पृष्ठ ३/१४०

पिडका, स्त्री, (पीडयतीति । पीड + ण्वुल् + टाप् ।

निपातनात् साधुः ।) स्फोटकविशेषः । प्रमे-
जहा सा दशविधा । यथा, --
“शराविका कच्छपिका जालिनी विनतालजी ।
मसूरिका सर्षपिका पुत्त्रिणी च विदारिका ।
विद्रधिश्चेति पिडकाः प्रभेहोपेक्षया दश ॥”
तासां प्रत्येकलक्षणं यथा, --
“सन्धिमर्म्मसु जायन्ते मांसलेषु च धामसु ।
अन्तोन्नता च तद्रूपा निम्नमध्या शराविका ॥ १ ॥
सदाहा कूर्म्मसंस्थाना ज्ञेया कच्छपिका बुधैः । २ ।
जालिनी तीव्रदाहार्त्तिमांसजालसमावृता ॥ ३ ॥
अवगाढरुजा क्लेदा पृष्ठे वाप्युदरेऽपि वा ।
महती पिडका नीला विनता नाम सा स्मृता ॥ ४ ॥
रक्तासिता स्फोटचिता दारुणा त्वलजी भवेत् । ५ ।
मसूरफलसंस्थाना विज्ञेया सा मसूरिका ॥ ६ ॥
गौरसर्षपसंस्थाना तत्प्रमाणा च सर्षपी । ७ ।
महत्यल्पचिता ज्ञेया पिडका चापि पुत्त्रिणी ॥ ८ ॥
विदारी कन्दवद्वृत्ता कठिना च विदारिका । ९ ।
विद्रधेर्लक्षणैर्युक्ता ज्ञेया विद्रधिका तु सा ॥” १० ॥
कुष्ठपिडका यथा, --
“कण्डूर्विपूयकश्चैव कुष्ठे शोणितसंश्रिते ।
बाहुल्यं वक्त्रशोषश्च कार्कश्यं पिडकोद्गमः ॥” * ॥
पिडकाविशेषो यथा, --
“यवाकारा सुकठिना ग्रथिता मांससंश्रिता ।
पिडका श्लेष्मवाताभ्यां यवप्रख्येति सोच्यते ॥
घनामवक्रां पिडकामुन्नतां परिमण्डलाम् ।
अन्त्रालजीमल्पपूयां तां विद्यात् कफवातजाम् ॥ १
विवृतास्यां महादाहां पक्कोडुम्बरसन्निभाम् ।
परिमण्डलां पित्तकृतां विवृतां नाम तां विदुः ॥ २ ॥
ग्रथिताः पञ्च वा षड् वा दारुणाः कच्छपो-
पमाः ।
कफानिलाभ्यां पिडका ज्ञेयाः कच्छपिका
बुधैः ॥ ३ ॥
ग्रीवांसकक्षाकरपाददेशे
सन्धौ गले वा त्रिभिरेव दोषैः ।
ग्रन्थिः सवल्मीकवदक्रियाणां
जातः क्रमेणैव गतः प्रवृद्धिम् ॥
मुखैरनेकैः स्रुतितोदवद्भि-
र्विसर्पवत् सर्पति चोन्नताग्रैः ।
वल्मीकमाहुर्भिषजो विकारं
निष्प्रत्यनीकं चिरजं विशेषात् ॥ ४ ॥
पद्मकर्णिकवन्मध्ये पिडकाभिः सदाचिताम् ।
इन्द्रवृद्धान्तु तां विद्याद्बातपित्तोत्थितां भिषक् ॥ ५ ॥
मण्डलं वृत्तमुत्सन्नं सरक्तं पिडकाचितम ।
रुजाकरीं गर्द्दभिकां तां विद्याद्वातपित्त-
जाम् ॥ ६ ॥
वातश्लेष्मसमुद्भूतः श्वयथुहनुसन्धिजः ।
स्थिरो मन्दरुजः स्निग्धो ज्ञेयः पाषाण-
गर्दभः ॥ ७ ॥
कर्णस्याभ्यन्तरे जातां पिडकामुग्रवेदनाम् ।
स्थिरां पनसिकान्तान्तु विद्यादन्तःप्रपाकि-
णीम् ॥ ८ ॥
विसर्पवत् सर्पति यः शोथस्तनुरपाकवान् ।
दाहज्वरकरः पित्तात् स ज्ञेयो जालगर्दभः ॥ ९ ॥
पिडकामुत्तमाङ्गस्थां वृत्तामत्युग्ररुग्ज्वराम् ।
सर्व्वात्मिकां सर्व्वलिङ्गां जानीयादिरिवेल्वि-
काम् ॥ १० ॥
बाहुपार्श्वांसकक्षेषु कृष्णस्फोटां सवेदनाम् ।
पित्तप्रकोपसम्भूतां कक्षामित्यभिनिर्द्दिशेत् ॥ ११ ॥
एकामेतादृशीं दृष्ट्वा पिडकां स्फोटसन्निभाम् ।
त्वग्गतां पित्तकोपेन गन्धनामां प्रचक्षते ॥ १२ ॥
कक्षभागेषु ये स्फोटा जायन्ते मांसदारुणाः ।
अन्तर्द्दाहज्वरकरा दीप्तपावकसन्निभाः ॥
सप्ताहाद्द्वादशाहाद्वा पक्षाद्बा घ्नन्ति मानवम् ।
तामग्निरोहिणीं विद्यादसाध्यां सन्निपाततः ॥ १३ ॥
नखमांसमधिष्ठाय वातः पित्तञ्च देहिनाम् ।
कुरुते दाहपाकौ च व्याधिन्तं चिप्यमादिशेत् ॥
तदेवाल्पतरैर्द्दोषैः कुनखं परुषं वदेत् ॥ १४ ॥
गम्भीरामल्पसंरम्भां सवर्णामुपरिस्थिताम् ।
पादस्यानुशयीं तान्तु विद्यादन्तःप्रपाकिणीम् ॥ १५
विदारीकन्दवद्वृत्तां कक्षावङ्क्षणसन्धिषु ।
विदारीति च तां विद्यात् सर्व्वजां सर्व्वलक्ष-
णाम् ॥” १६ ॥
इति माधवकरः ॥

पिण्डं, क्ली, पुं, (पिण्डते संहतो भवतीति । पिडि

संहतौ + अच् । पिण्ड्यते राशोक्रियते इति ।
कर्म्मणि घञ् वा ।) आजीवनम् । अयः ।
इति मेदिनी । डे, १९ ॥ श्राद्धशेषद्रव्यनिर्म्मित-
बिल्वफलाकारपित्र्युदेश्यकदेयान्नम् । यजुर्व्वेदिनां
पिण्डशब्दो नपुंसकलिङ्गेन प्रयुज्यते । यथा, --
“अवनिक्तं पिण्डं दद्यादसावेतत्त इति श्राद्ध-
विवेकधृतपिण्डपितृयज्ञीयकात्यायनवचने पिण्ड-
विशेषणे एतदिति नपुंसकनिर्द्देशात् भाषेतैतच्च
वै पिण्डं यज्ञदत्तस्य पूरकमिति ऋष्यशृङ्गवचने-
ऽपि तथा दर्शनाच्च । छन्दोगानां पिण्डशब्दः
पुंलिङ्गेन प्रयुज्यते । दर्भेषु मधु मधु मध्वित्यक्ष-
न्नमी मदन्त इति जपित्वा त्रींस्त्रीन् पिण्डान्
दद्यादिति गोभिलसूत्रे पिण्डानिति पुंलिङ्ग-
निर्द्देशात् ।” इति श्राद्धतत्त्वम् ॥ * ॥ गयादा-
वात्मपिण्डदानविधिर्यथा, --
“गयान्तं पिण्डदानञ्च गयान्तं तीर्थमेव च ।
पञ्चकान्तं कामरूपं पिच्छिलान्तं सरित् शुभे ॥
जनार्द्दनस्य हस्ते तु पिण्डं दद्यात् स्वकं नरः ।
विरजे च तथा चाश्वकर्णे रामे च सोमके ॥
जीवत्पिण्डप्रदानेन अल्पायुर्जायते नरः ।
यत्रागम्ये महाक्षेत्र स्वकं पिण्डं ददेत्तु यः ।
मासद्वयाधिकं वर्षमायुषो वर्द्धते क्रमात् ॥”
इति योगिनीयन्त्रे प्रथमतमे २ भागे ५ पटलः ॥
अन्यत् गयाशब्दे द्रष्टव्यम् ॥

पिण्डः, पुं, (पिडि संहतौ + अच् ।) वोलः ।

(अस्य पर्य्यायो यथा, वद्यकरत्नमालायाम् ।
“विद्वान् गोलः पिण्डकश्च पिण्डो वोलो रसोरसः ॥)
बलम् । सान्द्रम् । देहैकदेशः । (यथा, महा-
भारते । ३ । ११२ । ३ ।
“द्वौ चास्य पिण्डावधरेण कण्ठा-
दजातरोमौ सुमनोहरौ च ॥”)
अगारैकदेशः । देहमात्रम् । (यथा, रघुः ।
२ । ५७ ।
“एकान्तविध्वंसिषु मद्विधानां
पिण्डेष्वनास्था खलु भौतिकेषु ॥”)
निवापः । (यथा, मनुः । ३ । २१५ ।
“त्रोंस्तु तस्माद्धविःशेषात् पिण्डान् कृत्वा समा-
हितः ।
औदकेनैव विधिना निर्व्वपेद्दक्षिणामुखः ॥”)
गोलः । सिह्लकः । ओड्रपुष्पम् । इति मेदिनी ।
डे, १९ ॥ बृन्दम् । कवलः । इति हेमचन्द्रः ॥
(यथा, मनुः । ११ । २१७ ।
“एकैकं ह्नासयेत् पिण्डं कृष्णे शुक्ले च वर्द्धयेत् ॥”)
गजकुम्भः । इत्यमरः । २ । ८ । ३७ ॥ मदनवृक्षः ।
इति राजनिर्घण्टः ॥ (यथा, भावप्रकाशे पूर्ब्ब-
खण्डे प्रथमे भागे ।
“मदनश्छर्द्दनः पिण्डो नटः पिण्डीतकस्तथा ।
करहाटो मरुवकः शल्यको विषपुष्पकः ॥”
किलाटः । यथा, वैद्यकरत्नमालायाम् ।
“किलाटः कुर्च्चिका पिण्डः -- ॥”)
निवापस्य पितृदेयस्य विधिर्यथा, --
“यावदन्नमुपादाय हविषोऽर्भकमर्भकम् ।
चरुणा सह सन्नीय पिण्डदानमुपक्रमेत् ॥
श्राद्धार्थाद्धविषोऽन्नादेः सकाशात् यावद्भक्ष्य-
मोदनव्यञ्जनादि ततोऽल्पाल्पं गृहीत्वा यदग्नौ
करणशेषेण सह सन्नीय मिश्रीकृत्य पिण्डदान-
मारभेतेत्यर्थः ।
मध्वाज्यतिलसंयुक्तं सर्व्वव्यञ्जनसंयुतम् ।
उष्णमादाय पिण्डन्तु कृत्वा विल्वफलोपमम् ।
दद्यात् पितामहादिभ्यो दर्भमूलाद्यथाक्रमम् ॥
अत्र पितामहपदं पितृपरं वचनान्तरैकवाक्य-
त्वात् ।
सपित्रे प्रथमं पिण्डं दद्यादुच्छिष्टसन्निधौ ।
पितामहाय चैवाथ तत्पित्रे च ततः परम् ॥
दर्भमूले लेपभुजस्तर्पयेल्लेपघर्षणैः ।
पिण्डैर्मातामहांस्तद्वद्गन्धमाल्यादिसंयुतैः ॥
प्रीणयित्वा द्विजाग्र्याणां दद्यादाचमनन्ततः ॥”
इति श्राद्धतत्त्वम् ॥ * ॥
अन्नाद्यभावे फलादिनापि तस्य कर्त्तव्यत्वं
यथा, --
“ऐङ्गुदं वदरोन्मिश्रं पिण्याकं दर्भसंस्तरे ।
न्यूप्य पिण्डं सतो राम इदं वचनमब्रवीत् ॥
इदं भुङ्क्ष्व महाराज ! प्रीतो यदशना वयम् ।
यदन्नाः पुरुषा राजंस्तदन्नाः पितृदेवताः ॥”
इत्ययोध्याकाण्डम् ॥ * ॥
पूरकपिण्डविधिर्यथा, --
“ततश्चोत्तरपूर्ब्बस्यामग्निं प्रज्वालयेद्दिशि ।
तण्डुलप्रसूतिं तत्र प्रक्षाल्य द्बिः पचेत् स्वयम् ॥
सपवित्रैस्तिलैर्म्मिश्रां केशकीटविवर्जिताम् ।
द्वारोपान्ते ततः क्षिप्त्वा शुद्धां वा गौरमृत्तिकाम् ॥
तत्पृष्ठे प्रस्तरेद्दर्भान् याम्याग्रान् देशसम्भवान् ।
पृष्ठ ३/१४१
ततोऽवनेजनन्दद्यात् संस्मरन् गोत्रनामनी ॥
तिलसर्पिर्मधुक्षीरैः सञ्चितं तप्तमेव हि ।
दद्यात् प्रेताय पिण्डन्तु दक्षिणाभिमुखस्थितः ॥
फलमूलगुडक्षीरतिलमिश्रन्तु कुत्रचित् ।
अर्घ्यैः पुष्पैस्तथा दीपैर्धूपैस्तोयैः सुशीतलैः ॥
ऊर्णातन्तुमयैः शुद्धैर्वासोभिः पिण्डमर्च्चयेत् ।
प्रयाति यावदाकाशं पिण्डाद्वास्पमयी शिखा ॥
तावत्तु संमुखस्तिष्ठेत् सर्व्वं तोये ततः क्षिपेत् ।
दिवसे दिवसे देयः पिण्ड एवं क्रमेण तु ॥
सद्यःशौचेऽपि दातव्याः सर्व्वेऽपि युगपत्तथा ।
त्र्यहाशौचे प्रदातव्याः प्रथमे त्वेक एव हि ॥
द्वितीयेऽहनि चत्वारस्तृतीये पञ्च चैव हि ।
एकस्तोयाञ्जलिस्त्वेवं पात्रमेकञ्च दीयते ॥
द्वितीये द्वौ तृतीये त्रीन् चतुर्थे चतुरस्तथा ।
पञ्चमे पञ्च षष्ठे षट् सप्तमे सप्त एव च ॥
अष्टमेऽष्टौ च नवमे नवैव दशमे दश ।
येन स्युः पञ्चपञ्चाशत्तोयस्याञ्जलयः क्रमात् ॥
तोयपात्राणि तावन्ति संयुक्तानि जलादिभिः ॥”
इति शुद्धितत्त्वम् ॥ * ॥
गयायामात्मपिण्डदानप्रमाणं यथा, --
“स्वकर्म्मधर्म्मयोगेन धनमुच्चावचं बहु ।
उपार्जयित्वा प्रययौ गयातीर्थमनुत्तमम् ॥
पिण्डनिर्व्वपणं तत्र प्रेतानामनुपूर्ब्बशः ।
चकार स्वपितॄणाञ्च दायादानामनन्तरम् ॥
आत्मनश्च महाबुद्धिर्महावेद्यां तिलैर्विना ।
पिण्डनिर्व्वपणं चक्रे तथान्येषाञ्च गोत्रिणाम् ॥
एवं प्रदत्तेष्वथ वै पिण्डेषुं प्रेतभावतः ।
विमुक्तास्ते द्विज प्रेता ब्रह्मलोकं ततो गताः ॥”
इति वामने ७६ अध्यायः ॥

पिण्डकं, क्ली, (पिण्ड इव कायतीति । कै + कः ।)

वोलम् । पिण्डमूलम् । इति राजनिर्घण्टः ॥
(गोलः । यथा, सुश्रुते शारीरस्थाने ३ अध्याये ।
“तृतीये (मासि) हस्तपादशिरसां पञ्च
पिण्डकानि वर्त्तन्तेऽङ्गप्रत्यङ्गविभागश्च सूक्ष्मो
भवति ॥”)

पिण्डकः, पुं, (पिण्ड इव कायतीति । कै + कः ।)

सिह्लनामगन्धद्रव्यम् । इत्यमरः । १ । ६ । १२८ ॥
(वोलः । अस्य पर्य्यायो यथा, --
“विद्वान् गोलः पिण्डकश्च पिण्डोवोलो रसोरसः ॥”
इति वैद्यकरत्नमालायाम् ॥)
पिशाचः । इति त्रिकाण्डशेषः ॥ पिण्डालुः ।
इति राजनिर्घण्टः ॥ (अस्य गुणा यथा, --
“पिण्डको वातलः श्लेष्मी ग्राही वृष्यो महा-
गुरुः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
पिण्ड + स्वार्थे कन् । कवलः । यथा, हरिवंशे ।
भविष्यपर्व्वणि । १० । २१ ।
“पयःपानं तथा कुर्व्वन् भक्षयन् दधिपिण्ड-
कम् ॥”)

पिण्डकन्दः, पुं, (पिण्डाकारः कन्दः ।) पिण्डालुः ।

इति राजनिर्घण्टः ॥ (पिण्डालुशब्देऽस्य विशेषो
ज्ञातव्यः ॥)

पिण्डखर्ज्जूरः पुं, (पिण्डवत् खर्ज्जूरः ।) स्वनामं-

ख्यातखर्ज्जूरः । तत्पर्य्यायः । राजजम्बूः २
पिण्डी ३ । इति जटाधरः ॥

पिण्डखर्ज्जूरी, स्त्री, (पिण्डखर्ज्जूर + स्त्रियां ङीष् ।)

पिण्डखर्ज्जूरः । तत्पर्य्यायः । दीप्या २ स्वपिण्डा
३ मधुरश्रवा ४ फलपुष्पा ५ स्वादुपिण्डा ६
हयभाक्षा ७ पिण्डखर्ज्जूरिका ८ । अस्या गुणाः ।
गौल्यत्वम् । हिमत्वम् । पित्तदाहार्त्तिश्वासभ्रम-
नाशित्वम् । वीर्य्यवृद्धिदत्वञ्च । इति राज-
निर्घण्टः ॥ अपि च ।
“पिण्डखर्ज्जूरिका त्वन्या सा देशे पश्चिमे भवेत् ।
खर्जूरी गोस्तनाकारा पराद्द्वीपादिहागता ॥
जायते पश्चिमे देशे सा छोहोरेति कीर्त्त्यते ।
खर्जूरीत्रितयं शीतं मधुरं रसपाकयोः ॥
स्निग्धं रुचिकरं हृद्यं क्षतक्षयहरं गुरु ।
तर्पणं रक्तपित्तघ्नं पुष्टिविष्टम्भिशुक्रदम् ॥
कोष्ठमारुतकृद्बल्यं वान्तिवातकफापहम् ।
ज्वराभिघातक्षुत्तृष्णाकासश्वासनिवारकम् ॥
मदमूर्च्छामरुत्पित्तमद्योद्भूतगदान्तकृत् ।
महद्भिश्च गुणैरल्पा स्वल्पखर्जूरिका स्मृता ॥
खर्जूरीतरुतोयन्तु मदपित्तकरं भवेत् ।
वातश्लेष्महरं रुच्यं दीपनं बलशुक्रकृत् ॥”
अथ पिण्डखर्जूरीभेदः ।
“सुनेपाली तु मृदुला दलहीनफला च सा ।
सुनेपाली श्रमभ्रान्तिदाहमूर्च्छास्रपित्तहृत् ॥”
इति भावप्रकाशे पूर्ब्बखण्डे १ भागे ॥

पिण्डगोसः, पुं, (पिण्डवत् संहतो गोसः ।) गन्ध-

रसः । इत्यमरटीकायां रमानाथः ॥

पिण्डतैलकः, पुं, (पिण्डवत् तैलं यस्य । कप् ।)

तुरुस्कः । इति राजनिर्घण्टः ॥

पिण्डदः, पुं, (पिण्डं ददातीति । दा + कः ।)

पिण्डदानकर्त्ता । यथा, --
“लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः ।
पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषम् ॥”
इति शुद्धितत्त्वम् ॥
अपि च ।
“गाङ्गेनेह परां सिद्धिं प्राप्यन्ते वारिणा नराः ।
पैत्र्याः पश्चात् क्रियाः कार्य्याः सर्व्वाश्चैवौर्द्ध्व-
देहिकाः ॥
क्रियां करोति यः पूर्ब्बां पितॄणां यश्च पिण्डदः ।
प्रायश्चित्तमचीर्णं तत् प्रायश्चित्ती भवेत्तु सः ॥”
इत्यग्निपुराणम् ॥

पिण्डपदं, क्ली, (पिण्डस्य संहतस्य पदम् ।) अङ्क-

विशेषः । यथा, --
“रूपाष्टकैर्विनिहतो भवनस्य बन्धः
कर्त्तुः स्वमृक्षमिह युग्गशरैकनिघ्नम् ।
एकीकृतं रसनिशाकरयुग्मभुक्त-
शेषं ततो भवति पिण्डपदं गृहस्य ॥
रूपाष्टकैरेकाशीत्या विनिहतः पूरितः भवनस्य
बन्धः दीर्घप्रस्तारमिलितहस्ताः स्वमृक्षं तत्-
संख्यानं युग्मशरैकनिघ्नं द्विपञ्चाशदुत्तरशत-
पूरितं एकीकृतं पूर्ब्बाङ्केण मिलितं रसनिशा-
करयुग्मभुक्तशेषं षोडशाधिकद्विशतहृतावशिष्टं
तत् संख्यानं पिण्डपदसंज्ञं गृहस्य भवति ॥”
इति ज्योतिस्तत्त्वम् ॥

पिण्डपादः, पुं, (पिण्ड इव पादो यस्य ।) हस्ती ।

इति त्रिकाण्डशेषः ॥

पिण्डपुष्पं, क्ली, (पिण्ड इव पुष्पं पुष्पगुच्छो यस्य ।)

अशोकपुष्पम् । (क्वचित् पुं । यथा, --
“अशोको हेमपुष्पश्च वञ्जुलस्ताम्रपल्लवः ।
कङ्केलिः पिण्डपुष्पश्च गन्धपुष्पो नटस्तथा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
जवापुष्पम् । पद्मपुष्पम् । इति मेदिनी । पे, २७ ॥
तगरपुष्पम् । इति शब्दरत्नावली ॥

पिण्डपुष्पकः, पुं, (पिण्डपुष्पमिव प्रतिकृतिः । “इवे

प्रतिकृतौ ।” ५ । ३ । ९६ । इति कन् ।) वास्तूकम् ।
इति शब्दमाला ॥ (वास्तूकशब्देऽस्य गुणादयो
ज्ञातव्याः ॥)

पिण्डफला, स्त्री, (पिण्ड इव फलं यस्याः ।)

कटुतुम्बी । इति जटाधरः ॥ (यथा, --
“स्विन्नस्य विम्लापनमेव कुर्य्या-
दङ्गुष्ठलोहोपलवेणुदण्डैः ॥
विकङ्कतारग्वधकाकनन्ती
काकादनीतापसवृक्षमूलैः ।
आलेपयेत् पिण्डफलार्कभार्गी
करञ्जकालामदनैश्च विद्वान् ॥”
इति सुश्रुते चिकित्सितस्थानेऽष्टादशेऽध्याये ॥)

पिण्डबीजकः, पुं, (पिण्डवत् बीजानि यस्य । कप् ।)

कर्णिकारवृक्षः । इति राजनिर्घण्टः ॥ (कर्णि-
कारशब्दे विवृतिरस्य ज्ञातव्या ॥)

पिण्डमुस्तां, स्त्री, (पिण्डवत् स्थूला मुस्ता ।)

नागरमुस्ता । इति राजनिर्घण्टः ॥

पिण्डमूलं, क्ली, (पिण्डमिव मूलमस्य ।) गर्जरम् ।

मूलकभेदः । तत्पर्य्यायः । गजाण्डम् २ पिण्ड-
कम् ३ पिण्डमूलकम् ४ । अस्य गुणाः । कटु-
त्वम् । उष्णत्वम् । गुल्मवातादिदोषनाशित्वञ्च ।
इति राजनिर्घण्टः ॥

पिण्डलः, पुं, (पिडि संहतौ + बाहुलकात् कलच् ।)

सेतुः । इति हारावली । १२९ ॥

पिण्डसः, पुं, (पिण्डेन परदत्तग्रासेन सनोति

जीवतीति । सन + डः ।) भिक्षाशी । भिक्षो-
पजीवी । इति शब्दमाला ॥

पिण्डा, स्त्री, (पिण्ड + टाप् ।) पिण्डायसम् । कस्तूरी-

भेदः । सा कुलत्थिकातः कियत्स्थूला । इति
राजनिर्घण्टः ॥ वंशपत्री । इति भावप्रकाशः ॥

पिण्डातः, पुं, (पिण्ड इव अतति सादृश्यमनुकरो-

तीति । अत + अच् ।) सिह्लकः । इति रत्न-
माला ॥

पिण्डाभ्रं, क्ली, (पिण्डवत् आभ्रं मेघजलसम्बन्धि-

द्रव्यम् ।) घनोपलः । इति शब्दमाला ॥

पिण्डायसं, क्ली, (पिण्डं संहतमायसम् ।)

तीक्ष्णायसम् । इति राजनिर्घण्टः ॥

पिण्डारं, क्ली, (पिण्डं संहतमृच्छतीति । ऋ +

“कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) फल-
पृष्ठ ३/१४२
शाकविशेषः । पिण्डारा इति हिन्दीभाषा ।
अस्य गुणाः । शीतलत्वम् । बल्यत्वम् । पित्त-
नाशित्वम् । रुचिकारित्वम् । पाके लघुत्वम् ।
विशेषेण विषशान्तिकरत्वञ्च । इति भावप्रकाशः ॥

पिण्डारः, पुं, (पिण्डं ऋच्छतीति । ऋ + अण् ।)

क्षपणकः । गोपः । महिषीरक्षकः । द्रुमभेदः ।
इति मेदिनी । रे, १८५ ॥ विकङ्कतवृक्षः । इति
राजनिर्घण्टः ॥

पिण्डालुः, पुं, (पिण्डवत् स्थूल आलुः ।) कन्द-

गुडूची । कन्दभेदः । पेडालु इति हिन्दी-
भाषा । चुवडि आलु इति वङ्गभाषा । तत्-
पर्य्यायः । ग्रन्थिलः २ पिण्डकन्दः ३ ग्रन्थिः ४
रोमशः ५ रोमकन्दः ६ रोमालुः ७ ताम्बूल-
पत्रः ८ नानाकन्दः ९ पिण्डकः १० । अस्य
गुणाः । मधुरत्वम् । शीतत्वम् । मूत्रकृच्छ्रदाह-
शोषप्रमेहनाशित्वम् । वृष्यत्वम् । सन्तर्पणत्वम् ।
गुरूत्वञ्च । इति राजनिर्घण्टः ॥

पिण्डालुकं, क्ली, (पिण्डालुरिव प्रतिकृतिः । इवार्थे

कन् ।) आलुविशेषः । गोल आलु इति गुड
आलु इति चुवडि आलु इति च भाषा । अस्य
गुणाः । कफहरत्वम् । गुरुत्वम् । वातप्रकोप-
णत्वञ्च । इति राजवल्लभः ॥ (यथा, सुश्रुते ।
१ । ४६ ।
“विदारीकन्दशतावरीविसमृणालशृङ्गाटक-
कशेरुकपिण्डालुकमध्वालुकहस्त्यालुककाष्ठालुक-
शङ्खालुकरक्तालुकेन्दीवरोत्पलकन्दप्रभृतीनि ॥”)

पिण्डाह्वा, स्त्री, (पिण्डां कस्तूरीविशेषमाह्वयते

स्पर्द्धते स्वगन्धेनेति । ह्वे + कः ।) नाडीहिङ्गु ।
इति राजनिर्घण्टः ॥

पिण्डिः, स्त्री, (पिडि संहतौ + इन् ।) पिण्डिका ।

इत्यमरटीकायां रमानाथः ॥

पिण्डिका, स्त्री, (पिण्डन्ते संहतानि भवन्ति

पिण्ड्यन्ते राशीक्रियन्ते वा अराणि यस्याम् ।
पिण्ड + घञ् । गौरादित्वात् ङीष् । ततः कन् ।
ह्नस्वश्च ।) रथनाभिः । इत्यमरः । २ । ८ । ५६ ॥
सा रथचक्रमध्ये मण्डलाकारा यस्यां सर्व्वाणि
काष्ठान्यासज्यन्तें । इति रायमुकुटः ॥ (पिण्डम् ।
यथा, हारीते प्रथमस्थाने सप्तमेऽध्याये ।
“कांस्यपात्रे समुद्धृत्य परीक्षेत भिषग्वरः ।
शुद्धकर्म्मा स तल्लब्ध्वा श्वेतशाल्योदनस्य वा ॥
पिण्डिका तत्र संक्षिप्ता नान्यथा भातिसा पुनः ॥”)
पिचिण्डिका । सा जानुनोऽधोमांसलप्रदेशः ।
इति हेमचन्द्रः ॥ पायेर डिम् इति भाषा ॥
(यथा, चरके सूत्रस्थाने ७ अध्याये ।
“पकाशयशिरःशूलं वातवर्च्चो निरोधनम् ।
पिण्डिकोद्वेष्टनाध्मानं पुरीषे स्याद्विधारिते ॥”)
श्वेताम्लिः । इति राजनिर्घण्टः ॥ पीठः । यथा,
सूत उवाच ।
“पिण्डिकालक्षणं वक्ष्ये यथावदनुपूर्ब्बशः ।
पीठोच्छ्रायं यथावच्च भागान् षोडश कारयेत् ॥
भूमावकः प्रतिष्ठः स्याच्चतुर्भिर्जगतो मता ।
वृत्तो भागस्तथैकः स्यात् वृत्तपट्टस्य भागतः ॥
भागैस्त्रिभिस्तथा कण्ठं कण्ठपट्ठस्तु भागतः ।
भागेन वृत्तपट्टस्तु शेषभागेन पट्टिकी ॥
प्रचिन्त्यं भागमेकैकं जगती यावदेव तु ।
निर्गमस्तु पुरस्तस्या यावद् विशेषपट्टिकाः ॥
पीठिकानान्तु सर्व्वासामेतत् सामान्यलक्षणम् ।
निःशेषाद्देवताभेदात् शृणुध्वं द्बिजसत्तमाः ॥
स्थण्डिला वाथ वापी च यक्षी वेदी च मण्डला ।
पूर्णचन्द्रा च वज्री च पद्मा वार्द्धशशिस्तथा ॥
त्रिकोणा दशमी तासां संस्थानञ्च निबोधत ।
स्थण्डिला चतुरस्रा तु वर्जिता मेखलादिभिः ॥
वापी द्बिमेखला ज्ञेया यक्षी चैव त्रिमेखला ।
चतुरस्रायतां वेदीं न तां लिङ्गेषु योजयेत् ॥
मण्डला वर्त्तुला या तु मेखलाभिर्गणप्रिया ।
रिक्ता द्विमेखला मध्ये पूर्णचन्द्रा तु सा भवेत् ॥
मेखलात्रयसंयुक्ता षडस्रा वज्रिका भवेत् ।
षोडशास्रा भवेत् पद्मा किञ्चिद्ध्रस्वा च मूलतः ॥
तथैव धनुराकारा सार्द्धचन्द्रा प्रशस्यते ।
त्रिशूलसदृशा तद्वत् त्रिकोणानूर्द्ध्वतो मता ॥
प्रागुदक्प्रवणा तद्वत्प्रशस्ता लक्षणान्विता ।
परिवेषस्त्रिभागेन निर्द्देशन्तत्र कारयेत् ॥
विस्तारन्तत्प्रमाणन्तु मूले चाग्रे तदूर्द्ध्वतः ।
जलवाहश्च कर्त्तव्यस्त्रिभागेन सुशोभनः ॥
लिङ्गस्यार्द्धत्रिभागेन स्थौल्येन समधिष्ठिता ।
मेखला तु त्रिभागेन खातं वै तत्प्रमाणतः ॥
अथवा पादहीनन्तु शोभनं कारयेत् सदा ।
उत्तरस्थं प्रमाणतु प्रमाणादधिकं भवेत् ॥
स्थण्डिलायामथारोग्यं धनधान्यञ्च पुष्कलम् ।
गोप्रदा तु भवेत् यक्षी वेदी सम्पत्प्रदा भवेत् ॥
मण्डलायां भवेत् कीर्त्तिर्व्वरदा पूर्णचन्द्रिका ।
आयुःप्रदा भवेद्वज्री पद्मा सौभाग्यदायिनी ॥
पुत्त्रप्रदार्द्धचन्द्रा स्यात् त्रिकोणा शत्रुनाशिनी ।
देवस्य यजनार्थन्तु पिण्डिका दश कीर्त्तिताः ॥
शैले शैलमयीं दद्यात् पार्थिवे पार्थिवीन्तथा ।
दारुजे दारुजां कुर्य्यान्मिश्रे मिश्रान्तथैव च ॥
नान्ययोनिस्तु कर्त्तव्या सदा शुभफलेप्सुभिः ॥
अर्च्चायामसमं दैर्घ्यं लिङ्गायामसमं तथा ।
यस्य देवस्य या पत्नी तां पीठे परिकल्पयेत् ॥
एवमेतत् समाख्यातं समासात् पीठलक्षणम् ॥”
इति मत्स्यपुराणे पीठिकानुकीर्त्तनं २३६ अः ॥
(लिङ्गपीठम् । गौरीपट्टः । यथा, काशीखण्डे
बायुसंहितायामुत्तरखण्डे । २८ । ६ ।
“लिङ्गं पिण्डिकया सार्द्धं पञ्चगव्यैश्च शोधयेत् ॥”)

पिण्डितं, त्रि, (पिडि + क्तः ।) गणितम् । घनम् ।

इति विश्वमेदिन्यौ ॥ (संहतः । यथा, वायुपुराणे ।
“अर्च्चिष्मान् पिण्डितशिखः सर्पिः काञ्चनसन्निभः ।
स्निग्धः प्रदक्षिणश्चैव वह्निः स्यात् कार्य्य-
सिद्धये ॥”)
गुणितम् । इति हेमचन्द्रः ॥ तुरुष्के, पुं । इति
राजनिर्घण्टः ॥

पिण्डिलः, पुं, (पिण्डवदाकृतिरस्त्यस्येति । पिण्ड +

इलच् ।) सेतुः । इति त्रिकाण्डशेषः ॥ गणकः ।
इत्युणादिकोषः ॥

पिण्डिला, स्त्री, (पिण्डिल + टाप् ।) गोडुम्बा ।

इति शब्दचन्द्रिका ॥

पिण्डी, [न्] त्रि, (पिण्डोऽस्त्यस्येति । इनिः ।)

शरीरी । यथा, --
“यथा सूर्य्यं विना भूमिर्गृहं दीपविवर्ज्जितम् ।
लिङ्गहीनो यथा पिण्डी जयश्रीस्त्वां विना तथा ॥”
इति जैमिनिभारते आश्वमेधिकपर्व्वणि ३८
अध्याये ॥

पिण्डी, स्त्री, (पिण्डाकारोऽस्त्यस्या इति । अच् ।

ततो ङीष् ।) पिण्डीतगरः । अलावूः । खर्ज्जूर-
विशेषः । इति मेदिनी । डे, २० ॥ ज्ञाननिरूप-
णार्थकोपन्यासः । इति धरणिः ॥ (पिण्डि +
कृदिकारादिति वा ङीष् ।) पिण्डिका । इत्यमर-
टीकायां रायमुकुटः ॥ पिण्डम् । यथा, --
“नीताय तुरगायाशु भक्तपिण्डीं सुगन्धिनीम् ।
दद्यात् पुरोहितस्तत्र संमन्त्र्य शान्तिमन्त्रकैः ॥”
इति कालिकापुराणे ८६ अध्यायः ॥

पिण्डीतकः, पुं, (पिण्डीं स्वल्पपिण्डं तनोतीति ।

तन + अनेभ्योऽपीति डः । ततः संज्ञायां कन् ।)
मदनवृक्षः । इत्यमरः । २ । ४ । ५२ ॥ (अस्य पर्य्यायो
यथा, वैद्यकरत्नमालायाम् ।
“मदनः श्वसनोराचो गोलः पिण्डीतकः फलम् ।
छर्द्दालो बिल्वपुष्पा च हरहाटस्तु शल्यकः ॥”
यथा च ।
“पिण्डीतकस्य तु वराहविभावितस्य
मूलेषु कन्दशकलेषु च सौवहेषु ।
तैलं कृतं गतिमपोहति शीघ्रमेतत्
कन्देषु चामरवरायुधसाह्वयेषु ॥”
इति सुश्रुते चिकित्सितस्थाने सप्तदशेऽध्याये ॥)
तगरः । फणिज्झकः । इति विश्वः ॥

पिण्डीतगरः, पुं, (पिण्ड्या पुष्पावच्छेदे स्वल्पपिण्डेन

उपलक्षितस्तगरः ।) तगरविशेषः । तत्पर्य्यायः ।
कफवर्द्धनः २ । इति त्रिकाण्डशेषः ॥

पिण्डीतगरकः, पुं, (पिण्डीतगर + स्वार्थे संज्ञायां

वा कन् ।) तगरम् । इति राजनिर्घण्टः ॥

पिण्डीतरुः, पुं, (पिण्ड्या उपलक्षितस्तरुः ।)

महापिण्डीतरुः । इति राजनिर्घण्टः ॥

पिण्डीपुष्पः, पुं, (पिण्डीवत् पुष्पं पुष्पस्तवको

यस्य ।) अशोकवृक्षः । इति राजनिर्घण्टः ॥
(अशोकशब्देऽस्य विशेषो ज्ञेयः ॥)

पिण्डीरः, पुं, (पिण्डीवत् पिण्डाकाराणीत्यर्थः

फलानि ईरयतीति । ईर + णिच् + अण् ।)
दाडिमवृक्षः । इति त्रिकाण्डशेषः ॥ हिण्डीरः ।
इत्यमरटीकायां रायमुकुटः ॥ नीरसे, त्रि ।
इति हारावली । १६६ ॥

पिण्डीशूरः, पुं, (पिण्ड्यां पिण्डव्यापारे भोजने

एव शूरः अतिनिपुणः नान्यत्र कार्य्यादाविति
भावः ।) स्वगेहमात्रे वसन् परद्वेषी । तत्-
पर्य्यायः । गेहेनर्दी २ गेहेशूरः ३ । इति हेम-
चन्द्रः । ३ । १४१ ॥ (यथा, भट्टौ । ५ । ८५ ।
“राक्षसान् वटुयज्ञेषु पिण्डीशूरान्निरस्तवान् ।
यद्यसौ कूपमाण्डूकि ! तवैतावति कः स्मयः ॥”)
पृष्ठ ३/१४३

पिण्डोलिः, स्त्री, भुक्तसमुज्झितः । इति हेम-

चन्द्रः । ३ । ९१ ॥

पिण्या, स्त्री, पण्यते स्तूयते रोगहन्तृत्वात् पण्या

पण ङ व्यवहृतौ स्तुतौ मूर्द्धन्यान्तः तव्यानीयया
इति यः निपातनादत् इत् । पण्येति पठति
स्वामी । इति भरतः ॥ ज्योतिष्मती । इत्यमरः ॥
(ज्योतिष्मतीशब्देऽस्या विवृतिर्विज्ञेया ॥)

पिण्याकः, पुं, क्ली, (पिनष्टीति । पिषॢ संचूर्णने

+ “पिनाकादयश्च ।” उणां । ४ । १५ । इति
आकप्रत्ययेन निपातनात् साधुः ।) तिल-
कल्कः । (अस्य गुणाः यथा, --
“पिण्याको ग्लपनो रूक्षो विष्टम्भी दृष्टिदूषणः ॥”
इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥
यथा, महाभारते । १२ । १६७ । ३६ ।
“नवनीतं यथा दध्नस्तथा कामोऽर्थधर्म्मतः ।
श्रेयस्तैलं हि पिण्याकात् घृतं श्रेय उदश्वितः ॥”)
अस्य भक्षणे दोषो यथा, --
“पिण्याकं भक्षयित्वा तु यो वै मामुपसर्पति ।
तस्य वै शृणु सुश्रोणि ! प्रायश्चित्तं सुशोभनम् ॥
उलूको दशवर्षाणि कच्छपस्तु समास्त्रयः ।
जायते मानवस्तत्र मम कर्म्मपरायणः ॥”
इति वराहपुराणम् ॥
हिङ्गु । वाह्लीकम् । सिह्लकः । इति मेदिनी ॥
(सरलरसः । अस्य पर्य्यायो यथा, --
“तैलपर्णी दधित्थाख्यः पिण्याको रक्तशीर्षकः ।
वेष्टो रसाह्वः श्रीवासः श्रीपिष्टसरलद्रवौ ॥”
इति वैद्यकरत्नमालायाम् ॥)

पितरौ, पुं, जनकजनयित्र्यौ । माता च पिता

चेति विग्रहे विकल्पादेकशेषे पितराविति
प्राञ्चः । इति भरतः ॥ तत्पर्य्यायः । माता-
पितरौ २ मातरपितरौ ३ तातजनयित्र्यौ ४ ।
इत्यमरः । २ । ६ । ३७ ॥ (यथा, रधुः । १ । १ ।
“जगतः पितरौ वन्दे पार्व्वतीपरमेश्वरौ ॥”)
तयोरभक्त्या पालने दोषो यथा, --
“पितृमातृगुरूंश्चापि भक्तिहीनेन पालयेत् ।
वाचा च ताडयेन्नित्यं स्वामिनं कुलटा च या ॥
सा कृतघ्नीति विख्याता पापिनां भारते नरः ।
वह्निकुण्डं महाघोरं स च सा च प्रयाति च ॥
तत्र वह्नौ वसत्येव यावच्चन्द्रदिवाकरौ ।
ततो भवेज्जलौका च जन्म सप्त ततः शुचिः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४९ अध्यायः ॥

पिता, [ऋ] पुं, पाति रक्षत्यपत्यं यः । (पा

रक्षणे + “नप्तृनेष्टृत्वष्टृहोतृपोतृभ्रातृजामातृ-
मातृपितृदुहितृ ।” उणां । २ । ९६ । इति तृच्-
प्रत्ययेन निपातनात् साधुः ।) उत्पादकः । वाप्
इति भाषा । तत्पर्य्यायः । तातः २ जनकः ३ ।
इत्यमरः । २ । ६२८ ॥ प्रसविता ४ वप्ता ५ जन-
यिता ६ गुरुः ७ जन्मदः ८ जन्यः ९ जनिता
१० । इति शब्दरत्नावली ॥ बीजी ११ वप्रः
१२ । इति हेमचन्द्रः ॥ * ॥ तस्य मान्यत्वं
लक्षणञ्च यथा, --
“मान्यः पूज्यश्च सर्व्वेभ्यः सर्व्वेषां जनको भवेत् ।
अहो यस्य प्रसादेन सर्व्वान् पश्यति मानवः ॥
जनको जन्मदाता च रक्षणाच्च पिता नृणाम् ।
तातो विस्तीर्णकरणात् कलया सा प्रजापतिः ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे ४४ अध्यायः ॥
स च गुरुः । यथा, --
“उपाध्यायः पिता ज्येष्ठोभ्राता चैव महीपतिः ।
मातुलः श्वशुरस्त्राता मातामहपितामहौ ॥
बन्धुर्ज्येष्ठपितृ व्यश्च पुंस्वेते गुरवः स्मृताः ॥”
इति कौर्म्मे उपविभागे ११ अध्यायः ॥
(ज्येष्ठपितृव्यार्थे पितृशब्दप्रयोगो यथा, महा-
भारते । ६ । ५३ । ३ ।
“गरुडस्य स्वयं तुण्डे पिता देवव्रतस्तव ॥”)
स हि महागुरुः । यथा, “महागुरूनाह
विष्णुः । त्रयः पुरुषस्यातिगुरवो भवन्ति
माता पिताचार्य्यश्चेति ॥” इति शुद्धितत्त्वम् ॥
कामासक्तस्य पितुर्व्वचनमग्राह्यं यथा, --
“पितुर्व्वचो हि मा कार्षीः कामव्यासक्तचेतसः ।
आत्मानञ्चाभिषिञ्चस्व तदर्थं क्षत्त्रियो ह्यसि ॥”
इत्याग्नेये श्रीरामं प्रति कौशल्यावाक्यम् ॥
तस्य पुत्त्रकृतधर्म्माधर्म्मभागित्वं यथा, --
“यः पिता स तु पुत्त्रोऽयमिति वै वैदिकी श्रुतिः ।
निगद्यते पुराणे तु तां शृणुष्व यथातथम् ॥
न्यग्रोधस्य सुशाखायाः शटास्तास्तु गता भुवि ।
प्ररोहानुपपद्यन्ते मूलभ्रंशात्तथा सुताः ॥
तद्बिधानुपपद्यन्ते तथान्ये ते च तादृशाः ।
तेभ्यश्चान्ये प्ररोहन्ति व्रीहिभ्योऽपि यथा तथा ॥
एवं पुत्त्रैः कृतो धर्म्मस्तथाधर्म्मश्च भूपते ।
पिता संलिप्यते तेन मा च त्वं संशयं कृथाः ॥
न धर्म्मिणां नराणान्तु बीजनाशो भवेदिह ।
सर्व्वथा शंसते लोके बीजात् पुनः समुच्छ्रयः ॥”
इत्याग्नेये पापनाशनवृषदानाध्यायः ॥ * ॥
तस्मिन् जीवति बाह्वोस्तिलकनिषेधो यथा, --
“न बाह्वोस्तिलकं कुर्य्यात् यस्य जीवन् पिता
स्थितः ।
तथा ज्येष्ठः सोदरश्च यस्य जीवति स तथा ॥”
इति बृहद्धर्म्मपुराणम् ॥ * ॥
उत्पादकपित्रपेक्षया मन्त्रदातृपितुर्गुरुतरत्वं
यथा, तन्त्रसारे ।
“उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता ।
तस्मान्मन्येत सततं पितुरप्यधिकं गुरुम् ॥”
पञ्च पितरो यथा, चाणक्ये ।
“अन्नदाता भयत्राता यस्य कन्या विवाहिता ।
जनयिता चोपनेता च पञ्चैते पितरः स्मृताः ॥”
सप्त पितरो यथा, --
“कन्यादातान्नदाता च ज्ञानदाताभयप्रदः ।
जन्मदो मन्त्रदो ज्येष्ठभ्राता च पितरः स्मृताः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३५ अध्यायः ॥
एकत्रिंशत्पितृगणा यथा, --
“विश्वो विश्वभुगाराध्यो धर्म्मो धन्यः शुभासनः ।
भूमिदो भूमिकृद्भूतिः पितॄणां ये गणा नव ॥
कल्याणः कल्यदः कल्यतरः कल्यतराश्रयः ।
कल्यताहेतुरनघः षडिमे ते गणाः स्मृताः ॥
वरो वरेण्यो वरदो भूतिदः पुष्टिदस्तथा ।
विश्वपाता तथा धाता सप्तैते च गणाः स्मृताः ॥
महान् महात्मा महितो महिमावान्महाबलः ।
गणाः पञ्च तथैवैते पितॄणां पापनाशनाः ॥
सुखदो धनदश्चान्यो धर्म्मदोऽन्यश्च भूतिदः ।
पितॄणां कथ्यते चैतत्तथा गणचतुष्टयम् ॥
एकत्रिंशत्पितृगणा यैर्व्याप्तमखिलं जगत् ।
ते मेऽत्र तृप्तास्तुष्यन्तु दिशन्तु च सदा हितम् ॥”
इति गारुडे पितृस्तोत्रं ८९ अध्यायः ॥
(पितॄणां स्तुतिपूर्ब्बकं नामसंख्यादिकथनम्
यथा मार्कण्डेये । ९६ । १३ -- ४८ ।
रुचिरुवाच ।
“नमस्येऽहं पितॄन् श्राद्धे ये वसन्त्यधिदेवताः ।
देवैरपि हि तर्प्यन्ते ये च श्राद्धे स्वधोत्तरैः ॥
नमस्येऽहं पितॄन् स्वर्गे ये तर्प्यन्ते महर्षिभिः ।
श्राद्धैर्मनोमयैर्भक्त्या भुक्तिमुक्तिमभीप्सुभिः ॥
नमस्येऽहं पितॄन् स्वर्गे सिद्धाः सन्तर्पयन्ति यान् ।
श्राद्धषु दिव्यैः सकलैरुपहारैरनुत्तमैः ॥
नमस्येऽहं पितॄन् भक्त्या येऽर्च्यन्ते गुह्यकैरपि ।
तन्मयत्वेन वाञ्छङ्गिरृद्बिमात्यन्तिकीं पराम् ॥
नमस्येऽहं पितुन्मर्त्तैरर्च्यन्ते भुवि ये सदा ।
श्राद्धेषु श्रद्धयाभीष्टलोकप्राप्तिप्रदायिनः ॥
नमस्येऽहं पितॄन् विप्रैरर्च्यन्ते भुवि ये सदा ।
वाञ्छिताभीष्टलाभाय प्राजापत्यप्रदायिनः ॥
नमस्येऽहं पितॄन् ये वै तर्प्यन्तऽरण्यवासिभिः ।
वन्यैः श्राद्वैर्यताहारैस्तपोनिर्धूतकिल्विषैः ॥
नमस्येऽहं पितॄन् विप्रैर्नैष्ठिकव्रतचारिभिः ।
ये संयतात्मभिर्नित्यं सन्तर्प्यन्ते समाधिभिः ॥
नमस्येऽहं पितॄन् श्राद्धै राजन्यास्तर्पयन्ति यान् ।
कव्यैरशेषैर्विधिवल्लोकत्रयफलप्रदान् ॥
नमस्येऽहं पितॄन् वैश्यैरर्च्यन्ते भुवि ये सदा ।
स्वकर्माभिरतैर्नित्यं पुष्पधूपान्नवारिभिः ॥
नमस्येऽहं पितॄन् श्राद्धैर्ये शूद्रैरपि भक्तितः ।
सन्तर्प्यन्ते जगत्यत्र नाम्ना ख्याताः सुकालिनः ॥
नमस्येऽहं पितॄन् श्राद्धैः पाताले ये महासुरैः ।
सन्तर्प्यन्ते स्वधाहारास्त्यक्तदम्भमदैः सदा ॥
नमस्येऽहं पितॄन् श्राद्धैरर्च्यन्ते ये रसातले ।
भोगैरशेषैर्विधिवन्नागैः कामानभीप्सुभिः ॥
नमस्येऽहं पितॄन् श्राद्धैः सर्पैः सन्तर्पितान् सदा ।
तत्रैव विधिवन्मन्त्रभोगसम्पत्समन्वितैः ॥
पितॄन्नमस्ये निवसन्ति साक्षात्
ये देवलोके च तथान्तरीक्षे ।
महीतले ये च सुरादिपूज्या-
स्ते मे प्रतीच्छन्तु मयोपनीतम् ॥
पितन्नमस्ये परमात्मभूता
ये वै विमाने निवसन्ति मूर्त्ताः ।
यजन्ति यानस्तमलैर्मनोभि-
र्योगीश्वराः क्लेशविमुक्तिहेतून् ॥
पितॄन्नमस्ये दिवि ये च मूर्त्ताः
स्वधाभुजः काम्यफलाभिसन्धौ ।
प्रदानशक्ताः सकलेप्सितानां
विमुक्तदा येऽनभिसंहितेषु ॥
पृष्ठ ३/१४४
तृप्यन्तु तेऽस्मिन् पितरः समस्ता
इच्छावतां ये प्रदिशन्ति कामान् ।
सुरत्वमिन्द्रत्वमतोऽधिकं वा
सुतान् पशून् स्वानि बलं गृहाणि ॥
सोमस्य ये रश्मिषु येऽर्कविम्बे
शुक्ले विमाने च सदा वसन्ति ।
तृप्यन्तु तेऽस्मिन् पितरोऽन्नतोयै-
र्गन्धादिना पुष्टिमितो व्रजन्तु ॥
येषां हुतेऽग्नौ हविषा च तृप्ति-
र्ये भुञ्जते विप्रशरीरसंस्थाः ।
ये पिण्डदानेन मुदं प्रयान्ति
तृप्यन्तु तेऽस्मिन् पितरोऽन्नतोयैः ॥
ये खड्गिमांसेन सुरैरभीष्टैः
कृष्णैस्तिलैर्दिव्यमनोहरैश्च ।
कालेन शाकेन महर्षिवर्यैः
संप्रीणितास्ते मुदमत्र यान्तु ॥
कव्यान्यशेषाणि च यान्यभीष्टा-
न्यतीव येषाममरार्चितानाम् ।
तेषान्तु सान्निध्यमिहास्तु पुष्प-
गन्धान्नभोज्येषु मया कृतेषु ॥
दिने दिने ये प्रतिगृह्णतेऽर्च्चां
मासान्तपूज्या भुवि येऽष्टकासु ।
ये वत्सरान्तेऽभ्युदये च पूज्याः
प्रयान्तु ते मे पितरोऽत्र तृप्तिम् ॥
पूज्या द्विजानां कुमुदेन्दुभासो
ये क्षत्त्रियाणाञ्च नवार्कवर्णाः ।
तथा विशां ये कनकावदाता
नीलीनिभाः शूद्रजनस्य ये च ॥
तेऽस्मिन् समस्ता मम पुष्पगन्ध-
धूपान्नतोयादिनिवेदनेन ।
तथाग्निहोमेन च यान्तु तृप्तिं
सदा पितृभ्यः प्रणतोऽस्मि तेभ्यः ॥
ये देवपूर्ब्बान्यतितृप्तिहेतो-
रश्नन्ति कव्यानि शुभाहुतानि ।
तृप्ताश्च ये भूतिसृजो भवन्ति
तृप्यन्तु तेऽस्मिन् प्रणतोऽस्मि तेभ्यः ॥
रक्षांसि भूतान्यसुरांस्तथोग्रान्
निर्नाशयन्तस्त्वशिवं प्रजानाम् ।
आद्याः सुराणाममरेशपूज्या-
स्तृप्यन्तु तेऽस्मिन् प्रणतोऽस्मि तेभ्यः ॥
अग्निस्वात्ता वर्हिषद आज्यपाः सोपमास्तथा ।
व्रजन्तु तृप्तिं श्राद्धेऽस्मिन् पितरस्तर्पिता मया ॥
अग्निस्वात्ताः पितृगणाः प्राचीं रक्षन्तु मे
दिशम् ।
तथा वर्हिषदः पान्तु याम्यां ये पितरः स्मृताः ।
प्रतीचीमाज्यपास्तद्बदुदीचीमपि सोमपाः ।
रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषतः ॥
सर्वतश्चाधिपस्तेषां यमो रक्षां करोतु मे ।
विश्वो विश्वभुगाराध्यो धर्म्मो धन्यः शुभाननः ॥
भूतिदो भूतिकृद्भूतिः पितॄणां ये गणा नव ।
कल्याणः कल्यता कर्त्ता कल्यः कल्यतराश्रयः ॥
कल्यताहेतुरनघः षडिमे ते गणाः स्मृताः ।
वरो वरेण्यो वरदः पुष्टिदस्तुष्टिदस्तथा ॥
विश्वपाता तथा धाता सप्तैवैते तथा गणाः ।
महान्महात्मा महितो महिमावान्महाबलः ॥
गणाः पञ्च तथैवैते पितॄणां पापनाशनाः ।
सुखदो धनदश्चान्यो धर्म्मदोऽन्यश्च भूतिदः ॥
पितॄणां कथ्यते चैतत्तथा गणचतुष्टयम् ।
एकत्रिंशत्पितृगणा यैर्व्याप्तमखिलं जगत् ॥
ते मेऽनुतृप्तास्तुष्यन्तु यच्छन्तु च सदा हितम् ॥”
शिवः । यथा, महाभारते । १३ । १७ । १४१ ।
“सदसद्व्यक्तमव्यक्तं पिता माता पितामहः ॥”)

पितामहः, पुं, (पितुः पितेति । “पितृव्यमातुल-

मातामहपितामहाः ।” ४ । २ । ३६ । इत्यत्र
“मातृपितृभ्यां पितरि डामहच् ।” इति वार्त्ति-
कोक्त्या डामहच् । ब्रह्मणि तु पितुः पिता जनक-
स्यापि जनकः । पितॄणां मरीच्यादीनां पितृ-
गणानां पिता वा ।) ब्रह्मा । (यथा, महा-
भारते । १ । १ । ३२ ।
“यस्मात् पितामहो यज्ञे प्रभुरेकः प्रजापतिः ।
ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ ॥”
शिवः । यथा, महाभारते । १३ । १७ । १४१ ।
“सदसद्व्यक्तमव्यक्तं पिता माता पितामहः ॥”)
पितृपिता । इत्यमरः । २ । ६ । ३३ ॥ ठाकुरदादा
इति भाषा ॥ अस्य पर्य्यायः । आर्य्यकः २ ।
इति शब्दमाला ॥ (यथा, मनौ । ३ । २२१ ।
“पिता यस्य तु वृत्तः स्याद् जीवेद्वापि पितामहः ।
पितुः स नाम संकीर्त्त्य कीर्त्तयेत् प्रपितामहम् ॥”)

पितामही, स्त्री, (पितुर्मातेति । पितृव्यमातुलेत्यत्र

“मातृपितृभ्यां पितरि डामहच् ।” इति डाम-
हच् । ततः “मातरि षिच्चेति ।” षित्कार्य्यं ततः
षित्वात् ङीप् ।) पितामहपत्नी । इति जटा-
धरः ॥ ठाकुरमा इति भाषा ॥ (यथा, कौर्म्मे
उपविभागे ११ अध्याये ।
“मातामही मातुलानी तथा मातुश्च सोदराः ।
श्वश्रूः पितामही ज्येष्ठा धात्री च गुरवः स्त्रीषु ॥”)
पौत्त्रैः पितामहधनविभागकरणे पितामह्यै
मातृवद्भागो देयः । यथा, --
“असुताश्च पितुः पत्न्यः समानांशाः प्रकीर्त्तिताः ।
पितामह्यश्च सर्व्वास्ता मातृतुल्याः प्रकीर्त्तिताः ॥”
इति दायभागे व्यासः ॥

पितृकं, त्रि, (पितुः सम्बन्धि पितुरागतं वेति ।

पितृ + कन् । यद्वा, पैतृक + पृषोदरादित्वात्
साधुः ।) पितृसम्बन्धि । यथा, --
“पैत्रञ्च पितृकञ्चापि पित्र्यञ्च पितुरागतम् ॥”
इति शब्दमाला ॥

पितृकाननं, क्ली, (पितॄणां काननमिव ।) श्मशा-

नम् । इति जटाधरः ॥ (यथा, महानिर्व्वाण-
तन्त्रे । १० । ७९ ।
“पञ्चवर्षाधिकान् मर्त्त्यान् दाहयेत् पितृकानने ।
भर्त्रा सह कुलेनाशि ! न दहेत् कुलकामिनीम् ॥”)

पितृगृहं, क्ली, (पितॄणां गृहम् ।) श्मशानम् ।

इति हेमचन्द्रः ॥ (पितुर्गृहम् ।) पितृ-
वेश्म च ॥

पितृतर्पणं, क्ली, (तृप्यन्तेऽनेनेति । तृप् + करणे

ल्युट् । पितॄणां तर्पणमिति । यद्बा, तृप + भावे
ल्युट् । पितॄणां तर्पणं तृप्तिर्यस्मात् ।) पितृ-
तीर्थम् । तत्तु तर्जन्यङ्गुष्ठयोर्म्मध्यम् । इति शब्द-
चन्द्रिका ॥ निवापः । इति हेमचन्द्रः ॥ तिलः ।
इति राजनिर्घण्टः ॥ पितृतीर्थेन पित्रुद्देश्यक-
जलदानम् । तस्यानुष्ठानं तर्पणशब्दे द्रष्टव्यम् ॥
पितॄणां तृप्तिमात्रञ्च ॥

पितृतिथिः, स्त्री, (पितृप्रिया तिथिरिति मध्य-

लोपी समासः ।) अमावास्या । यथा, --
“अमावास्यादिनं वोऽस्तु तस्यां कुशतिलोदकैः ।
तर्पिता मानुषैस्तृप्तिं परां गच्छत नान्यथा ॥”
इति वाराहे पितृसर्गस्थितिवर्णनम् ॥

पितृतीर्थं, क्ली, (पितृप्रियं तीर्थम् ।) गया । इति

जटाधरः ॥ (गयादि-२२२ पितृवल्लभतीर्थानि
मत्स्यपुराणे श्राद्धकल्पे २२ अध्याये उक्तानि ।
यथा, --
“तीर्थानि कानि शस्तानि पितॄणां वल्लभानि च ।
नामतस्तानि वक्ष्यामि संक्षेपेण द्बिजोत्तमाः ! ।
पितृतीर्थं गया नाम सर्व्वतीर्थवरं शुभम् ॥
यत्रास्ते देवदेवेशः स्वयमेव पितामहः ।
तत्रैषा पितृभिर्गीता गाथा भागमभीप्सुभिः ॥
एष्टव्या बहवः पुत्त्रा यद्येकोऽपि गयां व्रजेत् ।
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥
तथा वाराणसी पुण्या पितॄणां वल्लभा सदा ।
तत्राविमुक्तसान्निध्यं भुक्तिमुक्तिफलप्रदम् ॥
पितॄणां वल्लभं तद्वत् पुण्यञ्च विमलेश्वरम् ।
पितृतीर्थं प्रयागन्तु सर्व्वकामफलप्रदम् ॥
वटेश्वरस्तु भगवान् माधवेन समन्वितः ।
योगनिद्राशयस्तद्वत् सदा वसति केशवः ॥
दशाश्वमेधिकं पुण्यं गङ्गाद्वारं तथैव च ।
नन्दाथ ललिता तद्वत्तीर्थं मायापुरी शुभा ॥
तथा मित्रपदं नाम ततः केदारमुत्तमम् ।
गङ्गासागरमित्याहुः सर्व्वतीर्थमयं शुभम् ॥
तीर्थं ब्रह्मसरस्तद्वच्छतद्रुसलिले ह्नदे ।
तीर्थन्तु नैमिषं नाम सर्व्वतीर्थफलप्रदम् ॥
गङ्गोद्भेदस्तु गोमत्यां यत्रोद्भूतः सनातनः ।
तथा यज्ञवराहस्तु देवदेवश्च शूलभृत् ॥
यत्र तत्काञ्चनं द्वारमष्टादशभुजो हरः ।
नेमिस्तु हरिचक्रस्य शीर्णा यत्राभवत् पुरा ॥
तदेतन्नैमिषारण्यं सर्व्वतीर्थनिषेवितम् ।
देवदेवस्य तत्रापि वाराहस्य तु दर्शनम् ॥
यः प्रयाति स पूतात्मा नारायणपदं व्रजेत् ।
कृतशौचं महापुण्यं सर्व्वपावनिषूदनम् ॥
यत्रास्ते नारसिंहस्तु स्वयमेव जनार्द्दनः ।
तीर्थमिक्षुमती नाम पितॄणां वल्लभं सदा ॥
सङ्गमे यत्र तिष्ठन्ति गङ्गायाः पितरः सदा ।
कुरुक्षेत्रं महापुण्यं सर्व्वतीर्थसमन्वितम् ॥
तथा च सरयूः पुण्या सर्व्वदेवनमस्कृता ।
इरावती नदी तद्बत् पितृतीर्थाधिवासिनी ॥
यमुना देविका काली चन्द्रभागा दृषद्बती ।
नदी वेणुमती पुण्या परा वेत्रवती तथा ॥
पृष्ठ ३/१४५
पितॄणां वल्लभा ह्येताः श्राद्धे कोटिगुणा मताः ।
जम्बूमार्गं महापुण्यं यत्र मार्गो हि लक्ष्यते ॥
अद्यापि पितृतीर्थं तत् सर्व्वकामफलप्रदम् ।
नीलकुण्डमिति ख्यातं पितृतीर्थं द्विजोत्तमाः ! ॥
तथा रुद्रसरः पुण्यं सरो मानसमेव च ।
मन्दाकिनी तथाच्छोदा विपाशाथ सरस्वती ॥
पूर्ब्बमित्रपदन्तद्वद्बैद्यनाथं महाफलम् ।
क्षिप्रा नदी महाकालस्तथाकालञ्जरं शुभम् ॥
वंशोद्भेदं हरोद्भेदं गङ्गोद्भेदं महाफलम् ।
भद्रेश्वरं विष्णुपदं नर्म्मदाद्वारमेव च ॥
गयापिण्डप्रदानेन समान्याहुर्महर्षयः ।
एतानि पितृतीर्थानि सर्व्वपापहराणि च ॥
स्मरणादपि लोकानां किमु श्राद्धकृतां नृणाम् ।
ओङ्कारं पितृतीर्थञ्च कावेरी कपिलोदकम् ॥
सम्भेदश्चण्डवेगायास्तथैवामरकण्टकम् ।
कुरुक्षेत्राच्छतगुणं तस्मिन् स्नानादिकं भवेत् ॥
शुक्रतीर्थञ्च विख्यातं तीर्थं सोमेश्वरं परम् ।
सर्व्वव्याधिहरं पुण्यं शतकोटिफलाधिकम् ॥
श्राद्धे दाने तथा होमे स्वाध्याये जलसन्निधौ ।
कायावरोहणं नाम तथा चर्म्मण्वती नदी ॥
गोमती वरुणा तद्वत्तीर्थमौशनसं परम् ।
भैरवं भृगुतुङ्गञ्च गौरीतीर्थमनुत्तमम् ॥
तीर्थं वैनायकं नाम भद्रेश्वरमतः परम् ।
तथा पापहरं नाम पुण्याथ तपती नदी ॥
मूलतापी पयोष्णी च पयोष्णीसङ्गमस्तथा ।
महाबोधिः पाटला च नागतीर्थमवन्तिका ॥
तथा वेणा नदी पुण्या महाशालं तथैव च ।
महारुद्रं महालिङ्गं दशार्णा च नदी शुभा ॥
शतरुद्रा शताह्वा च तथा विश्वपदं परम् ।
अङ्गारवाहिका तद्वन्नदौ तौ शोणघर्घरौ ॥
कालिका च नदी पुण्या वितस्ता च नदी तथा ।
एतानि पितृतीर्थानि शस्यन्ते स्नानदानयोः ॥
श्राद्धमेतेषु यद्दत्तन्तदनन्तफलं स्मृतम् ।
द्रोणी वाटनदी धारासरित् क्षीरनदी तथा ॥
गोकर्णं गजकर्णञ्च तथा च पुरुषोत्तमः ।
द्बारका कृष्णतीर्थञ्च तथार्बुदसरस्वती ॥
नदी मणिमती नाम तथा च गिरिकर्णिका ।
धूतपापं तथा तीर्थं समुद्रो दक्षिणस्तथा ॥
एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमश्नुते ।
तीर्थं मेघकरं नाम स्वयमेव जनार्द्दनः ॥
यत्र शार्ङ्गधरो विष्णुर्मेखलायामवस्थितः ।
तथा मन्दोदरी तीर्थं तीर्थं चम्पा नदी शुभा ॥
तथा सामलनाथश्च महाशालनदी तथा ।
चक्रवाकं चर्म्मकोटं तथा जन्मेश्वरं महत् ॥
अर्ज्जुनं त्रिपुरं चैव सिद्धेश्वरमतः परम् ।
श्रीशैलं शाङ्करं तीर्थं नारसिंहमतःपरम् ॥
महेन्द्रञ्च तथा पुण्यमथ श्रीरङ्गसंज्ञितम् ।
एतेष्वपि सदा श्राद्धमनन्तफलदं स्मृतम् ॥
दर्शनादपि चैतानि सद्यः पापहराणि वै ।
तुङ्गभद्रा नदी पुण्या तथा भीमरथी सरित् ॥
भीमेश्वरं कृष्णवेणा कावेरी कुड्मला नदी ।
नदी गोदावरी नाम त्रिसन्ध्या तीर्थमुत्तमम् ॥
तीर्थं त्रैयम्बकं नाम सर्व्वतीर्थनमस्कतम् ।
यत्रास्ते भगवानीशः स्वयमेव त्रिलोचनः ॥
श्राद्धमेतेषु सर्व्वेषु कोटिकोटिगुणं भवेत् ।
स्मरणादपि पापानि नश्यन्ति शतधा द्विजाः ! ॥
श्रीपर्णी ताम्रपर्णी च जयातीर्थमनुत्तमम् ।
तथा मत्स्यनदी पुण्या शिवधारं तथैव च ॥
भद्रतीर्थञ्च विख्यातं पम्पातीर्थञ्च शाश्वतम् ।
पुण्यं रामेश्वरं तद्वदेलापुरमलं परम् ॥
अङ्गभूतञ्च विख्यातमानन्दकमलं बुधम् ।
आम्रातकेश्वरं तद्बदेकाम्भकमतः परम् ॥
गोवर्द्धनं हरिश्चन्द्रं कृपुचन्द्रं पृथूदकम् ।
सहस्राक्षं हिरण्याक्षं तथा च कदली नदी ॥
रामाधिवासस्तत्रापि तथा सौमित्रिसङ्गमः ।
इन्द्रकीलं महानादन्तथा च प्रियमेलकम् ॥
एतान्यपि सदा श्राद्धे प्रशस्तान्यधिकानि तु ।
एतेषु सर्व्वदेवानां सान्निध्यं दृश्यते यतः ॥
दानमेतेषु सर्व्वेषु दत्तं कोटिशताधिकम् ।
बाहुदा च नदी पुण्या तथा सिद्धवनं शुभम् ॥
तीर्थं पाशुपतं नाम नदी पार्व्वतिका शुभा ।
श्राद्धमेतेषु सर्व्वेषु दत्तं कोटिशतोत्तरम् ॥
तथैव पितृतीर्थन्तु यत्र गोदावरी नदी ।
युतालिङ्गसहस्रेण सर्व्वान्तरजलावहा ॥
जामदग्न्यस्य तत्तीर्थं क्रमादायातमुत्तमम् ।
प्रतीकस्य भयाद्भिन्नं यत्र गोदावरी नदी ॥
तत्तीर्थं हव्यकव्यानामप्सरोयुगसंज्ञितम् ।
श्राद्धाग्निकार्य्यदानेषु तथा कोटिशताधिकम् ॥
तथा सहस्रलिङ्गञ्च राघवेश्वरमुत्तमम् ।
सेन्द्रफेना नदी पुण्या यत्रेन्द्रः पतितः पुरा ॥
निहत्य नमुचिं शक्रस्तपसा स्वर्गमाप्तवान् ।
तत्र दत्तं नरैः श्राद्धमनन्तफलदं भवेत् ॥
तीर्थन्तु पुष्करं नाम शालग्रामं तथैव च ।
सोमपानञ्च विख्यातं यत्र वैश्वानरालयम् ॥
तीर्थं सारस्वतं नाम स्वामितीर्थं तथैव च ।
मलन्दरा नदी पुण्या कौशिकी चन्द्रिका तथा ॥
वैदर्भा वाथ वैरा च पयोष्णी प्राङ्मुखा परा ।
कावेरी चोत्तरा पुण्या तथा जालन्धरो गिरिः ॥
एतेषु श्राद्धतीर्थेषु श्राद्धमानन्त्यमश्नुते ।
लोहदण्डं तथा तीर्थं चित्रकूटस्तथैव च ॥
बिन्ध्ययोगश्च गङ्गायास्तथा नदीतटं शुभम् ।
कुब्जाभ्रन्तु तथा तीर्थं उर्व्वशीपुलिनं तथा ॥
संसारमोचनं तीर्थं तथैव ऋणमोचनम् ।
एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमश्नुते ॥
अट्टहासं तथा तीर्थं गौतमेश्वरमेव च ।
तथा वशिष्ठं तीर्थन्तु हारितं तु ततः परम् ॥
ब्रह्मावर्त्तं कुशावर्त्तं हयतीर्थं तथैव च ।
पिण्डारकञ्च विख्यातं शङ्खोद्धारं तथैव च ॥
घण्टेश्वरं विल्वकञ्च नीलपर्व्वतमेव च ।
तथा च धरणीतीर्थं रामतीर्थं तथैव च ॥
अश्वतीर्थञ्च विख्यातमनन्तं श्राद्धदानयोः ।
तीर्थं बेदशिरो नाम तथैवौघवती नदी ॥
तीर्थं वसुप्रदं नाम छागलाण्डं तथैव च ।
एतेषु श्राद्धदातारः प्रयान्ति परमं पदम् ॥
तथा च वदरीतीर्थं गणतीर्थं तथैव च ।
जयन्तं विजयञ्चैव शुक्रतीर्थं तथैव च ॥
श्रीपतेश्च तथा तीर्थं तीर्थं रैवतकं तथा ।
तथैव शारदातीर्थं भद्रकालेश्वरं तथा ॥
वैकुण्ठतीर्थञ्च परं भीमेश्वरमथापि वा ।
एतेषु श्राद्धदातारः प्रयान्ति परमां गतिम् ॥
तीर्थं मातृगृहं नाम करवीरपुरं तथा ।
कुशेश्वरञ्च विख्यातं गौरीशिखरमेव च ॥
नकुलेशस्य तीर्थञ्च कर्दमालं तथैव च ।
दण्डिपुण्यकरं तद्वत् पुण्डरीकपुरं तथा ॥
सप्त गोदावरीतीर्थं सर्व्वतीर्थेश्वरेश्वरम् ।
तत्र श्राद्धं प्रदातव्यमनन्तफलमीप्सुभिः ॥
एष तूद्देशतः प्रोक्तस्तीर्थानां संग्रहो मया ।
वागीशोऽपि न शक्नोति विस्तरात् किमु ।
मानुषः ॥
सत्यं तीर्थं दया तीर्थं तीर्थमिन्द्रियनिग्रहः ।
वर्णाश्रमाणां गेहेऽपि तीर्थन्तु समुदाहृतम् ॥
एतत्तीर्थेषु यच्छ्राद्धं तत् कोटिगुणमिष्यते ।
यस्मात् तस्मात् प्रयत्नेन तीर्थं श्राद्धं समाच-
रेत् ॥” * ॥)
तर्ज्जन्यङ्गुष्ठयोर्मध्यम् । इत्यमरः ॥
“अन्तराङ्गुष्ठदेशिन्योः पितॄणां तीर्थमुत्तमम् ॥”
इति कौर्म्मे उपविभागे ११ अध्यायः ॥

पितृदानं, क्ली, (पितरि पित्रे वा दानम् ।) पित्राद्यु-

द्देशेनान्नवस्त्रादिदानम् । पितृपदं मृतोपलक्षणं
तेन मात्रादेरपि ग्रहणम् । तत्पर्य्यायः ।
निवापः २ । इत्यमरः । २ । ७ । ३१ ॥ निवपनम् ३
पितृदानकम् ४ । इति शब्दरत्नावली ॥

पितृदानकं, क्ली, (पितृदान + स्वार्थे कन् ।)

पित्रुद्देश्यकदानम् । इति शब्दरत्नावली ॥

पितृपक्षः, पुं, (पितृप्रियः पक्षः ।) गौणाश्विन-

कृष्णपक्षः । स तु प्रेतपक्षः । तत्र श्राद्धफलं
यथा, हेमाद्रिमाधवसंग्रहयोर्नागरखण्डम् ।
“आषाढ्याः पञ्चमे पक्षे कन्यासंस्थे दिवाकरे ।
यो वै श्राद्धं नरः कुर्य्यादेकस्मिन्नपि वासरे ।
तस्य संवत्सरं यावत् तृप्ताः स्युः पितरो ध्रुवम् ॥
नभा वाथ नभस्यो वा मलमासो यदा भवेत् ।
सप्तमः पितृपक्षः स्यादन्यत्रैव तु पञ्चमः ॥”
इति मलमासतत्त्वम् ॥

पितृपतिः, पुं, (पितॄणां पतिः ।) यमः । इत्य-

मरः । १ । १ । ६१ ॥ (यथा, मार्कण्डेये । १०४ । ३७
“त्वं ब्रह्मा हरिरजसंज्ञितस्त्वमिन्द्रो
वित्तेशः पितृपतिरम्बुपतिः समीरः ।
सोमोऽग्निर्गगनमहीधरोऽब्धिसंघः
किं स्तव्यं तव सकलात्मरूपधाम्नः ॥”)

पितृपिता, [ऋ] पुं, (पितुः पिता ।) पितामहः ।

इत्यमरः । २ । ६ । ३३ ॥

पितृप्रसूः, स्त्री, (पितणां प्रसूर्मातेव । पितृकृत्ये

सन्ध्यावर्त्तिन्यास्तिथेर्ग्राह्यत्वादस्याः प्रसूतुल्यपाल-
कतया तथात्वम् ।) सन्ध्या । इत्यमरः । १ । ४ । ३ ॥
(यथा, आर्य्यासप्तशत्याम् । ५०१ ।
“रजनीमियमुपनेतुं पितृप्रसूः प्रथममुपतस्थे ।
पृष्ठ ३/१४६
रञ्जयति स्वयमिन्दुं कुनायकं दुष्टदूतीव ॥”
पितुः प्रसूर्जनयित्री ।) पितामही ॥

पितृप्रियः, पुं, (पितॄणां प्रियः ।) भृङ्गराजः ।

इति राजनिर्घण्टः ॥ (गुणादयोऽस्य भृङ्गराज-
शब्दे ज्ञातव्याः ॥)

पितृबन्धुः, पुं, (पितुर्बन्धुः ।) पितामहभगिनी-

पुत्त्रः । पितामहीमगिनीपुत्त्रः । पितुर्मातुल-
पुत्त्रः । इत्युद्वाहतत्त्वम् ॥

पितृबान्धवः, पुं, (पितुर्बान्धवः ।) पितृबन्धुः ।

यथा, उद्वाहतत्त्वे ।
“पितुः पितुःखसुः पुत्त्राः पितुर्मातुःस्वसुः सुताः ।
पितुर्मातुलपुत्त्राश्च विज्ञेयाः पितृबान्धवाः ॥”

पितृभोजनः, पुं, (पितृभिर्भुज्यते इति । भुज +

कर्म्मणि ल्युट् । पित्रुद्देश्यकदानेऽस्य प्रशस्त-
तया तथात्वम् ।) माषः । इति राजनिर्घण्टः ॥
(भुज + भावे ल्युट् । पितॄणां भोजनमिति ।)
पितॄणां भक्षणे, क्ली ॥

पितृभ्राता, [ऋ] पुं, (पितुर्भ्राता ।) पितृव्यः ।

इत्यमरः । २ । ६ । ३१ ॥

पितृयज्ञः, पुं, (पितृभ्यः पितॄनुद्दिश्येत्यर्थः यो

यज्ञः ।) तर्पणम् । यथा, मनुः । ३ । ७० ।
“अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।
होमो दैवो वलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥”

पितृलोकः, पुं, (पितॄणां लोकः ।) पितॄणां भुव-

नम् । (यथा, महाभारते । १ । ६२ । १० ।
“कथञ्च बहुलाः सेनाः पाण्डवः कृष्णसारथिः ।
अस्यन्नेकोऽनयत् सर्व्वाः पितृलोकं धनञ्जयः ॥”)
अस्य विवरणं यथा, --
मार्कण्डेय उवाच ।
“सर्व्वेषामेव देवानामाद्यो नारायणो गुरुः ।
तस्माद्ब्रह्मा समुत्पन्नः सोऽपि सप्तासृजन्मुनीन् ॥
मा यजस्वेति तेनोक्तास्तदा ते परमेष्ठिनः ।
आत्मनात्मानमेवाग्रे अयजन्त इति श्रुतिः ॥
तेषां वै ब्रह्मजातानां महावैकारिकर्म्मणाम् ।
अपश्यद्व्यभिचारेण महानेष कृतो यतः ।
प्रभ्रष्टज्ञानिनः सर्व्वे भविष्यथ न संशयः ॥
एवं शप्तास्ततस्तेऽपि ब्रह्मणात्मसमुद्भवाः ।
सद्योवंशकरान् पुत्त्रानुत्पाद्य त्रिदिवं ययुः ॥
ततस्तेषु प्रयातेषु त्रिदिवं ब्रह्मवादिषु ।
तत्पुत्त्राः श्राद्धदानेन तर्पयामासुरञ्जसा ॥
ते च वैमानिकाः सर्व्वे ब्रह्मणः सप्त मानसाः ।
तत्पिण्डदानमन्त्रोक्तं प्रपश्यन्तो व्यवस्थिताः ॥
गौरमुख उवाच ।
ये च ते पितरो ब्रह्मन् स्वञ्च कालं समासते ।
कियन्तो वै पितृगणास्तस्मिन् लोके व्यवस्थिताः ॥
मार्कण्डेय उवाच ।
प्रवर्त्तन्ते वराः केचिद्देवानां सोमवर्द्धनाः ।
ते मरीच्यादयः सप्त स्वर्गे ते पितरः स्मृताः ॥
चत्वारो मूर्त्तिमन्तो वै त्रयस्त्वन्ये ह्यमूर्त्तयः ।
तेषां लोकनिसर्गञ्च कीर्त्तयिष्यामि तच्छृणु ॥
प्रभावञ्च महर्षे त्वं विस्तरेण निवोध मे ।
धर्म्ममूर्त्तिधरास्तेषां त्रयोऽन्ये परमा गणाः ॥
तेषां नामानि लोकांश्च कीर्त्तयिष्यामि तच्छृणु ॥
लोकाः सन्तानकामाय यत्र तिष्ठन्ति भास्वराः ।
अमूर्त्तयः पितृगणास्ते वै पुत्त्राः प्रजापतेः ॥
विराजस्य प्रजाः श्रेष्ठास्ते वैराजा इति स्मृताः ।
देवानां पितरस्ते हि तान् यजन्तीह देवताः ॥
एते वै लोकविभ्रष्टा लोकान् प्राप्य सनातनान् ।
पुनर्युगशतान्तेषु जायन्ते ब्रह्मवादिनः ॥
ते प्राप्य तां स्मृतिं भूयः सिद्धियोगमनुत्तमम् ।
चिन्त्य योगगतिं शुद्धां पुनरावृत्तिदुर्लभाः ॥
एतेऽस्मिन् पितरः श्राद्धे योगिनां योगवर्द्धनाः ।
आप्यायितास्तु ते पूर्ब्बं येऽपि योगबले रताः ॥
तस्मात् श्राद्धानि देयानि योगिनां योगसत्तमैः ।
एष वै प्रथमः सर्गः सोमपानामनुत्तमः ॥
एते त एकतनवो वर्त्तन्ते द्बिजसत्तमाः ।
भूर्लोकवासिना याज्या भुवर्लोकनिवासिनः ॥
स्वर्गलोका मरीच्याद्यास्तेषां याज्या महर्गताः ।
कल्पवासिकसंज्ञानां तेषामपि जने स्थिताः ॥
सनकाद्यास्ततस्तेषां वैराजास्तपसि स्थिताः ।
तेषां सत्यगताः प्रोक्ता इत्येषा पितृसन्ततिः ॥
सप्तधा सप्तलोकेषु आदिमन्वन्तरक्रिया ।
अन्येषां वसवः साध्या रुद्रादित्याश्विनाविति ॥
अग्रतः सर्व्ववर्णानां साधारण्येन संस्थिताः ।
ऋषयश्च तदुत्पन्ना इति सप्तविधा गणाः ॥
तेषां कल्यास्तु संजाता महती पितृसन्ततिः ।
आग्निस्वात्ताश्च मारीचा वैराजा वर्हिसंज्ञिताः ॥
सुकाला नाम पितरो वशिष्ठस्य प्रजापतेः ।
तेऽपि याज्यास्त्रिभिर्वर्णैर्न शूद्रेण पृथव् कृतम् ॥
वर्णत्रयाभ्यनुज्ञातः शूद्रः सर्व्वान् पितॄन् यजेत् ।
न तु तस्य पृथक् सन्ति पितरः शूद्रजातयः ॥
मुक्तचेतनका ब्रह्मन् ! न दृश्यन्ते पितृष्वपि ।
विशेषशास्त्रदृष्ट्या तु पुराणानाञ्च दर्शनात् ॥
एवं ऋषिस्तुतैः शास्त्रैर्ज्ञात्वा याजकसम्भवान् ।
स्वयं सृष्ट्या स्मृतिर्लब्धा पुत्त्राणां ब्रह्मणा ततः ॥
परं निर्व्वाणमापन्नास्तेऽपि ज्ञानिन एव च ।
वैश्यादीनां कश्यपाद्या वर्णानां वसवादयः ॥
अविशेषेण विज्ञेया गन्धर्व्वाद्या अपि ध्रुवम् ।
एष ते पैतृकः सर्ग उद्देशेन महामुने ! ।
कथितो नान्त एवास्य वर्षकोट्या हि दृश्यते ॥”
इति वाराहे श्राद्धकल्पः ॥ * ॥
अपि च ।
“पितॄणां सम्भवं राजन् ! कथ्यमानं निबोध मे ।
पूर्ब्बं प्रजापतिर्ब्रह्मा सिसृक्षुर्विविधाः प्रजाः ॥
एकाग्रमानसः सर्व्वास्तन्मात्रा मनसो बहिः ।
कृत्वा परमकं ब्रह्म ध्यायन् सर्व्वेषु रूपकैः ॥
तस्यात्मनि तदा योगं गतस्य परमेष्ठिनः ।
तन्मात्रा निर्ययुर्द्देहाद्धूमवर्णकृतत्विषः ॥
पिबाम इति भाषन्तः सुरां सोममितोऽसकृत् ।
ऊर्द्ध्वं जिगमिषन्तो वै अधःसंस्थास्तपस्विनः ॥
तान् दृष्ट्वा सहसा ब्रह्मा तिर्य्यक्संस्थांस्तदो-
न्मुखान् ।
भवन्तः पितरः सन्तु सर्व्वेषां गृहमेधिनाम् ॥
ऊर्द्ध्ववक्त्रास्तु ये तत्र ते नान्दीमुखसंज्ञिताः ॥
इत्युक्त्वा तु तदा ब्रह्मा तेषां पन्थानमाकरोत् ।
दक्षिणायनसंज्ञन्तु पितॄणान्तु पितामहः ॥
तूष्णीं ससर्ज भूतानि तमूचुः पितरस्ततः ।
वृत्तिं नो देहि भगवन् यया विन्दामदे सुखम् ॥
ब्रह्मोवाच ।
अमावास्यादिनं वोऽस्तु तस्यां कुशतिलोदकैः ।
तर्पिता मानुषैस्तृप्तिं परां गच्छत नान्यथा ॥
तिला देयास्तथैतस्यामुपोष्य पितृभक्तितः ।
परमं तस्य सन्तुष्टाः परं यच्छत मा चिरम् ॥”
इति वाराहे पितृसर्गस्थितिवर्णनम् ॥ * ॥
पितृश्राद्धविशेषे देवताविशेषाः पितृगणाश्च यथा,
“क्रतुर्दक्षो वसुः सत्यः कामः कालस्तथा ध्वनिः ।
रोचकश्चाद्रवाश्चैव तथा चान्यः पुरूरवाः ॥
विश्वेदेवा भवन्त्येते दश सर्व्वत्र पूजिताः ।
विश्वदेवौ क्रतुदक्षौ सर्व्वास्विष्टिषु विश्रुतौ ॥
नित्यं नान्दीमुखश्राद्धे वसुसत्यौ च पैतृके ।
नवान्नालम्भने देवौ कामकालौ सदैव हि ॥
अपि कन्यागते सूर्य्ये श्राद्धे च ध्वनिरोचकौ ।
पुरूरवाश्चाद्रवाश्च विश्वदेवौ च पर्व्वणि ॥
सुभास्वरा वर्हिषदो ह्यग्निस्वात्तास्तथैव च ।
आज्यपाश्चोपहूताश्च क्रव्यादाश्च सुकालिनः ।
एते पितृगणाः सप्त पौराणाः केचिदेव हि ॥”
इत्यग्निपुराणम् ॥ * ॥
अग्निस्वात्तादेरुत्पत्तिर्यथा, --
“ततो निगृह्येन्द्रियकं विकारं चतुराननः ।
जिघृक्षुरपि तत्याज तां सन्ध्यां कामरूपिणीम् ॥
तत्शरीरात्तु घर्म्माम्भो यत् पपात द्बिजोत्तमाः ।
अग्निस्वात्ता वर्हिषदो जाताः पितृगणास्ततः ॥
भिन्नाञ्जननिभाः सर्व्वे फुल्लराजीवलोचनाः ।
नितान्तसंयताः पुण्याः संसारविमुखाः परे ॥
सहस्राणां चतुःषष्टिरग्निस्वात्ताः प्रकीर्त्तिताः ।
षडशीतिसहस्राणि तथा वर्हिषदो द्विजाः ॥”
इति कालिकापुराणे २ अध्यायः ॥ * ॥
तेषां तर्पणविधिर्यथा, --
“अपसव्यं ततः कृत्वा सव्यं जानु च भूतले ।
अग्निस्वात्तांस्तथा सौम्यान् हविष्मतस्तथोष्मपान् ॥
सुकालिनो वर्हिषदस्तथा चैवाज्यपान् पुनः ।
तर्पयेत्तु पितॄन् भक्त्या सतिलोदकचन्दनैः ॥
दर्भपाणिस्तु विधिवत् प्रेतांस्तांस्तर्पयेत्ततः ।
पित्रादीन्नामगोत्रेण तथा मातामहानपि ।
सन्तर्प्य विधिवद्भक्त्या इमं मन्त्रमुदीरयेत् ॥
ये बान्धवाबान्धवा वा येऽन्यजन्मनि बान्धवाः ।
ते तृप्तिमखिलां यान्तु यश्चास्मत्तोऽभिवाञ्छति ॥”
इति मात्स्ये स्नानविधौ ८४ अध्यायः ॥

पितृवनं, क्ली, (पितॄणां वनमिव ।) श्मशानम् ।

इत्यमरः । २ । ८ । ११८ ॥ (यथा, महाभारते ।
११ । ४ । १५ ।
“सर्व्वे पितृवनं प्राप्ता स्वपन्ति विगतज्वराः ।
निर्म्मांसैरस्थिभूयिष्ठैर्गात्रैः स्नायुनिबन्धनैः ॥”)

पितृवनेचरः, पुं, (पितृवने श्मशाने चरतीति ।

चर + “चरेष्टः ।” ३ । २ । १६ । इति टः ।
अलुक्समासः ।) शिवः । इति केचित् ॥
पृष्ठ ३/१४७

पितृवसतिः, स्त्री, (पितॄणां वसतिर्यत्र ।) शवशयन-

स्थानम् । श्मशानम् । इत्यमरटीकायां रमा-
नाथः ॥

पितृव्यः, पुं, (पितुर्भ्राता । “पितृव्यमातुलमाता-

महपितामहाः ।” ४ । २ । ३६ । इत्यत्र
“पितुर्भ्रातरि व्यत् ।” इति वार्त्तिकोक्त्या व्यत्-
प्रत्ययः ।) पितृभ्राता । इत्यमरः । २ । ६ । ३१ ॥
अपि च ।
“पितृव्यो जनकभ्राता ज्येष्ठतातोऽग्रजो यदि ।
पितुः कनिष्ठभ्राता तु खुल्लतातोऽभिधीयते ॥”
इति शब्दरत्नावली ॥

पितृष्वसा, [ऋ] स्त्री, (पितुः स्वसा भगिनी ।

“मातृपितृभ्यां स्वसा ।” ८ । ३ । ८४ । इति
षत्वम् ।) पितुर्भगिनी । पिसी इति भाषा । यथा,
“मातृष्वसा मातुलानी पितृव्यस्त्री पितृष्वसा ।
श्वश्रूः पूर्ब्बजपत्नी च मातृतुल्याः प्रकीर्त्तिताः ॥”
इति दायभागः ॥

पितृष्वस्रीयः, त्रि, पितृष्वसुरपत्यम् । (पितृष्वसृ +

छः ।) पितृभागिनेयः । इति मुग्धबोधव्याकर-
णम् ॥ (यथा, महाभारते । १ । १११ । २ ।
“पितृष्वस्रीयाय सुतामनपत्याय भारत ! ।
अग्र्यमग्ने प्रतिज्ञाय स्वस्यापत्यं स सत्यवाक् ॥”)

पितृसन्निभः, पुं, (सम्यङ्निंभातीति सन्निभस्तुल्यः ।

पितुः सन्निभः ।) पितृतुल्यः । तत्पर्य्यायः ।
मनोजवः २ मनोजवसः ३ । इत्यमरभरतौ ॥

पितृसूः, स्वी, (सूते इति सूर्जननी । पितॄणां

सूर्जननीव । पितृकृत्ये सन्ध्यागामिन्यास्तिथेर्ग्राह्य-
त्वात् जननीवत् पालकत्वेनैव तथात्वम् ।) सन्ध्या ।
इति शब्दमाला । (पितरं सूते इति । क्विप् ।
पितामही । इति व्युत्पत्तिलब्धोऽर्थः ॥)

पितृहूः, पुं, (पितॄनाह्वयत्यनेनेति । पितृ + ह्वे +

करणे क्विप् ।) दक्षिणकर्णः । यथा, श्रीभाग-
वते । ४ । २५ । ५० ।
“पितॄहूर्नृपपुर्य्या द्बार्दक्षिणेन पुरञ्जनः ॥”
“शास्त्रे च प्रथमं श्रोतव्यं कर्म्मकाण्डं इत्येता-
वता सामान्येन प्रवृत्तसंज्ञकस्य कर्म्मकाण्डस्य
दक्षिणकर्णेन श्रवणमिष्यते । ततस्तदर्थमनुष्ठाय
पितृभिराहूतः पितृलोकप्रापकं पितृयानं प्रप-
द्यते । तदनेन प्रकारेण पितॄणामाह्वानमनेन
भवति पितृहूर्दाक्षंणः कर्णः । एवं तद्वैवरीत्येन
उत्तरकर्णो देवहूः । तथा च व्याख्यास्वति ।
पितृहूर्दक्षिणः कर्णः उत्तरो देवहूः स्मृतः ।
प्रवृत्तञ्च निवृत्तञ्च शास्त्रं पञ्चालसंज्ञितम् ॥”
इति तट्टीकायां श्रीधरस्वामी ॥

पित्तं, क्ली, (अपिदीयते प्रकृतावस्थया रक्ष्यते

विकृतावस्थया नाश्यते वा शरीरं येनेति । अपि
+ दे ङ पालने, दो य च्छेदने वा + क्तः । “अच
उपसर्गात्तः ।” ७ । ४ । ४७ । इति तादेशः ।
अपेरल्लोपः ।) शरीरस्थधातुविशेषः । तत्-
पर्य्यायः । मायुः २ । इत्यमरः । २ । ६ । ६२ ॥
पलज्वलः ३ । इति शब्दरत्नावली ॥ तेजः ४
तिक्तधातुः ५ उष्मा ६ अग्निः ७ अनलः ८ ।
(यथा, महाभारते । ६ । ८१ । ४१ ।
“अभिमन्योस्ततस्तैस्तु घोरं युद्धमवर्त्तत ।
शरीरस्य यथा राजन् ! वातपित्तकफैस्त्रिभिः ॥”)
अस्य गुणाः ।
“पित्तञ्च तिक्ताम्लरसञ्च सारकं
तूष्णं द्रवं तीक्ष्णमिदं मधौ बहु ।
वर्षान्तकाले भृशमर्द्धरात्रे
मध्यन्दिने तप्युदिते च कुप्यति ॥”
इति राजनिर्घण्टः ॥ * ॥
अपिच ।
“सर्व्वं पित्तमपस्मारकुष्ठदुष्टव्रणापहम् ।
चक्षुष्यं कटुतीक्ष्णोष्णमुन्मादक्रिमिनाशनम् ॥”
इति राजवल्लभः ॥ * ॥
पित्तस्य स्वरूपमाह ।
“पित्तमुष्णं द्रवं पीतं नीलं सत्वगुणोत्तरम् ।
सरं कटु लघु स्निग्धं तीक्ष्णमम्लन्तु पाकतः ॥”
पीतं निरामम् । नीलं सामम् । एकं पित्तं
वातवन्नामस्थानकर्म्मभेदैः पञ्चविधम् ॥ * ॥
तेषां पित्तानां नामान्याह ।
“पाचकं रञ्जकञ्चापि साधकालोचके तथा ।
भ्राजकञ्चेति पित्तस्य नामानि स्थानभेदतः ॥” * ॥
अथ पाचकादीनां स्थानान्याह ।
“अग्न्याशये यकृत्प्लीह्नोर्हृदये लोचनद्बये ।
त्वचि सर्व्वशरीरेषु पित्तं निवसति क्रमात् ॥” * ॥
अथ तेषां कर्म्माण्याह ।
“पाचकं पचते भुक्तं शेषाग्निबलवर्द्धनम् ।
रसमूत्रपुरीषाणि विरेचयति नित्यशः ॥”
पाचकं पित्तमामपक्वाशयमध्यस्थं षड्विधमा-
हारं भोज्यं भक्ष्यं चर्व्व्यं लेह्यं चूष्यं पेयं पचति
दोषरसमूत्रपुरीषाणि पृथक् करोति च । तद-
ग्न्याशयस्थमेवात्मशक्त्या रसरञ्जनहृदयस्थकफ-
तमोऽपनोदनरूपग्रहणप्रभाप्रकाशनाभ्यङ्ग-
लेपादिपाचनाद्यग्निकर्म्मणा शेषाणां पित्तस्थाना-
नामनुग्रहं करोति । शेषाण्यपि पित्तस्थानानि
यकृत्प्लीहादीनि भागेन गत्वा तत्र तत्र रसरञ्ज-
नादिकर्म्मभिरुपकरोतीत्यर्थः । कथन्मूतं पाचक-
पित्तं शेषाग्निबलवर्द्धनं शेषा अग्नयः पृथि-
व्यादिमहाभूतगताः सप्तधातुगताञ्च । यत
उक्तं चरकेण ।
“भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः ।”
इति ।
उष्माणोऽग्नयः । यत उक्तं वाग्भटे ।
“दोषधातुमलादीनामुष्मेत्यात्रेयशासनम् ।” इति ।
दोषधातुमलादीनामुष्मैवाग्निरित्यर्थः । रसादि-
धातुगताश्च सप्त तेषां बलवर्द्धनम् । यथा गृहे
स्थापितानि रत्नानि खद्योतवददूरभास्वराणि
तान्यपि दीपज्योतिषा दूरप्रकाशकानि भवन्ति ।
तथा अग्न्याशयस्थपाचकाग्नितेजसा सर्व्वे अग्नयो
बलवन्तो भवन्ति । तथा च वाग्भटः ।
“अन्नस्य पक्ता सर्व्वेषां पक्तणामधिको मतः ।
तन्मूलास्ते हि तद्वृद्धिक्षयवृद्धिक्षयात्मकाः ॥”
इति ॥
ननु पित्तादन्योऽग्निराहोस्वित् पित्तमेवाग्निरिति
सन्देहः । उच्यते पित्तस्योष्णादिगुणद्वाराहार-
पाचनरञ्जनदर्शनादिकर्म्मणश्च न खलु पित्त-
व्यतिरेकेणान्योऽग्निः । तस्मादग्निरूपस्यैव पित्तस्य
स्थानभेदात् पाचकरञ्जकसाधकालोचकभ्राजक-
संज्ञाः । तथा च वाग्भटे ।
“पाचकं तिलमानं स्यात् काठिन्यान्नास्य दोषता ।
अनुगृह्णात्यविकृतं पित्तं पाकोष्मदर्शनैः ॥
क्षुत्तृड्रुचिप्रभामेधाधीशौर्य्यतनुमार्द्दवैः ।
पित्तं पञ्चात्मकं तच्च पक्वामाशयमध्यगम् ॥
पञ्चभूतात्मकत्वेऽपि यत्तैजसगुणोदयात् ।
त्यक्तद्रवत्वं पाकादिकर्म्मणानलशब्दितम् ॥
पचत्यन्नं विभजते सारकिट्टौ पृथक् तथा ।
तत्रस्थमेव पित्तानां शेषाणामप्यनुग्रहम् ॥
करोति बलदानेन पाचकं नाम तत् स्मृतम् ॥”
ननु यदि पित्ताग्न्योरभेदस्तदा कथं घृतं पित्तस्य
शमनमग्नेर्दीपनमिति । तथा मत्स्याः पित्तं
कुर्व्वन्ति न च तेऽग्निदीप्तिकरा इति । तथा
पित्ताधिक्यात्तीक्ष्णोऽग्निरित्यपि कथं स्यात् ।
तथा समदोषः समाग्निश्चेत्यपि वक्तुं न युज्यते ।
तथा द्रवं स्निग्धमधोगञ्च पित्तं वह्निरतोऽन्य-
थेति । अत्रोच्यते । पित्तमग्नेः सतताधिष्ठानम् ।
तथा चोक्तं तन्त्रान्तरे ।
“अग्निर्भिन्नगुणैर्युक्तः पित्तं भिन्नगुणैस्तथा ।
द्रवं स्निग्धमधोगञ्च पित्तं वह्निरतोऽन्यथा ॥
तस्मात्तेजोमयं पित्तं पित्तोष्मा यः स शक्तिमान् ।
स सञ्चरति कुक्षिस्थः सर्व्वतो धमनीमुखैः ॥
स कायाग्निः स कायोष्मा स पक्ता स च जीवनम् ।
अनन्यगतिरित्येवं देहे कायाग्निरुच्यते ॥”
अन्यच्च ।
“वामपार्श्वाश्रितं नाभेः किञ्चित् सोमस्य मण्ड-
लम् ।
तन्मध्ये मण्डलं सौर्य्यं तन्मध्येऽग्निर्व्यवस्थितः ॥
जरायुमात्रप्रच्छन्नः काचकोषस्थदीपवत् ॥”
तथा च मधुकोषे । “द्रवतेजःसमुदायात्मकस्य
पित्तस्य तेजोभागोऽग्निरिति । तेन पित्तमप्य-
ग्निवत् मन्यते । अग्नितापितायोगोलकवत् ।”
परमार्थतस्तु अग्निः पित्ताद्भिन्न एवेति
सिद्धान्तः । अतएवाह रसप्रदीपे ।
“जाठरो भगवानग्निरीश्वरोऽन्नस्य पाचकः ।
सौक्ष्म्याद्रसानाददानो विवेक्तुं नैव शक्यते ॥
नाभौ मध्ये शरीरस्य विशेषात् सोममण्डलम् ।
सोममण्डलमध्यस्थं विद्यात् सूर्य्यस्य मण्डलम् ॥
प्रदीपवत्तत्र नृणां स्थितो मध्ये हुताशनः ।
सूर्य्यो दिवि यथा तिष्ठंस्तेजोयुक्तैर्गभस्तिभिः ॥
विशोषयति सर्व्वाणि पल्वलानि सरांसि च ॥
तद्वच्छरीरिणां भुक्तं त्वनलो नाभिमाश्रितः ।
मयूखैः पचते क्षिप्रं नानाव्यञ्जनसंस्कृतम् ॥
स्थूलकायेषु सत्त्वेषु यवमात्रप्रमाणतः ।
ह्नस्वकायेषु सत्त्वेषु तिलमात्रप्रमाणतः ॥
कृमिकीटपतङ्गेषु चाणुमात्रोऽवतिष्ठते ॥” इति ।
पुनः प्रकृतमनुसरति ।
पृष्ठ ३/१४८
“रञ्जकं नाम यत् पित्तं तद्रसं शोणतां नयेत् ।
यत्तु साधकसंज्ञं तत् कुर्य्याद्बुद्धिं धृतिं स्मृतिम् ॥”
धृतिं मेधाम् ।
“यदालोचकसंज्ञं तद्रूपग्रहणकारणम् ।
भ्राजकं कान्तिकारि स्याल्लेपाभ्यङ्गादिपाच-
कम् ॥
पित्तप्रकृतिको यथा, --
“पित्तप्रकृतिको यादृक् तादृशोऽथ निगद्यते ।
अकालपलितो गौरः क्रोधी स्वेदी च बुद्धिमान् ॥
बहुभुक् ताम्रनेत्रश्च स्वप्ने ज्योतींषि पश्यति ।
श्यामकेशः क्षमी स्थूलो बहुवीर्य्यो महाबलः ॥
पित्तं वह्निर्वह्निजं वा तदस्मात्
पित्तोद्रिक्तस्तीव्रतृष्णो बुभुक्षुः ।
गौरोष्णाङ्गस्ताम्रहस्तोऽङ्घ्रिरक्तः
शूरो मानी पिङ्गकेशोऽल्पलोमा ॥”
पित्तप्रकृतिकमृगा यथा, --
“व्याघ्रर्क्षकपिमार्जारयक्षोलूकाश्च पैत्तिकाः ॥”
पित्तस्योपशमहेतुमाह ।
“तिक्तस्वादुकषायशीतपवनच्छायानिशावीजन-
ज्योत्स्नाभूगृहयन्त्रवारिजलदस्त्रीगात्रसंस्पर्श-
नम् ।
सर्पिःक्षीरविरेकसेकरुधिरस्रावप्रदेहादिकं
पानाहारविहारभेषजमिदं पित्तं प्रशान्तिं
नयेत् ॥”
अथ पित्तप्रकोपकारणानि ।
“कट्वम्लोष्णविदाहितीक्ष्णलवणक्रोधोपवासातप-
स्त्रीसंभोगतृषाक्षुधाभिहननव्यायाममद्यादिभिः ।
भुक्तेऽजीर्य्यति भोजने च शरदि ग्रीष्मे तथा
प्राणिनां
मध्याह्ने च तथार्द्धरात्रसमये पित्तप्रकोपो भवेत् ॥”
इति भावप्रकाशे पूर्ब्बखण्डे २ भागे ॥
(यथा च ।
“अत्युष्णरुक्षाम्लकटुप्रदाहैः
सीधोः सुरासेवनेनातिघर्म्मे ।
क्रोधादपि स्वेदने च व्यवाये
अभोजने याति कोपञ्च पित्तम् ॥
कुलत्थ्याढकीयूषमूलेषु शिग्रु
तिलातसीराजिकाशाकवृन्दे ।
निशाजागरे योधने च श्रमे वा
घृनान्ते शरत्सु प्रकोपः प्रदिष्टः ।
भृशं वासरे मध्यगेऽर्के निशीथे
ऽसुजीर्य्यत्प्रभुक्ते प्रकोपः प्रदिष्टः ॥”
इति हारीते प्रथमस्थाने पञ्चमेऽध्याये ॥)
स तु ज्वरजनकमन्दाग्नेर्जनकः ।
“मन्दाग्निस्तस्य जनको मन्दाग्नेर्जनकास्त्रयः ।
पित्तश्लेष्मसमीराश्च प्राणिनां दुःखदायकाः ॥”
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १६ अध्यायः ॥ * ॥
(यथा च ।
“पित्तं पञ्चात्मकं तत्र पक्वामाशयमध्यगम् ।
पञ्चभूतात्मकत्वेऽपि यत्तैजसगुणोदयात् ॥
त्यक्तद्रवत्वं पाकादिकर्म्मणानलशब्दितम् ।
पचत्यन्नं विभजते सारकिट्टौ पृथक् तथा ॥
तत्रस्थमेव पित्तानां शेषाणामप्यनुग्रहम् ।
करोति बलदानेन पाचकं नाम तत् स्मृतम् ॥
आमाशयाश्रयं पित्तं रञ्जकं रसरञ्जनात् ।
बुद्धिमेधाभिमानाद्यैरभिप्रेतार्थसाधनात् ॥
साधकं हृद्गतं पित्तं रूपालोचनतः स्मृतम् ।
दृक्स्थमालोचकं त्वक्स्थं भ्राजकं भ्राजना-
त्त्वचः ॥”
इति वाभंटे सूत्रस्थाने द्वादशेऽध्याये ॥
“पित्तविकाराश्चत्वारिंशदत ऊर्द्ध्वं व्याख्यास्यन्ते ।
तद्यथा, ओषश्च प्लोषश्च दाहश्च दवथुश्च धूमक-
श्चाम्लकश्च विदाहश्च अन्तर्दाहश्चांसदाहश्चो-
ष्माधिक्यञ्चातिस्वेदश्चाङ्गगन्धश्चाङ्गावयवदरणञ्च
शोणितक्लेदश्च मांसक्लेदश्च त्वग्दाहश्च मांस-
दाहश्च त्वङ्मांसदरणञ्च रक्तकोठाश्च रक्त-
विस्फोटाश्च रक्तपित्तञ्च रक्तमण्डलानि च
हरितत्वञ्च हरिद्रत्वञ्च नीलिका च कक्षा च
कामला च तिक्तास्यता च पूतिमुखता चतृष्णाया
आधिक्यञ्चातृप्तिश्चास्यपाकश्च गलपाकश्चाक्षि-
पाकश्च गुदपाकश्च मेढ्रपाकश्च जीवादानञ्च
तमःप्रवेशश्च हरितहारिद्रमूत्रनेत्रवर्च्चस्त्वञ्चेति-
चत्वारिंशत् पित्तविकाराः । पित्तविकाराणाम-
परिसंङ्खेयानामाविष्कृततमा व्याख्याता भवन्ति ।
सर्व्वेष्वपि खल्वेतेषु पित्तविकारेष्वन्येषु चानु-
क्तेषु पित्तस्येदमात्मरूपमपरिणामिकर्म्मणश्च
स्वलक्षणं यत्तदुपलभ्य तदवयवं वा विमुक्त-
सन्देहाः पित्तविकारमेवाध्यवस्यन्ति कुशलाः ।
तद्यथा, --
औष्ण्यं तैक्ष्ण्यं लाघवमनतिस्नेहो वर्णश्च शुक्ला-
रुणवर्ज्जो गन्धश्च विस्रो रसौ च कटुकाम्लौ
पित्तस्यात्मरूपाण्येवंविधत्वाच्च कर्म्मणः स्वल-
क्षणमिदमस्य भवति । तं तं शरीरावयवमा-
विशतो दाहोष्मपाकस्वेदक्लेदकोथस्रावरागाः ।
यथास्वञ्च गन्धवर्णरसाभिनिर्व्वर्त्तनं पित्तस्य
कर्म्माणि तैरन्वितं पित्तविकारमेवाध्यवस्येत् ।
तं मधुरतिक्तकषायशीतैरुपक्रमैरुपक्रमेत । स्नेह-
विवेकप्रदेहपरिषेकाभ्यङ्गावगाहादिभिः पित्त-
हरैर्मात्रां कालञ्च प्रमाणीकृत्य विरेचनन्तु
सर्व्वोपक्रमेभ्यः पित्ते प्रधानतमं मन्यन्ते भिषजः ।
तद्ध्यादित एवामाशयमनुप्रविश्य केवलं वैका-
रिकं पित्तमूलञ्चापकर्षति । तत्रावजिते पित्ते-
ऽपि शरीरान्तर्गताः पित्तविकाराः प्रशान्ति-
मापद्यन्ते । यथाग्नौ व्यपोढे केवलमग्निगृहञ्च
शीतं भवति तद्वत् ॥” इति चरके सूत्रस्थाने
विंशेऽध्याये ॥ * ॥
“पित्तमुष्णन्तीक्ष्णं द्रवं विस्रमम्लङ्कटुकञ्च । तस्यो-
ष्ण्यात् पित्तला भवन्त्युष्णासहाः सुकुमारा-
वदातगात्राः प्रभूतपिप्लुव्यङ्गतिलकपिडकाः क्षुत्-
पिपासावन्तः क्षिप्रवलीपलितखालित्यदोषाः
प्रायोमृद्बल्पकपिलश्मश्रुलोमकेशाः तैक्ष्ण्या-
त्तीक्ष्णपराक्रमाः तीक्ष्णाग्नयः प्रभूताशनपानाः
क्लेशासहिष्णवो दन्दशूका द्रवत्वात् शिथिल-
मृदुसन्धिमांसाः प्रभूतसृष्टस्वेदमूत्रपुरीषाश्च
विस्रत्वात् प्रभूतपूतिवक्षःकक्षास्यशिरःशरीर-
गन्धाः कट्वम्लत्वादल्पशुक्रव्यवायापत्याः । त एवं
गुणयोगात् पित्तला मध्यबला मध्यायुषो ज्ञान-
विज्ञानवित्तोपकरणवन्तश्च ।” इति चरके
विमानस्थानेऽष्टमेऽध्याये ॥)

पित्तघ्नी, स्त्री, (पित्तं हन्तीति । हन + “अमनुष्य-

कर्त्तृके च ।” ३ । २ । ५३ । इति टक् । ततो
ङीप् ।) गुडूची । इति शब्दचन्द्रिका ॥
(पित्तनाशके, त्रि । यथा, भावप्रकाशे । १ । १ ।
“मधुली शीतला स्निग्धा पित्तघ्नी मधुरा लघुः ॥”)

पित्तज्वरः, पुं, (पित्तनिमित्तको ज्वरः ।) पैत्तिक-

ज्वरः । यथा, --
“विशेषतः कोमलनारिकेलं
निहन्ति पित्तज्वरमूत्रदोषान् ॥”
इति राजनिर्घण्टः ॥
अस्य लक्षणं ज्वरशब्दे द्रष्टव्यम् ॥ * ॥
अथ पित्तज्वरचिकित्सा ।
“आमाशयस्थो हत्वाग्निं सामो मार्गान् पिधा-
पयन् ।
विदधाति ज्वरं दोषस्तस्माल्लङ्घनमाचरेत् ॥”
इति वचनात् सामान्यतो ज्वरिमात्रस्य यावदा-
रोग्यदर्शनं लङ्घनाभिधाने पित्तज्वरिणो लङ्घन-
विधाने विशेषमाह सुश्रुतः । पैत्तिके दशरात्रेण
ज्वरे युञ्जीत भेषजमिति । दशरात्रेण लङ्घन-
वता व्यतीतेनेत्यर्थः । किन्तद्भेषजं तदाह ।
“तिक्तामुस्तायवैः पाठाकट्फलाभ्यां सहोदकम् ।
पक्वं सशर्करं पीतं पाचनं पैत्तिके ज्वरे ॥”
इति तिक्तादिक्वाथः ॥
“पर्पटो वासकस्तिक्ता कैरातो धन्वयासकः ।
प्रियङ्गुश्च कृतः क्वाथ एष शर्करया युतः ॥
पिपासादाहपित्तास्रयुक्तं पित्तज्वरं हरेत् ॥”
इति पर्पटादिक्वाथः ॥
“द्राक्षा हरीतकी मुस्ता कटुका कृतमालकः ।
पर्पटश्च कृतः क्वाथः एष पित्तज्वरापहः ॥
मुखशोषप्रलापान्तर्दाहमूर्च्छाभ्रमप्रणुत् ।
पिपासारक्तपित्तानां शमनो भेदनो मतः ॥”
इति द्राक्षादिक्वाथः ॥
“पटोलमथ धन्याकं मधुकं मधुसंयुतम् ।
हन्ति पित्तज्वरं दाहं तृष्णाञ्चातिप्रमाथिनीम् ॥”
इति पटोलादिक्वाथः ॥
“गुडूच्यामलकीयुक्तः केवलो वापि पर्पटः ।
पित्तज्वरं हरेत्तूर्णं दाहशोषभ्रमान्वितम् ॥”
इति गुडूच्यादिक्वाथः ॥
“एकः पर्पटकः श्रेष्ठः पित्तज्वरविनाशनः ।
किं पुनयदि युज्येत चन्दनोशीरबालकैः ॥
ह्नीवेरचन्दनोशीरघनपर्पटसाधितम् ।
दद्यात् सुशीतलं वारि तृट्छर्द्दिज्वरदाहनुत् ॥”
इति ह्नीवेरादिक्वाथः ॥
“भूनिम्बातिविषालोध्रमुस्तकेन्द्रयवामृताः ।
बालकं धान्यकं विल्वं कषायो माक्षिकान्वितः ॥
विड्भेदश्वासकासांश्च रक्तपित्तज्वरं हरेत् ॥”
इति भूनिम्बादिक्वाथः ॥
पृष्ठ ३/१४९
“द्राक्षाचन्दनपद्मानि मुस्ता तिक्तामृतापि च ।
धात्री बालमुशीरञ्च लोध्रेन्द्रयवपर्पटाः ॥
परूषकं प्रियङ्गुश्च यवासो वासकस्तथा ।
मधुकं कुलकं वापि किरातो धान्यकं तथा ॥
एषां क्वाथो निहन्त्येव ज्वरं पित्तसमुत्थितम् ।
तृषां दाहं प्रलापञ्च रक्तपित्तं भ्रमं क्लमम् ॥
मूर्च्छां छर्द्दिं तथा शूलं मुखशोषमरोचकम् ।
कासं श्वासञ्च हृल्लासं नाशयेन्नात्र संशयः ॥”
इति महाद्राक्षादिक्वाथः ॥
“ससितो निशि पर्य्युषितः प्रातर्धन्याकतण्डुल-
क्वाथः ।
पीतः शमयत्यचिरादन्तर्द्दाहं ज्वरं पैत्तम् ॥”
इति धन्याकक्वाथः ॥
“अमृताया हिमः प्रातः ससितः पैत्तिकज्वरम् ।
वासायाश्च तथा कासरक्तपित्तज्वरान् जयेत् ॥”
इति अमृतावासाक्वाथौ ॥
“गुडूची भूमिनिम्बश्च बालं वीरणमूलकम् ।
लघुमुस्तं त्रिवृद्धात्री द्राक्षा वासा च पर्प्पटः ॥
एषां क्वाथो हरत्येव ज्वरं पित्तकृतं द्रुतम् ।
सोपद्रवमपि प्रातर्निपीतो मधुना सह ॥”
इति गुडूच्यादिक्वाथः ॥
“पलाशस्य वदर्य्या वा निम्बस्य मृदुपल्लवैः ।
अम्लपिष्टैः प्रलेपोऽयं हन्याद्दाहयुतं ज्वरम् ॥
उत्तानसुप्तस्य गभीरताम्र-
कांस्यादिपात्रे निहिते च नाभौ ।
शीताम्बुधारा बहुला पतन्ती
निहन्ति दाहं त्वरितं ज्वरञ्च ॥
पथ्यां तैलघृतक्षौद्रैर्लिहन् दाहज्वरापहा ।
कासासृक्पित्तवीसर्पश्वासान् हन्ति वमीनपि ॥”
तैलघृतक्षौद्रैरित्यत्र न समुच्चयः तेन केवलेन
क्षौद्रेणापि लिह्यात् ।
“काञ्जिकार्द्रपटेनावगुण्ठनं दाहनाशनम् ।
अथ गोतक्रसुस्विन्नशीतलीकृतवाससा ॥
द्राक्षामलककल्केन कवलोऽत्र हितो मतः ।
पक्वदाडिमबीजैर्वा धन्याकल्केन च क्वचित् ॥”
इति कवलः ॥ धन्यात्र धान्याकम् ॥ * ॥
अथान्नमाह ।
“दाहवम्यर्दितं क्षामं निरन्नं तृषयान्वितम् ।
शर्करामधुसंयुक्तं पाययेल्लाजतर्पणम् ॥”
लाजतर्पणं लाजशक्तुरूपतर्पणम् । सन्तर्पण-
स्वरूपमुक्तं सामान्यज्वरचिकित्सायाम् ।
“मुद्गयूषौदनो देयः सितया पैत्तिके ज्वरे ॥
हर्म्ये शुभ्राभ्रसङ्काशे शशाङ्ककरशीतले ।
मलयोदकसंसिक्ते सुप्यात् पित्तज्वरी नरः ॥
हारावलीचन्दनशीतलानां
सुगन्धपुष्पाम्बरभूषितानाम् ।
नितम्बिनीनां सुपयोधराणा-
मालिङ्गनञ्चाशु हरन्ति दाहम् ॥
आह्लादञ्चास्य विज्ञाय ताश्च स्त्री रमयेत् पुनः ।
हितञ्च भोजयेदन्नं न हितं सुरतं महत् ॥
वाप्यः कमलहासिन्यो जलयन्त्रगृहाः शुभाः ।
नार्य्यश्चन्दनदिग्धाङ्ग्यो दाहदैन्यहरा मताः ॥
इति पित्तज्वराधिकारः ।” इति भावप्रकाशे
मध्यखण्डे प्रथमभागः ॥ * ॥
पित्तश्लेष्मज्वरनाशकौषधं यथा, --
“गुडूचीपद्मकारिष्टधन्याकं रक्तचन्दनम् ।
पित्तश्लेष्मज्वरच्छर्द्दिदाहतृष्णाघ्नमग्निकृत् ॥”
इति गारुडे १८८ अध्यायः ॥
(अस्य सलक्षणचिकित्सितान्यपराणि यथा, --
“मूर्च्छा दाहो भ्रममदंतृषावेगतीक्ष्णोऽतिसार-
स्तन्द्रालस्यं प्रलपनवमिः पाकताल्वोष्ठवक्त्रे ।
स्वेदः श्वासो भवति कटुकं विह्वलत्वं क्षुधा वा
एतैर्लिङ्गैर्भवति मनुजे पैत्तिको वै ज्वरस्तु ॥
रोध्रोत्पलामृतलता कमलं सिताढ्यं
तत्सारिवासहितमेव हि पाचनेषु ।
निःक्वाथ्य पानमति चाशु निहन्ति पित्तं
पित्तज्वरप्रशमनं प्रकरोति पुंसाम् ॥
क्वथितं तण्डुलपयसा शक्राह्वकटुरोहिणीसहि-
तम् ।
क्वाथं यष्टीमधुना विनाशनं पित्तज्वराणान्तु ।
दुरालभावासकपर्पटानां
प्रियङ्गुनिम्बैः कटुरोहिणीनाम् ।
किराततिक्तं क्वथितं कषायं
सशर्कराढ्यं क्वथितञ्च पाचनम् ॥
सदाहपित्तज्वरमाशु हन्ति
तृष्णाभ्रमं शोषविकारयुक्तम् ।
एकोऽपि वै पर्पटको वरिष्ठः
पित्तज्वराणां शमनाय योग्यः ।
तस्मात् पुनर्नागरबालकाढ्यः
सिंहो यथा कङ्कटके प्रवृत्तः ॥
नागरोशीरमुस्ता च चन्दनं कटुरोहिणी ।
धान्यकानां क्वाथ एव पित्तज्वरविनाशनः ॥
अमृतापर्पटोधात्री क्वाथः पित्तज्वरं हरेत् ।
सितारग्वघयोर्वापि काश्मर्य्याश्चाथ वा पुनः ॥
द्राक्षापर्पटकं तिक्ता पथ्यारग्वधमुस्तकैः ।
क्वाथस्तृषाभ्रमदाहयुक्तपित्तज्वापहः ॥
विदारिका रोध्रदधित्थकानां
स्यान्मातुलुङ्गस्य च दाडिमानाम् ।
यथानुलाभेन च मूलपत्रं
निहन्ति तृड्दाहसमूर्च्छनञ्च ॥
उत्तानस्य प्रसुप्तस्य कांस्यं वा ताम्रभाजनम् ।
नाभौ निधाय धाराम्बुशीतदाहनिवारणम् ॥
रम्यारामाकुचभरनमितालिङ्गनं चेष्टसङ्गं
अव्यायामं मुनिवरगदितं शीतलं सेवनं स्यात् ।
शुभ्राम्भोजं मलयजसलिलासिक्तसंशीतवासो
मुक्ताहारो विशदसतुहिनं कौमुदी या सुखाय ॥
एभिर्हन्ति द्रुततरनिभं मानुषाणान्तु पित्तं
दाहं शोषं क्लममपि तथा तृड्भ्रमं मूर्च्छनञ्च ।
एतैर्योगैर्भवति नितरां पित्तदाहस्य शान्ति-
र्योग्या चैव प्रभवति सदा सत्क्रिया श्रीमताञ्च ॥
यदि जिह्वा गलतालुशोषो घै मनुजस्य च ।
केशरं मातुलुङ्गस्य मधुसैन्धवसंयुतम् ।
पेष्यमाणं तालुलेपः सद्यः पित्ततृषापहः ॥”
इति पित्तज्वरचिकित्सा ॥ * ॥

पित्तद्रावी, [न्] पुं, (पित्तं द्रावयतीति । द्रु +

णिच् + णिनिः ।) मधुरजम्बीरः । इति राज-
निर्घण्टः ॥

पित्तरक्तं, क्ली, (पित्तसंसृष्टं रक्तमिति मध्यपद-

लोपी समासः ।) रोगविशेषः । तत्पर्य्यायः ।
रक्तपित्तम् २ पित्तास्रम् ३ पित्तशोणितम् ४ ।
इति राजनिर्घण्टः ॥ अस्य विवरणं रक्तपित्त-
शब्दे द्रष्टव्यम् ॥

पित्तलं, क्ली, (पित्तं तद्वर्णं लातीति । ला + कः ।)

धातुविशेषः । पितल इति भाषा ॥ (यथा,
वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधिकारे ।
“पित्तलञ्च तथा कांस्यं ताम्रवन्मारयेद्भिषक् ।
ताम्रवच्छोधनं तेषां ताम्रवद्गुणकारकम् ॥”)
तत्पर्य्यायः । आरकूटम् २ रीतिः ३ पतिकावे-
रम् ४ द्रव्यदारु ५ । इति जटाधरः ॥ रीती
६ । इति शब्दरत्नावली ॥ मिश्रम् ७ । इति
रत्नमाला ॥ आरः ८ राजरीतिः ९ ब्रह्मरीतिः
१० कपिला ११ पिङ्गला १२ । इति भाव-
प्रकाशः ॥ क्षुद्रसुवर्णः १३ सिंहलम् १४ पिङ्ग-
लकम् १५ पीतलकम् १६ लोहितकम् १७
पिङ्गललोहम् १८ पीतकम् १९ । रीतिका-
युगलगुणाः । तिक्तत्वम् । शीतलत्वम् । रसे
लवणत्वम् । शोधनत्वम् । पाण्डुवातकृमिप्लीह-
पित्तनाशित्वञ्च ।
“शुक्ला स्निग्धा मृदुः शीता सुरङ्गा सूत्रपत्रिणी ।
हेमोपमा शुभा स्वच्छा जात्या रीतिः प्रकी-
र्त्तिता ॥”
इति राजनिर्घण्टः ॥
“रीतिरप्युपधातुः स्यात् ताम्रस्य यसदस्य च ।
पित्तलस्य गुणा ज्ञेया स्वयोनिसदृशा जनैः ॥
संयोगस्य प्रभावेण तस्यान्येऽपि गुणाः स्मृताः ।
रीतिकायुगलं रूक्षं तिक्तञ्च लवणं रसे ।
शोधनं पाण्डुरोगघ्नं कृमिघ्नं नातिलेखनम् ॥”
इति भावप्रकाशः ॥ * ॥
भूर्जपत्रम् । इति शब्दमाला ॥ (बाहुल्येन
पित्तमस्त्यस्येति । पित्त + “सिध्मादिभ्यश्च ।”
५ । २ । १७ । इति लच् ।) पित्तयुक्ते, त्रि ।
इति मेदिनी । ले, ११४ ॥ (पित्तवृद्धिकरे च ।
यथा, सुश्रुते सूत्रस्थाने । ४५ अध्याये ।
“सक्षारं पित्तलं कौपं श्लेष्मघ्रं दीपनं लघु ॥”
यथा च माधवकरधृतरुग्विनिश्चयसंग्रहे पाण्डधि-
कारे ।
“पाण्डुरोगी तु योऽत्यर्थं पित्तलानि निषेवते ।
तस्य पित्तमसृङ्मांसं दग्ध्वा रोगाय कल्पते ॥”)

पित्तला, स्त्री, (पित्तल + टाप् ।) तोयपिप्पली ।

इति मेदिनी । ले, ११४ ॥

पित्तारिः, पुं, (पित्तानामरिर्नाशकः ।) पर्प्पटः ।

लाक्षा । वर्व्वरम् । इति राजनिर्घण्टः ॥

पित्र्यं, क्ली, (पितरो देवता अस्येति । पितृ + “वाय्-

वृतुपित्रुषसो यत् ।” ४ । २ । ३१ । इति यत् ।
“रीङृतः ।” ७ । ४ । २७ । इति रीङादेशश्च ।
पितृदेवताकदानीयत्वादस्य तथात्वम् ।) मधु ।
पृष्ठ ३/१५०
इति राजनिर्घण्टः ॥ पितृतीर्थम् । तत्तु तर्ज्ज-
न्यङ्गुष्ठान्तः । इति हेमचन्द्रः । ३ । ५०४ ॥
(पितुरिदं पितुरागतं वेति । पितृ + “पितु-
र्यत् ।” ४ । ३ । ७९ । इति यत् । ततो रीङा-
देशः ।) पितृसम्बन्धिनि, त्रि । यथा, --
“ज्येष्ठ एव तु गृह्णीयात् पित्र्यं धनमशेषतः ।
शेषास्तमुपजीवेयुर्यथैव पितरन्तथा ॥”
इति दायभागः ॥
(पितृप्रियत्वात् श्राद्धार्हे च त्रि । यथा, सुश्रुते ।
१ । ४६ ।
“कफघ्नं स्वड्गिपिशितं कषायमनिलापहम् ।
पित्र्यं पवित्रमायुष्यं बद्धमूत्रं विरूक्षणम् ॥”)

पित्र्यः, पुं, (पितुस्तुल्य इति । बाहुलकात् यत् ।

ततो रीङादेशः ।) ज्येष्ठभ्राता । इति हेमचन्द्रः ।
३ । २१५ ॥ (पितॄणां प्रिय इति यत् ।) माषः ।
इति शब्दमाला ॥

पित्र्या, स्त्री, (पितरो देवता अस्या इति । पितृ +

यत् । पितृदैवतत्वादेव तथात्वम् ।) मघानक्ष-
त्रम् । इति हेमचन्द्रः । २ । २५ ॥ पौर्णमासी ।
इति शब्दमाला ॥

पित्सन्, [त्] पुं, (पतितुमिच्छतीति । पत्

+ सन् + “सनि मीमाघुरभलभशकपतपदामच
इस् ।” ७ । ४ । ५४ । इति इस् । अभ्यासस्य
लोपश्च । ततः पित्स + शतृ ।) पक्षी । इत्य-
मरः । २ । ५ । ३४ ॥ प्रतिपन्ने पतनेच्छौ च
त्रि । इति विश्वः ॥

पित्सलं, क्ली, (पतत्यत्रेति । पत + “सलः पते-

रदिद्वा ।” २ । २९२ । इति उणादिकोषधृत-
सूत्रात् अधिकरणे सलः । अकारस्य इच्च ।)
पन्थाः । इत्युणादिकोषः । २ । २९२ ॥

पिधानं, क्ली, (अपि + धा + ल्युट् । अपेरल्लोपः ।)

छदनम् । इत्यमरः । १ । ३ । १३ ॥ (यथा,
आर्य्यासप्तशत्याम् । ४८१ ।
“युगपज्जघनोरःस्तनपिधानमधुरे ! त्रपास्मिता-
र्द्रमुखि ! ।
लोलाक्षि ! नैष पवनो विरमति तव वसनपरि-
वर्त्ती ॥”)
उदञ्चनम् । इति हेमचन्द्रः । ४ । ९२ ॥

पिनद्धः, त्रि, (अपि नह्यते स्मेति । अपि + नह +

क्तः । अपेरल्लोपः ।) परिहितवस्त्रादि । तत्-
पर्य्यायः । आमुक्तः २ प्रतिमुक्तः ३ अपिनद्धः
४ । इत्यमरः । २ । ८ । ६५ ॥ (आच्छादितः ।
यथा, भागवते । ११ । ८ । ३३ ।
“यदस्थिभिर्निर्म्मितवंशवंश्य-
स्यूलं त्वचा रोमनखैः पिनद्धम् ॥”)

पिनाकः, पुं, क्ली, (पाति रक्षति पनाय्यते स्तूयते

वा । पाल रक्षणे, पन स्तुतौ वा + “पिनाकाद-
यश्च ।” उणां ४ । १५ । इति आकप्रत्ययेन निपा-
तनात् साधुः ।) शिवधनुः । तत्पर्य्यायः । अज-
गवम् २ । (यथा, महाभारते । ६ । ६० । १८ ।
“पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ॥”)
शूलम् । इत्यमरः । १ । १ । ३७ ॥ शूलमपि
शाङ्करमिहेति केचित् । इति भरतः ॥ पांशु-
वर्षणम् । इति मेदिनी । के, ११९ ॥

पिनाकी, [न्] पुं, (पिनाकोऽस्त्यस्येति । इनिः ।)

शिवः । इत्यमरः । १ । १ । ३३ ॥ (यथा,
हरिवंशे । ३५ । २० ।
“कृत्वा च निश्चयं सर्व्वे पलायनपरायणाः ।
विहाय मथुरां रम्यां मानयन्तः पिनाकिनम् ॥”
रुद्रभेदः । यथा, मात्स्ये । ५ । २९ -- ३० ।
“अजैकपादहिर्व्रध्नो विरूपाक्षोऽथ रैवतः ।
हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः ॥
सावित्रश्च जयन्तश्च पिनाकी चापराजितः ॥”)

पिन्यासं, क्ली, (अपिगतो विज्ञातो व्यक्तगन्ध-

त्वात् न्यासो यस्य । अपेरलोपः ।) हिङ्गु ।
इति जटाधरः ॥

पिपतिषन्, [त्] त्रि, (पतितुमिच्छतीति । पत

+ सन् । ततः शतृ ।) पतनेच्छुः । विहङ्गमे,
पुं । इति मेदिनी । ते, २३१ ॥

पिपतिषुः, पुं, (पतितुमिच्छतीति । पत + सन् ।

पिपतिस + “सनाशंसभिक्ष उः ।” ३ । २ । १६८ ।
इति उः ।) पक्षी । इति राजनिर्घण्टः ॥
(पतनेच्छौ, त्रि ॥)

पिपासा, स्त्री, (पातुमिच्छेति । पा + सन् + अः ।

ततष्टाप् ।) पानेच्छा । तत्पर्य्यायः । तृष्णा २
तर्षः ३ उपलासिका ४ तृट् ५ तृषा ६ उदन्या
७ । इति हेमचन्द्रः । ३ । ५८ ॥ (यथा, सुश्रुते
सूत्रस्थाने १ अध्याये । “स्वाभाविकाः क्षुत्पि-
पासाजरामृत्युनिद्राप्रभृतयः ॥”)

पिपासितः, त्रि, (पिपासा जातास्येति । पिपासा

+ इतच् ।) पिपासायुक्तः । तृषितः । इति
हलायुधः ॥ (यथा, मनौ । ८ । ९३ ।
“नग्नो मुण्डः कपालेन भिक्षार्थी क्षुत्पिपासितः ।
अन्धः शत्रुकुलं गच्छेद्यः साक्ष्यमनृतं वदेत् ॥”)

पिपासुः, त्रि, (पातुमिच्छुः । पा + सन् + उः ।)

पानेच्छुः । तत्पर्य्यायः । तृषितः २ तृष्णक् ३ ।
इति हेमचन्द्रः । ३ । ५७ ॥ (यथा, महा-
भारते । ३ । २२३ । २५ ।
“भागार्थं तपसो धातुं तेषां सोमं तथाध्वरे ।
पिपासवो ययुर्देवाः शतक्रतुपुरोगमाः ॥”)

पिपीतकः, पुं, ब्राह्मणविशेषः । अस्य प्रमाणं

पिपीतकीशब्दे द्रष्टव्यम् ॥

पिपीतकी, स्त्री, (पिपीतको ब्राह्मणविशेषः प्रवर्त्त-

कतयास्त्यत्रेति । अच् । गौरादित्वात् ङीष् ।)
वैशाखशुक्लद्वादशी । तत्र कर्त्तव्यव्रतं यथा, --
शतानीक उवाच ।
“जलदानस्य माहात्म्यं यत्त्वया परिकीर्त्तितम् ।
तदहं श्रोतुमिच्छामि पिपीतकीकथां शुभाम् ॥
पुरा केन कृतञ्चैतत् केन चैतत् प्रकाशितम् ।
कथं पिपीतकीनाम विधानञ्चैव कीदृशम् ॥
तत् सर्व्वं ब्रूहि देवर्षे ! यदि तुष्टो मयि प्रभो ! ॥
नारद उवाच ।
शृणु राजन् ! प्रवक्ष्यामि द्वादशीं तां पिपी-
तकीम् ।
यां कृत्वा यमलोकाद्वै प्राप्यते वैष्णवं पदम् ॥
पिपीतक इति ख्यातो ब्राह्मणः संशितव्रतः ।
तपःस्वाध्यायनिरतः सर्व्वप्राणिहिते रतः ॥
शान्तो दान्तः क्षमायुक्तो बलिहोमपरायणः ।
निवसन् निर्जनेऽरण्ये बहून् कालान् द्विजोत्तमः ॥
चिरं कृत्वा तपोऽरण्ये काले मृत्युमुपेयिवान् ॥
ततः कालेन कियता यमदूतैर्महाबलैः ।
नीयमानः स विप्रेन्द्रो यमलोकं भयावहम् ॥
ददर्श बहुशस्तत्र नरान्निरयसंस्थितान् ॥
असिपत्राद्यनेकेषु कुम्भीपाकेषु संस्थितान् ।
कृतार्त्तरावांस्तान् दृष्ट्वा विषादमगमद्द्विजः ।
क्षुत्पिपासाकुलो भूत्वा प्रेतराजवशं गतः ॥
बहून् वस्त्रावृतान् कुम्भान् ददृशेऽतिमनो-
हरान् ।
प्रदेशानीप्सितांस्तत्र प्रासादैरुपशोभितान् ॥
गीतवाद्यादिनृत्यैश्च सेव्यमानः समन्ततः ।
क्वचित् प्रहरमाणांश्च किङ्करैर्यमशासनैः ॥
नीयमानांस्ततः प्रेतान् वध्यमानान् स्वकर्म्मभिः ।
शोकसन्तापसंयुक्तान् तृषया परिपीडितः ॥
संपश्यमानो राजेन्द्र ! ययाचे किङ्करान् जलम् ।
बहुशो याच्यमानैश्च किङ्करैरभिताडितः ॥
स नीयमानो ददृशे बहुशाखं द्रुमोत्तमम् ।
सुच्छायं शीतलं रम्यं महान्तं पिप्पलद्रुमम् ॥
तत्रैव सजलान् कुम्भान् माल्यग्रीवान् सुशो-
भितान् ।
ददर्शवस्त्रावृतमुखान् सुवासितसुशीतलान् ॥
रक्षन्ति बहवस्तत्र किङ्कराः शस्त्रपाणयः ।
तोयदर्शनमात्रेण साह्लादो ब्राह्मणोऽभवत् ॥
विनयावनतो भूत्वा ययाचे किङ्कराज्जलम् ।
ब्राह्मण उवाच ।
यमदूता महात्मानस्तोयं मे दीयतामिति ।
अप्राप्य तोयं प्राणानां विनाशो जायते
ध्रुवम् ॥
तस्मात्तोयप्रदानेन प्राणान्रक्षत मेऽधुना ।
श्रुत्वा विप्रस्य तद्वाक्यं तमूचुर्यमकिङ्कराः ॥
न कृतं कर्म्म तद्विप्र ! येन तोयञ्च लभ्यते ॥
प्रार्थयानः पुनस्तोयं यमदूतैः स ताडितः ॥
तृषार्त्तवचनं श्रुत्वा यमः प्रोवाच तं द्विजम् ।
ब्रूहि त्वं विप्र ! मा रोदीः का ते पीडास्ति
चेतसि ॥
पुनर्ययाचे तत्तोयं तृषाव्याकुलचेतनः ।
श्रुत्वा विप्रस्य तद्वाक्यं तमुवाच स धर्म्मराट् ॥
त्वया तन्न कृतं कर्म्म येन वै लभ्यते जलम् ॥
ब्राह्मण उवाच ।
त्वयि प्रसन्ने दिक्पाल ! तत्तोयं दुर्लभं न मे ।
तस्मात्तोयप्रदानेन प्राणरक्षां कुरु प्रभो ! ॥
इत्थं बहुविधैर्व्वाक्यैर्यमः प्रीतोऽभवत्तदा ॥
यम उवाच ।
वरं वरय विप्रेन्द्र ! यत्ते मनसि वर्त्तते ॥
ब्राह्मण उवाच ।
यदि तुष्टोऽसि मे देव ! येन प्राप्तोऽस्मि तज्जलम् ।
तत् कुरुष्व धर्म्मराज ! सर्व्वप्राणेश्वर ! प्रभो ! ॥
पृष्ठ ३/१५१
यम उवाच ।
वैष्णवं तद्व्रतं विप्र ! कुरु गत्वा निजालयम् ।
विधानं शृणु विप्रेन्द्र ! द्वादशी यादृशी भवेत् ॥
वैशाखे शुक्लपक्षस्य द्बादशी वैष्णवी तिथिः ।
तस्यां सुशीतलजलैः स्नापयेत् केशवं प्रभुम् ॥
पूजयेद्गन्धपुष्पाद्यैर्धूपदीपैर्विधानतः ॥
नैवेद्यैर्विविधैश्चैव ताम्बूलैरथ वाससा ॥
जप्त्वा तु वैष्णवं मन्त्रं दण्डवत् प्रणमेत्ततः ।
दद्याद्द्विजेभ्यो विधिवत् कुम्भांस्तोयसमन्वितान् ।
प्रथमेऽब्दे चतुःकुम्भान् दद्याल्लवणसंयुतान् ॥
शुक्लवस्त्रावृतमुखानुपवीतसुसंयुतान् ।
धनुर्व्वाणसमायुक्तान् सभोज्यदक्षिणान्वितान् ॥
द्वितीयेऽष्टौ घटान्दद्याद्दधिशर्करसंयुतान् ।
तृतीये द्वादश घटान् तिलमोदकसंयुतान् ॥
चतुर्थे षोडशघटान् दुग्धलड्डुकसंयुतान् ।
दद्यात् संपूज्य देवेशं द्विजातिभ्यः प्रयत्नतः ॥
दक्षिणां शक्तितो दद्यात् भोज्यञ्चैव विशेषतः ।
यत्र कुत्रापि संगच्छेन्न कुत्रापि तृषान्वितः ॥
ततो द्विजो गृहं गत्वा चकार द्वादशीव्रतम् ॥
अन्ते जगाम स्वर्लोकं वैष्णवं पदमुत्तमम् ॥
पिपीतकीति नाम्नातो विख्यातो वैष्णवी तिथिः ।
नरो यः कुरुते भक्त्या नारी वा भक्तिसंयुता ।
इह पुत्त्रादिसम्पन्ना धनधान्यसुतान्विता ॥”
इति भविष्यपुराणे पिपीतकीव्रतकथा समाप्ता ॥

पिपीलकः, पुं, (अपिपीलतीति । अपि + पील स्तम्भने

+ ण्वुल् । अपेरल्लोपः ।) पीलकः । इति हेमचन्द्रः ।
४ । २७२ ॥ डेउया पिँपीडा इति भाषा ॥

पिपीलिका, स्त्री, (पिपीलक + टापि अत इत्वम् ।)

हीनाङ्गी । इति हेमचन्द्रः । ४ । २७३ ॥ क्षुदे
पिँपीडा इति भाषा ॥ तत्पर्य्यायः । पिपी-
लिकः २ पिपीलः ३ पीलकः ४ । इति शब्द-
रत्नावली ॥ पिपीली ५ पिपिली ६ स्त्रीसंज्ञा
७ । इति राजनिर्घण्टः ॥ हीरा ८ । इति
त्रिकाण्डशेषः ॥ (यथा, हरिवंशे । २४ । ४ ।
“श्रुत्वा तु याच्यमानां तां क्रुद्धां सूक्ष्मपिपीलि-
काम् ।
ब्रह्मदत्तो महाहासमकस्मादेव चाहसत् ॥”)

पिपीली, स्त्री, (अपिपीलतीति । पील् + अच् ।

अपेरलोपः । ततो गौरादित्वात् ङीष् ।) पिपी-
लिका । इति राजनिर्घण्टः ॥

पिप्पटा, स्त्री, खाद्यद्रव्यविशेषः । तत्पर्य्यायः ।

गुडशर्करा २ । इति त्रिकाण्डशेषः ॥

पिप्पलं, क्ली, (पीयते इति । पा + अलच् । पृषो-

दरादित्वात् साधुः ।) जलम् । वस्त्रच्छेदभेदः ।
इति मेदिनी । ले, १११ ॥

पिप्पलः, पुं, (पिप्पलं जलं सिच्यमानत्वेनास्त्यस्य

मूलावच्छेदे इति । पिप्पल + “अर्शआदिभ्यो-
ऽच् ।” ५ । २ । १२७ । इत्यच् ।) अश्वत्थवृक्षः ।
(यथा, महाभारते । २ । २१ । ८ ।
“वनराजीस्तु पश्येमाः पिप्पलानां मनोरमाः ।
लोध्राणाञ्च शुभाः पार्थ ! गौतमौकःसमी-
पजाः ॥”)
निरंशुकः । पक्षिभेदः । इति मेदिनी । ले,
११२ ॥ * ॥ अश्वत्थस्वरूपं यथा, --
नारद उवाच ।
“अनायासेन यन्मर्त्त्यः सर्व्वान् कामानवाप्नुयात् ।
सर्व्वदेवात्मकञ्चैव तन्मे ब्रूहि पितामह ! ॥
ब्रह्मोवाच ।
शृणु नारद ! यत्नेन शुद्धं सर्व्वात्मकं गुरुम् ।
प्रदक्षिणीकृत्य नित्यं नराणां सर्व्वकामदम् ॥
पूजयेत् परया भक्त्या सर्व्वसिद्भियुतो भवेत् ।
अश्वत्थं पूजयेद्विप्र ! सर्व्वसिद्धिविधायकम् ॥ * ॥
अश्वत्थदक्षिणे रुद्रः पश्चिमे विष्णुरेव च ।
ब्रह्मा चोत्तरतस्तस्य पूर्ब्बे चेन्द्रादिदेवताः ॥
स्कन्धे स्कन्धे च पत्रेषु ब्राह्मणा ऋषयः स्मृताः ।
तस्य मूले सर्व्ववेदाः श्रद्धा तस्य द्रुमाश्रिता ॥
नदीनदाः सागराद्याः पूर्ब्बस्यान्दिशि संस्थिताः ।
लोकधर्म्मान् समाश्रित्य तस्मात्तं सेवयेन्नरः ॥
पुराणस्मृतिमन्त्रेभ्यः सारसुद्धृत्य सञ्चितम् ।
निष्ठाप्रतिष्ठितं सम्यगश्वथं सेवयेन्नरः ॥
त्वं क्षीरी फलितश्चैव शीतलश्च वनस्पते ! ।
त्वामाराध्य नरो हन्यात् दैहिकाधिष्ठितं मलम् ॥
अश्वत्थ ! यस्मात् त्वयि वृक्षराज !
नारायणस्तिष्ठति सर्व्वकारणम् ।
अतः शुचिस्त्वं सततं तरूणां
विशेषतोऽरिष्टविनाशनोऽसि ॥
क्षीरोदमथने चैव यथा श्रीस्त्वामुपासते ।
सत्येन तेन वृक्षेन्द्र ! आशीर्मयि निषेवतु ॥
एकादशोऽसि रुद्राणां वसूनाञ्चाष्टमस्तथा ।
नारायणोऽसि देवानां वृक्षाणामसि पिप्पलः ॥
अग्निगर्भस्त्वमश्वत्थ ! देवगर्भः प्रजापतिः ।
हरिर्यथैव श्रीगर्भो यज्ञगर्भ ! नमोऽस्तु ते ॥
अरातेरग्निरश्वत्थ ! परापर ! नमोऽस्तु ते ।
निर्वाते त्वभिवर्षन्तु स्वस्ति तेऽस्तु नमोऽस्तु ते ॥
अक्षिस्पन्दं भुजस्पन्दं दुःस्वप्नं दुर्निरीक्षितम् ।
शत्रूणाञ्च समुत्थानमश्वत्थ ! शमयाशु मे ॥
यं स्पृष्ट्वा मुच्यते रोगैः सर्व्वपापैः प्रमुच्यते ।
समाश्लिष्य च दीर्घायुस्तमश्वत्थं नमाम्यहम् ॥
अश्वत्थ ! सुमहाभाग ! सर्व्वदा प्रियदर्शन ! ।
दिव्यान्नभोजनं देहि शत्रूणाञ्च पराजयम् ॥
आयुः प्रजां धनं धान्यं सौभाग्यं सर्व्वदा
सुखम् ।
देहि देव महावृक्ष ! त्वामहञ्चाभिवादये ॥
अश्वत्थ ! देवमूलस्त्वमृषिभिः प्रोच्यते सदा ॥
ब्रह्महा गुरुहा चैव दरिद्रो व्याधिपीडितः ।
आवृत्य दशलक्षन्तु शुद्धः पापातिगो भवेत् ॥
ब्रह्मचारी हविष्याशी अधःशायी जितेन्द्रियः ।
पापापहन्ता मर्त्यस्तु व्रतमेतत् समाचरेत् ॥
एकहस्तं द्विहस्तं वा कुर्य्याद्गोमयलेपनम् ।
अश्वत्थे स्थापिते यस्तु मूले स्नपनमाचरेत् ॥
धनायुःसन्ततैर्वृद्धो नरकात्तारयेत् पितॄन् ॥
अश्वत्थमूलमासाद्य शाकेनान्नोदकेन वा ।
एकं वा भोजयेद्विप्रं कोटि कोटि फलं भवेत् ॥
अश्वत्थमूलमासाद्य तपो होमः सुरार्च्चनम् ।
अक्षयं मुनिशार्दूल ! ब्रह्मणो वचनं यथा ॥
एवं समर्च्चितोऽश्वत्थः सर्व्वसौख्यप्रदो भवेत् ।
यज्ञार्थं छेदितोऽश्वत्थः सर्व्वारोग्यप्रदो भवेत् ॥
अश्वत्थः पूजितो येन पूजिताः सर्व्वदेवताः ।
अश्वत्थश्छेदितो येन छेदिताः सर्व्वदेवताः ॥
अन्तःशुद्धः सुसन्तुष्टोऽश्वत्थो देवमयो गुरुः ।
स सेव्यः पूजनीयश्च गुणत्रयविनाशकः ॥
भृग्वर्कवारे भौमे च मध्याह्ने निशि सन्ध्ययोः ।
अश्वत्थदर्शनं कार्य्यं कुलक्षयभयात्मभिः ॥ * ॥
अश्वत्थस्य जले यस्य छाया तिष्ठति कुत्रचित् ।
तत् प्रयागसमं तीर्थं तत्र सन्निहितो हरिः ॥
तस्मात् कार्त्तिकमासेऽत्र पूर्ब्बोक्तविधिना मुने ! ।
अश्वत्थं सेचयेद्विद्वान् संप्रदक्षिणमादिशेत् ॥
पापोपहतमर्त्यानां पापनाशो भवेद्ध्रुवम् ।
सकामो लभते कामं निष्कामो मोक्षमाप्नुयात् ॥
यः पठेत् शृणुयाद्वापि अश्वत्थस्य समीपतः ।
सर्व्वान् कामानवाप्नोति विष्णुसायुज्यमाप्नुयात् ॥”
इति पाद्मोत्तरखण्डे १२६ अध्यायः ॥
ऋषय ऊचुः ।
“कथं त्वयाश्वत्थवटौ गोब्राह्मणसमौ कृतौ ।
सर्व्वेभ्योऽपि तरुभ्यस्तौ कथं पूज्यतमौ कृतौ ॥
सूत उवाच ।
अश्वत्थरूपो भगवान् विष्णुरेव न संशयः ।
रुद्ररूपो वटस्तद्वत् पलाशो ब्रह्मरूपधृक् ॥
दर्शनस्पर्शसेवासु ते वै पापहराः स्मृताः ।
दुःखापद्ब्याधिदुष्टानां विनाशकारिणो ध्रुवम् ॥
ऋषय उचुः ।
कथं वृक्षत्वमापन्ना ब्रह्मविष्णुमहेश्वराः ।
एतत् कथय सर्व्वज्ञ ! संशयोऽत्र महान् हि नः ॥
सूत उवाच ।
पार्व्वतीशिवयोर्द्देवैः सुरतं कुर्व्वतोः किल ।
अग्निं ब्राह्मणवेशेन प्रेष्य विघ्नः कृतः पुरा ॥
ततस्तु पार्व्वती क्रुद्धा शशाप त्रिदिवौकसः ।
रेतःसेकसुखभ्रंशकम्पमाना तदा रुषा ॥
पार्व्वत्युवाच ।
क्रिमिकीटादयोऽप्येते जानन्ति सुरतेः सुखम् ।
तस्मान्मम सुखभ्रंशाद्यूयं वृक्षत्वमाप्स्यथ ॥
सूत उवाच ।
एवं सा पार्व्वती देवी अशपत् क्रुद्धमानसा ।
तस्माद्वृक्षत्वमापन्ना ब्रह्मविष्णुमहेश्वराः ॥
तस्मादिमौ विष्णुमहेश्वरावुभौ
बभूवतुर्ब्बोधिवटौ मुनीश्वराः ! ।
बोधिस्त्वयं चार्किदिनं विनैव
नस्पृश्यतामर्कजवारयोगात् ॥
ऋषय ऊचुः ।
अस्पृश्यत्वं कथं यातः सूत ! बोधितरुः स्वयम् ।
स्पृश्यत्वञ्च कथं प्राप्तस्तथायं शनिवासरे ॥
सूत उवाच ।
समुद्रमथनाद्यानि रत्नान्यापुः सुरोत्तमाः ।
श्रेष्ठञ्च कौस्तुभं तेषु विष्णवे प्रददुः सुराः ॥
यावदङ्गीचकारासौ लक्ष्मीं भार्य्यार्थमात्मनः ।
तावत् विज्ञापयामास लक्ष्मीस्तं चक्रपाणिनम् ॥
पृष्ठ ३/१५२
लक्ष्मीरुवाच ।
असंस्कृत्य कथं ज्येष्ठां कनिष्ठा परिणीयते ।
तस्मात्त्वमग्रजामेतामलक्ष्मीं मधुसूदन ! ॥
विवाह्योद्वह मां पश्चादेष धर्म्मः सनातनः ।
तस्माद्धर्म्मव्यतिक्रामं न कुर्य्या मधुसूदन ! ॥
सूत उवाच ।
इति तद्वचनं श्रुत्वा स विष्णुर्लोकभावनः ।
उद्दालकाय मुनये सुदीर्घतपसे तदा ।
आप्तवाक्यानुरोधेन तामलक्ष्मीं ददौ किल ॥
स्थूलोष्ठीं शुष्कवदनां विरूपां बिभ्रतीं तनुम् ।
सवदारक्तनयनां रूक्षपिङ्गशिरोरुहाम् ॥
स मुनिर्विष्णुवाक्यात्तामङ्गीकृत्य स्वमाश्रमम् ।
वेदध्वनिसमायुक्तमानयामास धर्म्मवित् ॥
होमधूमसुगन्धाढ्यं वेदघोषेण नादितम् ।
आश्रमन्तं विलोक्याथ व्यथिता साब्रवीदिदम् ॥
ज्येष्ठोवाच ।
नहि वासोऽनुरूपोऽयं वेदध्वनियुतो मम ।
नात्रागमिष्ये भो ब्रह्मन् ! नयस्वान्यत्र मां ध्रुवम् ॥
उद्दालक उवाच ।
कथं नायासि किञ्चात्र वर्त्तते स्वमतं तव ।
तव योग्या च वसतिः का भवेत्तद्वदस्व माम् ॥
ज्येष्ठोवाच ।
वेदध्वनिर्भवेद्यस्मिन्नतिथीनाञ्च पूजनम् ।
यज्ञदानादिकं यत्र नैव तत्र वसाम्यहम् ॥
परस्परानुरागेण दाम्पत्यं यत्र विद्यते ।
पितृदेवार्च्चनं यत्र तत्र नैव वसाम्यहम् ॥
दानशौचे न विद्येते परद्रव्यापहारिणः ।
परदाररता यत्र तत्र स्थाने रतिर्म्मम ॥
वृद्धसज्जनविप्राणां यत्र स्यादपमाननम् ।
निष्ठुरं भाषणं यत्र तत्र सम्यग्वसाम्यहम् ॥
सूत उवाच ।
इति तद्बचनं श्रुत्वा विषण्णवदनोऽभवत् ।
उद्दालकस्ततो वाक्यं तामलक्ष्मीमुवाच ह ॥
उद्दालक उवाच ।
अश्वत्थवृक्षमूलेऽस्मिन्नलक्ष्मि ! श्राम्यतां क्षणम् ।
आश्रमस्थानमालोक्य यावदायाम्यहं पुनः ॥
सूत उवाच ।
इति तां तत्र संस्थाप्य जगामोद्दालको मुनिः ।
प्रतीक्षन्ती चिरं तत्र यदा तं न ददर्श सा ॥
तदा रुरोदे करुणं भर्त्तुस्त्यागेन दुःखिता ॥
तत्तस्याः क्रन्दितं लक्ष्मीर्वैकुण्ठभवनेऽशृणोत् ।
तदा विज्ञापयामास विष्णुमुद्विग्नमानसा ॥
लक्ष्मीरुवाच ।
स्वामिन् ! मद्भगिनी ज्येष्ठा स्वामित्यागेन
दुःखिता ।
तामाश्वासयितुं याहि कृपालो ! यद्यहं प्रिया ॥
सूत उवाच ।
लक्ष्म्या सह ततो विष्णुस्तत्रागात् कृपयान्वितः ।
आश्वासयन्नलक्ष्मीं तामिदं वाक्यमथाब्रवीत् ॥
विष्णुरुवाच ।
अश्वत्थवृक्षमासाद्य सदालक्ष्मि ! स्थिरा भव ।
ममांशसम्भवो ह्येष आवासस्ते मया कृतः ॥
मन्दवारे सदा नूनं लक्ष्मीरत्रागमिष्यति ।
अस्पृश्योऽसौ भवेत्तस्मान्मन्दवारं विना किल ॥
प्रत्यब्दमर्च्चयिष्यन्ति त्वां ज्येष्ठां गृहधर्म्मिणः ।
तेष्वियं श्रीः कनिष्ठा ते सदा तिष्ठत्वनामया ॥”
इति पाद्मोत्तरखण्डे । १६० -- १६१ । अध्यायौ ॥
(रेवत्यां जातो मित्रस्य पुत्त्रविशेषः । यथा,
भागवते । ६ । १८ । ६ ।
“रेतः सिषिचतुः कुम्भे उर्व्वश्याः सन्निधौ द्रुतम् ।
रेवत्यां मित्र उत्सर्गमरिष्ठं पिप्पलं व्यधात् ॥”)

पिप्पलकं, क्ली, (पीयते इति । पा + अलच् ।

पृषोदरादित्वात् साधुः । ततः संज्ञायां कन् ।)
स्तनवृन्तम् । सीवनसूत्रम् । इति मेदिनी । के,
१९८ ॥

पिप्पलिः, स्त्री, (पिपर्त्तीति । पॄ लि पूर्त्तौ + बाहु-

लकात् अलच् । गौरादित्वात् ङीष् । ह्नस्वः ।
पृषोदरादित्वात् साधुः ।) पिप्पली । इति
शब्दरत्नावली ॥

पिप्पली, स्त्री, (पिपर्त्तीति + पॄ + बाहुलकात्

अलच् । पृषोदरादित्वात् साधुः । गौरादित्वात्
ङीष् ।) वृक्षविशेषः । पिँपुल इति भाषा ॥
तत्पर्य्यायः । कृष्णा २ उपकुल्या ३ वैदेही ४
मागधी ५ चपला ६ कणा ७ उषणा ८ शौण्डी
९ कोला १० । इत्यमरः । २ । ४ । ९७ ॥
ऊषणा ११ पिप्पलिः १२ । इति भरतः ॥
कृकला १३ कटुबीजा १४ कोरङ्गी १५ तिक्त-
तण्डुला १६ श्यामा १७ दन्तफला १८ मगघो-
द्भवा १९ । अस्या गुणाः । ज्वरनाशित्वम् ।
वृष्यत्वम् । स्निग्धत्वम् । उष्णत्वम् । कटुत्वम् ।
तिक्तत्वम् । दीपनत्वम् । मारुतश्वासकासश्लेष्म-
क्षयापहत्वञ्च । इति राजनिर्घण्टः ॥ स्वादु-
पाकत्वम् । रसायनत्वम् । लघुत्वम् । पित्तल-
त्वम् । रेचनत्वम् । कुष्ठप्रमेहगुल्मार्शःप्लीह-
शूलामनाशित्वञ्च ॥ आर्द्रायास्तस्या गुणाः ।
कफप्रदत्वम् । स्निग्धत्वम् । शीतलत्वम् । मधुर-
त्वम् । गुरुत्वम् । पित्तप्रशमनत्वञ्च । राजवल्लभे
तु कफापहत्वम् । मधुयुक्तायास्तस्या गुणाः ।
मेदःकफश्वासकासज्वरहरत्वम् । वृष्यत्वम् ।
मेधाग्निवर्द्धनत्वञ्च । गुडपिप्पलीगुणाः । जीर्ण-
ज्वरे अग्निमान्द्ये च शस्तत्वम् । कासाजीर्णा-
रुचिश्वासहृत्पाण्डुकृमिनाशित्वञ्च । द्विगुणात्
पिप्पलीचूर्णाद्गुडोऽत्र भिषजां मतः । इति
भावप्रकाशः ॥ (ऋष्यवन्तपर्व्वतान्निःसृतो नदी-
विशेषः । यथा, मांत्स्ये । ११३ । २५ ।
“तमसा पिप्पली श्येनी तथा चित्रोत्पलापि
च ॥”)

पिप्पलीका, स्त्री, अश्वत्थीवृक्षः । इति राज-

निर्घण्टः ॥

पिप्पलीमूलं, क्ली, (पिप्पल्या मूलमिव मूलमस्य ।)

स्वनामख्यातमूलम् । पिँपुलमूल इति भाषा ।
तत्पर्य्यायः । ग्रन्थिकम् २ चटिकाशिरः ३ ।
इत्यमरः । २ । ९ । ११० ॥ षड्ग्रन्थि ४ । इति
रत्नमाला ॥ मूलम् ५ कोलमूलम् ६ कटुग्रन्थि ७
कटुमूलम् ८ कटूषणम् ९ सर्व्वग्रन्थि १० पत्रा-
ढ्यम् ११ विरूपम् १२ शोषसम्भवम् १३
सुगन्धि १४ ग्रन्थिलम् १५ । इति राजनिर्घण्टः ॥
उषणम् १६ । अस्य गुणाः । दीपनत्वम् ।
कटुत्वम् । पाचनत्वम् । लघुत्वम् । रूक्षत्वम् ।
पित्तकरत्वम् । भेदकत्वम् । कफवातोदरानाह-
प्लीहगुल्मकृमिश्वासक्षयापहत्वञ्च । इति भाव-
प्रकाशः ॥ उष्णत्वम् । रोचनत्वम् । इति राज-
निर्घण्टः ॥

पिप्पिका, स्त्री, दन्तमलम् । इति हेमचन्द्रः ।

३ । २९६ ॥

पिप्लुः, पुं, (अपि प्लवते देहोपरि इति । अपि +

प्लु + डुः । अपेरल्लोपः ।) जटुलः । इत्यमरः ।
२ । ६ । ४९ ॥

पियालः, पुं, (पीयते तर्पयतीति । पीय + “पीयु-

कणिभ्यां कालन् ह्नस्वः सम्प्रसारणञ्च ।” उणां
३ । ७६ । इति कालन् ह्नस्वश्च ।) वृक्षविशेषः ।
अस्यैव बीजं चिरौञ्जीति ख्यातम् । तत्पर्य्यायः ।
राजादनम् २ सन्नकद्रुः ३ धनुष्पटः ४ । इत्य-
मरः । २ । ४ । ३५ ॥ राजातनम् ५ राजातनः
६ प्रियालः ७ सन्नः ८ कद्रुः ९ धनुः १० पटः
११ । इति तट्टीका ॥ ह्नसन्नकः १२ धन्वपटः
१३ पियालकः १४ । इति शब्दरत्नावली ॥
खरस्कन्धः १५ चारः १६ बहुलवल्कलः १७
तापसेष्टः १८ ॥ (यथा, भागवते । ८ । २ । १० ।
“चूतैः पियालैः पनसैराम्रैराम्रातकैरपि ॥”)
तस्य गुणाः । पित्तकफास्रनाशित्वम् । इति
भावप्रकाशः ॥ अस्य फलगुणाः । मधुरत्वम् ।
स्निग्धत्वम् । बृंहणत्वम् । वातपित्तनाशित्वञ्च ।
इति राजवल्लभः ॥ गुरुत्वम् । सरत्वम् । दाह-
ज्वरतृषापहत्वञ्च । तस्य मज्जगुणाः । मधु-
रत्वम् । वृष्यत्वम् । पित्तानिलापहत्वम् । हृद्य-
त्वम् । अतिदुर्जरत्वम् । स्निग्धत्वम् । विष्टम्भि-
त्वम् । आमवर्द्धनत्वञ्च । इति भावप्रकाशे पूर्ब्ब-
खण्डे प्रथमो भागः ॥

पिल, क नुदि । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) क, पेलयति । नुदि प्रेरणे ।
इति दुर्गादासः ॥

पिलुकः, पुं, (अपिलातीति । अपि + ला + बाहु-

लकात् डुः । अपेरलोपः । ततः कन् ।) पीलु-
वृक्षः । इति शब्दरत्नावली ॥

पिलुपर्णी, स्त्री, (पिलोरिव पर्णमस्याः । ङीष् ।)

मोरटा । इति रत्नमाला ॥

पिल्लः, पुं, (क्लिन्ने चक्षुषी यस्येति । “इनच्पिट-

च्चिकचि च ।” ५ । २ । ३३ । इत्यत्र “क्लिन्नस्य
चिल्पिल्लश्चास्य चक्षुषी ।” इति वार्त्तिकोक्त्या
पिल्लादेशः ।) क्लेदयुक्तचक्षुः । (अस्य चिकित्सा
यथा, --
“ताम्रपात्रे गुहामूलं सिन्धूत्थमरिचान्वितम् ।
आरनालेन संघृष्टमञ्जनं पिल्लनाशनम् ॥”
इति वैद्यकचक्रपाणिसंग्रहे नेत्ररोगाधिकारे ॥)
तद्युक्ते, त्रि । इत्यमरः । २ । ६ । ६० ॥
पृष्ठ ३/१५३

पिल्लका, स्त्री, (पिल्लेन क्लेदयुक्तचक्षुषा काय-

तीति । कै + कः । टाप् ।) हस्तिनी । इति
शब्दमाला ॥

पिव, इ सेचने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) इ, पिन्व्यते । इति दुर्गादासः ॥

पिश, श प अवयवे । इति कविकल्पद्रुमः ॥

(तुदां-मुचां-परं अकं-सेट् ।) श प, पिंशति
पटः अवयवी स्यादित्यर्थः । इति दुर्गादासः ॥

पिशङ्गः, पुं, (पिंशतीति । पिश + “विडादिभ्यः

कित् ।” उणां । १ । १२० । इत्यङ्गच् स च कित् ।)
पिङ्गलवर्णः । तद्वति, त्रि । इत्यमरः । १ । ५ ।
१६ -- १७ ॥ (यथा, ऋग्वेदे । १ । ८८ । २ ।
“तेऽरुणेभिर्वरमा पिशङ्गैः शुभे कं यान्ति रथ-
तूर्भिरश्वैः ॥”
यथा च माघे । १ । ६ ।
“पिशङ्गमौञ्जीयुजमर्ज्जुनच्छविं
वसानमेणाजिनमञ्जनद्युति ।
सुवर्णसूत्राकलिताधराम्बरां
विडम्बयन्तं शितिवाससस्तनुम् ॥”
नागभेदः । यथा, महाभारते । १ । ५७ । १६ ।
“भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोद्रपारकः ॥”)

पिशाचः, पुं, (पिशितं मांसमश्नातीति । पिशित +

अश + “कर्म्मण्यण् ।” ३ । २ । १ । इति अण् ।
ततः “पृषोदरादीनि यथोपदिष्टम् ।” ६ । ३ ।
१०९ । इति शितभागस्य लोपः अशभागस्य
शाचादेशः ।) देवयोनिविशेषः । इत्यमरः । १ ।
१ । ११ ॥ पिचाश इति भाषा ॥ (यथा,
मनौ । १ । ३७ ।
“यक्षरक्षःपिशाचांश्च गन्धर्व्वाप्सरसोऽसुरान् ॥”
“यक्षो वैश्रवणस्तदनुचराश्च । रक्षांसि रावणा-
दीनि । पिशाचास्तेभ्योऽपकृष्टा अशुचिमरुदेश-
निवासिनः ।” इति तट्टीकायां कुल्लूकभट्टः ॥)
तस्य लोको यथा, --
“अन्तरीक्षचरा ये च भूतप्रेतपिशाचकाः ।
वर्जयित्वा रुद्रगणांस्ते तत्रैव चरन्ति हि ॥
नोर्द्ध्वं विक्रमणे शक्तिस्तेषां सम्भृतपाप्मनाम् ।
अत ऊर्द्ध्वं हि विप्रेन्द्र ! राक्षसा ये कृतैनसः ।
ते तु सूर्य्यादधः सर्व्वे विहरन्त्यूर्द्ध्ववर्जिताः ॥”
इति पाद्मे स्वर्गखण्डे १५ अध्यायः ॥
प्रेतः । यथा, शुद्धितत्त्वे ।
“अशौचान्ताद्द्वितीयेऽह्नि यस्य नोत्सृज्यते वृषः ।
पिशाचत्वं भवेत्तस्य दत्तैः श्राद्धशतैरपि ॥”

पिशाचकी, [न्] पुं, (पिशाचाः सन्त्यस्येति ।

“वातातीसाराभ्यां कुक् च ।” ५ । २ । १२९ ।
इत्यत्र “पिशाचाच्च ।” इति वार्त्तिकोक्त्या इनिः
कुक् च ।) कुवेरः । इति हेमचन्द्रः । २ । १० । ३ ॥

पिशाचद्रुः, पुं, (पिशाचानां द्रुः पिशाचप्रियो द्रुर्वा

निविडत्वादन्धकारवत्त्वादशुचिस्थानजातत्वाच्च ।)
शाखोटवृक्षः । इति त्रिकाण्डशेषः ॥ (शाखोट-
शब्देऽस्य विवृतिर्ज्ञातव्या ॥)

पिशाचवृक्षः, पुं, (पिशाचानां वृक्षः पिशाचप्रियो

वृक्षो वा ।) शाखोटवृक्षः । इति रत्नमाला ॥

पिशाचसभं, क्ली, पिशाचानां सभा । इति नपुं-

सकलिङ्गसंग्रहटीकायां भरतः ॥

पिशाची, स्त्री, (पिशाच + ङीष् ।) पिशाचिका ।

स्त्री पिशाची । इति शब्दमाला ॥ (पिशाच-
वद्गन्धोऽस्त्यस्या इति । अच् ततो ङीष् ।
तद्वद्गन्धयुक्तत्वात् तथात्वम् ।) गन्धमांसी ।
इति राजनिर्घण्टः ॥

पिशितं, क्ली, (पिंशति अवयवीभवतीति । पिश

+ “पिशेः किच्च ।” उणां । ३ । ९५ । इति
इतन् स च कित् । यद्वा, पिश्यते स्मेति । क्तः ।)
मांसम् । इत्यमरः । २ । ६ । ६३ ॥ (यथा,
मार्कण्डेयपुराणे । २५ । १७ ।
“हासोऽस्थिसन्दर्शनमक्षियुग्म-
मत्युज्ज्वलं तर्ज्जनमङ्गनायाः ।
कुचादि पीनं पिशितं घनं तत्
स्थानं रतेः किं नरकं न योषित् ॥”)

पिशिता, स्त्री, (पिशितवद्गन्धोऽस्त्यस्या इति ।

अच् ततष्टाप् ।) जटामांसी । इति मेदिनी ।
ते, ३३ ॥

पिशिताशी, [न्] त्रि, (पिशितं अश्नातीति ।

अश् + णिनिः ।) शाष्कुलः । मांसभक्षकः । इति
हेमचन्द्रः । ३ । ९३ ॥ (यथा, महाभारते ।
१ । ८४ । १४ ।
“सङ्कीर्णाचारधर्म्मेषु प्रतिलोमचरेषु च ।
पिशिताशिषु चान्त्येषु मूढ ! राजा भवि-
ष्यसि ॥”)

पिशी, स्त्री, (पिंशतीति । पिश + कः । गौरादि-

त्वात् ङीष् ।) जटामांसी । इति राजनिर्घण्टः ॥
(जटामांसीशब्देऽस्या गुणादयो ज्ञातव्याः ॥)

पिशुनं, क्ली, (पिंशतीति । पिश + “क्षुधिपिशि-

मिथः कित् ।” उणां ३ । ५५ । इति उनन् ।
स च कित् ।) कुङ्कुमम् । इत्यमरः । २ । ६ ।
१२४ ॥ (पर्य्यायोऽस्य यथा, --
“कुङ्कुमं घुसृणं रक्तं काश्मीरं पीतकं वरम् ।
सङ्कोचं पिशुनं धीरं वाह्लीकं शोणिताभिधम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

पिशुनः, पुं, (पिश + उनन् । स च कित् ।) कपि-

वक्त्रः । नारदः । काकः । इति मेदिनी । ने, ९२ ॥
(अङ्गधृषः पुत्त्रः । यथा, मार्कण्डेये । ५१ । ६५ ।
“अङ्गधृक् तनयं लेभे पिशुनं नाम नामतः ॥”
कौशिकस्य पुत्त्रभेदः । यथा, हरिवंशे । २१ । ५-६ ।
“वाग्दुष्टः क्रोधनो हिंस्रः पिशुनः कविरेव च ।
खसृमः पितृवर्त्ती च नामभिः कर्म्मभिस्तथा ॥
कौशिकस्य सुतास्तात ! शिष्या गार्ग्यस्य
भारत ! ।
पितर्य्युपरते सर्व्वे व्रतवन्तस्तदाभवन् ॥”)

पिशुनः, त्रि, (पिश + उनन् । स च कित् ।)

अप्रकाशेनानुचितप्रबोधकः । परस्परभेदशीलः ।
इत्यमरटीकायां भरतः ॥ तत्पर्य्यायः ।
“द्विजिह्वः सूचकः कर्णेजपः पिशुन इत्यपि ।
दुर्जनो दुर्व्विधो विश्वकद्रुश्च पिशुनः खलः ॥”
इति जटाधरः ॥ * ॥
“कर्णेजपः सूचकः स्यादनौचित्यप्रबोधके ।
परस्परं भेदशीले पिशुनो दुर्जनः खलः ॥”
इति शब्दरत्नावली ॥
(यथा, आर्य्यासप्तशत्याम् । ५९ ।
“अनुग्रहेण न तथा व्यथयति कटुकूजितैर्यथा
पिशुनः ॥
रुधिरादानादधिकं दुनोति कर्णे क्वणन्
मशकः ॥”)
क्रूरः । इति मेदिनी । ने, ९२ ॥ (यथा, मनौ ।
३ । १६१ ।
“भ्रामरी गण्डमाली च श्वित्र्यथो पिशुनस्तथा ॥”)

पिशुना, स्त्री, (पिशुन + टाप् ।) पृक्का । इति

मेदिनी । ने, ९२ ॥ पिडिंशाक इति भाषा ॥
(पृक्काशब्देऽस्या गुणादयो ज्ञातव्याः ॥)

पिष, ध औ ऌ चूर्णने । इति कविकल्पद्रुमः ॥

(रुधां-परं-सकं-अनिट् ।) ध, पिनष्टि लोको
गोधूमम् । औ, पेष्टा । ऌ, अपिषत् । इति
दुर्गादासः ॥

पिष्टं, क्ली, (पिष्यते स्मेति । पिष + क्तः ।) सीस-

कम् । इति रत्नमाला ॥ पिष्टकः । यथा, --
“अन्नादष्टगुणं पिष्टं पिष्टादष्टगुणं पयः ।
पयसोऽष्टगुणं मांसं मांसादष्टगुणं घृतम् ।
घृतादष्टगुणं तैलं मर्द्दनान्न च भक्षणात् ॥” * ॥
अस्य गुणाः ।
“पिष्टं प्राणकरं रूक्षं विदाहि गुरु दुर्ज्जरम् ।
शालिपिष्टमया भक्ष्याः कफपित्तविनाशनाः ।
वैदला गुरवो भक्ष्या विष्टम्भिसृष्टमारुताः ॥
सगुडाः सतिलाश्चैव सक्षौद्रक्षारशर्कराः ।
भक्ष्या बल्याश्च हृद्याश्च गुरवो बृंहणाः परम् ॥
सस्नेहाः स्नेहसिक्ताश्च भक्ष्या गोधूमसम्भवाः ।
गुरवस्तर्पणा हृद्या बलोपचयवर्द्धनाः ॥
मर्द्दितां समितां क्षीरनारिकेलघृतादिभिः ।
अवग्राह्य घृते पक्त्वा घृतपूरोऽयमुच्यते ॥
घृतपूरो गुरुर्वृष्यः कफकृद्रक्तमांसदः ।
रक्तपित्तहरो हृद्यः स्वादुः पित्तहरोऽग्निदः ॥”
गोधूमचूर्णं समिता ।
“समिता मधुदुग्धेन खण्डैलामरिचादिभिः ।
घृते पक्त्वा क्षिपेत् खण्डे संयावो बृंहणो गुरुः ॥
समिता वेष्टिता मध्ये मधु दत्त्वा घृते शृता ।
मधुमस्तकमुद्दिष्टं तद्वृष्यं गुरु दुर्जरम् ॥”
इति राजवल्लभः ॥
पर्पटशस्कुलीफेनकवटलड्डुकानां गुणास्तत्त-
च्छब्दे द्रष्टव्याः ॥ * ॥ चूर्णीकृते, त्रि ॥ (यथा,
कथासरित्सागरे । ६ । ४१ ।
“कृत्वा तांश्चणकान् पिष्टान् गृहीत्वा जल-
कुम्भिकाम् ।
अतिष्ठं चत्वरे गत्वा छायायां नगराद् बहिः ॥”)

पिष्टकं, क्ली, (पिष्टमिव प्रतिकृतिः । इवार्थे कन् ।)

तिलचूर्णम् । इति राजनिर्घण्टः ॥

पिष्टकः, पुं, (पिष्टानां विकार इति । “संज्ञा-

याम् ।” ४ । ३ । १४७ । इति कन् ।) पिष्टानां
तण्डुलादीनां विकारः । पिटा इति भाषा ॥
पृष्ठ ३/१५४
तत्पर्य्यायः । पूपः २ अपूपः ३ । इत्यमरः ।
२ । ९ । ४८ ॥ आपूपः ४ पिष्टः ५ । इति शब्द-
रत्नावली ॥ अस्य गुणाः पिष्टशब्दे द्रष्टव्याः ।
नेत्ररोगविशेषः । इति मेदिनी । के, १२० ॥
तस्य लक्षणम् । यथा, --
“श्लेष्मा मारुतकोपेन शुक्ले पिष्टसमुन्नतम् ।
पिष्टवत् पिष्टकं विद्धि मलाक्तादर्शसन्निभम् ॥”
इति माधवकरः ॥
(अस्य चिकित्सा यथा, --
“वैदेही सितमरिचं सैन्धवं नागरं समम् ।
मातुलुङ्गरसैः पिष्टमञ्जनं पिष्टकापहम् ॥”
इति वैद्यकचक्रपाणिसंग्रहे नेत्ररोगाधिकारे ॥)

पिष्टपं, क्ली, पुं, (विशन्त्यत्र सुकृतिन इति ।

“विटपपिष्टपविशिपोलपाः ।” उणां । ३ । १४५ ।
इति कपप्रत्ययेन निपातनात् साधुः ।) भुवनम् ।
इत्यमररत्नकोषौ ॥ (यथा, मनौ । ४ । २३१ ।
“अनडुद्दः श्रियं पुष्टां गोदो व्रध्नस्य पिष्टपम् ॥”)

पिष्टपचनं, क्ली, (पच्यते अत्रेति । पच + आघारे

ल्युट् । पिष्टस्य पचनम् ।) पिष्टपाकपात्रम् ।
तेलानी इति ख्यातम् । इति सुभूतिः ॥ तत्-
पर्य्यायः । ऋजीषम् २ । इत्यमरः । २ । ९ । ३२ ॥
ऋचीषम् ३ । इति स्वामी ॥ पिष्टपाकभृत् ४ ।
इति हेमचन्द्रः ॥ (यथा, सुश्रुते चिकित्सित-
स्थाने सप्तविंशाध्याये ।
“विडङ्गतण्डुलानां द्रोणं पिष्टपचने पिष्टवदुत्-
स्वेद्येति ॥”)

पिष्टपाकभृत्, क्ली, (पिष्टपाकं कृदभिहितो भाबो

द्रव्यवत् प्रकाशते इति न्यायात् पच्यमानपिष्टं
बिभर्त्ति धारयतीति । भृ + क्विप् तुगागमश्च ।)
पिष्टकपाकपात्रम् । इति हेमचन्द्रः । ३ । ८६ ॥

पिष्टपूरः, पुं, (पिष्टैः पूर्य्यते इति । पूरि + कर्म्मणि

अप् ।) वटकः । इति भूरिप्रयोगः । पिष्टक-
विशेषः । तत्पर्य्यायः । घृतपूरः २ घृतवरः ३
घार्त्तिकः ४ । इति हेमचन्द्रः । ३ । ६४ ॥

पिष्टवर्त्तिः, पुं, (पिष्टं वर्त्तयतीति । वर्त्ति + इन् ।)

मुद्गमसूरादिपिष्टम् । तत्पर्य्यायः । चमसिः २ ।
इति हेमचन्द्रः । ३ । ६४ ॥

पिष्टसौरभं, क्ली, (पिष्टेन पेषणेन सौरभं यस्य ।)

चन्दनम् । इति हारावली । १०३ ॥

पिष्टातः, पुं, (पिष्टं अतति गच्छतीति । अत +

अण् ।) पटवासचूर्णम् । इति भरतः ॥ वस्त्रादि-
वासनार्थमेकीकृतगन्धद्रव्यचूर्णम् । इति सार-
सुन्दरी ॥ वृक्का । इति भानुदीक्षितः ॥ आवीर
इति ख्यातः । इति रमानाथनीलकण्ठौ ॥ तत्-
पर्य्यायः । पटवासकः २ । इत्यमरः । २ । ७ ।
१३९ ॥ धूलिगुच्छकः ३ । इति त्रिकाण्डशेषः ॥

पिष्टिकं, क्ली, (पिष्टमुत्पत्तिकारणत्वेनास्त्यस्येति ।

ठन् ।) तण्डुलोद्भवतवक्षीरम् । इति राज-
निर्घण्टः ॥

पिष्टिका, स्त्री, (पिष्टं पेषणं साधनतया अस्त्यस्या

इति । पिष्ट + ठन् । ततष्टाप् ।) पिष्टद्बिदलः ।
पिटी इति हिन्दीभाषा ॥ यथा, --
“दालिः संस्थापिता तोये ततोऽपहतकञ्चुका ।
शिलायां साधु संपिष्टा पिष्टिका कथिता बुधैः ॥”
इति भावप्रकाशः ॥

पिष्टोडी, स्त्री, श्वेताम्लिः । इति राजनिर्घण्टः ॥

पिस, इ कि द्युतौ । इति कविकल्पद्रुमः ॥ (चुरां-

पक्षे भ्वां-परं-अकं-सेट् । इदित् ।) इ, पिंस्यते ।
कि, पिंसयति पिंसति । द्युतिर्दीप्तिः । इति
दुर्गादासः ॥

पिस, ऋ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) ऋ, अपिपेसत् अपिपिसत् । पिपे-
सतुः पिपिसतुः । इति दुर्गादासः ॥

पिस, क षट्टार्थे । गत्याम् । इति कविकल्पद्रुमः ॥

(चुरां-परं-सकं-सेट् ।) क, पेसयति । मूर्द्धन्या-
न्तोऽयमिति केचित् । षट्टार्थो निकेतनहिंसा-
बलदानानि । इति दुर्गादासः ॥

पिहितं, त्रि, (अपि धीयते स्मेति । धा + क्तः ।

“दधातेर्हिः ।” ७ । ४ । ४२ । इति ह्यादेशः ।
अपेरल्लोपः ।) आच्छादितम् । तत्पर्य्यायः ।
संवीतम् २ रुद्धम् ३ आवृतम् ४ संवृतम् ५
छन्नम् ६ स्थगितम् ७ अपवारितम् ८ अन्त-
र्हितम् ९ तिरोधानम् १० । इति हेमचन्द्रः ॥
(यथा, महाभारते । ४ । ४४ । १८ ।
“ध्वजेन पिहिताः सर्व्वा दिशो न प्रतिभान्ति मे ।
गाण्डीवस्य च शब्देन कर्णौ मे वधिरीकृतौ ॥”)

पी, ङ य पाने । इति कविकल्पद्रुमः ॥ (दिवां-

आत्मं-सकं-अनिट् ।) ङ य, पीयते । इति
दुर्गादासः ॥

पीठं, त्रि, (पेठन्त्युपविशन्त्यस्मिन्निति । पिठ +

“हलश्च ।” ३ । ३ । १२१ । इति घञ् । बाहु-
लकादिकारस्य दीर्घः । यद्वा, पीयतेऽत्रेति ।
पी ङ् पाने + बाहुलकात् ठक् ।) उपवेश-
नाधारः । इत्यमरः । २ । ६ । १३८ ॥ पिडी चौकी
इत्त्यादि भाषा । तत्पर्य्यायः । आसनम् २ उपा-
सनम् ३ पीठी ४ विष्टरः ५ । इति शब्दरत्ना-
वली । व्रतिनामासनम् । तत्तु कुशासनादि ।
तत्पर्य्यायः । विष्टरः २ । इति त्रिकाण्डशेषः ॥
वृषी ३ । इति हेमचन्द्रः ॥ (यथा, महाभारते ।
५ । ३८ । २ ।
“पीठं दत्त्वा साधवेऽभ्यागताय
आनीयापः परिनिर्निज्य पादौ ।
सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थां
ततो दद्यादन्नमवेक्ष्य धीरः ॥”)
अथ पीठोद्देशः ।
“धातुपाषाणकाष्ठैश्च पीठस्त्रिविध उच्यते ।
धातवश्च शिलाश्चैव काष्ठानि विविधानि च ॥
तदत्र संप्रवक्ष्यामि यद्येषामुपयुज्यते ॥”
अथ मानम् ।
“हस्तद्वयस्तु दैर्घ्येण तदर्द्धे परिणाहतः ।
तदर्द्धेनोन्नतः पीठः सुख इत्यभिधीयते ॥
हस्तद्वयद्वयाधिक्यात् पञ्च पीठा भवन्ति हि ।
सुखं जयः शुभः सिद्धिः सम्पच्चेति यथाक्रमम् ॥
धनभोगसुखैश्वर्य्यवाञ्छितार्थप्रदायकः ।
समदीर्घसुखावाप्तिर्विषमे विषमापदः ॥
आयामपरिणाहाभ्यां हस्तद्वयमितो हि यः ।
अर्द्धहस्तोन्नतः पीठो जारको नाम विश्रुतः ॥
दैर्घ्योन्नतिपरीणाहैश्चतुर्हस्तमितो हि यः ।
राजपीठ इति ज्ञेयः सकलार्थप्रसाधकः ।
अत्राभिषेकमिच्छन्ति क्षितिपस्य पुराविदः ॥
दैर्घ्योन्नतिपरीणाहैः षढस्तमितो हि यः ।
राज्ञां चित्तप्रसादार्थं केलिपीठाभिधानकः ॥
दैर्घ्योन्नतिपरीणाहैरष्टहस्तमितो हि यः ।
अङ्गपीठो ह्ययं नाम्ना भवेत् पञ्चसुखप्रदः ॥
कानको राजपीठः स्याज्जयो वा राजतः सुखः ।
राज्ञामेवोपयोक्तव्यो लघवश्चोत्तरोत्तरम् ॥
राजपीठे चिरायुः स्याज्जये सर्व्वां महीं जयेत् ।
जारको जारयेच्छत्रून् सुखे सुखमवाप्नुयात् ॥
राजतः कीर्त्तिजननो धनवृद्धिकरः परः ।
ताम्रः प्रतापजननो विपक्षक्षयकारकः ॥
लौहस्तूच्चाटने सार्व्वः सर्व्वकर्म्मसु युज्यते ।
त्रपुसीसकरङ्गाद्याः शत्रुक्षयफलप्रदाः ॥”
इति धातुपीठाः ।
अथ शिलापीठाः ।
“राजपीठो वज्रपाणेरेव नान्यस्य दृश्यते ।
पद्मरागो दिनेशस्य चान्द्रकान्तो विधोरपि ॥
राहोर्मारकतः पीठः शनेर्नीलसमुद्भवः ।
गोमेदकस्तु सौम्यस्य स्फाटिकस्तु बृहस्पतेः ॥
शुक्रस्य वैदूर्य्यभवः प्रावालो मङ्गलस्य हि ॥”
इत्थं पुराणवार्त्ता ॥ * ॥
“यो यस्य हि दशाजातः पीठस्तस्य हि तन्मयः ।
स्फाटिकस्तु महीन्द्राणां सर्व्वेषामेव युज्यते ॥
अभिषेके च यात्रायामुत्सवे जयकर्म्मणि ।
अयस्कान्तोपघटितः संग्रामे पीठ इष्यते ॥
गरुडोद्गाररचिते वर्षासु नृपतिर्व्वसेत् ।
शुद्धरत्नमयं पीठं भजते घनगर्ज्जिते ॥
सामान्यः प्रास्तरः पीठो विलासाय मही-
भुजाम् ।
एषां मानं गुणाश्चापि विज्ञेया धातुपीठवत् ॥”
अथ काष्ठपीठाः ।
तद्यथा, मानं पूर्ब्बवदेव ।
“सम्पत्तिसुखवृद्ध्यर्थं गाम्भारीजनितो जयः ।
जारको रोगनाशाय सुखः शत्रुविनाशनः ॥
सिद्धिः सर्व्वार्थसंसिद्ध्यै विजयाय च वैरिणाम् ।
शुभः स्यादभिषेके च सम्पद्वैरिनिवारणः ॥
पानसो राजकः पीठः सुखसम्पत्तिकारकः ।
जयः स्यादभिषेके च शुभः शत्रुविनाशनः ॥
सुखो रोगविनाशाय सिद्धिः सर्व्वार्थदायिका ।
सम्पदुच्चाटनविधौ विज्ञेयं पीठलक्षणम् ॥
चान्दनस्तु सुखः पीठो अभिषेके महीभुजाम् ।
जयः स्याद्रोगनाशाय शुभः सौख्यं प्रयच्छति ॥
जारको ग्रहतुष्ट्यर्थं अन्ये तु रतिदुष्कराः ।
यज्ञतो निर्म्मितास्ते तु साम्राज्यफलदायकाः ॥
कालेयको यावको हि भूभुजामभिषेचने ।
पीठानगुरुकादीनामन्ये चन्दनवद्विदुः ॥
वाकुलस्तु शुभः पीठो भूभुजामभिषेचने ।
पृष्ठ ३/१५५
जयो रोगविनाशाय सुखसम्पत्तिकारकः ॥
सिद्धिः सिद्धिप्रदा सम्पत् संग्रामे विजयप्रदः ।
जारको जारणाय स्यादिति भोजस्य सम्मतम् ॥
एवं सुगन्धिकुसुमाः ससारा ये च पादपाः ।
वाकुलेन समः कार्य्य एवं पीठस्य निर्णयः ॥
ये शुष्ककाष्ठा वृक्षास्तु मृदवो लघवोऽथवा ।
गाम्भारीसदृशः पीठस्तेषां कार्य्यस्तथा गुणः ॥
फलिनश्च ससाराश्च रक्तसाराश्च ये नगाः ।
तेषां पानसवत् पीठस्तथैव गुणमावहेत् ॥” * ॥
अथ निषेधः ।
“विज्ञेयो निन्दितः पीठो लौहोत्थः सर्व्वधातुजे ।
शिलोत्थः शार्करो वर्ज्यः कर्करश्च विशेषतः ॥
काष्ठजेषु च पीठेषु नासारा नातिसारिणः ॥”
तथाहि ।
“आम्रजम्बुकदम्बानामासनं वंशनाशनम् ॥”
भोजस्त्वाह ।
“गुरुः पीठो गौरवाय लघुर्लाघवकारकः ॥”
पराशरस्तु ।
“नाग्रन्थिर्नातिग्रन्थिश्च नागुरुर्नासमाकृतिः ।
पीठः स्यात् सुखसम्पत्त्यै नातिदीर्घो न वामनः ॥
ये चान्ये पीठसदृशा दृश्याः शिल्पिविनिर्म्मिताः ।
गुणान्दोषांश्च मानञ्च तेषां पीठवदादिशेत् ॥
विचार्य्यानेन विधिना यः शुद्धं पीठमाचरेत् ।
तस्य लक्ष्मीरियं वेश्म कदाचिन्न विमुञ्चति ॥
अज्ञानादथवा मोहाद्योऽन्यथा पीठमाचरेत् ।
एतानि तस्य नश्यन्ति लक्ष्मीरायुर्ब्बलं कुलम् ॥”
इति युक्तिकल्पतरौ पीठोद्देशः ॥ * ॥
कृतयुगे दक्षक्रतौ शिवनिन्दां श्रुत्वा प्राणां-
स्त्यक्तवत्याः सत्याः शरीरं शिरसि धृत्वा भ्रमति
शिवे विष्णुना चक्रेण छिन्नास्तस्या अवयवा यत्र
यत्र पतितास्त एव देशा एकपञ्चाशन्महापीठा
अभवन् ॥ इति पौराणिकी वार्त्ता ॥ * ॥
तेषां निरूपणं यथा, --
ईश्वर उवाच ।
“मातः परापरे ! देवि ! सर्व्वज्ञानमयीश्वरि ! ।
कथ्यतां मे सर्व्वपीठं शक्तिर्भैरवदेवता ॥
देव्युवाच ।
शृणु वत्स ! प्रवक्ष्यामि दयालो ! भक्तवत्सल ! ।
याभिर्विना न सिध्यन्ति जपसाधनतत्क्रियाः ॥
पञ्चाशदेकपीठानि एवं भैरवदेवताः ।
अङ्गप्रत्यङ्गपातेन विष्णुचक्रक्षतेन च ॥
ममान्यवपुषो देव ! हिताय त्वयि कथ्यते ।
ब्रह्मरन्ध्रं हिङ्गुलायां भैरवो भीमलोचनः ॥
कोट्टरीसा महामाया त्रिगुणा या दिगम्बरी ॥ १
शर्करारे त्रिनेत्रं मे देवी महिषमर्द्दिनी ।
क्रोधीशो भैरवस्तत्र सर्व्वसिद्धिप्रदायकः ॥ २ ॥
सुगन्धायां नासिका मे देवस्त्र्यम्बकभैरवः ।
सुन्दरी सा महादेवी सुनन्दा तत्र देवता ॥ ३ ॥
काश्मीरे कण्ठदेशश्च त्रिसन्ध्येश्वरभैरवः ।
महामाया भगवती गुणातीता वरप्रदा ॥ ४ ॥
ज्वालामुख्यां महाजिह्वा देव उन्मत्तभैरवः ।
अम्बिका सिद्धिदानाम्नी ५ स्तनं जालन्धरे मम ।
भीषणो भैरवस्तत्र देवी त्रिपुरमालिनी ॥ ६ ॥
हार्द्दपीठं वैद्यनाथे वैद्यनाथस्तु भैरवः ।
देवता जयदुर्गाख्या ७ नेपाले जानुनी मम ।
कपाली भैरवः श्रीमान् महामाया च देवता ॥ ८ ॥
मानसे दक्षहस्तो मे देवी दाक्षायणी हर ।
अमरो भैरवस्तत्र सर्व्वसिद्धिप्रदायकः ॥ ९ ॥
उत्कले नाभिदेशश्च विरजाक्षेत्रमुच्यते ।
विमला सा महादेवी जगन्नाथस्तु भैरवः ॥ १० ॥
गण्डक्यां गण्डपातश्च तत्र सिद्धिर्न संशयः ।
तत्र सा गण्डकी चण्डी चक्रपाणिस्तु भैरवः ॥ ११ ॥
बहुलायां वामबाहुर्ब्बहुलाख्या च देवता ।
भीरुको भैरवो देवः सर्व्वसिद्धिप्रदायकः ॥ १२ ॥
उज्जयिन्यां कूर्परञ्च माङ्गल्यः कपिलाम्बरः ।
भैरवः सिद्धिदः साक्षाद्देवी मङ्गलचण्डिका ॥ १३ ॥
चट्टले दक्षबाहुर्मे भैवरश्चन्द्रशेखरः ।
व्यक्तरूपा भगवती भवानी तत्र देवता ॥
विशेषतः कलियुगे वसामि चन्द्रशेखरे ॥ १४ ॥
त्रिपुरायां दक्षपादो देवता त्रिपुरा मता ।
भैरवत्रिपुरेशश्च सर्व्वाभीष्टफलप्रदः ॥ १५ ॥
त्रिसोतायां वामपादो भ्रामरी भैरवोऽम्बरः ॥ १६ ॥
योनिपीठं कामगिरौ कामाख्या तत्र देवता ।
यत्रास्ते त्रिगुणातीता रक्तपाषाणरूपिणी ।
यत्रास्ते माधवः साक्षादुमानन्दोऽथ भैरवः ॥
सर्व्वदा विहरेद्देवी तत्र मुक्तिर्न संशयः ।
तत्र श्रीभैरवी देवी तत्र नक्षत्रदेवता ॥
प्रचण्डचण्डिका तत्र मातङ्गी त्रिपुराम्बिका ।
वगला कमला तत्र भुवनेशी सुधूमिनी ॥
एतानि वरपीठानि शंसन्ति वरभैरव ! ।
एवं ता देवताः सर्व्वा एवन्ते दश भैरवाः ॥
सर्व्वत्र विरला चाहं कामरूपे गृहे गृहे ।
गौरीशिखरमारुह्य पुनर्जन्म न विद्यते ॥ १७ ॥
करतोयां समासाद्य यावत् शिखरवासिनीम् ।
शतयोजनविस्तीर्णं त्रिकोणं सर्व्वसिद्धिदम् ॥
देवा मरणमिच्छन्ति किं पुनर्म्मानवादयः ।
भूतधात्री महामाया भैरवः क्षीरखण्डकः ॥
युगाद्यायां महादेव ! दक्षाङ्गुष्ठं पदो मम ॥ १८ ॥
नकुलीशः कालिपीठे दक्षपादाङ्गुलीषु च ।
सर्व्वसिद्धिकरीदेवी कालिका तत्र देवता ॥ १९ ॥
अङ्गुलीषु च हस्तस्य प्रयागे ललिता भवः ॥ २० ॥
जयन्त्यां वामजङ्घा च जयन्ती क्रमदीश्वरः ॥ २१ ॥
भुवनेशी सिद्धिरूपा किरीटस्था किरीटतः ।
देवता विमला नाम्नी सम्बर्त्तो भैरवस्तथा ॥ २२ ॥
वाराणस्यां विशालाक्षी देवता कालभैरवः ।
मणिकर्णीति विख्याता कुण्डलञ्च मम श्रुतेः ॥ २३ ॥
कन्याश्रमे च पृष्ठं मे निमिषो भैरवस्तथा ।
सर्व्वाणी देवता तत्र २४ कुरुक्षेत्रे च गुल्फतः ॥
स्थाणुर्नाम्ना च सावित्री देवता २५ मणि-
वेदके ।
मणिबन्धे च गायत्री सर्व्वानन्दस्तु भैरवः ॥ २६ ॥
श्रीशैले च मम ग्रीवा महालक्ष्मीस्तु देवता ।
भैरवः शम्बरानन्दो देशे देशे व्यवस्थितः ॥ २७ ॥
काञ्चीदेशे च कङ्कालो भैरवो रुरुनामकः ।
देवता देवगर्भाख्या २८ नितम्बः कालमाधवे ॥
भैरवश्चासिताङ्गश्च देवी काली च मुक्तिदा ।
दृष्ट्वा दृष्ट्वा महादेव ! मन्त्रसिद्धिमवाप्नुयात् ॥
कुजवारे भूततिथौ निशार्द्धे यस्तु साधकः ।
नत्वा प्रदक्षिणीकृत्य मन्त्रसिद्धिमवाप्नुयात् ॥ २९ ॥
शोणाख्या भद्रसेनस्तु नर्म्मदाख्ये नितम्बकः ॥ ३० ॥
रामगिरौ स्तनान्यञ्च शिवानी चण्डभैरवः ॥ ३१ ॥
वृन्दावने केशजाले उमानाम्नी च देवता ।
भूतेशो भैरवस्तत्र सर्व्वसिद्धिप्रदायकः ॥ ३२ ॥
संहाराख्य ऊर्द्ध्वदन्ते देवी नारायणी शुचौ ।
अधोदन्ते महारुद्रो वाराही पञ्चसागरे ॥ ३३ ॥
करतोयातटे तल्पं वामे वामनभैरवः ।
अपर्णा देवता तत्र ब्रह्मरूपा करोद्भवा ॥ ३४ ॥
श्रीपर्व्वते देक्षतल्पं तत्र श्रीसुन्दरी परा ।
सर्व्वसिद्धिकरी सर्व्वा सुन्दरानन्दभैरवः ॥ ३५ ॥
कपालिनी भीमरूपा वामगुल्फो विभाषके ॥ ३६ ॥
उदरञ्च प्रभाषे मे चन्द्रभागा यशस्विनी ।
वक्रतुण्डो भैरव-३७ श्चोर्द्ध्वोष्ठो भैरवपर्व्वते ।
अवन्ती च महादेवी लम्बकणुस्तु भैरवः ॥ ३८ ॥
चिवुके भ्रामरी देवी विकृताक्षो जले स्थले ॥ ३९ ॥
गण्डो गोदावरीतीरे विश्वेशी विश्वमातृका ।
दण्डपाणिर्भैरवस्तु वामगण्डे तु राकिणी ॥
अमायी भैरवो वत्स ! सर्व्वशैलात्मकोपरि ॥ ४० ॥
रत्नावल्यां दक्षस्कन्धः कुमारी भैरवः शिवः ॥ ४१ ॥
मिथिलायां उमा देवी वामस्कन्धो महोदरः ॥ ४२ ॥
नलाहाट्यां नलापातो योगेशो भैरवस्तथा ।
तत्र सा कालिका देवी सर्व्वसिद्धिप्रदायिका ॥ ४३ ॥
कर्णाटे चैव कर्णं मे अभीरुर्नाम भैरवः ।
देवता जयदुर्गाख्या नानाभोगप्रदायिनी ॥ ४४ ॥
वक्रेश्वरे मनःपातो वक्रनाथस्तु भैरवः ।
नदी पापहरा तत्र देवी महिषमर्द्दिनी ॥ ४५ ॥
यशोरे पाणिपद्मञ्च देवता यशरेश्वरी ।
चण्डश्च भैरवो यत्र तत्र सिद्धिमवाप्नुयात् ॥ ४६ ॥
अट्टहासे चोष्ठपातो देवी सा फुल्लरा स्मृता ।
विश्वेशो भैरवस्तत्र सर्व्वाभीष्टप्रदायकः ॥ ४७ ॥
हारपातो नन्दिपुरे भैरवो नन्दिकेश्वरः ।
नन्दिनी सा महादेवी तत्र सिद्धिर्न संशयः ॥ ४८ ॥
लङ्कायां नूपुरञ्चैव भैरवो राक्षसेश्वरः ।
इन्द्राक्षी देवता तत्र इन्द्रेणोपासिता पुरा ॥ ४९ ॥
विराटदेशमध्ये तु पादाङ्गुलिनिपातनम् ।
भैरवश्चामृताक्षश्च देवी तत्राम्बिका स्मृता ॥ ५० ॥
मागघे दक्षजङ्घा मे व्योमकेशस्तु भैरवः ।
सर्व्वानन्दकरी देवी सर्व्वकामफलप्रदा ॥ ५१ ॥
एतास्ते कथिताः पुत्त्र ! पीठनाथाधिदेवताः ॥
क्षेत्राधीशं विना देवं पूजयेत् पीठदेवताम् ।
भैरवैर्ह्नियते सर्व्वं जपपूजादिसाधनम् ॥
अज्ञात्वा भैरवं पीठं पीठशक्तिञ्च शङ्कर ! ।
प्राणनाथ ! न सिध्येत कल्पकोटिजपादिभिः ॥
न देयं परशिष्येभ्यो निन्दकाय दुरात्मने ।
शठाय वञ्चकायेदं दत्त्वा मृत्युमवाप्नुयात् ॥
दद्यात् शान्ताय शिष्याय नैष्ठिकाय शुचौ प्रिये
साधकाय कुलीनाय मन्त्री मन्त्रार्थसिद्धये ॥”)
पृष्ठ ३/१५६
इति तन्त्रचूडामणौ शिवपार्व्वतीसंवादे एक-
पञ्चाशद्विद्योत्पत्तौ पीठनिर्णयः समाप्तः ॥ * ॥
(देवीभागवतोक्ताष्टाधिकशतपीठनामानि यथा,
तत्रैव । ७ । ३० । ४४ -- ९५ ।
“अपश्यत्तां सतीं वह्नौ दह्यमानान्तु चित्कलाम् ।
स्कन्धेऽप्यारोपयामास हा ! सतीति वदन् मुहुः ॥
बभ्राम भ्रान्तचित्तः सन्नानादेशेषु शङ्करः ।
तदा ब्रह्मादयो देवाश्चिन्तामापुरनुत्तमाम् ॥
विष्णुस्तु त्वरया तत्र धनुरुद्यम्य मार्गणैः ।
चिच्छेदावयवान् सत्यास्तत्तत्स्थानेषु तेऽपतन् ॥
तत्तत् स्थानेषु तत्रासीन्नानामूर्त्तिधरो हरः ।
उवाच च ततो देवान् स्थानेष्वेतेषु ये शिवाम् ॥
भजन्ति परया भक्त्या तेषां किञ्चिन्न दुर्लभम् ।
नित्यं सन्निहिता यत्र निजाङ्गेषु पराम्बिका ॥
स्थानेष्वेतेषु ये मर्त्याः पुरश्चरणकर्म्मिणः ।
तेषां मन्त्राः प्रसिध्यन्ति मायाबीजं विशेषतः ॥
इत्युक्त्वा शङ्करस्तेषु स्थानेषु विरहातुरः ।
कालं निन्ये नृपश्रेष्ठ ! जपध्यानसमाधिभिः ॥
जनमेजय उवाच ।
कानि स्थानानि तानि स्युः सिद्धपीठानि चानघ ! ।
कतिसंख्यानि नामानि कानि तेषाञ्च मे वद ॥
तत्र स्थितानां देवीनां नामानि च कृपाकर ! ।
कृतार्थोऽहं भवे येन तद्बदाशु महामुने ! ॥
व्यास उवाच ।
शृणु राजन् ! प्रवक्ष्यामि देवीपीठानि सांप्रतम् ।
येषां श्रवणमात्रेण पापहीनो भवेन्नरः ॥
येषु येषु च पीठेषूपास्येयं सिद्धिकाङ्क्षिभिः ।
भूतिकामैरभिध्येया तानि वक्ष्यामि तत्त्वतः ॥
वाराणस्यां विशालाक्षी गौरीमुखनिवासिनी ।
क्षेत्रे वै नैमिषारण्ये प्रोक्ता सा लिङ्गधारिणी ॥
प्रयागे ललिता प्रोक्ता कामुकी गन्धमादने ।
मानसे कुमुदा प्रोक्ता दक्षिणे चोत्तरे तथा ॥
विश्वकामा भगवती विश्वकामप्रपूरिणी ।
गोमन्ते गोमती देवी मन्दरे कामचारिणी ॥
मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे ।
गौरी प्रोक्ता कान्यकुब्जे रम्भा तु मलयाचले ॥
एकाम्रपीठे संप्रोक्ता देवी सा कीर्त्तिमत्यपि ।
विश्वे विश्वेश्वरीं प्राहुः पुरुहूताञ्च पुष्करे ॥
केदारपीठे संप्रोक्ता देवी सन्मार्गदायिनी ।
मन्दा हिमवतः पृष्ठे गोकर्णे भद्रकर्णिका ॥
स्थानेश्वरी भवानी तु बिल्वके बिल्वपत्रिका ।
श्रीशेले माधवी प्रोक्ता भद्रा भद्रेश्वरे तथा ॥
वराहशैले तु जया कमला कमलालये ।
रुद्राणी रुद्रकोट्यान्तु काली कालञ्जरे तथा ॥
शालग्रामे महादेवी शिवलिङ्गे जलप्रिया ।
महालिङ्गे तु कपिला माकोटे मुकुटेश्वरी ॥
मायापुर्य्यां कुमारी स्यात्मन्ताने ललिताम्बिका ।
गयायां मङ्गला प्रोक्ता विमला पुरुषोत्तमे ॥
उत्पलाक्षी सहस्राक्षे हिरण्याक्षे महोत्पला ।
विपाशायाममोघाक्षी पाडला पुण्ड्रवर्द्धने ॥
नारायणी मुपार्श्वे तु त्रिकूटे रुद्रसुन्दरी ।
विपुले विपुला देवी कल्याणी मलयाचले ॥
सह्याद्रावेकवीरा तु हरिश्चन्द्रे तु चन्द्रिका ।
रमणा रामतीर्थे तु यमुनायां मृगावती ॥
कोटवी कोटतीर्थे तु सुगन्धा माधवे वने ।
गोदावर्य्यां त्रिसन्ध्या तु गङ्गाद्वारे रतिप्रिया ॥
शिवकुण्डे शुभानन्दा नन्दिनी देविकातटे ।
रुक्मिणी द्वारवत्यान्तु राधा वृन्दावने वने ॥
देवकी मथुरायान्तु पाताले परमेश्वरी ।
चित्रकूटे तथा सीता विन्ध्ये बिन्ध्याधिवासिनी ॥
करवीरे महालक्ष्मीरुमादेवी विनायके ।
आरोग्या वैद्यनाथे तु महाकाले महेश्वरी ॥
अभयेत्युष्णतीर्थेषु नितम्बा बिन्ध्यपर्व्वते ।
माण्डव्ये माण्डवी नाम स्वाहा माहेश्वरीपुरे ॥
छगलण्डे प्रचण्डा तु चण्डिकामरकण्टके ।
सोमेश्वरे वरारोहा प्रभासे पुष्करावती ॥
देवमाता सरस्वत्यां पारावारा तटे स्मृता ।
महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी ॥
सिंहिका कृतशौचे तु कार्त्तिके त्वतिशाङ्करी ।
उत्पलावर्त्तके लोला सुभद्रा शोणसङ्गमे ॥
माता सिद्धवने लक्ष्मीरनङ्गा भरताश्रमे ।
जालन्धरे विश्वमुखी तारा किष्किन्धपर्व्वते ॥
देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले ।
भीमादेवी हिमाद्रौ तु तुष्टिर्व्विश्वेश्वरी तथा ॥
कपालमोचने शुद्धिर्माता कायावरोहणे ।
शङ्खोद्धारे धरा नाम घृतिः पिण्डारके तथा ॥
कला तु चन्द्रभागायामच्छोदे शिवधारिणी ।
वेणायाममृता नाम वदर्य्यामुर्व्वशी तथा ॥
औषधिश्चोत्तरकुरौ कुशद्वीपे कुशोदका ।
मन्मथा हेमकूटे तु कुमुदे सत्यवादिनी ॥
अश्वत्थे वन्दनीया तु निधिर्वैश्रणालये ।
गायत्री वेदवदने पार्व्वती शिवसन्निधौ ॥
देवलोके तथेन्द्राणी ब्रह्मास्येषु सरस्वती ।
सूर्य्यविम्बे प्रभा नाम मातॄणां वैष्णवी मता ॥
अरुन्धती सतीनान्तु रामासु च तिलोत्तमा ।
चित्ते ब्रह्मकला नाम शक्तिः सर्व्वशरीरिणाम् ॥
इमान्यष्टशतानि स्युः पीठानि जनमेजय ! ।
तत्संख्याकास्तदीशान्यो देव्यश्च परिकीर्त्तिताः ॥
सतीदेव्यङ्गभूतानि पीठानि कथितानि च ।
अन्यान्यपि प्रसङ्गेन यानि मुख्यानि भूतले ॥
यः स्मरेच्छृणुयाद्वापि नामाष्टशतमुत्तमम् ।
सर्व्वपापविनिर्म्मु क्तो देवीलोकं परं व्रजेत् ॥
एतेषु सर्व्वपीठेषु गच्छेद् यात्राविधानतः ।
सन्तर्पयेच्च पित्रादीन् श्राद्धादीनि विधाय च ॥
कुर्य्याच्च महतीं पूजां भगवत्या विधानतः ।
क्षमापयेज्जगद्धात्रीं जगदम्बां मुहुर्मुहुः ॥
कृतकृत्यं स्वमात्मानं जानीयाज्जनमेजय ! ।
भक्ष्यभोज्यादिभिः सर्व्वान् ब्राह्मणान् भोजये-
त्ततः ॥
सुवासिनीः कुमारीश्च बटुकादींस्तथा नृप ! ।
तस्मिन् क्षेत्रे स्थिता ये तु चाण्डालाद्या अपि
प्रभो ! ॥
देवीरूपाः स्मृताः सर्व्वे पूजनीयास्ततो हि ते ।
प्रतिग्रहादिकं सर्व्वं तेषु क्षेत्रेषु वर्ज्जयेत् ॥
यथाशक्तिपुरश्चर्य्यां कुर्य्यान्मन्त्रस्य सत्तमः ।
मायाबीजेन देवेशीं तत्तत्पीठाधिवासिनीम् ॥
पूजयेदनिशं राजन् ! पुरश्चरणकृद्भवेत् ।
वित्तशाठ्यं न कुर्व्वीत देवीभक्तिपरो नरः ॥
य एवं कुरुते यात्रां श्रीदेव्याः प्रीतमानसः ।
सहस्रकल्पपर्य्यन्तं ब्रह्मलोके महत्तरे ॥
वसन्ति पितरस्तस्य सोऽपि देवीपुरे तथा ।
अन्ते लब्ध्ना परं ज्ञानं भवेन्मुक्तो भवाम्बुधेः ॥”)
अन्यानि पीठादीनि कालीपुराणे १८ । ५० । ६१
अध्यायेषु द्रष्टव्यानि ॥ * ॥ पीठन्यासस्तु न्यास-
शब्दे द्रष्टव्यः । पीठदेवतापूजनं न्यासक्रमेणैव ॥

पीठकेलिः, पुं, (पीठे आसने केलिर्नर्म्मादिरस्य ।)

पीठमर्द्दनायकः । यथा, --
“षिड्गो व्यलीकः षट्प्रज्ञः कामकेलिर्विदूषकः ।
पीठकेलिः पीठमर्द्दो भविलश्छिदुरो विटः ॥”
इति त्रिकाण्डशेषः ॥

पीठमर्द्दः, पुं, (मृद्नातीति । मृद् + अच् ।

पिठस्यासनस्य मर्द्दः ।) नायकविशेषः । तस्य
लक्षणम् । कुपितस्त्रीप्रसादकः । उदाहरणं
यथा, --
“कोऽयं कोपविधिः प्रयच्छ करुणागर्भं वचो
जायतां
पीयूषद्रवदीर्घिकापरिमलैरामोदिता मेदिनी ।
आस्तां वा स्पृहयालु लोचनमिदं व्यावर्त्तयन्ती-
मुहु-
र्यस्मै कुप्यसि तस्य सुन्दरि ! तपोवृन्दानि
वन्दामहे ॥
नर्म्मसचिवोऽप्ययमेव ।” इति रसमञ्जरी ॥ (अयं
हि नायकस्य उत्तमसहायानामन्यतमः । इति
साहित्यदर्पणम् । ३ । ५३ ॥ नायकप्रियः । अति-
धृष्टः । यथा, मेदिनी । दे, ५० ।
“पीठमर्द्दोऽति धृष्टे स्यात् नायकस्य प्रियेऽपि च ॥”
यथा, महाभारते । ४ । २० । ३३ ।
“प्रेक्षते स्म विराटस्तु कङ्कश्च बहवो जनाः ।
रथिनः पीठमर्द्दाश्च हस्त्यारोहाश्च नैगमाः ॥”)

पीठसर्पी, [न्] त्रि, (पीठेन सर्पतीति । सृप् +

णिनिः ।) खञ्जः । तत्पर्य्यायः । पांशुरः २ ।
इति हारावली ॥

पीठी, स्त्री, (पीठ + स्वल्पार्थे ङीष् ।) आसनम् ।

इति शब्दरत्नावली ॥ पीँडी इति भाषा ॥

पीड, ऋ क वाधे । गाहे । इति कविकल्पद्रुमः ॥

(चुरां-परं-सकं-सेट् ।) वाधो विहतिः । गाहो
विलोडनम् । ऋ, अपीपिडत् अपिपीडत् । क,
पीडयति शत्रुं लोकः । पीडयति स्तनं कामी ।
इति दुर्गादासः ॥

पीडनं, क्ली, (पीड वाधे अवगाहे वा + भावे-

ल्युट् ।) शस्यादिसम्पन्नदेशस्य परचक्रेण पीड-
नम् । शत्रुकृतगाढप्रहारः । इति केचित् ।
पदाक्रमणम् । इति केचित् । इति भरतः ॥ तत्-
पर्य्यायः । अवमर्द्दः २ । इत्यमरः । २ । ८ । १०९ ॥
(यथा, देवीभागवते । ३ । १२ । १३ ।
“पीडनञ्चैव पाञ्चाल्या स्तथा द्यूते पराजयः ॥”)
पृष्ठ ३/१५७
दुःखनम् । यथा, --
“भरणं पोष्यवर्गस्य प्रशस्तं स्वर्गसाधनम् ।
नरकं पीडने चास्य तस्माद्यत्नेन तं भरेत् ॥”
इति दायभागधृतमनुवचनम् ॥
मर्द्दनम् । टिपन चापन इत्यादि भाषा । यथा, --
“गर्भोऽभिघातविषमाशनपीडनाद्यैः
पक्वं द्रुमादिव फलं पतति क्षणेन ॥”
इति माधवकरः ॥

पीडा, स्त्री, (पीडनमिति । पीड + “षिद्भिदा-

दिभ्योऽङ् ।” ३ । ३ । १०४ । इति अङ् । तत-
ष्टाप् ।) पीडनम् । तत्पर्य्यायः । वाधा २
व्यथा ३ दुःखम् ४ अमानस्यम् ५ प्रसूतिजम् ६
कष्टम् ७ कृच्छ्रम् ८ आभीलम् ९ । इत्यमरः ।
१ । ९ । ३ ॥ आवाधा १० । इति हलायुधः ॥
आमानस्यम् ११ । इति रायमुकुटः ॥ (शूलम्
१२ रुग् १३ वेदना १४ आर्त्तिः १५ तोदः १६
रुजा १७ । इति वैद्यकरत्नमाला ॥ यथा,
मनुः । ७ । १६९ ।
“यदावगच्छेदायत्यामाधिक्यं ध्रुवमात्मनः ।
तदात्वे चाल्पिकां पीडां तदा सन्धिं समाश्र-
येत् ॥”)
एषां पीडादीनां मध्ये विशेष्यगामिनो ये
दुःखकष्टकृच्छ्राभीलास्ते त्रिलिङ्गाः । सा
आध्यात्मिकाधिभौतिकाधिदैविकतापत्रयभेदेन
त्रिविधा । आध्यात्मिकोऽपि द्विविधः । यथा, --
“आध्यात्मिकादि मैत्रेय ! ज्ञात्वा तापत्रयं
बुधः ।
उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं लयम् ॥
आध्यात्मिको वै द्विविधः शारीरो मानसस्तथा ।
शारीरो बहुभिर्भेदैर्भिद्यते श्रूयताञ्च सः ॥
शिरोरोगप्रतिश्यायज्वरशूलभगन्दरैः ।
गुल्मार्शःश्वयथुश्वासच्छर्द्द्यादिभिरनेकधा ॥
तथाक्षिरोगातीसारकुष्ठाङ्गामयसंज्ञकैः ।
भिद्यते देहजस्तापो मानसं श्रोतुमर्हसि ॥”
अङ्गामयो वातजलोदरादिः । १ ॥ * ॥
“कामक्रोधभयद्वेषलोभमोहविषादजः ।
शोकासूयावमानेर्ष्यामात्स्यर्य्यादिभवस्तथा ॥
मानसोऽपि द्विजश्रेष्ठ ! तापो भवति नैकधा ॥ २ ॥
इत्येवमादिभिर्भेदैस्तापो ह्याध्यात्मिकः स्मृतः ॥
मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः ।
सरीसृपाद्यैश्च नृणां जन्यते चाधिभौतिकः ॥
शीतोष्णवातवर्षाम्बुवैद्युतादिसमुद्भवः ।
तापो द्बिजवरश्रेष्ठ ! कथ्यते चाधिदैविकः ॥
गर्भजन्मजराज्ञानमृत्युनारकजं तथा ।
दुःखं सहस्रशो भेदैर्भिद्यते मुनिसत्तम ! ॥”
इति विष्णुपुराणे । ६ । ५ । १ -- ९ ॥ * ॥
कृपा । शिरोमाला । सरलद्रुः । इति मेदिनी ।
डे, २० ॥

पीडितं, त्रि, (पीड + क्तः । यद्वा, पीडास्य

जातेति तारकादित्वात् इतच् ।) स्त्रीणां कर-
णम् । यन्त्रितम् । वाधितम् । इति मेदिनी । ते,
१३४ ॥ मर्द्दितम् । इति हेमचन्द्रः ॥ इतप्रत्य-
यान्तः पीडापर्य्यायोऽप्यत्र ॥ (मन्त्रभेदः । यथा,
तन्त्रसारे ।
“सहस्रार्णाधिका मन्त्रा दण्डकाः पीडिताह्वयाः ॥)

पीतं, क्ली, (पा + भावे क्तः ।) पानम् । इति

मेदिनी । ते, ३४ ॥ (पीतो वर्णोऽस्यास्तीति ।
अच् । पीताभत्वादस्य तथात्वम् ।) हरितालम् ।
इति राजनिर्घण्टः ॥ (हरिचन्दनम् । तत्पर्य्यायो
यथा, वैद्यकरत्नमालायाम् ।
“पीतसारं सुशीतञ्च तत्पीतं हरिचन्दनम् ॥”)

पीतः, पुं, (पिबति वर्णान्तरमिति । पा + कर्त्तरि

औणादिकः क्तः ।) वर्णविशेषः । हल्दिया इति
भाषा । तत्पर्य्यायः । गौरः २ हरिद्राभः ३ ।
इत्यमरः । १ । ५ । १४ ॥ कुसुम्भः । अङ्कोठः ।
शाखोटः । पुष्परागः । इति राजनिर्घण्टः ॥
पीतवस्तूनि यथा, --
“पीतानि ब्रह्म-१जीवे-२न्द्र-३गरुडे-४श्वरदृग्-५
जटाः ६ ।
गौरी-७द्बापर-८गोमूत्र-९मधु-१०वीररसा-११
रजः १२ ।
हरिद्रा १३ रोचना १४ रीति-१५गन्धके १६ द्बीप-
१७ चम्पके १८ ।
किञ्जल्क-१९ वल्कले २० शालि-२१ हरिताल-२२
मनःशिलाः २३ ।
कर्णिकारम् २४ चक्रवाक-२५ वानरौ २६
शारिकामुखम् २७ ।
केशवांशुक-२८मण्डूक-२९सराग-३०कनका-
दयः ३१ ॥” * ॥
पीतश्वेतवाचकानि यथा, --
“पीतश्वेतौ गौर-१ द्बिजराज-२ कपर्द्द-३ शम्भु-४
हरि-५तार्क्ष्याः ६ ।
हैमस्तोमा-७ ष्टापद-८ महारजत-९ चन्द्र-१०
कलधौताः ११ ॥”
अस्यार्थः । गौरः श्वेतपीतयोः । द्बिजराजो
गरुडचन्द्रयोः । कपर्द्दः शम्भुजटाजूटकपर्द्दयोः ।
शम्भुर्ब्रह्मत्रिलोचनयोः । हरिः पिङ्गलसिंहयोः ।
तार्क्ष्यो गरुडः पक्षे उच्चैःश्रवाः । हैमस्तोमः
हेम्नेऽयं हैमः पक्षे हिमस्यायम् । अष्टापदं
सुवर्णशरभयोः । महारजतं सुवर्णरूप्ययोः ।
चन्द्रः स्वर्णशशाङ्कयोः । कलधौतं हेमरूप्ययोः ।
“सुशोभितारकूटश्रीः स्वर्णस्तोमसमद्युतिः ।
दहनोपलसत्कान्तिर्गाङ्गेयच्छविपेशलः ॥”
अस्यार्थः । तारकूटो रूप्यसमूहः पक्षे आर-
कूटो रीतिः । सुशोभनमर्णः कनकञ्च । गोपति-
तार्क्ष्यकान्तिः रविगरुडच्छविः । पक्षे गोपति-
रिन्द्रः तस्य तार्क्ष्यस्तुरङ्गः । वामदेवगिरिर्मनोज्ञ-
मेरुः कैलासश्च ॥ * ॥ पीतश्यामवाचकानि यथा,
“पीतश्यामौ कृष्णाम्बर-१ मधुजित्-२ ध्वान्त-
जेतारः ३ ।
विद्युत्कान्तः ४ ध्वान्तद्वेषि-५ हरि ६ स्वर्णव-
च्छायाः ७ ॥”
अस्यार्थः । कृष्णाम्बरं विष्णुवस्त्रे हर्य्याकाशयोः ।
मधुजित् मधुतुल्यविष्ण्वोः । ध्वान्तजेता सूर्य्य-
तमस्तुल्ययोः । विद्युत्कान्तः मेघतडित्मनो-
ज्ञयोः । ध्वान्तद्वेषी सूर्य्यान्धकारतुल्ययोः ।
हरिः कपिकृष्णयोः । स्वर्णवच्छायः सुवर्णसुन्दर-
समुद्रतुल्यशोभयोः । इति कविकल्पलता ॥
(पर्व्वतविशेषः । यथा, मात्स्ये । १२१ । ९३ ।
“प्रथमः सूर्य्यसङ्काशः सुमना नाम पर्व्वतः ।
पीतस्तु मध्यमस्तत्र शातकौम्भमयो गिरिः ॥”)

पीतं, त्रि, (पीतवर्णोऽस्यास्तीति । अच् ।) पीत-

वर्णयुक्तम् । इति मेदिनी । ते, ३४ । (यथा,
महाभारते । ४ । ४१ । २० ।
“ये त्विमे निशिताः पीताः पृथवो दीर्घवाससः ।
हेमशृङ्गास्त्रिपर्व्वाणो राज्ञ एते महाशराः ॥”
पा + कर्म्मणि क्तः ।) कृतपानम् । यथा, --
“हालाहलमपि पीतं बहुशो भिक्षापि भक्षिता
भवता ।
अनयोरवगतरसयोः कियदन्तरं वद योगिन् ! ॥”
इत्युद्भटः ॥
(पीतं पानमस्त्यस्येति । अच् । यद्वा, पीतं नीर
क्षीरं वा येन इत्युत्तरपदलोपः । पीतदुग्धादि-
कम् । यथा, रघौ । २ । १ ।
“अथ प्रजानामधिपः प्रभाते
जायाप्रतिग्राहितगन्धमाल्याम् ।
वनाय पीतप्रतिबद्धवत्सां
यशोधनो धेनुमृषेर्मुमोच ॥”)

पीतकं, क्ली, (पीत + “यावादिभ्यः कन् ।” ५ ।

४ । २९ । इति स्वार्थे कन् ।) हरितालम् ।
इत्यमरः ॥ (पीतेन पीतवर्णेन कायतीति । कै +
कः ।) कुङ्कुमम् । इति जटाधरः ॥ (अस्य
पर्य्यायो लक्षणञ्च यथा, --
“कुङ्कुमं घुसृणं रक्तं काश्मीरं पीतकं वरम् ।
सङ्कोचं पिशुनं धीरं वाह्लीकं शोणिताभिधम् ॥
काश्मीरदेशजे क्षेत्रे कुङ्कुमं यद्भवेद्धितम् ।
सूक्ष्मकेशरमारक्तं पद्मगन्धि तदुत्तमम् ॥
वाह्लीकदेशसञ्जातं कुङ्कुमं पाण्डुरम्मतम् ।
केतकीगन्धयुक्तन्तन्मध्यमं सूक्ष्मकेशरम् ॥
कुङ्कुमं पारसीकेयम्मधुगन्धि तदीरितम् ।
ईषत्पाण्डुरवर्णन्तदधमं स्थूलकेशरम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
अगुरु । पद्मकाष्ठम् । रीतिः । माक्षिकम् । इति
राजनिर्घण्टः ॥ नन्दीवृक्षः । पीतशालः । इति
रत्नमाला ॥ श्योनाकप्रभेदः । हरिद्रुः । किंकि-
रातवृक्षः । इति राजनिर्घण्टः ॥ (पीतेन
पीतवर्णेन रक्तमिति । पीत + “लाक्षारोचना-
ठ्ठक् ।” ४ । २ । २ । इत्यस्य “पीतात् कन् ।”
इति वार्त्तिकोक्त्या कन् । पीतवर्णरञ्जिते पीत-
वर्णविशिष्टे च त्रि ॥ पीत + स्वार्थे कन् ।
पीतवर्णे, पुं । यथा, महाभारते । १२ ।
१८८ । ५ ।
“ब्राह्मणानां सितो वर्णः क्षत्त्रियाणान्तु लोहितः ।
वैश्यानां पीतको वर्णः शूद्राणामसितस्तथा ॥”)
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/पिडका&oldid=44004" इत्यस्माद् प्रतिप्राप्तम्