पृष्ठ २/७९७

धावकः, त्रि, (धावति शीघ्रं गच्छतीति । धाव +

ण्वुल् ।) धावनकर्त्ता । शीघ्रगमनकर्त्ता । धाउ-
डिया इति भाषा । धावधातोर्णकप्रत्ययेन
निष्पन्नः ॥ (यथा, गोः रामायणे । २ । ३२ । २२ ।
“संवाहकाः सलिलदाः पुरतो धावकाश्च ये ।
तेषां निष्कसहसं त्वं वृत्त्यर्थमुपकल्पय ॥”)

धावनं, क्ली, (धाव + भावे ल्युट् ।) गमनम् ।

(यथा, राजतरङ्गिण्याम् । १ । ११४ ।
“ग्रामे ग्रामे स्थितैरश्वैर्धावनं प्रतिषिद्धवान् ॥”)
शुद्धिः । इति मेदिनी । ने, ७९ ॥ (यथा,
सुश्रुते चिकित्सितस्थाने । २२ ।
“पटोलत्रिफलानिम्बकषायाश्चात्र धावने ॥”
“पाकं गते व्रणे वापि गम्भीरे सरुजेऽथवा ।
सरन्ध्रे शोधनं कार्य्यं धावनन्तु भिषग्वरैः ॥”
इति हारीते चिकित्सितस्थाने ३५ अध्यायः ॥)

धावनिः, स्त्री, (धाव + बाहुलकात् अनिः ।) पृश्नि-

पर्णी । इत्यमरः । २ । ४ । ९३ ॥ (पर्य्यायोऽस्या यथा,
“पृश्निपर्णी पृथक्पर्णी चित्रपर्ण्यहिपर्ण्यपि ।
क्रोष्टुविन्ना सिंहपुच्छी कलशी धावनिर्गुहा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
कण्टकारी । इति राजनिर्घण्टः ॥)

धावनिका, स्त्री, (धावनिरिव प्रतिकृतिः । “इवे

प्रतिकृतौ ।” ५ । ३ । ९६ । इति कन् । यद्वा,
स्वार्थे कन् ।) कण्टकारिका । इति रत्नमाला ॥

धावनी, स्त्री, (धावनि + कृदिकारादिति वा

ङीष् ।) पृश्निपर्णी । इति मेदिनी । ने, ७९ ॥
कण्टकारी । धातकी । इति राजनिर्घण्टः ॥

धावितः, त्रि, (धाव + क्तः ।) गतः । (यथा,

कथासरित्सागरे । ३ । ५२ ।
“एवमस्त्विति तौ मूढौ धावितौ सोऽपि पादुके ।
अध्यास्योदपतद्व्योम गृहीत्वा यष्टिभाजने ॥”)
मार्ज्जितः ॥

धासाः, [स्] पुं, (दधाति पृथिवीमिति । धा +

“वहिहाधाञश्छन्दसि ।” उणां । ४ । २२० ।
इति असुन् तस्य सुट् च ।) पर्व्वतः । इति
वैदिकप्रयोगः ॥

धि, श धृतौ । इति कविकल्पद्रुमः ॥ (तुदां-परं-

सकं-अनिट् ।) श, धियति । इति दुर्गादासः ॥

धिक्, व्य, निर्भर्त्सनम् । निन्दा । इत्यमरः । ३ ।

३ । २३९ ॥ (यथा, विष्णुपुराणे । १ । १५ । ३५ ।
“धिङ्मां धिङ्मामतीवेत्थं निनिन्दात्मान-
मात्मना ॥”)

धिक्कारः, पुं, (धिक् इत्यस्य कारः करणम् ।)

धिक् । तत्पर्य्यायः । नीकारः २ अवहेलम् ३
अमाननम् ४ क्षेपः ५ निकारः ६ अनादरः ७ ।
इति शब्दरत्नावली ॥ (यथा, भागवते । ४ । १४ । १३ ।
“लोकधिक्कारसन्दग्धं दहिष्यामः स्वतेजसा ॥”)

धिक्कृतः, त्रि, (धिक् + कृ + कर्म्मणि क्तः ।)

निर्भर्तसितः । असत्करणादिना धिगित्यस्य
करणं धिक्कारो निन्दा धिगितः धिक्कृतः धिक्
त्वां इति भर्त्सितो धिक्कृत इति यावत् ।
इति भरतः ॥ तत्पर्य्यायः । अपध्वस्तः २ । इति
प्राणिवर्गे अमरः । ३ । १ । ३९ ॥ (यथा,
भागवते । ७ । ८ । ५३ ।
“वयं किम्पुरुषास्त्वन्तु महापुरुष ईश्वरः ।
अयं कुपुरुषो नष्टो धिक्कृतः साधुभिः सदा ॥”)
निन्दितमात्रम् । कृतधिक्कारस्य प्राणिवर्गोक्तस्य
पर्य्यायान्तरमिदम् अप्राणिविषयार्थम् । धिगस्तु
त्वां इति कृतः शब्दितो धिक्कृतः । इति भरतः ॥
तत्पर्य्यायः । अवरीणः २ । इति विशेष्यनिघ्नवर्गे
अमरः । ३ । १ । ९४ ॥

धिक्क्रिया, स्त्री, (धिगित्युच्चारणमेव क्रिया ।)

निन्दा । इति हेमचन्द्रः । २ । १८५ ॥

धिक्ष, ङ सन्दीपे । क्लेशे । जीवे । इति कविकल्प-

द्रुमः ॥ (भ्वां-आत्मं-अकं-सेट् ।) तृतीयस्वरी ।
ङ, धिक्षते वह्निः सन्दीप्यते इत्यर्थः । जनः
क्लिश्यति जीवतीति वा अर्थः । इति दुर्गा-
दासः ॥

धिग्वणः, पुं, वर्णसङ्करविशेषः । तस्य चर्म्मकार्य्यं

वृत्तिः । स तु ब्राह्मणादायोगव्यां जातः । इति
मनुः ॥

धियाम्पतिः, पुं, (धियां बुद्धीनां पतिः । अलुक्

समासः ।) पूर्ब्बजिनविशेषः । मञ्जघोष इति
ख्यातः । इति त्रिकाण्डशेषः । आत्मा । ध्यात
एव धियाम्पतिरिति प्रयोगदर्शनात् ॥

धिव, इ न प्रीतौ । गतौ । इति कविकल्पद्रुमः ॥

(स्वां-परं-सकं-सेट् ।) प्रीतिरिह प्रीतीकर-
णम् । इ, धिन्व्यते । न, धिनोति हव्येन हिरण्य-
रेतसमिति किराते । गतिः कैश्चिन्न मन्यते ।
इति दुर्गादासः ॥

धिष, र लि रवे । इति कविकल्पद्रुमः ॥ (ह्वां-

परं-अकं-सेट् ।) र, वैदिकः । लि, दिधेष्टि ।
रवः शब्दः । इति दुर्गादासः ॥

धिषणः, पुं, (धृष्णोति प्रागल्भ्यं ददातीति । धृष् +

“धृषेधिष च संज्ञायाम् ।” उणां २ । ८२ । इति
क्युः ।) बृहस्पतिः । इत्यमरः । १ । ३ । २४ ॥

धिषणा, स्त्री, (धृष्णोत्यनयेति । धृष प्रागल्भ्ये +

क्युः । धिषादेशश्च ।) बुद्धिः । इत्यमरः । १ ।
५ । १ ॥ (यथा, ऋग्वेदे । ३ । ३२ । १४ ।
“विवेष यन्मा धिषणा जजान स्तवैः पुरा पार्य्या-
दिन्द्रमहूः ॥”
स्तुतिः । यथा, ऋग्वेदे । ८ । १५ । ७ ।
“तव त्यदिन्द्रियं बृहत्तव शुष्ममुत क्रतुम् ।
वज्रं शिशाति धिषणा वरेण्यम् ॥”
“धिषणा स्तुतिः ।” इति तद्भाष्ये सायनः ॥
वाक् । यथा, ऋग्वेदे । ३ । ४९ । ४ ।
“क्षपां वस्ता जनिता सूर्य्यस्य विभक्ता भागं
भागं धिषणेव वाजम् ॥”
“धिषणेव । यथाढ्यानां वाक् अस्येदमिति
विभागं करोति तद्बत् ।” इति तद्भाष्ये सायनः ॥
प्रस्तरः । यथा, ऋग्वेदे । ९ । ५९ । २ ।
“पवस्व धिषणाभ्यः ।”
“किञ्च धिषणाभ्यो ग्रावभ्यः पवस्व क्षर ॥” इति
तद्भाष्ये सायनः ॥
धारयित्री । द्यावापृथिव्योः द्बिवचनान्तः । यथा,
ऋग्वेदे । ३ । ४९ । १ ।
“यं सुक्रतं धिषणे विभ्वतष्टं घनं वृत्रानां जन-
यन्त देवाः ॥”
“धिषणे देवमनुष्यादीनां धारयित्र्यौ । यद्वा
प्रगल्भ्ये समर्थे स्वाश्रितान् रक्षितुमिति धिषणे
द्यावापृथिव्यौ ॥” इति तद्भाष्ये सायनः ॥ * ॥
हविर्द्धानस्य पत्नी । यथा, मात्स्ये । ४ । ४५ ।
“हविर्द्धानात् षडाग्नेयी धिषणा जनयत् सुतान् ।
प्राचीनवर्हिषं साङ्गं यमं शुक्रं बलं शुभम् ॥”
क्ली । स्थानम् । यथा, भागवते । ३ । १६ । ३२ ।
“तदा विकुण्ठधिषणात् तयोर्निपतमानयोः ।
हाहाकारो महानासीद्विमानाग्रेषु पुत्त्रकाः ॥”
“विकुण्ठस्य धिषणात् स्थानात् ।” इति तट्टी-
कायां श्रीधरस्वामी ॥)

धिष्ट्यं, क्ली, (धिष्ण्य + निपातनात् णस्य टः ।)

स्थानम् । गृहम् । नक्षत्रम् । अग्निः । इत्यमरः ।
३ । ३ । १५४ ॥ शक्तिः । इति मेदिनी ॥

धिष्ट्यः, पुं, (धृष्णोति प्रगल्भो भवतीति । धृष +

ण्यः । निपातनात् साधुः ।) अग्निः । शुक्रा-
चार्य्यः । इति पुंस्काण्डेऽमरदत्तः ॥

धिष्ण्यं, क्ली, (धृष्णोति प्रगल्भो भवतीति । धृष् +

“सानसिवर्णसिपर्णसीति ।” उणां । ४ । १०७ ।
इति ण्यप्रत्ययः निपातनात् ऋकारस्य च
इकारः । स्थानम् । (यथा, भागवते । २ । १ । ३० ।
“द्यौरक्षिणी चक्षुरभूत् पतङ्गः
पक्ष्माणि विष्णोरहनी उभे च ।
तद्भ्रूविजृम्भः परमेष्ठिधिष्ण्य-
मापोऽस्य तालू रस एव जिह्वा ॥”
“परमेष्ठिधिष्ण्यं ब्रह्मपदम् ॥” इति तट्टीकायां
स्वामी ॥ गृहम् । (यथा, महाभारते । १७ । ३ । १० ।
“स्वर्गे लोके श्ववतां नास्ति धिष्ण्य-
मिष्टापूर्त्तं क्रोधवशा हरन्ति ॥”)
नक्षत्रम् । (यथा, सूर्य्यसिद्धान्ते । ११ । २१ ।
“सार्पेन्द्रपौष्ण्यधिष्ण्यानामन्त्याः पादाः भस-
न्धयः ॥”)
अग्निः । इत्यमरः । ३ । ३ । १५४ ॥ (यथा अथर्व्व-
वेदे । २ । ३५ । १ ।
“ये भक्षयन्तो न वसून्यानृधुर्य्यानग्नयो अन्वतप्यन्त
धिष्ण्याः ॥”)
शक्तिः । इति मेदिनी । ये, ३४ ॥ (उल्का-
भेदः । यथा, बृहत्संहितायाम् । ३३ । १ ।
“दिविभुक्तशुभफलानां
पततां रूपाणि यानि तान्युल्काः ।
धिष्ण्योल्काशनिविद्युत्तारा
इति पञ्चधा भिन्नाः ॥”
प्राणाभिमानी देवः । यथा, ऋग्वेदे । ३ । २२ । ३ ।
“अग्ने ! दिवो अर्णमच्छा जिगास्यच्छा देवा
ऊचिषे धिष्ण्या ये ॥”
“धियं बुद्ध्युपहितं देहं उष्णन्ति उष्णीकुर्व्व-
न्तीति धिष्ण्याः प्राणाभिमानिनो देवाः ।”
इति तद्भाष्ये सायनः ॥)
पृष्ठ २/७९८

धी, ओ ङ य आराधे । नादरे । इति कविकल्प-

द्रुमः ॥ (दिवां-आत्मं-सकं-अनिट् ।) अनादर
इति कातन्त्रादौ । ओ, धीनः । ङ य, धीयते
खलं लोकः । इति दुर्गादासः ॥

धीः, स्त्री, (ध्यै चिन्तने + भावे क्विप् । सम्प्रसार-

णञ्च ।) बुद्धिः । इत्यमरः । १ । ५ । १ ॥ (यथा,
मनौ । ६ । ९२ ।
“धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।
धीर्विद्या सत्यमक्रोधो दशकं धर्म्मलक्षणम् ॥”)

धीतः, त्रि, पीतः । इति धेधातोः क्तप्रत्ययेन

निष्पन्नः ॥

धीतिः, स्त्री, (धेट पाने + क्तिन् ।) पिपासा । इति

हेमचन्द्रः । ३ । ५८ ॥

धीदा, स्त्री, (धियं ददातीति । दा + कः । स्त्रियां

टाप् ।) कन्या । मनीषा । इति हेमचन्द्रः ॥

धीन्द्रियं, क्ली, (धीजनकमिन्द्रियम् ।) ज्ञानेन्द्रि-

यम् । तद्यथा । मनः १ नेत्रम् २ श्रोत्रम् ३
त्वक् ४ रसना ५ घ्राणम् ६ । इत्यमरः । १ ।
५ । ८ ॥

धीमान्, [त्] पुं, (धीरस्यास्तीति । धी + मतुप् ।)

बृहस्पतिः । पण्डिते, त्रि । इति मेदिनी । ते,
११५ ॥ (यथा, मनुः । १ । १०२ ।
“तस्य कर्म्मविवेकार्थं शेषाणामनुपूर्ब्बशः ।
स्वायम्भुवो मनुर्धीमानिदं शास्त्रमकल्पयत् ॥”
नरपुत्त्रस्य विराजः पुत्त्रः । यथा, --
“नरो गयस्य तनयः तत्पुत्त्रोऽभूत् विराट् ततः ।
तस्य पुत्त्रो महावीर्य्यो धीमांस्तस्मादजायत ॥”
इति विष्णुपुराणे । २ । ३९ ।
पुरूरवसः उर्व्वशीगर्भजातः पुत्त्रविशेषः ।
यथा, महाभारते । १ । ७५ । २४ ।
“षट्सुता जज्ञिरेऽथैलादायुर्धीमानमावसुः ।
दृढायुश्च वनायुश्च शतायुश्चोर्व्वशीसुताः ॥”)

धीमती, स्त्री, (धीमत् + स्त्रियां ङीप् ।) बुद्धि-

मती । इत्यमरः । २ । ६ । १२ ॥

धीरं, क्ली, (धियं रातीति । रा + कः ।) कुङ्कु-

मम् । इति मेदिनी । रे, ५१ ॥ (पर्य्यायोऽस्य यथा
भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।
“कुङ्कुमं घुसृणं रक्तं काश्मीरं पीतकं वरम् ।
सङ्कोचं पिशुनन्धीरं बाह्लीकं शोणिताभिधम् ॥”)

धीरः, पुं, (धियं राति ददाति गृह्णातीति वा ।

रा + कः ।) ऋषभौषधिः । इति राजनिर्घण्टः ॥
वलिराजः । इति शब्दरत्नावली ॥

धीरः, त्रि, (धियं ईरयतीति । ईर + अण् । यद्बा,

धियं रातीति । रा + कः ।) धैर्य्यान्वितः ।
स्वेरः । पण्डितः । इति मेदिनी । रे, ५१ ॥
(यथा, भागवते । ३ । ६ । ४५ ।
“तथापरे चात्मसमाधियोग-
बलेन जित्वा प्रकृतिं बलिष्ठाम् ।
त्वामेव धीराः पुरुषं विशन्ति
तेषां श्रमः स्यान्न तु सेवया ते ॥”
बलयुतः । इति शब्दरत्नावली ॥ मन्दः । इति
त्रिकाण्डशेषः ॥ (यथा, --
“देहे समीहे भवतो विधातुं
धीरं समीरं नलिनीदलेन ॥”
इति रसमञ्जर्य्याम् ।)
विनीतः । इति संक्षिप्तसारोणादिवृत्तिः ॥
(गम्भीरः । यथा, रघुः । ३ । ४४ ।
“अवोचदेनं गगनस्पृशा रघुः
स्वरेण धीरेण निवर्त्तयन्निव ॥”)

धीरत्वं, क्ली, (धीरस्य भावः । धीर + त्व ।)

धीरता । यथा, --
“प्रागल्भ्यौदार्य्यमाधुर्य्यशोभाधीरत्वकान्तयः ।
दीप्तिश्चायत्नजा भावहावहेलाः स्त्रियोऽङ्गजाः ॥”
इति हेमचन्द्रः । ३ । १७३ ॥

धीरपत्री, स्त्री, (धीरं मनोहरं पत्रमस्याः ।

स्त्रियां ङीष् ।) धरणीकन्दः । इति राज-
निर्घण्टः ॥

धीरस्कन्धः, पुं, (धीरः अचञ्चलः भारसह इति

यावत् स्कन्धो यस्य ।) महिषः । इति हेमचन्द्रः ।
४ । ३४८ ॥

धीरा, स्त्री, (धीर + टाप् ।) काकोली । महा-

ज्योतिष्मती । इति राजनिर्घण्टः ॥ (गुडूची ।
अस्याः पर्य्याया यथा, --
“गुडूची मधुपर्णी स्यादमृतामृतवल्लरी ।
छिन्ना छिन्नरुहा छिन्नोद्भवा वत्सादनीति च ॥
जीवन्ती तन्त्रिका सोमा सोमवल्ली च कुण्डली ।
चक्रलक्षणिका धीरा विशल्या च रसायनी ॥
चन्द्रहासी वयस्था च मण्डली देवनिर्म्मिता ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
मानावस्थायां मध्याप्रगल्भानायिकाभेदः ।
अस्या लक्षणम् । व्यङ्ग्यकोपप्रकाशा धीरा ।
मध्याया धीरायाः कोपव्यञ्जिका गीः । प्रौढा-
धीरायास्तु रतावौदास्यम् । सा द्विविधा ।
ज्येष्ठा कनिष्ठा च । मध्या धीरा यथा, --
“लोलालिपुञ्जे व्रजतो निकुञ्जे
स्फारा बभूवुः श्रमवारिधारा ।
देहे समीहे भवतो विधातुं
धीरं समीरं नलिनीदलेन ॥
प्रौढा धीरा यथा, --
“नो तल्पं भजसे न जल्पसि सुधाधारानुकारा
गिरो
दृक्पातं कुरुषे न वा परिजने कोपप्रकाश-
च्छलात् ।
इत्थं केतकगर्भगौरि ! दयिते कोपस्य संगोपनं
किं स्यादेव न चेत् पुनः सहचरी कुर्व्वीत
साचिस्मितम् ॥”
इति रसमञ्जरी ॥

धीराधीरा, स्त्री, (धीरा अधीरा च ।) मानाव-

स्थायां मध्याप्रगल्भा नायिकाभेदः । अस्या
लक्षणम् । व्यङ्ग्याव्यङ्ग्यकोपप्रकाशा । मध्याया
धीराधीरायाः कोपव्यञ्जिके वचनरुदिते ।
प्रौढाधीराधीराया रतावौदास्यं तर्ज्जनताड-
नादि च कोपस्य प्रकाशकम् । सा द्विविधा ।
ज्येष्ठा कनिष्ठा च । मध्याधीराधीरा यथा, --
“कान्तानुरागचतुरोऽसि मनोहरोऽसि
नाथोऽसि किञ्च नवयौवनभूषितोऽसि ।
इत्थं निगद्य सुदृशा वदने प्रियस्य
निःश्वस्य वास्पलुलिता निहिता दृगन्ताः ॥
प्रौढाधीराधीरा यथा, --
“तल्पोपान्तमुपेयुषि प्रियतमे साचीकृतग्रीवया
काकुव्याकुलवाचिसाचिहसितस्फुर्जत्कपोल-
श्रिया ।
हस्तन्यस्तकरे पुनर्मृगदृशा लाक्षारसक्षालित-
प्रौष्ठी प्रेष्ठमयूखमांसलरुचो विस्फारिता
दृष्टयः ॥”
इति रसमञ्जरी ॥

धीलटिः, स्त्री, (धिया बुद्ध्या लटति बालोक्त्या

मोहयतीति । लट् + “सर्व्वधातुभ्य इन् ।” उणां
४ । ११७ । इति इन् ।) दुहिता । इति हारा-
वली ॥ २१९ ॥

धीवा, [न्] पुं, स्त्री, (ध्यायतीति । ध्यै + “ध्याप्योः

संप्रसारणञ्च ।” उणां । ४ । ११५ । इति
क्वनिप् । संप्रसारणञ्च ।) धीवरः । यथा, बहु-
धीवरी बहुधीवा । इति मुग्धबोधम् ॥

धीवरः, पुं, (दधाति मत्स्यानिति । धा + “छित्वर-

च्छत्वरधीवरपीवरेति ।” उणां । ३ । १ । इति
ष्वरच् प्रत्ययेन निपातनात् साधुः ।) कैवर्त्तः ।
इत्यमरः । १ । १० । १५ ॥ (यथा, महाभारते ।
२ । २० । १७ ।
“यतो हि निम्नं भवति नयन्ति हि ततो जलम् ।
यतश्छिद्रं ततश्चापि नयन्ते धीवरा जलम् ॥”)

धीवरी, स्त्री, (धीवर + ङीष् ।) धीवरपत्नी ।

कैवर्त्ती । इति मुग्धबोधम् ॥ मत्स्यवेधिनी ।
इत्युणादिकोषः ॥

धीशक्तिः, स्त्री, (धियः शक्तिः ।) बुद्धिसामर्थ्यम् ।

तत्पर्य्यायः । निष्क्रमः २ । इत्यमरः । ३ । २ । २५ ॥
सा चाष्टधा । यथा, --
“शुश्रूषा श्रवणञ्चैव ग्रहणं धारणं तथा ।
ऊहापोहार्थविज्ञानं तत्त्वज्ञानञ्च धीगुणाः ॥”
इति भरतः ॥

धीसखः, पुं, (धियः सखा सहायः । “राजाहः-

सखिभ्यष्टच् । इति टच् ।) मन्त्री । इति हेम-
चन्द्रः । ३ । ३८३ ॥

धीसचिवः, पुं, (धियि बुद्धौ मन्त्रणादौ सचिवः

सहायः ।) मन्त्री । इत्यमरः । २ । ८ । ४ ॥

धु, ञ न कम्पे । इति कविकल्पद्रुमः ॥ (स्वां-उभं-

सकं-अनिट् ।) ञ न, धुनोति धुनुते । कम्प
इह ञ्यन्तस्य रूपम् । धुनोति चम्पकवनानि
धुनोत्यशोकं वायुरिति हलायुधः । इति दुर्गा-
दासः ॥

धुः, स्त्री, (धवनमिति । धु कम्पने + भावे डुः ।)

कम्पनम् । इत्येकाक्षरकोषः ॥

धुक्ष, ङ सन्दीपने । क्लेशे । जीवे । इति कविकल्प-

द्रुमः ॥ (भ्वां-आत्मं-अकं-सेट् ।) पञ्चमस्वरी ।
ङ, धुक्षते वह्निः सन्दीप्यते इत्यर्थः । धुक्षते जनः
क्लिश्यति जीवति वेत्यर्थः । इति दुर्गादासः ॥
पृष्ठ २/७९९

धुतः, त्रि, (धु + क्तः ।) त्यक्तः । विधूतः । इति

मेदिनी । ते, २८ ॥ (यथा, रघुः । ११ । १६ ।
“तीव्रवेगधुतमार्गवृक्षया
प्रेतचीवरवसा स्वनोग्रया ।
अभ्यभावि भरताग्रजस्तया
वात्ययेव पितृकाननोत्थया ॥”)

धुनिः, स्त्री, (धुनोति वेतसादिनदीजातवृक्षा-

निति । धु कम्पने + वहुलवचनात् निः स च
कित् ।) नदी । इत्यमरटीकायां भरतः ॥
(यथा, ऋग्वेदे । २ । ३० । २ ।
“पथोदरन्तीरनुजोषमस्मै
दिवे दिवे धुनयो यन्त्यर्थम् ॥”
पुं, जलप्रतिरोधकोऽसुरविशेषः । यथा, तत्रैव ।
१ । १७४ । ९ ।
“त्वं धुनिरिन्द्रधुनिमतीरृणोरपः सीरान-
स्रवन्तीः ॥”
“हे इन्द्र त्वं धुनिः कम्पयिता शत्रूणामसि अतो
धुनिमतीः कम्पनोपेततरङ्गवतीः अथवा धुनि-
र्नामजलप्रतिरोधकार्य्यसुरः स एव प्रतिबन्धक-
तया यासां तादृशीरपः ॥” इति तद्भाष्ये
सायनः । धूनयति कम्पयति शत्रूनिति । मरु-
द्बिशेषः । यथा, वाजसनेयसंहितायाम् । ३९ । ७ ।
“उग्रश्च भीमश्च ध्वान्तश्च धुनिश्च ॥”
कम्पयितरि, त्रि । यथा, ऋग्वेदे । १ । ७९ । १ ।
“हिरण्यकेशो रजसोविसारेहिर्धुनिर्वात इव
ध्रजीमान् ॥”)

धुनी, स्त्री, (धुनि + कृदिकारादिति वा ङीष् ।)

नदी । इत्यमरः । १ । १० । ३० ॥ (यथा,
भागवते । ४ । २९ । ५५ ।
“सत्वं विचक्ष्य मृगचेष्टितमात्मनोऽन्त-
श्चित्तं नियच्छ हृदि कर्णधुनीञ्च चित्ते ॥”)

धुनीनाथः, पुं, (धुनीनां नदीनां नाथः ।) समुद्रः ।

इति राजनिर्घण्टः ॥

धुन्धुमारः, पुं, (धुन्धुं तन्नामकं राक्षसं मारय-

तीति । मारि + अण् ।) कुवलयाश्वराजः । स
तु बृहदश्वपुत्त्रः । इति पद्मपुराणम् ॥ (अस्य
धन्धुमारणकथा यथा, हरिवंशे । ११ । ३९ -- ५५ ।
“स एवमुक्तो राजर्षिरुतङ्केन महात्मना ।
कुवलाश्वं सुतं प्रादात् तस्मै धुन्धुनिवारणे ॥
बृहदश्व उवाच ।
भगवन् ! न्यस्तशस्त्रोऽहमयन्तु तनयो मम ।
भविष्यति द्विजश्रेष्ठ ! धुन्धुमारो न संशयः ॥
स तं व्यादिश्य तनयं राजर्षिर्धुन्धुमारणे ।
जगाम पर्व्वतायैव तपसे संशितव्रतः ॥
कुवलाश्वस्तु पुत्त्राणां शतेन सह पार्थिव ! ।
प्रायादुतङ्कसहितो धुन्धोस्तस्य परिग्रहे ॥
तमाविशचदा विष्णुर्भगवांस्तेजसा विभुः ।
उतङ्कस्य नियोगाद्वै लोकानां हितकाम्यया ॥
तस्मिन प्रयाते दुर्द्धर्षे दिवि शब्दो महानभूत् ।
एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति ॥
दिव्यैर्म्माल्यैश्च तं देवाः समन्तात् समवाकिरन् ।
देवदुन्दुभयश्चापि प्रणेदुर्भरतर्षभ ! ॥
स गत्वा जयतां श्रेष्ठस्तनयैः सह वीर्य्यवान् ।
समुद्रं खानयामास बालुकार्णवमव्ययम् ॥
नारायणेन कौरव्य ! तेजसाप्यायितः स वै ।
बभूव सुमहातेजा भूयो बलसमन्वितः ॥
तस्य पुत्त्रैः खनद्भिस्तु बालुकान्तर्हितस्तदा ।
धुन्धुरासादितो राजन् ! दिशमाश्रित्य पश्चिमाम् ॥
मुखजेनाग्निना क्रोधाल्लोकानुद्वर्त्तयन्निव ।
वारि सुस्राव वेगेन महोदधिरिवोदये ॥
सोमस्य भरतश्रेष्ठ ! धारोर्म्मिकलिलं महत् ।
तस्य पुत्त्रशतं दग्धं त्रिभिरूणन्तु रक्षसा ॥
ततः स राजा कौरव्य ! राक्षसं तं महाबलम् ।
आससाद महादेजा धुन्धुं धुन्धुनिवर्हणः ॥
तस्य वारिमयं वेगमापीय स नराधिपः ।
योगी योगेन वह्निञ्च शमयामास वारिणा ॥
निहत्य तं महाकायं बलेनोदकराक्षसम् ।
उतङ्कं दर्शयामास कृतकर्म्मा महायशाः ॥
उतङ्कस्तु वरं प्रादात् तस्मै राज्ञे महात्मने ।
अददाच्चाक्षयं वित्तं शत्रुभिश्चापराजयम् ॥
धर्म्मे रतिञ्च सततं स्वर्गे वासं तथाक्षयम् ।
पुत्त्राणाञ्चाक्षयाल्लोँकान् स्वर्गे ये राक्षसा
हताः ॥” * ॥)
शक्रगोपः । गृहधूमः । पदालिकः । इति
मेदिनी । रे, २७० ॥

धुरन्धरः, पुं, धववृक्षः । इति रत्नमाला ॥

(पर्य्यायोऽस्य यथा, --
“धवो धटो नन्दितरुः स्थिरो गौरो धुरन्धरः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
धुरं धरतीति । धृ + खच् + मुम् ।) रथ-
लाङ्गलादिभारवोढा । तत्पर्य्यायः । धुर्व्वहः
२ धुर्य्यः ३ धौरेयः ४ धुरीणः ५ । इत्यमरः । २ ।
९ । ६५ ॥ यथा, --
“धुरन्धरो धुरीणश्च धौरेयधुर्य्यधुर्व्वहाः ।
यत्र काम्यरथस्यापि लाङ्गलस्यापि वा धुरम् ॥
वहत्येकधुरीणः स्यात्तथा चैकधुरोऽपि च ।
स तु सर्व्वधुरीणः स्यात् सर्व्वा वहति यो धुरः ॥”
इति शब्दरत्नावली ॥
(आदित्यनृपस्य मन्त्री । स तु कौशलेन राजानं
हत्वा स्वययेव राज्यमकरोत् ॥ यथा, राजा-
वल्याम् २ परिच्छेदे ।
“आदित्यस्य तदा मन्त्री अदूरान्वयसम्भवः ।
धुरन्धराभिधो धीरो बलबुद्धिनिकेतनः ॥
सेनापतीन् वशीचक्रे धनमानप्रदानतः ।
एकदा स तमादित्यमादित्यसमवर्च्चसम् ॥
एकान्ते नृपमासीनं हत्वा हतमतिस्तदा ।
तदासनं समारुह्य राज्यं प्राशाद्धुरन्धरः ॥
भूमिवेदमितान्वर्षान्भुक्त्वा भोगाननुत्तमान् ।
सेनोद्धतं सुतं राज्ये स्थापयित्वा लयं गतः ॥”
राक्षसविशेषः । स तु प्रहस्तस्य सचिवविशेषः ।
यथा, गोः रामायणे । ६ । ३२ । १५ ।
“एतस्मिन्नन्तरे शूराः प्रहस्तस्य वशानुगाः ।
धुरन्धरः कुम्भहनुर्महानादः समुन्नदः ।
एते प्रहस्तसचिवाः सर्व्वे जग्मुर्वनौकसः ॥”)
धुर्व्वाहकमात्रे, त्रि ॥ (यथा, महाभारते । ३
१८६ । १० ।
“अनड्वाहं सुव्रतं यो ददाति
हलस्य वोढारमनन्तवीर्य्यम् ।
धुरन्धरं बलवन्तं युवानं
प्राप्नोति लोकान् दशधेनुदस्य ॥”
श्रेष्ठः । यथा, तत्रैव । १३ । १३७ । ३१ ।
“दत्त्वा तु सततं तैस्तु कौरवानां धुरन्धर ! ।
दानयज्ञक्रियायुक्ता बुद्धिर्धर्म्मोपचायिनी ॥”)

धुरा, स्त्री, (धुर् + पक्षे टाप् ।) धूः । भारः ।

इत्यमरटीकायां भरतः ॥

धुरीणः, त्रि, (धुरं वहतीति । “खः सर्व्वधुरात् ।”

४ । ४ । ७८ । इत्यत्र योगविभागवत् खः ।)
भारवाहः । इत्यमरः । २ । ९ । ६५ ॥ (श्रेष्ठः ।
यथा, पञ्चतन्त्रे । ३ । २०७ ।
“हे ब्रह्मव्रतधराणां धुरीण ! त्वयापि मय्युप-
कृतमित्याद्युक्त्रा स्कन्धादुत्तार्य्य यत्र यत्र स्वजन-
गृहद्वारादिषु बभ्राम ॥”)

धुरीयः, पुं, (धुरमर्हतीति । छः ।) अनड्वान् ।

इति राजनिर्घण्टः ॥ भारयोग्ये, त्रि ॥

धुर्य्यः, त्रि, (धुरं वहतीति । धुर् + “धुरो यड्-

ढकौ ।” ४ । ४ । ७७ । इति यत् । “न भकु-
च्छुराम् ।” ८ । २ । ७९ । इति न दीर्घः ।)
धुरन्धरः । इत्यमरः । २ । ९ । ६५ ॥ (यथा,
रघुः । ५ । ६६ ।
“तामेकतस्तव बिभर्त्ति गुरुर्विनिद्र-
स्तस्या भवानपरधुर्य्यपदावलम्बी ॥”
श्रेष्ठः । यथा, भागवते । ४ । २२ । ४९ ।
“वण्यस्तु धुर्य्यो महतां संस्थित्याध्यात्मशिक्षया ॥”
ऋषभौषधौ अनडुहि च पुं । इति राजनिर्घण्टः ॥
(अश्वादिरपि । यथा, महाभारते । ३ ।
१९७ । १२ । “पुनरपि चान्योऽप्यश्वार्थी ब्राह्मण
आगच्छत् । त्वरितोऽथ तस्मै अपनह्य वामं
धुर्य्यमददत् अथ प्रायात् ॥”)

धुर्व, ई हिंसे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) ह्रस्वी । धूः धुरौ धुरः । ई, धूर्णः ।
कितवे वाच्य धूर्त्तः । इति मनीषादित्वान्निपात्यः ।
इति दुर्गादासः ॥

धुवका, स्त्री, (धवति पुनः पुनरुच्चारणेन गीतं

कम्पयतीवेति । धू कम्पने + “क्वुन् शिल्पि संज्ञयो-
रपूर्ब्बस्यापि ।” उणां २ । ३२ । इति क्वुन् ।
ततष्टाप् ।) ध्रुवका । इत्युणादिकोषः ॥ धूया
इति भाषा ॥

धुवनः, पुं, (धवतीति । धू + “भूसूधूभ्रस्जिभ्य-

श्छन्दसि ।” उणां २ । ८० । इति क्युन् ।)
अग्निः । इति सिद्धान्तकौमुदी ॥ (यथा, शत-
पथब्राह्मणे । १३ । २ । ८ । ५ ।
“ये यज्ञे धुवनं तन्वते ॥”)

धुवित्रं, क्ली, (धूयतेऽनेनेति । धू + इत्र ।) यज्ञा-

ग्निज्वालनार्थमृगचर्म्मरचितव्यजनम् । इत्य-
मरः । २ । ७ । २३ ॥

धुस्तुरः, पुं, धुस्तूरः । इत्यमरटीकायां भरतः ॥

पृष्ठ २/८००

धुस्तूरः, पुं, (धुनोति कम्पयति चित्तं सेवनेन ।

धु कम्पने + “खर्जिपिञ्जादिभ्य उरोलचौ ।”
उणां ४ । ९० । इति ऊरः । “धुनोतेः स्तुट्
च ।” इत्युज्ज्वलदत्तोक्त्या स्तुट् ।) क्षुपविशेषः ।
धुतुरा । इति भाषा । तत्पर्य्यायः । उन्मत्तः २
कितवः ३ धूर्त्तः ४ कनकाह्वयः ५ मातुलः ६
मदनः ७ । इत्यमरः । २ । ४ । ७७ ॥ धत्तूरः
८ । इति हेमचन्द्रः ॥ शठः ९ मातुलकः १०
श्यामः ११ शिवशेखरः १२ खर्ज्जूघ्नः १३ काह-
लापुष्पः १४ खलः १५ कण्टफलः १६ मोहनः
१७ कृलभः १८ मत्तः १९ शैवः २० । इति
राजनिर्घण्टः ॥ देविका २१ तूरी २२ महा-
मोही २३ शिवप्रियः २४ धुस्तुरः २५ धुत्तुरः
२६ । इति शब्दरत्नावली ॥ अस्य गुणाः ॥
मदवर्णाग्निवातकारित्वम् । ज्वरकुष्ठयूकालिक्षा-
व्रणश्लेष्मकण्डूकृमिविषनाशित्वम् । कषायत्वम् ।
मधुरत्वम् । तिक्तत्वम् । उष्णत्वम् । गुरुत्वञ्च ।
इति भावप्रकाशः ॥ कटुत्वम् । कान्तिकारि-
त्वम् । त्वग्दोषखर्ज्जूभ्रमनाशित्वञ्च । इति राज-
निर्घण्टः ॥ मूर्च्छाकारित्वम् । वह्निपित्तनाशि-
त्वञ्च । इति राजवल्लभः ॥ (उपविषविशेषो-
ऽयम् । तद्यथा, --
“अर्कक्षीरं स्नुहीक्षीरं तथैव कालहारिका ।
करवीरकधुस्तूरौ पञ्च चोपविषाणि तत् ॥
अर्कक्षीरं स्नुहीक्षीरं लाङ्गलीकरवीरकम् ।
गुञ्जाहिफेनधुस्तूरौ सप्तोपविषजातयः ॥”
इति वैद्यकभैषज्यधन्वन्तरिग्रन्थे विषाधिकारे ॥)

धू, ञ कम्पे । इति कविकल्पद्रुमः ॥ (भ्वां-उभं-

सकं-वेट् ।) स चेहापि कम्पप्रेरणमेव । ञ,
धवति धवते । धवति चन्दनमञ्जरीश्चेति हला-
युधः । इति दुर्गादासः ॥

धू, न ञ गि कम्पे । इति कविकल्पद्रुमः ॥

(स्वां-क्र्यां च-उभं-सकं-वेट् ।) स चेहापि
कम्पप्रेरणम् । न ञ, धूनोति धूनुते । गि ञ,
धुनाति धुनीते । धूनः धूनिः । धूनोति चम्पक-
वनानीति हलायुधः । धुनाति वायुरश्वत्थम् ।
धुनीते बन्धूकं तिलकुसुमजन्मा हि पवनः ।
इति दुर्गादासः ॥

धू, शि क कम्पे । इति कविकल्पद्रुमः ॥ (तुदां-

चुरां-च-सकं-सेट् ।) कम्प इह ञ्यन्तस्य रूपम् ।
शि, धुवति मारुतो मालतीलताम् । अधुवीत् ।
क, धावयति । वायुर्विधूनयति केशरपुष्परेणू-
निति चुरादौ हलायुधः । प्रीघूञोर्नन् वा इत्यत्र
धूञग्रहणादस्य कथं नन्निति चेन्न । स्वार्थविहि-
तस्य ञेर्ञकारेण सम्बन्धस्य वाच्यत्वात् । अन्यथा
कम्पप्रेरणे धूनयति इत्यादिप्रयोगा न स्युः ।
धूनोतीत्यादीनां साध्या इति चेत् स्वभावात्
कम्पप्रेरणार्थाणां तेषां ञौ कृते कम्पप्रेरणस्य
प्रेरणमेवार्थः स्यात् । किञ्च कम्पनायां धूनय-
तीत्यादीनामावश्यकत्वात् तत्सूत्रे ञकारः
प्राचीनमतानुवादार्थ एव । इति दुर्गा-
दासः ॥

धूः, [र्] स्त्री, (धुर्व्वतीति । धुर्व्व + क्विप् ।)

यानमुखम् । रथादेरग्रभागः । इत्यमरः । २ ।
८ । ५५ ॥ (यथा, महाभारते । १ । १३६ । २१ ।
“क्षणात् प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः ॥”)
भारः । (यथा, रघुः । १ । ३४ ।
“तेन धूर्जगतो गुर्व्वी सचिवेषु निचिक्षिपे ॥”)
चिन्ता । इत्येकाक्षरकोषः ॥ (अग्रम् । यथा,
रघुः । २ । २ ।
“अपांशुलानां धुरि कीर्त्तनीया ॥”
हिंसके, त्रि । यथा, ऋग्वेदे । १० । ९४ । ७ ।
“दशधुरो दशयुक्ता वहद्भ्यः ॥”
“दशभिर्धुरो धूर्भिर्हिंसितृभिः । तृतीयार्थे
प्रथमा ।” इति तद्भाष्ये सायनः ॥)

धूकः, पुं, (धूनोति कम्पयतीति । धू + “अजियु-

धूनीभ्यो दीर्घश्च ।” उणां ३ । ४७ । इति
कन् ।) वायुः । इत्युणादिकोषः ॥ धूर्त्तः । कालः ।
इति संक्षिप्तसारोणादिवृत्तिः ॥

धूतः, त्रि, (धू + क्तः ।) कम्पितः । (यथा, मेघ-

दूते । ३५ ।
“धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्या-
स्तोयक्रीडाविरतयुवतिस्नानतिक्तैर्मरुद्भिः ॥”)
भर्त्सितः । इति मेदिनी । ते, २८ ॥ त्यक्तः ।
इत्यमरः । ३ । १ । १०७ ॥ तर्कितः । इति
धरणिः ॥

धूनः, त्रि, (धू + “ल्वादिभ्यः ।” ८ । २ । ४४ ।

इति निष्ठातस्य नः ।) कम्पितः । धूधातोः क्तः
ल्वादित्वात्तस्य नादेशः । इति संक्षिप्तसार-
व्याकरणम् ॥

धूनकः, पुं, (धूनयति संधुक्षयति अग्निमिति ।

धू + णिच् + ण्वुल् ।) वह्निवल्लभः । इति त्रिकाण्ड-
शेषः ॥ धूना इति भाषा ॥

धूननं क्ली, (धू + णिच् + ल्युट् ।) कम्पनम् ।

काँपान । इति भाषा । इति ञ्यन्तधूधातोरनटा
साध्यम् ॥ (यथा, राजतरङ्गिण्याम् । ६ । १२ ।
“कुर्व्वाणा भक्तिशीलश्रीनिषेधं मूर्धधूननैः ॥”)

धूनिः, स्त्री, कम्पनम् । धूधातोः क्तिस्थाने ल्वादि-

त्वान्निः । इति कविकल्पद्रुमटीकायां दुर्गादासः ॥

धूप, तापे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

सेट् ।) षष्ठस्वरी । धूपायति धूपायते । आय-
न्तत्वादुभयपदमिति वोपदेवः । अरे तु आय-
स्याप्राप्तिपक्षे परस्मैपदमेव । अधूपीत् दुधूप
इत्यादि । तापः सन्तप्तीकरणम् । इति दुर्गा-
दासः ॥

धूप, क दीप्तौ । इति कविकल्पद्रुमः ॥ (चुरां-परं-

अकं-सेट् ।) क, धूपयति । इति दुर्गादासः ॥

धूपः, पुं, (धूपयति स्वगन्धेन प्रीणयित्वादीप्यतीति ।

धूप + अच् ।) गन्धद्रव्यविशेषोत्थधूमस्तद्वर्त्तिश्च ।
तत्पर्य्यायः । गन्धपिशाचिका २ । इति हेम-
चन्द्रः । ३ । ३१३ ॥ * ॥ यथा, --
“एवं वां कथितो दीपो धूपञ्च शृणुतं सुतौ ।
नासाक्षिरन्ध्रसुखदः सुगन्धोऽतिमनोहरः ॥
दह्यमानस्य काष्ठस्य प्रयतस्येतरस्य वा ।
परागस्याथवा धूमो निस्तापो यस्य जायते ॥
स धूप इति विज्ञेयो देवानां तुष्टिदायकः ।
राशीकृतैर्न चैकत्र तैर्द्रव्यैः परिधूपयेत् ॥
ओधाग्निवत्तथा कृत्वा न तत्फलमवाप्नुयात् ।
श्रीचन्दनञ्च सरलः सालः कालागुरुस्तथा ॥
उदयः सुरथः कन्दी रक्तविद्रुम एव च ।
पीतसालः परिमलो विमर्द्दीकासनस्तथा ॥
नमेरुर्द्देवदारुश्च विल्वसारोऽथ खादिरः ।
सन्तानः पारिजातश्च हरिचन्दनवल्लभौ ॥
वृक्षेषु धूपाः सर्व्वेषां प्रीतिदाः परिकीर्त्तिताः ।
अरालः सह सूत्रेण श्रीवासः पटवासकः ॥
कर्पूरः श्रीकरश्चैव परागः श्रीहरामलौ ।
सर्व्वौषधिरजोजातो वाराहश्चूर्ण उत्कलः ॥
जातीकोषस्व चूर्णञ्च गन्धः कस्तूरिका तथा ।
क्षोदे वृत्ते च गदिता धूपा एते उदाहृताः ॥
यक्षधूपो वृकधूपः श्रीपिष्टोऽगुरुझर्झरः ।
पत्रिवाहः पिण्डधूपः सुगोलः कण्ठ एव च ॥
अन्योन्ययोगनिर्य्यासा धूपा एते प्रकीर्त्तिताः ।
एतैर्विधूपयेद्देवान् धूमिभिः कृष्णवर्त्मना ॥
येषां धूपोद्भवैर्घ्राणैस्तुष्टिं गच्छन्ति जन्तवः ।
निर्य्यासश्च परागश्च काष्ठं गन्धं तथैव च ॥
कृत्रिमश्चेति पञ्चैते धूपाः प्रीतिकरा मताः ।
न यक्षधूमं वितरेत् माधवाय कदाचन ॥
न रक्तविद्रुमं मह्यं सुरथं स्कन्दिनं तथा ।
यक्षधूपः पत्रिवाहः पिण्डधूपः सुगोलकः ॥
कृष्णागुरुः सकर्पूरो महामायाप्रियः स्मृतः ।
यक्षधूपेन वा देवीं महामायां प्रपूजयेत् ॥
यक्षधूपेनेत्यत्र वृकधूपेनेति च पाठः ॥
मेदोमज्जासमायुक्तान् न धूपान् विनिवेदयेत् ।
परकीयांस्तथा घ्रातान् स्तेनीक्रत्याभिमर्द्वितान् ॥
पुष्पं धूपञ्च गन्धञ्च उपचारांस्तथापरान् ।
घ्रातान्निवेद्य देवेभ्यो नरो नरकमाप्नुयात् ॥
न भूमौ वितरेत् धूपं नासने न घटे तथा ।
यथा तथाधारगतं कृत्वा तद्बिनिवेदयेत् ॥
रक्तविद्रुमशालौ च सुरथः सरलस्तथा ।
सन्तानको नमेरुश्च कालागुरुसमन्वितः ॥
जातीकोषाद्यसंयुक्तो धूपः कामेश्वरीप्रियः ।
त्रिपुरायास्तथैवायं मातॄणामपि नित्यशः ॥
सर्व्वेषां पीठदेवानां कान्तादीनाञ्च पुत्त्रक ! ।
एष वां कथितो धूपः शृणु तं नेत्ररञ्जनम् ॥”
इति कालिकापुराणे ६८ अध्यायः ॥
अपि च ।
“पुष्पाणि च सुगन्धीनि धूपञ्च घृतसंयुतम् ।
गुग्गुलुं कुन्दुरुं चैव देवदारु तुरुष्ककम् ॥
सिह्लकं चन्दनं काष्ठं श्रीवासं चागुरुं तथा ।
सर्ज्जरसं नखं चैव दैवे पैत्रे च कर्म्मणि ॥”
इति वह्निपुराणे भोजनविधाननामाध्यायः ॥ * ॥
रोगनाशकधूपो यथा, --
“कूर्म्ममत्स्याखुमहिषगोशृगालाश्ववानराः ।
विडालबर्हिकाकाश्च वराहोलूककुक्कुटाः ॥
हंस एषाञ्च विण्मूत्रं मांसं वा रोम शोणितम्
धूपं दद्याज्ज्वरार्त्तस्य उन्मत्तेभ्यश्च शान्तये ॥
पृष्ठ २/८०१
एतान्यौषघजातानि धूपितानि महेश्वर ! ।
निघ्नन्ति रोगजातानि वृक्षमिन्द्राशनिर्यथा ॥”
इति गारुडे १९९ अध्यायः ॥
(यथा, --
“पुरध्यामवचासर्ज्जनिम्बार्कागुरुदारुभिः ।
सर्व्वज्वरहरो घूपः कार्य्योऽयमपराजितः ॥”
इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ॥)
षडङ्गधूपो यथा, --
“गुग्गुल्वगुरुउशीरशर्करामधुचन्दनैः ।
धूपयेदाज्यसंमिश्रैर्नीचैर्देवस्य देशिकः ॥”
अन्यश्च ।
“सिताज्यमधुसंमिश्रं गुग्गुल्वगुरुचन्दनम् ।
षडङ्गधूपमेतत्तु सर्व्वदेवप्रियं सदा ॥”
दशाङ्गो यथा, --
“रोगरोगहरोरोगदकेशाः
सुरतरुजतुलघुपत्रविशेषाः ।
वक्रविवर्ज्जितवारिजमुद्रा
धूपवर्त्तिरिह सुन्दरि ! भद्रा ॥”
अन्यश्च ।
“मधु मुस्तं घृतं गन्धो गुग्गुलागुरुशैलजम् ।
सरलं सिह्लसिद्धार्थं दशाङ्गो धूप उच्यते ॥”
षोडशाङ्गो यथा, --
“गुल्गुलुं सरलं दारु पत्रं मलयसम्भवम् ।
ह्रीवेरमगुरुं कुष्ठं गुडं सर्ज्जरसं घनम् ॥
हरीतकीं नखीं लाक्षां जटामांसीञ्च शैलजम् ।
षोडशाङ्गं विदुर्धूपं दैवे पित्र्ये च कर्म्मणि ॥”
इति तन्त्रस्रारः ॥ * ॥
केशवार्च्चायां षोडशाङ्गधूपो यथा, --
“सुस्तकं गुग्गुलुः कुष्ठं कर्पूरं मलयोद्भवम् ।
देवदारु जटामांसी जातीकोषञ्च वालकम् ॥
सुरा मांसी ह्यगुरुकं त्वगुशीरञ्च केशरम् ।
एला तथा तेजपत्रं सर्व्वमेतद्घृताक्तकम् ॥
धूपोऽयं षोडशाङ्गः स्याद्गोविन्दप्रीतिकारकः ॥”
द्बादशाङ्गो यथा, --
“गुग्गुलुश्चन्दनं पत्रं कुष्ठञ्चागुरु कुङ्कुमम् ।
जातीकोषञ्च कर्पूरं जटामांसी च वालकम् ।
त्वगुशीरञ्च धूपोऽसौ द्वादशाङ्गः प्रकीर्त्तितः ॥”
दशाङ्गो यथा, --
“कर्पूरं कुष्ठमगुरु गुग्गुलुर्मलयोद्भवम् ।
केशरं वालकं पत्रं त्वग्जातीकोषमुत्तमम् ॥
सर्व्वमेतद्घृतयुतं दशाङ्गो धूप ईरितः ॥”
अष्टाङ्गो यथा, --
“गुग्गुल्वगुरुकं तेजपत्रं मलयसम्भवम् ।
कर्पूरं वालकं कुष्ठं नूतनं कुङ्कुर्म तथा ॥
अष्टाङ्गः कथितो धूपो गोविन्दप्रीतिदः शुभः ॥”
पञ्चाङ्गो यथा, --
“चन्दनं कुङ्कुमं नूत्नं कर्पूरं गुग्गुलोऽगुरु ।
धूपोऽयं घृतसंयुक्तः पञ्चाङ्गः समुदाहृतः ॥”
मुकुन्दघूपे वर्ज्जनीयद्रव्यम् । यथा, --
“ऐक्षवं शालनिर्य्यासं पद्मकं सरलञ्च तु ।
वचा मधुरिका तैलं गन्धकाष्ठं कलम्बकम् ॥
गन्धकं टङ्कणं तालं हिङ्गुलञ्च मनःशिला ।
कक्कोलमूषरं दार्व्वी गन्धमाद्री रसाञ्जनम् ॥
अष्टवर्गः शटी मेथी शिलाजिद्गन्धचन्दनम् ।
कुन्दुरू रेणुकं रास्नाजमोदा शतपुष्पिका ॥
हरिद्रा जीरकं वृक्षक्षीरञ्च रक्तचन्दनम् ।
कर्चूरकं मरुवकं यवानी ग्रन्थिकन्तथा ॥
शैलजं धातकीपुष्पं नखी मोचरसादिकम् ।
मुकुन्दधूपे देवर्षे ! सर्व्वमेतद्विवर्ज्जयेत् ॥”
इति पाद्मोत्तरस्वण्डम् ॥
धूपदानविधिर्यथा, --
“मध्यमानामिकाभ्यान्तु मध्यपर्व्वणि देशिकः ।
अङ्गुष्ठाग्रेण देवेशि ! धृत्वा धूपं निवेदयेत् ॥
धूपस्थानं समभ्यर्च्च्य तर्ज्जन्या वामयास्पृशन् ।
धूपभाजनमन्त्रेण प्रोक्ष्याभ्यर्च्च्य हृदाणुना
उत्तीर्य्य दृष्टिपर्य्यन्तं घण्टां वामदिशि स्थिताम् ॥
वादयन् वामहस्तेन दक्षहस्तेन चार्पयेत् ॥”
इति तन्त्रसारः ॥
गन्धमाल्यमदत्त्वा धूपदाने दोषो यथा, --
“अदत्त्वा गन्धमाल्यानि यो मे धूपं प्रयच्छति ।
कूणपो जायते भूमे यातुधानो न संशयः ॥
वर्षाणि चैकविंशानि अयस्कारनिवासकः ।
तिष्ठतेऽत्र महाभागे ! एवमेतन्न संशयः ॥”
इति वराहपुराणम् ॥ * ॥
विषघ्नधूपो यथा, --
“सक्तुः सर्ज्जरसोपेतः सर्षपा एलबालुकैः ।
सुवर्णा तस्करतरोः कुसुमैरर्ज्जुनस्य तु ॥
धूपो वासगृहे हन्ति विषं स्थावरजङ्गमम् ।
न तत्र कीटा न विषं न दर्दुरसरीसृपाः ॥
न कृत्या कर्म्मणस्तत्र धूपोऽयं यत्र दह्यते ॥” * ॥
सर्पनिर्म्मोचनधूपो यथा, --
“कार्पासास्थिभुजङ्गस्य यथा निर्म्मोचनं भवेत् ।
सर्पनिर्म्मोचनो धूपः प्रशस्तः सततं गृहे ॥”
इति मत्स्यपुराणे १९२ अध्यायः ॥

धूपनः, पुं, (धूपयति संधुक्षयति वह्निमिति ।

धूप + ल्युः ।) शालवृक्षनिर्यासः । धूना इति
भाषा । तत्पर्य्यायः । शालवेष्टः २ सर्जरसः ३
वह्निवल्लभः ४ । इति शब्दमाला ॥ (यथा,
मनुः । ७ । २१९ ।
“परीक्षिताः स्त्रियश्चैनं व्यजनोदकधूपनैः ।
वेषारम्भनसंशुद्धाः स्पृशेयुः सुसमाहिताः ॥”
क्ली, धूप + ल्युट् । धूपादिना सन्धुक्षणम् । यथा,
महाभारते । १३ । ९९ । ७ ।
“अग्निकार्य्याणि समिधः कुशाः सुमनसस्तथा ।
बलयश्चान्नलाजाभिर्धूपनं दीपकर्म्म च ॥”)

धूपवृक्षः, पुं, (धूपोत्पादको वृक्षः ।) सरलवृक्षः ।

इति त्रिकाण्डशेषः ॥ (सरलशब्देऽस्य विवरणं
ज्ञातव्यम् ॥)

धूपवृक्षकः, पुं, (धूपवृक्ष + स्वार्थे कन् ।) सरल-

वृक्षः । इति शब्दरत्नावली ॥

धूपागुरु, क्ली, (धूपाय सन्धुक्षणाय यदगरु ।)

दाहागुरु । इति राजनिर्घण्टः ॥

धूपाङ्गः, पुं, (धूपसाधनमङ्गं यस्य ।) श्रीवेष्टः । इति

राजनिर्घण्टः ॥

धूपायितः, त्रि, (धूप्यते स्मेति । धूप सन्तापे +

“आयादय आधधातुके वा ।” ३ । १ । ३१ ।
इति आयः । ततः क्तः ।) सन्तप्तः । अध्वा-
दिना श्रान्तः । इत्यमरभरतौ ॥ दत्तधूपगृहादि ।
यथा, तन्त्रप्रमोदे ।
“प्रदीपपरिदीपिते विविधधूपधूपायिते ॥”

धूपार्हं, क्ली, (धूपाय अर्ह्यते पूज्यते इति । अर्ह

पूजायाम् + घञ् ।) कृष्णागुरु । इति राज-
निर्घण्टः ॥ धूपयोग्ये, त्रि ॥

धूपितः, त्रि, (धूप्यते स्मेति । धूप + क्तः ।) सन्ता-

पितः । (यथा, हरिभक्तिविलासे ।
“ततो गन्धपवित्रञ्च गृहीत्वा धूपितं बुधः ।
भगवन्तं नमस्कृत्य भक्त्या संप्रार्थयेदिदम् ॥”)
अध्वादिना श्रान्तः । इत्यमरभरतौ ॥ दत्त-
धूपः । यथा, --
“यवादिना दोहदधूपितो द्रुमः ।”
इति वृक्षायुर्वेदः ॥

धूमः, पुं, (धूनोति धूयते वां । धू न कम्पे + “इषि-

युधीन्धीति ।” उणां १ । १४४ । इति मक् ।)
आर्द्रेन्धनप्रभवः । धूँया इति भाषा । तत्-
पर्य्यायः । भम्भः २ मरुद्बाहः ३ खतमालः ४
शिखिध्वजः ५ अग्निवाहः ६ तरी ७ । इति
त्रिकाण्डशेषः ॥ (यथा, रघुः । ७ । २६ ।
“हविःशमीपल्लवलाजगन्धी
पुण्यः कृशानोरुदियाय धूमः ॥”)
अस्य गुणः । वातपित्तवृद्धिकारित्वम् । इति
राजवल्लभः ॥ स च मेघाञ्जनयोर्जनकः ॥ (यथा,
मेघदूते । ५ ।
“धूमज्योतिःसलिलमरुतां सन्निपातः क्व सेघः ॥”
भीमादिवदुत्तरपदलोपे धूमकेतुः । यथा, गर्गः ।
“उल्कापाते च त्रिदिनं धूमे पञ्चदिनानि च ॥”
उद्गारजवायुविशेषः । चोँया ढेँकुर इति
भाषा ॥ यथा, आह्निकतत्त्वधृतवचनम् ।
“धूमोद्गारे तथा वान्ते क्षुरकर्म्मणि मैथुने ॥”
चिकित्साविशेषः । यथा, --
“श्वेता ज्योतिष्मती चैव हरितालं मनःशिला ।
गन्धाश्चागुरुपत्राद्या धूमो मूर्द्धविरेचनम् ॥
गौरवं शिरसः शूलं पीनसार्द्धावभेदकौ ।
कर्णाक्षिशूलं कासश्च हिक्काश्वासौ गलग्रहः ॥
दन्तदौर्ब्बल्यमास्रावः स्रोतोघ्राणाक्षिदोषजः ।
पूतिघ्राणास्यगन्धश्च दन्तशूलमरोचकः ॥
हनुमन्याग्रहः कण्डूः क्रिमयः पाण्डुता मुखे ।
श्लेष्मप्रसेको वैस्वर्य्यं गलशुण्ठ्युपजिह्विका ॥
खालित्यं पिञ्जरत्वञ्च केशानां पतनन्तथा ।
क्षवथुश्चातितन्द्रा च बुद्धेर्मोहोऽतिनिद्रता ॥
धूमपानात् प्रशाम्यन्ति बलं भवति चाधिकम् ।
शिरोरुहकपालानामिन्द्रियाणां स्वरस्य च ॥”
“स्नात्वा भुक्त्वा समुल्लिख्य क्षुत्त्वा दन्तान्
विघृष्य च ।
नावनाञ्जननिद्रान्ते चात्मवान् धूमपो भवेत् ॥
तथा वातकफात्मानो न भवन्त्यूर्द्ध्वजत्रुजाः ।
रोगास्तस्य तु पेयाः स्युरापानास्त्रिस्त्रयस्त्रयः ॥
पृष्ठ २/८०२
परं द्विकालपायी स्यादह्नः कालेषु बुद्धिमान् ।
प्रयोगे स्नैहिके त्वेकं वैरेच्यं त्रिश्चतुःपिबेत् ॥
हृत्कण्ठेन्द्रियसंशुद्धिर्लघुत्वं शिरसः शमः ।
यथेरितानां दोषाणां सम्यक् पीतस्य लक्षणम् ॥
व्याधिर्यमान्द्यं मूकत्वं रक्तपित्तं शिरोभ्रमम् ।
अकाले चातिपीतश्च धूमः कुर्य्यादुपद्रवान् ॥”
“न विरिक्तः पिबेद्धूमं न कृते वस्तिकर्म्मणि ।
न रक्ती न विषेणार्त्तो न शोची न च गर्भिणी ॥
न श्रमे न मदे नामे न पित्ते न प्रजागरे ।
न मूर्च्छा भ्रमतृष्णासु न क्षीणे नापि च क्षते ॥
न मद्यदुग्धे पीत्वा च न स्नेहं नच माक्षिकम् ।
धूमं न भुक्त्वा दध्ना च न रुक्षः क्रुद्ध एव च ॥
न तालुशोषे तिमिरे शिरस्यभिहते न च ।
न शङ्खके न रोहिण्यां न मेहे न मदात्यये ॥
एषु धूममकालेषु मोहात् पिबति यो नरः ।
रोगास्तस्य प्रवर्द्धन्ते दारुणा धूमविभ्रमात् ॥”
इति चरके सूत्रस्थाने पञ्चमेऽध्याये ॥
“धूमः पञ्चविधो भवति तद्यथा, प्रायोगिकः
स्नेहनो वैरेचनः कासघ्नो वामनीयश्चेति ।
तत्रैलादिना कुष्ठतगरवर्गेण श्लक्ष्णपिष्टेन
द्वादशाङ्गुलं शरकाण्डं क्षौमेणाष्टाङ्गुलं वेष्ट-
यित्वा लेपयेदेषा वर्त्तिः प्रायोगिके । स्नेहफल-
सारमधूच्छिष्टसर्ज्जरसगुग्गुलुप्रभृतिभिः स्नेह-
मिश्रैः स्नेहने । शिरोविरेचनद्रव्यैर्वैरेचने । बृहती-
कण्टकारिकात्रिकटुककासमर्द्दहिङ्ग्विङ्गुदीत्वङ्-
मनःशिलाच्छिन्नरुहाकर्कटशृङ्गीप्रभृतिभिः कास-
हरैश्च कासघ्ने । स्नायुचर्म्मखुरशृङ्गकर्कट-
कास्थिशुष्कमत्स्यवल्लूरकृमिप्रभृतिभिर्वामनीयैश्च
वामनीये ॥”
“मुखेन तं पिबेत् पूर्ब्बं नासिकाभ्यां ततः पिबेत् ।
मुखपीतं मुखेनैव वमेत् पीतञ्च नासया ॥
मुखेन धूममादाय नासिकाभ्यां न निर्हरेत् ।
तेन हि प्रतिलोमेन दृष्टिस्तत्र विहन्यते ॥”
“अकालपीतः कुरुते भ्रममूर्च्छाशिरोरुजः ।
घ्राणश्रोत्राक्षिजिह्वानामुपघातञ्च दारुणम् ॥”
“तत्र स्नेहनो वातं शमयति स्नेहादुपलेपाच्च ।
वैरेचनः श्लेष्माणमुत्क्लेश्यापकर्षति रौक्ष्यात्तै-
क्ष्णादौष्ण्याद्वैषद्याच्च । प्रायोगिकः श्लेष्माण-
मुत्क्लेशयत्युत्क्लिष्टं चापकर्षति साधारणत्वात्
पूर्ब्बाभ्यामिति ॥”
“नरो धूमोपयोगाच्च प्रसन्नेन्द्रियवाङ्मनाः ।
दृढकेशद्बिजश्मश्रुसुगन्धिविशदाननः ॥”
“प्रायोगिकं त्रींस्त्रीनुच्छ्वासानाददीत । मुख-
नासिकाभ्याञ्च पर्य्यायांस्त्रींश्चतुरो वेति ॥
स्नैहिकं यावदश्रुप्रवृत्तिः वैरेचनिकमादोषदर्श-
नात् । तिलतण्डुलयवागू पीतेन पातव्यो वाम-
नीयः ग्रासान्तरेषु कासघ्न इति ।” इति सुश्रुते
चिकित्सितस्थाने ४० अध्यायः ॥

धूमकेतनः, पुं, (धूमः केतनं ध्वजश्चिह्नं यस्य ।)

अग्निः । (यथा, रघुः । ११ । ८१ ।
“निष्प्रभश्च रिपुरास भूभृतां
धूमशेष इव धूमकेतनः ॥”)
केतुग्रहः । इति मेदिनी । ने, २३८ ॥ (महा-
देवः । यथा, महाभारते । १३ । १७ । ८२ ।
“वृषणः शङ्करो नित्यं वर्च्चस्वी धूमकेतनः ॥”)

धूमकेतुः, पुं, (धूमः केतुश्चिह्नं यस्य ।) अग्निः ।

(यथा, महाभारते । १ । १०३ । १७ ।
“प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्मताम् ॥”)
उत्पातविशेषः । स धूमाभा तारका । इत्यमर-
भरतौ ॥ (यथा, कुमारे । २ । ३२ ।
“भवल्लब्धवरोदीर्णस्तारकाक्षो महासुरः ।
उपप्लवाय लोकानां धूमकेतुरिवोत्थितः ॥”)
ग्रहभेदः । इति विश्वः ॥ * ॥ केतवश्च शिखा-
वन्ति ज्योतींषि स्थिराण्युत्पातरूपाणि । तदु-
दये कालाशुद्धिर्यथा, --
“धूमकेतौ समुत्पन्ने ग्रहणे चन्द्रसूर्य्ययोः ।
ग्रहाणां सङ्गरे चैव न कुर्य्यान्मङ्गलक्रियाम् ॥
उल्कापाते च त्रिदिनं धूमे पञ्च दिनानि च ।
वज्रपाते दिनञ्चैकं वर्ज्जयेत् सर्व्वकर्म्मसु ॥”
इति गर्गवचनम् ॥
भोजराजः ।
“ग्रहे रवीन्दोर्द्धरणीप्रकम्पे
केतूद्गमोल्कापतनादिदोषे ।
व्रते दशाहानि वदन्ति तज्ज्ञा-
स्त्रयोदशाहानि वदन्ति केचित् ॥”
वज्रकेतूद्गमोत्पाते ग्रहणे चन्द्रसूर्य्ययोः ।
प्रयाणन्तु त्यजेत् क्षत्त्रः सप्तरात्रमतःपरम् ॥
ब्राह्मणः क्षत्त्रियो वैश्यस्त्यजेत् कर्म्म त्रिरात्रकम् ।
शूद्रस्त्यक्त्वा चैकरात्रं सर्व्वकर्म्म समाचरेत् ॥”
इति मलमासतत्त्वम् ॥
अथ केतूनां संस्थानम् ।
“शतमेकाधिकमेके सहसमपरे वदन्ति केतूनाम् ।
बहुरूपमेकमेव प्राह मुनिर्नारदः केतुम् ॥”
तथा च पराशरः । “शतमेकोत्तरं केतूनां भवन्ति
तेषां षोडश मृत्युनिश्वासजाः । द्वादशादित्य-
सम्भवाः । दश दक्षमखविलयने रुद्रक्रोधजाः ।
सप्त पैतामहाः । पञ्चदश वर्षे वौद्दालिकस्य
पुत्त्राः । सप्तदश मरीचिकश्यपललाटजाः ।
पञ्च च प्राजापतिसहजाः । त्रयो विभाव-
सुजाः । धूमोद्भवश्चैकः । चतुर्द्दश मथ्यमाने-
ऽमृते सोमेन सह सम्भूताः । एकस्तु ब्रह्म-
कोपजः ॥” * ॥ गर्गादयः सहस्रं वदन्ति । तथा
च गर्गः ।
“अमित्योदयचाराणामशुभानाञ्च दर्शनम् ।
आगन्तॄणां सहस्रं स्याद्ग्रहाणां संनिबोध मे ॥”
नारदाख्यो मुनिरेकमेव केतुं बहुरूपं प्राह ।
यथा, --
“दिव्यान्तरीक्षभौमस्थ एकः केतुः प्रकीर्त्तितः ।
शुभाशुभफलं लोके ददात्यस्तमयोदये ॥”
तत्र धूमकेतुलक्षणम् ।
“उक्तविपरीतरूपो न शुभकरो धूमकेतुरुत्पन्नः ।
इन्द्रायुधानुकारी विशेषतो द्वित्रिचूलो वा ॥”
“ह्रस्वतनुः प्रसन्न इत्यस्मादुक्तात् यो विपरीतो
विशेषतः शक्रचापरूपकेतुरुत्पन्नः स धूमकेतुः
स च न शुभकरः पापं करोतीत्यर्थः इन्द्रधनुः-
सदृशो न शुभकर एव तथा द्बिशिखस्त्रि-
शिखश्च विशेषतः पापफलदः । तथा च समय-
संहितायाम् । अचिरस्थितोऽतिवृष्टस्त्वस्तमितः
स्निग्धमूर्त्तिरुदगुदितः । ह्नस्वतनुः प्रसन्नः केतु-
र्लोकस्याभावाय न शुभो विपरीतोः विशेषतः
शक्रचापसङ्काशः । द्वित्रिचतुश्चूलो वा दक्षिण-
संस्थश्च मृत्युकरः ।” इति भट्टोत्पलकृतवराह-
संहिताटीका ॥ (अश्वविशेषः । यथा, नकुल-
कृताश्ववैद्यके । ४ । २६ ।
“पुच्छदेशे यदावर्त्तो वाजिनः संप्रदृश्यते ।
धूमकेतुरिति ख्यातः स त्याज्यो दूरतो नृपैः ॥”
तथाच युक्तिकल्पतरौ ।
“पृष्ठवंशे यदावर्त्त एकः संपरिलक्ष्यते ।
धूमकेतुरिति ख्यातः स त्याज्यो दूरतो नृपैः ॥”
महादेवः । यथा, महाभारते । १३ । १७ । १०३ ।
“धन्वन्तरिर्धूमकेतुस्कन्दो वैश्रवणस्तथा ॥”)

धूमगन्धिकं, क्ली, (धूमस्येव गन्धो यस्य । समासे

इत् । ततः स्वार्थे कन् ।) रोहिषतृणम् । इति
भावप्रकाशः ॥

धूमजाङ्गजं, क्ली, (धूमजस्य मेघस्य अङ्गम् धूम-

जाङ्गं वज्रं तस्माज्जायते इति । जन + डः ।)
वज्रक्षारम् । इति राजनिर्घण्टः ॥

धूमध्वजः, पुं, (धूमः ध्वजश्चिह्रं यस्य ।) अपिः ।

इति हेमचन्द्रः । ४ । १६३ ॥ (यथा, सर्व्व-
दर्शनसंग्रहे चार्व्वाकदर्शने ।
“कथमत्यथा धूमोपलम्भानन्तरं धूमध्वजे प्रेक्षा-
वतां प्रवृत्तिरुपपद्येत ॥”)

धूमप्रभा, स्त्री, (धूमस्य प्रभा इव प्रभा यस्याः ।)

धूमान्धकारनरकः । इति हेमचन्द्रः । ५ । ३ ॥

धूममहिषी, स्त्री, (धूमस्य महिषीव ।) कुज्-

झटी । इति त्रिकाण्डशेषः ॥

धूमयोनिः, पुं, (धूम एव योनिरुत्पत्तिकारणं

यस्य ।) मेघः । (धूमविशेषोद्भवमेघफलं यथोक्तं
चिन्तामणिधृतवचने ।
“यज्ञधूमोद्भवं त्बभ्रं द्बिजानाञ्च हितं स्मृतम् ।
दावाग्निधूमसम्भूतमभ्रं वनहितं स्मृतम् ॥
मृतधूमोद्भवं त्वभ्रमशुभाय भविष्यति ।
अभिचाराग्निधूमोत्थं भूतनाशाय वै द्बिजाः ॥”)
सुस्तकः । इत्यमरः ॥

धूमलः, पुं, (धूमवद्वर्णं लातीति । ला + कः ।)

कृष्णलोहितवर्णः । (यथा, नैषघे । १९ । ५ ।
“अपि मधुकरी कालिंमन्या विराजति धूमल-
च्छविरिव रवेर्लाक्षालक्ष्मीं करैरतिपातुकैः ॥”)
तद्युक्ते, त्रि । इत्यमरः । १ । ५ । १६ ॥

धूमसंहतिः, स्त्री, (धूमस्य संहतिः समूहः ।)

धूमसमूहः । इति हलायुधः ॥

धूमसी, स्त्री, रोटिकाविशेषः । यथा, भावप्रकाशे ।

“मायानां दालयस्तोये स्थापितास्त्यक्तकञ्चुका ।
आतपे शोषिताः पात्रे पिष्टास्ता धूमसी स्मृता ॥
धूमसी रचिता सैव प्रोक्ता भुर्भुरिका बुधैः ।
भुर्भुरी कफपित्तघ्नी किञ्चिद्वातकरी स्मृता ॥”
पृष्ठ २/८०३

धूमाभः, पुं, (धूमस्य आभा इव आभा यस्य ।)

धूम्रवर्णः । इति शब्दमाला ॥ तद्वति, त्रि ॥

धूमावती, स्त्री, दशमहाविद्यान्तर्गतविद्याविशेषः ।

अस्या ध्यानं यथा, --
“विवर्णा चञ्चला दुष्टा दीर्घा च मलिनाम्बरा ।
विमुक्तकुन्तला रूक्षा विधवा विरलद्बिजा ।
काकध्वजरथारूढा विलम्बितपयोधरा ॥
सूर्पहस्तातिरुक्षाक्षा धूतहस्तवरान्विता ।
प्रवृद्धघोणा तु भृशं कुटिला कुटिलेक्षणा ॥
क्षुत्पिपासार्द्दिता नित्यं भयदा कलहास्पदा ।
जपेत् कृष्णत्रतुर्द्दश्यां पुरश्चरणसिद्धये ॥”
इति तन्त्रसारः ॥
(अस्या मन्त्रो यथा, मन्त्रकोषे ।
“दान्तावर्घीशबिन्द्वन्तौ ततो धूमावताद्विठः ।
धूमावती मनुः प्रोक्तो वैरिनिग्रहकारकः ॥”
धूँ धूँ धूमावती स्वाहा ॥)

धूमिका, स्त्री, (धूम इव जलीयपदार्थोऽस्त्यस्या

इति । धूम + ठन् । स्त्रियां टाप् ।) कुज्-
झटिका । इति त्रिकाण्डशेषः ॥ (पक्षिविशेषः ।
फिङ्गा इति ख्याता । तद्यथा, --
“शशघ्नी भासकुररगृध्रोलूककुलिङ्गकाः ।
धूमिका मधुहा चेति प्रसहा मृगपक्षिणः ॥”
इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥)

धूमोत्थं, क्ली, (धूमादुत्तिष्ठति परम्परासम्बन्धेनेति ।

धूम + स्था + कः । धूमयोनिमेघोत्पन्नवज्रजात-
त्वाद् परम्परासम्बन्धत्वम् ।) वज्रक्षारम् । इति
राजनिर्घण्टः ॥ (धूमोत्थिते, त्रि ॥)

धूमोर्णा, स्त्री, यमपत्नी । इति त्रिकाण्डशेषः ॥

(यथा, महाभारते । १३ । १६५ । ११ ।
“शक्रः शचीपतिर्देवो यमो धूमोर्णया सह ।
वरुणः सह गौर्य्या च सहर्द्ध्या च धनेश्वरः ॥”)

धूमोर्णापतिः, पुं, (धूमोर्णायाः पतिः ।) यमः ।

इति हारावली । ५७ ॥

धूम्या, स्त्री, (धूमानां समूहः इति । धूम + पाशा-

दित्वात् यः ।) धूमसमूहः । इत्यमरः । ३ । ३ । ४३ ॥

धूम्याटः, पुं, (धूम्या इव अटतीति । अट + अच् ।)

पक्षिविशेषः । फिङ्गा इति भाषा । तत्पर्य्यायः ।
कलिङ्गः २ भृङ्गः २ । इत्यमरः । २ । ५ । १६ ॥

धूम्रः, पुं, (धूमं धूमवर्णं रातीति । रा + कः ।

पृषोदरादित्वात् साधुः ।) श्यामरक्तमिश्रित-
वर्णः । तत्पर्य्यायः । धूमलः २ कृष्णलोहितः ३ ।
तद्वति, त्रि । इत्यमरः । १ । ५ । १६ ॥ (यथा,
रघौ । १५ । १६ ।
“धमधम्रो वसागन्धो ज्वालावभ्रुशिरोरुहः ।
क्रव्याद्गणपरीवारश्चिताग्निरिव जङ्गमः ॥”)
तुरुस्कः । इति राजनिर्घण्टः ॥ (असुरविशेषः ।
यथा हरिवंशे । २३२ । ८ ।
“समुद्रो रभसश्चण्डो धूम्रश्चैव महासुरः ॥”
स्कन्दस्य सैनिकविशेषः । यथा, महाभारते ।
९ । ४५ । ६२ ।
“शृणु नामानि वाप्येषां येऽम्ये स्कन्दस्य सैनिकाः ।”
“धूम्नः श्वेतकलिङ्गश्च सिद्धार्थो वरदस्तथा ॥”)

धूम्रकः, पुं, (धूभ्रवर्णेन कायतीति । कैः + कः ।)

उष्ट्रः । इति जटाधरः ॥

धूम्रपत्रा, स्त्री, (धूम्रं धूभ्रवर्णं पत्रं यस्याः ।

अजादेराकृतिगणत्वात् टाप् ।) क्षुपविशेषः ।
तत्पर्य्यायः । धूम्राह्वा २ सुलभा ३ स्वयम्भुवा ४
गृध्रपत्रा ५ गृध्राणी ६ कृमिघ्नी ७ श्रीमला-
पहा ८ । अस्या गुणाः । रसे तिक्तत्वम् ।
शोफकृमिकासनाशित्वम् । उष्णत्वम् । रुच्य-
त्वम् । अग्निदीपनकारित्वञ्च । इति राज-
निर्घण्टः ॥

धूम्रमूलिका, स्त्री, (धूम्रं मूलमस्याः । कप् । टापि

अत इत्वम् ।) शूलीतृणम् । इति राजनिर्घण्टः ॥

धूम्रलोचनः, पुं, (धूम्रे लोचने यस्य) कपोतः ।

इति राजनिर्घण्टः ॥ शुम्भासुरसेनापतिः ।
यथा, मार्कण्डेयपुराणे । ८६ । ३ ।
“हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारितः ।
तामानय बलाद्दष्टां केशाकर्षणविह्वलाम् ॥”

धूम्रवर्णः, पुं, (धूम्रं वर्णमस्य ।) तुरुष्कः । इति

राजनिर्घण्टः ॥ (पर्व्वतविशेषः । यथा, हरि-
वंशे । २२८ । ७३ ।
“देवावृत्पर्व्वतश्चैव तथा वै वालुको गिरिः ।
क्रौञ्चः सप्तर्षिशैलश्च धूम्रवर्णश्च पर्व्वतः ॥”)
कृष्णलोहितवर्णयुक्ते, त्रि ॥ (यथा, महा-
भारते । ३ । २८३ । २६ ।
“ऋक्षाणां धूम्रवर्णानां तिस्रः कोट्यो व्यव-
स्थिताः ॥”)

धूम्रवर्णा, स्त्री, (धूम्रं वर्णमस्याः टाप् ।) अग्नेः

सप्तजिह्वान्तर्गतजिह्वाविशेषः । इति जटाधरः ॥
(यदुक्तं मुण्डकोपनिषदि । २ । ४ ।
“काली कराली च मनोजवा च
सुलोहिता या च सुधूम्रवर्णा ।
स्फुलिङ्गिनी विश्वरूपी च देवी
लेलायमाना इति सप्त जिह्वाः ॥”)

धूम्रा, स्त्री, (धूम्र + टाप् ।) शशाण्डुली । इति

राजनिर्घण्टः ॥ (धरनामवसोर्माता यथा,
महाभारते । १ । ६६ । १९ ।
“धूम्रायास्तु धरः पुत्त्रो ब्रह्मविद्यो ध्रुवस्तथा ॥”)

धूम्रिका, स्त्री, शिंशपावृक्षः । इति राजनिर्घण्टः ॥

धूर, ई ङ य वघे । गतौ । इति कविकल्पद्रुमः ॥

(दिवां-आत्मं-सकं-सेट् ।) दीर्घी । ई, धूर्णः ।
ङ य, धूर्य्यते । इति दुर्गादासः ॥

धूर्जटिः, पुं, (धूर् भारभूता जटिर्यस्य । यद्बा,

जट संधाते + इन् । धूर्गङ्गा जटिष्वस्येति । धुर-
स्त्रैलोक्यचिन्ताया जटिः संघातो यत्र वा ।)
शिवः । इत्यमरः । १ । १ । ३५ ॥ (यथा, भाग-
वते । ४ । ५ । २ ।
“क्रुद्धः सुदष्टौष्ठपुटः स धूर्जटि-
र्जटां तडिद्वह्निसटोग्ररोचिषम् ॥”)

धूर्त्तं, क्ली, (धूर्व्वतीति । धूर्व्व + “हसिमृग्रिति ।”

उणां ३ । ८६ । इति तन् ।) विड्लवणम् ।
इति राजनिर्घण्टः ॥ लौहकिट्टम् । इति हेम-
चन्द्रः । ३ । ४० ॥

धूर्त्तः, पुं, (धूर्व्वति हन्तीति । धूर्व्व + तन् ।) धुस्तूर-

वृक्षः । इति मेदिनी । ते, २८ ॥ चोरकः ।
इति राजनिर्घण्टः ॥ (खण्डलवणम् । इति
विश्वः । ते, २२ ॥)

धूर्त्तः, त्रि, (धूर्व्वति हिनस्तीति । धूर्व्व + “हसि-

मृग्रिण्वामिदमिलूपूधूर्विभ्यस्तन् ।” उणां । ३ ।
८६ । इति तन् ।) द्यूतकृत् । वञ्चकः । शेषस्य
पर्य्यायः । मायी २ । इति हेमचन्द्रः । ३ ।
१४९ ॥ विटः ३ । इति मेदिनी । ते, २८ ॥
(यथा, महाभारते । ४ । ६ । १२ ।
“प्रिया हि धूर्त्ता मम देविनः सदा
भवांश्च देवोपम ! राज्यमर्हति ॥”
यथा च पञ्चतन्त्रे । ३ । ७३ ।
“नराणां नापितो धूर्त्तः पक्षिणां चैव वायसः ।
दंष्ट्रिणाञ्च शृगालश्च श्वेतभिक्षुस्तपस्विनाम् ॥”

धूर्त्तकः, पुं, (धूर्त्त + कन् स्वार्थे ।) शृगालः ।

इति शब्दरत्नावली ॥ धूर्त्तश्च ॥ (नागभेदः ।
यथा, महाभारते । १ । ५७ । १३ ।
“बाहुकः शृङ्गवेरश्च धूर्त्तकः प्रातरातकौ ।
कौरव्यकुलजास्त्वेते प्रविष्टा हव्यवाहनम् ॥”)

धूर्त्तकृत्, पुं, (धूर्व्व + भावे तन् । धूर्व्वनं हिंसनं

करोतीति । कृ + क्विप् । तुगागमश्च । धुस्तूरः ।
इति शब्दमाला ॥ वञ्चकंकारके, त्रि ॥

धूर्त्तजन्तुः, पुं, (धूर्त्तश्चासौ जन्तुश्चेति ।) मानुषः ।

इति शब्दचन्द्रिका ॥

धूर्त्तमानुषा, स्त्री, (धूर्त्तो हिंसितो मानुषोऽन-

येति ।) रास्ना । इति शब्दचन्द्रिका ॥

धूर्धरः, पुं, (धरतीति । धृ + अच् । धुरां धरः ।

पृषोदरादित्वात् दीर्घः ।) धुरन्धरः । इत्यमर-
टीकायां रमानायः ॥

धूर्व्वहः, त्रि, (वहतीति । वह् + अच् । धुरां

वहः । पृषोदरादित्वात् दीर्घः ।) धुरन्धरः ।
इत्यमरः । २ । ९ । ६५ ॥

धूर्व्वी, स्त्री, (धुरं अजतीति । अज + क्विप् । ततः

अजो वीभावः ।) रथाग्रभागः । तत्पर्य्यायः ।
यानमुखम् २ वधूः ३ । इति हेमचन्द्रः । ३ ।
४२१ ॥

धूलकं, क्ली, (धू + बाहुलकात् लकः ।) विषम् ।

इति शब्दचन्द्रिका ॥

धूलिः, स्त्री, (धुवति धूयते वेति । धू + बाहुल-

कात् लिः ।) पार्थिवचूर्णम् । धूला इति भाषा ॥
(यथा, भागवते । ३ । १४ । २४ ।
“श्मशानचक्रानिलधूलिधूम्र-
विकीर्णविद्योतजटाकलापः ।
भस्मावगुण्ठामलरुक्मदेहो
देवस्त्रिभिः पश्यति देवरस्ते ॥”)
तत्पर्य्यायः । रेणुः २ पांशुः ३ रजः ४ । इत्य-
मरः । २ । ८ । ९८ ॥ धूली ५ पांसुः ६ । इति
भरतः ॥ क्षितिकणः ७ क्षौद्रः ८ चूर्णम् ९
तूस्तम् १० महीद्रवः ११ वातकेतुः १२ नभः-
केतुः १३ कणा १४ क्षितिकणा १५ । इति
शब्दरत्नाबली ॥ * ॥
पृष्ठ २/८०४
दीपखट्वातनुच्छायाछिन्नकेशनखादिकम् ।
अजमार्जाररेणुश्च हन्ति पुण्यं पुराकृतम् ॥”
इति कर्म्मलोचनः ॥
“अजरजः स्वररजस्तथा सम्मार्ज्जनीरजः ।
स्त्रियः पादरजो राजन् ! शक्रादपि हरेत् श्रियम् ॥”
इति लक्ष्मीचरित्रम् ॥

धूलिका, स्त्री, (धूलिरिव प्रतिकृतिः । “इवे प्रति-

कृतौ ।” ५ । ३ । ९६ । इति कन् । टाप् ।) कुज्-
झटिका । इति शब्दरत्नावली ॥ (नीहारः ।
यथा, नीहारे बाणशब्दे चेति इत्यत्र नीहारे
धूलिकायामिति मनुटीकायां कुल्लुकभट्टः ॥)

धूलिकेदारः, पुं, (धूलिप्रधानः केदारः । इति

मध्यलोपिसमासः ।) वप्रः । क्षेत्रम् । इति
त्रिकाण्डशेषः ॥

धूलिगुच्छकः, पुं, (धूलीनां गुच्छक इव । इवार्थे

कन् ।) पटवासकः । फल्गुचूर्णम् । इति
त्रिकाण्डशेषः ॥

धूलिध्वजः, पुं, (धूलिरेव ध्वजो यस्य ।) पवनः ।

इति त्रिकाण्डशेषः ॥

धूलिपुष्पिका, स्त्री, (धूलिः परागस्तत्प्रचुरं पुष्पं

यस्याः । कापि अत इत्वम् ।) केतकी । इति
राजनिर्घण्टः ॥

धूलीकदम्बः, पुं, (धूलीनां कदम्बमत्र ।) नीपः ।

तिनिशः । वरुणवृक्षः । इति मेदिनी । बे,
१७ ॥ (धूलिसमूहे, क्ली ॥)

धूलीकदम्बकः, पुं, (धूलीकन्दम्ब + स्वार्थे कन् ।)

नीपः । इति जटाधरः ॥

धूलीपटलः, पुं, (धूलीनां पटलं यत्र ।) उड्डीय-

मानधूलीसमूहः । यथा, धूलीपटले धूमत्व-
भ्रमे तत्रासता धूमत्वेन । इत्यादि सामान्यलक्ष-
नायां शिरोमणिः ॥ (धूलीसमूहे, क्ली ॥)

धूश, क कान्तिकृतौ । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट ।) षष्ठस्वरी । कान्तिकृतिः
शोभितकरणम् । चन्दनो धूशयत्यङ्गम् । इति
दुर्गादासः ॥

धूष, क धूशे । इति कविकल्पद्रुमः ॥ (चुरां-परं-

सकं-सेट् ।) षष्ठस्वरी । धूशः कान्तिकृतिः ।
चन्दनो धूषयत्यङ्गम् । इति दुर्गादासः ॥

धूस, क धूशे । इति कविकल्पद्रुमः ॥ (चुरां-परं-

सकं-सेट् ।) षष्ठस्वरी । धूशः कान्तिकृतिः ।
क, धूसयत्यङ्गं चन्दनः । महिषधूसरितः सरित-
स्तटमिति जानकीहरणयमकाद्दन्त्यान्त एवाय-
मिति रमानाथः । स्वमते तालव्यमूर्द्धन्यान्तो-
ऽप्ययम् । इति दुर्गादासः ॥

धूसरः, पुं, (धुनातीति । धू + “कृधूमदिभ्यः कित् ।”

उणां ३ । ७३ । इति सरन् । स च कित् ।)
ईषत्पाण्डुवर्णः । तद्वति, त्रि । इत्यमरः । १ ।
५ । १३ ॥ (यथा, रघौ । ११ । ६० ।
“श्येनपक्षिपरिधूसरालकाः
सान्ध्यमेघरुधिरार्द्रवाससः ॥”)
उष्टः । गर्द्दभः । कपोतः । इति राजनिर्घण्टः ॥
तेलकारः । इति हेमचन्द्रः । ६ । २९ ॥ * ॥
धूसरवस्तूनि यथा । धूलिः १ लूता २ करभः ३
गृहगोधिका ४ कपोतः ५ धूषिकः ६ रङ्गम् ७
काककण्ठः ८ खरादिः ९ । इति कविकल्प-
लता ॥

धूसरच्छदा, स्त्री, (धूसर ईषत् पाण्डुवर्णश्छदो

यस्याः ।) श्वेतवुह्ग्ना । इति रत्नमाला ॥

धूसरपत्रिका, स्त्री, (धूसरं पत्रमस्याः । ङीप् ।

स्वार्थे कन् । टापि पूर्ब्बह्रस्वः ।) हस्तिशुण्डी-
क्षुपः । इति राजनिर्घण्टः ॥

धूसरा, स्त्री, (धूसर + टाप् ।) पाण्डुरफलीक्षुपः ।

इति राजनिर्घण्टः ॥

धूसरी, स्त्री, (धूसर + ङीप् ।) किन्नरीभेदः ।

इति मेदिनी । रे, १७० ॥

धूस्तूरः, पुं, (धूस् कान्तिकरणे + भावे क्विप् । तं

तूर्य्यते हिनस्तीति । तूर हिंसे + “इगुपधज्ञेति ।”
३ । १ । ३५ । इति कः ।) धूस्तूरवृक्षः ।
इत्यमरटीकायां भरतः ॥

धृ, क घृत्याम् । इति कविकल्पद्रुमः ॥ (चुरां-परं-

सकं-अनिट् ।) क, धारयति । इति दुर्गा-
दासः ॥

धृ, ङ अवध्वंसे । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-अकं-अनिट् ।) अवध्वंसः पतनम् । ङ,
धरते पत्रं वृक्षात् । गोविन्दभट्टस्तु अविध्वंसने
इति पठित्वा विध्वंसनं ध्वंसनं तस्याभावोऽवि-
ध्वंसनं स्थापनमिति व्याख्याति । इति दुर्गा-
दासः ॥

धृ, ङ श स्थितौ । धृतौ । इति कविकल्पद्रुमः ॥

(तुदां-आत्मं-स्थितौ अकं-धृतौ सकं-अनिट् ।)
ङ श, ध्रियते । इति दुर्गादासः ॥

धृ, ञ धृत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-उभं-सकं-

अनिट् ।) ञ, धरति धरते । इति दुर्गादासः ॥

धृज, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

सेट् ।) धर्ज्जति । इति दुर्गादासः ॥

धृज, इ गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् । इदित् ।) सप्तमस्वरी । इ, धृञ्ज्यते ।
इति दुर्गादासः ॥

धृतः, त्रि, धृधातोः कर्म्मणि कर्त्तरि च क्तप्रत्ययेन

निष्पन्नः ॥ धारणविशिष्टः । धरा इति भाषा ।
(यथा, महाभारते । १ । ७४ । १०३ ।
“अश्वमेधसहस्रञ्च सत्यञ्च तुलया धृतम् ।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥”)
अवध्वस्तः । पतित इति यावत् । स्थितः ।
(स्थिरीकृतः । निश्चितः । यथा, महाभारते ।
७ । १६ । २८ ।
“धृतां धनञ्जयवधे प्रतिज्ञाञ्चापि चक्रिरे ॥”
पुं, त्रयोदशमनो रौच्यस्य पुत्त्रविशेषः । यथा,
हरिवंशे । ७ । ८२ ।
“चित्रसेनो विचित्रश्च नयो घर्म्मभृतो धृतः ।
सुनेत्रः क्षत्त्रवृद्धिश्च सुतपा निर्भयो दृढः ।
रौच्यस्यैते मनोः पुत्त्रा अन्तरे तु त्रयोदशे ॥”
द्रुह्युवंशीयधर्म्मस्य पुत्त्रः । यथा, भागवते ।
९ । २३ । १४ ।
“द्रुह्योश्च तनयो वभ्रुः सेतुस्तस्यात्मजस्ततः ।
आरब्धस्तस्य गान्धारस्तस्य धर्म्मस्ततो धृतः ॥”)

धृतराष्ट्रः, पुं, (धृतं राष्ट्रं येन ।) दुर्य्योधनपिता ।

स जन्मान्धः शान्तनुपुत्त्रः विचित्रवीर्य्यक्षेत्रे
व्यासाज्जातः । इति महाभारते । १ । ९५ । ५५ ॥
(अयं हि गन्धर्व्वपतेर्हंसस्य अंशावतारः ।
यथा, महाभारते । १ । ६७ । ८४ ।
“अरिष्टायास्तु यः पुत्त्रो हंस इत्यभिविश्रुतः ।
स गन्धर्व्वपतिर्जज्ञे कुरुवंशविवर्द्धनः ॥”)
सुराजा । नागभेदः । इति मेदिनी । रे, २७१ ॥
(यथा, महाभारते । २ । ९ । ९ ।
“कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहकौ ॥”)
पक्षिभेदः । इति विश्वहेमचन्द्रौ ॥ (गन्धर्व्व-
विशेषः । यथा, विष्णुपुराणे । २ । १० । १५ ।
“ब्रह्मापेतोऽथ ऋतजित् धृतराष्ट्रोऽथ सप्तमः ॥”
बलिराजस्य पुत्त्रविशेषः । यथा, हरिवंशे । ३ ।
७४ ।
“बलेः पुत्त्रशतञ्चासीद्बाणज्येष्ठं नराधिप ! ।
धृतराष्ट्रश्च सूर्य्यश्च चन्द्रमाश्चेन्द्रतापनः ॥”
जनमेजयस्य ज्येष्ठपुत्त्रः । यथा, महाभारते ।
१ । ९४ । ५४ ।
“जनमेजयस्य तनया भुवि ख्याता महाबलाः ।
धृतराष्ट्रः प्रथमजः पाण्डुर्व्वाह्लीक एव च ॥”)

धृतराष्ट्री, स्त्री, (धृतराष्ट्रस्य पत्नी । ङीष् ।) हंस-

पत्नी । इति मेदिनी । रे, २७२ ॥ (यथा, महा-
भारते । १ । ६६ । ५७, ५९ ।
“काकीं श्येनीं तथा भासीं धृतराष्ट्रीं तथा
श्रुकीम् ।
ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः ॥”
“धृतराष्ट्री तु हंसांश्च कलहंसाश्च सर्व्वशः ।
चक्रवाकांश्च भद्रं ते जनयामास सैव तु ॥”
हंसपदीलता । इति हेमचन्द्रः ॥)

धृतिः, पुं, (ध्रियते इति । धृ + क्तिन् । अभिधा-

नात् पुंस्त्वम् ।) इष्टिः । इति मेदिनी । ते, २९ ॥
(विश्वेदेवविशेषः । यथा, महाभारते । १३ ।
९१ । ३० ।
“वलं धृतिर्व्विपाप्मा च पुण्यकृत् पावनस्तथा ॥”
चन्द्रवंशीयनृपविशेषस्य विजयस्य पुत्त्रः । यथा,
हरिवंशे । ३१ । ५५ ।
“विजयस्य धृतिः पुत्त्रस्तस्य पुत्त्रो धृतव्रतः ॥”
निमिवंशीयानामेकतमः । यथा, भागवते । ९ ।
१३ । २६ ।
“शुनकस्तत्सुतो जज्ञे वीतहव्यो धृतिस्ततः ॥”
यदुवंशीयवभ्रोः पुत्त्रः । इति विष्णुपुराणे ।
४ । १२ । १५ । “रोमपादाद्वभ्रुः वभ्रोः पुत्त्रो
धृतिः ॥”)

धृतिः, स्त्री, (धृ + क्तिन् ।) तुष्टिः । (यथा, मनुः ।

६ । ९२ ।
“धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।
धीर्व्विद्या सत्यमक्रोधो दशकं धर्म्मलक्षणम् ॥”)
योगभेदः । धैर्य्यम् । (यथा, वाजसनेयसंहिता-
याम् । ३४ । ३ ।
पृष्ठ २/८०५
“यत्प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरन्तरमृतं
प्रजासु ॥”)
धारणम् । इति मेदिनी । ते, २९ ॥ सुखम् ।
इति हेमचन्द्रः । २ । २२२ ॥ (क्रतुः । यथा,
कात्यायनश्रौतसूत्रे । २० । २ । ८ ।
“राजन्यो धृतिषु युद्धजपयुक्ताः ॥”)
षोडशमातृकान्तर्गतत्रयोदशमातृका । इति
भवदेवः ॥ अष्टादशाक्षरावृत्तिच्छन्दोमात्रम् ।
इति छन्दीमञ्जरी ॥ * ॥ धृतियोगजातफलं
यथा, --
“धृतियोगसमुत्पन्नः प्राज्ञः संहृष्टमानसः ।
वावदूकः सभायाञ्च सुशीलो विनयान्वितः ॥”
इति कोष्ठीप्रदीपः ॥
धारणा । सा त्रिधा । यथा, --
“धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ।
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥
यया तु धर्म्मकामार्थान् धृत्या धारयतेऽर्ज्जुन ! ।
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ ! राजसी ॥
यया स्वप्नं भयं शोकं विषादं मदमेव च ।
न विमुञ्चति दुर्म्मेधा धृतिः सा तामसी मता ॥”
इति श्रीभगवद्गीतायाम् । १८ । ३३-३५ ॥

धृत्वरी, स्त्री, (धृत्वन् + “वनो रच ।” ४ । १ । ७७ ।

इति ङीप् रश्चान्तादेशः ।) भूमिः । इति
संक्षिप्तसारोणादिवृत्तिः ॥

धृत्वा, [न्] पुं, (धरतीति । धृ + “शीङ्क्रुशि-

रुहिजिक्षीति ।” उणां ४ । ११३ । इति क्वनिप् ।)
धर्म्मः । विप्रः । समुद्रः । अन्तरीक्षम् । मेधावी ।
विष्णुः । इति संक्षिप्तसारोणादिवृत्तिः ॥

धृष, आ कि अमर्षे । क्रोध इति यावत् । इति

कविकल्पद्रुमः ॥ (चुरां-पक्षे भ्वां-परं-सकं-सेट् ।)
आ, धर्षितं धृष्टं तेन । कि, धर्षयति धर्षति ।
अमर्ष इह अभिभवः । इति भट्टमल्लः । न
धर्षति निजाः प्रजाः । तमेव धर्षयत्येकं यस्तासु
प्रतिकूलतीति हलायुधः । इति दुर्गादासः ॥

धृष, उ संहतौ । हिंसे । इति कविकल्पद्रुमः ॥

(भ्वां-परं-संहतौ अकं-हिंसे सकं-सेट् । उदि-
त्वात् क्त्रावेट् ।) उ, धर्षित्वा धृष्ट्वा । संहतिः ।
समूहः । इति दुर्गादासः ॥

धृष, क ङ शक्तिबन्धे । इति कविकल्पद्रुमः ॥

(चुरां-आत्मं-सकं-सेट् ।) शक्तेर्ब्बन्धनं शक्ति-
बन्धः । क ङ, धर्षयते वह्निं पयः । इति दुर्गा-
दासः ॥

धृष, ञि आ न प्रागल्भ्ये । इति कविकल्पद्रुमः ॥

(स्वां-परं-अकं-सेट् ।) ञि, धृष्टोऽस्ति । आ,
धर्षितं धृष्टं तेन । न, धृष्णोति गुरोरग्रे यः ।
इति हलायुधः । इति दुर्गादासः ॥

धृषुः, पुं, (धृष्णोतीति । धृष् + “पॄभिदिव्यधीति ।”

उणां १ । २४ । इति कुः ।) दक्षः । इत्युणादि-
कोषः ॥ संघातः । प्रगल्भः । इति संक्षिप्त-
सारोणादिवृत्तिः ॥

धृष्टः, त्रि, (धृष + क्तः ।) प्रगल्भः । इति मुग्ध-

बोधव्याकरण्णम् ॥ (यथा, भागवते । ५ । १२ । ७ ।
“जनस्य गोप्तासि विकत्थमानो
न शोभसे वृद्धसभासु धृष्टः ॥”)
निर्लज्जः । तत्पर्य्यायः । धृष्णक् २ वियातः ३ ।
इत्यमरः । ३ । १ । २५ ॥ धृष्णुः ४ दधृक् ५ ।
इति त्रिकाण्डशेषः । धर्षितः ६ । इति शब्द-
रत्नावली ॥ चतुर्विधपत्यन्तर्गतपतिविशेषे, पुं ।
तस्य लक्षणं यथा, “भूयो निःशङ्कः कृतदोषो-
ऽपि भूयो निवारितोऽपि भूयः प्रश्रयपरायणः ।”
इति रसमञ्जरी ॥ (चेदिवंशीयकुन्तेः पुत्त्रः ।
यथा, हरिवंशे । ३६ । २४ ।
“कुन्तेर्धृष्टः सुतो जज्ञे रणधृष्टः प्रतापवान् ॥”
सप्तममनोः पुत्त्रविशेषः । यथा, भागवते । ८ ।
१३ । २ ।
“मनुर्व्विवस्वतः पुत्त्रः श्राद्धदेव इति श्रुतः ।
सप्तमो वर्त्तमानो यस्तदपत्यानि मे शृणु ॥
इक्षाकुर्नभगश्चैव धृष्टः शर्य्यातिरेव च ॥”
धृष्णुरिति कुत्रापि दृश्यते ॥)

धृष्टा, स्त्री, (धृव्यते स्मेति । धृष् शक्तिबन्धे + क्तः ।

टाप् ।) असती । इति शब्दरत्नावली ॥

धृष्णक्, [ज्] त्रि, (धृष्णोतीति । धृष प्रागल्भ्ये

+ “स्वपितृषोर्नजिङ् ।” ३ । २ । १७२ । इत्यत्र
“धृषेश्च ।” इति काशिकोक्तेनं जिङ् ।) निर्लज्जः ।
इत्यमरः । ३ । १ । २५ ॥

धृष्णिः, पुं, (धर्षति अभिभवति अन्धकारमिति ।

धृष् अमर्षे + बाहुलकात् निः । स च कित् ।)
किरणः । इत्यमरः । १ । ४ । ३३ ॥

धृष्णुः, त्रि, (धृष्णोतीति । धृष् + “त्रसिगृधिधृषि-

क्षिपेः क्नुः ।” ३ । २ । १४० । इति क्नुः ।) धृष्टः ।
इति त्रिकाण्डशेषः ॥ (यथा, ऋग्वेदे । ६ ।
२५ । ५ ।
“न हि त्वा शूरो न तुरो न धृष्णु-
र्न त्वा योधो मन्यमानो युयोध ॥”)
पुं, कञ्चिका । इति शब्दचन्द्रिका ॥ (वैवस्वत-
मनुपुत्त्रः । यथा, हरिवंशे । १० । १ ।
“मनोर्वैवस्वतस्यासन् पुत्त्रा वै नव तत्समाः ।
इक्षाकुश्चैव नाभागो धृष्णुः शर्य्यातिरेव च ॥”
सावर्णस्य मनोः पुत्त्रविशेषः । यथा, तत्रैव ।
७ । ६० ।
“वरिष्णुरार्य्यो धृष्णुश्च राजः सुमतिरेव च ।
सावर्णस्य मनोः पुत्त्रा भविष्या दश भारत ! ॥”
चन्द्रवंशोद्भवकुकुरराजस्य सुतः । यथा, तत्रैव
३७ । १८ ।
“कुकुरस्य सुतो धृष्णुर्धृष्णोस्तु तनयस्तथा ।
कपोतरोमा तस्याथ तैत्तिरिस्तनयोऽभवत् ॥”
कवेः पुत्त्रविशेषः । यथा, महाभारते । १३ ।
८५ । १३३ ।
“कविः काव्यश्च धृष्णुश्च बुद्धिमानुशनास्तथा ।
भृगुश्च विरजाश्चैव काशी चोग्रश्च धर्म्मवित् ॥
अष्टौ कविसुता ह्येते सर्व्वमेभिर्जगत्ततम् ॥”)

धे, ट पाने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

अनिट् ।) धयति । टः स्त्रियामीबर्थः । स्तन-
न्धयी । इति दुर्गादासः ॥

धेनः, पुं, (धीयते इति धयत्यस्मादिति वा । धेट

पाने + “धेट इच्च ।” उणां ३ । ११ । इति न
इश्चान्तादेशः ।) समुद्रः । इति हेमचन्द्रः ॥
नदः । इति मेदिनी ॥

धेना, स्त्री, (धेन + टाप् । “टित्त्वेऽपि खच्येव ङीप् ।

इति हरदत्तोक्तेर्न ङीप् ।” इति केचित् ।)
नदी । (दधातेर्लटः शानचि व्यत्य येन एत्वा-
भ्यासलोपौ दधाना स्वमभिधेयं वर्षप्रदानेन
लौकिकाय वा । यद्वा, धेट पाने ‘धेट इच्च’ इति
नप्रत्ययः इकाराश्चान्तादेशः गुणः । धयन्ति
तामिति धेना । पानमत्र स्वीकारः । यद्वा,
आस्वादः । धीयते पीयते आस्वाद्यते वानेन
धयन्ति प्राणमिति धेना ।” इति देवराजयज्वा ।
१ । ११ । ३९ ।) भारतीभेदः । इति हेमचन्द्रः ॥
(यथा, ऋग्वेदे । ३ । १ । ९ ।
“व्यस्य धारा असृजद्वि धेनाः ।”
“धेना माध्यमिका वाचश्च विसृजति ।” इति
तद्भाष्ये सायनः ॥)

धेनिका, स्त्री, (धेनो नदः । लक्षणया जलसमीप-

स्थानम् । स उत्पत्तिस्थानत्वेनास्त्यस्या इति ।
धेन + ठन् । टाप् ।) धन्याकम् । इति भाव-
प्रकाशः ॥

धेनुः, स्त्री, (धयति लेढि सुतान् धीयते वत्सैरिति

वा । धेट पाने + “घेट इच्च ।” उणां ३ । ३४ ।
इति नुः इश्चान्तादेशः ।) नवप्रसूता गौः । तत्-
पर्य्यायः । नवसूतिका २ । इत्यमरः । २ । ९ ।
७१ ॥ नवप्रसूतिका ३ । इति शब्दरत्नावली ॥
दानीयदशधेनवो यथा, --
“यास्तु पापविनाशिन्यः पठ्यन्ते दशधेनवः ।
तासां स्वरूपं वक्ष्यामि नामानि च धनाधिप ! ॥
प्रथमा गुडधेनुः स्याद्घृतधेनुरथापि वा ।
तिलधेनुस्तृतीया च चतुर्थी जलसंज्ञिका ॥
क्षीरधेनुश्च विख्याता मधुधेनुरथापि वा ।
सप्तमी शर्कराधेनुर्दधिधेनुरथाष्टमी ॥
रसधेनुश्च नवमी दशमी स्यात् स्वरूपतः ॥
कुम्भाः स्युर्द्रवधेनूनामितरासान्तु राशयः ।
सुवर्णधेनुमप्यत्र केचिदिच्छन्ति मानवाः ॥
नवनीतेन तैलेन तथान्ये तु महर्षयः ।
एतदेव विधानं स्यात्त एवोपस्कराः स्मृताः ॥
मन्त्रावाहनसंयुक्ताः सदा पर्व्वणि पर्व्वणि ।
यथाश्राद्धं प्रदातव्या भुक्तिमुक्तिफलप्रदाः ॥
गुडधेनुप्रसङ्गेन सर्व्वास्तव मयोदिताः ।
अशेषयज्ञफलदाः सर्व्वपापहराः शुभाः ॥
व्रतानामुत्तमा यस्माद्बिशोकद्वादशीव्रतम् ।
तदङ्गत्वेन चैषात्र गुडधेनुः प्रशस्यते ॥
अयने विषुवे पुण्ये व्यतीपातेऽथवा पुनः ।
गुडधेन्वादयो देयास्तूपरागादिपर्व्वसु ॥”
इति मत्स्यपुराणे ७६ अध्यायः ॥
पूर्ब्बोक्तधेनूनां दानविधयस्तत्तच्छब्दे द्रष्टव्याः ॥ * ॥
अथ कपिलाधेनुदानादिफलम् ।
होतोवाच ।
“अथातः संप्रवक्ष्यामि कपिलाधेनुमुत्तमाम् ।
पृष्ठ २/८०६
यत्प्रदानान्नरो याति विष्णुलोकमनुत्तमम् ॥
पूर्ब्बोक्तेन विधानेन दद्याद्धेनुं सवत्सकाम् ।
सर्व्वालङ्कारसंयुक्तां सर्व्वरत्नसमन्विताम् ॥
कपिलायाः शिरोग्रीवे सर्व्वतीर्थानि भामिनि ! ।
पितामहनियोगाच्च निवसन्ति हि नित्यशः ॥
प्रातरुत्थाय यो मर्त्यः कपिलागलमस्तकात् ।
च्युतन्तु भक्त्या पानीयं शिरसा वन्दते शुचिः ॥
स तेन पुण्यतोयेन तत्क्षणाद्दग्धकिल्विषः ।
त्रिंशद्बर्षकृतं पापं दहत्यग्निरिवेन्धनम् ॥
कल्यमुत्थाय यो मर्त्यः कुर्य्यात्तासां प्रदक्षिणम् ।
प्रदक्षिणीकृता तेन पृथिवी स्यात् वसुन्धरे ! ॥
प्रदक्षिणेन चैकेन श्रद्धायुक्तेन तत्क्षणात् ।
दशजन्मकृतं पापं तस्य नश्यत्यसंशयम् ॥
कपिलायास्तु मूत्रेण स्नात्वा चैव शुचिव्रतः ।
स गङ्गादिषु तीर्थेषु स्नातो भवति मानवः ॥
तेन स्नानेन चैकेन भावयुक्तेन वै नरः ।
यावज्जीवकृतात् पापात् मुच्यते नात्र संशयः ॥
गोसहस्रन्तु यो दद्यादेकाञ्च कपिलां नरः ।
सममेतत् पुरा प्राह ब्रह्मा लोकपितामहः ॥
गवामस्थि न लङ्घेत मृते गन्धे न दूषयेत् ।
यावज्जिघ्रति तं गन्धं तावत् पुण्यैस्तु पूर्य्यते ॥
गवां कण्डूयनं श्रेष्ठं तथा च परिपालनम् ।
तुल्यं गोशतदानस्य भयरोगादिपालने ॥
तृणोदकानि यो दद्यात् क्षुधितानां गवाह्निकम् ।
सोऽश्वमेधफलं दिव्यं लभते मानवोत्तमः ॥
विमानैर्विविधैर्द्दिव्यैः कन्याभिरभिरर्च्चितैः ।
सेव्यमानस्तु गन्धर्व्वैर्दीप्यमानो यथाग्नयः ॥” * ॥
एकादशप्रकारकपिलालक्षणं यथा, --
“सुवर्णकपिला पूर्ब्बं द्वितीया गौरपिङ्गला ।
तृतीया चैव रक्ताक्षी चतुर्थी गुडपिङ्गला ॥
पञ्चमी बहुवर्णा स्यात् षष्ठी च श्वेतपिङ्गला ।
सप्तमी श्वेतपिङ्गाक्षी अष्टमी कृष्णपिङ्गला ॥
नवमी पाटला ज्ञेया दशमी पुच्छपिङ्गला ।
एकादशी खुरश्वेता एतासां सर्व्वलक्षणा ॥
सर्व्वलक्षणसंयुक्ता सर्व्वालङ्कारसुन्दरी ।
ब्राह्मणाय च दातव्या सर्व्वमुक्तिप्रदायिनी ।
भुक्तिमुक्तिप्रदा तेषां विष्णुमार्गप्रदायिनी ॥”
इति कपिलामाहात्म्यम् ॥ * ॥
अथोभयमुखीधेनुदानादिविधानम् ।
होता उवाच ।
“अतःपरं महाराजोभयमुख्याः समासतः ।
विधानं यद्बरारोहे ! धरण्याः कथितं पुरा ।
तदहं संप्रवक्ष्यामि तव पुण्यफलञ्च यत् ॥
धरण्युवाच ।
यत्त्वया कपिला नाम पूर्ब्बमुत्पादिता प्रभो ! ।
होमधेनुः सदा पुण्या सा ज्ञेया कतिलक्षणा ।
कियन्त्यः कपिलाः प्रोक्ताः स्वयमेव स्वयम्भुवा ॥
प्रसूयमाना दानेन किं पुण्यं स्याच्च माधव ! ।
एतदिच्छाम्यहं श्रोतुं विस्तरेण जगद्गुरो ! ॥
श्रीवराह उवाच ।
शृणुष्व भद्रे ! तत्त्वेन पवित्रं पापनाशनम् ।
यं श्रुत्वा सर्व्वपापेभ्यो मुच्यते नात्र संशयः ॥
कपिला अग्निहोत्रार्थे यज्ञार्थे च वरानने ! ।
उद्धृत्य सर्व्वतेजांसि ब्रह्मणा निर्म्मिता पुरा ॥
पवित्राणां पवित्रञ्च मङ्गलानाञ्च मङ्गलम् ।
पुण्यानां परमं पुण्यं कपिला च वसुन्धरे ! ॥
तपसस्तप एवाग्र्यं व्रतानां व्रतमुत्तमम् ।
दानानामुत्तमं दानं निधीनां ह्यतदक्षयम् ॥
पृथिव्यां यानि तीर्थानि गुह्यान्यायतनानि च ।
पवित्राणाञ्च पुण्यानि सर्व्वलोकेषु सुन्दरि ! ॥
होतव्यान्यग्निहोत्राणि सायं प्रातर्द्विजातिभिः ।
कपिलाया घृतेनेह दध्ना क्षीरेण वा पुनः ॥
जुहुते ह्यग्निहोत्राणि मन्त्रैश्च विविधैः सदा ।
पूजयन्नतिथींश्चैव परां भक्तिमुपागताः ॥
ते यान्त्यादित्यवर्णैश्च विमानैर्द्विजसत्तमाः ।
सूर्य्यमण्डलमध्ये च ब्रह्मणा निर्म्मिता पुरा ॥
कपिला या पिङ्गलाक्षी सर्व्वसौख्यप्रदायिनी ।
सिद्धिबुद्धिकरी देवी कपिलानन्तरूपिणी ॥
पूर्ब्बोक्ता यास्तु कपिलाः सर्व्वलक्षणलक्षिताः ।
एतादृश्यः समाख्याताः कपिलास्ते वरानने ! ॥
सर्व्वा ह्येता महाभागास्तारयन्ति न संशयः ।
सङ्गमेषु प्रशस्ता च सर्व्वपापप्रणाशिनी ॥
अग्निपुच्छा अग्निमुखी अग्निलोमानलप्रभा ।
तथाग्नेयी सदा देवी सुवर्णाख्या प्रवर्त्तते ॥” * ॥
शूद्रात् कपिलाप्रतिग्रहे दोषो यथा, --
“गृहीत्वा कपिलां शूद्रात् कामतः सदृशो भवेत् ।
पतितः स द्विजातीनां चाण्डालसदृशो हि सः ॥
न तस्मात् प्रतिगृह्णीयात् शूद्राद्विप्रः प्रतिग्रहम् ।
दूरात्ते प्रतिहर्त्तव्याः श्वभिस्तुल्या इवाध्वरे ॥
सर्व्वकाले हि सर्व्वे वै वर्ज्जिताः पितृदैवतैः ।
असम्भाष्याप्रतिग्राह्याः शूद्रास्ते पापकर्म्मिणः ॥
पिबन्ति यावत् कपिलां तावत्तेषां पितामहाः ।
भूमेर्म्मलं समश्नन्ति जायन्ते विड्भुजश्चिरम् ॥” *
शूद्रस्य कपिलाक्षीरादिपाने दोषो यथा, --
“तासां क्षीरं घृतं वापि नवनीतमथापि वा ।
उपजीवन्ति ये शूद्रास्तेषां गतिमथो शृणु ॥
कपिलाजीविनः शूद्राः क्रूरा गच्छन्ति रौरवम् ।
रौरवे तु महारौद्रे वर्षकोटिशतं धरे ! ॥
ततोऽपि मुक्ताः कालेन श्वानयोन्यां व्रजन्ति ते ।
श्वानयोन्या विमुक्तस्तु विष्ठायां जायते क्रिमिः ॥
विष्ठास्थानेषु पापिष्ठा दुर्गन्धिषु च नित्यशः ।
भूयो भूयो जायमानास्तत्रोत्तारं न विन्दति ॥
ब्राह्मणश्चैव यो विद्वान् कुर्य्यात्तेषां प्रतिग्रहम् ।
ततःप्रभृत्यमेध्यान्तः पितरस्तस्य शेरते ॥
न तं विप्रन्तु सम्भाषेन्न चैवैकासनं विशेत् ।
स नित्यं वर्ज्जनीयो हि दूरात्तु ब्राह्मणोऽध्वरे ॥
यस्तेन सह संभाषेत्तथा चैकासनं व्रजेत् ॥
प्राजापत्यं चरेत् कृच्छ्रं तेन शुध्यति स द्विजः ॥”
अथासन्नप्रसवकपिलादानफलादि ।
“एकस्य गोप्रदानस्य सहस्रेण तु पूर्य्यते ॥
किमन्यैर्बहुभिर्दानैः कोटिसंख्यातविस्तरैः ।
श्रोत्रियाय दरिद्राय सुवृत्तायाहिताग्नये ॥
आसन्नप्रसवां धेनुं दानार्थं प्रतिपालयेत् ।
कपिलार्द्धप्रसूता वै दातव्या च द्विजन्मने ॥
जायमानस्य वत्सस्य मुखं योन्या प्रदृश्यते ।
तावत् सा पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ॥
धेन्वा यावन्ति रोमाणि सवत्साया वसुन्धरे ! ॥
तावत्यो वर्षकोट्यस्तु ब्रह्मवादिभिरर्च्चिताः ।
वसन्ति ब्रह्मलोके वै ये च वै कपिलाप्रदाः ॥
सुवर्णशृङ्गीं यः कृत्वा रौप्यमुक्ताखुरान्तथा ।
ब्राह्मणस्य करे दत्त्वा सुवर्णं रौप्यमेव च ॥
कपिलायास्तदा पुच्छं ब्राह्मणस्य करे न्यसेत् ।
उदकञ्च करे दद्याद्वाचया शुद्धयादिते ॥
ससमुद्रावृता तेन सशैलवनकानना ।
रत्नपूर्णा भवेद्दत्ता पृथिवी नात्र संशयः ॥
पृथिवीदानतुल्येन दानेनैतेन वै नरः ।
नन्दितो याति पितृभिर्विष्ण्वाख्यं परमं पदम् ॥
ब्रह्मस्वहारी गोघ्नश्च भ्रुणहा पापदेहकः ।
महापातकयुक्तोऽपि वञ्चको ब्रह्मदूषकः ॥
निन्दको ब्राह्मणानाञ्च तथा कर्म्मोपदूषकः ।
एतैः पातकयुक्तोऽपि गवां दानेन शुध्यति ॥
यश्चोभयमुखीं दद्यात् प्रभूतकनकान्विताम् ।
तद्दिनं पयसाहारः पायसेनापि वा भवेत् ॥
सुवर्णस्य सहस्रेण तदर्द्धेनापि भामिनि ! ।
तस्याप्यर्द्धशतेनापि पञ्चाशच्च तदर्द्धकम् ॥
यथाशक्ति प्रदातव्या वित्तशाठ्यं विवर्ज्जयेत् ॥
इमां गृह्णोभयमुखीमुभयत्र शमोऽस्तु वै ।
मम वंशविवृद्ध्यर्थं सदा स्वस्तिकरी भव ॥”
गोशरीरे देवतानिवेशो यथा, --
“दन्तेषु मरुतो देवा जिह्वायान्तु सरस्वती ।
खुरमध्ये तु गन्धर्व्वाः खुराग्रेषु तु पन्नगाः ॥
सर्व्वसन्धिषु साध्याश्च चन्द्रादित्यौ तु लोचने ।
ककुदि सर्व्वनक्षत्रं लाङ्गूले धर्म्म आश्रितः ॥
अपाने सर्व्वतीर्थानि प्रस्रावे जाह्नवी नदी ।
नानाद्वीपसमाकीर्णाश्चत्वारः सागरास्तथा ॥
ऋषयो रोमकूपेषु गोमये पद्मधारिणी ।
रोमसु सन्ति विद्याश्च त्वक्केशेष्वयनद्वयम् ॥
धैर्य्यं धृतिश्च क्षान्तिश्च पुष्टिर्वृद्धिस्तथैव च ।
स्मृतिर्मेधा तथा लज्जा वपुः कीर्त्तिस्तथैव च ॥
विद्या शान्तिर्म्मतिश्चैव सन्ततिः परमा तथा ।
गच्छन्तीमनुगच्छन्ति एता गां वै न संशयः ॥
यत्र गावो जगत्तत्र देवदेवपुरोगमाः ।
यत्र गावस्तत्र लक्ष्मीः सांख्यधर्म्मश्च शाश्वतः ॥
सर्व्वरूपेषु ता गावस्तिष्ठन्त्यभिमताः सदा ॥
गावः पवित्रा मङ्गल्या देवानामपि देवताः ।
यस्ताः शुश्रूषते भक्त्या स पापेभ्यः प्रमुच्यते ॥”
इति वराहपुराणम् ॥

धेनुकः, पुं, (धेनुरिव प्रतिकृतिः । “इवे प्रति-

कृतौ ।” ५ । ३ । ९६ । इति कन् ।) असुर-
विशेषः । स बलरामेण हतः । इति श्रीभागवते
१५ अध्यायः ॥ (अयन्तु गर्द्दभरूपी गोवर्द्धन
स्योत्तरपार्श्वस्थतालवनवासी । यथा, हरिवशे ।
६९ । २ -- २३ ।
“आजग्मतुस्तौ सहितौ गोधनैः सहगामिनौ ।
गिरिं गोवर्द्धनं रम्यं वसुदेवसुतायुभौ ॥
गोवर्द्धनस्योत्तरतो यमुनातीरमाश्रितम् ।
पृष्ठ २/८०७
ददृशातेऽथ तौ वीरौ रम्यं तालवनं महत् ॥
तौ तालपर्णप्रकरे रम्ये तालवने रतौ ।
चेरतुः परमप्रीतौ वृक्षपोताविवोद्गतौ ॥
स तु देशः समः स्निग्धः सुमहान् कृष्णमृत्तिकः ।
दर्भप्रायस्थलीभूतो लोष्टपाषाणवर्जितः ॥
तालैस्तैर्व्विपुलस्कन्धैरुच्छ्रितैः श्यामपर्व्वभिः ।
फलाग्रशाखिभिर्भाति नागहस्तरिवोच्छ्रितैः ॥
तत्र दामोदरो वाक्यमुवाच वदतांवरः ।
अहो तालफलैः पक्वैर्व्वासितेयं वनस्थली ॥
स्वादून्यार्य्य ! सुगन्धीनि श्यामानि रसवन्ति च ।
पक्वतालानि सहितौ पातयामो लघुक्रमौ ॥
यद्येषामीदृशो गन्धो माधुर्य्यघ्राणतर्पणः ।
रसेनामृतकल्पेन भवितव्यञ्च मे मतिः ॥
दामोदरवचः श्रुत्वा रौहिणेयो हसन्निव ।
पातयन् पक्वतालानि चालयामास तांस्तरून् ॥
तत्तु तालवनं नणामसेव्यं दुरतिक्रमम् ।
निर्म्माणभूतमीरिणं पुरुषादालयोपमम् ॥
दारुणो धेनुको नाम दैत्यो गद्दभरूपधृक् ।
खरयूथेन महता वृतः समनुवर्त्तते ॥
स तत्तालवनं घोरं गर्द्दभः परिरक्षति ।
नृपक्षिश्वापदगणांस्त्रासयानः सुदुर्म्मतिः ॥
तालशब्दं स तं श्रुत्वा संघुष्टं फलपातनात् ।
नामर्षयत संक्रद्धस्तालस्वनमिव द्बिपः ॥
शब्दानुसारी संक्रुद्धो दर्पाविद्धसटाननः ।
स्तब्धाक्षो हेषितपटुः खुरैर्निर्द्दारयन्महीम् ॥
आविद्धपुच्छो हृषितो व्यात्तानन इवान्तकः ।
आपतन्नेव ददृशे रौहिणेयमुपस्थितम् ॥
तालानां तमधो दृष्ट्वा सध्वजाकारमव्ययम् ।
रौहिणेयं खरो दुष्टः सोऽदशद्दशनायुधः ॥
पद्भ्यामुभाभ्याञ्च पुनः पश्चिमाभ्यां पराङ्मुखः ।
जघानोरसि दैत्येन्द्रो रौहिणेयं निरायुधम् ॥
ताभ्यामेव स जग्राह पद्भ्यां तं दैत्यगर्द्दभम् ।
आवर्ज्जितमुखस्कन्धं प्रेरयंस्तालमूर्द्धनि ॥
स भग्नोरुकटिग्रीवो भग्नपृष्ठो दुराकृतिः ।
खरस्तालफलैः सार्द्धं पपात धरणीतले ॥
तं गतासुं गतश्रीकं पतितं वीक्ष्य गर्द्दभम् ।
ज्ञातींस्तथापरांस्तस्य तृणराजनि सोऽक्षिपत् ॥
सा भूर्गर्द्दभदेहैश्च तालैः पक्वैश्च पातितैः ।
वभासे छन्नजलदा द्यौरिवाव्यक्तशारदी ॥
तस्मिन् गर्दभदैत्ये तु सानुगे विनिपातिते ।
रम्यं तालवनं तद्धि भूयो रम्यतरं बभौ ॥”
तीर्थविशेषः । यथा, महाभारते । ३ । ८४ ।
८१ -- ८३ ।
“ततो गच्छेत राजेन्द्र ! धेनुकं लाकविश्रुतम् ।
एकरात्रोषितो राजन् ! प्रयच्छेत्तिलधेनुकाम् ॥
सर्व्वपापविशुद्धात्मा सोमलोकं व्रजेद्ध्रुवम् ।
तत्र चिह्नं महाराज ! अद्यापि हि न संशयः ।
कपिला सह वत्सा वै पर्व्वते विचरत्युत ॥
सवत्सायाः पदान्यस्या दृश्यन्तेऽद्यापि भारत ! ।
तेषूपस्पृश्य राजेन्द्र ! पदेषु नृपसत्तम ! ।
यत् किञ्चिदशुभं पापं तत् प्रणश्यति भारत ! ॥”)
षोडशरतिबन्धान्तर्गतद्बादशबन्धः । यथा, --
“सुप्तां स्त्रियं समालिङ्ग्य स्वयं सुप्तो रमेत् पुनः ।
लघुलिङ्ग चालयेद्यो बन्धोऽयं धेनुकः स्मृतः ॥”
इति रतिमञ्जरी ॥
(अपरविधलक्षणं यथा, --
“न्यस्तहस्तयुगला निजे पदे
योषिदेति कटिरूढवल्लभा ।
अग्रतो यदि शनैरधोमुखी
धेनुकं वृषवदुन्नते प्रिये ! ॥”)

धेनुकसूदनः, पुं, (धेनुकं गोवर्द्धनोत्तरपार्श्वस्थ-

तालवनवासिनमसुरं निसूदयति बलराम-
द्बारेति । सूद + णिच् + ल्युः ।) श्रीकृष्णः । इति
त्रिकाण्डशेषः ॥ (बलरामः । इति पुरा-
णम् ॥)

धेनुका, स्त्री, (धेनुरिव प्रतिकृतिः । धेनु +

कन् । टाप् ।) हस्तिनी । (धेनुरेव । स्वार्थे
कन् ।) गौः । इति मेदिनी । के, १०६ ॥ (यथा,
महाभारते । ७ । ७६ । १८ ।
“इमां ते तरणीं भार्य्यां त्वदाधिभिरभिप्लुताम् ।
कथं सन्धारयिष्यामि विवत्सामिव धेनुकाम् ॥”)

धेनुदुग्धं, क्ली, (धेनोर्दुग्धमिव शुभ्रं फलमस्य ।)

चिर्भिटः । इति राजनिर्घण्टः ॥ (धेनोर्दुग्धम् ।)
गोक्षीरम् ॥

धेनुदुग्धकरः, पुं, (करोति वर्द्धयतीति । कृ +

अच् । धेनोर्दुग्धन्तस्य करः । एतद्भक्षणेन धेनु-
दुग्धवर्द्धनादस्य तथात्वम् ।) गर्ज्जरः । इति
राजनिर्घण्टः ॥

धेनुष्या, स्त्री, (धेनु + “संज्ञायां धेनुष्या ।” ४ ।

४ । ८९ । इति षुगागमो यत्प्रत्ययश्च निपा-
त्यते ।) बन्धके स्थिता गौः । इत्यमरः । २ ।
९ । ७२ ॥ यां बन्धकेन दत्त्वा अर्थं नीतवान्
सा । र्गौर्म्महिषी वा या दुग्धबन्धके स्थिता सा
धेनुष्यति बृद्धाः । इति भरतः ॥

धैनुकं, क्ली, (धेनूनां समूहः । “अचित्तहस्तिधेनो-

ष्ठक् ।” ४ । २ । ४७ । इति ठक् ।) धेनु-
समूहः । इत्यमरः । २ । ९ । ६० ॥ (स्त्रीणां
करणभेदः । इति मेदिनी । के, १०६ ॥)

धैर्य्यं, क्ली, (धीरस्य भावः कर्म्म वा । धीर +

व्यञ् ।) धीरता । धीरस्य भाव इत्यर्थे ष्ण्य-
प्रत्ययः ॥ तस्य लक्षणं यथा, --
“स्थिरचित्तोन्नतिर्या तु तद्धैर्य्यमिति कीर्त्त्यते ॥”
इत्युज्ज्वलनीलमणिः ॥
(इदं नायकसत्त्वजगुणानामन्यतमः । यथा,
साहित्यदर्पणे । ३ । ५८ ।
“शोभा विलासो माधुर्य्यं गाम्भीर्य्यं धैर्य्यतेजसी ।
ललितौदार्य्यमित्यष्टौ सत्त्वजाः पौरुषा गुणाः ॥”
तल्लक्षणं यथा, तत्रैव । ३ । ६३ ।
“व्यवसायादचलनं धैर्य्यं विघ्ने महत्यपि ॥”
उदाहरणं यथा, --
“श्रुताप्सरोगीतिरपि क्षणेऽस्मिन्
हरः प्रसङ्ख्यानपरो बभूव ।
व्यात्मे श्वराणां न हि जातु विघ्नाः
समाधिभेदप्रभवो भवन्ति ॥”)

धैवतः, पुं, (धीमतामयम् । धीमत् + अण् । पृषो

दरादित्वात् मस्य वत्वम् ।) सप्तस्वरान्तर्गत-
षष्ठस्वरः । स तु नारदमते अश्वस्वरतुल्यः ।
(अश्वस्तु धैवतं रौतीति वचनात् ॥) तानसेन-
मते भेकस्वरतुल्यः । अस्याच्चारणस्थानं लला-
टम् । व्याकरणमते दन्तः । अयं क्षत्त्रियवर्णः ।
अस्य जातिः षाडवः । अस्य तानम् ७२०
प्रत्येकतानम् ४८ समुदायेन ३४,५६० भवन्ति ।
इति संगीतशास्त्रम् ॥
“गत्वा नाभेरधोभागं वस्तिं प्राप्योर्द्ध्वगः पुनः ।
धावन्निव च यो याति कण्टदेशं स धैवतः ॥”
अस्य श्रुतयस्तिस्रः । इति संगीतदामोदरः ॥
(यथा च सङ्गीतदर्पणे । १ । ५५ ।
“मदन्ती रोहिणी रम्येत्येता धैवतसंश्रयाः ॥”
अस्य ऋषिकुले उद्भवः । क्षत्त्रियो जातिः । पीतो
वर्णः । श्वेतद्वीपे जन्म । ऋषिस्तुम्बुरुः । गणेशो
देवता । उष्णिक् छन्दः । वीभत्सभयानक-
रसयोरूपयोगित्वम् । इति सङ्गीतदर्पणम् ॥)

धोडः, पुं, (धोरति चातुर्य्येण गच्छतीति । धोर

गतिचातुर्य्ये + अच् । रस्य डत्वम् ।) सर्प-
विशेषः । धोडा इति भाषा । तत्पर्य्यायः ।
राजिलः २ डुण्डुभः ३ दुण्डुभः ४ । इति शब्द-
रत्नावली ॥

धोर, ऋ गतिचातुर्य्ये । इति कविकल्पद्रुमः ॥ (भ्वां

परं-सकं-सेट् ।) ऋ, अदुधोरत् । गतौ चातुर्य्यं
गतिचातुर्य्यम् । धोरन्त्या धोरणाक्रान्ता विनीता
यस्य वारणाः । इति दुर्गादासः ॥

धोरणं, क्ली, (धोरति गच्छत्यनेनेति । धोर +

करणे ल्युट् ।) सर्व्ववाहनम् । हस्त्यश्वरथ-
दोलादि । इत्यमरः । २ । ८ । ५८ ॥ (धोर +
भावे ल्युट् ।) अश्वप्रथमगतिः । तत्पर्य्यायः ।
धौरितकम् २ धौर्य्यम् ३ धोरितम् ४ । इति
हेमचन्द्रः । ४ । ३१२ ॥

धोरणिः, स्त्री, (धोरति क्रमशः प्राप्नोतीति ।

धोर + अनिः ।) परम्परा । इति जटाधरः ॥

धोरितं, क्ली, (धोर + क्तः ।) धोरणम् । अश्व-

प्रथमगतिः । इति हेमचन्द्रः । ४ । ३१२ ॥

धोरितकं, क्ली, (धोरितमश्वप्रथमगतिस्तेन काय-

तीति । कै + कः ।) धौरितकम् । इत्यमर-
टीकायां रमानाथः ॥

धौतं, त्रि, (धाव्यते स्मेति । धाव + कर्म्मणि क्तः ।)

मार्ज्जितम् । धोया इति भाषा । तत्पर्य्यायः ।
निर्निक्तम् २ शोधितम् ३ मृष्टम् ४ क्षालितम् ५ ।
इति हेमचन्द्रः । ६ । ७३ ॥ * ॥
“ईषद्धौतं स्त्रिया धौतं यद्धौतं रजकेन च ।
अधौतं तद्विजानीयाद्दशा दक्षिणपश्चिमे ॥”
इति कर्म्मलोचनम् ॥

धौतं, क्ली, (धाव + क्तः ।) रूप्यम् । इति राज-

निर्घण्टः ॥

धौतकटः, पुं, (धौतः कटः । नित्यकर्म्मधारयः ।)

सूत्ररचितभाण्डम् । धोकडा इति ख्यातः । तत
पर्य्यायः । स्योनः २ स्यूतः ३ प्रसेवकः ४ । इति
पृष्ठ २/८०८
जटाधरः ॥ स्यूनः ५ स्यातः ६ । इति भरत-
धृतकोषान्तरम् ॥

धौतकोषजं, क्ली, (कोषाज्जायते इति । कोष +

जन + डः । धौतं कोषजम् ।) पत्रोर्णम् । इति
शब्दरत्नावली ॥

धौतकौषे(शे)यं, क्ली, (धौतं क्षालितं कौषेयम् ।)

पत्रोर्णम् । इत्यमरः । २ । ६ । ११३ ॥ कौषेय-
मेव धौतं प्रक्षालितं पत्रोर्णाख्यं वटलकुचादि-
पत्रेषु क्रिमिभिरूर्णायाः कृतत्वात् पत्रसम्बन्धिनी
ऊर्णा अत्रेति पत्रोर्णम् । इति भरतः ॥

धौतशिलं, क्ली, (धौतेव शिला यस्य ।) स्फाटि-

कम् । इति त्रिकाण्डशेषः ॥

धौमकः, पुं, (धूमे धूमप्रधानदेशे भवः । धूम +

“धूमादिभ्यश्च ।” ४ । २ । १२७ । इति वुञ् ।)
देशविशेषः । इति केचित् ॥

धौरः, पुं, धववृक्षः । इति भावप्रकाशः ॥

धौरितकं, क्ली, (धोरितक + प्रज्ञादित्वादण् ।)

अश्वानां पञ्चविधगत्यन्तर्गतगतिविशेषः । इत्य-
मरः । २ । ८ । ४८ ॥ तत्र सम्यक् गतिरा-
स्कन्दितं गाम इति ख्यातं ततोऽधिका चतुरा
गतिः । इति भरतः ॥

धौरेयः, त्रि, (धुरं वहतीति । “धुरो यड्ढकौ ।”

४ । ४ । ७७ । इति ढक् ।) रथलाङ्गलादि-
भारवोढा । इत्यमरः । २ । ९ । ६५ ॥ अनडुहि,
पुं । इति राजनिर्घण्टः ॥

धौर्त्तिकं, त्रि, धूर्त्तस्येदम् । धूर्त्तस्य भावः । इति

धूर्त्तशब्दात् ष्णिकप्रत्ययेन निष्पन्नम् ॥

धौर्य्यं, क्ली, (धुर्य्यस्य कर्म्म । धुर्य्य + ष्यञ् ।)

अश्वस्य प्रथमगतिः । इति हेमचन्द्रः । ४ ।
३१२ ॥

ध्मा, अग्नियुतौ । ध्वनौ । इति कविकल्पद्रुमः ॥

(भ्वां-परं-सकं-अनिट् ।) युतिरिति वाहुल्यान्न
दीर्घः । अग्नियुतिरग्निसंयोगः । ध्वनिः शब्दोत्-
पत्तिहेतुभावः । धमति सुवर्णं बणिक् अग्नि-
संयुक्तं करोतीत्यर्थः । धमति शङ्खं जनः सशब्दं
करोतीत्यथः । अग्निफुत्कृतौ च । मुखेनैव धमे-
दग्निम् । इति दुर्गादासः ॥

ध्माकारः, पुं, (ध्मा अग्निसंयोगस्तं करोतीति ।

कृ + अण् ।) लोहकारकः । इति हलायुधः ॥

ध्मामा, [न्] पुं, (ध्मा + “नामन्सोमन्निति ।”

उणां ४ । १५० । इति मनिन्प्रत्ययेन निपा-
तनात् साधुः । उज्ज्वलदत्तस्तु ध्यायतेर्मनिन्
इत्युक्त्वा ध्यामन् इति शब्दमिच्छति ।) परि-
माणम् । आलोकः । ध्यानम् । इति सिद्धान्त-
कौमुद्यासुणादिवृत्तिः ॥

ध्यातं, त्रि, (ध्यै चिन्तने + क्तः ।) चिन्तितम् ।

यथा, शान्तिशतके । ९ ।
“ध्यातं वित्तमहर्निशं न च पुनर्विष्णोः पदं शाश्वतम् ॥”

ध्यानं, क्ली, (ध्यै + भावे ल्युट् ।) चिन्तनम् । (यथा,

मनुः । १ । १२ ।
“तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् ।
स्वयमेवात्मनो ध्यानात्तदण्डमकरोद्द्विधा ॥”)
धारणाविषये एकप्रत्ययसन्ततिः । इति हेम-
चन्द्रः । २ । २३४ ॥ अद्बितीयवस्तुनि विच्छिद्य
विच्छिद्यान्तरेन्द्रियवृत्तिप्रवाहः । इति वेदान्त-
सारः ॥ * ॥ यथा, विष्णुपुराणे ।
“तद्रूपप्रत्ययैवैकसन्ततिश्चान्यनिस्पृहा ।
तद्ध्यानं प्रथमैरङ्गैः षड्भिर्निष्पाद्यते नृप ! ॥”
अस्यार्थः । “तद्रूपस्य धारणासिद्धस्य वस्तुनः
प्रत्यया यस्यां सन्ततौ सा एकावच्छिन्ना
सन्ततिः । अन्यनिस्पृहा विषयान्तरेणाव्यव-
धीयमाना । विजातीयप्रत्ययान्तरितः सजातीय-
प्रत्ययप्रवाहो ध्यानमित्यर्थः । तच्च प्रथमैर्यमा-
दिभिर्धारणान्तैः षड्भिरङ्गैर्निष्पाद्यते ।” इति
तट्टीका ॥ * ॥
श्रीकृष्ण उवाच ।
“सर्व्वे देवाः प्राकृतिका यावन्तो मूर्त्तिधारिणः ।
अहमात्मा नित्यदेही भक्तध्यानानुरोधतः ॥”
इति ब्रह्मवैवर्त्ते जन्मखण्डम् ॥
ब्रह्मचिन्ता । यथा, गारुडे ४९ अध्याये ।
“ब्रह्मात्मचिन्ता ध्यानं स्यात् धारणा मनसो
धृतिः ।
अहं ब्रह्मेत्यवस्थानं समाधिर्ब्रह्मणः स्थितिः ॥”
अपि च ।
“प्राणायामैर्द्वादशभिर्यावत्कालो हृतो भवेत् ।
यस्तावत्कालपर्य्यन्तं मनो ब्रह्मणि धारयेत् ।
तस्यैव ब्रह्मणा प्रोक्तं ध्यानं द्वादश धारणाः ॥
द्वाद्शध्यानपर्य्यन्तं मनो ब्रह्मणि यो नरः ।
तुष्टे तु स यतो मुक्तः समाधिः सोऽभिधीयते ॥
ध्येयान्न चलते यस्य मनोऽभिध्यायतो भृशम् ।
प्राप्यावधिकृतं कालं यावत् सा धारणा स्मृता ॥
ध्येये सक्तं मनो यस्य ध्येयमेवानुपश्यति ।
नान्यं पदार्थं जानाति ध्यानमेतत् प्रकीर्त्तितम् ॥
ध्येये मनोनिश्चलतां याति ध्येयं विचिन्तयन् ।
यत्तद्ध्यानं परं प्रोक्तं मुनिभिर्ध्यानचिन्तकैः ॥
ध्येयमेव हि सर्व्वत्र ध्याता तल्लबतां गतः ।
पश्यति द्वैतरहितं समाधिः सोऽभिधीयते ॥”
इति गारुडे २४० अध्यायः ॥

ध्यानयोगः, पुं, (ध्यानमेव योगः ।) ध्यानरूप-

योगः । यथा, --
“विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ।
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥”
इति श्रीभगवद्गीतायां १८ अध्यायः ॥

ध्यामं, क्ली, (ध्यायते पशुभिरिति । ध्यै चिन्तने +

बाहुलकात् मक् ।) दमनकवृक्षः । गन्धतृणम् ।
(यथा, सुश्रुते । १ । २८ ।
“ध्यामकुङ्कुमकङ्कुष्ठसवर्णाः पित्तकोपतः ॥”)
श्यामले, त्रि । इति मेदिनी । मे, १७ ॥

ध्यामकं, क्ली, (ध्याममिव प्रतिकृतिः । ध्याम +

“इवे प्रतिक्रतौ ।” ५ । ३ । ९६ । इति कन् ।)
रोहिषतृणम् । इति राजनिर्घण्टः ॥ (यथा,
सुश्रुते । १ । ३८ ।
“एलातगरकुष्ठमांसीध्यामकत्वग्पत्रनागपुष्प-
प्रियङ्गुहरेणुका-व्याघ्रनख-शुक्तिचण्डास्थौणेयक-
श्रीवेष्टकचोचचोरकवालकगुग्गुलुसर्ज्जरसतु-
रष्ककुन्दुरुकागुरुस्पृक्कोशीरभद्रदारुकुङ्कुमानि
पुन्नागकेशरञ्चेति ॥”)

ध्यामा, [न्] पुं, (ध्यै + “नामन्सोमन्निति ।”

उणां ४ । १५० । इति मनिन्प्रत्ययेन निपा-
तनात् साधुः ।) परिणामः । चिन्तायाम्, क्ली ।
इत्युणादिकोषः ॥

ध्येयः, त्रि, (ध्यायते इति । ध्ये + यत् ।) ध्यातव्यः ।

ध्यानीयः । चिन्तनीयः । यथा, --
“ध्येयः सदा सवितृमण्डलमध्यवर्त्ती
नारायणः सरसिजासनसन्निविष्टः ॥”
इति श्रीनारायणध्यानम् ॥

ध्यै, चिन्तने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-अनिट् ।) ध्यायति विष्णुं वैष्णवः । इति
दुर्गादासः ॥

ध्रज, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

सेट् ।) ध्रजति । इति दुर्गादासः ॥

ध्रज, इ गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् । इदित् ।) इ, ध्रञ्ज्यते । इति दुर्गा-
दासः ॥

ध्रण, ध्वाने । इति कविकल्पद्रुमः । (भ्वां-परं-

अकं-सेट् ।) ध्रणति मृदङ्गः । इति दुर्गा-
दासः ॥

ध्रस, क उत्क्षेपे । उञ्छे । इति कविकल्पद्रुमः ॥

(चुरां-परं-सकं-सेट् ।) क, ध्रासयति । इति
दुर्गादासः ॥

ध्रस, ग उ उञ्छे । इति कविकल्पद्रुमः ॥ (क्र्यां-

परं-सकं-सेट् । उदित्त्वात् क्त्रावेट् ।) ग,
ध्रस्नाति शस्यं दीनः । उ, ध्रसित्वा ध्रस्त्वा । इति
दुर्गादासः ॥

ध्राक्ष, इ काङ्क्षे । घोररुते । इति कविकल्पद्रुमः ॥

(भ्वां-परं-अकं-सेट् ।) रेफयुक्तः । घोररुतमिह
तिरश्चामेव घोरशब्दः । इ, ध्राङ्क्षति पक्षी ।
नमध्यपाठेनैवेष्टसिद्धे अस्य इदनुबन्धो वेदेष-
च्चारणभेदार्थः । इति दुर्गादासः ॥

ध्राख, ऋ ओखार्थे । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-सकं सेट् ।) रेफयुक्तः । ऋ, अदद्राखत् ।
ओखार्थे शोषालमर्थयोः । इति दुर्गादासः ॥

ध्राघ, ङ ऋ शक्तौ । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-अकं-सेट् ।) ङ, ध्राघते । ऋ, अद-
ध्राघत् । इति दुर्गादासः ॥

ध्राजिः, स्त्री, (ध्राजयतीति । ध्रज गतौ + णिच् +

इन् ।) वातालिः । इत्युणादिकोषः ॥ घूरण वातास
इति भाषा ॥ (ध्राजि + भावे इन् । गतिः ।
यथा, ऋग्वेदे । १० । १३६ । २ ।
“मुनयो वातरशनाः पिशङ्गा वसते मला ।
वातस्यानु ध्राजिं यन्ति यद्देवासो अविक्षत ॥”
“वातस्य वायोर्ध्राजिं गतिमनुयन्ति अनु-
गच्छन्ति ॥” इति तद्भाष्ये सायनः ॥)

ध्राड, ऋ ङ शीर्णौ । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-सकं-सेट् ।) रेफयुक्तः । ऋ, अदध्राडत्
ङ, ध्राडते । शीर्णिः विभेदः । इति दुर्गादासः
पृष्ठ २/८०९

ध्राडिः, पुं, (ध्राडते शीर्णो भवतीति । ध्राड +

“सर्ष्वधातुभ्य इन् ।” उणां । ४ । १८ । इति इन् ।)
पुव्यचयः । इत्युणादिकोषः ॥

ध्रिज, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

सेट् ।) ध्रेजति । इति दुर्गादासः ॥

ध्रु, ञि स्थैर्य्ये । सर्पणे । इति कविकल्पद्रुमः ॥

(भ्वां-तुदां च-स्थैर्य्ये अकं-सर्पणे सकं-
परं-अनिट् ।) द्वौ रेफयुक्तौ । आद्यो दीर्घान्त
इति कश्चित् । ञि, ध्रुतोऽस्ति । शि, ध्रुवति
अध्रुवीत् । ध्रुवति शैलः । इति दुर्गादासः ॥

ध्रु, शि स्थिर्य्ये । सर्पणे । इति कविकल्पद्रुमः ॥

(भ्वां-तुदां च-स्थैर्य्ये अकं-सर्पणे सकं-
परं-अनिट् ।) द्वौ रेफयुक्तौ । आद्यो दीर्घान्त
इति कश्चित् । ञि, ध्रुतोऽस्ति । शि, ध्रुवति
अध्रुवीत् । ध्रुवति शैलः । इति दुर्गादासः ॥

ध्रुवं, क्ली, (ध्रुवति स्थिरीभवतीति । ध्रु + “स्रुवः

कः ।” उणां । २ । ६१ । इत्यत्र । “बाहुलकात्
ध्रु स्थैर्य्ये अतोऽपि कः ।” इत्युज्ज्वलदत्तोक्त्या
कः ।) निश्चितम् । (यथा, शाकुन्तले १
अङ्के ।
“ध्रुवं स नीलोत्पलपत्रधारया
शमीलतां च्छेत्तुमृषिर्व्यवस्यति ॥”)
तर्कः । इति मेदिनी । वे, १३ ॥ आकाशम् ।
इति हेमचन्द्रः ॥

ध्रुवं, त्रि, (ध्रु गतिस्थैर्य्ये + बाहुलकात् कः ।)

सन्ततम् । शाश्वतम् । इति मेदिनी । वे, १३ ॥
स्थिरम् । निश्चितम् । इति हेमचन्द्रः । ६ । ८९ ॥
(यथा, चाणक्यशतके । ६३ ।
“यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते ।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि ॥”)

ध्रुवः, पुं, (ध्रुवति स्थिरीभवतीति । ध्रु + बाहुलकात्

कः ।) शङ्कुः । हरः । (यथा, महाभारते ।
१३ । १७ । १०३ ।
“घाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥”)
विष्णुः । (यथा, महाभारते । १३ । १४९ । १९ ।
“विश्वकर्म्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥”)
वटः । उत्तानपादजः । (अस्य विवरणन्तु
पश्चात् द्रष्टव्यम् ॥) वसुभेदः । (यथा, मात्स्ये ।
५ । २१ ।
“आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्त्तिताः ॥”)
योगभेदः । इति मेदिनी । वे, १३ ॥ (यथा,
ज्योतिषे ।
“गण्डो वृद्धिर्ध्रुवश्चैव व्याघातो हर्षणस्तथा ॥”)
स्थाणुः । इत्यमरः । २ । ४ । ८ ॥ शरारि-
पक्षी । इति त्रिकाण्डशेषः ॥ ध्रुवकः । इति
सङ्गीतदामोदरः ॥ * ॥ (रोहिणीगर्भे वसुदेवा-
ज्जातः पुत्त्रविशेषः । यथा, भागवते । ९ । २४ । ४६ ।
“बलं गदं सारणञ्च दुर्म्मदं विपुलं ध्रुवम् ।
वसुदेवस्तु रोहिण्यां कृतादीनुदपादयत् ॥”
पाण्डवपक्षीयः कश्चित् क्षत्त्रियवीरः । इति
महाभारते । ७ । १५६ । ३७ ॥ नहुषस्य पुत्त्र-
विशेषः । यथा, महाभारते । १ । ७५ । ३० ।
“यतिं ययातिं संयातिमायातिमयतिं ध्रुवम् ।
नहुषो जनयामास षट् सुतान् प्रियवाससि ॥”
पुरुवंशीयरन्तिनावस्य पुत्त्रविशेषः । यथा,
भागवते । ९ । २० । ६ ।
“ऋतेयो रन्तिनावोऽभूत् त्रयस्तस्यात्मजा नृप ! ।
सुमतिर्ध्रुवोऽप्रतिरथः कण्वोऽप्रतिरथात्मजः ॥”
रोमावर्त्तविशेषः । यथा, शब्दार्थचिन्तामणौ ।
“आवर्त्तसाम्यादावर्त्तो रोमसंस्थानमङ्गिनाम् ॥”
ते च दशधा यथा, --
“द्वावुरस्यौ शिरस्यौ द्वौ द्बौ द्वौ रन्ध्रोप-
रन्ध्रयोः ।
एको भाले ह्यपाने च दशावर्त्ता ध्रुवाः
स्मृताः ॥”
यज्ञीयग्रहपात्रविशेषः । यथा, कात्यायनश्रौत-
सूत्रे । ९ । ५ । १७ ।
“यजमानस्ततो ग्रहग्रहणमा ध्रुवात् ॥”)
नासाग्रम् । तत्तु आसन्नमृत्युर्न पश्यति । यथा,
“अरुन्धतीं ध्रुवञ्चैव विष्णोस्त्रीणि पदानि च ।
आसन्नमृत्युर्नो पश्येच्चतुर्थं मातृमण्डलम् ॥
अरुन्धती भवेज्जिह्वा ध्रुवो नासाग्रमुच्यते ।
विष्णोः पदानि भ्रूमध्ये नेत्रयोर्म्मातृमण्डलम् ॥”
इति काशीखण्डे । १२ । १३ -- १४ ॥
ध्रुवलोकोत्पत्तिर्यथा, --
“प्रियव्रतोत्तानपादौ मनोः स्वायम्भुवस्य तु ।
द्वौ पुत्त्रौ सुमहावीर्य्यौ धर्म्मज्ञौ कथितौ तव ॥
तयोरुत्तानपादस्य सुरुच्यामुत्तमः सुतः ।
अभीष्टायामभूद्ब्रह्मन् ! पितुरत्यन्तवल्लभः ॥
सुनीतिर्नाम या राज्ञस्तस्याभून्महिषी द्बिज ! ।
स नातिप्रीतिमांस्तस्यां तस्याश्चाभूद्ध्रुवः सुतः ॥
राजासनस्थितस्याङ्कं पितुर्भ्रातरमाश्रितम् ।
दृष्ट्वोत्तमं ध्रुवश्चक्रे तमारोढुं मनोरथम् ॥
सपत्नीतनयं दृष्ट्वा तमङ्कारोहणोत्सुकम् ।
पुत्त्रं पितुस्तथारूढं सुरुचिर्वाक्यमब्रवीत् ॥
एतद्राजासनं सर्व्वभूभृत्संश्रयकेतनम् ।
योग्यं ममैव पुत्त्रस्य किमात्मा क्लिश्यते त्वया ॥
उत्सृज्य पितरं बालस्तत् श्रुत्वा मातृभाषितम् ।
जगाम कुपितो मातुर्निजाया द्विज ! मन्दिरम् ॥
तं दृष्ट्वा कुपितं पुत्त्रमीषत्प्रस्फुरिताधरम् ।
सुनीतिरङ्कमारोप्य मैत्रेयेदमभाषत ॥
वत्स ! कः कोपहेतुस्ते कश्च त्वां नाभिनन्दति ।
कोऽवजानाति पितरं तव यस्तेऽपराध्यति ॥
इत्युक्तः सकलं मात्रे कथयामास तद्यथा ।
सुरुचिः प्राह भूपालप्रत्यक्षमतिगर्व्विता ॥
सुनीतिरुवाच ।
सुरुचिः सत्यमाहेदं स्वल्पभाग्योऽसि पुत्त्रक ! ।
न हि पुण्यवतां वत्स ! सपत्नैरेवमुच्यते ॥
यदि चेद्दुःखमत्यर्थं सुरुच्या वचनात्तव ।
तत् पुण्योपचये यत्नं कुरु सर्व्वफलप्रदे ॥
पराशर उवाच ।
निर्जगाम गृहान्मातुरित्युक्त्रा मातरं ध्रुवः ।
पुराच्च निर्गम्य ततस्तद्बाह्योपवनं ययौ ॥
स ददर्श मुनींस्तत्र सप्त पूर्ब्बागतान् ध्रुवः ।
निर्जगाम वनात्तस्मात् प्रणिपत्य स तानृषीन् ॥
मधुसंज्ञं महापुण्यं जगाम यमुनातटम् ।
यत्रैव देवदेवस्य सान्निध्यं हरिमेधसः ॥
सर्व्वपापहरे तस्मिन् तपस्तीर्थे चकार सः ।
पदाङ्गुष्ठेन संपीड्य यदा च वसुधां स्थितः ।
तदा समस्तवसुधा चचाल सह पर्व्वतैः ॥
भगवानपि सर्व्वात्मा तन्मयत्वेन तोषितः ।
गत्वा ध्रुवमुवाचेदं चतुर्भुजवपुर्हरिः ॥
औत्तानपादे भद्रन्ते तपसा परितोषितः ।
वरदोऽहमनुप्राप्तो वरं वरय सुव्रत ! ॥
ध्रुव उवाच ।
भगवन् सर्व्वभूतेश ! सर्व्वस्यास्ते भवान् हृदि ।
किमज्ञातं तव स्वामिन् ! मनसा यन्मयेप्सितम् ॥
नैतद्राजासनं योम्यमजातस्य ममोदरात् ।
इति गर्व्वादवोचन्मां सपत्नी मातुरुच्चकैः ॥
आधारभूतं जगतः सर्व्वेषामुत्तमोत्तमम् ।
प्रार्थयामि प्रभो ! स्थानं त्वत्प्रसादादतोऽव्ययम् ॥
श्रीभगवानुवाच ।
त्रैलोक्यादधिके स्थाने सर्व्वताराग्रहाश्रयः ।
भविष्यति न सन्देहो मत्प्रसादाद्भवान् ध्रुव ! ॥
सूर्य्यात् सोमात् तथा भौमात् सोमपुत्त्राद्बृह-
स्पतेः ।
सितार्कतनयादीनां सर्व्वर्क्षाणां तथा ध्रुवम् ॥
सप्तर्षीणामशेषाणां ये च वैमानिकाः सुराः ।
सर्व्वेषामुपरि स्थानं तव दत्तं मया ध्रुव ! ॥”
इति विष्णुपुराणे १ अंशे ११ अध्यायः ॥ * ॥
ध्रुवयोगजातफलं यथा, --
“नरीनर्त्ति वाणी सदा वक्त्रपद्मे
चरीकर्त्ति काव्यं बरीभर्त्ति बन्धून् ।
ध्रुवाख्ये प्रसूतिर्ध्रुवा तस्य कीर्त्ति-
र्दिगन्ते नितान्तं भवेच्चारुमूर्त्तिः ॥”
इति कोष्ठीप्रदीपः ॥ * ॥
ध्रुवगणो यथा । उत्तरफल्गुनी १ उत्तराषाढा
२ उत्तरभाद्रपद् ३ रोहिणी ४ । इति ज्योति-
षम् ॥ * ॥ ताराविशेषः । यथा, --
“मेरोरुभयतो मध्ये ध्रुवतारे नभःस्थिते ।
निरक्षदेशसंस्थानामुभये क्षितिजाश्रिते ॥
भचक्रं ध्रुवयोर्बद्धमाक्षिप्तं प्रवहानिलैः ।
पर्य्येत्यजस्रं तन्नद्धा ग्रहकक्षा यथाक्रमम् ॥”
इति सूर्य्यसिद्धान्ते १२ अध्यायः ॥

ध्रुवकः, पुं, (ध्रुव + स्वार्थे कन् ।) स्थाणुः । इति

हेमचन्द्रः । ४ । १८८ ॥ गीताङ्गविशेषः । धया
इति भाषा । तस्य लक्षणं यथा, --
“उत्तमः षट्पदः प्रोक्तो मध्यमः पश्चमः स्मृतः ।
कनिष्ठश्च चतुर्भिः स्याद्ध्रुवकोऽयं मयोदितः ॥
उक्तं द्विखण्डमुद्ग्राहे द्विखण्डं ध्रुवके मतम् ।
ततो द्बिखण्डमाभोगे तालमानरसैः सह ॥
आभोगे कविनाम स्यात्तथा नायकनाम च ।
उद्ग्राहं प्रथमं गीत्वा ध्रवं गायेत्ततः परम् ॥
ततोऽन्तरा ध्रुवस्तस्मादाभोगध्रुवकौ ततः ।
उद्ग्राहः प्रथमः पादः कथितः पूर्ब्बसूरिभिः ॥
गीत्वा पूर्ब्बपदं न्यासो यत्र स ध्रुवको मतः ।
यत्रैव कविनाम स्यात् स आभोग इतीरितः ॥
ध्रुवकादिपु सर्व्वेषु भवेदेवंविधः क्रमः ॥”
स तु षोडशविधः । यथा, --
“जयन्तः शेखरोत्साहौ मधुरो निर्म्मलस्तथा ।
पृष्ठ २/८१०
कुन्तलः कमलश्चैव सानन्दश्चन्द्रशेखरः ॥
सुखदः कुमुदो जायी कन्दर्पो जयमङ्गलः ।
तिलको ललितश्चेति ध्रुवकाः षोडश स्मृताः ॥
एकादशाक्षरपदादेकैकाक्षरवर्द्धितैः ।
खण्डैर्ध्रवाः षोडश स्युः षड्विंशत्यक्षरावधि ॥
द्विगुणैरक्षरैरेव पदमेकमिहेष्यते ।
उद्ग्राहध्रुवकाभोगैरित्थं षट्पदनिर्णयः ॥
पञ्चपादे तु ध्रुवके पदेनैकेन तद्ध्रुवः ।
चतुष्पादे तु ध्रुवके पृथङ्नास्त्येव तद्ध्रुवः ॥”
इति सङ्गीतदामोदरः ॥

ध्रुवका, स्त्री, (ध्रुवक + टाप् ।) धुवका । धुया इति

भाषा । संज्ञा । इत्युणादिकोषः ॥

ध्रुवा, स्त्री, (ध्रुवत्यनयेति । ध्रु स्थैर्य्ये + बाहुलकात्

कः । ततष्टाप् ।) जुहूः । वटपत्राकृतियज्ञ-
पात्रम् । इत्यमरः । २ । ७ । २५ ॥ मूर्व्वा । आढी ।
शालपर्णी । गीतभेदः । इति मेदिनी । वे, १४ ॥
धुया इति भाषा ॥ साध्वी स्त्री । इति शब्द-
रत्नावली ॥

ध्रेक, ऋ ङ स्वने । उत्साहे । इति कविकल्पद्रुमः ॥

(भ्वां-आत्मं-अकं-सेट् ।) रेफमध्यः । द्वावर्थौ ।
उत्साहो वृद्धिरिति चन्द्रः । औन्नत्यमिति
क्षीरस्वामी । ऋ, अदिध्रेकत् । ङ, ध्रेकते लोकः
शब्दायते उत्सहते वेत्यर्थः । स्वनेनोत्साहः
स्वनोत्साहः । इति केचित् । तन्मते स्वनेनोत्-
सहते इत्यर्थः । इति दुर्गादासः ॥

ध्रै, तृप्तौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-

अनिट् ।) रेफोपधः । ध्रायति लाभाल्लोकः प्रीतः
स्यादित्यर्थः । इति दुर्गादासः ॥

ध्वंसः, पुं, (ध्वन्स + भावे घञ् ।) नाशः । यथा, --

जन्याभावत्वं ध्वंसत्वमिति सिद्धान्तमुक्तावली ॥
(यथा, पञ्चतन्त्रे । १ । ११७ ।
“दर्शितभयेऽपि धातरि
धैर्य्यध्वंसो भवेन्न वीराणाम् ।
शोषितसरसि निदाघे
नितरामेवोद्धतः सिन्धुः ॥”)

ध्वंसनं, क्ली, (ध्वंस + भावे ल्युट् ।) ध्वंसः । (यथा,

भागवते । ५ । १ । २३ ।
“इति ह वाव स जगतीपतिरीश्वरेच्छयाधिनि-
वेशितकर्म्माधिकारोऽखिलजगद्बन्धध्वंसनापरानु-
भावस्य भगवतः इति ॥”) गमनम् । अधःपत-
नम् । इति ध्वन्सधातोर्भावेऽनट्प्रत्ययः ॥ (ध्वंसय-
तीति । ध्वंस + णिच् + ल्युः । ध्वंसके, त्रि ।
यथा, महाभारते । ५ । १५६ । ३ ।
“प्रजापतिमिवौदार्य्ये तेजसा भास्करोपमम् ।
महेन्द्रमिव शत्रूणां ध्वंसनं शरवृष्टिभिः ॥”)

ध्वंसी, [न्] पुं, (ध्वंसते विनश्यतीति । ध्वन्स +

णिनिः ।) पर्व्वतसम्भवपीलुवृक्षः । इति शब्द-
रत्नावली ॥ (ध्वंसोऽस्यास्तीति । ध्वंस + इनिः ।)
ध्वंसविशिष्टे, त्रि ॥ यथा, --
“जालान्तरगते सूर्य्यकरे ध्वंसी विलोक्यते ।
त्रसरेणुस्तु विज्ञेयस्त्रिंशता परमाणुभिः ॥” ।
इति वैद्यकपरिभाषा ॥

ध्वज, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) वकारयुक्तः । ध्वजति । इति दुर्गा-
दासः ॥

ध्वज, इ गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं

सकं-सेट् । इदित् ।) वकारयुक्तः । इ, ध्वञ्ज्यते ।
इति दुर्गादासः ॥

ध्वजः, पुं, (ध्वजोऽस्त्यस्येति । ध्वज + अर्शआदि-

त्वादच् ।) शौण्डिकः । इति मेदिनी । जे, १० ॥
(यथा, मनुः । ४ । ८५ ।
“दशसूनासमं चक्रं दशचक्रसमो ध्वजः ।
दशध्वजसमो वेशो दशवेशसमो नृपः ॥”)

ध्वजः, पुं क्ली, (ध्वजति उच्छ्रितो भवतीति । ध्वज +

पचाद्यच् ।) पतका । (यथा, पञ्चतन्त्रे । १ । ३२ ।
“किं तेन जातु जातेन मातुर्यौवनहारिणा ।
आरोहति नयः स्वस्य वंशस्याग्रे ध्वजो यथा ॥”)
खट्वाङ्गम् । मेढ्रम् । (यथा, सुश्रुते चिकित्सित-
स्थाने १९ अध्याये ।
“विदग्धैस्तु सिरास्नायुत्वङ्र्मासैः क्षीयते ध्वजः ॥”)
चिह्नम् । इति मेदिनी । जे, ११ ॥ (यथा,
महाभारते । १ । ३३ । १७ ।
“तं वव्रे वाहनं विष्णुर्गरुत्मन्तं महाबलम् ।
ध्वजञ्च चक्रे भगवानुपरि स्थास्यतीति तम् ॥”)
गर्व्वः । दर्पः । इति शब्दरत्नावली ॥ पूर्ब्बदिशो
गृहम् । इति हेमचन्द्रः ॥ पताकादण्डः । तत्-
पर्य्यायः । केतनम् २ । इत्यमरटीकायां भरतः ॥
(यथा, महाभारते । ७ । २७ । ६ ।
“ततोऽर्ज्जुनः सुशर्म्माणं विद्ध्वा सप्तभिराशुगैः ।
ध्वजं धनुश्चास्य तथा क्षुराभ्यां समकृन्तत ॥”)
ध्वजयुक्तिर्यथा, --
“सेनाचिह्नं क्षितीशानां दण्डो ध्वज इति स्मृतः ।
सपताको निष्पताकः स ज्ञेयो द्बिविधो बुधैः ॥
पताका सार्द्धदैर्घ्येण दण्डस्तु पृथिवीभुजाम् ।
सपताकध्वजस्याग्रे यदा हस्तं परिन्यसेत् ॥
जयहस्तो ध्वजो नाम नैनं सामान्यमर्हति ।
वंशोऽथ वाकुलः शालः पालाशश्चाम्पकस्तथा ॥
नैपो नैम्बोऽथवा दण्डस्तथा वैराजवारणः ।
अवद्धादिकसंज्ञानां वर्णरूपप्रकाशितः ॥
सर्व्वेषाञ्चैव वंशस्तु दण्डः सम्पत्तिकारकः ॥”
अ क च ट त प य शाः ॥
“प्रतापाय पताकास्तु अष्टावेव प्रकाशिताः ।
पञ्चहस्तायता हस्तपरिणाहा जयाभिधा ॥
जया च विजया भीमा चपला वैजयन्तिका ।
दीर्धा विशाला लोला च ज्ञेया हस्तैकवृद्धितः ॥
परिणाहे पादवृद्धिरथ वर्णस्य निर्णयः ।
रक्तः श्वेतोऽरुणः पीतश्चित्रो नीलोऽथ कर्वुरः ॥
कृष्णश्चेति पताकानां वर्णरूपप्रकाशितः ।
अवद्धादिकसंज्ञानामष्टानामष्टकत्रयम् ॥
कलसो दर्पणश्चन्द्रः पद्मकोषो यथाक्रमम् ।
ब्रह्मक्षत्त्रियविट्शूद्रजातीनां संप्रकाशितः ॥
गजादियुक्ता सा प्रोक्ता जयन्ती सर्व्वमङ्गला ।
गजः सिंहो हयो द्बीपी चतुर्णां पृथिवी-
भुजाम् ॥
हंसादियुक्ता विज्ञेया राज्ञां सैवाष्टमङ्गला ।
हंसः केकी शुकश्चासो ब्रह्मादीनां यथाक्रमम् ॥
चामरादिसमायुक्ता सा ज्ञेया सर्व्वबुद्धिदा ।
चामरश्चासपक्षाणि चित्रवस्त्रं तथा सितम् ॥
चतुर्णां वेदनयनपक्षेन्दुगणितक्रमात् ।
तदग्रे यदि विन्यस्तं पताकाद्वितयं भवेत् ॥
इयं हि सर्व्वतो भद्रा पताका चक्रवर्त्तिनः ।
तद्बर्णः पूर्ब्बवज्ज्ञेयः प्रमाणं विधिबोधितम् ॥
कानकं राजतं ताम्रं नानाधातुमयं क्रमात् ।
कुम्भादिकं प्रशंसन्ति पताकाग्रे महीभुजाम् ॥
तत्रापि रत्नविन्यासो विधेयो राजतक्रमः ।
चतुर्भिर्म्मकरास्याद्यैर्युक्ता चेत् सर्व्वसिद्धिदा ।
तदा श्रेयस्करी नाम सा पताका विजायते ॥
मकरोऽथ गजः सिंहो व्याघ्रो वाजी मृगः शुकः ।
शुचिश्चेति समुद्दिष्टमादित्यादिदशा भुवाम् ॥
इति प्रोक्तः पताकानां निर्णयः पृथिवीभुजाम् ॥”
अथ निष्पताकध्वजः ।
“पूर्ब्बवद्दण्डनियमस्तत्र दैर्घ्ये विशेषणम् ।
दण्डः पक्षाणि पद्मञ्च कुम्भश्च विहगो मणिः ॥
निष्पताको ध्वजो राज्ञां षड्भिरेतैः सुसंस्थितैः ।
जयः कपालो विजयः क्षेत्रन्तत्र शिवः क्रमात् ॥
राज्ञः पुरुषमानेन दण्डमानं प्रकीर्त्तितम् ।
ऊर्द्ध्वाधःक्रमयोगेन तद्दण्डादिकमुच्यते ॥
केकी चासो मत्स्यरङ्कस्त्रिविधानां महीभुजाम् ।
ध्वजाग्रेषु विधेयानि पक्षाणि श्रियमिच्छताम् ॥
पद्मः कुम्भश्च विहगो मणिश्चव यथाक्रमात् ।
उपर्य्युपरितो धेयो निष्पताके महीभुजाम् ॥
अष्ट षोडश द्घात्रिंशच्चतुःषष्टिदलाम्बुजम् ।
वृत्ताष्टदिग्दलैश्चाढ्यः कुम्भः सम्पत्तिकारकः ॥
हंसश्चासः शुकः केकी पक्षिणश्च यथाक्रमम् ।
वज्रञ्च पद्मरागच्च नीलो वैदूर्य्यमेव च ॥
ब्रह्मक्षत्त्रियविट्शूद्रजातीनां स्यात् यथाक्रमम् ।
कनकं रजतं युग्मं द्बिविधानां महीभुजाम् ॥
निष्पताकध्वजाब्जादिनिर्म्माणे योग इष्यते ।
पताका यदिहास्त्येका सर्व्वाग्रे योग्यवर्णिनी ॥
अयं ध्वजो विशालाख्यो विज्ञेयश्चक्रवर्त्तिनः ।
तत्रैव चामरे योग्ये विज्ञेयाः सर्व्वसम्पदः ॥
इति राज्ञां समुद्दिष्टमन्येषां ध्वज उच्यते ।
नोर्द्ध्वं विंशतिहस्तेभ्यो न चार्व्वाक् दशहस्तकात् ॥
हस्तहस्तैकसंवृद्ध्या ध्वजो दशविधो मतः ।
सहस्राधिपमारभ्य यावत् स्यादयुताधिपः ॥
न सहस्राधिपान्न्यूनो ध्वजधारणमर्हति ।
अपि कोटिपतेर्ज्ञेयो ध्वजो विंशतिहस्तकः ॥
तत्रापि वस्त्रवर्णादिनिर्णयः पूर्ब्बवन्मतः ।
स्थिरता चित्रता चेति निष्पताकध्वजे गुणौ ॥
यदेतदुभयं चिह्नमुभयोः संप्रकाशितम् ।
तत्प्रमाणध्वजे ज्ञेयमप्रधाने न निर्णयः ॥
निष्पताकध्वजोद्देशः प्रोक्तोऽयं भोजभूभुजा ।
एतद्विमृष्य मतिमान् चिरं सुखमवाप्नुयात् ॥
यो दम्भादथवाज्ञानाद्विलङ्घयति मानवः ।
स विषीदति नश्येत तस्य कीर्त्तिः कुलं बलम् ॥”
इति युक्तिकल्पतरुः ॥ * ॥
पृष्ठ २/८११
मात्स्ये ।
“घण्टावितानवरतोरणचित्रयुक्तं
नित्योत्सवप्रमुदितेन जनेन सार्द्धम् ।
यः कारयेत् सुरगृहं विधिवद्ध्वजाङ्कं
श्रीस्तं न मुञ्चति सदा दिवि पूज्यते च ॥”
ध्वजयष्ट्यादिमानमाह हयशीर्षपञ्चरात्रम् ।
“ध्वजवंशः प्रकर्त्तव्यो निर्व्रणः सगुणो दृढः ।
तदूर्द्धं ताम्रजं चक्रं सूक्ष्मं कुर्य्याद्द्विजोत्तम ! ॥
प्रासादस्य च विस्तारो मानं दण्डस्य कीर्त्तितम् ।
ध्वजयष्टिर्देवगृहे ऐशान्यां दिशि देशिकैः ॥
स्थापनीयाथ वायव्ये साम्प्रतं ध्वजमुच्यते ।
पट्टकार्पासक्षौमाद्यैर्ध्वजं कुर्य्यात् सुशोभनम् ॥
एकवर्णं विचित्रं वा घण्टाचामरभूषितम् ।
किङ्किणीजालकोपेतं वर्हिपत्रविभूषितम् ।
शुक्लादिवर्णैर्विप्रादिः क्रमाद्बा कारयेत् ध्वजम् ॥
दण्डाग्राद्धरणीं यावत् हस्तैकं विस्तरेण तु ।
महाध्वजन्तु विख्यातं सर्व्वकामप्रदं शुभम् ॥
ध्वजेन रहितो विप्र प्रासादस्तु वृथा भवेत् ।
पूजाहोमादिकं सर्व्वं जपाद्यं यत् कृतं नरैः ॥”
शिवसर्व्वस्वे ।
“देवेभ्यश्च गृहं दद्याद् वाहनैरुपशोभितम् ।
तुरङ्गमेण सूर्य्यस्य हरस्य वृषचिह्नितम् ॥
विष्णवे गरुडाङ्कन्तु दुर्गायै सिंहचिह्नितम् ।
कार्य्यं ध्वजपताकाढ्यमन्यथा न कथञ्चन ॥”
गरुडलक्षणमाह नारदपञ्चरात्रे ।
“उपेन्द्रस्याग्रतः पक्षी गुडाकेशः कृताञ्जलिः ।
सव्यजानुगतो भूमौ मूर्द्धादौ मणिमण्डितः ॥
पक्षिजङ्घो नराङ्घ्रिश्च तुङ्गनासो नराङ्गकः ।
द्विबाहुः पक्षयुक्तश्च कर्त्तव्यो विनतासुतः ॥”
विष्णुधर्म्मोत्तरे ।
“प्रतिपाद्य द्बिजो दद्यात् ध्वजं त्रिदशवेश्मनः ।
निर्दहत्याशु पापानि महापातकजान्यपि ॥”
इति प्रतिष्ठातत्त्वम् ॥ * ॥
अथ ध्वजचिह्नविधिः ।
“सिंहारूढा ध्वजे यस्य नृपस्य रिपुहा उमा ।
द्वारस्था पूज्यते वत्स ! न तस्य रिपुजं भयम् ॥
कपिसंस्था महामाया सर्व्वशत्रुविनाशिनी ।
वृषे यथेप्सितं दद्यात् कलसे श्रेय उत्तमम् ॥
हंसे विद्यार्थकामन्तु वर्हिणे सुतमिष्टदा ।
गरुत्मगा महामाया सर्व्वरोगविनाशिनी ॥
महिषस्था महामारीः शमयेत् ध्वजसंस्थिता ।
करिगा सर्व्वकार्य्येषु नृपैः कार्य्या त्रिशूलिनी ॥
पद्मस्था चर्च्चिका रौप्या धर्म्मकामार्थमोक्षदा ।
प्रेतस्था सर्व्वभयहा नित्यं पशुनिपातनात् ॥
पूजिता देवराजेन्द्रनीलोत्पलकरावरा ।
भवते सिद्धकामस्य चिह्नाग्रे संव्यवस्थिता ॥
गन्धपुष्पार्च्चितं कृत्वा वस्त्रहेमसुचर्च्चितम् ।
फलशालियवसूचिबर्द्धमानषिभूषितम् ॥
शोभने उच्छ्रयेल्लग्ने पताकां वा मनोरमाम् ॥
चामरं कलसं शङ्खमातपत्रं वितानकम् ।
भवते सिद्धकामस्य नृपस्य फलदायकम् ॥
नमो विश्वेश्वरि दुर्गे ! चामुण्डे चण्डहारिणि ! ।
ध्वजं समुच्छ्रयिष्यामि वसोर्धारां सुखावहाम् ॥”
अथ ध्वजदानविधिः ।
विश्वेश्वर उवाच ।
“यद्येवं सा महाभागा ब्रह्मविष्णुपरापरा ।
तदहं श्रोतुमिच्छामि ध्वजदानं विधानतः ॥
अगस्त्य उवाच ।
यथा त्वं पृच्छसे वत्स ! तथा शुक्रेण ब्रह्मणि ।
पृष्टः पूर्ब्बं तथा तेन शम्भुगीतं प्रकाशितम् ॥
शुक्रस्य भावयुक्तस्य तदहन्ते महात्मनः ।
कथयामि यथान्यायं ध्वजदानं महाफलम् ॥
शुक्र उवाच ।
देव्या ध्वजप्रमाणन्तु विधिदत्तस्य लाञ्छनम् ।
दीयते च यथा नाथ ! तदशेषं ब्रवीहि नः ॥
ईश्वर उवाच ।
अण्डजं कृमिजं वापि ध्वजं केशविवर्ज्जितम् ।
नवं समञ्च श्लक्ष्णञ्च प्रासादाद्दण्डवर्द्धितम् ॥
समं श्लक्ष्णं मृदुं शुभ्रं शैलं वा धातुजं हि वा ॥
तस्मिन् पटे लिखेत् सिंहं सर्व्वलक्षणलक्षितम् ।
रोचना सह चन्द्रेण हेमलेखाद्यदूर्व्वया ॥
प्रासादाद्दोलमानन्तु क्षितिं विस्तरतः करम् ।
ध्वजापादेन कर्त्तव्या दर्शयेद्दिक्षु देवताः ॥
सर्व्वा वाहनलाञ्छेन लाञ्छिताः सहजेन च ।
किङ्किणीचामरोपेता घण्टादर्पणशोभिताः ॥
हुतहोमो महाप्राज्ञः सहकारदलान्वितान् ।
महामङ्गलशब्देन देव्याः कुम्भान् प्रपूजयेत् ॥
सुगन्धपुष्पनैवेद्ययथाविभवविस्तरैः ।
कन्यका ब्राह्मणान् भोज्य दधिपायसशर्करैः ॥
भूतानान्तु वलिं दत्त्वा तथा तमुपरोहयेत् ॥
सर्व्वकामानवाप्नोति विद्याधरपतिर्भवेत् ।
मोदते विविधान् भोगान् सर्व्वविद्यार्थपारगः ॥
अथवा हैमं रौप्यं वा वार्क्षं पार्थिवशैलजम् ।
कारयेन्मृगराजन्तु महाकरिमदापहम् ॥
महानखकरोत्खातमुक्ताफलपदप्रदम् ।
एवंविधं ततः कृत्वा नवम्यां पूजयेच्छिवाम् ॥
सोपवासः शुचिर्दक्षः सर्व्वसङ्गविवर्ज्जितः ।
कन्यकाः पूजयित्वा तु विप्रान् वेदविदस्ततः ॥
देव्या भक्ताः सदाचारास्त्रिकालहवने रताः ।
ते यथाशक्तितस्तोष्पा ध्वजारोहणकर्म्मणि ॥
कन्या देव्या स्वयं प्रोक्ताः कन्यारूपा तुशूलिनी ।
यावदक्षतयोनिः स्यात्तावद्देवी सुरारिहा ॥
द्विजो ब्रह्मा शिवो विष्णुः स्वकीयव्रतपालकः ।
पूजितैस्तैः सदा शुक्र सर्व्वदेवास्तु पूजिताः ॥
दीनान्धकृपणानान्तु अन्नं देयन्तु शक्तितः ।
यथा सर्व्वगता देवी तदुद्दिश्याक्षयं भवेत् ॥
नानाभक्ताक्षतदधिदूर्व्वातत्कणिकान्वितम् ।
वलिं वै सर्व्वभूतेभ्यो दशदिक्षु निवेदयेत् ॥
वज्रघोणा तथा जप्त्वा अष्टविंशाक्षरापि वा ।
सिंहं स्तम्भे समारोप्य सर्व्वमङ्गलशब्दितम् ॥
वेदध्वनिमहामन्त्रकालिकाचण्डिकापरम् ।
न्यस्य सिंहं परं ध्यायेद्यादृशं पूर्ब्बकल्पितम् ॥
एवन्तु वस्त्रसंवीतं सर्व्वाभरणभूषितम् ।
देव्या महाध्वजं न्यस्य शेषाणामपि विन्यसेत् ॥
ब्रह्मविष्ण्विन्द्ररुद्राणां सोमसूर्य्यदिवौकसाम् ।
ध्वजदानं महादानं सर्व्वदानोत्तमं मतम् ॥
यावन्नो दीयते शुक्र ! ध्वजः प्रासादमूर्द्धनि ।
तावत्तु न भवेद्बत्स ! प्रासादो देववाञ्छितः ॥
शून्यध्वजं सदा भूता नानागन्धर्व्वराक्षसाः ।
विद्रवन्ति महात्मानो नानावाधाञ्च कुर्व्वते ॥
तस्माद्देवगृहद्वारपुरपर्ष्वतपत्तने ।
उच्छ्रिताः शान्तिकामाय ध्वजाः शुक्र ! सदा
हिताः ॥
न हि चान्यद्ध्वजदानादुत्तमं भारते क्वचित् ।
दानमिष्टञ्च पुष्टञ्च देव्या दीपन्तथैव च ॥
अनेन विधिना यस्तु ध्वजं शुक्र ! निवेदयेत् ।
सर्व्वकामानवाप्नोति स नरः शिवतां व्रजेत् ॥
तस्य दर्शनसम्भाषादपि पापरता नराः ।
विमुक्ताः सर्व्वपापेभ्यो दिवं यान्ति न संशयः ॥
राज्ञा चानेन विधिना देवीलाञ्छनरञ्जिताम् ।
शङ्खचक्रवृषभार्क्षहंसवर्हिणवारणैः ।
साचारो भक्तिमास्थाय ध्वजयष्टिं समुच्छ्रयेत् ।
न तस्य सङ्गरे शुक्र ! व्याधयो न च वैरिणः ।
नैव शस्त्रव्रणपीडा भवेच्छां स समुच्छ्रयेत् ॥”
इति देवीपुराणम् ॥

ध्वजद्रुमः, पुं, (ध्वज इव उन्नतो द्रुमः । दीर्घत्वात्

तथात्वम् ।) तालवृक्षः । माडवृक्षः । इति
राजनिर्घण्टः ॥

ध्वजप्रहरणः, पुं, (ध्वजं प्रहरति नाशयति भन-

क्तीति । प्र + हृ + ल्युः । ध्वजस्य प्रहरणो वा ।)
वायुः । इति शब्दरत्नावली ॥

ध्वजभङ्गः, पुं, (ध्वजस्य मेढ्रस्य भङ्गः ।) क्लीवत्व-

जनकरोगविशेषः । तस्य निदानं यथा, --
“अत्यम्ललवणक्षारविरुद्धाशनभोजनात् ।
तथाम्बुपानाद्बिषमात् पिष्टान्नगुरुभोजनात् ॥
दधिक्षीरानूपमांससेवनाद्ब्याधिकर्षणात् ।
कल्याणीगमनाच्चापि वियोनिगमनादपि ॥
दीर्घरोम्नीं चिरोत्सृष्टां तथैव च रजस्वलाम् ।
दुर्गन्धां दुष्टयोनिञ्च तथैव च परिसुताम् ॥
ईदृशीं प्रमदां मोहात् यदि गच्छति मानवः
चतुःपदाभिगमनाच्छेफसश्चाभिघाततः ।
अधावनाच्च मेढ्रस्य शस्त्रदन्तनखक्षतात् ॥
काष्ठप्रहारनिष्पेषशूकानाञ्च निषेवणात् ।
रेतसश्च प्रतीघातात् ध्वजभङ्गः प्रवर्त्तते ॥”
इति चरकः ॥ * ॥
तस्य चिह्नं यथा, --
“शुक्रे चिरात् प्रसिच्येत शुक्रं शोणितमेव वा ।
तोदोऽत्यर्थं वृषणयोर्मेढ्रं धूपायतीव च ॥”
इति वाभटः ॥ * ॥
अपि च ।
“तैस्तैर्भावैरहृद्यैश्च रिरंसोर्मनसि क्षते ।
ध्वजः पतत्यधो नॄणां क्लैव्यं सद्यः प्रजायते ॥
भक्ष्यैरम्लोष्णलवणैरतिमात्रोपसेवितैः ।
सौम्यधातुक्षयाद्दुष्टः क्लैव्यं तदपरं स्मृतम् ॥
अतिव्यवायशीलो यो न च वाजिक्रियारतः ।
ध्वजभङ्गमवाप्नोति स शुक्रक्षयहेतुकम् ॥
पृष्ठ २/८१२
असाध्यं सहजं क्लैव्यं मर्म्मच्छेदोद्भवञ्च यत् ।
असाध्यानां विशिष्टानां कार्य्यो वाजिकरो
विधिः ॥
तस्य चिकित्सा यथा, वैद्यके ।
“सुवर्णासुवत्साशुभाधेनुधन्या-
घृतं योगयोगे प्रशस्तं सप्रस्थम् ।
मृदौ वा दराग्नौ पचेत् पाकशूर-
स्तदा तेजपत्रं हरिद्रासुपिष्टम् ॥
विधौ शुद्धिहेतौ समुस्तं सुपिष्टं
विधेयं सुगन्धाय वृद्धोपदेशात् ।
समूलाश्वगन्धासप्रस्थं विचूर्णं
शुभं वारि दत्त्वा गुणं वेदयुक्तम् ॥
यदा शेषभूतं तदा योगयोगे
पचेत् पाकविज्ञो भृशं दर्व्विचालात् ।
पचेद्गाविदुग्धं घृतस्यापि तुल्यं
विदारीं सप्रस्थां तथा तेन वैद्यः ॥
तथा शाल्मलीतोयदत्तं सप्रस्थं
वितार्य्यावतिष्ठेद्घृतं योगराजः ॥”

ध्वजवान्, [त्] त्रि, (ध्वजोऽस्यास्तीति । ध्वज +

मतुप् । मस्य वः ।) केतनयुक्तः । ब्राह्मणो
ब्राह्मणं घातयित्वा तस्यैव शिरःकपालमादाय
तीर्थान्यनुसञ्चरेत् । यथा, --
“शिरःकपाली ध्वजवान् भिक्षार्थी कर्म्म वेदयन् ।
ब्रह्महा द्बादशाब्दानि मितभुक् शुद्धिमाप्नुयात् ॥
ध्वजवान् कृत्वा शवशिरोध्वजमिति मनुस्मर-
णात् अन्यच्छिरःकपालन्दण्डाग्रसमारोपित-
ध्वजशब्दवाच्यं गृह्णीयात् ॥” इति मिताक्षरा ॥
(ध्वजः शौण्डिकविपणिपताका विद्यतेऽस्येति ।
शौण्डिकः । यथा, मनुः । ४ । ८४ ।
“न राज्ञः प्रतिगृह्णीयादराजन्यप्रसूतितः ।
सूनाचक्रध्वजवतां वेशेनैव च जीवताम् ॥”)

ध्वजिनी, स्त्री, (ध्वजोऽस्त्यस्याः । ध्वज + इनिः ।

ङीप् ।) सेना । इत्यमरः । २ । ८ । ७८ ॥
(यथा, रघुः । ७ । ४० ।
“मत्स्यध्वजा वायुवशाद्विदीर्णै-
र्मुखैः प्रवृद्धध्वजिनीरजांसि ।
बभुः पिबन्तः परमार्थमत्स्याः
पर्य्याविलानीव नवोदकानि ॥”)

ध्वजी, [न्] पुं, (ध्वजोऽस्त्यस्येति । ध्वज + “अत

इनिठनौ ।” ५ । २ । ११५ ॥ इति इनिः ।) ब्राह्मणः ।
पर्व्वतः । रथः । सर्पः । घोटकः । इति मेदिनी ।
ने, ७७ ॥ मयूरः । इति राजनिर्घण्टः ॥ शौण्डिकः ।
इति हेमचन्द्रः ॥ (यथा, याज्ञवल्क्ये । १ । १४१ ।
“प्रतिग्रहे सूनिचक्रिध्वजिवेश्यानराधिपाः ॥”
ध्वजविशिष्टे, त्रि । यथा, महाभारते । १ ।
२२६ । २८ ।
“कृतास्त्रौ शस्त्रसम्पन्नौ रथिनौ ध्वजिनावपि ॥”
चिह्नयुक्ते च । यथा, मनुः । ११ । ९३ ।
“सुरापानापनुत्यर्थं बालवासा जटी ध्वजी ॥”)

ध्वजोत्थानं, क्ली, (ध्वजस्य इन्द्रध्वजस्य उत्-

थानम् ।) शक्रोत्सवः । इति त्रिकाण्डशेषः ॥
एतव् भाद्रशुक्लद्बादश्यां भवति । इति स्मृतिः ॥

ध्वण, ध्वाने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) वकारयुक्तः । ध्वणति मृदङ्गः ।
इति दुर्गादासः ॥

ध्वन, त् क शब्दे । इति कविकल्पद्रुमः ॥ (अदन्त-

चुरां परं-अकं-सेट् ।) दन्त्योपधः । भाषवचा-
दीनां प्रयोगादन्यत्र शब्दे ध्वनावित्यादि यत्र
श्रूयते प्रायेण तत्राव्यक्तशब्दे इति बोध्यम् ।
ध्वनयति मृदङ्गः । इति दुर्गादासः ॥

ध्वन, मि रवे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) वकारयुक्तः । मि, ध्वनयति
ध्वानयति मृदङ्गः । इति दुर्गादासः ॥

ध्वनः, पुं, (ध्वन ध्वाने + भावे बाहुलकात् अप् ।)

शब्दः । इति भरतद्विरूपकोषः ॥

ध्वनमोदी, [न्] पुं, (ध्वनेन शब्देन मोदयतीति ।

मुद + णिनिः ।) भ्रमरः । इति शब्दरत्नावली ॥

ध्वनिः, पुं, (ध्वननमिति । ध्वन + “खनिकष्यञ्ज्य-

सीति ।” उणां ४ । १३९ । इति इः ।) शब्दः ।
इत्यमरः । १ । ७ । २२ ॥ मृदङ्गादिशब्दः ।
यथा, --
“शब्दो ध्वनिञ्च वर्णश्च मृदङ्गादिभवध्वनिः ।
कण्ठसंयोगजन्मानो वर्णास्ते कादयो मताः ॥”
इति भाषापरिच्छेदः ॥
(धन्यतेऽस्मिन्निति । ध्वन + अधिकरणे इः ।)
उत्तमकाव्यम् । यथा, --
“इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद्ध्वनिर्बुधैः
कथितः ॥”
इति काव्यप्रकाशः ॥
(यथाच साहित्यदर्पणे । ४ । २ -- ३ ।
“वाच्यातिशयिनि व्यङ्ग्ये ध्वनिस्तत् काव्यमुत्तमम् ।
वाच्यादधिकचमत्कारिणि व्यङ्ग्यार्थे धन्यतेऽस्मि-
न्निति व्युत्पत्त्या ध्वनिर्नामोत्तमं काव्यम् ॥
भेदौ ध्वनेरपि द्वावुदीरितौ लक्षणाभिधामूलौ ।
अविवक्षितवाच्योऽन्यो विवक्षितान्यपरवाच्यश्च ॥
तत्राविवक्षितवाच्यो नाम लक्षणामूलो ध्वनिः ।
लक्षणामूलत्वादेवात्र वाच्यमविवक्षितं वाधित-
स्वरूपम् । विवक्षितान्यपरवाच्यस्त्वभिधामूलः ।
अतएवात्र वाच्यं विवक्षितम् । अन्यपरं व्यङ्ग्य-
निष्ठम् । अत्र हि वाच्योऽर्थः स्वरूपं प्रकाशयन्नव
व्यङ्ग्यार्थस्य प्रकाशकः । यथा प्रदीपो घटस्य ।
अभिधामूलस्य बहुविषयतया पश्चान्निर्द्देशः ॥”
अस्य बहवो भेदाः सन्ति । ते तु तत्रैव चतुर्थ-
परिच्छेदे विस्तरशो द्रष्टव्याः ॥)

ध्वनिग्रहः, पुं, (ग्रह + भावे अप् । ध्वनेः शब्दस्य

ग्रहो ग्रहणं यस्मात् ।) श्रोत्रम् । इति त्रिकाण्ड-
शेषः ॥ शब्दज्ञानञ्च ॥

ध्वनितः, त्रि, (ध्वन्यते स्मेति । ध्वन + क्तः ।)

शब्दितः । कृतस्वनमृदङ्गादिः । इति भरतः ॥
तत्पर्य्यायः । स्वनितः २ । इत्यमरः । ३ । १ ।
९४ ॥ (यथा, राजतरङ्गिण्याम् । २ । ८९ ।
“समीरणसमाकीर्णमुण्डरन्ध्राग्रनिर्गतैः ।
ध्वनितैरनुशोचन्तमिवावस्थां तथाविधाम् ॥”)
ध्वनिकाव्ययुक्तवाक्यादिश्च ॥

ध्वनिनाला, स्त्री, (ध्वन्युत्पादकं नालं यस्याः ।)

वीणा । वेणुः । काहलः । इति मेदिनी । ले,
१५५ ॥

ध्वनिविकारः, पुं, (ध्वनेर्विकारः ।) काकुः ।

शोकभयादिना शब्दविकृतिः । इति हेमचन्द्रः ।
६ । ४६ ॥

ध्वन्स, उ ऌ ङ गतौ । भ्रंशे । इति कविकल्पद्रुमः ॥

(भ्वां-आत्मं-गतौ सकं-भ्रंशे अकं-सेट् । उदि-
त्वात् क्त्रावेट् ।) उ, ध्वंसित्वा ध्वस्त्वा । ऌ,
अध्वसत् । ङ, ध्वंसते । भ्रंशः अधःपतनम् ।
इति दुर्गादासः ॥

ध्वस्तं, त्रि, (धस्यते स्मेति । धन्स भ्रंशे + क्तः ।)

च्युतम् । गलितम् । इत्यमरः । ३ । १ । १०४ ॥
(यथा, भागवते । ७ । २ । ३० ।
“प्रकीर्णकेशं ध्वस्ताक्षं रभसा दष्टदच्छदम् ॥”)
नष्टम् । (यथा, पञ्चदश्याम् । ७ । १४१ ।
“क्षुधया पीड्यमानोऽपि न विषं ह्यत्तुमिच्छति ।
मिष्टान्नध्वस्ततृड्जानन्नामूढस्तज्जिघत्सति ॥”)

ध्वा(ध्मा)क्ष, इ काङ्क्षे । घोररुते । इति कविकल्प-

द्रुमः ॥ (भ्वां-परं-सकं-अकं-च सेट् ।) घोररुत-
मिह तिरश्चामेव घोरशब्दः । इ, ध्वा(ध्मा)ङ्क्षति
काकः । नमध्यपाठेनैव सिद्धे अस्येदनुबन्धो वेदे-
षूच्चारणभेदार्थः । इति दुर्गादासः ॥

ध्वा(ध्मा)ङ्क्षः, पुं, (ध्वा(ध्मा)ङ्क्षति उच्चैः रौतीति ।

ध्वा(ध्मा)क्षि घोररुते + अच् ।) काकः । (यथा,
मृच्छकटिके ९ अङ्के ।
“शुष्कवृक्षस्थितो ध्वा(ध्मा)ङ्क्ष आदित्याभिमुख-
स्तथा ।
मयि चोदयते वामं चक्षुर्घोरमशंशयम् ॥”)
मत्स्यभक्षकपक्षी । इत्यमरः । ३ । ३ । २१८ ॥
तक्षकः । भिक्षुकः । इति मेदिनी । षे, १६ ॥

ध्वाङ्क्षजङ्घा, स्त्री, (ध्वाङ्क्षस्य जङ्घेव आकृति-

र्यस्याः ।) काकजङ्घा । इति राजनिर्घण्टः ॥

ध्वाङ्क्षजम्बूः, स्त्री, (ध्वाङ्क्षः काकस्तद्बत् कृष्णवर्णा

जम्बूः । यद्बा, ध्वाङ्क्षप्रिया जम्बूः ।) काकजम्बूः ।
इति राजनिर्घण्टः ॥

ध्वाङ्क्षतुण्डी, स्त्री, (ध्वाङ्क्षस्य तुण्डमिवाकृतिः फले-

ऽस्त्यस्याः । ध्वाङ्क्षतुण्ड + अच् । ततो ङीष् ।)
काकनासालता । इति राजनिर्घण्टः ॥

ध्वाङ्क्षदन्ती, स्त्री, (ध्वाङ्क्षस्य दन्त इवाकृतिरस्त्यस्याः ।

अच् । ङीष् ।) काकतुण्डी । इति राज-
निर्घण्टः ॥

ध्वाङ्क्षनखी, स्त्री, (ध्वाङ्क्षस्य नखमिवाकृति-

रस्त्यस्याः । अच् । ङीष् ।) काकतुण्डी । इति
राजनिर्घण्टः ॥

ध्वाङ्क्षनाम्नी, स्त्री, (ध्वाङ्क्षस्य नाम नाम यस्याः ।)

काकोदुम्बरिका । इति राजनिर्घण्टः ॥

ध्वाङ्क्षनाशिनी, स्त्री, (ध्वाङ्क्षं नाशयतीति । नश +

णिनि । ङीप् ।) हपुषा । इति भावप्रकाशः ॥

ध्वाङ्क्षनासा, स्त्री, (ध्वाङ्क्षस्य नासा इव फल-

मस्याः ।) काकनासालता । इति राज-
निर्घण्टः ॥
पृष्ठ २/८१३

ध्वाङ्क्षनासिका, स्त्री, (ध्वाङ्क्षस्य नासिका इव फल-

मस्याः ।) काकनासालता । इति राज-
निर्घण्टः ॥

ध्वाङ्क्षपुष्टः, पुं, (ध्वाङ्क्षेण काकेन पुष्टः प्रति-

पालितः ।) कोकिलः । इति हारावली । ४४ ॥

ध्वाङ्क्षमाची, स्त्री, (ध्वाङ्क्षान् काकान् मञ्चते

पूजयति फलदानेनेति । मञ्च पूजायाम् +
अण् । गौरादित्वात् ङीष् ।) काकमाची ।
इति राजनिर्घण्टः ॥

ध्वाङ्क्षवल्ली, स्त्री, (ध्वाङ्क्षवत् वल्ली लता ।) काक-

नासा । इति राजनिर्घण्टः ॥

ध्वाङ्क्षादनी, स्त्री, (अद्यते भक्ष्यते या सा । अद

+ ल्युट् । स्त्रियां ङीप् । ध्वाङ्क्षाणां काकानाम-
दनी ।) काकतुण्डी । इति राजनिर्घण्टः ॥

ध्वाङ्क्षारातिः, पुं, (ध्वाङ्क्षाणामरातिः शत्रुः ।)

पेचकः । इति हलायुधः ॥

ध्वाङ्क्षी, स्त्री, (ध्वाङ्क्षवदाकृतिरस्त्यस्याः । अच् ।

ङीष् ।) कक्कोलिका । इति मेदिनी । षे, १६ ॥

ध्वाङ्क्षोली, स्त्री, काकोली । इति राजनिर्घण्टः ॥

ध्वानः, पुं, (ध्वन + भावे धञ् ।) शब्दः । इत्य-

मरः । १ । ७ । २२ ॥ (यथा, राजतरङ्गि-
ण्याम् । ३ । १८ ।
“शशामाक्रन्दितध्वानो न च चौरो व्यभाव्यत ॥”)

ध्वान्तं, क्ली, (ध्वन + “क्षुब्धस्वान्तध्वान्तेति ।” ७ ।

२ । १८ । इति क्तप्रत्ययेन निपातनात् साधुः ।)
अन्धकारः । इत्यमरः । १ । ८ । ३ ॥ (यथा,
भागवते । ३ । ८ । २४ ।
“फणातपत्रायुतमूर्द्धरत्न-
द्युभिर्हतध्वान्तयुगान्ततोये ॥”)

ध्वान्तवित्तः, पुं, (ध्वान्ते अन्धकारे वित्तः प्रथितः ।)

खद्योतः । इति शब्दरत्नारली ॥

ध्वान्तशात्रवः, पुं, (ध्वान्तस्य शात्रवः ।) श्योणाक-

वृक्षः । इति शब्दचन्द्रिका ॥ सूर्य्यचन्द्राग्नयश्च ॥

ध्वान्तारातिः, पुं, (ध्वान्तस्य अरातिः ।) सूर्य्यः ।

इति हेमचन्द्रः । २ । १० ॥ चन्द्राग्नी च ॥

ध्वान्तोन्मेषः, पुं, (ध्वान्ते उन्मेषः प्रकाशो यस्य ।)

खद्योतः । इति त्रिकाण्डशेषः ॥

ध्वृ, कौटिल्ये । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-अनिट् ।) वकारोपधः । कौटिल्यमिह
कुटिलीकरणम् । ध्वरति तृणं वायुः । इति
दुर्गादासः ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/धावकः&oldid=43981" इत्यस्माद् प्रतिप्राप्तम्