पृष्ठ ३/६३५

मयूरी, स्त्री, (मयूर + स्त्रियां ङीप् ।) मयूर-

स्त्रीजातिः । इति व्याकरणं लिङ्गादिसंग्रहश्च ॥
(यथा उत्तररामचरिते । ३ । ८ ।
“किमव्यक्तेऽसि निनदे कुतस्त्येऽपि त्वमीदृशी ।
स्तनयित्नोर्मयूरीव चकितोत्कण्टिता स्थिता ॥”)

मरकः, पुं, (म्रियन्ते जना यस्मात् । मृ + अपादाने

अप् । ततः स्वार्थे संज्ञायां वा कन् । यद्वा,
मृ + भावे अप् । मरो मरणमिति शब्देन
कायति शब्दायते इति । कै + कः ।) मारिः ।
इति हेमचन्द्रः । २ । २३९ ॥ मडक इति भाषा ।
तत्पर्य्यायः । मारी २ मारकः ३ । इति जटा-
धरः ॥ (यथा, कामन्दकीयनीतिसारे । १३ । २० ।
“हुताशनो जलं व्याधिर्दुर्भिक्षो मरकस्तथा ।
इति पञ्चविधं दैवं व्यसनं मानुषं परम् ॥”)
तस्य कारणादि यथा, --
“यावन्मार्त्तण्डसूनुर्गवि धनुषि झसे मन्मथे
वास्ति नार्य्यां
तावद्दुर्भिक्षपीडा भवति च मरकं संशयं
यान्ति लोकाः ।
हाहाकारा तथोर्व्वी मनुजभयकरी फेरुरावैश्च
भीमैः
शून्यग्रामा भवेयुर्नरपतिरहिता भूरिकङ्काल-
माला ॥
वक्रं करोति रविजो धरणीसुतो वा
मूलर्क्षहस्तमघरेवतिमैत्रभेषु ।
छत्रोपभङ्गपतनानि च सैनिकानां
सर्व्वत्र लोकमरणं जलधौतदेशः ॥
मांसास्थीनि समादाय श्मशानाद्गृध्रवायसाः ।
श्वा शृगालोऽथवा मध्ये पुरस्य प्रविशन्ति चेत् ॥
विकिरन्ति गृहादौ च श्मशानं सा मही
भवेत् ।
चौरेण हन्यते लोकः परचक्रसमागमः ॥
संग्रामश्च महाघोरो दुर्भिक्षं मरकस्तथा ।
अद्भुतानि प्रसूयन्ते तस्य देशस्य विद्रवः ॥”
इति ज्योतिस्तत्त्वम् ॥
अपि च ।
“सार्च्चिष्यग्निभयं गैरिकरूपे च युद्धानि ।
दूर्व्वाकाण्डश्यामे हारिद्रे चापि निर्द्दिशेन्
मरकम् ॥”
इति ग्रहणप्रकरणे तिथ्यादितत्त्वम् ॥
अन्यदपि ।
“रवाविन्दौ गजारूढा शन्यङ्गारे तुरङ्गमे ।
नौकया गुरुशुक्राभ्यां दोलया बुधवासरे ॥
गजे च जलदा देवी छत्रभङ्गस्तुरङ्गमे ।
नौकायां शस्यवृद्धिः स्यात् दोलायां मरकं
भवेत् ॥”
इति पत्रिकाप्रवेशफलकथने ज्योतिषम् ॥ * ॥
अस्य शान्तिः । देवीमाहात्म्यपाठः । वटुक-
भैरवस्तवपाठः । तुलस्या विष्णुपूजनञ्च । यथा,
“उपसर्गानशेषांस्तु महामारीसमुद्भवान् ।
तथा त्रिविधमुत्पातं माहात्म्यं शमयेन्मम ॥”
इति मार्कण्डेयपुराणम् ॥
“मारीभये राजभये तथा चौराग्निजे भये ।
औत्पातिके महाघोरे तथा दुःस्वप्नदर्शने ।
बन्धने च तथा घोरे पठेत् स्तोत्रं समाहितः ॥”
इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पः ॥
“ग्रहयज्ञैः शान्तिकैश्च किं क्लिश्यन्ति नरा
द्विज ! ॥
महाशान्तिकरः श्रीमांस्तुलस्या पूजितो हरिः ॥
उत्पातान् दारुणान् पुंसां दुर्निमित्तान्यशेषतः ।
तुलस्या पूजितो भक्त्या महाशान्तिकरो
हरिः ॥”
अत्र ब्रह्मपुराणीयो मन्त्रः ।
“ॐ नमस्ते बहुरूपाय विष्णवे परमात्मने
स्वाहेति ।”
इति ज्योतिस्तत्त्वम् ॥
(जातिविशेषः । यथा, मार्कण्डेये । ५८ । ५१ ।
“दार्व्वादा मरकाश्चैव कुरटाश्चान्नदारकाः ।
एकपादाः खशा घोषाः स्वर्गभौजानव-
द्यकाः ॥”)

मरकतं, क्ली, (मरकं मारिभयं तरन्त्यनेन ।

तन् + डः । यद्वा, मरकं मरणं तनोतीति ।
लोभान्मरणमनादृत्य तस्मिन् रत्ने प्रवर्त्तते इति
मरकतमिति स्मरन्तीति वृद्धाः । इत्यमरटीकायां
भरतः ।) हरिद्वर्णमणिविशेषः । पान्ना इति
भाषा ॥ तस्य देवता बुधः । इति ज्योतिषम् ॥
तत्पर्य्यायः । गारुत्मतम् २ अश्मगर्भम् ३ हरि-
न्मणिः ४ । इत्यमरः । २ । ९ । ९२ ॥ मरक्तम् ५ राज-
नीलम् ६ गरुडाङ्कितम् ७ । इति शब्दरत्ना-
बली ॥ रौहिणेयम् ८ सौपर्णम् ९ गरुडोद्गी-
र्णम् १० बुधरत्नम् ११ अश्मगर्भजम् १२ गर-
लारिः १३ वापबोलम् १४ गारुडम् १५ ।
कुत्रचित् पुस्तके गरुडोद्गीर्णस्थाने गरुडो-
त्तीर्णं वापवोलस्थाने वाप्रबालं इति च पाठः ॥
अस्य गुणाः । विषघ्नत्वम् । नशीतलत्वम् ।
रसे मधुरत्वम् । आमपित्तहरत्वम् । रुच्य-
त्वम् । पुष्टिदत्वम् । भूतनाशकत्वञ्च ॥ * ॥
अस्य लक्षणम् ।
“स्वच्छञ्च गुरु सच्छायं स्निग्धं गात्रञ्च मार्द्दव-
समेतम् ।
अव्यङ्गं बहुरङ्गं शृङ्गारी मरकतं शुभं बिभृ-
यात् ॥”
तस्य कुलक्षणम् ।
“शर्करिलकलिलरूक्षं मलिनं लघुहीनकान्ति
कल्माषम् ।
त्रासयुतं विकृताङ्गं मरकतममरोऽपि नोप-
भुञ्जीत ॥” * ॥
तस्य परीक्षा ।
“यच्छैवालशिखण्डिशाद्बलहरित्काचैश्च बाध-
च्छदैः
खद्योतेन च बालकीरवपुषा शैरीषपुष्पेण च ।
छायाभिः समतां दधाति तदिदं निर्द्दिष्टमष्टा-
त्मकं
जात्यं यत्तपनातपेष्वपरितो गारुत्मतं रञ्जयेत् ॥”
इति राजनिर्घण्टः ॥ * ॥
ग्रन्थान्तरे तस्य परीक्षादि यथा, --
सूत उवाच ।
“दानवाधिपतेः पित्तमादाय भुजगाधिपः ।
द्विधा कुर्व्वन्निव व्योम सत्वरं वासुकिर्ययौ ॥
स तदा स्वशिरोरत्नप्रभादीप्ते नभोऽम्बुधौ ।
राजतः स महानेकः खण्डसेतुरिवाबभौ ॥
ततः पक्षनिपातेन संहरन्निव रोदसी ।
गरुत्मान् पन्नगेन्द्रस्य प्रहर्त्तुमुपचक्रमे ॥
सहसैव मुमोच तत् फणीन्द्रः
सुरसाद्युक्ततुरस्कपादपायाम् ।
नलिकावनगन्धवासितायां
वरमाणिक्यगिरेरुपत्यकायाम् ॥
तस्य प्रपातसमनन्तरकालमेव
तद्बद्बरालयमतीत्य रमासमीपे ।
स्थानं क्षितेरुपपयोनिधितीरलेखं
तत्प्रत्ययान्मरकताकरतां जगाम ॥
तत्रैव किञ्चित् पततस्तु पित्ता
दुत्पत्य जग्राह ततो गरुत्मान् ।
मूर्च्छापरीतः सहसैव घोणा-
रन्ध्रद्वयेन प्रमुमोच सर्व्वम् ॥
तत्राकठोरशुककण्ठशिरीषपुष्प-
खद्योतपृष्ठचरशाद्बलशैवलानाम् ।
कह्लारशस्पकभुजङ्गभुजाञ्च पत्र-
प्रान्तत्विषो मरकताः शुभदा भवन्ति ॥
तद्यत्र भोगीन्द्रभुजा विमुक्तं
पपात पित्तं दितिजाधिपस्य ।
तस्याकरस्यातितरां स देशो
दुःखोपलभ्यश्च गुणैश्च युक्तः ॥
तस्मिन्मरकतस्थाने यत्किच्चिदुपजायते ।
तत्सर्व्वं विषरोगाणां प्रशमाय प्रकीर्त्त्यते ॥
सर्व्वमन्त्रौषधिगणैर्यन्न शक्यं चिकित्सितुम् ।
महाहिदंष्ट्राप्रभवं विषन्तत्तेन शाम्यति ॥
अन्यमप्याकरे तत्र यद्दोषैरुपवर्ज्जितम् ।
जायते तत् पवित्राणामुत्तमं परिकीर्त्तितम् ॥
अत्यन्तहरितवर्णं कोमलमर्च्चिर्व्विभेदजटिलञ्च ।
काञ्चनचूर्णस्यान्तःपूर्णमिव लक्ष्यते यच्च ॥
युक्तं संस्थानगुणैः समरागं गौरवेण विहीनम् ।
सवितुः करसंस्पर्शाच्छुरयति सर्व्वाश्रमं दीप्त्या ॥
हित्वा च हरितभावं यस्यान्तर्व्विनिहिता
भवेद्दीप्तिः ।
अचिरप्रभाप्रभाहतनवशाद्बलसन्निभा भाति ॥
यच्च मनसः प्रसादं विदधाति निरीक्षितमति-
मात्रम् ।
तन्मरकतं महागुणमिति रत्नविदां मनोवृत्तिः ॥
यस्तु भास्करसंस्पर्शात् हस्तन्यस्तो महामणिः ।
रञ्जयेदात्मपादैस्तु महामरकतं हि तत् ॥
चतुर्धा जातिभेदस्तु महामरकते मणौ ।
छायाभेदेन विज्ञेया चतुर्व्वर्गस्य लक्षणैः ॥” * ॥
पृष्ठ ३/६३६
अथ छाया ।
“भवेदष्टविधच्छाया मणेर्मरकतस्य च ।
वर्हिपुच्छसमाभासा चासपक्षसमापरा ॥
हरिकोचनिभा चान्या तथा शैबालसन्निभा ।
स्वद्योतपृष्ठसंकाशा बालकीरसमा तथा ॥
नवशाद्वलसच्छाया शिरीषकुसुमोपमा ।
एवमष्टौ समाख्याताश्छाया मरकताश्रयाः ॥
छायाभिर्यक्तमेताभिः श्रेष्ठं मरकतं भवेत् ।
पद्मरागगतः स्वच्छो जलविन्दुर्यथा भवेत् ।
तथा मरकतच्छाया श्यामला हरितामला ॥”
अथ दोषगुणाः ।
“दोषाः सप्त भवन्त्यस्य गुणः पञ्चविधो मतः ।
अस्निग्धं रूक्षमित्युक्तं व्याधिस्तस्य धृते भवेत् ॥
विस्फोटः स्यात् सपिडके तत्र शस्त्रहतिर्भवेत् ।
सपाषाणे भवेदिष्टनाशो मरकते धृते ॥
विच्छायं मरकतं प्राहुर्वार्य्यते न तु धार्य्यते ।
शर्करं कर्करायुक्तं पुत्त्रशोकप्रदं धृतम् ॥
जठरं कान्तिहीनन्तु दंष्ट्रिवह्निभयावहम् ।
कुल्माषवर्णं धवलं ततो मृत्युभयं भवेत् ॥
इति दोषाः समाख्याता वर्ण्यन्तेऽथ महा-
गुणाः ।
निर्म्मलं कथितं स्वच्छं गुरु स्याद्गुरुतायुतम् ॥
स्निग्धं रूक्षविनिर्मुक्तमरजस्कमरेणुकम् ।
सुरागं रागबहुलं मणेः पञ्च गुणा मताः ॥
एतैर्युक्तं मरकतं सर्व्वपापभयापहम् ।
गजवाजिरथान्दत्त्वा विप्रेभ्यो विस्तराद्धि मे ॥
तत् फलं समवाप्नोति शुद्धे मरकते धृते ।
धनधान्यादिकरणे तथा सैन्यक्रियाविधौ ॥
विषरोगोपशमने कर्म्मस्वाथर्व्वणेषु च ।
शस्यते मुनिभिर्यस्मादयं मरकतो मणिः ॥”
तथा च ।
“स्वच्छता गुरुता कान्तिः स्निग्धत्वं पित्तकार-
णम् ।
हरिन्निरञ्जकञ्चैव सप्त मरकते गुणाः ॥”
अथ कृत्रिमाकृत्रिमपरीक्षा ।
“कृत्रिमत्वं सहजत्वं दृश्यते सूरिभिः क्वचित् ।
घर्षयेत् प्रस्तरे वङ्गकाचस्तस्माद्विपद्यते ॥
लेखयेल्लौहभृङ्गेण चूर्णेनाथ विलेपयेत् ।
सहजः कान्तिमाप्नोति कृत्रिमो मलिनायते ॥
वर्णस्यातिबहुत्वात् यस्यान्तः स्वच्छकिरण-
परिधानम् ।
सान्द्रस्निग्धविशुद्धं कोमलबर्हप्रभादिसमकान्ति ॥
चलोज्ज्वलया कान्त्या सान्द्राकारं विभासया
भाति ।
तदपि गुणवत्संज्ञामाप्नोति हि यादृशीं पूर्ब्बम् ॥
सकलकठोरं मलिनं रूक्षं पाषाणकर्करोपेतम् ।
दिग्धञ्च शिलाजतुना मरकतमेवंविधं विगुणम् ॥
यत्सन्धिश्लेषितं रत्नमन्यन्मरकताद्भवेत् ।
श्रेयस्कामैर्न तद्धार्य्यं क्रेतव्यं वा कथञ्चन ॥
भल्लातकपुत्त्रिका च तद्वर्णसमयोगतः ।
मणेर्मरकतस्यैते लक्षणीया विजातयः ॥
क्षौमेण वाससा घृष्टा दीप्तिं त्यजति पुत्त्रिका ।
लाघवेनैव काचस्य शक्या कर्त्तुं विभावना ॥
कस्यचिदनेकरूपैर्मरकतमनुगच्छतोऽपि गुण-
वर्णैः ।
भल्लातकस्य निर्नेतुर्वैशद्यमुपैति वर्णस्य ॥
वज्राणि मुक्ताः सन्त्यन्ये ये च केचिद्विजातयः ।
तेषामप्रतिबद्धानां भा भवत्यूर्द्ध्वगामिनी ॥
ऋजुत्वाच्चैव केषाञ्चित्कथञ्चिदुपजायते ।
तिर्य्यगालोक्यमानानां सद्यश्चैव प्रणश्यति ॥
स्नानाचमनजप्येषु रक्षामन्त्रक्रियाविधौ ।
ददद्भिर्गोहिरण्यानि कुर्व्वद्भिः साधनानि च ॥
दैवपित्र्यातिथेयेषु गुरुसंपूजनेषु च ।
वाध्यमानेषु विषमैर्दोषजातैर्विषोद्भवैः ॥
दौषैर्हीनं गुणैर्युक्तं काञ्चनप्रतियोजितम् ।
संग्रामे विचरद्भिश्च धार्य्यं मरकतं बुधैः ॥”
अथ मूल्यम् ।
“तुलया पद्मरागस्य यन्मूल्यमुपजायते ।
लभतेऽभ्यधिकं तस्मात् गुणैर्मरकतं स्मृतम् ॥
तथा च पद्मरागाणां दोषैर्मूल्यं प्रलीयते ।
ततोऽस्याप्यधिका हानिर्दोषैर्मरकते भवेत् ॥
गुणपिण्डसमायुक्ते हरितश्यामभास्वरे ।
मूल्यं द्बादशकं प्रोक्तं जातिभेदेन सूरिभिः ॥
यवैकेन शतं पञ्चसहस्रं द्वितये यवे ।
त्रिभिश्चैव सहस्रे द्वे चतुर्भिश्च चतुर्गुणम् ॥”
इति गारुडे मरकतपरीक्षा ७१ अध्यायः
युक्तिकल्पतरुश्च ॥

मरकतपत्री, स्त्री, (मरकतमिव पत्रं यस्याः ।

ङीष् । तद्वर्णसादृश्यादेवास्यास्तथात्वम् ।)
पाची । इति राजनिर्घण्टः ॥

मरक्तं, क्ली, (मरकतम् । पृषोदरादित्वात्

साधुः ।) मरकतमणिः । इति शब्दरत्नावली ॥

मरणं, क्ली, (म्रियतेऽनेनेति । मृ + करणे ल्युट् ।)

वत्सनाभः । इति राजनिर्घण्टः ॥ (भावे ल्युट् ।)
विजातीयात्ममनःसंयोगध्वंसः । इति न्याय-
मतम् ॥ तत्पर्य्यायः । पञ्चता २ कालधर्म्मः ३
दृष्टान्तः ४ प्रलयः ५ अत्ययः ६ अन्तः ७
नाशः ८ मृत्युः ९ निधनम् १० । इत्यमरः ।
२ । ८ । ११६ ॥ भूमिलाभः ११ निपातः १२
आत्ययिकम् १३ मृतिः १४ । इति शब्दरत्ना-
वली ॥ कीर्त्तिशेषः १५ महानिद्रा १६ महा-
पथगमः १७ संस्थानम् १८ । इति जटाधरः ॥
मरणदुःखान्याह ।
“मरणे यानि दुःखानि प्राप्नोति शृणु तान्यपि ।
श्लथग्रीवाङ्घ्रिहस्तोऽथ व्याप्तो वेपथुना नरः ॥
मुहुर्ग्लानिः परवशो मुहुर्ज्ञानबलान्वितः ।
हिरण्यधान्यतनयभार्य्याभृत्यगृहादिषु ।
एते कथं भविष्यन्तीत्यतीवममताकुलः ॥
मर्म्मभिद्भिर्महारोगैः क्रकचैरिव दारुणैः ।
शरैरिवान्तकस्योग्रैश्छिद्यमानासुबन्धनः ॥
विवर्त्तमानताराक्षिहस्तपादं मुहुः क्षिपन् ।
संशुष्यमाणताल्वोष्ठपुटो घुरघुरायते ॥
निरुद्धकण्ठो दोषौघौरुदानश्वासपीडितः ।
तापेन महता व्याप्तस्तृषा चार्त्तस्तथा क्षुधा ॥
क्लेशादुत्क्रान्तिमाप्नोति याम्यकिङ्करपीडितः ।
ततश्च यातनादेहं क्लेशेन प्रतिपद्यते ।
एतान्यन्यानि चोग्राणि दुःखानि मरणे
नृणाम् ॥”
इति विष्णुपुराणे ६ अंशे ५ अध्यायः ॥ * ॥
सुहृन्मरणश्रावणनिषेधो यथा, --
“अग्नौ न निक्षिपेदग्निं नाद्भिः प्रशमयेत्तथा ।
सुहृन्मरणमार्त्तिं वा न स्वयं श्रावयेत् परान् ॥”
इति कौर्म्मे उपविभागे १५ अध्यायः ॥ * ॥
अथ धार्म्मिकमरणलक्षणम् ।
सोमशर्म्मोवाच ।
“धर्म्यो हि कीदृशो मृत्युर्जन्म चैव वदस्व मे ।
उभयोर्लक्षणं कान्ते ! त्वमेवं हि वदस्व मे ॥
सुमनोवाच ।
सत्यं शौचं क्षमा शान्तिस्तीर्थं पुण्यादिकं तथा ।
धर्म्मञ्च पालितं येन तस्य मृत्युं वदाम्यहम् ॥
रोगो न जायते तस्य न च पीडा कलेवरे ।
न श्रमो वै नच ग्लानिर्न च स्वेदो भ्रमस्तथा ॥
दिव्यरूपधरा भूत्वा गन्धर्व्वा ब्राह्मणास्तथा ।
वेदपाठसमायुक्ता गतिज्ञानविशारदाः ॥
तस्य पार्श्वं समायान्ति स्तुतिं कुर्व्वन्ति चातु-
लाम् ।
सुस्थो हि आसने युक्तो देवपूजारतः किल ॥
तीर्थञ्च लभते प्राज्ञः स्नानार्थं धर्म्मतत्परः ।
अग्न्यगारे च गोष्ठे च देवतायतनेषु च ॥
आरामे च तडागे च यत्राश्वत्थो वटस्तथा ।
ब्रह्मवृक्षं समाश्रित्य श्रीवृक्षन्तु तथा पुनः ॥
अश्वस्थानं समाश्रित्य गजस्थानं ततो नरः ।
अशोकं चूतवृक्षञ्च समाश्रित्य यदा स्थितः ॥
सन्निधिं ब्राह्मणानाञ्च राजवेश्मगतोऽपि वा ।
रणभूमिं समाश्रित्य पुरा यत्र मृता भटाः ॥
मृत्युस्थानानि पुण्यानि केवलं धर्म्मकारणम् ।
गोग्रहन्तु समं प्राप्य तथा समरशङ्कटम् ॥
शद्धधर्म्मकरो नित्यं धर्म्मतो धर्म्मवत्सलः ।
एवं स्थानं समाप्नोति यदा मृत्युं समाश्रितः ॥
मातरं पश्यते पुण्यं पितरञ्च नरोत्तमम् ।
भ्रातरं श्रेयसा युक्तमन्यं स्वजनबान्धवम् ॥
वन्दिजनं तथा पुण्यं स्तूयमानं पुनः पुनः ।
पापिष्ठं नैव पश्येत मातृपित्रादिकं पुनः ॥
गीतं गायन्ति गन्धर्व्वाः स्तुवन्ति स्तावकाः स्तवैः ।
मन्त्रपाठैस्तथा विप्रा माता स्नेहेन पूजयेत् ॥
पिता स्वजनवर्गश्च धर्म्मात्मानं महामतिम् ।
एवंभूताः समाख्याताः पुण्यस्थानानि ते
विभो ! ।
प्रत्यक्षान् पश्यते भूतान् हास्यस्नेहसमाविलान् ॥
न च स्वप्नेन मोहेन क्लेशरक्तेन वै वत ॥
धर्म्मराजो महाप्राज्ञो दूरात्तन्तु समाह्वयेत् ।
एह्येहि त्वं महाभाग ! यत्र धर्म्मः स तिष्ठति ॥
तस्य मोहो न च भ्रान्तिर्न ग्लानिर्न च
विक्रिया ।
जायते नात्र सन्देहः प्रसन्नात्मा प्रतिष्ठते ॥
ज्ञानविज्ञानसम्पन्नः स्मरन्नेवं जनार्द्दनम् ।
पृष्ठ ३/६३७
तैश्च रार्द्बं प्रयात्येवं सन्तुष्टो हृष्टमानसः ॥
दशमद्वारमाश्रित्य आत्मा तस्य हि गच्छति ।
शिविका तस्य चायाति सुयानं सुमनोहरम् ॥
विमानैरेव यात्येष वायोर्वेगेन चोत्तमः ॥
छत्रेण ध्रियमाणेन चामरव्यजनैस्तथा ।
वीज्यमानः स धर्म्मात्मा पुण्यैरेव समन्ततः ॥
गीयमानस्तु धर्म्मात्मा स्तूयमानस्तु पण्डितैः ।
वन्दिभिश्चामरैर्दिव्यैर्ब्राह्मणैर्वेदपारगैः ॥
साधुभिः स्तूयमानस्तु सर्व्वसौख्यसमन्वितः ।
यथादानप्रभावेण फलमाप्नोति तत्र सः ॥
आरामवाटिकामध्ये स प्रयाति सुखेन वै ।
अप्सरोभिः समाकीर्णो दिव्याभिर्मङ्गलैर्युतः ॥
देवैस्तु स्तूयमानस्तु धर्म्मराजं प्रपश्यति ।
देवाश्च धर्म्मसंयुक्ता जग्मुः सांमुख्यमेव ते ॥
एह्येहि त्वं महाभाग ! भुङ्क्ष्व भोगान्मनो-
रमान् ।
एवं संपश्यते धर्म्मं सौम्यरूपं महामतिः ॥
अस्य पुण्यस्य भावेन भुङ्क्ते स्वर्गमनुत्तमम् ।
भोगक्षयात् स धर्म्मात्मा पुनर्जन्म प्रयाति च ॥
निजघर्म्मप्रसादात् स कुलं पुण्यं प्रयाति च ।
ब्राह्मणस्य सुपुण्यस्य क्षत्त्रियस्य तथैव च ॥
धनाढ्यस्य सुपुण्यस्य वैश्यस्य च महामते ! ।
धर्म्मेण मोदते भद्रं पुनः पुण्यं करोति सः ॥”
इति श्रीपद्मपुराणे भूमिखण्डे सुमनोपाख्याने
१५ अध्यायः ॥ * ॥
अथ पापिनां मरणलक्षणम् ।
सोमशर्म्मोवाच ।
“पापिनां मरणं भद्रे ! कीदृशैर्लक्षणैर्युतम् ।
तन्मे त्वं विस्तराद्ब्रूहि यदि जानासि भाविनि ! ॥
सुमनोवाच ।
श्रूयतामभिधास्यामि तस्मात् सिद्धात् श्रुतं मया ।
पापिनां मरणं कान्त ! यादृशं लिङ्गमेव च ॥
महापातकिनाञ्चैव स्थानमेषां वदाम्यहम् ।
लिप्ताममेध्यसंक्लेदैर्भूमिं पापसमन्विताम् ॥
स तां प्राप्य सुदुष्टात्मा प्राणान् दुःखेन मुञ्चति ।
चाण्डालभूमिं संप्राप्य मरणं याति दुःखितः ॥
गर्द्दभाचरितां भूमिं वेश्यागारं समाश्रितः ॥
मद्यपानगृहं गत्वा नैधन्यमुपगच्छति ।
अस्थिचर्म्मनखैः पूर्णामाश्रितां पापकिल्विषैः ॥
तामवाप्य स दुष्टात्मा मृत्युं प्राप्नोति निश्चितम् ।
अन्यां पापसमाचारां प्राप्य मृत्युं स गच्छति ॥
अथ चेष्टां प्रवक्ष्यामि दूतानां प्रिय ! निश्चि-
ताम् ॥
भैरवान् दारुणान् घोरानतिकृष्णान्महोदरान् ।
पिङ्गाक्षान् पीतनीलांश्च अतिश्वेतान्महो-
दरान् ॥
अत्युच्चांश्च करालांश्च शुष्कमांसत्वचोपमान् ।
रौद्रदंष्ट्राकरालांश्च सिंहास्यान् सर्पहस्तकान् ॥
स तान् दृष्ट्वा प्रकम्पेत स्विद्येत च मुहुर्मुहुः ।
शिवासंवादवद्घोरान्महारावान्महामते ! ॥
मुञ्चन्ति दूतकाः सर्व्वे कर्णमूले तु तस्य हि ।
गले पाशप्रबद्धास्ते कण्ठे बद्धास्तथोदरे ॥
समाकृष्य नयन्त्येते हाहेति रुदतो मुहुः ।
म्रियमाणस्य या चेष्टा तामेवं प्रवदाम्यहम् ॥
परद्रव्यापहरणं परभार्य्याविडम्बनम् ।
ऋणं परस्य सर्व्वस्वं गृहीतं यैस्तु पापिभिः ॥
पुनर्नैव प्रदत्तं हि लोभास्वादविमोहितैः ।
अन्यदेव महापापं कुप्रतिग्रहमेव च ॥
कण्ठमायान्ति ते सर्व्वे म्रियमाणस्य तस्य च ।
यानि कानि च पापानि पूर्ब्बमेव कृतानि च ॥
आयान्ति कण्ठमूलं हि महापापस्य नान्यथा ।
दुःखमुत्पादयन्त्येते कफबन्धेन दारुणम् ॥
पीडाभिर्दारुणाभिश्च कण्ठो घुरघुरायते ।
रोदते कम्पतेऽत्यर्थं मातरं पितरं पुनः ।
स्मरति भ्रातरं तत्र भार्य्यां पुत्त्रं पुनः पुनः ॥
पुनर्विस्मरणं याति महापापेन मोहितः ।
तस्य प्राणा न गच्छन्ति बहुपीडासमाकुलाः ॥
पतते कम्पते चैव मूर्च्छते च पुनः पुनः ।
एवं पीडासमायुक्तो दुःखं भुङ्क्तेऽतिमोहितः ॥
तस्य प्राणा सुदुःखेन महाकष्टैः प्रचालितः ।
अपानं मार्गमाश्रित्य शृणु कान्त ! प्रयान्ति ते ॥
एवंप्राया दुरात्मानो लोभमोहसमन्विताः ।
नीयन्ते च महाभूतैस्तेषां दुःखं वदाम्यहम् ॥”
इति पाद्मे भूमिखण्डे सुमनोपाख्याने पापिमरणं
नाम १६ अध्यायः ॥ * ॥
पापिनां यमालयगमननानायोनिप्राप्तिविवरणं
यथा, --
सुमनोवाच ।
“अङ्गारसञ्चये मार्गे कृष्यमाणो हि नीयते ।
दह्यमानः स दुष्टात्मा चेष्टमानः पुनः पुनः ॥
यत्रातपो महातीव्रो द्वादशादित्यतापितः ।
नीयते तेन मार्गेण सन्तप्तः सूर्य्यरश्मिभिः ॥
पर्व्वतेष्विव दुर्गेषु छायाहीनेषु दुर्म्मतिः ।
नीयते तेन मार्गेण क्षुधातृष्णादिपीडितः ॥
स दूतैर्हन्यमानस्तु पदा दण्डैः परश्वधैः ।
कशाभिस्ताड्यमानस्तु निन्द्यमानस्तु दूतकैः ॥
ततः शीतमये मार्गे वायुना सेव्यते पुनः ।
तेन शीतेन दुःखी स भूत्वा याति न संशयः ॥
आकृष्यमाणो दूतैस्तु नानादुःखेन नीयते ।
एवं पापी स दुष्टात्मा देवब्राह्मणनिन्दकः ॥
सर्व्वपापसमायुक्तो नीयते यमकिङ्करैः ।
यमं पश्यति दुष्टात्मा कृष्णाञ्जनचयोपमम् ।
तमुग्रं दारुणं भीमं यमदूतैः समावृतम् ।
सर्व्वव्याधिसमाकीर्णं चित्रगुप्तसमन्वितम् ॥
आरूढमहिषं देवं धर्म्मराजं द्बिजोत्तम ! ।
दंष्ट्राकरालमत्युग्रं लम्बास्यं कालसन्निभम् ॥
पीतवासं महाहस्तं रक्तगन्धानुलेपनम् ।
रक्तमालाकृताभूषं गदाहस्तं भयङ्करम् ॥
एवंव्रिधं महाकायं यमं पश्यति दुर्म्मतिः ।
तं दृष्ट्वा समनुप्राप्तं सर्व्वधर्म्मबहिष्कृतम् ॥
यमः पश्यति तं दुष्टं पापिष्ठं धर्म्मकण्टकम् ।
शातयेत्तु महादुःखैः पीडाभिर्दारुमुद्गरैः ॥
यावद्युगसहस्रान्तं तावत् कालं प्रपच्यते ।
नानानरकदेशेषु पच्यते च पुनः पुनः ॥
नरकञ्च प्रयात्येवं कृमिकीटेषु पापकृत् ।
अमेध्ये पच्यते नित्यं हाहाभूतो विचेतनः ॥
मरणञ्चैव पापात्मा एवं याति सुनिश्चितम् ।
एवं पापस्य सम्भोगं भुङ्क्ते चैव सुदुर्म्मतिः ॥
पुनर्जन्म प्रवक्ष्यामि यासु योनिषु जातिषु ।
श्वयोनिं समनुप्राप्य भुञ्जते पातकं पुनः ॥
व्याघ्रो भवति दुष्टात्मा रासभं याति वै पुनः ।
मार्ज्जारशौकरीं योनिं सर्पयोनिन्तथैव च ॥
नानाभेदासु सर्व्वासु तिर्य्यक्सु च पुनः पुनः ।
पापपक्षिषु संयाति अन्यासु गर्हितासु च ।
चाण्डालभिल्लजातिञ्च पुलिन्दीं याति पाप-
कृत् ॥
एतत्ते सर्व्वमाख्यातं पापिनां जन्म चव हि ।
पापपुण्यसमाचारस्त्वदग्रे कथितो मया ॥”
इति पाद्मे भूमिखण्डे सुमनोपाख्याने पाप-
पुण्यविवेको नाम १७ अध्यायः ॥ * ॥
शालग्रामशिलास्पर्शे मरणफलम् । यथा, --
राजान ऊचुः ।
“युवां नारायणस्यास्य कल्केः श्वशुरतां गतौ ।
वयं नृपा इमे लोका ऋषयो ब्राह्मणाश्च ये ॥
प्रेक्ष्य भक्तिवितानं वां हरौ विस्मितमानसाः ।
पृच्छामस्त्वामियं भक्तिः क्व लब्धा परमात्मनः ॥
कस्य वा शिक्षिता राजन् ! किं वा नैसर्गिकी
तव ।
श्रोतुमिच्छामहे राजन् ! त्रिजगज्जनपावनीम् ।
कथां भागवतीं त्वत्त्वः संसाराश्रमनाशिनीम् ॥
शशिध्वज उवाच ।
स्त्रीपुंसोरावयोर्यूयं शृणुतामोघविक्रमाः ।
वृत्तं यज्जन्मकर्म्मादिस्मृतिं तद्भक्तिलक्षणाम् ॥
पुरा युगसहस्रान्ते गृध्रोऽहं पूतिमांसभुक् ।
गृध्रीयं मे प्रियारण्ये कृतनीडौ वनस्पतौ ॥
चकार कामं सर्व्वत्र वनोपवनसंकुले ।
मृतानां पूतिपललैः प्राणिनां वृत्तिकल्पकौ ॥
एकदा लुब्धकः क्रूरो लुलोभ पिशिताशिनौ ।
आवां वीक्ष्य गृहे पुष्टं गृध्रं तत्राप्ययोजयत् ॥
तं वीक्ष्य जातविश्रान्तौ क्षुधया परिपीडितौ ।
स्त्रीपुंसौ पतितौ तत्र मांसशोणितचेतसौ ॥
बद्धावावां वीक्ष्य शिचा हर्षादागत्य लुब्धकः ।
जग्राह कण्ठे तरसा चञ्च्वग्राघातपीडितः ॥
आवां गृहीत्वा गण्डक्याः शिलायां सलिला-
न्तिके ।
मस्तिष्कं चूणयामास लुब्धकः पिशिताशनः ॥
चक्राङ्कितशिलासङ्गान्मरणादपि तत्क्षणात् ।
ज्योतिर्म्मयविमानेन सद्यो भूत्वा चतुर्भुजौ ॥
प्राप्तौ वैकुण्ठनिलयं सर्व्वलोकनमस्कृतम् ।
ततः स्थित्वा युगशतं ब्रह्मणो लोकमागतौ ॥
ब्रह्मलोके पञ्चशतं युगानामुपभुज्य वै ।
देवलोके कालवशाद्गतं युगचतुःशतम् ॥
ततो भुवि नृपास्तावत् बद्धसूनुरहं स्मरन् ।
हरेरनुग्रहं लोके शालग्रामशिलाश्रयम् ॥
जातिस्मरत्वं गण्डक्याः किं तस्याः कथया-
म्यहम् ।
पृष्ठ ३/६३८
यज्जलस्पर्शमात्रेण माहात्म्यं महदद्भुतम् ॥
चक्राङ्कितशिलास्पर्शमरणस्येदृशं फलम् ।
न जाने वासुदेवस्य सेवया किं भविष्यति ॥”
इति कल्किपुराणे २५ अध्यायः ॥ * ॥
मरणजनकवस्तूनि यथा, --
“अग्निरापः स्त्रियो मूर्खः सर्पा राजकुलानि
च ।
नित्यं परोपसेव्यानि सद्यःप्राणहराणि षट् ॥”
इति गारुडे ११४ अध्यायः ॥
(“मरणं प्राप्नुयात्तत्र शुक्रस्थानगते ज्वरे ।
शेफसः स्तध्वता मोक्षः शुक्रस्य तु विशेषतः ॥”
इति माधवकरकृतरुग्विनिश्चये ज्वराधिकारे ॥
“अपानः कर्षति प्राणं प्राणोऽपानन्तु कर्षति ।
शङ्खिनी तु यदा भिन्ना तदैव मरणं ध्रुवम् ॥”
इति वैद्यकम् ॥)

मरतः, पुं, (मृ मृतौ + “भृमृदृशियजीति ।”

उणा० ३ । ११० । इति अतच् ।) मरणम् ।
इत्युणादिकोषः ॥

मरन्दः, पुं, (मरं मरणं द्यति खण्डयति भ्रम-

राणां जीवनहेतुत्वात् । दो + कः । यद्बा,
मकरन्दः । पृषोदरादित्वात् साधुः ।) मक-
रन्दः । इति शब्दरत्नावली ॥ (यथा, --
“माकन्दमुकुलस्यन्दि मरन्दस्यन्दिमन्दिरे ।
केलितल्पे मुकुन्देन कुन्दवृन्देन मण्डिता ॥”
इति स्तवावली ॥)

मरन्दकः, पुं, (मरन्दः । स्वार्थे कन् ।) मकरन्दः ।

इति शब्दरत्नावली ॥

मराकाली, स्त्री, (मरं मरणदुःखं अकति

प्राप्नोत्यनेनेति । अक् + करणे घञ् । स इव
अलति पर्य्याप्नोतीति । अल् + अच् । गौरा-
दित्वात् ङीष् ।) बृश्चिकाली । इति रत्नमाला ।
विछाटी इति भाषा ॥ (विवृतिरस्या बृश्चि-
कालीशब्दे ज्ञातव्या ॥)

मरारः, पुं, (मरं मरणमलति निवारयतीति ।

अल + अण् । लस्य रत्वम् ।) शस्यरक्षण-
स्थानम् । इति जटाधरः । मराइ इति भाषा ॥

मरालः, पुं, (मृ + आलच् ।) राजहंसः । इति

जटाधरः ॥ (यथा, नैषधे । ६ । ७२ ।
“भैमीसमीपे स निरीक्ष्य यत्र
ताम्बूलजाम्बूनदहंसलक्ष्मीम् ।
कृतप्रियादूत्यमहोपकार-
मरालमोहद्रढिमानमूहे ॥”)
कज्जलम् । कारण्डवः । तुरङ्गमः । वारिवाहः ।
दाडिमीविपिनम् । खलः । इति सारस्वतः ॥
मसृणे, त्रि । इति त्रिकाण्डशेषः ॥

मरालकः, पुं, (मराल इव प्रतिकृतिरिति ।

मराल + कन् ।) कलहंसः । इति राज-
निर्घण्टः ॥

मरिचं, क्ली, (म्रियते नश्यति श्लेष्मादिकमनेनेति । मृ

+ बाहुलकात् इचः ।) कक्कोलकम् । स्वनामख्यात-
वर्त्तुलाकारकटुद्रव्यविशेषः । तत्पर्य्यायः । पवि-
तम् २ श्यामम् ३ कोलम् ४ वल्लीजम् ५ ऊष-
णम् ६ यवनेष्टम् ७ वृत्तफलम् ८ शाकाङ्गम् ९
धर्म्मपत्तनम् १० कटुकम् ११ शिरोवृत्तम् १२
वीरम् १३ कफविरोधि १४ मृषम् १५ सर्व्व-
हितम् १६ कृष्णम् १७ वेल्लजम् १८ । (यथा,
सुश्रुते सूत्रस्थाने ३८ अध्याये ।
“पिप्पलीमरिचशृङ्गवेराणि त्रिकटुकम् ॥”)
अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् ।
लघुत्वम् । श्लेष्मविनाशनत्वम् । समीरकृमि-
हृद्रोगहरत्वम् । रुचिकारकत्वञ्च । इति
राजनिर्घण्टः ॥ अपि च ।
“मरिचं वेल्लजं कृष्णमूषणं धर्म्मपत्तनम् ।
मरिचं कटुकं तीक्ष्णं दीपनं कफवातजित् ॥
उष्णं पित्तहरं रूक्षं श्वासशूलकृमीन् हरेत् ।
तदार्द्रं मधुरं पाके नात्युष्णं कटुकं गुरु ॥
किञ्चित्तीक्ष्णगुणं श्लेष्मप्रसेकि स्यादपित्तलम् ॥”
इति भावप्रकाशः ॥
(अपि च ।
“स्वादुपाक्यार्द्रमरिचं गुरुश्लेष्मप्रसेकि च ।
कटूष्णं लघु तच्छुष्कमवृष्यं कफवातजित् ॥
नात्युष्णं नातिशीतञ्च वीर्य्यतो मरिचं सितम् ।
गुणवन्मरिचेभ्यश्च चक्षुष्यञ्च विशेषतः ॥”
इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥)

मरिचः, पुं, (म्रियते नश्यतीति । मृ + इचः ।)

मरुवकवृक्षः । इति राजनिर्घण्टः ॥

मरिचपत्रकः, पुं, (मरिचस्य पत्राणीव पत्राणि

यस्येति । बहुब्रीहौ कः ।) सरलवृक्षः । इति
राजनिर्घण्टः ॥

मरिमा, [न्] पुं, (म्रियते इति । मृ + “जनि

मृङ्भ्यामिमनिन् ।” उणा० ४ । १४८ । इति
इमनिन् ।) मृत्युः । इति सिद्धान्तकौमुद्या-
मुणादिवृत्तिः ॥

मरीचं, क्ली, (मृ + बाहुलकात् ईचः ।) स्वनाम-

ख्यातकटुद्रव्यविशेषः । तत्पर्य्यायः । वेल्लजम् २
कोलकम् ३ कृष्णम् ४ ऊषणम् ५ धर्म्मपत्तनम् ६ ।
इत्यमरः । २ । ९ । ३६ ॥ मरिचम् ७ श्यामम् ८
वरिष्ठम् ९ । इति जटाधरः ॥ आर्द्रस्य तस्य
गुणाः । पाके स्वादुत्वम् । गुरुत्वम् । श्लेष्म-
प्रसेकित्वञ्च । शुष्कस्य तस्य गुणाः । रुच्यत्वम् ।
अग्निदत्वम् । रूक्षत्वम् । कटुत्वम् । उष्णत्वम् ।
लघुत्वम् । शुक्रनाशित्वञ्च । इति राजवल्लभः ॥
अन्यत् मरिचशब्दे द्रष्टत्वम् ॥

मरीचिः, पुं, (म्रियते पापराशिर्यस्मिन्निति ।

मृ + “मृकणिभ्यामीचिः ।” उणा० ४ । ७० ।
इति ईचिः । तपःप्रभावादस्य तथात्वम् ।)
मुनिविशेषः । स तु ब्रह्मणो ज्येष्ठमानसपुत्त्रः ।
अस्य भार्य्या कर्द्दममुनिकन्या कला, पुत्त्रः
कश्यपः पूर्णिमासश्च । इति श्रीभागवतम् ॥
(अस्य भार्य्या सम्भूतिरिति नाम्नापि ख्याता ।
यथा, मार्कण्डेये । ५२ । १९ ।
“पत्नी मरीचेः सम्भूतिः पौर्णमासमसूयत ॥”)
कृपणः । इति हेमचन्द्रः ॥ (दनुपुत्त्रः । यथा,
हरिवंशे । ३ । ८२ ।
“मरीचिर्मघवांश्चैव इरा शङ्कुशिरा वृकः ॥”
मरुद्गणानामन्यतमः । यथा, श्रीभगवद्गीता-
याम् । १० । २१ ।
“मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥”
प्रियव्रतवंशीयस्य सम्राजः पुत्त्रः । यथा, श्रीमद्भा-
गवते । ५ । १५ । १४ -- १५ । “चित्ररथा-
दूर्णायां सम्राडजनिष्ट । ततः उत्कलायां
मरीचिर्मरीचेर्बिन्दुमत्यां बिन्दुमानुदपद्यत ।
तस्मात् सरघायां मधुनामाभवत् ॥”)

मरीचिः, पुं, स्त्री, (म्रियन्ते नश्यन्ति क्षुद्रजन्तव-

स्तमांसि वानेन । मृ + ईचिः ।) किरणः । इत्य-
मरः । १ । ४ । ३३ ॥ (यथा, रघौ । १३ । ४ ।
“गर्भं दधत्यर्कमरीचयोऽस्माद्
विवृद्धिमत्राश्नुवते वसूनि ॥”
यथा च ।
“मरीचीनसतो मेघान् मेघान् वाप्यसतोऽम्बरे ।
विद्युतो वा विना मेघैः पश्यन् मरणमृच्छति ॥”
इति चरके इन्द्रियस्थाने चतुर्थेऽध्याये ॥)
षट्त्र्यसरेणुपरिमाणम् । इति वैद्यकपरिभाषा ॥
(स्त्री, म्रियन्ते इव देवा यद्दर्शनादिति ।
मृ + ईचिः । अप्सरोविशेषः । यथा, महा-
भारते । १ । १२३ । ५९ ।
“मरीचिः शुचिका चैव विद्युद्वर्णा तिलोत्तमा ।
अम्बिका लक्षणा क्षेमा देवी रम्भा मनोरमा ॥”
म्रियते वारिभ्रमेण जीवा यस्याः । मृ + अपा-
दाने ईचिः । मरीचिका । यथा, कथासरित्-
सागरे । ५७ । ९१ ।
“वेश्याप्रेमणि सद्भावो यदस्मिन् बुध्यते त्वया ।
सत्यंभवति किं जातु जलं मरुमरीचिषु ॥”)

मरीचिका, स्त्री, (मरीचिरेव । स्वार्थे कन् ।

टाप् ।) मृगतृष्णा । इत्यमरः । १ । ४ ।
३५ ॥ (यथा, प्रबोधचन्द्रोदये । १ । १ ।
“मध्याह्रार्कमरीचिकास्विव पयःपूरो यद-
ज्ञानतः ॥”)
“मरीचिरिव मरीचिका स्वार्थे संघे इत्यादिना
इवार्थे कः । ग्रीष्मे मरुदेशसिकतादावर्ककराः
प्रतिफलिताः दूरस्थानां जलत्वेनाभान्ति तद्वा-
चिका मृगतृष्णेति टीकाकारः । उत्कटरवि-
रश्मिजन्यक्षितिवास्पजालं मरीचिका । दूरशून्ये
यन्मयूखैर्जलमिव दृश्यते इत्यपरे ।” इति भरतः ॥

मरुः, पुं, (म्रियतेऽस्मिन्निति । मृ + “भृमृ-

शीति ।” उणा० १ । ७ । इति उः ।) निर्जल-
देशः । (यथा, महाभारते । १३ । १५४ । २७ ।
“अदृश्या गच्छ भीरु ! त्वं सरस्वति ! मरून्
प्रति ॥”)
पर्व्वतः । इत्यमरः । ३ । ३ । १६२ ॥ यथा
महाभारते । ५ । ६४ । १८ ।
“तत्रापश्याम वै सर्व्वे मधु पीतममाक्षिकम् ।
मरुप्रपाते विषमे निविष्टं कुम्भसम्मितम् ॥”
दशेरकदेशः । तत्पर्य्यायः । धन्वा २ । इत्यमरः ।
२ । १ । ५ ॥ यथा, हेमचन्द्रः ।
“शाल्वास्तु कारकुक्षीया मरवस्तु दशेरकाः ॥”
पृष्ठ ३/६३९
मरुवकवृक्षः । इति भावप्रकाशः ॥ (निमि-
वंशीयहर्य्यश्वपुत्त्रः । यथा, श्रीमद्भागवते । ९ ।
१३ । १५ ।
“तस्माद्वृहद्रथस्तस्य महावीर्य्यः सुवृत्पिता ।
सुधृतेर्धृष्टकेतुर्वै हर्य्यश्वोऽथ मरुस्ततः ॥”)
सूर्य्यवंशीषभाविराजविशेषः । तस्य विवरणं
यथा, --
“रामात् कुशोऽभूदतिथिस्ततोऽभून्निषधान्नभः ।
तस्मादभूत् पुण्डरीकः क्षेमधन्वाभवत्ततः ॥
देवानीकस्ततो हीनः पारिपात्रोऽथ हीनतः ।
बलाहकस्ततोऽर्कश्च रजनाभस्ततोऽभवत् ॥
खगणाद्विधृतस्तस्माद्धिरण्यो नाभसंज्ञितः ।
ततः पुष्पार्णवस्तस्मान्मुद्गलोऽथाग्निवर्णकः ॥
तस्मात् शीघ्रोऽभवत् पुत्त्रः पिता मेऽतुलविक्रमः ।
तस्मात् मरुं मां केऽपीह बुधञ्चापि सुमित्रकम् ॥
कलापग्राममासाद्य विद्धि सत्तपसि स्थितम् ।
तवावतारं विज्ञाय व्यासात् सत्यवतीसुतात् ॥
प्रतीक्ष्य कालं लक्षाब्दं कालप्राप्तस्तवान्तिकम् ।
कल्किरुवाच ।
मरो ! त्वामभिषेक्ष्यामि निजायोध्यापुरेऽधुना ।
हत्वा म्लेच्छानधर्म्मिष्ठान् प्रजाभूतविहिंसकान् ॥
विशाखयूपभूपालस्तनयां विनयान्विताम् ।
बिवाहे रुचिरापाङ्गीं सुन्दरीं त्वां प्रदा-
स्यति ॥”
इति कल्किपुराणे १८ अध्यायः ॥
(वसूनामन्यतमः । यथा, हरिवंशे । १९६ । ४७ ।
“वासवानुगता देवी जनयामास वै सुतान् ।
मरुं वै प्रथमं देवं द्वितीयं ध्रुवमव्ययम् ॥”)

मरुजः, पुं, (मरौ निर्ज्जलदेशे जायते इति ।

जन् + डः ।) नखीनामगन्धद्रव्यम् । इति शब्द-
चन्द्रिका ॥ (वंशाङ्कुरे, क्ली । तत्पर्य्यायो यथा,
“करीरं मरुजं फलम् -- ।”
इति वैद्यकरत्नमालायाम् ॥)
मरुदेशजाते, त्रि ॥

मरुजा, स्त्री, (मरुज + स्त्रियां टाप् ।) मृगे-

र्व्वारुः । इति राजनिर्घण्टः ॥

मरुटा, स्त्री, उच्चललाटयुक्तस्त्री । इति शब्द-

रत्नावली ॥

मरुण्डा, स्त्री, उच्चललाटा नारी । इति

त्रिकाण्डशेषः ॥

मरुतः, पुं, (म्रियन्ते प्राणिनो यदभावादिति । मृ

+ बाहुलकात् उत ।) वायुः । (यथा, अभिज्ञान-
शकुन्तले ।
“तदेनां मुखमरुतेन विशदां करवाणि ॥”)
देवः । इति भरतधृतव्याडिः ॥ घण्टापाटलि-
वृक्षः । इति शब्दचन्द्रिका ॥

मरुत्, पुं, (म्रियते प्राणी यस्याभावादिति ।

मृ + “मृग्रोरुतिः ।” उणा० १ । ९४ । इति
उत् ।) वायुः । इत्यमरः । १ । १ । ६५ ॥ (यथा,
नैषधचरिते । २ । ५३ ।
“भृशतापभृता मया भवान्
मरुदासादि तुषारसायकान् ॥”)
मरुवकः । इति भावप्रकाशः ॥ (अस्य गुणा
यथा, --
“मरुदग्निप्रदो हृद्यस्तीक्ष्णोष्णपित्तलो लघुः ।
वृश्चिकादिविषश्लेष्मवातकुष्ठक्रिमिप्रणुत् ।
कटुपाकरसो रुच्यस्तिक्तो रूक्षः सुगन्धिकः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
देवः । (यथा, रघुः । १२ । १०१ ।
“मरुतां पश्यतां तस्य शिरांसि पतितान्यपि ।
मनो नातिविशश्वास पुनः सन्धानशङ्किनाम् ॥”
साध्यविशेषः । यथा, हरिवंशे । १९६ । ४५ ।
“धर्म्माल्लक्ष्म्युद्भवः कामः साध्या साध्यान्
व्यजायत ।
प्रभवं च्यवनञ्चैवमीशानं सुरभीं तथा ।
अरण्यं मरुतञ्चैव विश्वावसुवलध्रुवौ ॥”)
भ्रातृवत्सलदेवताविशेषः । यथा, --
“भ्रातॄणां प्रायणं भ्राता योऽनुतिष्ठति
धर्म्मवित् ।
स पुण्यबन्धुः पुरुषो मरुद्भिः सह मोदते ॥”
इति श्रीभागवते ६ स्कन्धे ५ अध्यायः ॥
“प्रायणं प्रकृष्टं गमनम् । पुण्यमेव बन्धुर्यस्य
मरुद्भिर्भ्रातृवत्सलैर्देवैः ।” इति तट्टीकायां
श्रीधरस्वामी ॥ (हिरण्यम् । इति निघण्टुः ।
१ । २ ॥ ऋत्विक् । इति तत्रैव । ३ । १८ ॥)
ग्रन्थिपर्णे, क्ली । इति मेदिनी । ते, १४३ ॥
पृक्कायां, स्त्री । इति शब्दरत्नावली ॥

मरुत्करः, पुं, (करोतीति । कृ + अच् । मरुतो-

ऽपानवायोः करः ।) राजमाषः । इति शब्द-
चन्द्रिका ॥ (मरुत्कारिणि, त्रि । यथा, --
“कषायमधुराः शीताः कटुपाका मरुत्कराः ।
बद्धमूत्रपुरीषाश्च पित्तश्लेष्महरास्तथा ॥”
इति सुश्रुते सूत्रस्थाने ४६ आध्यायः ॥)

मरुत्क्रिया, स्त्री, (मरुतः क्रिया ।) अपानोत्-

सर्गः । वातकर्म्म इति ख्यातः । इति केचित् ॥

मरुत्तः, पुं, (मरुदस्त्यस्येति । मरुत् + “तप्

पर्व्वमरुद्भ्याम् ।” ५ । २ । १२२ । इत्यत्र काशि-
कोक्त्या तप् ।) चन्द्रवंशीयराजविशेषः । स च
अवीक्षिद्राजपुत्त्रः । यथा --
क्रोष्टुकिरुवाच ।
“अवीक्षितस्य नृपतेर्मरुत्तस्य महात्मनः ।
श्रोतुमिच्छामि चरितं श्रूयते सोऽतिचेष्टितः ॥
चक्रवर्त्ती महाभागः शूरः क्षान्तो महामतिः ।
धर्म्मविद्धर्म्मकृच्चैव सम्यक् पालयिता भुवः ॥
मार्कण्डेय उवाच ।
स पित्रा समनुज्ञातो राज्यं प्राप्य पितामहात् ।
धर्म्मतः पालयामास प्रजाः पुत्त्रानिवौरसान् ॥
इयाज सुमहायज्ञान् यथावत् प्राज्यदक्षिणान् ।
ऋत्विक्पुरोहितादेशादनिर्विण्णो महीपतिः ॥
तस्याप्रतिहतं चक्रमासीद्द्वीपेषु सप्तसु ।
गतयश्चाप्यविच्छिन्नाः स्वःपातालजलादिषु ॥”
इति मार्कण्डेयपुराणे १०३ अध्यायः ॥
(यदुवंशीयः करन्धमपुत्त्रः । यथा, श्रीमद्भाग-
वते । ९ । २३ । १७ ।
“त्रिभानुस्तत्सुतोऽस्यापि करन्धम उदारधीः ।
मरु त्तस्तत्सुतोऽपुत्त्रः पुत्त्रं पौरवमन्वभूत् ॥”
शिलेयुराजपुत्त्रः । यथा, महाभारते । हरि-
वंशपर्व्वणि । ३६ । ७ ।
“शिलेयुरभवत् पुत्त्र उशतः शत्रुतापनः ।
मरुत्तस्तस्य तनयो राजर्षिरभवन्नृप ! ॥”)

मरुत्तकः, पुं, (मरुदिव तकति हसतीति । तक्

हासे + अच् ।) मरुवकः । इति भावप्रकाशः ॥

मरुत्पथः, पुं, (मरुतां पन्थाः । “ऋक्पूरब्धूः

पथामानक्षे ।” ५ । ४ । ७४ । इत्यः ।) आका-
शम् । इति हेमचन्द्रः ॥

मरुत्पालः, पुं, (मरुतो देवान् पालयतीति । पालि

+ अच् । देवराजत्वादस्य तथात्वम् ।) इन्द्रः ।
इति केचित् ॥

मरुत्पुत्त्रः, पुं, (मरुतो वायोः पुत्त्रः ।) भीमसेनः ।

इति हेमचन्द्रः । ७०७ ॥ (अस्य मरुत्पुत्त्रत्वे
विवरणम् । यथा । पुरा किल पाण्डुर्नाम
महीपतिर्मृगयार्थं वनं गत्वा ब्राह्मणमेकं मृग-
रूपधारिणं हरिण्यां रममाणं काममोहितं
जघान । ततस्तेनाभिशप्तो निजपत्न्यो रन्तुमसौ
न शक्तः । अथ गच्छति काले कुन्ती पुत्त्र-
कामस्य स्वभर्त्तुः पाण्डुराजस्यानुज्ञया इन्द्रादीन्
देवानाहूय तैरन्वरंसीत् । तेषां मरुतो भीम-
सेनो जात इति पौराणिकी वार्त्तात्रानुसन्धेया ।
अस्य विशेषस्तु महाभारते । १ । ११८ -- १२३ ।
अध्यायेषु द्रष्टव्यः ॥) हनूमांश्च ॥

मरुत्प्लवः, पुं, (मरुदिव प्ल्वते द्रुतं गच्छ-

तीति । प्लु + अच् ।) सिंहः । इति त्रिकाण्ड-
शेषः ॥

मरुत्फलं, क्ली, (मरुतां वायूनां फलमिव ।)

घनोपलः । इति शब्दमाला ॥

मरुत्वान्, [त्] पुं, (मरुतो देवाः पालनीयत्वेन

सन्त्यस्य इति । मरुत् + “मध्वादिभ्यश्च ।” ४ । २ ।
८६ । इति मतुप् मस्य वः । संज्ञायां प्रत्यय-
वकारे परे न तस्य दः ।) इन्द्रः । इत्यमरः ।
१ । १ । ४४ ॥ (यथा, रघौ । ३ । ४ ।
“दिवं मरुत्वानिव भोक्ष्यते भुवं
दिगन्तविश्रान्तरथो हि तत्सुतः ॥”
धर्म्मपुत्त्रदेवगणभेदः । यथा, महाभारते । १२ ।
२०७ । २३ ।
“धर्म्मस्य वसवः पुत्त्रा रुद्राश्चामिततेजसः ।
विश्वे देवाश्च साध्याश्च मरुत्वन्तश्च भारत ! ॥”
मरुज्जनकत्वेनास्त्यस्येति । मतुप् । मस्य वः ।)
हनूमान् । इति शब्दरत्नावली ॥ (वायु-
विशिष्टे, त्रि । सर्व्वोदाहरणं यथा, भट्टौ ।
१० । २९ ।
“बभौ मरुत्वान् विकृतः समुद्रो
बभौ मरुत्वान् विकृतः समुद्रः ।
बभौ मरुत्वान् विकृतः समुद्रो
बभौ मरुत्वान् विकृतः समुद्रः ॥”
स्त्री, दक्षस्य प्रचेतसः कन्या । सैव धर्म्मस्य
पत्नी । यथा, भागवते । ६ । ६ । ४ ।
पृष्ठ ३/६४०
“भानुर्लम्बाककुद्यामिर्विश्वा साध्या मरुत्वती ।
वसुर्मुहूर्त्ता संकल्पा धर्म्मपत्न्यः सुतान्
शृणु ॥”)

मरुत्सखः, पुं, (मरुतां देवानां सखा । “राजाहः

सखिभ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।)
इन्द्रः । इति धरणिः ॥ (मरुतो वायोः सखा ।)
अग्निः । वायुसख इत्यमरदर्शनात् ॥ (वायुसखे,
त्रि । यथा, रघौ । ११ । ३ ।
“तावदाशु विदधे मरुत्सखैः
सा सपुष्पजलवर्षिभिर्घनैः ॥”)

मरुदान्दोलः, पुं, (मरुत् वायुरान्दोल्यतेऽने-

नेति । आन्दोलि + करणे घञ् ।) धवित्रम् ।
इति शब्दमाला ॥

मरुदिष्टः, पुं, (मरुतां देवनामिष्टः प्रियः ।) गुग्-

गुलुः । इति राजनिर्घण्टः ॥ (विशेषोऽस्य
गुग्गुलुशब्दे व्याख्यातः ॥)

मरुद्ध्वजं, क्ली, (मरुत्सु वायुषु ध्वजः पताकेव ।

नभसि वायुवशाच्चलितत्वादस्य तथात्वम् ।)
वाततूलम् । वुडीर सुता इति भाषा । यथा, --
“ग्रीष्महासं वंशकथं वाततूलं मरुद्ध्वजम् ॥”
इति हारावली । २३ ॥

मरुद्भवा, स्त्री, (मरुद्वायुर्भव उत्पत्तिकारणं

यस्याः ।) ताम्रमूलाक्षुपः । इति रत्नमाला ।
खिराइ इति भाषा ॥

मरुद्रथः, पुं, (मरुद्वायू रथो यानमिवास्य । ऊर्व्यां

स्तोकं वियति बहुतरं गच्छतीति तथात्वम् ।)
अश्वः । इति त्रिकाण्डशेषः ॥ देवरथः । इति
हेमचन्द्रः । ३ । ४१६ ॥

मरुद्रुमः, पुं, (मरोर्निर्ज्जलदेशस्य द्रुमः । मरुजातो

द्रुमो वा ।) विट्खदिरः । इति रत्नमाला ॥

मरुद्वर्त्म, क्ली, (मरुतां वायूनां देवानां वा वर्त्म

पन्थाः ।) आकाशम् । इति त्रिकाण्डशेषः ॥

मरुद्वाहः, पुं, (मरुता वायुना उह्यतेऽसौ इति ।

वह + कर्म्मणि घञ् । यद्वा, मरुद्बायुर्वाह इव
यस्य ।) धूमः । इति त्रिकाण्डशेषः ॥ अग्निः ।
इति शब्दमाला ॥

मरुद्विपः, पुं, (मरौ निर्ज्जलदेशे द्विपो हस्तीव ।)

उष्ट्रः । इति त्रिकाण्डशेषः ॥

मरुन्माला, स्त्री, (मरुद्भिर्मल्यते धार्य्यते इति ।

मल धारणे + कर्म्मणि घञ् । टाप् ।) पृक्का ।
इत्यमरः । २ । ४ । १३३ ॥ पिडिंशाक इति
भाषा ॥ (पर्य्यायोऽस्य यथा, --
“स्पृक्कासृक् ब्राह्मणी देवी मरुन्माला लता
लघुः ।
समुद्रान्ता बधूः कोटिवर्षा लङ्कापिकेत्यपि ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

मरुप्रियः, पुं, (मरुर्निर्ज्जलदेशः प्रियोऽस्य ।)

उष्ट्रः । इति हेमचन्द्रः । ४ । ३१९ ॥

मरुभूः, स्त्री, (मरुर्निर्ज्जला भूर्भूमिः ।) दाशे-

रकदेशः । इति त्रिकाण्डशेषः ॥ मारओयार
इति भाषा ॥ निर्ज्जलभूमिश्च ॥

मरुभूरुहः, पुं, (मरुभुवि रोहति जायते इति ।

रुह् + “इगुपधज्ञाप्रीकिरः कः ।” ३ । १ । १३५ ।
इति कः ।) करीरवृक्षः । इति भावप्रकाशः ॥
मरुभूमिजाते, त्रि ॥ (यथा, आर्य्यासप्त-
शत्याम् । ६७६ ।
“सत्पुंसो मरुभूरुह इव जीवनमात्रमाशा-
स्यम् ॥”)

मरुलः, पुं, (म्रियते जलं विनेति । मृ + उलः ।)

कारण्डवपक्षी । इति हेमचन्द्रः । ४ । ४०७ ॥

मरुवः, पुं, (मरुं निर्ज्जलदेशं वाति प्राप्नोतीति ।

वा + कः ।) वृक्षविशेषः । मरुया इति नाग-
दाना इति च भाषा ॥ तत्पर्य्यायः । खरपत्रः
२ गन्धपत्रः ३ फणिज्झकः ४ बहुवीर्य्यः ५
शीतलकः ६ सुराह्वः ७ समीरणः ८ जम्बीरः
९ प्रस्थकुसुमः १० मरुवकः ११ आजन्मसुरभि-
पत्रः १२ मरिचः १३ । अस्य गुणाः । कटुत्वम् ।
तिक्तत्वम् । उष्णत्वम् । कृमिकुष्ठविड्बन्धाध्मान-
शूलमान्द्यत्वग्दोषनाशित्वञ्च । इति राज-
निर्घण्टः ॥ अपि च ।
“मरुत्तको मरुवको मरुन्मरुरपि स्मृतः ।
फणी फणिज्झकश्चापि प्रस्थपुष्पः समीरणः ॥
मरुदग्निप्रदो हृद्यस्तिक्तोष्णः पित्तलो लघुः ।
बृश्चिकादिविषश्लेष्मवातकुष्ठकृमिप्रणुत् ।
कटुपाकरसो रुच्यस्तिक्तो रूक्षः सुगन्धिकः ॥”
इति भावप्रकाशः ॥

मरुवकः, पुं, (मरुव + स्वार्थे इवार्थे वा कन् ।)

कण्टकिवृक्षविशेषः । मयना इति भाषा ।
तत्पर्य्यायः । पिण्डीतकः २ श्वसनः ३ करहा-
टकः ४ शल्यः ५ मदनः ६ । (पर्य्यायान्तरं
यथा, --
“मदनश्छर्द्दनः पिण्डो नटः पिण्डीतकस्तथा ।
करहाटो मरुवकः शल्यको विषपुष्पकः ॥”)
स्वल्पपत्रतुलसी । तत्पर्य्यायः । समीरणः २
प्रस्थपुष्पः ३ फणिज्झकः ४ जम्बीरः ५ ।
इत्यमरः । २ । ४ । ७९ ॥ (एतत्पर्य्यायो यथा, --
“मरुत्तको मरुवको मरुभ्मरुरपि स्मृतः ।
फणी फणिज्कश्चापि प्रस्थपुष्पः समीरणः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
जम्बीरभेदः । इत्यमरटीकायां भरतः ॥ पुष्प-
वृक्षविशेषः । मरुयाफुल इति भाषा । तत्-
र्य्यायः । शुक्लपुष्पः २ तिलकः ३ कुलकः ४ ।
क्षुपविशेषः । नागदाना इति भाषा । तत्-
पर्य्यायः । खरपत्र २ गन्धपत्रः ३ । इति रत्न-
माला ॥ व्याघ्रः । राहुः । भयानके, त्रि । इति
जटाधरः ॥

मरुसम्भवं, क्ली, (मरुः सम्भव उत्पत्तिस्थानमस्य ।)

चाणक्यमूलकम् । इति राजनिर्घण्टः ॥
(पर्य्यायोऽस्य यथा, --
“मूलकं द्विविधं प्रोक्तं तत्रैकं लघुमूलकम् ।
शालमर्कटकं विप्रं शालयं मरुसम्भवम् ॥
चाणक्यमूलकं तीक्ष्णं तथा मूलकपोतिका ।
नेपालमूलकञ्चान्यत् तद्भवेद्गजदन्तवत् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

मरुसम्भवा, स्त्री, (मरौ सम्भवो यस्याः । टाप् ।)

महेन्द्रवारुणी । क्षुद्रदुरालभा । इति राज-
निर्घण्टः ॥

मरुस्था, स्त्री, (मरौ तिष्ठतीति । स्था + कः ।

स्त्रियां टाप् ।) क्षुद्रदुरालभा । इति राज-
निर्घण्टः ॥

मरूकः, पुं, (म्रियते इवेति । मृ + “मृकणिभ्या-

मूकोकणौ ।” उणा० ४ । ३९ । इति ऊकः ।
भयशीलत्वादस्य तथात्वम् ।) मृगविशेषः ।
इत्युणादिकोषः ॥ मयूरः । शटी । इति संक्षिप्त-
सारोणादिवृत्तिः ॥

मरूद्भवा, स्त्री, (मरौ धन्वप्रदेशे उद्भवतीति ।

उत् + भू + अच् । स्त्रियां टाप् ।) कार्पासी ।
यवासः । क्षुद्रखदिरः । इति राजनिर्घण्टः ॥

मरोलिः, पुं, (मरौ निर्ज्जलदेशे लीयते म्रियते

इति । मरु + ली + इन् । पृषोदरादित्वात्
साधुः ।) मकरः । यथा, --
“जलरूपस्तु मकरो मरोलिरसिदंष्ट्रकः ॥”
इति त्रिकाण्डशेषः ॥

मरोलिकः, पुं, (मरोलि + स्वार्थे कन् ।) मकरः ।

इति शब्दरत्नावली ॥

मर्क, सर्पे । सौत्रधातुरयम् । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-सक०-सेट् ।) मर्कटः । इति दुर्गा-
दासः ॥

मर्कः, पुं, (मर्च्चति चेष्टते इति । मर्च्च् + “इण्

भीकापाशल्यतिमर्च्चिभ्यः कन् ।” उणा० ३ ।
४३ । इति कन् । यद्वा, मर्कति सर्पतीति । मर्क
+ अच् ।) देहः । वायुः । इत्युणादिकोषः ॥
(शुक्रपुत्त्रः । यथा, वाजसनेयसंहितायाम् ।
७ । १६ ।
“उपयामगृहीतोऽसि मर्काय त्वा ॥”
“मर्कः शुक्रपुत्त्रोऽसुरपुरोहितः ।” इति तद्भाष्ये
महीधरः ॥) वानरः । इति शब्दरत्नावली ॥
(यथा, श्रीमद्भागवते । १० । ८ । २९ ।
“मर्कान् भोक्ष्यन् विभजति स चेन्नात्ति भाण्डं
भिनत्ति ॥”
“मर्कान् मर्कटान् ।” इति तट्टीकायां श्रीधर-
स्वामी ॥ त्रि, मार्ज्जयिता । यथा, ऋग्वेदे ।
१० । २७ । २० ।
“सूरश्च मर्क उपरो बभूवान् ॥”
“मर्को मार्ज्जयिता ।” इति तद्भाष्ये सायनः ॥)

मर्ककः, पुं, (मर्क + इवार्थे संज्ञायां वा कन् ।)

गलगण्डपक्षी । इति शब्दरत्नावली ॥ हाड-
गिल् इति भाषा ॥

मर्कटः, पुं, (मर्कति गच्छतीति । मर्क + “शका-

दिभ्योऽटन् ।” उणा ० ४ । ८१ । इति अटन् ।)
वानरः । इत्यमरः । २ । ५ । ३ ॥
(यथा, वाजसनेयसंहितायाम् । २४ । ३० ।
“यमाय कृष्णो मनुष्यराजाय मर्कटः ॥”)
ऊर्णनाभः । (यथा आर्य्यासप्तशत्याम् । ३२२ ।
“अयमुद्गृहीतवडिशः कर्कट इव मर्कटः
पुरतः ॥”
पृष्ठ ३/६४१
“मर्कटो लूता ॥” इति तट्टीका ॥) स्थावरविष-
भेदः । इति हेमचन्द्रः ॥ गलेगण्डपक्षी । इति
त्रिकाण्डशेषः ॥ हाडगिल् इति भाषा ॥

मर्कटकः, पुं, (मर्कट + स्वार्थे संज्ञायां वा कन् ।)

वानरः । लूता । शस्यभेदः । इति मेदिनी । के,
२०८ ॥ (यथा, विष्णुपुराणे । १ । ६ । २५ ।
“श्यामाकास्त्वथ नीवारा जर्त्तिलाः सगवेधुकाः ।
तथा वेणुयवाः प्रोक्तास्तद्वन् मर्कटका
मुने ! ॥”)
मत्स्यभेदः । दैत्यः । इति शब्दरत्नावली ॥

मर्कटतिन्दुकः, पुं, (मर्कटप्रियस्तिन्दुकः । मध्य-

पदलोपी कर्म्मधारयः ।) कुपीलुः । इति
भावप्रकाशः ॥

मर्कटपिप्पली, स्त्री, (मर्कटस्य पिप्पलीव ।)

अपामार्गः । इति राजनिर्घण्टः ॥ (विवरण-
मस्या अपामार्गशब्दे ज्ञातव्यम् ॥)

मर्कटप्रियः, पुं, (मर्कटस्य प्रियः ।) क्षीरवृक्षः ।

इति शब्दमाला ॥

मर्कटवासः, पुं, (मर्कटः ऊर्णनाभस्तस्य वासः

आवासस्थानम् ।) लूतातन्तुः । माकडशार-
जाल इति भाषा ॥ तत्पर्य्यायः । आशाबन्धः
२ । इति शब्दरत्नावली ॥

मर्कटशीर्षं, क्ली, (मर्कटस्य शीर्षमिव तद्वर्णत्वा-

देवास्य तथात्वम् ।) हिङ्गुलम् । इति रत्न-
माला ॥ (यथा, वैद्यकरत्नमालायाम् ।
“रक्तं मर्कटशीर्षञ्च हिङ्गुलं दरदो रसः ॥”)

मर्कटास्यं, क्ली, (मर्कटस्य आस्यमिव तद्वर्णत्वा-

देवास्य तथात्वम् ।) ताम्रम् । इति हेमचन्द्रः ।
४ । १०६ ॥ (मर्कटस्यास्यम् ।) वानरमुखम् ।
(मर्कटस्यास्यमिवास्यं यस्य ।) वानरमुखे, त्रि ॥

मर्कटी, स्त्री, (मर्कति वायुवेगेन इतस्ततो

गच्छतीति । मर्क + अटन् । स्त्रियां ङीप् ।)
कपिकच्छुः । (यथा, भावप्रकाशस्य पूर्ब्बखण्डे
प्रथमे भागे ।
“कपिकच्छुरात्मगुप्ता वृष्या प्रोक्ता च मर्कटी ।
अजरा कण्डुरा व्यङ्गा दुःस्पर्शा प्रावृषायणी ॥
जाङ्गली शूकशिम्बी च सैव प्रोक्ता मह-
र्षिभिः ॥”)
अपामार्गः । (यथा, --
“अपामार्गस्तु शिखरी ह्यधःशल्यो मयूरकः ।
मर्कटी दुर्ग्रहा चापि किणिही खरमञ्जरी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
अजमोदा । इति राजनिर्घण्टः ॥ (यथा,
सुश्रुते उत्तरतन्त्रे । ३३ । ५ ।
“कुच्चटीं मर्कटीं शिम्बीमनन्ताञ्चापि धारयेत् ।
मांसमामं तथा पक्वं शोणितञ्च चतुष्पथे ॥”)
करञ्जभेदः । इत्यमरः । २ । ४ । ८७ ॥ माकडा
करञ्जा इति भाषा ॥ (यथास्याः पर्य्यायो
भावप्रकाशस्य पूर्ब्बखण्डे १ भागे ।
“उदकीर्य्यस्तृतीयोऽन्यः षड्ग्रन्था हस्तिवारुणी ।
मर्कटी वायसी चापि करञ्जी करभञ्जिका ॥”
मर्कट + ङीष् ।) वानरी च ॥

मर्कटेन्दुः, पुं, मर्कटे खगविशेषे इन्दुरिव ।)

काकतिन्दुकवृक्षः । यथा, --
“काकेन्दुः कुलकः काकपीलुकः काकतिन्दुके ।
मर्कटेन्दुः सिन्धुपुत्त्रो द्वावेतौ तत्र कीर्त्तितौ ॥”
इति शब्दचन्द्रिका ॥

मर्करः, स्त्री, (मर्कति गच्छतीति । मर्क + बाहुल-

कात् अरः ।) भृङ्गराजः । इति शब्दरत्नावली ॥
(गुणादयोऽस्य भृङ्गराजशब्दे ज्ञातव्याः ॥)

मर्करा, स्त्री, (मर्कर + स्त्रियां टाप् ।) दरी ।

भाण्डम् । सुरङ्गा । निष्कला स्त्री । इति विश्वः ॥

मर्च्च, क ग्रहे । सौत्रोऽयं धातुः । इति कविकल्प-

द्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।) तालव्य-
वर्गप्रथमान्तः । मर्कः । इति दुर्गादासः ॥

मर्जूः, स्त्री, (मृज्यते इति । मृज् शुद्धौ +

“मृजेर्गुणश्च ।” उणा ० १ । ८१ । इति ऊः ।
गुणश्च ।) शुद्धिः । इति मेदिनी । जे, १३ ॥

मर्जूः, पुं, (मार्ष्टि शोधयति वसनमिति ।

मृज् + ऊः ।) रजकः । इति हेमचन्द्रः ॥
पीठमर्द्दः । इति शब्दरत्नावली ॥

मर्त्तः, पुं, (म्रियतेऽसौ इति । मृ + “हसिमृग्रि-

णिति ।” उणा० ३ । ८६ । इति तन् ।) मनुष्यः ।
इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (यथा,
मार्कण्डेये । १०० । १८ ।
“पौर्णमास्याममावस्यां पर्व्वस्वन्येषु प्रस्तवः ।
ममैष संश्रुतो मर्त्तैर्भविता पापनाशनः ॥”)
माणवकः । इति संक्षिप्तसारोणादिवृत्तिः ॥
(म्रियतेऽत्रेति । भूलोकः । इत्युज्ज्वलदत्तः ।
३ । ८६ ॥)

मर्त्यः, पुं, (म्रियतेऽत्रेति । मर्त्तो भूलोकस्तत्र

भवः । मर्त्त + यत् । यद्वा, मर्त्त एव यदित्यमर-
टीकायां भरतः ।) मनुष्यः । इत्यमरः । २ ।
६ । १ ॥ (यथा, ब्रह्मवैवर्त्ते । २ । १ । २६ ।
“गृहे च गृहलक्ष्मीश्च मर्त्त्यानां गृहिणां तथा ॥”)
मध्यमलोकः । इति जटाधरः ॥ (क्ली, शरीरम् ।
यथा, भागवते । ३ । ३३ । ३१ ।
“तस्यास्तद्योगविधुतमार्त्यं मर्त्यमभूत् सरित् ॥”)

मर्द्दनं, क्ली, (मृद् + भावे ल्युट् ।) अङ्गमर्द्दनम् ।

गाटेपा इति भाषा ॥ तत्पर्य्यायः । संवाह-
नम् २ । इत्यमरः । ३ । २ । २२ ॥ सम्बलम् ३ । इति
शब्दरत्नावली ॥ (यथा, “यत् पुनर्बहिःस्पर्शना-
श्रित्याभ्यङ्गस्वेदप्रदेहपरिषेकोन्मर्द्दनाद्यैरामयान्
प्रमार्ष्टि तद्वहिः परिमार्ज्जनम् ॥” इति चरके
सूत्रस्थाने ११ अध्यायः ॥) अस्य गुणाः । भ्रम-
हरत्वम् । निद्राशुक्रसुस्वप्रदत्वम् । मांसरक्त-
त्वक्प्रसन्नकारित्वम् । वायुकफनाशित्वञ्च । इति
राजवल्लभः ॥ चूर्णनम् । इति मृदधात्वर्थदर्श-
नात् ॥ (कदनम् । यथा, भागवते । ३ । ४ । २ ।
“तेषां मैरेयदोषेण विषमीकृतचेतसाम् ।
निम्लोचति रवावासीत् वेणूनामिव मर्द्दनम् ॥”
मृद् + ल्युः । मर्द्दनकारके, त्रि । यथा, महा-
भारते । १३ । १४ । ३७२ ।
“द्रक्ष्ये क्षितिजसङ्घानां मर्द्दनं त्रिदशेश्वरम् ॥”)

मर्द्दलः, पुं, (मर्द्दं मर्द्दनं लातीति । ला + कः ।)

वाद्यविशेषः । इत्यमरः । १ । ७ । ८ ॥ मादल
इति भाषा । तत्पर्य्यायः । गुरुः २ । इति शब्द-
रत्नावली ॥ (यथा, महाभारते । ८ । ४४ । १९ ।
“मृदङ्गानकशङ्खानां मर्द्दलानाञ्च निस्वनैः ।
खरोष्ट्राश्वतरैश्चैव मत्ता यास्यामहे सुखम् ॥”)

मर्द्दितं, त्रि, (मृद् + कर्म्मणि क्तः ।) ग्रन्थितम् ।

इति विशेष्यनिघ्नवर्गटीकायां भरतः ॥ चूर्णि-
तम् । यथा, --
“तिन्तिडीफलरसेन मर्द्दितो
रामबाण इति विश्रुतो रसः ॥”
इति भावप्रकाशः ॥

मर्ब्ब, गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) मर्ब्बति । इति दुर्गादासः ॥

मर्म्म, [न्] क्ली, (मृ + “सर्व्वधातुभ्यो मनिन् ।”

उणा ० ४ । १४४ । इति मनिन् ।) स्वरूपम् ।
तत्त्वम् । यथा, नैषधे । २ । ९ ।
“मृगया न विगीयते नृपै-
रपि धर्म्मागममर्म्मपारगैः ।
स्मरसुन्दर ! मां यदत्यज
स्तव धर्म्मः सदयो दयोज्ज्वलः ॥”
सन्धिस्थानम् । इति लिङ्गादिसंग्रहे अमर-
भरतौ ॥ जीवस्थानम् । इति राजनिर्घण्टः ॥ * ॥
अथ मर्म्माणि ।
“सन्निपातः शिरास्नायुसन्धिमांसास्थिसम्भवः ।
मर्म्माणि तेषु तिष्ठन्ति प्राणाः खलु विशेषतः ॥
सप्तोत्तरं शतं सन्ति देहे मर्म्माणि देहिनाम् ।
तान्येकादश मांसे स्युरष्टावस्थिषु सन्ति हि ॥
सन्धीनां विंशतिस्तानि स्नायूनां सप्तविंशतिः ।
चत्वारिंशत्तथैकञ्च शिरामर्म्माणि तत्र तु ॥
द्वाविंशतिः सक्थियुगे तावन्त्येव भुजद्वये ।
द्बादशोरसि कुक्षौ च पृष्ठदेशे चतुर्द्दश ॥
ग्रीवाया ऊर्द्ध्वभागे तु सप्तत्रिंशन्मतानि हि ॥
मर्म्माणि तानि सन्ति पञ्चधा भवन्ति ।
तान्याह ।
सद्यःप्राणहराणि स्युर्मर्म्माण्येकोनविंशतिः ।
मर्म्मदेशास्त्रयस्त्रिंशत् स्युः कालान्तरमारकाः ॥
चत्वारिंशच्च चत्वारि वैकल्यं जनयन्ति हि ।
मर्म्माष्टकं रुजाकारि विशल्यघ्नं त्रिकं मतम् ॥
शृङ्गाटकान्यधिपतिः शङ्खौ कण्ठसिरागुदम् ।
हृदयं वस्तिनाभ्यौ च सद्यो घ्नन्ति हतानि चेत् ॥
शृङ्गाटकानि घ्राणश्रोत्राक्षिजिह्वासन्तर्पकाणां
शिरामुखानां शिरसो मध्ये संयोगस्थानं तानि
चत्वारि शिरामर्म्माणि चतुरङ्गुलप्रमाणानि
हतानि सन्ति सद्योमारकाणि । अधिपतिः ।
मस्तकस्याभ्यन्तरे सन्धिसिरयोः सन्निपात
उपरिष्टाद्रोमावर्त्तः स एकः सन्धिमर्मेदं अर्द्धा-
ङ्गुलप्रमाणं सद्योमारकम् । शङ्खौ भ्रुवोरन्तोपरि
कर्णललाटमध्ये ते द्वे अस्थिमर्म्मणी अर्द्धा-
ङ्गुले सद्योमारके । कण्ठशिराः मातृकाः
ग्रीवाया उभयपार्श्वयोश्चतस्रश्चतस्रः शिरास्ता
अष्टौ शिरामर्म्माणि चतुरङ्गुलानि सद्योमार-
पृष्ठ ३/६४२
काणि । गुदं प्रसिद्धमेकं मांसमर्म्म चतुरङ्गुलं
सद्योमारकम् । हृदयं स्तनयोर्म्मध्यमामाशय-
द्वारमेकं शिरामर्म्म चतुरङ्गुलं सद्योमारकम् ।
वस्तिः नाभिपृष्ठकटीमुष्कगुदवङ्क्षणसेफसां मध्ये
वस्तिस्तनूत्वक् एकद्वारो ह्यधोमुखः स्नायुः
मर्म्मेदं चतुरङ्गुलं सद्योमारकम् । नाभिः
प्रसिद्धा । सिरामर्म्मेदं चतुरङ्गुलं सद्योमारकम् ॥
वक्षोमर्म्माणि सीमन्तास्तलक्षिप्रेन्द्रवस्तयः ।
बृहत्यौ पार्श्वजौ सन्धी कटीकतरुणे च ये ।
नितम्बाविति चैतानि कालान्तरहराणि तु ॥
वक्षोमर्म्माणि स्तनमूलस्तनरोहितापलापाप-
स्तम्बाः स्तनमूले स्तनयोरघस्ताद्द्व्यङ्गुलं यावत् द्वे
शिरामर्म्मणी द्व्यङ्गुले कफपूर्णकोष्ठतया काला-
न्तरमारके । स्तनरोहिते स्तनयोरुपरि द्व्यङ्गुलं
यावत् द्वे मांसमर्म्मणी रक्तपूरितकोष्ठतया
कालान्तरमारके । अपलापौ अंशकूटयोरध-
स्तात् पार्श्वयोरुपरि द्वौ शिरामर्म्मणी अर्द्धाङ्गुले
रक्तेन पूयताङ्गते न कालान्तरमारके । अप-
स्तम्बौ उरस उभयतो नाड्यौ वातवहे शिरा-
मर्म्मणी अर्द्धाङ्गुले वातपूर्णकोष्ठतया कासश्वा-
साभ्याञ्च कालान्तरमारके । सीमन्ताः शिरसि
पञ्च सन्धयः सन्धिमर्म्माणि चतुरङ्गुलानि उन्माद-
भयचित्तविनाशैः कालान्तरमारकानि । तलानि
मध्याङ्गुलिमनुक्रम्य हस्तभध्यं तलं एवमपरस्य
हस्तस्य पादयोश्च चत्वारि तलानि मांसमर्म्मा-
एयर्द्धाङ्गुलानि रुजाभिः कालान्तरमारकाणि ।
क्षिप्राणि अङ्गुष्ठाङ्गुल्योर्म्मध्यं क्षिप्रं तच्च हस्त-
योर्द्वे पादयोर्द्वे एवञ्चत्वारि स्नायुमर्म्माण्यर्द्धाङ्गु-
लान्याक्षेपकेण कालान्तरमारकाणि । इन्द्र-
वस्तयः प्रकोष्ठयोर्म्मध्ये द्वे जङ्घयोर्म्मध्ये द्वे एवं
चत्वारि मांसमर्म्माणि द्व्यङ्गुलानि शोणितक्षयेण
कालान्तरमारकाणि । बृहत्यौ स्तनमूला-
दुभयतः पृष्ठवंशं यावत् शिरामर्म्मणी अर्द्धाङ्गुले
शोणितातिप्रवृत्तिनिमित्तैरुपद्रवैः कालान्तर-
मारके । पार्श्वसन्धी जघनपार्श्वयोः सन्धी शिरा-
मर्म्मणी अर्द्धाङ्गुले शोणितपूर्णकोष्ठतया काला-
न्तरमारके । कटीकतरुणे त्रिकसन्निधाने उभ-
यतः श्रोणिकाण्डं लक्षीकृत्यास्थिनी अस्थि-
मर्म्मणी अर्द्धाङ्गुले शोणितक्षयात् पाण्डुविवर्ण-
रूपं कृत्वा कालान्तरमारके । नितम्बौ प्रसिद्धौ ।
द्वे अस्थिमर्म्मणी अर्द्धाङ्गुले अधःकायशोषेण
दौर्ब्बल्येन च कालान्तरमारके ॥ * ॥
लोहिताक्षाणिजानूर्व्वीकूर्च्चाविटपकूर्पराः ।
कुकुन्दरे कक्षधरे विधुरे सकृकाटिके ॥
अंसांसफलकापाङ्गा नीले मन्ये फणे तथा ।
वैकल्यकारकाण्याहुरावर्त्तौ द्वौ तथैव च ॥
लोहिताक्षाणि ऊर्व्व्योरूर्द्ध्वमधोवङ्क्षणसन्धेर्लोहि-
ताक्षं तच्च द्वे बाह्वोर्द्बे ऊर्व्वोरेवं तानि चत्वारि
शिरामर्म्माण्यर्द्धाङ्गुलानि वैकल्यकारकाणि
तत्र शोणितक्षयेण पक्षाघातः सक्थिसादो
वा । आणयः जानुन ऊर्द्धमुभयोः पार्श्वयो-
र्द्व्यङ्गुला एकस्मिन् जानुनि द्वे अपरस्मिन् द्वे
एवं चतस्रः स्नायुमर्म्माण्यर्द्धाङ्गुला वैकल्यकर्य्यः
तत्र शोथाभिवृद्धिः सक्थिस्तम्भश्च । जानुनी
जङ्घोर्व्व्योः सन्धी सन्धिमर्म्मणी द्व्यङ्गुले वैकल्य-
करे । तत्र खञ्जता । ऊर्व्व्योः द्वे ऊर्व्वोर्म्मध्ये द्वे
प्रगण्डयोर्म्मध्ये एवं चतस्रः सिरामर्म्माण्येका-
ङ्गुला वैकल्यकर्य्यः तत्र शोणितक्षयात् सक्थि-
शोषः । कूर्च्चाः पादयोरङ्गुष्ठाङ्गुल्योर्म्मध्ये तयो-
रूर्द्ध्वमधश्च एवं चत्वारः । स्नायुमर्म्माणि वैकल्य-
कराणि तत्र पादयोर्भ्रमणवेपने भवतः । विटपे
द्वे वङ्क्षणवृषणयोर्म्मध्ये स्नायुमर्म्मणी एकाङ्गुले
वैकल्यकरे तत्र षाण्ड्यमल्पशुक्रता वा । कूर्परौ
कफोणी तौ द्वौ सन्धिमर्म्मणी द्व्यङ्गुलौ वैकल्य-
करौ तत्र बाहुमध्ये सङ्कोचः । कुकुन्दरे
नितम्बकूपके द्वे सन्धिमर्म्मणी अर्द्धाङ्गुले
वैकल्यकरे तत्र स्पर्शाज्ञानमधःकाये चेष्टोप-
घातश्च । कक्षधरे वक्षःकक्षयोर्म्मध्ये द्वे स्नायु-
मर्म्मणी एकाङ्गुले वैकल्यकरे तत्र पक्षाघातः ।
विधुरे कर्णपृष्ठतोऽधःसंश्रिते किञ्चिन्निम्नाकारे
द्वे स्नायुमर्म्मणी अर्द्दाङ्गुले वैकल्यकरे तत्र
वाधिर्य्यम् । कृकाटिके शिरोग्रीवयोरुभयतः
सन्धी द्वे सन्धिमर्म्मणी अर्द्धाङ्गुले वैकल्यकरे तत्र
शिरःकम्पः । अंसौ स्कन्धौ स्नायुमर्म्मणी अर्द्धा-
ङ्गुलौ वैकल्यकरौ तत्र बाहुस्तम्भः । अंस-
फलके पृष्ठोपरि पृष्ठवंशमुभयतस्त्रिकसम्बन्धे
ग्रीवाया अंसद्बयस्य च संयोगो यत्र तत्त्रिकं
अस्थिमर्म्मणी अर्द्धाङ्गुले वैकल्यकरे तत्र बाह्वोः
शून्यता शोषश्च । अपाङ्गौ नेत्रयोरन्तौ सिरा-
मर्म्मणी अर्द्धाङ्गुलौ वैकल्यकरौ तत्रान्ध्यं दृष्ट्युप-
घातो वा । नीले मन्ये च कण्ठनाडीमुभयतश्च-
तस्रो धमन्यो द्वे नीले द्वे मन्ये तत्र एका नीला
एका मन्या एकस्मिन् पार्श्वे । अन्या मन्या अन्या
नीला अपरस्मिन् पार्श्वे । द्वे द्वे शिरामर्म्मणी
द्व्यङ्गुले द्व्यङ्गुले वैकल्यकरे तत्र मूकता विकृत-
स्वरता रसाग्राहिता च । फणे घ्राणमार्गमुभ-
यतः अभ्यन्तरे सिरामर्म्मणी अर्द्धाङ्गुले वैकल्य-
करे तत्र गन्धाज्ञानम् । आवर्त्तौ भ्रुवोरुपरि
निम्नयोः सन्धिमर्म्मणी अर्द्धाङ्गुलौ वैकल्यकरौ
तत्राप्यान्ध्यं दृष्ट्युपघातो वा ॥ * ॥
गुल्फौ द्वौ मणिबन्धौ द्वौ तथा कूर्च्चशिरांसि
च ।
रुजाकराणि जानीयादष्टावेतानि बुद्धिमान् ॥
गुल्फौ घुटिके सन्धिमर्म्मणी द्व्यङ्गुलौ रुजा-
करौ तत्र रुजा पादस्तम्भः खञ्जता वा । मणि-
बन्धौ हस्तप्रकोष्ठसन्धी सन्धिमर्म्मणी द्व्यङ्गुलौ
रुजाकरौ तत्र हस्तयोः क्रियाराहित्यम् ।
कूर्च्चशिरांसि गुल्फसन्धेरध उभयतः एकस्मिन्
पादे द्वे द्वे च द्वितीये एवं चत्वारि स्नायु-
मर्म्माण्येकाङ्गुलानि रुजाकराणि तत्र रुजा
शोफश्च ॥ * ॥ विशल्यघ्नानि ।
उत्क्षेपौ स्थापनी चैव विशल्यघ्नं त्रिकं मतम् ।
उत्क्षेपौ शङ्खयोरुपरि केशान् यावत् स्नायु-
मर्म्मणी अर्द्धाङ्गुलौ तयोर्विद्धयोः सशल्यो
जीवेत् पाकात् पतितशल्यो वा उद्धृतशल्यस्तु
म्रियेत अतएव विशल्यमुद्धृतशल्यं हन्तीति
विशल्यघ्नं मर्म्म । स्थापनी एका भ्रुवोर्म्मध्ये
सिरामर्म्मेदमर्द्धाङ्गुलं विशल्यघ्नम् ।
सप्तरात्रान्तरे हन्युः सद्यः प्राणहराणि हि ।
कालान्तरप्राणहरं पक्षे मासे च मारकम् ॥
सद्यःप्राणहरं चान्ते विद्धं कालेन मारयेत् ।
कालान्तरप्राणहरमन्ते विद्धन्तु दुःखदम् ॥
अन्ते मर्म्मसमीपे ।
मर्म्माण्यधिष्ठाय हि ये विकारा
मूर्च्छन्ति काये विविधा नराणाम् ।
प्रायेण ते कृच्छ्रतमा भवन्ति
वैद्येन यत्नैरपि साध्यमानाः ॥”
इति भावप्रकाशः ॥ * ॥
मर्म्मस्पर्शनिषेधो यथा, --
“परक्षेत्रे गां चरन्तीं न चाचक्षीत कस्यचित् ।
न संवसेत् सूतके च न कं वै मर्म्मणि स्पृशेत् ॥”
इति कूर्म्मपुराणे उपविभागे १५ अध्यायः ॥
(“सप्तोत्तरं मर्म्मशतम् । तानि मर्म्माणि
पञ्चात्मकानि । तद्यथा मांसमर्म्माणि । सिरा-
मर्म्माणि । स्नायुमर्म्माणि । अस्थिमर्म्माणि ।
सन्धिमर्म्माणि चेति । न खलु मांससिरा-
स्नाय्वस्थिसन्धिव्यतिरेकेणान्यानि मर्म्माणि
भवन्ति यस्यान्योपलभ्यन्ते ॥ तत्रैकादशमांस-
मर्म्माणि । एकचत्वारिंशत्सिरामर्म्माणि ।
सप्तविंशतिः स्नायुमर्म्माणि । अष्टावस्थि-
मर्म्माणि । विंशतिः सन्धिमर्म्माणि । तदेतत्
सप्तोत्तरं मर्म्मशतम् ॥” इति सुश्रुते शारीर-
स्थाने षष्ठेऽध्याये ॥)

मर्म्मकीलः, पुं, (मर्म्म कीलति विध्यतीति । कील

+ कः । यद्वा, मर्म्मणि गूढविषये कीलः शङ्कु-
रिव ।) भर्त्ता । इति जटाधरः ॥

मर्म्मज्ञः, त्रि, (मर्म्म तत्त्वं जानातीति । ज्ञा +

कः ।) मर्म्मवित् । तत्त्वज्ञः । मर्म्म स्वरूपं सन्धि-
स्थानं वा तज्जानाति यः सः ॥ (यथा, महा-
भारते । ७ । ३५ । २० ।
“तेषामापततां वीरः शीघ्रं पूर्ब्बमथो दृढम् ।
क्षिप्रास्त्रो न्यवधीद्व्रातान्मर्म्मज्ञो मर्म्म-
भेदिभिः ॥”)

मर्म्मरः, पुं, (मर्म्म तत्त्वं मर्म्मेत्यव्यक्तशब्दं वा

रातीति । रा + कः ।) वस्त्रस्य पत्रस्य च
ध्वनिः । इत्यमरः । १ । ७ । २३ ॥ मड्मड्
शब्द इति भाषा ॥ (यथा, रघुवंशे । ४ । ५६ ।
“अभ्यभूयत वाहानां चरतां गात्रशिञ्जितैः ।
मर्म्मरः पवनोद्धूतराजतालीवनध्वनिः ॥”)

मर्म्मरी, स्त्री, (मर्म्मर + गौरादित्वात् ङीष् ।)

पीतदारु । दारुहरिद्रा इति ख्याता । इति
मेदिनी । रे, २० ॥

मर्म्मरीकः, पुं, (म्रियत इवासाविति । मृ +

“फर्फरीकादयश्च ।” उणा० ४ । २० । इति
ईकन् प्रत्ययेन निपातनात् साधुः ।) दीनः ।
इत्युणादिकोषः ॥
पृष्ठ ३/६४३

मर्म्मवित्, [द्] पुं, (मर्म्म वेत्तीति । विद् + क्विप् ।)

मर्म्मज्ञः । तत्पर्य्यायः । कार्पटिकः २ । इति
त्रिकाण्डशेषः ॥ मर्म्मिकः ३ मर्म्मवेदी ४ । इति
जटाधरः ॥ (यथा, कथासरित्सागरे । ६२ । ९० ।
“वक्रनासस्ततोऽवादीद्रक्ष्योऽयं परमर्म्मवित् ॥”)

मर्म्मवेदी, [न्] पुं, (मर्म्म वेत्तीति । विद् + णिनिः ।)

मर्म्मवित् । तत्त्वज्ञः । इति जटाधरः ॥

मर्म्मस्पृक् [श्] त्रि, (मर्म्म स्पृशतीति । स्पृश् +

“स्पृशोऽनुदके क्विन् ।” ३ । २ । ५८ । इति
क्विन् ।) मर्म्मपीडकः । तत्पर्य्यायः । अरुन्तुदः
२ । इत्यमरः । ३ । १ । ८३ ॥ व्यथकः ३ ।
इति हेमचन्द्रः । ६ । १६५ ॥

मर्म्मावित्, [ध्] त्रि, (मर्म्म विध्यतीति । मर्म्म

+ व्यध् + क्विप् । “ग्रहिज्येति ।”
६ । १ । १६ । इति सम्पसारणम् । “नहि-
वृतिवृषिव्यधिरुचिसहितनिषु क्वौ ।” ६ । ३ । ११६ ।
इति दीर्घत्वम् ।) सन्धिस्थानवेधकर्त्ता ।
मर्म्मज्ञः । यथा, भट्टिकाव्ये । ५ । ५२ ।

मर्म्माविद् [ध्] त्रि, (मर्म्म विध्यतीति । मर्म्म

+ व्यध् + क्विप् । “ग्रहिज्येति ।”
६ । १ । १६ । इति सम्पसारणम् । “नहि-
वृतिवृषिव्यधिरुचिसहितनिषु क्वौ ।” ६ । ३ । ११६ ।
इति दीर्घत्वम् ।) सन्धिस्थानवेधकर्त्ता ।
मर्म्मज्ञः । यथा, भट्टिकाव्ये । ५ । ५२ ।
“चिरं क्लिशित्वा मर्म्माविद्रामो विलुभितप्लवम् ।
शब्दायमानमव्यात्सीद्भयदं क्षणदाचरम् ॥”
“मर्म्माणि विध्यतीति क्विप् जिः वीरुहो धङ्-
क्वाविति दीर्घनिर्द्देशात् क्वचित् क्विवन्ते पूर्ब्ब-
पददीर्घत्वं स्यादिति सूचितं आङ्पूर्ब्बस्य रूपं
वा मर्म्मावित् मर्म्मज्ञो वा वेत्ते रूपम् ।” इति
तट्टीकायां भरतः ॥

मर्म्मिकः, त्रि, (मर्म्म वेत्तीति । मर्म्म + ठक् ।)

मर्म्मवित् । इति जटाधरः ॥

मर्य्या, व्य, (म्रियतेऽवशिष्यतेऽत्र । मृ + यत् ।

टाप् ।) सीमा । इति मर्य्यादाशब्दट्टीकायां
रायमुकुटः ॥

मर्य्यादकः, त्रि, मर्य्यादाकर्त्ता । मर्य्यादां करो-

तीति कर्त्तरि ढघे कादिति कण्प्रत्यये केऽकः स्वो
हेतु वेति आकारस्य ह्रस्वे निष्पन्नोऽयं शब्दः ॥

मर्य्यादा, स्त्री, (मर्य्या + दा + अङ् । न्याय्यपथ-

स्थितिः । (यथा, महाभारते । १५ । २२ । २५ ।
“मर्य्यादायां स्थितो धर्म्मः शमश्चैवास्य लक्ष-
णम् ॥”)
तत्पर्य्यायः । संस्था २ धारणा ३ स्थितिः ४ ।
इत्यमरः । २ । ८ । २६ ॥ “पर्य्यादीयते मर्य्यादा
पर्य्याङ्पूर्ब्बात् दाञो ङः निपातनात् पस्य मः ।”
इति तट्टीकायां भरतः ॥ “मर्य्येति सीमार्थे
अव्ययं तत्र दीयते मर्य्यादेति स्वामी ।” इति
रायमुकुटः ॥ “म्रियन्तेऽत्रेति मर्य्या तां ददा-
तीति मर्य्यादा ।” इति सारसुन्दरी ॥ सीमा ।
इति जटाधरः ॥
कूलम् । इति हेमचन्द्रः । ४ । १४३ ॥ (यथा,
प्रबोधचन्द्रोदये । १ । ६ ।
“कल्पान्तवातसंक्षोभलङ्घिताशेषभूभृतः ।
स्थैर्य्यप्रसादमर्य्यादास्ता एव हि महोदधेः ॥”
देवातिथेः पत्नी । यथा, महाभारते । १ ।
९५ । २३ ।
“देवातिथिः खलु वैदेहीमुपयेमे मर्य्यादां नाम ॥”)

मर्य्यादागिरिः पुं, (मर्य्यादा सीमा तज्ज्ञापको

गिरिः ।) कुलाचलः । वर्षसीमापर्व्वतः । यथा ।
“उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवानिति
त्रयो रम्यकहिरण्मयकुरूणां वर्षाणां मर्य्यादा-
गिरयः प्रागायताः । उभयतः क्षारोदावधयो
द्विसहस्रयोजनपृथव एकैकशः पूर्ब्बस्मात् पूर्ब्ब-
स्मादुत्तरोत्तरो दशांशाधिकांशेन दैर्घ्य एव
ह्रसन्ति । एवं दक्षिणेनेलावृतं निषधो हेम-
कूटो हिमालय इति प्रागायता यथा नीला-
दयः । अयुतयोजनोत्सेधा हरिवर्षकिंपुरुष-
भारतानां यथासंख्यम् । तथैवेलावृतमपरेण
पूर्ब्बेण च माल्यवद्गन्धमादनावानीलनिषधायतौ
द्विसहस्रं पप्रथतुः केतुमालभद्राश्वयोः सीमानं
विदधाते ।” इति श्रीभागवते ५ स्कन्धे १६
अध्यायः ॥

मर्व्व, पूर्त्तौ । गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) मर्व्वति पयसा कुम्भं चेटी ।
इति दुर्गादासः ॥

मर्ष, पुं, क्षान्तिः । मृषधातोर्भावे घञ् प्रत्य-

येन निष्पन्नः ॥ (यथा, किरातार्ज्जुनीये ।
१ । ३३ ।
“अ-मर्षशून्येन जनस्य जन्तुना
न जातहार्देन न विद्विषादरः ॥”)

मर्षणं, क्ली, (मृष् + ल्युट् ।) क्षमा । मृषधातो-

र्भावे अनट्प्रत्ययेन निष्पन्नम् ॥ (धर्षणम् ।
यथा, महाभारते । ३ । ३१३ । २९ ।
“न चाप्यधर्म्मे न सुहृद्बिभेदने
परस्वहारे परदारमर्षणे ।
कदर्य्यभावे च रमेन्मनः सदा
नृणां सदाख्यानमिदं विजानताम् ॥”
मर्षयतीति । मृष् + णिच् + ल्युः । मर्षके, त्रि ।
यथा, श्रीमद्भागवते । ४ । ७ । ५८ ।
“इदं पवित्रं परमीशचेष्टितं
यशस्यमायुस्यमघौघमर्षणम् ॥”)

मर्षितः, त्रि, क्षमायुक्तः । क्षान्तिविशिष्टः । मृष-

धातोः कर्त्तरि क्तप्रत्ययेन निष्पन्नः ॥ (यथा,
श्रीमद्भागवते । १ । ७ । ५१ ।
“तत्राहामर्षितो भीमस्तस्य श्रेयान् वधः स्मृतः ।
न भर्त्तुर्नात्मनश्चार्थे योऽहन् सुप्तान् शिशून्
वृथा ॥”)
भावे क्ते, क्ली । (मर्षणम् ॥)

मर्षितवान्, त्रि, क्षान्तः । मृषधातोः कर्त्तरि

क्तवतुप्रत्ययेन निष्पन्नः ॥

मल, ङ धृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-

सक०-सेट् ।) ङ मलते । इति दुर्गादासः ॥

मलः, पुं, क्ली, (मृज्यते शोध्यते इति । मृज् +

“मृजेष्टिलोपश्च ।” उणा ० १ । १०९ । इति
अलच् टिलोपश्च । यद्बा, मलते धारयति
व्याध्यादिदौर्गन्धमिति । मल् + अच् ।) पापम् ।
(यथा, मनुः । २ । १०२ ।
“पश्चिमान्तु समासीनो मलं हन्ति दिवाकृतम् ॥”
“दिवार्ज्जितं पापं निहन्ति ।” इति तट्टीकायां
कुल्लूकभट्टः ॥ * ॥) विट् । (यथा, मनुः ।
४ । २२० ।
“पूयं चिकित्सकस्यान्नं पुंश्चल्यास्त्वन्नमिन्द्रियम् ।
विष्ठा वार्द्धुषिकस्यान्नं शास्त्रविक्रयिणो मलम् ॥”
“विष्ठा मलमेकमेव च ।” इति तद्भाष्ये मेधा-
तिथिः ॥) किट्टम् । इत्यमरः । २ । ६ । ६५ ॥
(यथा, अभिज्ञानशकुन्तले । ६ ।
“छाया न मूर्च्छति मलोहतप्रासादे
शुद्धे तु दर्पणतले सुलभावकाशा ॥”)
“पापं किल्विषम् । विट् । विष्ठा । किट्टं
कलङ्को मण्डूरादि स्वेदादि च एषु मलः ।
‘वसा शुक्रमसृङ्मज्जा मूत्रं विट्कर्णविण्णखाः ।
श्लेष्माश्रुदूषिका स्वेदो द्वादशैते नृणां मलाः ॥’
इति स्मृतिः ।” इति तट्टीकायां भरतः ॥ कर्पू-
रम् । इति शब्दचन्द्रिका ॥ वातपित्तकफाः ।
यथा, --
“सर्व्वेषामेव रोगाणां निदानं कुपिता मलाः ।
तत्प्रकोपस्य तु प्रोक्तं विविधाहितसेवनम् ॥”
इति माधवकरः ॥
(पारिभाषिकमलं यथा, महाभारते । ८ ।
४५ । २३ ।
“क्षत्त्रियस्य मलं भैक्ष्यं ब्राह्मणस्याव्रतं मलम् ।
मलं पृथिव्या वाहीकाः स्त्रीणां मदश्रियो
मलम् ॥”)

मलघ्नः, पुं, (मलं हन्तीति । हन् + टक् ।) शाल्मली-

कन्दः । इति राजनिर्घण्टः ॥ मलनाशके, त्रि ॥

मलघ्नी, स्त्री, (मलघ्न + स्त्रियां ङीष् ।) नाग-

दमनी । इति राजनिर्घण्टः ॥

मलजं, क्ली, (मलाज्जायते इति । जन् + डः ।)

पूयः । इति शब्दचन्द्रिका ॥ मलोद्भवे, त्रि ॥

मलदूषितं, त्रि, (मलेन दूषितम् ।) मलिनम् ।

इत्यमरः । ३ । १ । ५५ ॥

मलद्रावी, [न्] पुं, (मलं विष्ठां द्रावयति चाल-

यतीति । द्रु + णिच् + णिनिः ।) जयपालः ।
इति राजनिर्घण्टः ॥

मलनं, क्ली, (मल्यते मर्द्द्यते इति । मल् + ल्युट् ।)

मर्द्दनम् । इति मेदिनी । ने, १०४ ॥

मलनः, पुं, (मलते धारयति वृष्टितापौ । मल

धृतौ + ल्युः ।) पटवासः । इति मेदिनी । ने,
१०४ । ताँवु इति भाषा ॥

मलपूः, स्त्री, (मलात् पापात् पुनातीति । पू +

क्विप् ।) काकोडुम्बरिका । इत्यमरः । २ । ४ ।
६१ ॥ (यथा, भावप्रकाशे ।
“विभीतकत्वं मलपूजटानां
क्वाथेन कृत्वा गुडसंयुतेन ॥”)

मलभुक्, [ज्] पुं, (मलं भुङ्क्ते इति । भुज् +

क्विप् ।) काकः । इति शब्दरत्नावली ॥

मलभेदिनी, स्त्री, (मलं भिनत्तीति । भिद् +

णिनिः । स्त्रियां ङीप् ।) कटुका । इति राज-
निर्घण्टः ॥

मलमासः, पुं, (मलो मलिनश्चासौ मासश्चेति

कर्म्मधारयः ।) अधिकमासः । तत्पर्य्यायः ।
पृष्ठ ३/६४४
मलिम्लुचः २ अधिमासः ३ असंक्रान्तमासः ४
नपुंसकः ५ । तस्य लक्षणं यथा । रविसंक्रान्त्य-
भावविशिष्टचान्द्रमासत्वं मलमासत्वम् । इति
श्राद्धविवेकटीकायां श्रीकृष्णतर्कालङ्कारः ॥
अपि च । ज्योतिषे ।
“अमावस्याद्वयं यत्र रविसंक्रान्तिवर्ज्जितम् ।
मलमासः स विज्ञेयो विष्णुः स्वपिति कर्कटे ॥
अमावस्याद्वयम् अमावस्याद्वयान्त्यक्षणद्वयम् ।
रविसंक्रान्तिभ्यां रविक्रियोत्पत्तिरूपोत्तर-
संयोगरूपाभ्यां यथाक्रमं वर्ज्जितं तेन दर्श-
द्वयान्त्यक्षणद्वयपूर्ब्बापरयोरेव रवेः क्रियोत्प-
त्त्युत्तरसंयोगाभ्यां यथाक्रमं योगेनाधिमासः ।
संक्रान्तेरेकक्षणे क्रियोत्पत्तिरपरक्षणे पूर्ब्ब-
संयोगनाशः उत्तरसंयोगोत्पत्तिश्चेति क्षणद्वय-
वृत्तित्वमिति मीमांसकसिद्धान्तात् । गृह्यपरि-
शिष्टज्योतिःपराशरौ ।
रविणा लङ्घितो मासश्चान्द्रः ख्यातो मलि-
म्लुचः ।
तत्र यद्विहितं कर्म्म उत्तरे मासि कारयेत् ॥
पराशरः ।
पक्षद्वयेऽपि संक्रान्तिर्यदि न स्यात् सितासिते ।
तदा तन्मासविहितमुत्तरे मासि कारयेत् ॥
अत्र लङ्घनमसंक्रमणञ्च रवेस्तदा भवति यदा
तन्मासतत्पूर्ब्बमासान्त्यक्षणयोरेकराश्यवस्थितस्य
रवेस्तन्मासानन्तरमेव राश्यन्तरसंयोगः नत्वेक-
राशिस्थितस्य मासव्यापनमात्रं तथात्वे चतु-
र्द्दश्यामेकराशौ संक्रान्तस्य प्रतिपत्प्रथमक्षणे-
ऽपरराशौ तत्परराशौ च द्वितीयायां प्रतिपदि
वा रवेः संयोगेऽपरस्यापि मलमासता स्यात्
अतएव ज्योतिषे ।
अमावास्यापरिच्छिन्नं रविसंक्रान्तिवर्ज्जितम् ।
मलमासं विजानीयाद्गर्हितं सर्व्वकर्म्मसु ॥
तस्यार्को दर्शकश्चैकराशौ दर्शद्वयातिगः ॥
अत्रैकराशिस्थार्कस्य दर्शद्बयातिगत्वमुक्तम् ॥
एतच्च पूर्ब्बोपदर्शितयोर्मासयोः पूर्ब्बस्यैव सम्भ-
वति न परस्य ॥ * ॥ मलमासकारणन्तु ज्योतिषे ।
दिवसस्य हरत्यर्कः षष्टिभागमृतौ ततः ।
करोत्येकमहश्छेदं तथैवैकञ्च चन्द्रमाः ॥
एवमर्द्धतृतीयानामब्दानामधिमासकम् ।
ग्रीष्मे जनयतः पूर्ब्बं पञ्चाब्दान्ते तु पश्चिमम् ॥
तेन दिवसस्य तिथेः षष्टिभागं दण्डमेकं रवि-
र्हरति छेदयति उत्तरे छेदमित्यभिधानात् ।
ततश्च ऋतौ मासद्वये षष्टिनाडीच्छेदादह्न-
स्तिथेश्छेदमाकर्षणं करोति । एवं चन्द्रोऽपि ।
एवमुक्तक्रमेण वर्षे द्वादशतिथ्यात्मककाला कर्षा-
दर्द्धतृतीयानामब्दानामन्ते अर्द्धं तृतीयं येषां
ते तथा ग्रीष्मे माधवादिषट्के पूर्व्वं माधवादि-
त्रिकपतितं पञ्चाब्दान्ते तु पश्चिमं श्रावणादि-
त्रिकपतितं मलमासं चन्द्रार्कौ जनयतः । ग्रीष्मे
माधवादिषट्के इति यदुक्तं तत् व्यक्तमाह
मिहिरः ।
माधवादिषु षट्केषु मासि दर्शद्बयं यदा ।
द्विराषाढः स विज्ञेयः शेते तु श्रावणेऽच्युतः ॥
द्बिराषाढो द्बिराषाढादिः । श्रावणे सौर-
श्रावणे । तथा च ज्योतिषे ।
मिथुनस्थो यदा भानुरमावस्याद्वयं स्पृशेत् ।
द्विराषाढः स विज्ञेयः विष्णुः स्वपिति कर्क्कटे ॥
अमावस्याद्वयं तदन्त्यक्षणद्वयं स्पृशेत् संयुञ्ज्यात्
न तन्मध्ये राश्यन्तरसंयोग इत्यर्थः ॥ * ॥ ननु
कर्क्कटादित्रिके अधिमासपाते तत्पूर्ब्बं मिथुन
एव हरिशयनं तत् कथं माधवादिषट्कमात्रे
कर्क्कटे तत् । तत्राह राजमार्त्तण्डः ।
कन्यासिंहकुलीरेषु यदा दर्शद्वयं भवेत् ।
आगामिनि तदा वर्षे कुलीरे माधवः स्वपेत् ॥
माधवादित्रिकश्रावणादित्रिकाधिमासविवेचन-
मप्येतदर्थम् । इदन्तु सार्द्धवर्षद्बयाधिमासपात-
मौचित्यक्रमादुक्तं क्वचित्तिथीनां ह्रासबाहुल्येन
दण्डषष्ट्यधिकन्यूनदर्शनादुक्तकालन्यूनाधिकका-
लेऽपि मलमासो भवतीति समयप्रकाशकृत् ।
वस्तुतस्तु वैपरीत्यं यतो न्यूनदण्डतिथेः प्रायि-
कत्वे तत्र तिथिक्षयस्य झटित्युपलभ्यमानत्वात्
स्वल्पकालेन तिथ्यन्तरसम्बन्धात् शीघ्रं रवि-
लङ्घनप्रतीतेः शीघ्रमेव मलमासो भवतीति
अधिकदण्डतिथेः प्रायिकत्वे तत्र तिथिक्षयस्य
झटित्यनुपलभ्यमानत्वेनाधिकेनैव कालेन तिथ्य-
न्तरसम्बन्धात् विलम्बेनैव रविलङ्घनप्रतीतेश्चिरे-
णैव मलमासो भवतीति । तथा च विष्णु-
धर्म्मोत्तरम् ।
सौरसंवत्सरस्यान्ते मानेन शशिजेन तु ।
एकादशातिरिच्यन्ते दिनानि भृगुनन्दन ! ॥
समाद्वये साष्टमासे तस्मान्मासोऽतिरिच्यते ।
स चाधिमासकः प्रोक्तः काम्यकर्म्मसु गर्हितः ॥
इदन्तु नियतमेकस्मादधिमासात्तृतीयाब्दे अधि-
मासान्तरमिति । यद्यपि ।
यां तिथिं समनुप्राप्य तुलां गच्छति भास्करः ।
तयैव सर्व्वसंक्रान्तिर्यावन्मेषं न गच्छति ॥
इति राजमार्त्तण्डवचनात्तुलादिषण्मासे तिथि-
वृद्ध्यभावाद्बर्षे द्बादशतिथिवृद्धिरनुपपन्ना-
तथापि ।
मध्ये विषुवतोर्भानुर्यान्यहानि तु वर्द्धयेत् ।
तैः सम्भूयाधिको मासः पतत्येव त्रयोदशः ॥
इति गृह्यपरिशिष्टवाक्ये विषुवतोर्मेषतुलासं-
क्रान्त्योर्मध्ये मेषादिषण्मास एव तिथिवृद्धि-
रुक्ता । अहर्गणने मेषादिषण्मासे मन्दभुक्त्या
सप्तदिनवृद्धिस्तुलादौ शीघ्रभुक्त्या दिनद्वयह्रास
इति । तथा च ज्योतिःशास्त्रम् ।
मेषादीनामहर्वृन्दं षण्णां सप्ताष्टचन्द्रकम् ।
तुलादीनामष्टसप्तचन्द्रकन्तु लिखेत् पृथक् ॥
चन्द्र एकः । अङ्कस्य वामा गतिरित्यङ्कविदां
समयात् व्युत्क्रमेण अङ्का बोध्याः । तेन दिन-
वृद्धिक्रमसञ्चयाभ्यां मेषादिषट्क एव एका-
दशादितिथिवृद्धिः । एवञ्च ।
गतेऽब्दद्वितये सार्द्धे पञ्चपक्षे दिनद्वये ।
दिवसस्याष्टमे भागे पतत्येकोऽधिमासकः ॥
इति राजमार्त्तण्डोक्तः सप्तदशदिनाधिकाष्ट-
मासाधिकवर्षद्वये अधिमासः । स सौरे मासि
सप्तदशदिनोत्तरं चान्द्रमासलङ्घनासम्भवात्
सावनमानेन ज्ञेयः । तथा च विष्णुधर्म्मोत्तर-
प्रथमकाण्डम् ।
सौरेणाब्दस्तु मानेन यदा भवति भार्गव ! ।
सावनेन च मानेन दिनषट्कं प्रपूर्य्यते ॥
सौरसंरत्सरे दिनषट्काधिकः सावनसंवत्सरो
भवतीति । सौरमासाष्टकाधिकवर्षद्वये सप्तदश
दिनानि वर्द्धन्ते सावनक्रमेणेति पूर्ब्बोक्तविष्णु-
धर्म्मोत्तरोक्तसमानविषयतास्येति ॥” “ज्योतिषे ।
दर्शानां फाल्गुनादीनां प्रायो माघस्य च
क्वचित् ।
नपुंसकत्वं भवति न पौषस्य कदाचन ॥
नपुंसकत्वं मलमासत्वम् । तथा चोक्तम् ।
असंक्रान्तो हि यो मासः कदाचित्तिथि-
वृद्धितः ।
कालान्तरात् समायाति स नपुंसक इष्यते ॥
शाण्डिल्योऽपि ।
प्रायशो न शुभः सौम्यो ज्यैष्ठश्चाषाढकस्तथा ।
मध्यमौ चैत्रवैशाखावधिकोऽन्यः सुभिक्षकृत् ॥
सौम्यो मार्गशीर्षः । अधिकोऽधिमासः ॥” * ॥
“तदयं संक्षेपः । शुक्लप्रतिपदादिरमावास्यान्तो
रविलङ्घितो मासो मलमासः । स च माधवादौ
औत्सर्गिकः कदाचित् कार्त्तिकादावपि । अयञ्चा-
निष्टकृत् माधवादि कार्त्तिकादिषट्कयोरपि
तल्लक्षणयोगे माधवादावेव तुलादिषट्क एवो-
भयमासे तल्लक्षणयोगे पूर्व्व एव । आश्विन-
वैशाखयोस्तल्लक्षणयोगे पर एव मलमासः
तद्भिन्नस्तु भानुलङ्घितः । मलमासे आषाढा-
देर्द्वित्वम् । भानुलङ्घिते तु नैतदिति विस्तरः ॥ * ॥
मलमासे निषिद्धानि यथा, काठकगृह्यम् ।
चूडां मौञ्जीबन्धनञ्च अग्न्याधेयं महालयम् ।
राजाभिषेकं काम्यञ्च न कुर्य्यादधिमासके ॥
चूडां मौञ्जीबन्धनञ्च अग्न्याधेयं महालयम् ।
राजाभिषेकं काम्यञ्च न कुर्य्याद्भानु-
लङ्घिते ॥
महालयं कन्यार्कश्राद्धम् । भीमपराक्रमेऽपि ।
अधिमासे दिनपाते धनुषि रवौ भानुलङ्घिते
मासि ।
चक्रिणि सुप्ते कुर्य्यान्नो माङ्गल्यं विवाहञ्च ॥
दिनपाते दिनक्षये ।
अधिमासे विवाहं यात्रां चूडां तथोपनय-
नादि ।
कुर्य्यान्न सावकाशं माङ्गल्यं न तु विशेषे-
ज्याम् ॥ इति ॥
अत्र विवाहादिकीर्त्तनं निरवकाशत्वेऽपि निषे-
धार्थम् । अन्यथा सावकाशमित्यनेनैव सिद्धेः ।
सावकाशञ्च सम्भवत्कालान्तरं कर्म्म अतो
निरवकाशस्यानन्यगतिकस्य प्रतिप्रसवोऽर्थात्
सूचितः । तथा च मलमासाधिकारे काठक-
गृह्यम् ।
पृष्ठ ३/६४५
कालेऽनन्यगतिं नित्यां कुर्य्यान्नैमित्तिकीं
क्रियाम् ॥”
इति मलमासतत्त्वम् ॥ * ॥
अपि च ।
“अग्न्याधानं प्रतिष्ठाञ्च यज्ञदानव्रतानि च ।
देवव्रतवृषोत्सर्गचूडाकरणमेखलाः ।
माङ्गल्यमभिषेकञ्च मलमासे विवर्ज्जयेत् ॥”
इति गारुडे १२८ अध्यायः ॥ * ॥
अथ मलमासकर्त्तव्यव्रतादि । “चातुर्मास्यव्रत-
माषाढाद्युल्लेखेन विहितं तदप्यारब्धं श्राव-
णादिमलमासेऽपि कर्त्तव्यं आषाढादिप्रतिदिन-
कर्त्तव्यत्वेन निरवकाशात् ।
‘षष्ठ्या तु दिवसैर्मासः कथितो वादरायणैः ॥’
इति ज्योतिःशास्त्रे पितामहेन एकमासत्वाभि-
धानाच्च । यच्च ।
‘संवत्सरन्तु यः पूर्णमेकभक्तेन तिष्ठति ।’
इत्यादौ माघाद्यनुल्लिखितसंवत्सरव्रतमारब्धं
तन्मलमासेऽपि कर्त्तव्यम् ।
‘क्वचित्त्रयोदशमासाः संवत्सर इति श्रुतेः ॥’
यच्च प्रतिमासविहितं न माघाद्युल्लेखेन तन्मल-
मासेऽपि कर्त्तव्यम् । तथा च रम्भातृतीयाव्रते
शिवरहस्यम् ।
‘मासे मलिम्लुचेऽप्येवं यजेद्देवीं सशङ्कराम् ।
किन्तु नोद्यापनं कार्य्यमित्याह भगवान् शिवः ॥’
उद्यापनं प्रतिष्ठा । व्रतारम्भोऽपि निषिद्धः ।
पूर्ब्बोक्तकाश्यपवचनात् । ज्यैष्ठादिमासविशेष-
विहितं सावित्रीव्रतादिकन्तु सावकाशत्वान्मल-
मासे न कार्य्यम् । किन्तु प्रकृत एव ज्यैष्ठादौ
कर्त्तव्यमिति । बृहस्पतिः ।
‘नित्यनैमित्तिके कुर्य्यात् प्रयतः सन् मलिम्लुचे ।
तीर्थस्नानं गजच्छायां प्रेतश्राद्धं तथैव च ॥’
नित्यमहरहः पुरस्कारविहितं स्नानसन्ध्यापञ्च-
महायज्ञादि काम्यमपि तथाविधं संकल्पितं
यत्किञ्चिद्द्रव्यदानशिवपूजादि । व्यक्तं भविष्ये ।
‘कुर्य्यात् प्रात्यहिकं कर्म्म प्रयतः सन् मलिम्लुचे ।
नैमित्तिकञ्च कुर्व्वीत सावकाशं न यद्भवेत् ॥’
कालमाधवीये मत्स्यपुराणम् ।
‘वर्षे चाहरहः श्राद्धं दानञ्च प्रतिवासरम् ।
गोभूतिलहिरण्यानां मासेऽसि स्यान्मलिम्लुचे ॥’
काठकगृह्यपरिशिष्टम् ।
‘प्रवृत्तं मलमासात् प्राक् यत् कर्म्म न समा-
पितम् ।
आगते मलमासेऽपि तत् समाप्यमसंशयम् ॥’
ब्रह्मसिद्धान्ते ।
‘आरब्धं कर्म्म यत्किञ्चित्तत्कार्य्यं हि मलिम्लुचे ॥’
नैमित्तिकं माससंवत्सरदिवसादिविशेषनियम-
शून्यावश्यकर्त्तव्यकादाचित्कनिमित्तोत्पपन्नम् ॥
जातकर्म्माद्यपि मलमासे कार्य्यम् ।
‘जातकर्म्मान्त्यकर्म्माणि नवश्राद्धं तथैव च ।
मघात्रयोदशीश्राद्धं श्राद्धान्यपि च षोडश ॥
चन्द्रसूर्य्यग्रहे स्नानं दानश्राद्धक्रियादिकम् ।
कार्य्यं तम्मलमासेऽपि नित्यं नैमित्तिकं तथा ॥’
स्मृतिः ।
‘श्राद्धजातकनामानि ये च संस्कारमाश्रिताः ।
मलिम्लुचेऽपि कर्त्तव्याः काम्या इष्टीश्च वर्ज्जयेत् ॥’
संस्कारा अन्नप्राशननिष्क्रमणादयः । इति
माधवाचार्य्यः । अन्त्यकर्म्माणि वहनदहनोदक-
दानपिण्डदानास्थिसञ्चयादीनि । नवश्राद्धम् ।
‘चतुर्थे पञ्चमे चैव नवमैकादशे तथा ।
यदत्र दीयते जन्तोस्तन्नवश्राद्धमुच्यते ॥’
इति यमोक्तम् ॥
अत्र चतुर्थाहादिग्रहणं मरणदिनावधीति ।
बालग्रहभूतग्रहनराधिपप्रबलशत्रुदुःसहरोगा-
भिभवाद्भुतदुःस्वप्नग्रहदौस्थ्यादिनिमित्तं शान्ति-
कर्म्मापि मलमासेऽपि कर्त्तव्यम् । विष्णुना
शान्तिस्वस्त्ययनैर्दैवोपघातान् शमयेत् पर-
चक्रोपघातांश्च इत्युक्तम् ।” इति मलमास-
तत्त्वम् ॥

मलयः, पुं, (मलते धरति चन्दनादिकमिति ।

मल् + “वलिमलितनिभ्यः कयन् ।” उणा० ४ ।
९९ । इति कयन् ।) स्वनामख्यातपर्व्वतः ।
तत्पर्य्यायः । आषाढः २ दक्षिणाचलः ३ ।
इति हेमचन्द्रः । ४ । ९५ ॥ चन्दनाद्रिः ४ मल-
याचलः ५ । इति शब्दरत्नावली ॥ (स च सप्त-
कुलाचलान्तर्गतः । यथा, मार्कण्डेये । ५७ ।
१०--११ ।
“महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्व्वतः ।
बिन्ध्यश्च पारिपात्रश्च सप्तैवात्र कुलाचलाः ॥”)
शैलाङ्गम् । देशविशेषः । (यथा, मात्स्ये ।
११३ । ४४ ।
“अङ्गा वङ्गा मद्गुरका अन्तर्गिरिबहिर्गिरी ।
ततः प्रवङ्गमातङ्गमलयामलवर्त्तिकाः ॥”)
आरामः । इति मेदिनी । ये, ९९ ॥ नन्दन-
वनम् । इति धरणिः ॥ अष्टादशोपद्बीपान्त-
र्गतद्वीपविशेषः । इति शब्दमाला ॥ ऋषभ-
देवस्य शतपुत्त्रान्तर्गतपञ्चमपुत्त्रः । (यथा,
श्रीभागवते । ५ । ४ । १० । “तमनु कुशावर्त्त
इलावर्त्तो ब्रह्मवर्त्तो मलयः केतुर्भद्रसेन इन्द्र-
स्पृक् विदर्भः कीकट इति नव नवतिप्रधानाः ॥”
गरुडवंशीयानामन्यतमः । यथा, महाभारते ।
५ । १०१ । १४ ।
“सुस्वरो मधुपर्कश्च हेमवर्णस्तथैव च ।
मलयो मातरिश्वा च निशाकरदिवाकरौ ॥”)

मलयगन्धिनी, स्त्री, (मलयस्य गन्धः अस्त्यस्याः ।

मलयगन्ध + इनिः । स्त्रियां ङीप् ।) उमासखी-
विशेषः । इति शब्दमाला ॥

मलयजं, पुं, क्ली, (मलयात् जायते इति । जन् +

डः ।) चन्दनम् । इत्यमरः । २ । ६ । १३१ ॥
(यथा, गीतगोविन्दे । ३ । ११ ।
“हृदि विषलताहारो नायं भुजङ्गमनायकः
कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः ॥
मलयजरजो नेदं भस्म प्रियारहिते मयि
प्रहर न हरभ्रान्त्यानङ्ग ! क्रुधा किमु
धावसि ॥”
मलयजाते, त्रि । यथा, महाभारते । १ ।
२७ । ६ ।
“उत्पतद्भिरिवाकाशं वृक्षैर्मलयजैरपि ॥”)
यथा च ।
“राहुं मलयजं शूद्रं पैठीनं द्वादशाङ्गुलम् ।
कृष्णं कृष्णाम्बरं सिंहासनं ध्यात्वा तथाह्वयेत् ॥”
इति ग्रहयज्ञतत्त्वम् ॥

मलया, स्त्री, (मल + कयन् । टाप् ।) त्रिवृता ।

इति मेदिनी । ये, ९९ ॥

मलयाचलः, पुं, (मलयश्चासावचलश्चेति ।)

मलयपर्व्वतः । इति शब्दरत्नावली ॥ (यथा,
सुश्रुते उत्तरतन्त्रे । ४७ अध्याये ।
“पुन्नागनागकरवीरकृतोपकारे
तस्मिन् गृहे कमलरेण्वरुणे शयीत ।
यत्राहतानिलविकम्पितपुष्पदाम्नि
हेमन्तबिन्ध्यहिमवन्मलयाचलानाम् ॥”)

मलयानिलः, पुं, (मलयस्यानिलः ।) वसन्त-

कालीनवायुः । तत्पर्य्यायः । वासन्तः २ । इति
त्रिकाण्डशेषः ॥ (यथा, साहित्यदर्पणे । ३ । १२६ ।
“स एव सुरभिः कालः स एव मलयानिलः ।
सैवेयमबला किन्तु मनोऽन्यदिव दृश्यते ॥”)

मलयूः, स्त्री, (मलपूः । पृषोदरादित्वात् पस्य

यत्वम् ।) मलपूः । इति शब्दरत्नावली ॥

मलयोद्भवं, क्ली, (मलयः उद्भव उत्पत्तिकारणं

यस्य ।) चन्दनम् । इति राजनिर्घण्टः ॥

मलविनाशिनी, स्त्री, (मलं विनाशयतीति । वि +

नश् + णिच् + णिनिः । स्त्रियां ङीप् ।) शङ्ख-
पुष्पी । इति राजनिर्घण्टः ॥

मलहन्ता, [ऋ] पुं, (मलं हन्तीति । हन् + तृच् ।)

शाल्मलीकन्दः । इति राजनिर्घण्टः ॥

मला, स्त्री, (मल + अच् । टाप् ।) भूम्यामलकी ।

इति शब्दचन्द्रिका ॥

मलाकर्षी, [न्] पुं, (मलं विष्ठां आकर्षति स्थानात्

स्थानान्तरं नयतीति । आ + कृष् + णिनिः ।)
हडिकः । इति शब्दमाला । हाडि इति भाषा ॥

मलाका, स्त्री, (मलेन मनोमालिन्येन अकति

कुटिलं गच्छतीति । अक् + अच् । स्त्रियां
टाप् ।) कामिनी । हस्तिनी । दूती । इति
संक्षिप्तसारोणादिवृत्तिः ॥

मलापकर्षणं, क्ली, (अप + कृष् + भावे ल्युट् ।

मलस्यापकर्षणम् ।) पापमोचनम् । मलदूरी-
करणम् । इति केचित् ॥

मलापहा, स्त्री, (मलमपहन्तीति । अप + हन् +

डः । स्त्रियां टाप् ।) नदीविशेषः । यथा, --
“मलापहा भीमरथी च घट्टगा
यथा च कृष्णा जलसाम्यगा गुणैः ।
मलापहाघट्टगयोस्तथापि
पथ्यं लघु स्वादुतरं सुकान्तिदम् ॥”
इति राजनिर्घण्टः ॥

मलावहं, क्ली, (मलं आवहतीति । आ + वह् +

अच् ।) नवविधपापान्तर्गतपापविशेषः । यथा,
मानवे । ११ । ७१ ।
पृष्ठ ३/६४६
“कृमिकीटवयोहत्या मद्यानुगतभोजनम् ।
फलैधःकुसुमस्तेयमधैर्य्यञ्च मलावहम् ॥”

मलारिः, पुं, (मलस्यारिर्नाशको रेचकत्वात् ।)

सर्व्वक्षारः । इति राजनिर्घण्टः ॥

मलिनं, त्रि, (मलते धारयतीति । मल + “बहुल-

मन्यत्रापि ।” उणा ० २ । ४९ । इति इनच् ।
यद्वा, “ज्योत्स्नातमिस्रेति ।” ५ । २ । ११४ ।
इत्यत्र । “मलशब्दादिनजीमसचौ प्रत्ययौ
निपात्येते ।” इति काशिकोक्त्या इनच् ।)
मलयुक्तवस्तु । तत्पर्य्यायः । मलीमसम् २
कच्चरम् ३ मलदूषितम् ४ । इत्यमरः । ३ । १ ।
५५ ॥ (यथा, महानिर्व्वाणतन्त्रे । १ । ४३ ।
“परस्त्रीहरणे पापशङ्काभयविवर्ज्जिताः ।
निर्धना मलिना दीना दरिद्राश्चिररोगिणः ॥”)
दूषितम् । (यथा, आर्य्यासप्तशत्याम् । ४०२ ।
“परपट इव रजकीभिर्मलिनो भुक्त्वापि निर्द्दयं
ताभिः ।
अर्थग्रहणेन विना जघन्य ! मुक्तोऽसि कुल-
टाभिः ॥”)
कृष्णम् । इति मेदिनी । ने, १०४ ॥ नित्यनैमि-
त्तिकक्रियात्यागी । इति मार्कण्डेयपुराणम् ॥
(निकृष्टम् । यथा, शिशुपालवधे । ९ । २३ ।
“द्युतिमग्रहीद्ग्रहगणो लघवः
प्रकटीभवन्ति मलिनाश्रयतः ॥”
“मलिनाश्रयतः निकृष्टाश्रयणात् ।” इति
तट्टीकायां मल्लिनाथः ॥)

मलिनं, क्ली, (मलते धरति दोषमिति । मल +

इनच् ।) घोलम् । इति शब्दचन्द्रिका ॥ दोषः ।
इति हेमचन्द्रः ॥ टङ्कणः । इति राजनिर्घण्टः ॥

मलिनमुखः, पुं, (मलिनं मुखमग्रभागो यस्य ।)

अग्निः । गोलाङ्गुलः । इति मेदिनी । खे, १८ ॥
प्रेतः । इति हेमचन्द्रः ॥

मलिनमुखः, त्रि, (मलिनं दूषितं मुखं यस्य ।)

क्रूरः । खलः । इति मेदिनी । खे, १८ । हेम-
चन्द्रश्च ॥ म्लानवदनश्च ॥

मलिनाम्बु, क्ली, (मलिनं कृष्णवर्णं अम्बु ।) मसी ।

इति हेमचन्द्रः । ३ । ४८ ॥

मलिनास्यः, त्रि, (मलिनं दूषितमास्यं यस्य ।)

खलः । इति शब्दमाला ॥

मलिनी, स्त्री, (मलमस्या अस्तीति । मल +

इनिः । स्त्रियां ङीप् ।) रजस्वला नारी ।
इत्यमरः । २ । ६ । २० ॥

मलिम्लुचः, पुं, (मली सन् म्लोचतीति । म्लुच् इर्

गत्याम् + कः ।) मलमासः । यथा, --
“तमतिक्रम्य तु रविर्यदा गच्छेत् कथञ्चन ।
आद्यो मलिम्लुचो ज्ञेयो द्बितीयः प्रकृतः स्मृतः ॥
यदा तं दर्शान्तमासमतिक्रम्य तत्पूर्ब्बमासा-
न्त्यक्षणवृत्तिराशिस्थः सन् सूर्य्योऽतिवाह्य गच्छेत्
मासान्तरे राश्यन्तरसंयोगं गच्छेत् तदा
आद्योऽतिक्रान्तमासो मलिम्लुचो ज्ञेयः । मली
सन् म्लोचति गच्छतीति मलिम्लुचः । द्वितीयस्तु
प्रकृतः शुद्धः कर्म्मार्हत्वात् ।” इति मलमास-
तत्त्वम् ॥ अग्निः । चौरः । इति मेदिनी ।
चे, २१ ॥ (यथा, माघे । १६ । ५२ ।
“प्रहितः प्रधनाय माधवा-
नहमाकारयितुं महीभृता ।
न परेषु महौजसश्छला-
दपकुर्व्वन्ति मलिम्लुचा इव ॥”)
वायुः । इति शब्दमाला ॥ (पञ्चयज्ञपरिभ्रष्टः ।
इति हेमचन्द्रः । ३ । ५२२ ॥)

मलिष्ठा, स्त्री, (अतिशयेन मलिनी । मलिनी +

इष्ठः । स्त्रियां टाप् ।) रजस्वला नारी । इति
त्रिकाण्डशेषः ॥

मलीमसं, क्ली, (मलमस्यास्तीति । मल +

“ज्योत्स्नातमिस्रेति ।” ५ । २ । ११४ । इति
ईमसच् प्रत्ययेन निपातितः ।) लौहम् ।
पुष्पकासीसम् । इति मेदिनी । से, ५९ ॥

मलीमसः, त्रि, (मलमस्यास्तीति । मल + ईम-

सच् । निपात्यते ।) मलिनः । इत्यमरः ।
३ । १ । ५५ ॥ (यथा, माघे । १ । ३८ ।
“उपप्लुतं पातुमदो मदोद्धतै-
स्त्वमेव विश्वम्भर ! विश्वमीशिषे ।
ऋते रवेः क्षालयितुं क्षमेत कः
क्षपातमस्काण्डमलीमसं नभः ॥”
कृष्णवर्णः । यथा, श्रीकण्ठचरिते । ६ । ३८ ।
“मलीमसश्रीर्मधुपानसक्तो
भेजे लताः पुष्पवतीः स्फुटं यः ।
स एव चैत्रेण वत द्बिरेफः
पुष्पेषुराज्ये विहितः पुरोधाः ॥”)

मलूकः, पुं, (मल + बाहुलकात् ऊकः ।) कृमि-

विशेषः । इत्युणादिकोषः ॥

मल्ल, ङ धृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक० सेट् ।) ङ, मल्लते । इति दुर्गा-
दासः ॥

मल्लः, पुं, (मल्लते धरति बलमिति । मल्ल् + अच् ।)

बाहुयोधी । इत्यमरभरतौ । माल इति भाषा ॥
(यथा, श्रीमद्भागवते । १० । ४३ । १७ ।
“मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो
मूर्त्तिमान् ॥”)
वर्णसङ्करजातिविशेषः । माला इति भाषा ।
स च व्रात्यक्षत्त्रियात् सवर्णायां जातः । इति
मानवे १० अध्यायः ॥ स च लेटात् तीवर-
कन्यायां जातः । इति ब्रह्मवैवर्त्तपुराणम् ॥
तन्त्रवाय्यां कुन्दकाराज्जातः । इति पराशर-
पद्धतिः ॥ पात्रम् । कपोलम् । मत्स्यभेदः । इति
मेदिनी । ले, ४४ ॥ देशविशेषः । यथा, --
“दशार्णा नवराष्ट्रञ्च मल्लाः शाल्ला युगन्धराः ॥”
इति विराटपर्व्वणि १ अध्यायः ॥

मल्लकः, पुं, (मल्ल इव । मल्ल + कन् । दृढत्वादस्य

तथात्वम् । यद्वा, मल्ल धारणे + ण्वुल् ।)
दन्तः । इति हेमचन्द्रः । ३ । २८४ ॥ (ब्राह्मण-
विशेषः । यथा, राजतरङ्गिण्याम् । ८ । २३२० ।
“विलोक्य वैकल्यहतौ बद्धौ तौ स्वामिनौ तथा ।
कृष्टासिधेनुरुत्तस्थौ द्विजन्मा मल्लकाभिधः ॥”)

मल्लकः, पुं, स्त्री, (मल्लते धारयति प्रदीपमिति ।

मल्ल् + ण्वुल् ।) दीपाधारः । नारिकेलफला-
वयवजपात्रविशेषः । माला इति भाषा ।
स्त्रियां मल्लिका । इत्यमरभरतौ ॥ प्रदीपः ।
इति मथुरेशः ॥

मल्लजं, क्ली, (मल्ले तदाख्यदेशे जायते इति ।

जन् + डः ।) मरिचम् । इति जटाधरः ॥

मल्लतूर्य्यं, क्ली, (मल्लैर्वाद्यमानं तूर्य्यम् । मल्लाय

तूर्य्यमिति वा ।) वाद्यविशेषः । तत्पर्य्यायः ।
महास्वनः २ । इति त्रिकाण्डशेषः ॥

मल्लनागः, पुं, (नागो हस्तीव मल्लः । पूर्ब्बनिपातः ।)

वात्स्यायनमुनिः । (मल्लो बलीयान् नागः ।)
अभ्रमातङ्गः । इति मेदिनी । गे, ५७ ॥ (मल्लो
नाग इव ।) लेखहारः । इति शब्दरत्नावली ॥
कामशास्त्रविशेषः । इति धरणिः ॥

मल्लभूः, स्त्री, (मल्लानां भूर्भूमिः ।) मल्लभूमिः ।

इति जटाधरः ॥

मल्लभूमिः, स्त्री, (मल्लानां भूमिः स्थानम् ।)

मल्लक्रीडास्थानम् । तत्पर्य्यायः । अक्षवाटः २
रङ्गभूमिः ३ रणस्थली ४ । इति शब्दरत्नावली ॥
मल्लभूः ५ अक्षपाटः ६ । इति जटाधरः ॥
देशविशेषश्च ॥ (यथा, --
“अयःपात्रे पयःपानं शालपत्रे च भोजनम् ।
शयनं तालपत्रे च मल्लभूमेरियं गतिः ॥”
इत्युद्भटः ॥)

मल्लयात्रा, स्त्री, (मल्लानां यात्रा ।) मल्लानां

युद्धार्थयात्रा । तत्पर्य्यायः । माल्लवी २ । इति
हारावली ॥

मल्लयुद्धं, क्ली, (मल्लानां युद्धम् ।) मल्लानां संग्रामः ।

तत्पर्य्यायः । नियुद्धम् २ बाहुयुद्धम् ३ । इति
शब्दरत्नावली ॥ तत्प्रकारा यथा, --
“अथ सूदेन तं मल्लं योधयामास मत्स्यराट् ।
चोद्यमानस्ततो भीमो दुःखेनैवाकरोम्मतिम् ॥
नहि शक्नोति विवृतं प्रत्याख्यातुं नराधिपम् ।
ततः स पुरुषव्याघ्रः शार्दूलशिथिलश्चरन् ॥
प्रविवेश महारङ्गं विराटमभिपूजयन् ।
बबन्ध कक्षां कौन्तेयस्ततः संहर्षयन् जनान् ।
ततस्तं वृत्रसङ्काशं भीमो मल्लं समाह्वयत् ॥
जीमूतं नाम तं मल्लं तत्र प्रख्यातविक्रमम् ।
तावुभौ सुमहोत्साहावुभौ तीव्रपराक्रमौ ॥
मत्ताविव महाकायौ वारणौ षष्टिहायनौ ।
ततस्तौ नरशार्दूलौ बाहुयुद्धे समीयतुः ॥
वीरौ परमसं हृष्टावन्योन्यजयकाङ्क्षिणौ ।
आसीत् सुभीमः सम्पातो वज्रपर्व्वतयोरिव ॥ १० ॥
उभौ परमसंहृष्टौ बलेनातिबलावुभौ ।
अन्योन्यमन्तरप्रेप्सू परस्परजयैषिणौ ॥
उभौ परमसंहृष्टौ मत्ताविव महागजौ ।
कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सकङ्कटैः ॥ ११ ॥
सन्निपातावधूतैश्च प्रमाथोन्मथनैस्तथा ।
क्षेपणैर्मुष्टिभिश्चैव वराहोद्धूतनिस्वनैः ॥
तलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च ।
शलाकानखपातैश्च पादोद्धूतैश्च दारुणैः ॥
पृष्ठ ३/६४७
जानुभिश्चाश्मनिर्घोषैः शिरोभिश्चावघट्टितैः ।
तद्युद्धमभवद्घोरमशस्त्रं बाहुतेजसा ॥
बलप्राणेन शूराणां समाजोत्सवसन्निधौ ।
अरज्यत जनः सर्व्वः सोत्क्रुष्टनिनदोत्थितः ।
बलिनो संयुगे राजन् ! वृत्रवासवयोरिव ।
प्रकर्षणाकर्षणयोरभ्याकर्षविकर्षणैः ॥
आकर्षेतामथान्योन्यं जानुभिश्चाभिजघ्नतुः ॥ १२ ॥
ततः शब्देन महता भर्त्सयन्तौ परस्परम् ।
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ ॥
बाहुभिः समसज्जेतामायसैः परिघैरिव ।
चकर्ष दोर्भ्यामुत्पाट्य भीमो मल्लममित्रहा ॥
विनदन्तमभिक्रोशन् शार्दूल इव वारणम् ।
तमुद्यम्य महाबाहुर्भ्रामयामास वीर्य्यवान् ॥
ततो मल्लाश्च मत्स्याश्च विस्मयं चक्रिरे परम् ।
भ्रामयित्वा शतगुणं गतसत्त्वमचेतनम् ।
प्रत्यपिंषन्महाबाहुर्म्मल्लं भुवि वृकोदरः ॥ १३ ॥
तस्मिन् विनिहते मल्ले जीमूते लोकविश्रुते ।
विराटः परमं हर्षमगच्छद्बान्धवैः सह ॥
स हर्षात् प्रददौ वित्तं बहु राजा महामनाः ॥”
इति विराटपर्व्वणि १२ अध्यायः ॥
एषां टीका यथा । “दुखेन स्वप्रकटनराजाज्ञा-
लङ्घनद्वन्द्वजेन । विवृतं लोकसमक्षम् । शार्दूल-
शिथिलः सिंह इव व्याघ्र इव वा शिथिलः
सावज्ञः । स्यात् सिंहेऽपि च शार्दूल इति
दर्शनात् । कक्षां कच्छम् । सम्पातः संघर्षः ॥
१० ॥ सकङ्कटैः कङ्कटः करघर्षणजः किणः कडा
इति प्रसिद्धः । कृतप्रतिकृतैः परप्रयुक्तिप्रति-
कृतैः । चित्रैर्विचित्रैर्ब्बन्धैरिति शेषः ॥ ११ ॥
सन्निपातेत्यादि । एते मल्लानां शिक्षाविशेषाः ।
सन्निपातैः परस्परसंघातैरवधूतैर्बद्धमुष्टिभुजा-
घातैः प्रमाथैः पातयित्वा पेषणैः । उन्मथनैः
अन्तरीक्षे भुजाभ्यां मथनैः । क्षेपणैः स्थानात्
प्रच्यावनैः । बद्धाङ्गुलिकरो मुष्टिः ।
‘अवाङ्मुखं स्कन्धगतं भ्रामयित्वा तथैव यः ।
क्षिप्तस्य शब्दः स भवेद्वराहोद्धूतनिस्वनः ॥
तर्जन्यङ्गुष्ठमध्येन प्रसारितकरो हि यः ।
संप्रहारस्तलाख्यस्तु संग्रहो वज्रमिष्यते ॥’
अर्द्धचन्द्रतुल्यमल्लमुष्टिर्वज्रमित्यर्थः ।
‘प्रसृताङ्गुलिहस्तेन प्रसृष्टिः प्रहृतिः स्मृता ।
द्विगुणीकृतबाहुर्यस्तदीयार्थं यथाबलम् ॥
प्रहारः सशलाका स्यात् पादोद्धूतः पदा-
हतम् ॥’
जानुभिश्चाश्मनिर्घोषैःपाषाणघोषसदृशध्वनिभिः
करणैर्यान्यवघट्टनानि तैः । बलप्राणेन बलो-
त्कर्षेण । सोत्क्रुष्टनिनदोत्थितः उत्क्रोशन-
निनदोत्थानसहितः । प्रकर्षणं बाहुसंमुखा-
नयनं प्रकृष्टाकर्षणं तदेवाकर्षणमीषत्सम्मुखा-
नयनम् । अभ्याकर्षः समन्ततः कर्षणम् ।
विकर्षणं पश्चात् नयनं तदेव विपरीतकर्षण-
मुच्यते उपसर्गभेदादर्थभेदोऽपीति ॥ १२ ॥ शत-
गुणं शतवारम् ॥ १३ ॥” इत्यर्ज्जुनमिश्रकृत-
भारतार्थदीपिका ॥

मल्ला, स्त्री, (मल्लते धारयति विलासादिकमिति ।

मल्ल धारणे + अच् । स्त्रियां टाप् ।) नारी ।
पत्रवल्ली । मल्लिका । इति शब्दरत्नावली ॥
(लोठनराजपत्नी । यथा, राजतरङ्गिण्याम् ।
८ । १९१७ ।
“तमेव पुत्त्रा शोचन्ती शोकशङ्कुहताशया ।
ततः प्रपेदे प्रलयं मल्ला लोठनवल्लभा ॥”)

मल्लारः, पुं, (मल्लं ऋच्छति प्राप्नोतीति । ऋ +

अण् ।) रागविशेषः । स तु षण्णां रागाणां
मध्ये द्वितीयः । यथा, --
“आदौ मालवरागेन्द्रस्ततो मल्लारसंज्ञितः ।
श्रीरागस्तस्य पश्चाद्वै वसन्तस्तदनन्तरम् ॥
हिल्लोलश्चाथ कर्णाट एते रागाः प्रकी-
र्त्तिताः ॥”
अस्य षट्रागिण्यो यथा, --
“वेलावली पूरवी च कानडा माधवी तथा ।
कोडा केदारिका चैव मल्लारस्य प्रिया इमाः ॥”
अस्य गानसमयः ।
“मेघमल्लाररागस्य गानं वर्षासु सर्व्वदा ॥”
अस्य स्वरूपं यथा, --
“शङ्खावदातं पलितं दधानः
प्रलम्बकर्णः कुमुदेन्दुवर्णः ।
कौपीनवासाः सविहारचारी
मल्लाररागः शुचिशान्तमूर्त्तिः ॥”
इति सङ्गीतदामोदरः ॥
(तथा च सङ्गीतदर्पणे रागाध्याये ।
“भैरवः पञ्चमो नाटो मल्लारो गौडमालवः ।
देशाख्यश्चेति षड्रागाः प्रोच्यते लोकविश्रुताः ॥”
“मेघमल्लारिका मालकौशिकः पटमञ्जरी ।
आशावरीति विज्ञेया रागा मल्लारसंश्रयाः ॥”
इति रागार्णवमतम् ॥)

मल्लारी, स्त्री, (मल्लार + ङीप् ।) वसन्तरागस्य

रागिणी । यथा, --
“आन्दोलिता च देशाख्या लोला प्रथम-
मञ्जरी ।
मल्लारी चेति रागिण्यो वसन्तस्य सदानुगाः ॥”
इति सङ्गीतदामोदरः ॥
मेघरागस्य रागिणी । इति हलायुधः ॥
(अस्या उदाहरणादिकं यथा संगीतदर्पणे ।
“मल्लारी सपहीना स्यात् ग्रहांशन्यासधैवता ।
औडवा पौवरीयुक्ता वर्षासु सुखदा सदा ॥”
ध नि रि ग म ध । अस्या ध्यानं यथा, --
“गौरी कृशा कोकिलकण्ठनादा
गीतच्छलेनात्मपतिं स्मरन्ती ।
आदाय वीणां मलिना रुदन्ती
मल्लारिका यौवनदूनचित्ता ॥”)

मल्लिः, पुं, (मल्लते धारयति विज्ञानमिति । मल्ल +

“सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ । इति
इन् ।) चतुर्विंशतिवृत्तार्हतां मध्ये ऊनविंश-
जिनः । इति हेमचन्द्रः । १ । २८ ॥

मल्लिः, स्त्री, (मल्ल + इन् ।) मल्लिका । इति

शब्दरत्नावली ॥

मल्लिकः, पुं, (मल्ल्यते धार्य्यतेऽसौ । मल्ल + इन् ।

स्वार्थे कन् ।) मलिनचञ्चुचरणयुक्तहंसः ।
मलिनैः किञ्चिद्धूसरवर्णैरालोहितैश्चञ्चुचरणै-
रुपलक्षितः शुक्लहंसः । इत्यमरभरतौ ॥
नृणामुपाधिविशेषश्च ॥ (यथा, भरतमल्लिकः ।
तथा च भट्टिकाव्यटीकारम्भे मङ्गलाचरण-
श्लोकः ।
“नत्वा शङ्करमम्बष्ठगौराङ्गमल्लिकात्मजः ।
भट्टिटीकां प्रकुरुते भरतो मुग्धबोधिनीम् ॥”)

मल्लिका, स्त्री, (मल्लिरेवेति । मल्लि + स्वार्थे कन् ।

स्त्रियां टाप् । यद्बा, मल्लिर्हंस इव शुक्ल-
त्वात् । मल्लि + इवार्थे कन् ।) स्वनामख्यात-
पुष्पवृक्षः । वेलफुल इति भाषा ॥ (यथा,
काव्यादर्शे । २ ।
“मल्लिकामुकुले चण्डि ! भाति गुञ्जन्मधुव्रतः ।
प्रयाणे पञ्चबाणस्य शङ्खमापूरयन्निव ॥”)
तत्पर्य्यायः । तृणशून्यम् २ भूपदी ३ शतभीरुः
४ । इत्यमरः । २ । ४ । ६९ ॥ तृणशून्या ५
शीतभीरुः ६ । इति भरतः ॥ भद्रवल्ली ७
गौरी ८ वनचन्द्रिका ९ प्रिया १० सौम्या
११ नारीष्टा १२ गिरिजा १३ सिता १४
मल्ली १५ मदयन्ती १६ चन्द्रिका १७ मोदिनी
१८ । अस्या गुणाः । कटुत्वम् । तिक्तत्वम् ।
चक्षुष्यत्वम् । मुखपाककुष्ठविस्फोटकण्डूति-
विषव्रणनाशित्वञ्च । इति राजनिर्घण्टः ॥ कफ-
नाशित्वम् । इति राजवल्लभः ॥ उष्णत्वम् ।
लघुत्वम् । वृष्यत्वम् । वातपित्तास्रदृग्व्याध्य-
रुचिनाशित्वञ्च । इति भावप्रकाशः ॥ * ॥
अस्या उत्पत्तिर्यथा, --
“विचरन्तं तदा भूयो महेशं कुसुमायुधः ।
आरात् स्थित्वाग्रतो धन्वी सन्तापयितुमुद्यतः ॥
ततस्तमग्रतो दृष्ट्वा क्रोधाद् ध्मातदृशा हरः ।
स्मरमालोकयामास शिखाग्राच्चरणान्तिकम् ॥
आलोकितस्त्रिनेत्रेण मदनो द्युतिमानपि ।
प्रादह्यत तदा ब्रह्मन् ! पादादारभ्य कक्षवत् ॥
प्रदह्यमानौ चरणौ दृष्ट्वासौ कुसुमायुधः ।
उत्ससर्ज्ज धनुः श्रेष्ठं तज्जगामाथ पञ्चधा ॥
यदासीन्मुष्टिबन्धं तद्रुक्मपृष्ठं महाप्रभम् ।
स च कल्पतरुर्ज्जातः स्रग्गन्धाढ्यो गुणाकृतिः ॥
नाहस्थानं शुभाकारं यदासीद्वज्रभूषितम् ।
तज्जातं केशवारण्यं बकुलं नामतो नगैः ॥
या च कोटी शुभा ह्यासीदिन्द्रनीलविभूषिता ।
जाता सा पाटला रम्या भृङ्गराजविभूषिता ॥
नाहोपरि तथा मुष्टौ स्थानं चन्द्रमणिप्रभम् ।
पञ्चगुल्माभवज्जाती शशाङ्ककिरणोज्ज्वला ॥
ऊर्द्ध्वं मुष्ट्या अधः कट्याः स्थानं विद्रुमभूषितम् ।
तस्माद्बहुपुटा मल्ली सञ्जाता विविधा मुने ! ॥”
इति वामनपुराणे ६ अध्यायः ॥
मत्स्यविशेषः । मृत्पात्रभेदः । इति मेदिनी ।
के, १३७ ॥ पानपात्रम् । इति हेमचन्द्रः ॥

मल्लिकाक्षः, पुं, (मल्लिकापुष्पमिव अक्षिणी

यस्येति । “अक्ष्णोऽदर्शनात् ।” ५ । ४ । ७६ ।
पृष्ठ ३/६४८
इति अच् ।) मलिनचञ्चुचरणयुक्तहंसः । इति
हेमचन्द्रः । ४ । ३९२ ॥ शुक्लवर्णवेष्टितचक्षु-
र्द्वययुक्तहयः । इति हलायुधः ॥ (यथा,
हरिवंशे । २४१ । २५ -- २६ ।
“मल्लिकाक्षान् विरूपाक्षान् क्रौञ्चवर्णान् मनो-
जवान् ।
अश्वसैन्यं महाबाहुस्तदप्रतिमपौरुषः ।
निसूदयामास बली गदया भीमविक्रमः ॥”)

मल्लिकाख्यः, पुं, मलिनचञ्चुचरणयुक्तहंसः । इत्य-

मरटीका ॥ ते सिता हंसा मलिनैः किञ्चि-
द्धूसरवर्णैरालोहितैश्चञ्चुचरणैर्लक्षिता मल्लि-
काख्या मल्लिकनामानः । मल मल्ल ङ धृतौ
लान्तः नाम्नीति इकः । मल्लिको हंसभेदे
स्यात्तृणशून्यन्तु मल्लिका । इति रुद्रः । शुक्ला-
ङ्गत्वान्मल्लिकापुष्पमिव अक्षि येषां ते मल्लि-
काक्षा इति स्वामी । इति भरतः ॥ (यथा,
उत्तररामचरिते । १ । २६ ।
“एतस्मिन् मदकलमल्लिकाख्यपक्ष-
व्याधूतस्फु रदुरुदण्डपुण्डरीकाः ।
वाष्पाम्भःपरिपतनोद्गमान्तराले
संदृष्टाः कुवलयिनो भुवो विभागाः ॥”)

मल्लिकाख्या, स्त्री, (मल्लिकेति आख्या यस्याः ।)

त्रिपुरमालीपुष्पम् । तत्पर्य्यायः । मोहिनी २
वटपत्रा ३ मोहना ४ । इति रत्नमाला ॥

मल्लिकागन्धं, क्ली, (मल्लिकाया इव गन्धो

यस्य ।) मङ्गलागुरु । इति राजनिर्घण्टः ॥

मल्लिकापुष्पः, पुं, (मल्लिकाया पुष्पमिव पुष्पं

यस्य ।) कुटजवृक्षः । इति राजनिर्घण्टः ॥
करुणवृक्षः । इति हेमचन्द्रः । करुणा लेवु
इति भाषा ॥ स्वनामख्यातपुष्पवृक्षश्च ॥

मल्लिगन्धि, क्ली, (मल्लेरिव गन्धो यस्य तत् ।

“उपमानाच्च ।” ५ । ४ । १३८ । इति इका-
रादेशः ।) अगुरु । इति शब्दचन्द्रिका ॥

मल्लिपत्रं, क्ली, (मल्लेः पत्रमिव पत्रं यस्य ।)

छत्राकः । इति त्रिकाण्डशेषः ॥

मल्ली, स्त्री, (मल्लि + कृदिकारादिति पक्षे ङीष् ।)

मल्लिका । इति राजनिर्घण्टः शब्दरत्ना-
वली च ॥ (यथा, राजेन्द्रकर्णपूरे । ४९ ।
“किं राकेन्दुकरच्छटाभिरुदितं किं मौक्तिकै-
रुद्गतं
किं मल्लीमुकुलैः स्मितं बिकसितं किं मालती-
कुड्मलै ॥”)

मल्लीकरः, त्रि, (अमलमपि आत्मानं मल्लमिव

करोतीति । कृ + अच् ।) चौरः । इति शब्द-
रत्नावली ॥

मल्लु, पुं, (मल्लते भयं धारयतीति । मल्ल + बाहु-

लकात् उः ।) भालुकः । इति शब्दचन्द्रिका ॥

मव, नहे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

मक०-सेट् ।) नहो बन्धनम् । मवति चौरं
लोकः । इति दुर्गादासः ॥

मवितः, त्रि, (मव + कर्म्मणि क्तः ।) बद्धः ।

इत्यमरटीकायां स्वामी ॥

मव्य, बन्धे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) मव्यति चौरं राजा । यद्वया-
न्तोऽयमित्येके । इति दुर्गादासः ॥

मश, ध्वनौ । कोपे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ।) मशति मशकः । इति
दुर्गादासः ॥

मशकः, पुं, (मशति ध्वनतीति । मश् + अच् ।

संज्ञायां कन् ।) कीटविशेषः । मशा इति भाषा ॥
तत्पर्य्यायः । वज्रतुण्डः २ सूच्यास्यः ३ सूक्ष्म-
मक्षिकः ४ रात्रिजागरदः ५ । इति राज-
निर्घण्टः ॥ (यथा, श्रीमद्भागवते । ३ । ३१ । २७ ।
“तुदन्त्यामत्वचं दंशा मशका मत्कुणादयः ।
रुदन्तं विगतज्ञानं कृमयः कृमिकं यथा ॥”)
तन्नाशकधूपो यथा, --
“त्रिफलार्ज्जुनपुष्पाणि भल्लातकशिरीषकम् ।
लाक्षासर्ज्जरसश्चैव विडङ्गश्चैव गुग्गुलुः ।
एतैर्धूपैर्म्मक्षिकाणां मशकानां विनाशनम् ॥”
इति गारुडे १८१ अध्यायः ॥
चर्म्मभेदः । स तु स्वनामख्यातचर्म्मनिर्म्मित-
स्नेहादिपात्रम् । रोगविशेषः । माशा इति
हिन्दी । आँचिल इति वङ्गभाषा ॥ इति शब्द-
रत्नावली ॥ * ॥ मशकरोगमाह ।
“अवेदनं स्थिरञ्चैव यत्तु गात्रे प्रदृश्यते ।
माषवत् कृष्णमुत्सन्नं मलिनं मशकं दिशेत् ॥”
स्थिरं अचलम् । अस्य चिकित्सा यथा, --
“चर्म्मकीलं जतुमणिं मशकांस्तिलकालकान् ।
उत्कृत्य शस्त्रेण दहेत् क्षाराग्निभ्यामशेषतः ॥”
इति भावप्रकाशः ॥
अपि च
“लशुनानान्तु चूर्णस्य घर्षो मशकनाशनः ।”
इति गारुडे १७५ अध्यायः ॥

मशकी, [न्] पुं, (मशकाः सन्त्यस्यामिति ।

मशक + इनिः ।) उदुम्बरवृक्षः । इति हेम-
चन्द्रः । ४ । १९८ ॥

मशहरी, स्त्री, (मशं मशकं हरतीति । हृ +

“हरतेरनुद्यमनेऽच् ।” ३ । २ । ९ । इति अच् ।
स्त्रियां ङीष् ।) मशकनिवारकप्रावरण-
विशेषः । मशारि इति भाषा ॥ चतुष्की २ ।
इति जटाधरः ॥

मशुनः, पुं, (मे समये श्वयति वर्द्धते इति । श्वि +

बहुलवचनात् नक् । ततः निपातितः ।)
कुक्कुरः । इति शब्दमाला ॥

मष, वधे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) मषति । इति दुर्गादासः ॥

मषिकूपी, स्त्री, (मषेः कूप इव । मषिकूप +

अल्पार्थे ङीष् ।) मस्याधारः । इति हेमचन्द्रः ॥
३ । १४८ ॥

मषिधानं, क्ली, (धीयतेऽस्मिन्निति । धा + अधि-

करणे ल्युट् । मषेर्धानं स्थानम् ।) मस्याधारः ।
इति हेमचन्द्रः । ३ । १४८ ॥

मषीलेख्यदलः, पुं, (मषीभिर्लेख्यं लेखनयोग्यं दलं

यस्य ।) श्रीतालवृक्षः । इति राजनिर्घण्टः ॥

मस, इर् य ई परिमाणे । परिणामे । इति कवि-

कल्पद्रुमः ॥ (दिवा०-पर०-सक०-सेट् । निष्ठाया-
मनिट् ।) इर्, अमसत् अमासीत् अमसीत् ।
अस्मात् पुषादित्वान्नित्यं ङ इत्यन्ये । य, मस्यति
धान्यं गृही । परिमातीत्यर्थः । ई, मस्तः । परि-
णामं कस्यचिदनुरोधात् । इति दुर्गादासः ॥

मसकः, पुं, (मस्यते परिमीयतेऽसौ । मस +

कर्म्मणि घः । अल्पार्थे कन् ।) क्षुद्ररोग-
विशेषः । मासा इति लोके प्रसिद्धः । तल्ल-
क्षणं यथा, --
“अवेदनं स्थिरञ्चैव यत्तु गात्रे प्रदृश्यते ।
माषवत् कृष्णमुत्सन्नं मलिनं मसकं दिशेत् ॥”
अवेदनं वेदनारहितम् । स्थिरम् अचलम् ॥
तच्चिकित्सा यथा, --
“चर्म्मकीलं जतुमणिं मसकांस्तिर्लकालकान् ।
उत्कृत्य शस्त्रेण दहेत् क्षाराग्निभ्याम-
शेषतः ॥”
इति भावप्रकाशः ॥

मसनं, क्ली, (मस्यते इति । मस् + ल्युट् ।) सोम-

राजीवृक्षः । इति शब्दचन्द्रिका ॥

मसरा, स्त्री, (मस् + बाहुलकात् अरच् । स्त्रियां

टाप् ।) मसूरः । इति जटाधरः ॥

मसारः, पुं, (मस् + भावे क्विप् । मसं परिमाणं

ऋच्छतीति । ऋ + अण् ।) इन्द्रनीलमणिः ।
इति शब्दरत्नावली ॥ (यथा, नैषधचरिते ।
९ । १०४ ।
“चकास्ति बिन्दुच्चुतकातिचातुरी-
घनास्रुबिन्दुस्रु तिकैतवात्तव ।
मसारताराक्षि ! ससारमात्मना
तनोषि संसारमसंशयं यतः ॥”)

मसारकः, पुं, (मसार + स्वार्थे कन् ।) इन्द्रनील-

मणिः । इति शब्दरत्नावली ॥

मसिः, स्त्री, पुं, (मस्यते परिणमते इति । मस् +

“सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ ।
इति इन् ।) लिपिप्रयोजना । लेखनद्रव्यम् ।
इत्यमरटीकायां भरतः ॥ तत्पर्य्यायः । मसि-
जलम् २ पत्राञ्जनम् ३ । इति त्रिकाण्डशेषः ॥
मेला ४ काली ५ अञ्जनम् ६ मसी ७ । इति
शब्दरत्नावली ॥ रञ्जनी ८ । इति स्वामी ॥
मलिनाम्बु ९ मशी १० । इति हेमचन्द्रः । ३ ।
१४८ ॥ शेफालिकावृन्तम् । इति रुद्रः शब्द-
रत्नावली च ॥

मसिका, स्त्री, शेफालिका । इति शब्दरत्नावली ॥

मलिका इति ग्रन्थान्तरे पाठः ॥

मसिधानं, क्ली, (मसेर्धानं आधारः ।) मस्या-

धारः । इति शब्दरत्नावली ॥

मसिधानी, स्त्री, (मसेर्धानी ।) मस्याधारः ।

दोयाति इति भाषा ॥ तत्पर्य्यायः । मसिमणिः
२ मेलान्धुः ३ वर्णकूपिका ४ मेलानन्दा ५
मेलाम्बु ६ मसिधानम् ७ । इति शब्दरत्नावली ॥
मसिकूपी ८ । इति हेमचन्द्रः ॥ मसिकूपिका ९ ।
इति जटाधरः ॥
पृष्ठ ३/६४९

मसिनं, क्ली, (मस्यते परिमीयते गणनयेति । मस्

+ “बहुलमन्यत्रापि ।” उणा ० २ । ४९ । इति
इनच् ।) सपिण्डकम् २ । इत्युणादिकोषः ॥

मसिपण्यः, पुं, (मसिः काली पण्यमस्य ।)

लेखकः । इति त्रिकाण्डशेषः ॥

मसिप्रसूः, स्त्री, (मसिं प्रकर्षेण सूते उद्गिरतीति ।

प्र + सू + क्विप् ।) मस्याधारः । इति हारा-
वली ॥ लेखनी । इति केचित् ॥

मसिमणिः, स्त्री, (मस्याधारो मणिरिवेति ।)

मस्याधारः । इति शब्दरत्नावली ॥

मसिवर्द्धनं, क्ली, (मसिं वर्द्धयतीति । वृध् + णिच्

+ ल्युः ।) रसगन्धः । इति त्रिकाण्डशेषः ॥

मसी, स्त्री, (मसि + कृदिकारादिति ङीष् ।)

काली । (यथा, नैषधचरिते । ९ । ६३ ।
“त्वदास्य निर्य्यन्मदलीकदुर्यशो-
मसीमयं सल्लिपिरूपभागिव ।”)
शेफालिकावृन्तम् । इति शब्दरत्नावली ॥

मसीजलं, क्ली, (मस्या जलम् । राहोः शिर

इतिवत् अभेदे षष्ठी ।) मसी । काली । इति
त्रिकाण्डशेषः ॥

मसीधानी, स्त्री, (मस्या धानी पात्रम् ।) मस्या-

धारः । इति त्रिकाण्डशेषः ॥

मसीना, स्त्री, (मस् + “बहुलमन्यत्रापि ।”

उणा ० २ । ४९ । इति । इनच् । पृषोदरादि
त्वाद्दीर्घः । स्त्रियां टाप् ।) स्वनामख्यात-
शस्यम् । यथा, शब्दचन्द्रिकायाम् ।
“मसीना चातसी चिह्रा क्षुमोमामालिका
मिता ॥”

मसुरः, पुं, (मस्यते परिमीयतेऽसौ । मस् +

“मसेश्च ।” उणा ० १ । ४४ । इति ।
उरन् ।) मसुरकलायः । इति त्रिकाण्डशेषः ॥

मसुरा, स्त्री, (मस्यति पण्यत्वेन परिणमत्यसा-

विति । मस् + उरन् । स्त्रियां टाप् ।) वेश्या ।
ब्रीहिप्रभेदः । इति मेदिनी । रे, २०१ ॥

मसूरः, पुं स्त्री, (मस्यते परिमीयतेऽसौ । मस् +

“मसेरूरन् ।” उणा० ५ । ३ । इति ऊरन् ।)
ब्रीहिभेदः । ममुरी कलाइ इति भाषा ॥
(अस्याधिपतिर्मेषराशिः । यथा, बृहत्संहि-
तायाम् । ४१ । २ ।
“वस्त्राविककुतुपानां
मसूरगोधूमरालकयवानाम् ।
स्थलसम्भवौषधीनां
कनकस्य च कीर्त्तितो मेषः ॥”)
तत्पर्य्यायः । मङ्गल्यकः २ । इत्यमरः । २ । ९ । १७ ॥
मसुरः ३ ब्रीहिकाञ्चनः ४ । इति त्रिकाण्डशेषः ॥
मसूरा ५ मसुरा ६ । इति मेदिनी । रे, २०१ ॥
रागदालिः ७ मङ्गल्यः ८ पृथुबीजकः ९ शूरः १०
कल्याणबीजः ११ गुडबीजः १२ मसूरकः १३ ।
इति राजनिर्घण्टः ॥ मङ्गल्या १४ मसूरका १५ ।
इति भावप्रकाशः ॥ अस्य गुणाः । मधुरत्वम् ।
शीतत्वम् । संग्राहित्वम् । कफपित्तनाशित्वम् ।
वातामयकरत्वम् । मूत्रकृच्छ्रहरत्वम् । लघु-
त्वञ्च । इति राजनिर्घण्टः ॥ अस्रहरत्वम् ।
रूक्षत्वम् । ज्वरनाशित्वञ्च । इति भाव-
प्रकाशः ॥ तस्य यूषगुणाः । संग्राहित्वम् ।
स्वादुपाकित्वम् । प्रमेहपित्तश्लेष्मज्वरातीसार-
नाशित्वञ्च । इति राजनिर्घण्टः ॥

मसूरकः, पुं, (मसूर इव प्रतिकृतिरिति । मसूर +

कन् । संज्ञायां कन् वा ।) उपबर्हविशेषः ।
गोल वालिश इति भाषा । तत्पर्य्यायः ।
चतुरः २ चातुरः ३ अङ्गेऊः ४ चक्रगण्डुः ५ ।
इति शब्दरत्नावली ॥ (क्लीवेऽपि दृश्यते ।
यथा, बृहत्संहितायाम् । ४३ । ४३ ।
“अष्टाश्रि नीलरक्तं
तृतीयमिन्द्रेण भूषणं दत्तम् ।
असितं यमश्चतुथं
मसूरकं कान्तिमदयच्छत् ॥”)

मसूरविदला, स्त्री, (मसूरस्येव विशिष्टं दल-

मस्याः । स्त्रियां टाप् ।) कृष्णत्रिवृत् । इत्य
मरः । २ । ४ । १०९ ॥ (यथा, राजतर-
ङ्गिण्याम् । ६ । १८७ ।
“मसूरविदलाकारतूलाक्लिन्नकलेवरः ।
पौषे चाब्दे चतुस्त्रिंशे नवमेऽब्दे सिते मृतः ॥”)
श्यामलता । इति रत्नमाला ॥

मसूरा, स्त्री, (मस्यति परिणमतीति । मस् +

ऊरन् । स्त्रियां टाप् ।) वेश्या । मसूरकलायः ।
इति मेदिनी । रे, २०१ ॥

मसूरिका, स्त्री, (मसूरेव । मसूरा + कन् । स्त्रियां

टाप् । अत इत्वञ्च ।) कुट्टनी । इति शब्द-
माला ॥ * ॥ वसन्तरोगः । तस्योत्पादनक्रिया
टीका इति ख्याता । सा तु गोस्तनज-नर-
गात्रज-मसूरिकापूयेन भवति । यथा, --
“धेनुस्तन्यमसूरिका नराणाञ्च मसूरिका ।
तज्जलं बाहुमूलाच्च शस्त्रान्तेन गृहीतवान् ॥
बाहुमूले च शस्त्राणि रक्तोत्पत्तिकराणि च ।
तज्जलं रक्तमिलितं स्फोटकज्वरसम्भवम् ॥”
इति धन्वन्तरिकृतशाक्तेयग्रन्थः ॥
तत्पर्य्यायः । पापरोगः २ रक्तवटी ३ मसूरी
४ । इति शब्दरत्नावली ॥ * ॥ अथ मसूरिका-
धिकारः । “तत्र मसूरिकाविप्रकृष्टनिदान-
पूर्ब्बिकां संप्राप्तिमाह ।
‘कट्वम्ललवणक्षारविरुद्धाध्यशनाशनैः ।
दुष्टनिष्पावशाकाद्यैः प्रदुष्टपवनोदकैः ॥
क्रुद्धग्रहेक्षणाच्चापि देशे दोषाः समुद्भवाः ।
जनयन्ति शरीरेऽस्मिन् दुष्टरक्तेन सङ्गताः ॥
मसूराकृतिसंस्थानाः पिडकाः स्युर्मसूरिकाः ॥’
क्षारो यवक्षारः । विरुद्धाध्यशनाशनैः कट्वा-
दिविरुद्धान्तानामशनैः । अथ च अध्यशनाशनं
अधिकमशनं अध्यशनम् । दुष्टनिष्पावशाकाद्यैः
दुष्टैर्निष्पावशाकाद्यैः । आद्यशब्दान्मध्वालुकादि
तैः । प्रदुष्टपवनोदकैः सविषकुसुमादिसंसर्गात्
क्रुद्धग्रहेक्षणाच्चापि देशे देशे क्रुद्धग्रहा राहु-
शनैश्चरादयस्तेषामीक्षणाद्दृष्टेः यस्मिन् देशे
क्रुद्धग्रहदृष्टिः तत्रापि मसूरिकोत्पत्तिरित्यर्थः ।
मसूराकृतिसंस्थाना मसूरस्य या आकृति-
स्तद्वत्संस्थानमाकृतिर्यासां ताः ॥ * ॥ अथ
पूर्ब्बरूपमाह ।
‘तासां पूर्ब्बं ज्वरः कण्डुर्गात्रभङ्गोऽरतिर्भ्रमः ।
त्वचि शोफः सवैवर्ण्यो नेत्ररागस्तथैव च ॥’
वातजामाह ।
‘स्फोटाः कृष्णारुणा रूक्षास्तीव्रवेदनया-
न्विताः ।
कठिनाश्चिरपाकाश्च भवन्त्यनिलसम्भवाः ॥
‘सन्ध्यस्थिपर्व्वणां भेदः कासः कम्पोऽरतिर्भ्रमः ।
शोषस्ताल्वोष्ठजिह्वानां तृष्णा चारुचिसंयुता ॥’
पैत्तिकामाह ।
‘रक्ताः पीताः सिताः स्फोटाः सदाहास्तीव्र-
वेदनाः ।
भवन्त्यचिरपाकाश्च पित्तकोपसमुद्भवाः ॥
‘विड्भेदश्चाङ्गमर्द्दश्च दाहस्तृष्णारुचिस्तथा ।
मुखपाकोऽक्षिपाकश्च ज्वरस्तीव्रः सुदारुणः ॥’
रक्तजामाह ।
‘रक्तजायां भवन्त्येते विकाराः पित्तलक्षणाः ॥’
अथ कफजामाह ।
‘श्वेताः स्निग्धाः भृशं स्थूलाः कण्डुरा मन्द-
वेदनाः ।
मसूरिकाः कफोद्भूताश्चिरपाकाः प्रकीर्त्तिताः ॥
कफप्रसेकः स्तैमित्यं शिरोरुग्गात्रगौरवम् ।
हृल्लासः सारुचिनिद्रा तन्द्रालस्यसमन्विताः ॥’
सान्निपातिकीमाह ।
‘नीलाश्चिपिटविस्तीर्णा मध्ये निम्ना महारुजः ।
पूतिस्रावाश्चिरं पाकाः प्रभूताः सर्व्वदोषजाः ॥’
सप्तधातुगतामाह ।
‘मसूरिकास्त्वचं प्राप्तास्तोयवुद्वुदसन्निभाः ।
स्वल्पदोषाः प्रजायन्ते भिन्नास्तोयं स्रवन्ति च ॥’
त्वचं प्राप्ताः त्वच्छब्देनात्र रस उच्यते रसा-
श्रयत्वात् ॥ * ॥ रक्तस्थामाह ।
‘रक्तस्था लोहिताकाराः शीघ्रपाकास्तनुत्वचः ।
साध्या नात्यर्थदुष्टास्तु भिन्ना रक्तं स्रवन्ति च ॥’
साध्या रक्तस्था इत्यर्थः । नात्यर्थदुष्टास्तु अत्यर्थ-
दुष्टशोणिताः पुनर्न साध्याः किन्तु कष्ट-
साध्याः ॥ * ॥ मांसस्थामाह ।
‘मांसस्थाः कठिनाः स्निग्धाश्चिरपाकास्तनु-
त्वचः ।
गात्रशूलानिशं कण्डूर्मूर्च्छादाहतृषान्विताः ॥’
मेदस्थामाह ।
‘मेदोजा मण्डलाकारा मृदवः किञ्चिदुन्नताः ।
घोरज्वरपरीताश्च स्थूलाः स्निग्धाः सवेदनाः ।
सम्मोहारतिसन्तापाः कश्चिदाभ्यो विनिस्तरेत् ॥’
अस्थिमज्जागते प्राह ।
‘क्षुद्रा गात्रसमा रूक्षाश्चिपिटाः किञ्चिदुन्नताः ।
भज्जस्था भृशसम्मोहवेदनारतिसंयुताः ॥
भ्रमरेणेव विद्धानि कुर्व्वन्त्यस्थीनि सर्व्वतः ।
छिन्दन्ति मर्म्मधामानि प्राणानाशु हरन्ति ताः ॥’
गात्रसमाः गात्रतुल्यवर्णाः । चिपिटाः चिपि-
टाकाराः । मज्जाग्रहणेनास्थ्नोऽपि ग्रहणं
पृष्ठ ३/६५०
तदाधारत्वात् । अतएवाग्रे भ्रमरेणेव विद्धानि
कुर्व्वन्त्यस्थीनि सर्व्वत इति । मर्म्मधामानि
मर्म्मस्थानानि ॥ * ॥ शुक्रगतामाह ।
‘पक्राभाः पिडकाः स्निग्धाः श्लक्ष्णाश्चात्यर्थ-
वेदनाः ।
स्तमित्यारतिसग्मोहदाहोन्मादसमन्विताः ॥
शुक्रगाया मसूर्य्यास्तु लक्षणानि भवन्ति हि ।
निर्द्दिष्टं केवलं चिह्रं जीवनन्तु न दृश्यते ॥’
पक्वाभाः पक्वाकाराः न तु पक्वाः । श्लक्ष्णाः
कोमलाः । निर्द्दिष्टं केवलं चिह्रं नत्वस्या-
श्चिकित्सा युक्ता यतो जीवनं न दृश्यते ।
सप्ताप्येता दोषहेतुं विना न भवन्ति । दोष-
मन्तरेण रसादिदुष्टेरभावादित्यत आह ।
‘दोषमिश्रास्तु सप्तैता द्रष्टव्या दोषलक्षणैः ॥’
चर्म्मजामाह ।
कण्ठरोधारुची तन्द्रा प्रलापारतिसंयुताः ।
दुश्चिकित्साः समुद्दिष्टाः पिडकाश्चर्म्मसंज्ञिताः ॥’
रोमान्तिकामाह ।
‘रोमकूपोन्नतिसमा रागिण्यः कफपित्तजाः ।
कासारोचकसंयुक्ता रोमाञ्चज्वरपूर्ब्बिकाः ॥’
साध्याः प्राह ।
‘त्वगन्ता रक्तगाश्चैव पित्तजाः श्लेष्मजास्तथा ।
श्लेष्मपित्तकृताश्चैव सुखसाध्या मसूरिकाः ।
इमा विनापि क्रियया प्रशाम्यन्ति शरी-
रिणाम् ॥’
त्वग्गता रसगताः ॥ * ॥ कष्टसाध्यतमाः प्राह ।
‘वातजा वातपित्तोत्था वातश्लेष्मकृताश्च याः ।
कष्टसाध्यतमास्तास्तु यत्नादेता उपाचरेत् ॥’
असाध्याः प्राह ।
‘असाध्याः सन्निपातोत्थास्तासां वक्ष्यामि
लक्षणम् ।
प्रबालसदृशाः काश्चित् काश्चिज्जम्बुफलोपमा ।
लोहजालसमाः काश्चिदतसीफलसन्निभाः ॥
आसां बहुविधा वर्णा जायन्ते दोषभेदतः ॥’
प्रबालसदृशा इत्यादि । आसां प्रबालजम्बुफल-
लोहगुटिकातसीफलसादृश्यं वर्णेन । अनुक्त-
वर्णसंग्रहार्थमाह । आसां बहुविधा वर्णा
इति ॥ * ॥ अपराश्चासाध्याः प्राह ।
‘कासो हिक्का प्रमोहश्च ज्वरस्तीव्रः सुदारुणः ।
प्रलापारतिमूर्च्छाश्च तृष्णा दाहोऽतिघूर्णता ॥’
दाहस्थाने दौर्गन्ध्य इति च पाठः ।
‘मुखेन प्रस्रवेद्रक्तं तथा व्राणेन चक्षुषा ।
कण्ठे घुर्घुरकं कृत्वा श्वसित्यत्यर्थदारुणम् ॥
मसूरिकाभिभूतस्य यस्यैतानि भिषग्वरैः ।
लक्षणानीह दृश्यन्ते न दद्यात्तत्र भेषजम् ॥’
मसूरिकास्वरिष्टमाह ।
‘मसूरिकाभिभूतो यो भृशं घ्राणेन निश्वसेत् ।
स भृशं त्यजति प्राणान् तृष्णार्त्तो वायुदूषितः ॥’
वायुदूषितः अपतानकादिवातव्याधिदूषितः ॥
मसूरिकाहैतुकं शोथविशेषमाह ।
‘मसूरिकान्ते शोथः स्यात् कूर्परे मणिबन्धके ।
तयांसफलके वापि दुश्चिकित्सः सुदारुणः ॥’
दुश्चिकित्सः कष्टसाध्यः । दुःशब्दोऽत्र निषेधे
तेनासाध्य इत्येके ।
‘काश्चिद्विनापि यत्नेन सिध्यन्त्याशु मसूरिकाः ।
दृष्टाः कृच्छ्रतराः काश्चित् काश्चित् सिध्यन्ति
वा नवा ॥
काश्चिन्नैव तु सिध्यन्ति साध्यमानाः प्रयत्नतः ॥’
अथ मसूरिकायाश्चिकित्सा ।
‘मसूरिकायां कुष्ठोक्ता लेपनादिक्रिया हिता ।
पित्तश्लेष्मविसर्पोक्तक्रिया चात्र प्रशस्यते ॥
श्वेतचन्दनकल्कोक्तं हिलमोचीभवं द्रवम् ।
पिबेन्मसूरिकारम्भे नैव वा केवलं रसम् ॥’
हिलमोचिका शाकविशेषः । हुरहुर इति
लोके ।
‘द्बे पञ्चमूत्यौ रास्ना च धात्त्रुशीरं दुरालभा ।
सामृतं धान्यकं मुस्तं जयेद्वातमसूरिकाम् ॥
मञ्जिष्ठा बहुपात्प्लक्षशिरीषोडुम्बरत्वचः ।
वातजायां मसूर्य्यां स्यात् प्रलेपः सघृतो हितः ॥’
बहुपाद्वटः ।
‘गुडूची मधुकं द्राक्षा मोरटं दाडिमैः सह ।
पाककाले प्रदातव्यं भेषजं गुडसंयुतम् ॥
तेन कुप्यति नो वायुः पाकं यान्ति मसूरिकाः ।
मसूरिकासु भुञ्जीत शालीन् मुद्गान् मसूर-
कान् ॥
रसं मधुरमेवाद्यात् सैन्धवञ्चाल्पमात्रकम् ।
पटोलमूलं क्वथितं मोरटं सुरसं तथा ॥’
पटोलमूलं क्वथितमित्यत्रं पटोलं कथितञ्चैवेति
वा पाठः ।
‘आदावेंव मसूर्य्यान्तु पित्तजायां प्रयोजयेत् ।
निम्बपर्पटकः पाठा पटोलश्चन्दनद्वयम् ॥
उशीरं कटुका धात्री तथा वासा दुरालभा ।
एषां पानं शुभं शीतमुत्तमं शर्करान्वितम् ।
मसूर्य्यां पित्तजायान्तु प्रयोक्तव्यं विजानता ॥
दाहे ज्वरे विसर्पे च व्रणे पित्ताधिकेऽपि च ।
मसूर्य्यो रक्तजा नाशं यान्ति शोणितमोक्षणैः ॥
वासामुस्तकभूनिम्बत्रिफलेन्द्रयवासकम् ।
पटोलारिष्टकं वापि क्वाथयित्वा समाक्षिकम् ।
पिबेत्तेन प्रशाम्यन्ति मसूर्य्यः कफसम्भवाः ॥’
इन्द्रः इन्द्रयवः ॥ * ॥
‘शिरीषोडम्बरत्वग्भ्यां खदिरारिष्टजैर्जलैः ।
कफोत्थासु मसूरीषु लेपः पित्तोत्थितासु च ॥’ * ॥
निम्बपर्पटकः पाठा पटोलः कटुरोहिणी ।
चन्दने द्वे उशीरञ्च धात्री वासा दुरालभा ॥
एष निम्बादिकः क्वाथः पीतः शर्करयान्वितः ।
मसूरीं सर्व्वजां हन्ति ज्वरवीसर्पसंयुताम् ॥ * ॥
उत्थिता प्रविशेद् या च तां पुनर्ब्बाह्यतो नयेत् ।
काञ्चनारस्त्वचः क्वाथस्ताप्यचूर्णावचूर्णितः ॥’
ताप्यं सुवर्णमाक्षिकम् ।
‘घात्रीफलं समधुकं क्वथितं मधुसंयुतम् ।
मुखे कण्ठे व्रणे जाते गण्डूषार्थं प्रशस्यते ॥ * ॥
अक्ष्णोः सेकं प्रशंसन्ति गवेधुमधुकाम्बुना ।
गवेधुर्गवेधुका । गवडुया इति लोके ।
मधुकं त्रिफला मूर्व्वा दार्व्वी त्वक् नीलमुत्पलम् ।
उशीरलोध्रमञ्जिष्ठा प्रलेपाश्चोतने हिताः ।
नश्यन्त्यनेन दृगजाता मसूर्य्यो न भवन्ति च ॥
प्रलेपं चक्षुषोर्द्दद्याद्बहुवारस्य बल्कलैः ।
पञ्चबल्कलचूर्णेन क्लेदिनीमवधूनयेत् ।
भस्मना केचिदिच्छन्ति केचिद्गोमयरेणुना ॥
सुषवीपत्रनिर्यासं हरिद्राचूर्णसंयुतम् ।
रोमजज्वरसंयुक्तव्रणानां शान्तये पिबेत् ॥’
निर्यासं द्रवम् ॥ * ॥ अथ मसूरिकाभेदस्य
शीतलाया अधिकारः । तत्र शीतलाया रूप-
माह ।
‘देव्या शीतलयाक्रान्ता मसूर्य्येव हि शीतला ।
ज्वर एव तथा भूताधिष्ठितो विषमज्वरः ।
सा च सप्तविधा ख्याता तासां भेदान् प्रचक्षते ॥
ज्वरपूर्ब्बा बृहत्स्फोटैः शीतला बृहती भवेत् ।
सप्ताहान्निःसरत्येषा सप्ताहात् पूर्णतां व्रजेत् ॥
ततस्तृतीये सप्ताहे शुष्यति स्खलति स्वयम् ।
तासां मध्ये यदा काचित् पाकं गत्वा स्फुटं
स्रवेत् ॥
तत्रावधूननं कुर्य्याद्वनगोमयभस्मना ।
निम्बसत्पत्रशाखाभिर्मक्षिकामपसारयेत् ॥
जलञ्च शीतलं दद्यात् ज्वरेऽपि न तु दापयेत् ।
स्थापयेत्तं स्थले पूते रम्ये रहसि शीतले ॥
नाशुचिः संस्पृशेत्तन्तु न च तस्यान्तिकं व्रजेत् ।
बहवो भिषजो नात्र भेषजं योजयन्ति हि ॥
केचित् प्रयोजयन्त्येव मतन्तेषामथ ब्रुवे ॥ * ॥
ये शीतलेन सलिलेन विपिष्य सम्यक्
चिञ्चाजबीजसहितां रजनीं पिबन्ति ।
तेषां भवन्ति न कदाचिदपीह देहे
पीडाकरा जगति शीतलिका विकाराः ॥
मोचारसेन सहितं सितचन्दनेन
वासारसेन मधुकं मधुकेन वाथ ।
आदौ पिबन्ति सुमनाःस्वरसेन मिश्रं
ते नाप्नुवन्ति भुवि शीतलिकाविकारान् ॥’
मोचारसेन कदलीस्तम्भजलेन । मधुकेन वाथ
अथवा मधुना । आदौ पूर्ब्बरूपे ज्वरागमन-
मात्रे । सुमनाःस्वरसेन जातीपत्ररसेन ।
‘शीतलासु क्रिया कार्य्या शीतला रक्षया सह ।
बध्नीयान्निम्बपत्राणि परितो भवनान्तरे ॥
कदाचिदपि नो कार्य्यमुच्छिष्टस्य प्रवेशनम् ।
स्फोटेष्वधिकदाहेषु रक्षारेणूत्करो हितः ॥
तेन ते शोषमायान्ति प्रपाकं न भजन्ति च ।
रक्षारेणूत्करः शुष्कगोमयभस्मचूर्णतः ॥
चन्दनं वासको मुस्तं गुडूची द्राक्षया सह ।
एषां शीतकषायस्तु शीतलाज्वरनाशनः ॥’
शीतकषायो हिमः ।
‘जपहोमोपहारैश्च दानस्वस्त्ययनार्च्चनैः ।
विप्रगोशम्भगौरीणां पूजनैस्तां समं नयेत् ॥
स्त्रोत्रञ्च शीतलादेव्याः पठेत् शीतलिनोऽन्तिके ।
ब्राह्मणः श्रद्धया युक्तस्तेन शाम्यति शीतला ॥
स्कन्द उवाच ।
भगवन् ! देवदेवेश ! शीतलायाः स्तवं शुभम् ।
वक्तुमर्हस्यशेषेण विस्फोटकभयापहम् ॥
पृष्ठ ३/६५१
ईश्वर उवाच ।
नमामि शीतलां देवीं रासभस्थां दिगम्बरीम् ।
मार्जनीकलसोपेतां सूर्पालङ्कृतमस्तकाम् ॥
वन्देहं शीतलां देवीं सर्व्वरोगभयापहाम् ।
यामासाद्य निवर्त्तेत विस्फोटकभयं महत् ॥
शीतले शीतले चेति यो ब्रूयाद्दाहपीडितः ।
विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति ॥
यस्त्वामुदकमध्य तु धृत्वा संपूजयेन्नरः ।
विस्फोटकभयं घोरं कुले तस्य न जायते ॥
शीतले ज्वरदग्धस्य पूतिगन्धगतस्य च ।
प्रनष्टचक्षुषः पुंसस्त्वामाहु जींवनौषधम् ॥
शीतले तनुजान् रोगान् नृणां हरसि दुस्तरान् ।
विस्फोटकविशीर्णानां त्वमेकामृतवर्षिणी ॥
गलगण्डग्रहा रोगा ये चान्ये दारुणा नृणाम् ।
त्वदनुध्यानमात्रेण शीतले यान्ति ते क्षयम् ॥
न मन्त्रो नौषधं किञ्चित् पापरोगस्य विद्यते ।
त्वमेका शीतले ! त्रात्री नान्यां पश्यामि देव-
ताम् ॥
मृणालतन्तुसदृशीं नाभिहृन्मध्यसंस्थिताम् ।
यस्त्वां विचिन्तयेद्देवों तस्य मृत्युर्न जायते ॥
अष्टकं शीतलादेव्या यः पठेन्मानवः सदा ।
विस्फोटकभयं घोरं कुले तस्य न जायते ॥
श्रोतव्यं पठितव्यञ्च नरैर्भक्तिसमन्वितैः ।
उपसर्गविनाशाय परं स्वस्त्ययनं महत् ॥
शीतलाष्टकमेतद्धि न देयं यस्य कस्यचित् ।
दातव्यं हि सदा तस्मै भक्तिश्रद्धान्वितो हि
यः ॥’
इति श्रीस्कन्दपुराणे काशीखण्डे शीतलाष्टक-
स्तोत्रं समाप्तम् ॥” इति भावप्रकाशे मध्यखण्डे
चतुर्थो भागः ॥

मसूरिका, स्त्री, मशहरी । मशारि इति भाषा ।

यथा --
“दंशांश्च मशकांश्चैव वर्षाकाले निवारयेत् ।
मसूरिकाभिः प्रावृत्य मञ्चशायिनमच्युतम् ॥”
इति पाद्मे क्रियायोगसारे १२ अध्यायः ॥

मसूरी, स्त्री, (मसूर + स्त्रियां ङीष् ।) पाप-

रोगः । इति मेदिनी । रे, २०१ ॥ स तु वसन्त-
रोग इति प्रसिद्धः । त्रिवृत् । रक्तत्रिवृत् ।
इति राजनिर्घण्टः ॥

मसृणं, त्रि, (समृणोति दीप्यते इति । ऋणु दीप्तौ

+ इगुपधेति कः । पृषोदरादित्वात् साधुः ।)
अकर्कशम् । स्निग्धम् । इति मेदिनी । णे, ७० ॥
(यथा, रघुवंशटीकारम्भे मल्लिनाथः ।
“करुणामसृणैः कटाक्षपातैः
कुरु मामम्ब ! कृतार्थसार्थवाहम् ॥”)

मसृणा, स्त्री, (मसृण + स्त्रियां टाप् ।) उमा ।

इति मेदिनी । णे, ७० । मसीना इति भाषा ॥

मस्क, ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) दन्त्यमध्य इति दुर्ग-
सिंहः । क्विपि संयोगादेर्लोपे मक् । मूर्द्ध्वन्य-
मध्य इत्येके । क्विपि संयोगान्तलोपे मट् । ङ,
मस्कते । इति दुर्गादासः ॥

मस्करः, पुं, (मस्कते गच्छत्यनेनेति । मस्क +

बाहुलकादरः । यद्वा, मकर + “मस्करमस्क-
रिणौ वेणुपरिव्राजकयोः ।” ६ । १ । १५४ । इति
सुट् निपात्यते । इति काशिका ।) वंशः । इत्य-
मरः । २ । ४ । १६१ ॥ रन्धवंशः । इति राज-
निर्घण्टः ॥

मस्करी, [न्] पुं, (मस्कते इतस्ततो गच्छत्यनेनेति ।

मस्क + बाहुलकादरः । मस्करो दण्डः सोऽ-
स्त्यस्येति । मस्कर + इनिः । यद्वा, मा कर्त्तुं
कर्म्म निषेद्धुं शीलमस्य । “मस्करमस्करिणौ
वेणुपरिव्राजकयोः ।” ६ । १ । १५४ । इति
इनिर्निपात्यते ।) भिक्षुः । इत्यमरः । २ । ७ ।
४७ ॥ (यथा, भट्टिकाव्ये । ५ । ६३ ।
“अधीयन्नात्मविद्विद्यां धारयन् मस्करिव्रतम् ।
वदन् बह्वङ्गुलिस्फोटं भ्रूक्षेपञ्च विलोकयन् ॥”)
चन्द्रः । इति शब्दचन्द्रिका ॥

मस्ज, ओ श टु औ स्नाने । इति कविकल्प-

द्रुमः ॥ (तुदा०-पर०-अक०-अनिट् ।) दन्त्य-
मध्यः क्विपि संयोगादिलोपे मक् । ओ, मग्नः ।
श, मज्जती मज्जन्ती । टु, मज्जथुः । अमाङ्क्षीत् ।
स्नायतेऽनेनेति स्नानमिह जलान्तःप्रवेशः ।
मज्जति प्रस्तरो जले । इति दुर्गादासः ॥

मस्तं, क्ली, (मस्यते परिमीयते । मस् परिमाणे +

क्तः ।) मस्तकम् । इति द्विरूपकोषः ॥ (यथा,
अमरटीकायां मतुष्यवर्गे । ९५ । रघुनाथ
चक्रवर्त्तिधृतश्लोकः ॥
“दण्डकमण्डलुमण्डितहस्तः
सुललिततिलकविभूषितमस्तः ॥”)

मस्तकः, पुं, क्ली, (मस्यते परिमीयते । मस्

+ “इष्यशिभ्यां तकन् ।” उणा ० ३ । १४८ ।
इत्यत्र । “बाहुलकात् मस्यतेरपि तकन् ।”
इत्युज्ज्वलदत्तोक्त्या तकन् ।) प्रधानाङ्गम् । माथा
इति भाषा ॥ (यथा, मार्कण्डेयपुराणे । १४ ।
७८ ।
“बिम्रत् क्लेशमवाप्नोति सोऽप्येवं शिरसा
शिलाम् ।
क्षुत्क्षामोऽहर्निशं भारपीडाव्यथित-
मस्तकः ॥”)
तत्पर्य्यायः । उत्तमाङ्गम् २ शिरः ३ शीर्षम् ४
मूर्द्धा ५ । इत्यमरः । २ । ६ । ९४ ॥ मुण्डम् ६
शिरम् ७ । इति शब्दरत्नावली ॥ वराङ्गम् ८ ।
इति जटाधरः ॥ कम् ९ पुण्ड्रम् १० मौलिः ११
कपालम् १२ केशभूः १३ । इति राज-
निर्घण्टः ॥ (मस्तम् १४ । इति द्विरूपकोषः ।)
तस्य शुभाशुभलक्षणं यथा, --
“छत्राकारैः शिरोभिस्तु नृपा निम्नशिरा धनी ।
चिपिटैश्च पितुर्मृत्युर्गवाढ्याः परिमण्डलैः ॥
घटमूर्द्धा पापरुचिर्धनाद्यैः परिवर्ज्जितः ॥”
इति गारुडे ६६ अध्यायः ॥
मस्तके अधोमुखसहस्रदलकमलमस्ति तत्
कर्णिकायां परमात्मा तिष्ठति । यथा । स्वाङ्के
उत्तानौ करौ कृत्वा सोऽहमिति जीवात्मानं
हृदयस्थं दीपकलिकाकारं मूलाधारस्थकुल-
कुण्डलिन्या सह सुसम्नावर्त्मना मूलाधारस्वाधि-
ष्ठानमणिपूरानाहतविशुद्धाज्ञाख्यषट्चक्राणि
भित्त्वा शिरोऽवस्थिताधोमुखसहस्रदलकमल-
कर्णिकान्तार्गतपरमात्मनि संयोज्येत्यादि तन्त्र-
सारः ॥ तथा च ।
“सुसुम्नावर्त्मना सोऽहमिति मन्त्रेण योजयेत् ।
सहस्रारे शिरःस्थाने परमात्मनि देशिकः ॥”
इति गौतमीयतन्त्रम् ॥

मस्तकस्नेहः, पुं, (मस्तकस्य स्नेहः ।) शिरो-

मज्जा । यथा, --
“गोदन्तु मस्तकस्नेहो मस्तिष्को मस्तुलुङ्गकः ॥”
इति हेमचन्द्रः । ३ । २८९ ॥

मस्तकाख्यः, पुं, (मस्तकमिति आख्या यस्य ।)

वृक्षशिरः । इति शब्दत्तन्द्रिका ॥

मस्तदारु, क्ली, (मस्तं मस्तकमिव उच्चं दारु ।)

देवदारु । इति भावप्रकाशः ॥

मस्तमूलकं, क्ली, (मूलमेव मूलकं स्वार्थे कन् ।

मस्तस्य मूलकम् ।) शिरोऽधः । इति शब्द-
चन्द्रिका । घाड् इति भाषा ॥

मस्तिष्कं, क्ली, (मस्तं मस्तकं इष्यति स्वाधार-

त्वेन प्राप्नोतीति । इष गतौ + कः । पृषोदरा-
दित्वात् साधुः ।) मस्तकभवघृताकारस्नेहः ।
मगज इति पारस्यभाषा ॥ तत्पर्य्यायः । गोर्द्दम्
२ । इत्यमरः । ३ । ६ । ६५ ॥ गोदम् ३ मस्तक-
स्नेहः ४ मस्तुलुङ्गकः ५ । इति हेमचन्द्रः ।
३ । २८९ ॥ (यथा, ऋग्वेदे । १० । १६३ । १ ।
“यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया विवृहामि
ते ॥”)

मस्तु, क्ली, (मस्यति परिणमतीति । मस् +

“सितनिगमिमसिसच्यविधाञ् क्रुशिभ्यस्तुन् ।”
उणा० १ । ७० । इति तुन् ।) दधिभव-
मण्डम् । दधिर मात् इति भाषा ॥ इत्यमरः
२ । ९ । ९४ ॥ दधिजलम् । द्विगुणवारियुतं
दधि । अस्य गुणाः ।
“उष्णाम्लं रुचिपित्तदं श्रमहरं बल्यं कषायं सरं
भुक्तिच्छन्दकरं तृषोदरगदप्लीहार्शसां नाश-
नम् ।
श्रोतःशुद्धिकरं कफानिलहरं विष्टम्भशूलापहं
पाण्डुश्वासविकारगुल्मशमनं मस्तु प्रशस्तं लघु ॥”
इति राजनिर्घण्टः ॥
अपि च ।
“मस्तु क्लमहरं स्वल्पं लघु भुक्ताभिलाषकृत् ।
श्रोतोविशोधनं ह्लादि कफतृष्णाविलापहम् ॥
अवृष्यं प्रीणनं शीघ्रं भिनत्ति मलसंग्रहम् ॥”
इति भावप्रकाशः ॥

मस्तुलुङ्गः, पुं, (मस्तु इव लिङ्गं सादृश्यमस्य ।

पृषोदरादित्वात् इकारस्य उकारः ।) मस्ति-
ष्कम् । इति त्रिकाण्डशेषः ॥ (यथा, सुश्रुते
सूत्रस्थाने २३ अध्याये । “भिन्ने वा शिरःकपाले
यत्र मस्तुलुङ्गदर्शनं त्रिदोषलिङ्गप्रादुर्भावः
कासश्वासौ वा यस्येति ॥”)
पृष्ठ ३/६५२

मस्तुलुङ्गकः, पुं, (मस्तुलुङ्ग + स्वार्थे कन् ।)

मस्तिष्कम् । इति हेमचन्द्रः । ३ । २८९ ॥

मह, पूजे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) महति । इति दुर्गादासः ॥

मह, इ क त्विषि । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-अक०-सेट् ।) इ क, मंहयति । त्विषि
दीप्तौ । इति दुर्गादासः ॥

मह, इ ङ वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-सेट् ।) इ, मंह्यते । ङ, मंहते ।
इति दुर्गादासः ॥

मह, त् क पूजे । इति कविकल्पद्रुमः ॥ (अदन्त

चुरा०-पर०-सक०-सेट् ।) महयति । इति
दुर्गादासः ॥

महः, पुं, (मह्यते पूज्यतेऽस्मिन्निति । मह + “पुंसि

संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति
घः । मह + अच् इत्युज्ज्वलदत्तः । ४ । १८८ ।)
उत्सवः । इत्यमरः । १ । ७ । १८८ ॥ (यथा,
माघे । ६ । १९ ।
“न खलु दूरगतोऽप्यतिवर्त्तते
महमसाविति बन्धुतयोदितैः ॥”
महते पूज्यते इति ।) तेजः । इति मेदिनी ।
हे ७ ॥ यज्ञः । इति शब्दरत्नावली ॥ (यथा,
हरिवंशे । ७१ । १८ ।
“तस्मात् प्रावृषि राजानः सर्व्वे शक्रं मुदा युताः ।
महैः सुरेशमर्च्चन्ति वयमन्ये च मानवाः ॥”)
महिषः । इति हेमचन्द्रः ॥ (त्रि, महत् ।
यथा, ऋग्वेदे । १० । ९१ । ८ ।
“महे वृणते नान्यं त्वत् ॥”
“महे महति ।” इति तद्भाष्ये सायनः ॥)

महः, [स्] क्ली, (मह्यते पूज्यतेऽस्मिन्निति ।

मह + “सर्व्वधातुभ्योऽसुन् ।” उणा० ४ । १८८ ।
इति असुन् ।) उत्सवः । (मह्यते पूज्यते इति ।
मह + असुन् ।) तेजः । इति मेदिनी । से, ३० ॥
(यथा, रघुटीकारम्भे मल्लिनाथः ।
“अन्तरायतिमिरोपशान्तये
शान्तपावनमचिन्त्यवैभवम् ।
तं नरं वपुषि कुञ्जरं मुखे
मन्महे किमपि तुन्दिलं महः ॥”
मह्यन्ते पूज्यन्ते देवादयोऽस्मिन्निति । मह +
असुन् ।) यज्ञः । इति शब्दरत्नावली ॥ (उद-
कम् । इति निघण्टुः । १ । १२ ॥ पूज्यमाने, त्रि ।
यथा, वाजसनेयसंहितायाम् । २० । ६ ।
“जिह्वा मे भद्रं वाङ्महो मनो मन्युः स्वरात्
भामः ॥”
“वाक् वागिन्द्रियं महः पूज्यमानास्तु ।” इति
तद्भाष्ये महीधरः ॥ महति । यथा, ऋग्वेदे ।
८ । २३ । १६ ।
“महो राये तमुत्वा समिधीमहि ।” “महो
महते राये धनाय ।” इति तद्भाष्ये सायनः ॥)

महछः, पुं, (महः कायति प्रकाशयतीति ।

महस् + कै + कः । पृषोदरादित्वात् साधुः ।)
बहुलामोदः । इति जटाघरः ॥

महत्, क्ली, (मह् + अति । निपातितश्च ।)

राज्यम् । इति मेदिनी । वे, १४० ॥ (यथा,
छान्दोग्योपनिषदि । ५ । २ । ४ ।
“अथ यदि महज्जिगमिषेदमावास्यायां दीक्षिता
पौर्णमास्या रात्रौ इत्यादि ॥” ब्रह्म । यथा,
महाभारते । ३ । ३१२ । ४४ ।
“श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत् ॥”
उदकम् । इति निघण्टुः । १ । १२ ॥)

महत्, त्रि, (मह्यते पूज्यतेऽसौ इति । मह् +

“वर्त्तमाने पृषद्बृहन्महज्जगच्छतृवच्च ।” उणा०
२ । ८४ । इति अतिः निपात्यते ।) महान् ।
महती । वड्रः । इति मेदिनी । ते, १४० ॥
तत्पर्य्यायः । विशङ्कटम् २ पृथु ३ बृहत् ४
विशालम् ५ पृथुलम् ६ वड्रम् ७ उरु ८ ।
विपुलम् ९ । इत्यमरः । २ । १ । ६० ॥ पुलम्
१० विस्तीर्णम् ११ । इति शब्दरत्नावली ॥
(यथा, रघौ । १२ । ४० ।
“तस्मिन् रामशरोत्कृत्ते बले महति रक्षसाम् ॥”)
तद्वैदिकपर्य्यायः । ब्रध्नः २ ऋष्वः ३ बृहत् ४
उक्षितः ५ तवसः ६ तविषः ७ महिषः ८ अभ्वः
९ ऋभुक्षाः १० उक्षा ११ विहायाः १२ यह्वः १३
ववक्षिथ १४ विवक्षसे १५ अम्भृणः १६ माहिनः
१७ गभीरः १८ ककुहः १९ रभसः २०
ब्राधन् २१ विरप्शी २२ अद्भुतम् २३ वंहिष्ठः २४
बर्हिषत् २५ । इति पञ्चविंशतिर्म्महन्नामानि ।
इति वेदनिघण्टौ ३ अध्यायः ॥ * ॥ (प्रकृते-
राद्योविकारः । यथा, सांख्यसूत्रम् । १ । ६१ ।
“सत्त्वरजस्तभसां सामावस्था प्रकृतिः प्रकृते-
र्महान् महतोऽहङ्कारः ॥” इति ॥) मह-
च्छब्दस्य शङ्खादिशब्दविशेषाणां पूर्ब्बं प्रयोग-
निषेधो यथा, --
“शङ्खे तैले तथा मांसे वैद्ये ज्योतिषिके द्विजे ।
यात्रायां पथि निद्रायां महच्छब्दो न दीयते ॥”
इति भट्टिप्रथमस्वर्गीयचतुर्थश्लोकटीकायां
भरतः ॥

महती, स्त्री, (महत् + ङीष् ।) वल्लकीभेदः ।

इति मेदिनी । ते, १४० ॥ नारदवीणा । बृहत्-
प्रमाणा । इत्यमरटीकायां भरतः ॥ (यथा,
शिशुपालवधे । १ । १० ।
“स्फुटीभवद्ग्रामविशेषमूर्च्छना-
मवेक्षमाणं महतीं मुहुर्मुहुः ॥”)
बृहती । वार्त्ताकी । इति राजनिर्घण्टः ॥ (कुश-
द्बीपस्थनदीविशेषः । यथा, मात्स्ये । १२१ । ७४ ।
“महती सप्तमी प्रोक्ता पुनश्चैषा धृतिः स्मृता ।
अन्यास्ताभ्योऽपि सञ्जाता शतशोऽथ सह-
स्रशः ॥”
पारिपात्रनिर्गतनदीविशेषः । यथा, मात्स्ये ।
११३ । २३ -- २४ ।
“वर्णाशा चन्दना चैव कावेरी महती तथा ।
पारा चर्म्मण्वती पुष्पा विदुषा वेणुमत्यपि ।
शिप्रा ह्यवन्ती कुन्ती च पारिपात्राश्रिताः
स्मृताः ॥”)

महतीद्वादशी, स्त्री, (महतीति ख्याता द्बादशी ।)

श्रवणद्वादशी । यथा, --
“मासि भाद्रपदे शुक्ले द्वादशी श्रवणान्विता ।
महती द्वादशी ज्ञेया उपवासे महाफला ॥”
इति गारुडे १४१ अध्यायः ॥

महत्तत्त्वं, क्ली, (महच्च तत् तत्त्वञ्चेति ।) चतु-

र्विंशतितत्त्वान्तर्गतद्वितीयतत्त्वम् । तत्तु प्रकृते-
रुत्पन्नम् । समष्टिबुद्धिस्वरूपम् । तत्पर्य्यायः ।
यथा, --
“महानात्मा मतिर्व्विष्णुर्ज्जिष्णुः शम्भुश्च वीर्य्य-
वान् ।
बुद्धिः प्रज्ञोपलब्धिश्च तथा ख्यातिर्धृतिः स्मृतिः ।
पर्य्यायवाचकैः शब्दैर्म्महानात्मा विभाव्यते ।
तं जानन् ब्राह्मणो विद्वान् प्रमोहं नाधि-
गच्छति ॥”
इति महाभारते आश्वमेधिकपर्व्व ॥
अपि च ।
“एका मूर्त्तिस्तयो भागा ब्रह्मविष्णुमहेश्वराः ।
सविकारात् प्रधानात्तु महत्तत्त्वं प्रजायते ॥
महानिति यतः ख्यातिर्लोकानां जायते सदा ।
अहङ्कारश्च महतो जायते मानवर्द्धनः ॥”
इति मात्स्ये २ अध्यायः ॥

महत्तरः, पुं, स्त्री, (अयमनयोरतिशयेन महान् ।

महत् + तरप् ।) शूद्रः । यथा, --
“शूद्रः स्यात् पादजो दासो ग्रामकूटो मह-
त्तरः ।”
इति त्रिकाण्डशेषः ॥
(यथा, कथासरित्सागरे । ५ । ३४ ।
“केनायं रचितोऽत्रेति सोऽपृच्छच्च महत्तरान् ।
ते च न्यवेदयंस्तस्मै कर्त्तारं तिलकस्य माम् ॥”)
अतिशयमहति, त्रि ॥ (यथा, महाभारते ।
७ । १९९ । ५९ ।
“ददर्श भृशदुर्दशं सर्व्वदेवैरभिष्टुतम् ।
अणीयांसमणुभ्यश्च बृहद्भ्यश्च महत्तरम् ॥”)

महत्त्वं, क्ली, (महत् + त्व ।) महतो भावः ।

यथा, भाषापरिच्छेदे ।
“महत्त्वं षड्विधे हेतुरिन्द्रियं करणं मतम् ॥”
“महत्त्वं षड्विध इति । द्रव्यप्रत्यक्षे महत्त्वं
समवायसम्बन्धेन कारणम् । द्रव्यसमवेतानां
गुणकर्म्मसामान्यानां प्रत्यक्षे स्वाश्रयसमवाय-
सम्बन्धेन । द्रव्यसमवेतसमवेतानां रूपत्वादीनां
प्रत्यक्षे स्वाश्रयसमवेतसमवायसम्बन्धेन कार-
णम् ।” इति सिद्धान्तमुक्तावली ॥ (श्रेष्ठत्वम् ।
यथा, रामायणे । १ । १ । १०१ ।
“जनश्च शूद्रोऽपि महत्त्वमीयात् ॥”
“महत्त्वं श्रैष्ठ्यम् ।” इति तट्टीका ।)

महर्लोकः, पुं, (महश्चासौ लोकश्चेति । कर्म्म-

धारयः ।) भूरादिसप्तलोकान्तर्गतचतुर्थलोकः ।
यथा, --
“भूर्भुवः स्वर्म्महश्चैव जनश्च तप एव च ।
सत्यलोकश्च सप्तैते लोकास्तु परिकीर्त्तिताः ॥
चतुर्मुखदिनस्यान्ते जगदेतच्चराचरम् ॥
पृष्ठ ३/६५३
तदा हि दह्यते सर्व्वं त्रैलोक्यं भूर्भुवादिकम् ।
जनं प्रयान्ति तापार्त्ता महर्लोकनिवासिनः ॥”
इति वह्निपुराणम् ॥
“चतुर्थे तु महर्लोके तिष्ठन्ते कल्पवासिनः ॥”
इति देवीपुराणम् ॥

महर्षभी, स्त्री, (महती चासौ ऋषभी चेति

कर्म्मधारयः ।) कपिकच्छुः । इति राजनिर्घण्टः ॥

महर्षिः, पुं, (महांश्चासौ ऋषिश्चेति ।) व्यासादिः ।

इति त्रिकाण्डशेषः ॥ अस्य व्युत्पत्त्यादिर्यथा, --
“ऋषिर्हिंसागतो धातुर्व्विद्यासत्यतपःश्रुतैः ।
एष सन्निचयो यस्माद् ब्राह्मणश्च ततस्त्वृषिः ॥
विवृत्तिसमकालन्तु बुद्ध्या व्यक्तिमृषिस्त्वयम् ।
ऋषते परमं यस्मात् परमर्षिस्ततः स्मृतः ॥
गत्यर्थादृषतेर्धातोर्नामनिर्वृतिकारणम् ।
यस्मादेष स्वयम्भूतस्तस्माच्च ऋषिता मता ॥
तेनेश्वराः स्वयम्भूता ब्रह्मणो मानसाः सुताः ।
विवर्द्धमानैस्तैर्ब्बुद्ध्वा महान् परिगतः परः ॥
यस्मादृषिः परत्वेन महांस्तस्मान्महर्षयः ।
ईश्वराणां सुतास्तेषां मानसाश्चौरसाश्च वै ॥
ऋषयस्तत्परत्वेन भूतादिऋषयस्ततः ।
ऋषिपुत्त्रा ऋषीकास्तु मैथुनाद्गर्भसम्भवात् ॥
परत्वेनर्षयस्ते वै भूतादिऋषिकास्ततः ।
ऋषीकाणां सुता ये वै विज्ञेया ऋषिपुत्त्रकाः ॥
श्रुत्वा ऋषं परत्वेन नाम तस्मात् श्रुतर्षयः ।
अव्यक्तात्मा महानात्माहङ्कारात्मा तथैव च ॥
भूतात्मा चेन्द्रियात्मा च तेषान्तु ज्ञानमुच्यते ।
इत्येवमृषिजात्यस्तु पञ्च तान् नामभिः शृणु ॥
भृगुर्म्मरीचिरत्रिश्च अङ्गिराः पुलहः क्रतुः ।
मनुर्द्दक्षो वशिष्ठश्च पुलस्त्यश्चेति ते दश ॥
ब्रह्मणो मानसा ह्येते उत्पन्नाः स्वयमीश्वराः ।
परत्वेनर्षयस्तस्माद्भूतास्तस्मान्महर्षयः ॥”
इति मात्स्ये १२० अध्यायः ॥

महल्लकः, पुं, (महतः स्त्रीरक्षादिरूपान् विपु-

लान् भारानित्यर्थः लाति गृह्णातीति । ला +
“आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति
कः । ततः स्वार्थे कन् । यद्वा, महान्तं चरित्र-
गुणं लकति आस्वादयतीति । लक् आस्वादने +
अच् ।) अन्तःपुररक्षकः । तत्पर्य्यायः । सौवि-
दल्लः २ कञ्चुकी ३ स्थापत्यः ४ सौविदः ५ विदाङ्कः
६ । इति जटाधरः ॥ सौविदल्लकः ७ अन्त-
र्वंशिकः ८ । इति शब्दरत्नावली ॥

महल्लिकः, पुं, (महान्त चरित्रगुणं लिखतीवेति ।

महत् + लिख + कः । पृषोदरादित्वात् साधुः ।)
अन्तःपुररक्षकः । खोजा इति भाषा ॥ तस्य
लक्षणं यथा, --
“मुष्कशून्योऽनुपस्थो यः स्त्रीस्वभावो मह-
ल्लिकः ॥”
इति शब्दमाला ॥

महसं, क्ली, (मह्यते पूज्यतेऽनेनेति । मह +

“अत्यविचमितमिनमीति ।” उणा० ३ । ११७ ।
इति असच् ।) ज्ञानम् । प्रकारः । इत्युणादि-
कोषः ॥

महा, स्त्री, (मह्यते पूज्यते इति । मह् + घ ।

स्त्रियां टाप् ।) गोपवल्ली । इति शब्दचन्द्रिका ।
गोरक्षचाकुलिया इति भाषा ॥ स्त्रीगवी ।
इति शब्दरत्नावली ॥

महाकच्छः, पुं, (महान् विपुलः कच्छो जल-

प्रायदेशोऽस्य ।) समुद्रः । वरुणः । इति
मेदिनी । छे, ६ ॥ पर्व्वतः । इति शब्दरत्नावली ॥

महाकण्टकिनी, स्त्री, (महती चासौ कण्टकिनी

चेति ।) विश्वसारकम् । इति शब्दचन्द्रिका ।
फणिमनसा इति भाषा ॥

महाकन्दः, पुं, (महांश्चासौ कन्दश्चेति ।)

रसोनकः । इत्यमरः । २ । ४ । १४८ ॥ मूल-
कम् । इति शब्दरत्नावली ॥ चाणक्यमूलकम् ।
रक्तलशुनम् । राजपलाण्डः । इति राज-
निर्घण्टः ॥

महाकपित्थः, पुं, (महांश्चासौ कपित्थश्चेति ।)

विल्ववृक्षः । इति त्रिकाण्डशेषः ॥

महाकरञ्जः, पुं, (महांश्चासौ करञ्जश्चेति ।)

करञ्जविशेषः । वड करञ्जा इति भाषा ॥ तत्
पर्य्यायः । षड्ग्रन्था २ हस्तिचारिणी ३ उद-
कीर्णः ४ विषघ्नी ५ काकघ्नी ६ मदहस्तिनी ७
शारङ्गेष्टा ८ मधुमती ९ रसायनी १० हस्ति-
रोहणकः ११ हस्तिकरञ्जकः १२ सुमनाः १३
काकभाण्डी १४ मधुमत्ता १५ । अस्य गुणाः ।
तीक्ष्णत्वम् । उष्णत्वम् । कटुत्वम् । विषकण्डू-
विचर्च्चिकाकुष्ठत्वग्दोषव्रणनाशित्वञ्च । इति
राजनिर्घण्टः ॥

महाकर्णिकारः, पुं, (महांश्चासौ कर्णिकारश्चेति ।)

आरग्वधः । इति राजनिर्घण्टः ॥

महाकायः, पुं, (महान् कायोऽस्य ।) नन्दी ।

स च शिवद्वारपालः । इति त्रिकाण्डशेषः ॥
(यथा, महाभारते । १३ । १५० । २४ ।
“नन्दीश्वरो महाकायो ग्रामणीर्वृषभध्वजः ॥”)
हस्ती । इति केचित् ॥ (महान् कायः शरीर-
मिति ।) बृहत् शरीरम् ॥ तद्बति, त्रि ॥ (यथा,
महाभारते । १ । १५६ । ३२ ।
“महाजवं महाकायं महामायमरिन्दमम् ॥”
स्त्रियां टाप् । कुमारानुचरमातृगणविशेषः ।
यथा, महाभारते । ९ । ४६ । २४ ।
“रोहिताक्षी महाकाया हरिपिण्डा च
भूमिप ! ॥”)

महाकार्त्तिकी, स्त्री, (महती चासौ कार्त्तिकी

चेति ।) रीहिणीनक्षत्रयुक्ता कार्त्तिकी-
पूर्णिमा । यथा, --
“प्राजापत्यं यदा ऋक्षं तथैतस्यां नराधिप ! ।
सा महाकार्त्तिकी प्रोक्ता देवानामपि दुर्लभा ॥”
इति पाद्मे २ खण्डे ३ अध्यायः ॥

महाकालः, पुं, (महांश्चासौ कालश्चेति ।) विष्णु-

स्वरूपाखण्डदण्डायमानसमयः । यथा । कालो
घटवान् महाकालत्वात् । इति सिद्धान्त-
लक्षणम् ॥ महादेवः । (तन्निरुक्तिर्यथा महा-
निर्व्वाणतन्त्रे । ४ । ३१ ।
“कलनात् सर्व्वभूतानां महाकालः प्रकीर्त्तितः ।
महाकालस्य कलनात् त्वमाद्या कालिका
परा ॥”)
प्रमथगणविशेषः । इति मेदिनी । ले, १५९ ॥
(उज्जयिनीस्थशिवलिङ्गविशेषः । यथा, कथा-
सरित्सागरे । ११ । ३१ -- ३२ ।
“अस्तीहोज्जयिनी नाम नगरी भूषणं भुवः ।
हसन्तीव मुधाधौतैः प्रासादैरमरावतीम् ॥
यस्यां वसति विश्वेशो महाकालवपुः स्वयम् ।
शिथिलीकृतकैलासनिवासव्यसनो हरः ॥”
तीर्थविशेषः । यथा, महाभारते । ३ । ८२ । ४७ ।
“महाकालं ततो गच्छेत् नियतो नियताशनः ।
कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् ॥”)
लताविशेषः । माकाल इति भाषा ॥ तत्-
पर्य्यायः । उरुकालः २ किम्पाकः ३ काक-
मर्द्दकः ४ । इति रत्नमाला ॥ काकमर्द्दः ५
देवदालिका ६ दाला ७ दालिका ८ जलङ्गः ९
घोषकाकृतिः १० । इति राजनिर्घण्टः ॥ (यथा,
“अन्तर्मलिनदेहेन बहिराह्लादकारिणा ।
महाकालफलेनेव कः खलेन न वञ्चितः ॥”
इत्युद्भटः ॥)
शिवपुत्त्रविशेषः । तस्य जन्मवृत्तान्तं यथा, --
श्रीदेवा ऊचुः ।
“एष वैश्वानरः श्रीमान् भूरितेजोमयो बली ।
महामैथुनबीजन्तु त्वत्तेजः संग्रहीष्यति ॥
इत्युक्त्वा त्रिदशाः सर्व्वे वीतिहोत्रं पुरःस्थितम् ।
तस्मै निदेशयामासुः सम्भवे सर्व्वहेतवे ॥
ततः षडङ्गं स्वं रेतो वादिते दहनानने ।
उत्ससर्ज्ज महाबाहुर्महामैथुनकारणम् ॥
अग्नावुत्सृज्यमानस्य तेजसः शशभृद्भृतः ।
अणुद्वयमतिस्वल्पं गिरिप्रस्थे पपात ह ॥
तयोः कारणयोः सद्यः संभूतौ शङ्करात्मजौ ।
एको भृङ्गसमः कृष्णो भिन्नाञ्जननिभोऽपरः ॥
भृङ्गी तस्य तदा ब्रह्मा नाम भृङ्गीति चाकरोत् ।
महाकृष्णैकरूपस्य महाकालेति लोकभृत् ॥
ततस्तौ पालयामास शङ्करः प्रमथोत्करैः ।
अपर्णया चापि तथा क्रमात्तावभिवर्द्धितौ ॥
प्रवृद्धौ तौ महात्मानौ हरोमाप्रतिपालितौ ।
क्रमाद्गणेशौ कृत्वा तौ हरो द्वारि न्ययो-
जयत् ॥”
इति कालिकापुराणे ४५ अध्यायः ॥
तस्य वानरमुखकारणं जन्मान्तरञ्च यथा, --
“अथैकदोमया सार्द्धं निगूढे रतिमन्दिरे ।
नर्म्माकरोन्महादेवो मोदयुक्तो रतिप्रियः ॥
यदा सा नर्म्मणे याता गौरी स्मरहरान्तिकम् ।
तदा भृङ्गिमहाकालौ द्वास्थौ द्वारि प्रतिष्ठितौ ॥
नर्म्मावसाने सा देवी मुक्तधम्मिल्लबन्धना ।
ग्रन्थिहीनगलद्गात्रा वस्त्रमालम्ब्य पाणिना ॥
व्यस्तहारा गन्धपुष्पैराकुलैर्नातिशोभना ।
विलुप्तकुङ्कुमा दष्टदशनच्छदविभ्रमा ॥
निःसृता रतिसङ्केतशालाया जलजानना ।
ईशदाघूर्णनयना निचिता स्वेदबिन्दुभिः ॥
पृष्ठ ३/६५४
तां निःसरन्तीं सहसा तथाभूतामनिन्दिताम् ।
अयोग्यां वीक्षितुं चान्यैर्वृषध्वजमृते प्रियम् ॥
ददृशतुर्महात्मानौ नातिहृष्टात्ममानसौ ।
भृङ्गी चापि महाकालः प्राप्तकालश्च कोपतः ॥
दृष्ट्वा तौ मातरं दीनौ तदा भूतावधोमुखौ ।
चिन्ताञ्चाजग्मतुस्तीव्रां निशश्वसतुरुत्तमम् ॥
तौ पश्यन्तां तदा देवी ददर्श हिमवत्सुता ।
चुकोप च तदापर्णा वाक्यञ्चैतदुवाच ह ॥
एवंभूतान्तु मां कस्मादसम्बद्धामपश्यताम् ।
भवन्तौ तनयौ शुद्धौ ह्रीमर्य्यादाविवर्ज्जितौ ॥
तस्मादिमाममर्य्यादां भवन्तौ निरपत्रपौ ।
अकुर्व्वातां ततो भूयाद्भवतोर्जन्म मानुषे ॥
मानुषीं योनिमासाद्य मातुरीक्षणदोषतः ।
भविष्यतो भवन्तौ तु शाखामृगमुखौ भुवि ॥
इति तावुमया शप्तौ हरपुत्त्रौ महामती ॥”
“अथोमया समं देवो वियता चन्द्रशेखरः ।
आजगाम तदा गच्छन् प्रासादं प्रति तं नृप ! ॥
ददृशेऽथ चरन्तीं तामुमायाः सदृशीं गुणैः ।
सर्व्वलक्षणसम्पूर्णां माधवस्येव माधवीम् ॥
तां दृष्ट्वा न्यगदद्देवीं गौरीं वृषभकेतनः ।
स्मितप्रसन्नवदनः प्रहसन्निव भाविनीम् ॥
ईश्वर उवाच ।
इयं ते मानुषी मूर्त्तिः प्रिये तारावतीति या ।
भृङ्गीमहाकालयोस्ते जन्मने विहिता स्वयम् ॥
त्वत्तो ह्यनन्यकान्तोऽहं नान्यां गन्तुमिहोत्सहे ।
त्वमिदानीं स्वयं चास्यां मूर्त्त्यां प्रविश
भाविनि ! ॥
तत उत्पादयिष्यामि महाकालञ्च भृङ्गिणम् ॥
श्रीदेव्युवाच ।
ममैव मानुषी मूर्त्तिरियं वृषभकेतन ! ।
विशामि तेऽत्र वचनादुत्पादय सुतद्वयम् ॥
प्रविवेश ततो देवी स्वयं तारावतीतनौ ।
महादेवोऽपि तस्यान्तु कामार्थं समुपस्थितः ॥
ततः सापर्णयाविष्टा देवी तारावती सती ।
कामयानं महादेवं स्वयमेवाभजन्मुदा ॥
तस्मिन् कालेऽभवद्गर्भः कापाली चास्थिमाल्य-
धृक् ।
कामावसाने तस्यान्तु सद्यो जातं सुतद्वयम् ।
अभवन्नृपशार्दूल ! तथा शाखामृगाननम् ॥”
इति कालिकापुराणे ४६ -- ४९ अध्यायाः ॥
बाणासुरस्य महाकालत्वं यथा, --
ऋषय ऊचुः ।
“कथितो भवता सर्गः संशया अपि शातिताः ।
त्वत्प्रसादान्महाभाग ! कृतकृत्या वयं गुरो ! ॥
भूयश्च श्रोतुमिच्छामो वयमेतद्द्विजोत्तम ! ।
कोऽन्यो भृङ्गी महाकालो जातौ वेतालभेरवौ ॥
वेतालञ्च महाकालं भैरवं भृङ्गिणं तथा ।
शृण मे द्विजशार्दूल ! कथमेषां चतुष्टयम् ॥
मार्कण्डेय उवाच ।
भुवं गते महाकाले मानुयस्थे च भृङ्गिणि ।
वेतालभैरवाख्ये च तथाभूते द्विजोत्तमाः ॥
वरलब्धे च वेताले भैरवे तेन संगते ।
अन्धकं तपसा युक्तं भृङ्गिणञ्चाकरोद्धरः ॥
अन्धकस्तु हरं पूर्ब्बं विरुध्यापदमागतः ।
पश्चाद्धरं समाराध्य पुत्त्रोऽभूत्तस्य सोऽसुरः ॥
भृङ्गिस्नेहाद्भृङ्गिणं तं सं ज्ञया चाकरोद्धरः ।
स्नेहेन तु महाकालं बाणं वलिसुतं हरः ॥
विष्णुना च्छिन्नबाहुं तं महाकालमथाकरोत् ।
एवं मुनिवरास्तेषां संजातञ्च चतुष्टयम् ॥
वेतालो भैरवो भृङ्गी महाकालेत्यनुक्रमात् ॥”
इति कालिकापुराणे ८५ अध्यायः ॥ * ॥
तस्य ध्यानादि यथा, --
“महाकालं यजेद्देव्या दक्षिणे धूम्रवर्णकम् ।
बिभ्रतं दण्डखट्टाङ्गौ दंष्ट्राभीममुखं शिशुम् ॥
व्याघ्रचर्म्मावृतकटिं तुन्दिलं रक्तवाससम् ।
त्रिनेत्रमूर्द्ध्वकेशञ्च मुण्डमालाविभूषितम् ॥
जटाभारलसच्चन्द्रखण्डमुग्रं ज्वलन्निभम् ॥
तथा च कुमारीकल्पे ।
देव्यास्तु दक्षिणे भागे महाकालं प्रपूजयेत् ।
हुं क्ष्रौं यां रां लां वां क्रों महाकालभैरव
सर्व्वविघ्नान्नाशय नाशय ह्रीं श्रीं फट् स्वाहा ।
इत्यनेन पाद्यादिभिराराध्य त्रिस्तर्पयित्वा मूलेन
देवीं पञ्चोपचारैः पूजयेत् । तथा च काली-
तन्त्रे ।
महाकालं यजेद्यत्नात् पश्चाद्देवीं प्रपूजयेत् ।
कालीकल्पे ।
कवचं क्ष्रौं समुद्धृत्य यां रां लां वाञ्च क्रोन्ततः ।
महाकालभैरवेति सर्व्वविघ्नान्नाशयेति च ॥
नाशयेति पुनः प्रोच्य मायां लक्ष्मीं समुद्धरेत् ।
फट् स्वाहया समायुक्तो मन्त्रः सर्व्वार्थसाधकः ॥”
इति तन्त्रसारः ॥

महाकाली, स्त्री, (महाकाल + पत्न्यर्थे ङीष् ।)

महाकालस्य पत्नी । सा तु पञ्चवक्त्वाष्टभुज-
कालीविशेषः । इति तन्त्रम् ॥ (इयमेव पराशक्ते-
स्तामसी शक्तिः । यथा, देवीभागवते । १ । २ । २० ।
“तस्यास्तु सात्त्विकी शक्ती राजसी तामसी
तथा ।
महालक्ष्मीः सरस्वती महाकालीति ताः
स्त्रियः ॥”)
अथ महाकालीमन्त्रः ।
“ॐ फ्रें फ्रें क्रों क्रों पशून् गृहाण ह्रूं फट्
स्वाहा । श्मशानभैरवीमन्त्रेण यावत् क्रूर-
कर्म्मणि प्रयोगः कर्त्तव्यः । अथ महाकाली-
मन्त्रप्रयोगः । तत्र न्यासशुद्ध्यादिकं न कर्त्त-
व्यम् । तथा च ।
न्यासशुद्ध्यादिकं किञ्चिन्नात्र कार्य्या विचारणा ।
कृष्णतोयैश्च संपूर्णे कृष्णकुम्भेऽथ कालिकाम् ॥
पञ्चवक्त्रां महारौद्रीं प्रतिवक्त्रत्रिलोचनाम् ।
शक्तिशूलधनुर्वाणखड्गखेटवराभयान् ॥
दक्षादक्षभुजैर्देवीं बिभ्राणां भूरिभूषणाम् ।
ध्यात्वैवं साधकः साध्यं साधयेन्मनसेप्सितम् ॥
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही च तथा चैन्द्री चामुण्डा चण्डिका-
ष्टमी ।
पूर्ब्बादीशानपर्य्यन्तं कुम्भस्थाने स्थिता इमाः ॥
तत्र क्रमः । देवीं ध्यात्वा यथाविध्युपचारेण
संपूज्य ब्राह्म्याद्यष्टशक्तीः पूर्ब्बादिक्रमेण पूज-
येत् । तथा ।
नामोच्चारणसंरब्धं वह्नौ प्रज्वलितेऽम्बरे ।
जुहुयाद्वैरिणां शुद्धौ देवीमन्त्रं जपंस्तथा ॥
समिधः पिचुमर्द्दस्य तथा विभीतकाष्ठिकाः ।
गृहधूमश्मशानास्थिविभीताङ्गारहोमतः ॥
सप्ताहाद्वैरिणं हन्ति कालिकामन्त्रयोगतः ।
उच्चाटनं चापराह्रे सन्ध्यायां मारणं तथा ॥
दक्षिणस्यां दिशि स्थित्वा ग्रामादेर्दक्षिणा-
मुखः ॥”
इति तन्त्रसारः ॥
जिनानां चतुर्विंशतिशासनदेवतान्तर्गतदेवी-
विशेषः । इति हेमचन्द्रः ॥ * ॥

महाकाव्यं, क्ली, (महच्च तत्काव्यञ्चति ।) काव्य-

शास्त्रविशेषः । तत्पर्य्यायः । सर्गबन्धः २ । इति
त्रिकाण्डशेषः ॥ तस्य लक्षणं यथा, --
“सर्गबन्धो महाकाव्यं तत्रैको नायकः सुरः ।
सद्वंशः क्षत्त्रियो वापि धीरोदात्तगुणान्वितः ॥
एकवंशभवा भूपाः कुलजा बहवोऽपि वा ।
शृङ्गारवीरशान्तानामेकोऽङ्गी रस इष्यते ॥
अङ्गानि सर्व्वेऽपि रसाः सर्व्वे नाटकसन्धयः ।
इतिहासोद्भवं वृत्तमन्यद्वा सज्जनाश्रयम् ॥
चत्वारस्तत्र वर्गाः स्युस्तेष्वेकञ्च फलं भवेत् ।
आदौ नमस्क्रियाशीर्व्वा वस्तुनिर्द्देश एव वा ॥
क्वचिन्निन्दा खलादीनां सताञ्च गुणकीर्त्तनम् ।
एकवृत्तमयः पद्यैरवसानेऽन्यवृत्तकैः ॥
नातिस्वल्पा नातिदीर्घाः सर्गा अष्टाधिका इह ।
नानावृत्तमयः क्वापि सर्गः कश्चन दृश्यते ॥
सर्गान्ते भाविसर्गस्य कथायाः सूचनं भवेत् ।
सन्ध्यासूर्य्येन्दुरजनीप्रदोषध्वान्तवासराः ॥
प्रातर्मध्याह्रमृगयाशैलर्त्तुवनसागराः ।
सम्भोगविप्रलम्भौ च मुनिस्वर्गपुराध्वराः ॥
रणप्रयाणोपयममन्त्रपुत्त्रोदयादयः ।
वर्णनीया यथायोगं साङ्गोपाङ्गा अमी इह ॥
कवेर्वृत्तस्य वा नाम्ना नायकस्येतरस्य वा ।
नामास्य सर्गोपादेयकथया सर्गनाम तु ॥”
इति साहित्यदर्पणे ६ परिच्छेदः ॥ * ॥
महाकाव्यग्रन्था यथा, कालिदासकृतकुमार-
सम्भवरघुवंशप्रभृतयः । भर्त्तृहरिकृतभट्टि-
काव्यम् । भारविकृतकिरातार्ज्जुनीयम् । श्रीहर्ष-
कृतनैषधीयचरितम् । माघकृतशिशुपालवध-
श्चेत्यादयः ॥

महाकुमुदा, स्त्री, (महती चासौ कुमुदा चेति ।)

काश्मरी । इति राजनिर्घण्टः ॥

महाकुम्भी, स्त्री, (महती चासौ कुम्भी चेति ।)

कट्फलः । इति राजनिर्घण्टः ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/मयूरी&oldid=44037" इत्यस्माद् प्रतिप्राप्तम्