पृष्ठ २/८५१

नागवारिकः, पुं, (नागानां हस्तिनां वारो वार-

णम् । स कार्य्यत्वेनास्त्यस्येति । नागवार + ठन् ।)
राजकुञ्जरः । हस्तिपः । गणस्थराजः । (नागानां
सर्पाणां वारो वारणमस्त्यस्येति ।) गरुडः ।
मयूरः । इति मेदिनी । के, २३० ॥

नागवीटः, पुं, (नाग इव विशेषेण एटति इत-

स्ततो भ्रमतीति । वि + इट गतौ + “इगुपध-
ज्ञेति ।” ३ । १ । १३५ । इति कः ।) टाङ्करः ।
इति त्रिकाण्डशेषः ॥ ड्याकरा इति ख्यातः ॥

नागवीथी, स्त्री, (नागस्येव वीथी पन्थाः ।) अश्वि-

न्यादिनक्षत्रत्रयघटितग्रहस्थानत्रयान्तर्गतोत्तर-
स्थानस्थपथविशेषः । यथा, --
“सर्व्वग्रहाणां त्रीण्येव स्थानानि द्विजसत्तमाः ।
स्थानं जारद्गवं मध्यं तथैरावतमुत्तरम् ।
वैश्वानरं दक्षिणतो निर्द्दिष्टमिह तत्त्वतः ॥
तदेव मध्यमोत्तरदक्षिणमार्गत्रयं प्रत्येकं वीथी-
त्रयेण त्रिधा भिद्यते । तथाहि त्रिभिस्त्रिभि-
रश्विन्यादिनक्षत्रैर्नागवीथी गजवीथी ऐरा-
वती चेत्युत्तरमार्गे वीथीत्रयम् । तथाचोक्तम् ।
अश्विनी कृत्तिका याम्या नागवीथीति
शब्दिता ॥”
इति विष्णुपुराणे । २ । ८ । ७९ श्लोकटीकायां
श्रीधरस्वामी ॥ कश्यपापत्यविशेषः । यथा, --
“नागवीथी च यामिन्याम् ।” इति ब्रह्मपुराणे
द्वितीयोऽध्यायः ॥ (धर्म्मस्य यामिपत्नीगर्भजाता
कन्या । यथा, मत्स्यपुराणे । ५ । १८ ।
“लम्बायां घोषनामानो नागवीथी तु यामिजा ॥”)

नागशुण्डी, स्त्री, (नागस्य शुण्डवत् आकृतिरस्त्य-

स्येति । अच् । ततो गौरादित्वात् ङीष् ।)
डङ्गरीफलम् । इति राजनिर्घण्टः ॥

नागसम्भवं, क्ली, (नागात् सीसकात् सम्भवो यस्य ।)

सिन्दूरम् । इत्यमरः । २ । ९ । १०५ ॥

नागसुगन्धा, स्त्री, (नागस्येव सु शोभनो गन्धो

यस्याः ।) भुजङ्गाक्षी । सर्पसुगन्धा । इति
भरतधृतस्वामी ॥ (रास्नाभेदः । तत्पर्य्यायो
यथा, --
“नाकुली सरसा नागसुगन्धा गन्धनाकुली ।
बकुलेष्टा भुजङ्गाक्षी सर्पाङ्गी विषनाशिनी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

नागस्तोककं, क्ली, (नागस्य नागविषस्य स्तोकः

स्वल्पता यत्र । कप् । स्थावरविषत्वादेवास्य
तथात्वम् ।) वत्सनाभः । इति राजनिर्घण्टः ॥

नागस्फोता, स्त्री, (नाग इव स्फोता ।) दन्ती ।

नागदन्ती । इति राजनिर्घण्टः ॥

नागहनुः, पुं, (नागस्य हस्तिनो हनुरिव ।) नख-

नामगन्धद्रव्यम् । इति राजनिर्घण्टः ॥

नागहन्त्री, स्त्री, (नागान् हन्तीति । हन + तृच् +

ङीप् ।) वन्ध्याकर्कोटकी । इति राजनिर्घण्टः ॥

नागाख्यः, पुं, (नाग एव आख्या यस्य ।) नाग-

केशरः । इति त्रिकाण्डशेषः ॥

नागाञ्चला, स्त्री, नागयष्टिः । इति जटाधरः ॥

नागाञ्जना, स्त्री, हस्तिनी । (नागस्येव अञ्जनं

कृष्णवर्णत्वं यस्याः ।) नागयष्टिः । इति मेदिनी ।
ने, १८८ ॥

नागाधिपः, पुं, (नागानां अधिपः ।) अनन्तः ।

इति हेमचन्द्रः । ४ । ३७३ ॥

नागान्तकः, पुं, (नागानां अन्तको विनाशकः ।)

गरुडः । इत्यमरः । १ । १ । ३१ ॥

नागारातिः, पुं, (नागानां अरातिः शत्रुः ।)

वन्ध्याकर्कोटकी । इति राजनिर्घण्टः ॥

नागालावुः, स्त्री, (नाग इव अलावुः ।) कुम्भ-

तुम्बी । इति राजनिर्घण्टः ॥

नागाशनः, पुं, (अश्नातीति । अश + ल्युः । नागानां

अशनो भक्षकः ।) गरुडः । इति हारावली । १० ॥

नागाह्वं, क्ली, (नागस्य आह्वा नाम आह्वा

यस्य ।) हस्तिनापुरम् । इति त्रिकाण्डशेषः ॥

नागाह्वा, स्त्री, (नागं नागकेशरं आह्वयते स्पर्द्धते

इति । आ + ह्वे + अच् । टाप् ।) लक्ष्मणा-
कन्दः । इति राजनिर्घण्टः ॥

नागी, स्त्री, (नागस्य स्थूला पत्नी । नाग + जान-

पदेति स्थौल्यार्थे ङीष् ।) नागपत्नी । इति
मुग्धबोधम् ॥ (अस्याः दधिगुणा यथा, --
“लघु पाके बलासघ्नं वीर्य्योष्णं पक्तिनाशनम् ।
कषायानुरसं नाग्या दधि वर्च्चो विवर्द्धनम् ॥”
इति सुश्रुते सूत्रस्थाने ४५ अध्याये ॥)

नागोदं, क्ली, (नागवदुदरं यस्मात् । पृषोदरादि-

त्वात् रलोपः ।) उदरत्राणम् । इति हेम-
चन्द्रः । ३ । ४३२ ॥

नागोदरं, क्ली, (नागवत् बृहदुदरं यस्मात् ।)

उरस्त्राणम् । इति हारावली । १९८ ॥ (गर्भिण्या
गर्भोपद्रवविशेषः । यथा, सुश्रुते शरीरस्थाने ।
१० अध्याये ।
“शुक्रशोणितं वायुनाभिप्रपन्नमवक्रान्तजीवमा-
ध्मापयत्युदरं तत् कदादित् यदृच्छया उपशान्तं
नैगमेषापहृतमिति भाषन्ते । तमेव कदाचित्
प्रलीयमानं नागोदरमित्याहुः । तत्रापि लीन-
वत् प्रतीकारः ॥”)

नाचिकेतः, पुं, नचिकताः । अग्निः । यथा, --

“स त्वमग्निं£ स्वर्ग्यमध्येषि मृत्यो
प्रब्रूहि तं£ श्रद्दधानाय मह्यम् ।
स्वर्गलोका अमृतत्वं भजन्त
एतद्द्वितीयेन वृणे वरेण ॥
प्र ते ब्रवीमि तदु मे निबोध
स्वर्ग्यमग्निं नचिकेतः प्रजानन् ।
अनन्तलोकाप्तिमथो प्रतिष्ठां
विद्धि त्वमेनं निहितं गुहायाम् ॥
लोकादिमग्निं तमुवाच तस्मै
या इष्टका यावतीर्व्वा यथा वा ।
स चापि तत्प्रत्यवदद्यथोक्त-
मथास्य मृत्युः पुनराह तुष्टः ।
तमब्रवीत् प्रीयमाणो महात्मा
वरं तवेहाद्य ददामि भूयः ।
तवैव नाम्ना भवितायमग्निः
सृङ्कां चेमामनेकरूपां गृहाण ॥
त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं
त्रिकर्म्मकृत्तरति जन्ममृत्यू ।
ब्रह्मयज्ञं देवमीड्यं विदित्वा
निचाय्येमां£ शान्तिमत्यन्तमेति ॥
त्रिणाचिकेतस्त्रयमेतद्विदित्वा
य एवं विद्वां£श्चिनुते नाचिकेतम् ।
स मृत्युपाशान् पुरतः प्रणोद्य
शोकातिगो मोदते स्वर्गलोके ॥”
इति कठोपनिषदि प्रथमा वल्ली । १३-१८ ॥
(ऋषिविशेषः । अस्य विवरणं यथा, महा-
भारते । १३ । ७१ । २ -- २१ ।
“अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
ऋषेरुद्दालकेर्व्वाक्यं नाचिकेतस्य चोभयोः ॥
ऋषिरुद्दालकिर्धीमानुपगम्य ततः सुतम् ।
त्वं मामुपचरस्वेति नाचिकेतमभाषत ॥
समाप्ते नियमे तस्मिन् महर्षिः पुत्त्रमब्रवीत् ।
उपस्पर्शनशक्तस्य स्वाध्यायाभिरतस्य च ॥
इध्मा दर्भाः सुमनसः कलसश्चातिभोजनम् ।
विस्मृतं मे तदादाय नदीतीरादिहाव्रज ॥
गत्वानवाप्य तत् सर्व्वं नदीवेगसमाप्लुतम् ।
न पश्यामि तदित्येव पितरं सोऽब्रवीन्मुनिः ॥
क्षुत्पिपासाश्रमाविष्ट ऋषिरुद्दालकिस्तदा ।
यमं पश्येति तं पुत्त्रमशपत् स महातपाः ॥
तथा स पित्राभिहितो वाग्वज्रेण कृताञ्जलिः ।
प्रसीदेति ब्रुवन्नेव गतसत्त्वोऽपतद्भुवि ॥
नाचिकेतं पिता दृष्ट्वा पतितं दुःखमूर्च्छितः ।
किं मया कृतमित्युक्त्वा निपतात महीतले ॥
तस्य दुःखपरीतस्य स्वं पुत्त्रमनुशोचतः ।
व्यतीतं तदहःशेषं सा चोग्रा तत्र शर्व्वरी ॥
पित्रेनाश्रुप्रपातेन नाचिकेतः कुरूद्बह ।
प्रास्पन्दच्छयने कौश्ये वृष्ट्या शस्यमिवाप्लुतम् ॥
स पर्य्यपृच्छत्तं पुत्त्रं क्षीणं पर्य्यागतं पुनः ।
दिव्यैर्गन्धैः समादिग्धं क्षीणस्वप्नमिवोत्थितम् ॥
अपि पुत्त्र जिता लोकाः शुभास्ते स्वेन कर्म्मणा ।
दिष्ट्या चासि पुनः प्राप्तो नहि ते मानुषं
वपुः ॥
प्रत्यक्षदर्शी सर्व्वस्य पित्रा पृष्टो महात्मना ।
स तां वार्त्तां पितुर्म्मध्ये महर्षीणां न्यवेदयत् ॥
कुर्व्वन् भवच्छासनमाशु यातो
ह्यहं विशालां रुचिरप्रभावाम् ।
वैवस्वतीं प्राप्य सभामपश्यं
सहस्रशो योजनहेमभासम् ॥
दृष्ट्वै व मामभिमुखमापतन्तं
देहीति स ह्यासनमादिदेश ।
पृष्ठ २/८५२
वैवस्वतोऽर्ध्यादिभिरर्हणैश्च
भवत्कृते पूजयामास मां सः ॥
ततस्त्वहं तं शनकैरवोचं
वृतः सदस्यैरभिपूज्यमानः ।
प्राप्तोऽस्मि ते विषयं धर्म्मराज !
लोकानर्हेयानहं तान् विधत्स्व ॥
यमोऽब्रवीन्मां न मतोऽसि सौम्य
यमं पश्येत्याह स त्वान्तपस्वी ।
पिता प्रदीप्ताग्निसमानतेजा
न तच्छक्यमनृतं विप्रकर्त्तुम् ॥
दृष्टस्तेऽहं प्रतिगच्छस्व तात
शोचत्यसौ तव देहस्य कर्त्ता ।
ददानि किञ्चापि मनःप्रणीतं
प्रिथातिथेस्तव कामान् वृणीष्व ॥
तेनैवमुक्तस्तमहं प्रत्यवोचं
प्राप्तोऽस्मि ते विषयं दुर्निवर्त्त्यम् ।
इच्छाम्यहं पुण्यकृतां समृद्धान्
लोकान् द्रष्टुं यदि तेऽहं वरार्हः ॥
यानं समारोप्य तु मां स देवो
वाहैर्युक्तं सुप्रभं भानुमत्तत् ।
सन्दर्शयामास तदात्मलोकान्
सर्व्वांस्तथा पुण्यकृतां द्विजेन्द्र ! ॥”)

नाचिकेतुः, पुं, अग्निः । इति त्रिकाण्डशेषः ॥

नाटः, पुं, (नट + भावे घञ् ।) नृत्यम् । देश-

विशेषः । कर्णाटक इति ख्यातः । इति शब्द-
रत्नावली ॥ (तद्देशवासिनि, त्रि । यथा, राज-
तरङ्गिण्याम् । १ । ३०२ ।
“व्यावृत्य चोलकर्णाटनाटादींश्च नरेश्वरान् ॥”)

नाटकं, क्ली, (नाटयतीति । नट + णिच् + ण्वुल् ।)

गद्यपद्यप्राकृतभाषादिमयग्रन्थविशेषः । तत्-
पर्य्यायः । महारूपकम् २ । इति त्रिकाण्ड-
शेषः ॥ तस्य लक्षणं यथा, --
“नाटकं ख्यातवृत्तं स्यात् पञ्चसन्धिसमन्वितम् ।
विलासर्द्ध्यादिगुणवत् युक्तं नानाविभूतिभिः ॥
सुखदुःखसमुद्भूतिनानारससमन्वितम् ।
पञ्चादिका दशपरास्तत्राङ्काः परिकीर्त्तिताः ॥
प्रख्यातवंशो राजर्षिर्धीरोदात्तः प्रतापवान् ।
दिव्योऽथ दिव्यादिव्यो वा गणवान्नायको मतः ॥
एक एव भवेदङ्गी शृङ्गारो वीर एव वा ।
अङ्गमन्ये रसाः सर्व्वे कार्य्यं निर्व्वहणेऽद्भुतम् ॥
चत्वारः पञ्च वा मुख्याः कार्य्यव्यापृतपूरुषाः ।
गोपुच्छाग्रसमाग्रन्तु बन्धनं तस्य कीर्त्तितम् ॥”
इति साहित्यदर्पणे । ६ । २७७ ॥
अपि च ।
“नाटकं स्यात् प्रकरणं व्यायोगोऽङ्कस्तथा डिमः ।
ईहामृगः प्रहसनं भानः समरकारकः ॥
वीथीति भरतः प्राह नाट्येषु दशरूपकम् ।
नाटिका प्रेक्षणञ्चैव त्रोटकं शाकटं तथा ॥
गोष्टीसंलापशिल्पानि भानीहल्लीशरासकौ ।
उल्लापकं श्रीगदितं प्रस्थानं नाट्यरासकम् ॥
दुर्म्मल्लिका लासिका च काव्यञ्चेत्युपरूपकम् ।
स्यात सप्तदश संख्यन्तु लक्षणस्तत्र कथ्यते ॥
प्रख्यातोत्तमनायकं रसमयं राजर्षिवंशोद्भवं
साङ्कं भङ्गजयान्वितं लयमयं तत्तत्पुराणाश्रयम् ।
भाषावैभवसुन्दरं प्रविलसन्नानाविलासं बलद्-
वृत्तिव्याप्तमशेषसन्धिसहितं सप्ताङ्गवन्नाटकम् ॥”
अन्ये तु ।
“देवतानां मनुष्याणां राज्ञां लोके महात्मनाम् ।
पूर्ब्बवृत्तानुचरितं प्रख्यातोदात्तनायकम् ॥
प्रवेशकविविष्कम्भादिभिः सन्धिभिरन्वितम् ।
इतिहासकथोद्भूतं सुखदुःखोदयैर्युतम् ॥
षट्पञ्चदशसप्ताष्टनवाङ्कैरनुभूषितम् ।
नानाविलासलीलाभिः सर्व्वसिद्धिभिरन्वितम् ॥
नानाभावरसैराढ्यं नाटकं सूरयो विदुः ।
किञ्चिदङ्गविहीनन्तु न त्याज्यं नाटकं क्वचित् ॥
आरम्भश्च प्रयत्नश्च प्राप्तिः सम्भव एव च ।
नियता च फलप्राप्तिः फलयोगस्तथापरः ॥
इत्यवस्थाप कं स्यात् नाटके कार्य्यवस्तुनः ।
संस्कृतं प्राकृतं भूतभाषाप्रभ्रंशिका गिरः ।
नाटके नियताः शस्ता एषा भाषा रसावहा ॥
भाषाविभाषाभेदेन प्राकृतन्तु चतुर्द्दश ॥
मागध्यावन्तिका प्राच्या शौरसेन्यर्द्धमागधी ।
वाह्लीका दाक्षिणात्याश्च भाषाः सप्त च प्राकृते ॥
शकाराभीरचाण्डालशवरद्रविडौड्रजाः ।
वनौकसीविज्रातीनां विभाषाः सप्त कीर्त्तिताः ॥
कैकेयी शौरसेनी च काञ्ची पाञ्चालमागधी ।
द्राविडी पाण्डुदेशी च भूतभाषा प्रकीर्त्तिताः ॥
वैदर्भी मागधी नाटी काम्बोजी चोपनागरी ।
पाञ्चाली षडपभ्रंशभाषा स्युर्द्देशभेदतः ॥
देवतादर्शनान्तञ्च कर्त्तव्यं नाटकं बुधैः ।
राजर्षिदर्शनान्तं या तेऽपि देवैः समा मताः ॥
उदाहरणम् । मुरारिकवेरनर्घराघवं भवभूते-
रुत्तररामचरितं कालिदासस्याभिज्ञानशकु-
न्तलञ्चेत्यादि । इति नाटकलक्षणम् ।” इति
सङ्गीतदामोदरः ॥

नाटकः, पुं, (नट्यते नृत्यते देवयोनिभिरत्र । नट +

घञ् । ततः स्वार्थे कन् । यद्बा, नाटयतीति
नट + णिच् + ण्वुल् ।) कामाख्यास्थपर्व्वतभेदः ।
यथा, --
“ऐशान्यां नाटके शैले शङ्करस्य महाश्रमम् ।
नित्यं वसति तत्रेशस्तदधीना तु पार्व्वती ॥”
इति कालिकापुराणम् ॥
(नाटकशाला । यथा, रामायणे । १ । ५ । १२ ।
“बधूनाटकसङ्घैश्च संयुक्तां सर्व्वतः पुरीम् ॥”
नटतीति । नट + ण्वुल् ।) नर्त्तके, त्रि । इति
व्याकरणम् ॥

नाटाम्रः, पुं, तरम्बुजः । तत्पर्य्यायः । चेलालः २

चित्रफलः ३ सुखाशः ४ राजतेमिषः ५ लता-
पनसः ६ सेदुः ७ । इति त्रिकाण्डशेषः ॥

नाटारः, पुं, (नट्या नटस्य वा अपत्यम् । “आर-

गुदीचाम् ।” ४ । १ । १३० । इति आरक् ।)
नट्या अपव्यम् । इति मुग्धबोधव्याकरणम् ॥

नाटिका, स्त्री, (नाटक + टापि अत इत्वम् ।)

नाटकविशेषः । यथा, --
“कैशिकीवृत्तिसंयुक्ता नारीपरिजनोज्ज्वला ।
चतुर्थसन्धिहीना च नाटिका नृपनायिका ॥
इयं शृङ्गारबहुला ततः स्यात् कैशिकीमयी ।
मृद्बीयं कैशिकीवृत्तिर्न स्यादन्यरसाश्रया ॥
न कुञ्जरकराघातमात्रं शक्नोति कन्दली ।
लास्यां विटः पीठमर्द्दः सञ्चयो वाद्यसञ्चयः ॥
अन्तःपुरचरो राज्ञ ईषद्विद्यो विदूषकः ।
अत्र भार्य्याजितो राजा निभृतः काममाचरेत् ॥
अन्तःपुरगतां कन्यां देवीगुप्तां यियासति ।
मन्त्रिणि न्यस्तराज्यस्तु सुखसंस्थापितः प्रभुः ॥
युवा भूमिपतिः प्रायो निभृतः काममाचरेत् ॥
कन्यामिह परिणयविषयां देवीगुप्तां महिषीं
ज्ञानविरहेण ॥ एके तु ।
चतुर्भिरङ्कैरुत्पाद्यन्तिसृभिर्नृ पनायकम् ।
यत् कैशिकीरसप्रायं नाटकं सैव नाटिका ॥
पूर्ब्बक्रमान्नाटकक्रमाद्रत्नावली नाटिका ।
एवमन्यश्चेद्बोद्धव्यः ।” इति सङ्गीतदामोदरः ॥
(अस्या लक्षणं यथा, साहित्यदर्पणे । ६ । ५३९ ।
“नाटिका कऌप्तवृत्ता स्यात् स्त्रीप्राया चतु-
रङ्किका ।
प्रख्यातो धीरललितस्तत्र स्यान्नायको नृपः ॥
स्यादन्तःपुरसम्बन्धा सङ्गीतव्यापृताथवा ।
नवानुरागा कन्यात्र नायिका नृपवंशजा ॥
सम्प्रवर्त्तेत नेतास्यां देव्यास्त्रासेन शङ्कितः ।
देवी पुनर्भवेज्ज्येष्ठा प्रगल्भा नृपवंशजा ॥
पदे पदे मानवती तद्वशः सङ्गमो द्वयोः ।
वृत्तिः स्यात् कौशिकी स्वल्पविमर्षाः सन्धयः
पुनः ॥”)

नाटेयः, पुं, (नट्या अपत्यम् । नटी + ढक् ।)

नटीसुतः ! इति मुग्धबोधव्याकरणम् ॥

नाटेरः, पुं, (नट्या अपत्यमिति । नटी + ढ्रक् ।)

नटीसुतः । इति हेमचन्द्रः । ३ । २१२ ॥

नाट्यं, क्ली, (नटानां कार्य्यम् । नट + “छन्दोगौक्-

थिकयाज्ञिकबह्वृचनटात् ञ्यः ।” ४ । ३ । १२९ ।
इति ञ्यः ।) नृत्यगीतवाद्यम् । तत्पर्य्यायः ।
तौर्य्यत्रिकम् २ । इत्यमरः । १ । ७ । १० ॥
(यथा, देवीभागवते । १ । ७ । ३० ।
“नाट्यं तनोषि सगुणा विविधप्रकारं
नो वेत्ति कोऽपि तव कृत्यविधानयोगम् ॥”)
नटानां समूहः । इति व्याकरणम् ॥ नाट्या-
रम्भनक्षत्राणि यथा । अनुराधा १७ धनिष्ठा
२३ पुष्यः ८ हस्ता १३ चित्रा १४ स्वाती १५
ज्येष्ठा १८ शतभिषा २४ रेवती २७ ॥ इति
ज्योतिषम् ॥ * ॥ नाट्यफलं यथा, --
“देवर्षिक्षितिपालपूर्ब्बचरितान्यालोक्य धर्म्मादय-
स्तत्स्तावाश्रितभूमिकाभिनयने स्यादर्थसिद्धिः
परा ।
संगीतायुतचित्तवृत्तिभरणा वश्या भवन्त्यङ्गना
ज्ञानं शङ्करसेवयेति कथितं नाट्यं चतुर्व्वर्ग-
दम् ॥
यो यस्य दयितो भावः स तं नाट्ये निरीक्षते ।
अतः सर्व्वमनोहारि नाट्यं कस्य न रञ्जकम् ॥”
पृष्ठ २/८५३
नाट्योत्पत्तिर्यथा, --
“इहानुश्रूयते ब्रह्मा शक्रेणाभ्यर्थितः पुरा ।
चकाराकृष्य वेदेभ्यो नाट्यवेदन्तु पञ्चमम् ॥
उपवेदोऽथ वेदाश्च चत्वारः कथिताः स्मृतौ ।
तत्रोपवेदो गान्धर्व्वः शिवेनोक्तः स्वयम्भुवे ॥
तेनापि भरतायोक्तस्तेन मर्त्ये प्रचारितः ।
शिवाब्जयोनिभरतास्तस्मादस्य प्रयोजकाः ॥”
इति सङ्गीतदामोदरः ॥

नाट्यधर्म्मिका, स्त्री, (नाट्यधर्म्मोऽस्त्यस्याः

क्रियाया इति ठन् ।) दर्शनार्थशास्त्रोक्तनाट्यम् ।
यथा, हेमचन्द्रः ।
“गीतवाद्यनृत्यत्रयं नाट्यं तौर्य्यत्रिकञ्च तत् ।
संगीतं प्रेक्षणार्थेऽस्मिन् शास्त्रोक्ते नाट्य-
धर्म्मिका ॥”

नाट्यप्रियः, पुं, (नाट्यं प्रियं यस्य ।) शिवः । इति

हेमचन्द्रः । २ । ११२ ॥

नाट्यशाला, स्त्री, (नाट्यस्य नृत्यगीतादेः शाला

गृहम् ।) प्रासादद्वारसमीपगृहम् । नाट-
मन्दिर इति भाषा । यथा, --
“नाट्यशाला च कर्त्तव्या द्वारदेशसमाश्रया ॥”
इति गरुडपुराणम् ॥

नाट्यालङ्कारः, पुं, (नाट्यस्य अलङ्कारः ।) नाट्य-

भूषणहेतुः । स तु अष्टषष्ठिप्रकारः । यथा, --
“सिद्धिर्म्मनोरथोऽभ्रेशो निरुक्तिश्च विशेषणम् ।
गुणाभिपात उद्दिष्टविचारप्राप्तिनीतयः ॥
अभिप्रायः परीहारो गर्हणानुनयौ तथा ।
अर्थापत्तिः प्रसिद्धिश्च दाक्षिण्यं प्रियभाषणम् ॥
अभिमानाख्यानगर्व्वा हर्षक्षोभोद्यमाश्रयाः ।
पश्चात्तापः स्पृहाक्रन्दौ कपटञ्च प्रवर्त्तनम् ॥
उत्तेजनञ्च दृष्टान्तः शोभोदाहरणे अपि ।
संशयोऽक्षरसंघातो विमलोक्तिः पदोच्चयः ॥
परीवादोऽनुक्तसिद्धिरक्षमाध्यवसायकौ ।
प्रोत्साहनं तुल्यतर्क उपपत्त्यनुतर्कणे ॥
निवेदनञ्च साहाय्यं याच्ञा पृच्छा विशोषणम् ।
अभिज्ञानञ्च स्वारूप्यं गुणकीर्त्तनमुक्तयः ॥
विपर्य्ययश्चातिशयो भूषाहेतुनिदर्शनम् ।
मानालेशश्च संक्षेपसमीहाश्रीविसर्पकाः ॥
उल्लेख उपदिष्टी चेत्यष्टषष्टिमिता अमी ।
अलङ्कारा मता नित्यं नाटकादिषु सूरिभिः ॥”
इति सङ्गीतदामोदरः ॥
(साहित्यदर्पणमते त्रयस्त्रिंशत् नाट्यालङ्काराः ।
यथा, तत्रैव । ६ । २०० -- २३२ ।
“आशीराक्रन्दकपटाक्षमागर्वोद्यमाश्रयाः ।
उत्प्रासनं स्पृहाक्षोभपश्चात्तापोपपत्तयः ॥
आशंसाध्यवसायौ च विसर्पोल्लेखसङ्ज्ञितौ ।
उत्तेजनं परीवादो नीतिरर्थविशेषणम् ॥
प्रोत्साहनञ्च साहाय्यमभिमानोऽनुवर्त्तनम् ।
उत्कीर्त्तनं तथा याच्ञा परीहारो निवेदनम् ॥
प्रवर्त्तनाख्यानयुक्तिप्रहर्षाश्चोपदेशनम् ।
इति नाट्यालङ्कृतयो नाट्यभूषणहेतवः ॥
आशीरिष्टजनाशंसाक्रन्दः प्रलपितं शुचा ।
कपटं मायया यत्र रूपमन्यद्विभाव्यते ॥
अक्षमा सा परिभवः स्वल्पोऽपि नाभिसह्यते ।
गर्वोऽवलेपजं वाक्यं कार्य्यस्यारम्भ उद्यमः ॥
ग्रहणं गुणवत्कार्य्यहेतोराश्रय उच्यते ।
उत्प्रासनन्तूपहासो योऽसाधौ साधुमानिनि ॥
आकाङ्क्षा रमणीयत्वाद्वस्तुनो या स्पृहा तु सा ।
अधिक्षेपवचःकारी क्षोभः प्रोक्तः स एव तु ॥
मोहावधीरितार्थस्य पश्चात्तापः स एव तु ।
उपपत्तिर्मता हेतोरुपन्यासोऽर्थसिद्धये ॥
आशसनं स्यादाशंसा प्रतिज्ञाध्यवसायकः ।
विसर्पी यत्समारब्धं कर्म्मानिष्टफलप्रदम् ॥
कार्य्यग्रहणमुल्लेख उत्तेजनमितीष्यते ।
स्वकार्य्यसिद्धयेऽन्यस्य प्रेरणाय कठोरवाक् ॥
र्भत्सना तु परीवादो नीतिः शास्त्रेण वर्त्तनम् ॥
उक्तस्यार्थस्य यत्तु स्यादुत्कीर्त्तनमनेकधा ।
उपालम्भस्वरूपेण तत् स्यादथविशेषणम् ॥
प्रोत्साहनं स्यादुत्साहगिरा कस्यापि
योजनम् ।
साहाय्यं सङ्कटे यत् स्यात् सानुकूल्यं परस्य च ॥
अभिमानः स एव स्यात् प्रश्रयादनुवत्तनम् ।
अनुवृत्तिर्भूतकार्य्याख्यानमुत्कीर्त्तनं मतम् ॥
याच्ञा तु क्वापि याच्ञायाः स्वयं दूतमुखेन वा ।
परीहार इति प्रोक्तः कृतानुचितमार्ज्जनम् ॥
अवधीरितकर्त्तव्यकथनन्तु निवेदनम् ।
प्रवर्त्तनन्तु कार्य्यस्य यत् स्यात् साधुप्रवर्त्तनम् ॥
आख्यानं पूर्ब्बवृत्तोक्तिः युक्तिरर्थावधारणम् ।
प्रहर्षः प्रमदाधिक्यं शिक्षा स्यादुपदेशनम् ॥”
एतेषामुदाहरणन्तु तत्रैव द्रष्टव्यम् ॥)

नाट्योक्तिः, स्त्री, (नाट्ये नृत्यगीतादौ या उक्तिः ।)

नाटकविषयकवचः । नटानां कर्म्म नाट्यं
तत्रोक्तिः नाट्योक्तिः । इति भरतः ॥ तद्यथा ।
आर्य्येति ब्राह्मणम् । क्षत्त्रियं महाराजेति ।
सखीं हलेति । नीचं हण्डे इति । चेटीं हञ्जे
इति । स्वामिनमार्य्यपुत्त्रेति । राजश्यालं राष्ट्रि-
येति । समानं हंहो इति । राजानं देवेति ।
सार्व्वभौमं भट्टेति । भगिनीपतिमावुत्तेति सम्बो-
धयेत् । इति सङ्गीतदामोदरः ॥ गणिकायां
अज्जुका । विद्वति भावः । जनके आवुकः ।
कुमारे युषराजभर्त्तृदारकौ ॥ राज्ञि देवभट्टा-
रकौ । राजसुतायां भर्त्तृदारिका । कृताभिषे-
कायां राज्ञ्यां देवी । इतरासु राज्ञीषु भट्टिनी ।
अवध्योक्तौ अब्रह्मण्यम् । मातरि अम्बा ।
बालायां वासूः । आर्य्ये मारिषः । ज्येष्ठा-
भगिन्यां अन्तिका । निष्ठायां निर्व्वहणम् ।
इत्यमरः । १ । ७ । ११ -- १५ ॥ (यथाच साहित्य-
दर्पणे । ६ । १५४ -- १६० ।
“अश्राव्यं खलु यद्वस्तु तदिह स्वगतं मतम् ।
सर्व्वश्राव्यं प्रकाशं स्यात्तद्भवेदपवारितम् ॥
रहस्यन्तु यदन्यस्य परावृत्य प्रकाश्यते ।
त्रिपताककरेणान्यानपवार्य्यान्तरा कथाम् ॥
अन्योन्यामन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम् ।
किं ब्रवीषीति यत् नाट्ये विना पात्रं प्रयुज्यते ॥
श्रुत्वेवानुक्तमप्यर्थं तत् स्यादाकाशभाषितम् ॥
दत्तां सिद्धाञ्च सेनाञ्च वेश्यानां नाम दर्शयेत् ।
दत्तप्रायाणि बणिजां चेटचेट्योस्तथा पुनः ॥
वसन्तादिषु वर्ण्यस्य वस्तुनो नाम यद्भवेत् ॥
नाम कार्य्यं नाटकस्य गर्भितार्थप्रकाशकम् ।
नायिकानायकाख्यानां संज्ञाप्रकरणादिषु ॥
नाटिकासट्टकादीनां नायिकाभिर्विशेषणम् ।
प्रायेण ण्यन्तकः साधिर्गमेः स्थाने प्रयुज्यते ॥
राजा स्वामीति देवेति भृत्यैर्भट्टेति चाधमैः ।
राजर्षिभिर्वयस्येति तथा विदूषकेण च ॥
राजन्नित्यृषिभिर्वाच्यः सोऽपत्यप्रत्ययेन च ।
स्वेच्छया नामभिर्षिप्रैर्षिप्र आर्य्येति चेतरैः ॥
वयस्येत्यथवा नाम्ना वाच्यो राज्ञा विदूषकः ।
वाच्यौ नटीसूत्रधारावार्य्यनाम्ना परस्परम् ॥
सूत्रधारं वदेद्भाव इति वै पारिपार्श्विकः ।
सूत्रधारो मारिषेति हण्डे इत्यधमैः समाः ॥
वयस्येत्युत्तमैर्हंहो मध्यैरार्य्येति चाग्रजः ।
भगवन्निति वक्तव्याः सर्व्वैर्देवर्षिलिङ्गिनः ॥
वदेद्राज्ञीञ्च चेटीञ्च भवतीति विदूषकः ।
आयुष्मन्रथिनं सूतो वृद्ध तातेति चेतरैः ॥
वत्स पुत्त्रक तातेति नाम्ना गोत्रेण वा सुतः ।
शिष्योऽनुजश्च वक्तव्योऽमात्य आर्य्येति चाधमैः ॥
विप्रैरयममात्येति सचिवेति च भण्यते ।
साधो इति तपस्वी च प्रशान्तश्चोच्यते बुधैः ॥
अगृहीताभिधः पूज्यः शिष्याद्यैर्विनिगद्यते ।
उपाध्यायेति चाचार्य्यो महाराजेति भूपतिः ॥
स्वामीति युवराजस्तु कुमारो भर्त्तृदारकः ।
सौम्य भद्रमुखेत्येवमधमैस्तु कुमारकः ॥
वाच्या प्रकृतिभी राज्ञः कुमारी भर्त्तृदारिका ॥
पतिर्यथा तथा वाच्या ज्येष्ठमध्याधमैस्त्रियः ।
हलेति सदृशी प्रेष्या हञ्जे वेश्याऽञ्जका तथा ॥
कुट्टिन्यम्बेत्यनुगतैः पूज्या च जरतीजनैः ।
आमन्त्रणैश्च पाषण्डा वाच्याः स्वसमयागतैः ॥
शकादयश्च सम्भाष्या भद्रदत्तादिनामभिः ।
यस्य यत् कर्म्म शिल्पं वा विद्या वा जातिरेव वा ॥
तेनैव नाम्ना वाच्योऽसौ ज्ञेयाश्चान्ये यथोचि-
तम् ॥”)

नाडिः, स्त्री, (नाडयतीति । नड भ्रंशे + णिच् +

इन् ।) नाडी । इत्यमरटीकायां भरतः ॥

नाडिकं, क्ली, (नाडिरिव प्रतिकृतिः । नाडि +

“इवे प्रतिकृतौ ।” ५ । ३ । ९६ । इति कन् ।)
कालशाकम् । इति भावप्रकाशः ॥

नाडिका, स्त्री, (नाडी एव । स्वार्थे कन् ।) षट्-

क्षणः । घडि इति भाषा । तत्पर्य्यायः । साधा-
रिका २ घटिका ३ । इति हेमचन्द्रः । २ । ५१ ॥
घटिकाज्ञानोपायो यथा, --
“निमेषो मानुषो योऽयं मात्रामात्रप्रमाणकः ।
तैः पञ्चदशभिः काष्ठा त्रिंशत् काष्ठास्तथा कला ॥
नाडिका तु प्रमाणेन कला दश च पञ्च च ।
उन्मानेनाम्भसः सा तु पलान्यर्द्धत्रयोदश ॥
हेममाषैः कृतच्छिद्रा चतुर्भिश्चतुरङ्गुलैः ।
मागधेन प्रमाणेन यक्षप्रस्थस्तु संस्मृतः ॥”
इति विष्णुपुराणम् ॥
पृष्ठ २/८५४
“नैमित्तिकलयं प्रपञ्चयिष्यन्निमेषादिक्रमेण प्रथमां-
शोक्तमेव कल्पप्रमाणमनुस्मारयति निमेष इति
सप्तभिः । मात्रैव मात्रं प्रमाणं यस्य । एक-
मात्रलघ्वक्षरोच्चारणकालसंमितो हि निमेषः ।
निमेषकालतुल्या हि मात्रा लघ्वक्षरञ्च यदिति
ब्रह्माण्डोक्तेः । नाडिकाज्ञानोपायमाह ।
उन्मानेनेति सार्द्धेन । अम्भस उन्मानेन उन्मी-
यते अनेनेत्युन्मानं पात्रम् । अर्द्धेन योगे त्रयो-
दशसार्द्धद्वादशेत्यर्थः । उन्मानरूपेण घटितानि
सार्द्धद्बादशपलानि सा नाडिका । सार्द्धद्वादश-
पलताम्रनिर्म्मितपात्रेण सा नाडिका ज्ञातव्ये-
त्यर्थः । किं प्रमाणं तत् पात्रं कार्य्यं तदाह
मागधेन प्रमाणेन जलप्रस्थस्तु संस्मृत इति ।
सार्द्धद्बादशपलजलेन हि भागधदेशप्रस्थः पूर्य्यते ।
तत्प्रमाणं पात्रं कार्य्यमित्यर्थात् सिद्धम् । ननु
तथापि पात्रेण कथं नाडिकाज्ञानं क्रियापरि-
च्छेद्यत्वात् कालस्येत्याशङ्क्य क्रियासिद्धये ॥
प्रस्थादि विशिनष्टि हेमेति । माषः पञ्चगुञ्जः ।
हेम्नो माषैश्चतुर्भिश्चतुरङ्गुलेन शलाकारूपेण
रचितैः कृतच्छिद्रा । एतदुक्तं भवति सार्द्ध-
द्वादशपलताम्रमयं मागधप्रस्थसंमितमूर्द्धायतं
पात्रं चतुर्म्माषचतुरङ्गुलहेमशलाकया कृताध-
श्छिद्रं जले स्थापितं तेन छिद्रेण यावता कालेन
पूर्य्यते तावान् कालो नाडिकेति । तथा च शुकः ।
द्वादशार्द्धपलोन्मानं चतुर्भिश्चतुरङ्गुलैः ।
स्वर्णमाषैः कृतच्छिद्रं यावत् प्रस्थजलप्लुतमिति ॥”)
इति तट्टीकायां श्रीधरस्वामी ॥ (यथा, सूर्य्य-
सिद्धान्ते । १ । ११ ।
“षड्भिः प्राणैर्विनाडी स्यात् तत् षष्ट्या नाडिका
स्मृता ॥”
“षड्भिरिति । षट्प्रमाणैरनुभिः पानीयपलं
भवति पलानां षष्ट्या घटिकोक्ता कालतत्त्वज्ञैः ॥”
इति तट्टीका ॥)

नाडिकेलः, क्ली, (नारिकेलः । रस्य डत्वम् ।)

नारिकेलः । इत्यमरटीकायां भरतः ॥

नाडिचीरं, क्ली, (नाडिरिव चीरं यत्र ।) निर्व्वे-

ष्टनम् । इति हारावली । २१४ ॥ नली इति
भाषा ॥

नाडिन्धमः, पुं, (नाडीं वंशनलीं धमतीति । ध्मा

शब्दाग्निसंयोगयोः + “नाडीमुष्ट्योश्च ।” ३ ।
२ । ३० । इति खश् । “पाघ्राध्मास्थेति ।” ७ ।
३ । ७८ । इति धमादेशः । “खित्यनव्ययस्य ।”
६ । ३ । ६६ । इति पूर्ब्बपदस्य ह्रस्वः ।) स्वर्ण-
कारः । इत्यमरः । २ । १० । ८ ॥ (उच्चनीचा-
धिरोहणात् मुहुर्मुहुर्निश्वासैर्नाडीं धमति उप-
तापयतीति । श्वासकारके, त्रि । यथा, भट्टिः ।
६ । ९४ ।
“सत्वमेजयसिंहाढ्यान् स्तनन्धवसमत्विषौ ।
कथं नाडिन्धमान् मार्गानागतौ विषमो-
पलान् ॥”)

नाडिन्धयः, त्रि, (नाडीं घयतीति । धेट पाने +

“नाडीमुष्ट्योश्च ।” ३ । २ । ३० । इति खश् ।
“खित्यनव्ययस्य ।” ६ । ३ । ६६ । इति ह्रस्वः ।)
नाडीपानकर्त्ता । इति मुग्धबोधव्याकरणम् ॥

नाडिपत्रं, क्ली, (नाडिरिव पत्रं यस्य ।) नाडी-

चम् । इति शब्दमाला ॥

नाडी, स्त्री, (नाडि + “कृदिकारादक्तिनः ।”

इति वा ङीष् ।) नालम् । व्रणान्तरम् । (नाली
घा इति भाषा । यथा, सुश्रुते निदानस्थाने १०
अध्याये ।
“तस्यातिमात्रगमनाद्गतिरित्यतश्च
नाडीव यद्वहति तेन मता तु नाडी ॥”
दन्तमूलगता नाल्यो यथा, तत्रैव १६ अध्याये ।
“नालास्रावी कफकृतो विज्ञेयः सोऽधिमांसकः ।
दन्तमूलगता नाड्यः पञ्च ज्ञेया यथेरिताः ॥”)
शिरा । गण्डदूर्व्वा । कुहनचर्य्या । षट्क्षण-
कालः । इति मेदिनी । डे, १६ ॥ शिरार्थे
पर्य्यायः । धमनिः २ सिरा ३ । इत्यमरः । २ ।
६ । ६५ ॥ नाडिः ४ नालिः ५ नाली ६ धमनी
७ शिरा ८ । इति भरतः ॥ धरणी ९ धरा १०
तन्तुकी ११ जीवितज्ञा १२ सिंहा १३ । इति
राजनिर्घण्टः ॥ * ॥ कायनाडी त्रिविधा ।
एका वायुवहा । अपरा मूत्रविडस्थिरस-
वाहिनी । अपरा आहारवाहिनी । इति
भरतः ॥ “सा तु गर्भस्थबालकस्य सप्तभिर्मासै-
र्भवति ।” इति सुखबोधः ॥ (यथा, तोडलतन्त्रे
८ उल्लासे ।
श्रीदेव्युवाच ।
“सार्द्धत्रिकोटिनाडीनामालयञ्च कलेतरम् ।
क्रमेण श्रोतुमिच्छामि तद्बदस्व मयि प्रमो ! ॥
श्रीशिव उवाच ।
लोम्नि कूपे सपादार्द्धकोटयश्चैव सुन्दरि ! ।
हस्तास्ये च तथा पादेऽग्निलक्षनाडयः स्थिताः ॥
उदरे च तथा पायौ पञ्चलक्षाः प्रकीर्त्तिताः ।
हृदादिसर्व्वगात्रेषु नवलक्षाः प्रकीर्त्तिताः ॥
अथ पार्श्वे तथा चर्म्मे तथैव सर्व्वसन्धिषु ।
रुद्रान्यूनं स्थितं लक्षं शरीरे नाडयः प्रिये ! ॥
ईडा च पिङ्गला चैव सुषुम्ना चित्रिणी तथा ।
ब्रह्मनाडी च यन्मध्ये पञ्च नाड्यः प्रकीर्त्तिताः ॥
कुहूश्च शङ्खिनी चैव गान्धारी हस्तिजिह्विका ।
नर्द्दिनी च तथा निद्रा रुद्रसंख्या व्यवस्थिता ॥
एता नाड्यः परेशानि ! सुषुम्नायाः प्रजायते ॥”)
नाडीक्रममाह ।
“सार्द्धत्रिकोट्यो नाड्यो हि स्थूलाः सूक्ष्माश्च
देहिनाम् ।
नाभिकन्दनिबद्धास्तास्तिर्य्यगूर्द्ध्वमधःस्थिताः ॥
द्विसप्ततिसहस्रन्तु तासां स्थूलाः प्रकीर्त्तिताः ।
देहे धमन्यो धन्यास्ताः पञ्चेन्द्रियगुणावहाः ॥
तासाञ्च सूक्ष्मशुषिराणि शतानि सप्त
स्युस्तानि यैरसकृदन्नरसं वहद्भिः ।
आप्याय्यते वपुरिदं हि नृणाममीषा-
मम्भःस्रवद्भिरिव सिन्धुशतैः समुद्रः ॥
आपादतः प्रततगात्रमशेषमेषा-
मामस्तकादपि च नातिपुरःस्थितेन ।
एतन्मृदङ्ग इव चर्म्मचयेन नद्धं
कायं नृणामिह शिराशतसप्तकेन ॥
सप्तशतानां मध्ये चतुरधिका विंशतिः स्फुटा
तासां एका परीक्षणीया या दक्षिणकरचरण-
विन्यस्ता । चतुरधिकेति तदुक्तम् ।
तिर्य्यक् कूर्म्मो देहिनां नाभिदेशे
वामे वक्त्रं तस्य पुच्छञ्च याम्ये ।
ऊर्द्ध्वे भागे हस्तपादौ च वामौ
तस्याधस्तात् संस्थितौ दक्षिणौ तौ ॥
वक्त्रे नाडीद्वयं तस्य पुच्छे नाडीद्वयन्तथा ।
पञ्च पञ्च करे पादे वामदक्षिणभागयोः ॥
तासां मध्ये एकेति एकस्या एव पादादूर्द्ध्वगम-
नात् दक्षिणेति प्राधान्ये पुरुषाश्रया । यदुक्तम् ।
वामे भागे स्त्रिया योज्या नाडी पुंसस्तु दक्षिणे ।
इति प्रोक्तो मया देवि ! सर्व्वदेहेषु देहिनाम् ॥”
नपुंसकस्य तु स्त्रीपुंसयोरन्यतराकारप्रकटता-
मपेक्ष्य परीक्षा । साम्यन्तु न स्यादेव । कृत्रि-
मस्य तु प्रकृतिस्थता । चरणेति वामस्य तु
दक्षिणग्रन्थिपश्चात् पार्श्वस्था दक्षिणस्य तु वाम-
ग्रन्थिपश्चात् पार्श्वस्थैव सदुपदेशात् । करस्था
तु वक्ष्यते ॥ * ॥
परीक्षाप्रकारमाह ।
सव्येन रोगधृतिकुर्परभागभाजा
पीड्याथ दक्षिणकराङ्गुलिकात्रयेण ।
अङ्गुष्ठमूलमधिपश्चिमभागमध्ये
नाडीं प्रभञ्जनगतिं सततं परीक्षेत् ॥
सव्येन करेण । रोगधृतिर्गदधारणमित्यापीडने
हेतुः । रोगाणां वातादिपिशुनवायूनां धारणं
यथा स्यात्तथा पीड्येति कश्चित् । भाग इति
समुदितकफोणिपरं भाजेति परीक्षाकालेऽपि
तत्र हस्तस्थितये । आपीड्येत्यर्थान्नाडीं एतच्चा-
पीडनं वातादिपौर्ब्बापर्य्यबोधनाय । अथेत्या-
पीडनानन्तरं न तु परीक्षाकालेऽप्यापीडन-
स्थितिः । दक्षिणेति प्रायिकं स्वपरीक्षाया-
मन्यथात्वात् । त्रयेति योग्यतया तर्ज्जनीमध्यमा-
नामिकाग्रहणम् । पश्चिमेत्यङ्गुष्ठस्याधोभागः ।
मूलेति तदुक्तम् ।
अङ्गुष्ठस्य तु मूले या धमनी जीवसाक्षिणी ।
तस्या गतिवशाद्विद्यात् सुखं दुःखञ्च देहिनाम् ॥
प्रभञ्जनगतिर्यत्रेति नाड्यन्तरनिरासः । सतत-
मिति सुस्थदशायामपि । तदुक्तम् । भावि-
रोगाभिबोधाय सुस्थनाडीपरीक्षणमिति ॥ * ॥
परीक्षणीयमाह ।
वातं पित्तं कफं द्बन्दं सन्निपातन्तथैव च ।
साध्यासाध्यविवेकञ्च सर्व्वं नाडी प्रकाशयेत् ॥
सन्निपातमिति सामान्यतः । साध्यासाध्यमिति
विशेषतश्चेत्यर्थः । सर्व्वमित्येतदन्यञ्च रोगादिक-
मित्युपसंहारः ।” इति नाडीप्रकाशे प्रथमो-
द्योतः ॥ * ॥ अथ नाडीज्ञानसमयमाह ।
“प्रातः कृतसमाचारः कृताचारपरिग्रहम् ।
सुखाशीनः सुखासीनं परीक्षार्थमुपात्तरेत् ॥
प्रातरिति प्रायिकं मध्याह्ने उष्णता इत्युक्तेः ॥ * ॥
पृष्ठ २/८५५
निषिद्धकालमाह ।
सद्यः स्नातस्य भुक्तस्य क्षुत्तृष्णातपसेविनः ।
व्यायामाक्रान्तदेहस्य सम्यङ्नाडी न बुध्यते ॥
तैलाभ्यङ्गे च सुप्ते च तथा च भोजनान्तरे ।
तथा न ज्ञायते नाडी यथा दुर्गतरा नदी ॥
सुप्ते निद्राकाले भोजनान्तरे भोजनमध्ये भोज-
नावसानमात्रे च । वातमूर्च्छादिक्षणिकरोगे
नायं विधिः ॥ * ॥
अथ वातादिस्वभावक्रममाह ।
आदौ च वहते वातो मध्ये पित्तं तथैव च ।
अन्ते च वहते श्लेष्मा नाडिकात्रयलक्षणम् ॥
आदाविति कफोणिपीडितद्वितीयक्षणे । न तु
तर्ज्जनीनिवेशस्थले स्थानभेदस्य कुत्राप्यवक्ष्य-
माणत्वात् ॥ * ॥
सुस्थताज्ञानार्थमाह ।
भूलतागमनप्राया स्वच्छा स्वास्थ्यमयी शिरा ।
प्रायेति बाहुल्येन । स्वच्छा परितो जाड्य-
रहिता । स्वास्थ्यमयी सुस्थताव्यञ्जिका च ।
तथा ।
प्रातः स्निग्धमयी नाडी मध्याह्ने चोष्णतान्विता ।
सायाह्ने धावमाना च चिराद्रोगविवर्ज्जिता ॥
चिरादिति अतीतानागतयोर्द्वयोरप्युक्तिः पथ्या-
शितानामेव ॥ * ॥
वातादीनां क्रमेण गतिमाह ।
वाताद्बक्रगता नाडी चपला पित्तवाहिनी ।
स्थिरा श्लेष्मवती ज्ञेया मिश्रिते मिश्रिता भवेत् ॥
वक्रेति वायोस्तिर्य्यग्गमनात्तिरो वहन्तीति ।
एवं तत्प्रकोपादिना वार्त्तादिगतिरपि ज्ञातव्या ।
चपलेति वह्रेरुर्द्ध्वज्वलनादूर्द्ध्वचञ्चला । स्थिरेति
जलस्य नीचगमनादनुल्वणा । मिश्रिते मिश्र-
चिह्ना भवति । तेन द्विदोषजे उभयचिह्ना ।
सर्व्वजे सर्व्वचिह्नेति । चपलता स्थिरतयोः समय-
भेदेनाविरोधः ॥ * ॥
उक्तवक्रादिसामान्यस्य क्रमेण विशेषमाह ।
सर्पजलौकादिगतिं वदन्ति विबुधाः प्रभञ्जनेन
नाडीम् ।
पित्ते च काकलावकभेकादिगतिं विदुः सुधियः ॥
राजहंसमयूराणां पारावतकपोतयोः ।
कुक्कुटादिगतिं धत्ते धमनी कफसंवृता ॥
आदिना वाते वृश्चिकगतिर्दोलायिता । आदि-
शब्देन पित्ते कलिङ्गकलविङ्कादिगतिः । कफे
गजवराङ्गनादिगतिः ॥ * ॥
द्बन्द्वजस्यापि क्रमेणैव भेदानाह ।
मुहुः सर्पगतिं नाडीं मुहुर्भेकगतिं तथा ।
वातपित्तद्वयोद्भूतां प्रवदन्ति विचक्षणाः ॥
भुजगादिगतिञ्चैव राजहंसगतिं धराम् ।
वातश्लेष्मसमुद्भूतां भाषन्ते तद्विदो जनाः ॥
मण्डूकादिगतिं नाडीं मयूरादिगतिं तथा ।
पित्तश्लेष्मसमुद्भूतां प्रवदन्ति महाधियः ॥
त्रिदोषजामप्याह ।
उरगादिलावकादिहंसादीनाञ्च बिभ्रती गमनम् ।
वातादीनाञ्च समं धमनीसम्बन्धमाधत्ते ॥
सममिति न्यूनाधिकतानिरासः ॥ क्रमगत्या तु
नासाध्यत्वम् । तथा, --
लावतित्तिरिवार्त्ताकगमनं सन्निपाततः ।
कदाचिन्मन्दगा नाडी कदाचिच्छीघ्रगा भवेत् ॥
त्रिदोषप्रभवे रोगे विज्ञेया हि भिषग्वरैः ।
पित्तक्रमतया कृच्छ्रसाध्यत्वमसाध्यत्वञ्च ॥ * ॥
सामान्यतः सुखसाध्यत्वमाह ।
यदायं धातुमाप्नोति तदा नाडी तथा गतिः ।
तथाहि सुखसाध्यत्वं नाडीज्ञानेन बुध्यते ॥
अयमर्थः । अपराह्णादौ नाडी वातोल्वणा
प्रथमं वातगत्यैव वहति ततो यथायथं पित्तादि-
गत्या न तु पित्तोल्वणत्वे वातादिगत्या तदा
सुखसाध्यत्वं व्यतिरेकेण व्यतिरेकः । तदुक्तमन्यैः ।
नाडी यथाकालगतिस्त्रयाणां
प्रकोपशान्त्यादिभिरेव भूयः ॥ * ॥
तथासाध्यरूपमाह ।
मन्दं मन्दं शिथिलशिथिलं व्याकुलं व्याकुलं वा
स्थित्वा स्थित्वा वहति धमनी याति नाशञ्च
सूक्ष्मा ।
नित्यं स्थानात् स्खलति पुनरप्यङ्गुलिं संस्पृशेद्वा
भावैरेवं बहुविधविधैः सन्निपातादसाध्या ॥
मन्दं मन्दं मुहुरनुद्भटं अप्रखरमिति यावत् ।
शिथिलेति स्खलद्गतिरूपम् । व्याकुलेति त्रस्त-
वदितस्ततः । वाशब्दः समुच्चये । स्थित्वा
स्थित्वेत्यावृत्त्या च तद्रूपैव गतिः । नाशमदर्श-
नम् । गच्छति कदाचिन्नाडीस्पन्दोऽपि न सम्भा-
व्यते इत्यर्थः । सूक्ष्मेति यदि लभ्यते तदा तथैवा-
नित्यं प्रायः स्थानमङ्गुष्ठमूलं तस्मात् स्खलति
कदापि तत्र न स्पन्दत इत्यर्थः । तदुक्तम् । हन्ति
च स्थानविच्युतेति किञ्चित् स्फुरती कुत्रापि ।
पुनरपीति कियद्विलम्बन अङ्गुलीमङ्गुलीमूल-
मेवमित्यवंरूपर्बहुभिर्भावैर्धर्म्मैः । उक्तञ्चान्यत्र ।
महातापेऽपि शीतत्वं शीतत्वे तापिता शिरा ।
नानाविधगतिर्यस्य तस्य मृत्युर्न संशयः ॥
महेत्याशयाकृष्टपित्तादिकृततापनिरासः शीतत्व
इत्यत्रापि महेति सम्बध्यते । तथा, --
त्रिदोषे स्पन्दते नाडी मृत्युकालेऽपि निश्चला ।
निश्चला स्पन्दसामान्याभाववती । अतीसारादौ
हस्तपादादिस्वेदादिना स्पन्दोपलम्भात् । तथा ।
पूर्ब्बं पित्तगतिं प्रभञ्जनगतिं श्लेष्माणमाबिभ्रतीं
सन्तानभ्रमणं मुहुर्व्विदधतीं चक्राधिरूढामिव ।
तीव्रत्वं दधतीं कलापि गतिकां सूक्ष्मत्वमात-
न्वतीं
नोऽसाध्यां धमनीं वदन्ति सुधियो नाडीगति-
ज्ञानिनः ॥
अयमर्थः । पूर्ब्बमिति क्रमविपर्य्यये पित्तादिगति-
मतीं वारं वारमेवं क्रमेण चक्रोपरिभ्राम्यमाणा-
मिव । तथा तीव्रत्वमतिशयवेगं एवञ्च कदाचि-
न्मयूरवद्गमनाम् । तथोत्तरोत्तरं कृशतामापा-
दयन्तीति विशिष्टो हेतुः । तथा चान्यत्र ।
“यात्युञ्चा च स्थिरात्यन्ता या चेयं मांस-
वाहिनी ।
या च सूक्ष्मा च वक्रा च तामसाध्यां विदु-
र्बुधाः ॥
अत्युच्चा सहजतोऽप्युच्चतरा पृथगिवोद्गता वा
कदाचिदिति स्थिरा प्रणिधानेनैव गम्यमान-
स्पन्दा च । मांसवाहिनी मांसाहार इव गति-
मती लगुडप्रायेति । तदुक्तं मांसेन लगुडा-
कृतिः । मांसेन समं वहतीति न युक्तं तद्रूप-
परिज्ञापकप्रकारस्यानुक्तत्वात् । इयमपि
विशिष्टबोधनाय । या च सूक्ष्मा च वक्रा चेति
पृथगिव वाक्यान्तरमिति ॥ * ॥
असाध्यत्वापवादमाह ।
भारप्रवाहमूर्च्छाभयशोकप्रमुखकारणान्नाडी ।
संमूर्च्छितापि गाडं पुनरपि सा जीवितं धत्ते ॥
चिरतरबहुलभारोद्बहनेन वा विषवेगधारा-
वाहिरुधिरदर्शनादिजनितमूर्च्छया वा राक्ष-
सादिसन्दर्शनादिभयेन वा पुत्त्रादिविरह-
जनितशोकातिरेकेण वा संमूर्च्छितापि अति-
निस्पन्दापि । गाढमिति सुतरां कार्श्यादियोगे-
ऽपीत्यर्थः । पुनरिति साध्यतां यातीत्यर्थः ।
भावानां रत्यादीनां प्रवाह इति न युक्तं भय-
शोकयोः पृथग्विधानात् । प्रमुखेत्यनेन हेत्व-
न्तराभिधानम् । तदुक्तम् ।
पतितः सन्धितो भेदी नष्टशुक्रश्च यो नरः ।
शाम्यते विस्मयस्तस्य न किञ्चिन्मृत्युकारणम् ॥
पतितः उच्चादितः सन्धितः अस्थ्यादिसन्धानेन
संहितः भेदी अतीसारवान् नष्टशुक्रो यक्ष्मा-
दिनातिरमणेन वा शुक्रक्षयवान् । विस्मयो-
ऽसाध्यत्वानुमानं शाम्यति नावतरति । कारणं
प्रागुक्तं तत्तदेव । अन्यत्रापि ।
तथा भूताभिसङ्गेऽपि त्रिदोषवदुपस्थिता ।
समाङ्गा वहते नाडी तथा च न क्रमं गता ॥
अपमृत्युन रोगाङ्गा नाडी तत्सन्निपातवत् ।
भूताभिषङ्गे तथा भूतसामान्याभिषङ्गे च देव-
जुष्टादां नाडी सन्निपातधर्म्मशालिनी उप-
स्थिता । आपातत एव भवति न तु तत्फल-
प्रदा । भेदमाह । समेति वातपित्तकफस्वभाव-
क्रमवती तथाक्रमं व्यतिक्रमं न गता । तस्मा-
देव अपमृत्युः अपगतो मृत्युर्यस्याः सा तथा ।
परमार्थतः सन्निपातवदपि सन्निपातजन्या न
स्यात् इति । तदुक्तम् ।
स्वस्थानहीने शोके च हिमाक्रान्ते च निर्गदाः ।
भवन्ति निश्चला नाड्यो न किञ्चित्तत्र दूषण-
मिति ॥
स्वस्थानहीन उच्चादितः पतने । अङ्गुष्ठमूलत-
श्चरण इति तुल्यार्थः । निर्गदा इत्यसङ्गतिः
निर्गदा अपि निश्चला भवन्ति । दूषणमसाध्यत्व-
भ्रमः । अन्ये त्वाहुः ।
स्तोकं वातकफं दुष्टं पित्तं वहति दारुणम् ।
पित्तस्थानं विजानीयात् भेषजं तस्य कारये-
दिति ॥
अयमर्थः । वातकफाभ्यां नाडी किञ्चिद्बहति
दुष्टं क्षीणत्वाधिकत्वाभ्यामपि विशेषादुल्वणं
पृष्ठ २/८५६
पित्तं विषमवेगेन वहति तदा तत्प्रतिकारार्थं
भेषजं कुर्य्यात् । असाध्यता न स्यादिति यावत् ।
अत्र कश्चित् ।
स्वस्थानच्यवनं यावद्धमन्या नोपजायते ।
तावच्चिकित्सासत्त्वेऽपि नासाध्यत्वमिति स्थिति-
रिति ।
तच्च प्रायिकं बहुधा व्यभिचारदर्शनात् । हन्ति
च स्थानविच्युतेत्यत्र चकारस्यायोगव्यवच्छेदकत्व-
मित्यर्थः ॥ * ॥ प्रसङ्गात् कालनिर्णयमाह ।
भूलताभुजगाकारा नाडी देहस्य संक्रमात् ।
विशीर्णा क्षीणतां याति मासान्ते मरणं भवेत् ॥
कदाचित् महीलतावत् कृशा तद्गतिवदति-
मसृणवक्रगमना च । कदाचित् सर्पवत् परि-
पुष्टा तद्गतिवद्बलवत्तरवक्रगमना च इति वैशि-
ष्ट्येन सुस्थदशातो भेदः । इत्थञ्च कदाचिद-
लक्ष्यतामतिकृशताञ्च यदा गच्छति । देहेऽति-
देहक्रममपेक्ष्य तेन देहोऽपि यदा स्थूलः शोथा-
दिना कदाचिच्च कृशः स्यात् तदा द्बितीये
मासि म्रियत इति । तथा, --
क्षणाद्गच्छति वेगेन शान्ततां लभते क्षणात् ।
सप्ताहान्मरणं तस्य यद्यङ्गे शोथवर्ज्जितः ॥
क्षणादिति द्रुतंद्रुतं न तु कदाचिदिति । शान्तता-
मनुपलभ्यमानत्वम् । शोथेति तन्मात्रसम्बन्धे
तु नाचिरं मरणाय चिरमेवेत्यर्थः । तथा, --
हिमवद्बिशदा नाडी ज्वरदाहेन तापिनाम् ।
त्रिदोषस्पर्शभजतां तदा मृत्युर्दिनत्रयात् ॥
यदा निरन्तरं ज्वरदाहतापौ शैत्यञ्च नाड्याः ।
त्रिदोषेति । सन्निपातलक्षणसत्त्व एव भवति ॥
तदा, --
निरीक्ष्या दक्षिणे पादे तदा चैषा विशेषतः ।
मुखे नाडी वहेन्नित्यं ततस्तु दिनतूर्य्यकम् ॥
गतिन्तु म्रमरस्येव वहेदेकदिनेन तु ।
कन्देन स्पन्दते नित्यं पुनर्लगति चाङ्गुलौ ॥
मध्ये द्वादशयामानां मृत्युर्भवति निश्चितम् ।
दक्षिण इति पुसः । स्त्रियास्तु वाम एव तथेति
करस्थैव विशेषतो विशेषज्ञानार्थम् । यदि
चोभयनाड्यपि मुखे पुरोभागे नित्यं सदा वहति
तदा दिनचतुष्टयं प्राप्य भ्रमरस्य परिभ्रमण-
रूपं गमनमिव मुख एव यदि वहति तदैक-
दिनेन । कन्दे मूले स्पन्दनस्थाने कदाचित् न
स्पन्दते स्वल्पं स्पन्दत इति सम्भाव्यते । नित्यं
प्रायः पुनश्चाङ्गुलौ तन्मूले कदापि लगति तदा
तस्मादारभ्य द्वादशप्रहरमध्य एव मृत्युरिति ।
तथा, --
स्थित्वा नाडी मुखे यस्य विद्युद्द्योतिरिवेक्ष्यते ।
दिनैकं जीवितं तस्य द्बितीये म्रियते ध्रुवम् ॥
स्थित्वेत्यावृत्त्या स्थित्वा स्थित्वा विद्युत्स्फुरण-
मिव लक्ष्यते द्वितीय इत्यष्टप्रहरादूर्द्ध्वमित्यर्थः ।
तथा, --
स्वस्थानविच्युता नाडी यदा वहति वान वा ।
ज्वाला च हृदये तीव्रा तदा ज्वालावधि-
स्थितिः ॥
न वेति स्थित्वा स्थित्वेत्यर्थः । इत्थञ्च यदसाध्य-
लक्षणमुक्तमवस्थानादपवादविरहे सति तस्यार्थ-
प्रवेशो यथायथमार्य्यमतिभिरवगन्तव्य इति नेह
प्रतन्यते ग्रन्थगौरवभयात् । मन्दं मन्दमिति
अनेन न च भूलतागमनाकारेति विरुध्यते
तस्य तात्कालिकमरणविषयत्वात् । सर्व्वमिदं
सर्व्वरोग एव वेदितव्यं ज्वरमात्रे तु भ्रम एवेति ।”
इति नाडीप्रकाशे द्वितीयोद्योतः ॥ * ॥
अथ रोगेषु निरूपणीयेषु प्रधानतया प्रथमं
ज्वरनिरूपणमाह । तत्र ज्वरपूर्ब्बरूपे ।
“अङ्गग्रहेण नाडीनां भवन्ति मन्थराः प्लवाः ।
प्लवः प्रबलतां याति ज्वरदाहोऽभिभूतये ॥
सान्निपातिकरूपेण भवन्ति सर्व्ववेदनाः ॥
ज्वररूपमाह ।
ज्वरकोपे च धमनी सोष्णा वेगवती भवेत् ।
उष्णा पित्तादृते नास्ति ज्वरो नास्त्युष्मणा विना ॥
उष्णा वेगधरा नाडी ज्वरकोपे प्रजायते ॥
अन्यत्र च ।
ज्वरे च वक्रा धावन्ती तथा च मरुतः प्लवे ।
रमणान्ते निशि प्रातस्तप्ता दीपशिखा यथा ॥
तत्रापि विशेषमाह ।
सौम्या सूक्ष्मा स्थिरा मन्दा नाडी सहज-
वातजा ।
स्थूला च कठिना शीघ्रा स्पन्दते तीव्रमारुते ॥
द्रुता च सरला शीघ्रा दीर्घा पित्तज्वरे भवेत् ।
शीघ्रमाहननं नाड्याः काठिन्याच्च चला तथा ॥
मलाजीर्णेनातितरां स्पन्दनञ्च प्रकीर्त्तितम् ।
नाडी तन्तुसमा मन्दा शीतला श्लेष्मदोषजा ॥
द्वन्द्वजमाह ।
चञ्चला तरला स्थूला कठिना वातपित्तजा ।
ईषच्च दृश्यते तूष्णा मन्दा स्यात् श्लेष्मवातजा ॥
निरन्तरं खरं रूक्षं मन्दश्लेष्मातिवातलम् ।
रूक्षवातभवे तस्य नाडी स्यात् पित्तसन्निभा ॥
सूक्ष्मा शीता स्थिरा नाडी पित्तश्लेष्मसमुद्भवा ॥
प्रसङ्गादाह ।
मध्ये करे वहेन्नाडी यदि सन्तापिता ध्रुवम् ।
तदा नूनं मनुष्यस्य रुधिरापूरिता मलाः ॥
आगन्तुकरूपभेदमाह ।
भूतज्वरे सेक इवातिवेगा
धावन्ति नाड्यो हि यथाब्धिगामाः ।
तथा, --
ऐकाहिकेन क्वचन प्रदूरे
क्षणान्तगामा विषमज्वरेण ।
द्वितीयके वापि तृयीयतूर्य्ये
गच्छन्ति तप्ता भ्रमिवत् क्रमेण ॥
अन्यत्रापि ।
उष्णा वेगधरा नाडी ज्वरकोपे प्रजायते ।
उद्वेगक्रोधकामेषु भयचिन्ताश्रमेषु च ॥
भवेत् क्षीणगतिर्नाडी ज्ञातव्या वैद्यसत्तमैः ॥
प्रसङ्गादाह ।
व्यायामे भ्रमणे चैव चिन्तायां श्रमशोकतः ।
नानाप्रभावगमना शिरा गच्छति विज्वरे ॥
अजीर्णरूपमाह ।
अजीर्णे तु भवेन्नाडी कठिना परितो जडा ।
प्रसन्ना च द्रुता शुद्धा त्वरिता च प्रवर्त्तते ॥
तत्र विशेषमाह ।
पक्वाजीर्णे पुष्टिहीना मन्दं मन्दं वहेज्जडा ।
असृक्पूर्णा भवेत् कोष्णा गुर्व्वी सामा गरीयसी ॥
प्रसङ्गाद्भक्षणज्ञानमाह ।
पुष्टिस्तैलगुडाहारे मांसे च लगुडाकृतिः ।
क्षीरे च स्तिमिता वेगा मधुरे भेकवद्गतिः ॥
रम्भागुडवटाहारे रूक्षशुष्कादिभोजने ।
वातपित्तार्त्तिरूपेण नाडी वहति निष्क्रमम् ॥
अथ रसज्ञानम् ।
मधुरे वर्हिगमना तिक्ते स्याद्भूलतागतिः ।
अम्ले कोष्णा प्लवगतिः कटुके भृङ्गसन्निभा ॥
कषाये कठिना म्लाना लवणे सरला द्रुता ।
एवं द्बित्रिचतुर्योगे नानाधर्म्मवती धरा ॥
तथा, --
द्रवेऽतिकठिना नाडी कोमला कठिनाशने ।
द्रवद्रव्यस्य काठिन्ये कोमला कठिनापि च ॥
क्षौद्रे पृथग्ग्रन्थिलेव पिष्टे पुष्टैव जायते ॥
अग्निमान्द्यधातुक्षयलक्षणमाह ।
मन्दाग्नेः क्षीणधातोश्च नाडी मन्दतरा भवेत् ॥
तदुक्तम् ।
क्षीणधातौ च मन्दाग्नौ नाडी क्षीणतमा ध्रुवम् ॥
तथा, --
मन्देऽग्नौ क्षीणतां याति नाडी हंसाकृति-
स्तथेति ॥
अन्ये तु ।
आमाश्रये पुष्ठिविवर्द्धनेन
भवन्ति नाड्योऽग्रभुजाभिवृत्ताः ।
आहारमान्द्यादुपवासतो वा
तथैव नाड्यो भुजगाग्रमानाः ॥
प्रसङ्गाद्दीप्ताग्निज्ञानमाह ।
लघ्वी भवति दीप्ताग्नेस्तथा वेगवती मता ।
प्रसङ्गाद्ग्रहणीमप्याह ।
पादे च हंसगमना करे मण्डुकसंप्लवा ।
तस्याग्नेर्मन्दता देहे त्वथवा ग्रहणीगदे ॥
तथा, --
भेदेन शान्ता ग्रहणीगदेन
निवीर्य्यरूपा त्वतिसारभेदे ।
विलम्बिकायां प्लवगा कदाचि-
दामातिसारे पृथुता जडा च ॥ * ॥
अथ विसूचिकाज्ञानम् ।
निरोधे मूत्रशकृतोर्विड्ग्रहे त्वितराश्रिताः ।
विसूचिकाभिभूते च भवन्ति भेकवत् क्रमाः ॥ * ॥
प्रसङ्गादानाहमूत्रकृच्छ्रज्ञानमाह ।
आनाहे मूत्रकृच्छ्रे च भवेन्नाडी गरिष्ठता ॥ * ॥
शूलज्ञानमाह ।
वातेन शूलेन मरुत्प्लवेन
सदैव वक्रा हि शिरा वहन्ती ।
ज्वालामयी पित्तविचेष्टितेन
साध्या न शूले न च पुष्टरूपा ॥ * ॥
पृष्ठ २/८५७
अथ प्रमेहज्ञानम् ।
प्रमेहे ग्रन्थिरूपा सा सुतप्ता त्वामदूषणे ॥ * ॥
विषविष्टम्भगुल्मज्ञानमाह ।
उत्पित्सुरूपा विषरिष्टिकायां
विष्टम्भगुल्मेन च वक्ररूपा ।
अत्यर्थवातेन अधः स्फुरन्ती
उत्तानभेदिन्यसमाप्तिकाले ॥ * ॥
गुल्मे विशेषमाह कश्चित् ।
गुल्मेन कम्पोऽथ पराक्रमेण
पारावतस्येव गतिं करोति ॥ * ॥
अथ भगन्दरज्ञानम् ।
व्रणार्थं कठिने देहे प्रयाति पैत्तिकं क्रमम् ।
भगन्दरानुरूपेण नाडीव्रणनिवेदने ।
प्रयाति वातिकं रूपं नाडी पावकरूपिणी ॥
अथ वान्तादिज्ञानम् ।
वान्तस्य शल्याभिहतस्य जन्तो-
र्वेगावरोधाकुलितस्य भूयः ।
गतिं विधत्ते धमनी गजेन्द्र-
मरालमानेव कफोल्वणेन ॥
स्त्रीरोगादिकमपि रक्तादिज्ञानक्रमेण ज्ञातव्यम् ।
क्वचित्प्रकरणोल्लेखात् क्वचिदौचित्यमात्रतः ।
क्वचिद्देशात् क्वचित् कालात् सङ्कीर्णगदनिर्णयः ॥
नाडीपरिचयज्ञानं प्रायशो नैव दृश्यते ।
तेन धार्ष्ट्या मयोक्तं यत्तत् समाधेयमुत्तमैः ॥”
इति श्रीशङ्करसेनकविराजकृते नाडीप्रकाशे
तृतीयोद्योतः ॥

नाडीकः, पुं, (नाडीव कायतीति । कै + कः ।)

शाकविशेषः । पाट्शाक इति नालिताशाक
इति च भाषा ॥ तत्पर्य्यायः । पट्टशाकः २
नाडीशाकः ३ । अस्य गुणाः । रक्तपित्तनाशि-
त्वम् । विष्टम्भित्वम् । वातकोपनत्वञ्च । इति
भावप्रकाशः ॥

नाडीकलापकः, पुं, (नाडीनां नाडीवन्नालानां

कलापः समूहो यत्र । कप् ।) सर्पाक्षी । इति
भावप्रकाशः ॥

नाडीकेलः, पुं, (नारिकेलः । पृषोदरादित्वात्

साधुः ।) नारिकेलः । इति शब्दरत्नावली ॥

नाडीचः, पुं, (नाड्या चीयते इति । चि + बाहु-

लकात् डः ।) शाकविशेषः । नालिता इति
भाषा । तत्पर्य्यायः । केचुकम् २ पेचुली ३
पेचुः ४ विश्वरोचनः ५ । इति त्रिकाण्डशेषः ॥
“नाडीचशाकं द्बिविधं तिक्तं मधुरमेव च ।
रक्तपित्तहरं तिक्तं क्रिमिकुष्ठविनाशनम् ।
मधुरं पिच्छिलं शीतं विष्टम्भि कफवातकृत् ॥”
इति राजवल्लभः ॥

नाडीचरणः, पुं, (नाडीवच्चरणौ यस्य ।) पक्षी ।

इति त्रिकाण्डशेषः ॥

नाडीजङ्घः, पुं, (नाडीवत् जङ्घा यस्य ।) काकः ।

इति त्रिकाण्डशेषः ॥ मुनिविशेषः । यथा ।
“नाडीजङ्घः सुरगुरुमुनिर्व्वक्ति वृष्टेरकालौ
मासावेतौ न शुभफलदौ पौषमाघौ न शेषान् ।”
इति मलमासतत्त्वम् ॥
षकविशेषः । यथा, महाभारते । १२ । १६९ ।
१९ -- २० ।
“ततोऽस्तं भास्करे याते सन्ध्याकाल उपस्थिते ।
आजगाम स्वभवनं ब्रह्मलोकात् खगोत्तमः ॥
नाडीजङ्घ इति ख्यातो दयितो ब्रह्मणः
सखा ।
वकराजो महाप्राज्ञः कश्यपस्यात्मसम्भवः ॥”

नाडीतरङ्गः, पुं, (नाड्यां नालायां तरङ्गो यत्र ।)

काकोलः । हिण्डकः । रतहिण्डकः । इति
मेदिनी । गे, ५९ ॥

नाडीतिक्तः, पुं, (नाड्या तिक्तः ।) नेपालनिम्बः ।

इति राजनिर्घण्टः ॥ (नेपालनिम्बशब्देऽस्य
विशेषो ज्ञेयः ॥)

नाडीदेहः, पुं, (नाडीसारो देहो यस्य । कृश-

त्वात् तथात्वम् ।) भृङ्गी । इति त्रिकाण्ड-
शेषः ॥

नाडीनक्षत्रं, क्ली, (नाडीस्थितं नक्षत्रम् ।)

नरस्य जन्मदशमषोडशाष्टादशत्रयोविंशपञ्च-
विंशनक्षत्राणि । राज्ञः पूर्ब्बोक्तानि जाति-
देशाभिषेकनक्षत्राणि च । यथा, --
“जन्माद्यं कर्म्म ततोऽपि दशमं साङ्घातिकं
षोडशभम् ।
समुदयमष्टादशभं विनाशसंज्ञं त्रयोविंशम् ॥
आद्यात्तु पञ्चविंशं मानसमेवं नरः षडृक्षः
स्यात् ।
नवनक्षत्रो नृपतिः स्वजातिदेशाभिषेकर्क्षैः ॥” * ॥
जात्यृक्षन्तु ।
“पूर्ब्बात्रयं सानलमग्रजानां
राज्ञान्तु पौष्णेन सहोत्तराणि ।
सपौष्णमित्रं पितृदैवतञ्च
प्रजापतेर्भञ्च कृषीबलानाम् ॥
आदित्यहस्ताभिजिदश्विभानि
तान्यन्त्यजातेः प्रभविष्णुतायाम् ।
देशभं देशनामर्क्षम् । नाडीनक्षत्राणि ॥ * ॥
ईहा देहार्थहानिः स्याज्जन्मर्क्ष उपतापिते ।
कर्म्मर्क्षे कर्म्मणां हानिः पीडा मनसि मानसे ॥
मूर्त्तिद्रविणवन्धूनां हानिः साङ्घातिके तथा ।
सन्तप्ते सामुदायिके मित्रभृत्यार्थसङ्क्षयः ।
वैनाशिके विनाशः स्याद्देहद्रविणसम्पदाम् ॥
नाडीनक्षत्रफलम् ॥ * ॥
जातिभे कुलनाशः स्याद्बन्धनञ्चाभिषेकभे ।
देशभे देशभङ्गः स्यात् क्रूरैरेवं शुभैः शुभम् ॥
यस्मिन् राजाभिषेको भवति तदाभिषेचनिक-
भम् । अ इ उ ए कृत्तिका । ओ व वि वु
रोहिणीत्यादि देशभम् ।
सर्व्वेषां पीडायां दिनमेवमुपोषितोऽनलं जुहु-
यात् ।
सावित्र्या क्षीरतरोः समिद्भिरमरद्बिजानुरतः ॥”
इति ज्योतिस्तत्त्वम् ॥

नाडीविग्रहः, पुं, (नाडीसारो विग्रहो यस्य ।

अतिकृशत्वात् तथात्वम् ।) भृङ्गी । इति हेम-
चन्द्रः । २ । १२४ ॥

नाडीव्रणः, पुं, (नाडीसंलग्नो व्रणः ।) सर्व्वदा-

गलद्व्रणः । नाली घा इति भाषा । इत्यमरः ।
२ । ६ । ५४ ॥ तस्य निदानं यथा, --
“यः शोथमामभिति पक्वमुपेक्षतेऽज्ञो
यो वा व्रणं प्रचुरपूयमसाधुवृत्तः ।
अभ्यन्तरं प्रविशति प्रविदार्य्य तस्य
स्थानानि पूर्ब्बविहितानि ततः सपूयः ॥
तस्यातिमात्रगमनाद्गतिरिष्यते तु
नाडीव यद्वहति तेन मता तु नाडी ॥” * ॥
वातादिदोषभेदेन तस्य रूपाणि यथा, --
“दोषैस्त्रिभिर्भवति सा पृथगेकशश्च
संमूर्च्छितैरपि च शल्यनिमित्ततोऽन्या ।
तत्रानिलात् परुषसूक्ष्ममुखी सशूला
फेनानुविद्धमधिकं स्रवति क्षपासु ॥
पित्तात्तृषाज्वरकरी परिदाहयुक्ता
पीतं स्रवत्यधिकमुष्णमहःसु चापि ।
ज्ञेया कफाद्बहुघनार्ज्जुनपिच्छिलास्रा
स्तब्धा सकण्डुररुजा रजनीप्रवृद्धा ॥
दाहज्वरश्वसनमूर्च्छनवक्त्रशोषा
यस्यां भवन्त्यभिहितानि च लक्षणानि ।
तामादिशेत् पवनपित्तकफप्रकोपात्
घोरामसुक्षयकरीमिव कालरात्रिम् ॥
दोषद्बयाभिहतलक्षणदर्शनेन
तिस्रो गतीर्व्यतिकरप्रभवास्तु विद्यात् ॥”
शल्यनिमित्तलक्षणं यथा, --
“नष्टं कथञ्चिदनुमार्गमुदीरितेषु
स्थानेषु शल्यमचिरेण गतिं करोति ।
सा फेनिलं मथितमच्छमसृग्विमिश्र-
मुष्णं करोति सहसा सरुजञ्च नित्यम् ॥”
असाध्यकृच्छ्रसाध्ययोर्लक्षणं यथा, --
“नाडी त्रिदोषप्रभवा न सिध्येत्
शेषाश्चतस्रः खलु यत्नसाध्याः ॥”
इति माधवकरः ॥ * ॥
“विडङ्गत्रिफला कृष्णाचूर्णं लीढं समाक्षिकम् ।
हन्ति कुष्ठं कृमीन्मेहनाडीव्रणभगन्दरान् ॥”
इति गरुडपुराणम् ॥
(अस्य चिकित्सान्तरं यथा, --
“नाडीनां गतिमन्विष्य शस्त्रेणापाट्य कर्म्मवित् ।
सर्व्वव्रणक्रमं कुर्य्यात् शोघनं रोपणादिकम् ॥
नाडीं वातकृतां साधु पाटितां लेपयेद्भिषक् ।
प्रत्यक् पुष्पीफलयुतैस्तिलैः पिष्टैः प्रलेपयेत् ॥
पैत्तिकीं तिलमञ्जिष्ठानागदन्तीनिशायुगैः ।
श्लैष्मिकीं तिलयष्ट्याह्वनिकुम्भारिष्टसैन्धवैः ॥
शल्यजां तिलमध्वाज्यैर्लेपयेच्छिन्नशोधिताम् ।
आरग्वधनिशाकालाच्चूर्णाज्यक्षौद्रसंयुता ।
सृत्रवर्त्तिर्व्रणे योज्या शोधनी गतिनाशनी ॥
घोण्टाफलत्वङ्मदनात् फलानि
पूगस्य च त्वक् लवणञ्च मुख्यम् ।
स्नुह्यर्कदुग्धेन सहैष कल्को
वर्त्तीकृतो हन्त्यचिरेण नाडीम् ॥
वर्त्तीकृतं माक्षिकसंप्रयुक्तं
नाडीघ्नमुक्तं लवणोत्तमं वा ।
पृष्ठ २/८५८
दुष्टव्रणे यद्बिहितञ्च तैलं
तत् सेच्यमानं गतिमाशु हन्ति ॥
जात्यर्कसम्पाककरञ्जदन्ती-
सिन्धूत्थसौवर्च्चलयावशूकैः ।
वर्त्तिः कृता हन्त्यचिरेण नाडीं
स्नुक्क्षीरपिष्टा सह चित्रकेण ॥
महिषदधिकोद्रवान्नमिश्रं हरति चिरविरूढाञ्च ।
भुक्तं कङ्कुनिकामूलचूर्णमतिदारुणां हन्ति ॥
कृशदुर्ब्बलभीरूणां गतिर्म्मर्म्माश्रिता च या ।
क्षारसूत्रेण तां भिन्द्यान्न शस्त्रेण कदाचन ॥
एषण्या गतिमन्विष्य क्षारसूत्रानुसारिणीम् ।
सूचीं विदध्याद्गत्यन्ते चोन्नम्याशु च निर्हरेत् ॥
सूत्रस्यान्तं समानीय गाढबन्धनमाचरेत् ।
ततः क्षारबलं वीक्ष्य सूत्रमन्यत् प्रवेशयेत् ॥
क्षाराक्तं मतिमान् वैद्यो यावन्न च्छिद्यते गतिः ।
भगन्दरेऽप्येष विधिः कार्य्यो वैद्येन जानता ॥
गुग्गुलुस्त्रिफलाव्योषैः समांशैराज्ययोजितः ।
नाडीदुष्टव्रणं शूल-भगन्दरविनाशनः ॥
इति सप्ताङ्गगुग्गुलुः ॥
स्वर्ज्जिका सिन्धुदन्त्यग्निरूपिकानलनीलिका ।
खरमञ्जरीबीजेषु तैलं गोमूत्रपाचितम् ॥
दुष्टव्रणप्रशमनं कफनाडीव्रणापहम् ॥
इति स्वर्ज्जिकाद्यं तैलम् ॥
समूलपत्रां निर्गुण्डीं पीडयित्वा रसेन तु ।
तेन सिद्धं समं तैलं नाडीदुष्टव्रणापहम् ॥
हितं पामापचीनान्तु पानाभ्यञ्जननावनैः ।
विविधेषु च स्फोटेषु तथा सर्व्वव्रणेषु च ॥
इति निर्गुण्डीतैलम् ।
हंसपाद्यरिष्टपत्रं जातीपत्रं ततो रसैः ।
तत्कल्कैश्च पचेत्तैलं नाडीव्रणविशोधनम् ॥
इति हंसपादादितैलम् ॥”
इति वैद्यकचक्रपाणिसंग्रहे नाडीव्रणाधि-
कारः ॥)

नाडीशाकः, पुं, (नाडीप्रधानः शाकः ।) नाडीकः ।

इति भावप्रकाशः ॥ पाट्शाक इति भाषा ॥

नाडीस्नेहः, पुं, (नाड्यामेव स्नेहो यस्य । नाडी-

सारत्वादेवास्य तथात्वम् ।) भृङ्गी । इति
शब्दरत्नावली ॥

नाडीहिङ्गु, क्ली, (नाडीप्रधानं हिङ्गु ।) हिङ्गु-

भेदः । कलःपतिहिङ्गु इति हिन्दीभाषा । तत्-
पर्य्यायः । पलाशाक्षः २ जन्तुका ३ रामठी ४
वंशपत्री ५ पिण्डाह्वा ६ सुवीर्य्या ७ हिङ्गु-
नाडिका ८ । (यथाच वैद्यकरत्नमालायाम् ।
“हिङ्गुपर्णी वेणुपत्री नाडीहिङ्गु शिवाटिका ॥”)
अस्य गुणाः । कटुत्वम् । उष्णत्वम् । कफ-
वातार्त्तिशान्तिकारित्वम् । विष्ठाविबन्धदोषा-
नाहामयनाशित्वञ्च । इति राजनिर्घण्टः ॥

नाणकं, क्ली, (अणति शब्दायते इति । अण

शब्दे + ण्वुल् । न आणकम् ।) मुद्राचिह्नित-
निष्कादि । यथा, --
“तुलाशासनमानानां कूटकृन्नाणकस्य च ।
एभिश्च व्यवहर्त्ता यः स दाप्यो दण्डमुत्तमम् ॥”
इति मिताक्षरायां साहसप्रकरणीययाज्ञवल्क्य-
वचनम् ॥

नात्रं, क्ली, (नम्यते आख्यायते प्रशस्यते सर्व्वै-

रिति । नम + ष्ट्रन् । बाहुलकात् अन्तलोप
आत्वञ्च ।) विचित्रम् । प्रज्ञः । शिवः । इति
संक्षिप्तसारोणादिवृत्तिः ॥

नाथ, ऋ ङ आशिषि । दवैश्येऽर्थे । इति कवि-

कल्पद्रुमः ॥ (भ्वां-परं-आत्मं च-सकं-ऐश्ये अकं-
सेट् ।) दन्त्यादिरयम् । ऋ, अननाथत् । ङ,
प्रणाथते प्रनाथते । दव उपतापः । आशी-
रिष्टार्थाशंसनम् । ङित्त्वेऽपि शपथाशीर्गत्यनु-
कारे इति नियमादाभ्यामाशिषोऽन्यत्र परस्मै-
पदम् । नाथति शत्रुं बली उपतापयतीत्यर्थः ।
नाथते श्रियं लोकः आशंसते इत्यर्थः । नाथति
धनी ईश्वरः स्यादित्यर्थः । नाथति भूपं भूमिं
विप्रः प्रार्थयतीत्यर्थः । मार्गणैरथ तव प्रयो-
जनं नाथसे किमु न भूभृतः पतिमिति भारवौ
याचनमप्याशंसाविशेषः । आशिषि नित्य-
मात्मनेपदमन्यत्र विभाषयेति केचित् । इति
दुर्गादासः ॥

नाथः, पुं, (नाथति ईश्वरो भवतीति । नाथ

ऐश्ये + अच् ।) ऐश्ययुक्तः । तत्पर्य्यायः ।
अधिपः २ ईशः ३ नेता ४ परिवृढः ५ अधिभूः
६ पतिः ७ इन्द्रः ८ स्वामी ९ आर्य्यः १० प्रभुः
११ भर्त्ता १२ ईश्वरः १३ विभुः १४ ईशिता १५
इनः १६ नायकः १७ । इति हेमचन्द्रः । ३ । २३ ॥
(यथा, रामायणे । २ । ४८ । १७ ।
“स हि नाथो जनस्यास्य स गतिः स परायणम् ॥”)

नाथवान्, [त्] त्रि, (नाथो विद्यतेऽस्येति । नाथ +

मतुप् । मस्य वः ।) पराधीनः । इत्यमरः । ३ ।
१ । १६ ॥ प्रभुविशिष्टः ॥ (रक्षकवान् । यथा,
रामायणे । १ । ६२ । १२ ।
“नाथवांश्च शुनःशेफो यज्ञश्चाविघ्नतो भवेत् ॥”
स्त्रियां ङीप् । यथा, रामायणे । २ । ३८ । १ ।
“तस्यां चीरं वसानायां नाथवत्यामनाथवत् ।
प्रचुक्रोश जनः सर्व्वो धिक् त्वां दशरथन्त्विति ॥”)

नाथहरिः, पुं, (नाथं हरति स्थानात् स्थानान्तरं

नयतीति । नाथ + हृ + “हरतेर्दृ तिनाथयोः
पशौ ।” ३ । २ । २५ । इति इन् ।) पशुः ।
इति मुग्धबोधव्याकरणम् ॥

नादः, पुं, (नद शब्दे + भावे घञ् ।) शब्दः ।

इत्यमरः । १ । ७ । २३ ॥ (यथा, हरिवंशे ।
२३५ । ५६ ।
“विभान्ति ते देववराः ससाध्याः
प्रध्मातशङ्खस्वनसिंहनादाः ॥”)
अर्द्धचन्द्राकृतिवर्णः । स चानुस्वारवदुच्चार्य्यः ।
यथा अर्द्धचन्द्रोऽनुस्वारः । इति भुवनेश्वरीमन्त्रे
कृष्णानन्दः ॥ तत्पर्य्यायः । अर्द्धेन्दुः २ अर्द्ध-
मात्रा ३ कलाराशी ४ सदाशिवः ५ अनुच्चार्य्या
६ तुरीया ७ विश्वमातृकला ८ परा ९ । इति
बीजवर्णाभिधानम् ॥ ब्रह्मस्वरूपघोषविशेषः ।
यथा, --
“सच्चिदानन्दविभवात् सकलात् परमेश्वरात् ।
आसीच्छक्तिस्ततो नादस्तस्माद्बिन्दुसमुद्भवः ॥
नादो बिन्दुश्च बीजञ्च स एव त्रिविघो मतः ।
भिद्यमानात् पराद्बिन्दोरुभयात्मा रवोऽभवत् ॥
स रवः श्रुतिसम्पन्नः शब्दो ब्रह्माभवत् परम् ॥
सकलादिति मूर्त्तात् । नादो घोषः । बिन्दुः
प्रणवः स च बीजञ्च सर्व्ववर्णप्रभवत्वात् । तथा च ।
समाहितात्मनो ब्रह्मन् ! ब्रह्मणः परमेष्ठिनः ॥
हृद्याकाशादभून्नादो वृत्तिरोधाद्विभाव्यते ॥
ततोऽभूत्त्रिविदोङ्कारो योऽव्यक्तः प्रभवः स्वराट् ।
इत्यारभ्य ततोऽक्षरसमाम्नायमसृजद्भगवानजः ॥
इति श्रीभागवतम् ॥”
इत्यलङ्कारकौस्तुभस्य द्बितीयस्तवकः ॥ * ॥
“नाभेरूर्द्ध्वं हृदि स्थानान्मारुतः प्राणसंज्ञकः ।
नदति ब्रह्मरन्ध्रान्ते तेन नादः प्रकीर्त्तितः ॥
अपि च ।
आकाशाग्निमरुज्जातो नाभेरूर्द्ध्वं समुच्चरन् ।
मुखेऽतिव्यक्तमायाति यः स नाद इतीरितः ॥
स च प्राणिभवोऽप्राणिभवश्चोभयसम्भवः ॥
आद्यः कायभवो वीणादिभवस्तु द्वितीयकः ।
तृतीयोऽपि च वंशादिभव इत्थं त्रिधा मतः ॥
यदुक्तं ब्रह्मणः स्थानं ब्रह्मग्रन्थिश्च यो मतः ।
तन्मध्ये संस्थितः प्राणः प्राणाद्वह्रिसमुद्भवः ।
वह्निमारुतसंयोगान्नादः समुपजायते ॥
न नादेन विना गीतं न नादेन विना स्वरः ।
न नादेन विना रागस्तस्मान्नादात्मकं जगत् ॥
न नादेन विना ज्ञानं न नादेन विना शिवः ।
नादरूपं परं ज्योतिर्नादरूपी परं हरिः ॥”
इति सङ्गीतदामोदरः ॥
(यथा च सङ्गीतदर्पणे ।
“गीतं नादात्मकं वाद्यं नादव्यक्त्या प्रशस्यते ।
तद्द्बयानुगतं नृत्यं नादाधीनमतस्त्रयम् ॥
नादेन व्यज्यते वर्णः पदं वर्णात् पदाद्वचः ।
वचसो व्यवहारोऽयं नादाधीनमतो जगत् ॥
आहतोऽनाहतश्चेति द्विधा नादो निगद्यते ॥
सोऽयं प्रकाशते पिण्डे तस्मात् पिण्डोऽभिधीयते ॥
तत्रानाहतनादन्तु मुनयः समुपासते ।
गुरूपदिष्टमार्गेण मुक्तिदं न तु रञ्जकम् ॥
स नादस्त्वाहतो लोके रञ्जको भवभञ्जकः ।
श्रुत्यादिद्बारतस्तस्मात्तदुत्पत्तिर्निरूप्यते ॥”
किञ्च, --
“धर्म्मार्थकाममोक्षाणामिदमेवैकसाधनम् ॥
नादविद्यां परां लब्धा सरस्वत्याः प्रसादतः ।
कम्बलाश्वतरौ नागौ शम्भोः कुण्डलतां गतौ ॥
पशुः शिशुर्मृगो वापि नादेन परितुष्यति ।
अतो नादस्य माहात्म्यं व्याख्यातुं केन शक्यते ॥”
आञ्जनेयः ।
“नादाब्देस्तु परं पारं न जानाति सरस्वती ।
अद्यापि मज्जनभयात्तुम्बं वहति वक्षसि ॥”
अथ नादोत्पत्तिप्रकारः ।
“आत्मना प्रेरितं चित्तं वह्निमाहन्ति देहजम् ।
ब्रह्मग्रन्थिस्थितं प्राणं स प्रेरयति पावकः ॥
पृष्ठ २/८५९
पावकप्रेरितः सोऽथ क्रमादूर्द्ध्वपथे चरन् ।
अतिसूक्ष्मध्वनिं नाभौ हृदि सूक्ष्मं गले पुनः ॥
पुष्टं शीर्षे त्वपुष्टञ्च कृत्रिमं वदने तथा ।
आविर्भावयतीत्येवं पञ्चधा कीर्त्त्यते बुधैः ॥”
“नकारं प्राणनामानं दकारमनलं विदुः ।
जातः प्राणाग्निसंयोगात्तेन नादोऽभिधीयते ॥”
अयन्तु योगिसंवेद्य एव । अस्य अवस्थादिकं
यदुक्तं हठयोगप्रदीपिकायाम् । ४ । ६५-१०७ ।
“अशक्यतत्त्वबोधानां मूढानामपि संमतम् ।
प्रोक्तं गोरक्षनाथेन नादोपासनमुच्यते ॥
श्रीआदिनाथेन सपादकोटि-
लयप्रकाराः कथिता जयन्ति ।
नादानुसन्धानकमेकमेव
मन्यामहे मुख्यतमं लयानाम् ॥
मुक्तासने स्थितो योगी मुद्रां सन्धाय शाम्भवीम् ।
शृणुयाद्दक्षिणे कर्णे नादमन्तःस्थमेकधीः ॥
श्रवणपुटनयनयुगलघ्राणमुखानां निरोधनं
कार्य्यम् ।
शुद्धसुषुम्नासरणौ स्फुटममलः श्रूयते नादः ॥
आरम्मश्च घटश्चैव तथा परिचयोऽपि च ॥
निष्पत्तिः सर्व्वयोगेषु स्यादावस्थाचतुष्टयम् ।
अथारम्भावस्था ।
ब्रह्मग्रन्थेर्भवेद्भेदो ह्यानन्दः शून्यसम्भवः ।
विचित्रः क्वणको देहेऽनाहतः श्रूयते ध्वनिः ॥
दिव्यदेहश्च तेजस्वी दिव्यगन्धस्त्वरोगवान् ।
संपूर्णहृदयः शून्य आरम्भो योगवान् भवेत् ॥
अथ घटावस्था ।
द्बितीयायां घटीकृत्य वायुर्भवति मध्यगः ।
दृढासनो भवेद्योगी ज्ञानी देवसमस्तदा ॥
विष्णुग्रन्थेस्ततो भेदात् परमानन्दसूचकः ।
अतिशून्ये विमर्दश्च भेरीशब्दस्तथा भवेत् ॥
तृतीयायां तु विज्ञेयो विहायोमर्दलध्वनिः ।
महाशून्यं तदा याति सर्व्वसिद्धिसमाश्रयम् ॥
चित्तानन्दं तदा जित्वा सहजानन्दसम्मवः ।
दोषदुःखजराव्याधिक्षुधानिद्राविवर्ज्जितः ॥
रुद्रग्रन्थिं यदा भित्वा शर्व्वपीठगतोऽनिलः ।
निष्पत्तौ वैणवः शब्दः क्वणद्बीणाक्वणो भवेत् ॥
एकीभूतं तदा चित्तं राजयोगाभिधानकम् ।
सृष्टिसंहारकर्त्तासौ योगीश्वरसमो भवेत् ॥
अस्तु वा मास्तु वा मुक्तिरत्रैवाखण्डितं सुखम् ।
लयोद्भवमिदं सौख्यं राजयोगादवाप्यते ॥
राजयोगमजानन्तः केवलं हठकर्मिणः ।
एतानभ्यासिनो मन्ये प्रयासफलवर्ज्जितान् ॥
उन्मन्यवाप्तये शीघ्रं भ्रूध्यानं मम संमतम् ।
राजयोगपदं प्राप्तं सुखोपायोऽल्पचेतसाम् ॥
सद्यः प्रत्ययसन्धायी जायते नादजो लयः ॥
नादानुसन्धानसमाधिभाजां
योगीश्वराणां हृदि वर्द्धमानम् ।
आनन्दमेकं वचसामगम्यं
जानाति तं श्रीगुरुनाथ एकः ॥
कर्णौ पिधाय हस्ताभ्यां यं शृणोति ध्वनिं मुनिः ।
तत्र चित्तं स्थिरीकुर्य्याद्यावत्स्थिरपदं व्रजेत् ॥
अभ्यस्यमानो नादोऽयं बाह्यमावृणुते घ्वनिम् ।
पक्षाद्विक्षेपमखिलं जित्वा योगी सुखी भवेत् ॥
श्रूयते प्रथमाभ्यासे नादो नानाविधो महान् ।
ततोऽभ्यासे वर्धमाने श्रूयते सूक्ष्मसूक्ष्मकः ॥
आदौ जलधिजीमूतभेरीझर्झरसम्भवाः ।
मध्ये मर्दलशङ्खोत्था घण्टाकाहलजास्तथा ॥
अन्ते तु किङ्किणीवंशवीणाभ्रमरनिःस्वनाः ।
इति नानाविधा नादाः श्रूयन्ते देहमध्यगाः ॥
महति श्रूयमाणेऽपि मेघभेर्य्यादिके ध्वनौ ।
तत्र सूक्ष्मात् सूक्ष्मतरं नादमेव परामृशेत् ॥
घनमुत्सृज्य वा सूक्ष्मे सूक्ष्ममुत्सृज्य वा घने ।
रममाणमपि क्षिप्तं मनो नान्यत्र चालयेत् ॥
यत्र कुत्रापि वा नादे लगति प्रथमं मनः ।
तत्रैव सुस्थिरीभूय तेन सार्द्धं विलीयते ॥
मकरन्दं पिबन् भृङ्गो गन्धं नापेक्षते यथा ।
नादासक्तं तथा चित्तं विषयान्न हि काङ्क्षते ॥
मनोमत्तगजेन्द्रस्य विषयोद्यानचारिणः ।
नियमने समर्थोऽयं निनादनिशिताङ्कुशः ॥
बद्धं तु नादबन्धेन मनः संत्यक्तचापलम् ।
प्रयाति सुतरां स्थैर्य्यं छिन्नपक्षः खगो यथा ॥
सर्व्वचिन्तां परित्यज्य सावधानेन चेतसा ।
नाद एवानुसन्धेयो योगसाम्राज्यमिच्छता ॥
नादोऽन्तरङ्गसारङ्गबन्धने वागुरायते ।
अन्तरङ्गकुरङ्गस्य वधे व्याधायतेऽपि च ॥
अन्तरङ्गस्य यमिनो वाजिनः परिघायते ।
नादोपास्तिरतो नित्यमवधार्य्या हि योगिना ॥
बद्धं विमुक्तचाञ्चल्यं नादगन्धकजारणात् ।
मनः पारदमाप्नोति निरालम्बाख्यखेऽटनम् ॥
नादश्रवणतः क्षिप्रमन्तरङ्गभुजङ्गमः ।
विस्मृत्य सर्व्वमेकाग्रः कुत्रचिन्नहि धावति ॥
काष्ठे प्रवर्त्तितो वह्निः काष्टेन सह शाम्यति ।
नादे प्रवर्त्तितं चित्तं नादेन सह लीयते ॥
घण्टादिनादसक्तस्तब्धान्तःकरणहरिणस्य ।
प्रहरणमपि सुकरं शरसन्धानप्रवीणश्चेत् ॥
अनाहतस्य शब्दस्य ध्वनिर्य उपलभ्यते ।
ध्वनेरन्तर्गतं ज्ञेयं ज्ञेयस्यान्तर्गतं मनः ।
मनस्तत्र लयं याति तद्बिष्णोः परमं पदम् ॥
तावदाकाशसङ्कल्पो यावच्छब्दः प्रवर्त्तते ।
निःशब्दं तत्परं ब्रह्म परमात्मेति गीयते ॥
यत्किञ्चिन्नादरूपेण श्रूयते शक्तिरेव सा ।
यस्तत्त्वान्तो निराकारः स एव परमेश्वरः ॥
सर्व्वे हष्ठलयोपाया राजयोगस्य सिद्धये ।
राजयोगसमारूढः पुरुषः कालवञ्चकः ॥
तत्त्वं बीजं हठः क्षेत्रमौदासीन्यं जलं त्रिभिः ।
उन्मनी कल्पलतिका सद्य एव प्रवर्त्तते ॥
सदा नादानुसन्धानात् क्षीयन्ते पापसञ्चयाः ।
निरञ्जने विलीयेते निश्चितं चित्तमारुतौ ॥
शङ्खदुन्दुभिनादञ्च न शृणोति कदाचन ।
काष्ठवज्जायते देह उन्मन्यावस्थया ध्रुवम् ॥
सर्वावस्थाविनिर्मुक्तः सर्व्वचिन्ताविवर्ज्जितः ।
मृतवत्तिष्ठते योगी स मुक्तो नात्र संशयः ॥” * ॥
स्वनामख्यातमुनिविशेषः । अयन्तु ईश्वरमुनेः
पुत्त्रः । न्यायतत्त्वयोगरहस्ययोः प्रणेता । अस्य
वासस्थानं दाक्षिणात्यप्रदेशः ॥)

नादेयं, क्ली, (नद्या नदस्य वा इदं तत्र भवं वा ।

नदी वा नद + ढक् ।) सैन्धवलवणम् । इति
रत्नमाला ॥ सौवीराञ्जनम् । इति राजनिर्घण्टः ॥
नदीनदसम्बन्धिजलादौ, त्रि । यथा, --
(“नादेयं नादेयं शरदि वसन्ते च नादेयम् ।
पानीयं पानीयं शरदि वसन्ते च पानीयम् ॥”
इति वैद्यकराजवल्लभीयद्रव्यगुणे ॥)
“नद्या नदस्य वा नीरं नादेयमिति कीर्त्तितम् ॥”
अस्य गुणाः । यथा, भावप्रकाशे ।
“नादेयमुदकं रूक्षं वातलं लघु दीपनम् ।
अनभिष्यन्दि विशदं कटुकं कफपित्तनुत् ॥”
(न आदेयमिति विग्रहे अग्राह्ये, त्रि । यथा, --
“सौगन्ध्यहीनं नादेयं पुष्पं कान्तमपि क्वचित् ॥”)

नादेयः, पुं, (नद्यां भवः । नदी + ढक् ।) काश-

तृणम् । वानीरवृक्षः । इति राजनिर्घण्टः ॥

नादेयी, स्त्री, (नद्यां भवा । “नद्यादिभ्यो ढक् ॥”

४ । २ । ९७ । इति ढक् ततो ङीष् ।) अम्बुवेतसः ।
भूमिजम्बुका । वैजयन्तिका । इत्यमरः । २ । ४ ।
६५ ॥ नागरङ्गः । जवा । द्यङ्गुष्ठः । इति मेदिनी ।
ये, ८६ ॥ अग्निमन्थः । (अस्याः पर्य्यायो यथा,
“अग्निमन्थो जयः स स्याच्छ्रीपर्णी गणिकारिका ।
जया जयन्ती तर्कारी नादेयी वैजयन्तिका ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
काकजम्बूः । इति राजनिर्घण्टः ॥

नाध, ऋ ङ नाथे । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-सकं ऐश्ये अकं-सेट् ।) ऋ, अननाधत् ।
ङ, नाधते । नाथो दवाशीरैश्यार्थनानि । इति
दुर्गादासः ॥

नाना, व्य, (न + “विनञ्भ्यां नानाञौ न सह ।”

५ । २ । २७ । इति नाञ्प्रत्ययः ।) अने-
कार्थम् । (यथा, मनुः । ९ । १४८ ।
“बह्वीषु चैकजातानां नानास्त्रीषु निबोधत ॥”)
उभयार्थम् । विनार्थम् । इति मेदिनी । ने, ४५ ॥
(यथा, मुग्धबोधे ।
“न नाना शम्भुना रामात् वर्षेणाघोऽक्षजोवरः ॥”)

नानाकन्दः, पुं, (नाना बहवो कन्दा यस्य ।)

पिण्डालुः । इति राजनिर्घण्टः ॥ बहुमूलञ्च ॥
(बहुमूलयुक्ते, त्रि ॥)

नानाध्वनिः, पुं, (नाना ध्वनिर्यत्र । नानाविधो

ध्वनिर्वा ।) काहलावेणुवीणादिशब्दः । इति
हारावली । २४९ ॥

नानारूपः, त्रि, (नाना रूपाणि यस्य ।) अनेक-

प्रकारः । तत्पर्य्याय । विविधः २ बहुविधः ३
पृथग्विधः ४ । इत्यमरः । ३ । १ । ९३ ॥ (यथा,
मनुः । ९ । ३८ ।
“भूमावप्येककेदारे कालोप्तानि कृषीबलैः ।
नानारूपाणि जायन्ते बीजानीह स्वभावतः ॥”
नाना रूपाणि इति विग्रहे । वहुविधरूपे क्ली ।
यथा, गोः रामायणे । ३ । १ । २१ ।
“नानारूपैर्विरूपास्ते रूक्षैरणुभदर्शनाः ॥”)
पृष्ठ २/८६०

नानावर्णः, पुं, (नानाविधो वर्णः ।) बहुविध-

शुक्लादिवर्णः । इति भरतः ॥ तत्पर्य्यायः ।
चित्रम् २ किर्म्मीरः ३ कल्माषः ४ शवलः ५
एतः ६ कर्व्वुरः ७ । इत्यमरः । १ । ५ । १७ ॥ विचि-
त्रम् ८ शारङ्गम् ९ कम्बरः १० कर्म्मारः ११
चित्रलः १२ । इति शब्दरत्नावली ॥ ब्राह्मण-
क्षत्त्रियादिश्च ॥ (नानाविधो वर्णो यस्येति ।
विचित्रवर्णयुक्ते, त्रि । यथा, सुश्रुते । १ । ३८ ।
“नानावर्णा लघ्वश्मवती प्रविरलाल्पपाण्डवृक्ष-
प्ररोहाग्निगुणभूयिष्ठा ॥”)

नानाविधः, त्रि, (नाना विधाः प्रकारा यस्य ।)

अनेकप्रकारः । विविधः । यथा, --
“तथा नानाविधैः पुष्पैर्द्रद्यैर्वीरक्रयाहृतैः ॥”
इति हरिभक्तिविलासे १६ विलासः ॥

नानुष्ठेयं, त्रि, (न अनुष्ठेयप् ।) अननुष्ठेयम् ।

अकर्त्तव्यम् । इति व्याकरणम् ॥

नान्त्रं, क्ली, (नमत्यनेनेति । नम + “भ्रस्जिगमि-

नमिहनिविश्यशां वृद्धिश्च ।” उणां । ४ । १५९ ।
इति ष्ट्रन् वृद्धिश्च ।) स्तोत्रम् । इत्युणादिकोषः ॥

नान्दिकरः, पुं, (करोतीति । कृ + अच् । नान्द्याः

नान्दीश्लोकस्य करः पाठकः । “ङ्यापोः संज्ञा-
छन्दसोर्बहुलम् ।” ६ । ३ । ६३ । इति ह्रस्वः ।)
नान्दीकरः । इत्यमरटीकायां रमानाथः ॥

नान्दी, स्त्री, (नन्दन्त्यनयेति । नन्द + घञ् । निपा-

तनात् दीर्घः । ततो ङीप् ।) नाटकाद्यादौ
मङ्गलार्था देवद्बिजादीनामाशीः । यथा, --
“आशीर्व्वचनसंयुक्ता स्तुतिर्यस्मात् प्रवर्त्तते ।
देवद्विजनृपादीनां तस्मान्नान्दीति सा स्मृता ॥
केचित्तु । भेरीप्राया नान्दी ।” इत्यमरटीकायां
भरतः ॥ * ॥ नाटके विघ्नविघातायादौ नान्दी
कार्य्या । यदाह भरतः ।
“यद्यप्यङ्गानि भूयांसि पूर्ब्बरङ्गस्य नाटके ।
तथाप्यवश्यं कर्त्तव्या नान्दी विघ्नप्रशान्तये ॥
देवद्विजनृपादीनामाशीर्व्वादपरायणा ।
नन्दन्ति देवता यस्मात्तस्मान्नान्दी प्रकीर्त्तिता ॥”
अन्यच्च ।
“देवद्विजनृपादीनामाशीर्व्वन्दनपूर्ब्बिका ।
नान्दी कार्य्या बुधैर्यत्नान्नमस्कारेण संयुता ॥
गङ्गा नागपतिः सोमः सुधा नन्दा जयाशिषः ।
एभिर्नामपदैः कार्य्या नान्दी धाराभिरङ्किता ॥
प्रशस्तपदविन्यासा चन्द्रसंकीर्त्तनान्विता ।
आशीर्व्वादपरा नान्दी योज्येयं मङ्गलात्मिका ॥
काचिद्दशपदा नान्दी काचिदष्टपद्रा तथा ।
सूत्रधारः पठेन्नान्दी मध्यमस्वरमाश्रितः ॥”
इति मालतीमाधवटीका ॥
समृद्धिः । यथा । “नान्दी समृद्धिरिति कथ्यते ।”
इत्युद्वाहतत्त्वे ब्रह्मपुराणम् ॥

नान्दीकः, पुं, (नान्द्यै नान्द्यर्थं कायतीति । कै +

कः ।) तोरणस्तम्भः । इति त्रिकाण्डशेषः ॥

नान्दीकरः, त्रि, (नान्दीं करोतीति । कृ + “दिवा-

विभेति ।” ३ । २ । २१ । इति टः ।) नान्दी-
श्लोकपाठकारी । तत्पर्य्यायः । नान्दीवादी २ ।
इत्यमरः । ३ । १ । ३८ ॥ “केचित्तु भेरीप्राया
नान्दी तद्बादनशीलः अत्र वदिकृञौ वाद-
नार्थावित्याहुः ।” इति भरतः ॥

नान्दीपटः, पुं, (नान्द्यै वृद्ध्यर्थं पटो यत्र ।)

कूपादिमुखबन्धनम् । तत्पर्य्यायः । नान्दीमुखः २
वीनाहः ३ । इति हेमचन्द्रः । ४ । १५८ ॥

नान्दीमुखः, पुं, (नान्द्यै वृद्ध्यर्थं मुखं यस्य ।)

कूपादिमुखबन्धनम् । इति हेमचन्द्रः । ४ । १५८ ॥
वृद्धिश्राद्धभुक् पितृगणः । यथा, --
“नान्दीमुखं पितृगणं पूजयेत् प्रयतो गृही ॥”
इति विष्णुपुराणम् ॥
स च पित्रादित्रिकं मातामहादित्रिकञ्च । इति
गोभिलसूत्रम् ॥ (नान्द्या वृद्धेर्मुखम् ।) वृद्धिश्राद्धे,
क्ली । यथा, --
“नान्दीमुखे विवाहे च प्रपितामहपूर्ब्बकम् ।
अत्र नान्दीमुखपदस्य श्राद्धपरत्वे इत्युद्वाह-
तत्त्वलेखनादन्यत्र श्राद्धपरत्वम् ।” तदितिकर्त्त-
व्यता यथा । “तत्र गोभिलः । अथाभ्युदायक-
श्राद्धे युग्मानासादयेत् प्रदक्षिणमुपचारः ऋजवो
दर्भाः यवैस्तिलार्थः सम्पन्नमिति तृप्तिप्रश्नः
दधिवदराक्षताज्यमिश्राः पिण्डाः नान्दीमुखाः
पितरः प्रीयन्तामिति दैवे वाचयित्वा नान्दी-
मुखेभ्यः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यः
मातामहेभ्यः प्रमातामहेभ्यो वृद्धप्रमातामहेभ्यश्च
प्रीयन्तामिति न स्वधाञ्च प्रयुञ्जीतेति ॥ अपि च ।
स्वधयेतिपदस्थाने पुष्ट्याशब्दं वदेदिह ।
पितॄनितिपदात् पूर्ब्बं वदेन्नान्दीमुखानिति ॥
कर्म्मादिषु च सर्व्वेषु मातरः स्वगणाधिपाः ।
पूजनीयाः प्रयत्नेन पूजिताः पूजयन्ति ताः ॥
प्रतिमासु च शुभ्रासु लिखिता वा पटादिषु ।
अपि वाक्षतपुञ्जेषु नैवेद्यैश्च पृथग्विधैः ॥
कुड्यलग्नां वसोर्धारां सप्तवारान् घृतेन तु ।
कारयेत् पञ्च वारान् वा नातिनीचां न चोच्छ्रि-
ताम् ॥
आयुष्याणि च शान्त्यर्थं जप्त्वा तत्र समाहितः ।
षड्भ्यः पितृभ्यस्तदनु श्राद्धदानमुपक्रमेत् ॥
वशिष्ठोक्तो विधिः कृत्स्नो द्रष्टव्योऽत्र निरा-
मिषः ।
अतः परं प्रवक्ष्यामि विशेष इह यो भवेत् ॥
प्रातरामन्त्रितान् विप्रान् युग्मानुभयतस्तथा ।
उपवेश्य कुशान् दद्यादृजुनैव हि पाणिना ॥
निपातो न हि सव्यस्य जानुनो विद्यते क्वचित् ।
सदा परिचरेद्भक्त्या पितॄनप्यत्र देववत् ॥
पितृभ्य इति दत्तेषु उपवेश्य कुशेषु तान् ।
गोत्रनामभिरामत्र्य पितॄनर्घ्यं प्रदापयेत् ॥
नात्रापसव्यकरणं न पित्र्यं तीर्थमिष्यते ।
पात्राणां पूरणादीनि दैवे नैव तु कारयेत् ॥
ज्येष्ठोत्तरकरान् युग्मान् कराग्राग्रपविचकान् ।
कृत्वार्घ्यं सम्प्रदातव्यं नैकैकस्यात्र दीयते ॥
मधु मध्विति यस्तत्र त्रिर्ज्जपोऽशितुमिच्छताम् ।
गायत्त्र्यनन्तरं सोऽत्र मधुमन्त्रविवर्ज्जितः ॥
न चाश्नत्सु जपेदत्र कदाचित् पितृसंहिताम् ।
अन्य एव जपः कार्य्यः सोमसामादिकः शुभः ॥
यस्तत्र प्रकरोन्नस्य तिलवद्यववत्तथा ।
उच्छिष्टसन्निधौ सोऽत्र तृप्तेषु विपरीतकः ॥
सम्पन्नमिति तृप्ताः स्थ प्रश्नस्थाने विधीयते ।
सुसम्पन्नमिति प्रोक्ते शेषमन्नं निवेदयेत् ॥
प्रागग्रेष्वथ दर्भेषु आद्यमामन्त्र्य पूर्ब्बवत् ।
अपः क्षिपेन्मूलदेशेऽवनेनिक्ष्वेति निस्तिलाः ॥
द्वितीयञ्च तृतीयञ्च मध्यदेशाग्रदेशयोः ।
मातामहप्रभृतींस्तु एतेषामेव वामतः ॥
सर्व्वस्मादन्नमुद्धुत्य व्यञ्जनैरुपसिच्य च ।
संयोज्य यवकर्कन्धुदधिभिः प्राङ्मुखस्ततः ॥
अवनेजनवत् पिण्डान् दत्त्वा विल्वप्रमाणकान् ।
तत्पात्रक्षालनेनाथ पुनरप्यवनेजयेत् ॥
उत्तरोत्तरदानेन पित्तानामुत्तरोत्तरम् ।
भवेदधश्चाचरणादधोऽधः श्राद्धकर्म्मसु ॥
तस्मात् श्राद्धेषु सर्व्वेषु वृद्धिमत्स्वितरेषु च ।
मूलमध्याग्रदेशेषु ईषत्सक्तांश्च निर्व्वपेत् ॥
गन्धादीन्निक्षिपेत्तूष्णीं तत आचामयेत्
द्बिजान् ॥”
“अथाग्रभूमिमासिञ्चेत् सु सुप्रोक्षितमस्त्विति ।
शिवा आपः सन्त्विति च युग्मानेवोदकेन च ।
सौमनस्यमस्त्विति च पुष्पादानमनन्तरम् ॥
अक्षतञ्चारिष्टञ्चास्त्वित्यक्षतानपि दापयेत् ।
अक्षय्योदकदानन्तु अर्घ्यदानघदिष्यते ॥
षष्ठ्यैव नित्यं तत् कुर्य्यान्न चतुर्थ्या कदाचन ।
प्रार्थनासु प्रतिप्रोक्ते सर्व्वास्वेव द्विजोत्तमैः ॥
पवित्रान्तर्हितान् पिण्डान् सिञ्चेदुत्तानपात्रकृत् ।
युग्मानेव स्वस्तिवाच्यानङ्गुष्ठग्रहणं सदा ॥
कृत्वा धूर्य्यस्य विप्रस्य प्रणम्यानुव्रजेत्ततः ॥” * ॥
तन्निमित्तानि यथा, विष्णुपुराणे ।
“कन्यापुत्त्रविवाहे च प्रवेशे नववेश्मनः ।
नामकर्म्मणि बालानां चूडाकर्म्मादिके तथा ॥
सीमन्तोन्नयने चैव पुत्त्रादिमुखदर्शने ।
नान्दीमुखं पितृगणं पूजयेत् प्रयतो गृही ॥”
मत्स्यपुराणे ।
“अन्नप्राशे च सीमन्ते पुत्त्रोत्पत्तिनिमित्तके ।
पुंसवने निषेके च नववेश्मप्रवेशने ॥
देववृक्षजलादीनां प्रतिष्ठायां विशेषतः ।
तीर्थयात्रावृषोत्सर्गे वृद्धिश्राद्धं प्रकीर्त्तितम् ॥”
कूर्म्मपुराणे ।
“तीर्थयात्रासमारम्भे तीर्थप्रत्यागमेषु च ।
वृद्धिश्राद्धं प्रकुर्व्वीत बहुसर्पिःसमन्वितम् ॥”
इति श्राद्धतत्त्वम् ॥

नान्दीमुखी, स्त्री, (नान्द्यै वृद्ध्यर्थं मुखं यस्याः ।

ङीप् ।) सामगेतरवृद्धिश्राद्धभुङ्मातृगणः । इति
यजुर्व्वेदीयवृद्धिश्राद्धपद्धतिः ॥ (कुधान्यविशेषः ।
यथा, सुश्रुते सूत्रस्थाने ४६ अध्याये ।
“कोरदूषकश्यामाकनीवारशान्तनुतुवरकोद्दा-
लकप्रियङ्गुमधुलिकानान्दीमुखीकुरुविन्दगवे-
धुकवरुतकोदपर्णीमुकुन्दकरेणुयवप्रभृतयः कुधा-
न्यविशेषाः ॥” चतुर्द्दशाक्षरवृत्तिविशेषः । अस्य
लक्षणादिकन्तु छन्दःशब्दे द्रष्टव्यम् ॥ * ॥ नान्दी-
पृष्ठ २/८६१
मुखं करिष्यमाणत्वेनास्त्यस्येति । अच् । अभ्यु-
दयप्रारम्भयुक्ते, त्रि । यथा, रामायणे । २ ।
८१ । १ ।
“ततो नान्दीमुखीं रात्रिं भरतं सूतमागधाः ।
तुष्टुवुः सविशेषज्ञास्तवैर्मङ्गलसंस्तवैः ॥”)

नान्दीवादी, [न्] त्रि, (नान्दीं वदतीति । वद +

णिनिः ।) नान्दीश्लोकपाठकारी । नान्दीवदन-
शीलः । भेरीवादनशीलः । इत्यमरटीकायां
भरतः ॥

नापितः, पुं, (न आप्नोति सरलतामिति । न +

आप् + “नञ्याप इट् च ।” उणां ३ । ८७ ।
इति तन् इट् च ।) वर्णसङ्करजातिविशेषः ।
स तु पट्टिकार्य्यां कुवेरिणो जातः । इति परा-
शरपद्धतिः ॥ शूद्रायां क्षत्त्रियाज्जातः । इति
विवादार्णवसेतुः ॥ तस्य क्षौरं कर्म्म । तत्-
पर्य्यायः । क्षुरी २ मुण्डी ३ दिवाकीर्त्तिः ४
अन्तावसायी ५ । इत्यमरः । २ । १० । १० ॥ छत्री ६
वात्सीसुतः ७ नखकुट्टः ८ ग्रामणीः ९ । इति
शब्दरत्नावली ॥ चन्द्रिलः १० मुण्डः ११ भाण्ड-
पुटः १२ । इति जटाधरः ॥ (यथा, पञ्चतन्त्रे ।
३ । ७३ ।
“नराणां नापितो धूर्त्तः पक्षिणाञ्चैव वायसः ।
दंष्ट्रिणाञ्च शृगालस्तु श्वेतभिक्षुस्तपस्विनाम् ॥”)

नापितशालिका, स्त्री, (नापितस्य शालिका

गृहम् ।) नापितशाला ॥ नापितगृहम् । तत्-
पर्य्यायः । खरकूटी २ । इति त्रिकाण्डशेषः ॥

नाभिः, पुं, (नह्यते बध्नाति विपक्षादीनिति ।

नह बन्धे + “नहो भश्च ।” उणां ४ । १२५ ।
इति इञ् भश्चान्तादेशः ।) मुख्यनृपः । चक्र-
मध्यम् । (यथा, पञ्चतन्त्रे । १ । ९३ ।
“अरैः सन्धार्य्यते नाभिर्नाभौ चाराः प्रतिष्ठिताः ।
स्वामिसेवकयोरेवं वृत्तिचक्रं प्रवर्त्तते ॥”)
क्षत्त्रियः । इति मेदिनी । भे, ५ ॥ प्रियव्रतराज-
पौत्त्रः । (अग्नीध्रस्य पुत्त्रः । यथा, ब्रह्माण्डे ।
३५ अध्याये ।
“तस्य पुत्त्रा बभूबुस्तु प्रजापतिसमा नव ।
ज्येष्ठो नाभिरिति ख्यातस्तस्य किंपुरुषोऽनुजः ॥”
“नाभये दक्षिणं वर्षं हिमवन्तं पिता ददौ ॥”)
गोत्रम् । इति संक्षिप्तसारोणादिवृत्तिः ॥ (प्रधा-
नम् । इति विश्वः ॥ यथा, रघुः । १८ । २० ।
“सुतोऽभवत् पङ्कजनाभकल्पं
कृत्स्नस्य नाभिर्नृ पमण्डलस्य ॥”
महादेवः । यथा, महाभारते । १३ । १७ । ९२ ।
“नाभिर्नन्दिकरो भावः पुष्करः स्थपतिः
स्थिरः ॥”)

नाभिः, पुं स्त्री, (नह बन्धे + इञ् भश्चान्तादेशः ।)

प्राण्यङ्गम् । इति मेदिनी । भे, ६ ॥ नाइ इति
भाषा । तत्पर्य्यायः । नाभी २ तुन्दकूपी ३ । इति
शब्दरत्नावली ॥ उदरावर्त्तः ४ । इति राज-
निर्घण्टः ॥ (यथा, पञ्चदश्याम् । ६ । ११७ ।
“विष्णुर्नाभेः समुद्भूतो वेधाः कमलजस्ततः ।
विष्णुरेवेश इत्याहुर्लोके भागवता जनाः ॥”)
“स च गर्भस्थस्य सप्तभिर्म्मासैर्भवति ।” इति
सुखबोधः ॥ (“तस्य चेन्नाभिः पच्येत तां लोध्र-
मधुकप्रियङ्गुदारुहरिद्राकल्कसिद्धेन तैलेनाभ्य-
ज्यादेषामेवतैलौषधानां चूर्णेनावचूर्णयेदेषनाडी-
कल्पनविधिरुक्तः सम्यक् ॥” इति चरके शरीर-
स्थाने अष्टमेऽध्याये ॥) अस्मिन् स्थाने मणि-
पुरनामदशदलपद्ममस्ति । यथा, --
“तदूर्द्ध्वे नाभिदेशे तु मणिपूरं महत्प्रभम् ।
मेघाभं विद्युदाभञ्च बहुतेजोमयं ततः ॥
मणिवद्भिन्नं तत् पद्मं मणिपूरं तथोच्यते ।
दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम् ।
शिवेनाधिष्ठितं पद्मं विश्वालोकनकारणम् ॥”
इति तन्त्रम् ॥
कस्तूरिकामदे, स्त्री । इति मेदिनी । भे, ६ ॥

नाभिकण्टकः, पुं, (नाभेः कण्टक इव ।) आवर्त्तः ।

इति शब्दरत्नावली ॥ गोँड इति भाषा ॥

नाभिका, स्त्री, (नाभिरिव कायतीति । कै + कः ।)

कटभीवृक्षः । इति राजनिर्घण्टः ॥

नाभिगुडकः, पुं, (नाभौ गुडको गोलः ।) स्फीत-

नाभिः । गोँड इति भाषा । तत्पर्य्यायः ।
गर्भण्डः २ । इति त्रिकाण्डशेषः ॥ नाभिकण्टकः
३ आवर्त्तः ४ । इति शब्दरत्नावली । गोण्डः ५
नाभिगोलकः ६ । इति जटाधरः ॥

नाभिगोलकः, पुं, (नाभौ गोलकः ।) नाभिगुडकः ।

इति जटाधरः ॥

नाभिजः, पुं, (नाभौ जायते इति । जन् + डः ।)

ब्रह्मा । इति धरणिः ॥

नाभिजन्मा, [न्] पुं, (नाभौ जन्म यस्य ।)

ब्रह्मा । इति त्रिकाण्डशेषः ॥

नाभिनाला, स्त्री, (नाभिस्थिता नाला नाडी ।)

नाभिसम्बन्धिनी नाडी । तत्पर्य्यायः । अमला
२ । इति त्रिकाण्डशेषः ॥ (यथा, रघुः । ५ । ७ ।
“तदङ्कशय्याच्युतनाभिनाला
कच्चित् मृगीनामनघा प्रसूतिः ॥”)

नाभिभूः, पुं, (नाभौ भूरुत्पत्तिर्यस्य ।) ब्रह्मा ।

इति हेमचन्द्रः । १ । १२७ ॥

नाभिवर्षः, पुं, (नाभेरग्नीध्रपुत्त्रस्य वर्षः ।) भारत-

वर्षः । यथा, “योऽसौ मनुपुत्त्रः प्रियव्रतो नाम
सप्तद्वीपाधिपतिर्बभूव तस्य चाग्नीध्रादयो दश
पुत्त्रा बभूवुः त्रयः प्रव्रजिताः शिष्टानां सप्तानां
सप्त द्वीपाः पित्रा दत्ताः । तत्र जम्बद्वीपाधिपते-
श्चाग्नीध्रस्य नव पुत्त्रा बभूवुः ।
नाभिः किंपुरुषश्चैव हरिवर्ष इलावृतः ।
रम्यो हिरण्मयश्चैव कुरुर्भद्राश्वकेतुमान् ॥
नव वर्षाणि तेभ्यः पित्रा दत्तानि वनं प्रविशता
चाग्नीध्रेण । हिमालयस्याधिपतेर्नाभेरृषभः
पुत्त्रो बभूव ऋषभाद्भरतः भरतेन चिरकालं
धर्म्मेण शासितत्वादिदं भारतं वर्षमभूत ।” इति
नारसिंहे ३० अध्यायः ॥

नाभी, स्त्री, (नाभि + वा ङीष् ।) नाभिः । इति

शब्दरत्नावली ॥ (यथा, आर्य्यासप्तशत्याम् ।
६०८ ।
“सनखपदमधिकगौरं नाभीमूलं निरंशुकं
कृत्वा ।
अनया सेवित पवन त्वं किं कृतमलयभृगुपातः ॥”)

नाभीलं, क्ली, (नाभीं लातीति । ला + कः ।)

नार्य्या वङ्क्षणः । कृच्छ्रम् । गर्भाण्डम् । इति
मेदिनी । ले, १०१ ॥ नाभिगाम्भीर्य्यम् । इति
हेमचन्द्रः ॥

नाभ्यं, त्रि, (नाभेरिदमिति । नाभि + यत् ।)

नाभिसम्बन्धि । इति व्याकरणम् ॥ (यथा,
भागवते । ३ । ४ । १३ ।
“पुरा मया प्रोक्तमजाय नाभ्ये
पद्मे निषण्णाय ममादिसर्गे ॥”
नाभये हितम् । “शरीरावयवात् यत् ।” ५ । १ । ६ ।
इति यत् । “नाभि नभश्च ।” ५ । १ । २ ।
इत्यस्य वार्त्तिकोक्त्या नाभेर्नभादेशस्तु न भवति ।
अस्य गवादितया सन्नियोगशिष्टत्वात् रथनाभा-
वेव प्रवृत्तेः । नामिहिते च ॥ महादेवे, पुं ।
यथा, महाभारते । १२ । १८४ । १९ ।
“नमो नाभाय नाभ्याय नमः कटकटाय च ॥”)

नाम, व्य, (नामयतीति नाम्यतेऽनेन वा । नम + णिच्

+ बाहुलकात् डः ।) प्राकाश्यम् । सम्भावना ।
क्रोधः । उपगमः । कुत्सनम् । इत्यमरः । ३ । ३ ।
२५० ॥ प्रकाश्ये यथा । हिमालयो नाम नगाधि-
राजः । हिमालयः प्रकाशोऽतिप्रसिद्ध इत्यर्थः ॥
सम्भाव्ये सम्भावनानाम् इह नाम सीता भवि-
ष्यति ॥ क्रोधे ममापि नाम दशाननस्य परैरभि-
भवः ॥ उपगमः सासूयोऽङ्गीकारः एवं नामास्तु ॥
कुत्सने को नामायं सवितुरुदये स्वापमेवं
विधत्ते ॥ विस्मये च । अन्धो नाम गिरिमारो-
हति ॥” इति तट्टीकायां भरतः ॥ स्मरणम् ।
विकल्पः । इति मेदिनी । मे, ५३ ॥

नाम, [न्] क्ली, म्नायते अभ्यस्यते यत् तत् ।

(म्ना अभ्यासे + “नामन् सोमन् व्योमन्निति ।”
उणां ४ । १५० । इति मनिन्प्रत्ययेन निपात-
नात् साधुः ।) संज्ञा । तत्पर्य्यायः । आख्या २
आह्वा २ अभिधानम् ४ नामधेयम् ५ । इत्य-
प्तरः । १ । ६ । ८ ॥ आह्वानम् ६ लक्षणम् ७ व्यप-
देशः ८ आह्वयः ९ संज्ञा १० गोत्रम् ११
अभिख्या १२ । इति शब्दरत्नावली ॥ लिङ्गम् ।
तच्च स्यादिविमक्यर्हः शब्दः । तत्तु पञ्चविधं
यथा, --
“उणाद्यन्तं कृदन्तञ्च तद्धितान्तं समासजम् ।
शब्दानुकरणञ्चैव नाम पञ्चविधं स्मृतम् ॥”
इति गोयीचन्द्रः ॥
अवक्तव्यनामानि यथा, --
“आत्मनाम गुरोर्नाम नामानि कृपणस्य च ।
प्राणान्तेऽपि न वक्तव्यं ज्येष्ठपुत्त्रकलत्रयोः ॥”
इति कर्म्मलोचनम् ॥

नामकरणं, क्ली, (नाम्नः करणं यत्र ।) संस्कार-

विशेषः । तत्रोक्तनक्षत्राणि यथा । अश्विनी १
रोहिणी ४ मृगशिराः ५ पुनर्व्वसुः ७ उत्तर-
फल्गुनी १२ स्वाती १५ अनुराधा १७ उत्तरा-
पृष्ठ २/८६२
षाढा २१ श्रवणा २२ धनिष्ठा २३ शतभिषा २४
उत्तरभाद्रपदा २६ रेवती २७ ॥ तत्र लग्नं यथा ।
यल्लग्नस्य प्रथमचतुर्थसप्तमदशमस्थाने शुभग्रहा
स्तिष्ठन्ति तल्लग्ने नामकरणं कार्य्यम् ॥ तत्र
दिननियमः । दश १० एकादश ११ द्बादश १२
शत १०० दिनानि । इति ज्योतिःसारसंग्रहः ॥
संवत्सरे वेति गोभिलः ॥ एतच्च प्रशस्ततरतम-
परपरकालकर्म्मेतरपरम् । एकादशाह इति
मुख्यः कल्प इति रघुनन्दनमतम् ॥ * ॥ तदनु-
ष्ठानं यथा । “जन्मगृहाभ्यन्तरे चन्द्रदर्शनात्
प्राक् माता शुचिना वस्त्रेण कुमारमाच्छाद्य
भर्त्तुर्दक्षिणतः स्थित्वा प्रयच्छत्युदक्शिरसं
पश्चिमदेशं गत्वा उत्तरत उदग्रेषु कुशेषु
उपविशति अतः पितैवाधिकारी । अथ जुहोति
प्रजापतये कुमारस्य तिथये नक्षत्राय । तिथि-
नक्षत्रयोर्देवतायै ताश्च ब्रह्मत्वष्टृविष्णुयमसोम-
कुमारमुनिवसुपिशाचधर्म्मरुद्रवायुमन्मथयक्ष-
पितरः पौर्णमास्यां विश्वेदेवाः । एषां होमे
विशेषमाह छन्दोगपरिशिष्टम् ।
‘नामधेये मुनिवसुपिशाचा बहुवत् सदा ।
यक्षाश्च पितरो देवा यष्टव्यास्तिथिदेवताः ॥’
तेन मुन्यादयो बहुवचनान्ता होतव्याः । शेषा
एकवचनान्ता होतव्याः । नक्षत्राणि अश्वि-
न्यादीनि । तद्देवताश्च ज्योतिषे । अश्वियमेत्या-
दयः । नक्षत्रहोमे छन्दोगपरि शिष्टम् ।
‘आग्नेयाद्वेऽथ सर्पाद्वे विशाखाद्वे तथैव च ।
आषाढाद्वे धनिष्ठाद्वे अश्विन्याद्वे तथैव च ॥
द्बन्द्वान्यतानि बहुवदृक्षाणां जुहुयात् सदा ।
द्बन्द्वद्वयं द्बिवच्छेषमवशिष्टान्यथैकवत् ॥’
तद्देवताहोमे विशेषः ।
‘देवता अपि हूयन्ते बहुवत् सर्पवस्वपः ।
देवाश्च पितरश्चैव द्बिवद्वध्नाश्विनौ तथा ॥’
देवाः विश्वेदेवाः । कवर्गादिपञ्चतृतीयादि-
वर्णान्यतमवर्णाद्यन्तरस्थं यरलवाद्यन्यतमवर्ण-
मध्यं विश्वम्भरादवत् कृदन्तं सम्बोधनान्तं दीर्घ-
विसर्गान्तं च नाम कुर्य्यात् । एतच्च स्वगृह्योक्त-
त्वात् प्रशस्तपरम् । कुलदेवतानक्षत्राभि-
सम्बन्धं च नाम कुर्य्यात् । तत्र शङ्खलिखितवच-
नान्नामान्तरकरणव्यवहारः । अत्र नक्षत्र-
सम्बन्धेन नामकरणं शतपदचक्रानुरोधात्
स्वनक्षत्रपादानुसारेण । ततश्च कुमारस्य मुख-
भवान् प्राणनिर्गमोपायभूतान् छिद्रविशेषान्
सप्त मुखमक्षिणी नासिके कर्णाविति आभि-
मुख्येन स्पृशन् कोऽसि कतमोऽसीति मन्त्रं जपेत् ॥
तच्च नाम शर्म्मवर्म्माद्युपपदान्तत्वेन कर्त्तव्यम् ।
यथा, --
‘ततस्तु नाम कुर्व्वीत पितैव दशमेऽहनि ।
देवपूर्ब्बं नराख्यं हि शर्म्मवर्म्मादिसंयुतम् ॥
शर्म्मेति ब्राह्मणस्योक्तं वर्म्मेति क्षत्त्रसंश्रयम् ।
गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः ॥
नार्यहोनं न चाशस्तं नापशब्दयुतं तथा ।
नामाङ्गल्यं जुगुप्स्यं वा नाम कुर्य्यात् समाक्षरम् ॥
नातिदीर्घं नातिह्रस्वं नातिगुर्व्वक्षरान्वितम् ।
सुखोच्चार्य्याक्षरं नाम कुर्य्याच्च प्रवणाक्षरम् ॥’
इति विष्णुपुराणे ३ अंशे १० अध्यायः ॥
प्रवणाक्षरं लघूत्तराक्षरम् । इति तट्टीकाकारः ॥
गोभिलः । ‘अयुग्मकदान्तं तथा स्त्रीणाम् ।’
अयुग्मकम् अयुगक्षरम् । दान्तं दकारान्तम् ।
यथा यशोदेत्यादि ॥ * ॥ तस्य श्रीपूर्ब्बकत्वं
यथा, --
‘देवं गुरुं गुरुस्थानं क्षेत्रं क्षेत्राधिदेवताम् ।
सिद्धं सिद्धाधिकारांश्च श्रीपूर्ब्बं समुदीरयेत् ॥’
इति राघवभट्टधृतप्रयोगदर्शनात् स्वर्गकामि-
त्वादिना सिद्धोऽधिकारो येषां नराणामित्यनेन
जीवतां श्रीशब्दादित्वं नाम्नो न मृतानां तथेति
शिष्टाचारः ॥ * ॥ गोभिलः । मात्रे चैनं प्रथमं
नामधेयमाख्याय यथार्थमुदीच्यं वामदेव्यगानान्तं
कुर्य्यात् गौर्दक्षिणा ।” इति संस्कारतत्त्वम् ॥

नामद्वादशी, स्त्री, (नाम्नः द्वादशी ।) व्रतविशेषः ।

यथा, --
“गौरी काली उमा भद्रा दुर्गा कान्तिः सर-
स्वती ।
मङ्गला वैष्णवी लक्ष्मीः शिवा नारायणी क्रमात् ।
मार्गतृतीयामारभ्य पूर्ब्बोक्तं लभते फलम् ॥
पूर्ब्बोक्तं फलं मार्गादिद्बादशमासे कृष्णाष्टमी-
व्रतफलम् ।
अर्द्धनारीश्वरं रुद्रमथवा उमशङ्करम् ॥
पूजयेद्विधिवन्नारी न वियोगमवाप्नुयात् ।
अथवा विष्णुरूपेण पूजयेच्चेश्वरं सदा ॥
शङ्करं वामभागस्थं सर्व्वकाममवाप्नुयात् ।
मार्गशिराद्ये केशवनारायणमाधवान् पूजयेत् ।
धूपस्रग्दीपाद्यैरुपोष्य संपूज्य दक्षिणाभिश्च
नामभिः । अश्वमेधनृपसूयवाजपेयमतिरात्र-
नक्तमथाग्निष्टोमोपवासमेव । पुरुषमेवसौत्रा-
मणिं पञ्चयज्ञहोमगोलक्षं सर्व्वमथास्थाप्यान्ते
नित्यं स्तरणार्च्चनात्तन्नाम्ना । इत्याद्ये नाम-
द्बादशी ।” इति देवीपुराणम् ॥

नामधेयं, क्ली, (नामैव । नाम + “भागरूप-

नामभ्यो धेयः ।” ५ । ४ । २५ । इत्यस्य वार्त्ति-
कोक्त्या धेयः ।) नाम । इत्यमरः । १ । ६ । ८ ॥
(यथा, मनुः । २ । ३० ।
“नामधेयं दशम्यान्तु द्वादश्यां वास्य कारयेत् ।
पुण्ये तिथौ मुहूर्त्ते वा नक्षत्रे वा गुणान्विते ॥”)

नामशेषः, त्रि, (नाम्नः शेषो यस्य । नाम आख्या

एव शेषो यस्येति वा ।) मृतः । इति हेम-
चन्द्रः । ३ । ३८ ॥ मरणे, पुं ।

नामापराधः, पुं, (नाम्नि नामविषये अपराधः ।

नाम्नः सकाशात् अपराधो वा ।) साधुनिन्दा-
दिरूपदुरदृष्टजनकव्यापारविशेषः । यथा, --
श्रीनारद उवाच ।
“के तेऽपराधा विप्रेन्द्र ! नाम्नो भगवतः कृताः ।
विविन्दन्ति नृणां कृत्यं प्राकृतं ह्यानयन्ति च ॥
तत् कथ्यतां महाभागापराधं नाम्नि केशवे ।
केन केन प्रकारेण भवेद्वै तज्जनादिषु ॥
सनत्कुमार उवाच ।
सतां निन्दा नाम्नः परममपराधं वितनुते
यतः ख्यातिं यातस्तमुपहसते गर्हयति च ।
तथा विष्णोरिष्टं य इह गुणनामादि सकलं
धिया भिन्नं पश्येत् स खलु हरिनामाहितकरः ॥
गुरोरवज्ञा श्रुतिशास्त्रनिन्दनं
तथार्थवादो हरिनाम्नि कल्पनम् ।
नाम्नां बलाद्यस्य हि पापबुद्धि-
र्न विद्यते तस्य शठस्य शुद्धिः ॥
दिवौकसां गुरोः पित्रोर्भूसुराणाञ्च गर्हनम् ।
नामापराधं यत्तत् स्याद्वैष्णवानां तथा नृणाम् ॥
गोऽश्वत्थतुलसीधात्रीर्नृपान्निन्दन्ति नारद ! ।
नामापराधी स भवेन्नाम गोविन्दवैष्णवान् ॥
सर्व्वतीर्थानि क्षेत्राणि चावमन्यति निन्दति ।
गङ्गासरस्वतीयामीश्चापराधी भवेन्नरः ॥
श्रीमद्भागवतं महाभारतं ब्राह्मणान् गुरुम् ।
मन्त्रं महाप्रसादञ्च योऽवमन्यति नारकी ॥
अवतारान् हरेस्तत्तन्नामभक्तांश्च निन्दति ।
अवमन्यति देवर्षे नारकी स जनोऽधमः ॥
गोविन्दस्यार्च्चनं कुर्य्यादवमन्यति वैष्णवान् ।
निन्दतीह च नामानि स नाम्नोऽप्यपराधकृत् ॥
वर्णाश्रमानन्त्यजांश्च जातिबुद्ध्यावमन्यति ।
वैष्णवान् कुरुते निन्दामपराधी नराधमः ॥
द्बिजबन्धुं स्त्रियं शूद्रं जातिभेदेन वैष्णवम् ।
येऽवमन्यन्ति निन्दन्ति ते वै निरयगामिनः ॥
अर्च्चे विष्णोः शिलाधीर्गुरुषु नरमतिर्वैष्णवे जाति-
बुद्धि-
र्विष्णोर्व्वा वैष्णवानां कलिमलमथने पादतीर्थे-
ऽम्बुबुद्धिः ।
विष्णोर्न्निर्म्माल्यनाम्नोः कलुषदहनयोरन्य-
सामान्यबुद्धि-
र्व्विष्णौ सर्व्वेश्वरेशे तदितरसमधीर्य्यस्य वा
नारकी सः ॥
पूज्यते देवसामान्यं कृत्वा नारायणं नरः ।
नामापराधी स भवेद्वैष्णवान् यो न सेवते ॥
नारद उवाच ।
नामापराधा ह्यपराः कति सन्ति तपोधन ! ।
तत् कथ्यतां मे सकलं यदि योग्यो भवामि ते ॥
सनत्कुमार उवाच ।
वैष्णवे शठतां विष्णौ गुरौ पित्रोश्च भूसुरे ।
निन्दां यः कुरुते मोहादपराधी स नारकी ॥”
इति पाद्मोत्तरखण्डे । १०२ -- १०३ अध्यायौ ॥
अपि च ।
“धर्म्मव्रतत्यागहुतादिसर्व्व-
शुभक्रियासाम्यमपि प्रमादः ।
अश्रद्दधाने विसुखेऽप्यशृण्वति
यश्चोपदेशः शिवनामापराधः ॥
श्रुत्वापि नाममाहात्म्यं यः प्रीतिरहितो नरः ।
अहं ममादि परमो नाम्नि सोऽप्यपराधकृत् ॥”
अपराधभञ्जनमाह ।
“जाते नामापराधेऽपि प्रमादेन कथञ्चन ।
सदा संकीर्त्तयेन्नाम तदेकशरणो भवेत् ॥
पृष्ठ २/८६३
नामापराधयुक्तानां नामान्येव हरन्त्यघम् ।
अविश्रान्तप्रयुक्तानि तान्येवार्थकराणि च ॥
नामैकं यस्य वाचि स्मरणपथगतं श्रोत्रमूलं
गतं वा
शुद्धं वाशुद्धवर्णं व्यवहितरहितं तारयत्येव
सत्यम् ।
तच्चेद्देहद्रविणजनतालोभपाषण्डमध्ये
निक्षिप्तं स्यान्न फलजनकं शीघ्रमेवात्र विप्र ! ॥”
इति श्रीहरिभक्तिविलासः ॥

नामापराधी, [न्] त्रि, (नामापराधोऽस्त्य-

स्येति । इनिः ।) नामापराधकृत् । यथा, --
“नाम्नो जनार्द्दनस्यापराधान् यः कुरुतेऽनिशम् ।
नामापराधकृल्लोको याति सत्यमधोगतिम् ॥
विनाशयति नामस्थोऽपराधं नामतो जनः ।
नामापराधी कृष्णे स्यादात्मनश्चेति नारकी ॥
पाषण्डो दुर्ज्जनः पापी भवेन्नाम्नो हरेः खलः ।
नामापराधी मनुजो मुने ! भवति नारकी ॥
अपराधान्मुकुन्दस्य विदूरयति नामभिः ।
नाम्नीह लोकः कुर्व्वंस्तान्महापाप्यधमाधमः ॥”
इति पाद्मोत्तरखण्डे १०२ अध्यायः ॥

नायः, पुं, (नीयतेऽनेनेति । नी + “श्रिणीभुवो

ऽनुपसर्गे ।” ३ । ३ । २४ । इति करणे घञ् ।)
नयः । नीतिः । इत्यमरः । ३ । २ । ९ ॥ (यथा,
भट्टिः । ७ । ३६ ।
“यात यूयं यमश्रायं दिशं नायेन दक्षिणाम् ॥”
नी + भावे घञ् ।) प्रापणम् । इति नीधातु-
दर्शनात् ॥ (नयति प्रापयतीति । नी + “दुन्योर-
नुपसर्गे ।” ३ । १ । १४२ । इति णः । उपायः ।
यथा, भट्टिः । ६ । ८२ ।
“नायः कोऽत्र स येन स्यां वताहं विगतज्वरः ॥”
नेतरि, त्रि । यथा, ऋग्वेदे । ६ । २४ । १० ।
“सचस्व नायमवसे अभीक इतो वा तमिन्द्र
पाहि रिषः ॥”)

नायकः, पुं, (नयति प्रापयतीति । नी + ण्वुल् ।)

नेता । (यथा, गीतायाम् । १ । ७ ।
“नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ॥”)
श्रेष्ठः । (यथा, भागवते । ४ । ७ । १९ ।
“तमुपागतमालक्ष्य सर्व्वे सुरगणादयः ।
प्रणेमुः सहसोत्थाय ब्रह्मेन्द्रत्र्यक्षनायकाः ॥”)
हारमध्यमणिः । इति मेदिनी । के, ११० ॥
अग्रे सरिकः । सेनापतिः । इति त्रिकाण्ड-
शेषः ॥ (यथा, महाभारते । ३ । २२२ । ४ ।
“वध्यमानं बलं दृष्ट्वा बहुशस्तैः पुरन्दरः ।
स्वसैन्यनायकार्थाय चिन्तामाप भृशं तदा ॥”)
शृङ्गारसाधकः । स च त्रिविधः । पतिरुपपति-
र्वैशिकश्चेति । विधिवत् पाणिग्राहकः पतिः ।
अनुकूलदक्षिणधृष्टशठभेदात् पतिश्चतुर्द्धा । सार्व्व-
कालिकपराङ्गनापराङ्मुखत्वे सति सर्व्वकाल-
मनुरक्तोऽनुकूलः । सकलनायिकाविषयसमसह-
जानुरागो दक्षिणः । भूयो निःशङ्कः कृतदोषो-
ऽपि भूयो निवारितोऽपि भूयः प्रश्रयपरायणो
धृष्टः । कामिनीविषयकपटपटुः शठः । आचार-
हानिहेतुः पतिरुपपतिः । बहुलवेश्याभोगोप-
रसिको वैशिकः । वैशिकस्तूत्तममध्यमाधम-
भेदात् त्रिविधः । दयिताश्रमप्रकोपेऽपि उप-
चारपरायण उत्तमः । प्रियायाः प्रकोपे यः
प्रकोपमनुरागं वा न प्रकटयति चेष्टया मनो-
भावं गृह्णाति स मध्यमः । भयकृपालज्जाशून्यः
कामक्रीडायामकृतकृत्याकृत्यविचारोऽधमः ॥ * ॥
मानी चतुरश्च शठ एवान्तर्भवति । वाक्चेष्टा-
व्यङ्ग्यसमागमश्चतुरः । प्रोषितपतिरुपपतिर्वैशि-
कश्च भवति । अनभिज्ञनायको नायकाभास
एव । तेषाञ्च नर्म्मसचिवपीठमर्द्दविटचेटक-
विदूषकभेदाच्चतुर्धा । कुपितस्त्रीप्रसादकः पीठ-
मर्द्दः । नर्म्मसचिवोऽप्ययमेव । कामतन्त्रकला-
कोविदो विटः । सन्धानचतुरश्चेटकः । अङ्गादि-
वैकृत्यैर्हासकारी विदूषकः ॥ * ॥ तेषामष्ट-
सात्त्विकगुणाः । यथा, --
“स्वेदः स्तम्भोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः ।
वैवर्ण्यमश्रुप्रणयावित्यष्टौ सात्त्विका गुणाः ॥” * ॥
तेषां दशावस्था यथा, --
“अभिलाषस्तथा चिन्ता स्मृतिश्च गुणकीर्त्तनम् ।
उद्वेगश्च प्रलापश्च उन्मादो व्याधिरेव च ।
जडता निधनान्येव दशावस्थाः प्रकीर्त्तिताः ॥”
इति रसमञ्जरी ॥
(अस्य लक्षणभेदादिकं यथा, साहित्यदर्पणे ।
३ । ३३ -- ३८ ।
“त्यागी कृती कुलीनः सुश्रीको रूपयौवनोत्-
साही ।
दक्षोऽनुरक्तलोकस्तेजोवैदग्ध्यशीलवान् नेता ॥
धीरोदात्तो धीरोद्धतस्तथा धीरललितश्च ।
धीरप्रशान्त इत्ययमुक्तः प्रथमश्चतुर्भेदः ॥
अविकत्थनः क्षमावानतिगम्भीरो महासत्त्वः ।
स्थेयान् निगूढमानो धीरोदात्तोदृढव्रतः कथितः ॥
मायापरः प्रचण्डश्चपलोऽहङ्कारदर्पभूयिष्ठः ।
आत्मश्लाघानिरतो धीरैर्धीरोद्धतः कथितः ॥
निश्चिन्तो मृदुरनिशं कलापरो धीरललितः
स्यात् ।
सामान्यगुणैर्भूयान् द्बिजादिको धीरप्रशान्तः
स्यात् ॥”
एषाञ्च शृङ्गारिरूपत्वे भेदानाह तत्रैव । ३ ।
३९ -- ४४ ।
“एभिर्दक्षिणधृष्टानुकूलशठरूपिभिस्तु षोडशधा ।
एषु त्वनेकमहिलासु समरागो दक्षिणः कथितः ॥
कृतागा अपि निःशङ्कस्तर्जितोऽपि न लज्जितः ।
दृष्टदोषोऽपि मिथ्यावाक् कथितो धृष्टनायकः ॥
अनुकूल एकनिरतः शठोऽयमेकत्र वद्धभावो यः ।
दर्शितवहिरनुरागो विप्रियमन्यत्र गूढमाचरति ॥
एषाञ्च त्रैविध्यात् सर्व्वेषामुत्तममध्याधमत्वेन ।
उक्ता नायकभेदाश्चत्वारिंशत्तथाऽष्टौ च ॥”
एषामुदाहरणादिकं तत्रैव द्रष्टव्यम् ॥)

नायकाधिपः, पुं, (नायकानां नेतॄणां सेनापतीनां

वा अधिपः ।) नरेन्द्रः । राजा । इति शब्द-
रत्नावली ॥

नायिका, स्त्री, (नयति या । नी + ण्वुल् । टाप्

अत इत्वञ्च ।) दुर्गाशक्तिः । सा अष्टधा ।
यथा, --
“ततोऽष्टनायिका देव्या यत्नतः परिपूजयेत् ॥
उग्रचण्डां प्रचण्डाञ्च चण्डोग्रां चण्डनायिकाम् ।
अतिचण्डाञ्च चामुण्डां चण्डां चण्डवतीन्तथा ॥
पद्मे चाष्टदले चैताः प्रागादिक्रमतस्तथा ।
पञ्चोपचारैः संपूज्य भैरवान्मध्यदेशतः ॥”
इति प्रकृतिखण्डे ६१ अध्यायः ॥
शृङ्गाररसालम्बनविभावरूपा नारी । सा च
त्रिविधा । स्वीया परकीया सामान्यवनिता
चेति । तत्र स्वामिन्येवानुरक्ता स्वीया । स्वीयापि
त्रिविधा । मुग्धा मध्या प्रगल्मा च । तथा
अङ्कुरितयौवना मुग्धा । सा च ज्ञातयौवना
अज्ञातयौवना च । सैव क्रमशो लज्जाभय-
पराधीनरतिर्नवोढा । सैव क्रमशो जात-
प्रश्रया विश्रब्धनवोढा । समानलज्जामदना
मध्या । एषैव चातिप्रश्रयादतिविश्रब्धनवोढा ।
पतिमात्रविषयकेलिकलापकोविदा प्रगल्भा ।
मध्याप्रगल्मे मानावस्थायां प्रत्येकं त्रिविधे ।
धीरा अधीरा धीराधीरा चेति । व्यङ्ग्य-
कोपप्रकाशा धीरा । अव्यङ्ग्यकोपप्रकाशा
अधीरा । व्यङ्ग्याव्यङ्ग्यकोपप्रकाशा धीराधीरा ।
एते धीरादयस्त्रयो भेदा द्बिधा भवन्ति । ज्येष्ठा
कनिष्ठा च । परिणीतत्वे सति भर्त्तुरधिकस्नेहा
ज्येष्ठा । परिणीतत्वे सति भर्त्तुर्न्यूनस्नेहा कनिष्ठा ॥
अप्रकटपरपुरुषानुरागा परकीया । सा च
द्विविधा । परोढा कन्यका च । गुप्ता विदग्धा
लक्षिता कुलटा अनुशयानामुदिताप्रभृतीनां
परकीयायामेवान्तर्भावः । गुप्ता त्रिविधा । वृत्त-
सुरतगोपना च । वर्त्तिष्यमाणसुरतगोपना । वर्त्त-
मानसुरतगोपना च । विदग्धा द्विविधा । वाग्वि-
दग्धा क्रियाविदग्धा चेति । अनुशयाना त्रिविधा ।
वर्त्तमानस्थानविघट्टनेन भाविस्यानाभावशङ्कया
स्वानधिष्ठितसङ्केतस्थले भर्तुर्गमनानुमानेन ॥ * ॥
वित्तमात्रोपाधिकसकलपुरुषाभिलाषा सामान्य-
वनिता । एता अन्यसम्भोगदुःखिता । वक्रोक्ति-
गर्व्विता मानवत्यश्च तिस्रो भवन्ति । वक्रोक्ति-
गर्व्विता द्बिविधा । प्रेमगर्व्विता सौन्दर्य्यगर्व्विता
च । मानवती यथा । प्रियापराधसूचिका चेष्टा
मानः । स च लघुर्मध्यमो गुरुश्चेति । अल्पा-
पनेयो लघुः । कष्टापनेयो मध्यमः । कष्टतमा-
पनेयो गुरुः ॥ * ॥ एताः षोडश अष्टाभिरव-
स्थाभिः प्रत्येकमष्टविधा । प्रोषितभर्त्तृका
खण्डिता उत्कण्ठिता कलहान्तरिता विप्र-
लब्धा वासकसज्जा स्वाधीनपतिका अभिसा-
रिका चेति गणनादष्टाविंशत्यधिकं शतं भेदा
भवन्ति । तासामुत्तममध्यमाधमगणनया चतु-
रधिकाशीतिशतत्रयं भेदा भवन्ति । तत्रासां
दिव्य-अदिव्य-दिव्यादिव्यभेदेन गणनया द्विपञ्चा-
शदधिकशतयुतसहस्रं भेदा भवन्ति । इति रस-
मञ्जरी ॥ * ॥
पृष्ठ २/८६४
(यथा च साहित्यदर्पणे । ३ । ६५ -- ९३ ।
“अथ नायिका त्रिविधा स्वाऽन्या साधारणस्त्रीति ।
नायकसामान्यगुणैर्भवति यथासम्भवैर्युक्ता ॥
विनयार्जवादियुक्ता गृहकर्मपरा पतिव्रता स्वीया ।
सापि कथिता त्रिविधा मुग्धा मध्या प्रगल्भेति ॥
प्रथमावतीर्णयौवनमदनविकारा रतौ वामा ।
कथिता मृदुश्च माने समधिकलज्जावती मुग्धा ॥
मध्या विचित्रसुरता प्ररूढस्मरयौवना ।
इषत्प्रगल्भवचना मध्यमव्रीडिता मता ॥
स्मरान्धा गाढतारुण्या समस्तरतकोविदा ।
भावोन्नता दरव्रीडा प्रगल्भाक्रान्तनायका ॥
ते धीरा चाप्यधीरा च धीराधीरेति षड्विधे ।
प्रियं सोत्प्रासवक्रोक्त्या मध्याधीरा दहेद्रुषा ॥
धीराधीरा तु रुदितैरधीरा परुषोक्तिभिः ।
प्रगल्भा यदि धीरा स्याच्छन्नकोपाकृतिस्तदा ॥
उदास्ते सुरते तत्र दर्शयन्त्यादरान् बहिः ।
धीराधीरा तु सोल्लुण्ठभाषितैः खेदयेदमुम् ॥
तर्जयेत्ताडयेदन्या प्रत्येकं ता अपि द्विधा ।
कनिष्ठज्येष्ठरूपत्वान्नायकप्रणयं प्रति ॥
मध्याप्रगल्भयोर्भेदास्तस्माद् द्बादश कीर्त्तिताः ।
मुग्धा त्वेकैव तेन स्युः स्वीयाभेदास्त्रयोदश ॥
परकीया द्बिधा प्रोक्ता परोढा कन्यका तथा ।
यात्रादिनिरताऽन्योढा कुलटा गलितत्रपा ॥
कन्या त्वजातोपयमा सलज्जा नवयौवना ।
धीरा कलाप्रगल्भा स्याद्वेश्या सामान्यनायिका ॥
निर्गुणानपि न द्वेष्टि न रज्यति गुणिष्वपि ।
वित्तमात्रं समालोक्य सा रागं दर्शयेद् बहिः ॥
काममङ्गीकृतमपि परिक्षीणधनं नरम् ।
मात्रा निष्क्रामयेदेषा पुनः सन्धानकाङ्क्षया ॥
तस्कराः पण्ड्रका मूर्खाः सुखप्राप्तधनास्तथा ।
लिङ्गिनश्छन्नकामाद्या आसां प्रायेण वल्लभाः ॥
एषापि मदनायत्ता क्वापि सत्यानुरागिणी ।
रक्तायां वा विरक्तायां रतमस्यां सुदुर्लभम् ।
अवस्थाभिर्भवन्त्यष्टावेताः षोडषभेदिताः ।
स्वाधीनभर्तृका तद्वत् खण्डिताऽथाभिसारिका ॥
कलहान्तरिता विप्रलब्धा प्रोषितभर्तृका ।
अन्या वासकसज्जा स्याद्बिरहोत्कण्ठिता तथा ॥
कान्तो रतिगुणाकृष्टो न जहाति यदन्तिकम् ।
विचित्रविभ्रमासक्ता सा स्यात् स्वाधीनभर्तृका ॥
पार्श्वमेति प्रियो यस्या अन्यमम्भोगचिह्नितः ।
सा खण्डितेति कथिता धीरैरीर्ष्याकषायिता ॥
अभिसारयते कान्तं या मन्मथवशंवदा ।
स्वयं वाऽभिसरत्येषा धीरैरुक्ताऽभिसारिका ॥
संलीना स्वेषु गात्रेषु मूकीकृतविभूषणा ।
अवगुण्ठनसंवीता कुलजाऽभिसरेत् यदि ॥
विचित्रोज्ज्वलवेशा तु बलन्नूपुरनिस्वना ।
प्रमोदस्मेरवदना स्याद् वेश्याऽभिसरेत् यदि ॥
मदस्खलितसंलापा विभ्रमत्फुल्ललोचना ।
आविद्धगतिसञ्चारा स्यात् प्रेष्याभिसरेद् यदि ॥ *
प्रसङ्गादभिसारस्थानानि कथ्यन्ते ।
क्षेत्रं वाटी भग्नदेवालयो दूतीगृहं वनम् ।
मालयञ्च श्मशानञ्च नद्यादीनां तटी तथा ॥
एवं कृताभिसाराणां पुंश्चलीनां विनोदने ।
स्थानान्यष्टौ तथा ध्वान्तच्छन्नेषु क्वचिदाश्रयः ॥ * ॥
चाटुकारमपि प्राणनाथं रोषादपास्य या ।
पश्चात्तापमवाप्नोति कलहान्तरिता तु सा ॥
प्रियः कृत्वापि सङ्केतं यस्या नायाति सन्निधिम् ।
विप्रलब्धा तु सा ज्ञेया नितान्तमवमानिता ॥
नानाकार्य्यवशाद् यस्या दूरदेशं गतः पतिः ।
सा मनोभवदुःखार्त्ता भवेत् प्रोषितभर्तृका ॥
कुरुते मण्डनं यस्याः सज्जिते वासवेश्मनि ।
सा तु वासकसज्जा स्याद्विदितप्रियसङ्गमा ॥
आगन्तुं कृतचित्तोऽपि दैवान्नायाति यत्प्रियः ।
तदनागमदुःखार्त्ता विरहोत्कण्ठिता तु सा ॥
इति साष्टाविंशतिशतमुत्तममध्यमाधमस्वरूपतः ।
चतुरधिकाशीतियुतं शतत्रयं नायिकाभेदानां
स्यात् ॥
क्वचिदन्योन्यसाङ्क्यर्य्यमासां लक्ष्येषु दृश्यते ।
इतरा अप्यसंख्यास्ता नोक्ता विस्तरशङ्क्षया ॥”
एतासामुदाहरणानि तत्रैव विस्तरशो द्रष्टव्यानि ॥
अथासामलङ्काराः । यथा, तत्रैव । ३ । ९४ ।
“यौवने सत्त्वजास्तासामष्टाविंशतिसंख्यकाः ।
अलङ्कारास्तत्र भावहावहेलास्त्रयोऽङ्गजाः ॥
शोभा कांन्तिश्च दीप्तिश्च माधुर्य्यञ्च प्रगल्भता ।
औदार्य्यं धैर्य्यमित्येते सप्तैव स्युरयत्नजाः ॥
लीलाविलासौ विच्छित्तिर्विव्वोकः किलकिञ्चितम् ।
मोट्टायितं कुट्टमितं विभ्रमो ललितं मदः ॥
विकृतं तपनं मौग्ध्यं विक्षेपश्च कुतूहलम् ।
हसितं चकितं केलिरित्यष्टादशसंख्यकाः ।
स्वभावजाश्च भावाद्या दश पुंसां भवन्त्यपि ॥”
अथ मुग्धाकन्ययोरनुरागेङ्गितानि । यथा,
तत्रैव । ३ । १२३ ।
“दृष्टा दर्शयति व्रीडां सम्मुखं नैव पश्यति ।
प्रच्छन्नं वा भ्रमन्तं वा तिर्य्यक् तं पश्यति प्रियम् ॥
बहुधा पृच्छ्यमानापि मन्दमन्दमधोमुखी ।
सगद्गदस्वरं किञ्चित् प्रियं प्रायेण भाषते ॥
अन्यैः प्रवर्त्तितां शश्वत् सावधाना च तत्कथाम् ।
शृणोत्यन्यत्र दत्ताक्षी प्रिये बालानुरागिणी ॥”
अथ सकलानामपि नायिकानामनुरागेङ्गितानि ।
यथा, तत्रैव । ३ । १२४ -- १२५ ।
“चिराय सविधे स्थानं प्रियस्य बहु मन्यते ।
विलोचनपथञ्चास्य न गच्छत्यनलङ्कृता ॥
कापि कुन्तलसंव्यानसंयमव्यपदेशतः ।
बाहुमूलं स्तनौ नाभिपङ्कजं दर्शयेत् स्फुटम् ॥
आच्छादयति वागाद्यैः प्रियस्य परिचारकान् ।
विश्वसित्यस्य भित्रेषु बहुमानं करोति च ॥
सखीमध्ये गुणान् ब्रूते स्वधनं प्रददाति च ।
सुप्ते स्वपिति दुःखस्य दुःखं धत्ते सुखे सुखम् ॥
स्थिता दृष्टिपथे शश्वत् प्रिये पश्यति दूरतः ।
आभाषते परिजनं सम्मुखे स्मरविक्रियम् ॥
यत् किञ्चिदपि संवीक्ष्य कुरुते हसितं मुधा ।
कर्णकण्डूयनं तद्बत् कवरीमोक्षसंयमौ ॥
जृम्मते स्फोटयत्यङ्गं बालमाश्लिष्य चुम्बति ।
भाले तथा वयस्याया आरभेत् तिलकक्रियाम् ॥
अङ्गुष्ठाग्रेण लिखति सकटाक्षं निरीक्षते ।
दशति स्वाधरं चापि ब्रूते प्रियमधोमुखी ॥
न मुञ्चति च तं देशं नायको यत्र दृश्यते ।
आगच्छति गृहं चास्य कार्य्यव्याजेन केनचित् ॥
दत्तं किमपि कान्तेन धृत्वाङ्गे मुहुरीक्षते ।
नित्यं हृष्यति तद्योगे वियोगे मलिना कृशा ॥
मन्यते बहु तच्छीलं तत्प्रियं मन्यते प्रियम् ।
प्रार्थयतेऽल्पमूल्यानि सुप्ता न परिवर्त्तते ॥
विकारान् सात्त्विकानस्य सम्मुखी नाधिगच्छति ।
भाषते सूनृतं स्निग्धमनुरक्ता नितम्बिनी ॥
एतेष्वधिकलज्जानि चेष्टितानि नवस्त्रियाः ।
मध्यव्रीडानि मध्यायाः स्रंसमानत्रपाणि तु ॥
अन्यस्त्रियाः प्रगल्भायास्तथा स्युर्वारयोषितः ॥
लेख्यप्रस्थापनैः स्निग्धैर्वीक्षितैर्मृदुभाषितैः ।
दूतीसम्प्रेषणैर्नार्य्या भावाभिव्यक्तिरिष्यते ॥” * ॥)
कस्तूरीविशेषः । यथा, राजनिर्घण्टे ।
“चूर्णाकृतिस्तु खरिका तिलका तिलाभा
कौलत्थवीजसदृशी च कुलत्थिकाख्या ।
स्थूला यतः कियदियं किल पिण्डिका स्या-
त्तस्याश्च किञ्चिदधिकापि च नायिकैषा ॥”

नारं, क्ली, (नराणां समूहः । नर + समूहे

अण् ।) नरसमूहः । इति व्याकरणम् ॥ (नर-
स्येदमिति । नर + “तस्येदम् ।” ४ । ३ । १२० ।
इत्यण् ।) नरसम्बन्धिनि, त्रि । यथा, --
“मलमूत्रपुरीषास्थिनिर्गतं ह्यशुचि स्मृतम् ।
नारं स्पृष्ट्वा तु सस्नेहं सचेलो जलमाविशेत् ॥”
इति सामान्यनिरुक्तौ जगदीशधृतस्मृतिवचनम् ॥

नारः, पुं, (नरस्यायमिति । ब्रर + अण् ।)

तर्णकः । जलम् । इति मेदिनी । रे, ५३ ॥

नारकः, पुं, (नरक एव । प्रज्ञाद्यण् ।) नरकः ।

(नरके भवः । “तत्र भवः ।” ४ । ३ । ५३ । इत्यण् ।)
नरकस्थप्राणिनि, त्रि । इत्यमरः । १ । ९ । १ ॥
(यथा, मार्कण्डेये । १५ । ७३ ।
“अनुकम्पामिमामद्य नारकेष्विह कुर्व्वतः ।
तदेव शतसाहस्रं संख्यामुपगतं तव ॥”)

नारकी, [न्] त्रि, (नरको भोग्यतया अस्त्य-

स्येति । नरक + इनिः ।) नरकस्थः । यथा, --
“परेण विहितं कर्म्म स्वकर्म्मेति वदेच्च यः ।
स उच्यते ब्रह्मघाती महानारकिनारकी ॥”
इति बृहद्धर्म्मपुराणे उत्तरखण्डे ७८ अध्यायः ॥

नारकीटः, पुं, अश्मकीटः । (नारेषु नरसमूहेषु

कीट इव घृणार्हत्वात् ।) स्वदत्ताशाविहन्ता ।
इति मेदिनी । टे, ६३ ॥

नारङ्गं, क्ली, (नृणातीति । नॄ नये + बाहुलकात्

अङ्गच् धातोर्वृद्धिश्च । इत्युज्जलदत्तः । १ । १२१ ।)
गर्जरम् । इति राजनिर्घण्टः ॥

नारङ्गः, पुं, (नॄ नये + अङ्गच् । वृद्धिश्च ।) पिप्पली-

रसः । यमजप्राणी । विटः । इति मेदिनी । मे,
३९ ॥ फलवृक्षविशेषः । नारङ्गी इति भाषा ॥
तत्पर्य्यायः । नागरङ्गः २ सुरङ्गः ३ त्वग्गन्धः ४
ऐरावतः ५ वक्त्रवासः ६ योगारङ्गः ७ योग-
रङ्गः ८ सरङ्गः ९ गन्धाढ्यः १० गन्धपत्रः ११
पृष्ठ २/८६५
वरिष्ठः १२ । अस्य गुणाः । मधुरत्वम् । अम्ल-
त्वम् । गुरुत्वम् । उष्णत्वम् । रोचनत्वम् ।
वातामकृमिशूलश्रमनाशित्वम् । बल्यत्वम् । रुच्य-
त्वञ्च । इति राजनिर्घण्टः ॥ तत्केशरगुणाः ।
“अत्यम्लमीषन्मधुरं वृष्यं वातविनाशनम् ।
रुच्यं वातहरञ्चैव नागरङ्गस्य केशरम् ॥”
इति राजवल्लभः ॥

नारदः, पुं, (नारं परमात्मविषयकं ज्ञानं ददा-

तीति । दा + कः । यद्वा, नारं नरसमूहं द्यति
खण्डयति कलहेनेति । दो + कः । नारं जलं
ददाति पितृभ्य इति वा । तदुक्तम्, --
“नारं पानीयमित्युक्तं तत् पितृभ्यः सदा भवान् ।
ददाति तेन ते नाम नारदेति भविष्यति ॥”)
देवर्षिविशेषः । स तु भोगाशी ब्रह्मशापादुप-
वर्हणनामा गन्धर्व्वो भूत्वा पुनर्ब्रह्मवीर्य्यात् शूद्र-
पत्न्यां जातः । यथा, --
शौनक उवाच ।
“ब्रह्मवीर्य्याच्छूद्रपत्न्यां गन्धर्व्वश्चोपवर्हणः ।
जातः केन प्रकारेण तद्भवान् वक्तुमर्हति ॥
सौतिरुवाच ।
कान्यकुब्जे च देशे च द्रुमिलो गोपराजकः ।
कलावती तस्य पत्नी बन्ध्या चापि पतिव्रता ॥
स्वामिदोषेण सा बन्ध्या काले च भर्त्तुराज्ञया ।
उपस्थितं वने घोरे नारदं काश्यपं मुनिम् ॥
क्रोशमानञ्च श्रीकृष्णं ज्वलन्तं ब्रह्मवर्च्चसा ।
तस्थौ सुवेशं कृत्वा सा ध्यानान्तञ्च मुनेः पुरः ॥
उवाच विनयेनैव कृत्वा च श्रीहरिं हृदि ।
गोपिकाहं द्विजश्रेष्ठ ! द्रुमिलस्य च कामिनी ।
पुत्त्रार्थिनी चागताहं तन्मूलं भर्त्तुराज्ञया ॥
वीर्य्याधानं कुरु मयि ! स्त्री नोपेक्ष्या ह्यपस्थिता ।
तेजीयसां न दोषाय वह्नेः सर्व्वभुजो यथा ॥
वृषलीवचनं श्रुत्वा चुकोप मुनिपुङ्गवः ।
वृषली तत्पुरस्तस्थौ शुष्ककण्ठौष्ठतालुका ॥
एतस्मिन्नन्तरे तेन पथा यास्यति मेनका ।
तस्या ऊरुस्थलं दृष्ट्वा मुनिवीर्य्यं पपात ह ॥
ऋतुस्नाता च वृषली कृत्वा तद्भक्षणं मुदा ।
सा विप्र ! गेहे साध्वी च सुषुवे तनयं वरम् ॥
तप्तकाञ्चनवर्णाभं ज्वलन्तं ब्रह्मतेजसा ।
अनावृष्ठ्यवशेषे च काले बालो बभुव ह ॥
नारं ददौ जन्मकाले तेनायं नारदाभिधः ॥
ददाति नारं ज्ञानञ्च बालकेभ्यश्च बालकः ।
जातिस्मरो महाज्ञानी तेनायं नारदाभिधः ॥
वीर्य्येण नारदस्यैव बभूव बालको मुने ! ।
मुनीन्द्रस्य वरेणैव तेनायं नारदाभिधः ॥
कल्पान्तरे ब्रह्मकण्ठाद्बभूवुर्बहवो नराः ।
नरान्ददौ तत्कण्ठञ्च तेन तन्नारदः स्मृतः ॥
ततो बभूव कालश्च नारदात् कण्ठदेशतः ।
ततो ब्रह्मा नाम चक्रे नारदश्चेति मङ्गलम् ॥
एतस्मिन्नन्तरे विप्रा आययुर्विप्र मन्दिरम् ।
शिशवः पञ्चवर्षीया महातेजस्विनो यथा ॥
चतुर्ष्वेको मुनिस्तस्मै ब्राह्मणाश्च कृपालवः ।
ब्रह्मपुत्त्रं शिशुं ज्ञात्वा विष्णुमन्त्रं ददौ मुदा ॥
महाज्ञानी शिशुस्तस्थौ गङ्गातीरे मनोहरे ।
तत्र स्नात्वा विप्रदत्तं विष्णुमन्त्रं जजाप सः ॥
दिव्यं वर्षसहस्रञ्च निराहारः कृशोदरः ।
ददर्श बालको ध्याने दिव्यं लोकञ्च बालकम् ॥
द्बिभुजं मुरलीहस्तञ्चन्दनेन विचर्च्चितम् ।
विरराम च शोकार्त्तो यदा यद्द्रष्टुमक्षमः ॥
रुरोदाश्वत्थमूले च न दृष्ट्वा बालकं शिशुः ।
बभूवाकाशवाणीति रुदन्तं बालकं प्रति ॥
सकृद्यद्दर्शितं रूपं तदेव नाधुना पुनः ।
पुनर्द्रक्षसि गोविन्दं जन्ममृत्युहरं हरिम् ॥
इति श्रुत्वा बालकश्च विरराम मुदान्वितः ।
काले तत्याज तीर्थे च तनुं कृष्णं हृदि स्मरन् ॥
बभूव शापमुक्तिश्च नारदस्य महामुने ! ।
तनुं त्यक्त्वा स जीवश्च विलीनो ब्रह्मविग्रहे ॥
कतिकल्पान्तरेऽतीते स्रष्टुं सृष्टिविधौ पुनः ।
मरीचिमिश्रैर्मुनिभिः सार्द्धं कण्टाद्बभूव सः ॥
नारदश्चेति विख्यातो मुनीन्द्रस्तेन हेतुना ॥”
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे २१ -- २२ अध्यायौ ॥
तस्य सर्व्वदा भ्रमणकारणं यथा, --
“तांश्चापि नष्टान् विज्ञाय पुत्त्रान् दक्षप्रजापतिः ।
क्रोधञ्चक्रे महाभाग ! नारदं स शशाप च ॥”
नारदशापश्च श्रीभागवतोक्तः ।
“तस्माल्लोकेषु ते मूढ न भवेद्भ्रमतः पदम् ।”
इति विष्णुपुराणे १ अंशे १५ अध्याय-
स्तट्टीका च ॥ (पञ्चविंशतिसहस्रश्लोकात्मक
उपपुराणविशेषः । यथा, देवीभागवते । १ ।
३ । ९ ।
“षोडशैव सहस्राणि पुराणञ्चाग्निसंज्ञितम् ।
पञ्चविंशतिसाहस्रं नारदं परमं मतम् ॥”
शाकद्वीपस्य पर्व्वतविशेषः । यथा, मात्स्ये ।
१२१ । ११ ।
“नारदो नाम चैवोक्तो दुर्गशैलो महाचितः ।
तत्राचले समुत्पन्नौ पूर्ब्बं नारदपर्व्वतौ ॥”
विश्वामित्रपुत्त्रविशेषः । यथा, महाभारते ।
१३ । ४ । ५८ ।
“उर्ज्जयोनिरुदापेक्षी नारदश्च महानृषिः ।
विश्वामित्रात्मजाः सर्व्वे मुनयो ब्रह्मवादिनः ॥”)

नारा; स्त्री, (नरस्य मुनेरियम् । नर + “तस्ये-

दम् ।” ४ । ३ । १२० । इति अण् । ततष्टाप् ।
“यद्यपि अणि कृते ङीप्प्रत्ययः प्राप्तस्तथापि
छान्दसलक्षणैरपि स्मृतिषु व्यवहारात् सर्व्वे
विधयश्छन्दसि विकल्पन्ते इति पाक्षिको ङीप्
प्रत्ययः । तस्याभावपक्षे सामान्यलक्षणप्राप्ते
टापि कृते नारा इति रूपसिद्धिः ।” इति मनु-
संहिताटीकायां कुल्लूकभट्टः । १ । १० ।) जलम् ।
इति शब्दरत्नावली ॥ (यथा, मनुः । १ । १० ।
“आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
ता यदस्यायनं पूर्ब्बं तेन नारायणः स्मृतः ॥”)

नाराचः, पुं, (नारं नरसमूहं आचामतीति ।

चमु अदने + “अन्येष्वपि दृश्यते ।” ३ । २ । १०१ ।
इति डः ।) समुदायलौहमयबाणः । तत्पर्य्यायः ।
प्रक्ष्वेडनः २ । इत्यमरः । २ । ८ । ८७ ॥ लोह-
नालः ३ । इति शब्दरत्नावली ॥ (यथा,
बृहत्शार्ङ्गधरे ।
“सर्व्वलौहास्तु ये बाणा नाराचास्ते प्रकीर्त्तिताः ।
पञ्चभिः पृथुलैः पक्षैर्युक्ताः सिध्यन्ति कस्य-
चित् ॥”)
दुर्दिनम् । इति शब्दमाला ॥ (अष्टादशाक्षर-
वृत्तिविशेषः । इति छन्दोमञ्जरी ॥ अस्य लक्ष-
णादिकं छन्दःशब्दे द्रष्टव्यम् ॥ वैद्यकोक्तघृत-
विशेषः । यथा, भावप्रकाशे उदररोगाधिकारे ।
“स्नुक्क्षीरदन्तीत्रिफलाविडङ्ग-
सिंहीत्रिवृच्चित्रकसूर्य्यकल्कैः ।
घृतं विपक्वं कुडवप्रमाणं
तोयेन तस्याक्षसमेन कर्षम् ॥
पीतोष्णमम्भोऽनुपिबेद्विरेफे
पेयं रसं वा प्रपिबेद्बिधिज्ञः ।
नाराचमेनं जठरामयाना-
मुक्तं प्रयुक्तं प्रवदन्ति सन्तः ॥”
इति नाराचघृतम् ॥ * ॥)

नाराचिका, स्त्री, (नाराचस्तदाकारोऽस्त्यस्या

इति । नाराच + ठन् । टाप् ।) नाराची ।
इति शब्दरत्नावली ॥ (अष्टाक्षरवृत्तिविशेषः ।
तल्लक्षणं यथा, --
“नाराचिका तरौ लगौ ॥”)

नाराची, स्त्री, (नाराचवदाकृतिरस्त्यस्या इति ।

अच् । गौरादित्वात् ङीष् ।) स्वर्णकारादीनां
नाराचाकृतिलौहतुला । निक्ति इति भाषा ।
तत्पर्य्यायः । नाराचिका २ एषणिका ३ एषणी
४ । इति शब्दरत्नावली ॥

नारायणः, पुं, (नारा जलं अयनं स्थानं यस्य ।

अय गतौ + भावे ल्युट् । सर्म्वे गत्यर्थाः प्राप्त्य-
र्थाश्च इति नियमात् नारस्य ज्ञानस्य मुक्तेर्वा
अयनं प्राप्तिर्यस्मात् इति वा । “नराणां समूहो
नारं तत्रायनं स्थानं यस्य नारायणः रेफात्
परनकारस्य णत्वविधानात् सर्व्वप्राणिबुद्धि-
गुहानिवासाच्छुद्धचैतन्यमित्यर्थः ।” इति शङ्कर-
विजये नवमप्रकरणम् ।) विष्णुः । तस्य चत्वारो
व्यूहाः । वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धाख्याः ।
इति महाभारतम् ॥ वेदान्तमते । शुद्धान्त-
र्यामिसूत्रविराडाख्याः ॥ तन्नामव्युत्पत्तिर्यथा, --
“सारूप्यमुक्तिवचनो नारेति च विदुर्बुधाः ।
यो देवोऽप्ययनं तस्य स च नारायणः स्मृतः ॥
नाराश्च कृतपापाश्चाप्ययनं गमनं स्मृतम् ।
यतो हि गमनं तेषां सोऽयं नारायणः स्मृतः ॥
नारञ्च मोक्षणं पुण्यमयनं ज्ञानमीप्सितम् ।
तयोर्ज्ञानं भवेद्यस्मात् सोऽयं नारायणः स्मृतः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०९ अः ॥
“आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं तस्य ताः पूर्ब्बं तेन नारायणः स्मृतः ॥”
इति विष्णुपुराणम् ॥
यद्वा ।
“नाराजातानि तत्त्वानि नाराणीति विदुबुधाः ।
तान्येव चायनं तस्य तेन नारायणः स्मृतः ॥”
पृष्ठ २/८६६
तथा ।
“यच्च किञ्चिज्जगत् सर्व्वं दृश्यते श्रूयतेऽपि वा ।
अन्तर्बहिश्च तत् सर्व्वं व्याप्य नारायणः
स्थितः ॥”
तथा ।
“प्रकृतेः पर एवान्यः स नरः पञ्चविंशकः ।
तस्येमानि च भूतानि नाराणीति प्रचक्षते ॥
तेषामप्ययनं यस्मात्तस्मान्नारायणः स्मृतः ॥”
क्वचिन्मन्वन्तरे नरनामऋषेरपत्यतां गतः इति
नारायणः ॥ इत्यमरटीकायां भरतः ॥ * ॥
(“नराणामयनाच्चापि ततो नारायणः स्मृतः ॥”
इति महाभारते । ५ । ७० । १० ॥)
अस्य स्वरूपो यथा, --
“श्रीकृष्णश्च द्विधारूपो द्बिभुजश्च चतुर्भुजः ।
चतुर्भुजश्च वैकुण्ठे गोलोके द्विभुजः स्वयम् ॥
चतुर्भुजस्य पत्नी च महालक्ष्मीः सरस्वती ।
गङ्गा च तुलसी चैव देवी नारायणप्रिया ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ६४ अध्यायः ॥
तस्य ध्यानं यथा, --
“ध्येयः सदा सवितृमण्डलमध्यवर्त्ती
नारायणः सरसिजासनसन्निविष्टः ।
केयूरवान् कनककुण्डणवान् किरिटी
हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥”
इत्यादित्यहृदयम् ॥
अपि च ।
“शङ्खचक्रगदापद्मधरं कमललोचनम् ।
शुद्धस्फटिकसङ्काशं क्वचिन्नीलाम्बुजच्छविम् ॥
गरुडोपरिशुक्लाब्जपद्मासनगतं हरिम् ।
श्रीवत्सवक्षसं शान्तं वनमालाधरं परम् ॥
केयूरकुण्डलधरं किरीटमुकुटोज्ज्वलम् ।
निराकारं ज्ञानगम्यं साकारं देहधारिणम् ॥
नित्यानन्दं निरानन्दं सूर्य्यमण्डलमध्यगम् ।
मन्त्रेणानेन देवेशं विष्णुं भज शुभानने ! ॥”
इति कालिकापुराणे २२ अध्यायः ॥
तन्नाममाहात्म्यं यथा, --
“नारायणाच्युतानन्तवासुदेवेति यो नरः ।
सततं कीर्त्तयेत् भूमे ! याति मल्लयतां प्रिये ! ॥”
इति वराहपुराणम् ॥
“सकृन्नारायणेत्युक्त्वा पुमान् कल्पशतत्रयम् ।
गङ्गादिसर्व्वतीर्थेषु स्नातो भवति निश्चितम् ॥”
इति श्रीकृष्णजन्मखण्डे १०९ अध्यायः ॥
“नारायणेति शब्दोऽस्ति वागस्ति वशवर्त्तिनी ।
तथापि नरके मूढाः पतन्तीह किमद्भुतम् ॥”
इति महाभारतम् ॥
तस्य तुष्टिजनककर्म्माणि यथा, --
श्रीकृष्ण उवाच ।
“कर्म्मणा येन विप्रेन्द्र ! तुष्टिर्म्मे हृदि जायते ।
क्रोधश्च तत् समस्तं ते कथयामि समासतः ॥
यो दयालुर्द्विजश्रेष्ट ! सर्व्वभूतेषु सर्व्वदा ।
अहङ्कारेण हीनश्च तस्य तुष्टोऽस्म्यहं सदा ॥
कर्म्म कुर्य्यान्मदर्थं यो धर्म्मं भक्तिसमन्वितः ।
व्रते यथार्थं पृच्छन्तं तस्य तुष्टोऽस्म्यहं सदा ॥
मिष्टं वस्तु समासाद्य दत्त्वा मे योऽत्ति मानवः ।
मानापमानसदृशस्तस्य तुष्टोऽस्म्यहं सदा ॥
सर्व्वभूतशरीरस्थं यो मां जानाति मानवः ।
परहिंसाविहीनो यस्तस्य तुष्टोऽस्म्यहं सदा ॥
कर्म्माणि कुरुते यस्तु सुविचार्य्य पुनः पुनः ।
गोब्राह्मणहितैषी च तस्य तुष्ठोस्म्यहं सदा ॥
स्वयं निरुक्तं वचनं यत्नाद् यः परिपालयेत् ।
प्रपन्नं पाति यत्नाद्यस्तस्य तुष्टोस्म्यहं सदा ॥
दानान्यनुपकारिभ्यो यो ददाति द्विजोत्तम ! ।
मयि चित्तं सदा यस्य तस्य तुष्टोऽस्म्यहं सदा ॥
कर्म्मणा येन तुष्टोऽस्मि निरुक्तं तत् समासतः ॥”
तस्य रोषजनककर्म्माणि यथा, --
“रुष्टोऽस्मि कर्म्मणा येन विप्र ! वच्मि शृणुष्व
तत् ॥
परहिंसारतो यस्तु निर्द्दयः सर्व्वजन्तुषु ।
अहंयुः सर्व्वदा क्रुद्धः स मां नयति शत्रुताम् ॥
असत्यभाषी क्रूरश्च परनिन्दापरस्तु यः ।
परवर्त्तनविध्वंसी स मां नयति शत्रुताम् ॥
अदृष्टदोषौ पितरौ स्त्रीभ्रातृभगिनीस्तथा ।
मोहात्त्यजति मूढो यः स मां नयति शत्रुताम् ॥
पितृनिर्भर्त्सनं यस्तु कुरुते मूढधीर्नरः ।
गुर्व्ववज्ञाञ्च विप्रेन्द्र ! स मां नयति शत्रुताम् ॥
दम्पत्योर्भेदनं यस्तु हेतुमात्रेण केनचित् ।
कुरुते ब्राह्मणश्रेष्ठ ! स मां नयति शत्रुताम् ॥
विप्रस्वं देवताद्रव्यं परद्रव्यञ्च मानवः ।
हरते यस्तु विप्रेन्द्र ! स मां नयति शत्रुताम् ।
आरामच्छेदिनो ये च जलाशयविलोपिनः ।
ग्रामनाशकरा ये च तेषां रुष्टोऽस्म्यहं सदा ॥
परस्त्रियं समालोक्य विषादं यान्ति ये जनाः ।
शृण्वन्ति पापचर्च्चां ये तेषां रुष्टोऽस्म्यहं सदा ॥
द्बिषन्त्यनाथं ये मूढा अनाथस्वं हरन्ति ये ।
विश्वासघातिनो ये च तेषां रुष्टोऽस्म्यहं सदा ॥
ये च गोवीर्य्यहन्तारो वृषलीपतयश्च ये ।
अश्वत्थघातिनो ये च तेषां रुष्टोऽस्म्यहं सदा ॥
ब्रह्मविष्णुमहेशानां मध्ये ये भेदकारिणः ।
वेदनिन्दाकरा ये च तेषां रुष्टोऽस्म्यहं सदा ॥
एकादश्यां भुञ्जते ये मोहात् पापधियो नराः ।
परदारानुरक्ता ये तेषां रुष्टोऽस्म्यहं सदा ॥
पापबुद्धिप्रदा ये च ये च मित्रद्रुहो द्विज ! ।
धात्रीतरुञ्च ये घ्नन्ति तेषां रुष्टोऽस्म्यहं सदा ॥
दिवसे मैथुनं ये च कुर्व्वते काममोहिताः ।
रजस्वलां स्त्रियं यान्ति तेषां रुष्टोऽस्म्यहं सदा ॥
ये च दृष्ट्वातुरां नारीं मोहाद्गच्छन्ति सत्तम ! ।
व्रतख्याञ्च सदा ते मां नयन्ति शत्रुतां भुवि ॥
अमावास्यातिथौ ये च कुर्व्वते निशिभोजनम् ।
भोजनद्बयमेकार्के तेषां रुष्टोऽस्म्यहं सदा ॥
आमिषं मैथुनं तैलममावास्यादिने द्विजाः ।
न ये त्यजन्ति विप्रेन्द्र ! तेषां रुष्टोऽस्म्यहं सदा ॥
बहुनात्र किमुक्तेन संक्षेपात्ते वदाम्यहम् ।
निन्दन्ति वैष्णवान् ये च तेषां रुष्टोऽस्म्यहं
सदा ॥”
इति क्रियायोगसारे १८ अध्यायः ॥
अजामिलपुत्त्रः । यथा, --
“कान्यकुब्जे द्बिजः कश्चिद्दासीपतिरजामिलः ।
नाम्ना नष्टसदाचारो दास्याः संसर्गदूषितः ॥
तस्य प्रवयसः पुत्त्रा दश तेषान्तु योऽवमः ।
बालो नारायणो नाम्ना पित्रोश्च दयितो भृशम् ॥
दूरे क्रीडनकासक्तं पुत्त्रं नारायणाह्वयम् ।
प्लावितेन स्वरेणोच्चैराजुहावाकुलेन्द्रियः ॥
निशम्य म्रियमाणस्य मुखतो हरिकीर्त्तनम् ।
भर्त्तुर्नाम महाराज ! पार्श्वदाः सहसापतन् ॥
विकर्षतोऽन्तर्हृदयाद्दासीपतिमजामिलम् ।
यमप्रेष्यान् विष्णुदूता वारयामासुरोजसा ॥”
इति श्रीभागवते षष्ठस्कन्धे प्रथमाध्यायः ॥
सैन्यविशेषः । यथा, --
“मत्संहननतुल्यानां गोपानामर्व्वुदं महत् ।
नारायणा इति ख्याताः सर्व्वे संग्रामयोधिनः ॥”
“दुर्य्योधनश्च तत् सैन्यं सर्व्वमावारयत्ततः ।
सहस्राणां सहस्रञ्च योधानां प्राप्य भारत ! ॥”
इति महाभारते । ५ । ७ अध्यायः ॥
धर्म्मपुत्त्रर्षिविशेषः । यथा, --
“धर्म्मस्य दक्षदुहितर्य्यजनिष्ट मूर्त्त्यां
नारायणो नर इति स्वतपःप्रभावः ॥”
इति श्रीभागवते । २ । ७ । ६ ॥
“दण्डग्रहणमात्रेण नरो नारायणो भवेत् ॥”
इति यतिधर्म्मः ॥
(कृष्णयजुर्व्वेदान्तर्गतोपनिषद्विशेषः । यथा,
मुक्तिकोपनिषदि ।
“गर्भो नारायणो हंसो बिन्दुर्नादशिरःशिखा ॥”
चूर्णौषधिविशेषः । यथा, भावप्रकाशे उदर-
रोगाधिकारे ।
“यवानी हपुषा धान्यं त्रिफला चोपकुञ्चिका ।
कारवी पिप्पलीमूलमजगन्धा शटी वचा ॥
शताह्वा जीरको व्योषं स्वर्णक्षीरी च चित्रकम् ।
द्वौ क्षारौ पौष्करं मूलं कुष्ठं लवणपञ्चकम् ॥
विडङ्गञ्च समांसानि दण्ड्या भागत्रयं भवेत् ।
त्रिवृद्बिशाले द्बिगुणे सातला स्याच्चतुर्गुणा ॥
एष नारायणो नाम्ना चूर्णो रोग गणापहः ।
एनं प्राप्य निवर्त्तन्ते रोगा विष्णुमिवासुराः ॥
तक्रेणोदरभिः पेयो गुल्मिभिर्व्वादराम्बुना ।
आनद्धवाते सुरया वातरोगे प्रसन्नया ॥
दधिमण्डेन विड्बन्धे दाडिमाम्बुभिरर्शसे ।
परिकर्त्तेषु वृक्षाम्लैरुष्णाम्बुभिरजीर्णके ॥
भगन्दरे पाण्डुरोगे कासे श्वासे गलग्रहे ।
हृद्रोगे ग्रहणीरोगे कुष्ठे मन्देऽनले ज्वरे ॥
दंष्ट्राविषे मूलविषे सगरे कृत्रिमे विषे ।
यथार्हं स्निग्धकोष्णेन पेयमेतद्विरेचनम् ॥”)

नारायणक्षेत्रं, क्ली, (नारायणस्य क्षेत्रं स्थानम् ।)

गङ्गाप्रवाहावधिहस्तचतुष्टयमितनारायणस्वा-
मिकस्थानम् । यथा, ब्रह्मपुराणे ।
“प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम् ।
अत्र नारायणः स्वामी नान्यः स्वामी कदाचन ॥”
“अत्र किञ्चिन्न दद्याञ्च साक्षात् पात्राय पुण्य-
वान् ।
पृष्ठ २/८६७
अत्र प्रतिग्रहे राजन् ! विक्रीता जाह्रवी भवेत् ॥
विक्रीतायाञ्च जाह्नव्यां विक्रीतोऽभूज्जनार्द्दनः ।
जनार्द्दने च विक्रीते विक्रीतं भुवनत्रयम् ॥
कोऽपि न त्राणकर्त्तास्य निःसम्बन्धप्रसङ्गतः ॥”
तत्र कर्त्तव्यानि यथा, --
“दीक्षाञ्च देवपूजाञ्च जपं गङ्गातटे चरेत् ।
शुष्कवासः पिधायापि सावित्रीजपमाचरेत् ॥
श्राद्धञ्च तर्पणञ्चैव परोपकारकर्म्म च ।
परोद्देशञ्च मनसा त्यक्तद्रव्यस्य दापने ।
स्तवपाठञ्च मौनञ्च नीचालापविवर्ज्जनम् ॥
केवलं वारिपानञ्च कर्त्तव्यं ब्रह्मभावतः ।
एतानि किल कर्म्माणि क्षेत्रे नारायणे चरेत् ॥”
इति बृहद्धर्म्मपुराणे ४५ अध्यायः ॥
अवशिष्टं गङ्गाशब्दे द्रष्टव्यम् ॥

नारायणतैलं, क्ली, (नारायणाख्यं तैलम् ।) औषध-

पक्वतैलप्रभेदः । तत्त्रिविधम् । स्वल्पं बृहत्
महच्च । यथा, --
“विल्वाग्निमन्थश्योनाकपाटलापारिभद्रकाः ।
प्रसारण्यश्वगन्धा च बृहती कण्टकारिका ॥
बला चातिबला चैव श्वदंष्ट्रा सपुनर्नवा ।
एषां दशपलान् भागान् चतुर्द्रोणेऽम्भसः पचेत् ॥
पादशेषं परिस्राव्य तैलपात्रं प्रदापयेत् ।
शतपुष्पा देवदारु मांसी शैलेयकं वचा ॥
चन्दनं तगतं कुष्ठं एलापर्णी चतुष्टयम् ।
रास्ना तुरगगन्धा च सैन्धवं सपुनर्नवम् ॥
एषां द्बिपलिकान् भागान् पेषयित्वा विनिः-
क्षिपेत् ।
शतावरी रसञ्चैव तैलतुल्यं प्रदापयेत् ॥
आजं वा यदि वा गव्यं क्षीरं दत्ता चतुर्गुणम् ॥
पाने वस्तौ तथाभ्यङ्गे भोज्ये चैव प्रशस्यते ।
अश्वो वा वातसंभग्नो गजो वा यदि वा नरः ॥
पङ्गुलः पीठसर्पी च तैलेनानेन सिध्यति ।
अधोभागे च ये वाताः शिरोमध्यगताश्च ये ।
दन्तशूले हनुस्तम्भे मन्यास्तम्भे गलग्रहे ॥
यस्य शुष्यति चैकाङ्गं गतिर्यस्य च विह्वला ।
क्षीणेन्द्रिया नष्टशुक्रा ज्वरक्षीणाश्च ये नराः ॥
वधिरा लल्लजिह्वाश्च मन्दमेधस एव च ।
अल्पप्रजा च या नारी या च गर्भं न विन्दति ॥
वातार्त्तौ वृषणौ येषामन्त्रवृद्धिश्च दारुणा ।
एतत्तैलवरं तेषां नाम्ना नारायणं स्मृतम् ॥”
इति स्वल्पनारायणतैलम् ॥ १ ॥ * ॥
“शतावरी चांशुमती पृश्निपर्णी शटी बला ।
एरण्डस्य च मूलानि बृहत्योः पूतिकस्य च ॥
गवेधुकस्य मूलानि तथा सहचरस्य च ।
एषां दशपलान् भागान् जलद्रोणे विपाचयेत् ॥
पादशेषे रसे पूते गर्भं चैनं समावपेत् ।
पुनर्नवा वचा दारु शताह्वा नन्दनागुरु ॥
शैलेयं तगरं कुष्टं एला मांसी स्थिरा बला ।
अश्वाह्वा सैन्धवं रास्ना पलार्द्धानि च पेषयेत् ।
गव्याजपयसः प्रस्थौ द्बौ द्वावत्र प्रदापयेत् ॥
शतावरीरसप्रस्थं तैलप्रस्थं विपाचयेत् ।
अस्य तैलस्य सिद्धस्य शृणु वीर्य्यमतःपरम् ॥
अश्वानां वातभग्नानां कुञ्जराणां तथा नृणाम् ।
तैलमेतत् प्रयोक्तव्यं सर्व्ववातनिवारणम् ॥
आयुष्मांश्च नरः पीत्वा निश्चयेन दृढो भवेत् ।
गर्भमश्वतरी विन्द्यात् किं पुनर्मानुषी तथा ॥
हृच्छूलं पार्श्वशूलञ्च तथैवार्द्धावभेदकम् ।
अपचीं गण्डमालाञ्च वातरक्तं हनुग्रहम् ॥
कामलां पाण्डुरोगञ्च अश्मरीञ्चापि नाशयेत् ।
तैलमेतद्भगवता विष्णुना परिकीर्त्तितम् ।
नारायणमिति ख्यातं वातान्तकरणं शुभम् ॥”
इति बृहन्नारायणतैलम् ॥ २ ॥ * ॥
“विल्वाश्वगन्धा बृहती श्वदंष्ट्रा
श्योनाकवाट्यालकपारिभद्रम् ।
क्षुद्रा कठिन्यातिबलाग्निमन्थं
मूलानि चैषां सरलीयुतानाम् ॥
मूलं विदद्यादथ पाटलीनां
प्रत्येकमेषां प्रवदन्ति तज्ज्ञाः ।
सपादप्रस्थं विधिनोद्धृताञ्च
द्रोणैरपामष्टभिरेव पक्त्वा ॥
पादावशेषेण रसेन तेन
तैलाढकाभ्यां सममेव दुग्धम् ।
छागस्य मांसद्रवमेव तुल्य-
मेकत्र सम्यग्विवचेत् सुबुद्धिः ॥
दद्याद्रसञ्चैव शतावरीणां
तैलेन तुल्यं पुनरेव तत्र ।
रास्नाश्वगन्धा द्रुमदारु कुष्ठं
पर्णी चतुष्कागुरुकेशराणि ॥
सिन्धूत्थमांसी रजनीद्वयञ्च
शैलेयकं चन्दनपुष्कराणि ।
एला सयष्टी तगराब्दपत्रं
भृङ्गाष्टवर्गास्तु वचा पलाशम् ॥
स्थौणेयवृश्चीरकचोरकाख्य-
मेभिः समस्तैर्द्धिपलप्रमाणैः ।
कर्पूरकाश्मीरमृगाण्डजानां
दद्यात् सुगन्धाय वदन्ति केचित् ॥
प्रस्वेददौर्गन्ध्यनिवारणार्थं
चूर्णीकृतानां द्बिपलप्रमाणम् ।
आलोड्य सम्यग्विधिवद्विपक्वं
नारायणं नाम महच्च तैलम् ॥ * ॥
सर्व्वैः प्रकारैर्विधिवत् प्रयोज्य-
मश्वस्य पुंसां पवनार्द्दितानाम् ।
ये पङ्गवः पीठविसर्पणाश्च
एकाङ्गहीनार्द्दितवेपमानाः ।
वाधिर्य्यशुक्रक्षयपीडिताश्च
मन्याहनुस्तम्भशिरोगदार्त्ताः ।
मुक्ता नरास्ते बलवर्णयुक्ताः
संसेव्य तैलं सहसा भवन्ति ॥
बन्ध्या च नारी लभते च पुत्त्रं
वीरोपमं सर्व्वगुणोपपन्नम् ।
शाखाश्रिते कोष्ठगते च वाते
वृद्धौ विधेयं पवनार्द्दितानाम् ॥
जिह्वानिले दन्तगते च शूले
औन्मादकौब्जे ज्वरकर्षितानाम् ।
प्राप्नोति लक्ष्मीं प्रमदाप्रियत्वं
जीवेच्चिरं चापि भवेद्युवेव ॥
देवासुरे युद्धवरे समीक्ष्य
स्नाय्वस्थिभग्नानसुरैः सुरांश्च ।
नारायणेनापि स्वबृंहणार्थं
स्वनामतैलं विहितन्तु तेषाम् ॥”
इति महानारायणतैलम् ॥ ३ ॥ इति सुखबोधः ॥

नारायणप्रियः, पुं, (नारायणस्य प्रियः । नारायणः

प्रियो यस्य इति वा ।) शिवः । यथा, --
“नारायणप्रियमनङ्गमदापहारं
वाराणसीपुरपतिं भज विश्वनाथम् ॥”
इति शिवस्त्रोत्रम् ॥

नारायणबलिः, पुं, (नारायणाय नारायणमुद्दिश्य

देयो बलिः ।) मृतपतितादीनां प्रायश्चित्ता-
त्मककर्म्मविशेषः । यथा । “नारायणबलिस्तु
हेमाद्र्याद्यनुसारेणोच्यते । तत्रादौ क्रियानिबन्धे
गारुडे तर्पणमुक्तम् ।
‘कार्य्यं पुरुषसूक्तेन मन्त्रैर्व्वा वैष्णवैरपि ।
दक्षिणाभिमुखो भूत्वा प्रेतं विष्णुमिति स्मरन् ॥
अनादिनिधनो देवः शङ्खचक्रगदाधरः ।
अक्षयः पुण्डरीकाक्षः प्रेतमोक्षप्रदो भव ॥’
इति शुक्लैकादश्यां देशकालौ सङ्कीर्त्त्य अमुक-
गोत्रस्यामुकस्य दुर्म्मरणात्मघातजदोषनाशार्थं
और्द्ध्वदेहिके संप्रदानत्वयोग्यतासिद्ध्यर्थं नारा-
यणबलिं करिष्ये । इति सङ्कल्प्य ब्रह्माणं विष्णुं
शिवं यमं प्रेतं पञ्चकुम्भेषु स्थापयेत् ।
‘विष्णुः स्वर्णमयः कार्य्यो रुद्रस्ताम्रमयस्तथा ।
ब्रह्मा रौप्यमयस्तत्र यमो लौहमयो भवेत् ॥
प्रेतो दर्भमयः कार्य्यः ।’ इति गारुडोक्तासु सर्व्वासु
हैमीषु वा प्रतिमासु षोडशोपचारैः पुरुष-
सूक्तेनाभ्यर्च्च्याग्निं प्रतिष्ठाप्य चरुं पुरुषसूक्तेन
प्रतृयचं नारायणायेदमिति हुत्वा देवानामग्ने
दक्षिणाग्रदर्भेषु विष्णुरूपं प्रेतं स्मरन् नाम-
गोत्राभ्यां मधुघृततिलयुतान् दशपिण्डान् यज्ञो-
पवीत्येव अमुकगोत्र अमुकशर्म्मन् प्रेत विष्णु-
रूपाय ते पिण्ड उपतिष्ठतामिति दत्त्वा कुशैः
पुरुषसूक्तेनाभिमन्त्र्य यत्ते यममिति सूक्तेन
पिण्डाननुमन्त्र्य शङ्खोदकेन चाभिषिच्याभ्यर्च्च्या-
मुकशर्म्माणममुकगोत्रं विष्णुरूपं प्रेतं तर्पया
मीति पुरुषसूक्तेन प्रतृयचं तर्पयित्वा एक-
मामान्नं ब्रह्मादिपञ्चभ्यो दद्यात् । मन्त्रस्तु ।
‘ब्रह्मविष्णुमहादेवा यमश्चैव सकिङ्करः ।
बलिं गृहीत्वा कुर्व्वन्तु प्रेतस्य च शुभां गति-
मिति ॥’
मिताक्षरायान्तु होमबल्यादिना उक्तम् । ततः
प्रतिदैवतं त्रिविधं फलं शर्करामधुगुडघृतानि
च निवेद्य पिण्डानभ्यर्च्च्य नद्यां क्षिप्त्वा रात्रौ नव
सप्त पञ्च वा विप्रान्निमन्त्र्योपोषितेन जागरणं
कृत्वा श्वोभूते पुनर्व्विष्णुं यमं संपूज्यैकोद्दिष्ट-
विधिना श्राद्धपञ्चकं करिष्ये इत्युक्त्वा ब्रह्मविष्णु-
शिवयमप्रेतान् स्मरन् विप्रान् उपविश्य प्रेत-
स्थाने चैकं विष्णुं स्मरन् आवाहनाद्यर्घ्ययुतं
पृष्ठ २/८६८
तृप्तिप्रश्नान्तं कृत्वोल्लेखनादि कृत्वान्नशेषेण
ब्रह्मणे विष्णवे शिवाय यमाय सपरिवाराय
चतुरः पिण्डान् दत्त्वा प्रेतनामगोत्रे स्मृत्वा विष्णु-
नाम्ना पञ्चमं दत्त्वाभ्यर्च्च्याचान्तेभ्यो दक्षिणां
दत्त्वैकं प्रेतं स्मृत्वा विशेषतः संतोष्य विप्रैः
प्रेतायेदं तिलोदकमुपतिष्ठतामिति सतिलमुदकं
दापयित्वा भुञ्जीतेति । अत्र विशेषान्तरं भट्ट-
कृतान्त्येष्टिपद्धतौ ज्ञेयम् ॥ * ॥ सर्पहते तु वर्ष-
पर्य्यन्तं पूर्ब्बे ह्येकभक्तपूर्ब्बं शुक्लपञ्चम्यामुपवासं
नक्तं वा कृत्वा पिष्टमयं नागमनन्तवासुकिशङ्ख-
पद्मकम्बलकर्क्कोटकाश्वतरधृतराष्ट्रशङ्खपालका-
लियतक्षककपिलेति नामभिः प्रतिमासं संपूज्य
पायसेन विप्रान् संभोज्य वत्सरान्ते हैमं नागं
गाञ्च प्रत्यक्षाञ्च दत्त्वा नारायणबलिं कुर्य्यात् ।
मूलन्तु हेमाद्रौ ज्ञेयम् ॥ * ॥ बौधायनसूत्रे
सर्पमृतानां नमोऽस्तु सर्पेभ्य इति तिस्र आहु-
तीर्हुत्वोदके मृतानां समुद्राय वरुणाय हुत्वेति
क्रियां कुर्य्यादिति शेषः । व्यासः ।
सौवर्णभारनिष्पन्नं नागं कृत्वा तथैव गाम् ।
व्यासाय दत्त्वा विधिवत् पितुरानृण्यमाप्तवान् ॥’
हेमाद्रौ भविष्ये ।
‘पञ्चम्यां पन्नगं हैमं स्वर्णेनैकेन कारयेत् ।
क्षीराज्यपात्रमध्यस्थं पूज्यविप्राय दापयेत् ॥
प्रायश्चित्तमिदं प्रोक्तं नागदष्टस्य शम्भुनेति ॥’
अपरार्कस्मृत्यन्तरे ।
‘तदैव शुध्यति प्रेतो नारायणबलौ कृते ।
यो ददाति क्रियापिण्डं तस्मै प्रेताय वै सुतः ।
तस्यैवाशौचमुद्दिष्टं त्र्यहमेव न संशयः ॥
विष्णुश्राद्धसमाप्तौ तु त्रयोदश्यां दिनत्रयम् ।
अशौचं पिण्डदः कुर्य्यान्न तु तद्बन्धुगोत्रजाः ॥
यस्य वै मृत्युकाले तु व्युच्छिन्ना सन्ततिर्भवेत् ।
स वसेन्नरके नित्यं पङ्कमग्नः करी यथा ॥’
इत्युपक्रम्य, --
‘बलिं नारायणं कुर्य्यात्तस्योद्देशेन भक्तिमान् ॥’
इति गारुडोक्तेरपुत्त्रस्यापि पत्न्याद्यैः कार्य्य
इत्युक्तं देवयाज्ञिकेन ।” इति निर्णयसिन्धौ ५
परिच्छेदः ॥

नारायणास्त्रं, क्ली, (नारायणस्यास्त्रम् ।) विष्णो-

रस्त्रभेदः । तत्स्वरूपं यथा, देवीपुराणे ।
“तदा दानवनाथेन युक्तं नारायणं शरम् ।
शङ्खचक्रगदाहस्तं खड्गपृष्ठव्यवस्थितम् ॥”
अपि च ।
“ततो हरिहरं युद्धमभवद्रोमहर्षणम् ।
रुद्रः पाशुपतास्त्रेण विव्याध हरिमोजसा ॥
हरिर्नारायणास्त्रेण रुद्रं विव्याध कोपवान् ।
नारायणं पाशुपतमुभेऽस्त्रे व्योम्नि रोषिते ॥
पुयुधाते भृशं दिव्यं परस्परजिघांसया ।
दिव्यं वर्षसहस्रन्तु तयोर्युद्धमभूत्तदा ॥
तत्रैकं मुकुटोद्बद्धं मूर्द्धन्यजटजालकम् ।
एकं प्रध्मापयच्छङ्खमन्यं डमरुकं शुभम् ॥
एकं खड्गधरं तत्र तथान्यं दण्डधारिणम् ।
एकं कौस्तभभीमाङ्गमन्यं भूतिविभूतिकम् ॥
एकं गदां भ्रामयन्तं द्वितीयं दण्डमेव च ।
एकः शोभति कण्ठस्थैर्मणिभिस्त्वस्थिभिः परः ।
एकं पीताम्बरं तत्र द्बितीयं सर्पमेखलम् ॥
एवन्तौ स्पर्द्धिनावस्त्रौ रुद्रनारायणात्मकौ ।
अन्योन्यातिशयोपेतौ तदा लोकपितामहः ॥
उवाच शाम्यतामस्त्रे स्वस्वभावेन सुव्रते ।
एवन्ते ब्रह्मणा चोक्ते शान्तभावं प्रजग्मतुः ॥
तथा विष्णुहरौ ब्रह्मा वाक्यमेतदुवाच ह ।
उभौ हरिहरौ देवौ लोके ख्यातिं गमिष्यतः ॥”
इति वराहपुराणम् ॥

नारायणी, स्त्री, (नारायणस्येयमिति । नारायण

+ अण् + ङीप् ।) दुर्गा । (यथा, मार्कण्डेये ।
९१ । ९ ।
“सर्व्वमङ्गलमङ्गल्ये शिवे सर्व्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि ! नमोऽस्तु ते ॥”
इयं सुपार्श्वाख्यपीठस्थाने एतम्मूर्त्त्या विराजते ।
यथा, देवीभागवते । ७ । ३० । ६६ ।
“नारायणी सुपार्श्वे तु त्रिकूटे रुद्रसुन्दरी ॥”)
लक्ष्मीः । शतावरी । इति हेमचन्द्रः ॥ * ॥
तस्या निरुक्तिर्यथा, --
“यशसा तेजसा रूपैर्नारायणसमा गुणैः ।
शक्तिर्नारायणस्येयं तेन नारायणी स्मृता ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४५ अध्यायः ॥
अपि च ।
“नारायणार्द्धाङ्गभूता तेन तुल्या च तेजसा ।
तदा तस्य शरीरस्था तेन नारायणी स्मृता ॥”
इति तत्रैव श्रीकृष्णजन्मखण्डे २७ अध्यायः ॥ * ॥
गङ्गा । यथा, तन्मन्त्रे ।
“गङ्गायै विश्व मुख्यायै शिवामृतायै नारायण्यै
नमः ॥”
(यथा च काशीखण्डे । २९ । ९७ ।
“नभोऽङ्गनचरी नूतिर्नम्या नारायणी नुता ॥”)
मुद्गलमुनिपत्नी । इति पुराणम् ॥ (स्वनाम-
ख्याता श्रीकृष्णसम्बन्धिनी सेना । इयं हि
भारतयुद्धे दुर्य्योधनपक्षमाश्रितवती ॥)

नारिकेरः, पुं, (नारिकेलः + लस्य रः ।) नारि-

केलः । इति शब्दरत्नावली ॥

नारिकेलः, पुं, (किल श्वैत्ये क्रीडने च + भावे

घञ् । नार्य्या रमण्याः केल इव सुखदायी
केलो यस्य । पृषोदरादित्वात् ह्रस्वः ।) स्वनाम-
प्रसिद्धफलवृक्षविशेषः । तत्पर्य्यायः । लाङ्गली २ ।
इत्यमरः । २ । ४ । १६८ ॥ नारिकेरः ३ नाडि-
केलः ४ नारीकेलः ५ नारीकेली ६ नारि-
केरी ७ । इत्यादि भरतः । नारिकेलिः ८
सदापुष्पः ९ शिरःफलः १० । इति शब्दमाला ॥
नालिकेरः ११ रसफलः १२ सुतुङ्गः १३ कूर्च्च-
शेखरः १४ दृढनीलः १५ नीलतरुः १६ मङ्गल्यः
१७ उच्चतरुः १८ तृणराजः १९ स्कन्धतरुः २०
दाक्षिणात्यः २१ दुरारुहः २२ त्र्यम्बकफलः २३
दृढफलः २४ । इति राजनिर्घण्टः ॥ कूर्च्च-
शीर्षकः २५ तुङ्गः २६ स्कन्धफलः २७ उच्चः
२८ सदाफलः २९ । इति भावप्रकाशः ॥ शिरा-
फलः ३० करकाम्भाः ३१ पयोधरः ३२ मत्-
कुणः ३३ कौषिकफलः ३४ फलमुण्डः ३५ चटा-
फलः ३६ मुण्डफलः ३७ विश्वामित्रप्रियः ३८ ।
इति शब्दरत्नावली ॥ नारकेरः ३९ सुभङ्गः
४० फलकेसरः ४१ । इति जटाधरः ॥ अस्य
गुणाः । गुरुत्वम् । स्निग्धत्वम् । शीतत्वम् ।
पित्तनाशित्वञ्च ॥ * ॥ अर्द्धपक्वस्य तस्य गुणौ ।
तृषाशोषशमनत्वम् । दुर्ज्जरत्वञ्च ॥ * ॥ बाल-
नारिकेलजलगुणाः । लघुत्वम् । शीतलत्वम् ।
रसपाके मधुरत्वम् । पित्तपीनसतृषास्रविदाह-
भ्रान्तिशोषशमनत्वम् । सुखदायित्वञ्च ॥ * ॥
पक्वनारिकेलजलगुणाः । किञ्चित्पित्तकारित्वम् ।
रुचिदत्वम् । मधुरत्वम् । दीपनत्वम् । बल-
करत्वम् । गुरुत्वम् । वृष्यत्वम् । वीर्य्यवर्द्धन-
त्वञ्च । इति राजनिर्घण्टः ॥ * ॥
“नारिकेलफलं शीतं दुर्ज्जरं वस्तिशोधनम् ।
विष्टम्भि वृंहणं बल्यं वातपित्तास्रदाहनुत् ॥
विशेषतः कोमलनारिकेलं
निहन्ति पित्तज्वरमूत्रदोषान् ।
तदेव जीर्णं गुरु पित्तकारि
विदाहि विष्टम्भि मतं भिषग्भिः ॥
तस्याम्भः शीतलं हृद्यं दीपनं शुक्रलं लघु ।
पिपासापित्तजित् स्वादु वस्तिशुद्धिकरं परम् ॥”
तस्य मस्तिष्कगुणाः ।
“नारिकेलस्य तालस्य खर्ज्जूरस्य शिरांसि तु ।
कषायस्निग्धमधुरवृंहणानि गुरूणि च ॥”
इति भावप्रकाशः ॥ * ॥
“बालस्य नारिकेलस्य जलं प्रायो विरेचनम् ॥”
इति राजवल्लभः ॥ * ॥
कांस्यपात्रे तज्जलं मद्यतुल्यम् । यथा, --
“नारिकेलोदकं कांस्ये ताम्रपात्रे स्थितं मधु ।
गव्यञ्च ताम्रपात्रस्थं मद्यतुल्यं घृतं विना ॥”
इति कर्म्मलोचनम् ॥

नारिकेलक्षीरी, स्त्री, (नारिकेलोद्भवा क्षीरी ।)

सितागव्याज्यसंयुक्तगोदुग्धपक्वसूक्ष्मीकृतनारि-
केलखण्डम् । यथा, --
“नारिकेलं तनूकृत्य छिन्नं पयसि गोः क्षिपेत् ।
सितागव्याज्यसंयुक्तं तत्पचेन्मृदुनाग्निना ॥”
तस्या गुणाः ।
“नारिकेलोद्भवा क्षीरी स्निग्धा शीतातिपुष्टिदा ।
गुर्व्वी सुमधुरा वृष्या रक्तपित्तानिलापहा ॥”
इति भावप्रकाशः ॥

नारी, स्त्री, (नुर्नरस्य वा धर्म्म्या । नृ + “ऋतो-

ऽञ् ।” ४ । ४ । ४९ । इति अञ् । नर + “नरा-
च्चेति वक्तव्यम् ।” इति वार्त्तिकोक्त्या अञ् ।
“शार्ङ्गरवाद्यञो ङीन् ।” ४ । १ । ७३ । इति
ङीन् ।) नुर्नरस्य वा धर्म्माचारोऽस्याम् । नु-
र्नरस्य वेयम् । नरधर्म्माचारयुक्ता । तत्पर्य्यायः ॥
स्त्री २ योषित् ३ अबला ४ योषा ५ सीम-
न्तिनी ६ वधूः ७ प्रतीपदर्शिनी ८ वामा ९
वनिता १० महिला ११ । इत्यमरः । २ । ६ । २ ॥
प्रिया १२ रामा १३ जनिः १४ जनी १५
पृष्ठ २/८६९
योषिता १६ जोषित् १७ जोषा १८ जोषिता
१९ धनिका २० महेलिका २१ महेला २२ ।
इति शब्दरत्नावली ॥ शर्व्वरी २३ योषीत् २४
सिन्दूरतिलका २५ सुभ्रूः २६ । इति जटाधरः ॥
अस्या उत्पत्तिकारणं यथा, --
“मातृरक्तोत्तरा नारी ।” अन्यच्च ।
“विषमायां तिथौ क्षिप्तं कुर्य्याद्बीजन्तु कन्य-
काम् ॥”
इति सुखबोधः ॥
तस्याश्चतस्रो जातयः । यथा, --
“पद्मिनी चित्रिणी चैव शङ्खिनी हस्तिनी तथा ।
चतस्रो जातयो नार्य्या रतौ ज्ञेया विशेषतः ॥”
इति रसमञ्जरी ॥
(आसां लक्षणादिकं यदुक्तं रतिमञ्जर्य्याम् ।
४ -- १३ ।
“भवति कमलनेत्रा नासिका क्षुद्ररन्ध्रा
अविरलकुचयुग्मा चारुकेशी केशाङ्गी ।
मृदुवचनशुशीला गीतवाद्यानुरक्ता
सकलतनुसुवेशा पद्मिनी पद्मगन्धा ॥
भवति रतिरसज्ञा नातिखर्व्वा न दीर्घा
तिलकुसुमसुनासा स्निग्धनीलोत्पलाक्षी ।
घनकठिनकुचाढ्या सुन्दरी बद्धशीला
सकलगुणसमेता चित्रिणी चित्रवक्त्रा ॥
दीर्घातिदीर्घनयना वरसुन्दरी या
कामोपभोगरसिका गुणशीलयुक्ता ।
रेखात्रयेण च विभूषितकण्ठदेशा
सम्भोगकेलिरसिका किल शङ्खिनी सा ॥
स्थूलाधरा स्थूलनितम्बभागा
स्थूलाङ्गुली स्थूलकुचा सुशीला ।
कामोत्सुका गाढरतिप्रिया या
नितान्तभोक्त्री करिणी मता सा ॥
शशके पद्मिनी तुष्टा चित्रिणी रमते मृगम् ।
वृषभे शङ्खिनी तुष्टा हस्तिनी रमते हयम् ॥
पद्मिनी पद्मगन्धा च मीनगन्धा च चित्रिणी ।
शङ्खिनी क्षारगन्धा च मदगन्धा च हस्तिनी ॥
बाला च तरुणी प्रौढा वृद्धा भवति नायिका ।
गुणयोगेन रन्तव्या नारी वश्या भवेत्तदा ॥
आ षोडशाद् भवेद्बाला तरुणी त्रिंशका मता ।
पञ्चपञ्चाशका प्रौढा भवेद्वृद्धा ततः परम् ॥
फलमूलादिभिर्बाला तरुणी रतियोगतः ।
प्रेमदानादिभिः प्रौढा वृद्धा च दृढताडनात् ॥
बाला तु प्राणदा प्रोक्ता तरुणी प्राणहारिणी ।
प्रौढा करोति वृद्धत्वं वृद्धा मरणमादिशेत् ॥”)
सा त्रिविधा यथा, --
“योषितस्त्रिविधा ब्रह्मन् ! गृहिणां मूढचेतसाम् ।
साध्वी भोग्या च कुलटा ताः सर्व्वाः स्वार्थतत्-
पराः ।
परलोकभयात् साध्वी तथेह यशसात्मनः ।
कामस्नेहाच्च कुरुते भर्त्तुः सेवाञ्च सन्ततम् ॥ १ ॥
भोग्या भोग्यार्थिनी शश्वत् कामस्नेहेऽथ केव-
लम् ।
कुरुते पतिसेवाञ्च न च भोग्या दृढेक्षणम् ॥
वस्त्रालङ्कारसम्भोगं सुस्निग्धाहारमुत्तमम् ।
यावत् प्राप्नोति सा भोग्या तावच्च वशगा
प्रिया ॥ २ ॥
कुलाङ्गारसमा नारी कुलटा कुलकामिनी ।
कपटात् कुरुते सेवां स्वामिनो न च भक्तितः ॥
सदा पुंयोगमाशंसुर्मनसा मदनातुरा ।
आहारादधिकं जारं प्रार्थयन्ती नवं नवम् ॥
जारार्थे स्वपतिं तात ! हन्तुमिच्छति पुंश्चली ।
तस्यां यो विश्वसेन्मूढो जीवनन्तस्य निष्फलम् ॥
कथिता योषितः सर्व्वा उत्तमाधममध्यमाः ।
स्वात्मारामा विजानन्ति मनसा तां न
पण्डिताः ॥” ३ ॥
तस्याः स्वभावो यथा, --
“हृदयं क्षुरधाराभं शरत्पद्मोत्सवं मुखम् ।
सुधोपमं सुमधुरं वचनं स्वार्थसिद्धये ॥
प्रकोपे विषतुल्यं तदनूहं शीलकुत्सितम् ।
दुर्ज्ञेयं तदभिप्रायं निगूढं कर्म्म केवलम् ॥
तदा तासामविनयं प्रबलं साहसं परम् ।
ददौ कार्य्यच्छलात् कार्य्यं शश्वन्माया दूरत्यया ॥
पुंसश्चाष्टगुणः कामः शश्वत्कामो जगद्गुरो ! ।
आहारो द्बिगुणो नित्यं नैष्ठुर्य्यञ्च चतुर्गुणम् ।
कोपः पुंसः षड्गुणश्च व्यवसायश्च निश्चितम् ॥
यत्रेमे दोषनिवहाः कास्था तत्र पितामह ! ।
का क्रीडा किं सुखं पुंसो विण्मूत्राश्रयवेश्मनि ॥
तेजः प्रनष्टं सम्भोगे दिवालापे यशःक्षयः ।
धनक्षयस्त्वतिप्रीतौ रत्यासक्तौ वपुःक्षयः ॥
साहित्ये पौरुषं नष्टं कलहे माननाशनम् ।
सर्व्वनाशश्च विश्वासे ब्रह्मन्नारीषु किं सुखम् ॥
यावद्धनी च तेजस्वी सश्रीको योग्यतापरः ।
पुमान्नारीं वशीकर्त्तुं समर्थस्तावदेव हि ॥
रोगिणं निर्गुणं वृद्धं योषिन्नापेक्षते प्रियम् ।
लोकाचारतया तस्मै ददात्याहारमल्पकम् ॥”
इति ब्रह्मवैवर्त्तपुराणे ब्रह्मखण्डे २३ अध्यायः ॥
(नारीचरित्रदूषणकारणानि यथा, हितोप-
देशे । १ । १३१ -- १३२ ।
“स्वातन्त्र्यं पितृमन्दिरे निवसतिर्यात्रीत्सवे सङ्गतिः
गोष्ठी पूरुषसन्निधावनियमो वासो विदेशे तथा ।
संसर्गः सह पुंश्चलीभिरसकृत् वृत्तेर्निजायाः
क्षतिः
पत्युर्वार्द्धकमीर्षितं प्रवसनं नाशस्य हेतुः
स्त्रियाः ॥”
अपरञ्च, --
“पानं दुर्ज्जनसंसर्गः पत्या च विरहोऽटनम् ।
स्वप्नश्चान्यगृहे वासो नारीर्णा दूषणानि षट् ॥”
इयन्तु यथानियमं प्रतिपालिता कल्याणकरी
श्रीवृद्धिकारिणी च । यदुक्तं मनौ । ३ । ५५ -- ६० ।
“पितृभिर्भ्रातृभिश्चैताः पतिभिर्द्देवरैस्तथा ।
पूज्या भूषयितव्याश्च बहुकल्याणमीप्सुभिः ॥
यत्र नार्य्यस्तु पूज्यन्ते रमन्ते तत्र देवताः ।
यत्रैतास्तु न पूज्यन्ते सर्व्वास्तत्राफलाः क्रियाः ॥
शोचन्ति जामयो यत्र विनश्यत्याशु तत् कुलम् ।
न शोचन्ति तु यत्रैता वर्द्धते तद्धि सर्व्वदा ॥
जामयो यानि गेहानि शपन्त्यप्रतिपूजिताः ।
तानि कृत्याहतानीव विनश्यन्ति समन्ततः ॥
तस्मादेताः सदा पूज्या भूषणाच्छादनाशनैः ।
भूतिकामैर्नरैर्नित्यं सत्कारेषूत्सवेषु च ।
सन्तुष्टो भार्य्यया भर्त्ता भर्त्त्रा भार्य्या तथैव च ।
यस्मिन्नेव कुले नित्यं कल्याणं तत्र वै ध्रुवम् ॥”)
अगम्या नार्य्यो यथा, --
“माता मातृष्वसा श्वश्रूर्मातुलानी पितृष्वसा ।
पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी तथा ॥
भागिनेयी तथा चैव राजपत्नी तथैव च ।
तथा प्रव्रजिता नारी वर्णोत्कृष्ठा तथैव च ॥
इत्यगम्यास्तु निर्द्दिष्टास्तासान्तु गमने नरः ।
शिश्नस्योत्कर्त्तनं कृत्वा ततस्तु वधमर्हति ॥”
इति मत्स्यपुराणे २०१ अध्यायः ॥
तस्याः शुभलक्षणं यथा, --
“निगूढगुल्फौ पतितौ पद्मकान्तितलौ शुभौ ।
अस्वेदिनौ मृदुतलौ मत्स्याङ्कमकरान्वितौ ॥
वज्राब्जहलचिह्नौ च दास्याः पादौ ततोऽन्यथा ।
जङ्घे त्त रोमरहिते सुवृत्ते विशिरे शुभे ॥
अनुल्वणं सन्धिदेशं समं जानुद्वयं शुभम् ।
ऊरू करिकराकारावरोमौ च समौ शुभौ ॥
अश्वत्थपत्रसदृशं विपुलं गुह्यमुत्तमम् ।
श्रोणीललाटकं स्त्रीणामुरु कूर्म्मोन्नतं शुभम् ॥
गूढो मणिश्च शुभदो नितम्बश्च गुरुः शुभः ।
विस्तीर्णमांसोपचिता गम्भीरा विपुला शुभा ॥
नाभिः प्रदक्षिणावर्त्ता मध्यं त्रिवलिशोभनम् ।
अरोमशौ स्तनौ पीनौ घनावविषमौ शुभौ ॥
कठिनावरोम उरो मृदुग्रीवा च कम्बुता ।
आरक्तावधरौ श्रेष्ठौ मांसलं वर्त्तुलं मुखम् ॥
कुन्दपुष्पसमा दन्ता भाषितं कोकिलासमम् ।
दाक्षिण्ययुक्तमशठं हंसशब्दसुखावहम् ॥
नासा समा समपुटा स्त्रीणान्तु रुचिरा शुभा ।
नीलोत्पलनिभं चक्षुर्नासंलग्नौ न लम्बकौ ॥
न पृथू बालेन्दुनिभे भ्रुवौ चाथ ललाटकम् ।
शुभमर्द्धेन्दुसंस्थानमतुङ्गं स्यादलोमशम् ॥
अमांसलं कर्णयुगं समं मृदु समाहितम् ।
स्निग्धा नीलाश्च मृदवो मूर्द्धजाः कुञ्चितैकजाः ॥
स्त्रीणां समं शिरः श्रेष्ठं पादे पाणितले तथा ।
वाजिकुञ्जरश्रीवृक्षयूपेषु यवतोमरैः ॥
ध्वजचामरमालाभिः शैलकुण्डलवेदिभिः ।
शङ्खातपत्रपद्मैश्च मत्स्यस्वस्तिकसद्रथैः ।
लक्षणैरङ्कुशाद्यैश्च स्त्रियः स्यू राजवल्लभाः ॥
निगूढमणिवन्धौ च पद्मगर्भोपमौ करौ ।
न निम्नं नोन्नतं स्त्रीणां भवेत् करतलं शुभम् ॥
रेखान्वितान्त्वविधवां कुर्य्यात् सम्भोगिनीं स्त्रियम् ।
रेखा या मणिबन्धोत्था गता मध्याङ्गुलीं करे ॥
गता पाणितले या च योर्द्ध्वा पादतले स्थिता ।
स्त्रीणां पुंसां तथा सा स्याद्राज्याय च सुस्वाय
च ॥
कनिष्ठिका मूलरेखा कुर्य्याच्चैव शतायुषम् ।
प्रदेशिनीमध्यमाभ्यामन्तरालगता सती ॥
ऊना ऊनायुषं कुर्य्याहेखा चाङ्गुष्ठमूलगा ।
पृष्ठ २/८७०
बृहत्यः पुत्त्रास्तन्व्यस्तु प्रमदाः परिकीर्त्तिताः ॥
अल्पायुषे लघु छिन्ना दीर्घा छिन्ना महायुषे ।
शुभन्तु लक्षणं स्त्रीणां प्रोक्तं त्वशुभमन्यथा ॥” * ॥
तस्या अशुभलक्षणं यथा, --
“कनिष्ठिकानामिका वा यस्या न स्पृशते महीम् ।
अङ्गुष्ठं वा गतौ यस्यास्तर्ज्जनी कुलटा च सा ॥
ऊर्द्ध्वद्बाभ्यां पिण्डिकाभ्यां जङ्घे चातिशिरालके ।
रोमशे चातिमांसे च कुम्भाकारं तथोदरम् ॥
वामावर्त्तं निम्नमल्पं दुःखितानाञ्च गुह्यकम् ।
ग्रीवया ह्नस्वया निस्वा दीर्घया च कुलक्षयः ॥
पृथुलया प्रचण्डाश्च स्त्रियः स्युर्नात्र संशयः ।
केकरे पिङ्गले नेत्रे श्यावे लोलेक्षणासती ॥
सिते कूपे गण्डयोश्च सा ध्रुवं व्यभिचारिणी ।
प्रलम्बिनि ललाटे च देवरं हन्ति चाङ्गना ॥
उदरे श्वशुरं हन्ति पतिं हन्ति स्फिचोर्द्ध्वयोः ।
या तु रोमोत्तरौष्ठी स्यान्न शुभा भर्त्तुरेव हि ॥
स्तनौ सरोमावशुभौ कर्णौ च विषमौ तथा ।
करालविषमा दन्ताः क्लेशाय च भयाय च ॥
चौर्य्याय कृष्टमांसाश्च दीर्घा भर्त्तुश्च मृत्यवे ।
क्रव्यादरूपैर्हस्तैश्च वृककाकादिसन्निभैः ॥
सिरालैर्विषमैः शुष्कैर्वित्तहीना भवन्ति हि ।
समुन्नतोत्तरोष्ठी या कलहे रूक्षकेशिनी ॥
स्त्रीषु दोषा विरूपाक्ष ! यत्राकारो गुणस्ततः ॥”
इति गरुडपुराणम् ॥
(त्र्यक्षरवृत्तिविशेषः । इति छन्दोमञ्जरी ॥)

नारीकवचः, पुं, (नार्य्यः कवचः सन्नाह इव

यस्य ।) सूर्य्यवंशीयमूलकराजः । स च अश्मक-
पुत्त्रः । सौदासपौत्त्रश्च । “योऽसौ निःक्षत्त्रे
क्ष्मातलेऽस्मिन् क्रियमाणे स्त्रीभिर्विवस्त्राभिः
परिवार्य्य रक्षितः । ततस्तं नारीकवचमुदा-
हरन्ति ।” इति विष्णुपुराणे । ४ । ४ । ३८ ॥

नारीकेलः, पुं, (किल क्रीडने + भावे घञ् । नार्य्या

केल इव केलो सम्मोदो यत्र ।) नारिकेलः । इति
शब्दरत्नावली ॥

नारीकेली, स्त्री, (नारीकेल + गौरादित्वात्

ङीष् ।) नारिकेलः । इति शब्दरत्नावली ॥

नारीचं, क्ली, (नाडीच + डस्य रत्वम् ।) शाक-

विशेषः । नालिता इति भाषा ॥ तद्द्विविधं
तिक्तं मधुरञ्च । तिक्तस्य गुणः । रक्तपित्तहर-
त्वम् । कृमिकुष्ठविनाशित्वञ्च । मधुरस्य गुणाः ।
पिच्छिलत्वम् । शीतत्वम् । विष्टम्भिकफवात-
कारित्वञ्च । इति राजवल्लभः ॥

नारीतरङ्गकः, पुं, (नारीं तरङ्गयति चञ्चलचित्तां

करोतीति । तरङ्ग + कृतौ णिच् + ण्वुल् ।)
षिड्गः । इति शब्दमाला ॥

नारीदूषणं, क्ली, (नारीणां दूषणम् ।) स्त्रीणां

दोषः । स च षड्विधः । यथा, --
“पानं दुर्ज्जनसंसर्गः पत्या च विरहोऽटनम् ।
स्वप्नोऽन्यगेहवासश्च नारीणां दूषणानि षट् ॥”
इति मनुः ॥

नारीष्टा, स्त्री, (नारीणां इष्टा प्रिया ।) मल्लिका ।

इति राजनिर्घण्टः ॥

नार्य्यङ्गः, पुं, (नारीणामङ्गमिव शोभनं अङ्गं

यस्य ।) नागरङ्गः । इति शब्दरत्नावली ॥
(नार्य्या अङ्गे, क्ली ॥)

नालं, क्ली, (नलतीति । नल बन्धे + “ज्वलिति-

कसन्तेभ्यो णः ।” ३ । १ । १४० । इति णः ।)
उत्पलादिदण्डः । तत्पर्य्यायः । नाला २ ।
इत्यमरः । २ । ९ । २२ ॥ नाली ३ नालिका
४ । इति भरतः ॥ (यथा, रघुः । ६ । १३ ।
“कश्चित् कराभ्यामुपगूढनाल-
मालोलपत्राभिहतद्बिरेफम् ।
रजोभिरन्तःपरिवेषबन्धि
लीलारविन्दं भ्रमयाञ्चकार ॥”
अर्द्धर्च्चादित्वात् पुंलिङ्गोऽपि ॥) हरितालम् ।
इति स्वामी ॥ नले, पुं । इति राजनिर्घण्टः ॥

नालवंशः, पुं, (नालो वंश इव ।) नलः । इति

राजनिर्घण्टः ॥

नाला, स्त्री, (नल बन्धे + णः । ततष्टाप् ।) नालम् ।

इत्यमरभरतौ ॥ डाँटा इति नाडा इति च
भाषा । (नलति जलादिर्निर्गच्छत्यनयेति । नल
+ करणे घञ् । जलनिर्गममार्गः । यथा,
मार्कण्डेये । ३ । ४३ ।
“यथा तोयार्थिनस्तोयं यन्त्रनालादिभिः शनैः ।
आपिबेयुस्तथा वायुं पिबेद्योगी जितश्रमः ॥”)

नालिः, स्त्री, (नालयतीति । नल + णिच् + इन् ।)

नाडी ! सिरा । इति द्बिरूपकोषः ॥

नालिकः, पुं, (नल एव नालस्तृणविशेषः । स

भोक्तव्यत्वेनास्त्यस्येति ठन् ।) महिषः । इति
त्रिकाण्डशेषः ॥ क्ली, (नालमस्त्यस्येति ।) पद्मम् ।
इति शब्दरत्नावली ॥ (नालः कार्य्यसाधनत्वे-
नास्त्यस्येति । नाल + “अत इनिठनौ ।” ५ ।
२ । ११५ । इति ठन् । अस्त्रविशेषः । तत्तु
आकृतिकार्य्यादिना अधुनातनस्य ‘वन्दुक’ इति
ख्यातस्य अस्त्रस्य सादृश्यं लभते । अस्य आकृ-
त्यादिकन्तु शुक्रनीतौ उक्तम् । तद्यथा, --
“अस्त्रन्तु द्विविधं ज्ञेयं नालिकं मान्त्रिकं तथा ।
यदा तु मान्त्रिकं नास्ति नालिकं तत्र धारयेत् ॥
नालिकं द्बिविधं ज्ञेयं बृहत्क्षुद्रप्रभेदतः ।
तिर्य्यगूर्द्ध्वच्छिद्रमूलं नालं पञ्चवितस्तिकम् ॥
मूलाग्रयोर्लक्ष्यभेदि तिलबिन्दुयुतं सदा ।
यन्त्राघाताग्निकृत् ग्रावचूर्णधृक् कर्णमूलकम् ॥
सुकाष्ठोपाङ्गयुध्नञ्च मघ्याङ्गुलविलान्तरम् ।
स्वाग्नेऽग्निचूर्णसन्धातृ शलाकासंयुतं दृढम् ॥
लघुनालिकमप्येतत् प्रधार्य्यं पत्तिसादिभिः ।
यथा यथा तु त्वक्सारं यथा स्थूलविलान्तरम् ॥
यथा दीर्घं बृहत् गोलं दूरभेदि तथा तथा ।
मूलकीलभ्रमात् लक्ष्यसमसन्धानभाजि यत् ॥
बृहन्नालिकसंज्ञन्तत् काष्ठबुध्नविवर्ज्जितम् ।
प्रवाह्यं शकटाद्यैस्तु सुयुक्तं विजयप्रदम् ॥”
अस्य कार्य्यं यथा, --
“नालास्त्रं शोधयेदादौ दद्यात्तत्राग्निचूर्णकम् ।
निवेशयेत्तु दण्डेन नालमूले यथादृढम् ॥
ततः सुगोलकं दद्यात् ततः कर्णेऽग्निचूर्णकम् ।
यन्त्रचूर्णाग्निदानेन गोलं लक्ष्ये निपातयेत् ॥
लक्ष्यभेदो यथा बाणो धनुर्ज्याविनियोगतः ।
भवेत्तथा तु सन्धाय -- ॥”)

नालिका, स्त्री, (नाला एव । स्वार्थे कन् । टापि

अत इत्वम् ।) नाला । इति शब्दरत्नावली ॥
नालिताशाकः । इति शब्दमाला ॥ (यथा,
सुश्रुते । १ । ४६ ।
“वातलं नालिकाशाकं पित्तघ्नं मधुरञ्च तत् ॥”)
चर्म्मकषा । इति जटाधरः ॥ हस्तिकर्णवेधनिका ।
इति हारावली । ३० ॥ (यथा, माघे । १७ । ३५ ।
“गजाः सकृत्करतललोलनालिका
हता मुहुः प्रणदितघण्टमाययुः ॥”)

नालिकेरः, पुं, (नारिकेलः । रलयोरैक्यात् रस्य

लः । लस्य रश्च ।) नारिकेलः । इत्यमरटीकायां
रमानाथः ॥ (क्वचित् क्लीवेऽपि दृश्यते । यथास्य
गुणाः ।
“नालिकेरं सुमधुरं गुरुस्निग्धञ्च शीतलम् ।
हृद्यं संबृंहणं वस्तिशोधनं रक्तपित्तनुत् ॥
विष्टम्भि पक्वं मतिमन्नपक्वं कफवातलम् ।
बृंहणं शीतलं वृष्यं नालिकेरफलं विदुः ॥”
इति हारीते प्रथमे स्थाने दशमेऽध्याये ॥
अस्य तोयगुणा यथा, --
“नालिकेरोदकं स्निग्धं स्वादु वृष्यं हिमं लघु ।
तृष्णापित्तानिलहरं दीपनं वस्तिशोधनम् ॥”
इति वाभटे सूत्रस्थाने पञ्चमेऽध्याये ॥)

नालिजङ्घः, पुं, द्रोणकारकः । इति हारावली । ८४ ॥

नालिता, स्त्री, (नालमिता प्राप्ता ।) स्वनाम-

ख्यातशाकः । यथा, --
“नालिता पट्टशाकञ्च मिष्टपत्रे तु नालिका ॥”
इति शब्दमाला ॥
अस्य गुणाः नारीचशब्दे द्रष्टव्याः ॥

नाली, स्त्री, (नालि + वा ङीष् ।) शाककड-

म्बकः । डाँटा इति माषा । इति मेदिनी । ले,
२८ ॥ हस्तिकर्णवेधनी । घटी । इति त्रिकाण्ड-
शेषः ॥ नाडी । इत्यमरटीकायां भरतः ॥
(यथा, --
“रसवाहिनीश्च नालीर्जिह्वामूलगलतालुक्लाम्नः ।
संशोष्य नृणां देहे कुरुतस्तृष्णां महाबलावेतौ ।
पीतं पीतं हि जलं शोधयतस्तमतो न याति
शमम् ॥”
इति चरके चिकित्सास्थाने चतुर्व्विंशेऽध्याये ॥)
पद्मम् । इति शब्दरत्न्यवली ॥

नालीकः, पुं, (नाल्या नलयन्त्रात् कायति शब्दायते

इति । कै + कः । घोरशब्देन निर्गमनादेवास्य
तथात्वम् ।) शरः । (यथा, महाभारते । ३ ।
३१० । १७ ।
“कर्णिनालीकनाराचानुत्सृजन्तो महारथाः ।
नाविध्यन् पाण्डवास्तत्र पश्यन्तो मृगमन्ति-
कात् ॥”
तथा च शार्ङ्गधरसंगृहीतधनुर्व्वेदे ।
“नालीका लघवो बाणा नलयन्त्रेण नोदिताः ।
अत्युच्चदरपातेषु दुर्गयुद्धेषु ते मताः ॥”)
शल्याङ्गम् । अब्जषण्डे, क्ली । इति मेदिनी ।
के, ११० ॥ (न अलीकमिति । सत्यम् । यथा,
वक्रोक्तिपञ्चाशिकायाम् । ४२ ।
“नालीकाश्रयमेतदत्र वचनं बाणाश्रयं किं
वचः ॥”)