पृष्ठ ४/२५९

वत्सलः, त्रि, (वत्से पुत्त्रादिस्नेहपात्रे कामो-

ऽस्यास्तीति । वत्स + “वत्सांसाभ्यां काम-
बले ।” ५ । २ । ९८ । इति लच् ।) स्नेह-
युक्तः । तत्पर्य्यायः । स्निग्धः २ । इत्यमरः ।
३ । १ । १४ ॥ (यथा, भागवते । १ । ५ । ३० ।
“ज्ञानं गुह्यतमं यत्तत् साक्षात् भागवतोदितम् ।
अन्ववोचन् गमिष्यन्तः कृपया दीनवत्सलाः ॥”
वत्सं लाति गृह्णातीति । ला + कः । वत्स-
कामुके च ॥)

वत्सलः, पुं, (वत्स + लच् ।) शृङ्गारादिदश-

रसान्तर्गतरसविशेषः । तत्पर्य्यायः । वात्सल्यम्
२ । इति जटाधरः ॥ (अस्य लक्षणोदाहरणे
तु रसशब्दे ज्ञातव्ये ॥ * ॥ स्कन्दानुचरविशेषः ।
यथा, महाभारते । ९ । ४५ । ६९ ।
“वत्सलो मधुवर्णश्च कलसोदर एव च ॥”)

वत्सला, स्त्री, (वत्से कामोऽस्त्यस्या इति । लच् ।

यद्वा, वत्सं लातीति । ला + कः ।) वत्सकामा
गौः । इति हेमचन्द्रः । ४ । ३२७ ॥ (यथा,
रामायणे । २ । ४३ । १८ ।
“साहं गौरिव सिंहेन विवत्सा वत्सला कृता ।
कैकेय्या पुरुषव्याघ्र बालवत्सेव गौर्बलात् ॥”)

वत्साक्षी, स्त्री, (वत्सस्याक्षीव गात्रचिह्रं यस्याः ।

षच् समासे ।) गोडुम्बा । इति जटाधरः ॥

वत्सादनः, पुं, (अत्तीति । अद् + ल्युः । वत्सानां

अदनो भक्षकः ।) वृकः । इति राजनिर्घण्टः ॥

वत्सादनी, स्त्री, (वत्सैरद्यते प्रियत्वादिति । अद्

ल्युट् । ङीप् ।) गुडूची । इत्यमरः । २ । ४ । ८९ ॥

व(ब)द, इ ङ नुत्यभिवादयोः । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-सक०-सेट् ।) अभिवादो नम-
स्कारः । इ, वन्द्यते । ङ, वन्दते गुरुं लोकः ।
नमस्करोति स्तौति वा इत्यर्थः । इति दुर्गादासः ॥

व(ब)द, ऐ वाचि । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) ऐ, उद्यात् । इति दुर्गा-
दासः ॥ (“क्विपि संवत् दन्त्योष्ठत्वात् पक्षे सानु-
नासिको वकारः सँव्वत् यस्तु मन्यते नायं
संप्रसारिणो वदेः प्रयोगः किन्तर्हि बद स्थैर्य्य
इत्यस्य ओष्ठ्यबकारादेः तन्मते मकारवदपि
सम्बदिति वर्णदेशना ।” इति मनोरमा ॥)

वद, क वाक्सन्देशयोः । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-सक०-आत्म०-इत्येके-सेट् ।) क,
वादयति । सन्देशो वचनविशेषः । अयमात्मने-
पदीत्येके । इति दुर्गादासः ॥

वद, ञ ङ वाक्सन्देशयोः । इति कविकल्पद्रुमः ॥

(भ्वा०-उभ०-आत्म०-इत्येके-सक०-सेट् ।) ञ,
वदति वदते । ङ, वदते । अयमात्मनेपदीत्यन्ये ।
इति दुर्गादासः ॥

वदः, त्रि, (वदति वक्तीति । वद् + पचाद्यच् ।)

वक्ता । इत्यमरः । ३ । १ । ३५ ॥

वदनं, क्ली, (वदन्त्यनेनेति । वद् + करणे ल्युट् ।)

मुखम् । इत्यमरः ॥ (यथा, आर्य्यासप्तशत्याम् ।
२७६ ।
“दर्शनविनीतमाना गृहिणी हर्षोल्लसत्कपोल-
तलम् ।
चुम्बननिषेधमिषतो वदनं पिदधाति पाणि-
भ्याम् ॥”
लक्षणया अग्रभागः । यथा, सुश्रुते । १ । ७ ।
“त्रीण्यन्यानि (यन्त्राणि) जाम्बववदनानि
त्रीण्यङ्कुशवदनानि षडवाग्निकर्म्मस्वभिप्रेतानि ॥”
वद + भावे ल्युट् । कथनम् ॥)

वदनासवः, पुं, (वदनस्य आसवः ।) अधरमधु ।

इति भूरिप्रयोगः ॥

वदन्तिः, स्त्री, (वद् + “वदेश्च ।” इत्युज्ज्नल-

दत्तोक्त्या झिच्प्रत्ययः । ३ । ५० ॥ कृदि-
कारादिति वा ङीष् ।) कथा । इति सिद्धान्त-
कौमुदी ॥ विसर्गशून्यं वदन्तिपदं क्रियापदं
भवति ॥ (यथा, मनुः । १२ । ११५ ।
“यं वदन्ति तमोभूता मूर्खा धर्म्ममतद्विदः ॥”)

वदन्ती, स्त्री, (वद् + “वदेश्च ।” इत्युज्ज्नल-

दत्तोक्त्या झिच्प्रत्ययः । ३ । ५० ॥ कृदि-
कारादिति वा ङीष् ।) कथा । इति सिद्धान्त-
कौमुदी ॥ विसर्गशून्यं वदन्तिपदं क्रियापदं
भवति ॥ (यथा, मनुः । १२ । ११५ ।
“यं वदन्ति तमोभूता मूर्खा धर्म्ममतद्विदः ॥”)

वदन्यः, त्रि, वदान्यः । इत्यमरटीकासारसुन्दरी ॥

वदान्यः, त्रि, (वदति सर्व्वेभ्य एव दास्यामीति मनो-

हरवाक्यमिति । वद् + “वदेरान्यः ।” उणा०
३ । १०४ । इति आन्यः ।) बहुप्रदः । (यथा,
रघुः । ५ । २४ ।
“गतो वदान्यान्तरमित्ययं मे
माभूत् परीवादनवावतारः ॥”)
वल्गुवाक् । इत्यमरः । ३ । १ । ६ ॥ (स्वनाम-
ख्यात ऋषिविशेषे, पुं । यथा, महाभारते ।
१३ । १९ । ११ ।
“निवेष्टुकामस्तु पुरा अष्टावक्रो महातपाः ।
ऋषेरथ वदान्यस्य वव्रे कन्यां महात्मनः ॥”)

वदामं, क्ली, फलविशेषः । वादाम इति भाषा ॥

तत्पर्य्यायः । सुफलम् २ वातवैरिः ३ नेत्रो-
पमम् ४ । अस्य गुणाः । उष्णत्वम् । सुस्निग्ध-
त्वम् । वातघ्नत्वम् । गुरुत्वम् । शुक्रकारित्वञ्च ।
इति राजनिर्घण्टः ॥ अपि च ।
“वातादो वातवैरी स्यान्नेत्रोपमफलस्तथा ।
वाताद उष्णः सुस्निग्धो वातघ्नः शुक्रकृत् गुरुः ॥
वातादमज्जा मधुरो वृष्यः षित्तानिलापहः ।
स्निग्धोष्णकफहृत् श्रेष्ठो रक्तपित्तविकारिणाम् ॥”
इति भावप्रकाशः ॥

वदालः, पुं, (वद + घञर्थे कः । वदेन वदनेन

अलति पर्य्याप्नोतीति । वद + अल् + अच् ।)
मत्स्यविशेषः । वोयालि इति भाषा । तत्पर्य्यायः ।
पाठीनः २ । इति त्रिकाण्डशेषः ॥ हव्यकव्ययो-
स्तस्योपयोगित्वं यथा, मनुः ।
“पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः ॥”

वदालकः, पुं, (वदाल एव । स्वार्थे कन् ।) पाठी-

नमत्स्यः । इति भूरिप्रयोगः ॥

वदावदः, त्रि, (अत्यन्तं वदतीति । वद् + अच् ।

“चरिचलीति ।” ३ । १ । २३४ । इत्यस्य वार्त्तिकोक्त्या
निपातितम् ।) वक्ता । इत्यमरः । ३ । १ । ३५ ॥

वधः, पुं, (हननमिति । हन् + अप् । वधादेशः ।)

प्राणवियोगफलकव्यापारः । तत्पर्य्यायः । प्रमा-
पणम् २ निवर्हणम् ३ निकारणम् ४ निशा-
रणम् ५ प्रवासनम् ६ परासनम् ७ निसू-
दनम् ८ निहिंसनम् ९ निर्व्वासनम् १० संज्ञ-
पनम् ११ निर्ग्रन्थनम् १२ अपासनम् १३
निस्तर्हणम् १४ निहननम् १५ क्षणनम् १६
परिवर्ज्जनम् १७ निर्व्वापणम् १८ विशसनम् १९
मारणम् २० प्रतिघातनम् २१ उद्वासनम् २२
प्रमथनम् २३ क्रथनम् २४ उज्जासनम् २५
आलम्भः २६ पिञ्जः २७ विशरः २८ घातः २९
उन्मन्थः ३० । इत्यमरः ॥ हिंसा ३१
वातनम् ३२ विदारणम् ३३ पिञ्जकम् ३४
पातः ३५ परिघः ३६ परिघातनम् ३७ कद-
नम् ३८ निवारणम् ३९ समाघातः ४० निर्ग-
न्धनम् ४१ मारिः ४२ मारी ४३ उत्पातः ४४
मारकः ४५ मरकः ४६ मारः ४७ संघातः ४८ ।
इति शब्दरत्नावली ॥ * ॥ पुण्यप्रदवधो यथा, --
“एकस्य यत्र निधने प्रवृत्ते दुष्टकारिणः ।
बहूनां भवति क्षेमं तस्य पुण्यप्रदो वधः ॥
रुक्मस्तेयी सुरापश्च ब्रह्महा गुरुतल्पगः ।
आत्मानं घातयेद्यस्तु तस्य पुण्यप्रदो वधः ॥”
इति कालिकापुराणे २० अध्यायः ॥
अपि च ।
“कथं नु स्त्रीवधं कुर्य्यां महापातकिनामपि ।
स्त्रीवधे तु महापापं यथा ब्रह्मवधे मुने ॥
इति रामवचः श्रुत्वा विश्वामित्रस्तमाह वै ॥
यस्यास्तु बहवो मासान् म्रियन्तेऽपि द्विजन्मनः ।
न पापं विद्यते तेन न दोषा नृपनन्दन ॥
यस्यास्तु निधनाद्राम जनाः स्युः सुखिनो
भृशम् ।
भवन्ति सततं तस्मात्तस्याः पुण्यप्रदो वधः ॥”
इत्यग्निपुराणम् ॥ * ॥
अपि च ।
“नैकस्यार्थे बहून् हन्यादिति शास्त्रेषु निश्चयः ।
एकं हन्याद्बहूनां हि न पापी तेन जायते ॥”
इति वामनपुराणे ५५ अध्यायः ॥ * ॥
“नाततायिवधे दोषो हन्तुर्भवति कश्चन ।”
इति गीतायाः १ । २६ श्लोकटीकायां स्वामी ॥
पापजनकवधः प्रायश्चित्तशब्दे द्रष्टव्यः ॥ * ॥
वधबन्धौ पूर्ब्बकर्म्मवश्यौ यथा, --
“न कश्चित्तात केनापि बध्यते हन्यतेऽपि वा ।
वधबन्धौ पूर्व्वकर्म्मवश्यौ नृपतिनन्दन ॥”
इति वामनपुराणे ६२ अध्यायः ॥ * ॥
पारिभाषिकवधो यथा, --
“वपनं द्रविणादानं देशान्निर्यापनन्तथा ।
एष हि ब्रह्मबन्धूनां वधो नान्योऽस्ति दैहिकः ॥”
इति महाभारते सौप्तिकपर्व्व ॥
(वधप्रकारो वधित्वभेदादिकञ्च वधिन्नितिशब्दे
द्रष्टव्यम् ॥)

वधकः, पुं, (हन्तीति । हन् + क्वुन् । “हनो वध च ।”

उणा० २ । ३६ इति वधादेशः ।) वधकर्त्ता ।
पृष्ठ ४/२६०
हिंसः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥
व्याधिः । मृत्युः । इति संक्षिप्तसारोणादिवृत्तिः ॥

वधकर्म्म, क्ली, (वधः एव कर्म्म ।) प्राणवियोग-

फलकव्यावारः । तद्बैदिकपर्य्यायः । दभ्नोति १
श्नथति २ ध्वरति ३ धूर्व्वति ४ वृणक्ति ५
वधति ६ कृण्वति ७ कृन्तति ८ श्वसिति ९
नमते १० अर्द्दयति ११ स्तृणाति १२ स्नेह-
यति १३ यातयति १४ स्फुरति १५ स्फुलति १६
निपयन्तु १७ अवतिरति १८ वियातः १९
आतिरत् २० तळित् २१ आखण्डलः २२
द्रूणाति २३ रम्नाति २४ शृणाति २५
शम्नाति २६ तृणेल्हि २७ ताल्हि २८
नितोशते २९ निवर्हयति ३० मिनाति ३१
मिनोति ३२ धमति ३३ । इति त्रयस्त्रिंशद्बध-
कर्म्माणः । इति वेदनिघण्टौ । २ । १९ ॥

वधत्रं, क्ली, (वध्यतेऽनेन इति । वध + “अमिनक्षि-

यजिवधिपतिभ्याऽत्रन् ।” उणा० ३ । १०५ । इति
अत्रन् ।) अस्त्रम् । इत्युणादिकोषः ॥

वधस्थली, स्त्री, (वधाय वधस्य वा स्थली स्थानम् ।)

प्राणिवधस्थलम् । मशान इति भाषा । तत्-
पर्य्यायः । आघातः २ । इति त्रिकाण्डशेषः ॥
प्रघातः ३ वधस्थानम् ४ । इति शब्दरत्नावली ॥
आघातनम् ५ । इति हारावली ॥

वधस्थानम्, क्ली, (वधाय वधस्य वा स्थानं

भूमिः ।) वधस्थली । इति हारावली । १९६ ॥

व(व)धाङ्गकं, क्ली, (वधः बन्धनं एवाङ्गं यस्य ।

ततः कन् ।) कारावेश्म । इति त्रिकाण्डशेषः ॥

वधार्हः, त्रि, (वधं अर्हतीति । अर्ह + अण् ।)

वध्यः । हननयोग्यः । यथा, बृहस्पतिः ।
“वधार्हः सुवर्णशतं दमं दाप्यस्तु पूरुषः ।
अङ्गच्छेदार्हकस्त्वर्द्धं सन्दंशार्हस्तदर्द्धकम् ॥”
सन्दंशो वृद्बाङ्गुलितर्जन्योश्छेदः । इति प्राय-
श्चित्तविवेकः ॥

वधी, [न्] त्रि, (प्राणवियोगफलकव्यापारो

वधः स निष्पाद्यत्वनिरूपितनिष्पादकत्वेना-
स्त्यस्येति । बध + इनिः ।) वधकर्त्ता । प्राण-
वियोगफलकव्यापारो वधः तन्निष्पादकत्वञ्च
साक्षात् परम्परोदासीनं स्मृतिकारपरिगणितं
वधित्वम् । तच्च पञ्चविधं स्मृतिस्वरसात् कर्त्ता
प्रयोजकोऽनुमन्तानुग्राहको निमित्ती चेति ।
नरान्तरव्यापारव्यवधानेन वधनिव्यादकः कर्त्ता ।
१ । यः कर्त्तारं कारयति स प्रयोजकः । २ ।
स च द्विविधः । एकः स्वतोऽप्रवृत्तमेव पदातिं
वेतनादिना प्रेरयति । अपरः स्वतः प्रवृत्तमेव
मन्त्रोपायोपदेशादिना प्रोत्साहयति । अनु-
मतिदातानुमन्ता । ३ । अनु मतिश्च द्विविधा
एका यद्विरोधाद्धननं न भवति तस्य विरो-
धिनो मया निरोधः कर्त्तव्य इति प्रयुक्तिरनु-
मतिः । अपरा एवं हन्मीति वचने शक्तस्या-
प्रतिषेध एव । अनुग्राहकोऽपि द्बिविधः । एको
वध्यप्रतिरोधकः । अपरः स्वस्त्पप्रहर्त्ता । ४ ।
उद्देश्यत्वे सति हन्तुर्मन्यूत्पादको निमित्ती । ५ ।
अत्र प्रयोजकस्य कर्त्तृप्रयुक्तिद्वारेण वधकार-
णत्वम् । अनुमन्तुश्च हन्तुर्निर्भयत्वेन दृढतर-
प्रहारोत्पत्तिद्बारेण । अनुग्राहकस्य पलायना-
द्यसम्भवेन हननीयस्थैर्य्यं कुर्व्वतः प्रहारस्वरू-
पोत्पत्तिद्बारेण वा कारणत्वम् । निमित्तिनो
हन्तुर्मन्यूत्पादनद्वारेणेति । प्रयोजकादीनां
चतुर्णां व्यवहितहननकारणानामवान्तरभेदा-
द्भेदः । अतः पञ्चविधं वधित्वम् । इति प्राय-
श्चित्तविवेकः ॥

वधोद्यतः, त्रि, (वधाय उद्यतः ।) परवधायोद्-

युक्तः । तत्पर्य्यायः । सन्नद्धः २ आततायी ३ ।
इत्यमरः ॥ आततायिवधापवादमाह बृह-
स्पतिः ।
“नाततातिवधे हन्ता प्राप्नुयात् किल्विषं क्वचित् ।
विनाशार्थिनमायान्तं घातयन्नापराध्नुयात् ॥”
कात्यायनः ।
“आततायिनमायान्तमपि वेदान्तपारगम् ।
जिघांसन्तं जिघांसीयात् न तेन ब्रह्महा भवेत् ॥”
जिघांसी सन् ईयात् गच्छेदित्यर्थः । देवलः ।
“उद्यम्य शस्त्रमायान्तं भ्रूणमप्याततायिनम् ।
निहत्य भ्रूणहा न स्यादहत्वा भ्रूणहा भवेत् ॥”
भ्रूणो ब्राह्मणविशेषः । दोषदर्शनं नियमार्थम् ।
मनुविष्णू ।
“गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ।
आततायिनमायान्तं हन्यादेवाविचारयन् ॥”
एवकारो नियमार्थः । तथा ।
“नाततायिवधे दोषो हन्तुर्भवति कश्चन ।
प्रकाशं वाप्रकाशं वा मन्युस्तन्मन्युमृच्छति ॥”
यस्माद्धन्तुर्मन्युर्हन्यमानमन्युं नाशयति न पुनः
पुरुषो हन्ति हन्यते वेति हननविधेरपवादः ।
आततायिनमाह वशिष्ठः ।
“अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः ।
क्षेत्रदारापहारी च षडेते आततायिनः ॥”
विष्णुकात्यायनौ ।
“उद्यतासिविषाग्निञ्च शापोद्यतकरं तथा ।
आथर्व्वणेन हन्तारं पिशुनञ्चैव राजसु ॥
भार्य्यातिक्रामिणञ्चैव विद्यात् सप्ताततायिनः ।
यशोवृत्तिहरानन्यानाहुर्धर्म्मार्थहारकान् ॥”
विशेषमाह कात्यायनः ।
“अनाक्षारितपूर्व्वो यस्त्वपराधे प्रवर्त्तते ।
प्राणद्रव्यापहारे च प्रवृत्तस्याततायिता ॥”
अनाक्षारितोऽनपकृतः । तेन पूर्ब्बकृतापरा-
धस्य मारणोद्यतस्य नाततायिता । एतेन
प्रत्यपकारिवधे दोष एव । ननु आततायिनो-
रपि गोब्राह्मणयोर्हनने दोषमाह सुमन्तुः ।
“आततायिवधे न दोषोऽन्यत्र गोब्राह्मणात् यदा
हन्यात् प्रायश्चित्तं कुर्य्यात् ।” तथा भविष्ये ।
“क्षुण्णानामपि गोविप्रं न हन्याद्वै कदाचनं ॥”
अतः पूर्ब्बवचनविरोधः । अत्र व्यवस्थामाह
कात्यायनः ।
“आततायिनि चोत्कृष्टे तपःस्वाध्यायजन्मतः ।
वधस्तत्र तु नैव स्यात् पापे हीने वधो भृगुः ॥”
जन्मपदेन जातिकुलञ्चोच्यते । तेन हन्त्रपेक्षया
तपोविद्याजातिकुलैरुत्कृष्टो नाततायी वध्यः
तदन्यो वध्य एव । भगवद्गीतायाम् । १ । ३६ ।
यथा, --
“पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः ॥”
इति ।
एतान् भीष्मादीनत्यन्तोत्कृष्टगुणानित्यर्थः ।
एवम्भूताततायिनश्चाहनने फलमप्याह बृह-
स्पतिः ।
“आततायिनमुत्कृष्टं वृत्तस्वाध्यायसंयुतम् ।
यो न हन्याद्वधप्राप्तं सोऽश्वमेधफलं लभेत् ॥”
यद्यपि गुरुं बहुश्रुतं हन्यादिति श्रूयते तथापि
गुरोः सकाशात् कुलविद्यातपोभिः शिष्यस्या-
प्युत्कर्षसम्भवादेवं बहुश्रुतादपि । एवमधमवर्णस्य
उत्तमवर्णो न वध्यः पूर्ब्बापराधकृतविषयं वा
सुमन्तुवचनम् । गौरातताय्यपि न वध्यः ।
“नखिनां शृङ्गिणाञ्चैव दंष्ट्रिणाञ्चाततायिनाम् ।
हस्त्यश्वानां तथान्येषां वधे हन्ता न दोष-
भाग् ॥”
इति कात्यायनवचनं गोव्यतिरिक्तशृङ्गिविष-
यम् ॥ विशेषमाह कात्यायनः ।
“उद्यतानान्तु पापानां हन्तुर्दोषो न विद्यते ।
निवृत्तास्तु यदारम्भाद्ग्रहणं न वधः स्मृतः ॥”
इति प्रायश्चित्तविवेकः ॥

वध्यः, त्रि, (वधमर्हतीति । वध + यत् ।) वधार्हः ।

तत्पर्य्यायः । शीर्षच्छेद्यः २ । इत्यमरः । ३ । १ । ४५ ॥
“किन्त्वया न श्रुतं लोके अवध्याः शत्रुयोषितः ।
हीनवर्णोपभुक्ता या त्याज्या वध्यापि वा
भवेत् ॥”
इति प्रायश्चित्ततत्त्वम् ॥
अवध्या यथा, --
“गोब्राह्मणं वृद्धमथापि सुप्तं
बालं स्वबन्धुं ललनां सुदुष्टाम् ।
कृतापराधानपि नैव वध्या-
दाचार्य्यमुख्या गुरवस्तथैव ॥”
इति वामनपुराणे ५५ अध्यायः ॥

वध्यपालः, पुं, (वध्यं वन्धनस्थानं कारागारं पाल-

यतीति । वध्य + पाल + अण् ।) कारागृह-
रक्षकः । यथा, --
“साध्वीविक्रयकृद्वध्यपालः केशरिविक्रयी ।
तप्तलौहे तु पच्यन्ते यश्च भक्तं परित्यजेत् ॥”
इति विष्णुपुराणे । २ । ६ । ११ ॥

वन, सम्भक्तिशब्दयोः । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-सक०-सेट् ।) वनति । संभक्तिः
सेवनम् । इति दुर्गादासः ॥

वन, उ म व्यापृतौ । इति कविकल्पद्रुमः । (भ्वा०-

पर०-अक०-सेट् । उदित्त्वात् क्त्वावेट् ।) उ,
वनित्वा वत्वा । म, प्रवनयति । मित्त्वेऽपि
अस्य ञौ ज्वलह्वलेत्यादिना केवलस्य ह्रस्ववि-
कल्पनात् सोपसर्गस्यैव नित्यं ह्रस्वः । वनयति
वानयति । व्यापृतिर्व्यापारः । अयन्तु कगेवत्
क्रियामात्र इत्यन्ये । इति दुर्गादासः ॥
पृष्ठ ४/२६१

वन, कि उपकृतिश्रद्धाघातशब्दोपतापेषु । इति

कविकल्पद्रुमः ॥ (चुरा०-पक्षे भ्वा०-पर०-सक०-
अक० च-सेट् ।) कि, वानयति वनति । अयं
कैश्चिन्न मन्यते । इति दुर्गादासः ॥

वन, द ङ उ याचे । इति कविकल्पद्रुमः ॥ (तना०-

आत्म०-द्विक०-सेट् । उदित्त्वात् क्त्वावेट् ।) द ङ,
वनुते । उ, वनित्वा वत्वा । इति दुर्गादासः ॥

वनं, क्ली स्त्री, (वनतीति । वन् + पचाद्यच् । यद्वा,

वन्यते सेव्यते इति । “पुंसि संज्ञायां घः
प्रायेण ।” ३ । ३ । ११८ । इति घः ।) बहुवृक्ष-
युक्तस्थानम् । (यथा, मनुः । ८ । ३५६ ।
“परस्त्रियं योऽभिवदेत्तीर्थेऽरण्ये वनेऽपि वा ।
बदीनां वापि सम्भेदे ससंग्रहणमाप्नुयात् ॥”
स्त्रियान्तु यथा, साहित्यदर्पणे आर्थिव्यञ्जना-
याम् ।
“कालो मधुः कुपित एष च पुष्पधन्वा
धीरा वहन्ति रतिखेदहराः समीराः ।
केलीवनीयमपि वञ्जुलकुञ्जमञ्जु
द्दूरेपतिः कथय किं करणीयमद्य ॥”)
तत्पर्य्यायः । अटवी २ अरण्यम् ३ विपिनम् ४
गहनम् ५ काननम् ६ । इत्यमरभरतौ ॥
दावः ७ दवः ४ अटविः ९ भीरुकम् १०
झाटम् ११ गुहिनम् १२ । इति शब्दरत्ना-
वली ॥ शत्रम् १३ समजम् १४ प्रान्तरम् १५
विक्तम् १६ ॥ इति जटाधरः ॥ कान्तारम् १७ ।
इति राजनिर्घण्टः ॥ * ॥ गृहसमीपकर्त्तव्यवनं
यथा, --
“शिविराभ्यन्तरे भद्रा स्थापिता तुलसी नृणाम् ।
धनपुत्त्रप्रदात्री च पुण्यदा हरिभाक्तिदा ।
प्रभाते तुलसीं दृष्ट्वा स्वर्णदानफलं लभेत् ॥
मालती यूथिका कुन्दं माधवी केतकी तथा ।
नागेश्वरं मल्लिका च काञ्चनं वकुलं शुभम् ॥
अपराजिता च शुभदा तेषामुद्यानमीप्सितम् ।
पूर्व्वे च दक्षिणे चैव शुभदं नात्र संशयः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०२ अध्यायः ॥
मथुरायां द्बादश वनानि यथा, --
“रम्यं मधुवनं नाम विष्णुस्थानमनुत्तमम् ।
तद्दष्ट्वा मनुजो देवि सर्व्वान् कामानवाप्नुयात् ॥
वनं तालवनञ्चैव द्वितीयं वनमुत्तमम् ।
तत्र स्नात्वा नरो देवि कृतकृत्यो हि जायते ॥
तृतीयं कुमुदं नाम वनं चैवोत्तमं तथा ।
तत्र गत्वा नरो देव्रि कृतकृत्यो हि जायते ॥
एकादशी कृष्णपक्षे मासि भाद्रपदे हि या ।
तत्र स्नातो नरो देवि रुद्रलोके महीयते ॥
चतुर्थं काभ्यकवनं वनानां वनमुत्तमम् ।
तत्र गत्वा नरो देवि मम लोके महीयते ॥
विमलस्य च कुण्डे तु सर्व्वैः पापैः प्रमुच्यते ।
यस्तु प्रमुञ्चते प्राणान् मम लोकं स गच्छति ॥
पञ्चमं बहुलवनं वनस्थानमनुत्तमम् ।
तत्र गत्वा नरो देवि अग्निस्थानं स गच्छति ॥
यमुनायाः परे पारे देवानामपि दुर्लभम् ।
अस्ति भद्रवनं नाम षष्ठं वनमनुत्तमम् ॥
तत्र गत्वा तु वसुधे मद्भक्तो मत्परायणः ।
तद्वनस्य प्रभावेण नागलोकं स गच्छति ॥
सप्तमन्तु वनं भूमे खादिरं लोकविश्रुतम् ।
तत्र गत्वा नरो भद्रे मम लोकं स गच्छति ॥
महावनं चाष्टमन्तु सदैव तु मम प्रियम् ।
तस्मिन् स्नात्वा तु मनुजो इन्द्रलोके मही-
यते ॥
लोहजं धवलं नाम लोहजङ्घेन रक्षितम् ।
नवमन्तु वनं देवि महापातकनाशनम् ॥
वनं विल्ववनं नाम दशमं देवपूजितम् ।
तत्र गत्वा तु मनुजो ब्रह्मलोके महीयते ॥
एकादशन्तु भाण्डीरं योगिनां प्रियमुत्तमम् ।
तस्य दर्शनमात्रेण नरो गर्भं न गच्छति ।
भाण्डीरं समनुप्राप्य वनानां वनमुत्तमम् ॥
वासुदेवं ततो दृष्ट्वा पुनर्जन्म न विद्यते ॥
वृन्दावनं द्वादशमं वृन्दया परिरक्षितम् ।
मम चैव प्रियं भूमे महापातकनाशनम् ॥
वृन्दावनन्तु गोविन्दं ये पश्यन्ति वसुन्धरे ।
न ते यमपुरं यान्ति वैकुण्ठं प्राप्नुयुर्नराः ॥”
इति वाराहे मथुरातीर्थवनद्वादशकवर्णनं
नामाध्यायः ॥ * ॥ वनविशेषे मरणफलं
यथा, --
“यदेवं कथितं पुण्यं मया ब्रह्ममुखाच्च्युतम् ।
तत् समग्रं भवेत्तस्य अरण्येषूषरेषु च ॥
अरण्यानि प्रवक्ष्यामि तथा चैवोषराणि च ।
सैन्धवं दण्डकारण्यं नैमिषं कुरुजाङ्गलम् ॥
उपलावृतमारण्यं जम्बूमार्गोऽथ पुष्करम् ।
हिमवासस्ततोऽरण्य उत्तमः परिकीर्त्तितः ॥
नवष्वेतेष्वरण्येषु यस्तु प्राणान् परित्यजेत् ।
ब्रह्मलोकातिथिर्भूत्वा स याति परमं पदम् ॥”
इति देवीपुराणे अरण्योषरप्रशंसा ॥ * ॥
अरण्ये वर्णनीयानि यथा, --
“अरण्येऽहिवराहेभयूथसिंहादयो द्रुमाः ।
शुककाककपोताद्या भिल्लभल्लदवादयः ॥”
उद्याने वर्णनीयानि यथा, --
“उद्याने सरणिः सर्व्वफलपुष्पलताद्रुमाः ।
प्रिकालिकेकिहंसाद्याः क्रीडावाप्यध्वग-
स्थितिः ॥”
इति कविकल्पलतायाम् १ स्तवके ३ कुसुमम् ॥
(शङ्कराचार्य्यशिष्यस्य हस्तामलकस्य शिष्या-
णामुपाधिविशेषे, पुं । यदुक्तं प्राणतोषिण्या-
मवधूतप्रकरणे ।
“सुरम्ये निर्झरे देशे वने वासं करोति यः ।
आशापाशविनिर्मुक्तो वननामा स उच्यते ॥”)

वनं, क्ली, (वन्यते सेव्यते इति । वन् + “पुंसि

संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । घः ।
इति निघण्टौ देवराजयज्वा । १ । १२ । ९ ।)
जलम् । (यथा, रघुः । ९ । २२ ।
“नमयति स्म स केवलमुन्नतं
वनमुचे नमुचेररये शिरः ॥”)
निवासः । आलयः । इति मेदिनी । ने, १९ ॥
(चमसः । यथा, ऋखेदे । २ । १४ । ९ ।
“अध्वर्यवः कर्त्तना श्रुष्टिमस्मै वने निपूतं वन
उन्नयध्वम् ॥”
“वने संभजनीये वने उदके निपूतमाप्यायनेन
शोधितं सोममुन्नयध्वमूर्द्ध्वं नयत । यद्बा वने
तद्विकारे चमसे निपूतं दशापवित्रेण शोधितं
सोमं वने चमसे उन्नयध्वम् ।” इति तद्भाष्ये
सायणः ॥) प्रस्रवणम् । इति हेमचन्द्रः ॥
(रश्मिः । इति निघण्टुः । १ । ५ । ८ ॥ “वन षण
सम्भक्तौ भूवादिः परस्मै पदी । पुंसि संज्ञायां
घः । वन्यते सेव्यते शीतादिनिवारणाय ।
अथवा वनतिर्हिंसार्थः । वन्यते हिंस्यतेऽनेन
तमः । यद्बा, वनु याचने तनादि आत्मने भाषा ।
वन्यते याच्यते ष्टष्टिप्रदानाय । यद्वा, वनशब्दे
भूवादिः परस्मैपदी वन्यते शब्दते स्तूयते
स्तोतृभिः ।” इति तत्र देवराजयज्वा ॥ यथा,
ऋग्वेदे । १ । २४ । ७ ।
“अबुध्ने राजा वरुणो वनस्य ॥”)

वनकदली, स्त्री, (वनोद्भवा कदली ।) काष्ठ-

कदली । इति राजनिर्घण्टः ॥ (विवृतिरस्याः
काष्ठकदलीशब्दे ज्ञातव्या ॥)

वनकन्दः, पुं, (वनजातः कन्दः ।) वनशूरणः ।

धरणीकन्दः । इति राजनिर्घण्टः ॥

वनकार्पासी, स्त्री, (वनोद्भवा कार्पासी ।) वनो-

द्भवकार्पासः । तत्पर्य्यायः । त्रिपर्णा २ भार-
द्वाजी ३ वनोद्भवा ४ । इति रत्नमाला ॥

वनकोलिः, स्त्री, (वनोद्भवा कोलिः ।) वनज-

वदरी । तत्पर्य्यायः । कर्कशिका २ फल-
कर्कशा ३ । इति कोषान्तरम् ॥

वनगोचरः, पुं, (वनं गोचरो देशो यस्य ।)

व्याधः । इति केचित् ॥ (वनं जलं गोचरो
निवासस्थानं यस्य । नारायणः । इति भाग-
वतटीकायां श्रीधरस्वामी । ३ । १८ । ३ ॥ त्रि,
जलचरः । यथा, भागवते । ३ । १८ । २ ।
“मुष्णन्तमक्ष्णा स्वरुचोऽरुणश्रिया
जहास चाहो वनगोचरो मृगः ॥”
काननविहारी । यथा, मनुः । ८ । २५९ ।
“सामन्तानामभावे तु मौलानां सीम्नि साक्षि-
णाम् ।
इमानप्यनुयुञ्जीत पुरुषान् वनगोचरान् ॥”)

वनगौः, स्त्री, (वनस्य गौः ।) गवयः । इति

राजनिर्घण्टः ॥

वनचन्दनं, क्ली, (वनजातं चन्दनम् ।) अगुरु ।

देवदारु । इति विश्वः ॥

वनचन्द्रिका, स्त्री, (वने चन्द्रिका ज्योत्स्नेव ।)

मल्लिका । इति राजनिर्घण्टः ॥

वनचम्पकः, पुं, (वनजातश्चम्पकः । शाकपार्थिव-

वत् समासः ।) वनजचम्पकपुष्पवृक्षः । तत्-
पर्य्यायः । वनदीपः २ हेमाह्वः ३ सुकुमारः ४ ।
अस्य गुणाः । कटुत्वम् । उष्णत्वम् । वातकफ-
नाशित्वम् । वर्ण्यत्वम् । चक्षुष्यत्वम् । व्रण-
रोपणत्वम् । वयःस्तम्भकारित्वञ्च । इति राज-
निर्घण्टः ॥
पृष्ठ ४/२६२

वनच्छागः, पुं, (वनस्य छागः ।) अरण्य-

च्छगलः । तत्पर्य्यायः । एडकः २ शिशु-
वाह्यकः ३ । इति त्रिकाण्डशेषः ॥ (वने छाग
इव ।) शूकरः । इति शब्दमाला ॥

वनजं, क्ली, (वने जले जायते इति । जन् + डः ।)

अम्बुजम् । इति मेदिनी । जे, २८ ॥ (यथा,
रघुः । ५ । ७३ ।
“दीर्घेष्वमी नियमिताः पटमण्डपेषु
निद्रां विहाय वनजाक्ष ! वनायुदेश्याः ।
वक्त्रोष्मणा मलिनयन्ति पुरोगतानि
लेह्यानि सैन्धवशिलाशकलानि वाहाः ॥”
जलजाते वनोद्भवे च त्रि । यथा, रामा-
यणे । २ । ४५ । ७ ।
“दारूणि परिभिन्नानि वनजैरुपजीविभिः ॥”)

वनजः, पुं, (वने जले अरण्ये वा जायते इति ।

जन् + डः ।) मुस्तकः । इति मेदिनी । जे, २८ ॥
गजः । इति विश्वः ॥ वनशूरणः । इति राज-
निर्घण्टः ॥ (तुम्बुरुफलम् । तत्पर्य्यायो यथा, --
“तुम्बुरुः सौरवः सौरो वनजः सानुजोऽन्धजः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वनजा, स्त्री, (वने जायते इति । जन् + डः ।

टाप् ।) मुद्गपर्णी । इति मेदिनी । जे, २८ ॥
अरण्यकार्पासी । वन्योपोदकी । अश्वगन्धा ।
गन्धपत्रा । मिश्रेया । ऐन्द्रम् । इति राज-
निर्घण्टः ॥

वनजीरः, पुं, (वनोद्भदो जीरः ।) वनोद्भव-

जीरकः । तत्पर्य्यायः । बृहत्पाली २ सूक्ष्म-
पत्रः ३ अरण्यजीरः ४ कणः ५ । अस्य
गुणाः । कटुत्वम् । शीतत्वम् । व्रणनाशित्वञ्च ।
इति राजनिर्घण्टः ॥

वनतिक्तः, पुं, (वनेषु वनोद्भवेषु तिक्तः ।) हरी-

तकी । इति शब्दमाला ॥

वनतिक्ता, स्त्री, (वनेषु वनोद्भवेषु मध्ये तिक्ता ।)

वनतिक्तिका । इति रत्नमाला ॥

वनतिक्तिका, स्त्री, (वनतिक्ता + कन् । टापि अत

इत्वम् ।) पाठा । इत्यमरः । २ । ४ । ८४ ॥
(गुणादिकमस्याः पाठाशब्दे ज्ञेयम् ॥)

वनदः, पुं, (वनं जलं ददातीति । दा + कः ।)

मेघः । इति शब्दमाला ॥ वनदातरि, त्रि ॥

वनदमनः, पुं, (वनजातो दमनः ।) अरण्यदमनः ।

इति राजनिर्घण्टः ॥

वनदीपः, पुं, (वनस्य दीप इव ।) वनचम्पकः ।

इति राजनिर्घण्टः ॥

वनधेनुः, पुं, (वनस्य धेनुरिव ।) गवयी । इति

राजनिर्घण्टः ॥

वनपल्लवः, पुं, (वनमिव निविडः पल्लवो यस्य ।)

शोभाञ्जनवृक्षः । इति जटाधरः ॥ अरण्यज-
पत्रञ्च ॥

वनपांशुलः, पुं, (वने पांशुलः पापिष्ठः ।) व्याधः ।

इति शब्दरत्नावली ॥

वनपिप्पली, स्त्री, (वनोद्भवा पिप्पली ।) वनोद्भव-

पिप्पली । तत्पर्य्यायः । सूक्ष्मपिप्पली २ क्षुद्र-
पिप्पली ३ वनकणा ४ । अस्या गुणाः । कटु-
त्वम् । उष्णत्वम् । तीक्ष्णत्वम् । रुच्यत्वम् । दीप-
नत्वम् । सा आमा गुणाढ्या । शुष्का स्वल्प-
गुणा । इति राजनिर्घण्टः ॥

वनपुष्पा, स्त्री, (वनमिव निविडं पुष्पं यस्याः ।

टाप् ।) शतपुष्पा । इति राजनिर्घण्टः ॥
(शतपुष्पाशब्देऽस्या विवरणं ज्ञातव्यम् ॥)

वनपूरकः, पुं, (वनजातः पूरको बीजपूरकः ।)

वनबीजपूरकः । इति राजनिर्घण्टः ॥

वनप्रियं, क्ली, (वनेषु वनजातेषु मध्ये प्रियम् ।)

त्वचम् । इति राजनिर्घण्टः ॥

वनप्रियः, पुं, (वनं प्रियं यस्य ।) कोकिलः ।

इत्यमरः । २ । ५ । १९ ॥ (यथा, --
“अयि वनप्रिय विस्मृत एव किं
वलिभुजो विघसो भवताधुना ।
यदनयैव कुहूरिति विद्यया
न पततश्चरणौ धरणौ तव ॥”
इत्युद्भटः ॥)
अरण्यप्रियमात्रे, त्रि ॥

वनबीजः, पुं, (वनस्य वनोद्भवो वा बीजो बीज-

पूरकः ।) वनबीजपूरकः । इति राजनिर्घण्टः ॥

वनबीजकः, पुं, (वनबीज + स्वार्थे कन् ।) वनबीज-

पूरकः । इति राजनिर्घण्टः ॥

वनबीजपूरकः, पुं, (वनोद्भवो बीजपूरकः ।)

अरण्यजातबीजपूरः । तत्पर्य्यायः । वनजः २
वनबीजकः ३ वनबीजः ४ अत्यम्ला ५ गन्धाम्ला ६
वनोद्भवा ७ देवदूती ८ पीता ९ देवदासी १०
देवेष्टा ११ मातुलङ्गिका १२ पचनी १३ महा-
फला १४ । अस्य गुणाः । अम्लत्वम् । कटु-
त्वम् । उष्णत्वम् । रुचिप्रदत्वम् । वातामदोष-
कृमिकफश्वासनाशित्वञ्च । इति राजनिर्घण्टः ॥

वनभद्रिका, स्त्री, (वने भद्रं यस्याः । ततः टापि

अत इत्वम् ।) भद्रवला । इति केचित् ॥

वनभुक्, [ज्] पुं, (वनं भुङ्क्ते इति । वन् +

भुज् + क्विप् ।) ऋषभौषधम् । इति शब्द-
चन्द्रिका ॥

वनमक्षिका, स्त्री, (वनस्य मक्षिका ।) दंशः ।

इत्यमरः । २ । ५ । २७ ॥

वनमल्ली, स्त्री, (वनोद्भवा मल्ली ।) वनोद्भव-

मल्लिका । इति शब्दरत्नावली ॥

वनमाला, स्त्री, (वनोद्भवपुष्परचिता माला ।

मध्यपदलोपिसमासः ।) श्रीकृष्णस्य माला ।
तत्स्वरूपं यथा, --
“आजानुलम्बिनी माला सव्वर्त्तुकुसुमोज्ज्वला ।
मध्ये स्थूलकदम्बाढ्या वनमालेति कीर्त्तिता ॥”
इति शब्दमाला ॥
(वनपुष्पस्रक् । यथा, रघुः । ९ । ५१ ।
“ग्रथितमौलिरसौ वनमालया
तरुपलाशसवर्णतनुच्छदः ॥”)

वनमालिनी, स्त्री, (वनमाली अस्त्यस्यामिति ।

इनिः । ङीप् ।) द्वारकापुरी । इति त्रिकाण्ड-
शेषः ॥ वाराही । इति राजनिर्घण्टः ॥

वनमाली, [न्] पुं, (वनमाला अस्त्यस्येति ।

इनिः ।) श्रीकृष्णः । इत्यमरः । १ । ९ । २१ ॥
(नारायणः । यथा, प्रद्युम्नविजये । ३ अङ्के ।
“कमलयामलया वनमालिनं
गिरिजया गिरिशञ्च निशा विधुम् ।
सुविवृता परियोजयतो विधे-
श्चतुरता ह्यनुरूपसमागमे ॥”)

वनमुक्, [च्] पुं, (वनं जलं मुञ्चतीति । मुच् +

किप् ।) मेघः । इति शब्दरत्नावली ॥ (जल-
वर्षिणि, त्रि । इति रघुः । ९ । २२ ॥)

वनमुद्गः, पुं, (वनोद्भवो मुद्गः ।) मुकुष्टकः । इत्य-

मरः । २ । ९ । १७ ॥ तत्पर्य्यायः । वरकः २
निगूढकः ३ कुलीनकः ४ खण्डी ५ । इति हेम-
चन्द्रः । ४ । २३९ ॥ अस्य अन्यपर्य्यायगुणौ मुकुष्ट-
मकुष्टकशब्दयोर्द्रष्टव्यौ ॥ (यथा, सुश्रुते । १ । ४६ ।
“वनमुद्गकलायमकुष्टमसूरमर्द्दल्यचणकसतीन-
त्रिपुटकहरेण्वाढकीप्रभृतयो वैदलाः ॥)

वनमुद्गा, स्त्री, (वनमुद्ग + टाप् ।) मुद्गपर्णी ।

इति राजनिर्घण्टः ॥

वनमूतः, पुं, मेघः । वनं जलं मूतं बद्धं अनेन

वनं मुञ्चति इति वा मनीषादिः । इत्यमर-
टीकायां भरतकृतजीमूतशब्दव्युत्पत्तिदर्शनात् ॥

वनमूर्द्धजा, स्त्री, (वनस्य मूर्द्ध्नि जायते इति । जन्

डः ।) वनबीजपूरकः । इति राजनिर्घण्टः ॥

वनमोचा, स्त्री, (वनोद्भवा मोचा ।) काष्ठकदली ।

इति राजनिर्घण्टः ॥

वनरः, पुं, (वानरः । पृषोदरादित्वात् ह्रस्वे साधुः ।)

वानरः । इति भरतद्विरूपकोषः ॥

वनराजः, पुं, (वनस्य वने वा राजा । “राजाहः-

सखिभ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।)
सिंहः । इति शब्दमाला ॥ वनस्य राजा च ॥

वनलक्ष्मीः, स्त्री, (वनस्य लक्ष्मीः शोभा ।)

कदली । इति राजनिर्घण्टः ॥

वनवर्व्वरः, पुं, (वनोद्भवो वर्व्वरः ।) कृष्णार्जकः ।

इति राजनिर्घण्टः ॥

वनवर्व्वरिका, स्त्री, (वनजाता वर्व्वरिका ।)

अरण्यजवर्व्वरी । वनवावुइ इति भाषा । तत्-
पर्य्यायः । सुगन्धिः २ सुप्रसन्नकः ३ दोषा-
क्लेशी ४ विषघ्नः ५ सुमुखः ६ सूक्ष्मपत्रकः ७
निद्रालुः ८ शोफहारी ९ सुवक्त्रः १० । अस्य
गुणाः । उष्णत्वम् । सुगन्धित्वम् । पिशाच-
वान्तिभूतघ्नत्वम् । घ्राणसन्तर्पणत्वञ्च । इति
राजनिर्घण्टः ॥

वनवल्लरी, स्त्री, (वनोद्भवा वल्लरी ।) निःश्रेणिका-

तृणम् । इति राजनिर्घण्टः ॥

वनवह्निः, पुं, (वनस्य वनोद्भवो वा वह्निः ।) दावा-

नलः । इति हेमचन्द्रः । ४ । १६७ ॥ (यथा,
कथासरित्सागरे । ५६ । ३४३ ।
“फणारत्नप्रभाजालजटिलं वनवह्निना ।
गृहीतमिव तेनोग्रहेतिहस्तेन मूर्द्धनि ॥”)

वनवासनः, पुं, (वनं वासयति गन्धेनेति । वासि +

ल्युः ।) खट्टासः । इति त्रिकाण्डशेषः ॥
पृष्ठ ४/२६३

वनवासी, [न्] पुं, (वनं वासयति सुरभीकरोतीति ।

वासि + णिनिः ।) ऋषभनामौषधम् । मुष्कक-
वृक्षः । वाराहीकन्दः । शाल्मलीकन्दः । नील-
महिषकन्दः । इति राजनिर्घण्टः ॥ (वने वस-
तीति । वस् + णिनिः ।) वनवासकर्त्तरि, त्रि ॥
(यथा, मनुः । ६ । २७ ।
“तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् ।
गृहमेधिषु चान्येषु द्विजेषु वनवासिषु ॥”)

वनवृन्ताकी, स्त्री, (वनस्य वृन्ताकी वार्त्ताकी ।)

बृहती । इति राजनिर्घण्टः ॥

वनव्रीहिः, पुं, (वनस्य व्रीहिः ।) नीवारः । इति

हेमचन्द्रः । ४ । २४२ ॥

वनशूकरी, स्त्री, (वनस्य शूकरीव रोमशत्वात् मांस-

लत्वाच्च ।) कपिकच्छुः । इति राजनिर्घण्टः ॥
(वनस्य शूकरी ।) आरण्यवराही च ॥

वनशूरणः, पुं, (वनजातः शूरणः ।) वनोद्भवौल्लः ।

वन ओल इति भाषा । तत्पर्य्यायः । सितशूरणः २
वन्यः ३ वनकन्दः ४ अरण्यशूरणः ५ वनजः ६
श्वेतशूरणः ७ वनकण्डुलः ८ । अस्य गुणाः ।
रुच्यत्वम् । कटुत्वम् । उष्णत्वम् । कृमिगुल्म-
शूलादिदोषसर्व्वारोचकनाशित्वञ्च । इति राज-
निर्घण्टः ॥

वनशृङ्गाटः, पुं, (वनस्य शृङ्गाट इव कण्ठकावृत-

त्वात् ।) गोक्षुरकः । इत्यमरः । २ । ४ । ९९ ॥
(अस्य पर्य्यायो यथा, --
“गोक्षुरः क्षुरकोऽपि स्यात् त्रिकण्टः स्वादु-
कण्टकः ।
गोकण्टको गोक्षुरको वनशृङ्गाट इत्यपि ॥
पलङ्कषा स्वदंष्ट्रा च तथा स्यादिक्षुगन्धिका ।”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वनशृङ्गाटकः, पुं, (वनशृङ्गाट + स्वार्थे कन् ।)

गोक्षुरकः । इति राजनिर्घण्टः ॥

वनशोभनं, क्ली, (वनं जलं शोभयतीति । शुभ +

णिच् + ल्युः ।) पद्मम् । इति शब्दचन्द्रिका ॥
वनस्य शोभाकर्त्तरि, त्रि ॥

वनश्वा, [न्] पुं, (वनस्य वने वा श्वा कुक्कुरः ।)

गन्धमार्जारः । वञ्चकः । व्याघ्रः । इति मेदिनी ।
ने, २०७ ॥

वनसङ्कटः, पुं, (वने सङ्कटो बाहुल्यं यस्य ।)

मसूरः । इति शब्दचन्द्रिका ॥

वनसमूहः, पुं, (वनानां समूहः ।) अरण्य-

संहतिः । तत्पर्य्यायः । वन्या २ । इत्यमरः ।
२ । ४ । ४ ॥ वान्या ३ । इति शब्दरत्नावली ॥
जलसमूहश्च ॥

वनसरोजिनी, स्त्री, (वनस्य सरोजिनी पद्मिनीव

शोभाकरत्वात् ।) वनकार्पासी । इति शब्द-
रत्नावली ॥

वनस्थः, पुं, (वने तिष्ठतीति । स्था + कः ।) मृगः ।

इति शब्दचन्द्रिका ॥ (वानप्रस्थः । यथा, मनुः ।
५ । १३७ ।
“एतच्छौचं गृहस्थानां द्बिगुणं ब्रह्मचारिणाम् ।
त्रिगुणं स्याद्वनस्थानां यतीनान्तु चतुर्गुणम् ॥”)
वनवासिनि, त्रि ॥ (यथा, हरिवंशे । १५२ । २१ ।
“प्रवृत्तचक्रो नृपतिर्वनस्थान्
गजान् गजैः स्वैरिव वीर्य्यदीप्तान् ॥”)

वनस्था, स्त्री, (वने तिष्ठति या । स्था + कः ।

टाप् ।) अश्वत्थीवृक्षः । इति राजनिर्घण्टः ॥

वनस्पतिः, पुं, (वनस्य पतिः । पारस्करादित्वात्

सुट् ।) विना पुष्पं फलिद्रुमः । (यथा, मनुः ।
१ । ४७ ।
“अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः ॥”)
वृक्षमात्रम् । इति मेदिनी । ते, २१६ ॥ (यथा,
महाभारते । १ । १४१ । १६ ।
“कथं नु शाखास्तिष्ठेरंश्छिन्नमूले वनस्पतौ ॥”)
स्थालीवृक्षः । इति राजनिर्घण्टः ॥ (अस्य
पर्य्यायो यथा, --
“नन्दीवृक्षोऽश्वत्थभेदः प्ररोहो गजपादपः ।
स्थालीवृक्षः क्षयतरुः क्षीरी च स्याद्बनस्पतिः ॥”
इति भावप्रकाशे । १ । १ ॥
घृतपृष्ठस्य पुत्त्रविशेषः । यथा, भागवते । ५ ।
२० । २१ ॥ “आत्मा मधुरुहो मेघपृष्ठः सुधामा
भ्राजिष्ठो लोहितवर्णो वनस्पतिरिति घृतपृष्ठ-
सुताः ॥” वटवृक्षः ॥ तत्पर्य्यायो यथा, --
“वटो रक्तफलः शृङ्गी न्यग्रोधः स्कन्धजो ध्रुवः ।
क्षीरी वैश्रवणावासो बहुपादो वनस्पतिः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वनहरिद्रा, स्त्री, (वनोद्भवा हरिद्रा ।) अर-

ण्यजहरिद्रा । तत्पर्य्यायः । शोली २ शोलिका
३ वनारिष्टा ४ । अस्या गुणाः । कटुत्वम् ।
गौल्यत्वम् । रुच्यत्वम् । तिक्तत्वम् । दीपनत्वञ्च ।
इति राजनिर्घण्टः ॥ अपि च ।
“अरण्यहलदीकन्दः कुष्ठवातास्रनाशनः ॥”
इति भावप्रकाशः ॥

वनहासः, पुं, (वनस्य हास इव प्रकाशकत्वात् ।)

काशतृणम् । इति त्रिकाण्डशेषः ॥ कुन्दवृक्षः ।
इति राजनिर्घण्टः ॥

वनहासकः, पुं, (वनहास + स्वार्थे कन् ।) काश-

तृणम् । इति शब्दरत्नावली ॥

वनाखुः, पुं, (वनस्याखुः ।) शशकः । इति

त्रिकाण्डशेषः ॥

वनाखुकः, पुं, मुद्गः । इति त्रिकाण्डशेषः ॥

वनाजः, पुं, (वनस्य अजः ।) वनच्छागः । तत्प-

र्य्यायः । इडिक्कः २ शिशुवाहकः ३ पृष्ठ-
शृङ्गः ४ । इति हेमचन्द्रः । ४ । ३४४ ॥

वनाटुः, पुं, वर्व्वणा । नीलमक्षिका । इति शब्द-

चन्द्रिका ॥

वनामलः, पुं, (वनस्य आमल आमलक इव ।)

कृष्णपाकफलः । इति शब्दमाला ॥

वनाम्रः, पुं, (वनस्य आम्र इव ।) कोशाम्रः ।

इति राजनिर्घण्टः ॥ (गुणादिविशेषोऽस्य
कोशाम्रशब्दे ज्ञेयः ॥)

वनायुः, पुं, देशविशेषः । यथा, --

“गया गयश्च वानायुर्बनायुर्यदुसात्वतम् ।”
इति शब्दरत्नावली ॥
(यथा, महाभारते । ८ । ७ । ११ ।
“आजानेयैः सैन्धवैः पार्व्वतीयै-
र्नदीजकाम्बोजवनायुवाह्लिकैः ॥”
दानवविशेषः । यथा, महाभारते । १ । ६५ । ३० ।
“गरिष्ठश्च वनायुश्च दीर्घजिह्वश्च दानवः ॥”)

वनायुजः, पुं, (वनायौ देशे जायते इति । जन +

डः ।) वनायुदेशोद्भवघोटकः । अस्य रूया-
न्तरं वानायुजः । इति शब्दरत्नावली ॥

वनारिष्टा, स्त्री, (वनजाता अरिष्टेव ।) वन-

हरिद्रा । इति राजनिर्घण्टः ॥

वनार्च्चकः, पुं, (वनस्य अर्च्चक इव । नियतपुष्प-

चायित्वात् तथात्वम् ।) पुष्पजीवी । माला-
कारः । इति जटाधरः ॥

वनार्द्रका, स्त्री, (वनोद्भवा आर्द्रका ।) वनभवा-

र्द्रकम् । इति राजनिर्घण्टः ॥ अस्याः पर्य्याय-
गुणौ ऐन्द्रशब्दे द्रष्टव्यौ ॥

वनालिका, स्त्री, (वनं अलति भूषयतीति । अल +

ण्वुल् । टापि अत इत्वम् ।) हस्तिशुण्डी ।
यथा, --
“वज्रवल्ल्यस्थिसंहारो हस्तिशुण्डी वनालिका ।”
इति हारावली । ९५ ॥

वनाश्रयः, पुं, (वनमेव आश्रयो यस्याः ।) द्रोण-

काकः । इति जटाधरः ॥ (अरण्याश्रयिणि,
त्रि । यथा, मार्कण्डेये । १०९ । ४३ ।
“सीदिष्यत्यखिलो लोकस्त्वयि भूप ! वना-
श्रये ॥”)

वनाहिरः, पुं, (वनस्य आहिरः ।) शूकरः ।

इति त्रिकाण्डशेषः ॥

वनिः, पुं, अग्निः । खनि कषि अजि असि वसि

सनि ध्वनि ग्रन्थि वलिभ्यश्च । इत्यनेन वन-
धातोः पूर्व्वानुवृत्त-इप्रत्ययेन निष्पन्नः । इति
सिद्धान्तकौमुद्यामुणादिवृत्तिः । ४ । १३९ ॥

वनितः, त्रि, (वन + क्तः ।) याचितः । सेवितः ।

इति मेदिनी । ते, १४९ ॥

वनिता, स्त्री, (वन + क्त । टाप् ।) जातरागस्त्री ।

स्त्रीसामान्यम् । इति मेदिनी । ते, १४९ ॥
(यथा, रघुः । २ । १९ ।
“वशिष्ठधेनोरनुयायिनं त-
मावर्त्तमानं वनिता वनान्तात् ।
पपौ निमेषालसपक्ष्मपङ्क्ति-
रुपोषिताभ्यामिव लोचनाभ्याम् ॥”)

वनी, स्त्री, वनम् । इत्यमरटीकायां भरतः ॥

(यथा, साहित्यदर्पणे । २ ।
“केलीवनीयमपि वञ्जुलकुञ्जमञ्जुः ॥”)

वनी, [न्] पुं, (वनं आश्रयत्वेनास्त्यस्येति । वन +

इनिः ।) वानप्रस्थः । यथा, --
“गृहमेधी शरद्वसन्तयोः व्रीहियवाभ्यां यजेत
वनी वर्षासु श्यामाकैरापत्कल्पेऽन्यैः पुरा-
तनैर्व्वा ।” इति श्राद्धचिन्तामणौ हारीतः ॥

वनीकः, त्रि, याचकः । इत्यमरटीकासारसुन्दरी ॥

वनीयकः, त्रि, (वनिं याचनमिच्छतीति । क्यच् ।

ततो ण्वुल् ।) याचकः । इत्यमरः । ३ । १ । ४९ ॥
पृष्ठ ४/२६४

वनेक्षुद्रा, स्त्री, (वने क्षुद्रा । अलुक्समासः ।)

करञ्जः । इति रत्नमाला ॥

वनेचरः, त्रि, (वने चरतीति । चर + “चरेष्टः ।”

इति टः । तत्पुरुषे कृतीत्यलुक् ।) अरण्य-
चारी । यथा, --
“वनेचराणां वनितासखानां
दरीगृहोत्सङ्गनिषक्तभासः ।
भवन्ति यत्रौषधयो रजन्या-
मतैलपूराः सुरतप्रदीपाः ॥”
इति कुमारसम्भवे १ सर्गः ॥

वनेज्यः, पुं, (वने इज्यः पूज्यः ।) वद्धरसालः ।

इति राजनिर्घण्टः ॥

वनेसर्ज्जः, पुं, (वने सर्ज्ज इव ।) असनवृक्षः ।

इति रत्नमाला ॥

वनोद्भवा, स्त्री, (वने उद्भवो यस्याः ।) वनकार्पासी ।

इति रत्नमाला ॥

वनौकाः, [स्] पुं, (वनमेव ओको गृहं

यस्य ।) वानरः । इत्यमरः । २ । ५ । ३ ॥
(वनवासिनि, त्रि । यथा, भागवते । ४ । ९ । २१ ।
“धर्म्मोऽग्निः कश्यपः शक्रो मुनयो ये वनौ-
कसः ।
चरन्ति दक्षिणीकृत्य भ्रमन्तो यत् सतारकाः ॥”)

वन्दका, स्त्री, वन्दा । यथा, --

“वन्दाका शेखरी सेव्या वन्दा च वन्दकेष्यते ॥”
इति भरतधृतहड्डः ॥

वन्दथः, पुं, (वन्दते स्तौति वन्द्यते स्तूयते इति वा ।

वन्द + “शीङ्शपिरुगमिवश्चिजीविप्राणिभ्यो-
ऽथः ।” इत्यत्र वञ्चीत्यस्य स्थाने वन्दीति पाठोऽपि
बहुसम्मतः इत्यतोऽथः ।) स्तोता । स्तुत्यः ।
वन्दिधातोरथप्रत्ययेन निष्पन्नः । इति सिद्धान्त-
कौमुदी ॥

वन्दनं, क्ली, (वन्दतेऽनेनेति । वन्द + करणे ल्युट् ।)

वदनम् । इति शब्दचन्द्रिका ॥ (वन्द + भावे
ल्युट् ।) प्रणामः । स तु षोडशधाभक्त्यन्तर्गत-
भक्तिविशेषः । यथा । पाद्मोत्तरखण्डे शिव-
पार्व्वतीसंवादे ।
“आद्यं तु वैष्णवं प्रोक्तं शङ्खचक्राङ्कनं हरेः ।
धारणञ्चोर्द्ध्वपुण्ड्राणां तन्मन्त्राणां परिग्रहः ॥
अर्च्चनञ्च जपो ध्यानं तन्नामस्मरणं तथा ।
कोर्त्तनं श्रवणञ्चैव वन्दनं पादसेवनम् ॥
तत्पादोदकसेवा च तन्निवेदितभोजनम् ।
तदीयानाञ्च संसेवा द्वादशीब्रतनिष्ठता ॥
तुलसीरोपणं विष्णोर्देवदेवस्य शार्ङ्गिणः ।
भक्तिः षोडशधा प्रोक्ता भवबन्धविमुक्तये ॥”
इति हरिभक्तिविलासे ११ विलासः ॥
षोडशोपचारपूजान्तर्गतशेषोपचारः । यथा, --
“आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् ।
मधुपर्काचमनस्नानवसनाभरणानि च ।
गन्धपुष्पे धूपदीपौ नैवेद्यं वन्दनं तथा ॥”
इत्याह्रिकतत्त्वे आचारचिन्तामणिः ॥ * ॥
अथ वन्दनम् ।
“प्रणमेदथ साष्टाङ्गं तन्मुद्राञ्च प्रदर्शयेत् ।
पठेत् प्रतिप्रणामञ्च प्रसीद भगवन्निति ॥”
तदुक्तमेकादशे श्रीभगवता ।
“स्तवैरुच्चावचैः स्तोत्रैः पौराणैः प्राकृतैरपि ।
स्तुत्वा प्रसीद भगवन्निति वन्देत दण्डवत् ॥”
अथ प्रणामविधिः । कालिकापुराणे ।
“यः स्वयं गद्यपद्याभ्यां घटिताभ्यां नमस्कृतिम् ।
शिरो मत्पादयोः कृत्वा बाहुभ्याञ्च परस्परम् ।
प्रपन्नं पाहि मामीश भीतं मृत्युमहार्णवात् ॥”
किञ्चागमे ।
“दोर्भ्यां पद्भ्याञ्च जानुभ्यामुरसा शिरसा दृशा ।
मनसा वचसा चेति प्राणामोऽष्टाङ्ग ईरितः ॥
जानुभ्याञ्चैव बाहुभ्यां शिरसा वचसा धिया ।
पञ्चाङ्गकः प्रणामः स्यात् पूजासु प्रवराविमौ ॥”
इति ॥
“गरुडं दक्षिणे कृत्वा कुर्य्यात्तत्पृष्ठतो बुधः ।
अवश्यञ्च प्रणामांस्त्रीन् शक्तश्चेदधिकाधिकान् ॥”
तथा च नारदपञ्चरात्रे ।
“सन्धिं वीक्ष्य हरिं चाद्यं गुरून् स्वगुरुमेव च ।
द्बिचतुर्विंशदथवा चतुर्विंशत्तदर्द्धकम् ।
नमेत्तदर्द्धमथवा तदर्द्धं सर्व्वथा नमेत् ॥”
विष्णुधर्म्मोत्तरे ।
“देवार्च्चादर्शनादेव प्रणमेन्मधुसूदनम् ।
स्थानापेक्षा न कर्त्तव्या इष्टार्च्चां द्विजसत्तमाः ।
देवार्च्चादृष्टपूतं हि शुचि सर्व्वं प्रकीर्त्तितम् ॥”
अथ नमस्कारमाहात्म्यम् । नारसिंहे ।
“नमस्कारः स्मृतो यज्ञः सर्व्वयज्ञेषु चोत्तमः ।
नमस्कारेण चैकेन नरः पूतो हरिं व्रजेत् ॥”
स्कान्दे ।
“दण्डप्रणामं कुरुते विष्णवे भक्तिभावितः ।
रेणुसंख्यं वसेत् स्वर्गे शतमन्वन्तरं नरः ॥”
तत्रैव श्रीकृष्णनारदसंवादे ।
“प्रणम्य दण्डवद्भूमौ नमस्कारेण योऽर्च्चयेत् ।
स यां गतिमवाप्नोति न तां क्रतुशतैरपि ॥
नमस्कारेण चैकेन नरः पूतो हरिं व्रजेत् ॥”
तत्रैव शिवोमासंवादे ।
“भूमिमापीड्य जानुभ्यां शिर आरोप्यवै भुवि ।
प्रणमेत् यो हि देवेशं सोऽश्वमेधफलं लभेत् ॥”
तत्रैवान्यत्र ।
“तीर्थकोटिसहस्राणि तीर्थकोटिशतानि च ।
नारायणप्रणामस्य कलां नार्हन्ति षोडशीम् ॥
शाठ्येनापि नमस्कारं कुर्व्वतः शार्ङ्गधन्विने ।
शतजन्मार्ज्जितं पापं तत्क्षणादेव नश्यति ॥
रेणुगुण्ठितगात्रस्य कणा देहे भवन्ति ये ।
तावद्बर्षसहस्राणि विष्णुलोके महीयते ॥”
विष्णुधर्म्मोत्तरे ।
“अभिवाद्य जगन्नार्थ कृतार्थश्च तथा भवेत् ।
नमस्कारक्रिया तस्य सर्व्वपापप्रणाशिनी ॥
जानुभ्यां चैव पाणिभ्यां शिरसा च विचक्षणः ।
कृत्वा प्रणामं देवस्य सर्व्वान् कामनवाप्नुयात् ॥”
ब्रह्मपुराणे ।
“अनादिनिधनं देवं दैत्यदानवदारणम् ।
ये नमन्ति नरा नित्यं नहि पश्यन्ति ते यमम् ॥
ये जना जगतां नाथं नित्यं नारायणं द्बिजाः ।
नमन्ति नहिते विष्णोः स्थानादन्यत्र गामिनः ॥”
नारदीये ।
“एकोऽपि कृष्णस्य सकृत्प्रणामो
दशाश्वमेधावभृतैर्न तुल्यः ।
दशाश्वमेधी पुनरेति जन्म
कृष्णप्रणामी न पुनर्भवाय ॥”
भक्तिसुधोदये ।
“विष्णोर्दण्डप्रणामार्थं भक्तेन पतता भुवि ।
पातितं पातकं कृत्स्नं नोत्तिष्ठति पुनः सह ॥
अपि पापं दुराचारं नरं त्वत्प्रणतं हरे ।
नेक्षन्ते किङ्करा याम्या उलूकास्तपनं यथा ॥”
श्रीविष्णुपुराणे । श्रीयमस्य निजभटानुशासने ।
“हरिममरगणार्चिताङ्घ्रिपद्मं
प्रणमति यः परमार्थतो हि मर्त्यः ।
तमपगतसमस्तपापबन्धं
व्रज परिहृत्य यथाग्निमाज्यसिक्तम् ॥”
ब्रह्मवैवर्त्ते ।
“शरणागतरक्षणोद्यतं
हरिमीशं प्रणमन्ति ये नराः ।
न पतन्ति भवाम्बुधौ स्फुटं
पतितानुद्धरति स्म तानसौ ॥”
अष्टमस्कन्धे च वलिवाक्ये ।
“अहो प्रणामाय कृतः समुद्यमः
प्रपन्नभक्तार्थविधौ समाहितः ।
यल्लोकपालैस्त्वदनुग्रहोऽमरै-
रलब्धपूर्व्वापसदेऽसुरेऽर्पितः ॥”
अतएव नारायणव्यूहस्तवे ।
“अहो भाग्यमहो भाग्यमहो भाग्यं नृणा-
मिदम् ।
येषां हरिपदाब्जाग्रे शिरो न्यस्तं यथा तथा ॥”
किञ्च नारसिंहे श्रीयमोक्तौ ।
“तस्य वै नारसिंहस्य विष्णोरमिततेजसः ।
प्रणामं ये प्रकुर्व्वन्ति तेषामपि नमो नमः ॥”
भविष्योत्तरे च जलधेनुप्रसङ्गे ।
“विष्णोर्देवजगद्धातुर्जनार्द्दनजगत्पतेः ।
प्रणामं ये प्रकुर्व्वन्ति तेषामपि नमो नमः ॥”
इत्यादि ॥ * ॥
अथ प्रणामनित्यता । बृहन्नारदीये तु वृको-
पाख्यानारम्भे ।
“सकृद्बा न नमेद्यस्तु विष्णवे शर्म्मकारिणे ।
शवोपमं विजानीयात् कदाचिदपि नालपेत् ॥”
किञ्च पाद्मे । वैशाखमाहात्म्ये यमब्रा ह्मण-
संवादे ।
“पश्यन्तो भगवद्द्वारं नामशस्त्रपरिच्छदम् ।
अकृत्वा तत्प्रणामादि यान्ति ते नरकौकसः ॥”
अथ नमस्कारनिषिद्धानि । विष्णुस्मृतौ ।
“जन्मप्रभृति यत्किञ्चित् पुमान् वे धर्म्ममाचरेत् ।
सर्व्वं तन्निष्फलं याति एकहस्ताभिवादनात् ॥”
वाराहे ।
“वस्त्रप्रावृतदेहस्तु यो नरः प्रणमेत माम् ।
श्वित्री स जायते मूर्खः सप्तजन्मनि भामिनि ! ॥”
पृष्ठ ४/२६५
किञ्चान्यत्र ।
“अग्रे पृष्ठे धामभागे समीपे गर्भमन्दिरे ।
जपहोमनमस्कारान् न कुर्य्यात् केशवालये ॥”
अपि च ।
“सकृद्भूमौ निपतितो न शक्तः प्रणमेन्मुहुः ।
उत्थायोत्थाय कर्त्तव्यं दण्डवत् प्रणिपातनम् ॥
ततः प्रदक्षिणां कुर्य्यात् भक्त्या भगवतो हरेः ।
नामानि कीर्त्तयन् शक्तौ ताञ्च साष्टाङ्गवन्द-
नाम् ॥”
इति हरिभक्तिविलासे ८ विलास ॥ * ॥
अन्यत् नमस्कारशब्दे प्रणामशब्दे च द्रष्टव्यम् ॥
(विषविशेषः । यथा, ऋग्वेदे । ७ । ५१ । २ ।
“यद्विजामन् परुषि वन्दनं भुवत् ॥”
असुरः । रक्षोविशेषः । इति ऋग्भाष्ये
सायणः । ७ । २१ । ५ ॥)

वन्दनमाला, स्त्री, (वन्दनार्था माला यत्र सा ।)

तोरणम् । इति हलायुधः । २ । १४६ ॥
(वन्दनार्था माला इति कर्म्मधारये ।) रम्भा-
स्तम्भचतुष्टयवेष्टिताम्रपत्ररचितमाला । यथा,
“कुर्य्याद्वन्दनमालां यो रम्भास्तम्भैः सुशोभनैः ।
चूतवृक्षोद्भवैः पत्रैर्जागरे चक्रपाणिनः ॥
युगानि पत्रसंख्यानां स्वर्गे तस्योत्सवो भवेत् ।
पूज्यते वासवाद्यैश्च क्रीडते चाप्सरोवृतः ॥”
इति हरिभक्तिविलासे १३ विलासः ॥

वन्दनमालिका, स्त्री, (वन्दनमाला + स्वार्थे कन् ।)

वहिर्द्वारोपरि शुभदा माला । यथा, --
“तोरणोर्द्ध्वे तु मङ्गल्यं दामवन्दनमालिका ॥”
इति हेमचन्द्रः । ४ । ७४ ॥

वन्दना, स्त्री, (वन्द + “घट्टिवन्दिविदिभ्यश्चेति

वाच्यम् ।” ३ । ३ । १०७ । इत्यस्य वार्त्तिकोक्त्या
युच् । टाप् ।) स्तुतिः । तत्पर्य्यायः । समीची २ ।
इति त्रिकाण्डशेषः ॥ होमभस्मना तिलकम् ।
यथा, --
“ऐशान्यामाहरेद्भस्म श्रुचा वाथ श्रुवेण वा ।
वन्दनां कारयेत्तेन शिरःकण्ठांशकेषु च ।
कश्यप्रस्येतिमन्त्रेण यथानुक्रमयोगतः ॥”
इति तिथ्यादितत्त्वे वशिष्ठवचनम् ॥

वन्दनी, स्त्री, (वन्द + ल्युट् । ङीप् ।) नतिः ।

जीवातुः । वटी । याचनकर्म्म । इति मेदिनी ।
ने, ९७ ॥ क्वचित् पुस्तके वटीस्थाने कटी याचन-
कर्म्मस्थाने माचलकर्म्म इति च पाठः । तत्र तु
पवर्गीयबकारादौ लिखितोऽयं शब्दः । किन्तु
वदि ङ नुत्यभिवादयोरित्यस्मात् अनट्प्रत्यय-
निष्पन्नत्वात् अन्तःस्थवकारादौ लिखितः ॥

वन्दनीयः, त्रि, (वदि + अनीयर् ।) स्तवनीयः ।

वन्द्यः । वन्दितव्यः । वदधातोरनीयप्रत्ययेन
निष्पन्नः ॥ (यथा, महाभारते । ७ । ८० । ३० ।
“ततः शुद्धाप्तमासाद्य जानुभ्यां भूतले स्थितः ।
शिरसा वन्दनीयं तमभिवन्द्य जगत्पतिम् ॥”)

वन्दनीयः, पुं, (वन्द्यते भेषजार्थं स्तूयते इति ।

वदि + अनीयर् ।) पीतभृङ्गराजः । इति राज-
निर्घण्टः ।

वन्दनीया, स्त्री, (वदि + कर्म्मणि अनीयर् ।

टाप् ।) गोरोचना । इति त्रिकाण्डशेषः ॥
(विवृतिरस्या गोरोचनाशब्दे विज्ञेया ॥)

वन्दा, स्त्री, (वन्दते अपरवृक्षमिति । वदि +

अच् । टाप् ।) वृक्षोपरिवृक्षः । वाँदु इति
परगाछा । इति च भाषा । तत्पर्य्यायः । वृक्षा-
दनी २ वृक्षरुहा ३ जीवन्तिका ४ । इत्यमरः ॥
वन्दाका ५ शेखरी ६ सेव्या ७ वन्दका ८ ।
इति भरतधृतहड्डः ॥ वन्दकः ९ नीलवल्ली १०
इति रत्नमाला ॥ वन्दाकी ११ परवासिका १२
इति शब्दरत्नावली ॥ वशिनी १३ पुत्त्रिणी १४
वन्द्या १५ परपुष्टा १६ पराश्रया १७ । इति
शब्दचन्द्रिका ॥ लताविशेषः । भिक्षुकी । इति
मेदिनी । दे, १० ॥ अस्याः पर्य्यायान्तरं गुणाश्च
वन्दाकशब्दे द्रष्टव्याः ॥

वन्दाकः, पुं, वृक्षोपरिवृक्षः । वाँदा इति हिन्दी

भाषा । तत्पर्य्यायः । पादपरुहा २ शिखरी ३
तरुरोहिणी ४ वृक्षादनी ५ वृक्षरुहा ६ काम-
वृक्षः ७ शैखरी ८ केशरूपा ९ तरुरुहा १०
तरुस्था ११ गन्धमादनी १२ कामिनी १३
तरुभुक् १४ श्यामा १५ उपदी १६ । अस्य
गुणाः । तिक्तत्वम् । शिशिरत्वम् । कफपित्त-
श्रमापहत्वम् । वश्यादिसिद्धिदत्वम् । वृष्यत्वम् ।
कषायत्वम् । रसायणत्वञ्च । इति राजनिर्घण्टः ॥
अपि च ।
“वन्दाकः स्याद्धिमस्तिक्तः कषायमधुरो रसे ।
मङ्गल्यः कफवातास्ररक्षोव्रणविषापहः ॥”
इति भावप्रकाशः ॥

वन्दाका, स्त्री, वन्दा । इति भरतधृतहड्डः ॥

वन्दाकी, स्त्री, वन्दा । इति शब्दरत्नावली ॥

वन्दारुः, त्रि, (वन्दते स्तौति अभिवादयतीति ।

वन्द + “शृवन्द्योरारुः ।” ३ । २ । १७३ । इति
आरुः ।) वन्दनशीलः । तत्पर्य्यायः । अभि-
वादकः २ । इत्यमरः । ३ । १ । २८ ॥ अभि-
वादयिता ३ । इति शब्दरत्नावली ॥ (यथा,
ऋग्वेदे । १ । १४७ । २ ।
“पीयति त्वो अनुत्वो गृणति वन्दारुस्त
तन्वं वन्दे अग्ने ॥”
स्तोत्रे, क्ली । इति ऋग्वेदभाष्ये सायणः । ४ ।
४३ । १ ॥)

व(ब)न्दिः, स्त्री, (वन्दते स्तौति नृपादिकं स्वमु-

क्त्यर्थमिति । वदि + “सर्व्वधातुभ्य इन् ।” उणा०
४ । ११७ । इति इन् ।) आकृष्टमनुष्यगवादिः ।
कयेदी इति भाषा । तत्पर्य्यायः । प्रग्रहः २
उपग्रहः ३ वन्दी ४ । इत्यमरभरतौ ॥ वन्दिका
५ । इति शब्दरत्नावली ॥ सोपानकः । इत्यु-
णादिकोषः ॥ (म्लहः । यथा, भागवते । ६ ।
१ । २२ ।
“वन्द्यक्षैः कैतवैश्चौर्य्यैर्गर्हितां वृत्तिमास्थितः ॥”
पुं, स्तुतिपाठकः । यथा, हरिवंशे । ११२ ।
५० ।
“सूतमागधवन्दीनामेकैकस्य सहस्रिकम् ॥”)

व(ब)न्दिग्राहः, पुं, (वन्दिमिव गृहस्थं गृह्णातीति ।

ग्रह + णः ।) अग्न्यायुधदेवतागारभेदकः ।
(डाकाइत इति भाषा ॥) यथा, --
“वन्दिग्राहांस्तथा वाजिकुञ्जराणाञ्च हारिणः ।
असह्यघातिनश्चैव शूलानारोपयेन्नरान् ॥
वन्दिग्राहादीन् बलावष्टम्भेन घातकांश्च नरान्
शूलानारोपयेत् । अयञ्च वधप्रकारविशेषो-
पदेशः ।
“अग्न्यागारायुधागारदेवतागारभेदकान् ।
हस्त्यश्वरथहर्त्तॄंश्च हन्यादेवाविचारयन् ॥”
इति मनुस्मरणात् । इति मिताक्षराव्यवहार-
काण्डे दण्डप्रकरणम् ॥

व(ब)न्दिचौरः, पुं, (वन्दिमिव विधाय चौरः अप-

हारकः । गृहस्थं वन्दिमिव कृत्वा समस्तद्रव्या-
णामपहारकत्वादस्य तथात्वम् ।) वन्दिग्राहः ।
तत्पर्य्यायः । माचलः २ । इति हारावली ।
१४५ ॥ वन्दीकारः ३ । इति त्रिकाण्डशेषः ॥

व(ब)न्दिपाठः, पुं, (वदि + भावे इन् । वन्दिः

स्तुतिस्तस्याः पाठो यत्र ।) स्तुतिग्रन्थः । तत्-
पर्य्यायः । भोगावली २ । इति त्रिकाण्डशेषः ॥

व(व)न्दी, स्त्री, (वन्दि + “कृदिकारादक्तिनः ।”

इति ङीष् ।) वन्दिः । इत्यमरटीकायां भरतः ॥
(यथा, कुमारे । २ । ५२ ।
“गोप्तारं सुरसैन्यानां यं पुरस्कृत्य गोत्रभित् ।
प्रत्यानेष्यति शत्रुभ्यो वन्दीमिव जयश्रियम् ॥”)

व(ब)न्दी [न्], पुं, (वन्दते स्तौति नृपादीन्निति ।

वदि स्तुतौ + णिनिः ।) राजादेर्यात्रादौ
वीर्य्यादस्तुतिकारकः । तत्पर्य्यायः । स्तुति-
पाठकः २ । इत्यमरः ॥ मागधः ३ मगधः ४ ।
इत्यन्ये । इति तट्टीकायां भरतः ॥ (यथा,
रघुः । ४ । ६ ।
“परिकल्पितसान्निध्या काले काले च वन्दिषु ।
स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती ॥”)
अस्योत्पत्तिर्यथा, --
“क्षत्त्रियाद्विप्रकन्यायां सूतो भवति जातितः ।
वैश्यान्मागधवैदेहौ राजविप्राङ्गनासुतौ ॥”
इति मानवे १० अध्यायः ॥ * ॥
श्राद्धोत्तरमस्मै शक्तितो दानस्याकरणे निन्दा
यथा, --
“वन्दिभ्यश्चैवमर्थिभ्योऽन्नार्थिभ्यश्चन्नमर्थितः ।
यदि तत्र न दद्यात्तु विफलं शाक्ततो भवेत् ॥”
वन्दिनो वीर्य्यस्तोतारः । अर्थितः सन् यदि
एभ्योऽन्नं न दद्यात् श्राद्धं विफलं भवेदित्यर्थः ।
“सूताः पौराणिकाः प्रोक्ता मागधा वंश-
शंसकाः ।
वन्दिनस्त्वमलप्रज्ञाः प्रस्तावसदृशोक्तयः ॥”
इत्युक्तेः । इत्थञ्च श्राद्धोत्तरदाननिषेधात् श्राद्धे
वन्दिप्रभृतिभ्यो दानाकरणे निन्दाश्रवणाच्च
श्राद्धात् पूर्ब्बं तदर्थं भोज्यादिकं उत्सृजेत् ।
इति श्राद्धतत्त्वम् ॥ (भृत्यः । यथा, भागवते ।
११ । ४ । १५ ।
“ओमित्यादेशमादाय नत्वा तं सुरवन्दिनः ।
पृष्ठ ४/२६६
उर्व्वशीमप्सरःश्रेष्ठां पुरस्कृत्य दिवं ययुः ॥”
“सुरवन्दिनो देवभृत्याः ।” इति तट्टीकायां
श्रीधरस्वामी ॥)

व(ब)न्दीकारः, पुं, (वन्दीवत् गृहस्थं करोतीति ।

कृ + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।)
वन्दिग्राहः । डाकाइत इति भाषा । तत्-
पर्य्यायः । माचलः २ प्रसह्यचौरः ३ चिल्लाभः
४ । इति त्रिकाण्डशेषः ॥

वन्द्या, स्त्री, (वन्द्यते स्तूयते इति । वदि +

ण्यत् ।) वन्दा । इति शब्दचन्द्रिका ॥ गोरो-
चना । इति भावप्रकाशः ॥ (वन्दनीये, त्रि ।
यथा, साहित्यदर्पणे १ परिच्छेदे ।
“आशीः परम्परां वन्द्यां कर्णे कृत्था कृपां
कुरु ॥”
यथा च भागवते । ४ । १२ । २६ ।
“आतिष्ठ जगतां वन्द्यं तद्विष्णोः परमं
पदम् ॥”)

वन्द्रं, क्ली, (वन्द्यते स्तूयते इति । वदि स्तुतौ +

“स्फायितञ्चीति ।” उणा० २ । १३ । इति
रक् ।) कल्याणम् । इति सिद्धान्तकौमुद्या-
मुणादिवृत्तिः ॥

वन्द्रः, त्रि, (वन्दते स्तौति देवादीन् पूजाकाले

इति । वदि + रक् ।) पूजकः । इत्युणादि-
कोषः ॥

वन्यं, क्ली, (वने भवम् । वन + यत् ।) त्वचम् ।

इति राजनिर्घण्टः ॥ (कुटन्नटम् । तत्पर्य्यायो
यथा, --
“कुटन्नटं परं वन्यं मुस्ताभञ्च परीलवम् ॥”
इति वैद्यकरत्नमालायाम् ॥)

वन्यः, त्रि, (वने भवः । वन् + यत् ।) वनोद्भूतः ।

इति मेदिनी । ये, ५४ ॥ (यथा, रघुः । १ । ४५ ।
“हैयङ्गवीनमादाय घोषवृद्धानुपस्थितान् ।
नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखि-
बाम् ॥”)

वन्यः, पुं, (वन + यत् ।) वनशूरणः । वाराही-

कन्दः । देवनलः । इति राजनिर्घण्टः ॥ (क्षीर-
विदारी । तत्पर्य्यायो यथा, --
“क्षीरी शवरपर्ण्याख्यः स्नुक्छदः कुष्ठनाशनः ।
वन्यो मूलकमूलाभः स्वस्कन्दः स च कञ्चुकी ॥”
इति बैद्यकरत्नमालायाम् ॥)

वन्या, स्त्री, (वनानामरण्यानां जलानां वा

संहतिः । वन् + “पाशादिभ्यो यः ।” ४ । २ ।
४९ । इति यः ।) वनसमूहः । इत्यमरः । २ ।
४ । ४ ॥ जलसंहतिः । इति मेदिनी । ये, ५४ ॥
मुद्गपर्णी । (तत्पर्य्यायो यथा, रत्नमालायाम् ।
“मुद्गपर्णी क्षुद्रसहा कामुद्गा सिंहपर्णिका ।
वन्या मार्ज्जारगन्धेति सूर्पपर्ण्यावुभे च ते ॥”)
गोपालकर्कटी । गुञ्जा । मिश्रेया । भद्रमुस्ता ।
गन्धपत्रा । इति राजनिर्घण्टः ॥ (अश्वगन्धा ।
तत्पर्य्यायो यथा, --
“हयगन्धाश्वगन्धाख्या वाजिगन्धाश्वगन्धकः ।
वन्या तुरगगन्धा च कम्बुकाश्वावरोहकः ॥”
बल्या क्वचित् दृश्यते । इति वैद्यकरत्नमाला-
याम् ॥)

वन्योपोदकी, स्त्री, (वन्या वनोद्भूता उपोदकी ।)

लताविशेषः । वनपुँ इ इति भाषा । तत्पर्य्यायः ।
वनजा २ वनसाह्वया ३ । अस्या गुणाः । तिक्त-
त्वम् । कटुत्वम् । उष्णत्वम् । रोचनत्वञ्च । इति
राजनिर्घण्टः ॥

वन्रः, पुं, (वनति भागमर्हतीति । वन सम्भक्तौ +

“ऋज्रेन्द्राग्रवज्रेति ।” उणा० २ । २८ ।
इति रन्प्रत्ययः ।) अंशी । भागी । इति
सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

वप, औ ञ डु ऐ मुण्डतन्तुबीजोप्त्योः । इति

कविकल्पद्रुमः ॥ (भ्वा०-उभ०-सक०-अनिट् ।)
औ, वप्ता । ञ, वपति वपते । डु, उप्त्रिमम् ।
मुण्डो मुण्डितकरणम् । वपति मस्तकं नापितः ।
वपति तन्तुं तन्त्रवायः । यदि वपति कृषाणः
क्षेत्रमासाद्य बीजम् । इति दुर्गादासः ॥

वपः, पुं, (वप् + घः ।) केशमुण्डनम् । बीजवप-

नम् । इति वपधातोर्भावेऽल्प्रत्ययेन निष्पन्नः ॥

वपनं, क्ली, (वप् + भावे ल्युट् ।) केशमुण्डनम् ।

(यथा, मनुः । ५ । १४० ।
“शूद्राणां मासिकं कार्य्यं वपनं न्यायवर्त्तिनाम् ॥”)
बीजाधानम् । इति मेदिनी । ने, १२२ ॥

वपनी, स्त्री, (उप्यते मस्तकादिकमस्यामिति । वप्

+ अधिकरणे ल्युट् । ङीप् ।) नापितशाला ।
इति हेमचन्द्रः । ४ । ६६ ॥ (तन्तुवायशाला ।
इति तत्धात्वर्थदर्शनात् ॥)

वपा, स्त्री, (उप्यतेऽत्रेति । वप् + भिदाद्यङ् । टाप् ।)

छिद्रम् । (यथा, शतपथब्राह्मणे । ६ । ३ । ३ । ५ ।
“अथ वल्मीकवपा सुषिरा व्यध्वे निहिता
भवति ॥”) मेदः । इत्यमरः । २ । ६ । ६४ ॥
(यथा, रामायणे । १ । १४ । ३६ ।
“पतत्त्रिणस्तस्य वपामुद्धृत्य नियतन्द्रियः ।
ऋत्विक् परमसम्पन्नः स्नपयामास शास्त्रतः ॥”
सा च हृदयस्थधातुः । यथा । “त्वक् च
लोहितञ्च मांसञ्च मेदश्च नाभिश्च हृदयञ्च क्लोम
च यकृच्च प्लीहा च पुक्कौ च वस्तिश्च पुरीषा-
धानञ्चामाशयश्च पक्वाशयश्चोत्तरगुदञ्चाधर-
गुदञ्च क्षुद्रान्त्रञ्च वपा च वपावहनञ्चेति मातृ-
जानि ।” इति चरके शारीरस्थाने तृतीये-
ऽध्याये ॥)

वपिलः, पुं, (वपति बीजमिति । वप् + इलच् ।)

पिता । इत्युणादिकोषः ॥

वपुः, [स्] क्ली, (उप्यन्ते देहान्तरभोगसाधन-

बीजीभूतानि कर्म्माण्यत्रेति । वप् + “अर्त्ति-
पॄवपियजीति ।” उणा० २ । ११८ । इति
उसिः ।) शरीरम् । इत्यमरः । २ । ६ । ७० ॥
(यथा, रघुः । २ । ४७ ।
“एकातपत्रं जगतः प्रभुत्व
नवं वयः कान्तमिदं वपुश्च ॥”)
प्रशस्ताकृतिः । इति मेदिनी । से, ३६ ॥ (अंशः ।
यथा, मनुः । ५ । ९६ ।
“अष्टानां लोकपालानां वपुर्धारयते नृपः ॥”
“वपुस्तेजोऽंशः ।” इति मेधातिथिः ॥ स्त्री,
स्वनामख्याता दक्षकन्या । सा तु धर्म्मराजस्य
पत्नी । यथा, मार्कण्डेये । ५० । २१ ।
“बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्त्तिस्त्रयो-
दशी ।
पत्न्यर्थे प्रतिजग्राह धर्म्मो दाक्षायणीः
प्रभुः ॥”)

वपुःस्रवः, पुं, (वपुषः शरीरात् स्रवः क्षरणं

यस्य ।) शरीरस्थरसधातुः । इति राज-
निर्धण्टः ॥

वपुनः, पुं, (वप + उनच् । वयुन + पृषोदरादि-

त्वात् यस्य पः इति केचित् ।) देवता । इति
शब्दरत्नावली ॥

वपुषा, स्त्री, हवुषा । इति भावप्रकाशः ॥ (रूपे,

क्ली । यथा, ऋग्वेदे । ३ । २ । १५ ।
“रथं न चित्रं वपुषाय दर्शतं
मनुर्हितं सदमिद्राय ईमहे ॥”
“वपुषाय रूपार्थं दर्शतं दर्शनीयम् ।” इति
तद्भाष्ये सायणः ॥)

वपुष्टमा, स्त्री, पद्मचारिणी । इति जटाधरः ॥

(काशीराजस्य कन्या । जनमेजयस्य पत्नी ।
सा तु रम्भा नामाप्सरा । जनमेजयकृताश्वमेध-
काले इन्द्रेणेयमश्वप्रविष्टेन धर्षितासीदतो जनमे-
जयेनेयं परित्यक्तापि पुनर्गन्धर्व्वराजविश्वावसु-
वाक्येन गृतीता । एतद्विवरणन्तु हरिवंशे १८८
अध्याये द्रष्टव्यम् ॥)

वप्ता, [ऋ] पुं, (वपति बीजमिति । वप् +

तृच् ।) जनकः । इति मेदिनी ॥ कविः । इति
जटाधरः ॥ (नापितः । यथा, ऋग्वेदे । १८ ।
१४२ । ४ ।
“यदा ते वातो अनुवाति शौचि-
र्वप्तेव श्मश्रु वपसि प्र भूम ॥”
“यथा वप्ता नापितो वपति मुण्डयति तथा
भूम भूमिं प्रवपसि प्रकर्षेण मुण्डयसि ॥” इति
तद्भाष्ये सायणः ॥)

वप्ता, [ऋ] त्रि, (वपतीति ॥ वप् बीलोप्तौ +

तृच् ।) वापकः । इति मेदिनी ॥ (कर्षकः ।
यथा, मनुः । ३ । १४२ ।
“यथेरिणे बीजमुप्त्वा न वप्ता लभते फलम् ।
तथानृचे हविर्द्दत्त्वा न दाता लभते फलम् ॥”)

वप्रं, क्ली, पुं, (उप्यतेऽत्रेति । वप + “वृषिवपिभ्यां

रन् ।” उणा० २ । २७ । इति रन् ।) दुर्ग-
नगरे परिखाया उद्धृतमृत्तिकास्तूपबद्धे यदु-
परि प्राकारो निवेश्यते तत् । तथा चार्थ-
शास्त्रम् । ख्यातादुद्धृतमृदा वप्रं कारयेत् तस्यो-
परि प्राकारमिति । तत्पर्य्यायः । चयः २ ।
इत्यमरभरतौ ॥ मृत्तिकास्तूपः ३ । इति शब्द-
रत्नावली ॥ (यथा, आर्य्यासप्तशत्याम् । ५०५ ।
“लग्नं जघने तस्याः सुविशाले कलितकरि-
करक्रीडे ।
वप्रे सक्तं द्विपमिव शृङ्गारस्तां विभूषयति ॥”)
पृष्ठ ४/२६७
महावप्रो यथा, --
“महोद्यानां महावप्रां तडागशतशोभिताम् ।
प्राकारगृहसम्बाधामिन्द्रस्येवामरावतीम् ॥”
महान् वप्रो यस्याः ।
“प्राकाराधारभूता कृत्रिमोच्छ्रिता भूमि-
र्व्वप्रसंज्ञा ॥”
इति विष्णुपुराणे ५ अंशे २३ अध्याधे ॥ * ॥
वपति बीजमत्र । क्षेत इति भाषा । तत्-
पर्य्यायः । केदारः २ क्षेत्रम् ३ । इत्यमरभरतौ ॥
निष्कुटः ४ वनजम् ५ वाजिका ६ पाटीरः ७ ।
इति जटाधरः ॥ (यथा, बृहत्संहितायाम् ।
१९ । १६ ।
“शालीक्षुमत्यपि धरा धरणीधराभ-
धाराधरोज्ज्वितपयः परिपूर्णवप्रा ॥”)
रेणुः । तटः । इति मेदिनीकरहेमचन्द्रौ ॥
(यथा, किराते । ७ । ११ ।
“तत् पूर्ब्बं प्रतिविदधे सुरापगाया
वप्रान्तस्खलितविवर्त्तनं पयोभिः ॥”
पर्व्वतसानुः । यथा, किराते । ५ । ३६ ।
“नानारत्नज्योतिषां सन्निपातै-
श्छन्नेष्वन्तः सानुवप्रान्तरेषु ॥”)

वप्रं, क्ली, (वप् + “वृधिवपिभ्यां रन् ।” उणा०

२ । २७ । इति रन्) सीसकम् । इति हेम-
चन्द्रः । ४ । ४६ ॥ (तथास्य पर्य्यायान्तरम् ।
“सीसं वध्रञ्च वप्रञ्च योगेष्टं नागनामकम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वप्रः, पुं, (वपति बीजमिति । वप् + रन् ।)

तातः । इति मेदिनी । रे, ८२ ॥ प्राकारः ।
इति विश्वः ॥ प्रजापतिः । इति संक्षिप्तसारो-
णादिवृत्तिः ॥

वप्रा, स्त्री, (वप् + रन् । टाप् ।) मञ्जिष्ठा ।

इति राजनिर्घण्टः ॥ (विवरणमस्या मञ्जिष्ठा-
शब्दे ज्ञातव्यम् ॥)

वप्रिः, पुं, (वपति बीजमत्र । वप् + “वङ्क्र्या-

दयश्च ।” उणा० ४ । ६६ । इति क्रिन्प्रत्ययेन
साधुः ।) क्षेत्रम् । इति सिद्धान्तकौमुद्या-
मुणादिवृत्तिः ॥ दुर्गतिः । समुद्रः । इति संक्षिप्त-
सारोणादिवृत्तिः ॥

वप्री, स्त्री, (वम्री + पृषोदरादित्वात् साधुः ।)

वल्मीकः । इति हलायुधः ॥

वबः, पुं, एकादशकरणान्तर्गतप्रथमकरणम् ।

अस्याधिपतिरिन्द्रः । तत्र विहितानि यथा, --
“पौष्टिकस्थिरशुभानि वबाख्ये ।”
इति ज्योतिस्तत्त्वम् ॥
अत्र जातफलम् ।
“वबाभिधाने जननं हि यस्य
शूरोऽतिधीरो मनुजः कृती स्यात् ।
पद्मालया तन्निलये निवाम्रं
करोति नित्यं सुविचक्षणः स्यात् ॥”
इति कोष्ठीप्रदीपः ॥
दाक्षिणात्यमते अस्य शब्दस्य प्रथमबकारः
पवर्गीयः शेषवकारोऽन्तःस्थः ॥

वभ्र, गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) वकारादिः । ओष्ठ्यवर्गचतुर्थो-
पधः । वभ्रति । इति दुर्गादासः ॥

वम्, व्य, (उ + अ + म् ।) शिवपूजान्ते कपोल-

वाद्यविशेषः । तत्तु उकाराकारमकारात्मकं
शिवप्रणवस्वरूपम् । यथा, --
“डिम् डिम् डिम् डिम् डिडिम् डिम् डिडिमरु
डमरुं वादयन् सूक्ष्मनादं
वम् वम् वम् वम् ववम् वम् भ्रमितदशशिरा-
स्तालमानेन नृत्यन् ।
कर्पूरासिक्तभस्मापटितपटुजटालम्बिरुद्राक्षमालो
मायायोगी दशास्यो रघुरमणपुरः प्राङ्गणे
प्रादुरासीत् ॥”
इति रामलीलामृतकाव्यम् ॥ * ॥
वरुणबीजम् । यथा । नासापुटौ धृत्वा वमिति
वरुणबीजस्य चतुःषष्टिवारजपेन कुम्भकं कृत्वा
तस्मात् ललाटस्थचन्द्राद्गलितसुधया मातृका-
वर्णात्मिकया समस्तं देहं विरचय्य लमिति
पृथ्वीबीजस्य द्वात्रिंशद्वारजपेन दहं सुदृढं
विचिन्त्य दक्षिणेन वायुं रेचयेत् । इति भूत-
शुद्धिप्रकरणे तन्त्रसारः ॥

वम, ण जु टु उद्गिरि । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-सक०-सेट् ।) वकारादिः । ण,
वेमतुः ववमतुः । अन्ये तु तत्कार्य्यविधायक-
सूत्रे फणादौ चेमं न पठन्ति वेमुश्च केचिद्रुधिर-
मित्यादिसाधनाय तत्सूत्रे दन्त्यवकारादिवर्ज्जन-
स्यानित्यतां स्वीकुर्व्वन्ति । केचित् पुनर्व्वर्ग्य-
वकारादिधात्वन्तरमप्यस्ति इति प्रलपन्ति ।
ज, वामः वमः । उ, वमित्वा वान्त्वा । टु,
वमथुः । उद्गिरि वान्तौ । वमति अन्नमजीर्ण-
वान् । अमन्तत्वेऽपि ञौ ज्वलह्वल इत्यादिना
केवलस्य ह्रस्वविकल्पनात् सोपसर्गस्य नित्यं
ह्रस्वः । वमयति वामयति प्रवमयति । इति
दुर्गादासः ॥

वमः, पुं स्त्री, वमनम् । इति वमधातोरच्प्रत्ययेन

निष्पन्नम् । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

वमथुः, पुं, (वमनमिति । वम् + “ट्वितोऽथुच् ।”

३ । ३ । ८९ । इति अथुच् ।) वमिः । (यथा,
सुश्रुते उत्तरतन्त्रे ४५ अध्यायः ।
“दौर्ब्बल्यश्वासकाशज्वरवमथुमदाः पाण्डुता-
दाहमूर्च्छाः ॥”)
हस्तिशुण्डनिर्गतजलकणा । तत्पर्य्यायः । कर-
शीकरः २ । इत्यमरः । २ । ६ । ५५ ॥ (यथा,
नैषधे । १९ । ६ ।
“रजनिवमथुप्रालेयाम्भः कणक्रमसंभृतैः
कुशकिशलयस्याच्छैरग्रेशयैरुदबिन्दुभिः ॥”)

वमनं, क्ली, (वम् + भावे ल्युट् ।) छर्द्दनम् ।

(यथा, सुश्रुते । १ । १२ ।
“मधुराम्लौ रसौ वापि वमनाय प्रदापयेत् ॥”
वमनद्रव्यमपि । यथा, कथासरित्सागरे
६४ । १७ ।
“स दत्त्वा वमनं कृच्छ्रात् मृतकल्पमजी-
वयत् ॥”)
अर्द्दनम् । इति मेदिनी । ने, १२३ ॥ आहुतिः ।
इति विश्वः ॥ (आहरणम् । यथा, रघुः ।
१५ । २९ ।
“या सौराज्यप्रकाशाभिर्बभौ पौरविभूतिभिः ।
स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशिता ॥” * ॥
अथ वमनकल्पीयविधिः ।
“वमने मदनं श्रेष्ठं त्रिवृन्मूलं विरेचने ।
नित्यमन्यस्य तु व्याधि विशेषेण विशिष्टता ॥
फलानि तानि पाण्डूनि न चातिहरितान्यपि ।
आदायाह्रि प्रशस्तर्क्षे मध्ये ग्रीष्मवसन्तयोः ॥
प्रमृज्य कुशमुत्तोल्यां क्षिप्त्वा वद्ध्वा प्रलेपयेत् ।
गोमयेनानुमुत्तोलीं धान्यमध्ये निधापयेत् ॥
मृदुभूतानि मध्विष्टगन्धानि कुशवेष्टनात् ।
निष्कृष्य निर्गतेऽष्टाहे शोषयेत्तान्यथातपे ॥
तेषां ततः सुशुष्काणामुद्धृत्य फलपिप्पलीः ।
दधिमध्वाज्यपललैर्मृदित्वा शोषयेत् पुनः ॥
ततः सुगुप्तं संस्थाप्य कार्य्यकाले प्रयोजयेत् ।
अथादाय ततो मात्रां जर्ज्जरीकृत्य वासयेत् ॥
शर्व्वरीं मधुयष्ट्या वा कोविदारस्य वा जले ।
कर्व्वुदारस्य विम्ब्या वा नीपस्य विदुलस्य वा ॥
शणपुष्प्याः सदा पुष्प्याः प्रत्यक्पुष्प्युदकेऽथवा ।
ततः पिबेत् कषायं तं प्रातर्मुदितगालितम् ॥
सूत्रोदितेन विधिना साधु तेन तथा वमेत् ।
श्लेष्मज्वरप्रतिश्यायगुल्भान्तर्व्विद्रधीषु च ॥”
“पित्ते कफस्थानगते जीमूतादिजलेन तत् ।
हृद्दाहेऽधोऽस्रपित्ते च क्षीरं तत्पिप्पली
शृतम् ॥
क्षैरेयीं वा कफच्छर्दिप्रसेकतमकेषु च ।
दध्युत्तरं वा दधि वा तत्स्रुतक्षीरसम्भवम् ॥
फलादिक्वाथकल्काभ्यां सिद्धं तत् सिद्धदुग्ध-
जम् ।
सर्पिः कफाभिभूतेऽग्नौ शुष्यद्देहे च वा मतम् ॥”
“वत्सकादिप्रतीवापः कषायः फलमज्जजः ।
निम्बार्कान्यतरक्वाथसमायुक्तो नियच्छति ॥
बद्धमूलानपि व्याधीन् सर्व्वान् सन्तर्पणोद्भवान् ।
वाटपुष्पफलश्लक्ष्णचूर्णैर्म्माल्यं सुरूक्षितम् ॥
वमेन्मण्ड वसादीनां तृप्तो जिघ्रन् सुखं सुखी ॥”
“इक्ष्वाकुर्व्वमने शस्तः प्रताम्यति च मानवे ।
फलपुष्पविहीनस्य प्रवालैस्तस्य साधितम् ।
पित्तश्लेष्मज्वरे क्षीरं पित्तोद्रिक्ते प्रयोजयेत् ॥”
“सक्तुभिर्व्वा पिबेन्मन्थं तुम्बीस्वरसभावितैः ।
कफोद्भवे ज्वरे कासे गलरोगेष्वरोचके ॥
गुल्मे ज्वरे प्रसक्ते च कल्कं मांसरसैः पिबेत् ।
नरः साधु वमत्येवं न च दौर्ब्बल्यमश्नुते ॥”
“जीवकर्षभकौवीरा कपिकच्छूः शतावरी ।
काकोलीश्रावणी मेदा महामेदा मधूलिका ॥
तद्रजोभिः पृथग्लेहा धामार्गवरजोऽन्विताः ।
कासे हृदयदाहे च शस्ता मधुसिताहृताः ॥”
“सर्षपाणां मधूकानां तोयेन लवणस्य वा ।
पाययेत् कौटजं बीजं युक्तं कृशरयाथवा ॥
पृष्ठ ४/२६८
सप्ताहं वार्कदुग्धाक्तं तच्चूर्णं पाययेत् पृथक् ।
फलजीमूतकेक्ष्वाकु जीवन्तीजीवकोदनैः ॥
वमनौषधमुख्यानामिति कल्पदिगीरिता ।
बीजेनानेन मतिमानन्यान्यपि च कल्पयेत् ॥”
इति वाभटे कल्पस्थाने प्रथमेऽध्याये ॥)

वमनः, पुं, (वमतीव शुक्लवर्णमिति । वम् + ल्युः ।)

शणः । इति राजनिर्घण्टः ॥

वमनी, स्त्री, (वमन + ङीप् ।) जलौका । इति

राजनिर्घण्टः ॥ (विवृतिरस्या जलौकाशब्दे
ज्ञातव्या ॥)

वमनीया, स्त्री, (वमयतीति । वम् + न्यर्थविवक्षा-

याम् । अभिधानात् कर्त्तरि अनीयर् ।) मक्षिका ।
इति राजनिर्घण्टः ॥ वमनयोग्ये, त्रि ॥

वमिः, स्त्री, (वमनमिति । वम् + सर्व्वधातुभ्य इन् ।

उणा० ४ । ११७ ।) प्रच्छर्द्दिका । इत्यमरः ।
२ । ६ । ५५ ॥ (अस्याः ससम्प्राप्तिलक्षणचिकित्सितं
पथ्यापथ्यञ्च यथा, --
“आमजे शूलरोगार्त्तिः पर्व्वभेदो भ्रमः क्लमः ।
शोषः शिरोव्यथा क्लेदो नेत्रे गम्भीरमिच्छति ॥
खल्ली वा चेतनं वापि अजीर्णाज्जायते वमिः ।
गर्म्भीरनेत्रो वमते विड्बन्धो वातिसार्य्यते ॥
गात्रे खल्ली करं शूलं तथा शोथोऽतिमूर्च्छना ।
विकलाङ्गो भ्रमार्त्तश्च भ्रमत्तदीक्षते जगत् ॥
शिरोर्त्तिर्वेपतेऽत्यर्थं करपादौ हिमोपमौ ।
एतैर्लिङ्गैस्तु संयुक्तां छर्द्दिं दूरे परित्यजेत् ॥”
चिकित्सा ।
“स पञ्चमूलीक्वथितः कषायः
ससैन्धवञ्चामलकञ्च कल्कः ।
क्वाथं पिबेन्मिश्रितपिप्पलीकं
स वातच्छर्दिर्व्विनिवारणञ्च ॥”
“आमलक्या रसेनाथ घृष्टं चन्दनकं मधु ।
गुटिकामलमानेन लेहो हन्ति वमिं ध्रुवम् ॥
चित्रककटुकरजनीद्वयञ्च फलत्रिकं मधुना च
यावशूकञ्च ।
समकृतमिति चृर्णमेतन्मधुना युतं वमिं निवा-
रयति ॥”
“काकोली काकमाची च क्वाथं शर्करया युतम् ।
लाजाशर्करसंयुक्तं हन्ति पित्तवमिं नृणाम् ॥
मातुलुङ्गरसश्चैव पथ्याशर्करया युतः ।
हन्ति कासं पित्तभवं वमिं शीघ्रं नियच्छति ॥
दृष्ट्वा पित्तवमिं घोरां सदाहभ्रमदायिनीम् ।
तत्रारग्वधपत्राणि मधुशर्करयान्वितम् ॥
क्षीरपानं प्रशस्तं वा मुस्ताशर्करयान्वितम् ।”
“जम्ब्वाम्लयोः प्रवालानि दाडिमामलकन्तथा ।
मस्तुनोपोषितं पानं हन्याच्छ्ले प्मवमिं नृणाम् ॥
सर्ज्जार्ज्जुनं धवकदम्बककोलचूर्णं
शुण्ठ्या च धान्यसहितं सगुडं प्रदद्यात् ।
श्लेष्मोद्भवं वमनमाशु निहन्ति पुंसां
शुण्ठीकणा मधुविडङ्गयुतोऽपि लेहः ॥”
“ऊर्द्ध्वगागगते दोषे विरेको हि प्रशस्यते ।
तस्मिन् जातेऽप्यधोभागं वमनं शाम्यति ध्रुवम् ॥
अथ द्बिभागमाप्तञ्चेत्तदा देयाभया मधु ।
क्रिमिजं वमनं ज्ञात्वा क्रिमीणां शमनक्रिया ॥
न चोष्णं नातिचाम्लञ्च न तीक्ष्णं न तथा लघु ।
तण्डुलीयकशाकं वा न मद्यं काञ्जिकं न तु ॥
वमिदोषे च कथितं पथ्यञ्चात्र शृणुष्व भे ।
आनूपं शालिभक्तञ्च शतपुष्पा च वास्तुकम् ॥
आढकी मुद्गयूषञ्च दधि सर्पिर्गुडान्वितम् ।
अङ्गारमण्डका चाथ वमौ पथ्यं प्रशस्यते ॥
यथाबलं यथाकालं यथारोगं यथानलम् ।
तथा दृष्ट्वा प्रकुर्व्वन्ति पथ्यानां समुपक्रमम् ॥
दिवानिद्रां प्रयुञ्जीत वमौ श्वासेऽतिसारके ।
हिक्काशोषे तथा जीर्णे वमिक्लेदेऽथवा पुनः ॥
न चोष्णतोयपानञ्च नातिभोजनमेव च ।
नधावनञ्च कर्त्तव्यं वर्ज्जयेद्वमनार्द्दिते ॥”
इति वैद्यके ॥)
अथ छर्द्द्यधिकारः । तत्र छर्द्दिविप्रकृष्टसन्नि-
कृष्टनिदानं पूर्ब्बरूपं संप्राप्तिञ्चाह ।
“अतिद्रवैरतिस्निग्धैरहृद्यैर्लवणैरपि ।
अकाले चातिमात्रैश्च तथा सात्म्यैश्च भोजनैः ॥
आमाद्भयात्तथोद्वेगादजीर्णात् कृमिदोषतः ।
नार्य्याश्चापन्नसत्त्वायास्तथातिद्रुतमश्नतः ॥
दुष्टैर्दोषैः पृथक् सर्व्वैर्वीभत्सालोकनादिभिः ।
वीभत्सैर्हेतुभिश्चान्यैर्मुक्तमुत्क्लिश्यते बलात् ॥”
आमात् असम्यक् पक्वाद्रसात् । अजीर्णात् यथा-
स्थिताद्भ, क्तात् । आपन्नसत्त्वायाः प्राप्तगर्भायाः ।
अन्यैर्वीभत्सैर्विकृतैर्हेतुभिः घृणाकारिभिः
अनिष्टश्रवणस्पर्शनदर्शनभक्षणघ्राणैरुत्क्लिश्यते-
ऊर्द्धं नोत्वा मुखाद्बहिष्क्रियते ॥ * ॥ पूर्व्वरूप-
माह ।
“हृल्लासोद्गाररोधौ च प्रसेको लवणास्थता ।
द्देषोऽन्नपाने च भृशं वमीनां पूर्व्वलक्षणम् ॥”
छर्द्देः सामान्यलक्षणमाह ।
“छादयन्नाननं वेगैरर्द्दयन्नङ्गभञ्जनैः ।
निरुच्यते छर्द्दिरिति दोषो वक्त्रं प्रधावितः ॥
छादयन् पूरयन् अङ्गभञ्जनैः अङ्गभेदैः अर्द्दयन्
अद्गानि पीडयन् । वक्त्रं प्रधावितः वक्त्रं प्रति
धावितः दोषः छर्द्दिर्निरुच्यते ॥” * ॥ वातजाया
लक्षणमाह ।
“हृत्पार्श्वपीडामुखशोषशीर्ष-
नाभ्यर्त्तिकासस्वरभेदतोदैः ।
उद्गारशब्दप्रबलं सफेनं
विच्छिन्नकृष्णं तनुकं कषायम् ॥
कृच्छ्रेण चाल्पं महता च वेगे-
नार्त्तोऽनिलाच्छर्द्दयतीव दुःखम् ॥”
कषायं कषायरसम् । दुःखं दुःखमिव छर्द्द-
यति ॥ * ॥ पित्तजामाह ।
“मूर्च्छापिपासामुखशोषमूर्द्ध-
ताल्वक्षिसन्तापतमोभ्रमार्त्तः ।
पीतं भृशोष्णं हरितञ्च तिक्तं
धूम्रञ्च पित्तेन वमेत् सदाहम् ॥” * ॥
कफजामाह ।
“तन्द्रास्यमाधुर्य्यकफप्रसेकं
सन्तोषनिद्रारुचिगौरवार्त्तः ।
स्निग्धं घनं स्वादु कफाङ्गि शुक्लं
सलोमहर्षोऽल्परुजं वमेत्तु ॥”
सन्तोषस्तृप्तिः ॥ * ॥ त्रिदोषजामाह ।
“शूलाविपाकारुचिदाहतृष्णा-
श्वासप्रमोहप्रबलाप्रसक्तम् ।
छर्द्दिस्त्रिदोषाल्लवणाम्लनील-
सान्द्रोष्णरक्तं वमतां नृणां स्यात् ॥”
आगन्तुजामाह ।
“असात्म्यजां च क्रिमिजामजा च
वीभत्सजा दौर्हृदजा च या हि ।
सा पञ्चमी ताञ्च विभावयेच्च
दोषोच्छ्रयेणैव यथोक्तमादौ ॥”
एताः पञ्चागन्तुजत्वेन साम्यादेकैव अतएव सा
आगन्तुजा पञ्चमी विभावयेत् अनुवन्धयेत् ॥ * ॥
उपद्रवानाह ।
“कासः श्वासो ज्वरस्तृष्णा हिक्का वैचित्यमेव च ।
हृद्रोगस्तमकश्चैव ज्ञेयाश्छर्द्देरुपद्रवाः ॥
वैचित्यं विकृतचित्तत्वम् । तमकोऽत्र तमः ।
श्वासपदेनैव तमकाख्यस्यापि श्वासस्योक्तत्वात् ॥
असाध्यां साध्याञ्चाह ।
“क्षीणस्य या च्छर्द्दिरतिप्रसक्ता
सोपद्रवा शोषितरूपयुक्ता ।
सचन्द्रिकां तां प्रवदेदसाध्यां
साध्यां चिकित्सेत् निरुपद्रवाञ्च ॥”
सचन्द्रिका मयूरपिच्छचन्द्रिकाप्रभायुक्ता ॥ * ॥
अथ छर्द्देश्चिकित्सा ।
“आमाशयोत्क्लेशभवा हि सर्व्वा-
श्छर्द्यो मता लंवनमेव तस्मात् ।
विधीयते मारुतजां विना तु
संशोधनं वा कफपित्तहारि ॥”
अत्र द्वितीयपादे छर्द्दीशब्दः ॥
“हन्यात् क्षीरोदकं पीतं छर्द्दिं पवनसम्भ-
वाम् ।
मुद्गामलकयूषो वा ससर्पिष्कः ससैन्धवः ॥”
क्षीरोदकं नाशितस्य क्षीरस्य उदकम् ॥ २ ॥
“गुडूचीत्रिफलानिम्बपटोलैः क्वथितं जलम् ।
पिबेन्मधुयुतं तेन छर्द्दिर्नश्यति पित्तजा ॥ ३ ॥
हरीतकीनां चूर्णन्तु लिह्यान्माक्षिकसंयुतम् ।
अधोमार्गीकृते दोषे छर्द्दिः शीघ्नं निवर्त्तते ॥ ४ ॥
बिडङ्गत्रिफलाविश्वाचूर्णं मधुयुतं पिबेत् ।
विडङ्गप्लवशुण्ठीनां चूर्णं वा कफजां वमिम् ॥”
प्लवं कैवर्त्तीमुस्तम् । गुडतजी इति लोके ॥ ५ ॥
“पिष्ट्वा घात्रीफलं लाजान् शर्करां च पलो-
न्मिताम् ।
दत्त्वा मधुपलञ्चापि कुडवं सलिलस्य च ।
वाससा गालितं पीतं हन्ति छर्द्दिं त्रिदोष-
जाम् ॥ ६ ॥
गुडच्या रचितं हन्ति हिमं मधुसमन्वितम् ।
दुर्निवारामपि च्छर्द्दिं त्रिदोषजनितां बलात् ॥ ७
एलालवङ्गगजकेशरकोलमज्ज-
लाजप्रियङ्गु घनचन्दनपिप्पलीनाम् ।
चूर्णानि माक्षिकसितासहितानि लीढ्वा
पृष्ठ ४/२६९
छर्द्दिं निहन्ति कफमारुतपित्तजाताम् ॥”
इति एलादिचूर्णम् ॥ ८ ॥
“अश्वत्थवल्कलं शुष्कं दग्धं निर्व्वासितं जले ।
तज्जलं पानमात्रेण छर्द्दिं जयति दुर्ज्जयाम् ॥ ९ ॥
पथ्यात्रिकटुधान्याकजीरकाणां रजो लिहन् ।
मधुना नाशयेच्छर्द्दिमरुचिञ्च त्रिदोषजाम् ॥ १० ॥
विल्वत्वचो गुडूच्या वा क्वाथः क्षौद्रेण संयुतः ।
छर्दिं त्रिदोषजां हन्ति पर्प्पटः पित्तजां
तथा ॥ ११ ॥
आम्रास्थिविल्वनिर्यूहः पीतः समधुशर्करः ।
निहन्यात् छर्द्यतीसारं वैश्वानर इवाहुतिम् ॥”
इति निर्यू हक्वाथः ॥ १२ ॥
“जम्ब्वाम्रपल्लवशृतं लाजरजःसंयुतं शीतम् ।
शमयति मधुना युक्तं वमिमतिसारं तृषार्त्ति-
मुग्राम् ॥ १३ ॥
वीभत्सजां हृद्यतमैरिष्टैर्दौहृदजां फलैः ।
लङ्घनैरामजां छर्द्दि जयेत् सात्म्यैरसात्म्य-
जाम् ॥ १४ ॥
कृमिहृद्रोगवद्धन्यात् वमिं कृमिसमुद्भवाम् ।
तत्र तत्र यथादोषं क्रियां कुर्य्यात् चिकित्-
सकः ॥” १५ ॥
इति छर्द्यधिकारः । इति भावप्रकाशः ॥

वमिः, पुं, (वमति उद्गिरति धूमादिकमिति ।

टुवम उद्गिरणे + “इक् कृष्यादिभ्यः ।” इतीक् ।)
अग्निः । इति मेदिनी । मे, २९ ॥ धूर्त्तः । इति
शब्दरत्नावली ॥

वमितः, त्रि, (वम् + क्तः ।) वान्तः । (यथा, --

“वमितं लङ्घयेत् प्राज्ञो लङ्घितं नतु वामयेत् ।
वमने क्लेशबाहुल्यात् हन्याल्लङ्घनकर्षितम् ॥”
इत्युद्भटः ॥”)
वमनकृतवस्तु । इति मुग्धबोधव्याकरणम् ॥

वम्भः, पुं, वंशः । इति शब्दरत्नावली ॥

वम्रीकूटः, पुं, वल्मीकः । इति हेमचन्द्रः ॥

वय, ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) ङ, वयते । इति दुर्गा-
दासः ॥

वयं, त्रि, अस्मदादिः । आमरा इति भाषा ।

अस्मच्छब्दस्य वयादेशे जसि रूपोऽयम् । इति
व्याकरणम् ॥ (यथा, --
“एको भवामि स्म भवेऽहमादौ
दारैरथोभौ स्म भवाव आवाम् ।
वयं भवामो बहवः स्म पुत्त्रै-
स्त्वन्माययाद्यापि विभो प्रसीद ॥”
इति मुग्धबोधव्याकरणम् ॥)

वयः, [स्] क्ली, (वयते वेति अजतीति वा । वय

ङ गतो वीगतौ अजगतौ वा + असुन् । अजते-
र्वीभावः ।) पक्षी । (यथा, विष्णुपुराणे । १ ।
५ । ४६ ।
“ततः स्वच्छन्दतोऽन्यानि वयांसि वयसो-
ऽसृजत् ॥”)
वाल्यादिः । इत्यमरः । ३ । ३ । २२९ ॥ (यथा,
महामारते । ३ । ६८ । २३ ।
“तुल्यर्शीलवयोयुक्तां तुल्याभिजनसंयुताम् ।
नैषधोऽर्हति वैदभीं तञ्चेयमसितेक्षणा ॥”
अन्नम् । इति निघण्टुः । २ । ७ ॥ यथा, ऋग्-
वेदे । २ । २० । १ ।
“वयं ते वय इन्द्र विद्धि षुणः प्रभरामहे वाजयु-
र्नरथम् ॥”)
यौवनम् । इति मेदिनी । से, ३५ ॥ * ॥ वयो-
विशेषे कर्त्तव्यानि यथा, --
“शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् ।
वार्द्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥”
इति रघुवंशे १ सर्गः ॥ * ॥
अपि च ।
“प्रथमेनार्ज्जिता विद्या द्वितीये नार्ज्जितं धनम् ।
तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यति ॥”
इति चाणक्यशतकम् ॥
वयोविशेषाणां नियमा यथा, --
“कौमारं पञ्चमाब्दान्तं पौगण्ड्यं दशमावधि ।
कैशोरमापञ्चदशात् यौवनञ्च ततः परम् ॥”
इति प्रायश्चित्ततत्त्वधृतवचनम् ॥ * ॥
अपि च ।
“आषोडशाद्भवेद्बालस्तरुणस्तत उच्यते ।
वृद्धः स्यात् सप्ततेरूर्द्ध्वं वर्षीयान् नवतेः परम् ॥”
इति भरतधृता स्मृतिः ॥ * ॥
अन्यच्च ।
“बाल्यं वृद्धिर्वयो रूपं चक्षुस्त्वक् श्रोत्ररेतसी ।
दशकेन निवर्त्तन्ते मनः सर्व्वन्द्रियाणि च ॥”
इति महाभारतम् ॥ * ॥
(“कालप्रमाणविशेषापेक्षिणी हि शरीरावस्था
वयोऽमिधीयते । तद्वयो यथा स्थूलभेदेन
त्रिविधम् । बालं मध्यं जीर्णमिति । तत्र वाल-
मपरिपक्वधातुगुणमजातव्यञ्जनं सुकुमाराक्लेश-
सहमसम्पूर्णबलं श्लेष्मधातुप्रायं आषोडशवर्षम् ।-
विवर्द्धमानधातुमुणं पुनः प्रायेणानवस्थितसत्त्व-
मात्रिंशद्वर्षमुपदिष्टम् । मध्यं पुनः समर्थागत-
बलवीर्य्यपौरुषपराक्रमग्रहणस्मरणवचनविज्ञान-
सर्व्वधातुगुणं पित्तधातुप्रायमाषष्टिवर्षमुद्दिष्टम् ।
अतःपरं परिहीयमानधात्विन्द्रियबलपौरुषपरा-
क्रमग्रहणधारणस्मरणवचनविज्ञानं भ्रश्यमान-
धातुगुणं वातधातुप्रायं क्रमेण प्रजीर्णमुच्यते आ-
वर्षशतम् ।” इति चरके विमानस्थानेऽष्टमेऽध्याये ॥
“वयस्तु त्रिविधं बालं मध्यं वृद्धमिति । तत्रोन-
षोडशवर्षा बालास्तेपि त्रिविधाः क्षीरपाः
क्षीरान्नादा अन्नादा इति । तेषु संवत्सरपराः
क्षीरपा द्बिसंवत्सरपराः क्षीरान्नादाः परतो-
ऽन्नादा इति ॥ षोडशसप्तत्योरन्तरे मध्यं वय-
स्तस्य विकल्पो वृद्धिर्यौवनं सम्पूर्णता हानि-
रिति । तत्राविंशतेर्वृद्धिरात्रिंशतो यौवनमा-
चत्वारिंशतः सर्व्वधात्विन्द्रियबलवीर्य्यसम्पूर्णता ।
अत ऊर्द्ध्वमीषत्परिहाणिर्यावत् सप्ततिरिति ॥
सप्ततेरूर्द्ध्वं क्षीयमाणधात्विन्द्रियबलवीर्य्योत्साह-
महन्यहनिवलीपलितखालित्यजुष्टं कासश्वास-
प्रभृतिभिरुपद्रवैरभिभूयमानं सर्व्वक्रियास्वसमर्थं
जीर्णागारमिवाभिवृष्टमवसीदन्तं वृद्धमाचक्षते ॥
तत्रोत्तरोत्तरासु वयोऽवस्थासूत्तरोत्तरा भेषज-
मात्राविशेषा भवन्त्यृते च परिहाणे स्तत्राद्या
पेक्षया प्रतिकुर्व्वीत । भवन्ति चात्र ।
वाले विवर्द्धते श्लेष्मा मध्यमे पित्तमेव तु ।
भूयिष्ठं वर्द्धते वायुर्वृद्धे तद्वीक्ष्य योजयेत् ॥
अग्निक्षारविरेकैस्तु बालवृद्धौ विवर्ज्जयेत् ।
तत्साध्येषु विकारेषु मृद्बीं कुर्य्यात् क्रियां
शनैः ॥”
इति सुश्रुते सूत्रस्थाने ३५ अध्यायः ॥

वयःस्थः, त्रि, (वयसि यौवने तिष्ठतीति । वयस् +

स्था + कः ।) युवा । इति हेमचन्द्रः । ३ । ३ ॥
(यथा, महाभारते । १ । ४२ । ४ ।
“पित्रा पुत्त्रो वयःस्थोऽपि सततं वाच्य एव तु ॥”)

वयस्थः, त्रि, युवा । इत्यमरः । २ । ६ । ४२ ॥

वयसि यौवने तिष्ठति इति वयस्थः डः निपा-
ताद्विसर्गस्य वा लुक् वयःस्थश्च ॥ वयःपक्षिणि
बाल्यादौ वयो यौवनमात्रके । इति विश्वः ।
इति भरतः ॥

वय(यः)स्था, स्त्री, (वयो यौवनं तिष्ठत्यनयेति । वयस्

+ स्था + घञर्थे कः । निपातनात् वा विसर्गस्य
लोपः ।) आमलकी । हरीतकी । सोमवल्लरी ।
इत्यमरः । २ । ४ । १३७ ॥ गुडूची । सूक्ष्मैला ।
काकोली । आली । इति मेदिनी । थे, ३२ ॥
शाल्मलिः । इति हेमचन्द्रः ॥ क्षीरकाकोली ।
इति भावप्रकाशः ॥ अत्यम्लपर्णी । (यथा,
सुश्रुते उत्तरतन्त्रे । ३२ ।
“वचा वयस्था गोलोमी हरितालं मनःशिला ।
कुष्ठं सर्ज्जरसश्चैव तैलार्थे वर्ग इष्यते ॥”)
मत्स्याक्षी । युवती । इति राजनिर्घण्टः ॥

वयस्यः, पुं, (वयसा तुल्यः । वयस् + “नौवयो-

धर्म्मेति ।” ४ । ४ । ९१ । इति यत् ।) समान-
वयस्कः । तत्पर्य्यायः । स्निग्धः २ सवयाः ३ ।
इत्यमरः । २ । ८ । १२ ॥ (यथा, आर्य्यासप्त-
शत्याम् । ४०३ ।
“बहुयोषिति लाक्षारुणशिरसि वयस्येन दयित
उपहसिते ।
तत्कालकलितलज्जा पिशुनयति सखीषु सौभा-
ग्यम् ॥”)

वयस्या, स्त्री, (वयस्य + टाप् ।) सखी । इत्यमरः ।

२ । ६ । १२ । (यथा, कथासरित्सागरे । १० ।
१४५ ।
“अत्यर्थं सा च दृष्ट्वा त्वां जायते मदनातुरा ।
तां भजस्व वयस्यां मे ततः क्षेममवाप्स्यसि ॥”
इष्टका । यथा, शतपथब्राह्मणे । १० । ४ । ३ । १५ ।
“एकया न विंशतिर्व्वयस्यास्ता एकचत्वारिंश-
द्द्वितीया चितिः ।” तथाच, वाजसनेयसंहिता-
भाष्ये । १४ । ९ ।
“वयस्यासंज्ञका इष्टका उपदधात्येकोविंशति-
मन्त्रैरित्यर्थः ॥”)

वयुनं, क्ली, (वीयते गम्यते प्राप्यते विषया अनने-

नेति । अज गतौ + “अजियमिशीङ्भ्यश्व ।”
पृष्ठ ४/२७०
उणा० ३ । ६१ । इति उनण् । स च कित् ।
अजेर्व्वीभावः ।) ज्ञानम् । यथा, --
“हस्ताग्राह्ये रचयति विधिं पीठकोदूखलाद्यै-
श्छिद्रं ह्यन्तर्निहितवयुनः शिक्यभाण्डेषु तद्वित् ।”
इति श्रीभागवते १० स्कन्धे ८ अध्यायः ॥
शिक्यभाण्डेषु अन्तर्निहितदध्यादौ वयुनं ज्ञानं
यस्य सः । इति तट्टीकायां श्रीधरस्वामी ॥

वयुनः, पुं, (वीयते गम्यते ऽत्रेति । अज गतौ +

उनण् ।) देवतागारम् । इत्युणादिकोषः ।
(एतदर्थे क्लीवलिङ्गः । इति उज्ज्वलदत्तः ।
३ । ६१ ॥ विषणागर्भजातः कृशाश्वस्य पुत्त्रः ।
यथा, भागवते । ६ । ६ । २० ।
“कृशाश्वोऽर्च्चिषि भार्य्यायां धूमकेतुमजीजनत् ।
विषणायां वेदशिरं देवलं वयुनं मनुम् ॥”)

वयोधाः, [स्] पुं, (वयो यौवनं दधातीति । वयम् +

धा + “वयसि धाञः ।” उणा० ४ । २२८ ।
इति असिः । स च डित् ।) युवा । इत्युणादि-
कोषः ॥ (अन्नम् । यथा, वाजस्ननेयसंहिता-
याम् । १५ । ७ ।
“वयोधसाधीतेनाधीतं जिन्व ।”
“वयोधसा वयो दधाति पुष्णाति वयोधा अन्नं
तेनाधीतेनाध्ययनायोपहिताधीतं जिन्व ॥”
इति तद्भाष्ये महीधरः ॥ आयुर्दातरि, त्रि ।
यथा, वाजसनेयसंहितायाम् । २८ । २४ ।
“अग्निमिन्द्रं वयोधसम् ॥”
“दैव्यो होता अग्निं वयोधसमिन्द्रञ्च यजतु वय
आयुर्दधाति वयोधास्तमायुषो दातारं धारयि-
तारं वा ।” इति तद्भाष्ये महीधरः ॥)

वयोवङ्गं, क्ली, (वयसा वङ्गमिव ।) सीसकम् ।

इति राजनिर्घण्टः ॥

वर, त् क ईप्से । इति कविकल्पद्रुमः ॥ (अदन्त-

चुरा०-पर०-सक०-सेट् ।) रेफोपधः । वरयति ।
इति दुर्गादासः ॥

वरं, क्ली, (व्रियते इति । वृ + कर्म्मणि अप् ।)

कुङ्कुमम् । मनाक्प्रियम् । इत्यमरः । तथा च ।
“वरं प्राणास्त्याज्या न च शिशुविनाशेष्वभिरति-
र्वरं मौनं कार्य्यं न च वचनमुक्तं यदनृतम् ।
वरं क्लीवं भाव्यं न च परकलत्राभिगमनं
वरं भिक्षाशित्वं न च परधनानां हि हरणम् ॥”
इति वामनपुराणे ५६ अध्यायः ॥
त्वचम् । धालकम् । आर्द्रकम् । इति राज-
निर्घण्टः ॥

वरं [म्] व्य, मनाक्प्रियम् । यथा, --

“मनागिष्टे वरं क्लीवं केचिदाहुस्तदव्ययम् ॥”
इति मेदिनी । वे, ६३ ॥

वरंवरा, स्त्री, (वरं वृणोतीति । वृ + अच् ।

मुम् च ।) चक्रपर्णी । इति शब्दचन्द्रिका ॥
चाकुलिया इति भाषा ॥

वरः, पुं, (वृ + अप् ।) वरणम् । तत्पर्य्यायः ।

वृतिः २ । इत्यमरः । ३ । २ । ८ ॥ द्वे वेष्टने ।
प्राथेनाविशेषे इत्यन्ये । इति भरतः ॥ देवाद्-
वृवः । देवसकाशात् याचितः । उक्तञ्च ।
“तपोभिरिष्यते यस्तु देवेभ्यः स वरो मतः ॥”
इति च भरतः ॥
जामाता । (यथा, रघुः । ६ । ८६ ।
“प्रमुदितवरपक्षमेकतस्तत्
क्षितिपतिमण्डलमन्यतो वितानम् ॥”)
षिड्गः । इति मेदिनी । रे, ६२ ॥ गुल्गुलुः । इति
शब्दरत्नावली ॥ पतिः । इति हेमचन्द्रः । ३ । १८० ॥
(निग्रहः । यथा, ऋग्वेदे । १ । १४३ । ५ ।
“न यो वराय मरुतामिव स्वनः सेनेव सृष्टा
दिव्या यथाशनिः ॥”
“योऽग्निर्वराय वरणाय निग्रहाय शक्तो न
भवति ॥” इति तद्भाष्ये सायणः ॥)

वरः, त्रि, (वृ + अप् ।) श्रेष्ठः । इत्यमरः । ३ । ३ ।

१७२ ॥ (यथा, विष्णुपुराणे । १ । ११ । १८ ।
“राजासनं राजच्छत्रं वराश्वा वरवारणाः ।
यस्य पुण्यानि तस्यैते मत्वैतत् शाम्य पुत्त्रक ॥”)

वरकं, क्ली, (व्रियते अनेन । वृ + अप् । ततः

संज्ञायां कन् ।) पोताच्छादनम् । इति हारा-
वली । ६९ ॥ धौताधौतसाधारणवस्त्रम् । इति
शब्दरत्नावली ॥

वरकः, पुं, (व्रियते लोकैरिति । वृ + अप् । ततः

कन् ।) वनमुद्गः । इति हेमचन्द्रः । ४ । २३९ ॥
पर्प्पटः । इति राजनिर्घण्टः ॥ तृणधान्यभेदः ।
चीना इति भाषा । तत्पर्य्यायः । स्थूलकङ्गुः २
रूक्षः ३ स्थूलप्रियङ्गुः ४ । अस्य गुणाः । मधु-
रत्वम् । रूक्षत्वम् । कषायत्वम् । वातपित्त-
कारित्वञ्च । इति राजनिर्घण्टः ॥ (वर + स्वार्थे
कन् । प्रार्थनाविशेषः । यथा, महाभारते ।
३ । १०७ । ५३ ।
“स वव्रे तुरगं तत्र प्रथमं यज्ञकारणात् ।
द्बितीयं वरकं वव्रे पितॄणां पावनेच्छया ॥”)

वरक्रतुः, पुं, (वराः श्रेष्ठाः क्रतवो यस्य शता-

श्वमेधित्वात् तथात्वम् । यद्वा, वरः क्रतुर्यस्मात् ।
पुतक्रतुत्वात् तथात्वम् ।) इन्द्रः । इति हेम-
चन्द्रः । २ । ८७ ॥

वरचन्दनं, क्ली, (वरं श्रेष्ठं चन्दनम् ।) काली-

यम् । देवदारु । इति मेदिनी । ने, २४२ ॥

वरटं, क्ली, (व्रियते इति । वृ + “शकादिभ्यो-

ऽटन् ।” उणा० ४ । ८१ । इति अटन् ।)
कुन्दपुष्पम् । इति शब्दरत्नावली ॥

वरटः, पुं, (वरति सेवते सरोवरमिति । वृ ञ

सेवायाम् + “शकादिभ्योऽटन् ।” उणा० ४ ।
८१ । इति अटन् ।) हंसः । इति मेदिनी । टे,
५१ ॥ कीटविशेषः । वोल्ता इति भाषा ।
तत्पर्य्यायः । गन्धोली २ वरटा ३ । इत्यमरः ॥
गन्धोलिः ४ वरला ५ । इति शब्दरत्नावली ।
वरली ६ । इति जटाधरः ॥ क्षुद्रा ७ क्रूरा ८
क्षुद्रवर्व्वणा ९ । इति राजनिर्घण्टः ॥

वरटा, स्त्री, (वरट + टाप् ।) हंसी । (यथा,

नैषधे । १ । १३५ ।
“मदेकपुत्त्रा जननी जरातुरा
नवप्रसूतिर्वरटा तपस्विनी ॥”)
वरला । इत्यमरः । २ । ५ । २५ ॥ कुसुम्भ-
बीजम् । इति भावप्रकाशः ॥ (श्चस्या गुणा
यथा, --
“वरटा मधुरा स्निग्धा रक्तपित्तकफापहा ।
कषाया शीतला गुर्व्वी स्यादवृष्यानिलापहा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वरटी, स्त्री, (वरट + जातौ ङीष् ।) हंसी ।

इति मेदिनी । टे, ५१ ॥ गन्धोली । इति त्रिकाण्ड-
शेषः ॥ (यथा, सुश्रुते कल्पस्थाने ३ अध्याये ।
“सूक्ष्मतुण्डोच्चिटिङ्गवरटीशत पदीशूकवल-
भिकाशृङ्गीभ्रमराः शूकतुण्डविषाः ॥”)

वरट्टिका, स्त्री, कुसुम्भबीजम् । तत्पर्य्यायः ।

वरटा २ । अस्या गुणाः । मधुरत्वम् । स्निग्ध-
त्वम् । रक्तपित्तकफापहत्वम् । कषायत्वम् ।
शीतलत्वम् । गुरुत्वम् । अवृष्यत्वम् । अनिला-
पहत्वञ्च । इति भावप्रकाशः ॥

वरणं, क्ली, (वृ + भावे ल्युट् ।) कन्यादिवरणम् ।

(यथा, महाभारते । १ । १९० । ७ ।
“न च विप्रेष्वधीकारो विद्यते वरणं प्रति ।
स्वयंवरः क्षत्त्रियाणामितीयं प्रथिता श्रुतिः ॥”)
वेष्टनम् । इति मेदिनी । णे, ६५ ॥ पूजनादि । इति
शब्दरत्नावली ॥ * ॥ अथ वरणविधिः । तेषा-
माचार्य्यादीनां होमसाध्ये कर्म्मणि होमा-
रम्भात् पूर्ब्बमानत्यर्थं यजमानेन स्वयं वरणं
कार्य्यम् । दानवाचनान्वारम्भवरणव्रतप्रमाणेषु
यजमानं प्रतीयात् । इति हरिशर्म्मधृतकात्या-
यनसूत्रात् । तत्र ब्रह्मवरणं प्रथमतः । ज्योति-
ष्टोमे । ब्रह्मोद्गातृहोत्रध्वर्य्य्वित्यादिक्रमदर्शने-
नान्यत्राकाङ्क्षया दृष्टपरिकल्पनाया न्याय्य-
त्वात् । सुगतिसोपानप्रभृतयोऽप्येवम् । वरणन्तु ।
गन्धादिदानद्बारा प्रीतिमुत्पाद्य कर्म्मकरणाय-
प्रेरणम् । तत्र च । सर्व्वत्र प्राङ्मुखो दात
ग्रहीता च उदङ्मुखः । इति वचनात् यज-
मानस्य प्राङ्मुखत्वं आचार्य्यादीनामुदङमुखत्वं
प्रतीयते । वरणविधिमाह कात्यायनः । आसन-
माहार्य्य आह साधु भवानास्तामर्च्चयिष्यामो
भवन्तमिति । आसनमाहार्य्यानीय संस्थाप्याह
साधु भवानास्तामिति । साध्वहसासे इति
प्रतिवचनम् । अर्च्चयिष्यामो मवन्तमिति पुन-
रुक्ते अर्च्चय इति प्रतिवचनं सामर्थ्यात् ।
इति हरिशर्म्मा । इति संस्कारतत्त्वम् ॥ * ॥
मेदिनीमते पवर्गीयबकारादिशब्दोऽयम् । किन्तु
अन्तः स्थवकरादिवृधातोरनट्प्रत्ययेन निष्पन्न-
त्वादत्र लिखितः ॥

वरणः, पुं, (व्रियते अनेन वृणोतीति वा । वृ +

“सुयुरुवृञो युच् ।” उणा० २ । ७४ ॥ इति
युच् ।) प्राकारः । वरुणवृक्षः । इत्यमरः । २ ।
२ । ३ । (यथा, किराते । ५ । २५ ।
“इह सिन्धवश्च वरणावरणाः
करिणां मुदे सनलदानलदाः ॥”)
उष्ट्रः । इति हारावली । ८१ ॥ संक्रमः ।
इति हलायुधः ॥ साँको इति भाषा ॥
पृष्ठ ४/२७१

वरणसी, स्त्री, वाराणसी । इति शब्दरत्नावली ॥

वरणा, स्त्री, (वरण + टाप् ।) नदीविशेषः ।

इति शब्दरत्नावली ॥ सा तु वाराणस्युत्तर-
सीमा । तस्या उत्पत्तिर्यथा, --
हरिरुवाच ।
“महेश्वर शृणुष्वेमां मम वाचं कलस्वनाम् ।
ब्रह्महत्याक्षयकरीं शुभदां पुण्यवर्द्धिनीम् ॥
योऽसौ प्राङ्मण्डले पुण्ये मदंशप्रभवोऽव्ययः ।
प्रयागे वसते नित्यं योगशायी तु विश्रुतः ॥
चरणाद्दक्षिणात्तस्य विनिर्याता सरिद्वरा ।
विश्रुता वरणेत्येवं सर्व्वपापहरा शुभा ॥
सव्यादन्या द्वितीया च असिरित्येव विश्रुता ।
ते उभे च सरिच्छ्रेष्ठे लोकपूज्ये बभूवतुः ॥
ताभ्यां मध्ये तु यो देशस्तत् क्षेत्रं योगशायिनः ।
त्रैलोक्यप्रभवं तीर्थं सर्व्वपापप्रमोचनम् ॥
न तादृशोऽस्ति गगने न भूम्यां न रसातले ।
तत्रास्ति नगरी पुण्या ख्याता वाराणसी शुभा ।
यस्यान्तु भोगिनो नाशं प्रयान्ति भवतो लयम् ॥”
इति वामने ३ अध्यायः ॥

वरण्डः, पुं, (वृणोतीति । वृ + “अण्डन्कृसृभृ-

वृञः ।” उणा० १ । १२८ । इति अण्डन् ।)
अन्तरावेदिः । समूहः । मुखरोगः । स तु व्रण
इति वयस् फोडा इति च भाषा । इति मेदिनी ।
डे, ३३ ॥ तन्मते पवर्गीयबकारादिरयं किन्तु
अन्तःस्थवकारादिवृञ्धातोरौणादिक अण्डन्
प्रत्ययनिष्पन्नत्वादत्र लिखितः ॥

वरण्डकः, पुं, (वरण्ड + स्वार्थे संज्ञायां वा कन् ।)

मातङ्गवेदिः । हातीर हाओदा इति भाषा ।
यौवनकण्टकः । वयस् फोडा इति भाषा ।
वर्त्तुलः । गोल इति ख्यातः । इति मेदिनी ।
के, २०३ ॥ भित्तिः । इति हेमचन्द्रः ॥ मेदिनी-
कारेण अयं पवर्गीयबकारादौ लिखितः ।
किन्तु हेमचन्द्रेन वृञ्धातुनिष्पन्नत्वात् अन्तःस्थ-
वकारादौ परिगणितः ॥

वरण्डकः, त्रि, (वरण्ड + कन् ।) विशालः । भय-

सम्पन्नः । कृपणः । इति शब्दरत्नाशली ॥

वरण्डा, स्त्री, (वरण्ड + टाप् ।) सारिका । वर्त्तिः ।

शस्त्रभेदः । इति मेदिनी । ते, ३६ ॥

वरण्डालुः, पुं, (वरण्ड इव आलुरत्र ।) एरण्ड-

वृक्षः । इति त्रिकाण्डशेषः ॥

वरतिक्तः पुं, (वरः श्रेष्ठस्तिक्तस्तिक्तरसो यस्य ।)

कुटजवृक्षः । इति राजनिर्घण्टः ॥ (पर्प्पटकः ।
तत्पर्य्यायो यथा, --
“पर्पटो वरतिक्तश्च स्मृतः पर्पटकश्च सः ।
कथितः पांशुपर्य्यायस्तथाकवचनामकः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वरतिक्तिका, स्त्री, (वरतिक्त + स्वार्थे कन् । टाप् ।

अत इत्वम् ।) पाठा । इति राजनिर्घण्टः ॥
आकनादि इति भाषा ॥ (यथास्याः पर्य्यायः ।
“पाठावष्टावष्टकीच प्राचीना पापचेलिका ।
एकष्ठीला रसा प्रोक्ता पाठिका वरतिक्तिका ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वरत्करी, स्त्री, रेणुकानामगन्धद्रव्यम् । इति शब्द-

चन्द्रिका ॥

वरत्रा, स्त्री, (व्रियतेऽनयेति वृ + “वृञश्चित् ।”

उणा० ३ । १०७ । इति अत्रन् । टाप् ।) हस्ति-
कक्षरज्जुः । काछदडी इति ख्याता । तत्पर्य्यायः ।
चूषा २ कक्ष्या ३ कक्षा ४ । चर्म्मरज्जुः । तत्-
पर्य्यायः । नद्ध्री २ वद्ध्री ३ वर्द्ध्री ४ वाद्ध्री ५ ।
इत्यमरभरतौ ॥ (यथा, ऋग्वेदे । १० ।
६० । ८ ।
“यथायुगं वरत्रया नह्यति धरुणायकम् ॥”)

वरत्वचः, पुं, (वरा हितकरी त्वचा यस्य ।)

निम्बवृक्षः । इति रत्नमाला ॥

वरदः, त्रि, (वरं ददातीति । दा + “आतोऽनुप-

सर्गेति ।” ३ । २ । ३ । इति कः ।) अभीष्ट-
दाता । तत्पर्य्यायः । समर्द्धकः २ । इत्यमरः ।
३ । १ । ७ ॥ समर्द्धः ३ वाञ्छितार्थदः ४ । इति
शब्दरत्नावली ॥ (यथा, महाभारते । १ ।
२ । २१७ ।
“वरदं तं वरं वव्रे साहाय्यं क्रियतां मम ।
शल्यस्तस्मै प्रतिश्रुत्य जगामोद्दिश्य पाण्डवान् ॥”)
प्रसन्नः । इति मेदिनी । दे, ३७ ॥

वरदा, स्त्री, (वरद + टाप् ।) कन्या । इति

मेदिनी । दे, ३७ ॥ आदित्यभक्ता । इति राज-
निर्घण्टः ॥ (पर्य्यायो यथा, --
“सुवर्च्चला सूर्य्यभक्ता वरदा वदरापि च ।
सूर्य्यावर्त्ता रविप्रीता परा ब्रह्मसुवर्च्चला ॥”
इति च भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
अश्वगन्धा । इति भावप्रकाशः ॥ वरदात्री च ।
(यथा, भागवते । ३ । १६ । २२ ।
“ध्नर्म्मस्य ते भगवतस्त्रियुगत्रिभिः स्वैः
पद्भिश्चराचरमिदं द्बिजदेवतार्थम् ।
नूनं भृतं तदभिघाति रजस्तमश्च
सत्त्वेन नो वरदया तनुवानिरस्य ॥”)

वरदाचतुर्थी, स्त्री, (वरदाख्या चतुर्थी ।) माघ-

शुक्लचतुर्थी । तस्यां गौरी पूज्या । यथा । भवि-
ष्योत्तरे माघशुक्लपक्षमधिकृत्य ।
“चतुर्थी वरदा नाम तस्यां गौरी सुपूजिता ।
सौभाग्यमतुलं कुर्य्यात् पञ्चम्यां श्रीरपि श्रियम् ॥”
इति तिथ्यादितत्त्वम् ॥

वरदातुः, पुं, (ददातीति ॥ दा + तुन् । वरस्य

दातुः ।) वृक्षविशेषः । भूइसह इति हिन्दी
भाषा । तत्पर्य्यायः । भूमीसहः २ द्वारदातुः ३
खरच्छदः ४ । अस्य गुणौ । शिशिरत्वम् ।
रक्तपित्तप्रसादनत्वञ्च । इति भावप्रकाशः ॥

वरपर्णाख्यः, पुं, (वराणि पर्णान्यस्य । वरपर्णेति

आख्या यस्य ।) क्षीरकञ्चुकीवृक्षः । इति
रत्नमाला ॥

वरप्रदा, स्त्री, (वरं प्रददातीति । प्र + दा + कः ।)

लोपामुद्रा । इति हेमचन्द्रः । २ । ३७ ॥
वरदातरि, त्रि ॥

वरफलः, पुं, (वरं फलमस्य ।) नारिकेलवृक्षः ।

इति शब्दचन्द्रिका ॥ तत्फले श्रेष्ठफले च क्ली ॥

वरमुखी, स्त्री, (वरं मुखमस्याः । ङीष् ।) रेणु-

कानामगन्धद्रव्यम् । इति शब्दचन्द्रिका ॥

वरयिता, [ऋ] पुं, (वृ + णिण् । तृच् ।) भर्त्ता ।

इति हेमचन्द्रः ॥ वरणकारयिता च ॥

वररुचिः, पुं, (वरा रुचिरस्य ।) कविविशेषः ।

तत्पर्य्यायः । पुनर्व्वसुः २ । इति त्रिकाण्डशेषः ॥
स च विक्रमादित्यराजसभास्थनवरत्नान्तर्गत-
रत्नविशेषः यथा, --
“धन्वन्तरिः क्षपणकामरसिंहशङ्कु-
वेतालभट्टघटकर्परकालिदासाः ।
ख्यातो वराहमिहिरो नृपतेः सभायां
रत्नानि वै ववरुचिर्नव विक्रमस्य ॥”
इति नवरत्नम् ॥

वरलः, पुं, स्त्री, (वृणातीति । वृ + अलच् ।)

वरटः । वोल्ता इति भाषा । यथा,
“विषसृक्की भृङ्गरोलो वरलस्तृणषट्पदः ॥”
इति शब्दमाला ॥

वरलब्धः, पुं, (वरः उत्कर्षो लद्धः पुष्पेषु येन ।)

चम्पकवृक्षः । इति त्रिकाण्डशेषः ॥ (वरेण
लब्धः ।) वरप्राप्ते, त्रि ॥

वरला, स्त्री, (वृ + अलच् + टाप् ।) हंसी ।

इति मेदिनी । ले, ११९ ॥ तत्र पवर्गीयवका-
रादौ पठितोऽयम् । वरटा च ॥

वरली, स्त्री, (वरल + ङीष् ।) वरटा । इति

जटाधरः ॥

वरवत्सला, स्त्री, (वरे जामातरि वत्सला ।)

श्वशुरभार्य्या । इति शब्दमाला ॥

वरवर्णिनी, स्त्री, (वरः श्रेष्ठो वर्णः प्रशस्तः पीता-

दिर्वास्त्यस्या इति । वरवर्ण + इनिः । ङीप् ।)
अत्युत्तमा स्त्री । तत्पर्य्यायः । वरारोहा २
मत्तकामिनी ३ उत्तमा ४ । इत्यमरः । २ ।
६ । ४ ॥ मत्तकाशिनी ५ । इति भरतः ॥
(यथा, विष्णुपुराणे । १ । १५ । ७ ।
“रत्नभूता च कन्येयं वार्क्षेयी वरवर्णिनी ।
भविष्यत् जानता पूर्ब्बं मया गोभिर्व्विवर्द्धिता ॥”)
लाक्षा । हरिद्रा । रोचना । फलिनी । साध्वी
स्त्री । इति मेदिनी । ने, २४३ । गौरी ॥
(यथा, महाभारते । ६ । २२ । २१ ।
“भद्रकालि ! नमस्तुभ्यं महाकालि नमोऽस्तु ते ।
चण्डि ! चण्डे ! नमस्तुभ्यं तारिणि ! वर-
वर्णिनि ! ॥”)
सरस्वती । लक्ष्मीः । इति शब्दरत्नावली ॥

वरवाह्लीकं, क्ली, कुङ्कुमम् । इत्यमरटीका ॥

वरवृद्धः, पुं, (वरः श्रेष्टो वृद्धः पुरातनः ।) शिवः ।

इति त्रिकाण्डशेषः ॥

वरा, स्त्री, (वृ + अप् + टाप् ।) फलत्रिकम् ।

इति मेदिनी । रे, ६३ ॥ रेणुकानामगन्धद्रव्यम् ।
इति शब्दचन्द्रिका ॥ गुडूची । मेदा । ब्राह्मी ।
विडङ्गम् । पाठा । हरिद्रा । इति राज-
निर्घण्टः ॥ श्रेष्ठा च ॥

वराकः, पुं, (वृणीते तच्छील इति । वृ + “जल्प-

भिक्षकुट्टलुण्टवृङः षाकन् ।” ३ । २ । १५५ ।
पृष्ठ ४/२७२
इति षाकन् ।) शिवः । इति मेदिनी । के,
१२९ ॥ युद्धम् । इति हेमचन्द्रः ॥

वराकः, त्रि, (वृ + “जल्पभिक्षेति ।” ३ । २ ।

१५५ । इति षाकन् ।) शोचनीयः । इति
मेदिनी । के, १२९ ॥ अवरः । इति शब्द-
माला ॥ (यथा, मुकुन्दमालायाम् । १७ ।
“नाथे श्रीपुरुषोत्तमे त्रिजगतामेकाधिपे चेतसा
सेव्ये स्वस्य पदस्य दातरि परे नारायणे तिष्ठति ।
यं कञ्चित् पुरुषाधमं कतिपयग्रामेशमल्पार्थदं
मेवायै मृगयामहे नरमहो मूढा वराका
वयम् ॥”)

वराङ्गं, क्ली, (वरमङ्गानाम् ।) मस्तकम् । गुह्यम् ।

इत्यमरः । ३ । ३ । २६ ॥ गुडत्वक् । योनिः ।
इवि त्रिकाण्डशेषः ॥ श्रेष्ठावयवे, च ॥ (वरा-
ण्यङ्गान्यस्य ।) तद्युक्ते, त्रि ॥ (चोचम् । यथा,
“त्वक्पत्रञ्च वराङ्गं स्याद्भृङ्गञ्चोचं तथोत्-
कटम् ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

वराङ्गः, पुं, (वराणि स्थूलान्यङ्गानि यस्य ।)

हस्ती । इति त्रिकाण्डशेषः ॥ विष्णुः । यथा, --
“सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी ॥”
इति तस्य सहस्रनामस्तोत्रम् ॥

वराङ्गकं, क्ली, (वरमङ्गमस्य । कप् ।) गुडत्वक् ।

इत्यमरः । २ । ४ । १३४ ॥ श्रेष्ठावयवयुक्ते, त्रि ॥

वराङ्गना, स्त्री, (वरा श्रेष्ठा अङ्गना ।) अति-

प्रशस्ताङ्गयुक्ता स्त्री । यथा, --
“शिरः सपुष्पं चरणौ सुपूजितौ
वराङ्गनासेवनमल्पभोजनम् ।
अनग्नशायित्वमपर्व्वमैथुनं
चिरप्रनष्टां श्रियमानयन्ति षट् ॥”
इति लक्ष्मीचरित्रम् ॥

वराङ्गरूपोपेतः, त्रि, (अङ्गानां रूपाणि अङ्ग-

रूपाणि । वराणि अङ्गरूपाणि तैरुपेतः ।)
श्रेष्ठरूपयुक्तः । सुन्दर इत्यर्थः । तत्पर्य्यायः ।
सिंहसंहननः १ । इत्यमरः ॥

वराङ्गी, स्त्री, (वरमङ्गमन्तरवयवो यस्याः ।)

हरिद्रा । इति राजनिर्घण्टः ॥

वराङ्गी, [न्] पुं, (वराङ्गमस्त्यस्येति । इनिः ।)

अम्लवेतसः । वराङ्गञ्चाम्लवेतसं इति वा पाठः ।
इति रत्नमाला ॥ श्रेष्ठाङ्गयुक्ते, त्रि ॥

वराटः, पुं, (वरं मन्दमटतीति । अट् + कर्म्मणि

अण् ।) कपर्द्दकः । इति राजनिर्घण्टः ॥
(अस्य शोधनादिविषयो यथा, --
“भूगर्त्ते च समे शुद्धे पत्तलीं स्थापयेत् सुधीः ।
तुषेण पूरयेत्तस्याः किञ्चिन्मध्यं भिषम्बरः ॥
वराटैः पूरितां मूषां तन्मध्ये विनिवेशयेत् ।
कारोषाग्निं ततो दद्यात् पालिका यन्त्रमुत्त-
मम् ।
न्मनेन म्रियते नूनं वराटः सर्व्वरोगजित् ॥” * ॥
अन्यच्च ।
“वराटं तत्र चाङ्गेरी जम्बीराणां रसेन वा ।
अन्येषोमपि चाम्लानां यावत् पीतं न गच्छति ।
पश्चादुद्धृत्य प्रक्षाल्य गृह्णीयाच्च वराटकम् ॥”
इति वराटशुद्धिः ॥ * ॥
इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि-
कारे ॥) रज्जुः । यथा । रज्जुः शुल्ला वराटो
ना । इति स्त्रीकाण्डे रत्नकोषः । इत्यमर-
टीकायां भरतः ॥

वराटकः, पुं स्त्री, (वराट् + स्वार्थे कन् ।) कप-

र्द्दकः । इत्यमरः ॥ कडि इति भाषा । तस्य
संख्याभेदेन सं ज्ञामेदा यथा, --
“वराटकानां दशकद्वयं यत्
सा काकिनी ताश्च पणश्चतस्रः ।
ते षोडश द्रम्य इवावगम्यो
द्रन्यैस्तथा षोडशभिश्च निष्कः ॥”
इति लीलावती ॥ * ॥
अपि च । ताम्रिकः कार्षिकः पणः । इति
याज्ञवल्क्यवचनेन गुञ्जाः पञ्चाद्यमाषकस्ते
षोडशाक्षः कर्षोऽस्त्री । इत्यमरसिंहोक्तेन च
अशीतिरत्तिकापरिमितताम्रे पणशब्दः सङ्के-
तितः स च तावत्संख्यकवराटकैर्लभ्यते इति
वराटकेष्वपि तथा व्यवहारः । एतन्मूलकं
भविष्यमत्स्यतन्त्रयोर्व्वचनं यथा, --
“अशीतिभिर्व्वराटकैः पण इत्यभिधीयते ।
तैः षोडशैः पुराणं स्याद्रजतं सप्तभिस्तु तैः ॥”
इति प्रायश्चित्ततत्त्वम् ॥ * ॥
ते च दक्षिणार्थं विधीयन्ते । यथा, --
“हतमश्रोत्रियं दानं हतो यज्ञस्त्वदक्षिणः ।
तस्मात् पणं काकिणीं वा फलं पुष्पमथापि
वा ।
प्रदद्यात् दक्षिणां यज्ञे तया स सफलो भवेत् ॥”
इति शुद्धितत्त्वम् ॥

वराटकः, पुं, (वराट एव । स्वार्थे कन् ।) रज्जुः ।

पद्मबीजम् । इति मेदिनी । के, २०२ ॥

वराटकरजाः, [स्] पुं, (वराटक इव रजो

यत्र ।) नागकेशरवृक्षः । इति शब्दमाला ॥

वराटिका, स्त्री, (वराट् + स्वार्थे कन् । टाप् ।

अत इत्वञ्च ।) कपर्द्दकः । इत्यमरटीकायां
भरतः राजनिर्घण्टश्च ॥ (यथा, नैषधे । २ । ८८ ।
“बहुकम्बुमणिर्व्वराटिका
गणनाटत्करकर्क्कटोत्करः ॥”)
तुच्छवाचिका च । यथा, --
“प्रयागे मूत्र्यते येन तस्य गङ्गा वराटिका ॥”
इत्युद्भटः ॥

वराणः, पुं, (व्रियते इति । वृ + युच् । पृषो-

दरात् दीर्घः ।) इन्द्रः । इति त्रिकाण्डशेषः ॥
वरुणवृक्षः । इति शब्दरत्नावली ॥

वराणसी, स्त्री, (वाराणसी पृषोदरादित्वत् साधु ।)

काशी । यथा, --
“काशी वराणसी वाराणसी शिवपुरी च
सा ॥”
इति हेमचन्द्रः ॥

वरादनं, क्ली, (वरै राजभिरद्यते इति । अद् +

ल्युट् ।) राजादनम् । इति शब्दचन्द्रिका ॥

वराभिधः, पुं, अम्लवेतसः । इति राजनिर्घण्टः ॥

(वरा अभिधा यस्य ।) श्रेष्ठनामा च ॥

वराम्रः, पुं, (वरः श्रेष्टः अम्लोऽत्र । रस्य

लत्वम् ।) करमर्द्दः । इति रत्नमाला ॥ कराम्ल
इति वा पाठः ॥

वरारकं, क्ली, (वरं श्रेष्ठं धनिनं ऋच्छति गच्छति ।

ऋ + ण्वल् ।) हीरकम् । इति हेमचन्द्रः । ४ ।
१३१ ॥ (गुणादयोऽस्य हीरकशब्दे ज्ञातव्याः ॥)

वरारोहः, पुं, (हस्तिन उच्चत्वात् आयतपृष्ठ-

त्वाच्च वर आरोहो यत्र ।) हस्त्यारोहः । अव-
रोहः । इति विश्वः ॥

वरारोहा, स्त्री, (वर आरोहो नितम्बो यस्याः ।)

उत्तमा स्त्री । इत्यमरः । २ । ६ । ४ ॥ (यथा,
महानिर्व्वाणतन्त्रे । ४ । ४७ ।
“यदा तु वैदिकी दीक्षा दीक्षा पौराणिकी
तथा ।
न स्थास्यति वरारोहे ! तदैव प्रबलः कलिः ॥”)
कटिः । इति हेमचन्द्रः ॥

वरालिका, स्त्री, (वरा आलिका सखी जयादि-

र्यस्याः ।) दुर्गा । इति त्रिकाण्डशेषः ॥

वराशिः, पुं, स्थूलवस्त्रम् । मोटा कापड इति

भाषा । तत्पर्य्यायः । स्थूलशाटकः २ । इत्य-
मरः ॥ वरासिः ३ स्थूलशाटकम् ४ स्थूल-
शाटिका ५ । इति तट्टीकायां भरतः ॥ स्थूल-
पट्टाकः ६ । इति शब्दरत्नावली ॥ वराशि ७ ।
क्लीवमिति जटाधरः ॥

वरासनं, क्ली, (वरायै दुर्गायै अस्यते क्षिप्यते

दीयते इति यावत् । अस् + ल्युट् ।) ओड्र-
पुष्पम् । इति शब्दमाला ॥ (वरमासनमिति ।)
उत्तमासनञ्च ॥

वरासनः, पुं, (वरां स्वीयां नारीं अस्यति त्यज-

तीति । अस् + ल्युः ।) षिड्गः । (वरानपि
जनान् अस्यति दूरीकरोतीति ।) द्वारपालः ।
इति विश्वः ॥

वरासिः, पुं, (वरैः श्रेष्ठैः अस्यते क्षिप्यते इति ।

अस् + इन् ।) स्थूलशाटकः । (वरोऽसिर्यस्य ।)
खड्गधरः । इति धरणिः ॥

वरासी, स्त्री, म्लानवासः । इति शब्दमाला ॥

वराहः, पुं, (वरान् आहन्ति इति दुर्गः ।

कृत्० ४ । ३ । ४९ । हन् + डः ।) पशु-
विशेषः । वरा इति भाषा । तत्पर्य्यायः ।
शूकरः २ घृष्टिः ३ कोलः ४ पोत्री ५ किरिः ६
किटिः ७ द्रंष्ट्री ८ घोणी ९ स्तब्घरोघ्ना १०
क्रोडः ११ भूदारः १२ । इत्यमरः ॥ किरः १३
मुस्तादः १४ मुखलाङ्गूलः १५ । इति जटा-
धरः ॥ स्थूलनासिकः १६ दन्तायुधः १७ वक्र-
वक्त्रः १८ दीर्घतरः १९ आखनिकः २०
भूक्षित् २१ बहुसूः २२ । इति शब्दरत्ना-
वली ॥ अस्य मांसस्य गुणाः । वृष्यत्वम् ।
वातघ्नत्वम् । बलवर्द्धनत्वञ्च । इति राजवल्लभः ॥
बद्धमूत्रत्वम् । विरूक्षणत्वञ्च । इति तत्रैव
पाठान्तरम् । अन्यत् शूकरशब्दे द्रष्टव्यम् ॥ * ॥
पृष्ठ ४/२७३
तन्मांसं विष्णवे न देयम् । यथा । “नाभक्ष्यं
नैवेद्यार्थे भक्ष्येष्वजामहिषीक्षीरं वर्ज्जयेत् ।
पञ्चनखमत्स्यवराहमांसानि चेति ।” इत्याह्रिक-
तत्त्वधृतविष्णुसूत्रम् ॥ * ॥ वराहमांसं भुक्त्वा
विष्णुपूजादिनिषेधो यथा, --
वराह उवाच ।
“भुक्त्वा वाराहमांसन्तु यो वै मामुपसर्पति ।
पतनं तस्य वक्ष्यामि यथा भवति सुन्दरि ! ॥
वराहो दश वर्षाणि भूत्वा तु चरते वने ।
व्याधो भूत्वा महाभागे समाः सप्त च सप्ततिः ॥
कृमिर्भूत्वा समाः सप्त तिष्ठते तस्य पुष्कले ।
अथोच्चैर्म्मूषिको भूत्वा वर्षाणाञ्च चतुर्द्दश ॥
एकोनविंशवर्षाणि यातुधानश्च जायते ।
शल्लकश्चाष्टवर्षाणि जायते भवने बहु ॥
व्याघ्रस्त्रिं शतिवर्षाणि जायते पिशिताशनः ।
एष संसारिताङ्गत्वा वाराहामिषभक्षकः ॥
जायते विपुले सिद्धे कुले भागवतस्तथा ।
हृषीकेशवचः श्रुत्वा सर्व्वसम्पूर्णलक्षणम् ॥
शिरसा चाञ्जलिं कृत्वा वाक्यञ्चेदमुवाच ह ।
एतन्मे परमं गुह्यं तव भक्तसुखावहम् ।
वाराहमांसभक्षास्तु येन मुच्यन्ति किल्वि-
षात् ॥
वाराह उवाच ।
तरन्ति मानवा येन तिर्य्यक्संसारसागरात् ।
गोमयेन दिनं पञ्च कणाहारेण सप्त वै ॥
पानीयन्तु ततो भुक्त्वा तिष्ठेत् सप्तदिनं ततः ।
अक्षारलषणं सप्त शक्तुभिश्च तथा त्रयः ॥
तिलभक्षो दिनान् सप्त सप्त पाषाणभक्षकः ।
पयो भुक्त्वा दिनं सप्त कारयेच्छुद्धिमात्मनः ॥
शान्तदान्तपराः कृत्वा अहङ्कारविवर्ज्जिताः ।
दिनान्येकोनपञ्चाशच्चरेत कृतनिश्चयः ॥
प्रमुक्तः सर्व्वपापेभ्यः ससंज्ञो विगतज्वरः ।
कृत्वा तु मम कर्म्माणि मम लोकाय गच्छति ॥”
इति वाराहमांसभक्षणापराधप्रायश्चित्तम् ।
इति वाराहपुराणम् ॥ * ॥
वन्यवराहमांसं श्राद्धादौ विहितम् । यथा
अश्नन्तीत्यनुवृत्तौ हारीतः । महारण्ववासि-
नश्च वराहांस्तथेति । एवञ्च विवदन्ते अग्रा-
म्यशूकरांश्चेति वशिष्ठोक्तं श्वेताश्वेतया व्यव-
स्थितम् । कल्पतरुस्तु । श्राद्धे नियुक्तानि युक्त-
तयेति । विष्णूपासकस्य सर्व्वथा निषेधः । यथा
वाराहे भगवद्वाक्यम् ।
“भुक्त्वा वाराहमांसन्तु यस्तु मामुपसर्पति ।
वराहो दशवर्षाणि भूत्वा वै चरते वने ॥”
इत्येकादशीतत्त्वम् ॥ * ॥
याज्ञवल्क्यः ।
“हविष्यान्नेन वै मासं पायसेन च वत्सरम् ।
मास्त्यहारिणकौरभ्रशाकुनिच्छानपार्षतैः ॥
ऐणरौरववाराहशशैर्मांसैर्यथाक्रमम् ।
मासवृद्ध्याभितृप्यन्ति दत्तेनेह पितामहाः ॥”
इति श्राद्धतत्त्वम् ॥ * ॥
विष्णोरवतारविशेषः । यथा, --
सायम्भुव उवाच ।
“कुत्र प्रजाः स्थास्यन्ति पृथिवी तावत् प्रलया-
र्णवे मग्ना तस्या उद्धरणे यत्नं कुरु । इति श्रुत्वा
ब्रह्मा भगवन्तं ध्यातवान् । ध्यायतस्तस्य नासा
विवरात् अङ्गुष्ठप्रमाणो वराहपोतो निरगात् ।
स च आकाशस्थः सन् क्षणमात्रेण पर्व्वतोपमो
बभूव । तं विष्णुं मत्वा ब्रह्मा तुष्टाव । स च
तेन स्तुतः प्रलयार्णवजलमध्ये प्रविश्य दन्ताग्रेण
पृथ्वीमुद्धृत्य निजधारणशक्त्या संस्थाप्य अन्त-
र्हितो बभूव । ततः पृथिव्यां राजा सायम्भुव-
मनुरासीत् ।” इति श्रीभागवतमतम् ॥ * ॥ तद-
वतारकर्त्तृकहिरण्याक्षवधो यथा, --
“वराहपर्व्वतो नाम यः पुरा हरिनिर्म्मितः ।
स एव भूतो भगवानाजगामासुरान्तिकम् ॥
ततश्चन्द्रप्रतीकाशमगृह्णाच्छङ्खमुत्तमम् ।
सहस्रारं ततश्चक्रं सूर्य्यवह्रिसमप्रभम् ॥
यो वैकुण्ठः सुरेन्द्राणामनन्तो भोगिनामपि ।
विष्णुर्यो योगविदुषां यो यज्ञो यज्ञकर्म्मणाम् ॥
विश्वे यस्य प्रसादेन सवनस्था दिवौकसः ।
आज्यं महर्षिभिर्द्दत्तमश्नुवन्ति सुधाहुतम् ॥
ततो दैत्यद्रवकरं पुराणं शङ्खमुत्तमम् ।
वक्त्रेण दध्मौ वेगेन विक्षिपन् दैत्यजीवितम् ॥
ततः संरक्तनयनो हिरण्याक्षो महासुरः ।
कोऽयन्त्विति वदन् रोषान्नारायणमुदैक्षत ॥
वाराहरूपिणं देवं स्थितं पुरुषविग्रहम् ।
शङ्खचक्रोद्यतकरं देवानामार्त्तिनाशनम् ॥
रराज शङ्खचक्राभ्यां ताभ्यामसुरसूदनः ।
सूर्य्याचन्द्रमसोर्मध्ये पौर्णमास्यामिवाम्बुदः ॥
ततो हिरण्याक्षमुखाश्च सर्व्वे
समाद्रवन् दैत्यगणाः सुरेशम् ।
निहन्तुकामाः सहसा वराहं
गृहीतशस्त्रा बलपूर्णदर्पाः ॥
तैर्व्वध्यमानोऽतिशयेन शस्त्रै-
र्दैत्यासुरैर्दानवपुङ्गवैश्च ।
नासौ चचालासुरवृन्द हा वै
मेघैः सुवृष्टा इव मन्दराद्रिः ॥
दैत्यस्ततोऽसौ नृवराहमाहवे
निपातयामास रुषा ज्वलन्तीम् ।
शक्तिं यथा विद्युतमाशु कुञ्जे
प्रवर्षमाणोऽपि गिरिं सुमेघः ॥
स हन्यमानो गदयाप्रमेयः
प्रोवाच दैत्यं नृवराहमूर्त्तिः ।
प्रजापतेः सेतुमिमं निहत्य
व्रजेच्च क्व स्वस्ति यथा सुरेन्द्रः ॥
बलं समासाद्य परैरजेयं
विनाशयिष्याम्यहमेवमाजौ ।
दैत्यांस्त्वया साकमतो हि देवान्
हृतस्वकीयान् सुनयोपपन्नान् ॥
संस्थापयिष्यामि न संशयोऽत्र
दैत्येन्द्रदर्पः क्व नु मत्ममीपे ॥
एवं ब्रुवति वाक्यन्तु विष्णोर्वक्षस्यपातयत् ।
स बाहुशतमुद्यम्य सर्व्वप्रहरणं रणे ॥
दानवाश्चापि समरे मयतारपुरोगमाः ।
उद्यतायुधनिस्त्रिंशाः सर्व्वे तं समुपाद्रवन् ॥
स ताड्यमानोऽतिवलैर्दैत्यैः सन्नायुधोद्यतैः ।
न चचाल वराहस्तु मैनाक इव पर्व्वतः ॥
क्रोधसंरक्तनयनः शङ्खचक्रधरो हरिः ।
व्यवर्द्धत स वेगेन व्याप्नुवन् सर्व्वतो दिशम् ॥
तं जयायासुरेन्द्राणां वर्द्धमानं नभस्तले ।
ऋषयः सह गन्धर्व्वैस्तुष्टुवुर्मधुसूदनम् ॥
दीप्ताग्निसदृणं घोरं दर्शनीयसुदर्शनम् ।
सुवर्णरेणुपर्य्यन्तं वज्रनाभं भयावहम् ॥
मेदोऽस्थिमज्जारुधिरैः सिक्तं दानवसम्भवैः ।
अद्वितीयं प्रहारैस्तु क्षुरपर्य्यन्तमण्डलम् ॥
स्रग्दाममालाविततं कामगं कामरूपिणम् ।
चक्रमुद्यम्य समरे वाराहः स्वेन तेजसा ॥
चिच्छेद बाहूंश्चक्रेण हिरण्याक्षस्य कं तथा ॥
स छिन्नबाहुर्विशिरा न प्राकम्पत दानवः ।
कवन्धवत्स्थितः संख्ये विशाख इव पादपः ॥
ततः स्थितस्यैव शिरस्तस्य भूमावपातयत् ।
हिरण्मयं रुक्मचित्रं मेरोः शृङ्गमिवोत्तमम् ॥
हिरण्याक्षे हते दैत्या ये शेषाश्चैव दानवाः ।
सर्व्वे तस्य भयात् त्रस्ता जग्मुरार्त्ता दिशो
दश ॥”
इति वह्रिपुराणम् ॥
अथ वराहावतारकारणम् । शरभरूपिमहा-
देवकर्त्तृकतच्छरीरनाशश्च ।
“त्रैलोक्यमखिलं दग्धं यदा कालाग्निना तदा ।
अनन्तः पृथिवीं त्यक्त्वा विष्णोरन्तिकमागतः ॥
तेन त्यक्ता तु पृथिवी क्षणमात्रादधोगता ।
ततो वराहरूपेण निमग्नां पृथिवीं जले ।
मग्नां समुद्दधाराशु न्यधात् तत्सलिलोपरि ॥
वराहोऽपि स्वयं गत्वा लोकालोकाह्वयं गिरिम् ।
वाराह्या सह रेमे स पृथिव्या चारुरूपया ॥
स तया रममाणस्तु सुचिरं पर्व्वतोत्तमे ।
नावाप तोयं लोकेशः पोत्री परमकामुकः ॥
पृथिव्याः पोत्रिरूपाया रमयन्त्यास्ततः सुताः ।
त्रयो जाता द्बिजश्रेष्ठास्तेषां नामानि वै शृणु ॥
दुर्वृत्तः कनको घोरः सर्व्व एव महाबलाः ।
स तैः पुत्त्रैः परिवृतो वाराहो भार्य्यया स्वया ॥
रममाणस्तदा कायत्यागं नैवागणद्धिया ।
इतस्ततश्च शिशुभिः क्रीडद्भिः पोत्रिभिस्तदा ॥
जगन्ति तत्र भग्नानि नदीः कल्पतरूंस्तथा ।
त्तो देवगणाः सर्व्वे सहिता देवयोनिभिः ॥
शक्रेण सहिता मन्त्रं चक्रुः सम्यक् जगद्धितम् ॥
ततो निश्चित्य ते सर्व्वे शक्राद्या मुनिभिः सह ।
शरण्यं शरणं जग्मुर्नारायणमजं विभुम् ॥
तं समासाद्य गोविन्दं वासुदेवं जगत्पतिम् ।
प्रणम्य सर्व्वे त्रिदशास्तुष्टुवुर्गरुडध्वजम् ॥
देवा ऊचुः ।
नमस्ते देवदेवेश ! जगत्कारणकारण ।
कालस्वरूपिन् भगवन् प्रधानपुरुषात्मक ॥
इति स्तुतो देवदेवो भूतभावनभावनः ।
सेन्द्रैर्देवगणैरूचे तान् सर्व्वान् मेघनिस्वनः ॥
पृष्ठ ४/२७४
श्रीभगवानुवाच ।
यदर्थमागता यूयं यद्वो भयमुपस्थितम् ।
यत्र यद्वा मया कार्य्यं तद्देवास्तूर्णमुच्यताम् ॥
देवा ऊचुः ।
शीर्य्यते वसुधा नित्यं क्रीडया यज्ञपोत्रिणः ।
लोकाश्च सर्व्वे संक्षुब्धा नाप्नुवन्त्युपशान्तिताम् ॥
इति तेषां निगदतां श्रुत्वा वाक्यं जनार्द्दनः ।
उवाच शङ्करं देवं ब्रह्माणञ्च विशेषतः ॥
यत्कृते देवताः सर्व्वाः प्रजाश्च सकला इमाः ।
प्राप्नुवन्ति महद्दुःखं शीर्य्यते सकलं जगत् ॥
वाराहं तदहं कायं त्यक्तुमिच्छामि शङ्कर ।
निदेशशक्तं तत् त्यक्तुं स्वेच्छया नहि शक्यते ॥
त्वं त्याजयस्व तत् कायं यत्रात्मा शङ्कराधुना ।
त्वमाप्यायस्व तेजोभिर्ब्रह्मन् स्मरहरं मुहुः ॥
आप्यायन्तु तदा देवाः शङ्करो हन्तु पोत्रिणम् ।
रजस्वलायाः संसर्गात् विप्राणां मारणात् तथा ॥
कायः पापकरो भूतस्तं त्यक्तुं मुह्यतेऽधुना ।
प्रायश्चित्तैरुपेतैर्यः प्रायश्चित्तमहं ततः ।
चरिष्यामि तदर्थं मे तनुर्यत्नेन पात्यताम् ॥
प्रजा पाल्या मम सदा या हि सीदति नित्यशः ।
मत्कृते प्रत्यहं तस्मात् त्यक्ष्ये कायं प्रजाकृते ॥
श्रीमार्कण्डेय उवाच ।
इत्युक्तौ वासुदेवेन तदा च ब्रह्मशङ्करौ ।
त्वया यथोक्तं तत् कार्य्यमिति गोविन्दमूचतुः ॥
वासुदेवोऽपि तान् सर्व्वान् विसृज्य त्रिदशां-
स्तदा ।
वाराहं तेजसा हर्त्तुं स्वयं ध्यानपरोऽभवत् ॥
शनैः शनैर्यदा तेज आहरत्येष माधवः ।
तदा देहन्तु वाराहं सत्त्वहीनं व्यजायत ॥
ब्रह्माद्यास्त्रिदशाः सर्व्वे महादेवमुमापतिम् ।
अनुजग्मुस्तथा तेज आधातुं स्मरनाशने ॥
ततः सर्व्वैर्देवगणैः स्वं स्वं तेजो वृषध्वजे ।
आदधे तेन बलवान् सोऽतीव समजायत ॥
ततः शरभरूपी स तत्क्षणाद्गिरिशोऽभवत् ।
ऊर्द्धाधोभावतश्चाष्टपादयुक्तः सुभैरवः ॥
द्विलक्षयोजनोच्छ्रायः सार्द्धलक्षैकविस्तृतः ॥
ऊर्द्धं वराहकायस्तु लक्षयोजनविस्तृतः ॥
लक्षार्द्धविस्तृतः पार्श्वे वर्द्धमानस्तदाभवत् ।
तमायान्तं ततो दृष्ट्वा क्रोधाद्धावन्तमञ्जसा ॥
मुवृत्तः कनको घोर आसेदुः क्रोधमूर्च्छिताः ।
उच्चिक्षिपुस्तं युगपत् पोत्रघातैर्महाबलाः ॥
ततस्तुण्डप्रहारेण शरभः कण्ठमध्यतः ।
भित्त्वा वपुर्वराहस्य पातयाभास तज्जले ॥
तं पातयित्वा प्रथमं सुवृत्तं कनकं तथा ।
घोरञ्च कण्ठदेशेषु भित्त्वा भित्त्वा जघान ह ॥
त्यक्तप्राणास्तु ते सर्व्वे पेतुस्तोये महार्णवे ।
जलशब्दं वितन्वानाः कालानलसमर्च्चिषः ॥
पतितेषु वराहेषु ब्रह्मा विष्णुर्हरस्तथा ।
सृष्ट्यर्थं चिन्तयामासुः पुनरेव समागताः ॥”
इति कालिकापुराणीयाष्टाविंशत्यूनत्रिंशाध्या-
यात् सङ्कलितः ॥ * ॥ विष्णुः । मानभेदः ।
पर्व्वतभेदः । मुस्ता । इति मेदिनी । हे, २२ ॥
(पर्व्वतार्थे उदाहरणम् । यथा, महाभारते ।
२ । २१ । २ ।
“वैहारो विपुलः शैलो वराहो वृषभस्तथा ।
तथा ऋषिगिरिस्तात शुभाश्चैत्यकपञ्चमाः ॥”)
शिशुमारः । वाराहीकन्दः । इति राज-
निर्घण्टः ॥ अष्टादशद्बीपान्तर्गतक्षुद्रद्वीपविशेषः ।
यथा, --
“गन्धर्ष्वो वरुणः सौम्यो वराहः कङ्क एव च ।
कुमुदश्च कसेरुश्च नागो भद्रारकस्तथा ॥
चन्द्रेन्द्रमलयाः शङ्खयवाङ्गकगभस्तिमान् ।
ताम्राकुश्च कुमारी च तत्र द्वीपाः दशाष्टभिः ॥”
इति शब्दमाला ॥
(कृष्णपिण्डीरः । तत्पर्य्यायो यथा, --
“वराहः कृष्णपिण्डीरः कृष्णपिण्डीतकस्तु सः ॥”
इति वैद्यकरत्नमालायाम् ॥)

वराहकन्दः, पुं, (वराहप्रियः कन्दो यस्य ।)

वाराही । इति राजनिर्घण्टः ॥

वराहकान्ता, स्त्री, (वराहस्य कान्ता प्रियेति ।)

वाराहीवृक्षः । इति शब्दरत्नावली ॥

वराहकाली, [न्] पुं, (वराहवत् कलते इति ।

कल् + णिनिः ।) सूर्य्यमणिपुष्पवृक्षः । तत्प-
र्य्यायः । सूर्य्यावर्त्तः २ । इति हारावली ।
९४ ॥

वराहक्रान्ता, स्त्री, (वराहेन क्रान्ता अतिप्रिय-

त्वात् ।) क्षुपविशेषः । इति शब्दमाला ॥
तत्पपर्य्यायः, । लज्जालुः २ समङ्गा ३ लज-
कारिका ४ वराहनामा ५ वदरा ६ शूकरी ७
तिक्तगन्धिका ८ नमस्कारी ९ गण्डकाली १०
खदिरी ११ । इति रत्नमाला ॥ लज्जालुका १२
अञ्जलिकारिका १३ कृताञ्जलिः १४ गण्डकारी
१५ समीच्छदा १६ । इति ग्रन्थान्तरम् ॥
वाराही । चामारालु इति ख्याते । इति
सुभूतिः । इत्यमरटीकायां भरतः ॥

वराहनामा, [न्] पुं, (वराहस्य नाम इव नाम

यस्य ।) वाराहीकन्दः । इति शब्दमाला ॥

वराहिका, स्त्री, कपिकच्छुः । इति राज-

निर्घण्टः ॥

वराही, स्त्री, (वराहो भक्षकत्वेनास्त्यस्येति ।

अच् । गौरादित्वात् ङीष् ।) भद्रमुस्ता ।
शूकरकन्दः । इति राजनिर्घण्टः ॥

वरिवसितः, त्रि, (वस् + “नमोवरिवश्चित्रङः

क्यच् ।” ३ । १ । १९ । इति क्यच् । ततः क्तः ।
“क्यस्य विभाषा ।” ६ । ४ । ५० । इति पक्षे
यलोपः ।) उपासितः । इत्यमरः । ३ । १ ।
१०२ ॥

वरिवस्या, स्त्री, (वरिवसः पूजायाः करणम् ।

वरिवस् + “नमोवरिवश्चित्रङः क्यच् ।” ३ ।
१ । १९ । इति क्यच् । “अ प्रत्ययात् । ३ । ३ ।
१०२ । इत्यः । टाप् ।) शुश्रूषा । इत्यमरः ।
२ । ७ । ३५ ॥ (यथा, ऋग्वेदे । १ । १८१ । ९
“हुवे यद्वां वरिवस्या गृणानो
विद्यामेषं वृजनं जीरदानुम् ॥”)

वरिवस्यितः, त्रि, (वरिवस्या संजाता अस्य

तारकादित्वादितच् । यद्वा, वरिवस्य + क्तः ।
“क्यस्य विभाषा ।” ६ । ४ । ५० । इति पक्षे यलोपा-
भावः ।) उपासितः । इत्यमरः । ३ । १ । १०२ ॥

वरिशी, स्त्री, वडिशी । इति शब्दरत्नावली ॥

वरिषं, क्ली, (वृ + सः । बाहुलकात् इट् ।)

वत्सरः । इति शब्दरत्नावली ॥ (“वर्षः स्यात्
वरिषोऽपि च ।” इत्युज्ज्वलदत्तधृतचन्द्रवच-
नम् । ३ । ६२ ॥)

वरिषाः, स्त्री भूम्नि, (वृ + सः । बहुवचनात्

इट् ।) वर्षाः । इति भरतद्बिरूषकोषः ॥

वरिषाप्रियः, पुं, (वरिषा वर्षा प्रिया यस्य ।)

चातकपक्षी । इति शब्दरत्नावली ॥

वरिष्ठं, क्ली, (अतिशयेन वरम् । वर + इष्ठन् ।)

ताम्रम् । इत्यमरः । ३ । २ । १११ ॥ (यथा, --
“रक्तं वरिष्टं म्लेच्छाख्यं ताम्रं शुल्वमुडुम्बरम् ॥”
इति वैद्यकरत्नमालायाम् ॥)
मरिचम् । इति मेदिनी । ठे, १५ ॥

वरिष्ठः, त्रि, (अयमेषामतिशयेन वर उरुर्वा

अतिशायन इष्ठन् । प्रियस्थिरेति वरादेशः ।)
इति व्याकरणम् ॥ बरतमः । (यथा, भागवते ।
१ । १० । १ ।
“हत्वा स्वरिक्थस्पृध आततायिनो
युधिष्ठिरो धर्म्मभृतां वरिष्ठः ॥”)
उरुतमः । इति मेदिनी । ठे, १५ ॥ (यथा,
ऋग्वेदे । ४ । ५६ । १ ।
“यत्सीं वरिष्ठे बृहती विमिण्वन्रु
वद्धोक्षापप्रथानेभिरेवैः ॥”)
वत्सः । इत्यजयः ॥

वरिष्ठः, पुं, (वर + इष्ठन् ।) तित्तिरिपक्षी । इति

मेदिनी । ठे, १५ ॥ नारङ्गवृक्षः । इति राज-
निर्घण्टः ॥ (चाक्षुषमनुपुत्त्रः । यथा, महा-
भारते । १३ । १८ । २० ।
“वरिष्ठो नाम भगवांश्चाक्षुषस्य मनोः सुतः ॥”
धर्म्मसावर्णिमन्वन्तरस्य ऋषिविशेषः । यथा,
मार्कण्डेये । ९४ । १९ ।
“हविष्मांश्च वरिष्ठश्च ऋष्टिरन्यस्तथारुणिः ।
निश्चरश्चानघश्चैव रिष्ठिश्चान्यो महामुनिः ।
सप्तर्षयोऽन्तरे तस्मिन्नग्निदेवश्च सप्तमः ॥”
दैत्यविशेषः । तथा, हरिवशे । २३२ । १३ ।
“वरिष्ठश्च गविष्ठश्च भूतलोन्मथनो विभुः ।
सुप्रसादः किरीटी च सूचीवक्त्वो महासुरः ॥”)

वरिष्ठा, स्त्री, (वरिष्ट + टाप् ।) आदित्यभक्ता ।

इति राजनिर्घण्टः ॥

वरी, स्त्री, (वृणोतीति । वृ + पचाद्यच् । गौरा-

दित्वात् ङीष् ।) शतावरी । इत्यमरः । २ ।
४ । १०० ॥ सूर्य्यपत्नी । इति त्रिकाण्डशेषः ॥

वरीयान्, [स्] त्रि, (अयमनयोरतिशयेन ऊरु-

र्वरो वा । ईयसुन् । प्रियस्थिरेति वरादेशः ।)
श्रेष्ठः । (यथा, भागवते । २ । १ । १ ।
“वरीयानेष ते प्रश्नः कृतो लोकहितो नृप ! ॥”)
वरिष्ठः । अतियुवा । इति मेदिनी । ठे, १५ ॥
पृष्ठ ४/२७५

वरीयान्, पुं, विष्कम्भादिसप्तविंशतियोगान्तर्गता-

ष्टादशयोगः । तत्र जातफलम् ।
“दाता दयालुः सुतरां सुवेषः
सत्कर्म्मकर्त्ता मधुरस्वभावः ।
नरो बलीयान् धनवान् जनाढ्यो
योगो वरीयान् यदि जन्मकाले ॥”
इति कोष्ठीप्रदीपः ॥
(पुलहस्य पुत्त्रः । इति भागवते । ४ । १ । ३४ ॥)

वरीवर्द्दः, पुं, वलीवर्द्दः । इत्यमरटीकायां रमा-

नाथः ॥

वरीषुः, पुं, कामः । इति त्रिकाण्डशेषः ॥

वरुटः, पुं, म्लेच्छजातिविशेषः । यथा, --

“पुलिन्दा नाहला निष्ट्याः शवरा वरुटा भटाः ।
माला भिल्लाः किराताश्च सर्व्वेऽपि म्लेच्छ-
जातयः ॥”
इति हेमचन्द्रः ॥

वरुडः, पुं, अन्त्यजजातिविशेषः । यथा, --

“रजकश्चर्म्मकारञ्च नटो वरुड एव च ।
कैवर्त्तमेदभिल्लाश्च सप्तैते चान्त्यजाः स्मृताः ॥”
एषां स्त्रीगमनादौ दोषो यथा, --
“एतेषान्तु स्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च ।
पतत्यज्ञानतो विप्रो ज्ञानात् साम्यन्तु गच्छति ॥”
इति प्रायश्चित्ततत्त्वधृतयमवचनम् ॥
अस्योत्पत्तिर्यथा, --
“कैवर्त्तस्य च कन्यायां शौण्डिकादेव सौचिकः ।
सौचिकात् शौण्डिकाज्जातो नटो वरुड
एव च ॥”
इति पराशरपद्धतिः ॥

वरुणः, पुं, (वृणोति सर्व्वं व्रियते अन्यैरिति वा ।

वृ + “कृवृदारिभ्य उनन् ।” उणा० ३ । ५३ ।
इति उनन् ।) देवताविशेषः । स च कश्य-
पस्य अदितिनाम्नि पत्न्यां जातः । तस्य चर्षण्यां
पत्न्यां भृगुवाल्मीकी पुत्त्रौ जातौ । इति
श्रीभागवतमतम् ॥ स च जलाधिपतिः पश्चिम-
दिक्पालश्च । तत्पर्य्यायः । प्रचेताः २ पाशी ३
यादसांपतिः ४ अप्पतिः ५ । इत्यमरः ॥ यादः-
पतिः ६ अपांपतिः ७ । इति तट्टीकायां
भरतः ॥ जम्वुकः ८ मेघनादः ९ जलेश्वरः १०
परञ्जयः ११ दैत्यदेवः १२ जीवनावासः १३
नन्दपालः १४ । इति शब्दरत्नावली ॥ वारि-
लोमः १५ कुण्डली १६ रामः १७ सुखाशः १८ ।
इति जटाधरः ॥ * ॥ जलाशयोत्सर्गादौ अस्य
पूजाविधिर्यथा । हयशीर्षपञ्चरात्रे ।
“अथ वाप्यामतः कुर्य्यात् सूक्ष्मरत्नादिनिर्म्मि-
तम् ।
द्विभुजं हंसपृष्टस्थं दक्षिणेनाभयप्रदम् ॥
वामेन नागपाशन्तु धारयन्तं सुभोगिनम् ।
सलिलं वाममाभोगं कारयेद्यादसांपतिम् ॥
वामे तु कारयेद्वृद्धिं दक्षिणे पुष्करं शुभम् ।
नागैर्नदीभिर्यादोभिः समुद्रैः परिवारितम् ॥
कृत्वैवं वरुणं देवं प्रतिष्ठाविधिनार्च्चयेत् ॥”
पुष्करं तत्पुत्त्रम् । ततो ध्यानम् ।
“प्रसन्नवदनं सौम्यं हिमकुन्देन्दुसन्निभम् ।
सर्व्वाभरणसंयुक्तं सर्व्वलक्षणलक्षितम् ॥
किरणैः शीतलैः सौम्यैः प्रीणयन्तमवस्थितम् ।
लावण्यामृतधाराभिस्तर्पयन्तमिव प्रजाः ॥
राजहंससमारूढं पाशव्यग्रकरं शुभम् ।
पुष्कराद्यैर्गणैः सर्व्वैः समन्तात् परिवारितम् ॥
गौर्य्या कान्त्या चानुगतं नदीभिः परिवारितम् ।
नागैर्यादोगणैर्युक्तं ब्रह्माणमिव चापरम् ॥
सृष्टिसंहारकर्त्तारं नारायणमिवापरम् ॥”
इति ध्यात्वा पूजयेत् । वरुणमन्त्रोद्धारस्तु तत्रैव ।
“अष्टाविंशान्तबीजेन चतुर्द्दशस्वरेण च ।
अर्द्धेन्दुविन्दुयुक्तेन प्रणवोद्दीपितेन च ॥”
तेन ॐ वौँ इति मन्त्रः ।
“प्रतिमायां स्थितिं कृत्वा प्रणवेन निबोधयेत् ।
पूजयेद्गन्धपुष्पाद्यैः सान्निध्यं पाशमुद्रया ॥”
स्थितिं प्रतिष्ठाम् । निबोधयेत् अन्तर्गताङ्गुष्ठ-
मुष्टिभ्यां निबोधमुद्रां दर्शयेत् । नमस्कारमन्त्रस्तु
“वरुणो धवलो जिष्णुः पुरुषो निम्नगाधिपः ।
पाशहस्तो महाबाहुस्तस्मै नित्यं नमो नमः ॥”
इति जलाशयोत्सर्गतत्त्वम् ॥ * ॥
वृष्ट्यर्थं अस्य जपनीयमन्त्रा यथा, --
“पुष्करावर्त्तकैर्मेघैः प्लावयन्तं वसुन्धराम् ।
विद्युद्गर्ज्जितसन्नद्धं तोयात्मानं नमाम्यहम् ॥
यस्य केशेषु जीमूतो नद्यः सर्व्वाङ्गसन्धिषु ।
कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः ॥”
इति ध्यात्वा मानसैरुपचारैर्व्वरुणं आराध्य
मूलमन्त्रं जपेत् । प्रजापतिरृषिस्तृष्टुप् छन्दो
वरुणो देवता एतावद्राष्ट्रमभिव्याप्य सुवृष्ट्यर्थं
जपे विनियोगः । मन्त्रस्तु गुरुमुखात् ज्ञेयः ।
स यथा । ॐ वृष्टिरिहानाव्यन्तरयो मरुता-
स्पृशतीं गच्छ वशापग्निर्दृत्वा दिवं गच्छत तेनो
वृष्टिमावह । इति मन्त्रस्य सहस्रजपानन्तरं
सुवृष्टिमती वसुमती भवति । अत्र सन्देहो न
कार्य्यः ॥ * ॥ मन्त्रान्तरम् । कूर्च्चं लक्ष्मीं तथा
मायां तेन हुँ श्रीँ ह्रीं इति त्र्यक्षरमन्त्रं नाभि-
मात्रजलमध्ये प्रविश्य यदि जपति तदा अना-
वृष्टिं हरति महावृष्टिर्भवति । अष्टसहस्रजपः
संख्या चतुर्गुणा तेन द्वात्रिंशत्सहस्रजपः ।
दिनत्रयानन्तरं चतुर्थदिने जपसमाप्तिः ।
“नाभिमात्रजले स्थित्वा जपेन्मन्त्रं प्रसन्नधीः ।
वसुसहस्रं जपेन्मन्त्रं त्रिदिनं व्याप्य यत्नतः ॥”
अथवा ।
“षट्सहस्रं जपेन्निर्त्य तदा वृष्टिर्भवेत् ध्रुवम् ।”
इति षट्कर्म्मदीपिका ॥ * ॥
पुस्तकान्तरे वं इति एकाक्षरमन्त्रोऽपि जप्य-
त्वेन लिखितः ॥ * ॥ महापातकिनो दण्डधनं
गृहीत्वा राजा वरुणाय प्रतिपादयेत् । यथा, --
“नाददीत नृपः साधुर्महापातकिनो धनम् ।
आददानस्तु तल्लोभात्तेन दोषेण लिप्यते ॥
अप्सु प्रवेश्य तं दण्डं वरुणायोपपादयेत् ।
श्रुतवृत्तोपपन्ने वा ब्राह्मणे प्रतिपादयेत् ॥
इशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः ।
ईशः सर्व्वस्य जगतो ब्राह्मणो वेदपारगः ॥”
इति मानवे ९ अध्यायः ॥ * ॥
स्वनामख्यातवृक्षः । तत्पर्य्यायः । वरुणः २
सेतुः ३ तिक्तशाकः ४ कुमारकः ५ । इत्यमरः ।
२ । ४ । २५ ॥ श्मरीअघ्नः ६ सेतुकः ७ वराणः ८
शिखिमण्डनः ९ । इति शब्दरत्नावली ॥ श्वेत-
वृक्षः १० श्वेतद्रुमः ११ साधुवृक्षः १२ तमालः
१३ मारुतापहः १४ । अस्य गुणाः । कटु-
त्वम् । उष्णत्वम् । रक्तदोषशीतवातहरत्वम् ।
स्निग्धत्वम् । दीपनत्वम् । विद्रधिरोगजित्त्वञ्च ।
इति राजनिर्घण्टः ॥ अपि च ।
“वरुणः पित्तलो भेदी श्लेष्मकृच्छ्राश्ममारुतान् ।
निहन्ति गुल्मवातास्रक्रिमींश्चोष्णोऽग्निदीपनः ।
कषायो मधुरस्तिक्तः कटुको रूक्षको लघुः ॥”
इति भावप्रकाशः ॥
अन्यच्च ।
“वरुणोऽनिलशूलघ्नो भेदी चोष्णोऽश्मरीहरः ।
पुष्पं वरुणजं ग्राहि पित्तघ्नं आमवातजित् ॥”
इति राजवल्लभः ॥ * ॥
जलम् । इति मेदिनी । णे, ६५ ॥ सूर्य्यः । इति
विश्वः ॥ (यथा, महाभारते । १ । ६५ । १५ ।
“धाता मित्रोऽर्य्यमा शक्रो वरुणस्त्वंश एव च ।
भगो विवस्वान् पूषा च सविता दशमस्तथा ॥”
मुनिगर्भजातकश्यपपुत्त्रविशेषः । इति महाभार-
तम् । १ । ६५ । ४२ ॥)

वरुणात्मजा, स्त्री, (वरुणस्य जलस्य आत्मजा

तदुद्भवत्वात् ।) मद्यम् । इत्यमरः । २ । २० । ३९ ॥
(विवरणमस्या मद्यशब्दे ज्ञेया ॥)

वरुणानी, स्त्री, (वरुणस्य पत्नी । वरुण + “इन्द्र-

वरुणभवेति ।” ४ । १ । ४९ । इति ङीष् आनु-
गागमश्च ।) वरुणपत्नी । इति जटाधरः ॥
(यथा, ऋग्वेदे । १ । २२ । १२ ।
“इहेन्द्राणीमुपहूये वरुणाणीं स्वस्तये ।
अग्नायीं सोमपीतये ॥”)

वरुत्रं, क्ली, (वृणोति आवृणोत्यनेनेति । वृ +

“आशित्रादिभ्य इत्रोत्रौ ।” उणा० ४ । १७२ ।
इति उत्रः ।) उत्तरीयवस्त्रम् । वृधातोरुत्र-
प्रत्ययेन निष्पन्नम् । इति सिद्धान्तकौमुद्या-
मुणादिवृत्तिः ॥

वरुलः, पुं, (वृ + उलः ।) संभक्तः । इति संक्षिप्त-

सारोणादिवृत्तिः ॥

वरूथं, क्ली, (व्रियते शरीरमनेनेति । वृ परणे +

“जॄवृञ्भ्यामूथन् ।” उणा० २ । ६ । इति
ऊथन् ।) तनुत्राणम् । इति हेमचन्द्रः ॥ चर्म्म ।
इति मेदिनी । थे, २१ ॥ तत्र पवर्गीयबकारादौ
गणितोऽयं शब्दः ॥ (गृहम् । इति निघण्टुः ।
३ । ४ ॥ यथा, ऋग्वेदे । १ । ५८ । ९ ।
“भवा वरूथं गृणते विभावो
भवा मघवन् मघवद्भ्यः शर्म्म ॥”
सैन्यम् । यथा, भागवते । ९ । १० । २० ।
“तेऽनीकपा रघुपतेरभिपत्य सर्व्वे-
द्वन्द्वं वरूथमिभपत्तिरथाश्वयोधैः ।
जघ्नुर्द्रुमैर्गिरिगदेषुभिरङ्गदाद्याः
सीताभिमर्षहतमङ्गलरावणेशान् ॥”)