरः । यथा,
ज्योतिषतत्त्वे ।
“अतिवृष्टिश्च जायेत धान्यस्याथ प्रपीडनम् ।
शस्यं भवति सामान्यं तारणे सुरवन्दिते ! ॥”
तथाच वृहत्संहितायाम् । ८ । ३६ ।
“तारणं तदनु भूरिवारिदं
शस्यवृद्धिमुदितञ्च पार्थिवम् ॥”
तॄ + णिच् + भावे ल्युट् । उत्तारणम् । उद्धा-
रणम् । यथा, महाभारते । ४ । ४ । ५३ ।
“तारणायास्य दुःखस्य प्रस्थानाय जयाय च ॥”)
तरणकारयितरि, त्रि ॥

तारणिः, स्त्री, (तारयतीति । तॄ + णिच् +

अनिः ।) नौका । इति हारावली । ५९ ॥

तारतण्डुलः, पुं, (तारं मुक्तेव शुभ्रस्तण्डुलो यस्य ।)

धवलयावनालः । इति राजनिर्घण्टः ॥

तारतम्यं, क्ली, तरतमयोर्भावः । (तरतम +

ष्यञ् ।) न्यूनाधिक्यम् । यथा, --
“निर्द्धनं निधनमेतयोर्द्वयो-
स्तारतम्यविधिमुग्धचेतसा ।
बोधनाय विधिना विनिर्म्मिता
रेफ एव जयवैजयन्तिका ॥”
इत्युद्भटः ॥

तारदी, स्त्री, (तरदी एव । स्वार्थे अण् ततो

ङीष् ।) तरदीवृक्षः । इति राजनिर्घण्टः ॥

तारपुष्पः, पुं, (तारं रूप्यमिव शुभ्रं पुष्पं यस्य ।)

कुन्दवृक्षः । इति राजनिर्घण्टः ॥

तारलः, त्रि, (तरल एव । स्वार्थे अण् ।) विटः ।

इति भूरिप्रयोगः ॥

तारविमला, स्त्री, (तारं रूप्यमिव विमला ।)

धातुविशेषः । इति शब्दार्थकल्पतरुः ॥

तारशुद्धिकरं, क्ली, (तारस्य रजतस्य शुद्धिं करो-

तीति । कृ + टः ।) सीसकम् । इति राज-
निर्घण्टः ॥

तारा, स्त्री, पुं, (तारयतीति । तॄ + णिच् + अच् ।)

नक्षत्रम् । इत्यमरः । १ । ३ । २१ ॥ (यथा,
महाभारते । १ । २११ । २६ ।
“चन्द्रादित्यौ ग्रहास्तारा नक्षत्राणि दिवौ-
कसः ॥”)
यथाच कर्म्मलोचने ।
“एकतारं नभो दृष्ट्वा स्मर्त्तव्यो नारदो मुनिः ।
तावद्भवति चाण्डालो यावदन्यां न पश्यति ॥”
अक्षिमध्यम् । इति मेदिनी । रे, ४३ ॥ शेषस्य
पर्य्यायः । विम्बिनी २ कनीनिका ३ । इति
राजनिर्घण्टः ॥ तारका ४ । इत्यमरः । १ । ३ । २१ ॥
(यथा, हठयोगप्रदीपिकायाम् । ४ । ३९ ।
“तारे ज्योतिषि संयोज्य किञ्चिदुन्नमयेद्भुवौ ॥”)

तारा, स्त्री, (तारयति तापादिति । तॄ + णिच् +

अच् + टाप् ।) बुद्धदेवताभेदः । बृहस्पति-
भार्य्या । इति मेदिनी । रे, ४३ ॥ (यथा, देवी-
भागवते । १ । ११ । ७५ ।
“ततः कालेन कियता तारासूत सुतं शुभम् ॥”)
बालिभार्य्या । सा सुषेणवानरकन्या । इति
रामायणम् ॥ (यथा, महाभारते । ३ । २७९ । १८ ।
“हेममाली ततो बाली तारां ताराघिपान-
नाम् ।
उवाच वचनं वाग्मी तां वानरपतिः पतिः ॥”)
चीडा । मुक्ता । इति राजनिर्घण्टः ॥ * ॥
द्वितीया शक्तिः । यथा, --
“लीलया वाक्प्रदा चेति तेन लीलसरस्वती ।
तारकत्वात् सदा तारा सुखमोक्षप्रदायिनी ॥
उग्रापत्तारिणी यस्मादुग्रतारा प्रकीर्त्तिता ॥”
पृष्ठ २/६०९
अस्या ध्यानं यथा, --
“प्रत्यालीढपदार्पिताङ्घ्रिशवहृद्घोराट्टहासा परा
खड्गेन्दीवरकर्त्तृखर्परभुजा क्रूङ्कारबीजोद्भवा ।
खर्व्वा नीलविशालपिङ्गलजटाजूटैकनागैर्युता
जाड्यं न्यस्य कपालके त्रिजगतां हन्त्युग्रतारा-
स्वयम् ॥”
अपि च ।
“प्रत्यालीढपदां घोरां मुण्डमालाविभूषिताम् ।
खर्व्वां लम्बोदरीं भीमां व्याघ्रचर्म्मावृतां कटौ ॥
नवयौवनसम्पन्नां पञ्चमुद्राविभूषिताम् ।
चतुर्भुजां ललज्जिह्वां महाभीमां वरप्रदाम् ॥
खडगकर्त्तृसमायुक्तसव्येतरभुजद्बयाम् ।
कपालोत्पलसंयुक्तसव्यपाणियुगान्विताम् ॥
पिङ्गोग्रैकजटां ध्यायेन्मौलावक्षोऽभ्यभूषिताम् ।
बालार्कमण्डलाकारलोचनत्रयभूषिताम् ॥
ज्वलच्चितामध्यगतां घोरदंष्ट्रां करालिनीम् ।
सावेशस्मेरवदनां स्त्र्यलङ्कारविभूषिताम् ॥
विश्वव्यापकतोयान्तःश्वेतपद्मोपरिस्थिताम् ॥”
अस्या दशाक्षरमन्त्रोक्तध्यानं यथा, --
“श्यामवर्णां त्रिनयनां द्विभुजां वरपङ्कजे ।
दघानां बहुवर्णाभिर्बहुरूपाभिरावृताम् ॥
शक्तिभिः स्मेरवदनां स्मेरमौक्तिकभूषणाम् ।
रत्नपादुकयोर्न्यस्तपादाम्बुजयुगां स्मरेत् ॥”
इति तन्त्रसारः ॥
(अस्या बीजं यथा, “ह्रीँ स्त्रीँ हुँ फट् ॥”)

तारापतिः, पुं, (तारायाः पतिः ।) शिवः ।

चन्द्रः । (यथा, राजेन्द्रकर्णपूरे । २७ ।
“शान्तध्वान्तकलङ्क शङ्करशिखालङ्कार तारापते
राकाकान्त सविभ्रमं भ्रम सदा निःशङ्कमङ्के
दिवः ॥”)
बृहस्पतिः । वाली । सुग्रीवः । इति पुराणम् ॥
(यथा, नैषधे । १९ । ८ ।
“व्रजति कुमुदे दृष्ट्वा मोहं दृशोरपिधायके
भवति च नले दूरं तारापतौ च हतौजसि ।
लघु रघुपतेर्ज्जायां मायामयीमिव रावणि-
स्तिमिरचिकुरग्राहं रात्रिं हिनस्ति गभस्ति-
राट् ॥”)

तारापथः, पुं, (ताराणां नक्षत्राणां पन्थाः ।

समासे अ ।) आकाशः । इति हलायुघः ॥
(देशविशेषः । यथा, रघुः । १५ । ९० ।
“अङ्गदं चन्द्रकेतुञ्च लक्षणोऽप्यात्मसम्भवौ ।
शासनात् रघुनाथस्य चक्रे तारापथेश्वरौ ॥”
“कारापथेश्वरौ ।” इति वा पाठः ॥)

तारापीडः, पुं, (ताराणां नक्षत्राणां आपीडो

भूषणमिव ।) चन्द्रः । इति त्रिकाण्डशेषः ॥
(स्वनामख्यातश्चन्द्रापीडस्य राज्ञो भ्राता । यथा,
राजतरङ्गिण्याम् । ४ । ४३ ।
“तारापीडोऽपि तनयः क्रमात् तस्यामजायत ॥”
कादम्बरीकथितनायकविशेषः । यथा, काद-
म्बर्य्याम् । १०२ पत्रे । “अवतार इव धर्म्मस्य
प्रतिनिधिरिव पुरुषोत्तमस्य परिहृतप्रजापीडो
राजा तारापीडोऽभवत् ॥”)

ताराभूषा, स्त्री, (तारा नक्षत्राणि भूषा भूषणं

यस्याः ।) रात्रिः । इति राजनिर्घण्टः ॥

ताराभ्रः, पुं, (तारो निर्म्मलोऽभ्र इव । शुक्लवर्ण-

त्वादस्य तथात्वम् ।) कर्पूरः । इति राज-
निर्घण्टः ॥ (विवरणमस्य कर्पूरशब्दे द्रष्टव्यम् ॥)

तारामण्डलः, पुं, (ताराणां मुक्तानां मण्डलं यत्र ।)

ईश्वरगृहविशेषः । इति शब्दरत्नावली ॥
(नक्षत्रमण्डले, क्ली ॥)

तारारिः, पुं, (तारस्य रूप्यस्य अरिः । एतत्-

संसर्गेण रूप्यस्य चाकचिक्यादिकं विनश्यतीत्य-
तोऽस्य तथात्वम् ।) विटमाक्षिकः । इति हेम-
चन्द्रः । ४ । १२१ ॥

तारावती, स्त्री, चन्द्रशेखरराजपत्नी । सा च

ककुत्स्थराजेन तत्पत्न्यां मनोन्मथिन्यां जाता ।
असौ गिरिजांशजा । यथा, --
“इक्ष्वाकुवंशजो राजाककुत्स्थो नाम धार्म्मिकः ।
भोगवत्याह्वयायान्तु पुर्य्यां रिपुनिसूदनः ॥
सर्व्वलक्षणसम्पन्नो भूपालगुणसंयुतः ।
तस्य भार्य्या महाभागा भर्गदेवस्य पुत्त्रिका ॥
सा मनोन्मथिनी नाम्ना पूजिता पतिवल्लभा ।
तस्याः पुत्त्रशतं जज्ञे देवगर्भाभमच्युतम् ॥
बलवीर्य्यसमायुक्तं ककुत्स्थनृपसत्तमात् ।
पुत्त्री न विद्यते तस्यास्तदर्थं सा गृहान्तरे ॥
निभृतं स्थण्डिलं कृत्वा चण्डिकां समपूजयत् ।
पूज्यमाना महादेवी चण्डिका राजभार्य्यया ॥
प्रसन्ना सा त्रिभिर्व्वर्षैस्तां स्वप्ने चाब्रवीदिदम् ।
योषिल्लक्षणसंयुक्ता सार्व्वभौमस्य भाविनी ॥
नक्षत्रमालया युक्ता पुत्त्री तव भविष्यति ।
सापि स्वप्ने वरं प्राप्य मुदिताभून्नृपाङ्गना ॥
पार्व्वत्यपि स्वयं तस्या गर्भे काले विवेश ह ।
सा मनोन्मथिनी देवी प्रवृत्ते ऋतुसङ्गमे ॥
गर्भं दधौ महासत्त्वं चन्द्रिकेवामृतोत्करम् ।
सम्पूर्णे तु ततः प्राप्ते तदा नक्षत्रमालिनीम् ॥
सा मनोन्मथिनी देवी सुषुवे तनयां शुभाम् ।
तां दृष्ट्वा हारसंयुक्तां शरज्ज्योत्स्नोपमां
शुभाम् ॥
ककुत्स्थो भार्य्यया सार्द्धमत्यन्तमुदितीऽभवत् ।
सहजेनाथ हारेण भूषिता सा ककुत्स्थजा ॥
ववृधे मन्दिरे तस्य वर्षास्विव सुरापगा ।
तेनैव हारचिह्नेन तस्यास्तारावतीति वै ॥
नामाकरोत् पिता काले यथोक्ते नृपसत्तमः ।
कालक्रमेण सा बाल्यं व्यतीत्य वरवर्णिनी ॥
मञ्जुलं यौवनोद्भेदं प्राप श्रीरिव माधवे ।
तस्यास्तु यौवनोद्भेदं दृष्ट्वा राजा सुतैः सह ॥
ककुत्स्थः कारयामास समयेऽथ स्वयंवरम् ।
माघवे मासि संप्राप्ते चन्द्रवृद्धौ शुभे दिने ॥
स्वयंवरसभां चक्रे तारावत्याः पिता सुतैः ।
वार्त्तिकान् सुबहून् राजा वडवाभिः क्रमेण वै ॥
तूर्णं प्रस्थापयामास नानादेशनृपान् प्रति ।
ते राजानस्तथा श्रुत्वा वार्त्तां वै वार्त्तिकाननात् ॥
तूर्णमेव समाजग्मुस्तारावत्याः स्वयंवरम् ।
तत् श्रुत्वा पौष्यतनयश्चतुरङ्गबलैर्यतः ॥
स्वयंवरं जगामाशु देवालङ्कारमण्डितः ।
एतस्मिन्नन्तरे राज्ञः कुमारी वरवर्णिनी ॥
वृद्धां धात्रीं निजां सम्यक् सम्पूर्णज्ञानशालिनीम् ।
स्वयंवरसभां द्रष्टुं प्राहिणोत् सदसं प्रति ॥
स्वयंवरसभां गत्वा चारुरूपं सुलक्षणम् ।
नृपं निरूप्य भो धात्रि ! मह्यमेत्य निवेदय ॥
एवं तां प्रेषयित्वाथ धात्रीं नृपतिपुत्त्रिका ।
सा मनोन्मथिनी यत्र प्राराधयति चण्डिकाम् ॥
तत्र प्रायान्महाभागा शुभा तारावती तदा ।
तत्र गत्वा महादेवीं प्रणम्य कालिकाह्वयाम् ॥
मानुषेणाथ भावेन न ज्ञात्वात्मानमात्मना ।
प्रणनाम महाभक्त्या वाक्यञ्चैतदुवाच ह ॥
प्रणमामि महामायां योगनिद्रां जगम्मयीम् ।
सा मे प्रसीदतां गौरी चण्डिका भक्तवत्सला ।
यदि सत्यं जनन्या मे मदर्थे त्वं प्रपूजिता ।
तेन सत्येन सुभगः पतिर्म्मम नृपोत्तमः ॥
स्वयंवरेऽद्य भवतु प्रसीद हरवल्लभे ! ।
इति तस्या वचः श्रुत्वा चण्डिका हरमोहिनी ॥
मोहयन्ती नृपसुतां यथात्मानं न वेत्ति च ।
अथ प्राहादृश्यमूर्त्तिरिदं सा सूनृतं वचः ॥
श्रीदेव्युवाच ।
पौष्यस्य तनयो योऽसौ नाम्ना तु चन्द्रशेखरः ।
स मनोहररूपस्ते प्रियः स्वामी भविष्यतिं ॥
तमिन्दूकलया शीर्षे चिह्नितं नृपसत्तमम् ।
वरयस्व रवारोहे पार्व्वतीव वृषध्वजम् ॥
अथाजगाम सा धात्री निरूप्य सदृशं पतिम् ।
तारावत्यास्तदाचष्ट रहस्यं नृपसत्तमम् ॥
दृष्ट्वा तामागतां धात्रीं प्रहृष्टा नृपतेः सुता ।
पप्रच्छ निभृतं कीदृक् को वा दृष्टस्त्वया नृपः ॥
सा प्राह धात्री वचनात्तव भूपा विलोकिताः ।
चारुरूपाः कुलीनाश्च शास्त्रे शस्त्रे च पारगाः ॥”
“नृपौ पुनर्म्महासत्त्वौ सिंहस्कन्धौ बृहद्भुजौ ।
सर्व्वलक्षणसम्पन्नौ देवालङ्कारमण्डितौ ॥
तयोरपि वयःस्थत्वात् प्रशस्तश्चन्द्रशेखरः ।
स एव ते पतिर्योग्यश्चिह्नेनानेन सुन्दरि ! ॥
तं त्वं वरय राजानं तव योग्यं शुभोदयम् ।
धात्र्याश्चैवं वचः श्रुत्वा राजपुत्त्री जगाद ताम् ॥
मत्पार्श्वचारिणी भूत्वा निदेशय नृपोत्तमम् ।
सावतीर्य्य तदा याप्ययानात्तारावती तदा ॥
धात्र्या चानुगया युक्ता व्यचरत् सदसोऽन्तरे ।
सभामध्ये चिरं सा तु विहृत्य वरवर्णिनी ॥
भावित्वान्नियतेर्योगाच्चण्डिकायाः प्रसादतः ।
तयोः समत्वादेकत्वात्तया धात्र्या विबोधिता ॥
इति खेदजघर्म्माम्भःकणिकानिचितानना ।
पतिं पूर्ब्बतरं पुत्त्री राज्ञान्तारावती सती ॥
स्वयं सा पार्व्वती देवी वव्रे च चन्द्रशेखरम् ।
वैवाहिकेन विधिना स राजा चन्द्रशेखरः ॥
तारावतीं तदा भार्य्यां ककुत्स्थनृपतेः सुताम् ।
संस्कृत्य ज्ञापयामास देवेभ्यो वैदिकैर्मखैः ॥
पाणिग्रहणसंस्कारं कृत्वा तां सहचारिणीम् ।
करवीरपुरायाशु प्रययौ चन्द्रशेखरः ॥”
इति कालिकापुराणे ४८ अध्यायः ॥
पृष्ठ २/६१०

तारिका, स्त्री, (तारस्तीव्रतास्या अस्तीति । तार

+ “अत इनिठनौ ।” ५ । २ । ११५ । इति ठन् ।)
तालरसः । ताडी इति भाषा । यथा, --
“सम्बिदा कालकूटञ्च ताम्रकूटञ्च धुस्तुरम् ।
अहिफेनं खर्जुरसस्तारिका तरिता तथा ॥”
इति कुलार्णवतन्त्रम् ॥
(तरणमूल्ये, क्ली । यथा, मनुः । ८ । ४०७ ।
“गर्भिणी तु द्बिमासादिस्तथा प्रव्रजितो मुनिः ।
ब्राह्मणा लिङ्गिनश्चैव न दाप्यास्तारिकं तरे ॥”)

तारिणी स्त्री, (तारयतीति । तॄ + णिच् +

णिनिः ङीप् च ।) बुद्धदेवताभेदः । तत्पर्य्यायः ।
तारा २ महाश्रीः ३ ॐ कारा ४ स्वाहा ५ श्रीः
६ मनोरमा ७ जया ८ अनन्ता ९ शिवा १०
लोकेश्वरात्मजा ११ खदूरवासिनी १२ भद्रा
१३ वैश्या १४ नीलसरस्वती १५ शङ्खिनी १६
महातारा १७ वसुधारा १८ धनन्ददा १९
त्रिलोचना २० लोचना २१ । इति त्रिकाण्ड-
शेषः ॥ * ॥ द्बितीया शक्तिः । यथा, --
“अथ भेदान् प्रवक्ष्यामि तारिण्याः सर्व्वसिद्धिदान् ।
येषां विज्ञानमात्रेन जीवन्मुक्तस्तु साधकः ॥
कवितां लभते शुद्धामनर्गलविजृम्भिणीम् ।
पाण्डित्यं सर्व्वशास्त्रेषु धनैर्धनपतिर्भवेत् ॥
राजद्बारे सभायाञ्च विवादे व्यवहारके ।
सर्व्वत्र जयमाप्नोति बृहस्पतिरिवापरः ॥”
इति तन्त्रसारः ॥
अस्या ध्यानं ताराशब्दे द्रष्टव्यम् ॥
(“तारा चोग्रा महोग्रा च वज्रा नीला सरस्वती ।
कामेश्वरी भद्रकाली इत्यष्टौ तारिणी स्मृता ॥”
इति मन्त्रकोषः ॥
त्रि, उद्धारकर्त्त्री । यथा, मार्कण्डेये ।
“तारिणी भवसंसारसागरस्य कुलोद्भवे ! ॥”)

तारुण्यं, क्ली, (तरुणस्य भावः । तरुण + ब्राह्म-

णादित्वात् ष्यञ् ।) यौवनम् । इत्यमरः । २ ।
६ । ४० ॥ (यथा, मार्कण्डेये । २४ । ७ ।
“तृणकोटिसमं वित्तं तारुण्याद्बित्तकोटिषु ॥”)

तारेयः, पुं, (ताराया वालिपत्न्या अपत्यं पुमान् ।)

तारा + ढक् ।) वालिपुत्त्रः । इति जटाधरः ॥
(यथा, रामायणे । ४ । २२ । १२ ।
“अनुरूपाणि कर्म्माणि विक्रम्य बलवान् रणे ।
करिष्यत्येष तारेयस्तेजस्वी तरुणोऽङ्गदः ॥”
बृहस्पतिपत्न्यास्तारायाः पुत्त्रो बुधोऽपि ॥)

तार्किकः, त्रि, (तर्कं षेत्ति अधीते वा । तर्क +

ठक् ।) तर्कशास्त्रवेत्ता । तर्काध्ययनकर्त्ता ।
इति व्याकरणम् ॥ स षडिधो यथा । वैशे-
षिकः १ औलूक्यः २ बार्हस्पत्यः ३ नास्तिकः ४
लौकायतिकः ५ चार्व्वाकः ६ । इति हेमचन्द्रः ॥
(यथा, अप्पयदीक्षित-वैराग्यशतक । ६१ ।
“कोपो मैत्रावरुणेः शापो वा तार्किकस्य मुनेः ।
संस्मर्य्यते यदि सकृच्छत्रोरपि मास्तु शक्र-
पदम् ॥”)

तार्क्षः, पुं, (तृक्ष एव । स्वार्थे अण् ।) कश्यपः ।

यथा, श्रीभागवते ।
“प्रमथ्य तरसा राज्ञः शाल्लादींश्चैद्यपक्षगान् ।
पश्यतां सर्व्वलोकानां तार्क्षपुत्त्रः सुधामिव ॥”
(विनतायां जातः कश्यपपुत्त्रविशेषः । यथा,
महाभारते । १ । १२३ । ७० ।
“तार्क्षश्चारिष्टनेमिश्च गरुडश्चामितध्वजः ।
अरुणश्चारुणिश्चैव वैनतेया व्यवस्थिताः ॥”)

तार्क्षी, स्त्री, (तार्क्ष + गौरादित्वात् ङीष् ।)

पातालगरुडीलता । इति राजनिर्घण्टः ॥

तार्क्ष्यं, क्ली, रसाञ्जनम् । इति मेदिनी । ये, २७ ॥

(यथास्य पर्य्यायाः वैद्यकरत्नमालायाम् ।
“तार्क्ष्यं शैलं नीलवर्णमञ्जनञ्च रसाञ्जनम् ॥”)

तार्क्ष्यः, पुं, (तार्क्षस्य कश्यपस्य अपत्यम् । तार्क्ष

+ “गर्गादिभ्यो यञ् ।” ४ । १ । १०५ । इति
यञ् ।) अश्वः । सर्पः । गरुडाग्रजः । गरुडः ।
इति मेदिनी । रे, २७ ॥ (यथा, रघुः । ६ । ४९ ।
“त्रस्तेन तार्क्ष्यात् किल कालियेन
मणिं विसृष्टं यमुनौकसा यः ॥”
तथाच ऋग्वेदे । १ । ८९ । ६ ।
“स्वस्तिनस्तार्क्ष्योऽरिष्टनेमिः
स्वस्तिनो बृहस्पतिर्दधातु ॥”
“तृक्षस्य पुत्त्रो गरुत्मान् नोऽस्माकं स्वस्ति अवि-
नाशं विदधातु ।” इति तद्भाष्ये सायनः ॥
“तार्क्ष्यो रथो गरुडो वा नः स्वस्ति दधातु ॥”
इति वाजसनेयसंहिताभाष्ये महीधरः । २५ ।
१९ ॥ तृक्षमुनेर्गोत्रापत्यम् । यथा, महाभारते ।
३ । १८४ । ८ ।
“जग्मुश्चारिष्टनेम्नोऽथ तार्क्ष्यस्याश्रममञ्जसा ॥”
तथाच तत्रैव । १२ । २८८ । ४ ।
“एवमुक्तस्तदा तार्क्ष्यः सर्व्वशास्त्रविदां वरः ।
विबुध्य सम्पदञ्चाग्र्यां तद्बाक्यमिदमब्रवीत् ॥”)
शालवृक्षः । स्वर्णम् । इति शब्दरत्नावली ॥
अश्वकर्णवृक्षः । स्यन्दनम् । इति हेमचन्द्रः ।
४ । २९८ ॥ (क्षत्त्रियविशेषः । यथा, महा-
भारते । २ । ५१ । १५ ।
“अम्बष्ठाः कौकुरास्तार्क्ष्या वस्त्रपाः पह्लवैः सह ॥”
महादेवः । यथा, महाभारते । १३ । १७ । ९७ ।
“गन्धर्व्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः ॥”
पर्व्वतविशेषः । इति कश्चित् ॥)

तार्क्ष्यजं, क्ली, (तार्क्ष्यः सुवर्णं तद्बत् जायते ।

यद्बा, तार्क्ष्ये पर्व्वते जायते इति । जन + डः ।)
रसाञ्जनम् । इति भावप्रकाशः ॥

तार्क्ष्यध्वजः, पुं, (तार्क्ष्यो गरुडः ध्वजे यस्य ।)

विष्णुः । इति हेमचन्द्रः । २ । १२८ ॥

तार्क्ष्यनायकः, पुं, (तार्क्ष्याणां सर्पाणां नायकः

प्रापकः । स्वमातुर्दासत्वकाले विमातृपुत्त्रसर्पाणां
बहनात् तथात्वम् ।) गरुडः । इति राज-
निर्घण्टः ॥ (तार्क्ष्यनाशकः । इति कश्चित् ॥)

तार्क्ष्यप्रसवः, पुं, (तार्क्ष्यः पर्व्वतः प्रसवोऽस्य ।)

अश्वकर्णवृक्षः । इति राजनिर्घण्टः ॥

तार्क्ष्यशैलं, क्ली, (तार्क्ष्यशैले भवम् । अण् ।)

रसाञ्जनम् । इति राजनिर्घण्टः ॥ (यथा,
सुश्रुते चिकित्सितस्थाने ९ अध्यायेः
“सिन्धूद्भूतं चक्रमर्द्दस्य वीज-
मिक्षूद्भूतं केशवं तार्क्ष्यशैलम् ॥”)

तार्क्ष्यी, स्त्री, (तार्क्ष्यस्य पक्षिणः प्रिया । अण्

ङीप् च ।) वनलताविशेषः । इति शब्दरत्ना-
वलो ॥

तालं, क्ली, (तलत्यनेनेति । तल प्रतिष्ठायाम् +

“हलश्च ।” ३ । ३ । १२२ । इति घञ् ।) हरि-
तालम् । (अस्य नामानि यथा, --
“हरितालं तालमालं मालं शैलूषभूषणम् ।
पिञ्जकं रोमहरणं तालकं पातमित्यपि ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि-
कारे ॥)
तालीशपत्रम् । इति राजनिर्घण्टः ॥ दुर्गा-
सिंहासनम् । इति हेमचन्द्रः । ४ । २०२ ॥
(तालस्य विकारः । “तालादिभ्योऽण् ।” ४ ।
३ । १५२ । इत्यस्य तालाद्धनुषि इति वार्त्ति-
कोक्त्या अण् । धनुः । इति सिद्धान्तकौमुदी ॥
तालस्येदम् । अण् तस्य लुक् ।) तालफलम् ॥
(यथा, महाभारते । ३ । १०१ । ५ ।
“शिरोभिः प्रपतद्भिश्चाप्यन्तरीक्षात् महीतलम् ।
तालैरिव महाराज ! वृन्ताद्भ्रष्टैरदृश्यत ॥”)

तालः, पुं, (तलत्यत्र । तल + “हलञ्च ।” ३ । ३ । १२२ ।

इति घञ् ।) वृक्षविशेषः । तत्पर्य्यायः । ताल-
द्रुमः २ पत्री ३ दीर्घस्कन्धः ४ ध्वजद्रुमः ५ तृण-
राजः ६ मधुरसः ७ मदाढ्यः ८ दीर्घपादपः ९
चिरायुः १० तरुराजः ११ दीर्घपत्रः १२ गुच्छ-
पत्रः १३ आसवद्रुः १४ । इति राजनिर्घण्टः ॥
लेख्यपत्रः १५ महोन्नतः १६ । इति भाव-
प्रकाशः ॥ अस्य गुणाः । मधुरत्वम् । शीत-
त्वम् । पित्तदाहश्रमापहत्वञ्च ॥ * ॥ अस्य
रसगुणः । कफपित्तदाहशोफनाशित्वम् । मद-
कारित्वञ्च ॥ * ॥ तत्फलगुणाः । शीतलत्वम् ।
बल्यत्वम् । स्निग्धत्वम् । स्वादुरसत्वम् । गुरु-
त्वम् । विष्टम्भित्वम् । वातपित्तास्रक्षतदाहक्षय-
नाशित्वञ्च । इति राजनिर्घण्टः ॥ पित्तरक्त-
श्लेष्मविवर्द्धनत्वम् । दुर्ज्जरत्वम् । बहुमूत्रत्वम् ।
तन्द्राभिष्यन्दिशुक्रदातृत्वञ्च । इति भावप्रकाशः ॥
वातकृमिकुष्ठरक्तपित्तनाशित्वम् । बृंहणत्वम् ।
वृष्यत्वम् । स्वादुत्वञ्च । इति राजवल्लभः ॥ * ॥
तद्वीजस्य अर्थात् तालशस्यस्य गुणाः । मूत्र-
करत्वम् । मिष्टत्वम् । वातपित्तहरत्वम् । गुरु-
त्वञ्च ॥ * ॥ तदस्थिमज्जगुणाः । मधुरत्वम् ।
मूत्रलत्वम् । शीतलत्वम् । गुरुत्वञ्च ॥ * ॥
तालाम्बुगुणाः । पित्तनाशित्वम् । शुक्रस्तन्य-
वृद्धिकारित्वम् । गुरुत्वञ्च । इति राजनिर्घण्टः ॥
तालजतरुणतोयगुणः । अतिशयमदकारित्वम् ।
तदेवाम्लीभूतं पित्तवातदोषकृत् । इति भाव-
प्रकाशः ॥ कफकृमिहरत्वम् । रुच्यत्वम् । वात-
लत्वम् । दुर्ज्जरत्वञ्च । इति राजवल्लभः ॥ * ॥
तालप्रलम्बगुणः । रूक्षत्वम् । क्षतरोगनाशि-
त्वञ्च । इति राजनिर्घण्टः ॥ * ॥ तालतरुण-
मज्जगुणाः । किञ्चिन्मदकरत्वम् । लघुत्वम् ।
पृष्ठ २/६११
श्लेष्मकारित्वम् । वातपित्तनाशित्वम् । सस्नेह-
त्वम् । मधुरत्वम् । सारकत्वञ्च । इति भाव-
प्रकाशः ॥ * ॥ तालशिरोगुणाः । स्वादुत्वम् ।
तिक्तत्वम् । कषायत्वम् । मूत्रातङ्करोगनाशि-
त्वम् । बलप्राणशुक्रवृद्धिकारित्वञ्च । इति ।
राजवल्लभः ॥ * ॥
गीतकालक्रियामानम् । अयं स्वर इयत् कालं
गेयः इयत् कालं विलम्बितं इयत् कालं द्रतं
इयत् कालं मध्यमिति बोधयितुं ईदृशै-
र्हस्तैरङ्गुल्याकुञ्चन प्रसारणादिक्रियाभिर्नर्त्तितव्यं
गातव्यञ्चेति कालक्रिययोः प्रमाणं तालः ॥ साञ्जे
इदमियत् कालं गेयमिति कालेनाङ्गुल्याद्याकुञ्च-
नादिक्रियामानं ताल इति ॥ कालस्य एकद्वि-
त्रिमात्राद्युच्चारणनियमितस्य क्रियायाः परि-
स्पन्दात्मिकायाः परिच्छेदहेतुस्ताल इति मधुः ॥
कालेन नर्त्तनगलवादनक्रियाणां मानं तालः ।
तारादेककालमेषां विरामस्ताल इत्यन्ये । इत्य-
मरटीकायां भरतः ॥ * ॥ तस्योत्पत्तिर्यथा ।
गौरीहरयोर्नृत्येन तालो ब्रभूव । तस्य कार-
णम् । क्रियाकालश्च । हरनृत्यस्य ताण्डवं गौर्य्या
नृत्यस्य लास्यं इति संज्ञा अर्थात् पुरुषनृत्यस्य
ताण्डवं नार्य्या नृत्यस्य लास्यमिति नाम ।
ताण्डवस्याद्याक्षरेण लास्यस्याद्याक्षरेण च
मिलित्वा ताल इति संज्ञा जाता । इति
सङ्गीतशास्त्रम् ॥ * ॥ तस्य भेदा यथा, --
“चच्चत्पुट १ श्चाचपुटः २ षट्पितापुत्त्रकस्तथा ३ ।
उद्घट्टकः ४ सन्निपातः ५ कङ्कणः ६ कोकिलारवः ७ ॥
राजकोलाहलो ८ रङ्गविद्याधर ९ शचीप्रियौ १० ।
पार्व्वतीलोचनो ११ राजचूडामणि १२ जय-
श्रियौ १३ ॥
वादकाकुल १४ कन्दर्प १५ नलकूवर १६ दर्पणाः १७ ।
रतिलीलो १८ मोक्षपतिः १९ श्रीरङ्गः २० सिंह-
विक्रमः २१ ॥
दीपको २२ मल्लिकामोदो २३ गजलीलश्च २४
चर्च्चरी २५ ।
कुहक्को २६ विजयानन्दो २७ वीरविक्रम २८
टेङ्किके २९ ॥
रङ्गाभरण ३० श्रीकीर्त्ति ३१ वनमालि ३२ चतु-
र्म्मुखाः ३३ ।
सिंहनन्दन ३४ नन्दीश ३५ चन्द्रविम्ब ३६ द्बिती-
यकाः ३७ ॥
जयमङ्गल ३८ गन्धर्व्व ३९ मकरन्द ४० त्रिभ-
ङ्गयः ४१ ।
रतितालो ४२ वसन्तश्च ४३ जगझम्पो ४४ ऽथ
गारुणिः ४५ ॥
कविशेखर ४६ घोषौ च ४७ हरवल्लभ ४८
भैरवौ ४९ ।
गतप्रत्यागतो ५० मल्लतालो ५१ भैरवमस्तकः ५२ ॥
सरस्वतीकण्ठाभरणः ५३ क्रीडा ५४ निःसारु-
रेव च ५५ ।
मुक्तावली ५६ रङ्गराज ५७ भरतानन्दा ५८
दितालकाः ५९ ॥
सम्पक्वेष्टाक ६० इत्यादि ताला भरतसंमताः ।
संक्षेपतो निगदिता अथैषां लक्षणं यथा ॥ * ॥
अर्द्धमात्रं द्रुतं ज्ञेयमेकमात्रं लघु स्मृतम् ।
द्बिमात्रन्तु गुरु ज्ञेयं त्रिमात्रन्तु प्लुतं मतम् ॥
ताले चच्चत्पुटे ज्ञेयं गुरुद्बन्द्बं लघुः प्लुतः १ ।
गुरुर्लघुः प्लुतश्चैव भवेच्चाचपुटाभिधे ॥ २ ॥
गलगालगलाश्चैव षट्पितापुत्त्रके मताः ३ ।
उद्घट्टके तु गमनाः ४ सन्निपाते गुरुर्म्मतः ॥ ५ ॥
चतुर्व्विधः परिज्ञेयस्तालः कङ्कणनामकः ६ ।
पूर्णः खण्डः समश्चैव विषमश्चैव कथ्यते ॥
लचतुष्क गलौ पूर्णे खण्डे बिन्दुद्वयं गुरुः ।
यगणस्तु समे ज्ञेयस्तगणो विषमे भवेत् ॥
खचतुष्कं सयत्यन्तं गुरुर्बिन्दुचतुष्टयम् ।
सयत्यन्तं लघुश्चैव तालोऽयं कोकिलारवः ॥ ७ ॥
लचतुष्कं सयत्यन्तं खत्रयं खत्रयं लघुः ।
लघुर्बिन्दुद्बयञ्चेति राजकोलाहलाभिधे ॥ ८ ॥
खद्वयं द्वौ प्लुतौ यत्र रङ्गविद्याधरः स तु ९ ।
लघूनि त्रीणि यत्र स्युर्गुरूणि त्रीणि यत्र वै ॥
प्लुतद्वयञ्च यत्रास्ति स तालः स्याच्छचीप्रियः ॥ १० ॥
खद्वयं गुरुलौ बिन्दुर्गौ प्लुतौ गौ प्लुतौ पुनः ।
यत्र तालः स विज्ञेयः पार्व्वतीलोचनाभिधः ॥ ११ ॥
राजचूडामणौ बिन्दुर्लश्च बिन्दुर्लगौ मतौ ॥ १२ ॥
रगणो नो गुरुश्चैव जयश्रीरिति कथ्यते ॥ १३ ॥
प्लुतौ लघुचतुष्कञ्च मौ नौ द्रुतयुगं लघुः ।
लचतुष्कंविना शब्दं तालः स्याद्वादकाकुलः ॥ १४ ॥
द्रुतद्वयं यकारश्च कन्दर्पेपि प्रकीर्त्तितः ॥ १५ ॥
चत्वारो गुरवो यत्र चत्वारः प्लुतका अपि ।
लघ्वक्षराणि चत्वारि तालोऽयं नलकूवरः ॥ १६ ॥
बिन्धुद्बयं गुरुश्चैव भवेद्यत्र स दर्पणः ॥ १७ ॥
रतिलीले विधातव्यं लघुद्वन्द्वं गुरुद्वयम् ॥ १८ ॥
आदौ षोडशगुरवो द्वात्रिंशल्लघवस्ततः ।
चतुःषष्टिर्द्रुता यत्र सोऽयं मोक्षपतिर्मतः ॥ १९ ॥
श्रीरङ्गसंज्ञके ताले मगणाल्लघुप्लुतौ मतौ ॥ २० ॥
सिंहविक्रमताले तु मगणो नखगाः खगौ ॥ २१ ॥
प्लुतो लघुः प्लुतश्चैव ताले दीपकनामनि ॥ २२ ॥
ताले स्यान्मल्लिकामोदे लद्बयं खचतुष्टयम् ॥ २३ ॥
लचतुष्कं विरामान्तं गजलीले प्रकीर्त्तितम् ॥ २४ ॥
अष्टकृत्वस्तु चर्च्चर्य्यां विरामान्ते द्रुतौ लघुः ॥ २५ ॥
द्रुतद्वन्द्वं भवेत्ताले कुहक्काख्ये लघुद्बयम् ॥ २६ ॥
भवेयुर्विजयानन्दे लत्रयञ्च लघुत्रयम् ॥ २७ ॥
वीरविक्रमताले तु द्रुतौ लगौ ततः प्लुतः ॥ २८ ॥
टेङ्किका रगणेन स्यादेकेनैव कृतास्पदे ॥ २९ ॥
भगणो गप्लुतौ स्यातां रङ्गाभरणनामके ॥ ३० ॥
श्रीकीर्त्तिसंज्ञके ताले गुरुद्वन्द्वं लघुद्वयम् ॥ ३१ ॥
चतुर्द्रुता लघू द्बौ तु द्रुतो गो वनमालिनि ॥ ३२ ॥
चतुर्मुखाभिधे ताले यगणानन्तरं प्लुतः ॥ ३३ ॥
भगणः प्लुतो लगौ बिन्दुद्बयं गौ नः प्लुतस्तथा ।
लघुः प्लुतो द्रुतश्चैको लघुद्बयमथापि च ॥
निःशब्दं लचतुस्कञ्च ताले स्यात् सिंहनन्दने ॥ ३४ ।
गो लघुर्गौ लघुः प्लुतस्ताले नन्दीश्वरे मताः ॥ ३५ ॥
गो द्रुतौ नौ प्लुतद्बन्द्बं चन्द्रविम्बे प्रकीर्त्तितम् ॥ ३६ ॥
द्रुतद्बन्द्बं लघुश्चैकस्ताले स्यात्तु द्बितीयके ॥ ३७ ॥
सकारश्च यकारश्च जयमङ्गलनामनि ॥ ३८ ॥
चत्वारो गुरवो बिन्दूश्चत्वारश्च प्लुता अपि ।
बिन्दवो दशषट् लाश्च ताले गन्धर्व्वसंज्ञके ॥ ३९ ॥
मकरन्दे द्रुतद्वन्द्वं लघुद्वन्द्वमथो गुरुः ॥ ४० ॥
गुरुर्लघुः प्लुतश्चैव त्रिभङ्गिः परिकीर्त्तितः ॥ ४१ ॥
अत्र रतितालस्य लक्षणं पतितम् ॥ ४२ ॥
वसन्तताले कर्त्तव्यो नगणो मगनस्तथा ॥ ४३ ॥
जगझम्पे गुरुश्चैको विरामान्तञ्च खद्वयम् ॥ ४४ ॥
गप्लुतौ लौ द्रुतौ लश्च प्लुतो गारुणि । ४५ ।
शेखरे ॥ ४६ ॥
प्लुतः शून्ये नगौ लश्च खद्बयञ्च ततो लघुः ॥
खचतुष्कं विना शब्दं यत्र घोषः स उच्यते । ४७ ।
हरवल्लभताले च प्लुतो लो गौ च खद्वम् ॥ ४८ ॥
भगणः प्लुतौ गनौ गयौ प्लुतो लघुश्च भैरवे । ४९ ।
गतप्रत्यागते ताले लो मौ गौ नौ प्रकीर्त्तितौ ॥ ५० ॥
चतुर्लघुर्मल्लताले विरामान्तं द्रुतद्वयम् ।
लगौ गौ नो नगौ गश्च खद्बयं लद्बयं पुनः ॥ ५१ ॥
नचतुष्कं विना शब्दं ताले भैरवमस्तके । ५२ ।
सरस्वतीकण्ठाभरणे गौ लघुश्च द्रुतद्बयम् ॥ ५३ ॥
एक एव प्लुतो यत्र क्रीडातालः स उच्यते ॥ ५४ ॥
द्रुतद्वयं विरामान्तं ताले निःसारुके मतम् । ५५ ।
खत्रयं सविरामान्तं नौ पुनः खत्रयन्तथा ॥
प्लुतौ गः खयुगं गश्च यत्र मुक्तावली तु सां । ५६ ।
लगौ बिन्दुयुगं गौ लो रङ्गराजे प्रकीर्त्तितः ॥ ५७ ॥
खद्वयं सविरामान्तं गुरुः प्लुतद्बयं लघुः ।
यत्र ताले स विज्ञेयो भरतानन्दसंज्ञकः ॥ ५८ ॥
आदिताले लगुश्चैक इत्याह भरतो मुनिः । ५९ ।
मगणश्च प्लुताद्यन्तः संपक्वेष्टाकतालके ॥ ६० ॥
एकाघिकशते ताले षष्टिर्मुख्यतमा इमे ॥” * ॥
अथ प्रस्तारः ।
“गुरुः प्लुताधोभागे तु गुर्व्वधोभागतो लघुः ।
द्रुतं लघोरधोभागे तुल्ये तुल्या तु पङ्क्तिका ॥
उद्धृत्ता च कला पश्चादित्थं प्रस्तारणक्रमः ।
सर्व्वप्लु तात् समारभ्य मात्रानिवहनिर्म्मितात् ॥
तावत् प्रस्तारयेदन्ते यावत् सर्व्वं द्रुतं भवेत् ॥”
अत्र तालप्रस्तारे पिङ्गलवन्नष्टोद्दिष्टमेरुपताका-
दयः सन्ति बाहुल्यभयान्नोक्ताः ॥ * ॥
अथ प्लुतादिमात्राभेदेन तालघातनम् ।
“ताले निष्टातहस्तः प्लुतमनुघटयेद्घातमेकं
सशब्दं
तत्पश्चात् द्वौ च घातौ निनदविरहितौ दर्शये
दूर्द्धतोऽधः ।
शून्यत्वात् फक्वतालाविति जगति पुनः सूत्रसिद्धौ
सनन्दा-
वित्थं घातत्रयं तत् त्रिकलतनुवहिर्वर्द्धयेद्दुर्ल-
कारम् ॥
एको घातः सशब्दो द्विकल इह गुरौ शब्दहीन-
स्तथान्यः
सोऽप्यूर्द्ध्वं याति लीलावलयवलयितोत्तान-
हस्ताङ्गुलीभिः ।
किञ्चोच्चैकैकमात्रा समुदयिनि लधौ घात एको
निनादी
पृष्ठ २/६१२
घात्यो मात्रार्द्धभाजि द्रुतवपुषि लधोरर्द्धनादेन
घातः ॥
इति तालघातनप्रकारः ॥ * ॥
श्रीरङ्गो मणिबन्धकङ्कणवहो मुक्तावलीमण्डनः
क्रीडाहेतुवसन्तरक्तहृदयो गन्धर्व्वलीलारतः ।
साक्षान्मोक्षपतिश्चतुर्मुखनतो यो राजचूडामणिः
सोऽयं तालमयस्तृणेढुतृणवत् संसारबन्धं हरिः ॥
अपि च ।
नन्दीशोऽर्द्धतनुर्मुखेन वनतस्तच्चन्द्रविम्बोदयः
कन्दर्पो नलकूवरश्च तुलितौ यस्यातिरूपे तुले ।
कण्ठान्तः किल कोकिलारवभवो बाहौ जय-
श्रीरहो
तालात्मा मुरजिच्छिनत्तु सगुणः संसारपाशा-
वलीम् ॥
ख्यातो यः कविचक्रवर्त्तिपदतो विद्याचनैरञ्चितः
सौभद्रेयमिमं यमर्ज्जुनयशाः सोऽजीजनत्
श्रीधरः ।
तस्य श्रीलशुभङ्करस्य भणितौ भङ्गीतदामोदरे
तालाद्यः स्तवकोच्युतस्तवकृतौ यातस्तृतीयः
पटुः ॥” * ॥
अन्यच्च ।
“आदावष्टस्तथा रुद्रो ब्रह्म इन्द्रश्चतुर्द्दशः ।
दशावतारबन्धादि नृत्यनाट्यं ततः परम् ॥
अथाष्टतालभेदाः । आडः १ दोजः २ ज्योतिः ३
चन्द्रशेखरः ४ गञ्जनम् ५ पञ्चतालः ६ रूप-
कम् ७ समतालः ८ ॥ अथ रुद्रतालस्य भेदाः ।
वीरविक्रमः १ विषमसमुद्रः २ धरणम् ३ वीर-
दशकः ४ मण्डूकः ५ कन्दर्पः ६ डाँशपाहिडः ७
ध्रुवचरणम् ८ दशकोषी ९ गजेन्द्रगुरुः १०
छटका ११ । अथ ब्रह्मतालभेदाः । ब्रह्म १ विराम-
ब्रह्म २ षट्कला ३ सप्तमात्रा ४ ॥ अथेन्द्रताल-
भेदाः । देवसारः १ देवचाली २ मदनदोला ३
गुरुगन्धर्व्वः ४ पञ्चाली ५ इन्द्रभाषः ६ ॥
अथ चतुर्द्दशतालभेदाः । चिह्नतालः १ चन्द्र-
मात्रा २ देवमात्रा ३ अर्द्धज्योतिका ४ स्वर्ग-
सारः ५ क्षमाष्टः ६ धराधरा ७ वसन्तवाक् ८
काककला ९ कीरशब्दा १० ताण्डवी ११ हर्ष-
घारिका १२ भाषा १३ अर्द्धमात्रा १४ ॥
तेषां लक्षणानि यथा, --
एकतालस्ततः शून्यं युगलं तालिका परे ।
सङ्गीतः प्रथमः सार आडतालः प्रकीर्त्तितः १ ॥
एकतालञ्च शून्यञ्च क्रमेणापि त्रिधा भवेत् ।
शेषशून्यं कलाभेदे दोजाख्यश्च भवेत् पृथक् २ ॥
प्रथमं युगलं तालं एक एकस्तथापरे ।
कलाभेदे गानभेदं ज्योतिश्च परिकीर्त्तितम् ३ ॥
चन्द्रश्चन्द्रस्तथा युग्मं तथा चन्द्रस्तथापरे ।
षट् ताला निभवन्त्येवं चन्द्रशेखरभाषितः ४ ॥
एकतालो भवेच्छ्रेष्ठः क्रमेणापि चतुष्टयम् ।
शेषशून्यं गञ्जनञ्च सर्व्वतो मुनिभाषितम् ५ ॥
प्रथमं युगलञ्चैव तत्परं तालमेककम् ।
शेषे युग्मं तथा शून्यं पञ्चतालं प्रकीर्त्तितम् ६ ॥
युगलं प्रथमं तालं तत्परन्त्वेकशून्यकम् ।
शेषे च युगलं तालं रूपकं परिकीर्त्तितम् ७ ॥
एकतालं तथा शून्यं क्रमेण द्विविधं भवेत् ।
शेषे युगलतालञ्च समतालं भवेत् परम् ८ ॥
एकतालं तथा शून्यं क्रमेण त्रिविधं भवेत् ।
तत्परं युगलं तालमित्येवं वीरविक्रमः १ ॥
युग्मतालं तथा शून्यं तत्परं द्वयतालकम् ।
शेषे च युगलं तालं समुद्रविषमं स्मृतम् २ ॥
युग्मतालञ्च शून्यञ्च एकतालञ्च तत्परे ।
शेषैकत्र त्रिशून्यञ्च विषमं धरणं भवेत् ३ ॥
एकतालं तथा शून्यं क्रमेणापि त्रिधा भवेत् ।
युगलं युगलं पश्चात् स वीरदशकः स्मृतः ४ ॥
प्रथमं एकतालञ्च तत्परं शून्यमेककम् ।
शेषैकत्र त्रितालञ्च मण्डूकस्य गतिर्यथा ५ ॥
समतालं यथा दृष्टं तथा कन्दर्पसंज्ञितम् ।
समताले भवेत् शून्यं कन्दर्पे नास्ति तत् पुनः ६ ॥
पञ्चतालात् परं शून्यं डाँशपाहिडमुत्तमम् ।
अत्यूर्द्ध्वञ्च भवेत् त्रस्तं संग्रामस्य यथा गतिः ७ ॥
एकतालं तथा शून्यं क्रमेणापि द्विधा भवेत् ।
शेषैकत्र त्रितालञ्च ध्रुवचरणभाषितम् ८ ॥
एकतालमेकशून्यमित्येवञ्च भवेत् क्रमात् ।
विरामं एकतालञ्च वाग्भेदे दशकोषिका ९ ॥
युगलं युगलं पश्चात् तदन्तेऽप्येकतालकम् ।
शेषे च युग्मशून्यञ्च गजेन्द्रगुरुभाषितम् १० ॥
युग्मशून्यं विरामे च एकतालं भवेत् क्रमे ।
छुटकाख्यानकं धीर सङ्गीतपरिनिष्ठितम् ११ ॥
युग्मञ्च त्रस्तं प्रथमैकतालं
किञ्चिद्बिरामे पुनरेकतालम् ।
ब्रह्मस्य तालञ्च सङ्गीतमध्ये
यथा कपोती हि करोति शब्दम् १ ॥
युग्मतालं भवेत्रस्तं एकतालञ्च तत्परे ।
शेषे द्वितीयशून्ये च विरामब्रह्मतालकम् २ ॥
प्रथमञ्चैकतालञ्च युग्मशून्यं तथा परे ।
शेषैकत्र त्रितालेति षट्कला खलु कथ्यते ३ ॥
आदौ युग्मं तथा युग्मं त्रितालञ्च तथा परे ।
सप्तमात्रा भवत्येषा ब्रह्मतालान्तरे शुभे ४ ॥
सविरामं त्रितालञ्च एकं शून्यन्तथापरे ।
शेषे त्रस्तं त्रितालञ्च देवसार इतीर्य्यते १ ॥
द्वितयशून्यं विरामे भवति ततश्च त्रितालानि ।
शेषेण द्विशून्यमित्येवं देवचाली २ ॥
प्रथममेव युग्मतालं तत्पश्चादेकशून्यं विरामे ।
शेषे त्रितयतालं भवतीति मदनदोला ३ ॥
युग्मतालं समारभ्य पञ्चतालं भवेत्तथा ।
अत्यूर्द्ध्वञ्च तथा त्रस्तं गुरुगन्धर्व्व ईरितः ४ ॥
श्रावणस्य यथा धारास्तथा तालो भवेद्घनः ।
पञ्चतालान्तराणीति पञ्चालीति प्रकीर्त्तिता ५ ॥
सविरामं चतुस्तालं त्रितालं शून्यमन्ततः ।
मेधारम्भे यथा केका रूयन्ते इन्द्रभाषितः ६ ॥
एकतालञ्च शून्यञ्च क्रमेण त्रितयं ततः ।
शेषे चतुष्टयं त्रस्तं चिह्नताल इतीर्य्यते १ ॥
एकचन्द्रस्तथा युग्मं तालं प्रत्येकतस्त्रयम् ।
शेषे त्रीणि च शून्यानि चन्द्रमात्रा भवेत् परा २ ॥
प्रथमं षट्कवालञ्च अत्यूर्द्ध्वन्तु भवेत् क्रमे ।
शेषे युग्मं तथा शून्यं देवमात्रा च सोच्यते ३ ॥
चन्द्रशून्यं त्रितालञ्च विरामेण क्रमेण तु ।
अत्यूर्द्ध्वन्तु भवत्येवं अर्द्धज्योतिरिति स्थितिः ४ ॥
एकैकतालान्तरयुग्मतालात्
शून्यत्रयं तत्परमेकतालम् ।
कलाभिदा शून्यभिदा समाख्या
स स्वर्गसाराख्यनवीनतालः ५ ॥
युग्मशून्यं विरामेण देवतालमिति क्रमात् ।
क्षमाष्टाख्योऽन्तरे शून्यं इति सर्व्वत्र भाषितम् ६ ॥
नवाम्बुदे दामिनि शीघ्रयानं
तथा सुसम्बद्धसुतालभानम् ।
युग्मं सत्रस्तं क्रमतश्च तालं
शेषे त्रितालञ्च धराधराख्या ७ ॥
एकतालञ्च शून्यञ्च क्रमेणापि चतुष्टयम् ।
क्रमात्तालत्रयञ्चैव वसन्तवागुदाहृतः ॥ ८ ॥
सविरामं द्वयं तालं युग्मतालं तथा परे ।
शेषैकत्र त्रितालञ्च भवेत् काककलेति सा ॥ ९ ॥
त्रितालञ्च भवेत्त्रस्तं तत्परं त्वेकतालकम् ।
शेषेऽपि च त्रितालञ्चेत् कीरशब्दा प्रचक्ष्यते १० ॥
युग्मं युग्मं तथा युग्मं तालन्त्वेकं भवेत् क्रमात् ।
शेषशून्यं कलाभेदे ताण्डवीति भवेत् पृथक् ११ ॥
सविरामं द्वयं तालं युग्मशून्यञ्च तत्परम् ।
शेषोर्द्ध्वन्तु त्रितालञ्च हर्षधारा प्रकीर्त्तिता १२ ॥
चन्द्रशून्यं विरामेण द्वयं तालं भवेत् क्रमात् ।
अत्यूर्द्ध्वन्तु भवेत्रस्तं भाषाख्यं तालमुत्तमम् १३ ॥
अत्यूर्द्ध्वन्तु त्रितालञ्च द्वयं तालं विरामकम् ।
इत्यर्द्धमात्रा विज्ञेवा सङ्गीतभुवि सर्व्वतः ॥”
इति सङ्गीतदामोदरः ॥
दशावतारप्रबन्धलक्षणं प्रबन्धशब्दे नित्यनाट्य-
प्रबन्धवाद्यलक्षणं वाद्यशब्दे द्रष्टव्यम् ॥ * ॥
करतलम् । अङ्गुष्ठमध्यमाभ्यां सम्मितम् । करा-
स्फालः । (यथा, मेघदूते । ७९ ।
“तालैः सिञ्चद्बलयसुभगैर्नर्त्तितः कान्तया मे
यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः ॥”)
कांस्यनिर्म्मितवाद्यभाण्डम् । त्सरुः । इति
मेदिनी । ले, २४ ॥ (महादेवः । यथा, महा-
भारते । १३ । १७ । १२८ ।
“तलस्तालः करस्थाली ऊर्द्ध्वसंहननो महान् ॥”)

तालकं, क्ली, (तालमेव । ताल + स्वार्थे कन् ।)

हरितालम् । इति राजनिर्घण्टः ॥ (अथ ताल-
कस्याशुद्धस्य दोषमाह ।
“अशुद्धं तालमायुर्हृ त्कफमारुतमेहकृत् ।
तापस्फोटाङ्गसङ्कोचं कुरुते तेन शोधयेत् ॥
अथ तालकस्य शोधनविधिः ।
तालकं कणशः कृत्वा तच्चूर्णं काञ्जिके पचेत् ।
दोलायन्त्रेण यामैकं ततः कुष्माण्डजैर्द्रवैः ॥
तिलतैले पचेद्यामं यामञ्च त्रिफलाजले ।
एवं यन्त्रे चतुर्यामं पक्वं शुध्यति तालकम् ॥
अथ तालकस्य मारणविधिः ।
सदलं तालकं शुद्धं पौनर्नवरसेन तु ।
खल्वे विमर्द्दयेदेवं दिनं पश्चाद्विशोषयेत् ॥
ततः पुनर्नवाक्षारैः स्थाल्यामर्द्धं प्रपूरयेत् ।
पृष्ठ २/६१३
तत्र तद्गोलकं धृत्वा पुनस्तेनैव पूरयेत् ॥
आकण्ठं पिठरं तस्य पिधानं धारयेन्मुखे ।
स्थार्लां चुल्व्यां समारोप्य क्रमाद्बह्निं विवर्द्धयेत् ॥
दिनान्यन्तरशून्यानि पञ्चवह्निं प्रदापयेत् ।
एवं तन्म्रियते तालं मात्रा तुल्यैकरक्तिका ॥
अनुपानान्यनेकानि यथायोग्यं प्रयोजयेत् ॥”
अन्यच्च ।
“तालकं हरते रोगान् कुष्ठमृत्युज्वरापहम् ।
शोधितं कुरुते कान्तिं वीर्य्यबुद्धिं तथायुषम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥
अन्यान्यविधं हरितालमारणम् । यथा, वैद्यक-
रसेन्द्रसारसंग्रहे जारणमारणाधिकारे ।
“तालकं कणशः कृत्वा सुशुद्धं हुण्डिकान्तरे ।
चूर्णोदकेन संपिष्टमपामार्गजटोद्भवैः ॥
क्षारोदकैश्च संपिष्टमूर्द्धाधो यावशूकजम् ।
चूर्णं दत्त्वा निरुध्याथ कुष्माण्डैश्च प्रपूरयेत् ॥
पुनर्मुखं निरुध्याथ चतुर्यामं क्रमाग्निना ।
पचेदेवं हि तच्चूर्णं कुष्ठादौ परियोजयेत् ॥”
मतान्तरम् ।
“अम्ललोनीजलैर्भाव्यं तालं द्बादशयामकम् ।
तथैव निम्बनीरेण ततश्चूर्णोदकेन च ।
प्रक्षाल्य शाल्मलीक्षारैर्द्विगुणैः खातमध्यगम् ।
विधाय कवचीयन्त्रं बालुकाभिः प्रपूरयेत् ।
द्बादशप्रहरं पक्त्वा स्वाङ्गशीतञ्च चूर्णयेत् ।
खादयेद्रक्तिकामेकां कुष्ठश्लीपदशान्तये ॥”
इति हरितालमारणम् ॥)
(तालमिव कायतीति । कै + कः ।) द्वार-
यन्त्रम् । इति हेमचन्द्रः । ४ । ७१ ॥ ताला
इति भाषा ॥ तुवरिका । इति शब्दरत्नावली ॥

तालकाभः, पुं, (तालकस्य हरितालस्य आभा

इव आभा यस्य ।) हरितवर्णः । इति हेम-
चन्द्रः । ६ । ३१ ॥ तद्वति, त्रि ॥

तालकी, स्त्री, (तालकस्य तालवृक्षस्य इयम् ।

तालक + अण् + ङीष् ।) तालसुरा । इति
त्रिकाण्डशेषः ॥ ताडी इति भाषा ॥

तालक्षीरकं, क्ली, (तालजातं क्षीरमिव । ततः

इवार्थे स्वार्थे वा कन् ।) तालसम्भूततवक्षीरम् ।
इति राजनिर्घण्टः ॥

तालध्वजः, पुं, (तालो ध्वजो यस्य ।) बलदेवः ।

इति हलायुधः ॥ (यथा, महाभारते । ९ ।
५४ । १० ।
“नातिदूरं ततो गत्त्वा नगं तालध्वजो बली ।
पुण्यं तीर्थवरं दृष्ट्वा विस्मयं परमं गतः ॥”
पर्व्वतविशेषः । यथा, शत्रुञ्जयमाहात्म्ये । १ । ३५२ ।
“शत्रुञ्जयो रैवतश्च सिद्धिक्षेत्रं सुतीर्थराट् ।
टङ्कः कपर्द्दी लौहित्यस्तालध्वजकदम्बकौ ॥”)

तालध्वजा, स्त्री, (तालस्तालवृक्षो ध्वजश्चिह्नं

यस्याः ।) पुरीविशेषः । यथा, क्रियायोगसारे ।
“अस्ति तालध्वजा नाम नगरी त्रिदिवोपमा ॥”

तालनवमी, स्त्री, (तालोपहारा नवमी । शाक-

पार्थिववत् समासः ।) भाद्रशुक्लनवमी । यथा,
“मासि भाद्रपदे या स्यान्नवमी बहुलेतरा ।
तस्यां संपूज्य वै दुर्गामश्वमेधफलं लभेत् ॥”
इति संवत्सरकौमुदीधृतगरुडपुराणवचनम् ॥
इयमेव तालनवमी ख्याता ॥ (अस्यां नवम्यां
सौभाग्यफलकाङ्क्षिणीभिः स्त्रीभिर्यथाविधानं
नारायणं लक्ष्मीञ्च संपूज्य व्रतकथा श्रोतव्या ।
तत्कथा यथा, --
“मेरुपृष्ठे सुखासीनं कृष्णं कमलया सह ।
उवाच मधुरं वाक्यं स्मितपूर्ब्बं मुदाम्बिका ॥
शृणु मे वचनं देव ! स्त्रीणां सौभाग्यकारणम् ।
केन वा सुभगा चासीत् केन वा दुर्भगा भवेत् ॥
किं कृतेन विमुच्येत किं कृतेन फलं लभेत् ।
तन्मे ब्रूहि सुरश्रेष्ठ ! नारीणां कारणं ध्रवम् ॥
श्रीभगवानुवाच ।
पूर्ब्बं हि मम भार्य्ये द्वे सत्यभामा च रुक्मिणी ।
रुक्मिणी सुभगा साध्वी सत्यभामा च दुर्भगा ॥
तस्याः कर्म्मविपाकेन सौभाग्यमन्यथा गतम् ।
केनचिद्बाक्यदोषेण सत्यभामा च दुर्भगा ॥
दुःखार्त्ता शोकसन्तप्ता रुदती बहुशो मुहुः ।
कियत्काले च सम्पन्ने व्रजन्ती च तपोवने ॥
अरण्ये विजने गत्वा कस्मिन्मुनिवराश्रमे ।
रुदित्वा च विधानेन सर्व्वं दुःखं न्यवेदयत् ॥
तच्छ्रत्वा तु मुनिश्रेष्ठः प्रोवाच रुदतीं शुभाम् ।
भव्ये पुत्त्रिणि ! मा रोदीः सौभाग्यं ते भविष्यति ॥
सत्यभामोवाच ।
दुःखं मे बहुशस्तात ! शरीरं दुर्भगं कथम् ।
कथ्यतां मुनिशार्द्दूल ! स्वामिसौभाग्यकारणम् ॥
मुनिरुवाच ।
भाद्रे मासि सिते पक्षे नवमी या तीथिर्भवेत् ।
तस्यां नारायणं लक्ष्मीं पूजयेच्च विधानतः ॥
सत्यभामोवाच ।
विधानं कीदृशं तस्य किं दानं किञ्च पूजनम् ।
तन्मे ब्रूहि मुनिश्रेष्ठ ! कारणं किन्तदुच्यताम् ॥
मुनिरुवाच ।
स्थण्डिले मण्डलं कृत्वा घटं तत्र निवेशयेत् ।
तत्र नारायणं लक्ष्मीं गन्धपुष्पादिनार्च्चयेत् ॥
नैवेद्येन सदा भक्त्या पूजयेत् भक्तवत्सलाम् ।
तालेन पूजयेत् देवीं तालेनैव विनिर्म्मितम् ॥
तस्ये तत् पिष्टकं दत्त्वा ब्राह्मणायोपपादयेत् ।
गन्धमाल्यैः समभ्यर्च्च्य विप्रहस्ते समर्पितम् ॥
स्वस्तीति ब्राह्मणो ब्रूयात् व्रतं साङ्गं समाचरेत् ।
एवं क्रमेण साध्वीभिः कर्त्तव्यमतियत्नतः ॥
नवमं वत्सरं यावत् मासि भाद्रपदे तथा ।
पुत्त्रपौत्त्रैः परिवृता सौभाग्यमतुलं भवेत् ॥
धनधान्यसमृद्धिञ्च अवैधव्यञ्च नित्यशः ।
अभीष्टफलमाप्नोति नवमीव्रतकारणात् ॥
सम्पूर्णे तु व्रते भूते प्रतिष्ठां तदनन्तरम् ।
विप्राय दक्षिणा देया सुभोज्यञ्च विधानतः ॥
एवं कुरु सदा विज्ञे ! शृणु भाषणमुत्तमम् ॥
तथा चक्रे च सा साध्वी मुनेर्व्वचनगौरवात् ।
व्रते सम्पूर्णतां याते केशवस्तामुपागतः ॥
उवाच प्रहसन् देवो वचनं मधुरं शुभम् ।
असौभाग्येन यद्दुःखं तत् ते सर्व्वं विनश्यतु ॥
सौभाग्यमतुलं प्राप्य यथा गौरी हरस्य च ।
शचीव पुरुहूतस्य रतीव मदनस्य च ॥
यथा नारायणे लक्ष्मीस्तथा त्वं भव शोभने ! ।
इति तस्यै वरं दत्त्वा गृहीत्वा तां पुरं ययौ ॥
इदं या कुरुते साध्वी व्रतं सा सुभगा भवेत् ।
एवं व्रतञ्च या नारी करोति धर्म्मतत्परा ॥
तस्याश्च भवने लक्ष्मीश्चञ्चला निश्चला भवेत् ।
जन्मान्तरे भवेत् साध्वी अवैधव्यं सदा पुनः ॥
पत्युश्च सुभगा साध्वी पुत्त्रपौत्त्रान्निता भवेत् ।
धनधान्यसमृद्धिञ्च ततो मोक्षमवाप्नुयात् ॥”
इति भविष्यपुराणोक्ततालनवमीव्रतकथा
समाप्ता ॥ * ॥ व्रतेऽस्मिन् नवफलानि दातव्यानि ।
तानि यथा, --
“पिण्डखर्ज्जूरं जातिश्च एला चैव हरीतकी ।
नारिकेलं तथा पूगं रम्भापक्वफलन्तथा ।
तत्र मुख्यं प्रदातव्यं तालस्य फलमुत्तमम् ॥” * ॥)

तालपत्रं, क्ली, (तालस्य पत्रमिव ।) ताडङ्कः ।

इत्यमरः । २ । ६ । १०३ ॥ तालवृक्षस्य पर्णञ्च ॥
(एतस्य व्यजनगुणा यथा, --
“तालपत्रमरुद्रूक्षः कोष्णो वातस्य शान्तिकृत् ।
निद्राकरः प्रीतिकरः शोषरोगविकारहा ॥
दाहपित्तश्रमग्लानिनाशनो भ्रमशान्तिकृत् ।
मधुरोऽतिश्रमघ्नः स्यादार्द्रत्वे कफकोपनः ॥”
इति हारीते प्रथमे स्थाने पञ्चमेऽध्याये ॥)

तालपत्रिका, स्त्री, (तालपत्री + स्वार्थे कन् टाप्

ह्रस्वश्च ।) मुषली । तालमूली । इति राज-
निर्घण्टः ॥ (तालमूलीशब्देऽस्या विवृति-
र्ज्ञातव्या ॥)

तालपत्री, स्त्री, (तालस्य पत्रमिव पत्रमस्याः ।)

मूषिकपर्णी । इति मेदिनी । रे, २६३ ॥ (यथा,
“गोजी च पिष्टा सह तालपत्र्या
ग्रन्थौ विधेयोऽनिलजे प्रलेपः ॥”
इति सुश्रुते चिकित्सितस्थाने १८ अध्याये ॥)

तालपर्णं, क्ली, स्त्री, (तालः खड्गमुष्टिरिव पर्ण-

मस्य ।) मुरानामगन्धद्रव्यम् । इति शब्द-
चन्द्रिका ॥

तालपर्णी, स्त्री, (तालस्य पर्णमिव पर्णमस्याः ।

ङीष् ।) मधुरिका । इति जटाधरः ॥ मुरा ।
इत्यमरः । २ । ४ । १२३ ॥

तालपुष्पकं, क्ली, (तालस्य पुष्पमिव पुष्पमस्य ।

कप् ।) प्रपौण्डरीकम् । इति शब्दरत्नावली ॥

तालभृत्, पुं, (तालं बिभर्त्ति ध्वजरूपेणेति । भृ

+ क्विप् ।) बलदेवः । इति त्रिकाण्डशेषः ॥

तालप्रलम्बं, क्ली, (ताले तालवृक्षे प्रलम्बते इति ।

प्र + लम्ब + अच् ।) तालजटा । यथा, --
“तथा तालप्रलम्बञ्च रूक्षं क्षतरुजापहम् ॥”
इति राजवल्लभः ॥

तालमूलिका, स्त्री, (तालमूली + स्वार्थे कन् टाप्

ह्रस्वश्च ।) तालमूली । इत्यमरः । २ । ४ । ११९ ॥

तालमूली, स्त्री, (तालस्य मूलमिव मूलमस्याः ।

ङीष् ।) स्वनामख्यातवृक्षः । तत्पर्य्यायः ।
अर्शोघ्नी २ मुषली ३ ताली ४ खलिनी ५ ।
पृष्ठ २/६१४
इति रत्नमाला ॥ सुवहा ६ तालपत्रिका ७
गोधापदी ८ हेमपुष्पी ९ भूताली १० दीर्घ-
कन्दिका ११ । अस्या गुणाः । मधुरत्वम् ।
शीतत्वम् । वृष्यत्वम् । पुष्टिबलकफप्रदत्वम् ।
पिच्छिलत्वम् । पित्तदाहश्रमहरत्वञ्च । इति
राजनिर्घण्टः ॥ उष्णवीर्य्यत्वम् । बृंहणत्वम् ।
सुरुत्वम् । तिक्तत्वम् । रसायनत्वम् । गुदज-
रोगानिलनाशित्वञ्च । इति भावप्रकाशः ॥
“मुषली च द्विधा प्रोक्ता श्वेता चापरसंज्ञका ।
श्वेता स्वल्पगुणोपेता अपरा च रसायनी ॥”
इति राजनिर्घण्टः ॥
(अस्या विषयो यथा, वैद्यकरसेन्द्रसारसंग्रहे
ज्वरे महाराजवट्याम् ।
“माषद्बयमितं भागं तालमूल्या रसेन च ।
पिष्ट्वा च वटिका कार्य्या चतुर्गुञ्जाप्रमाणतः ॥”)

ताललक्ष्मा, [न्] पुं, (ताल एव लक्ष्म चिह्नं

यस्य ।) बलदेवः । इति हेमचन्द्रः । २ । १३८ ॥

तालवृन्तं, क्ली, (तालस्य तालपत्रस्य वृन्तं कारणे-

त्वेन अस्ति अस्य । अच् ।) व्यजनम् । इति
हेमचन्द्रः । ३ । ३५१ । तालपातार पाखा इति
भाषा ॥ (यदुक्तम्, --
“परे ब्रह्मणि विज्ञाते समस्तैर्नियमैरलम् ।
तालवृन्तेन किं कार्य्यं लब्धे मलयमारुते ॥”)
तस्य वायुगुणः । त्रिदोषशमनत्वम् । लघु-
त्वञ्च । इति राजवल्लभः ॥ (सोमविशेषे, पुं ।
यथा, --
“एक एव खलु भगवान् सोमः स्थाननामाकृति-
वीर्य्यविशेषैश्चतुर्व्विंशतिधा भिद्यते ।”
“प्रतानवांस्तालवृन्तः करवीरोऽंशवानपि ॥”
इति सुश्रुते चिकित्सितस्थाने २९ अध्याये ॥)

तालवृन्तकं, क्ली, (तालवृन्तमेव । स्वार्थे कन् ।)

व्यजनम् । इत्यमरः । २ । ७ । १४० ॥

तालवेचनकः, पुं, (तालस्य वेचनं पृथक्करणं

संस्थानेन नियमनं यत्र । कप् ।) नटः । इति
शब्दरत्नावली ॥ तालरेचनकोऽपि पाठः ॥

तालव्यं, त्रि, (तालोर्जातम् । तालु + “शरीरा-

वयवात् यत् ।” ५ । १ । ६ । इति यत् ।) तालु-
जातम् । इति व्याकरणम् ॥ (यथा, शिक्षा-
याम् । १७ ।
“कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजायुपू ॥”)

तालाख्या, स्त्री, (तालं तालपर्णं आख्या यस्याः ।)

मुरा । इति शब्दचन्द्रिका ॥

तालाङ्कः, पुं, (तालस्तालवृक्षः अङ्को ध्वजो यस्या ।)

वलदेवः । इत्यमरः । १ । १ । २५ ॥ करपत्रम् ।
शाकभेदः । महालक्षणसम्पन्नपुरुषः । पुस्त-
कम् । हरः । इति हेमचन्द्रः ॥

तालावचरः, पुं, (तालेन अवचरति नृत्यतीति ।

अव + चर + अच् ।) नटः । इति त्रिकाण्ड-
शेषः ॥

तालिः, स्त्री, (तालयति प्रतितिष्ठत्यनयेति । तल

प्रतिष्ठायाम् + णिच् + “सर्व्वधातुभ्य इन् ।”
उणां । ४ । ११७ । इतीन् ।) भूम्यामलकी ।
इति रत्नमाला ॥ (ताड्यते निहन्यते मतिरन-
येति । तड ताडने + णिच् + करणे इन् । डस्य
लत्वम् ।) ताली । इत्यमरटीकायां भरतः ॥

तालिकः, पुं, (तलेन करतलेन निर्वृत्तः । तल +

“तेन निर्वृत्तम् ।” ५ । १ । ७९ । इति ठक् ।)
प्रसारिताङ्गुलिपाणिः । तत्पर्य्यायः । चपेटः २
प्रतलः ३ तलः ४ प्रहस्तः ५ तालः ६ । इति
हेमचन्द्रः । ३ । २३० ॥ (यथा, पञ्चतन्त्रे । २ ।
१३७ ।
“यथैकेन न हस्तेन तालिकः सम्प्रपद्यते ।
तथोद्यमपरित्यक्तं न फलं कर्म्मणः स्मृतम् ॥”)
लिखितस्य निबन्धनम् । तत्पर्य्यायः । काचनी २
काचनकी ३ । इति शब्दरत्नावली ॥

तालिका, स्त्री, (तलेन निर्वृत्ता । तल + ठक् ।

स्त्रियां टाप् ।) चपेटः । तालमूली । इति
शब्दरत्नावली ॥ ताम्रवल्ली । इति राज-
निर्घण्टः ॥

तालितं, क्ली, (ताड्यते यदिति । तड ताडने +

णिच् + क्तः । डस्य लत्वम् ।) वाद्यभाण्डम् ।
तुलितपटः । गुणः । इत्यजयः ॥

तालिशः, पुं, (तलतीति । तल गतौ + “इशः

कप्यर्पिवडिभ्यस्तलेस्तु णित् ।” १ । ३३९ ।
इत्युणादिकोषटीकाधृतसूत्रात् इशः णित्त्वात्
वृद्धिश्च ।) पर्व्वतः । इत्युणादिकोषः ॥

ताली, स्त्री, (तालि + कृदिकारादिति वा ङीष् ।)

ताडी । ताडियात् इति भाषा । तामलकी ।
इत्यमरः । २ । ४ । २२७ ॥ भूँइ आमला इति
भाषा ॥ (अस्याः पर्य्याया यथा, --
“बहुपुष्पी जडाध्यण्डा ताली भूम्यामलक्यपि ।
तामलक्यजटा सूक्ष्मफला क्षेत्रामलक्यपि ॥”
इति वैद्यकरत्नमालायाम् ॥)
तुवरिका । इति शब्दरत्नावली ॥ तालमूली ।
इति रत्नमाला ॥ प्रतिताली । कुञ्चिका-
विशेषः । इति हेमचन्द्रः ॥ ताम्रवल्ली । इति
राजनिर्घण्टः ॥ सुराभेदः । इति स्मृतिः ॥ ताडी
इति भाषा ॥ (करास्फालनम् । यथा, अम्बा-
ष्टके । ५ ।
“यालीभिरात्मतनुताली सकृत् प्रियकपालीषु
खेलति भय-
व्यालीनकुल्यसितचूलीभरा चरणधूलीलसन्-
मुनिवरा ॥”)

तालीपत्रं, क्ली, (ताल्याः पत्रमिव पत्रमस्य ।)

तालीशपत्रम् । इति राजनिर्घण्टः ॥

तालीशं, क्ली, (तालीव श्यति नाशयति रोगा-

निति । शो नाशे + डः ।) तालीशपत्रम् ।
इति राजनिर्घण्टः ॥

तालीशपत्रं, क्ली, (तालीशं रोगनाशकं पत्रं

यस्य ।) वृक्षविशेषः । तत्पर्य्यायः । तालीशम् २
पत्राख्यम् ३ शुकोदरम् ४ धात्रीपत्रम् ५ अर्क-
वेधम् ६ करिपत्रम् ७ करिच्छदम् ८ नीलम् ९
नीलाम्बरम् १० तालम् ११ तालीपत्रम् १२
तमाह्वयम् १३ तालीशपत्रकम् १४ । अस्य
गुणाः । तिक्तत्वम् । उष्णत्वम् । मधुरत्वम् । कफ-
वातकासहिक्काक्षयश्वासच्छर्द्दिदोषनाशित्वञ्च ।
इति राजनिर्घण्टः ॥ लघुत्वम् । अरुचिगुल्मा-
मवह्निमान्द्यनाशित्वञ्च । इति भावप्रकाशः ॥
भूम्यामलकी । इति मेदिनी । रे, ३०३ ॥

तालु, क्ली, (तरन्त्यनेन वर्णा इति । तॄ + “त्रोरश्च

लः ।” उणां । १ । ५ । इति ञुण् रस्य लश्च ।)
जिह्वेन्द्रियाधिष्ठानम् । यथा, श्रीभागवते ।
“मुखतस्तालु निर्भिन्नं जिह्वा तत्रोपजायते ।
ततो नानारसो जज्ञे जिह्वया योऽधिगम्यते ॥”
तेलुया इति टाकरा इति च भाषा ॥ तत्-
पर्य्यायः । काकुदम् २ । इत्यमरः । २ । ६ ।
९१ ॥ तालुकम् ३ । इति राजनिर्घण्टः ॥

तालुजिह्वः, पुं, (तालु एव जिह्वा यस्य ।)

कुम्भीरः । इति हेमचन्द्रः । ४ । ४१५ ॥

तालूरः, पुं, (तालयतीति । तल + णिच् + बाहु-

लकात् ऊरः ।) आवर्त्तः । इति हेमचन्द्रः ।
४ । १४२ ॥

तावकीनं, त्रि, तव इदम् । (युष्मद् + “युष्मदस्मदो-

रन्यतरस्यां खञ्च ।” ४ । ३ । १ । इति खञ् ।
ततः “तवकममकावेकवचने ।” ४ । ३ । ३ ।
इति तवकादेशः ।) त्वदीयम् । इति व्याक-
रणम् ॥ तोमार एइ इति भाषा ॥

तावत्, व्य, (तत् परिमाणस्य । तद्धिता इति बहु-

वचनेनान्येऽनुक्ता अपि ज्ञापितास्तेन डावतु-
प्रत्ययः ।) साकल्यम् । अवधिः । मानम् ।
(यथा, कुमारे । ५ । ६७ ।
“त्वमेव तावत् परिचिन्तय स्वयं
कदाचिदेते यदि योगमर्हतः ॥”
“तावत् इति मानार्थे यावन्मात्रं विचारणीयं
तावन्मात्रमित्यर्थः ॥” इति तट्टीकायां मल्लि-
नाथः ॥) अवधारणम् । इत्यमरः । ३ । ३ । २४५ ॥
(यथा, माघे । २ । ६३ ।
“इन्द्रप्रस्थगमस्तावत् कारि मा सन्तु चेदयः ॥”)
प्रशंसा । पक्षान्तरम् । इति शब्दरत्नावली ॥
(तत्परिमाणमस्येति । “यत्तदेतेभ्यः परिमाणे
वतुप् ।” ५ । २ । ३९ । इति वतुप् प्रत्ययेन
तत्परिमाणे, त्रि । यथा, भागवते । ३ । २६ । १२ ।
“महाभूतानि पञ्चैव भूरापोऽग्निर्मरुन्नभः ।
तन्मात्राणि च तावन्ति गन्धादीनि मतानि मे ॥”)

तावरं, क्ली, धनुर्गुणः । इति भूरिप्रयोगः ।

ताविषः, पुं, (तव्यते गम्यते सत्कर्म्मिभिरत्र । तव

सौत्रो धातुः + “तवेर्णिद्वा ।” उणां । १ । ४९ ।
इति टिषच् स च णित् ।) स्वर्गः । समुद्रः । इति
सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

ताविषी, स्त्री, (तवति सौन्दर्य्यं गच्छतीति । तव +

टिषच् सच णित् । टित्त्वात् ङीप् ।) देवकन्या ।
नदी । पृथिवी । इति सिद्धान्तकौमुद्यामुणादि-
वृत्तिः ॥

तावीषः, पुं, (ताविष + पृषोदरादित्वात् दीर्घः ।)

स्वर्गः । अम्बुधिः । काञ्चनम् । इति मेदिनी ।
षे, ३७ ॥