शब्दकल्पद्रुमः/मुखबन्धनं
- ॐ ब्रह्म
- सत्यात् नास्ति परो धर्म्मः ।
शब्दकल्पद्रुमः
सम्पाद्यताम्- अर्थात्
- एतद्देशस्थसमस्तकोषाशेषशास्त्रसङ्कलिताकारादिवर्णक्रमविन्यस्तशब्द-तल्लिङ्ग-नानार्थ-पर्य्याय-प्रमाण-प्रयोग-धातु-तदनुबन्धाभिधेय-
- सहित-तत्तच्छब्दप्रसङ्गोत्थित-वेद-वेदाङ्ग-वेदान्त-न्याय-पुराणेतिहास-सङ्गीत-शिल्प-सूपकारशास्त्र-ज्योतिष-
- तन्त्राख्यान-काव्यालङ्कार-च्छन्दःप्रभृतिनाम-लक्षणोदाहरण-द्रव्यगुण-रोगनिदानौषध-
- स्मृत्युक्तव्यवस्थादिसंयुक्त-सर्वदर्शनमतानुसारि-संस्कृताभिधानग्रन्थः ।
स्यार-राजा-राधाकान्तदेव-बाहादुरेण्
सम्पाद्यताम्- विरचितः
- पाणिनिमतानुसारि-प्रत्येकशब्दव्युत्पत्ति-मूलग्रन्थातिरिक्तबहुलशब्दार्थ-प्रमाण-प्रयोग-पर्य्याय-धातुपदोदाहरणादिभिः
- नूतनसङ्कलितबहुलशब्द-तदर्थ-तत्प्रमाण-प्रयोगादिसहित-
- सुप्रशस्तपरिशिष्टेन च सार्द्धम् ।
श्रीवरदाप्रसाद-वसुना तदनुजेन श्रीहरिचरण-वसुना च्
सम्पाद्यताम्- अशेषशास्त्रविशारदकोविदवृन्दसाहाय्येन संपरिवर्द्धितः नागराक्षरैः प्रकाशितश्च ।
प्रथमो भागः
सम्पाद्यताम्- कलिकाता-राजधान्यां
- व्याप्तिस्तमिसनयन्त्रे मुद्रितः, ७१ न० पाथुरियाघाट-स्थितभवनात् प्रकाशितश्च । शकाब्दाः १८०८ । [फगॆ-३३२+ १]
मुखबन्धनं ।
सम्पाद्यताम्- तत्रादौ मङ्गलाचरणश्लोकाः ।
|
|
- संस्कृतग्रन्थानामेतादृशी रीतिः सर्व्वत्र प्रचलिता यन्मङ्गलाचरण-श्लोकानुक्रमणिकादिकं ग्रन्थादावेव लेखनीयं भवितुमर्हति । किन्त्वस्मिन् कोषे
- तन्नाचरितं । तस्यैतत्कारणं । उक्तश्लोकादि-रचन-प्रागेव प्रथम-काण्डादि-मुद्राङ्कन-समापनमात्रेण तल्लिप्सवो स्वदेशविदेशीयमहात्मानः पुनः पुनः
- प्रार्थयित्वा सर्व्वमेव गृहीतवन्तः । इदानीं एतत्कोषस्य प्रथमादिकाण्डं नोपस्थितं । तेन हेतुना एतन्मङ्गलाचरणादि-रूप-मुखबन्धनं शेषकाण्डपुरोवत्ति
- कृतं । किन्त्वेतद्ग्रन्थारम्भे अथ शब्दकल्पद्रुमो मुद्र्यते इति लिखनेन मङ्गल-वाचकाथ-शब्दप्रयोगादेव एतत्कोषस्य मङ्गलाचरण-सिद्धिर्जाता । तदुक्तं
- श्राद्धतत्त्व-धृतश्रुतौ, --
“ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्वा विनिर्यातौ तेन माङ्गलिकाबुभौ” ॥
- अष्टादशसंख्यकासु शास्त्रीयभाषासु संस्कृतभाषा गीर्व्वाणवाणी । अतः सव्वात्कृष्टा सर्व्वत्र समरूपा सर्व्वजनमान्या च । देवैरृषिभिश्च तद्भाषया
- अष्टादशविद्याः प्रणीताः । किन्त्वस्मिन् भारतवर्षे उक्तविद्या-सम्बन्धि-पारिभाषिक-शब्दादीनां प्रकाशक-कोषो न प्राप्यते । ते च तत्तद्भाष्य-टीकादिभिरेव
- चरितार्था भवन्ति । किञ्च महा-महोपाध्यायैः प्राचीन-नवीन-कवि-कोविदगणैः पद्येन पर्य्यायनानार्थ-युक्त-बहुविधाभिधानरचना कृता । किन्तु तत्तद्-
- ग्रन्थीयैकार्थ-शब्दसंग्रहस्य वर्गस्मरणाभावात् प्रयोजनीय-पर्य्याय-शब्दप्राप्तिः सुदुष्करी । एवं अनेकार्थ-शब्दसंग्रहस्य एकादि-षडक्षर-पर्य्यन्त-कान्तादि-
- हान्तशब्द-निवद्ध-निखिल-श्लोकानां पाठव्यतिरेकेण प्रार्थनीय-नानार्थ-शब्द-निर्गमोऽतिदुर्गमश्च । विशेषतः तत्तदेकैक-कोषे समग्र-शब्दार्थयोर्लाभाभावः ।
- इत्यादि-दोषमहमालोच्य परोपकाराय पठद्दशावधि-वर्त्तमानकाल-पर्य्यन्तं बहुतरपरिश्रमै-र्धीरवर-निकर-साहाय्यैरेतद्देशप्राप्य-समस्तकोष-वेद-वेदा-
- न्तवेदाङ्गभाष्य-व्याकरण-च्छन्दोज्योतिष-साहित्य-नाटक-काव्यालङ्कार-वैद्यक-सङ्गीत-न्याय-सांख्य-पातञ्जल-वैशेषिक-मीमांसा-स्मृति-पुराणेतिहास-तन्त्रा-
- गम-निगम-शिल्प-सूपकार-नीतिशास्त्र-कुलाचार्य्य-गोस्वामि-ग्रन्थादिभ्यः शब्दसमूहं संगृह्य कविकल्पद्रुम-नामक-धातुपाठ-ग्रन्थात् धातुनिवहञ्च
- सङ्कलय्य सकलशब्द-धात्वर्थानामनायासेन लाभार्थं विना पद्येन वर्णव्यवस्याक्रमेण शब्दकल्पद्रुमाभिधानाभिनवाभिधानं कृतवान् । इमं सप्तकाण्डा-
- त्मक-वृहत्कोषं स्वीयकोष-व्ययेन मुद्राङ्कयित्वा मुद्राव्यतिरेकेणनानादिग्देशीय-विशिष्ट-पात्रेभ्यो बन्धुवर्गेभ्यो याचकेभ्यश्च दत्तवान ॥
- एतत्कोषस्य शब्दकल्पद्रुम-नाम-करण-कारणमेतत् । स्वर्गीय-कल्पद्रुम-सन्निधाने यो यत् प्रार्थयते तस्य तत्प्राप्ति-र्भवत्येव । मत्कृतमर्त्त्यीय-
- शब्दकल्पद्रुम-समीपे यानि यानि समीहित-शब्दादीनि प्रार्थयन्ते तानि तान्यवश्यं प्राप्नुवन्ति । अतः कल्पवृक्ष-सादृश्यमेव नामकारणं । प्राचीनसंग्रहकृ-
- द्भिरपि स्वकृतग्रन्थानां कल्पद्रुम-कल्पतरु-कल्पलता-प्रभृति नामधेयं कृतं । तत्सदृशार्थक-कामधेनु-चिन्तामण्यादि-पुस्तकानि च प्रचलन्ति एतद्ग्रन्थस्य
- वृक्षरूपकत्वात् अस्य स्वण्डस्य काण्डेति संज्ञां कृतवान् ॥
- अतः परमहमेतत्कोषस्यानुक्रमं विशेष-नियमञ्च विवृणोमि । निखिलाभिधानिक-शास्त्रिक-लौकिक-व्यवहारिक-साधुशब्दानां धातुगणानाञ्च
- झटिति प्राप्तये तेषामानुपूर्व्विकाकारादि-क्षकारान्त-पञ्चाशद्वर्णानां यथाक्रमं सूचीं कृत्वा विन्यासमकुर्व्वं । तत्र प्रथमं स्वरवर्णादिशब्दानां परे हलवर्णादि-
- शब्दानां शेषे युक्ताक्षरादि-शब्दानाञ्च वर्णक्रमेणैव यथास्थानं प्रथमा-विभक्त्यन्तत्वेन संस्थापनमकार्य्यं । पदसाधने येषामन्त्याक्षराणां विकारो लोपो
- वा अभवत् ते वर्णास्तत्तच्छब्दोपरि विन्यस्ताः । अनुस्वार-विसर्गाणां षोडश-स्वरान्तर्गतत्वेन तदुभयवदाद्य-वर्णयुक्त-शब्दान् स्वरवर्णस्थलाभिषिक्तान् चकार ।
- तत्पश्चात् प्रत्येक-शब्दस्य लिङ्गं प्रत्येक-धातोरनुबन्धञ्च निर्णीतवान् । येषां धातूनामनुबन्धो नास्ति तत्स्थानं विन्दुयुक्तमथवा शुन्यमास्ते । तदनन्तरं
- सकल-शब्दानामर्थवाचक-पदानि प्रथभाविभक्त्यन्तत्वेन एवं समस्त-धात्वर्थवाचक-पदानि सप्तमीविभक्त्यम्तत्वेन लिखितानि । प्रत्येक-प्रसिद्ध-शब्दोत्तरं
- तदीयपर्य्यायाः देशभाषाश्च तथा प्रत्येक-धात्वर्थानन्तरं तट्टीका धातुदीपिकोक्तव्याख्यापदादीनि विहितानि सर्व्वशेषे तेषां प्रमाणानि तदभावे तत्प्रयोगाः
- तद्विरहे तद्व्युत्पत्ति-र्लिखिता ॥
- वर्णमालायां च वर्ग्य-जकारान्तःस्थयकारौ मूर्द्धन्य-णकार-दन्त्यनकारौ वर्ग्यवकारान्तःस्थवकारौ तालव्यशकार-मूर्द्धन्यषकारदन्त्यसकाराः सन्ति ।
- एतदखिल-वर्णादि-शब्दानां धातूनाञ्च प्रभेदं कृत्वा सूचीपूर्व्वकं यथास्थानं संस्थापनं कृतवान् । वङ्गदेशे उक्तवर्णानामुच्चारण-भेदाभावः । विशेषतो वकार-
- द्वयस्याकारोच्चारणयोर्भेदो नास्ति पश्चिमादिदेशे वर्त्तते । किन्तु मुग्धबोधटीकायां दुर्गादासविद्यावागीशधृता वकार-भेदिकैकप्राचीनकारिकास्ति ।
- सा यथा, --
- “उदूटौ यत्र विद्येते यो वः प्रत्ययसन्धिजः । अन्तःस्थं तं विजानीयात्तदन्यो वर्ग्य उच्यते” ॥
- एतत्कारिकया सकलवकार-प्रभेदो न भवति । इति हेतोरहं धातूनां शब्दाकरत्वादोष्ठ्यदन्त्य-वकारादिधातुद्वारा पदसाधनं कृत्वा बहु-प्रयत्नै-
- र्वकारद्वय-भेदं प्रकाशितवान् रेफयुक्तवर्णन्तु रवर्णात् परं शब्द-सूचीमध्ये विन्यस्तवान् ॥
- पूर्व्वतन-कोषकार-वर्गैः स्वस्वकोषे धातुसञ्चयो न कृतः शब्दमात्रसंग्रहः कृतः । किन्तु शब्दानामुत्पत्ति-स्थानं धातुः । अतएवाहं सर्व्वोत्तम-
- वोपदेवीय-धातुपाठ-कविकल्पद्रुमात् (१७५४) चतुःपञ्चाशदधिक-सप्तदशशत-संख्यक-धातून् सङ्कलय्य एतत्कोषान्तर्गतान् कृतवान् । तत्र
- १३२ अकारान्त धातवः । २४ आकारान्त-धातवः । १९ इकारान्त-धातवः । २५ ईकारान्त-धातवः । ३३ उकारान्त-धातवः । १३ ऊकारान्त-धातवः ।
- २१ ऋकारान्त धातवः । १६ ॠकारान्त-धातवः । ६ एकारान्त-धातवः । २५ ऐकारान्त-धातवः । ५ ओकारान्त-धातवः । ५९ ककारान्त-धातवः ।
- २१ खकारान्त धातवः । २७ गकारान्त-धातवः । २० घकारान्त-धातवः । ५० चकारान्त-धातवः । १९ छकारान्त-धातवः । ७२ जकारान्त-धातवः ।
- ३ झकारान्त धातवः । ७१ टकारान्त-धातवः । २३ ठकारान्त-धातवः । ७६ डकारान्त-धातवः । १ ढकारान्त-धातुः । ५० णकारान्त-धातवः ।
- ३१ तकारान्त धातवः । २८ थकारान्त-धातवः । ७९ दकारान्त-धातवः । ३७ धकारान्त-धातवः । २८ नकारान्त-धातवः । ६४ पकारान्त-धातवः ।
- १५ फकारान्त धातवः । ४५ बकारान्त-धातवः । ३९ भकारान्त-धातवः । ३३ मकारान्त-धातवः । ३१ यकारान्त-धातवः । ४२ रान्त-धातवः ।
- ९३ लकारान्त धातवः । ६८ वकारान्त-धातवः । ३९ तालव्यशकारान्त-धातवः । ११६ मूर्द्धन्यषकारान्त-धातवः । ६५ दन्त्यसकारान्त-धातवः ।
- ५० हकारान्त-धातवः । ४२ सौत्र-धातवः सन्ति । एषां मध्ये संख्याया एकष्ठकारान्त-धातुरेवमेको लकारान्त-धातुर्नास्ति । सौत्र-धातूनां नियत-प्रयोगाभावः ।
- एतत्समुदाय-धातुर्गणभेदे विभक्तोभूतस्तस्माद्धेतोर्धातु-पाठस्य गणसंज्ञा अभवत् । तन्मध्ये प्रसिद्ध-गणा दश । अवान्तर-गणा अनेके विद्यन्ते । यथा, --
- भ्वाद्यदादी जुहोत्यादिर्दिवादिः स्वादिरेव च । तुदादिश्च रुधादिश्च तनक्र्यादि-चुरादयः ॥
- इति दुर्गादास-विद्यावागीश-कृत-कविकल्पद्रुम-टीका धातुदीपिका ॥ उक्तगणे वोपदेव-विप्रेण अकाराद्यादि-धातुपाठ-क्रमेण अकारान्तादि-धातु-
- सकलं कथितवान् । किन्त्वहमेतत्क्रमानुगमनमकृत्वा निजकोष-रीत्यनुसारेण शब्दसूचीमध्ये धातुगणान् लिखितवान् ॥
- साङ्केतिकवर्णचिह्नादीनां विवरणं ।
- एतत्पुस्तकस्य प्रतिपत्रस्य प्रत्येक-पृष्ठ-मध्यस्थाने युग्मरेखा-प्रदानेन द्विभागं कृत्वा तद्भागद्वये शब्दादिर्लिखितः । तस्यान्तिम-शब्दादेर्व्वर्णं त्र्यक्षर-
- पर्य्यन्तं उक्तभागद्वयोपरि विन्यस्तमभवत् । तदॄष्टिमात्रेण यदक्षर-पर्य्यन्त-शब्द-स्तत्पृष्ठारूढो भूतस्तद्वोधो भविष्यति । तेनेष्ट-शब्दानामनायासेन
- लाभो भविता ॥
- पुंलिङ्गस्य सङ्केतः “पुं” । स्त्रीलिङ्गस्य संक्षेपः “स्त्री” । क्लीवलिङ्गस्य चिह्नं “क्ली” । वाच्यलिङ्गस्य अर्थात् त्रिलिङ्गस्य लक्ष्म “त्रि” । एवम-
- व्ययशब्दस्यैक-देशस्य “व्य” इत्यक्षरस्य ग्रहणं कृतं ॥
- यस्मिन् स्थले एक-शब्द-घटकी-भूत-बहुवर्णाः पंक्तिद्वये पतितास्तज्ज्ञापनार्थं तत्प्रथमपंक्तिशेषे एका क्षुद्र-समरेखा (-) प्रदत्ता भूता ॥
- एकार्थ-शब्दस्योत्तरं एवं प्रमाणस्य पूर्व्वं एका विषम-रेखा (।) प्रदत्ता । भिन्नार्थक-शब्दस्य एवं प्रमाणस्य परं विषम-रेखाद्वयं (॥) विन्यस्तं ।
- प्रथमकाण्डे क्वचिदस्य व्यतिक्रमो जातः ॥
- समानार्थक-द्वि-त्र्यादि-शब्देष्वेकस्थले उपस्थितेषु तदुत्तरं तज्ज्ञापकं एवम्प्रकार-वेष्टन-चिह्नं “}” दत्तं ॥
- विशेषवृत्तान्तसमापनात् परं विशेष-शब्दार्थारम्भात् पूर्व्वञ्च पुष्पाकारचिह्नं (*) कृतं । एवं विस्तारित-विषयान्तर्गत-प्रकरणभेदस्थले पुष्पा-
- कारेणाङ्कितं ॥
- येषां प्रसिद्ध-शब्दानामुत्तरं तत्पर्य्याय-शब्दा लिखितास्तत्संख्यानामङ्कपातः कृतः । तत्रोक्त-प्रसिद्ध-शब्दमेकत्वेन गणयित्वा तत्पर्य्याये द्व्यादि-
- संख्याङ्काः स्थापिताः ॥
- पूर्व्वोदित-चतुःपञ्चाशदधिक-सप्तदशशत-धातूनां षट्चत्वारिंशदनुबन्धवर्णानां फलानि लिख्यन्ते ॥
- अः -- अनुबन्धेषु मध्ये अकारः सुखोच्चारणार्थः । यथा धक्क नक्क क नाशने इति ॥
- आः -- निष्ठाभावादि-कर्म्मवेट् । आकारेतो धातोर्भावे आदिकर्म्मणि च विहिताया निष्ठाया वा इटित्यर्थः । यथा इर्मिद्या स्नेहे भावादिढे वेति
- मिन्न मेदितं तेन । प्रमिन्नः प्रमेदितः सः । भावादिकर्म्मभ्यामन्यत्र निष्ठाया न इम् इत्यर्थः । यथा आदित इति मिन्नः मिन्नवान् ॥
- इः -- नुन्वान् । वदिङ् नुत्यभिवादयोः । अतएवेदितो नुन् वन्द्यते विष्णुः ॥
- इर् -- वा आड्वान् । च्युतिर् क्षरणे इरितस्तु वेति अच्युतत् अच्योतीत् ॥
- ईः -- अनिड्निष्ठः । दीपीङ् यृ दीपने । नेमडीश्वीति दीप्तः दीप्तवान् ॥
- उः -- क्त्वावेट् । चमु भक्षणे । पु क्लिशुदित इम् इति चमित्वा चान्त्वा ॥
- ऊः -- वेट्कः । यस्य सामान्यविधिना इम्विहितः ऊदितः परस्य तस्य वा इम् इत्यर्थः । षिधू शिवे शास्त्रे । वेमूदिदिति असेधीत् असैत्सीत् ॥
- ऋः -- चङ्यह्रस्वः । चङि ञेः परे अङि परे अह्रस्वः ह्रस्वाभाववान् । यथा ढौकृङ्गत्यां । ञ्यङ्युङस्व इत्यत्र ऋदिद्वर्जनात् अडूढौकत् ॥
- ॠः -- वा चङि अह्रस्वः इत्यनुवर्त्तते । कणृ आर्त्तस्वरे । भ्रज भ्रासेति अचीकणत् । अचकाणत् । येषां सप्तम-स्वरानुबन्धः कैश्चित् पठ्यते कैश्चिन्न
- पठ्यते तेषां ह्रस्व-विकल्पनार्थोऽयमनुबन्धः ॥
- ऌः -- अङ्वान् । औगमॢ गत्यां । शासॢद्युत्पुषादेरिति अगमत् ॥
- एः -- सिचि अवृद्धिः । सिचि ट्यांविहितसौ । ए कट् वृतौ वृषि । हसादेः सेम इत्यत्र एदिद्वर्जनात् अकटीत् ॥
- ऐः -- यजादिः स्यात् । यजै ञौ देवार्च्चने । व्यथग्रहेति जिः इयाज । ग्रहस्वपाद्योरिति इज्यात् ॥
- ओः -- निष्ठातनः । निष्ठायास्तो निष्ठातः निष्ठातो नो यस्मात् स निष्ठातनः । रुजो शौ भङ्गे । सूल्वाद्योदिदिति रुग्नः रुग्नवान् ॥
- औः -- अनिट् । औ गमॢ गत्यां । वसोरस्येत्यत्र औदिद्वर्जनात् गन्ता ॥
- कः -- चुरादिः । गणत्क संख्याने । चुर्भ्यो ञिर्व्वेति गणयति ॥
- किः -- चुरादिर्व्वा । पक्षे गणान्तरनियमाभावात् भ्वादिरित्यर्थः । युज कि संयमे योजयति योजति । यद्यपि चुरादिभ्यो ञिर्व्विकल्प्यते तथाप्य-
- न्येषामनुरोधादिदमुक्तं । अन्येषां मते तु चुरादिभ्यो ञिर्नित्यः । तत्रापि युजप्रभृतिभ्यो वेति । स्वमते तु चुर्भ्यो ञिर्व्वेत्यत्र वाशब्दस्य व्यव-
- स्यावाचित्वात् चुरादिभ्यो ञिर्नित्यः । अत्र युज-प्रभृतिभ्यो वेति ॥
- गः -- क्यादिः । डु क्री ञ ग द्रव्यपर्य्यये । दिवसुतुदेति क्रीणाति ॥
- गिः -- प्वादिरपि । अपिशब्दात् क्र्यादिश्च । पू ञ गि शोधे । प्वादेः स्व इतिह्रस्वः पुनाति । अपूः स ल्वादिः । पूवर्ज्जितः स प्वादिर्ल्वादिश्च स्यात् ।
- लू ञगि छिदि लुनाति । सूल्वाद्योदिदिति लूनः लूनवान् । कॄ गॄ ज्या ग्लाहाल्वादेरिति लूनिः ॥
- घः -- रुदादिः । लघिर रुद रोदे । रुद्भ्योऽयोहस्रस्येम इति रोदिति । रुदाद्यस्तीति ईम् अरोदीत् ॥
- ङः -- तङ्वान् कर्त्तरि । कर्त्तरि वाच्ये तङ्वान् आत्मनेपदी । एध ङ वृद्धौ । नवशः पमे इति एधते ॥
- जः -- ज्वलाद्यः । ज्वल ज्म चलत्विषोः । दूनीभूज्वलाद्येति णः ज्वालः । पक्षे पचादित्वादन् ज्वलः । एवं कुच ज रोधपर्क्ककौटिल्यलेखने । दूनीभू-
- ज्वलाद्येति णः कोचः । पक्षे कॄ गॄ ज्ञा प्रीति कः कुचः ॥
- झः -- ज्वलाद्यः । इति केचित् ॥
- ञः -- आत्मने । आत्मने आत्मार्थं फलवति कर्त्तर्य्यात्मनेपदं अफलवति परस्मैपदमिति शेषः यज ञौ देवार्च्चायां यजते यजमानः यजति याजकः ।
- चूरादेस्तु स्वार्थविहित-ञेर्ञकारेण ञित्वेऽपि उभयपदं न स्यात् अन्यथा स्यम ञक् वितर्के इत्यादे र्ञानुबन्धो व्यर्थः स्यात् ॥
- ञिः -- अद्यक्तः । अद्य वर्त्तमाने क्तो यस्मात् स अद्यक्तः । ञि ष्ठा स्थाने । ज्ञार्च्चेच्छार्थञीच्छीलादेरिति स्थितो विष्णुस्तिष्ठतीत्यर्थः ॥
- टुः -- साथुः । ट्वृ ङ वेप चलने । द्वितोऽथुरिति वेपथुः ॥
- ठः -- फणादिः । इति केचित् ॥
- डुः -- त्रिमग्युतः । कृ ञ द डु कृतौ । ड्वितस्तज्जे इति कृत्रिमं ॥
- णः -- फणादिः । फण ण निस्नेहे । तृ फल भजेति फेणतुः पफणतुः फेणिथ पफणिथ ॥
- तः -- अदन्तः । अदन्तानां पृथग्वर्गविधानेनैव ज्ञाने सिद्धे तानुबन्धोऽनभ्यासानामङ्कादिषु कान्तत्वादिभ्रमनिरासार्थः ।
- दः -- तनादिः । तन दु ञ विस्तृतौ । तन्भ्यः शुविति तनोति । सेर्लुक् तथासोरिति अतत अतनिष्ट अतथाः अतनिष्ठाः । वनतनाद्यनिमामिति प्रतत्य ॥
- धः -- रुधादिकः । रुधिर्धौ ञि ञ आवृतौ । दिवसु तुदेति रुणद्धि ॥
- नः -- स्वादिः । षु ञ्ण सन्धाक्लेदपीडमन्थे । दिवसु तुदेति सुनोति ॥
- पः -- मुचादिः । मुचॢ श प ञौ मोक्षे । नुण्रधोमुचामिति मुञ्चति ॥
- भः -- शमादिः । शमुभिर्य शमे । यन्योशमादीति शाम्यति ॥
- मिः -- घटादिः । निचिन्नमोर्दीर्घो वा । दीर्घो दीर्घवान् । घट य म ङ चेष्टे । ञीन्नमोस्तुर्घश्चेति अघटि अघाटि घटं घटं घाट घाटं । निचि
- ह्रस्वः मोऽनुवर्त्तते । निचि ञौ ह्रस्वः ह्रस्ववान् । घटादि जनीति घटयति ॥
- मिः -- वा । निचि ह्रस्व इत्यनुवर्त्तते । फण मि ण गतौ । वा सम यम फणेति फणयति फाणयति ॥
- यः -- दिवाद्यः । दिव्यु जिगीषेच्छादौ । दिवसु तुदेति दीव्यति ॥
- रः -- वैदिकः । वेदेष्वेव प्रयुज्यन्ते नतु भाषायामित्यर्थः । गार्लिस्तुतौ जन्मनि । जगाति ॥
- लः -- अदादिकः । अद्लौ भक्षे । लुगद्भ्योऽपः अत्ति ॥
- लिः -- ह्वादिः । ह्वादेरदाद्यन्तर्गणत्वेन ख्यातत्वाददादित्वसूचकानुबन्धो न कृतः । अथवा लुः स्वपादिश्च लिर्ह्वादिरित्येकं वाक्यं । लु लि एतदुभयानुबन्धौ
- धातू क्रमात् स्वपादिह्वादीस्तः । चकारस्योभयत्र सम्बन्धाददादी चेत्यर्थः । ह्वादिः पृथक्मण इत्येके । अतएव पठन्ति च ।
- “ह्वाद्यदादी जुहोत्यादिर्दिवादिः स्वादिरेव च । तुदादिश्च रुधादिश्च तनक्र्यादिचुरादयः” ॥ इति ।
- हुलि होमेऽदने । ह्वादी रे द्विः जुहोति ।
- लुः -- स्वपादिश्च । चकाराददादिश्च । स्वमते स्वपादेः प्रयोजनं नास्ति । दरिद्रतीत्यादौ स्वपादित्वादजादौ सार्व्वधातुके । आद्युदात्तत्वमिति वोपदेवः ॥
- वः -- वृतादिः । वृत ङ व ॡ वर्त्तने । बृद्भ्योनेम पे इति तेनैव परस्मैपदे वर्त्स्यति विवृत्सति । आत्मनेपदे तु वर्त्तिष्यते विवर्त्तिषते । अन्यत्र विवर्त्तिषा
- विवृत्सा ॥
- शः -- तुदादिकः । तुदौ ञ श व्यथे । दिवसुतुदेति तुदति ॥
- शिः -- कुटादिश्च । चकारात् तुदादिश्च । कुटां नुव्री ञ्निति इति नियमात् कुट शि कौटिल्ये इत्यादीनां अकुटीत् इत्यादौ न गुणः । णू शि स्तवने
- इत्यादीनां अनुवीदित्यादिषु न वृद्धिः । अगुणत्वादुव् च ॥
- षः -- कृदङवान् । आख्यातिकस्याङोऽप्राप्त्यर्थं कृदिति विशेषणं । स्वमते तूभयत्र ङ एव । डु ञौ श पच पाके । भीषि चिन्तीति पचा ॥
- क्षः -- जक्षादिः । जक्ष क्ष लु घ भक्षहासयोः । द्विरुक्त जक्षादीति द्विसंज्ञायां शचन्तस्य व्रिदचोऽद्वेरिति न नुण् जक्षत् । क्लीवे जस्शसोस्तु द्वेः शतुर्नुण्
- इति जक्षति जक्षन्ति । आख्यातिकेऽन्तोऽन्तो द्वेरिति जक्षति । अनुस् सिद्वेरिति अजक्षुः । इति धातुदीपिकायां अनुवन्धफलनिरूपणं ॥
- आदिकोषविवरणं ।
- सर्व्वेषां कोषाणामादि अग्निपुराणोक्ताभिधानं । तत्रादौ स्वर्गपातालादिवर्गः । ततोऽव्ययवर्गः । ततो नानार्थवर्गः । ततो भूपुराद्रिवनौषधिसिंहा-
- दिवर्गाः । ततो नृब्रह्मक्षत्रविट्शूद्रवर्गाः । शेषे सामान्यानि नामलिङ्गानि सन्तीति मया दृष्टं । अमरसिंहस्तु उक्ताग्निपुराणीयाभिधानस्य कस्यचित्
- कस्यचित् वर्गस्य व्यतिक्रमं कृत्वा तत्रोदित-सामान्य-नामलिङ्गानां विशेष्य-निघ्न-वर्गसङ्कीर्णवर्गाविति संज्ञां स्थापयित्वा अन्ते लिङ्गादिसंग्रहवर्गस्य योगं कृत्वा
- स्वीयकोषं रचितवान् । एवं जटाधरोऽपि अमरकोषस्यानुकरणं कृतवान् । इति विरलप्रचारः ॥
- प्राप्तकोषादिनामानि ।
- अत्राभिधाने मत्प्राप्तयद्यत्कोषादितः शब्दादयः संगृहीतास्तेषां संज्ञाः पश्चाल्लिख्यन्ते ॥
|
|
- अप्राप्तकोषनामानि ।
- एतद्भिन्नानेकप्राचीनाभिधानानि सन्ति । यद्यपि तानि मया अप्राप्तानि तथापि तेषां मध्ये बहुकोषाणां प्रयोगप्रमाणानि अमरटीकाधृतानि
- आसादितानि । एवं विश्वमेदिनीकोषे तत्सकलाभिधानानां शब्दाः समाहृताः । उक्तकोषद्वयशब्दानां शब्दकल्पद्रुमाभ्यन्तरितत्वेन वक्ष्यमाणसमस्त-
- प्राचीनकोषाणां शब्दाः एतत्कोषान्तर्गता भूताः ।
- विश्वधृतप्राचीनकोषाः ।
|
|
|
|
- मेदिनीधृतप्राचीनकोषाः ।
|
|
|
|
- एतदन्ये वलहड्डप्रभृतिकृतकोषाः सन्ति ॥
- लब्धालब्धामरकोषटीकानामानि ।
- अमरकोषश्च भृशप्रामाणिकः व्युत्पादकश्च । तस्मात् बहूतरटीकाकारैस्तस्य नानाविधा टीका कृता । तन्मध्ये कतिपयलब्धटीकानां प्रमाणानि
- शब्दकल्पद्रुमे दत्तानि । किन्तु तत्समुदायटीकाकृन्नामानि टीकानामधेयानि चाहं व्यक्तीकरोमि ॥
|
|
|
|
- अत्राहृतविषयवृन्दं शब्दसिन्धुदुस्तरत्वञ्च विज्ञापयामि ।
- कोषगणातिरिक्तनानाशास्त्रोक्तशब्दप्रमाणप्रयोगोपाख्यानादीनि । चातुर्वेदिकषाड्दर्शनिकमतविवरणपदार्थकर्म्मोपासनाज्ञानकाण्डब्रह्मनिरूपण-
- वेदाङ्गशिक्षादीनि । शाब्दिककाव्यालङ्कारिकछान्दसिकसूत्रवृत्तिमात्रानामलक्षणोदाहरणचित्रकाव्यनवरसरतिवन्धादयः । श्रौतस्मार्त्तयज्ञमलमासादि-
- लक्षणदायभागाशौचसंस्कारप्रायश्चित्तोद्वाहतिथिकृत्यजन्माष्टमीदुर्गोत्सवाष्टादशविवादपद-चतुष्पादव्यवहारैकादश्याद्यु पवासनिर्णयतडागभवनवृषोत्सर्गव्रतप्र-
- तिष्ठापरीक्षाज्योतिःशुभाशुभदिनादिवास्तुयागदीक्षाह्निकाचारमासकृत्यपुरुषोत्तमादिमाहात्म्य श्राद्धशूद्रकृत्यकर्म्मविपाकद्वादशयात्राधिकरणदत्तकव्यवस्था-
- दयः । पौराणिकतान्त्रिकवर्णतत्त्वषट्कर्म्मस्नानतर्पणपूजामुद्रामन्त्रयन्त्रजपहोमवलिध्यानस्तवकवचमाहात्म्यभुवनस्वर्गनरकदेतवादानवतीर्थावतारनदनदीदे-
- शभेदपीठपर्वतवृक्षराजनीतिवर्णाश्रमधर्म्मवर्णसङ्करद्रव्यशुद्धिमहादाननिधिरत्नाद्युत्पत्तिसृष्टिप्रलयदुर्गपुरमन्दिरश्रीमूर्त्तिनिर्म्माणप्रमाणादीनि । ज्यौतिषिक-
- सैद्धान्तिकवारतिथिनक्षत्रयोगकरणसंक्रान्तिमासर्त्तुपक्षवर्षायनजातफलाकालग्रहणनष्टचन्द्रधूमकेतुस्त्रीपुरुषादिशुभाशुभलक्षणशकुनस्वरोदयगणिताङ्कक्षेत्र-
- व्यवहारराशिचक्रभुगोलखगोलदृग्गोलवर्णनादीनि । आयुर्वेदीयजन्मक्रमशारीरस्थानरोगनिदानपूर्वरूपसम्प्राप्त्युपशयचिकित्सौषधद्रव्यगुणपाचनजारणमा-
- रणपथ्यापथ्यनाडीमूत्रजिह्बापरीक्षापञ्चकर्म्मष{??}सोत्पत्त्याख्यानादयः । मान्धर्ववेदीयनृत्यगीतवाद्यस्वरताललयतानमानग्रामश्रुतिमूर्च्छनारागरागिणीत-
- त्पुत्त्रतद्भार्य्यागानसमयध्रुवकगमकनायकनायिकानिरूपणादीनि । युक्तिकल्पतरुग्रन्थीयनीतिद्वन्द्वनगरीवास्तुराजगृहविशेषसामान्यासनोपकरणालङ्कारास्त्र-
- यात्रायुक्तयः तथा चतुष्पदद्विपदनिष्पदयानोद्देशाः । पत्रकौमुदीयपत्रप्रमाणभङ्गरचनलेखननयनपठनचिह्नकोणच्छेदनपदन्यास श्रीशब्दविन्यासप्रश-
- स्तिप्रकरणादीनि । कुलाचार्य्यादिग्रन्थीयब्राह्मणवैद्यकायस्थानामुत्पत्तिवंशगोत्रप्रवरपर्य्यायश्रोत्रियकुलीनमौलिकगोष्ठीपतिनिर्णयादीनि च शब्दकल्पद्रुमस्य
- सप्तकाण्डे मया समाहृतानि । यान्यवशिष्टानि तानि परिशिष्टे प्रवक्ष्यामि । तत्तद्ग्रन्थनामानि बाहुल्यभिया नोक्तानि । तथापि शब्दसमुद्रस्य
- पारगमनं दुष्करतरं । तदुक्तं कलापमुग्धबोधटीकाधृतश्लोके ।
- अहञ्च भाष्यकारश्च कुशग्रीयधियावुभौ । नैव शब्दाम्बुधेः पारं किमन्ये जडबुद्धयः ॥
परिशिष्टकरणकारणम् ।
सम्पाद्यताम्- अस्मिन् सप्तकाण्डात्मकशब्दकल्पद्रुमपुस्तके ये ये शब्दार्थप्रमाणप्रयोगादयः पूर्व्वं प्राप्त्यभाबेन न संगृहीताः । अथबा भ्रमवशात् पतिताः । एवं
- यस्य यस्य रोगस्य निदानमात्रं लिखितं तत्तदौषधानि न विबृतानि । एवं येषां शब्दानां अमरातिरिक्तकोषोक्तपर्य्यायशब्दसङ्कलनं न कृतं । एवं
- दीकारोत्तरक्षकारादिवर्णयुक्तकतिपयशब्दानां मुद्राङ्ककप्रमादेन स्खलनं जातं । एवं अकाराद्यादिबर्ग्यवकारादिपर्य्यन्तधातूनां तत्तट्टीकाधृतपदोदाहर-
- णादयः पुरा न लिखिताः । एतत्सर्वमवशिष्टं परिशिष्टमध्ये लिपिबद्धीकरिष्यामि । अतःपरमेतत्परिशिष्टीयापुनरूक्तशब्दादीन् प्रानुदितसप्तका-
- ण्डीयशब्दसूचीमध्ये यथास्थानं स्थापयित्वा ग्रन्थसमाप्तौ मङ्गलाचरणबीजं परिशिष्टकरणकारणञ्च हित्वा एतन्मुखबन्धनं प्रथमकाण्डस्य पूर्वं योजयित्वा
- पुनर्मुद्राङ्कने कृते एष कोषः सुसम्पू र्णे भविष्यति । किञ्च पश्चिमदेशीयलोकानां महोपकाराय देवनागराक्षरेण एतत्कोषमुद्राङ्कनार्थं पाश्चात्या
- मद्बन्धुवर्गा ममान्तिके बहुशः प्रार्थयन्ते । किन्तु तत्प्रार्थनापूरणे मदीयायुषोऽनुकूलतायां सन्दिहानो विवृत्तोऽस्मि । यद्यपि कश्चित् बिपश्चित्
- किम्बा विषयी स्वीयलाभार्थं मत्कृतैतद्ग्रन्थाधिकारं यथारीति गृहीत्वा अस्मिन् कर्म्मणि प्रवर्त्तेत तत्र ममापत्तिर्नास्तीति ॥
- शाके वह्निसमुद्रशैलधरणीमानेऽरुणे कर्कटे, याते खाग्निमिताब्दतः परमसौ मत्शब्दकल्पद्रुमः ।
- काण्डैः सप्तभिरन्वितो भगवतोऽनुक्रोशतः, पूर्णतां प्राप्तो दूषणमस्ति किञ्चिदिह चेत् तत् क्षम्यतां साधुभिः ॥
- अथ सर्व्वोपासकसम्मतमङ्गलाचरणोनविंशतिपद्यानि ।
|
|
- अथ ग्रन्थप्रतिज्ञानवश्लोकाः ।
|
|
- तत्र प्रथमाध्याये ४१४ नामानि यथा ।
|
|
|
|
- अथ ग्रन्थस्यानुक्रमणिकादिलेखनाभावकारणं वृत्तद्वयम् ।
|
|
- अथादर्शपत्राणां वल्मीकमक्षणजन्यमनस्तापतन्निवारणहेतुपञ्चपद्यानि ।
|
|
- अथ ग्रन्थकर्तुर्व्वंशवर्णश्लोकाः ।
|
|
|
|
|
|
|
|
|
|
|
|
- वर्णमाला । नागरी ।
- अ | आ(ा) | इ(ि) | ई(ी) | उ(ु) | ऊ(ू) | ऋ(ृ) | ॠ(ॄ) | ऌ(ॢ) | ॡ(ॣ) | ए(े) | ऐ(ै) | ओ(ो) | औ (ौ) | ं | ः
- क | ख | ग | घ | ङ | च | छ | ज | झ | ञ | ट | ठ | ड | ढ | ण | त | थ | द | ध | न | प | फ | ब | भ | म | य | र | ल | व | श | ष | स | ह | क्ष |