पृष्ठ ३/७१७

मालुः, पुं, (मॄ + “त्रो रश्च लः ।” १ । ५ । इत्यत्र

बाहुलकात् ञुण् । इत्युज्ज्वलदत्तोक्त्या ञुण् ।)
पत्रलता । नारी । इति मेदिनी । ले, ४५ ॥

मालुधानः, पुं, (मालु मरणं विदधातीति । धा +

ल्युः ।) मातुलाहिः । इत्यमरः । १ । ८ । ६ ।
मालुया साप इति भाषा ॥ अष्टनागान्तर्गत-
नागविशेषः । यथा, --
“मालधानश्चित्रसर्पे महापद्मेऽपि दृश्यते ।”
इति हारावली ॥

मालुधानी, स्त्री, लताभेदः । इति मेदिनी । ने,

२०३ ॥

मालूकः, पुं, कृष्णार्जकः । इति राजनिर्घण्टः ॥

मालूरः, पुं, (मां परेषां वृक्षान्तराणां श्रियं

प्रभावं लुनातीति । लूञ् + बाहुलकात् रः ।)
विल्ववृक्षः । इत्यमरः । २ । ४ । ३२ ॥ (यथा,
नैषधे । १ । ९४ ।
“स वारनारीकुचसञ्चितोपमं
ददर्श मालूरफलं पचेलिमम् ।”)
कपित्थवृक्षः । इति राजनिर्घण्टः ॥ (विस्त्व-
वृक्षार्थे पर्य्यायो यथा, --
विल्वो महाकपित्थाख्यः श्रीफलो गोहरीतकी ।
पूतिवातोऽथ माङ्गल्यो मालूरश्च महाफलम् ॥”
इति वैद्यकरत्नमालायाम् ॥
“विल्वः शाण्डिल्यशैलूषौ मालूरश्रीफलावपि ।”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे च ॥)

मालेया, स्त्री, (मल + ढक् टाप् ।) स्थूलैला । इति

रत्नमाला ॥ (स्थूलैलाशब्दैऽस्या विशेषो ज्ञेयः ॥)

माल्यं, क्ली, (मालेव । माला + चतुर्व्वर्णादित्वात्

ष्यञ् ।) पुष्पम् । पुष्पस्रक् । इति मेदिनी ।
ये, ४५ ॥ पुष्पार्थकमाल्यशब्दस्य प्रयीगो यथा,
“यथा चाल्पेन माल्येन वासितं तिलसर्षपम् ।
न मुञ्चति स्वकं गग्धं तद्वत् सूक्ष्मस्य दर्शनम् ॥”
इति महाभारते मोक्षधर्म्मे १०५ अध्यायः ॥
मूर्द्ध्व्नि न्यस्तपुष्पदाम । इत्यमरः । २ । ७ । १३५ ॥
अस्य पर्य्यायादिर्मालाशब्दे द्रष्टव्यः ॥ * ॥
(पुष्पस्रगर्थे गुणा यथा, --
“वृष्यं सौगन्ध्यमायुष्यं काम्यं पुष्टिबलप्रदम् ।
सौमनस्यमलक्ष्मीघ्नं गन्धमाल्यनिषेवणम् ॥”
इति चरके सूत्रस्थाने पञ्चमेऽध्याये ॥)
माल्यदानफलं यथा, --
“गन्धमाल्यैरलङ्कारैस्तुष्टा हृष्टाश्च नित्यशः ।
गन्धमाल्यप्रदा ये तु दाननिश्चयतत्पराः ॥
धर्म्मज्ञाः सत्यशीलाश्च सर्व्वदुःखविवर्ज्जिताः ।
सुचिरं दैवतैः सार्द्धं क्रीडन्ति हि महामुने ! ॥”
इति वह्निपुराणम् ॥
अपि च । नारसिंहे ।
“जातीपुष्पसहस्रेण यच्छेन्मालां सुशोभनाम् ।
वैष्णवो विधिवद्भक्त्या तस्य पुण्यफलं शृणु ॥
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।
वसेद्बिष्णुपुरे श्रीमान् विष्णुतुल्यपराक्रमः ॥
जातीपुष्पकृतां मालां कर्पूरपटवासिताम् ।
निवेद्य देवदेवाय यत्फलं प्राप्नुयान्नरः ।
न तद्बर्णयितु शक्यमपि वर्षशतैरपि ॥
स्कान्दे ।
मालतीकलिकामालामीषद्विकसितां हरेः ।
दत्त्वा शिरसि विप्रेन्द्र ! वाजिमेधफलं लभेत् ॥
तत्रैव ।
मालतीमालया विष्णुः पूजितो येन कार्त्तिके ।
पापाक्षरकृतां मालां पटात् सौरिः प्रमार्ज्जति ॥
सौरिर्यमः । विष्णुरहस्ये ।
स्वर्णलक्षाधिकं पुष्पं माला कोटिगुणाधिका ॥
इति श्रीहरिभक्तिविलासे ७ विलासः ॥ * ॥
माल्यगलस्य बहिर्गमननिषेधो यथा, --
“बहिर्माल्यं बहिर्गन्धं भार्य्यया सह भोजनम् ।
विसृज्य वादं कृत्वा वा प्रवेशञ्च विवर्जयेत् ॥”
इति कूर्म्मपुराणे उपविभागे १५ जध्यायः ॥ * ॥
स्वयं माल्यापकर्षणनिषेधो यथा, --
“नाश्नीयात् सन्धिवेलायां न गच्छेन्नापि संवि-
शेत् ।
न चैव प्रलिखेद्भूमिं नात्मनोपहरेत् स्रजम् ॥”
इति मानवे ४ अध्यायः ॥
न च मालां धृतां स्वयमेवापनयेत् । अर्था-
दन्येनापनयेदित्युक्तम् । इति कुल्लूकभट्टः ॥ * ॥
केशवाह्ये माल्यधारणनिषेधो यथा, --
“नहि गर्ह्यकथां कुर्य्यात् बहिर्माल्यं न धार-
येत् ।
गवाञ्च यानं पृष्ठेन सर्व्वथैव विगर्हितम् ॥”
इति च मानवे ४ अध्यायः ॥
केशकलापाद्वहिर्माल्यं न धारयेदिति कुल्लूक-
भट्टः ॥ * ॥ स्वयं माल्यधारणनिषेधो यथा, --
“स्वयं माल्यं स्वयं पुष्पं स्वयं घृष्टञ्च चन्दनम् ।
नापितस्य गृहे क्षौरं शक्रादपि हरेत् श्रियम् ॥
इति कर्म्मलोचनम् ॥ * ॥
माल्यचन्दनदानविधिर्यथा, --
“आमन्त्रयित्वा यो विप्रान् गन्धमाल्यैश्च मानवः ।
तर्पयेच्छ्रद्धया युक्तः स मामर्च्चयते सदा ॥”
इति वह्निपुराणम् ॥

माल्यपुष्पः, पुं, (माल्याकाराणि पुष्पाण्यस्य ।)

शणवृक्षः । इति राजनिर्घण्टः ॥

माल्यपुष्पिका, स्त्री, (माल्यपुष्प + कन् टाप् ।

अत इत्वञ्च ।) शणपुष्पी । इति राजनिर्घण्ठः ॥
(गुणादयोऽस्याः शणपुष्पीशब्दे ज्ञेयाः ॥)

माल्यवान्, [त्] पुं, (माल्य + मतुप् । मस्य वः ।)

पर्व्वतविशेषः । इत्यमरः । २ । ३ । ३ ।
माल्यं मालाकारता विद्यतेऽत्र माल्यवान् वतु ।
इति तट्टीकायां भरतः ॥ स च केतुमालेलावृत-
वर्षयोः सीमापर्व्वतः । नीलनिषधपर्व्वतपर्य्यन्त-
विस्तारः । इति सिद्धान्तशिरोमणिः ॥ (यथा,
महाभारते । ३ । १५८ । ३५ ।
“उपतस्थुर्महाभागा माल्यवन्तं महागिरिम् ।”)
राक्षसविशेषः । स च सुकेशराक्षसात् ग्रामणी-
नामकगन्धर्व्वस्य कन्यायां देववत्यां जातः । अस्य
भ्राता सुमाली तस्य कन्यायां निकषायां पुलस्त्य-
पुत्त्रविश्रवसो रावणो जातः । इति रामायणे
उत्तरकाण्डे ५ सर्गः ॥ (मालाविशिष्टे, त्रि ।
यथा, महाभारते । १ । १७१ । ३१ ।
“शिरोरुहेषु जग्राह माल्यवतसु धनञ्जयः ।”
स्त्रियां ङीप् । नदीभेदः । यथा, रामायणे
२ । ५६ । ३५ ।
“सुरम्यमासाद्य तु चित्रकूटं
नदीञ्च तां माल्यवतीं सुतीर्थाम् ।
ननन्द हृष्टो मृगपक्षिजुष्टां
जहौ च दुःखं पुरविप्रवासात् ॥”)

माल्लः, पुं, (मल्ल + चातुरार्थकत्वात् अञ् ।) वर्ण-

सङ्करजातिविशेषः । स च लेटात्तीवरकन्यायां
जातः । इति ब्रह्मवैवर्त्तपुराणम् ॥

माल्लवी, स्त्री, (मल्ल + स्वार्थेऽण् । तस्य वी

गमनं यत्र ।) मल्लयात्रा । इति हारावली ॥

माशब्दिकः, त्रि, (मा इत्याहेति । माशब्द +

“प्राग्वहतेष्ठक् ।” ४ । ४ । १ । इत्यत्र ।
“तदाहेति माशब्दादिभ्य उपसंख्यानम् ।”
इति वार्त्तिकात् ठक् ।) निषेधकर्त्ता । तत्-
पर्य्यायः । प्रतिषेद्धा २ । इति त्रिकाण्ड-
शेषः ॥

माषः, पुं, (माषस्य फलम् । माष + अण् । “लुप्

च ।” ४ । ३ । १६६ । इत्यस्य “फलपाकशुषा-
मुपसंख्यानम् ।” इति काशिकोक्तेरणो लुप् ।
यद्बा, मस + घञ् पृषोदरादित्वात् साधुः ।)
व्रीहिभेदः । माषकलाइ इति उरिद् इति च
भाषा । तत्पर्य्यायः । कुरुविन्दः २ धान्य-
वीरः ३ वृषाकरः ४ मांसलः ५ बलाढ्यः ६
पित्र्यः ७ पितृभोजनः ८ । अस्य गुणाः ।
स्निग्धत्वम् । बहुमलकरत्वम् । शोषणत्वम् ।
श्लेष्मकारित्वम् । अनुष्णवीर्य्यत्वम् । झटिति-
रक्तपित्तप्रकोपणत्वम् । वातहरत्वम् । गुरु-
त्वम् । बलकरत्वम् । रोचकत्वम् । स्वादुत्वम् ।
श्रमसुखवतां नराणां नित्यं सेवनीयत्वम् । इति
राजनिर्घण्टः ॥ अपि च ।
“माषो गुरुः स्वादुपाकः स्निग्धो रुच्योऽनिला-
पहः ।
उष्णः सन्तर्पणो बल्यः शुक्रलो वृंहणः परः ॥
भिन्नमूत्रमलस्तन्यमेदपित्तकफप्रदः ।
गुदकीलार्द्दितश्वासपंक्तिशूलानि नाशयेत् ॥”
इति ।
कफपित्तकरा माषाः । इति च भावप्रकाशः ॥
अन्यच्च ।
“माषो बहुमलो वृष्यः स्निग्धोष्णो मघुरो
गुरुः ।
वातनुद्वृंहणो बल्यो मेदोमांसकफप्रदः ॥”
इति राजवल्लभः ॥
माषसूपेन मूलकभक्षणं निषिद्धं यथा, --
“मूलकं माषसूपेन मधुना च न भक्षयेत् ॥”
इति च राजवल्लभः ॥
चतुर्द्दश्यां रविवारे च माषभक्षणनिषेधो यथा,
चिररोगी च माषके । इति ।
“माषमामिषमांसञ्च मसूरं निम्बपत्रकम् ।
भक्षयेद्यो रवेर्वारे सप्तजन्मन्यपुत्त्रकः ॥”
इति च तिथ्यादितत्त्वम् ॥ * ॥
परिमाणविशेषः । माषा इति भाषा । तत
पृष्ठ ३/७१८
पर्य्यायः । माषकः २ मासः ३ । इत्यमर-
भरतौ ॥ हेमः ४ धानकः ५ । स च मागध-
माने सुश्रुतमते ५ गुञ्जापरिमाणम् । चरकमते
६ । ८ गुञ्जापरिमाणम् । कालिङ्गमाने सुश्रुत-
मते ५ । ७ । ८ गुञ्जापरिमाणम् । इति भाव-
प्रकाशः ॥ वैद्यकान्तरे १० गुञ्जापरिमाणम् ।
यथा, --
“गुञ्जाभिर्दशभिर्माषः शाणो माषचतुष्ठयम् ।”
इति वैद्यकपरिभाषा ॥
(माषार्थे यथा, --
“द्बात्रिंशन्माषकैर्माषश्चरकस्य तु तैः पलम् ।
चरकार्द्धपलोन्मानं चरके दशरक्तिकैः ।
माषैः पलं चतुःषष्ट्या यद्भवेत्तत्तथेरितम् ॥”
इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ।)
ज्योतिःस्मृतिमते १२ गुञ्जापरिमाणम् । यथा,
“पलं तु लौकिकैर्मानैः साष्टरत्तिद्विमाषकम् ।
तोलकत्रितयं ज्ञेयं ज्योतिर्ज्ञैः स्मृतिसम्मतम् ॥”
इति तिथ्यादितत्त्वधृतवचनेन पलं अष्टरत्तिका-
धिकमाषद्वयाधिकतोलकत्रयम् । एतेन माषक-
परिमाणं द्वादशरत्तिकं भवति ॥ * ॥ मूर्खः ।
त्वग्दोषभेदः । इति मेदिनी षे, २१ ॥

माषकः, पुं, (माषप्रकारः । माष + “स्थूला-

दिभ्यः प्रकारवचने कन् ।” ५ । ४ । ३ । इति
कन् ।) मासकः । पञ्चरत्तिकपरिमाणम् ।
यथा । गुञ्जाः पञ्चाद्यमाषकः । इत्यमरः ॥
“दशार्द्धगुञ्जं प्रवदन्ति माषं
माषाह्वयैः षोडशभिश्च कर्षम् ॥”
इति लीलावती च ॥
“षड्भिस्तु रत्तिकाभिः स्यान्माषको हेम-
धानकौ ।
माषो गुञ्जाभिरष्टाभिः सप्तभिर्वा भवेत्
क्वचित् ॥”
इति भावप्रकाशः ॥
(बीहिविशेषः । तदर्थे विषयो यथा, --
“द्वात्रिंशन्माषकैर्माषः ।”
परिमाणार्थे यथा, --
“--सुश्रुतस्य तु माषकः ।
द्वादशभिर्धान्यमाषैश्चतुःषष्ट्या तु तैः पलम् ॥”
इत्युभे वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ॥)

माषकलायः, पुं, (माषसंज्ञः कलायः शाक-

पार्थिववत् समासः ।) स्वनामख्यातशस्यम् ।
यथा । कलायशब्दो विशेषे सामान्ये च अत-
एव माषकलाय इत्यादि प्रयोगः । इत्यमर-
टीकायां भरतः ॥

माषपर्णी, स्त्री, (माषस्य पर्णमिव पर्णं यस्याः ।

ततो ङीष् ।) वनमाषः । माषाणी इति
भाषा । तत्पर्य्यायः । हयपुच्छी २ काम्बोजी ३
महासहा ४ । इत्यमरः । २ । ४ । १३८ ॥ सिंह-
पुच्छी ५ ऋषिप्रोक्ता ६ कृष्णवृन्ता ७ पाण्डु-
लोमशपर्णिनी ८ । इति रत्नमाला ॥ आर्द्र-
माषा ९ मांसमाषा १० मङ्गल्या ११ हय-
पुच्छिका १२ हंसमाषा १३ अश्वपुच्छा १४
पाण्डुरा १५ माषपर्णिका १६ कल्याणी १७
वज्रमूली १८ शालिपर्णी १९ विसारिणी २०
आत्मोद्भवा २१ बहुफला २२ स्वयम्भूः २३
सुलभा २४ घना २५ सिंहविन्ना २६ विशा-
चिका २७ । अस्या गुणाः । तिक्तरसत्वम् ।
वृष्यत्वम् । दाहज्वरापहत्वम् । शुक्रवृद्धिकारि-
त्वम् । बल्यत्वम् । शीतलत्वम् । पुष्टिवर्द्धनत्वञ्च ।
इति राजनिर्घण्टः ॥ अपि च भावप्रकाशे ।
“माषपर्णी सूर्य्यपर्णी काम्बोजी हयपुच्छिका ।
पाण्डुलोमशपर्णी च कृष्णवृन्ता महासहा ॥
माषपर्णी हिमा तिक्ता रूक्षा शुक्रबलाशकृत् ।
मधुरा ग्राहिणी शोषा वातपित्तज्वरास्रजित् ॥”

माषभक्तबलिः, पुं, (माषश्च भक्तञ्च तद्युक्तो

बलिः ।) माषतण्डुलदधिमिश्रितपूजोपहार-
विशेषः । अत्र केचित् हरिद्राघृतमध्वपि
मिश्रयन्ति । यथा । एष माषभक्तबलिः ।
“ॐ जय त्वं कालि ! सर्व्वेशे सर्व्वभूतसमावृते ।
रक्ष मां निजभूतेभ्यो बलिं गृह्ण शिवप्रिये ! ॥”
ॐ काल्यै नमः । प्रार्थनामन्त्रो यथा, --
“ॐमातर्मातर्व्वरे दुर्गे सर्व्वकामार्थसाधिनि ! ।
अनेन बलिदानेन सर्ब्बान् कामान् प्रयच्छ मे ॥”
इति कृत्यतत्त्वम् ॥
भूतेभ्योऽप्ययं बलिर्देयः ॥

माषवर्द्धकः, पुं, (माषं वर्द्धयतीति । वृध + णिच्

ण्वुल् ।) स्वर्णकारः । इति शब्दमाला ॥

माषशः, [स्] व्य, प्रतिमाषम् । माषं माषं ददाति

इत्यर्थे शस्प्रत्ययेन निष्पन्नम् । इति सिद्धान्त-
कौमुदी ॥

माषादः, पुं, (माषमत्तीति । अद् + अण् ।)

कच्छपः । इति शब्दरत्नावली ॥ माषभक्षके,
त्रि ॥

माषीणं, क्ली, (माषाणां भवनं क्षेत्रम् । माष +

“विभाषा तिलमाषोमाभङ्गाणुभ्यः ।”
५ । २ । ४ । इति यत् पक्षे खञ् ।) माषक्षेत्रम् ।
यथा, --

माष्यं, क्ली, (माषाणां भवनं क्षेत्रम् । माष +

“विभाषा तिलमाषोमाभङ्गाणुभ्यः ।”
५ । २ । ४ । इति यत् पक्षे खञ् ।) माषक्षेत्रम् ।
यथा, --
“तिल्यतैलीनवन्माषोमाणुभङ्गाद्द्विरूपता ।”
इत्यमरः ॥
यथा तिलस्य क्षेत्रं तिल्यं तैलीनञ्च भवति तथा
माषादीनामपि द्बिरूपता द्वैरूप्यं भवति । इति
तट्टीकायां भरतः ॥

मास्, पुं, (माङ + माने “सर्व्वधातुभ्योऽसुन् ।”

४ । १८८ । इत्यसुन् ।) चन्द्रः । (यथा, ऋग्वेदे ।
१० । १२ । ७ ।
“सूर्य्ये ज्योतिरदधुर्मास्यक्तून्
परिद्योतनिं चरतो अजस्रा ॥”
“मासि चन्द्रमसि ।” इति तद्भाष्ये सायणः ॥
मीयतेऽनेनेति । मा + “चन्द्रे मो डित् ।” उणा०
४ । २२७ । इत्यत्र “बाहुलकात् केवलादपि
मोऽसिः ।” इत्युज्ज्वलोदत्तोक्तेरसिः ।) मासः ।
इति मेदिनी । से, ७ ॥ अस्य प्रथमैकवच-
नान्तरूपं माः ॥ (यथा, मनौ । २ । ३४ ।
“चतुर्थे मासि कर्त्तव्यं शिशोर्निष्क्रमणं गृहात् ।
षष्ठेऽन्नप्राशनं मासि यद्वेष्टं मङ्गल कुले ॥”
मांसे, क्ली । यथा, ऋग्वेदे । ५ । २९ । ८ ।
“त्रीयच्छता महिषाणामघो
मास्त्रीसरांसि मघवा सोम्यापाः ।”
“माः मांसानि ।” इति तद्भाष्ये सायणः ॥)

मासः, पुं, (मस् परिमाणे + भावे घञ् ।) माष-

परिमाणम् । इत्यमरटीकायां भरतः । माषा
इति भाषा ॥ (मस्यते परिमीयते असावने-
नवेति मस् + घञ् ।) शुक्लकृष्णपक्षद्बयात्मकः
कालः । स च पौषमाघादिद्बादशसंज्ञकः ।
इत्यमरः । १ । ४ । १२ ॥ माश्चन्द्रस्तस्यायं मासः
ष्णः । चान्द्रमासस्येयं व्युत्पत्तिः । सौरादिषु तु
मस्यते परिमीयतेऽनेनासौ वा मासः । मसिर्य
ई परिमाणे घञ् । माः सान्तोऽपि । मास्तु
मासोऽपि दृश्यते । इति हड्डः । इति भरतः ॥ * ॥
स्मृतिमतेऽपि पौषादिद्वादशसंज्ञकः । यथा, --
“चक्रवत् परिवर्त्तेत सूर्य्यः कालवशाद्यतः ।
अतः सांवत्सरं श्राद्धं कर्त्तव्यं मासचिह्नितम् ॥
मासचिह्नन्तु कर्त्तव्यं पौषमाघाद्यमेव हि ।
यतस्तत्र विधानेन स मासः परिकीर्त्तितः ॥”
इति लघुहारीतः ॥
कार्त्तिकादिद्बादशसंज्ञकोऽपि । यथा, --
“अन्त्योपान्त्यौ त्रिभौ ज्ञेयौ फाल्गुनश्च त्रिभो
मतः ।
शेषा मासा द्विभा ज्ञेयाः कृत्तिकादिव्यव-
स्थया ॥”
स च चैत्रादिद्बादशसंज्ञकश्च । यथा व्यक्तं
ब्रह्मपुराणम् ।
“चैत्रे मासि जगद्ब्रह्मा ससर्ज्ज प्रथमेऽहनि ।
शुक्लपक्षे समग्रन्तु तदा सूर्य्योदये सति ॥
प्रवर्त्तयामास तदा कालस्य गणनामपि ।
ग्रहान्राशीनृतून् मासान् वत्सरान् वत्सराधि-
पान् ।
इत्यनेन मासर्त्तुवत्सराणां चान्द्रत्वमुक्तम् ।
ब्रह्मसिद्धान्तेऽपि ।
“चैत्रसितादेरुदयाद्भानोर्व्वर्षर्त्तुमासयुगकल्पाः ।
सृष्ट्यादौ लङ्कायामिह प्रवृत्ता दिनैर्व्वत्स ॥”
चैत्रसितादेश्चैत्रशुक्लप्रतिपदस्तामारभ्येत्यर्थः ॥
अपि च ।
“मीनादिस्थो रविर्येषामारम्भप्रथमक्षणे ।
भवेत्तेऽब्दे चान्द्रमासाश्चैत्राद्या द्वादश स्मृताः ॥”
चान्द्रसावनसौरनाक्षत्रभेदेन स च चतुर्व्विधः ।
शुक्लप्रतिपदादिदर्शान्तश्चान्द्रः । तत्र चान्द्रो-
ऽपि द्विविधः । शुक्लप्रतिपदादिदर्शान्तो मुख्यः ।
कृष्णप्रतिपदादिपौर्णमास्यन्तो गौणः । यत्-
किञ्चित्त्रिंशत्तिथ्यात्मकश्चेति द्विविधो गौणः ।
त्रिंशदहोरात्रात्मकः सावनः । आदित्यैक-
राशिभोगावच्छिन्नः सौरः । सप्तविंशतिनक्षत्रा-
वच्छिन्नस्त्रिंशन्नाक्षत्रदिनात्मकश्च नाक्षत्रः ।
तथा च ब्रह्मसिद्धान्ते ।
“चान्द्रः शुक्लादिदर्शान्तः सावनस्त्रिंशता दिनैः ।
एकराशौ रविर्यावत् कालं मासः संभास्करः ॥
पृष्ठ ३/७१९
सर्व्वर्क्षपरिवर्त्तैस्तु नाक्षत्र इति चोच्यते ॥”
सूर्य्यसिद्धान्ते ।
“नाडीषष्ट्या तु नाक्षत्रमहोरात्रं प्रचक्षते ।
तत्त्रिंशता भवेन्मासः सावनोऽर्कोदयैस्तथा ॥
ऐन्दवस्तिथिभिस्तद्वत् संक्रान्त्या सौर उच्यते ॥”
तत्त्रिंशता नाक्षत्रदिनत्रिंशता मासो नाक्षत्र-
मासः । तथा त्रिंशता ॥ * ॥ स्मार्त्तशूलपाणि-
मते मुख्यचान्द्र एव मासपदशक्यः । जीमूत-
वाहनमते सौर एव शक्यः । चान्द्रप्रमाणं
प्रागुक्तम् । सौरप्रमाणन्तु । सौरास्तु माघादयो
द्बादश एव श्रौताः । तथा च श्रुतिः । तप-
स्तपस्यौ शैशिरावृतुः । मधुश्च माधवश्च वास-
न्तिकावृतुः । शुक्रश्च शुचिश्च ग्रैष्मावृतुः । अथै-
तदुदगयनं देवानां दिनम् । नभाश्च नभस्यश्च
वार्षिकावृतुः । इषश्च ऊर्ज्जश्च शारदावृतुः ।
सहाश्च सहस्यश्च हैमन्तिकावृतुः । अथैत-
द्दक्षिणायनं देवानां रात्रिरिति । अत्रायनस्य
सौरत्वेन तद्घटकतपस्तपस्यादीनामपि सौर
परतेति । अतो भूयसामनुरोधेन वैशाखादयः
सौरवाचिनोऽवधार्य्यन्ते । इति मलमासतत्त्वम् ॥
अपि च ।
“मेषस्थित्या रवेर्मासो वैशाखोऽब्दमुखः
स्मृतः ।”
इति सङ्केतकौमुदी ॥
अथ कर्म्मविशेषे मासविशेषादिः । तत्र पिता-
महः ।
“आब्दिके पितृकृत्ये च मासश्चान्द्रमसः स्मृतः ।
विवाहादौ स्मृतः सौरो यज्ञादौ सावनो मतः ॥”
प्रथमादिपदं यात्राग्रहचारपरम् । यत् कर्म्म
सूर्य्यभोग्यराश्युल्लेखेन यच्च विशिष्योदगयनादि
विहितं तत्परञ्च अयनस्य सौरमासघटित-
त्त्वात् । तच्च चूडोपनयनादि । द्बितीयादिपदं
सत्रभृतिवृद्बिप्रायश्चित्तायुर्दायाशौचगर्भाधान-
पुंसवनसीमन्तोन्नयननामकरणान्नप्राशननिष्क्र-
मणचूडादिपरम् । तथा च विष्णुधर्म्मोत्तरे ।
“अध्वायनञ्च ग्रहचारकर्म्म
सौरेण मासेन सदाध्यवस्येत् ।
सत्राण्युपास्यान्यथ सावनेन
लौक्यञ्च यत् स्याद्व्यवहारकर्म्म ॥”
अध्वायनं अध्वगमनं यात्रेति यावत् ॥ * ॥
अथ सौरादिमासविहितकर्म्माणि ।
“विवाहोत्सवयज्ञेषु सौरं मासं प्रशस्यते ।
पार्व्वणे त्वष्टकाश्राद्धे चान्द्रमिष्टं तथाब्दिके ॥”
अत्र यज्ञपदमुदगयनादिविहितपशुयागाभिप्रायं
पितामहोक्तन्तु विष्णुधर्म्मोत्तरोक्तसत्रपरम् ।
गर्गः ।
“आयुर्दायविभागश्च प्रायश्चित्तक्रिया तथा ।
सावनेन तु कर्त्तव्या मन्त्राणामप्युपासना ॥”
सूर्य्यसिद्धान्ते ।
“सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा ।
मध्यमग्रहभुक्तिश्च सावनेन प्रकीर्त्तिता ॥”
मध्यमग्रहभुक्तिर्ज्योतिर्गणना प्रसिद्धा ॥ * ॥
नाक्षत्रमासप्रयोजनं विष्णुधर्म्मोत्तरे ।
“नक्षत्रसत्राण्ययनानि चेन्दो-
र्म्मासेन कुर्य्याद्भगणात्मकेन ।”
नक्षत्रसत्राणि माससाध्ययागविशेषरूपाणि
याज्ञिकप्रसिद्धानि । इन्दोरयनानि सोमाय-
नाख्यसत्राणि । इति समयप्रकाशः ॥ एवं जन्म-
नक्षत्रे शनिभौमवारे फलं नाक्षत्रमासेन योग्य-
त्वात् । यथा, मलमासतत्त्वे ।
“जन्मन्यृक्षे यदि स्यातां वारौ भौमशनैश्चरौ ।
स मासः कल्मषो नाम मनोदुःखप्रदायकः ॥”
मलमासविवरणं मलमासशब्दे द्रष्टव्यम् ॥ * ॥
अथ मासकृत्यम् ।
“आषाढशुक्लैकादश्यां कुर्य्यात् स्वापं महोत्-
सवम् ।
आषाढे च रथं कुर्य्यात् श्रावणे श्रवणाविधिम् ॥
भाद्रे च जन्मदिवसे उपवासपरो भवेत् ।
प्रसुप्तञ्च पारिवर्त्तमाश्विने मासि कारयेत् ॥
उत्थानं श्रीहरेः कुर्य्यादन्यथा विष्णुद्रोहकृत् ।
शुभे चैवाश्विने मासि महामायाञ्च पूजयेत् ॥
कार्त्तिके मासि यत् कृत्यं शृणु देवि वरानने ! ।
सप्तवर्त्त्याः प्रमाणेन दीपः स्याच्चतुरङ्गुलः ॥
पक्षान्ते च प्रकर्त्तव्या दीपमाला बलिः शुभा ।
मार्गशीर्षे सिते पक्षे षष्ठीञ्च सितवस्त्रकैः ॥
पूजयेज्जगदीशञ्च तूलवस्त्रैर्विशेषतः ।
पौषे पुण्याभिषेकञ्च वर्ज्जयेच्चन्दनं तथा ॥
संक्रान्त्यां माघमासे च साधिवासिततण्डुलान् ।
निवेद्य विष्णवे भक्त्या इमं मन्त्रमुदीरयेत् ॥
जीवनं सर्व्वभूतानां जनकस्त्वं जगद्गुरो ! ।
तन्मायालीनता प्राप्ता त्वयैव जनिता प्रभो ! ॥
कर्पूराकृतिद्रव्याणि घृताक्तानि निवेदयेत् ।
ब्राह्मणान् भोजयेद्भक्त्या देवदेवपुरःस्थितान् ॥
अभ्यर्च्च्य भगवद्भक्त्या द्विजांश्च भगवद्धिया ।
एकस्मिन् भोजिते भक्ते कोटिर्भवति भक्तितः ॥
विप्रभोजनमात्रेण व्यङ्गं साङ्गं भवेद्ध्रुवम् ।
पञ्चम्यां शुक्लपक्षे तु स्नापयित्वा च केशवम् ॥
पूजयेद्भगवद्भक्त्या चूतपल्लवसम्मितैः ॥
फल्गुचूर्णैश्च विविधैर्वासितैः पटवासितम् ।
काननं रमणीयञ्च प्रदीप्तदीपदीपितम् ॥
द्राक्षेक्षुरम्भाजम्बीरनागरङ्गकपूगकम् ।
नारिकेलञ्च धात्री च वंशतालहरीतकी ॥
अन्यैश्च वृक्षषण्डैश्च सर्व्वर्त्तकुसुमाचितम् ।
पुष्पैश्च विविधैश्चैव फलपुष्पसमन्वितम् ॥
वितानैः कुसुमोद्यानैर्वारिपूर्णघटैस्तथा ।
चूतशाखोपशाखाभिः शोभितं छत्रचामरैः ॥
विशेषतः कलियुगे दोलोत्सवो विधीयते ।
फाल्गुने च चतुर्द्दश्यामष्टमे यामसंज्ञके ॥
अथवा पौर्णमास्यान्तु प्रतिपत्सन्धिसम्मितौ ।
पूजयेद्बिधिवद्भक्त्या फल्गुचूर्णैश्चतुर्व्विधैः ॥
सितरक्तैर्गौरपीतैः कर्पूरादिविमिश्रितैः ।
हरिद्राक्षारयोगाच्च रङ्गरम्यैर्मनोहरैः ॥
अन्यैर्व्वा रङ्गरम्यैश्च प्रीणयेत् परमेश्वरम् ॥
एकादश्यां समारभ्य पञ्चम्यन्तं समापयेत् ।
पञ्चाहानि त्र्यहाणि स्युर्द्दोलोत्सवो विधीयते ॥
दक्षिणाभिमुखं कृष्णं दोलयानं सकृन्नराः ।
दृष्ट्वापराधनिचयैर्मुक्तास्ते नात्र संशयः ॥
निक्षिप्य जलमात्रे तु मासे माधवसंज्ञिते ।
सौवर्णपात्रे ताम्रे वा रौप्ये वा मृण्मयेऽपि वा ॥
तोयस्थं योऽर्च्चयेद्देवं शालग्रामसमुद्भवम् ।
प्रत्यहं मां महाभागे ! तस्य पुण्यं न गण्यते ॥
दमनारोपणं कृत्वा श्रीविष्णौ च समर्पयेत् ।
वैशाख्यां श्रावणे भाद्रे कर्त्तव्यञ्च तदर्पणम् ॥
वैशाखे च तृतीयायां जलमध्ये विशेषतः ।
अथवा मण्डपे कुर्य्यात् मण्डले वा बृहद्ध्वजे ॥
सुगन्धचन्दनेनाङ्गसुपुष्टाङ्गो दिने दिने ।
यथा प्रयत्नतः कार्य्यः कृशाङ्गो नैव पूजितः ॥
चन्दनागुरुकस्तूरीकुष्ठं कुङ्कुमरोचना ।
जटामांसी वचा चैव विष्णोर्गन्धाष्टकं तथा ।
एतैर्गन्धयुतैश्चापि हरेरङ्गानि लेपयेत् ॥
घृष्टञ्च तुलसीकाष्ठं कर्पूरागुरुयोगतः ।
अथवा केशरैर्योज्यं हरिचन्दनमुच्यते ॥
अस्मिन् काले कृष्णभक्त्या ये प्रपश्यन्ति मानवाः ॥
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥
सुगन्धिमिश्रितैस्तोयैः स्नापयित्वा जगद्गुरुम् ।
अथवा पुष्पमध्ये च स्थापयेज्जगदीश्वरम् ॥
बृन्दावनं तत्र कृत्वा उपस्कृतफलानि च ।
विष्णुभक्तेन योग्येन भोजयेत्तदशेषतः ॥
नारिकेलफलं नीरं कोषञ्चोद्धृत्य दापयेत् ।
कण्टाफलञ्च पनसं कोषमुद्धृत्य दीयते ॥
यथा पचेत्तथा दद्याद्यथाशक्ति नियोगतः ।
दध्ना विमिश्रितञ्चान्नं घृतेनाप्लुत्य दापयेत् ॥
पाचितं पिष्टकं धातुरष्टादश घृतेन च ।
तिलैश्च तिलसंमिश्रैः फलं शुद्धञ्च दापयेत् ॥
यद्यदेवात्मनः श्रेयस्तत्तदीशाय कल्पयेत् ।
दत्त्वा नैवेद्यवस्त्रादीनाददीत कथञ्चन ।
त्यक्तव्यं विष्णुमुद्दिश्य तद्भक्तेभ्यो विशेषतः ॥
इति ते कथितं किञ्चित् समासेन महेश्वरि ! ।
गोप्तव्यञ्च प्रयत्नेन स्वयोनिरिव पार्व्वति ! ॥”
इति पाद्मे पातालखण्डे १२ अध्यायः ॥

मासकः, पुं, माषकपरिमाणम् । यथा । गुञ्जाः

पञ्चाद्यमासकः । इत्यमरः ॥ पञ्चगुञ्जाः कृष्णलाः
आद्यः प्रथमो मासकः । दशगुञ्जापेक्षया
आद्यत्वम् । शास्त्रीयत्वात् मुख्यो मास इत्यर्थो
वा । मस्यते परिमीयतेऽनेन मासः मसिर्य ई
परिमाणे परीणामे घञ् स्वार्थे कः मासोऽयं
दन्त्यान्तः । मष हिंसार्थो मूर्द्धन्यान्तस्तस्माद्-
घञ् तेन माषो मूर्द्धन्यान्त इति जिनेन्द्रप्रभृ-
तयः । इत्यमरटीकायां भरतः ॥

मासज्ञः, पुं, दात्यूहपक्षी । इति शब्दरत्ना-

वली ॥ (मासं जानातीति । ज्ञा + कः ॥)
मासज्ञातरि, त्रि ॥

मासनं, क्ली, सोमराजी । इति शब्दचन्द्रिका ॥

मासमानः, पुं, (मासैर्द्वादशभिर्मानमस्य ।) वत्-

सरः । इति त्रिकाण्डशेषः ॥ (मासस्य मानम् ॥)
मासपरिमाणे, क्ली ॥
पृष्ठ ३/७२०

मासरः, पुं, (मस + णिच् + बाहुलकात् अरन् ।)

भक्तसमुद्भवमण्डः । तत्पर्य्यायः । आचामः २
निस्रावः ३ । इत्यमरः । २ । ९ । ४९ ॥

मासवर्त्तिका, स्त्री, सर्षपीपक्षिविशेषः । इति शब्द-

माला ॥

मासान्तः, पुं, (मासस्यान्तः ।) अमावस्या ।

यथा, --
‘पक्षान्ते निष्फला यात्रा मासान्ते मरणं ध्रुवम् ।
इति समयप्रदीपः ॥
संक्रान्तिदिनम् । यथा, --
“मासान्ते म्रियते कन्या तिथ्यन्ते स्यादपुत्त्रिणी ।
नक्षत्रान्ते च वैधव्यं विष्ट्यां मृत्युर्द्वयोर्भवेत् ॥
मासान्ते दिनमेकन्तु तिथ्यन्ते घटिकाद्वयम् ।
घटिकात्रितयं भान्ते विवाहे परिवर्जयेत् ॥”
इति रत्नमाला ॥

मासिकं, क्ली, (मासे भवम् । मास + “कालाट्

ठञ् ।” ४ । ३ । ११ । इति ठञ् ।) प्रेतस्य
संवत्सराभ्यन्तरे प्रतिमासीयमृतसजातीयतिथि
कर्त्तव्यश्राद्धम् । प्रतिमासकर्त्तव्यकृष्णपक्षनिमित्तक
श्राद्धम् । तत्पर्य्यायः । अन्वाहार्य्यम् २ । इत्य-
मरः । ३ । ७ । ३१ ॥ मासि भवं मासिकं
पार्व्वणश्राद्धं तत्र अन्वाहार्य्यं वर्त्तते । पक्षशेषे
अमावास्यायां देयत्वात् । अनु पश्चादाह्नियते
अन्वाहार्य्यं हसृय्वासोरिति घ्यण् स्वार्थेके अन्वा-
हार्य्यकञ्च । अकृतसपिण्डीकरणस्य वत्सराभ्य-
न्तरे प्रतिमासं यत् श्राद्धं तत्रान्वाहार्य्यमिति
केचित् । इत्यमरटीकायां भरतः ॥ तयोः
प्रमाणम् ।
“षाण्मासिकाब्दिके श्राद्धे स्यातां पूर्ब्बेद्युरेव ते ।
मासिकानि स्वकीये तु दिवसे द्वादशापि च ॥”
इति पैठीनसिः ॥
‘पितॄणां मासिकं श्राद्धमन्वाहार्य्यं विदुर्बुधाः ।
तच्चामिषेण कर्त्तव्यं प्रशस्तेन प्रयत्नतः ॥’
इति मनुः । ३ । १२३ ॥ * ॥
मासिककरणस्य व्यवस्था यथा । पीठच्छत्रो-
पानहरहितानि इहलोकं परित्यज्य इत्यादि
सर्व्वः सुर्गन्ध इत्यादि श्रिया देव्या इत्यादि वन-
स्पतिरस इत्यादिमन्त्रचतुष्टयरहितानि च आद्यै-
कोद्दिष्टवत् मृताहे मृताहे द्वादश मासिकानि
कार्य्याणि । एकादशमासाभ्यन्तरे मलमासपाते
त्रयोदशमासिकानि । षष्ठमासाभ्यन्तरे मल-
मासपातेऽपि षष्ठमासिकपूर्ब्बतिथावेव प्रथम-
षाण्मासिकम् । तथा त्रयोदशमासिकस्य पूर्ब्ब-
तिथौ द्वितीयषाण्मासिकम् । एवं षाण्मासिकी-
ल्लखे प्रथमषाण्मासिकद्बितीयषाण्मासिकत्वेनो-
ल्लेखः । एषां मध्ये यत् पतितं तत् कृष्णैकादश्यां
अमावस्यायां मासिकान्तरतिथौ वा कृत्वा
प्रकृतं कर्त्तव्यम् । अशौचपतितञ्चेत्तदशौचान्ते
कर्त्तव्यम् । एकादशाहादिश्राद्धानि कतिचित्
कृत्वा यदि मृतस्तदा शेषाण्यन्येनाधिकारिणा
समाप्यानि ॥ * ॥ अथ मासिकैकोद्दिष्टश्राद्ध-
प्रयोगः । पूर्ब्बदिने निरामिषैकभक्तः परदिने
स्नानादिकं कृत्वा एकोद्दिष्टश्राद्धविहितकाले
भोज्यमुतसृज्य कुशब्राह्मणं स्नापयित्वा वास्तु-
पुरुषादि पूजयित्वा भूम्वामिपितृभ्यः श्राद्धाग्र-
भागं दत्त्वा दक्षिणामुखः अनुज्ञां कुर्य्यात् ।
यथा अद्यामुके मासि अमुकपक्षे अमुकतिथौ
अमुकगोत्रस्य प्रेतस्य अमुकदेवशर्म्मणः प्रथम-
मासिकैकोद्दिष्टश्राद्धं दर्भमयब्राह्मणेऽहं करिष्ये ।
ॐ कुरुष्वेत्युत्तरम् । ततो गायत्त्रीं जपेत् ।
देवताभ्य इत्यादि त्रिधा पठेत् । ततः पुण्डरी-
काक्षं स्मृत्वा मृज्जलेन श्राद्धीयद्रव्यं प्रोक्षयेत् ।
रक्षार्थमुदकपूर्णपात्रमेकदेशे स्थापयेत् । ततः
ॐ अमुकगात्र प्रेत अमुकदेवशर्म्मन्नेतत्ते
दर्भासनं स्वधा । इत्यनेन ब्राह्मणवामपार्श्वे
दद्यात् । अपहतेत्यादिना तिलान् विकीर्य्य जलं
स्पृष्ट्वा ब्राह्मणाग्रभूमौ कुशपत्रमेकं पातयित्वा
तदुपरि अर्घ्यपात्रं संस्थाप्य ॐ पवित्रासि
वैष्णवीत्यनेनानखच्छिन्नं ॐ विष्णोर्मनसा पूत-
मसीत्यनेन प्रोक्षितमेकदलं पवित्रं तत्पात्रे
निधाय ॐ शन्नोदेवीरित्यादिमन्त्रेण जलं
दद्यात् । ततः ॐ तिलोऽसि सोमदैवत्यो गोसवो
देवनिर्म्मितः । प्रन्नमद्भिः पृक्तः स्वधया प्रेतान्
लोकान् प्रीणाहि नः स्वाहा । इत्यनेन तिलान्
दत्त्वा गन्धपुष्पादिना अर्घ्यं निर्म्माय कुशा-
न्तरेणाच्छाद्य तत् कुशमुद्घाट्य ब्राह्मणे पवित्रं
दत्त्वा जलान्तरञ्च दत्त्वा पुष्पान्तरेण शिरः-
प्रभृतिसर्व्वगात्रेभ्यो नम इति संपूज्य तत् पात्रं
वामहस्ततले विन्यस्य दक्षिणहस्तेनाच्छाद्य
ॐ या दिव्या इति पठित्वा ॐ अमुकगोत्र
प्रेतामुकदेवशर्म्मन्नेतत्तेऽर्घ्यं स्वधा । ततः
ॐ अमुकगोत्र प्रेतामुकदेवशर्म्मन्नेतानि ते गन्ध-
पुष्पधूपदीपाच्छादनानि स्वधा । इत्युत्सृज्य एष
ते गन्धः एतत्ते पुष्पं एष ते धूप एष ते दीपः
एतत्ते आच्छादनम् । ततो ब्राह्मणाग्रभूमौ
कुशादिकमपनीय नैरृतिमारभ्य दक्षिणा-
ग्रान्तरेखया वामावर्त्तेन जलेन चतुष्कोण-
मण्डलं कृत्वा तत्र भोजनपात्रं निदध्यात् ।
तत्र सामिषं सर्व्वमन्नादिकं परिवेश्य ॐ इदं
विष्णुरित्यादिमन्त्रेण अन्नादावनखाङ्गुष्ठं निक्षिप्य
ॐ अपहतेत्यादिना तिलान् विकीर्य्य ब्राह्मणे
जलगण्डूषं दत्त्वा गायत्त्रीं जप्त्वा अन्ने मधु दत्त्वा
तदभावे गुडं दत्त्वा घृतं दत्त्वा ॐ मधुवाते-
त्यादि मधु मधु मध्विति च पठित्वा अन्नमभि-
मन्त्र्य प्रोक्ष्य ब्राह्मणे जलगण्डूषं दत्त्वा वाम
हस्तेनान्नपात्रं धृत्वा ॐ अमुकगोत्र प्रेतामुक-
देवशर्म्मन्नेतत्ते सामिषान्नं सोपकरणं स्वथेत्युत्-
सृजेत् । इदं सामिषान्नं इदं हविः इमा गङ्गाया
आपः एतान्युपकरणानि यथासुखं वाग्यतः
सद । इत्यनेन जलगण्डूषं दद्यात् । ततो गायत्त्रीं
त्रिः सकृद्वा ॐ मधुवाता इत्यादि मधु मधु
मध्विति ॐ अन्नहीनमित्यादि च पठेत् । कुश-
ब्राह्मणपक्षे पुनर्गायत्त्र्यादि पठेत् । ॐ यज्ञे-
श्वरो हव्य इत्यादि ॐ योगीश्वरमित्यादि याज्ञ-
वल्क्यश्लोकत्रयं ॐ तद्बिष्णोरित्यादि ॐ दुर्य्यो-
धन इत्यादि ॐ युधिष्ठिर इत्यादि सर्व्वं पठेत् ।
ततो दक्षिणाग्रान् कुशान् भूमौ संस्थाप्य भूमिं
प्रोक्ष्य सर्व्वप्रकारमन्नमुद्धृत्य सतिलमेकीकृत्य
वारिणाप्लुत्य ॐ अग्निदग्धाश्चेत्यादिमन्त्रद्वयेन
कुशोपरि विकिरेत् । ततो हस्तौ प्रक्षाल्याचम्य
दक्षिणकर्णं स्पृष्ट्वा वा हरिं स्मृत्वा ब्राह्मणाय
जलगण्डूषं दत्त्वा पूर्ब्बवद्गायत्त्रीं मधुवाता इत्या-
दिकं मधु मधु मध्विति च जप्त्वा ॐ शेषमन्नं
क्व देयमित्यनुज्ञाप्य ॐ इष्टाय दीयतामित्युत्तरं
गृहीत्वा ॐ पिण्डदानमहं करिष्ये ॐ कुरुष्वे-
त्युक्ते ब्राह्मणसम्मुखे ॐ निहन्मीत्यादिना
नैरृतिमारभ्य दक्षिणाग्ररेखया जलेन वामा-
वर्त्तेन चतुष्कोणमण्डलं कृत्वा पवित्रं वामहस्ता-
द्दक्षिणहस्तेन गृहीत्वा वामहस्तान्वारब्ध-
दक्षिणपाणिना दक्षिणाग्रां रेखां मण्डलमध्य-
स्थाने ॐ अपहतेत्यादिनिहन्मीत्यादिमन्त्राभ्यां
कुर्य्यात् । तद्दर्भमुत्तरस्यां दिशि क्षिपेत् ।
रेखोपरि समूलान् साग्रान् कुशानास्तीर्य्य ॐ
देवताभ्य इति पठित्वा ॐ एहि प्रेत सौम्य
गम्भीरेभिः पथिभिः पूर्ब्बिणेभिर्देह्यस्मभ्यं द्रवि-
णेह भद्रं रयिञ्चनः सर्व्ववीरं नियच्छ इत्या-
वाह्य तिलांश्चास्तीर्णकुशेषु विकिरेत् । ततो
वामहस्तेन सतिलजलं गृहीत्वा वामहस्ता-
द्दक्षिणहस्तेन संगृह्य ॐ अमुकगोत्र प्रेतामुक-
देवशर्म्मन्नवने निक्ष्व स्वधा इत्यनेन दद्यात् ततः
श्राद्धशेषमन्नं सव्यञ्जनं मध्वाज्यतिलसंयुक्तं
सामिषं गृहीत्वा पिण्डं कृत्वा ॐ मधुवातेत्यादि
ऋक्त्रयं अक्षन्नमीत्यादि च पठित्वा विल्व-
प्रमाणं पिण्डं सतिलं द्विगुणभुग्नकुशत्रयसहितं
वामहस्तस्थितपात्राद्दक्षिणहस्तेन गृहीत्वा ॐ
अमुकगोत्र प्रेतामुकदेवशर्म्मन्नेष ते सामिष-
पिण्डः स्वधा इत्यवनेजनस्थाने वामहस्तान्वा-
रब्धदक्षिणहस्तेन दद्यात् । ततः आचम्य हरिं
स्मृत्वा पिण्डपात्रं प्रक्षाल्य वामहस्ताद्दक्षिण-
हस्तेन गृहीत्वा प्रक्षालितजलं ॐ अमुकगोत्र
प्रेतामुकदेवशर्म्मन्नवने निक्ष्व स्वधा इति पिण्डो-
परि दद्यात् । ततः ॐ अत्र प्रेत मादयस्व यथा
भागमा वृषायस्व इति जप्त्वा वामावर्त्तेनोद-
ङ्मुखो भूत्वा आगमनाच्छ्वासं धृत्वा तेनैव
पथा परावर्त्तमानः प्रेतं भास्वरमूर्त्तिं ध्यायन्
ॐ अमीमदत् प्रेत यथा भागमा वृषायिष्ट
इति दक्षिणाभिमुखो भवन् जपेत् । ततः श्वासं
त्यजेत् । ॐ नमस्ते प्रेत प्रेत नमस्ते इति
कृताञ्जलिर्जपेत् । ॐ गृहान्नः प्रेत देहि इति
गृहिणीं पश्येत् । ॐ सदस्ते प्रेत देस्म इति
पिण्डं पश्येत् । ततो नवमनवं वा शुक्लवस्त्र-
दशाभवं सूत्रं वामहस्ताद्दक्षिणहस्तेन गृहीत्वा
ॐ एतद्वः प्रता वास इति पठित्वा पिण्डोपरि
निदध्यात् । ततः ॐ अमुकगोत्र प्रेतामुकदेव-
शर्म्मन्नेतत्ते वासः स्वधा । इत्यनेनोत्सृजेत् ।
ततस्तूष्णीं पिण्डं संपूज्य ॐ वसन्तायेत्यादि-
पृष्ठ ३/७२१
मन्त्रेण षडृतून्नमस्कुर्य्यात् । तत ॐ सुसुप्रोक्षित-
मस्तु इति ब्राह्मणाग्रभूमिमासिञ्चेत् । ॐ शिवा
आपः सन्त इति ब्राह्मणे जल दद्यात । ॐ
सन्त्विति प्रतिवचनम । ॐ सौमनस्यमस्त्विति
पुष्पं ॐ अस्त्विति प्रतिवचनम । ॐ अक्षत-
ञ्चारिष्टञ्चास्तु इति यवान् दद्यात् । ॐ अस्त्वि-
त्युत्तरम् । ततस्तिलाज्यमधुयुक्तं जलं गृहीत्वा
ॐ अमुकगोत्रस्य प्रेतस्यामुकदेवशर्म्मणो दत्त-
मिदमन्नपानादिकमुपतिष्ठताम् । ॐ उपतिष्ठ-
तामिति प्रतिवचनम् । ॐ अघोरः प्रेतोऽस्तु
इति वदेत् । ॐ अस्त्विति प्रतिवचनम् । ॐ
गोत्रं नो वर्द्धतामिति वदेत् । ॐ वर्द्धतामिति
प्रतिवचनम् । ततः पिण्डोपरि सपवित्रकुशा-
नास्तीर्य्य ॐ ऊर्ज्जं वहन्तीरमृतं घृतं पयः
कीलालं परिस्रुतं स्वधास्थ तर्पयत मे प्रेतमित्य-
नेन वारिधारया सिञ्चेत् । ततः ॐ अद्येत्यादि
अमुकगोत्रस्य प्रेतस्य अमुकदेवशर्म्मणः कृतै-
तत्प्रथममासिकैकोद्दिष्टश्राद्धकर्म्मणः प्रतिष्ठार्थं
दक्षिणामिदं रजतं तन्मूल्यं वा विष्णुदैवतं यथा
नामगोत्राय ब्राह्मणायाहं ददानीति दद्यात् ।
ततो दक्षिणां दिशं पश्यन् वरं याचेत । नात्र
पात्रमालभ्य जपेत् । नाशिषः प्रार्थयेदिति
प्रचेतोवचनादाशिषं न प्रार्थयेत् । ततः ॐ देव-
ताभ्य इति त्रिः पटेत् । ॐ अभिरम्यतामिति
विसर्ज्जनम् । ॐअभिरतोऽस्मीति प्रतिवचनम् ।
ॐ आमावाजेति प्रदक्षिणवारिधारया वेष्टयेत्
पिण्डांस्तु गोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि
वा क्षिपेत् । श्राद्धीयद्रव्यं ब्राह्मणाय दद्यात्
जले वा क्षिपेत् । ततो वामदेव्यं गायेत्
अच्छिद्रावधारणं दीपाच्छादनं विष्णुस्मरणञ्च
कुर्य्यात् । एवं प्रकारेण द्वितीयादिमासिकं कर्त्त-
व्यम् । इति स्मार्त्तभट्टाचार्य्यकृतश्राद्धप्रयोग-
तत्त्वम् ॥ * ॥ अन्यत् श्राद्धशब्दे द्रष्टव्यम् ॥

मासिकः, त्रि, माससम्बन्धी । मासि भव इत्यर्थे

ष्णिक्प्रत्ययेन निष्पन्नः ॥ (यथा, मनौ । ७ । १२६ ।
“पणो देयोऽवकृष्टस्य षडुत्कृष्टस्य वेतनम् ।
षाण्मासिकस्तथाच्छादो धान्यद्रोणस्तु
मासिकः ॥”)

मासुरी, स्त्री, (मसुर + अण् ङीष् ।) श्मश्रुः ।

इति हेमचन्द्रः । ३ । २२७ ॥ (मातृभग्नी ।
यथा, ब्रह्मवैवर्त्ते । १ । १० । १४५ ।
“पितृष्वसा पितुर्भग्नी मातृभग्नी च मासुरी ।”)

मास्म, व्य, (मा च स्म च तयोः समाहारः ।)

वारणम् । तत्पर्य्यायः । मा २ अलम् ३ । इत्य-
मरः । ३ । ४ । ११ । (यथा, रामायणे । २ । १२ । ९२ ।
“मास्म मे भरतः कार्षीत् प्रेतकृत्यं गतायुषः ।”)

माह ऋ ञ माने । इति कविकल्पद्रुमः ॥ (भ्वा०-

उभ०-सक०-सेट् ।) ऋ अममाहत् । ऋदनु-
बन्धस्थाने षष्ठस्वरानुबन्ध इत्यके । ञ माहति
माहते । इति दुर्गादासः ॥

माहाकुलः, त्रि, (महाकुलस्यापत्यमिति ।)

“महाकुलादञ् खञौ ।” ४ । १ । १४१ । इति
अज् ।) महाकुलोद्भवः । इत्यमरटीकायां
रायमुकुटः ॥

माहाकुलीनः, त्रि, (महाकुलस्यापत्यमिति ।

महाकुलादञ्खञौ ।” ४ । १ । १४१ । इति
खञ् ।) महाकुलोद्भवः । इत्यमरटीकायां
रायमुकुटः ॥

माहात्म्यं, क्ली, (महात्मनो भावः इति । महा-

त्मन् + व्यञ् ।) महात्मता । महिमेति यावत् ।
यथा, तिथ्यादितत्त्वे ।
“माहात्म्यं भगवत्याश्च पुराणादिषु कीर्त्तितम् ।
पाठस्तस्य जपः प्रोक्तः पठेद्देवीमनास्ततः ॥”

माहानामिकः, पुं, (“तदस्य ब्रह्मचर्य्यम् ।”

५ । १ । ९४ । इत्यत्र । “माहा
नाम्न्यादिभ्यः षष्ठ्यन्तेभ्य उपसंख्यानम् ॥” महा-
नाम्न्यो नाम विदामघवन् ।’ इत्याद्या ऋचः ।
तासां ब्रह्मचर्य्यमस्य इति ठञ् । हरदत्तस्तु
“भस्याढे ।” इति पुंवद्भावान् माहानामिक
इत्याह । इति सिद्धान्तकौमुदी ।) महानाम्नी-
ऋचावेत्ता ब्राह्मणः । इति केचित् ॥

माहानाम्निकः, पुं, (“तदस्य ब्रह्मचर्य्यम् ।”

५ । १ । ९४ । इत्यत्र । “माहा
नाम्न्यादिभ्यः षष्ठ्यन्तेभ्य उपसंख्यानम् ॥” महा-
नाम्न्यो नाम विदामघवन् ।’ इत्याद्या ऋचः ।
तासां ब्रह्मचर्य्यमस्य इति ठञ् । हरदत्तस्तु
“भस्याढे ।” इति पुंवद्भावान् माहानामिक
इत्याह । इति सिद्धान्तकौमुदी ।) महानाम्नी-
ऋचावेत्ता ब्राह्मणः । इति केचित् ॥

माहिनं, क्ली, (मह्यते पूज्यते अस्मिन् इति ।

मह् + “महेरिनण् च ।” उणा० । २ । ५६ ।
इति इनण् ।) राज्यम् । इत्युणादिकोषः ॥
(मंहनीये, त्रि । यथा, ॠग्वेदे । ३ । ३६ । ९ ।
“इन्द्र ! यत्ते माहिनं दत्रमस्ति ।”
“माहिनं मंहनीयम् ।” इति तद्भाष्ये सायणः ॥
प्रवृद्धे च । यथा, तत्रैव । १ । ५६ । ६ ।
“इन्द्र ! सदनेषु माहिनः ।”
“माहिनः प्रवृद्धः ।” इति तद्भाष्ये सायणः ॥)

माहिरः, पुं, (मह्यते पूज्यतेऽसौ । मह् + बाहु-

लकात् इरण् ।) इन्द्रः । इति त्रिकाण्डशेषः ॥

माहिषिकः, पुं, (महिष्यै रोचतेऽसौ । महिषी +

ठक् ।) महिषीपतिः । व्यभिचारिण्यनुरक्त-
पतिः ॥ यथा, --
“महिषीत्युच्यते नारी या च स्याद्व्यभिचारिणी ।
तां दुष्टां कामयतियः स वै माहिषिकः स्मृतः ॥”
इति स्कान्दे काशीखण्डम् ॥
महिषोपजीवी ॥ (महिषी नारी पण्यमस्येति ।
महिषी + “तदस्य पण्यम् ।” ४ । ४ । ५१ । इति
ठक् ।) भगद्वारोपार्ज्जितस्त्रीधनोपजीवी । यथा,
“महिषीत्युच्यते नार्य्या भगेनोपार्ज्जितं धनम् ।
उपजीवति यस्तस्याः स वै माहिषिकः स्मृतः ॥”
इति विष्णुपुराणे २ । ६ । १५ श्लोकस्य टीकायां
श्रीधरस्वामी ॥

माहिष्यः, पुं, (महिष्यां साघुरिति महिषी +

ष्यञ् ।) वर्णसङ्करजातिविशेषः । स च
क्षत्त्रियाद्बैश्यायां जातः । इत्यमरः । २ । १० । ३ ॥
(यथा, याज्ञवल्क्यसंहितायाम् । १ । ९२ ।
“वैश्याशूद्र्योस्तु राजन्यान् माहिष्योग्रौ सुतौ
स्मृतौ ॥”)

माहेन्द्रः, पुं, (महेन्द्रस्यायम् । महेन्द्र + अण् ।)

शुभदण्डविशेषः । रव्यादिसप्तवारेषु वायुवरुण-
यममाहेन्द्राणामेकैकदण्डा भवन्ति । तत्र वरुण-
माहेन्द्रयोर्द्दण्डौ शुभौ । वायुयमयोर्द्दण्डावशुभौ ।
यथा,
“ख्यातं वा व यमा सूर्य्ये मा वा व य कला
निधौ ।
व य मा वा कुजे ज्ञेया मा वा व य सुधां
शुजे ॥
गुरौ वा व य मा चैव मा वा व य तथा भृगौ ।
सूर्य्यपुत्त्रे य मा वा व घटीयुग्मं शुभाशुभम् ॥
माहेन्द्रे विजयो नित्यं वारुणे च धनागमः ।
वायौ च भ्रमते नित्यं यमेऽपि मरणं ध्रुवम् ॥”)
इति सारसंग्रहः ॥
(माहेन्द्रकायपुरुषस्य लक्षणं यथा, --
“माहात्म्यं शौर्य्यमाज्ञा च सततं शास्तबुद्धिता ।
भृत्यानां भरणञ्चापि माहेन्द्रं कायलक्षणम् ॥”
इति सुश्रुते शारीरस्थाने चतुर्थऽध्याये ॥
महेन्द्रो देवतास्येति । महेन्द्र + “महेन्द्राद्-
घाणौ च ।” ४ । २ । २९ । इति अण् ।
महेन्द्रदैवत्ये, त्रि । यथा, भट्टिकाव्ये । १५ । ९३ ।
“अविभ्रजत्ततः शस्त्रमैषीकं राक्षसो रणे ।
तदप्यध्वसदासाद्य माहेन्द्रं लक्ष्मणेरितम् ॥”)
महेन्द्रसम्बन्धिनि च । (यथा, रघौ । १२ । ८६ ।
“मातलिस्तस्य माहेन्द्रं ह्यामुमोच तनुच्छदम् ॥”)

माहेन्द्री, स्त्री, (महेन्द्रस्येयम् । महेन्द्र + अण् ।

स्त्रियां ङीष् ।) इन्द्राणी । इति शब्दरत्नावली ॥
गौः । इति राजनिर्घण्टः ॥

माहेयः, त्रि, (मही + ढक्) मह्या अपत्यम् ।

इति मुग्धबोधव्याकरणम् ॥ (जनपदभेदे, पुं ।
यथा, महाभारते । ६ । ९ । ४८ ।
“कुट्टाः परान्ता माहेयाः कक्षाः सामुद्र-
निष्कुटाः ॥”
मङ्गलग्रहः । यथा, समयामृते ।
“कफपित्तसमुद्भूतां शिरःपीडां भयावहाम् ।
माहेयः कुरुते शोकं बुधस्यान्तर्दशां गतः ॥”)

माहेयी, स्त्री, (मह्याः सुरभ्याः अपत्यमिति ।

मही + “नद्यादिभ्यो ढक् ।” ४ । २ । ९७ ।
इति ढक् । स्त्रियां ङीष् ।) गौः । इत्यमरः । २ ।
९ । ६० ॥ (यथा, महाभारते । ४ । १६ । १० ।
“सर्व्वश्वेतेव माहेथी वने जाता त्रिहायणी ।
उपातिष्ठत पाञ्चाली वासितेव महावृषम् ॥”
अस्याः पर्य्यायो यथा, --
“सुरभिः सौरभेयी च माहेयी गौरुदाहृता ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

माहेशी, स्त्री, (महेशस्येयम् । महेश + अण् +

स्त्रियां ङीष् ।) दुर्गा । यथा, --
“महादेवात् समुत्पन्ना महान्तैरीक्ष्यते यतः ।
माहेश्वर्य्या तनुर्यस्या माहेशी तेन सा स्मृता ॥”
इति देवीपुराणे ४५ अध्यायः ॥
(महेशेन कृतमित्यण् । क्ली, व्याकरणविशेषः ।
“यान्युज्जहार माहेशाद् व्यासो व्याकरणा-
र्णवात् ।
तानि किं पदरत्नानि सन्ति पाणिनिगोष्पदे ॥”
इत्युद्भटः ॥)
पृष्ठ ३/७२२

माहेश्वरी, स्त्री, (महेश्वरस्ययम् । महेश्वर + अण् ।

ङीष् ।) यवतिक्ता । इति राजनिर्घण्टः ।
दुर्गा ॥ (यथा, महाभारते । १४ । ४३ । १४ ।
“भगदेवानुयातायां सर्व्वासां वामलोचना ।
माहेश्वरी महादेवी प्रीच्यते पार्व्वती हि सा ॥”)
मातृ-भेदः । इति शब्दरत्नावली ॥ (यथा,
मन्त्रकोषे । ६ । ॐ ह्रीं नमो भगवति माहे-
श्वरि अन्नपूर्णे स्वाहा ।) विष्णुः । यथा, --
कन्या उचुः ॥
“कस्त्वं विभ्राजसे कान्त्या केयं वा नवविप्रभा ।
कोन्वयं भाति वपुषा पङ्कजायतलोचनः ॥
निशम्य तासां वचनं वृषेन्द्रवरवाहनः ।
व्याजहार महायोगी भूताधिपतिरव्ययः ॥
अयं नारायणो गौरी जगन्माता सनातनः ।
विभज्य संस्थितो देवः स्वात्मानं बहुधेश्वरः ॥
न मे विदुः परं तत्त्वं देवाद्या न महर्षयः ।
एकोऽयं देवदेवात्मा भवानी विष्णुरेव च ॥
अहं हि निष्क्रियः शान्तः केवलो नित्यविग्रहः ।
मामेव केशवं देवमाहुर्देवीमथाम्बिकाम् ॥
एष धाता विधाता च कारणं कार्य्यमेव च ।
कर्त्ता कारयिता विष्णुर्भक्तिमुक्तिफलप्रदः ॥
भोक्ता पुमानप्रमेयः संहर्त्ता कालरूपधृक् ।
स्रष्टा धाता वासुदेवो विश्वात्मा विश्वतोमुखः ॥
कूटस्थो ह्यवरो व्यापी योगी नारायणः स्वयम् ।
तारकः पुरुषो ह्यात्मा केवलं परमं पदम् ॥
एषा माहेश्वरी गौरी मम शक्तिर्निरञ्जना ।
शान्ता सत्या सदानन्दा परं पदमिति शुतिः ॥
अस्याः सर्व्वमिदं जातमत्रैव लयमेष्यति ।
एषैव सर्व्वभूतानां गतीनामुत्तमा गतिः ॥”
इति कौर्म्मे १४ अध्यायः ॥
(पीठस्थानभेदः । इति देवीभागवते । ७ । ३० । ७२ ।
महेश्वरेण कृतम् । महेश्वर + अण् । क्ली ।
उपपुराणविशेषः । यथा, देवीभागवते । १ ।
३ । १६ ।
“माहेश्वरं भागवतं वाशिष्ठञ्च सविस्तरम् ।
एतान्युपपुराणानि कथितानि महात्मभिः ॥”
महेश्वरसम्बन्धिनि, त्रि । यथा, मार्कण्डेये ।
१०९ । ७१ ।
“ब्राह्मी माहेश्वरी चैव वैष्णवी चैव ते तनुः ।
त्रिधा यस्य स्वरूपन्तु भानोर्भास्वान् प्रसीदतु ॥”)

मि डु ञ न क्षेपे । इति कविकल्पद्रुमः ॥ (भ्वा०-

उभ०-सक०-अनिट् ।) डु मित्रिमम् । ञ न
मिनोति मिनुते । इति दुर्गादासः ॥

मिच्छ, श बाधे । इति कविकल्पद्रुमः ॥ (तुदा०-

पर०-सक०-सेट् ।) श मिच्छती मिच्छन्ती ।
बाधो विहतिः । इति दुर्गादासः ॥

मितः, त्रि, (मा + क्तः “द्यतिस्यतिमास्थामित्ति

किति ।” ७ । ४ । ४० । इत्याकारस्येकारा-
देशः ।) परिमितः । शब्दितः । क्षिप्तः । इति
माधातोमिधातोश्च क्तप्रत्ययेन निष्पन्नम् ॥
(यथा, भागवते । ८ । १३ । ३६ ।
“राजंश्चतुर्द्दशैतानि त्रिकालानुगतानि ते ।
प्रोक्तान्येभिर्मितः कल्पो युगसाहस्रपर्य्ययः ॥”
यथा च नैषधचरिते । ९ । ८ ।
“मितञ्च सारञ्च वचो हि वाग्मिता ॥”)

मितङ्गमः, पुं, स्त्री, (मितं परिमितं गच्छतीति ।

गम + “प्रियवशेवदः खच् ।” ३ । २ । ३८ । इत्यत्र
“खच् प्रकरणे गमेः सुप्युपसंख्यानम् ।” इति
काशिकोक्तेः खच् । मुम् च ।) हस्ती । इति
सिद्धान्तकौमुदी ॥ परिमितगामिनि, त्रि ॥

मितद्रुः, पुं, (मितं द्रवतीति । द्रु + “हरिमितयो-

र्द्रुवः ।” उणा० १ । ३५ । इति कुः । स च
डित् ।) समुद्रः । इति हेमचन्द्रः । ४ । १३९ ॥
(परिमितगतौ, त्रि । यथा, ऋग्वेदे । ४ । ६ । ५ ।
परित्मना मितद्रुरेति होताग्निर्मन्द्रो मधुवचा
ऋता वा ।”
“मितद्रुः परिमितगतिः सन् ।” इति तद्भाष्ये
सायणः ॥ मितमार्गे च । यथा, अत्रैव । १० ।
६४ । ६ ।
“तेनो अर्वन्तोहवनश्रुतोहवं विश्वे शृण्वन्तु
वाजिनो मितद्रवः ।”
“मितद्रवो मितमार्गाः अध्वानं परिच्छिन्दन्तः ।”
इति तद्भाष्ये सायणः ॥”)

मितम्पचः, त्रि, कृपणः । इत्यमरः ॥ ३ । २ । ४८ ॥

(मितं परिमितं पचतीति । मित + पच् +
“मितनखे च ।” ३ । २ । ३४ । इति खश् ।
“अरुर्द्बिषदजन्तस्य मुम् ।” ६ । ३ । ६३ । इति
मुम् च ।) परिमितपाककर्त्ता च ॥

मिताशनः, त्रि, परिमितभोजी । मितमश्नाति यः

इति व्युत्पत्त्या कर्त्तरि (ल्यु) अनप्रत्ययेन
निष्पन्नः ॥

मितिः, स्त्री, (मीयते इति । मा + भावे क्तिन् ।)

मानम् । विज्ञानम् । अवच्छेदः । इति शब्द-
रत्नावली ॥ (यथा, कुसुमाञ्जलौ । ४६ । ४ ।
“मितिः सम्यक् परिच्छित्तिः ॥”)

मित्त्रं, क्ली, (मिनोति मानं करोति इति ।

“अमिचिमिदिशसिभ्य क्त्रः ।” उणा० ४ ।
१६३ । इति क्त्रः ।) शत्रोः परम् । इत्यमरः ।
२ । ८ । ९ ॥ अतः शत्रोः परमवस्थितो राजा
मित्त्रं उपकारित्वात् । मेद्यति स्निह्यतीति त्रासु-
सिति त्रः निपातात् गुणाभावः । द्बितकारं
एकतकारञ्चेत्येके । इति तट्टीकायां भरतः ॥
अपि च ।
“राजा शत्रुरिति ख्यात एकार्थाभिनिवेशतः ।
भूम्यैकान्तरितो राजा स मित्त्रं मित्त्रकार्य्यतः ॥”
इति शब्दरत्नावली ॥

मित्रं, क्ली, बन्धुः । मिता इति भाषा । तत्पर्य्यायः ।

सखा २ सुहृत् ३ । इत्यमरः । २ । ८ । १२ ॥
माययति जानाति सर्व्वं मित्रं मी कि गत्यां
नाम्नीति डित्रः मित्रमजहल्लिङ्गम् । निपाता-
त्तस्य द्वित्वे द्वितकारञ्च । इति तट्टीकायां
भरतः ॥ तच्चतुर्व्विधम् । सहार्थः १ भजमानः २
सहजः ३ कृत्रिमः ४ । इति महाभारते राज-
धर्म्मः ॥ * ॥ मित्रत्वोत्पत्तिर्यथा, --
“न कश्चित् कस्यचिन्मित्रं न कश्चित् कस्यचि-
द्रिपुः ।
कारणादेव जायन्ते मित्राणि रिपवस्तथा ॥”
वर्ज्यमित्रं यथा, --
कुभार्य्याञ्च कुमित्रञ्च कुराजानं कुसौहृदम् ।
कुबन्धुञ्च कुदेशञ्च दूरतः परिवर्जयेत् ॥
कुमित्रे नास्ति विश्वासः कुराजे नास्ति
जीवितम् ॥
परोक्षे कार्य्यहन्तारं प्रत्यक्षे प्रियवादिनम् ।
वर्जयेत्तादृशं मित्रं मायामयमरिन्तथा ॥”
विश्वस्तस्यैव मित्रत्वं यथा, --
“सा श्रीर्या न मदं कुर्य्यात् स सुखी तृष्णयोज्-
झितः ।
तन्मित्रं यस्य विश्वासः पुरुषः स जितेन्द्रियः ॥”
इति गारुडे १३ । १४ । १५ । अध्यायाः ॥ * ॥
मित्रप्रशंसादिर्यथा, --
“यस्य मित्रेण संभाषो यस्य मित्रेण संस्थितिः ।
यस्य मित्रेण संलापस्ततो नास्तीह पुण्यवान् ॥
यानि कानि च मित्राणि कर्त्तव्यानि शतानि च ।
पश्य मूषिकमित्रेण कपोता मुक्तबन्धनाः ॥
परोक्षे कार्य्यहन्तारं प्रत्यक्षे प्रियवादिनम् ।
वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।
यस्यार्थाः स पुमान् लोके यस्यार्थाः स हि
पण्डितः ॥
अपुत्त्रस्य गृहं शून्यं सन्मित्ररहितस्य च ।
मूर्खस्य च दिशः शून्याः सर्व्वशून्या दरिद्रता ॥”
इति हितोपदेशः ॥

मित्रः, पुं, सूर्य्यः । इत्यमरः । १ । ३ । ३० ॥

(यथा, गोः रामायणे । २ । २५ । २२ ।
“स्वस्ति मित्रः सहादित्यैः स्वस्ति रुद्रा दिशन्तु
ते ॥”)
द्वादशादित्यानामन्यतमः । यथा, महाभारते ।
१ । ६५ । १५ ।
“धाता मित्रोऽर्य्यमा शक्रो वरुणस्त्वंश एव च ।”
मरुतामन्यतमः । यथा, हरिवंशे । १९६ । ५२ ।
“मरुत्वती मरुत्वन्तो देवानजनयत् सुतान् ।
अग्निश्चक्षुर्हविर्ज्योतिः सावित्रो मित्र एव च ॥”
वशिष्ठस्य ऊर्ज्जागर्भजातः पुत्त्रभेदः । यथा,
भागवते । ४ । १ । ३७ ।
चित्रकेतुः सुरोचिश्च विरजा मित्र एव च ।
उल्वणो वसुभृद्यानो द्युमान् शक्त्य्रादयो-
ऽपरे ॥”)

मित्रयुः, त्रि, (मित्रं यातीति । या + “क्याच्छ-

न्दसि ।” ३ । २ । १७० । इति उः ।) मित्र-
वत्सलः । इति हेमचन्द्रः । ३ । १५३ ॥

मित्रयुः, पुं, (मित्रं यातीति । या + “मृगय्वाद-

यश्च ।” उणा० १ । ३८ । इति कुः । निपाति-
तश्च ।) लोकयात्रिकः । इत्युणादिकोषः ।
संक्षिप्तसारोणादिवृत्तिश्च ॥ (ऋषिभेदः सलोम-
हर्षणशिष्यः । यथा, विष्णुपुराणे । ३ । ६ । १८ ।
“सुमतिश्चाग्निवर्च्चाश्च मित्रयुः शांशपायनः ॥)
पृष्ठ ३/७२३

मित्रयुद्धं, क्ली, (मित्रेण सह युद्धम् ।) सुहृत्-

संग्रामः । तत्पर्य्यायः । मैत्रेयिका २ । इति
त्रिकाण्डशेषः ॥

मित्रलब्धिः, स्त्री, पुं, (मित्रस्य लब्धिः । यद्वा ।

मित्रस्य लब्धिर्यस्मात् ।) सुहृत्-
प्राप्तिः । यथा, हितोपदेशे ।

मित्रलाभः, स्त्री, पुं, (मित्रस्य लब्धिः । यद्वा ।

मित्रस्य लब्धिर्यस्मात् ।) सुहृत्-
प्राप्तिः । यथा, हितोपदेशे ।
“मित्रलाभः सुहृद्भेदो विग्रहः सन्धिरेव च ॥”

मित्रवत्सलः, त्रि, (मित्रस्य मित्रे वा वत्सलः ।)

मित्रप्रियः । तत्पर्य्यायः । मित्रयुः २ । इति
हेमचन्द्रः ॥

मित्रशीः, [स्] त्रि, (मित्रं शास्ति इति ।

शास् + “शास इदङ्हलोः ।” ६ । ४ । ३४ ।
इत्यत्र “क्वौ च शास इत्वं भवतीति वक्तव्यम् ।”
इति काशिकोक्तेः क्विप् इत्वं ततो दीर्घश्च ।)
सुहृच्छास्ता । मित्रं शास्ति यः । इति मुग्ध-
बोधव्याकरणम् ॥

मित्रसप्तमी, स्त्री, (मित्राय मित्रजन्मने मित्रस्य

वा सप्तमीति समासः ।) मार्गशीर्षशुक्लसप्तमी ।
यथा, --
“अदितेः कश्यपाज्जज्ञे मित्रो नाम दिवाकरः ।
मार्गशीर्षस्य मासस्य शुक्ले पक्षे शुभे तिथौ ॥
सप्तम्यां तेन सा ख्याता लोकेऽस्मिन् मित्रसप्तमी ।
तत्रोपवासः कर्त्तव्यो भक्ष्याण्यथ फलानि वा ॥”
इति श्रीगोविन्दानन्दाचार्य्यकृतसंवत्सरकौमुदी-
धृतभविष्यपुराणवचनम् ॥

मित्रा, स्त्री, (मित्र + स्त्रियां टाप् ।) सुमित्रा ।

शत्रुघ्नजननी । इति शब्दरत्नावली ॥ (अप्सरो-
विशेषः । यथा, महाभारते । १३ । १९ । ४४ ।
“अलम्बुषा घृताची च मित्रा चित्राङ्गदा
रुचिः ॥”
पराशरशिष्यमैत्रेयजननी । यथा, श्रीमद्भाग-
वते । ३ । ४ । ३५ ।
“कालिन्द्याः कतिभिः सिद्धः अहोभिर्भरतर्षभ ! ।
पापद्यत स्वःसरितं यत्र मित्रासुतो मुनिः ॥”)

मिथ ऋ ञ वधे । मेधायाम् । इति कविकल्पद्रुमः ॥

(भ्वा०-उभ०-सक०-सेट् ।) ऋ अमिमेथत् ।
ञ मेथति मेथते शास्त्रार्थं शिष्यः धारयतीत्यर्थः ।
इति दुर्गादासः ॥

मिथः, [स्] व्य, (मेथति इति मेथृसङ्गमे असुन् ।

पृषोदरादित्वात् ह्रस्वः ।) अन्योन्यम् । रहः ।
इत्यमरः । ३ । ४ । २५५ ॥ (यथा, मनुः । १० । ५३ ।
“व्यवहारी मिथस्तेषां विवाहः सदृशैः सह ॥”)

मिथिः, पुं, (मेथते हिनस्ति शत्रुकुलं इति । मिथ् +

“सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ । इति इन् ।)
निमिराजपुत्त्रः । स तु जनकराजः । यथा ।
अपुत्त्रस्य तस्य निमेर्भूभुजः शरीरमराजक-
भीरवस्ते मुनयः अरण्यां ममन्थुः । तत्र च
कुमारी जज्ञे । जननाज्जनकसंज्ञां चासाव-
वाप । अभूद्बिदेहोऽस्य पितेति वैदेहः । मथ-
नान्मिथिरभूत् । तस्योदावसुः पुत्त्रोऽभवत् । इति
विष्णुपुराणे ४ अंशे ५ अध्यायः ॥ (तथाच
रामायणे । १ । ७१ । ४ ।
“निमिः परमधर्म्मात्मा सर्व्वसत्त्ववतां वरः ।
तस्य पुत्त्रो मिथिर्नाम जनको मिथिपुत्त्रकः ॥”)

मिथिला, स्त्री, (मथ्यन्ते शत्रवो यस्याम् । मथ् +

“मिथिलादयश्च” उणा० १ । ५८ । इति इलच्
अकारस्येत्वं निपात्यते ।) स्वनामख्यातनगरी ।
सा तु जनकराजपुरी । यथा । विदेहा मिथिला
प्रोक्ता । इति हलायुधः ॥ (यथा, महाभारते ।
१ । ११३ । २८ ।
“ततः कोषं समादाय वाहनानि च भूरिशः ।
पाण्डुना मिथिलां गत्वा विदेहाः समरे
जिताः ॥”)
अपिचास्य निरुक्त्यादिकं यथा, --
“गण्डकीतीरमारभ्य चम्पारण्यान्तकं शिवे ! ।
विदेहभूः समाख्याता तैरभुक्ताभिधः स तु ॥”
इति शक्तिसङ्गमतन्त्रे ७ पटलः । तैरभुक्ता
त्रिहुत इति ख्याता ॥ तन्नामकारणं यथा, --
“अराजकभयं नॄणां मन्यमाना महर्षयः ।
देहं ममन्थुः स्म निमेः कुमारः समजायत ॥
जन्मना जनकः सोऽभूद्वैदेहस्तु विदेहजः ।
मिथिलो मथनाज्जातो मिथिला येन निर्म्मिता ॥”
इति श्रीमद्भागवते ९ स्कन्धे १३ अध्यायः ॥
अपि च ।
“निमेः पुत्त्रस्तु तत्रैव मिथिर्नाम महान् स्मृतः ।
प्रथमं भुजबलैर्येन तैरहूतस्य पार्श्वतः ।
निर्म्मितं स्वीयनाम्ना च मिथिलापुरमुत्तमम् ॥
पुरीजननसामर्थ्यात् जनकः स च कीर्त्तितः ॥”
इति भविष्यपुराणम् ॥

मिथुनं, क्ली, (मेथतीति । मिथ् + “क्षुधिपिशि

मिथः कित् ।” उणा० ३ । ५५ । इति
उनन् किद्भावाद्गुणाभावश्च ।) स्त्रीपुंसयो-
र्युग्मम् । तत्पर्य्यायः । द्बन्द्बम् २ । इत्यमरः । २ ।
५ । ३८ ॥ (यथा, रामायणे । १ । २ । १५ ।
“मानिषाद ! प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥”)
युगलम् । इति तट्टीकायां रामाश्रमः ॥ मेषादि
द्वादशराश्यन्तर्गततृतीयराशिः । तत्पर्य्यायः ।
जितुमः २ । तच्च द्बिपदं ग्राम्यं समसंज्ञकम् ।
अस्योदयस्य स्थूलमानं षट्पलाधिकपञ्चदण्डाः ।
इति ज्योतिषतत्त्वम् ॥ अस्याधिष्ठातृदेवता
गदाधारिपुरुषः वीणाधारिस्त्री च । मृगशिरः-
शेषार्द्धं आर्द्रासमुदायः पुनर्व्वसोस्त्रिपादं एतै-
र्भवति । तत्तु शीर्षोदयं पश्चिमदिक्स्वामिवायु-
प्रकृतिहरिद्बर्णं वनस्थितं शूद्रवर्णं स्निग्धं
मध्यस्त्रीसङ्गं मध्यमसन्तानञ्च । तत्र जातो जनः
मृगचक्षुः मिष्टभाषी कृशः वञ्चकः धर्म्ममतिः
विनयभाजनञ्च भवति । इति बृहज्जातकादयः ॥
अथ मिथुनलग्नजातफलम् ।
“मिथुनोदयसंजातो मानी स्वजनवत्सलः ।
त्यागी भोगी धनी कामी दीर्घसूत्रोऽरि-
मर्द्दनः ॥”
इति कोष्ठीप्रदीपः ॥ * ॥
रात्रौ तल्लग्ननिरूपणं यथा, --
“दन्तसंख्यभवने झसाकृता-
वन्तभे लसदनन्तमध्यगे ।
कोमलाङ्गि ! मिथुनोदयात् प्रिये !
कालखानलकलाः प्रियेऽचलन् ॥” ५ । ६ ।
इति कालिदासकृतरात्रिलग्ननिरूपणम् ॥

मिथ्या, व्य, (मथते इति । मथविलोडने । मेथते

हिनस्ति वेति । मथ वा मेथ + क्यप् । निपा-
तनात् साधु ।) असत्यम् । तत्पर्य्यायः । मृषा २
वितथः ३ अनृतम् ४ । इति शब्दरत्नावली ॥
मिछा इति भाषा ॥ (यथा, --
“यदसद्भासमानं तन्मिथ्या स्वाप्नगजादिवत् ।”
इति सांख्यप्रवचनभाष्यधृतम् ॥
सा चाधर्म्मपत्नी । यथा, --
“अधर्म्मपत्नी मिथ्या सा सर्व्वधूर्त्तैश्च पूजिता ।
यया विना जगन्मुक्तमुच्छन्नं विधिनिर्म्मितम् ॥
सत्ये चादर्शना या च त्रेतायां सूक्ष्मरूपिणी ।
अर्द्धावयवरूपा च द्बापरे संवृता भिया ॥
कलौ महाप्रमत्ता च सर्व्वत्र व्यापिका बलात् ।
कपटेन समं भ्रात्रा भ्रमत्येव गृहे गृहे ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १ अध्यायः ॥
अपि च ।
“अधर्म्मस्य प्रिया रम्या मिथ्या मार्ज्जार-
लोचना ।
तस्याः पुत्त्रोऽतितेजस्वी दम्भः परमकोपनः ॥
स मायायां भगिन्यान्तु लोभं पुत्त्रञ्च कन्यकाम् ।
निकृतिं जनयामास तयोः क्रोधः सुतोऽभवत् ॥”
इति कल्किपुराणे १ अध्यायः ॥
विषयभेदे मिथ्याभाषणे दोषाभावो यथा, --
शर्म्मिष्ठोवाच ।
“न नर्म्मयुक्तं वचनं हिनस्ति
न स्त्रीषु राजन्न विवाहकाले ।
प्राणात्यये सर्व्वधनापहारे
पञ्चानृतान्याहुरपातकानि ॥”
मिथ्याकथने दोषो यथा, --
“पृष्टास्तु साक्ष्ये प्रवदन्ति येऽन्यथ
भवन्ति मिथ्यापतिता नरेन्द्र ! ।
एकार्थतायान्तु समाहितायां
मिथ्या वदन्तं ह्यनृतं हिनस्ति ॥”
ययातिरुवाच ।
“राजा प्रमाणं भूतानां स विनश्येन्मृषा वदन् ।
अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्त्तुमुत्सहे ॥”
इति मात्स्ये ३१ अध्यायः ॥
अथासत्याभिधानप्रायश्चित्तम् । तत्र सकृद-
सत्यभाषणे कृष्णानुस्मरणं प्रायश्चित्तम् । यथा,
विष्णुपुराणम् ।
“कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते ।
प्रायश्चित्तन्तु तस्यैकं कृष्णानुस्मरणं परम् ॥”
अत्यन्ताभ्यासे विष्णुः । निन्दितेभ्यो धनादानं
बाणिज्यं कुसीदजीवनम् । असत्यभाषणं शूद्र-
सेवनमित्यपात्रीकरणं कृत्वा तप्तकृच्छ्रेण
शुध्यति । अतिबहुतरकालाभ्यासे मनुः ।
“सङ्करापात्रकृत्यासु मासं शोधनमैन्दवम् ।”
पृष्ठ ३/७२४
चातुर्व्वर्णवधे साक्ष्येऽनृतभाषणेऽनुपातकत्वाभा-
वाल्लघु प्रायश्चित्तमाह याज्ञवल्क्यः ।
“वर्णिनां हि वधो यत्र तत्र साक्ष्येऽनृतं वदेत् ।
तत्पावनाय निर्व्वाप्यश्चरुः सारस्वतो द्विजैः ॥”
शूद्रे तु विष्णः । तत्पावनाय कुष्माण्डीभिर्द्विजो-
ऽग्निं जुहुयात् । शूद्रश्चैकोद्दिष्टं गोदशकस्य
ग्रासं विदध्यात् । विषयविशेषेऽपवादमाह
हारीतः । सोमविक्रयकन्याविवाहभयमैथुन-
बालकसंज्ञपनं गोब्राह्मणहितञ्च कुर्व्वन् मिथ्या
न लिप्यत इति । तथा च यमः ।
“न नर्म्मयुक्तं वचनं हिनस्ति
न स्वैरवाक्यं न च मैथुनार्थे ।
प्राणात्यये सर्व्वधनापहारे
पञ्चानृतान्याहुरपातकानि ॥”
इति प्रायश्चित्तविवेकः ॥

मिथ्याचारः, त्रि, (मिथ्या आचारोऽस्य ।)

कपटाचारः । दाम्भिक इत्यर्थः । इति वक्ष्य-
माणश्लोकटीकायां श्रीधरस्वामी ॥ यथा, --
“कर्म्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स
उच्यते ॥”
इति श्रीभगवद्गीतायां ३ अध्यायः ॥

मिथ्यादृष्टिः, स्त्री, (मिथ्या च सा दृष्टिश्चेति ।)

कर्म्मफलापवादकज्ञानम् । तत्पर्य्यायः । नास्ति-
कता २ । इत्यमरभरतौ । १ । ५ । ४ ॥ असत्य-
दर्शनञ्च ॥

मिथ्याध्यवसितिः, स्त्री, (मिथ्या असत्या च सा

अध्यवसितिश्चेति ।) मिथ्याध्यवसायः । अस-
त्योत्साहः । इति केचित् ॥

मिथ्यानिरसनं, क्ली, (मिथ्या असत्यं निरस्यते

अनेन । निर् + अस् + करणे ल्युट् ।) शपथः ।
इत्यमरटीकायां भरतः ॥

मिथ्याभियोगः, पुं, (मिथ्या असत्यमभियोगः ।)

मिथ्यावादः । शतं मे धारयसीत्यादि मिथ्यो-
द्भावनम् । तत्पर्य्यायः । अभ्याख्यानम् २ ।
इत्यमरभरतौ ॥

मिथ्याभिशंसनं क्ली, (मिथ्या असत्यस्य अभिशंसनं

कथनम् ।) स्वर्णस्तेयं त्वया कृतमित्यादि मिथ्या-
दूषणं वाक्यम् । तत्पर्य्यायः । अभिशापः २ ।
इत्यमरभरतौ ॥

मिथ्याभिशापः, पुं, (मिथ्या अभिशापः ।)

मिथ्यापवादः । यथा, भोजराजः ।
“शुक्लपक्षे चतुर्थ्यान्तु सिंहे चन्द्रस्य दर्शनम् ।
मिथ्याभिशापं कुरुते न पश्येत्तत्र तं ततः ॥”
इति तिथ्यादितत्त्वम् ॥

मिथ्यामतिः, स्त्री, (मिथ्या चासौ मतिश्चेति ।)

भ्रान्तिः । इत्यमरः । १ । ५ । ४ ॥ असत्य-
बुद्धिश्च ॥

मिथ्यासाक्षी, [न्] त्रि, (मिथ्याभाषी साक्षी-

साक्षाद् द्रष्टा चेति ।) कूटसाक्षी । तस्य ज्ञान-
प्रकारमाह याज्ञवल्क्यः ।
“उक्तेऽपि साक्षिभिः साक्ष्ये यदन्ये गुणवत्तमाः ।
द्विगुणा वान्यथा ब्रूयुः कूटाः स्युः पूर्ब्ब-
साक्षिणः ॥”
मिथ्यासाक्ष्यकथने दोषमाह याशवल्क्यः ।
“ये पातककृतां लोका महापातकिनां तथा ।
अग्निदानाञ्च ये लोका ये च स्त्रीबालघाति-
नाम् ॥
एतान् सर्व्वानवाप्नोति यः साक्ष्यमनृतं वदेत् ।
सुकृतं यत्त्वया किञ्चित् जन्मान्तरशतैः कृतम् ।
तत् सर्व्वं तस्य जानीहि यं पराजयसे मृषा ॥”
इति मिताक्षरा ॥

मिथ्योत्तरं, क्ली, (मिथ्या असत्यमुत्तरं ।) चतुर्धो-

त्तरान्तर्गतोत्तरविशेषः । तस्य लक्षणम् ।
“अभियुक्तोऽभियोगस्य यदि कुर्य्यादपह्नवम् ।
मिथ्या तत्त विजानीयादुत्तरं व्यवहारतः ॥”
इति नारदः ॥
तच्चतुर्व्विधम् । मिथ्यैतत् १ अहं नाभिजानामि
२ मम तत्र न सन्निधिः ३ तत्कालेऽहमजातः
४ । यथा, व्यासनारदौ ।
“मिथ्यैतन्नाभिजानामि मम तत्र न सन्निधिः ।
अजातश्चास्मि तत्काले इति मिथ्या चतु-
र्व्विधम् ॥”
इति व्यवहारतत्त्वम् ॥

मिद इ क स्निहि । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-अक०-सेट् ।) इ क मिन्दयति वर्त्तिका
तैलेन । इति दुर्गादासः ॥

मिद इर् य आ स्निहि । इति कविकल्पद्रुमः ॥

(दिवा०-पर०-अक०-सेट् ।) इर् अमिदत्
अमेदीत् । य इति व्यायामशीलोऽसौ महा-
कायो न मेद्यतीति हलायुधः । आ मेदितं
मिन्नं तेन । इति दुर्गादासः ॥

मिद ऋ ञ वधमेधयोः । इति कविकल्पद्रमः ॥

(भ्वा०-उभ०-सक०-सेट् ।) ऋ अमिमेदत् ।
ञ मेदति मेदते शास्त्रार्थं शिष्यो धारयती-
त्यर्थः । मिमिदुः मिमेदुः । इति दुर्गा-
दासः ॥

मिद, ऌ आ ञि ङ स्निहि । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-सक०-सेट् ।) ऌ अमिदत् ।
ञि मिन्नोऽस्ति । ङ मेदते । इति दुर्गादासः ॥

मिद, क स्निहि । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-अक०-सेट् ।) क मेदयति वर्त्तिका तैलेन ।
इति दुर्गादासः ॥

मिन्मिनः, त्रि, सानुनासिकवाग्विशिष्टः । खोना

इति भाषा । तस्य निदानं यथा, --
“आवृत्य वायुः सकफो धमनीः शब्दवाहिनीः ।
नरान् करोत्यक्रियकान् मूकमिन्मिनगद्गदान् ॥”
इति माधवकरः ॥
अक्रियकान् इत्यत्रावचनानिति च पाठः ।
अवचनान् अत्रेषदर्थे नञ् । तेन ईषद्वचनान् ।
स एव वायुः प्रबलश्चेत्तदा मूकान् अवचनान् ।
मिन्मिनान् सानुनासिकान् । गद्गदान् लुप्तपद-
व्यञ्जनाभिधायिनः करोतीत्यन्वयः । एषां
समानकारणत्वेऽपि दुष्टेरुत्कर्षादिना अदृष्ट-
वशाद्वा भेदो बोद्धव्यः ॥ * ॥ अथ तेषां चिकित्सा ।
“प्रस्थं घृतस्य पलिकैः शिग्रुवचालवणधातकी
लोध्रैः ।
आजे पयसि विपक्वं सिद्धं सारस्वतं नाम्ना ॥
विधिवदुपयुज्यमानं जडगद्गदमूकतां क्षणात्
जित्वा ।
स्मृतिमतिमेधाप्रतिभाः कुर्य्यात् संस्पष्टवाग्-
भवति ॥
सारस्वतं घृतम् ।
“सहरिद्रा वचा कुष्ठं पिप्पली विश्वभेषजम् ।
अजाजी चाजमोदा च यष्टीमधुकसैन्धवम् ॥
एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ।
तच्चूर्णं सर्पिषालोड्य प्रत्यहं भक्षयेन्नरः ॥
एकविंशतिरात्रेण भवेच्छ्रुतिधरो नरः ।
मेघदुन्दुभिनिर्घोषो मत्तकोकिलनिस्वनः ॥”
इति भावप्रकाशस्य द्बितीये भागे मध्यखण्डे
वातव्याध्यधिकारे ॥

मिल, श ञ श्लिषि । इति कविकल्पद्रुमः ॥ (तुदा०-

उभ०-अक०-सेट् ।) श्लिषि सम्बन्धीभावे । श ञ
मिलति मिलते लता वृक्षेण । अयं कुटादि-
रिति कुलचन्द्रः । तेन व्यालनिलयमिलनेन
गरलमिव कलयति मलयसमीरम् । इति जय-
देवः । मिलिष्यन्ति ।
“महापातकिनः पञ्च मिलितव्यं न तैः सह ।”
इति दुर्गादासः ॥

मिलितः, त्रि, मिलधातोः कर्त्तरि क्तप्रत्ययेन

निष्पन्नः । श्लिष्टः । सम्बन्धषिशिष्टः । युक्तः ।
(यथा, देवीभागवते । १ । ११ । ८० ।
“पुनर्विवादः सञ्जातो मिलिता देवदानवाः ।
युद्धार्थमागतास्तेषां समाजः समजायत ॥”)

मिव, इ सेके । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) इ मिम्बति । इति दुर्गा-
दासः ॥

मिश, ध्वनौ । कोपे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ।) मेशति । इति दुर्गादासः ॥

मिशिः, स्त्री, (मिश + इन् ।) मधुरिका । शत-

पुष्पा । इत्यमरटीकायां मरतः ॥ जटामांसी ।
इति शब्दरत्नावली ॥

मिशी, स्त्री, (मिशि + कृदिकारादिति पक्षे

ङीष् ।) जटामांसी । इति शब्दरत्नावली ॥
मधुरिका । इत्यमरटीकायां भरतः ॥

मिश्र, त् क युत्याम् । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-सक०-सेट् ।) तालव्यमध्योऽयम् ।
दन्त्यमध्य इति वर्णदेशनायाम् । युतिः संयो-
जनम् । मिश्रयति मिश्रापयति घृतेनान्नं
लोकः । इति दुर्गादासः ॥

मिश्रं, क्ली, (मिश्र + बाहुलकात् रक् ।) चाणक्य-

मूलकम् । इति राजनिर्घण्टः ॥ मिश्रितम् ।
यथा, --
“केचिदाहुः क्वचिद्देशे यावत्तु दिननाडिकाः ।
तावदेव त्वनध्यायो न तन्मिश्रे दिनान्तरे ॥”
इति तिथ्यादितत्त्वम् ॥
पृष्ठ ३/७२५

मिश्रः, पुं, (मिश्र + बाहुलकात् रक् ।) गजजाति-

विशेषः । यथा, --
“भद्रो मन्दो मृगो मिश्रश्चतस्रो गजजातयः ।”
इति हेमचन्द्रः । ४ । २८४ ॥
श्रेष्ठः । यथा । गौरवितास्त्वार्य्यमिश्राः । इति
भूरिप्रयोगः ॥ संयुक्ते, त्रि । यथा, --
“करम्बः कवरो मिश्रः संपृक्तः खचितः समाः ।
इति हेमचन्द्रः । ६ । १०५ ॥
उग्रादिसप्तगणान्तर्गतसप्तमगणः । स तु कृत्तिका
विशाखाभ्यां भवति । इति ज्योतिषतत्त्वम् ॥

मिश्रकं, क्ली, (मिश्र + कन् ।) देवोद्यानम् । इति

जटाधरः ॥ औषरलवणम् । इति राज-
निर्घण्टः ॥ (मिश्र + ण्वुल् । त्रि, मिश्रणकर्त्ता ।
यथा, मनौ । ११ । ५० ।
“पिशुनः पौतिनासिक्यं सूचकः पूतिवक्त्रताम् ।
धान्यचौरोऽङ्गहीनत्वमातिरैक्यन्तु मिश्रकः ।”
तीर्थभेदः । यथा, महाभारते । ३ । ८३ । ८२ ।
“ततो गच्छेत धर्म्मज्ञ ! मिश्रकं लोकविश्रुतम् ।
तत्र तीर्थानि राजेन्द्र ! मिश्रितानि महा-
त्मना ॥”)

मिश्रकावणं, क्ली, (मिश्रकाणां वनम् । “वनगिर्य्योः

संज्ञायां कोटरकिंशुलकादीनाम् ।” ६ । ३ ।
११७ । अकारस्याकारः “वनं पुरगामिश्रका-
सिध्रकाशारिकाकोटराग्रेभ्यः ।” ८ । ४ । ४ ।
इति णत्वम् ।) इन्द्रस्योद्यानम् । यथा, --
“नन्दनं कन्दसारं स्यान्मिश्रकावणमित्यपि ।”
इति त्रिकाण्डशेषः ॥

मिश्रजः, पुं, (मिश्रात् भिन्नजातीययोः सम्मेलनात्

जात इति । जन + डः ।) खेसरः । इति
राजनिर्घण्टः ॥

मिश्रणं, क्ली, मिश्रधातोर्भावेऽनट् (ल्युट्) प्रत्य-

येन निष्पन्नम् । संयोजनम् । एकत्रीकरणम् ।
(यथा, प्रबोधचन्द्रोदये । २ । ५ ।
“तदेतैर्वाङ्मिश्रणमपि गुरुतरदुरितोदयाय ॥”)

मिश्रपुष्पा, स्त्री, (मिश्राणि परस्परं संश्लिष्टानि

पुष्पाण्यस्याः ।) मेथिका । इति राजनिर्घण्टः ॥

मिश्रवर्णं, क्ली, (मिश्रः मिलितः वर्णोऽस्य ।)

कृष्णागुरु । इति राजनिर्घण्टः ॥ नानावर्ण-
युक्तं, त्रि ॥

मिश्रवर्णफला, स्त्री, (मिश्रवर्णं फलमस्याः ।)

वात्ताकी । इति राजनिर्घण्टः ॥

मिश्रशब्दः, पुं, (मिश्रः मिलितः अश्वरासभयो-

रिव शब्दोऽस्य ।) खेसरः । इति राजनिर्घण्टः ॥

मिश्रितं, त्रि, (मिश्रः श्रेष्ठत्वमस्य संजातम् । मिश्र

+ इतच् । यद्बा, मिश्र + क्तः ।) गौरवितम् ।
इति जटाधरः ॥ मिलितञ्च ॥

मिश्रिता, स्त्री, (मिश्रित + टाप् ।) मन्दादि-

सप्तधासंक्रान्त्यन्तर्गतसंक्रान्तिविशेषः । यथा,
“मन्दा ध्रुवेषु विज्ञेया मृदौ मन्दाकिनी तथा ।
क्षिप्रे ध्वाङ्क्षीं विजानीयादुग्रे घोरा प्रकी-
र्त्तिता ॥
चरैर्महोदरी ज्ञेया क्रूरैरृक्षैस्तु राक्षसी ।
मिश्रिता चैव विज्ञेया मिश्रितर्क्षैस्तु संक्रमे ॥”
इति तिथ्यादितत्त्वम् ॥

मिश्रेया, स्त्री, मधुरिका । इत्यमरः । २ । ४ । १०५ ॥

मौरि इति भाषा ।
“मिश्रेया सुरसा पेया तृषाहा स्कन्दबन्धना ।”
इति शब्दचन्द्रिका च ॥ शाकविशेषः । शत-
पुष्पा । शलुफा इति भाषा । तत्पर्य्यायः ।
ताल्लपर्णी २ तालपर्णी ३ मिषिः ४ शालेया ५
शीतशिवा ६ शालीना ७ वनजा ८ अवाक्-
पुष्पी ९ मधुरिका १० छत्रा ११ संहित-
पुष्पिका १२ सुपुष्पा १३ सुरसा १४ बल्या १५ ।
अस्या गुणाः । मधुरत्वम् । स्निग्धत्वम् ।
कटुत्वम् । परमकफहरत्वम् । वातपित्तोत्थ-
दोषप्लीहजन्तुविनाशित्वञ्च । इति राजनिर्घण्टः ।
तत्पर्य्यायगुणाः ।
“शतपुष्पा शताह्वा च मधुरा कारवी मिसिः ।
अतिच्छत्रा सितच्छत्रा संहितच्छत्रिकापि च ॥
छत्रा शालेयशालिन्यौ मिश्रेया मधुरा मिषिः ।
शतपुष्पा लघुस्तीक्ष्णा पित्तकृद्दीपनी कटुः ॥
उष्णा ज्वरानिलश्वासव्रणशूलाक्षिरोगहृत् ।
मिश्रेया तद्गुणा प्रोक्ता विशेषाद्यीनिशूलनुत् ॥
अग्निमान्द्यहरी हृद्या बद्धविट्कृमिशूलहृत् ।
रूक्षोष्णा पाचनी कासवमिश्लेष्मानिलान्
हरेत् ॥”
इति भावप्रकाशः ॥

मिष उ सेचने । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) उ मेषित्वा मिष्ट्वा । इति
दुर्गादासः ॥

मिष श स्पर्द्धे । इति कविकल्पद्रुमः ॥ (तुदा०-

पर०-सक०-सेट् ।) स्पर्द्धः पराभिभवेच्छा । इति
वोपदेवः ॥ श मिषति बली बलवन्तम् । इति
दुर्गादासः ॥

मिषं, क्ली, (मिष् + कः ।) छलम् । इति मेदिनी ।

षे, २१ ॥ (यथा, नैषधे । १ । ११८ ।
“प्रियासु बालासु रतक्षमासु च
द्बिपत्रितं पल्लवितञ्च बिभ्रतम् ।
स्मरार्जितं रागमहीरुहाङ्कुरं
मिषेण चञ्च्वाश्चरणद्वयस्य च ॥”)

मिषः, पुं, (मिष् + कः ।) स्पर्द्धनम् । इति मेदिनी ।

षे, २१ ॥ (यथा, कथासरित्सागरे । ६४ ।
१२५ ।
“इति ध्यायन् मिषं कृत्वा तदैवास्फुटया गिरा ।
निर्गत्यैव विरक्तात्मा धनदेवान्तिकं ययौ ॥”)

मिषिः स्त्री, (मिष् + इन् ।) जटामांसी । इति

शब्दरत्नावली ॥ मधुरिका । इति शब्द-
चन्द्रिका ॥ (यथास्य पर्य्यायः ।
“अवाक्पुष्पी च छत्रा स्यान्मङ्गल्या मधुरा
मिषिः ।”
इति वैद्यकरत्नमालायाम् ॥)
शतपुष्पा । इत्यमरटीकायां भरतः ॥

मिषिका, स्त्री, (मिषि + कन् + टाप् ।) जटा-

मांसी । इति शब्दरत्नावली ॥

मिष्टं, त्रि, सिक्तम् । स्पर्द्धितम् । इति मिष्धातोः

क्तप्रत्ययेन निष्पन्नम् ॥

मिष्टः, पुं, (मिष् + क्तः ।) मधुररसः । यथा,

“मिष्टः कटुश्च मधुरमम्लेऽम्लं पच्यते रसः ।
कटुतिक्तकषायाणां पाकः स्यात् प्रायशः कटुः ॥”
इति भावप्रकाशः ॥
“नूतनसर्षपशाकं नवौदनं पिच्छिलानि च
दधीनि ।
अल्पव्ययेन सुन्दरि ! ग्राम्यजनो मिष्ट-
मश्नाति ॥”
इति छन्दोमञ्जरी च ॥

मिष्टपाकः, पुं, (मिष्टेन पाको यस्य ।) शर्क्करा-

रसपक्वफलादिः । मोरव्वा इति पारस्यभाषा ॥
तदेकप्रकारो यथा । अपक्वाम्रं द्बिखण्डं कृत्वा
तद्गात्रे शलाकया छिद्रजालकरणान्तरं चूर्ण-
मिश्रितजले दण्डचतुष्टयं स्थापयित्वा जलेन
धौतं कुर्य्यात् । ततो जलेन सिद्धं कृत्वा जल-
त्यागपूर्ब्बकमेकतारबद्धशर्क्करारसे मग्नकरणा-
नन्तरं तापं दद्यात् । रसे घनीभूते अर्द्धदण्डं
यावत् तापेन निष्पन्नो भविष्यति । इति पाक-
राजेश्वरः ॥

मिष्टान्नं, क्ली, (मिष्टमन्नम् ।) मधुरद्रव्यम् । इति

हलायुधः ॥ अपि च ।
“मिष्टान्नपानदाताथ सततं श्रद्धयान्वितः ।
देवपूजापरो नित्यं न प्रेतो जायते मृतः ॥”
इत्यग्निपुराणम् ॥

मिसिः, स्त्री, (मस्यति परिणमतीति + इन्

बाहुलकादत इकारः । पक्षे ङीष् ।)
मधुरिका । (यथास्य पर्य्यायः ।

मिसी, स्त्री, (मस्यति परिणमतीति + इन्

बाहुलकादत इकारः । पक्षे ङीष् ।)
मधुरिका । (यथास्य पर्य्यायः ।
“मिसिर्मधुरिका मता ।”
इति गारुडे । २०८ अः ॥) जटामांसी । शत-
पुष्पा । इत्यमरभरतौ ॥ (शतपुष्पार्थे पर्य्यायो
यथा, --
“शतपुष्पा शताह्वा च मधुरा कारवी मिसिः ।
अतिलम्बी सितच्छत्रा संहितच्छत्रिकापि च ॥
छत्रा शालेयशालिन्यौ मिश्रेया मधुरा मिषिः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
उशीरी । इति राजनिर्घण्टः ॥ अजमोदा ।
इति मेदिनी । से, ८ ॥

मिस्र त् क युत्याम् । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् ।) तालव्यमध्योऽयम् । दन्त्य-
मध्य इति वर्णदेशनायाम् । युतिः संयोजनम् ।
मिस्रयति मिस्रापयति घृतेनान्नं लोकः । इति
दुर्गादासः ॥

मिह औ सेचने । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-अनिट् ।) औ अमिक्षत । इति
दुर्गादासः ॥

मिहिका, स्त्री, (मेहति स्निह्यतीति । मिह +

संज्ञायां क्वुन् टाप् अत इत्वम् ।) नीहारः ।
इति शब्दरत्नावली ॥ (यथा, नैषधे । १९ । ३५ ।
“विशति युवतित्यागे रात्रीमुचं मिहिकारुचम् ।
दिनमणिमणिं तापेचित्तान्निजाच्च यियासति ॥”)
पृष्ठ ३/७२६

मिहिरः, पुं, (मेहयति सेचयति मेघजलेन भूमि-

मिति । मिह + “इषिमदिमुदिखिदिच्छिदि-
भिदिमन्दिचन्दितिमिमिहीति ।” उणा० १ ।
५२ । इति किरच् ।) सूर्य्यः । (यथा, मार्क-
ण्डेये । १०७ । ७ ।
“भव तिमिरासवपानमदात्
भवति विलोहितविग्रहात् ।
मिहिर ! विभासि यतः सुतरां
त्रिभुवनभावनभानिकरैः ॥”)
अर्कवृक्षः । इत्यमरः । १ । ३ । २९ ॥ वृद्धः ।
इति मेदिनीशब्दरत्नावल्यौ । रे, २०४ ॥ मेघः ।
इति हेमचन्द्रः । २ । ११ ॥ वायुः । चन्द्रः ।
इति नानार्थरत्नमाला ॥ विक्रमादित्यभूपस्य
नवरत्नान्तर्गतरत्नविशेषः । यथा, --
“धन्वन्तरिक्षपणकामरसिंहशङ्कु-
वेतालभट्टघटकर्परकालिदासाः ।
ख्यातो वराहमिहिरो नृपतेः सभायां
रत्नानि वै वररुचिर्नव विक्रमस्य ॥”
इति नवरत्नम् ॥

मिहिराणः, पुं, (मिहिरेणाप्यण्यतेस्तूयत इति ।

अण् + घञ् ।) शिवः । इति त्रिकाण्डशेषः ॥

मी ओ ग ञ वधे । इति कविकल्पद्रुमः ॥

(क्रा०-उभ०-सक०-सेट् ।) ओ मीनः । ग ञ
मीनाति मीनीते । इति दुर्गादासः ॥

मी कि गत्याम् । मत्याम् । इति कविकल्पद्रुमः ॥

(चुरा०-पक्षे भ्वा०-सक०-अनिट् ।) कि माय-
यति मयति । इति दुर्गादासः ॥

मी ङ य वधे । इति कविकल्पद्रुमः ॥ (दिवा०-

आत्म०-सक० अनिट् ।) ङ य मीयते । इति
दुर्गादासः ॥

मीढं, त्रि, मूत्रितम् । इत्यमरः । ३ । १ । ९६ ॥

द्वे कृतमूत्रोत्सर्गे । मिहौ सिचि मूत्रत् क
प्रसावे आभ्यां धात्वर्थेनोपसंग्रहादकर्म्मत्वात्
कर्त्तरि क्तः । इति भरतः ॥

मीढष्टमः, पुं, (मीढ्वस् तमप्प्रत्ययेन पृषोदरादि-

त्वात् साधुः ।) शिवः । यथा, --
“तदा सर्व्वाणि भूतानि ! श्रुत्वा मीढुष्टमोदितम् ।
परितुष्टात्मभिस्तात साधु साध्वित्यथाब्रुवन् ॥”
इति श्रीमद्भागवते ४ स्कन्धे ६ अध्यायः ॥
“मीढुष्टमः शिवस्तेनोक्तम् ।” इति तट्टीकायां
श्रीधरस्वामी ॥

मीढ्वान्, [स्] पुं, (मिह सेचने । “दाश्वान्

साह्वान् मीढ्वांश्च ।” ६ । १ । १२ । इति
छन्दसि क्वसुः । द्वित्वाभावः अनिट्त्वं उपधा-
दीर्घत्वं ढत्वञ्च निपात्यते ।) शिवः । यथा, --
“ततो मीढ्वांसमामन्त्र्य सुनासीराः सहर्षिभिः ।
भूयस्तद्देवयजनं समीढ्वद्वेधसो ययुः ॥”
इति श्रीमद्भागवते ४ स्कन्धे ६ अध्यायः ॥
“मीढ्वांसं शिवं मीढुषा वेधसा च वर्त्तमानाः ।”
इति तट्टीकायां श्रीधरस्वामी ॥ (वर्षितरि, त्रि ।
यथा, ऋग्वेदे । २ । २४ । १ ।
“यथा नो मीढ्वान् स्तवते सखा तव बृहस्पते ।”
“मीढ्रान् सेक्ता स्तुतेर्वर्षिता ।” इति तद्भाष्ये
सायणः ॥)

मीनः, पुं, (मीयते इति मीञ् हिंसायाम् । “फेन-

मीनौ ।” उणा० ३ । ३ । इति नक् निपातितश्च ।)
मत्स्यः । इत्यमरः । १ । १० । १७ ॥ (यथा,
भागवते । ३ । २ । ८ ।
“दुर्भगो वत् लोकोऽयं यदवो नितरामपि ।
ये संवसन्तो न विदुर्हरिं मीन इवोडुपम् ॥”)
मेषादिद्वादशराश्यन्तर्गतान्तिमराशिः । तत्-
पर्य्यायः । अन्त्यभम् २ । स च पूर्ब्बभाद्रपदा-
शेषपादोत्तरभाद्रपदारेवतीसमुदायेन भवति ।
अस्याधिष्ठातृदेवता स्त्रीमत्स्यद्बयं स च कीट-
संज्ञः । जलजः । सौम्यः । अङ्गना । युग्मः ।
समः । द्व्यात्मकः । भक्ष्यः । उत्तरदिङ्नाथः ।
गुरुक्षेत्रम् । दिनात्मकश्च । इति ज्योतिस्तत्त्वम् ॥
अपि च । शीर्षपृष्ठोदयः । चरणरहितः ।
कफप्रकृतिः । जलचारी । निःशब्दः । पिङ्गल-
वर्णः । स्निग्धः । अत्यन्तस्त्रीसङ्गः । बहु-
सन्तानः । ब्राह्मणवर्णः । श्लथाङ्गश्च । तत्र
जातः अतिक्रोधनः । शीघ्रगतिः । अशुचिः ।
कर्म्मभोगी । प्रचुरविवाहश्च भवति । इति
बृहज्जातकादयः ॥ अपि च ।
“मीनलग्ने समुत्पन्नो रत्नकाञ्चनपूरितः ।
अल्परोमा महाप्राज्ञो दीर्घकालपरीक्षकः ॥”
इति कोष्ठीप्रदीपः ॥ * ॥
रात्री तल्लग्ननिरूपणं यथा । सूर्पाकारतारा-
चतुष्टयात्मकपूर्ब्बाषाढानक्षत्रे मस्तकोपरि दृष्टे
सति मीनलग्नस्य १ । ४९ ऊनपञ्चाशत्पला-
धिकैकदण्डो भवति । प्रकारान्तरे । सूर्पाकृति-
ताराचतुष्टयात्मकोत्तराषाढानक्षत्रे मस्तको-
परि उदिते सति मीनलग्नस्य २ । ३६ षट्-
त्रिंशत्पलाधिकदण्डद्वयं भवति । यथा, --
“सूर्पमूर्त्तिनि शिरोगते
चतुस्तारके करिकरोरुवारिभे ।
अन्त्यभादमृतवाणि ! निर्गताः
खेचराम्बरशशाङ्कलिप्तिकाः ॥ दं १ । ४९ ।
शीर्षभाजिभचतुष्टयाङ्किते
विश्वभे तरुणि सूर्पकाकृतौ ।
भ्रूतिरस्कृतमनोजकार्मुके !
यान्ति कालतिथिलिप्तिका झषात् ॥”
दं २ । ३६ ॥
इति कालिदासकृतरात्रिलग्ननिरूपणम् ॥ * ॥
भगवद्दशावतारान्तर्गतप्रथमावतारः । यथा,
“शेते स चित्तशयने मम मीन कूर्म्म-
कोलोऽभवन् नृहरिवामनजामदग्न्यः ।
योऽभूद्बभूव भरताग्रजकृष्णबुद्धः
कल्की सताञ्च भविता प्रहरिष्यतेऽरीन् ॥”
इति मुग्धबोधव्याकरणम् ॥
अस्य विवरणं मत्स्यशब्दे द्रष्टव्यम् ॥ * ॥
विशेषस्त्वत्र कथ्यते ।
“प्रकृतिर्विष्णुरूपा च पुंरूपश्च महेश्वरः ।
एवं प्रकृतिभेदेन भेदास्तु प्रकृतेर्दश ॥
कृष्णरूपा कालिका स्याद्रामरूपा च तारिणी ।
वगला कूर्म्ममूर्त्तिः स्यान्मीनो धूमावती भवेत् ॥
छिन्नमस्ता नृसिंहः स्याद्वराहश्चैव भैरवी ।
सुन्दरी जामदग्न्यः स्याद्बामनो भुवनेश्वरी ॥
कमला बौद्धरूपा स्यात् मातङ्गी कल्किरूपिणी ।
स्वयं भगवती काली कृष्णस्तु भगवान् स्वयम् ॥
स्वयञ्च भगवान् कृष्णः कालीरूपो भवेद्व्रजे ।”
दुर्गा स्यात् कल्किरूपिणीति पाठान्तरम् ।
इति मुण्डमालातन्त्रम् ॥

मीनकेतनः, पुं, (मीनः केतने अस्य ।) कन्दर्पः ।

इत्यमरः । १ । १ । २६ ॥ (यथा, दशकुमार-
चरिते । ५ ।
“अथ मीनकेतनसेनानायकेन ।”

मीनगोधिका, स्त्री, (मीनगोधिकानामावासोऽत्र ।)

जलाशयः । यथा, --
‘पल्वलं दीर्घिका वापी यष्टिका मीनगोधिका ।’
इति त्रिकाण्डशेषः ॥

मीनघाती, [न्] पुं, (मीनं हन्तीति । हन +

णिनिः ।) वकः । इति राजनिर्घण्टः ॥ मत्स्य-
घातके, त्रि ॥

मीननेत्रा, स्त्री, (मीनस्य नेत्राकारा ग्रन्थि-

रस्याः ।) गण्डदूर्व्वा । इति राजनिर्घण्टः ॥

मीनरः, पुं, (मीनाः भक्ष्यत्वेन सन्त्यस्य । मीन +

“वुञ् छण्कठजिलेति ।” ४ । २ । ८० । इति
अश्मादित्वात् रः ।) हारकः । इति त्रिकाण्ड-
शेषः ॥ हाङ्गर इति भाषा ॥

मीनरङ्कः, पुं, (मीनरङ्ग । पृषोदरादित्वात्

साधुः ।) मत्स्याशनपक्षी । इति त्रिकाण्ड-
शेषः । माछराङ्गा इति भाषा ॥ क्वचित् पुस्तके
मत्स्यरङ्ग इत्यपि पाठः ॥

मीना, स्त्री, उषाकन्या । सा तु कश्यपभार्य्या ।

यथा, वह्निपुराणे ।
“उषायास्तु प्रवक्ष्यामि सर्गं पञ्च सुतास्ततः ।
मीना मेना तथा वृत्ता अनुवृत्ता तथैव च ॥
परिवृत्ता च विज्ञेया तासाञ्च शृणुत प्रजाः ।”

मीनाण्डी, स्त्री, शर्करा । इति राजनिर्घण्टः ॥

(विशेषोऽस्याः शर्कराशब्दे विधेयः ॥)

मीनाम्रीणः, पुं, दर्दुराम्रः । खञ्जनः । इति

मेदिनी । णे, १०५ ॥

मीनालयः, पुं, (मीनानामालयः ।) समुद्रः । इति

धनञ्जयः ॥

मीनाक्षी, स्त्री, (मीनस्याक्षिणी इव अक्षिणी

अस्याः ।) मत्स्याक्षी । गण्डदूर्व्वा । इति राज-
निर्घण्टः ॥ कुवेरकन्या । इति पुराणम् ॥

मीम ऋ शब्दे गतौ । इति कविकल्पद्रुमः ॥

(भ्वा०-शब्दे अक०-गतौ सकं पर०-सेट् ।) ऋ
अमिमीमत् । इति दुर्गादासः ॥

मीमांसकः, पुं, (मीमांसामधीते वेद वेति ।

मीमांसा + “क्रमादिभ्यो वुन् ।” ४ । २ । ६१ ।
इति वुन् ।) मीमांसाशास्त्रवेत्ता । तत्पर्य्यायः ।
सिद्धान्ती २ । इति जटाधरः ॥ मीमांसा-
शास्त्राध्येता च । (विषयोऽस्य यथा, --
पृष्ठ ३/७२७
“द्रव्यत्वं तमसोऽपि शोभनधियां मीमांसकानां
मतम् ।”
छायायास्तमसश्चापि सम्बन्धात्गुणकर्म्मणोः ।
द्रव्यत्वं केचिदिच्छन्ति मीमांसकमताश्रयाः ॥”
इति वैद्यकराजबल्लभकृतवादार्थदर्पणे प्रथम-
श्लोके ॥)
पूर्ब्बमीमांसासूत्रकर्त्ता जैमिनिः । वृत्तिकर्त्ता
कुमारिलभट्टः । भाष्यकर्त्ता शवरस्वामी ।
प्रभाकरः कुमारिलभट्टस्य छात्रः । स एव
गुरुत्वेन भण्यते । तन्मतं गुरुमतम् तच्छिष्याः
प्राभाकराः । अतएव स्मार्त्तभट्टाचार्य्येण प्राभा-
करैरभिहितमित्युक्तम् । उत्तरमीमांसासूत्र-
कर्त्ता वेदव्यासः । तस्य भाष्यकर्त्ता शङ्करा-
चार्य्यः । स च अद्वैतवादी । रामानुजः विशिष्टा-
द्वैतवादी । माध्वः द्बैतवादी च ॥ (यथा,
भक्तिरसामृतसिन्धौ । १ । १ । ३ ।
“मीमांसको बडवाग्नेः कठिनामपि
कुण्ठयन्नसौ जिह्वाम् ॥”)

मीमांसा, स्त्री, (मानविचारे + “मान् बधदान्

शानभ्यो दीर्घश्चाभ्यासस्य ।” ३ । १ । ६ । इति सन् ।
अः टाप् । अभ्यासस्येकारस्य दीर्घश्च ।) षड्-
दर्शनान्तर्गतदर्शनशास्त्रविशेषः । तत्पर्य्यायः ।
विचारणा २ । इति हेमचन्द्रः । २ । १६५ ॥ अस्या
अध्याया विंशतिः । तत्र पर्ब्बमीमांसा द्वादशा-
ध्यायात्मिका जैमिनिप्रणीता यज्ञादिकर्म्मकाण्ड-
निरूपिका । अस्या अन्तर्गतानि लोकव्यव-
हारनियमार्थं मनुयाज्ञवल्क्यादिभिः बहूनि
धर्म्मशास्त्राणि कृतानि । तत्रोत्तरमीमांसा
चतुरध्यायात्मिका वेदव्यासप्रणीता ब्रह्मनिरू-
पिका । अस्या नाम वेदान्तः । अपराध्याय-
चतुष्टयं सङ्कर्षणप्रणीतं उपासनाकाण्डं षड्-
दर्शनबहिर्भूतम् ॥ * ॥ प्रमाणादयः प्रसङ्गान्ता
द्वादश पदार्थाः क्रमात् द्बादशानामध्यायानां
विषयाः । प्रथमेऽध्याये विध्यर्थवादादिरूपं
धर्म्मे प्रमाणं निरूपितम् । १ । द्बितीये याग-
दानादिकर्म्मभेदः । २ । तृतीये प्रयाजादीनां
दर्शपूर्णमासार्थकत्वेन तच्छेषत्वम् । ३ । चतुर्थे
गोदोहनस्य पुरुषार्थत्वप्रयुक्त्या अनुष्ठानं न तु
क्रत्वर्थत्वप्रयुक्त्येत्येवमादयः । ४ । पञ्चमे क्रम-
नियतिविधेयत्वादयः । ५ । षष्ठे कर्त्तुरधिकारो
नान्धादेरित्यादयः । ६ । सप्तमे समानमितर-
च्छ्येनेन इत्यादि प्रत्यक्षवचनेनाग्निहोत्रादि-
नाम्नानुमितवचनेन च सामान्यतोऽतिदेशः । ७ ।
अष्टमे सौर्य्यं चरुं निर्ब्बपेदित्यत्र निर्व्वापस्तद्धि-
तेन देवतानिर्द्देशः एकदैवतत्त्वमौषधद्रव्यकत्व-
मित्यादिना लिङ्गेनाग्नेयपुरोडाशेतिकर्त्तव्यता-
नान्यस्येत्येवमादिविशेषातिदेशः । ८ । नवमे
प्रकृतावग्नये युष्टं निर्व्वपामीति पठिते मन्त्रे
विकृतौ सौर्य्यचरावग्निपदपरित्यागेन सूर्य्यपद-
प्रक्षेपेण सूर्य्याय युष्टं निर्व्वपामीत्येवमादिरूहः ।
९ । दशमे कृष्णलेषु चोदकप्राप्तस्यावघातस्य
वितुषीकरणासम्भवेन लोप इत्येवमादिर्व्वाधः ।
१० । एकादशे बहूनामाग्नेयादीनां प्रधानानां
सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इत्यादि
तन्त्रम् । ११ । द्बादशे प्रधानस्य पशोरुपकाराय
अनुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाशेऽप्युप-
कार इत्यादिप्रसङ्गः । १२ ॥ (एतदध्यायप्रति-
पाद्यार्थानां विवरणं यथा, --
‘प्रथमाध्यायस्य प्रथमे पादे विधिरूपं मान-
मीरितम् । द्वितीयेऽर्थवादरूपम् अर्थवादो
मन्त्रस्याप्युपलक्षकः । तृतीये स्मृतिरूपम् ।
स्मृतिराचारमप्युपलक्षयति । चतुर्थे उद्भिच्चित्रा-
दिनामरूपम् । द्बितीयाध्यायस्य प्रथमे पादे
आख्यातमेवापूर्ब्बबोधकम् । अपूर्ब्बसद्भाव
इत्यादिकः कर्म्मभेदचिन्तोपयुक्त उपोद्घातो
वर्णितः । द्वितीये धातुभेदपुनरुक्त्यादिभिः
कर्म्मभेदः । तृतीये रथन्तरादीनां कर्म्मभेद-
प्रामाण्यापवादः । चतुर्थे नित्यकाम्ययोः प्रयो-
गयोर्भेदः ।
तृतीयाध्यायस्य प्रथमे पादे शेषत्वबोधकानां
श्रुतिलिङ्गादीनां मध्ये श्रुतिर्विचारिता । द्वितीये
लिङ्गम् । तृतीये वाक्यप्रकरणादि । चतुर्थे
निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णय-
हेतुः श्रुत्यादेः परस्परविरोधसदसद्भावः । पञ्चमे
प्रतिपत्तिकर्म्माणि । षष्ठेऽनारभ्याधीतानि ।
सप्तमे बहुप्रधानोपकारकप्रयाजादीनि । अष्टमे
याजमानानि ।
चतुर्थाध्यायस्य प्रथमे पादे प्रधानभूतामिक्षा-
दध्यानयनस्य प्रयोजिकेत्यादि प्रधानप्रयोक्तृत्वं
विचारितम् । द्बितीये त्वप्रधानं वत्सापकरणं
शाखाच्छेदे प्रयोजकमित्याद्यप्रधानप्रयोक्तृत्वम् ।
तृतीये जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादि-
फलभावाभावचिन्ता । चतुर्थे राजसूयगत-
जघन्याङ्गाक्षद्यूतादिचिन्ता ।
पञ्चमाध्यायस्य प्रथमे पादे श्रुत्यर्थपाठादिभिः
क्रमो निरूषितः । द्वितीये वाजपेयगतेषु
सप्तदशसु पशुष्वेकैकधर्म्मसमापनमित्यादिक्रम-
विशेषः । तृतीये पञ्चप्रयाजादीनामावर्त्तनेनै-
कादश्यमित्यादिवृद्धिः । अदम्यग्रहचित्रिण्यो-
रनावृत्तिरित्यादि वृद्ध्यभावः । चतुर्थे क्रमनि-
यामकानां श्रुत्यर्थपाठादीनां प्रबलदुर्ब्बलभावः ।
षष्ठाध्यायस्य प्रथमे पादे कर्म्माधिकारः ।
कर्त्तुरस्त्यन्धादेर्नास्ति स्त्रिया अस्ति । योऽस्ति
स च पत्या सहेत्येवमादिनाधिकारी निरूपितः ।
द्वितीये सत्राधिकारिणां प्रत्येकं कृत्स्नं फलम् ।
दर्शपौर्णमासयोः कर्त्रैक्यनियमः काम्यकर्म्म-
समापनीयमित्येवमादयोऽधिकारिधर्म्मा उक्ताः
तृतीये द्रव्यस्य प्रतिनिधिरस्ति । देवादीना-
मग्न्यादीनामधिकारिणाञ्च स नास्तीत्यादि-
निरूपणम् । चतुर्थे पदार्थलोपनं विचारितम् ।
अवत्तनाशे सत्याज्येन यजेत् । इडाद्यर्थनाशे
सति शेषान्नग्राह्यमित्यादिकम् । पञ्चमे कालाप-
राधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम् ।
ज्योतिष्टोमस्यैकादयोदीक्ष्याः । द्बादशाहस्य
द्बादशदीक्ष्या इत्यादि निरूपितम् । षष्ठे
सत्राधिकारिणस्तुल्यकल्पा एव सत्रं विप्रस्यै-
वेत्येवमादिकं चिन्तितम् । सप्तमे पित्रादिकं
न देयम् । महाभूमिर्न देयेत्येवमादिदेय-
विचारः । अष्टमे लौकिकाग्नावुपनयन-
होमः । स्थपतीष्टिस्तथैवेत्येवमाद्यग्निविचारः
कृतः ।
सप्तमाध्यायस्य प्रथमे पादे समानमितरच्छ्येने-
नेत्यादिप्रत्यक्षवचनातिदेशः । द्बितीये पूर्ब्बो-
क्तातिदेशस्य शेषो विचारितः । तृतीयेऽग्नि-
होत्रनाम्नातिदेशः । चतुर्थे निर्व्वापौषधद्रव्यादि-
लिङ्गातिदेशः ।
अष्टमाध्यायस्य प्रथमे पादे स्पष्टेन लिङ्गे-
नातिदेशविशेषः । तद्यथा सौर्य्यचरावति-
देशकानि निर्व्वापस्तद्धितेन देवतानिर्द्देश एक-
देवतात्वमौषधद्रव्यकत्वमित्यादीनि स्पष्टान्याग्नेय-
लिङ्गानि । द्वितीये त्वस्पष्टैर्लिङ्गैरतिदेशः । तद्-
यथा वाजिने हविःसामान्येन लिङ्गेन पयो-
विध्यन्तोऽतिदिश्यते तत्र लिङ्गमस्पष्टम् । शीघ्रं
तद्बुद्ध्यनुत्पादनात् । तृतीये प्रबलेन लिङ्गे-
नातिदेशः । तद्यथा । आभिचारिकेष्टा-
वाग्नावैष्णवसारस्वतबार्हस्पत्येषु हविःषु त्रित्वेन
लिङ्गेन यथाक्रममाग्नेयादिविध्यन्ते प्राप्ते द्बिदे-
वत्यत्वेन लिङ्गेन प्रथम आग्नावैष्णवे तृतीय-
स्याग्नीषोमीयस्य विध्यन्तोऽतिदिष्टः । प्रबलञ्च
द्विदेवत्यत्वम् । शब्दोच्चारणमात्रेण सहसा
प्रतिभासात् । क्रमस्तु विलम्बितप्रतीत्या दुर्ब्बलः ।
चतुर्थे दर्व्विहोमेष्वतिदेशोऽपोह्यते ।
नवमाध्यायस्य प्रथमे पादे उपोद्घातपूर्ब्बक-
मूहविचारप्रारम्भः । तत्र प्रयाजादयो धर्म्मा
अपूर्ब्बप्रयुक्ताः । अवघातमन्त्रादिष्वविवक्षितं
ब्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विव-
क्षितमित्यादिरूपोपोद्घातः । सवित्रश्विपूष-
शब्दानां विकृतिषु नास्त्यूहः । अग्निशब्दस्या-
स्त्यूह इत्यादि ऊहविचारारम्भः । द्वितीये
सपरिकरः सामोहः । तृतीये मन्त्रोहः ।
चतुर्थे मन्त्रोहप्रसङ्गापतितो विचारः ।
दशमाध्यायस्य प्रथमे पादे बाधहेतुर्द्वारलोपो
निरूपितः । तद्यथा स्वयं कृता वेदिर्भवतीत्यत्र
वेदिनिष्पादनरूपस्य द्बारस्य लोपेन निष्पाद-
कानामुद्धननादीनां बाधः । कृष्णलेषु वितुषी-
करणरूपस्य द्बारस्य लोपेनावघातस्य बाधः ।
द्वितीये संक्षेपेणोक्तस्य द्वारलोपस्य बहुभि-
रुदाहरणैर्विस्तारः । तृतीये बाधकारणं
कार्य्यैकत्वम् । तद्यथा प्रकृतौ गवाश्वादिदक्षि-
णायाः ऋत्विक्परिक्रयः कार्य्यम् । तथा
विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षि-
णायास्तदेव कार्य्यम् ततो धेन्वा गवाश्वादि-
दक्षिणाविकृतौ चोदकप्राप्ता बाध्यते । चतुर्थे
नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ट-
होमैः सह समुच्चीयन्ते इत्यादिः समुच्चयः ।
पञ्चमे षोडशिग्रहः प्रकृतिगामी । स चाग्रयण-
पृष्ठ ३/७२८
पात्रादेव ग्रहीतव्य इत्यादिवाधप्रसङ्गागतो
ग्रहादिविचारः । षष्ठे सामतृचे गेयमित्यादि-
र्बाधप्रसङ्गागतः सामविचारः । सप्तमे पश्व-
ङ्गेषु हविर्भेदः । गृहमेधीयमपूर्ब्बकर्म्मेत्यादि-
र्बाधप्रसङ्गागतः प्रकीर्णविचारः । अष्टमेनानु-
याजेष्वितिपर्य्युदासो न सोम इत्यर्थवादो नाति-
रात्र इति प्रतिषेध इत्यादिर्बाधोपयुक्तो नञर्थ-
विचारः ।
एकादशाध्यायस्य प्रथमे पादे तन्त्रस्योपोद्-
धातो वर्णितः । द्वितीये तन्त्रावापौ संक्षेपे-
णोक्तौ । तृतीये तन्त्रमुदाहरणबाहुल्येन प्रप-
ञ्चितम् । चतुर्थे तथैवावापः प्रपञ्चितः ।
द्बादशाध्यायस्य प्रथमे पादे पशुधर्म्माणां पशु-
पुरोडाशे प्रसङ्गः । सौमिकबेदेरुत्तरकालीन-
कर्म्मसु प्रसङ्ग इत्यादि विचारः । द्बितीये
सवनीयपशोस्तन्त्रित्वम् । न तु सवनीयपुरो-
डाशानाम् । विकृतिस्तन्त्रिणी न प्रकृतिः ।
अन्वारम्भणीया विकृतिष्वपि स्यात् । न तु
प्रकृतावेवेत्यादिविचारः । तृतीये त्वग्वाससोः
समुच्चयः । आधारगतानामृजुत्वसन्ततत्त्वा
दीनां समुच्चय इत्यादिकं प्राघान्येन । यव-
ब्रोह्योर्व्विकल्प इत्यादिकं समुच्चयापवादत्वेने-
त्युभयं चिन्तितम् । चतुर्थे चैन्द्राबार्हस्पत्य-
याज्यानुवाक्ययुगलयोर्व्विकल्प इत्यादिकं प्राधा-
न्येन । याज्यानुवाक्ययोः समुच्चय इत्यादिकं
विकल्पापवादत्वेनेत्युभयं चिन्तितम् । तदेवं द्बाद-
शाध्यायगतेषु षष्टिसंख्यकेषु पादेषु प्रति-
पाद्या अर्थाः संगृहीताः ।” इत्यधिकरणमाला ॥
उत्तरमीमांसाध्यायपादपतिपाद्यार्था यथा, --
“शास्त्रं ब्रह्मविचाराख्यमध्यायाः स्युश्चतुर्व्विधाः ।
समन्वगाविरोधौ द्बौ साधनञ्चफलन्तथा ॥
समन्वये स्पष्टलिङ्गमस्पष्टत्वेप्युपास्यगम् ।
ज्ञेयगं पदमात्रञ्च चिन्त्यं पादेष्वनुक्रमात् ॥
द्बितीये स्मृतितर्काभ्यामविरोधोऽन्यदुष्टता ।
भूतभोक्तृश्रुते र्लिङ्गश्रुतेरप्यविरुद्धता ॥
तृतीये विरतिस्तत्त्वं पदार्थपरिशोधनम् ।
गुणोपसंहृतिज्ञांनेबहिरङ्गादि साधनम् ॥
चतुर्थे जीवतो मुक्तिरुत्क्रान्तिर्गतिरुत्तरा ।
ब्रह्मप्राप्तिब्रह्मलोकाविति पाणदार्थसंग्रहः ॥”
इति व्यासाधिकरणमाला ॥ मीमांसाद्वयमत-
संग्रहो यथा, --
अथ मैमांसकम् ।
“मीमांसको द्विधा कर्म्मब्रह्ममीमांसकः स्मृतः ।
वेदान्ती मन्यते ब्रह्म कर्म्म भट्टप्रभाकरौ ॥
प्रत्यक्षमनुमानञ्च वेदाश्चोपमया सह ।
अर्थापत्तिरभावश्च भट्टानां षट्प्रमाण्यऽसौ ॥
प्रभाकरमते पञ्चैतान्यभावस्य वर्ज्जनात् ।
अद्वैतवादी वेदान्ती प्रमाणन्तु यथातथा ॥
सर्व्वमेतदिदं ब्रह्म वेदान्तेऽद्बैतवादिनाम् ।
आत्मन्येव लयो मुक्तिर्वैदान्तिकमते मता ॥
अकुकर्म्मा सषट्कर्म्मा शूद्रान्नादिविवर्ज्जकः ।
ब्रह्मसूत्री द्विजो भट्टो गृहस्थाश्रमसंस्थितः ॥
भगवन्नामधेयास्तु द्विजा वेदान्तदर्शने ।
विप्रगेहभुजस्त्यक्तोपवीता ब्रह्मवादिनः ॥
चत्वारो भगवद्भेदाः कुटीचरबहूदकौ ।
हंसः परमहंसश्चाधिकोमीषु परः परः ॥”
इति जिनदत्तकृतविवेकविलासः । सर्व्वदर्शन-
संग्रहधृत जैमिनिमतसंग्रहो यथा । अथातो
धर्म्मजिज्ञासा इति प्रथमाधिककरणसूत्रम् ।
तच्चाधिकरणं पञ्चावयवमाचक्षते परीक्षकाः ।
अस्मिन् सूत्रे स्वाध्यायोऽध्येतव्य इतिश्रुति-
वाक्यमाश्रित्य विषयसंशयपूर्ब्बपक्षसिद्धान्त-
निर्णयरूपपञ्चाङ्गात्मकाधिकरणेन मीमांसा-
शास्त्रारम्भस्यावश्यकता प्रदर्शिता । मीमांसा
हि वेदविचारशास्त्रं तदारम्भो निष्प्रयो-
जनः स्वाध्यायोऽध्येतव्य इतिश्रुत्या वेदा-
ध्ययनं विहितं तत्र विश्वजिन्न्यायात् स्वर्गरूपं
फलमक्षरग्रहणमात्रेणापि सम्भवति न तत्रार्थ-
बोधापेक्षाप्यस्ति असत्याञ्च वेदार्थबोधापेक्षयां
तदधीनायाः विचारणाया अपि अनावश्यक-
त्वात् अथवा यागादिकर्म्मावबोधाय स्वाध्यायो-
ऽध्येतव्यः तस्य चार्थबोधरूपं दृष्टमेवफलं ततश्च
दृष्टार्थत्वेन तस्य वैधत्वाभावात् वेदार्थविचार-
स्यापि तदेकप्रयोजनस्य वैधत्वं नास्तीति तद्वि-
चारशास्त्रमनारम्भणीयम् । स्वाध्यायाध्ययना-
नन्तरं विचारशास्त्रेऽध्येतव्यतया स्वीकृते वेद-
मधीत्य स्नायादितिविधिबोधितं वेदाध्ययनसमा-
वर्त्तनयोरानन्तर्य्यं बाध्येत तस्मान्नविचारशास्त्र-
मारम्भणीयमितिपूर्ब्बपक्षमुद्भाव्य अध्ययनस्य दृष्ट-
फलकत्वेपि अध्येतव्य इत्यत्र तव्यप्रत्ययेन भावना-
प्रतिपादनात् अर्थबोधस्य तत्र भाव्यत्वेनान्वया-
दध्ययनविधेरवघातादिविधिवन्नियमापूर्ब्बार्थत्वं ।
तथाच यथा दर्शपौर्णमासजन्यं परमापूर्ब्बमव-
घातादिजन्यमवान्तरापूर्ब्बं कल्पयति तथा
समस्तक्रतुजन्यमपूर्ब्बजातं क्रतुज्ञानसाधनाध्य
यननियमजन्यमपूर्ब्बं कल्पयिष्यति । अन्यथा
अध्ययनविधेर्वैफल्यं स्यात् । अर्थबोधरूपदृष्ट-
फलस्य सम्भवे विश्वजिन्न्यायान्न स्वर्गफलकल्पना
इति सिद्धान्तितम् । यथा यागे यवादेर्नखादि
नापि वितुषीकरणसम्भवे अवघातविधिना अव-
घातो नियम्यते तथा अध्ययनविधिना अध्ययनं
नियम्यते । तथाच अध्ययनेन च वेदार्थे परि-
ज्ञाते तत्र संशये तन्निर्णयार्थं विचारशास्त्र-
मवश्यमपेक्षितव्यमिति विचारशास्त्रमारम्भ-
णीयमेवेति प्रथमाधिकरणनिष्कर्षः एवंरीत्या
अधिकरणसहस्रात्मकं कर्म्ममीमांसाशास्त्रं
जैमिनिना प्रणीतम् । अस्मिन् शास्त्रे वेदस्या-
पौरुषेयत्वम् । वर्णानां ककारादीनां नित्यत्वं
तत्र सोऽयं क इत्यादिप्रत्यभिज्ञैव प्रमाणं कण्ठ-
ताल्वाद्यभिघात एव तदभिव्यञ्जकः । ततश्च
वेदस्यापौरुषेयतया निरस्तसमस्तशङ्काकलङ्का-
ङ्कुरत्वेन स्वतः सिद्धं धर्म्मे प्रामाण्यमिति सुस्थि-
तम् ।
प्रमाज्ञानस्य स्वत प्रामाण्यम् । विज्ञानसामग्री-
जन्यत्वे सति तदतिरिक्तहेत्वजन्यत्वं प्रमायाः
स्वतस्त्वमिति ॥

मीरः, पुं, (मिन्वन्ति प्रक्षिपन्ति नद्यो जलान्यत्रेति ।

मिञ् + “शुसिचिमिञां दीर्घश्च ।” उणा० २ ।
२५ । इति क्रन् दीर्घत्वञ्च ।) समुद्रः । इत्यु-
णादिकोषः ॥ पर्ब्बतैकदेशः । सीमा । पानी-
यम् । इति संक्षिप्तसारोणादिवृत्तिः ॥

मील, ॠ निमेषे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ।) ॠ अमिमीलत् अमी-
मिलत् । मीलति चक्षुः पक्ष्मभिरावृतं स्यादि-
त्यर्थः । इति दुर्गादासः ॥

मीलं, क्ली, (मीलतीति । मील + कः ।) वनम् ।

इति केचित् ॥

मीलनं, क्ली, पक्ष्मभिरावरणम् । मीलधातोभावे-

ऽनट् (ल्युट्) प्रत्ययेन निष्पन्नम् ॥

मीलितं, त्रि, (मील + क्तः ।) अप्रफुल्लम् ।

तत्पर्य्यायः । सङ्कुचितम् २ निद्राणम् ३ मुद्रि-
तम् ४ । इति हेमचन्द्रः ॥ (अलङ्कारविशेषः ।
यथा, साहित्यदर्पणे । १० । ११५ ।
(“मीलितं वस्तुनो गुप्तिः केनचित् तुल्य-
लक्ष्मणा ।”)

मीव, पीवे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ।) मीवति । पीवः स्थूली-
भावः । इति दुर्गादासः ॥

मीवरः, त्रि, (मीनाति हिनस्तीति । मीञ् +

“छित्वरच्छत्वरधीवरपीवरमीवरेति ।” उणा०
३ । १ । इति ष्वरच् निपातितश्च । अत्रो-
ज्ज्वलेन तु माधातोः ष्वरच् निपातितश्चेत्युच्यते
स्म ।) हिंस्रः । इत्युणादिकोषः ॥ (मीयते इति ।
मा + ष्वरच् । निपातितः ।) सेनानी । पूज्यः ।
इति संक्षिप्तसारोणादिवृत्तिः ॥

मीवा, स्त्री, (मीनाति हिनस्तीति । मी + “शेवायह्व

जिह्वाग्रीवाप्वामीवाः ।” उणा० १ । १५४ ।
इति वन् निपात्यते च ।) उदरकृमिः । इत्यु-
णादिकोषः ॥ वायुः । इति सिद्धान्तकौसुद्या-
मुणादिवृत्तिः ॥ शीकरः । सारः । इति संक्षिप्त-
सारोणादिवृत्तिः ॥

मुः, पुं, (मव् + बाहुलकात् डुन् । टिलोपश्च ।)

बन्धनम् । इत्येकाक्षरकोषः ॥ महेशः । इति
हड्डचन्द्रः ॥

मुकुन्दकः, पुं, पलाण्डुः । केचित्तु सुकन्दकस्थाने

मुकन्दक इति पठित्वा जवनानां मुदं हर्षं
प्रायेण कन्दति आह्वयति कदि आह्वाने रोदने
च णकः पृषोदरादित्वात् दलुक् मुकन्दक इति
व्याचक्षते । इत्यमरटीकायां भरतः ॥

मुकुः, पुं, (मुच् + बाहुलकात् कुः । पृषोदरादि-

त्वात् साधुः ।) मुक्तिः । यथा, --
“मुकुर्मुक्तौ महेशे मुः कुः पृथिव्यामशोभने ।”
इति दुर्गादासधृतहड्डचन्द्रः ॥

मुकुटं, क्ली, (मङ्कते मण्डयति । मकि + उटन्

नलीपश्चेति न्यासः ।) स्वनामख्यातशिरोभूष-
णम् । तत्पर्य्यायः । किरीटम् २ । इत्यमरः ।
पृष्ठ ३/७२९
२ । ६ । १०२ ॥ मौलिः ३ कोटीरम् ४ उष्णी-
षम् ५ । इति हेमचन्द्रः । ३ । ३१४ ॥ मकुटम् ६
मौलीकः ७ शेखरम् ८ अवतंसः ९ वतंसः १०
उत्तंसः ११ उष्णीषकम् १२ कौटीरकम् १३ । इति
शब्दरत्नावली ॥ (यथा, हरिवंशे । ८६ । ७७ ।
“मुकुटश्चापतत्तस्य काञ्चनो वज्रभूषितः ।”
तथा च महाभारते । १ । ३० । ३८ ।
“रजांसि मुकुटान्येषा मुत्थितानि व्यधर्षयन् ।”
टाप् । स्त्री, मातृगणविशेषः । यथात्रैव । ९ ।
४६ । २३ ।
“कालेहिका वामनिका मुकुटा चैव भारत ! ॥”)

मुकुटी, स्त्री, अङ्गुलिमोटनम् । इति शब्दरत्नावली ॥

मुकुन्दः, पुं, विष्णुः । तस्य व्युत्पत्तिर्यथा, --

“मुकुमव्ययमान्तञ्च निर्व्वाणमोक्षवाचकम् ।
तद्ददाति च यो देवो मुकुन्दस्तेन कीर्त्तितः ॥
मुकुं भक्तिरसप्रेमवचनं वेदसम्मतम् ।
यस्तद्ददाति विप्रेभ्यो मुकुन्दस्तेन कीर्त्तितः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ११० अध्यायः ॥
निधिविशेषः । (यथा, मार्कण्डेये । ६८ । ५ ।
“यत्र पद्ममहापद्मौ तथा मकरकच्छपौ ।
मुकुन्दो नन्दकश्चैव नीलः शङ्खोऽष्टमो निधिः ॥”
अस्य गुणादिकं निधिशब्दे उक्तम् ।) रत्नभेदः ।
कुन्दुरुः । इति मेदिनी । दे, ३८ ॥ (यथा च
पर्य्यायः ।
“कुन्दुरुस्तु मुकुन्दः स्यात् सुगन्धः कुन्द इत्यपि ।”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
पारदः । इति हेमचन्द्रः । २ । १२९ ॥

मुकुन्दकः, पुं, पलाण्डुः । केचिच्च सुकन्दकस्थाने

मुकुन्दक इति पठित्वा जवनानां मुदं कन्दतीति
पृषोदरादित्वात् दलुक् कन्देरत उच्चेति व्याच-
क्षते । इत्यमरटीकायां भरतः ॥ (यथा, सुश्रुते ।
१ । ४६ ।
“विशोषी तत्र भूयिष्ठं वरुकः समुकुन्दकः ।”)
षष्टिकब्रीहिः । यथा, भावप्रकाशे ।
“षष्टिकः शतपुष्पश्च प्रमोदकमुकुन्दकौ ।
महाषष्टिक इत्याद्याः षष्टिकाः समुदाहृताः ॥”

मुकुन्दुः, पुं, (मोचयति विषयान्तरानुरागमिति ।

अन्तर्भूतण्यर्थ मुच् + कः । न्यङ्कादित्वात् कुत्वम् ।
तं उन्दत्यार्द्रीकरोतीति । उन्द + उण् । पृषो-
दरादित्वात् साधुः ।) कुन्दुरुः । इत्यमरटीकायां
मथुरानाथः ॥

मुकुम्, व्य, निर्व्वाणम् । भक्तिरसः । प्रेम । यथा,

“मुकुमव्ययमान्तञ्च निर्व्वाणमोक्षवाचकम् ।
तद्ददाति च यो देवो मुकुन्दस्तेन कीर्त्तितः ॥
मुकुं भक्तिरसप्रेमवचनं वेदसम्मतम् ।
यस्तद्ददाति विप्रेभ्यो मुकुन्दस्तेन कीर्त्तितः ॥”
इति ब्रह्मर्वेवर्त्ते श्रीकृष्णजन्मखण्डे ११० अः ॥

मुकुरः, पुं, (मक + “मकुरदर्द्दुरौ ।” उणा० १ । ४१ ।

इत्यत्र । बाहुलकादकारस्थाने उकारः इत्युज्ज्वल-
दत्तोक्तेः उरच् ।) दर्पणः । (यथा, नैषधे । ४ । ५९ ।
“कुरु करे गुरुमेकमयोघनं
बहिरितो मुकुरञ्च कुरुष्व मे ॥”)
वकुलद्रुमः । कुलालदण्डः । इति मेदिनी । रे,
२०३ ॥ मल्लिकापुष्पवृक्षः । इति विश्वः ॥ (यथा,
मुकुरकुसुमभृङ्गानातपत्रं ध्वजं वा
दधिफलमथ नौकामन्नताम्बूलवस्त्रम् ।
कमलकलसशङ्खं भूषणं काञ्चनं वा
भवति सकलसिद्ध्यै श्रेयसे रोगिणाञ्च ॥”
इति हारीते द्बितीयस्थाने द्वितीयेऽध्याये ॥)
कुलवृक्षः । इति शब्दरत्नावली ॥ कोरकः ।
इति हेमचन्द्रः ॥

मुकुलः, पुं, क्ली, (मुञ्चति कलिकात्वम् । मुच् +

घुलक् । इति भरतः ॥ मुचेरलः । कत्वमुत्वञ्चेति
कत्वे अकारस्योत्वे मुकुल इति रायः ।) ईषद्-
विकसितकलिका । तत्पर्य्यायः । कुट्मलः २ ।
इत्यमरः । २ । ४ । १६ ॥ (यथा, रघौ । ९ । ३१ ।
उपहितं शिशिरापगमश्रिया
मुकुलजालमशोभत किंशुके ।”)
मकुलः ३ पौटकोरकः ४ । इति शब्दरत्नावली ॥
शरीरम् । आत्मा । इति धरणिः ॥ (राज-
पुरुषविशेषः । यथा, राजतरङ्गिण्याम् । ६ । २५३ ।
“इत्थं लब्धजया राज्ञी तत्क्षणान्न्यग्रहीद्रुषा ।
यशोधरं शुभधरं मुकुलञ्च सबान्धवम् ॥”)

मुकुष्टः, पुं, वनमुद्गः । तत्पर्य्यायः । मपष्टः २ । इति

रत्नमाला ॥ अस्य गुणाः । शीतलत्वम् । ग्राहि-
त्वम् । कफपित्तज्वरनाशित्वञ्च । इति राज-
वल्लभः ॥

मुकुष्टकः, पुं, (मुकुं स्तकति प्रतिहन्ति । स्तक +

अच् पृषोदरादित्वात् साधुः ।) वनमुद्गः ।
मुगानी इति भाषा । तत्पर्य्यायः । मयष्टकः २ ।
इत्यमरः । २ । ९ । १७ ॥ मुकुष्ठः ३ मयष्ठः ४ । इति
श्रीधरः ॥ मपष्टकः ५ । इत्यन्ये । इति भरतः ॥
मुद्गष्टकः ६ मकुष्टकः ७ मयुष्टकः ८ । इति
टीकान्तरम् ॥ (तथास्य विषयः ॥
“विदलान्नानि वक्ष्यामि शृणु पुत्त्र ! यथा-
क्रमम् ।
यवगोधूमचणका माषामुद्गाढकी तथा ॥
मुकुष्टकाः कुलत्थाश्च मसूरास्त्रिपुटास्तथा ।
निष्पावकाः कलायाद्या विदलान्नानि कीर्त्तयेत् ॥
इति हारीते प्रथमे स्थाने दशमेऽध्याये ॥
मुद्गान् मसूरांश्चणकान् कुलत्थान् समुकुष्ट-
कान् ।
आहारकाले यूषार्थे ज्वरिताय प्रदापयेत् ॥”
इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ॥)

मुकूलकः, पुं, (मुच् + बाहुलकादूलच् पृषोदरा-

दित्वात् कुत्वम् । ततः संज्ञायां कन् ।) दन्ति-
वृक्षः । इत्यमरटीकायां रामाश्रमः ॥ (तथास्य
पर्य्यायः ॥
“चित्रा दन्ती निकुम्भः स्यादुपचित्रा मुकूलकः ।
दाक्षायणी विशल्या च तथोडुम्बरपर्ण्यपि ॥”
इति वैद्यकरत्नमालायाम् ॥
“दन्त्युदुम्बरपर्णी स्यान्निकुम्भोऽथ मुकूलकः ।
द्रवन्ती नामतश्चित्रान्यग्रोधा मूषिकाह्वया ॥”
इति चरके कल्पस्थाने द्वादशेऽध्याये ॥)

मुक्तः, त्रि, (मुच् + क्तः ।) प्राप्तमोक्षः । मोचितः ।

इति मेदिनी । ते, ४४ ॥ नन्दितः । इति शब्द-
रत्नावली ॥ (नृपविशेषः । यथा, राजतरङ्गि-
ण्याम् । ७ । १६३५ ।
“सूदश्चम्पकभृत्यस्य जेलकाख्यस्य तत्क्षणम् ।
मुक्तो नामान्तिकं प्राप्तो नृपतेराप्ततामगात् ॥”
ऋषिविशेषः । यथा, मार्कण्डेये । १०० । ३१ ।
“अग्नीध्रश्चाग्निबाहुश्च शुचिर्मुक्तोऽथ माधवः ।
शुक्रोऽजितश्च सप्तैते तदा सप्तर्षयः स्मृताः ॥”)

मुक्तकं, क्ली, (मुच्यते स्मेति । मुच् + क्तः । संज्ञायां

कन् ।) क्षेपणीयास्त्रम् । इति केचित् ॥ (काव्य-
विशेषः । यथा, साहित्यदर्पणे । ६ । २९५ ।
“वृत्तगन्धोज्झितं गद्यं मुक्तकं वृत्तगन्धि च ॥”)

मुक्तकञ्चुकः, पुं, (कञ्चुक इव कञ्चुकः मुक्तः

कञ्चुको येन ।) अचिरत्यक्तत्वक्सर्पः । तत्-
पर्य्यायः । निर्मुक्तः २ । इत्यमरः । १ । ८ । ६ ।
उज्झितकञ्चुके, त्रि ॥

मुक्तचक्षुः, [स्] पुं, (मुक्तं सर्वतः क्षिप्तं चक्षु-

र्येन ।) सिंहः । इति शब्दमाला ॥ मुक्तनेत्रे, त्रि ॥

मुक्तरसा, स्त्री, (मुक्तः रसो यस्याः ।) रास्ना ।

इति रत्नमाला ॥ (विवरणमस्या रास्नाशब्दे
ज्ञातव्यम् ।) त्यक्तरसे, त्रि ॥

मुक्ता, स्त्री, (मुच्यते स्म । मोच्यते निःसार्य्यते

इति वा । मुच् + क्तः । टाप् ।) रास्ना । इति
रत्नमाला ॥ रत्नविशेषः । मोती इति हिन्दी-
भाषा । अस्या अधिष्ठात्री देवता चन्द्रः । इति
ज्योतिषम् ॥ तत्पर्य्यायः । मौक्तिकम् २ । इत्य-
मरः । २ । ९ । ९३ ॥ सौम्या ३ शौक्तिकेयम् ४
तारम् ५ तारा ६ भौतिकम् ७ तौतिकम् ८
अम्भःसारम् ९ शीतलम् १० नीरजम् ११
नक्षत्रम् १२ इन्दुरत्नम् १३ लक्ष्मीः १४ मुक्ता-
फलम् १५ बिन्दुफलम् १६ मुक्तिका १७ शौक्ते-
यकम् १८ शुक्तिमणिः १९ शशिप्रभम् २०
स्वच्छम् २१ हिमम् २२ हिमबलम् २३ सुधां-
शुभम् २४ शुधांशुरत्नम् २५ । लक्ष्मीस्थाने लक्षं
शशिप्रभस्थाने शशिप्रियं हिमबलस्थाने हेम-
वतं सुधांशुभस्थाने भूरुहं इति च पाठः । इति
राजनिर्घण्टः ॥ शौक्तिकम् २६ । इति भाव-
प्रकाशः ॥ शुक्तिबीजम् २७ हारी २८ । इति
शब्दरत्नावली ॥ कुवलम् २९ । इति जटाधरः ॥
अस्या गुणाः । सारकत्वम् । शीतत्वम् । कषा-
यत्वम् । स्वादुत्वम् । लेखनत्वम् । चक्षुष्यत्वञ्च ।
तद्धारणगुणः । पापालक्ष्मीविनाशित्वम् । इति
राजवल्लभः ॥ वृष्यत्वम् । बलपुष्टिदत्वञ्च । इति
भावप्रकाशः ॥ * ॥ अपि च ।
“मौक्तिकञ्च मधुरं सुशीतलं
दृष्टिरोगशमनं विषापहम् ।
राजयक्ष्मपरिकोपनाशनं
क्षीणवीर्य्यबलपुष्टिवर्द्धनम् ॥”
अस्या लक्षणं यथा, --
“नक्षत्राभं शुद्धमत्यन्तमुक्तं
स्निग्धं स्थूलं निर्म्मलं निर्व्रणञ्च ।
पृष्ठ ३/७३०
न्यस्तं धत्ते गौरवं यत्तुलायां
तन्निर्मौल्यं मौक्तिकं सौख्यदायि ॥”
अस्या दोषलक्षणं यथा, --
“यद्बिच्छायं मौक्तिकं व्यङ्गकायं
शुक्तिस्पर्शं रक्तताञ्चातिधत्ते ।
मत्स्याक्ष्यङ्कं रूक्षमुत्ताननम्रं
नैतद्धार्य्यं धीमता दोषदायि ॥”
अष्टधा मौक्तिकं यथा, --
“मातङ्गोरगमीनपोत्रिशिरसस्त्वक्सारशङ्घाम्बुभृ-
च्छुक्तीनामुदराच्च मौक्तिकमणिः स्पष्टं भवत्य-
वृधा ॥”
मौक्तिकविशेषो यथा, --
“छायापाटलनीलपीतधवलास्तत्रापि सामान्यतः
सप्तानां बहुशो न लब्धिरिति चेच्छौक्तेयकं
तूल्यणम् ॥” * ॥
मौक्तिकपरीक्षा यथा, --
“लवणक्षारक्षोदिनि पात्रेऽजगोमूत्रपूरिते
क्षिप्तम् ।
मर्द्दितमपि शालीतुषैर्यदविकृतं तन्मौक्तिकं
जात्यम् ॥”
इति राजनिर्घण्टः ॥ * ॥
तदुत्पत्तिस्थानानि यथा, --
“शङ्खो गजश्च क्रोडश्च फणी मत्स्यश्च दर्दुरः ।
वेणुरेते समाख्यातास्तज्ज्ञैर्मौक्तिकयोनयः ॥”
इति भावप्रकाशः ॥ * ॥
अथ प्रकारान्तरमुक्तापरीक्षा ।
“द्बिपेन्द्रजीमूतवराहशङ्ख-
मत्स्याहिशुक्त्युद्भववेणुजानि ।
मुक्ताफलानि प्रथितानि लोके-
तेषान्तु शुक्त्युद्बवमेव भूरि ॥
वेध्यन्तु शुक्त्युद्भवमेव तेषां
शेषाण्यवेध्यानि वदन्ति तज्ज्ञाः ।
मतङ्गजा ये तु विशुद्धवंश्या-
स्ते मौक्तिकानां प्रभवाः प्रदिष्टाः ॥
उत्पद्यते मौक्तिकमेषु वृत्त-
मापीतवर्णं प्रभया विहीनम् ॥
वक्ष्ये गजपरीक्षायां गजजातिश्चतुर्व्विधा ।
मौक्तिकं तेषु जातं हि चतुर्व्विधमुदीर्य्यते ॥
ब्राह्मणं पीतशुक्लन्तु क्षत्त्रियं पीतरक्तकम् ।
पीतश्यामन्तु वैश्यं स्यात् शूद्रं स्यात् पीत-
नीलकम् ॥
काम्बोजकुम्भसम्भूतं धात्रीफलनिभं गुरु ।
अतिपिञ्जरसच्छायं मौक्तिकं मन्ददीधिति ॥
धाराधरेषु जायेत मौक्तिकं जलबिन्दुभिः ।
दुर्लभं तन्मनुष्याणां देवैस्तत् ह्रियतेऽम्बरात् ॥
कुक्कुटाण्डसमं वृत्तं मौक्तिकं निविडं गुरु ।
घनजं भानुसङ्काशं देवयोग्यममानुषम् ॥” * ॥
तथाहि गारुडे ।
“नाभ्येति मेघप्रभवं धरित्रीं
वियद्गतं तद्बिबुधा हरन्ति ।
अर्च्चिःप्रभानावृतदिग्विभाग-
मादित्यवद्दुःखविभाव्यविम्बम् ॥
तेजस्तिरस्कृत्य हुताशनेन्दु-
नक्षत्रताराग्रहसम्भवञ्च ।
दिवा यथा दीप्तिकरन्तथैव
तमोऽवगाढास्वपि तन्निशासु ॥
विचित्ररत्नद्युतिचारुतोय-
चतुःसमुद्रा भवनाभिरामा ।
मूल्यं न वा स्यादिति निश्चयो मे
कृत्स्ना मही तस्य सुवर्णपूर्णा ॥
हीनोऽपि यस्तल्लभते कथञ्चित्
विपाकयोगान्महतः शुभस्य ।
सपत्नहीनः पृथिवीं समग्रां
भुनक्ति तत्तिष्ठति यावदेव ॥
न केवलं तच्छुभकृन्नृपस्य
भाग्यैः प्रजानामपि जन्म तस्य ।
तद्योजनानां परितः शतस्य
सर्व्वाननर्थान् विमुखीकरोति ॥
जलज्योतिर्मरुज्जानां मेघानां त्रिविधं भवेत् ।
जलाधिकेऽधिकं स्वच्छं कोमलं पुरु कान्ति-
मत् ॥
ज्योतिषं कान्तिमद्वृत्तं दुर्निरीक्षं रविप्रभम् ।
कान्तिमत् कोमलं वृत्तं मारुतं विमलं लघु ॥
वराहदंष्ट्राप्रभवं वरिष्ठं
तस्यैव दंष्ट्राङ्कुरतुल्यवर्णम् ।
क्वचित् कथञ्चित् स भुवः प्रदेशे
प्रजायते शूकरवद्वरिष्ठः ॥
ब्रह्मादिजातिभेदेन वराहोऽपि चतुर्व्विधः ।
तेषु जाता भवेन्मुक्ता समासेन चतुर्व्विधा ॥
ब्राह्मणः शुक्लवर्णस्तु शूद्रमन्तेऽस्य लक्षते ।
क्षत्त्रियः शुक्लरक्तस्तु स्पर्शे कर्क्कश एव च ॥
वैश्यः स्यात् शुक्लपीतस्तु कोमलः कोलसन्निभः ।
शूद्रः स्याच्छुक्लनीलस्तु कर्क्कशः श्याम एव च ॥”
तथा च ।
“कोलजं कोलसदृशं तद्दंष्ट्रासदृशच्छवि ।
अलभ्यं मनुजै रम्यं मौक्तिकं पुण्यवर्ज्जितैः ॥ * ॥
ये कम्बवः शार्ङ्गमुखावमर्ष-
पीतस्य शङ्खप्रवरस्य गोत्रे ।
स्यान्मौक्तिकानामिह तेषु जन्म
तल्लक्षणं संप्रति कीर्त्तयामः ॥
स्वयोनिमध्यच्छवितुल्यवर्णं
शङ्खाद्बृहत्कोलफलप्रमाणम् ॥
तथा च ।
वर्षोपलसमं दीप्त्या पाञ्चजन्यकुलोद्भवम् ।
कपोताण्डप्रमाणं तदतिकान्ति मनोहरम् ॥ * ॥
विशेषो यथा, --
“अश्विन्यादिकनक्षत्रे ये जाताः कम्बवः शुभाः ।
मौक्तिकं तेषु जातं हि सप्तविंशतिभेदभाक् ॥
शुक्लाशुक्लाः पीतरक्ता नीला लोहितपिञ्जराः ।
आकर्व्वुराः पाटलाश्च नववर्णाः प्रकीर्त्तिताः ॥
महन्मध्यलघून्मानैः सप्तविंशतिधा भवेत् ।
क्रमतस्तेषु विज्ञेयं नक्षत्रेषु मनीषिभिः ॥ * ॥
पाठीनपृष्ठस्य समानवर्णं
मीनात् सुवृत्तं लघु नातिसूक्ष्मम् ।
उत्पाद्यते वारिचराननेषु
मीनाश्च ते मध्यचराः पयोधेः ॥”
तथा च ।
“गुञ्जाफलकायस्थौल्यं मौक्तिकं तिमिजं
लघु ।
पाटलापुष्पसङ्काशमल्पकान्ति सुवर्त्तुलम् ॥
वातपित्तकफद्वन्द्वसन्निपातप्रभेदतः ।
सप्त प्रकृतयो मीने सप्तधा तेन मौक्तिकम् ॥
लघिष्ठमरुणं वातात् आपीतं मृदु पित्ततः ।
शुक्लं गुरु कफोद्रेकात् वातपित्तान्मृदुर्लघु ॥
वातश्लेष्मभवं स्थूलं पित्तश्लेष्मजमच्छकम् ।
सर्व्वलिङ्गप्रयोगेण सान्निपातिकमुच्यते ॥
एकजाः शुभदाः प्रोक्तास्तथा वै सान्नि-
पातिकाः ॥ * ॥
भौजङ्गमं नीलविशुद्धवर्णं
सर्व्वं भवेत् प्रज्वलवर्णशोभम् ।
नितान्तधौतप्रतिकल्प्यमान-
निस्त्रिंशधारासमवर्णशोभम् ॥
भुजङ्गमास्ते विषवेगदृप्ताः
श्रीवासुकेर्व्वंशभवाः पृथिव्याम् ।
क्वचित् कदाचित् खलु पुण्यदेशे
तिष्ठन्ति ते पश्यति तान्मनुष्यः ॥
फणिजं वर्त्तुलं रम्यं नीलच्छायं महाद्युति ।
पुण्यहीना न पश्यन्ति वासुकेः कुलसम्भवम् ॥
शृगालकोलामलकोलगुञ्जा-
फलप्रमाणास्तु चतुर्विधास्ते ।
स्युर्ब्रह्मबाहूद्भववैश्यशूद्र-
सर्पेषु जाताः प्रवरास्तु सर्व्वे ॥
प्राप्यापि रत्नानि धनं श्रियंवा
राजश्रियंवा महतीं दुरापाम् ।
तेजोऽन्विताः पुण्यकृतो भवन्ति
मुक्ताफलस्यास्य विधारणेन ॥
जिज्ञासया रत्नविनिश्चयज्ञैः
शुभे मुहूर्त्ते प्रयतैः प्रयत्नात् ।
रक्षाविधानं सुमहद्विधाय
हर्म्म्योपविष्टं क्रियते यदा तत् ।
तदा महद्दुन्दुभितूर्य्यघोषै-
र्घनैर्घनैराव्रियतेऽन्तरीक्षम् ॥
न तं भुजङ्गा न तु जातुधाना
न राक्षसा नापि च दुष्टलोकाः ।
हिंसन्ति यस्याहिशिरःसमुत्थं
मुक्ताफलं तिष्ठति कोषमध्ये ॥
भेकादिष्वपि जायन्ते मणयो ये क्वचित् क्वचित् ।
भौजङ्गममणेस्तुल्यास्ते विज्ञेया बुधोत्तमैः ॥
नक्षत्रमालेव दिवो विशीर्णा
दन्तावली तस्य महासुरस्य ।
विचित्ररूपेषु विचित्रवर्णा
पयःसु पत्युः पयसां पपात ॥
सम्पूर्णचन्द्रांशुकलापकान्ते-
र्भणिप्रवेकस्य महागुणस्य ।
तच्छुक्तिमत्सुस्थितिमाप बीज-
मासन् पुराप्यन्यभवानि यानि ॥
पृष्ठ ३/७३१
यस्मिन् प्रदेशेऽम्बुनिधौ पपात
सुचारुमुक्तामणिरत्नबीजम् ।
तस्मिन् पयस्तोयधरावकीर्णं
शुक्तौ स्थितं मौक्तिकतामवाप ॥ * ॥
सैंहलिकपारलौकिक-सौराष्ट्रिकताम्रपर्णपार-
सवाः ।
कौवेरपाण्ड्यविराटमुक्ता इत्याकराश्चाष्टौ ॥
“स्वात्यां स्थिते रवौ मेघैर्ये मुक्ता जलबिन्दवः ।
शीर्णाः शुक्तिषु जायन्ते तैर्मुक्ता निर्म्मलत्विषः ॥
स्थूला मध्यास्तथा सूक्ष्मा बिन्दुमानानुसारतः ।
सुस्निग्धमधुरच्छायं मौक्तिकं सिंहलोद्भवम् ॥
पारलौकिकसम्भूतं मौक्तिकं निविडं गुरु ।
सौराष्ट्रिकभवं स्थूलं वृत्तं स्वच्छं सितं घनम् ॥
ताम्रपर्णभवं ताम्रं पीतं पारसवोद्भवम् ।
ईषत् श्यामञ्च रूक्षञ्च कौवेरोद्भवमौक्तिकम् ॥
पाण्ड्यदेशोद्भवं पाण्डु सितं रूक्षं विराटजम् ।
रुक्मिण्याख्या तु या शुक्तिस्तत्प्रसूतिः सुदुर्लभा ॥
तत्र जातं सितं स्वच्छं जातीफलसमं वरम् ।
छायावद्बहुलं रम्यं निर्द्दोषं यदि लभ्यते ॥
अमूल्यं तद्बिनिर्द्दिष्टं रत्नलक्षणकोविदैः ।
दुर्लभं नृपयोग्यं स्यादल्पभाग्यैर्न लभ्यते ॥”
अन्यस्त्वाह ।
“सर्व्वस्य तस्याकरजा विशेषात्
रूपप्रमाणे च यथैव विद्बान् ।
नहि व्यवस्थास्ति गुणागुणेषु
सर्व्वत्र सर्व्वाकृतयो भवन्ति ॥”
ब्रह्मादिजातिभेदेन शुक्तयोऽपि चतुर्व्विधाः ।
तासु सर्व्वासु जातं हि मौक्तिकं स्याच्चतुर्व्विधम् ॥
ब्राह्मणस्तु सितः स्वच्छो गुरुः शुक्लः प्रभान्वितः ।
आरक्तः क्षत्त्रियः स्थूलस्तथारुणविभान्वितः ॥
वैश्यस्त्वापीतवर्णोऽपि स्निग्धः श्वेतः प्रभान्वितः ।
शूद्रः शुक्लवपुः सूक्ष्मस्तथा स्थूलोऽसितद्युतिः ॥
वर्षोपलानां समवर्णशोभं
त्वक्सारमध्यप्रभवं प्रदिष्टम् ।
ते वेणवो दिव्यजनोपभोग्ये
स्थाने प्ररोहन्ति न सार्व्वजन्ये ॥
वंशजं शशिसङ्काशं कक्कोलीफलमार्द्रकम् ।
प्राप्यते बहुभिः पुण्यैस्तद्रक्ष्यं वेदमन्त्रतः ॥
पञ्चभूतसमुद्रेकाद्वंशे पञ्चविधे भवेत् ।
मुक्ता पञ्चविधा तासां यथालक्षणमुच्यते ॥
पार्थिवी गुरुवत्सा च तैजसी तेजसा लघुः ।
वायवी च मृदुः स्थूला गागनी कोमला लघुः ।
आप्याः स्निग्धा भृशं शुक्लाः पञ्चैताः प्रवरा
मताः ।
आसां धारणमात्रेण व्याधिः कोऽपि न
जायते ॥” * ॥
एवमन्यत्रापि ।
“गजाहिकोलमत्स्यनां शीर्षे मुक्ताफलोद्भवः ।
त्वक्सारशुक्तिशङ्खानां गर्भे मुक्ताफलोद्भवः ॥
धाराधरेषु जायेत मौक्तिकं जलबिन्दुभिः ।
जीमूते शुचिरूपञ्च गजे पाटलभास्वरम् ॥
मत्स्ये श्वेतञ्च निस्तेजः फणिन्द्रे नीलभास्वरम् ।
हरिच्छ्वेतं तथा वंशे पीतश्वेतञ्च शूकरे ।
शङ्खशुक्त्युद्भवं श्वेतं मुक्तारत्नमनुत्तमम् ॥
चतुर्धा मौक्तिके च्छाया पीता च मधुरा सिता ।
नीला चैव समाख्याता रत्नतत्त्वपरीक्षकैः ॥
पीता लक्ष्मीप्रदा छाया मधुरा बुद्धिवर्द्धिनी ।
शुक्ला यशस्करी छाया नीला सौभाग्यदायिनी ॥
सिता छाया भवेद्बिप्रः क्षत्त्रियश्चार्करश्मिवान् ।
पीतच्छाया भवेद्वैश्यः शूद्रः कृष्णरुचिर्म्मतः ॥ *
अथ गुणाः ।
सुतारञ्च सवृत्तञ्च स्वच्छञ्च निर्म्मलं तथा ।
घनं स्निग्धञ्च सच्छायं तथा स्फुटितमेव च ।
अष्टौ गुणाः समाख्याता मौक्तिकानामशेषतः ॥
तद्यथा, --
तारकाद्युतिसङ्काशं सुतारमिति गद्यते ।
सर्व्वतो वर्त्तुलं यच्च सुवृत्तं तन्निगद्यते ॥
स्वच्छं दोषविनिर्म्मुक्तं निर्म्मलं मलवर्ज्जितम् ।
गुरुत्वं तुलने यस्य तद्घनं मौक्तिकं वरम् ॥
स्नेहेनैव विलिप्तं यत्तत् स्निग्धमिति गद्यते ।
छायासमन्वितं यच्च सच्छायं तन्निगद्यते ॥
व्रणरेखाविहीनं यत्तत् स्यादस्फुटितं शुभम् ॥
भ्राजिष्णु कोमलं कान्तं मनोज्ञं स्फुरतीव च ।
स्रवतीव च सत्त्वानि तन्महारत्नसंज्ञितम् ॥
श्वेतकाचसमाकारं शुभ्रांशुशतयोजितम् ।
शशिराजप्रतिच्छायं मौक्तिकं देवभूषणम् ॥” * ॥
गारुडे ।
त्वक्सारनागेन्द्रतिमिप्रभूतं
यच्छङ्खजं यच्च वराहजातम् ।
प्रायो वियुक्तानि भवन्ति भासा
शस्तानि माङ्गल्यतया तथापि ॥
प्रमाणवद्गौरवरश्मियुक्तं
सितं सुवृत्तं समसूक्ष्मरन्ध्रम् ।
अक्रेतुरप्यावहति प्रमोदं
यन्मौक्तिकं तद्गुणवत् प्रदिष्टम् ॥
एवं समस्तेन गुणोदयेन
यन्मौक्तिकं योगमुपागतं स्यात् ।
न तस्य भर्त्तारमनर्थजात
एकोऽपि दोषः समुपैति सद्यः ॥
एवं सर्व्वगुणोपेतं मौक्तिकं येन धार्य्यते ।
तस्यायुर्व्वर्द्धते लक्ष्मीः सर्व्वपापं प्रणश्यति ॥
गुणवद्गुरु यद्देहे मौक्तिकैकं हि तिष्ठति ।
चञ्चलापि स्थिरा भूत्वा कमला तत्र तिष्ठति ॥”
दोषो यथा, --
“चत्वारः स्युर्महादोषाः षण्मध्याश्च प्रकीर्त्तिताः ।
एवं दश समाख्यातास्तेषां वक्ष्यामि लक्षणम् ॥
यत्रैकदेशे संलग्नः शुक्तिखण्डो विभाव्यते ।
शुक्तिलग्नः समाख्यातः स दोषः कुष्ठकारकः ॥
मीनलोचनसङ्काशो दृश्यते मौक्तिके तु यः ।
मत्स्याक्षः स तु दोषः स्यात् पुत्त्रनाशकरो ध्रुवम् ॥
दीप्तिहीनं गतच्छायं जठरं तद्विदुर्व्वुधाः ।
तस्मिन् संधारिते मृत्युर्जायते नात्र संशयः ॥
मौक्तिकं विद्रुमच्छायमतिरक्तं विदुर्व्वुधाः ।
दारिद्रजनकं यस्मात् तस्मात्तत् परिवर्जयेत् ॥
उपर्य्युपरि तिष्ठन्ति बलयो यत्र मौक्तिके ।
त्रिवृत्तं नाम तस्योक्तं सौभाग्यक्षयकारकम् ।
अवृत्तं मौक्तिकं यच्च चिपिटं यन्निगद्यते ।
मौक्तिकं घ्रियते येन तस्याकीर्त्तिर्भवेत् सदा ॥
त्रिकोणं त्र्यस्रमाख्यातं सौभाग्यक्षयकारकम् ।
दीर्घं यत्तत् कृशं प्रोक्तं प्रज्ञाविध्वंसकारकम् ॥
निर्भग्नमेकतो यच्च कृशपार्श्वं तदुच्यते ।
सदोषं मौक्तिकं निन्द्यं निरुद्योगकरं हि
तत् ।
अवृत्तं पिडकोपेतं सर्व्वसम्पत्तिहारकम् ॥ * ॥
यत्र कृत्रिमसन्देहः क्वचिद्भवति मौक्तिके ।
उष्णे सलवणे स्नेहे निशान्तद्वासयेज्जले ॥
ब्रीहिभिर्मर्दनीयंवा शुष्कवस्त्रोपवेष्टितम् ।
यत्तु नायाति वैवर्ण्यं विज्ञेयं तदकृत्रिमम् ॥ * ॥
तथा हि ।
क्षिपेद्गोमूत्रभाण्डे तु लवणक्षारसंयुते ।
स्वेदयेद्घह्निना वापि शुष्कवस्त्रेण वेष्टयेत् ॥
हस्ते मौक्तिकमादाय ब्रीहिभिश्चोपघर्षयेत् ।
कृत्रिमं भङ्गमाप्नोति सहजञ्चाति दीप्यते ॥
कृत्वा पचेत् सुपिहिते शुभदारभाण्डे
मुक्ताफलं निहितनूतनशुक्तिकाण्डम् ।
स्फीटन्तथा प्रणिदधीत ततश्च भाण्डात् ।
संस्थाप्य धान्यनिचये च तमेकमासम् ॥
आदाय तत् सकलमेव ततोऽन्नभाण्डं
जम्बीरजातरसयोजनया विपक्वम् ।
घृष्टं ततो मृदुतनूकृतपिण्डमूलैः
कुर्य्याद्यथेच्छमिह मौत्तिकमाशु विद्धम् ॥
मृल्लिप्तमत्स्यपुटमध्यगतन्तु कृत्वा
पश्चात् पचेत्तनु ततश्च वितानपत्या ।
दुग्ध ततः पयसि तद्बिपचेत् सुरायां
पक्वन्ततोऽपि पयसा शुचि चिक्वणेन ।
शुद्धं ततो विमलवस्त्रनिघर्षणेन
स्यात् मौक्तिकं विमलसद्गुणकान्तिजालम् ॥”
अथ मूल्यम् ।
“पञ्चभिर्माषको ज्ञेयो गुञ्जाभिर्माषकैस्तथा ।
चतुर्भिः शाणमाख्यातं माषकैर्मणिवेदिभिः ॥
एकस्य शुक्तिप्रभवस्य शुद्ध-
मुक्तामणेः शाणकसम्मितस्य ।
मूल्यं सहस्राणि कपर्द्दकानि
त्रिभिः शतैरभ्यधिकानि पञ्च ॥
यन्माषकार्द्धेन ततो विहीनं
चतुःसहस्रं लभतेऽस्य मूल्यम् ।
यन्माषकांस्त्रीन् बिभृयाद्गुरुत्वे
द्वे तस्य मूल्यं परमं प्रदिष्टम् ॥
अर्द्धाधिकद्बौ वहतोऽस्य मूल्यं
त्रिभिः शतैरभ्यधिकं सहस्रम् ।
द्विमाषकोन्मापितगौरवस्य
शतानि चाष्टौ कथितानि मूल्यम् ॥
अर्द्धाधिकमाषकसम्मितस्य
सपञ्चविंशं त्रितयं शतानाम् ।
यन्माषकोन्मापितमानमेकं
तस्याधिकं विंशतिभिः शतं स्यात् ॥
पृष्ठ ३/७३२
गुञ्जाश्च षड्धारयतः शते द्वे
मूल्यं परं तस्य वदन्ति तज्ज्ञाः ।
गुञ्जाश्चतस्रो विधृतं शतार्द्धा-
दर्द्धं लभेताप्यधिकं त्रिभिर्व्वा ॥
अतः परं स्याद्धरणप्रमाणं
संख्याविनिर्द्देशविनिश्चयोक्तिः ।
त्रयोदशानां धरणे धृतानां
हिक्केति नाम प्रवदन्ति तज्ज्ञाः ॥
अध्यर्द्धमात्रञ्च शतं कृतं स्यान्-
मूल्यं गुणैस्तस्य समन्वितस्य ।
यदि षोडषभिर्भवेत् सुपूर्णं
धरणं तत्प्रवदन्ति दार्व्विकाख्यम् ॥
अधिकं दशभिः शतञ्च मूल्यं
समवाप्नोत्यपि बालिशस्य हस्तात् ।
यदि विंशतिभिर्भवेत् सुपूर्णं
धरणं मौक्तिकजं वदन्ति तज्ज्ञाः ॥
नवसप्ततिमाप्नुयात् स्वमूल्यं
यदि न स्याद्गुणयुक्तितो विहीनम् ॥
त्रिंशता धरणं पूर्णं शिक्येति परिकीर्त्त्यते ।
चत्वारिंशत्परं तस्य मूल्यमेष विनिश्चयः ॥
चत्वारिंशत् भवेत् शिक्या त्रिशन्मूल्यं लभेत सा ।
पञ्चाशत्तु भवेत् सोमस्तस्य मूल्यन्तु विंशतिः ॥
षष्टिर्निकरशीर्षं स्यात्तस्य मूल्यं चतुर्द्दश ।
अशीतिर्नवतिश्चेति कुप्येति परिकल्प्यते ॥
एकादश स्युर्नव च तयोर्मूल्यमनुक्रमात् ।
शतमर्द्धाधिकं द्वे च चूर्णोऽयं परिकीर्त्तितः ॥
सप्त पञ्च त्रयश्चैव तेषां मूल्यमनुक्रमात् ॥
शाणात् परं माषकमेकमेकं
यावद्बिवर्द्धेत गुणैरपीदम् ।
मूल्येन तावद्द्विगुणेन योग-
माप्नोत्यनावृष्टिहतेऽपि देशे ॥
सूक्ष्मातिसूक्ष्मोत्तममध्यमानां
यन्मौक्तिकानामिह मूल्यमुक्तम् ।
तज्जातिमात्रेण न जातु कार्य्यं
गुणैरहीनस्य हि तत् प्रदिष्टम् ॥
यत्तु चन्दांशुसङ्काशमीषद्विम्बफलाकृति ।
स्वमूल्यात् सप्तमं भागमवृत्तत्वाल्लभेत तत् ॥
पीतकस्य भवेदर्द्धमवृत्तस्य त्रिभागतः ।
विषमव्यस्तजातीनां षड्भागं मूल्यमादिशेत् ॥
अर्द्धरूपाणि सस्फोटात् पङ्कचूर्णानि यानि च ।
असाराणि च यानि स्युः करकाकारवन्ति च ॥
एकदेशप्रभावन्ति सकलाश्लेषितानि च ।
यानि चातकवर्णानि कांस्यवर्णानि यानि च ॥
मीननेत्रसवर्णानि ग्रन्थिभिः संवृतानि च ।
सदोषाणि च यानि स्युस्तेषां मूल्यं पदांशिकम् ॥
अन्यत्र तु ।
सञ्चाली प्रोच्यते गुञ्जा सा तिस्रो रूपकं भवेत् ।
रूपकैर्दशभिः प्रोक्तः कलञ्जो नाम नामतः ॥
कलञ्जनामकं द्रव्यमेकदेशे निघापयेत् ।
अन्यतो जलबिन्दूंस्तु तोलनार्थं विनिःक्षिपेत् ॥
चत्वारि त्रीणि युग्मंवा तथैकं बहु वा स्थितम् ।
समं कलञ्जमानेन तुलामानादतः क्रमात् ॥
नवमात् पञ्चमं याबत् कलञ्जेन समं यदा ।
तत्क्रमादुत्तमं ज्ञेयं मौक्तिकं रत्नवेदिभिः ॥
चतुर्द्दशात् समारभ्य दशसंख्याविधिं क्रमात् ।
कलञ्जस्य समानं वा मौक्तिकं मध्यमं विदुः ॥
आरभ्य विंशतितमात् क्रमात् पञ्चदशावधि ।
लङ्घ्यास्ताः कथिता मुक्ता मूल्यञ्च तदनुक्रमात् ॥
कलञ्जद्वयमानेन यद्येकं मौक्तिकं भवेत् ।
न धार्य्यं नरनाथैस्तु देवयोग्यममानुषम् ॥
इत्थं विचार्य्य यो मुक्तां परिधत्ते नराधिपः ।
तस्यायुश्च यशो वीर्य्यं विपरीतमतोऽन्यथा ॥”
इति युक्तिकल्पतरुः ॥
(अथास्याः शोधनम् ।
“स्वेदयेद्दोलिकायन्त्रे जयन्त्याः स्वरसेन च ।
मणिमुक्ताप्रबालानि यामैकं शोधनं भवेत् ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि-
कारे ॥) अन्यत् मुक्ताफलशब्दे द्रष्टवम् ॥ * ॥ अथ
मुक्ताधारणदिनम् ।
“रेवत्यश्विधनिष्ठासु हस्तादिषु च पञ्चसु ।
शङ्खविद्रुममुक्तानां परिधानं प्रशस्यते ॥”
इति समयप्रदीपः ॥

मुक्ताकलापः, पुं, (मुक्तानां कलापः समूहोऽत्र ।)

मुक्ताहारः । यथा, --
“हारो मुक्तातः प्रालम्बस्रक्कलापावलीलताः ।”
इति हेमचन्द्रः । ३ । ३२२ ॥
(यथा, कुमारसम्भवे । १ । ४२ ।
“कण्ठस्य तस्याः स्तनबन्धुरस्य
मुक्ताकलापस्य च निस्तलस्य
अन्योन्यशोभाजननाद्बभूव
साधारणो भूषणभूष्यभावः ॥”)

मुक्तागारं, क्ली, (मुक्ताया आगारमिव । मुक्तोत्-

पादनाधारत्वादस्य तथात्वम् ।) शुक्तिः । इति
शब्दचन्द्रिका ॥ मौक्तिकगृहञ्च ॥

मुक्तापुष्पः, पुं, (मुक्ता इव पुष्पाण्यस्य ।) कुन्द-

वृक्षः । इति राजनिर्घण्टः ॥ (गुणादिविवृति-
रस्य कुन्दशब्दे द्रष्टव्या ॥)

मुक्ताप्रसूः, स्त्री, (मुक्तां प्रकर्षेण सूते जनयतीति

प्र + सू + क्विप् ।) शुक्तिः । इति राज-
निर्घण्टः ॥

मुक्ताप्रालम्बः, पुं, (मुक्तानां प्रालम्बः हारभेदः ।)

मुक्ताहारः । इति हेमचन्द्रः । ३ । ३२२ ॥

मुक्ताफलं, क्ली, (मुक्ताफलमिव ।) कर्पूरम् ।

(मुक्तैव फलमिव ।) मौक्तिकम् । (यथा, मुग्ध-
बोघटीकायां कारके । ढेनार्थादित्यत्र । दुर्गा-
दासधृतम् ।
“मुक्ताफलाय करिणं हरिणं पलाय
सिंहं निहन्ति भुजविक्रमसूचनाय ॥”)
लवलीफलम् । इति मेदिनी । ले, १६६ ॥
(मौक्तिकार्थेऽस्य पर्य्यायः ।
“मौक्तिकं शौक्तिकं मुक्ता तथा मुक्ताफलञ्च
तत् ।”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
यथास्य भस्मकरणविधिः ।
“मुक्ताफलानि शुद्धानि खल्ले पिष्ट्वा पुटेल्लघु ।
एवं भस्मत्वमाप्नोति -- ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि-
कारे ॥) वोपदेवकृतग्रन्थविशेषः । यथा, --
“मुक्ताफलेन ग्रन्थेन सद्भागवतशुक्तिना ।
भक्तिस्वात्यम्बुना मुग्धमार्कण्डेयशिशुश्रिया ॥
विद्बद्धनेशशिष्येण भिषक्केशवसूनुना ।
हेमाद्रिर्वोपदेवेन मुक्ताफलमचीकरत् ॥”
इति तस्य चतुर्थोपान्त्यश्लोकद्बयम् ॥
अथ मुक्ताफल परीक्षा ।
“द्बिपेन्द्रजीमूतवराहशङ्ख-
मत्स्याहिशुक्त्युद्भववेणुजानि ।
मुक्ताफलानि प्रथितानि लोके
तेषाञ्च शुक्त्युद्भवमेव भूरि ॥
तत्रैव चैकस्य हि मूलमात्रा
निविश्यते रत्नपरस्य जातु ।
वेध्यन्तु शुक्त्युद्भवमेव तेषां
शेषाण्यवेध्यानि वदन्ति तज्ज्ञाः ॥
त्वक्सारनागेन्द्रतिमिप्रसूतं
यत् शङ्खजं यच्च वराहजातम् ।
प्रायो विमुक्तानि भवन्ति भासा
शस्तानि माङ्गल्यतया तथापि ॥
या मौक्तिकानामिह जातयोऽष्टौ
प्रकीर्त्तिता रत्नविनिश्चयज्ञैः ।
कम्बूद्भवं तेष्वध मम्प्रदिष्ट-
मुत्पद्यते यच्च गजेन्द्रकुम्भात् ॥
स्वयोनिमध्यच्छवितुल्यवर्णं
शाङ्खं बृहत्कोलफलप्रमाणम् ।
उत्पद्यते वारणकुम्भमध्या-
दापीतवर्णं प्रभया विहीनम् ॥
ये कम्बवः शार्ङ्गमुखावमर्ष-
पीतस्य शङ्खप्रवरस्य गोत्रे
मतङ्गजाश्चापि विशुद्धवंश्या-
स्ते मौक्तिकानां प्रभवाः प्रदिष्टाः ॥
पाठीनपृष्ठस्य समानवर्णं
मीनात् सुवृत्तं लघुनातिसूक्ष्मम् ।
उत्पद्यते वारिचराननेषु
मत्स्याश्च ते मध्यचराः पयोधेः ॥
वराहदंष्ट्राप्रभवं प्रदिष्ठं
तस्यैव दंष्ट्राङ्कुरतुल्यवर्णम् ।
क्वचित् कथञ्चित् स भुवः प्रदेशे
प्रजायते शूकरवद्बिशिष्टः ॥
वर्षोपलानां समवर्णशोभं-
त्वक्सारपर्व्वप्रभवम्प्रदिष्टम् ।
ते वेणवो दिव्यजनोपभोग्ये
स्थाने प्ररोहन्ति न सार्व्वजन्ये ॥
भौजङ्गमं मीनविशुद्धवृत्तं
संस्थानतोऽत्युज्ज्वलवर्णशोभम् ।
नितान्तधौतप्रविकल्प्यमान-
निस्त्रिंशधारासमवर्णकान्ति ॥
प्राप्यैति रत्नानि महाप्रभाणि
राज्यं श्रियं वा महतीं दुरापाम् ।
पृष्ठ ३/७३३
पात्रं हि नापुण्यकृतो भवन्ति
मुक्ताफलस्याहिशिरोभवस्य ॥
जिज्ञासया रत्नधनं विधिज्ञैः
शुभे मुहूर्त्ते प्रयतैः प्रयत्नात् ।
रक्षाविधानं सुमहद्बिधाय
हर्म्म्योपरिस्थं क्रियते यदा तत् ॥
तदा महादुन्दुभिमन्द्रघोषै-
र्विद्युल्लताविस्फुरितान्तरालैः ।
पयोधराक्रान्तिविलम्बलम्बै-
र्घनैर्घनैर्व्वा व्रियतेऽन्तरीक्षम् ॥
न तं भुजङ्गा न च जातुधाना
न व्याधयो नाप्युपसर्गदोषाः ।
हिंसन्ति यस्याहिशिरःसमुत्थं
मुक्ताफलं तिष्ठति पूज्यमानम् ॥
नाभ्येति मेघप्रभवं धरित्रीं
वियद्गतं तद्बिबुधा हरन्ति ।
अर्च्चिःप्रभानावृतदिग्विभाग-
मादित्यवद्दुःखविभाव्यविम्बम् ॥
तेजस्तिरस्कृत्य हुताशनेन्दु-
नक्षत्रताराप्रभवं समग्रम् ।
दिवा यथा दीप्तिकरं तथैव
तमोऽवगाढास्वपि तन्निशासु ॥
विचित्ररत्नद्युतिसारतोय-
चतुःसमुद्राभरणोपपन्ना ।
कृत्स्ना न वा स्यादिति निश्चयो मे
मूल्यं मही तस्य सुवर्णपूर्णा ॥
हीनोऽपि यस्तल्लभते कदाचिद्-
विपाकयोगान्महतः शुभस्य ।
सपत्नहीनां स महीं समग्रां
भुनक्ति तत्तिष्ठति यावदेव ॥
न केवलं तच्छुभकृन्नृपस्य
भाग्यैः प्रजानामपि तस्य जन्म ।
यद्योजनानां परितः सहस्रं
सर्व्वाननर्थान् विमुखीकरोति ॥
नक्षत्रमालेव दिवो विशीर्णा
दन्तावली तस्य महासुरस्य ।
विचित्रवर्णेषु विशुद्धवर्णा
पयःसु पत्युः पयसां पपात ॥
सम्पूर्णचन्द्रांशुकलापकान्ते-
र्मणिप्रवेकस्य महागुणस्य ।
तच्छुक्तिमप्सु स्थितमापबीज-
मासन् पुराप्यन्यभवानि यानि ॥
यस्मिन् प्रदेशेऽम्बुनिधौ पपात
सुचारु मुक्तामणिरत्नबीजम् ।
तस्मिन् पयस्तोयधरावकीर्णं
शुक्तौ स्थितं मौक्तिकतामवाप ॥
सैंहलिकपारलौकिकसौरा-
ष्ट्रिकताम्रपर्णपारसवाः ।
कौवेरपाण्ड्यहाटक-
हेमका इत्याकरास्त्वष्टौ ॥
शुक्त्युद्भवं नातिनिकृष्टवर्णं
प्रमाणसंस्थानगुणप्रभाभिः ।
उत्पद्यते वर्द्धनपारसीक-
पाताललोकान्तरसिंहलेषु ॥
चिन्त्या न तस्याकरजा विशेषा
रूपे प्रमाणे च यतेत विद्वान् ।
न च व्यवस्थास्ति गुणागुणेषु
सर्व्वत्र सर्व्वाकृतयो वसन्ति ॥
एकस्य शुक्तिप्रभवस्य मुक्ता-
फलस्य शाणेन समुन्मितस्य ।
मूल्यं सहस्राणि तु रूपकाणां
त्रिभिः शतैरभ्यधिकानि पञ्च ॥
यन्माषकार्द्धेन ततो विहीनं
तत्पञ्चभागद्वयहीनमूल्यम् ।
यन्माषकांस्त्रीन् बिभृयात् सहस्रे
द्वे तस्य मूल्यं परमं प्रदिष्टम् ॥
अर्द्धाधिकौ द्वौ वहतोऽस्य मूल्यं
त्रिभिः शतैरभ्यधिकं सहस्रम् ।
द्विमाषकोन्मापितगौरवस्य
शतानि चाष्टौ कथितानि मूल्यम् ॥
अर्द्धाधिकं माषकमुन्मितस्य
सपञ्चविंशत्रितयं शतानाम् ।
गुञ्जाश्च षड् धारयतः शते द्वे
मूल्यं परं तस्य वदन्ति तज्ज्ञाः ॥
अध्यर्द्धमुन्मापकृतं शतं स्यान्
मूल्यं गुणैस्तस्य समन्वितस्य ।
यदि षोडशभिर्भवेदनूनं
धरणं तत्प्रवदन्ति दार्व्विकाख्यम् ॥
अधिकं दशभिः शतञ्च मूल्यं
समवाप्नोत्यपि वालिशस्य हस्तात् ।
द्विगुणैर्दशभिर्भवेदनूनं
धरणं तद्भवकं वदन्ति तज्ज्ञाः ॥
नवसप्ततिमाप्नुयात् स्वमूल्यं
यदि न स्याद्गुणसम्पदा विहीनम् ॥
त्रिंशता धरणं पूर्णं शिक्यं तस्येति कीर्त्त्यते ॥
चत्वारिंशद्भवेत्तस्याः परं मूल्यं विनिश्चयः ।
चत्वारिंशद्भवेच्छिक्थो विंशंमूल्यं लभेत सा ॥
षष्टिर्निकरशीर्षं स्यात्तस्य मूल्यं चतुर्द्दश ।
अशीतिर्नवतिश्चैव कुप्येति परिकीर्त्तिता ।
एकादश स्यान्नव च तयोर्मूल्यमनुक्रमात् ॥
आदाय तत् सकलमेव ततोऽन्नभाण्डं
जम्बीरजातरसयोजनया विपक्वम् ।
घृष्टं ततो मृदुतनूकृतपिण्डमूलैः
कुर्य्याद्यथेष्टमनुमौक्तिकमाशु विद्धम् ॥
मृल्लिप्तमत्स्यपुटमध्यगतन्तु कृत्वा
पश्चात् पचेत्तनु ततश्च वितानपत्या ।
दुग्धे ततः पयसि तं विपचेत् सुधायां
पक्वं ततोऽपि पयसा शुचि चिक्वणेन ॥
शुद्धं ततो विमलवस्त्रनिघर्षणेन
स्यान्मौक्तिकं विपुलसद्गुणकान्तियुक्तम् ।
व्याडिर्जगाद जगतां हि महाप्रभाव-
सिद्धो विदग्धहिततत्परया दयालुः ॥
श्वेतकाचसमं तारं हेमांशशतयोजितम् ।
रसमध्ये प्रधार्य्येत मौक्तिकं देहभूषणम् ॥
एवं हि सिंहले देशे कुर्व्वन्ति कुशला जनाः ।
यस्मिन् कृत्रिमसन्देहः क्वचिद्भवति मौक्तिके ॥
उष्णे सलवणे स्नेहे निशां तद्वासयेज्जले ।
ब्रीहिभिर्मर्द्दनीयं वा शुष्कवस्त्रोपवेष्टितम् ॥
यत्तु नायाति वैवर्णं विज्ञेयं तदकृत्रिमम् ॥
सितं प्रमाणवत् स्निग्धं गुरु स्वच्छं सुनिर्म्मलम् ।
तेजोऽधिकं सुवृत्तञ्च मौक्तिकं गुणवत् स्मृतम् ॥
प्रमाणवद्गौरवरश्मियुक्तं
सितं सुवृत्तं सममूक्ष्मवेधम् ।
अक्रेतुरप्यावहति प्रमोदं
यन्मौक्तिकं तद्गुणवत् प्रदिष्टम् ॥
एवं समस्तेन गुणोदयेन
यन्मौक्तिकं योगमुपागतं स्यात् ।
न तस्य भर्त्तारमनर्थेजात
एकोऽपि कश्चित् समुपैति दोषः ॥”
इति गारुडे ६९ अध्यायः ॥

मुक्तामुक्तः, त्रि, (मुक्तश्च अमुक्तश्चेति विशेषणयो-

र्द्वद्वम् ।) क्षिप्ताक्षिप्तः । अस्य प्रयोगो अस्त्रे
शस्त्रे च प्रायो वर्त्तते । इति हलायुधः ॥

मुक्तालता, स्त्री, (मुक्ताभिर्लतेव ।) मुक्ताहारः ।

इति हेमचन्द्रः । ३ । ३२२ ॥

मुक्तावली, स्त्री, (मुक्तानां आवल्यत्र) मुक्ता-

हारः । इत्यमरः । २ । ६ । १०५ ॥ (मुक्तानामा-
वली ।) मौक्तिकश्रेणी च ॥ (तालविशेषः । यथा,
सङ्गीतदामोदरे ।
“खत्रयं सविरामान्तं नौ पुनः खत्रयं तथा ।
प्लुतौगः खयुगं गश्च यत्र मुक्तावली तु सा ॥”)

मुक्तास्फोटः, पुं, (मुक्तानां स्फोटः विकाशोऽत्र ।)

शुक्तिः । इत्यमरः । १ । १० । २३ ॥

मुक्तास्फोटा, स्त्री, (मुक्तास्फोट + टाप् ।) शुक्तिः ।

इति राजनिर्घण्टः ॥

मुक्तिः, स्त्री, (मुच् + भावे क्तिन् ।) आत्यन्तिक-

दुःखनिवृत्तिः । इति नैयायिकाः ॥ नित्यसुखा-
वाप्तिः । इति वैदान्तिकाः । शरीरेन्द्रियाभ्यां
आत्मनो मुक्तत्वं मुक्तिः । इति भरतः । मोक्षः ।
तत्पर्य्यायः । कैवल्यम् २ निर्व्वाणम् ३ श्रेयः ४
निःश्रेयसम् ५ अमृतम् ६ मोक्षः ७ अपवर्गः ८ ।
इत्यमरः । १ । ५ । ६ ॥ अपुनर्भवः ९ स्थिरः १०
अक्षरम् ११ । इति जटाधरः ॥ सा पञ्चविधा ।
सार्ष्टिः १ सालोक्यम् २ सारूप्यम् ३ सायुज्यम् ४
निर्व्वाणम् ५ । यथा, --
सार्ष्टिसारूप्यसालोक्यसामीप्यैकत्वमप्युत ।
दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः ॥”
इति श्रीभागवतम् ॥
“मुक्तिस्तु द्विविधा साध्वि ! श्रुत्युक्ता सर्व्वसम्मता ।
निर्व्वाणपददात्री च हरिभक्तिप्रदा नृणाम् ॥
हरिभक्तिस्वरूपाञ्च मुक्तिं वाञ्छन्ति वैष्णवाः ।
अन्ये निर्व्वाणरूपाञ्च सुक्तिमिच्छन्ति साधवः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २२ अध्यायः ॥ * ॥
मुक्तिकरयोगो यथा, --
“वक्ष्ये साङ्गमहायोगं भुक्तिमुक्तिकरं परम् ।
सर्व्वपापप्रशमनं भक्त्यानुपठितं शृणु ॥
पृष्ठ ३/७३४
ममेति मूलं दुःखस्य न ममेति च निर्व्वृतेः ।
दत्तात्रेयो ह्यलर्काय इममाह महामतिः ॥
अहमित्यङ्कुरोत्पन्नौ ममेति स्कन्धवान् महान् ।
गृहक्षेत्रोपशाखश्च पुत्त्रदारादिपल्लवः ॥
धनधान्यमहापत्रोऽनेककालैर्हि वर्द्धितः ।
पुण्यापुण्यसपुष्पश्च सुखदुःखमहाफलः ।
विधिवत् सुखशान्त्यर्थं जातोऽज्ञानमहातरुः ॥
संसाराध्वपरिश्रान्ता येऽत्र च्छायां समा-
श्रिताः ।
भ्रान्तिज्ञानसुखासीनास्तेषामात्यन्तिकं कुतः ॥
यैस्तु सत्सङ्गपाषाणनिशितेन महातरुः ।
छिन्नो विद्याकुठारेण ते गता लयमीश्वरे ॥
प्राप्य ब्रह्मरसं पीतं नीरजस्कमकण्टकम् ।
प्राप्नुवन्ति पराः प्राज्ञा ज्ञाननिर्वृत्तिमेव च ॥
मूर्त्तेन्द्रियमयं मूलं नत्वं राजा नचाप्यहम् ।
न तन्मात्रादिकं वाचा नैवान्तःकरणन्तथा ॥
कं वा पश्यसि राजेन्द्र ! प्रधानमिदमावयोः ।
मृतः परेऽह्नि क्षेत्रज्ञः संजातोऽयं गुणात्मकः ॥
ममको दुःखमाप्त्यर्थं जातो मत्स्योऽम्भसा यथा ।
एकत्वेऽपि पृथग्भावस्तथा क्षेत्रात्मनो नृप ! ॥
ज्ञानपूर्ब्बाभियोगोऽतिज्ञानेन सह योगिनः ।
सा मुक्तिर्ब्रह्मणा चैक्यमनैक्यं पुत्त्र ! ते गुणैः ।
तद्गृहं यत्र वसतिस्तद्भोज्यं येन जीवति ॥”
इति गारुडे २३० अध्यायः ॥ * ॥
अपि च ।
“हरिरात्मा न सन्देहो यदा तत् समजायत ।
तदा मुक्तः स संसारी विष्णोरेवात्मतां व्रजेत् ।
नान्यथा मुच्यते चात्मा भ्रमन् वै घटियन्त्रवत् ॥
पूर्ब्बकर्म्मनिबद्धोऽपि सर्व्वयोनिषु नित्यशः ।
कूटस्थः पशुतां याति आत्मज्ञानविवर्जितः ॥
कुर्व्वन्नहं ममेतीदमेवं दुःखाय कल्पते ।
मृद्धेतोर्हि यथा कार्य्यं लिप्यते वै न्वनीश्वरः ॥
क्षीराधानादिभिर्यद्वद्भाण्डं तद्वन्महानसे ।
चन्द्रकान्तमणिर्यद्वद् गृह्णीते सोपचान् गुणान् ।
सुखं दुःखं तथा क्षेमं संसरन् नूनमीश्वरः ॥
स्वप्ने यः पुरुषो नित्यमटते कर्म्मबन्धनात् ।
मन्यमानः सुखं दुःखं सोऽप्येव विप्र ! मुच्यते ॥
जगन्मुक्ते न सृष्टिः स्यादमुक्ते वर्द्धते सदा ।
तस्माज्जगत्क्षयं विद्यात् ज्ञानं नाधिकमेव च ॥
यत्र तत्र स्थितो ज्ञानी परमाक्षरवित् सदा ।
विषयान्तरसक्तो वा याति देहे मृते हरिम् ॥
न तस्य प्रतिबन्धोऽस्ति यद्यनीहोऽपि लीलया ।
कुरुते गृह्यते नैव पद्मपत्रमिवाम्भसा ॥
यथा दुर्द्दिनसंघातं मेघवृन्दैर्व्यवस्थितम् ।
तदिच्छुर्निर्मलावस्थो ज्ञानी विषयसंज्ञितः ॥
सर्व्वावस्थोऽपि मुच्येत भावयुक्तः परे पदे ।
जीवन्मुक्तः स मुक्तः स्यान्निद्राविरहितस्तु यः ॥
कर्त्ता हर्त्ता च भोक्ता च सर्व्वज्ञः सर्व्वगो
हरिः ।
एकं स्वच्छन्दलीलस्य मुक्तिरित्यभिधीयते ॥
जीवमुक्तिमजानन्तो मूर्च्छिताकारविग्रहाः ।
विषमुग्धा इवाभान्ति सूढाश्चैतन्यवर्जिताः ॥
निर्गुणः स तु विज्ञयः सुखदुःखमतीतवान् ।
जीवनाशो भवेद्यत्र तत् सुखं निष्प्रयोजनम् ॥
मृत्पिण्डदण्डवन्मोक्षस्तन्मोक्षस्तु भवेद्वृथा ।
तिष्ठन्ति काष्ठवद्ये च संवित्तिपरिवर्जिताः ॥
ते च मायोदरे लीना जडान्धवधिरोपमाः ।
आकाशवद्भवेदात्मा विदेहो निष्प्रचेतनः ॥
अलं ह्यनेन मोक्षेण चेतनारहितेन च ।
वरमेव च संसारी विषयासक्तचेतनः ॥
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।
भुञ्जन्नात्मा उभौ पाशौ संसारे संव्यवस्थितः ॥
ईदृशं हि परं ज्ञानं वेदादीनामशेषतः ।
सुखस्य च फलं भुङ्क्ते स्वर्गे चेह द्विजोत्तम ! ॥
यत्र वासः परे स्थाने सुखदुःखविवर्जितः ।
केवलं जीवनाशोऽयं प्रोक्तज्ञानमजानता ॥
चेतनारहितो ज्ञानमाकाशस्थोऽप्यचेतनः ।
मृत्पिण्डदण्डलोष्टादिशिलापट्टककुड्यवत् ॥
अथ श्रान्तो नरो यद्वत् सुसुप्तः सुखमश्नुते ।
बोध्यमानः सचेतापि सुखाद्बोद्धुं न मन्यते ॥ * ॥
केषां मुक्तमिदं मोक्षः सुखमत्यन्तकेवलम् ।
तदहं संप्रवक्ष्यामि शृणुष्व गदतो मम ॥
दुःखानामागमो नास्ति यत्र सौख्यं निरन्तरम् ।
विद्यते तत् परं दृष्ट्वा योऽप्यानन्दसुखी भवेत् ॥
ब्रह्यज्ञानप्रविन्नाञ्च स्वच्छन्दात्मबलान्विताः ।
न तेषां पुनरावृत्तिर्यान्ति विष्णुलयं बुधाः ॥
अस्ति देवो हरिः शान्तः कारणोपायवर्जितः ।
तं ज्ञात्वा तु भवेन्मुक्तिर्निर्म्मला काययोगिनः ॥
ब्रह्मा विष्णुश्च रुद्रश्च चन्द्रसूर्य्यादयः सुराः ।
न विभक्तिं शरीरस्य यान्ति मुक्तिर्न विद्यते ॥
तस्मादाराधनीयोऽपि संयमेन्द्रियगोचरः ।
विष्णुर्मायापतिर्यो वै यदीच्छेन्मुक्तिमात्मनः ॥
नान्यत्र विद्यातपसो नान्यत्रेन्द्रियनिग्रहात् ।
नान्यत्र सर्व्वसंत्यागात् मोक्षं बिन्दति मानवः ॥
तस्माद्धर्म्ममुखो भूत्वा संयम्यात्मानमात्मना ।
धर्म्मं कुर्य्याद्विहायैनो धर्म्मात्मा सुखमेधते ॥
धर्म्मादेवाप्यते देहो दाराः पुत्त्रा धनं तथा ।
धर्म्मात् स्वर्गश्च मोक्षश्च यदन्यदपि दुर्लभम् ॥
ऋषयो देवगन्धर्व्वाः स्वधर्म्ममनुगामिनः ।
स्वर्गे तिष्ठन्ति विप्रर्षे ! ततो यास्यन्ति सद्गतिम् ॥
धर्म्ममर्थञ्च कामञ्च मोक्षञ्च ऋषिसत्तम् ! ।
समाप्नोति पुमान्नित्यं नारायणपरायणः ॥”
इति वह्निपुराणम् ॥
(निरुक्तिर्यथा, सांख्यसूत्रम् । ६ । २० ।
“मुक्तिरन्तरायध्वस्तेर्न परः ।”
यथाच, अष्टावक्रसंहितायाम् । १ । २ ।
“मुक्तिमिच्छसि रे तात ! विषयान् विषवत्त्यज ।
क्षमार्ज्जवदयातोषसत्यं पीयूषवद्भज ॥”)

मुक्तिदं, क्ली, (मुक्तिं ददातीति । मुक्ति + दा +

कः ।) भगवन्नामविशेषः । यथा, --
“अल्पाक्षरञ्च बह्वर्थं महासारञ्च मुक्तिदम् ।
नानासिद्धिप्रदातारं परं चित्तानुरञ्जकम् ॥
गुह्यात् गुह्यतरं चान्यन्नाम चाष्टाक्षरं परम् ।
मन्त्रं सुखसमुच्चार्य्यमशेषार्थप्रसाधकम् ॥
प्राह नारायणायेति नमोऽन्ताद्यों नियोगतः ।
ओमित्येकाक्षरे मन्त्रे स्थितः सर्व्वगतो हरिः ।
माधवायेति वै नाम धर्म्मकामार्थमोक्षदम् ॥”
इति वह्निपुराणम् ॥
मुक्तिदातरि, त्रि ॥ (यथा, देवीभागवते । १ । २ । १० ।
“तां ध्यात्वा सगुणां मायां मुक्तिदां निर्गुणा-
न्तथा ॥”)

मुक्तिमण्डपः, पुं, (मुक्तिदायकः मण्डपः । यद्वा

मुक्तेर्मण्डपः ।) विश्वेश्वरस्य दक्षिणपार्श्वस्थ-
मण्डपः । यथा, --
“निमेषमात्रं स्थितचित्तवृत्ता-
स्तिष्ठन्ति ये दक्षिणमण्डपेऽत्र ।
अनन्यभावा अपि गाढमानसा
न ते पुनर्गर्भदशामुपासते ॥”
इति काशीखण्डम् ॥
श्रीजगन्नाथमन्दिरदक्षिणपार्श्वस्थमण्डपश्च ॥

मुक्तिमुक्तः पुं, (मुक्त्या मोचनेन मुक्तः हीनः ।)

शिह्वकम् । इति रत्नमाला ॥

मुखं, क्ली, (खनति विदारयति अन्नादिकमनेन

खन्यते विधात्रा सुखमनेति वेति । खन् + “डित्-
खनेर्मुट् चोदात्तः ।” उणा० । ५ । २० । इति
करणे अच् । स च डित् मुडागमश्च ।)
शरीरावयवविशेषः । स तु मुखविवरम् ॥
(तन्निरुक्तिर्यथा, --
‘प्रजासृजा यतः खातं तस्मादाहुर्मुखं बुधाः ।’
इत्यमरटीकाधृतम् ।)
कवयस्तु तदुपलक्षिते समुदाये प्रयुञ्जते । इति
भरतः ॥ तत्तु गर्भस्थस्य पञ्चमासैर्भवति । इति
सुखबोधः ॥ तत्पर्य्यायः । वक्त्रस् २ आस्यम् ३
वदनम् ४ तुण्डम् ५ आननम् ६ लपनम् ७ ।
इत्यमरः । २ । ६ । ८९ ॥ (यथा, नैषधचरिते
९ । ४४ ।
“मुखं विमुच्य श्वसितस्य धारया
वृथैव नासापथधावनश्रमः ।”)
तस्य स्वरूपं यथा, --
‘ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च ।
गलो गलादि सकलं सप्ताङ्गं मुखमुच्यते ॥’
इति भावप्रकाशः ॥
रतिक्रियायां स्वस्त्रीमुखस्य स्नेहात् स्वबालक-
मुखस्य च चुम्बने शुद्धत्वं यथा, --
“मक्षिका सन्तता धारा मार्ज्जारो ब्रह्मबिन्दवः ।
स्त्रीमुखं बालकमुखं न दुष्टं मनुरब्रवीत् ॥”
इति कर्म्मलोचनम् ॥ * ॥
निःसरणम् । इत्यमरः । २ । ३ । १९ ॥ तत्तु
गृहस्य निष्क्रमणप्रवेशनवर्त्म । इति सर्व्वधरा-
दयः । गृहादिद्वारप्रवेशः । इति स्वामी । हट्ट-
मण्डपादेः प्रवेशनिर्गमः । इति कोक्कटः ।
गृहाङ्गणादिनिःसरणपथः । इति रमानाथः ।
इत्यमरटीकायां भरतः ॥ प्रारम्भः ॥ (यथा,
रघुवंशे । ३ । १ ।
“अथेप्सितं भर्त्तुरुपस्थितोदयं
सखीजनोद्बीक्षणकौमुदीमुखम् ।
पृष्ठ ३/७३५
निदानमिक्षाकुकुलस्य सन्ततेः
सुदक्षिणा दौर्हृदलक्षणं दधौ ॥”
“कौमुद्याः मुखं प्रारम्भम् ।” इति तट्टीकायां
मल्लिनाथः ।) उपायः ॥ सन्धिविशेषः ॥ (यथा,
दशरूपके । १ । २३ ।
“मुखं बीजसमुत्पत्तिर्नानार्थरससम्भवा ।
अङ्गानि द्वादशैतस्य बीजारम्भसमन्वयात् ॥”)
नाटकादेः शब्दः । इति मेदिनी । खे, ४ ॥
आद्यम् ॥ (यथा, रामायणे । २ । ५० । ७ ।
“अचक्षुर्विषयं प्रायाद् यथार्कः क्षणदामुखे ॥”)
प्रधानम् ॥ (यथा, महाभारते । २ । ३८ ।
२७ -- २९ ।
“राजा मुखं मनुष्याणां नदीनां सागरो मुखम् ।
नक्षत्राणां मुखं चन्द्र आदित्यस्तेजसां मुखम् ॥
पर्व्वतानां मुखं मेरुर्गरुडः पततां मुखम् ।
सदेवकेषु लोकेषु भगवान् केशवो मुखम् ॥”)
शब्दः । नाटकः । वेदः । इति शब्दरत्नावली ॥
(द्बारम् । यथा, रघुवंशे । ३ । २८ ।
“लिपेर्यथावद्ग्रहणेन वाङ्मयं
नदीमुखेनेव समुद्रमाविशत् ॥”
“नद्या मुखं द्वारम् । मुखन्तु वदने मुख्यारम्भे
द्वाराभ्युपाययोरिति यादवः ।” इति तट्टीकायां
मल्लिनाथः ॥ अग्रभागः । यथा, हठयोगप्रदीपि-
कायाम् । ३ । ५ ।
“तस्मात् सर्व्वप्रयत्नेन प्रबोधयितुमीश्वरीम् ।
ब्रह्मद्वारमुखे सुप्तां मुद्राभ्यासं समाचरेत् ॥”)

मुखः, पुं, डहुः । यथा, --

‘लकुचो लिकुचो नुत्तः खगवक्त्रो मुखो डहुः ।’
इति शब्दचन्द्रिका ॥

मुखगन्धकः, पुं, (मुखे गन्धः अस्मात् । कप् ।)

पलाण्डुः । इति राजनिर्घण्टः ॥

मुखघण्टा, स्त्री, (मुखे घण्ठेव शब्दसादृश्यात् ।)

हुलहुलीध्वनिः । इति त्रिकाण्डशेषः ॥

मुखचीरी, स्त्री, (मुखस्य चीरं वस्त्रविशेष इव ।

मुखचीर + स्वल्पार्थे ङीष् ।) जिह्वा । इति
शब्दमाला ॥

मुखजः, पुं, (मुखात् जायते इति । जन् + डः ।)

ब्राह्मणः । इति पुराणम् ॥ वक्त्रजाते त्रि ॥

मुखतीयं, त्रि, (मुखस्य इति । मुख + तसिल् ।

मुखतः । ततः “मुखपार्श्वशब्दाभ्यां तसन्ताभ्या-
मीयप्रत्ययो वक्तव्यः ।” ४ । ३ । ६० । इत्यस्य वार्त्ति-
कोक्त्या ईयः । “मुखपार्श्वतसोर्लोपश्च ।”
४ । २ । १३८ । इत्यत्र काशिकोक्तेश्च टिलोपः ।)
मुखसम्बन्धि । इति सिद्धान्तकौमुदी ॥

मुखदूषणः, पुं, (मुखं दूष्यते अनेनेति । दुष् +

णिच् + करणे ल्युट् ।) पलाण्डुः । इति राज-
निर्घण्टः ॥

मुखदूषिका, स्त्री, (मुखं दूषयति विवर्णं करो-

तीति । दुष् + णिच् + ण्वुल् टाप् अत इत्वञ्च ।)
मुखजातक्षुद्ररोगविशषः । वयस्फोडा इति
भाषा । तल्लक्षणमाह ।
“शाल्मलीकण्टकप्रख्याः कफमारुतपित्तजाः ।
जायन्ते पिडका यूनां ज्ञेयास्ता मुखदूषिकाः ॥”
प्रख्याः सदृश्यः । एता यूनामेव मुखे भवन्ति
स्वभावात् ॥ * ॥ अथ तच्चिकित्सा ।
“अङ्गुलस्य चतुर्थांशो मुखे लेपः कनिष्ठकः ।
मध्यमस्तु त्रिभागः स्यादुत्तमोर्द्धाङ्गुलो भवेत् ॥
स्थितिकालोऽपि तस्योक्तो यावत् कल्को न
शुष्यति ।
शुष्कस्तु गुणहीनः स्यात्तथा दूषयति त्वचम् ॥”
मुखलेपमाह ।
“लोध्रधान्यवचालेपस्तारुण्यपिडकापहः ।
तद्वद्गोरोचनायुक्तं मरिचं मुखलेपनम् ॥
सिद्धार्थकवचालोध्रैः सैन्धवैश्च प्रलेपनम् ।
वमनञ्च निहन्त्याशु पिडकां यौवनोद्भवाम् ॥
केवलाः पयसा पिष्टास्तीक्ष्णाः शाल्मलि-
कण्टकाः ।
आलिप्तं त्र्यहमेतेन भवेत् पद्मोपमं मुखम् ॥”
इति भावप्रकाशः ॥

मुखधावनं, क्ली, (मुखस्य धावनं । धावुञ् जवे

मृजि + ल्युट् ।) आस्यप्रक्षालनम् । मुखधोया
इति भाषा । यथा, भावप्रकाशे ।
“पटोलनिम्बजम्ब्वाम्रमालतीवनपल्लवैः ।
पञ्चपल्लवजः श्रेष्ठः कषायो मुखधावने ॥”

मुखधौता, स्त्री, (मुखं धौतं मार्ज्जितमनेनेति ।

धाव् + कर्म्मणि + क्तः स्त्रियां टाप् ।) ब्राह्मण-
यष्टिका । इति शब्दचन्द्रिका ॥

मुखनिवासिनी, स्त्री, (मुखे निवसति या सा ।

नि + वस् + णिनिः स्त्रियां ङीप् । वाणीरूप-
त्वादस्यास्तथात्वम् ।) सरस्वती । इति केचित् ॥

मुखनिरीक्षकः, पुं, (मुखं निरीक्षते इति । निर् +

ईक्ष् + ण्वुल् । उद्योगं विहायान्यमुखापेक्षि-
त्वेनावस्थानादस्य तथात्वम् ।) अलसः । इति
शब्दरत्नावली ॥

मुखपूरणं, क्ली, (मुखं पूर्य्यते अनेनेति । पूर् +

करणे ल्युट् ।) गण्डूषः । इति वैद्यकम् ॥

मुखप्रियः, पुं, (मुखस्य प्रियः ।) नारङ्गः ।

इति भावप्रकाशः ॥ वक्त्ररोचके, त्रि ॥ (यथा,
सुश्रुते सूत्रस्थाने ४५ अध्याये ।
“मुखप्रियः स्थिरमदो विज्ञेयोऽनिलनाशकः ।”)

मुखभूषणं, क्ली, (मुखं भूषयति रक्तिम्नालङ्करो-

तीति । भूष् + णिच् + ल्युः ।) ताम्बूलम् । इति
वैद्यकम् ॥

मुखमण्डनकः, पुं, (मुखं मण्डयति भूषयतीति । मडि

+ ल्युः स्वार्थे कन् ।) तिलकवृक्षः । इति राज-
निर्घण्टः ॥ आस्यभूषके, त्रि । (मुखमण्डन-
मप्यत्र ॥)

मुखमोदः, पुं, (मुखस्य मोदः हर्षः अस्मात् ।)

शोभाञ्जनः । इति राजनिर्घण्टः ॥

मुखयन्त्रणं, क्ली, (मुखं अश्वादीनां यन्त्र्यते सङ्को-

च्यते येनेति यत्रि सङ्कोचने + करणे ल्युट् ।)
कविका । यथा, --
“कवी खलीनं कविका कवियं मुखयन्त्रणम् ।”
इति हेमचन्द्रः । ४ । ३१६ ॥

मुखरः, त्रि, (मुखं अस्यास्तीति । मुख + उष-

सुषिमुष्कमधो रः ।” ५ । २ । १०७ । इत्यत्र
“रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानम् ।” इति
काशिकोक्त्या सर्व्वस्मिन् वक्तव्ये रः । “निन्दितं
मुखमस्यास्तीति रः ।” इत्यमरटीका ।) अप्रिय-
वादी । तत्पर्य्यायः । दुर्मुखः २ अबद्धमुखः ३ ।
इत्यमरः । ३ । १ । ३६ ॥ (यथा, --
“एका भार्य्या प्रकृतिमुखरा चञ्चला च
द्वितीया ।”
इत्युद्भटः ॥
शब्दायमानः । यथा, मृच्छकटिकनाटके १
अङ्के ।
“त्वां सूचयिष्यति तु माल्यसमुद्भवोऽयं
गन्धश्च भीरु ! मुखराणि च नूपुराणि ॥”
अग्रयायी । यथा, हितोपदेशे ।
“यदि कार्य्ये विपत्तिः स्यान् मुखरस्तत्र
हन्यते ॥”)

मुखरः, पुं, (मुख + रः ।) काकः । शङ्खः । इति

राजनिर्घण्टः ॥

मुखरोगः, पुं, (मुखस्य रोगः ।) वक्त्रामयः । (यथा,

मार्कण्डेये । १५ । ३५ ।
“पङ्ग्वन्धो वधिरः कुष्ठी यक्ष्मणा च प्रपीडितः ।
मुखरोगाक्षिरोगैश्च गुदरोगैश्च बाध्यते ॥”)
तत्र मुखस्य स्वरूपमाह ।
“ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु
च ।
गलो गलादि सकलं सप्ताङ्गं मुखमुच्यते ॥”
अथ मुखरोगाणां संख्यामाह ।
‘स्युरष्टावोष्ठयोर्दन्तमूले तु दश षट् तथा ।
दन्तेष्वष्टौ रसज्ञायां पञ्च स्युर्नव तालुनि ॥
कण्ठे त्वष्टादश प्रोक्तास्त्रयः सर्व्वसराः स्मृताः ।
एवं मुखामयाः सर्व्वे सप्तषष्टिर्मता बुधैः ॥’
मुखरोगाणां निदानान्याह ।
‘अनूपपिशितक्षीरदधिमाषादिसेवनात् ।
मुखमध्ये गदान् कुर्य्युः क्रुद्धा दोषाः कफोत्तराः ॥’
तत्रौष्ठरोगाः ।
तेषां निदानपूर्ब्बिकां संख्याञ्चाह ।
‘पृथग्दोषैः समस्तैश्च रक्तजो मांसजस्तथा ।
मेदोजश्चाभिघातोत्थ एवमष्टौष्ठजा गदाः ॥’
तत्र वातिकस्य लक्षणमाह ।
‘कर्क्कशौ परुषौ स्तब्धौ कृष्णौ तीव्रसुगन्धिनौ ।
दाल्येते परिपाट्येते ओष्ठौ मारुतकोपतः ॥’
परुषौ रूक्षौ । दाल्येते विदार्य्येते । परिपाट्येते
किञ्चिद्बिदीर्णत्वचौ क्रियेते ॥ पैत्तिकमाह ।
‘चीयेते पिडकाभिस्तु सरुजाभिः समन्ततः ।
सदाहपाकपिडकौ पीताभासौ च पित्ततः ॥’
श्लैष्मिकमाह ।
‘सवर्णाभिस्तु चीयेते पिडकाभिरवेदनौ ।
कण्डूमन्तौ कफादोष्ठौ पिच्छिलौ शीतलौ गुरू ॥’
सान्निपातिकमाह ।
‘सकृत् कृष्णौ सकृत् पीतौ सकृत् श्वेतौ तथैव च ।
सन्निपातेन विज्ञेयावनेकपिडकान्वितौ ॥’
पृष्ठ ३/७३६
रक्तजमाह ।
‘खर्ज्जूरफलवर्णाभिः पिडकाभिर्निपीडितौ ।
रक्तोपसृष्टौ रुधिरं स्रवन्तौ शोणितप्रभौ ॥’
मांसजमाह ।
‘मांसदुष्टौ गुरू स्थूलौ मांसपिण्डवदुद्गतौ ।
जन्तवश्चात्र मूर्च्छन्ति नरस्योभयतो मुखात् ॥’
जन्तवः कृमयः । मूर्च्छन्ति वर्द्धन्ते । मुखादुभ-
यतः सृक्कण्योः ॥ * ॥ मेदोजमाह ।
‘सर्पिर्मण्डप्रतीकासो मेदसा कण्डुरौ गुरू ।
स्वच्छस्फटिकसङ्काशमास्रावं स्रवतो भृशम् ॥’
अभिघातजमाह ।
‘क्षतजाभौ विदीर्य्येते पीड्येते चाभिघाततः ।
मथितौ च समाख्यातावोष्ठौ कण्डूसमन्वितौ ॥’
मथितौ मृदिताविव । अतएव क्षतजाभौ रुधि-
राभाविति सङ्गतम् ॥ * ॥ अथौष्ठरोगाणां
चिकित्सा ।
‘गलदन्तमूलदशनच्छदेषु रोगाः कफास्र-
भूयिष्ठाः ।
तस्मादेतेष्वसकृद्रुधिरं विस्रावयेद्दुष्टम् ॥
चतुर्व्विधेन स्नेहेन मधूच्छिष्टयुतेन च ।
वातजेऽभ्यञ्जनं कुर्य्यान्नाडीस्वेदञ्च बुद्धिमान् ॥’
चतुर्विधेन स्नेहेन तैलघृतवसामज्जरूपेण ।
वेधं शिराणां वमनं विरेकं
तिक्तस्य पानं रसभोजनञ्च ।
शीताः प्रदेहाः परिषेचनञ्च
पित्तोपसृष्टेष्वधरेषु कुर्य्यात् ॥
शिरोविरेचनं धूमः स्वेदः कवल एव च ।
हृते रक्ते प्रयोक्तव्यं ओष्ठकोपे कफात्मके ॥
मेदोजे स्वेदिते भिन्ने शोधिते कषलो हितः ।
प्रियङ्गु त्रिफला लोध्रं सक्षौद्रं प्रतिसार-
णम् ॥’
प्रतिसारस्य विधिमाह ।
‘दन्तजिह्वामुखानां यच्चूर्णकल्कावलेहनैः ।
शनैर्घर्षणमङ्गुल्या तदुक्तं प्रतिसारणम् ॥
ओष्ठरोगेष्वशेषेषु दृष्ट्वा दोषमुपाचरेत् ।
तेषु व्रणत्वं यातेषु व्रणवत् समुपाचरेत् ॥’
अथ दन्तवेष्टरोगाः । तत्र दन्तवेष्टरोगाणां
नामानि संख्याञ्चाह ।
‘शीतादो गदितः पूर्ब्बं दन्तपुप्पुटकस्तथा ।
दन्तवेष्टः शैशिरश्च महाशैशिर एव च ॥
ततः परिदरः प्रोक्तस्ततस्तूपकुशः स्मृतः ।
वैदर्भश्च ततः प्रोक्तः खलिवर्द्धन एव च ॥
अधिमांसकनामा च दन्तनाड्यश्च पञ्च च ।
दन्तविद्रधिरप्यत्र दन्तवेष्टेषु षोडश ॥’
तत्र शीतादस्य लक्षणमाह ।
‘शोणितं दन्तवेष्टेभ्यो यत्राकस्मात् प्रवर्त्तते ।
दुर्गन्धीनि सकृष्णानि उत्क्लेदीनि मृदूनि च ॥
दन्तमांसानि शीर्य्यन्ते पचन्ति च परस्परम् ।
शीतादो नाम स व्याधिः कफशोणितसम्भवः ॥’
दन्तवेष्टेभ्यः दन्तवेष्टनमांसेभ्यः । अकस्मात्
अमिघातं विना शीर्य्यन्ते पतन्ति । पचन्ति च
परस्परं पाकोप्मणा मांसानि शोणितं पचन्ति
शोणितं मांसानि पचति ॥ दन्तपुप्पुटमाह ।
‘दन्तयोस्त्रिषु वा यत्र श्वयथुर्जायते महान् ।
दन्तपुप्पुटको नाम स व्याधिः कफरक्तजः ॥’
दन्तवेष्टमाह ।
‘स्रवन्ति पूयं रुधिरं चला दन्ता भवन्ति च ।
दन्तवेष्टः स विज्ञेयो दुष्टशोणितसम्भवः ॥’
अत्र दन्तमूलानीति कर्त्तृपदमध्याहरणीयम् ॥
शैशिरमाह ।
‘श्वयथुर्दन्तमूलेषु रुजावान् कफवातजः ।
लालास्रावी कण्डुरश्च विज्ञेयः शैशिरो गदः ॥
महाशैशिरमाह ।
‘दन्ताश्चलन्ति वेष्टेम्यस्तालु चाप्यवदीर्य्यते ।
यस्मिन् स सर्व्वजो व्याधिर्महाशैशिरसंज्ञकः ॥’
तालु चाप्यवदीर्य्यते चकारात् दन्तवेष्टौ चाप्यव-
दीर्य्येते । सप्तरात्रान् मारकश्चायं यत आह
भोजः । महाशैशिर इत्येष सप्तरात्रान् निह-
न्त्यसून् ॥ * ॥ परिदरमाह ।
‘दन्तमांसानि शीर्य्यन्ते यस्मिन् स्रवति चाप्यसृक् ।
पित्तासृक्कफजो व्याधिर्ज्ञेयः परिदरो हि सः ॥’
उपकुशमाह ।
‘वेष्टेषु दाहः पाकश्च ताभ्यां दन्ताश्चलन्ति हि ।
आघट्टिताः प्रस्रवन्ति शोणितं मन्दवेदनम् ॥
आध्मायते श्रुते रक्ते मुखं पूति च जायते ।
यस्मिन्नुपकुशः स स्यात् पित्तरक्तसमुद्भवः ॥’
आघट्टिताः घृष्टाः ॥ * ॥ वैदर्भमाह ।
‘घृष्टेषु दन्तमूलेषु संरम्भो जायते महान् ।
चलन्ति च रदा यस्मिन् स वैदर्भोऽभिघातजः ॥’
संरम्भः शोथः । चलन्ति चेति चकाराद्वेदना-
दाहपाकाः ॥ * ॥ खलिवर्द्धनमाह ।
‘मारुतेनाधिको दन्तो जायते तीव्रवेदनः ।
खलिवर्द्धनसंज्ञोऽसौ संजाते रुक् प्रशाम्यति ॥’
सञ्जाते दन्ते ॥ * ॥ अधिमांसकमाह ।
हानव्ये पश्चिमे दन्ते महान् शोथो महारुजः ।
लालास्रावी कफकृतो विज्ञेयः सोऽधिमांसकः ॥
हानव्ये हनुभवे पश्चिमे दन्ते ॥ * ॥ पञ्चदन्त-
नाडीराह ।
‘दन्तमूलगता नाड्यः पञ्च ज्ञेया यथेरिताः ।’
यथेरिता यथा नाडीव्रणे वातपित्तकफसन्नि-
पातागन्तुनिमित्ताः पञ्चनाड्यः कथितास्तथात्रा-
पीत्यर्थः ॥ * ॥ दन्तविद्रधिमाह ।
‘दन्तमांसमलैः सास्रैर्वाह्यान्तःश्वयथुर्महान् ।
सदाहरुक् स्रवेद्भिन्नः पूयास्रं दन्तविद्रधिः ॥’
दन्तमांसमलैः दन्तवेष्टगतदोषैः । सास्रैः सरक्तै-
र्हेतुभिः ॥ * ॥ अथ दन्तवेष्टरोगाणां चिकित्सा ।
‘शीतादे हृतरक्ते तु तोये नागरसर्षपान् ।
निष्क्वाथ्य त्रिफलाञ्चापि कुर्य्याद्गण्डूषधारणम् ॥
‘कासीसलोध्रकृष्णामनःशिलासप्रियङ्गुतेजाह्वाः ।
एषां चूर्णं मधुयुक् शीतादे पूतिमांसहरम् ॥’
तेजाह्वा तेजबल्कल इति लोके ।
‘तैलं घृतं वा वातघ्नं शीतादे संप्रशस्यते । * ।
‘दन्तपुप्पुटके कार्य्यं तरुणे रक्तमोक्षणम् ॥
सपञ्चलवणः क्षारः सक्षौद्रः प्रतिसारणम् ।
शिरोविरेकश्च हितो नस्यं स्निग्धञ्च भोजनम् ॥
विस्राविते दन्तवेष्टे व्रणन्तु प्रतिसारयेत् ।
लोध्रपत्तङ्गमधुकलाक्षाचूर्णैर्मधुप्लुतैः ॥’
प्रतिसारयेत् अङ्गुल्या घर्षयेत् । पत्तङ्गं चोचकं
इति लोके ।
‘गण्डूषे क्षीरिणो योज्याः सक्षौद्रघृतशर्क्कराः ।
चलदन्तस्थैर्य्यकरं कार्य्यं बकुलचर्व्वणम् ॥
भद्रमुस्ताभयाव्योषविडङ्गारिष्टपल्लवैः ।
गोमूत्रपिष्टैर्गुटिकां छायाशुष्कां प्रकल्पयेत्
तां निघाय मुखे शोथशूलदन्तातुरो नरः ।
नातःपरतरं किञ्चिच्चलदन्तस्य भेषजम् ॥’
भद्रमुस्तादिवटिका ।
‘तुला घृतं नीलसहाचरस्य
द्रोणाम्भसा संश्रपयेद्यथावत् ।
ततश्चतुर्भागरसेन तैलं
पचेच्छनैरर्द्धपलप्रमाणैः ॥
कल्कैरनन्ताखदिरारिमेद-
जङ्घाम्रयष्टीमधुकोत्पलानाम् ।
तत्तैलमाश्वेव धृतं मुखेन
स्थैर्य्यं द्विजानां विदधाति सद्यः ॥
नीलसहाचरः नीलपुष्पकटरैया । अनन्ता
दुरालभा तदलाभे यवासो ग्राह्यः । अरिमेदो
दुर्गन्धखदिरः । सहाचराद्यतैलम् ॥ * ॥
‘शैशिरे हृतरक्ते तु लोध्रमुस्तारसाञ्जनैः ।
सक्षौद्रैः शस्यते लेपो गण्डूषे क्षीरिणो हिताः ॥
क्रियां परिदरे कुर्य्याच्छीतादोक्तां विचक्षणः ।
संशोध्योभयतः कायं शिरश्चोपकुशे तथा ॥
काकोडुम्बरिकापत्रैर्व्रणं विस्रावयेद्भिषक् ।
लवणैः क्षौद्रयुक्तैश्च सव्योषैः परिसारयेत् ॥ * ॥
‘शस्त्रेणोत्कृत्य वै दर्भं दन्तमूलानि शोधयेत् ।
ततः क्षारं प्रयुञ्जीत क्रियाः सर्व्वाश्च शीतलाः ॥
उद्धृत्याधिकदन्तन्तु ततोऽग्निमवचारयेत् ।
कृमिदन्तकवच्चात्र विधिः कार्य्यो विजानता ॥’
इयं खलिवर्द्धनस्य चिकित्सा ॥ * ॥
‘छित्त्वाधिमांसं सक्षौद्रैरेतैश्चूर्णैरुपाचरेत् ।
वचातेजोवतीपाठास्वर्ज्जिकायावशूकजैः ॥’
तेजोवती तेजवल्कलं स्वर्णजीवन्तीति च ।
‘क्षौद्रद्बितीयापिप्पल्यः कवले चात्र कीर्त्तिताः ।
पटोलनिम्बत्रिफलाकषायश्चात्र धावने ॥’ * ॥
‘नाडीव्रणहरं कर्म्म दन्तनाडीषु कारयेत् ।
यद्दन्तमध्ये जायेत नाडीदन्तं तदुद्धरेत् ॥
छित्त्वा मांसानि शस्त्रेण यदि नोपरितो भवेत् ।
उद्धृत्य च दहेच्चापि क्षारेण ज्वलनेन वा ॥
भिनत्त्युपेक्षिते दन्ते हनूकास्थिगतं ध्रुवम् ।
समूलं दशनं तस्मादुद्धरेद्भग्नमस्थि च ॥
उद्धृते तूत्तरे दन्ते शोणितं प्रस्रवेदति ।
रक्ताभिषेकात् पूर्ब्बोक्ता घोरा रोगा भवन्ति हि ॥
काणः संजायते जन्तुरर्द्दितं तस्य जायते ।
चलमप्युत्तरं दन्तमतो नैवोद्धरेद् भिषक् ॥
धावनं जातिमदनस्वादुकण्टकखादिरैः ।”
कशायैरितिशेषः ।
कषायैर्जातिमदनकटुकी-स्वादुकण्टकैः ।
पृष्ठ ३/७३७
‘मञ्जिष्ठालोध्रखदिरषष्ट्याह्वैश्चापि यत् कृतम् ।
तैलं तत्साधितं तत्र हन्यात् दन्तगतां गतिम् ॥’
जात्यादिचतुष्टयस्य कषायेण मञ्जिष्ठादिचतुष्ट-
यस्य च कषायेण तैलमिदं पचेत् । जातिः
चमेली इति लोके । तस्याः पत्रं ग्राह्यम् ।
मदनो धुत्तुरस्तस्यापि पत्रमत्र ग्राह्यम् ।
कण्टकी बृहत्कटाइ तस्या मूलं ग्राह्यम् ।
स्वादुकण्टकोगोक्षुरः तस्य पञ्चाङ्गं ग्राह्यम् ।
जात्यादितैलम् ॥ * ॥
‘विद्रध्युक्तं विधिं युक्तं विदध्याद्दन्तविद्रधौ ।
शस्त्रकर्म्म नरस्तत्र कुशलेनैव कारयेत् ॥’ * ॥
अथ दन्तरोगाः । तत्र रोगाणां नामानि
संख्याञ्चाह ।
‘दालनः कथितः पूर्ब्बं कृमिदन्तक एव च ।
प्रोक्तो भञ्जनको दन्तहर्षो वै दन्तशर्क्करा ॥
कपालिकात्र कथिता श्यावदन्तक एव च ।
करालसंज्ञ इत्यष्टौ दन्तरोगाः प्रकीर्त्तिताः ॥’
तत्र दालनस्य लक्षणमाह ।
‘दीर्य्यमाणेष्विव रुजा यत्र दन्तेषु जायते ।
दालनो नाम स व्याधिः सदागतिनिमित्तजः ॥’
कृमिदन्तकमाह ।
‘कृष्णच्छिद्रचलस्रावी ससंरम्भो महारुजः ।
अनिमित्तरुजो वातात् स ज्ञेयः कृमिदन्तकः ॥’
ससंरम्भः दन्तमूलशोथयुक्तः । तत्रैव स्रावो
बोद्धव्यः । अनिमित्तरुजः अवघटनादिनिमित्तं
विनैव महारुजावान् ॥ * ॥ भञ्जनकमाह ।
‘वक्त्रं वक्रं भवेद्यत्र दन्तभङ्गश्च जायते ।
कफवातकृतो व्याधिः स भञ्जनकसंज्ञकः ॥’
दन्तहर्षमाह ।
‘शीतरूक्षप्रवाताम्लस्पर्शानामसहा द्बिजाः ।
यत्र स्युर्व्वातपित्ताभ्यां दन्तहर्षः स कीर्त्तितः ॥’
दन्तशर्करामाह ।
‘मलो दन्तगतो यस्तु कफश्चानिलशोषितः ।
शर्करेव खरस्पर्शा सा ज्ञेया दन्तशर्करा ॥’
शर्क्करा सिकता ॥ * ॥ कपालिकामाह ।
‘कपालेष्विव दीर्य्यत्सु दन्तेषु समलेषु च ।
कपालिकेति विज्ञेया दन्तच्छित् दन्तशर्क्करा ॥’
कपालानि मृण्मयघटादिघटकानि तेष्विव ।
समलेषु दन्तेषु मलसहितदन्तावयवेषु दीर्य्यत्सु
या दन्तशर्क्करा सा कपालिकेति विज्ञेया ।
सा कपालिका दन्तच्छित् दन्तनाशिनी ॥ * ॥
श्यावदन्तकमाह ।
‘योऽसृङ्मिश्रेण पित्तेन दग्धो दन्तस्त्वशेषतः ।
श्यावतां नीलतां वापि गतः स श्यावदन्तकः ॥’
दग्धः दग्ध इव ॥ * ॥ करालमाह ।
‘शनैः शनैः प्रकुरुते यत्र दन्ताश्रितोऽनिलः ।
करालान् विकटान् दन्तान् स करालो न
सिध्यति ॥’
करालान् भयानकान् । अयं सुश्रुतेनोक्तः ।
संग्रहकारेण गृहीतश्च ॥ * ॥ अथ दन्तरोगाणां
चिकित्सा ।
‘तैलं लाक्षारसं क्षीरं पृथक् प्रस्थमितं पचेत् ।
द्रव्यैः पलमितैरेतैः क्वाथैश्चापि चतुर्गुणैः ॥
लोघ्रकट्फलमञ्जिष्ठापद्मकेशरपद्मकैः ।
चन्दनोत्पलयष्ट्याह्वैस्तत्तैलं वदने धृतम् ॥’
कट्फलस्थाने पत्तङ्ग इति च पाठः ।
‘दालनं दन्तचालञ्च दन्तमोक्षं कपालिकाम् ।
शीतादं पूतिवक्त्रञ्च विरुचिं विरसास्यताम् ॥
हन्यादाशु गदानेतान् कुर्य्याद्दन्तानपि स्थिरान् ।
लाक्षादिकमिदं तैलं दन्तरोगेषु पूजितम् ॥’
लाक्षाद्यतैलम् ॥ * ॥
‘जयेत् विस्रावणैः स्विन्नमचलं कृमिदन्तकम् ।
तथावपीडैर्व्वातघ्नैः स्नेहगण्डूषधारणैः ॥
भद्रदार्व्वादिवर्षाभूलेपैः स्निग्धैश्च भोजनैः ।
कृमिदन्तापहं कोष्णं हिङ्गु दन्तान्तरे स्थितम् ॥
बृहतीभूमिकदम्बीपञ्चाङ्गुलकण्टकारिकाक्वाथः ।
गण्डूषस्तैलयुतः कृमिदन्तकवेदनाशमनः ॥
नीली वायसजङ्घा कटुतुम्बी मूलमेकैकम् ।
सञ्चूर्ण्य दशनविधृतं दशनकृमिपातनं प्राहुः ॥
स्नेहानां कवलाः कोष्णाः सर्पिषस्त्रैवृतस्य च ।
निर्यूहाश्चानिलघ्नानां दन्तहर्षप्रमर्दनाः ॥’
त्रैवृतस्य सर्पिषः त्रिवृता पक्वस्य सर्पिषः कबल
इत्यर्थः ।
‘स्नैहिकोऽत्र हितो धूमो नस्यं स्नैहिकमेव च ।
पेया रसा यवाग्वश्च क्षीरसन्तानिकाघृतम् ॥
शिरोवस्तिहितश्चापि क्रमो यश्चानिलापहः ।’
अत्र दन्तहर्षे ।
‘अच्छिद्रं दन्तमूलानि शर्क्करामुद्धरेद् भिषक् ।
लाक्षाचूर्णैर्मधुयुतैस्ततस्तां प्रतिसारयेत् ॥
दन्तहर्षक्रियां चात्र कुर्य्यान्निरवशेषतः ।
कपालिका कृच्छ्रतमा तत्राप्येषा क्रिया हिता ॥’
अत्र दन्तशर्क्करायाम् । एषा क्रिया दन्तहर्ष-
क्रिया ॥ * ॥
‘फलान्यम्लानि शीताम्बु रूक्षान्नं दन्तधावनम् ।
तथातिकठिनं भक्ष्यं दन्तरोगी विवर्ज्जयेत् ॥’
अथ जिह्वारोगाः ।
तत्र जिह्वारोगाणां निदाननामसंख्याः प्राह ।
‘वातजः पित्तजश्चापि कफजोऽलाससंज्ञकः ।
उपजिह्विका च गदा जिह्वायां पञ्च कीर्त्तिताः ॥’
तत्र वातजस्य लक्षणमाह ।
‘जिह्वानिलेन स्फुटिता प्रसुप्ता
भवेच्च शाकच्छदनप्रकाशा ।’
स्फुटिता मनाग्विदीर्णा । प्रसुप्ता रसानभिज्ञ-
तया सुप्तेव । शाकच्छदनप्रकाशा शाको मरु-
भूमिजो द्रुमस्तद्वत् कण्टकचिता ॥ * ॥ पित्तज-
माह ।
‘पित्तात् सदाहैरुपचीयते च
दीर्घैः सरक्तैरपि कण्टकैश्च ॥’
अयं रोगो लोके जली इति ख्यातः ॥ * ॥
कफजमाह ।
‘कफेन गुर्व्वी बहला चिता च
मांसोच्छ्रयैः शाल्मलिकण्टकाह्वैः ।’
बहलाः स्थूलाः मांसोच्छ्रयैः मांसजकण्टकैः ॥
अलासमाह ।
‘जिह्वातले यः श्वयथुः प्रगाढः
सोऽलाससंज्ञः कफरक्तमूर्त्तिः ।
जिह्वां स तु स्तम्भयति प्रवृद्धो
मूले च जिह्वा भृशमेति पाकम् ॥’
प्रगाढः प्रकर्षेण गाढो दारुणः । कफरक्तमूर्त्तिः
कफरक्ताभ्यां मूक्तिर्यस्य कफरक्तज इत्यर्थः ।
जिह्वास्तम्भेन वायुरप्यत्र बोद्धव्यः । भृशपाकेन
पित्तञ्च । अतस्त्रिदोषोऽयमसाध्यत्वञ्चास्य ॥ * ॥
उपजिह्विकामाह ।
‘जिह्वाग्ररूपश्वयथुर्हि जिह्वा-
मुत्ताम्य जातः कफपित्तयोनिः ।
प्रसेककण्डूपरिदाहयुक्तः
प्रकथ्यतेऽसादुपजिह्विकेति ॥’
जिह्वाग्ररूपो जिह्वाग्राकृतिः ॥ * ॥ अथ
जिह्वारोगाणां चिकित्सा ।
‘जिह्वागतविकाराणां शस्तं शोणितमोक्ष-
णम् ।
गुडूचीपिप्पलीनिम्बकवलः कटुभिः सुखः ॥
ओष्ठप्रकोपेऽनिलजे यदुक्तं प्राक् चिकित्सितम् ।
कण्ठजेष्वनिलोत्थेषु तत्कार्य्यं भिषजा खलु ॥
पित्तजे परिघृष्टे तु निःसृते दुष्टशोणिते ।
प्रतिसारणगण्डूषनस्यानि मधुरं हितम् ।
कण्टकेषु कफोत्थेषु लिखितेष्वसृजः क्षये ॥
पिप्पल्यादिर्मधुयुतः कार्य्यस्तु प्रतिसारणे ॥
उपजिह्वान्तु संलिख्य क्षारेण प्रतिसारयेत् ।
शिरोविरेकगण्डूषधूमैश्चैनामुपाचरेत् ॥
व्योषक्षाराभयावह्निचूर्णमेतत् प्रघर्षणम् ।
उपजिह्वाप्रशान्त्यर्थमेभिस्तैलञ्च पाचयेत् ॥’
अथ तालुरोगाः । तत्र तालुरोगाणां नामानि
संख्याञ्चाह ।
‘गलशुण्डी तुण्डिकेर्प्पध्रुषः कच्छप एव च ।
ताल्वर्व्वुदश्च कथितो मांससंघात एव च ।
तालुपुप्पुटनामा च तालुशोषस्तथैवच ॥
तालुपाकश्च कथितास्तालुरोगा अमी नव ॥’
तत्र गलशुण्डीलक्षणमाह ।
‘श्लेष्मासृग्भ्यां तालुमूलात् प्रवृद्धो
दीर्घः शोथो ध्मातवस्तिप्रकाशः ।
तृष्णाकासश्वासजुष्टं वदन्ति
वैद्या व्याधिं कण्ठशुण्डीति नाम्ना ॥
ध्मातवस्तिप्रकाशः वातपूरितचर्म्मपुटतुल्यः ॥ * ॥
तुण्डिकेरीमाह ।
‘शोथः स्थूलस्तोददाहप्रपाकी
प्रागुक्ताभ्यां तुण्डिकेरी मता तु ।’
प्रागुक्ताभ्यां श्लेष्मासृग्भ्याम् । तुण्डिकेरी वन-
कार्पासीफलं तत्तुल्येति ॥ * ॥ अध्रुषमाह ।
‘शोथस्तन्द्रा लोहितः शोणितोत्थो
ज्ञेयोऽध्रुषः सज्वरस्तीवरुक् च ।’
कच्छपमाह ।
‘कूर्म्मोत्सन्नो वेदनोऽशीघ्रजन्मा
रोगो ज्ञेयः कच्छपः श्लेष्मणा स्यात् ।’
कूर्म्मोत्सन्नः मध्ये प्रोच्चं प्रान्ते नतः ॥ * ॥
ताल्वर्व्वदमाह ।
पृष्ठ ३/७३८
‘पद्माकारं तालुमध्ये तु शोथं
विद्याद्रक्तादर्व्वुदं पित्तलिङ्गम् ।’
पद्माकारं पद्मकर्णिकाकेशरैरिव पार्श्वतो दीर्घ-
मांसाङ्कुरैर्व्वेष्टितम् ॥ * ॥ मांससंघातमाह ।
‘दुष्टं मांसं श्लेष्मणा नीरुजञ्च
ताल्वन्तस्थं मांससंघातमाह ।’
तालुपुप्पुटमाह ।
‘नीरुक् स्थायी कोलमात्रः कफात्मा
मेदोयुक्तः पुप्पुटस्तालुदेशे ॥’
तालुशोषमाह ।
‘शोषोऽत्यर्थं दीर्य्यते त्तापि तालु
श्वासो वातात्तालुशोषोऽयमुक्तः ।’
तालुपाकमाह ।
‘पित्तं कुर्य्यात् पाकमत्यर्थघोरं
तालुन्येनं तालुपाकं वदन्ति ॥’
अथ तालुरोगाणां चिकित्सा ।
‘कुष्ठोषणवचासिन्धुकणापाठाप्लवैः सह ।
सक्षौद्रैर्भिषजा कार्य्यं गलशुण्डीप्रघर्षणम् ॥’
प्लवः केवचीमोथा गुडतची इति च लोके ।
‘अङ्गुष्ठाङ्गुलिसन्दंशेनाकृष्य गलशुण्डिकाम् ।
छेदयेन्मण्डलाग्रेण जिह्वोपरि तु संस्थिताम् ॥’
मण्डलाग्रेण शस्त्रविशेषेण ।
‘अतिच्छेदात् स्रवेद्रक्तं ततो हेतोर्म्रियेत च ।
हीनच्छेदाद्भवेच्छोथो लालास्रावो भ्रम-
स्तथा ॥
तस्मात् वैद्यः प्रयत्नेन दृष्टकर्म्मा विशारदः ।
गलशुण्डीं तु संछिद्य कुर्य्यात् प्राप्तामिमां
क्रियाम् ॥
पिप्पल्यतिविषाकुष्ठवचामरिचनागरैः ।
क्षौद्रयुक्तैः सलवणैस्ततस्तां प्रतिसारयेत् ॥
वचामतिविषापाठारास्नाकटुकरोहिणीः ।
निष्क्वाथ्य पिचुमर्द्दञ्च कवलं तत्र कारयेत् ॥
तुण्डिकेर्य्यध्रुषे कूर्म्मे संघाते तालुपुप्पुटे ।
एष एव विधिः कार्य्यो विशेषः शस्त्रकर्म्मणि ॥
तालुपाके तु कर्त्तव्यं विधानं पित्तनाशनम् ।
स्नेहस्वेदौ तालुशोषे विधिश्चानिलनाशनः ॥’
अथ गलरोगाः । तत्र गलरोगाणां नामानि
संख्याञ्चाह ।
‘रोहिणी पञ्चधा प्रोक्ता कण्ठशालूक एव च ।
अधिजिह्वश्च बलयोऽलासनामैकवृन्दकः ॥
ततो वृन्दः शतघ्नी च गिलायुः कण्ठविद्रधिः ।
गलौघः प्रस्वरघ्नश्च मांसतानस्तथैव च ॥
विदारी कण्ठदेशे तु रोगा अष्टादश स्मृताः ॥’
तत्र पञ्चानामपि रोहिणीनां सामान्यसंप्राप्ति-
माह ।
‘गलेऽनिलः पित्तकफौ च मूर्च्छितौ
प्रदूष्य मांसञ्च तथैव शोणितम् ।
गलोपसंरोधकरैस्तथाङ्कुरै-
र्निहन्त्यसून् व्याधिरयं हि रोहिणी ॥’
अनिलः मूर्च्छितः प्रवृद्धः । पित्तकफौ च
मूर्च्छितौ पित्तं वा मूर्च्छितं कफो वा मूर्च्छितः ।
ननु त्रयोऽपि मूर्च्छिताः पृथग्दोषजाया अवि-
वक्षमाणत्वात् ॥ * ॥ तस्य वातजाया लक्षण-
माह ।
‘जिह्वासमन्ताद्भृशवेदनास्तु
मांसाङ्कुराः कण्ठनिरोधनाः स्युः ।
सा रोहिणी वातकृता प्रदिष्टा
वातात्मकोपद्रवगाढयुक्ता ॥’
समन्तात् जिह्वायाः सर्व्वतः । वातात्मकोपद्रव-
गाढयुक्ता स्तम्भादिभिरतिशयेन युक्ता ॥ * ॥
पित्तजामाह ।
‘क्षिप्रोद्गमाक्षिप्रविदाहपाका
तीव्रज्वरा पित्तनिमित्तजाता ।’
श्लेष्मजामाह ।
‘स्रोतोनिरोधिन्यपि मन्दपाका
गुर्व्वी स्थिरा सा कफसम्भवा तु ।’
स्रोतोऽत्र कण्ठस्रोतः ॥ * ॥ सन्निपातजामाह ।
‘गम्भीरपाकिन्यनिवार्य्यवीर्य्या
त्रिदोषलिङ्गा त्रिभवा भवेत् सा ।’
रक्तजामाह ।
‘स्फोटैश्चिता पित्तसमानलिङ्गा
साध्या प्रदिष्टा रुधिरात्मिका तु ।’
रक्तजेतरा संहारकत्वावधिमाह ।
‘सद्यस्त्रिदोषजा हन्ति त्र्यहात् कफसमुद्भवा ।
पञ्चाहात् पित्तसंभूता सप्ताहात् पवनोत्थिता ॥’
कण्ठशालूकमाह ।
‘कोलास्थिमात्रः कफसम्भवो यो
ग्रन्थिर्गले कण्टकशूकभूतः ।
खरः स्थिरः शस्त्रनिपातसाध्य-
स्तं कण्ठशालूकमिति ब्रुवन्ति ॥’
कण्टकशूकभूतः कण्टकवच्छूकवच्च वेदनाजनकः ।
अधिजिह्वामाह ।
‘जिह्वाग्ररूपः श्वयथुः कफात्तु
जिह्वोपरिष्टादसृजैव मिश्रात् ।
ज्ञेयोऽधिजिह्वः खलु रोग एष
विवर्ज्जयेदागतपाकमेनम् ॥’
असृजा मिश्रादेवेत्यन्वयः ॥ * ॥ बलयमाह ।
‘बलाश एवायतमुन्नतञ्च
शोथं करोत्यन्नगतिं निवार्य्य ।
तं सर्व्वथैवाप्रतिवार्य्यवीर्य्यं
विवर्ज्जनीयं बलयं वदन्ति ॥’
अलासमाह ।
‘गले तु शोथं कुरुतः प्रवृद्धौ
श्लेष्मानिलौ श्वासरुजोपपन्नम् ।
मर्म्मच्छिदं दुस्तरमेतदाहु-
रलाससंज्ञं भिषजो विकारम् ॥’
मर्म्मच्छिदं हृदयमर्म्मणि छेदेनेव वेदनाजनकम् ॥
एकवृन्दमाह ।
‘वृत्तोन्नतोऽन्तः श्वयथुः सदाहः
सकण्डुरोऽपाक्यमृ दुर्गुरुश्च ।
नाम्नैकवृन्दः परिकीर्त्त्यतेऽसौ
व्याधिर्ब्बलाशः क्षतजप्रसूतः ॥’
अन्तः गलमध्ये । अपाकी ईषत्पाकी । अमृदुः
ईषन्मृदुः ॥ * ॥ वृन्दमाह ।
‘समुन्नतं वृन्दममन्ददाहं
तीव्रज्वरं वृन्दमुदाहरन्ति ।
तच्चापि पित्तक्षतजप्रकोपाद्-
विद्यात् सतोदं पवनात्मकन्तु ॥’
शतघ्नीमाह ।
‘वर्त्तिर्घना कण्ठनिरोघिनी तु
चितातिमात्रं पिशितं प्ररोहैः ।
अनेकरुक् प्नाणहरी त्रिदोषा
ज्ञेया शतघ्नीसदृशी शतघ्नी ॥’
घना कठिना । अनेकरुक् वातपित्तकफजतोद-
दाहकण्ड्वादियुक्ता । शतघ्नीसदृशी लौहकण्टक-
संछन्ना शतघ्नी महती शिला तत्तुल्या यतः
प्राणहरी ॥ * ॥ गिलायुमाह ।
‘ग्रन्थिर्गले त्वामलकास्थिमात्रः
स्थिरोऽल्परुक् स्यात् कफरक्तमूर्त्तिः ।
संलक्ष्यते सक्तमिवासितञ्च
स शस्त्रसाध्यस्तु गिलायुसंज्ञः ॥’
गलविद्रधिमाह ।
‘सर्व्वं गलं व्याप्य समुत्थितो यः
शोथो रुजः सन्ति च यत्र सर्व्वाः ।
स सर्व्वदोषैर्गलविद्रधिस्तु
तस्यैव तुल्यः खलु सर्व्वजस्य ॥’
गलौघमाह ।
‘शोथो महान् यस्तु गलावरोधी
तीव्रज्वरो वायुगतेर्निहन्ता ।
कफेन जातो रुधिरान्वितेन
गले गलौघः परिकीर्त्त्यतेऽसौ ॥’
वायुगतेर्निहन्ता उदानवायुगतिरोधकः ॥ * ॥
स्वरघ्नमाह ।
‘यस्ताम्यमानः श्वसिति प्रसक्तं
भिन्नस्वरः शुष्कविमुक्तकण्ठः ।
कफोपदिग्धेष्वनिलायनेषु
ज्ञेयः स रोगः श्वसनात् स्वरघ्नः ॥’
ताम्यमानस्तमः पश्यन् । शुष्कविमुक्तकण्ठः
शुष्को विमुक्तोऽस्वाधीनः कण्ठो यस्य सः ।
अखाधीनता भुक्तं गिलितुमशक्यत्वात् । अनि-
नायनेषु वायुवर्त्मसु श्वसनात् वातात् ॥ * ॥
मांसतानमाह ।
‘प्रतानवान् यः श्वयथुः सुकष्टो
गलोपरोधं कुरुते क्रमेण ।
स मांसतानः कथितावलम्बी
प्राणप्रणुत् सर्व्वकृतो विकारः ॥’
प्रतानवान् विस्तारवान् । सुकष्टः अतिशयितं
कष्टं यत्र सः ॥ * ॥
विदारीमाह ।
‘सदाहतोदं श्वयथुं सुताम्र-
मन्तर्गले पूतिविशीर्णमांसम् ।
पित्तेन विद्याद्बदने विदारीं
पार्श्वं विशेषात् स तु येन शेते ॥’
पार्श्वे विशेषात् स तु येन शेते स पुरुपो येन
पाश्वेन विशेषाद्बाहुल्येन शेते तस्मिन् पार्श्वे सा
विदारी भवति इत्यर्थः ॥ * ॥
पृष्ठ ३/७३९
अथ गलरोगाणां चिकित्सा ।
‘रोहिणीनान्तु साध्यानां हितं शोणितमोक्षणम् ।
वमनं धूमपानञ्च गण्डूषो नस्यकर्म्म वा ॥
वातजान्तु हृते रक्ते लवणैः प्रतिसारयेत् ।
सुखोष्णान् स्नेहगण्डूषान् धारयेच्चाप्यभीक्ष्णशः ॥
विस्राव्य पित्तसंभूतां सिताक्षौद्रप्रियङ्गुभिः ।
घर्षयेत् कवलो द्राक्षापरूषैः क्वथितैर्हितः ॥
आगारधूमकटुकैः कफजां प्रतिसारयेत् ॥’
आगारधूम झुल इति लोके । कटुकानि शुण्ठी-
पिप्पलीमरिचानि ।
‘श्वेताविडङ्गदन्तीषु तैलं सिद्धं ससैन्धवम् ।
नस्यकर्म्मणि दातव्यं कवलें च कफोदये ॥’
श्वेता अपराजिता ।
‘पित्तवत् साधयेद्वैद्यो रोहिणीं रक्तसम्भवाम् ।
विस्राव्य कण्ठशालूकं साधयेत्तुण्डिकेरिवत् ॥
एककालं यवान्नं वा भुञ्जीत स्निग्धमल्पशः ।
उपजिह्वकवच्चापि साधयेदधिजिह्वकम् ॥
एकवृन्दन्तु विस्राव्य विधिं शोधनमाचरेत् ।
एकवृन्दमिव प्रायो वृन्दञ्च समुपाचरेत् ॥
गिलायुश्चापि यो व्याधिस्तञ्च शस्त्रेण साधयेत् ।
अमर्म्मस्थं सुसम्पक्वं छेदयेत् गलविद्रधिम् ॥’
अथ सामान्यानां कण्ठरोगाणां चिकित्सा ।
‘कण्ठरोगेष्वसृङ्मोक्षैस्तीक्ष्णैर्नस्यादिकर्म्मभिः ।
चिकित्सकश्चिकित्सान्तु कुशलोऽत्र समाचरेत् ॥
क्वाथं दद्याच्च दार्व्वीत्वङ्निम्बतार्क्ष्यकलिङ्गजम् ।
हरीतकीकषायो वा हितो माक्षिकसंयुतः ॥
कटुकातिविषादारुपाठामुस्ताकलिङ्गकाः ।
गोमूत्रक्वथिताः पीताः कण्ठरोगविनाशनाः ॥
मृद्वीकाकटुकाव्योषदार्व्वीत्वक्त्रिफलाघनम् ।
पाठां रसाञ्जनं दारु तेजोह्वेति सुचूर्णितम् ॥
क्षौद्रयुक्तं विधातव्यं गलरोगे महौषधम् ।
योगास्त्वेते त्रयः प्रोक्ता वातपित्तकफापहाः ॥
यवाग्रजं तेजवतीञ्च पाठां
रसाञ्जनं दारु निशां सकृष्णाम् ।
क्षौद्रेण कुर्य्यात् गुटिकां मुखेन
तां धारयेत् सर्व्वगलामयेषु ॥’
अथ समस्तमुखरोगाः । तत्र तेषां निदानं
संख्याञ्चाह ।
‘पृथग्दोषैस्त्रयो रोगाः समस्तमुखजाः
स्मृताः ।’
तत्र वातिकस्य लक्षणञ्चाह ।
“स्फोटैः सतोदैर्व्वदनं समन्ताद्-
यत्राचितं सर्ब्बसरः सवातात् ॥ * ॥
पैत्तिकमाह ।
‘रक्तैः सदाहैः पिडकैः सुपीतै-
र्यत्राचितं चापि स पित्तकोपात् ॥’ * ॥
श्लैष्मिकमाह ।
‘अवेदनैः कण्डुयुतैः सवर्णै
र्यत्राचितं चापि स वै कफेन ।’
अवेदनैः ईषद्वेदनैः । यत उक्तं सुश्रुतेन ।
अल्पवेदनैरिति ॥ * ॥ मुखरोगेष्वसाध्यानाह ।
‘ओष्ठप्रकोपे वर्ज्याः स्युर्मांसरक्तत्रिदोषजाः ।
दन्तवेष्टेषु वर्ज्यौ तु त्रिलिङ्गगतिशौषिरौ ॥’
त्रिलिङ्गगतिः त्रिदोषजा नाडी । महाशौषि-
रश्च ।
‘दन्तेषु च न सिध्यन्ति स्यावदालनभञ्जनाः ।
जिह्वारोगेष्वालसस्तु तालुजेष्ववंदन्तथा ॥
स्वरघ्नो बलयो वृन्दो बलाशः स हि दारुणः ।
गलौघो मांसतानश्च शतघ्नी रोहिणी गले ॥
असाध्याः कीर्त्तिता ह्मेते रोगा दश नवो-
त्तराः ।
तेषु चापि क्रियां वैद्यः प्रत्याख्याय समाचरेत् ॥’
अथ समस्तमुखरोगाणां चिकित्सा ।
‘वातात् सर्व्वसरं चूर्णैर्लवणैः प्रतिसारयेत् ।
तैलं वातहरैः सिद्धं हितं कवलनस्ययोः ॥ * ॥
पित्तात्मके सर्व्वसरे शुद्धकायस्य देहिनः ।
सर्व्वपित्तहरः कार्य्यो विधिर्मधुरशीतलः ॥ * ॥
प्रतिसारणगण्डूषधूमसंशोधनानि च ।
कफात्मके सर्व्वसरे क्रमं कुर्य्यात् कफापहम् ॥ * ॥
मुखपाके सिरावेधः शिरसश्च विरेचनम् ।
मधुमूत्रघृतक्षीरैः शीतैश्च कवलग्रहः ॥ १ ॥
जातीपत्रामृताद्राक्षायासदार्व्वीफलत्रिकैः ।
क्वाथः क्षौद्रयुतः शीतो गण्डूषो मुखपाकनुत् ॥ २ ॥
कार्य्यञ्च बहुधा नित्यं जातीपत्रस्य चर्व्वणम् ।
कृष्णजीरककुष्ठेन्द्रयवचर्व्वणतस्त्र्यहात् ।
मुखपाकव्रणक्लेददौर्गन्ध्यमुपशाम्यति ॥ ३ ॥
पटोलनिम्बजम्बाम्रमालतीनवपल्लवैः ।
पञ्चपल्लवजः श्रेष्ठः कषायो मुखधावने ॥ ४ ॥
पञ्चपल्लवजः क्वाथस्त्रिफलासम्भ वोऽथवा ।
मुखपाके प्रयोक्तव्यः सक्षौद्रो मुखधावने ॥ ५ ॥
स्वरसः क्वथितो दार्व्व्या घनीभूतो रसक्रिया ।
सक्षौद्रा मुखरोगासृग्दोषनाडीव्रणापहा ॥ ६ ॥
सप्तच्छदोशीरपटोलमुस्त-
हरीतकीतिक्तकरोहिणीभिः ।
यष्ट्याह्वराजद्रुमचन्दनैश्च
क्वाथं पिबेत् पाकहरं मुखस्य ॥ ७ ॥’
राजद्रुमः धनवहेरा इति लोके ।
‘तिला नीलोत्पलं सर्पिः शर्करा क्षीरमेव च ।
क्षौद्राज्यदिग्धकल्कस्य गण्डूषो मुखपाकनुत् ॥ ८ ॥
आस्वादिता सकृदपि मुखगन्धं सकलमपनयति ।
त्वग्वीजपूरफलजा पवनमबाध्यञ्च नाशयति ॥ ९ ॥
हरिद्रां निम्बपत्राणि मधूकं नीलमुत्पलम् ।
तैलमेभिर्व्विपक्तव्यं मुखपाकहरं परम् ॥ १० ॥
यष्टीमधुपलमेकं त्रिंशन्नीलोत्पलस्य तैलस्य ।
प्रस्थं तद्द्विगुणपयोविधिना पक्वं तु नस्येन ॥
निशि वदनस्य स्रावं क्षपयति गात्रस्य दोष-
संघातम् ।
कचखर्व्वत्वमवश्यं क्रमशोऽभ्यङ्गेन जन्तूनाम् ॥ ११
इति मुखरोगाधिकारः । इति भावप्रकाशः ॥ * ॥
अपि च ।
तण्डूलीयकगोक्षूरमूलं पीतं पयोऽन्वितम् ।
कामलादिहरं प्रोक्तं मुखरोगहरं तथा ॥ १२ ॥
शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम् ।
शुष्कं चतुर्गुणं दद्यात्तैलमेतैर्व्विपाचयेत् ॥
बाधिर्य्यं कर्णशूलञ्च पूयस्रावश्च कर्णयोः ।
पूरणादस्य तैलस्य कृमयः कर्णयोः खिलाः ॥
क्षिप्रं विनाशमायान्ति शशाङ्ककृतशेखर ! ।
क्षारतैलमिदं श्रेष्ठं मुखदन्तामयापहम् ॥ १३ ॥’
इति गारुडे १८८ । १९८ अध्यायौ ॥
(तथाचास्य सलक्षणचिकित्सितम् ।
“मुखामये मारुतजे तु शोष-
कार्कश्यरौक्ष्याणि चलारुजश्च ।
कृष्णारुणं निष्पतनं सुशीतं
प्रस्रंसनस्पन्दनतोदभेदाः ॥
तृष्णाज्वरस्फोटकतालुदाहा-
धूमायनञ्चाप्यवदीर्णता च ।
पित्तात् समूर्च्छा विविधारुजश्च
वर्णाश्च शुक्लारुणवर्णवर्ज्ज्याः ॥
कण्डुर्गुरुत्वं सितविज्जलत्वं
स्नेहोऽरुचिर्जाड्यकफप्रसेकौ ।
उत्क्लेशमन्दानिलता च तन्द्रा
रुजश्च मन्दाः कफवक्त्ररोगे ॥
सर्व्वाणि रूपाणि तु वक्त्ररोगे
भवन्ति यस्मिन् स तु सर्व्वजः स्यात् ।
संस्थानदूष्याकृतिनामभेदा-
चैते चतुःषष्टिविधा भवन्ति ॥
शालाक्यतन्त्रे विहितानि तेषां
निमित्तरूपाकृतिभेषजानि ।
यथाप्रदेशन्तु चतुर्व्विधस्य
क्रियां प्रवक्ष्यामि मुखामयस्य ॥”
इति मुखरोगः ॥ * ॥
‘शुक्ततिक्तकटुक्षौद्रकषायैः कवलग्रहः ।
धूमः प्रधमनं शुद्धिरधश्छर्द्दनलङ्घनम् ॥
भोज्यञ्च मुखरोगेषु यथास्वन्दोषनुद्धितम् ।
पिप्पल्यगुरुदार्व्वीत्वग् यवक्षारो रसाञ्जनम् ॥
पाठां तेजोवतीं पथ्यां समभागं सुचूर्णितम् ।
मुखरोगेषु सर्व्वेषु सक्षौद्रं तद्विधारयेत् ॥
सीधुमाधवमाध्वीकैः श्रेष्ठोऽयं कवलग्रहः ।
तेजोह्वामभयामेलां समङ्गां कटुकां घनम् ।
पाठां ज्योतिष्मतीं लोघ्रं दार्व्वीं कुष्ठञ्च चूर्णयेत् ।
दन्तानां घर्षणञ्चैव स्रावकण्डूरुजापहम् ॥’
‘गृहधूमो यवक्षारपाठाव्योषं रसाञ्जनम् ।
तेजोह्वा त्रिफला लोध्रं चित्रकञ्चेति चूर्णितम् ॥
सक्षौद्रं धारयेदेतत् गलरोगविनाशनम् ॥’
इति कालकचूर्णम् ॥ * ॥
मनःशिला यवक्षारो हरितालं ससैन्धवम् ।
दार्व्वीत्वक् चेति तच्चूर्णं माक्षिकेण समायुतम् ॥
मूर्च्छितं घृतमण्डेन कण्ठरोगेषु धारयेत् ।
मुखरोगेषु च श्रेष्ठं पीतकं नामकीर्त्तितम् ॥’
इति पीतकचूर्णम् ॥ * ॥
‘कटुकातिविषापाठा दार्व्वीमुस्तकलिङ्गकाः ।
गोमूत्रक्वथिताः पेयाः कण्ठरोगविनाशनाः ॥
स्वरसः क्वथितो दार्व्व्या घनीभूतीरसक्रिया ।
सक्षौद्रमुखरोगासृग्दोषनाडीव्रणापहा ॥
तालुशोषे त्वतृष्णास्य सर्पिरौत्तरभक्तिकम् ॥
पृष्ठ ३/७४०
लावणं मधुराः स्निग्धाः शीताश्वैव रसा हिताः ।
मुखपाके शिराकर्म्म शिरःकायविरेचनम् ।
मूत्रतैलघृतक्षौद्रक्षीरैश्च कवलग्रहः ॥
सक्षौद्रास्त्रिफलापाठा मृद्वीकाजातिपल्लवाः ।
कषायतिक्तकाः शीताः क्वाथाश्च मुखधावनाः ।
तुलां खदिरसारस्य द्विगुणामरिमेदसः ॥
प्रक्षाल्य जर्ज्जरीकृत्य चतुर्द्द्रोणेऽम्भसः पचेत् ।
द्रोणशेषं कषायन्तं पूत्वा भूयः पचेच्छनैः ॥
ततस्तस्मिन् घनीभूते चूर्णीकृत्थाक्षभागिकम् ।
चन्दनं पद्मकोशीरं मञ्जिष्ठां धातकीं घनम् ॥
प्रपुण्डरीकं यष्ट्याह्वत्वगेलापत्रकेशरम् ।
लाक्षां रसाञ्जनं मांसीं त्रिफलां लोध्रबालकम् ॥
रजन्यौ फलिनीमेलां समङ्गां कट्फलं वचाम् ।
यवामगुरुपत्तङ्गगैरिकाञ्जनमावपेत् ॥
लवङ्गनखकक्कोलजातिकोशान् पलोन्मितान् ।
कर्पूरकुडवञ्चापि पुनःशीतेऽवतारिते ॥
ततस्तु गुलिकाः कार्य्याः शुष्काश्चास्येन धार-
येत् ।
तैलञ्चानेन कल्केन कषायेण च साधयेत् ॥
दन्तानाञ्चलनभ्रंशशौषिर्य्यक्रिमिरोगनुत् ।
मुखपाकास्यदौर्गन्ध्यजाड्यारोचकनाशनम् ॥
स्रावोपलेपपैच्छिल्यवैखर्य्यगलरोगनुत् ।
दन्तास्यगलरोगेषु सर्व्वेषां तत्परायणम् ॥’
इति खदिरादिगुटिकातैलञ्च ॥ इति मुख-
रोगचिकित्सा ॥ इति चरके चिकित्सास्थाने
२६ अध्यायः ॥)

मुखलाङ्गलः, पुं, (मुखं लाङ्गलमिव भूविदारक-

मस्य ।) शूकरः । इति जटाधरः ॥

मुखवन्धनं, क्ली, (मुखं प्रारम्भविषयः तस्य वन्धनं

संग्रहोऽत्र ।) ग्रन्थारम्भे तत्र वक्तव्यकथनम् ।
तस्य नामान्तरम् । अनुक्रमणिका । भूमिका ।
इति छन्दोमञ्जर्य्यां मुखबन्धनाख्यप्रथमस्तवकः ।
इति तद्ग्रन्थकर्त्तृगङ्गादासवैद्येन लिखितम् ॥

मुखवल्लभः, पुं, (मुखस्य वल्लभः प्रीतिकरः ।)

दाडिमवृक्षः । इति शब्दमाला ॥ मुखप्रिये, त्रि ॥

मुखवाचिका, स्त्री, (मुखं वाचयति शोधयतीति ।

वच् + णिच् + ण्वुल् + स्त्रियां टाप् । अत
इत्वं च ।) अम्बष्ठा । इति राजनिर्घण्टः ॥

मुखवाद्यं, क्ली, (मुखेन वाद्यम् ।) वक्रनालवाद्यम् ।

वाँक इति भाषा । इति त्रिकाण्डशेषः ॥
मुखस्य मुखेन च वाद्यञ्च । शिवपूजान्ते वम्
इति शब्देन गालवाद्यम् । यथा, --
“लिङ्गं निर्म्माय विधिवत् विधिवत् पूजयेच्च तम् ।
षडक्षरं जपित्वा वै मुखवाद्यं शुचिस्मिते ! ॥”
इति लिङ्गार्च्चनतन्त्रे १५ पटलः ॥
अपि च ।
“मुखवाद्यं सनृर्त्य हि कृत्वा तु परमेश्वरि ! ।
मातृकामन्त्रसहितं मुखवाद्यं सुदुर्ल्लभम् ॥
अकारादिक्षकारान्तमनुलोमविलोमतः ।
उच्चार्य्य परमेशानि ! मुखवाद्यं शुचिस्मिते ! ॥
सबिन्दुं वर्णमुच्चार्य्य पञ्चाशन्मातृकां प्रिये ! ।
अनुलोमविलोमेन सर्व्वेण च वरानने ! ॥
अनेनैव विधानेन मुखवाद्यं करोति यः ।
स सिद्धः सगणः सोऽपि स शिवो नात्र संशयः ।
मृत्युञ्जयोऽहं देवेशि ! मुखवाद्यप्रसादतः ॥
यस्मिन् काले महेशानि ! असुरो बलवान् भवेत् ।
तस्मिन् काले महेशानि ! मुखवाद्यं करोम्यहम् ॥
तत् श्रुत्वा परमेशानि ! असुरा राक्षसाश्च ये ।
पलायन्ते महेशानि ! तत्श्रुत्वा परमेश्वरि ! ॥
ये नरा भुवि तिष्ठन्ति मुखवाद्यं विना प्रिये ! ।
स सर्व्वयातनाभोगी अन्ते कुम्भीरतां व्रजेत् ॥”
इति च लिङ्गार्च्चनतन्त्रे ८ पटलः ॥

मुखवासः, पुं, (मुखस्य वासः सौरभ्यमस्मात् ।)

गन्धतृणम् । इति राजनिर्घण्टः ॥

मुखवासनः, पुं, (मुखं वासयतीति । वस् +

णिच् + ल्युः ।) मुखसद्गन्धकारकद्रव्यम् । तत्-
पर्य्यायः । आमोदी २ । इत्यमरः । १ । ५ । ११ ॥ द्वे
मुखवासनवटिकादौ आमोदयुक्तः कर्पूरादि-
रामोदी इन् । मुखं वासयति मुखवासनः
नन्द्यादित्वादनः । नानाद्रव्यरचित एकैकश
एव वा कर्पूरादिभिर्मुखोपयोग्यमुखवासनवटि-
रामोदीति सर्व्वस्वम् । शुभवासन इति पाठे
शुभं मनोहरं वासनं वासो यस्य केशादेः स
आमीदीत्याहुरितिसुभूतिः । क्षीरस्वामिना तु
समाकर्षादिचतुष्टयेन इष्टगन्धादिचतुष्टयेन च
पर्य्यायद्वयमाख्यातम् । शब्दार्णवे तु ।
“कस्तूरिकायामामोदः कर्पूरे मुखवासनः ।
बकुले स्यात् परिमलश्चम्पके सुरभिस्तथा ।
गन्धा द्बिषष्टिरप्येते गुणिवृत्तौ त्रिलिङ्गका ॥”
इति भरतः ॥

मुखविलुण्ठिका, स्त्री, (मुखेन विलुण्ठयतीति ।

लुण्ठ + णिच् ण्वुल् । स्त्रियां टाप् । अत इत्वं
च ।) छागी । इति शब्दरत्नावली ॥

मुखविष्ठा, स्त्री, (मुखे विष्ठा मलमस्याः ।)

तैलपायिका । यथा, --
“वल्गुलिका मुखविष्ठा परोष्णी तैलपायिका ।”
इति हेमचन्द्रः ॥

मुखशफः, पुं, (मुखं शफं क्षुर इव तीक्ष्णमस्य ।)

दुर्म्मुखः । इति शब्दमाला ॥

मुखशुद्धिः, स्त्री, (मुखस्य शुद्धिः ।) वक्तशोधनम् ।

यथा, आह्रिकतत्त्वे ।
“अभावे दन्तकाष्ठानां प्रतिषिद्धदिने तथा ।
अपां द्बादशगण्डूषैर्मुखशुद्धिर्व्विधीयते ॥”

मुखशोधनं, क्ली, (मुखस्य शोधनम् ।) त्वचम् ।

इति राजनिर्घण्टः ॥

मुखशोधनः, पुं, (मुखं शोधयत्यनेनेति । शुघ् + णिच्

+ करणे ल्युट् ।) कटुरसः । इति हेमचन्द्रः ॥

मुखशोधी, [न्] पुं, (मुखं शोधयतीति । शुध् +

णिच् + णिनिः ।) जम्बीरः । इति राजनिर्घण्टः ॥
(गुणादयोऽस्य जम्बीरशब्दे ज्ञातव्याः ॥)

मुखष्ठीलः, त्रि, (मुखं ष्ठीवति निरस्यति विकृतं

करोतीति भावः । ष्ठीव + इगुपधत्वात् कः
पृषोदरादित्वात् वस्य लत्वम् ।) दुर्मुखः । इति
शब्दमाला ॥

मुखसम्भवः, पुं, (मुखात् सम्भव उत्पत्तिरस्य ।

ब्राह्मणः । इति हेमचन्द्रः । ३ । ४७६ ॥

मुखसुरं, क्ली, (मुखस्य सुरा इति “विभाषा

सेनासुराच्छायाशालानिशानाम् । २ । ४ । २५ ।
इति षष्ठीसमासे सुराशब्दस्य ह्रस्वत्वम् ।)
तालसुरा । इति त्रिकाण्डशेषः । ताडी इति
भाषा ॥

मुखस्रावः, पुं, (स्रु भावे + घञ् । मुखात् स्रावः

पतनमस्य ।) लाला । इति राजनिर्घण्टः ॥

मुखाग्निः, पुं, (मुखं मुख्योऽग्निः ।) दावाग्निः ।

यथा, --
“हेमकेलिर्द्वयोश्चाथ मृदाकुः स्याद्दवानलः ।
मुखोल्का भूतसश्चारी मुखाग्निर्भरघस्मरः ॥”
इति शब्दमाला ॥
शवमुखे दन्तवह्निः । इति लोके । शास्त्रे तु
शिरःस्थाने । यथा, --
“देवाश्चाग्निमुखाः सर्व्वे गृहीत्वा तु हुता-
शनम् ।
गृहीत्वा पाणिना चैव मन्त्रमेतदुदीरयेत् ॥
कृत्वा तु दुष्कृतं कर्म्म जानता वाप्यजानता ।
मृत्युकालवशं प्राप्य नरं पञ्चत्वमागतम् ॥
धर्म्माधर्म्मसमायुक्तं लोभमोहसमावृतम् ।
दहेयं सर्व्वगात्राणि दिव्यान् लोकान् स
गच्छतु ॥
एवमुक्त्वा ततः शीघ्रं कृत्वा चैव प्रदक्षिणम् ।
ज्वलमानं तथा वह्निं शिरः स्थाने प्रदापयेत् ॥
चातुर्व्वर्णेषु संस्थानमेवं भवति पुत्त्रिके ! ।”
इति शुद्धितत्त्वम् ॥

मुखामयः, पुं, (मुण्यस्यामयः ।) मुखरोगः । इति

राजनिर्घण्टः ॥

मुखार्जकः, पुं, अर्जकः । इति राजनिर्घण्टः ॥

मुखास्त्रः, पुं, (मुखं अस्त्रमिवास्य ।) कर्क्कटः ।

इति त्रिकाण्डशेषः ॥

मुखोल्का, स्त्री, (मुखं उल्केव यस्याः ।) दावा-

नलः । इति शब्दमाला ॥

मुख्यः, पुं, प्रथमः कल्पः । इत्यमरः । २ । ७ । ४० ॥

यागादिषु शास्त्रोक्तः प्रथमः कल्पो मुख्यः
स्यात् । यथा, ब्रीहिभिर्यजेतेत्यादिना उत्कृष्ट-
त्वात् मुखमिव मुख्यः विकारसंघेत्यादिना
इवार्थे यः । इति तट्टीकायां भरतः ॥

मुख्यः, त्रि, श्रेष्ठः । इत्यमरः । ३ । १ । ५७ ॥

(तथास्य पर्य्यायः ।
“प्रधानमुत्तमं रम्यं श्रेष्ठं मुख्यमनुत्तमम् ।
वरं वरेण्यं प्रमुखं परार्द्धं प्रवरन्तथा ॥”
इति वैद्यकरत्नमालायाम् ॥
यथा, भागवते । ४ । २५ । ४९ ।
“मुख्यानामपुरस्ताद्द्वास्तयापणबहूदनौ ॥”)

मुख्यसर्गः, पुं, (मुख्यानां सर्ग इति ।) स्थावर-

सृष्टिः । यथा, --
“मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ।”
इति वराहपुराणम् ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/मालुः&oldid=44041" इत्यस्माद् प्रतिप्राप्तम्