पृष्ठ ४/३४१

वायकः, पुं, (वयतीति । वे + ण्वुल् ।) समूहः ।

इति शब्दचन्द्रिका ॥ (तन्त्रवायः । यथा, भाग-
वते । ५ । २६ । ३६ ।
“यत्र ह वित्तग्रहं पापपुरुषं धर्म्मराजपुरुषा
वायका इव सर्व्वतोऽङ्गेषु सूत्रैः परिवयन्ति ॥”)

वायदण्डः, पुं, (वायस्य दण्डः । यद्वा, वायतेऽनेनेति

वायः । वाय एव दण्ड इति कर्म्मधारयः ।)
वापदण्डः । इति भरतद्विरूपकोषः ॥

वायनं, क्ली, पिष्टकविशेषः । तत्पर्य्यायः । व्रतो-

पायनम् २ । प्रहेणकम् ३ । इति त्रिकाण्ड-
शेषः ॥

वायवी, स्त्री, (वायोरियमिति । वायु + अण् ।

ङीप् ।) उत्तरपश्चिमदिक् । इति जटाधरः ॥
(कार्त्तिकेयस्यानुचरमातृगणभेदः । यथा, महा-
भारते । ९ । ४६ । ३७ ।
“वायव्यश्चाथ कौमार्य्यो ब्राह्म्यश्च भरतर्षभ ! ।
वैष्णव्यश्च तथा सौर्य्यो वाराह्यश्च महाबलाः ॥”)

वायव्यं, त्रि, (वायुर्देवतास्येति । वायु + “वाय्वृतु-

पित्रुषसो यत् ।” ४ । २ । ३१ । इति यत् ।)
वायुसम्बन्धिदिगादि । यथा । विल्वयुग्ममुपक्रम्य
गवाक्षतन्त्रे ।
“वायव्यस्थं नैरृतस्थं न गृह्णीयात् कदाचन ॥”
इति तिथ्यादितत्त्वम् ॥
(वायुदेवताकपशुहविरादि । यथा, ऋग्वेदे ।
१० । ९० । ८ ।
“तस्माद्यज्ञात् सर्व्वहुतः सम्भृतं पृषदाज्यम् ।
पशून्ताँश्चक्रे वायव्यानारण्यान् ग्रामाश्च ये ॥”
“वायव्यान् वायुदेवताकान् ।” इति तद्भाष्ये
सायणः ॥ * ॥ क्ली, षट्शताधिकचतुर्विंशति-
सहस्रश्लोकात्मकवायुनामकमहापुराणम् । यथा,
देवीभागवते । १ । ३ । ७ ।
“अयुतं वामनाख्यञ्च वायव्यं षट्शतानि च ।
चतुर्विंशतिः संख्यातः सहस्राणि तु शौनक ! ॥”
अस्त्रविशेषः । यथा, महाभारते । १ । १३६ । १९ ।
“आग्नेयेनासृजद्वह्निं वारुणेनासृजत् पयः ।
वायव्येनासृजद्वायुं पार्जन्येनासृजद्घनान् ॥”)

वायसः, पुं, (वयते इति । वय गतौ । “वयश्च ।”

उणा० ३ । १२० । इति असच् । सच णित् ।)
अगुरुवृक्षः । श्रीवासः । काकः । इति मेदिनी ।
से, ३८ ॥ (यथा, महाभारते । ३ । २७० । ३१ ।
“श्वगृघ्रकङ्ककाकोलभासगोमायुवायसाः ।
अतृप्यंस्तत्र वीराणां हतानां मांसशोणितैः ॥”)
अस्योत्पत्तिर्यथा, --
“अरुणस्य भार्य्या श्येनी वीर्य्यवन्तौ महा-
बलौ ।
सम्पातिश्च जटायुश्च प्रभूतौ पक्षिसत्तमौ ।
सम्पातिर्जनयन् गृध्रान् काकाः पुत्त्रा जटायुषः ॥”
इति वह्निपुराणे वाराहप्रादुर्भावः ॥ * ॥
अस्य एकाक्षिनाशकारणं यथा, --
मार्कण्डेय उवाच ।
“गते तु भरते तस्मिन् रामः कमललोचनः ।
लक्ष्मणेन सह भ्रात्रा भार्य्यया सीतया सह ।
शाकमूलफलाहारो विचचार महावने ॥
एकदा लक्ष्मणमृते रामदेवः प्रतापवान् ।
चित्रकूटे वने देशे वैदेह्या सङ्गमाश्रितः ॥
सुष्वाप सुमुहूर्त्तञ्च ततः काको दुरात्मवान् ।
सीताभिमुखमभ्येत्य विददार स्तनान्तरम् ।
विदार्य्य वृक्षमारुह्य स्थितोऽसौ वायसाधमः ॥
ततः प्रबुद्धो रामोऽसौ दृष्ट्वा रक्तं स्तनान्तरम् ।
शोकाविष्टान्तु सीतां तामुवाच कमलेक्षणः ॥
किमिदं स्तनान्तरे भद्रे तव रक्तस्य कारणम् ।
इत्युक्ता सा च तं प्राह भर्त्तारं विनयान्विता ॥
पश्य राजेन्द्र वृक्षाग्रे वायसं दुष्टचेष्टितम् ।
येनैतच्च कृतं कर्म्म सुप्ते त्वयि महामते ॥
रामोऽपि दृष्ट्वा तं काकं तस्मिन् क्रोधमथा-
करोत् ।
ऐषिकास्त्रं समादाय ब्रह्मास्त्रेणाभिमन्त्रितम् ॥
काकमुद्दिश्य चिक्षेप सोऽवधावद्भयान्वितः ॥
स त्विन्द्रस्य सुतो राजन् इन्द्रलोकं विवेश ह ।
रामास्त्रं प्रज्वलं दीप्तं तस्यानुप्रविवेश वै ॥
विदितार्थश्च देवेन्द्रो देवैः सर्व्वैः समन्वितः ।
निष्क्रामयच्च तं दुष्टं राघवस्यापकारिणम् ॥
ततोऽसौ सर्व्वदेवैस्तु देवलोकाद्बहिष्कृतः ।
पुनः सोऽभ्येत्य रामञ्च राजानं शरणं गतः ॥
त्राहि राम महाबाहो अज्ञानादपकारि-
णम् ।
इति ब्रुवन्तं स प्राह रामः कमललोचनः ॥
अमोघाय ममास्त्राय अक्षि एकं प्रयच्छ मे ।
ततो जीवसि दुष्टात्मन् मेऽपराधो महान् कृतः ॥
इत्युक्तोऽसौ स्वकं नेत्रमेकमस्त्राय दत्तवान् ।
अस्त्रञ्च नेत्रमेकन्तु भस्मीकृत्य शमं ययौ ॥
ततः प्रभृति सर्व्वेषां काकानामेकनेत्रता ।
चक्षुषैकेन पश्यन्ति हेतुनानेन पार्थिव ! ॥”
इति नरसिंहपुराणे ४३ अध्यायः ॥
(वायससम्बन्धिनि, त्रि । यथा, महाभारते ।
१२ । ८२ । ७ -- ८ ।
“स काकं पञ्जरे बद्धा विषयं क्षेमदर्शिनः ।
सर्व्वं पर्य्यचरद्युक्तः प्रवृत्त्यर्थी पुनः पुनः ॥
अधीध्वं वायसीं विद्यां शंसन्ति मम वायसाः ।
अनागतमतीतञ्च यच्च संप्रति वर्त्तते ॥”)

वायसादनी, स्त्री, (वायसेन अद्यते इति । अद

+ कर्म्मणि ल्युट् + ङीप् ।) महाज्योतिष्मती ।
काकतुण्डी । इति राजनिर्घण्टः ॥

वायसारातिः, पुं, (वायसस्य अरातिः ।) पेचकः ।

इत्यमरः । २ । ५ । १५ ॥

वायसाह्वा, स्त्री, (वायसस्य आह्वा नाम

यस्याः ।) काकनामा । काकमाची । इति
राजनिर्घण्टः ॥

वायसी, स्त्री, (वायसानामियमिति तत्प्रियत्वात् ।

वायस + अण् । ङीष् ।) काकोडुम्बरिका ।
काकमाची । इति मेदिनी । से, ३८ ॥ महा-
ज्योतिष्मती ॥ काकनामा । काकतुण्डी । इति
राजनिर्घण्टः ॥

वायसेक्षुः, पुं, (वायसानामिक्षुरिव प्रियत्वात् । ।)

काशः । इति राजनिर्घण्टः ॥

वायसोलिका, स्त्री, (वायसोली + स्वार्थे कन् ।)

काकोली । इति शब्दरत्नावली ॥

वायसोली, स्त्री, (वायसान् ओलण्डयतीति ॥

ओलडि उत्क्षेपे + “अनेष्वपि दृश्यते ।” इति
डः । शकन्ध्वादित्वात् अस्य लोपः ।) काकोली ।
इत्यमरः । २ । ४ । १४४ ॥

वायुः, पुं, (वातीति । वागतिगन्धनयोः + “कृवा-

पाजिमिस्वदिसाध्यशूभ्य उण् ।” उणा० १ । १ ।
इति उण् । “आतो युक्चिण्कृतोः ।” ७ । ३ ।
३३ । इति युक् ।) उत्तरपश्चिमकोणाधिपतिः ।
वाति यः । वातास इति भाषा । स च
पञ्चभूतान्तर्गतभूतविशेषः । तद्विशेषविवरणं
यथा । वायवः प्राणापानव्यानोदानसमानाः ॥
प्राणो नाम प्राग्गमनवान् नासाग्रस्थानवर्त्ती ।
अपानो नाम अवाग्गमनवान् पाय्वादिस्थान-
वर्त्ती । व्यानो नाम विश्वग्गमनवानखिलशरीर-
वर्त्ती । उदानः कण्ठस्थानीय ऊर्द्ध्वगमनवानुत्-
क्रमणवायुः । समानः शरीरमध्यगताशित-
पीतान्नादिसमीकरणकरः । समीकरणन्तु परि-
पाककरणं रसरुधिरशुक्रपुरीषादिकरणम् ॥
केचित्तु नागकूर्म्मकृकरदेवदत्तधनञ्जयाख्याः
पञ्चान्ये वायवः सन्तीत्याहुः । नत्र नागः
उद्गिरणकरः । कूर्म्मः निमीलनादिकरः ।
कृकरः क्षुधाकरः । देवदत्तः जृम्भणकरः ।
धनञ्जयः पोषणकरः । एतेषां प्राणादिष्वन्त-
र्भावात् प्राणादयः पञ्चैवेति केचित् ॥ इदं
प्राणादिपञ्चकं आकाशादिगतरजोऽंशेभ्यो
मिलितेभ्य उत्पद्यते । इदं प्राणादिपञ्चकं
कर्म्मेन्द्रियसहितं सत् प्राणमयकोशो भवति ।
अस्य क्रियात्मकत्वेन रजोऽशकार्य्यत्वम् । एतेषु
कोशेषु मध्ये विज्ञानमयो ज्ञानशक्तिमान् कर्त्तृ-
रूपः । मनोमय इच्छाशक्तिमान् करणरूपः ।
प्राणमयः क्रियाशक्तिमान् कार्य्यरूपः । इति
वेदान्तसारः ॥ तत्पर्य्यायः । श्वसनः ३ स्पर्शनः
३ मातरिश्वा ४ सदागतिः ५ पृषदश्वः ६ गन्ध-
वहः ७ गन्धवाहः ८ अनिलः ९ आशुगः १०
समीरः ११ मारुतः १२ मरुत् १३ जगत्प्राणः
१४ समीरणः १५ नभस्वान् १६ वातः १७
पवनः १८ पवमानः १९ प्रभञ्जनः २० । इत्य-
मरः ॥ अजगत्प्राणः २१ खश्वासः २२ वाहः
२३ धूलिध्वजः २४ फणिप्रियः २५ वातिः २६
नभःप्राणः २७ भोगिकान्तः २८ स्वकम्पनः २९
अक्षतिः ३० कम्पलक्ष्मा ३१ शसीनिः ३२
आवकः ३३ हरिः ३४ । इति शब्दरत्नावली ॥
वासः ३५ सुखाशः ३६ मृगवाहनः २७ सारः
पृष्ठ ४/३४२
३८ चञ्चलः ३९ विहगः ४० प्रकम्पनः ४१ नभः-
स्वरः ४२ निश्वासकः ४३ स्तनूनः ४४ पृषतां-
पतिः । इति जटाधरः ॥ * ॥ स च सृष्टि-
काले आकाशाज्जातः । यथा । तस्माद्बा
एतस्मादात्मन आकाशः संभूत आकाशा-
द्वायुः । इत्यादि तैत्तिरीयश्रुतिः ॥ * ॥ ऊन-
पञ्चादशद्बायुरदितेः पुत्त्राः । ते सर्व्वे अप्रजाः ।
इन्द्रेण देवत्वं प्रापिताः । शरीरान्तर्ब्बाह्यभेदेन
दशधा । यथा । प्राणः १ । तस्य कर्म्म वहि-
र्गमनम् । अपानः २ । तस्य कर्म्म अधोगम-
नम् । व्यानः ३ । तस्य कर्म्म आकुञ्चनप्रसा-
रणादि । समानः ४ । तस्य कर्म्म अशितपीता-
दीनां समं नयनम् । उदानः ५ । तस्य कर्म्म
ऊर्द्ध्वनयनम् ।
“उद्गारे नाग ६ आख्यातः कूर्म्म ७ उन्मीलने
स्मृतः ।
कृकरः ८ क्षुत्करो ज्ञेयो देवदत्तो ९ विजृम्भणे ।
न जहाति मृतञ्चापि सर्व्वव्यापी धनञ्जयः १० ॥”
इति भागवतटीकायां श्रीधरस्वामी ॥ * ॥
अन्यच्च ।
“द्वितीयं मारुतो भूतं त्वगध्यात्मञ्च विश्रुता ।
स्पर्ष्टव्यमधिभूतञ्च विद्युत्तत्राधिदैवतम् ॥”
इति महाभारते आश्वमेधिकपर्व्व ॥
तस्य गुणाः । यथा, --
“वायोरनियमस्पर्शो वादस्थानं स्वतन्त्रता ।
बलं शैघ्रञ्च मोक्षश्च कर्म्म चेष्टात्मता भवः ॥”
इति महाभारते मोक्षधर्म्मः ॥ * ॥
अनियमस्पर्शः । अनुष्णाशीतस्पर्शः १ । वाद-
स्थानम् । वागिन्द्रियगोलकानि २ । स्वतन्त्रता ।
गमनादौ ३ । बलम् ४ । शैघ्रम् ५ । मोक्षः
सूत्रादेः ६ । कर्म्म । उत्क्षेपणादि ७ । चेष्टा
श्वासप्रश्वासादि ८ । आत्मता प्राणरूपेण
चिद्वाधित्वम् ९ । भवः । जन्ममरणे १० । इति
तट्टीका ॥ * ॥ न्यायमते अस्य गुणादिर्यथा, --
“अपाकजानुष्णाशीतस्पर्शस्तु पवने मतः ।
तिर्य्यग्गमनवानेष ज्ञेयः स्पर्शादिलिङ्गकः ॥
पूर्ब्बवन्नित्यताद्युक्तं देहव्यापि त्वगिन्द्रियम् ।
प्राणांदिस्तु महावायुपर्य्यन्तविषयो मतः ॥”
इति भाषापरिच्छेदः ॥
“वायुं निरूपयति अपाकज इति । अनुष्णा-
शीतस्पर्शस्य पृथिव्यामपि सत्त्वात् अपाकज
इति । अपाकजस्पर्शस्य जलादावपि सत्त्वात्
उक्तमनुष्णाशीत इति । एतेन वायोर्व्विजा-
तीयस्पर्शो दर्शितः । तज्जनकतावच्छेदकं वायु-
त्वमिति भावः । एष वायुः स्पर्शादिलिङ्गकः ।
वायुर्हि स्पर्शशब्दधृतिकम्पैरनुमीयते । विजा-
तीयस्पर्शेन विलक्षणशब्देन तृणादीनां धृत्या
शाखादीनां कम्पनेन च वायोरनुमानात् ।
तथा च वायुर्न प्रत्यक्षस्तथाग्रे वक्ष्यते । वायु-
र्नित्योऽनित्यो वा परमाणुरूपो नित्यस्तदन्यो-
ऽनित्यः समवेतश्च । सोऽपि त्रिविधः शरीरे-
नियविषयभेदात् । अत्र शरीरमयोनिजं
पिशाचादीनाम् । देहव्यापीति । शरीरव्यापकं
स्यर्शग्राहकमिन्द्रियं त्वक् । तच्च वायवीयं
रूपादिषु मध्ये स्पर्शस्यैव व्यञ्जकत्वात् । अङ्ग-
संसर्गिसलिलशैत्यव्यञ्जकव्यजनवातवत् । विषयं
दर्शयति प्राणादिरिति । यद्यप्यनित्यो वायु-
अतुर्व्विधः तस्य चातुर्व्विध्यं प्राणादिना इत्युक्त-
माकरे । तथापि संहेपात् अत्रं त्रैविध्यमुक्तं
प्राणस्त्वेक एव हृदादिनानास्थानवशात् मुख-
निर्गमादिनानाक्रियावशाच्च नानासंज्ञां लभते
इत्यर्थः ।” इति सिद्धान्तमुक्तावली ॥ * ॥ अस्योत्-
पत्तिर्यथा, --
पुलस्त्य उवाच ।
“प्रविश्य जठरं शुद्धो दैत्यमातुः पुरन्दरः ।
ददर्शोर्द्ध्वमुखं बालं कटिन्यस्तकरं महत् ॥
तेनैव गर्भं दितिजं वज्रेण शतपर्व्वणा ।
चिच्छेद सप्तधा ब्रह्मन् स रुरोद सुविस्वरम् ॥
शक्रोऽपि प्राह मा मूढ रुदस्वेति सघर्घरम् ।
इत्येवमुक्त्वा चैकैकं भूयश्चिच्छेद सप्तधा ॥
ते जाता मरुतो नाम देवा दित्याः शतक्रतोः ।
मातुरेवापचारेण बलवीर्य्यपुरस्कृताः ॥”
इति वामने ६८ अध्यायः ॥
“यदमी भवता प्रोक्ता मरुतो दितिसम्भवाः ।
तत् केन पूर्ब्बमासन् वै मरुन्मार्गेण कथ्यताम् ॥
पुलस्त्य उवाच ।
श्रूयतां पूर्ब्बमरुतामुत्पत्तिं कथयामि ते ।
स्वायम्भुवं समारभ्य यावन्मन्वन्तरं त्विदम् ॥
स्वायम्भुवस्य पुत्त्रोऽभून्मनोर्नाम प्रियव्रतः ।
तस्यासीत् सवनो नाम पुत्त्रस्त्रैलोक्यपूजितः ॥
स्वमुत्पपाताथ स कामचारी
समं महिष्या वसुमानपुत्त्र्या ।
रराम तन्व्या सह कामचारी
ततोऽम्बरात् प्राच्यवतास्य शुक्रम् ॥
पतिभिः समनुज्ञाताः पपुः पुष्करसंस्थितम् ।
तं शुक्रं पार्थिवेन्द्रस्य मन्यमानास्तदामृतम् ॥
पीतमात्रेण शुक्रेण पार्थिवेन्द्रोद्भवेन च ।
ब्रह्मतेजोविहीनास्ता जाताः पत्न्यस्तपस्विनाम् ॥
सुषुवुः सप्त तनयांस्ते रुदन्तोऽथ भैरवम् ।
तेषां रुदितशब्देन सर्व्वमापूरितं जगत् ॥
अथाजगाम भगवान् ब्रह्मलोकात् पितामहः ।
समभ्येत्याब्रवीद्वालान् मा रुदध्वं महाबलाः ॥
मरुतो नाम यूयं वै भविष्यध्वं वियश्चराः ।
इत्येवमुक्ता देवेशो ब्रह्मा लोकपितामहः ॥
तानादाय वियञ्चारी मारुतानादिदेश ह ।
ते चासन् मरुतश्चाद्या मनोः स्वायम्भुवान्तरे ॥ * ॥
स्वारोचिषे तु मरुतो वक्ष्यामि शृणु नारद ।
स्वारोचिषस्य पुत्त्रश्च श्रीमानासीत् क्रतुध्वजः ॥
तस्य पुत्त्रा भवन् सप्त सप्तार्च्चिःप्र तिमा मुने ! ।
तपोऽर्थं ते गताः शैलं महामेरुं नभश्चराः ॥
आराधयन्तो ब्रह्माणं पदमैन्द्रमथेप्सवः ।
ततो विपश्चिन्नामाथ सहसाक्षो भयातुरः ।
पृतनामप्सरोमुख्यां प्राह नारद वाक्यवित् ॥
यथा हि तपसो विघ्नं तेषां भवति सुन्दरि ! ।
तथा कुरुष्व मा तेषां सिद्धिर्भवतु वै यथा ॥
इत्येवमुक्वा शक्रेण पृतना रूपशालिनी ।
तत्राजगाम त्वरिता यत्र तप्यन्ति ते तपः ॥
आश्रमस्याविदूरे तु नदी मन्दीदवाहिनी ।
तस्यां स्नातुं समायाताः सर्व्व एव सहोदराः ॥
सा तु स्नातुं सुचार्व्वङ्गी त्ववतीर्णा महा-
नदीम् ।
ददृशुस्ते नृपाः स्नातुं ततश्चुक्षुभिरे मुने ॥
तेषाञ्च प्राच्यवत् शुक्रं तत् पपौ जलचारिणी ।
शङ्खिनी ग्राहमुख्यस्य महाशङ्खख्य वल्लभा ।
ते वै विनष्टतपसो जग्मू राज्यन्तु पैतृकम् ॥
अहो बहुतिथे काले सा ग्राही शङ्खरूपिणी ।
समुद्धृता महाजालैर्मत्स्यबन्धेन मानिनी ॥
स तां दृष्ट्वा महाशङ्खीं स्थलस्थां मत्स्यजीवनः ।
विवेदयामास तदा क्रतुध्वजसुतेषु वै ॥
तथाभ्येत्य महात्मानो योगिनो योगधारिणः
नीत्वा स्वमन्दिरं सर्व्वे पुरवाप्यां समुत्सृजन् ॥
ततः क्रमाच्छङ्खिनी सा सुषुवे सप्त वै शिशून् ।
जातमात्रेषु पुत्त्रेषु मोक्षभावमगाश्च सा ॥
अमातृपितृका बाला जलमध्यविचारिणः ।
स्तन्यार्थिनो वै रुरुदुरथाभ्यागात् पितामहः ॥
मा रुदध्वमिति प्राह मारुतो नाम पुत्त्रकाः ।
यूयं देवा भविष्यध्वं वायवोऽम्बरचारिणः ॥
इत्येवमुक्त्वाथादाय सर्व्वांस्तान् दैवतान् प्रति ।
नियोज्य च मरुन्मार्गे वैराजभवनं गतः ॥
एवमासंश्च मरुतो मनोः स्वारोचिषान्तरे ॥ * ॥
औत्तमे मरुतो ये च तान् शृणुष्व तपोधन ।
औत्तमस्यान्ववाये च राजासीन्निषधाधिपः ।
वपुष्मानिति विख्यातो वपुषा भास्करोपमः ॥
तस्य पुत्त्रो गणश्रेष्ठो ज्योतिष्मान् धार्म्मिको-
ऽभवत् ।
स पुत्त्रार्थी तपस्तेपे नदीं मन्दाकिनीमनु ॥
तस्य भार्य्या च सुश्रोणी देवाचार्य्यसुता शुभा ।
तपश्चरणयुक्तस्य बभूव परिचारिका ॥
तेजोयुक्ता सुचार्व्वङ्गी दृष्टा सप्तर्षिभिर्व्वने ।
तां तथा चारुसर्व्वाङ्गीं दृष्ट्वाथ तपसा कृशाम् ॥
पप्रच्छस्तपसो हेतुन्तस्यास्तद्भर्त्तुरेव च ।
साब्रवीत्तनयार्थाय आवाभ्यां वै तपःक्रिया ॥
ते चास्यै वरदा ब्रह्मन् जाताः सप्त महषयः ॥
व्रजध्वं तनयाः सप्त भविष्यन्ति न संशयः ।
युवयोर्गुणसंयुक्ता महर्षीणां प्रसादतः ।
इत्येवमुक्त्वा जग्मुस्ते सर्व्व एव महर्षयः ।
सोऽपि राजर्षिरगमत् सभार्य्यो नगरं निजम् ॥
ततो बहुतिथे काले सा राज्ञो महिषी प्रिया ।
अवाप गर्भं तन्वङ्गी तस्मान्नृपतिसत्तमात् ॥
गुर्व्विण्यामथ भार्य्यायां ममारासौ नराधिपः ।
सा चाप्यारोढुमिच्छन्ती भर्त्तारं वै पतिव्रता ॥
निवारिता तदामात्यैर्न तथापि व्यतिष्ठत ।
तस्यामालिङ्ग्य भर्त्तारं चितायामारुहच्च सा ॥
ततोऽग्निमध्यात् सलिले मांसपेश्यपतन्मुने ।
साम्भसा सुखशीतेन संसिक्ता सप्तधाभवत् ।
तेऽजायन्ताथ मरुत औत्तमस्यान्तरे मनोः ॥ * ॥
पृष्ठ ४/३४३
तामसस्यान्तरे ये च मरुतोऽप्यभवन् पुरा ।
तानहं कीर्त्तयिष्यामि गीतनृत्यकलिप्रिय ! ॥
तामसस्य मनोः पुत्त्र ऋतध्वज इति श्रुतः ।
स पुत्त्रार्थी जुहावाग्नौ स्वमांसं रुधिरं तथा ॥
अस्थीनि रोम केशांश्च स्नायु मज्जा यकृद्व्रणम् ।
शुक्रं च वित्रसो राजा सुतार्थी चेति नः
श्रुतम् ॥
सप्तार्च्चिर्मथ्याच्च ततः शुक्रपातादनन्तरम् ।
मा मे क्षिपस्वेत्यसरत् शब्दः सोऽपि नृपो मृतः ॥
ततस्तस्माद्धुतवहात् सप्त तत्तेजसोपमाः ।
शिशवः समजायन्त ते रुदन्तश्च तन्मुने ॥
तेषान्तु ध्वनिमाकर्ण्य भगवान् पद्मसम्भवः ।
समागम्य निवार्य्याथ स चक्रे मरुतः सुतान् ॥
ते त्वासन्मरुतो ब्रह्मंस्तामसे देवतागणाः । * ।
येऽभवन्रैवते तांश्च शृणुष्व त्वं तपोधन ॥
रेवतस्यान्ववाये तु राजासीद्रिपुजिद्बली ।
रिपुजिन्नाम स ख्यातो न तस्यासीत् सुतः
किल ॥
स समाराध्य तपसा भास्करं तेजसां निधिम् ।
अवाप कन्यां सुरतिं तां प्रगृह्य गृहं ययौ ॥
तस्यां पितृगृहे ब्रह्मन् वसत्याञ्च पिता मृतः ।
सापि दुःखपरीताङ्गी स्वां तनुं त्यक्तुमुद्यता ॥
ततस्तां वारयामासुरृषयः सप्त मानसाः ।
तस्वामासक्तचित्तास्तु सर्व्व एव तपोधनाः ॥
अपारयन्ती तद्दुःखं प्रज्वाल्याग्निं विवेश ह ।
ते चापश्यन्त ऋषयस्तच्चित्ताभावितास्तथा ॥
तां मृतां ऋषयो दृष्ट्वा कष्टं कष्टेति वादिनः ।
प्रजग्मुर्ज्वलनाच्चापि सप्ताजायन्त दारकाः ॥
ते च मात्रा विना भूता रुरुदुस्तान् पितामहः ।
निवारयित्वा कृतवान् लोकनाथो मरुद्गणान् ॥
रेवतस्यान्तरे जाता मरुतोऽमी तपोधन । * ।
शृखुष्व कीर्त्तयिष्यामि चाक्षुषस्यान्तरे मनोः ॥
आसीन्माङ्कीति विख्यातो तपस्वी सत्यवाक्
शुचिः ।
सप्त सारस्वते तीर्थे सोऽतप्यत महत्तपः ॥
विघ्नार्थं तस्य तपसो देवाः संप्रेरयन् वधूम् ।
सा चाभ्येत्य नदीतीरं क्षोभयामास भाविनी ॥
ततोऽस्य प्राच्यवच्छुक्रं सप्त सारस्वते जले ।
तां चेवाप्यशपन्मूढां मुनिर्म्माङ्कनिको बधूम् ॥
गच्छालज्जेति मुढे त्वं पापस्यास्य फलं महत् ।
विध्वंसयिष्यति हयो भवतीं यज्ञसंसदि ॥
एवं शप्त्वा ऋषिः श्रीमान् जगामाथ स्वमाश्रयम् ।
सरस्वतीभ्यः सप्तभ्यः सप्त वै मरुतोऽभवन् ॥
एते तवोक्ता मरुतः पुरा यथा
जाता वियद्व्याप्तिकरा महर्षे ।
येषां श्रुते जन्मनि पापहानि-
र्भवेच्च धर्म्माभ्युदयो महान् वै ॥”
इति वामने मरुतोत्पत्तिर्नाम ६९ अध्यायः ॥ * ॥
अन्यच्च ।
“अतः परं प्रवक्ष्यामि मरुतोऽग्नीन् पितॄन्
ग्रहान् ।
प्रावाहो निवहश्चैव उद्वहः संवहस्तथा ॥
विवहः प्रवहश्चैव परिवाहस्तथैव च ।
अन्तरीक्षे च बाह्ये ते पृथङ्मार्गविचारिणः ॥
महेन्द्रप्रविभक्ताङ्गा मरुतः सप्त कीर्त्तिताः । * ।
सूर्य्याग्निश्च शुचिर्नामा वैद्युतः पावकः स्मृतः ॥
निर्म्मथ्य पचमानोऽग्निस्त्रयः प्रोक्ता इमेऽग्नयः ।
अग्नीनां पुत्त्रपौत्त्राश्च चत्वारिंशन्नवैव तु ।
मरुतामपि सर्व्वेषां विज्ञेयाः सप्त सप्तकाः ॥”
इति देवीपुराणे कालव्यवस्थानामाध्यायः ॥ * ॥
ऊनपञ्चाशद्वायुनामानि यथा, --
“एकज्योतिश्च द्विर्ज्योतिस्त्रिज्योतिज्योतिरेव च ।
एकशक्रो द्विशक्रश्च त्रिशक्रश्च महाबलः ॥
इन्द्रश्च गत्यदृश्यश्च ततः पतिसकृत्परः ।
मितश्च संमितश्चैव मुमितश्च महाबलः ॥
ऋतजित् सत्यजिच्चैव सुषेणः सेनजित्तथा ।
अन्तिमित्रोऽनमित्रश्च पुरुमित्रोऽपराजितः ॥
ऋतश्च ऋतवाहश्च धर्त्ता च धरुणो ध्रुवः ।
विधारणो नाम तथा देवदेवो महाबलः ॥
ईदृक्षश्चाप्यदृक्षश्च एते दश मिताशिनः ।
व्रतिनः प्रसदृक्षश्च सभरश्च महायशाः ॥
धाता दुर्गो धितिर्भीमस्त्वभियुक्तस्त्वपात् सहः ।
घुतिर्घपुरनाय्योऽथ वासः कामो जयो विराट् ।
इत्येकोनाश्च पञ्चाशन्मरुतः पूर्व्वसंभवाः ॥”
इति वह्निपुराणे गणभेदनामाध्यायः ॥ * ॥
वायोर्विकारहेतुर्यथा, --
“व्यायामादपतर्पणात् प्रपतनाद्भङ्गात् क्षया-
ज्जागरात्
वेगानाञ्च विधारणादतिशुचः शैत्यादति-
त्रासतः ।
रूक्षक्षारकषायतिक्तकटुकैरेभिः प्रकोपं व्रजेत्
वायुर्व्वारिधराममे परिणते चान्नेऽपराह्णेऽपि
च ॥” * ॥
तस्य लक्षणम् ।
“आध्मानस्तम्भरौक्ष्यस्फुटनविमथनक्षोभकम्प-
प्रतोदाः
कण्ठध्वंसावसादो श्रमकविलपनं स्रंसशूल-
प्रभेदाः ।
पारुष्यं कर्णनादो विषयपरिणतिभ्रंशदृष्टि-
प्रमोहा
विस्पन्दोद्वट्टनादिग्लपनमनशनं ताडनं पीड-
नञ्च ॥
नामोन्नामौ विषादो भ्रमपरिषदनं जृम्भणं
रोमहर्षो
विक्षेपाक्षेपशोषग्रहणशुषिरता छेदनं वेष्टनञ्च ।
वर्णः श्यावोऽरुणो वा तृडपि च महती स्वाप-
विश्लेषसङ्गा
विद्यात् कर्म्माण्यमूनि प्रकुपितपवनः स्यात्
कषायो रसश्च ॥” * ॥
अन्यच्च ।
“वदनविरसता स्याद्वर्च्चसः कर्कशत्वं
भवति वपुषि कार्श्यं रात्रिनिद्रानिवृत्तिः ।
त्वचि च परुषता स्यात् स्याच्च वैषम्यमग्ने-
रिति पवनविकारे लक्षणं प्रोक्तमेतत् ॥” * ॥
तस्य प्रशमताकारणम् । यथा, --
“रूक्षशीतो लघुः सूक्ष्मश्चलोऽथ विशदः खरः ।
विपरीतगुणैर्द्रव्यैर्मारुतः संप्रशाम्यति ॥
स्निग्धोष्णस्थिरवृष्यबल्यलवणस्वाद्वम्लतैलातप-
स्नानाभ्यञ्जनवस्तिमांसमदिरासंवाहनोन्मर्द्दनैः ।
स्निग्धस्वेदनिरूहणोपशमनः स्नेहोपनाहादिकं
पानाहारविहारभेषजमिदं वातं प्रशान्तं
नयेत् ॥” * ॥
ऋतुभेदेन विहारादिना च तस्य चयप्रकोप-
प्रशमनानि यथा, --
“ग्रीष्मे सञ्चीयते वायुः प्रावृट्काले प्रकुप्यति ।
प्रायेणोपशमं याति स्वयमेव समीरणः ॥
शरत्काले वसन्ते च पित्तं प्रावृडृतौ कफः ।
चयकोपशमान्दोषा विहाराहारसेवनैः ।
समानैर्यान्त्यकालेऽपि विपरीतैर्विपर्य्ययः ॥” * ॥
स च प्राणादिभेदेन पञ्चविधः । यथा, --
“पित्तं पङ्गु कफः पङ्गुः पङ्गवो मलधातवः ।
वायुना यत्र नीयन्ते तत्र वर्षन्ति मेघवत् ॥
वायुरायुर्ब्बलं वायुर्वायुर्धाता शरीरिणाम् ।
वायुर्व्विश्वमिदं सर्व्वं प्रभुर्व्वायुः प्रकीर्त्तितः ॥
वाह्यमण्डलचक्रेषु यथा राजा प्रशस्यते ।
तथा शरीरमध्येऽपि वायुरेकः परो विभुः ॥
वायुः प्राणादिभेदेन सच पञ्चविधः स्मृतः ।
हृदि प्राणो गुदेऽपानः समानो नाभिमध्यगः ॥
उदानः कण्ठदेशे तु व्यानः सर्व्वशरीरगः ।
योऽनिलो रक्तसञ्चारी स प्राणो नाम देहधृक् ॥
सोऽन्नं प्रवेशयत्यन्तः प्राणांश्चैवावलम्बते ।
कुपितः कुरुते रोगान् हिक्काध्मानादिकानपि ॥
उदानो नाम यस्तूर्द्ध्वमुपैति पवनोत्तमः ।
तेन भाषितगीतादिविशेषोऽपि प्रवर्त्तते ॥
ऊर्द्ध्वजत्रूगतान् रोगान् करोति कुपितश्च सः ।
आमपक्वाशयचरः समानोऽग्निसहायवान् ॥
अन्नं पचति तज्जांश्च विकारान् विविनक्ति सः ।
गुल्माग्निसादातीसारान् कुपितञ्च करोति सः ॥
पक्काशयस्थोऽपानस्तु काले कर्षति चाप्यधः ।
वातमूत्रपुरीषाणि शुक्रगर्भार्त्तवानि च ॥
क्रुद्धश्च कुरुते रोगान् घोरान् वस्तिगुदाश्रयान् ।
सर्व्वदेहचरो व्यानो रससंवाहनोद्यतः ॥
स्वेदासृक्स्रावणश्चापि पञ्चधा वेष्टयत्यपि ।
क्रुद्धश्च कुरुते रोगान् प्रायशः सर्व्वदेहगान् ॥
शुक्रदोषाः प्रमेहाश्च व्यानापानप्रकोपजाः ।
युगपत् कुपिताश्चामी देहं हन्युरसंशयः ॥” * ॥
तत्प्रकृतिकस्य लक्षणं यथा, --
“अल्पकेशः कृशो रूक्षो वाचालश्चलमानसः ।
आकाशचारी स्वप्नेषु वातप्रकृतिको नरः ॥” * ॥
प्राणादिपञ्चवायूनां यथाक्रमं संज्ञान्तरमाह ।
“प्राणोऽपानः समानश्चोदानव्यानौ च वायवः ।
नागः कूर्म्मश्च कृकरो देवदत्तो धनञ्जयः ॥ * ॥
प्राणस्तु प्रथमो वायुर्नराणामधिपः प्रभुः ।
नित्यमावापयेत् सर्व्वान् प्राणिनामुरसि स्थितः ॥
निःश्वासोच्छ्वासकश्चैव प्राणो जीवं समाश्रितः ।
प्रसाराकुञ्चनो वायुः प्रकाशो धारणस्तथा ॥
पृष्ठ ४/३४४
प्राणस्त्वेवंविधं कुर्य्यात् प्राणिनां प्राणधारकः ।
प्राणनं कुरुते यस्मात् तस्मात् प्राणः प्रकी-
र्त्तितः ॥
प्राणो हि भगवान् ईशः प्राणो विष्णः पिता-
महः ।
प्राणेन धार्य्यते लोकः सर्व्वं प्राणमयं जगम् ॥
इन्द्रियाणि प्रवर्त्तन्ते यावत् प्राणानिले हृदि ।
नष्टे न दृश्यते सर्व्वं तस्मात् प्राणन्तु रक्षयेत् ॥
रज्जुबद्धो यथा श्येनो गतोऽप्याकृष्यते पुनः ।
गुणवद्धस्तथा जीवः प्राणापानेन कृष्यते ॥
अपानयंस्तथाहारं मनुजानां यतोऽधमः ।
शुक्रमूत्रव्रजे वायुरपानस्तेन कीर्त्तितः ॥ * ॥
पीतं भक्षितमाघ्रातं रक्तं पित्तकफानिलान् ।
समं नयति ग्रात्रेषु समानो नाम मारुतः ॥
समानोऽग्निसमीपस्थः कोष्ठे च वाति सर्व्वतः ।
अन्नं गृह्णाति पचति विरेचयति मुञ्चति ॥ * ॥
स्पन्दयत्यधरं वक्त्रं नेत्रगात्रप्रकोपणः ।
उद्वेजयति मर्म्माणि उदानो नाम मारुतः ॥ * ॥
व्यानो विनामयत्यङ्गं व्यानो व्याधिप्रकोपणः ।
प्रीतेर्व्विनाशकश्चायं वार्द्ध्वकोत्पादकस्तथा ॥” * ॥
वायूनां स्थानानि ।
“शिरसो नासिकाप्रान्तमुदानस्थानमुच्यते ।
नाभेः पादतलं यावदपानस्य प्रकीर्त्तितम् ॥
शरीरव्यापको व्यानः प्राणः सकलनायकः ।
उद्गारे नाग इत्युक्तः कूर्म्मश्चोन्मीलने स्थितः ॥
कृकरः क्षुधिते चैव देवदत्तो विजृम्भिते ।
धनञ्जयः स्थितो मेढ्रे मृतस्यापि न मुञ्चति ।
भूतावाप्तिस्ततस्तस्याजायतेन्द्रियगोचरात् ॥ * ॥
उत्साहोच्छ्वासनिःश्वासचेष्टाधातुगतिः समाः ।
समो मोक्षे गतिमतां वायोः कर्म्माविकारजम् ॥”
इति सुखबोधः ॥ * ॥
अथ दिग्भववायुगुणाः ।
“प्राग्वातो मधुरः क्षारो वह्निमान्द्यकरो मुरुः ।
वैरस्यगौरवौष्णानि करोत्यप्स्वोषधीषु च ॥
भग्नोत्पिष्टक्षताद्येषु रागश्वयथुदाहकृत् ।
सन्निपातज्वरश्वासत्वग्दोषार्शोविषक्रिमीन् ।
कोपयेदामवातञ्च घनसंघातकारणम् ॥
दाक्षिणो मारुतो बल्यश्चक्षुष्यः शस्यघातकः ।
मधुरश्चाम्लदाही च कषायानुरसो लघुः ॥
रक्तपित्तप्रशमनो न च मारुतकोपनः ।
गण्डूपदादिकीटानां जनकः प्राणकारकः ॥
पाश्चिमोऽग्निवपुर्वर्णबलारोग्यविवर्द्धनः ।
कषायः शोषणः स्वर्य्यो रोचनो विशदो लघुः ॥
अपां लघुत्ववैशद्यशैत्यवैमल्यकारकः ।
सर्व्वद्रव्येष्वभिव्यक्तप्रभावरसवीर्य्यकृत् ।
व्रणसंरोपणस्त्वच्यो दाहशोथतृषापहः ॥
औत्तरो मारुतः स्निग्धो मृदुर्म्मधुर एव च ।
कषायानुरसः शीतः सर्व्वदोषप्रकोपणः ॥
क्षीणक्षतविषार्त्तानां हितो दाहतृषापहः ।
शीताधिकः सनीहारः सविद्युत्स्तनयित्नुमान् ॥
विश्वग्वायुरनायुष्यः प्राणिनां नैकदोषकृत् ।
सर्व्वर्त्तुनिन्दको हन्ता कृत्योत्पातपुरःसरः ॥” * ॥
व्यजनवायुगुणाः ।
“मूर्च्छदाहतृषास्वेदश्रमघ्नो व्यजनानिलः ।
तालवृन्तमयो वातस्त्रिदोषशमनो लघुः ॥
वंशव्यजनजो वातो रूक्षोष्णो वातपित्तदः ।
बालव्यजनमोजस्यं मक्षिकादीन् व्यपोहति ।
मायूरा वस्त्रजा वैत्रा वाता दोषत्रयापहाः ॥”
इति राजवल्लभः ॥ * ॥
अपि च । तत्र वायोः स्वरूपमाह ।
“दोषधातुमलादीनां नेता शीघ्रः समीरणः ।
रजोगुणमयः सूक्ष्मो रूक्षः शीतो लघुश्चलः ॥”
नेता स्थानान्तरे प्रापयिता । शीघ्रः आशु-
कारी । अन्यच्च ।
“उत्माहोच्छ्वासनिःश्वासचेष्टावेगप्रवर्त्तनैः ।
सम्यग्गत्या च धातूनामिन्द्रियाणाञ्च पाटवैः ॥
अनुगृह्णात्यविकृतो हृदयेन्द्रियचित्तधृक् ।
रजोगुणमयः सूक्ष्मो रूक्षः शीतो लघुश्चलः ॥
स्वरो मृदुर्योगवाही संयोगादुभयार्थकृत् ।
दाहहृत्तेजसा युक्तः शीतकृत् सोमसंश्रयात् ॥
विभागकरणाद्वायुः प्रधानं दोषसंग्रहैः ।
पक्वाशयकटीसक्थिश्रोत्रास्थिस्पर्शनेन्द्रियम् ।
स्थानं वातस्य तत्रापि पक्वाधानं विशेषतः ॥”
एको वायुः पित्तवशान्नामस्थानकर्म्मभेदैः पञ्च-
विधः ॥ * ॥ तेषां वायूनां नामान्याह ।
“उदानस्तदनु प्राणः समानोऽपान एव च ।
व्यानश्चैतानि नामानि वायोः स्थानप्रभेदतः ॥”
अथोदानादीनां स्थानान्याह ।
“कण्ठे हृदि तथाधस्तात् कोष्ठवह्नेर्मलाशये ।
सकलेऽपि शरीरेऽसौ क्रमेण पवनो वसेत् ॥”
अथ तेषां कर्म्माण्याह ।
“उदानो नाम यस्तूर्द्ध्वमुपैति पवनोत्तमः ।
तेन भाषितगीतादिप्रवृत्तिः कुपितस्तु सः ।
ऊर्द्ध्वजत्रगतान् रोगान् विदधाति विशेषतः ॥
यो वायुः प्राणनामासौ सुखं गच्छति देहधृक् ।
सोऽन्नं प्रवेशयत्यन्तः प्राणांश्चाप्यवलम्बते ॥
प्रायशः कुरुते दुष्टो हिक्काश्वासादिकान्
गदान् ।
आमपक्वाशयचरः समानो वह्निसङ्गतः ॥
सोऽन्नं पचति तज्जांश्च विशेषान् विविनक्ति
हि ॥”
तज्जानित्याह अन्नजान् । रसमलमूत्रादीन्
पृथक्करोतीत्यर्थः ।
“स दुष्टो वह्निमान्द्यातिसारगुल्मान् करोति हि ।
पक्वाशयालयोऽपानः काले कर्षति चाप्ययम् ॥
समीरणः शकृन्मूत्रशुक्रगर्भार्त्तवान्यधः ।
क्रुद्धस्तु कुरुते रोगान् घोरान् वस्तिगुदाश्रयान् ॥
शुक्रदोषप्रमेहांश्च व्यानापानप्रकोपजान् ॥”
स च ।
“कृत्स्नदेहचरो व्यानो रससंदहनो यतः ।
स्वेदासृक्स्रावणश्चापि पञ्चधा चेष्टयत्यपि ॥
गत्यपक्षेपणोत्क्षेपनिमेषोन्मेषणादिकाः ।
पायः सर्व्वाः क्रियास्तस्मिन् प्रतिबन्धाः शरी-
रिणाम् ॥
प्रस्यन्दनं चोद्वहनं पूरणञ्च विरेचनम् ।
धारणञ्चेति पञ्चैताश्चेष्टाः प्रोक्ता नभस्वतः ॥
क्रुद्धः स कुरुते रोगान् प्रायशः सर्व्वदेहगान् ।
युगपत् कुपिता एते देहं भिन्द्युरसंशयम् ॥”
देहं भिन्नं कुर्य्युर्मारयेयुरित्यर्थः । इति भाव-
प्रकाशः ॥ * ॥ (असुरविशेषः । यथा, हरि-
वंशे । २ । ८५ ।
“दीर्घजिह्वोऽर्कनयनो मृदुचापो मृदुप्रियः ।
वायुर्गरिष्ठो नमुचिः शम्बरोविजयो महान् ॥”)

वायुकेतुः, स्त्री, (वायुः केतुर्ध्वजो वाहनं वा

यस्याः ।) घूलिः । इति हारावली । १५८ ॥

वायुगण्डः, पुं, अजीर्णः । इति त्रिकाण्डशेषः ॥

वायुगुल्मः, पुं, (वायुना कृतो गुल्म इव ।) अम्भसां

भ्रमः । इति त्रिकाण्डशेषः ॥

वायुदारुः, पुं, (वायुना दीर्य्यते इति । दॄ + उण् ।)

मेघः । इति त्रिकाण्डशेषः ॥

वायुपुत्त्रः, पुं, (वायोः पुत्त्रः ।) भीमः । इति

धनञ्जयः ॥ हनूमान् । यथा, --
“हनूमानञ्जनासूनुर्वायुपुत्त्रो महाबलः ।”
इति तस्य द्वादशनामस्तोत्रम् ॥

वायुफलं, क्ली, (वायुना फलति प्रतिफलतीति ।

फल् + अच् ।) शक्रधनुः । (वायोः फलमिव ।)
करका । इति मेदिनी । ले, १६४ ॥

वायुभक्ष्यः, पुं, (वायुर्भक्ष्योऽस्येति ।) सर्पः ।

इति राजनिर्घण्टः ॥ वातभक्षके, त्रि ॥ (यथा,
गो० रामायणे । ३ । १५ । १२ ।
“स हि तेपे तपस्तीव्रं मन्दकर्णिर्महामुनिः ।
दशवर्षसहस्राणि वायुभक्ष्यः शिलासनः ॥”)

वायुवर्त्म, [न्] क्ली, (वायोर्वर्त्म ।) आकाशः ।

इति शब्दचन्द्रिका ॥

वायुवाहः, पुं, (वायुना उह्यते इति । वह् +

घञ् ।) धूमः । इति हेमचन्द्रः । ४ । १६९ ॥

वायुवाहिनी, स्त्री, (वायुं वहतीति । वह् +

णिनिः । ङीप् ।) वायुसञ्चारिणी शिरा । इति
वैद्यकम् ॥

वायुषः, पुं, मत्स्यविशेषः । कालवायुषपोना इति

भाषा । तस्य गुणाः ।
“वायुषो बृंहणो वृष्यो मधुरो धातुवर्द्धनः ॥”
इति राजवल्लभः ॥

वायुसखः, पुं, (वायोः सखा । “राजाहःसखिभ्य-

ष्टच् ।” ५ । ४ । ९१ । इति टच् ।) अग्निः ।
इति भरतः ॥

वायुसखा, [खि] पुं, (वायुः सखा यस्येति विग्रहे

टजभावात् । “अनङ् सौ ।” ७ । १ । ९३ । इति
अनङादेशः ।) अग्निः । इत्यमरः । १ । १ । ५८ ॥

वाय्वास्पदं, क्ली, (वायूनामास्पदं सञ्चरणस्थानम् ।)

आकाशः । इति धनञ्जयः ॥

वार्, क्ली, (वारयतीति । वृञ् + णिच् + क्विप् ।)

जलम् । इत्यमरः । १ । १० । ३ ॥ (यथा,
भागवते । १० । ३३ । २२ ।
“गन्धर्व्वपालिभिरनुद्रुत आविशद् वाः
श्रान्तो गजीभिरिभराडिव भिन्नसेतुः ॥”)
पृष्ठ ४/३४५

वारं, क्ली, (वार्य्यतेऽनेनेति । वृ + णिच् + घञ् ।)

मदिरापात्रम् । इति हेमचन्द्रः ॥

वारंवारं, व्य, पुनःपुनः । यथा । वारंवारं मुहुः

शश्वदिति शब्दरत्नावली ॥

वारः, पुं, (वारयति व्रियते वेति । वृ + णिच् +

अच् । वृ + घञ् वा ।) समूहः । अवसरः ।
इत्यमरः ॥ (यथा, महाभारते । १ । १६१ । ७ ।
“एकैकश्चापि पुरुषस्तत्प्रयच्छति भोजनम् ।
स वारो बहुभिर्वर्षैर्भवत्यसुतरो नरैः ॥”)
सूर्य्यादिवासरः । द्बारः । हरः । कुब्जवृक्षः ।
क्षणः । इति मेदिनी । रे, ६५ ॥ * ॥ अथ
वाराणां संज्ञा ।
“चरः सौम्यो गुरुः क्षिप्रो मृदुः शुक्रो रविर्ध्रुवः ।
शनिश्च दारुणो ज्ञेयो भौम उग्रः शशी समः ॥
चरक्षिप्रैः प्रयातव्यं प्रवेष्टव्यं मृदुध्रुवैः ।
दारुणोग्रैश्च योद्धव्यं क्षत्त्रियैर्जयकाङ्क्षिभिः ॥
नृपाभिषेकोऽग्निकार्य्यं सूर्य्यवारे प्रशस्यते ।
सोमे तु लेपयानञ्च कुर्य्याच्चैव गृहादिकम् ॥
सैनापत्यं शौर्य्ययुद्धं शस्त्राभ्यासः कुजे तथा ।
सिद्धिकार्य्यञ्च मन्त्रश्च यात्रा चैव बुधे स्मृता ॥
पठनं देवपूजा च वस्त्राद्याभरणं गुरौ ।
कन्यादानं गजारोहः शुक्रे स्यात् समयः स्त्रियाः ।
स्थाप्यं गृहप्रवेशश्च गजबन्धः शनौ शुभः ॥”
इति गारुडे ६२ अध्यायः ॥
सावनदिनवद्वारप्रवृत्तिः सूर्य्योदयावधिरेव ।
सूर्य्यसिद्धान्ते ।
“सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा ।
मध्यमग्रहभुक्तिश्च सावनेन प्रकीर्त्तिताः ॥”
अत्र दिनाधिपस्य रव्यादेर्भोग्यं दिनं वाररूपं
सावनगणनोक्तं व्यवहारोऽपि तादृगेव । तिथि-
विवेकेऽपि । भवतु वारयोगे व्यस्ततिथेर्ग्रहणं
तस्य दिनद्वयेऽसम्भवादित्युक्तम् । सावनदिन-
माह सूर्य्यसिद्धान्तः ।
“उदयादोदयं भानोर्भौमसावनवासराः ॥”
भौमेति पित्रादिदिनव्यावृत्त्यर्थम् । यत्तु रेखा-
पूर्ब्बपरयोरित्यादिना ज्योतिषे वारप्रवृत्तिरुक्ता
तज्ज्योतिःशास्त्रोक्तकालहोरादिज्ञापनार्थमिति
ज्योतिस्तत्त्वे बहुधा विवृतम् ।
“नैवास्तमनमर्कस्य नोदयः सर्व्वदा सतः ।
उदयास्तमनाख्यं हि दर्शनादर्शनं रवेः ॥
यैर्यत्र दृश्यते भास्वान् स तेषामुदयः स्मृतः ॥”
इति विष्णुपुराणात् सूर्य्यदर्शनयोग्यकालादेव
वारघटककर्म्मसु स एव कालः । इति ज्योति-
स्तत्त्वम् ॥ * ॥ अथ शोभनवाराः ।
“रविः सोमो मङ्गलश्च बुधो जीवः सितः शनिः ।
एतेषां नामतो वारा विख्याताः सर्व्वकर्म्मसु ॥
सितेन्दुबुधजीवानां वाराः सर्व्वत्र शोभनाः ।
भानुभूसुतमन्दानां शुभकर्म्मसु केष्वपि ॥”
इति ज्योतिःसागरः ॥
अथ वारवेला ।
“कृतमुनियमशरमङ्गल-
रामर्त्तुषु भास्करादियामार्द्धे ।
प्रभवति हि वारवेला
न शुभाशुभकार्य्यकरणाय ॥”
अथ कालवेला ।
“कालस्य वेला रवितः शराक्षि-
कालानलागाम्बुधयो गजेन्दू ।
दिने निशायामृतुवेदनेत्र-
नगेषु रामा विधुदन्तिनौ च ॥”
इति ज्योतिस्तत्त्वम् ॥ * ॥
तयोर्व्वर्ज्यत्वं यथा, --
“रवौ वर्ज्यं चतुःपञ्च सोमे सप्तद्वयं तथा ।
कुजे षष्ठद्वयञ्चैव बुधे बाणतृतीयकम् ॥
गुरौ सप्ताष्टकं चैव त्रिचत्वारि च भार्गवे ।
शनावाद्यञ्च षष्ठञ्च शेषञ्च परिवर्ज्जयेत् ॥ * ॥
रवौ षष्ठं विधौ वेदं कुजवारे द्वितीयकम् ।
बुधे सप्त गुरौ पञ्च भृगुवारे तृतीयकम् ।
शनावाद्यं तथा चान्त्यं रात्रौ कालं विवर्जयेत् ॥”
इति सारसंग्रहः ॥ * ॥
अथ स्त्रीणां प्रथमरजस्वलायां वारफलम् ।
“आदित्ये विधवा नारी सोमे चैव पतिव्रता ।
वेश्या मङ्गलवारे च बुधे सौभाग्यमेव च ॥
बृहस्पतौ पतिः श्रीमान् शुक्रे पुत्त्रवती भवेत् ।
शनौ बन्ध्या तु विज्ञेया प्रथमस्त्री रजस्वला ॥”
इति मथुरेशकृतसारसंग्रहः ॥
(बालः । यथा, ऋग्वेदे । २ । ४ । ४ ।
“वियोभरिभ्रदोषधीषु जिह्वा
मत्यो न रथ्यो दोधवीति वारान् ॥”
“रथ्यो रथार्होऽत्योन वाजी यथा वारान् दंश-
वारणसाधनान् बालान् दोधवीति कम्पयति ।”
इति तद्भाष्ये सायणः ॥ वरणीये, त्रि, । यथा,
ऋग्वेदे । १ । १२८ । ६ ।
“विश्वस्मा इत्सुकृते वारमृण्वत्यग्निर्द्बारान् वृण्वति ॥”
“वारं सर्व्वैर्वरणीयम् ॥” इति तद्भाष्ये सायणः ॥)

वारकं, क्ली, (वारयतीति । वृ + णिच् + ण्वुल् ।)

कष्टस्थानम् । इति हारावली । १२८ ॥ ह्रीवे-
रम् । इति हेमचन्द्रः । ४ । २२४ ॥

वारकः, पुं, (वृ + णिच् + ण्वुल् ।) अश्वविशेषः ।

इति विश्वः ॥ अश्वगतिः । निषेधके, त्रि । इति
मेदिनी । के, १३१ ॥ (यथा, महाभारते । १२ ।
३२१ । ३६ ।
“पुरा समूलबान्धवं प्रभुर्हरत्यदुःखवित् ।
तवेह जीवितं यमो न चास्ति तस्य वारकः ॥”)

वारकी, [न्] पुं, (वारकोऽस्त्यस्येति । इनिः ।)

चित्राश्वः । शत्रुः । पर्णाजीवी । पयोधिः ।
इति मेदिनी । ने, १९५ ॥

वारकीरः, पुं, (वारो वरणीयः कीरः पक्षीव ।

यद्वा, वारे अवसरे किरति कौतुकवाक्यमिति ।
कॄ + कः । निरुक्तलक्षणो दीर्घः । यद्बा, वारे
अवसरे कीलति बध्नाति कौतुकार्थंरज्ज्वा प्रेम्णा
वा । कील + कः । लस्य रत्वम् ।) श्यालकः ।
इति त्रिकाण्डशेषः ॥ वारग्राही । व्राडवः ।
यूका । वेणिवेधिनी । नीराजितहयः । इति
मेदिनी । रे, २८८ ॥

वारङ्कः, पुं, पक्षी । इति त्रिकाण्डशेषः ॥

वारङ्गः, पुं, (वारयतीति व्रियते इति वा । वृ +

“सृवृञोर्वृद्धिश्च ।” उणा० १ । १२१ । इति
अङ्गच् । धातोर्वृद्धिश्च ।) खड्गादिमुष्टिः ।
इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ मुट् इति
वाँट इति च भाषा ॥ (यथा, सुश्रुते । १ । ७ ।
“तत्र स्वस्तिकयन्त्राणि **** मूलेऽङ्कुशवदा-
वृत्तवारङ्गाणि अस्थिविनष्टशल्योद्धरणार्थमुप-
दिश्यन्ते ॥”)

वारटं, क्ली, (वार् जलमटति प्राप्नोतीति । अट्

+ अच् ।) क्षेत्रम् । इति त्रिकाण्डशेषः ।
क्षेत्रसमूहः । इति शब्दरत्नावली ॥

वारटा, स्त्री, (वारि जले अटतीति । अट् +

अच् + टाप् ।) हंसी । इति हेमचन्द्रः । ४ । ३९३ ॥

वारणं, क्ली, (वृ + णिच् + ल्युट् ।) प्रतिषेधः । इति

मेदिनी । णे, ६६ ॥ (यथा, हरिवंशे । १८० । ४५ ॥
“अस्त्राणां वारणार्थाय वासुदेवोऽप्यमुञ्चत ॥”)
हस्तवारणम् । इति जटाधरः ॥ * ॥ दानकाले
वारणनिषेधो यथा, --
“न देवगुरुविप्राणां दीयमानन्तु वारयेत् ।
न चात्मानं प्रशंसेद्वा परनिन्दाञ्च वर्ज्जयेत् ॥”
इति कौर्म्मे उपविभागे १६ अध्यायः ॥

वारणः, पुं, (वारयति परबलमिति । वृ + ल्युः ।)

हस्ती । इत्यमरः । २ । ८ । ३४ ॥ (यथा,
कुमारे । ५ । ७० ।
“इयञ्च तेऽन्या पुरतो षिडम्बना
यदूढया वारणराजहार्य्यया ।
विलोक्य वृद्धोक्षमधिष्ठितं त्वया
महाजनः स्मेरमुखो भविष्यति ॥”)
बाणवारः । इति शब्दरत्नावली ॥ (यथा,
महाभारते । ४ । ४० । २ ।
“वारणा यस्य सौवर्णाः पृष्ठे भासन्ति दंशिताः ॥
सुपार्श्वं सुग्रहञ्चैव कस्यैतद्धनुरुत्तमम् ॥”
वारि जले रणति चरतीति । वार् + रण् +
अच् । जलजाते, त्रि । यथा, हरिवंशे । ३१ । ४८ ।
“ततो वैभाण्डकिस्तस्य वारणं शक्रवारणम् ।
अवतारयामास महीं मन्त्रैर्वाहनमुत्तमम् ॥”
“वारि जले रणति चरतीति वारणः समुद्रोद्भव
इत्यर्थः ।” इति तट्टीकायां नीलकण्ठः ॥)

वारणबुषा, स्त्री, (बुष्यते इति । बुष उत्सर्गे +

कः । वारणानां बुषा । यद्वा, वारणान् पुष्णा-
तीति । पुष + कः । पृषोदरादित्वात् पस्य बः ।)
कदली । इत्यमरः । २ । ४ । ११३ ॥

वारणवल्लभा, स्त्री, (वारणानां वल्लभा प्रिया ।)

कदलीवृक्षः । इति त्रिकाण्डशेषः ॥

वारणसी, स्त्री, (वरणा च असी च नदीद्वयं

तस्य अदूरे भवा । “अदूरभवश्च ।” ४ । २ । ७० ।
इत्यण् । ङीप् । पृषोदरादित्वात् साधुः ।)
वाराणसी । काशी । इति हेमचन्द्रः ॥

वारणीयं, त्रि, (वृ + णिच् + अनीयर् ।) वारण-

योग्यम् । वृञधातोः ञ्यन्तादनीयप्रत्ययेन
निष्पन्नम् ॥ (यथा, कथासरित्सागरे । ५७ । १ ।
पृष्ठ ४/३४६
“अवारणीयं रिपुभिर्वारणीयं करं नुमः ।
हेरम्बस्य ससिन्दूरमसिं दूरमघच्छिदम् ॥”)

वारत्रं, क्ली, चर्म्मबन्धनी । इति केचित् ॥

वारबधूः, स्त्री, (वाराणां जनसमूहानां बधूः ।)

वारमुख्या । इति हेमचन्द्रः । ३ । १९७ ॥
(यथा, आर्य्यासप्तशत्याम् । ३२८ ॥
“निजगात्रनिर्व्विशेषस्थापितमपि सारमखिल-
मादाय ।
निर्मोकञ्च भुजङ्गी मुञ्चति पुरुषञ्च वारबधूः ॥”)

वारवाणः, पुं, क्ली, (वारं वारणीयं बाणं

यस्मात् ।) कञ्चुकः । इत्यमरः । २ । ८ । ६३ ॥
(यथा, माघे । १५ । ८४ ।
“पीनकुचतटनिपीडदल-
द्वरवारबाणमुरसा लिलिङ्गिरे ॥”)

वारबुषा, स्त्री, (वारान् बालकान् पुष्णातीति ।

पुष् + कः । पृषोदरादित्वात् पस्य बः ।) कदली ।
इति शब्दरत्नावली ॥

वारमुख्या, स्त्री, (वारेषु वेश्यासमूहेषु मुख्या

श्रेष्ठा ।) जनैः सत्कृता वेश्या । इत्यमरः । २ ।
६ । १९ ॥ (यथा, भागवते । १ । ११ । २० ।
“वारमुख्याश्च शतशो यानैस्तद्दर्शनोत्सुकाः ॥”)

वारयिता, पुं, (वारयति दुर्नीतेरिति । वृ + णिच्

+ तृच् ।) पतिः । इति हलायुधः ॥

वारला, स्त्री, (वारं लातीति । ला + कः ।)

वरटा । हंसी । इति हेमचन्द्रः । ४ । ३९३ ॥

वारलीकः, पुं, वल्वजा । इति शब्दरत्नावली ॥

वायुइ इति ख्यातः ॥

वारवाणिः, पुं, (वारं शब्दसमूहं वणते इति ।

वण + इण् ।) वंशीवादकः । इति त्रिकाण्ड-
शेषः ॥ उत्तमगायकः । इति शब्दरत्नावली ॥
धर्म्माध्यक्षः । संवत्सरः । इत्यजयपालः ॥ एत-
न्मते पवर्गीयादिः ॥

वारवाणिः, स्त्री, (वारे अर्थदानावसरे वाणिः

प्रियालापो यस्याः ।) वेश्या । इति त्रिकाण्ड-
शेषः ॥

वारवाणी, स्त्री, (वारवाणि + पक्षे ङीष् ।) वार-

मुख्या । इति शब्दरत्नावली ॥

वारविलासिनी, स्त्री, (वाराणां जनसमूहानां

विलासिनी स्त्री । यद्वा, वारान् विलासयतीति ।
वि + लस + णिच् + णिनिः । ङीप् ।) वेश्या ।
इति शब्दरत्नावली ॥ (यथा, कथासरित्-
सागरे । १२ । ७८ ।
“अस्तीह मथुरा नाम पुरीकंशारिजन्मभूः ।
तस्यां रूपनिकेत्यासीत् ख्याता वारविला-
सिनी ॥”)

वारवृषा, स्त्री, (वारान् हस्तिसमूहान् वर्षतीति ।

वृष + कः । टाप् । हस्तिभक्ष्यत्वेनास्यास्तथा-
त्वम् ।) कदली । इति शब्दरत्नावली ॥

वारसुन्दरी, स्त्री, (वाराणां नरसमूहानां

सुन्दरी ।) वेश्या । इति हारावली । १४४ ॥

वारसेवा, स्त्री, (वारे अवसरे सेवा ।) वेश्यानां

क्रमः । तासां गणः । इति जटाधरः ॥

वारस्त्री, स्त्री, (वाराणां जनसमूहानां स्त्री ।)

वेश्या । इत्यमरः । २ । ६ । १९ ॥

वारांनिधिः, पुं, (वारां जलानां निधिः । अलुक्

समासः ।) समुद्रः । इति शब्दरत्नावली ॥

वाराणसी, स्त्री, (वरणा च असी च । तयोर्नद्यो-

रदूरे भवा । “अदूरभवश्च ।” ४ । २ । ७० ।
इत्यण् । ङीप् । पृषोदरादित्वात् साधुः । अस्या
निरुक्तिर्यथा, --
“वरणासी च नद्यौ द्वे पुण्ये पापहरे उभे ।
तयोरन्तर्गता या तु सैषा वाराणसी स्मृता ॥”)
मोक्षदपुरीविशेषः । वनारस् इति हिन्दी
भाषा । तत्पर्य्यायः । वारणसी २ काशी ३
शिवपुरी ४ । इति हेमचन्द्रः ॥ जित्वरी ५
तपःस्थली ६ वरणसी ७ तीर्थराजी ८ काशिका
९ । इति शब्दरत्नावली ॥ तस्या माहात्म्यं
यथा, --
ईश्वर उवाच ।
“परं गुह्यतमं क्षेत्रं मम वाराणसी पुरी ।
सर्व्वेषामेव भूतानां संसारार्णवतारिणी ॥
तत्र भक्ता महादेवि ! मदीयं व्रतमाश्रिताः ।
निवसन्ति महात्मानः परं नियममास्थिताः ॥
उत्तमं सर्व्वतीर्थानां स्थानानामुत्तमञ्च यत् ।
ज्ञानानामुत्तमं ज्ञानं अविमुक्तपुरं मम ॥
स्थानान्तरं पवित्राणि तीर्थान्यायतनानि च ।
श्मशानसं स्थितान्येव दिव्यभूमिगतानि च ॥
भूर्लोके नैव संलग्नमन्तरीक्षे ममालयम् ।
अमुक्तास्तन्न पश्यन्ति मुक्ताः पश्यन्ति चेतसा ॥
श्मशानमेतद्विख्यातमविमुक्तमिति श्रुतम् ।
कालो भूत्वा जगदिदं संहराम्यत्र सुन्दरि ! ॥
देवीदं सर्व्वगुह्यानां स्थानं प्रियतरं मम ।
यद्भक्तास्तत्र गच्छन्ति मामेव प्रविशन्ति ते ॥
दत्तं जप्तं हुतं चेष्टं तपस्तप्तं कृतञ्च यत् ।
ध्यानमध्ययनं ज्ञानं सर्व्वं तत्राक्षयं भवेत् ॥
जन्मान्तरसहस्रेषु यत् पापं पूर्ब्बसञ्चितम् ।
अविमुक्तं प्रविष्टस्य तत्सर्व्वं व्रजति क्षयम् ॥
ब्राह्मणाः क्षत्त्रिया वैश्या शूद्रा ये वर्णसङ्कराः ।
स्त्रियो म्लेच्छाश्च ये चान्ये संकीर्णाः पाप-
योनयः ॥
कीटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः ।
कालेन निधनं प्राप्ताः स्वविमुक्ते वरानने ! ॥
चन्द्रार्द्धमौलयस्त्र्यक्षा महावृषभवाहनाः ।
शिवे मम पुरे देवि ! जायन्ते तत्र मानवाः ॥
नाविमुक्ते मृतः कश्चिन्नरकं याति किल्विषी ।
ईश्वरानुगृहीता हि सर्व्वे यान्ति परां गतिम् ॥
मोक्षं सुदुर्ल्लभं मत्वा संसारञ्चातिभीषणम् ।
अश्मना चरणौ हत्वा वाराणस्यां वसेन्नरः ॥
दुर्ल्लभा तपसा चापि पूतस्य परमेश्वरि ! ।
यत्र तत्र विपन्नस्य गतिः संसारमोक्षणी ॥
प्रसादाज्जायते ह्येतन्मम शैलेन्द्रनन्दिनि ! ।
अप्रबुद्धा न पश्यन्ति मम मायाविमोहिताः ॥
अविमुक्तं न पश्यन्ति मूढा ये तमसावृताः ।
विण्मूत्ररेतसां मध्ये तेषां वासः पुनः पुनः ॥
हन्यमानोऽपि यो विद्वान् वसेद्बिघ्नशतैरपि ।
स याति परमं स्थानं यत्र गत्वा न शोचति ॥
जन्ममृटत्युजरायुक्तं परं यान्ति शिवालयम् ।
अपुनर्मरणानां हि सा गतिर्मोक्षकाङ्क्षिणाम् ॥
यां प्राप्य कृतकृत्यः स्यादिति मन्यन्ति पण्डिताः ।
न दानैर्न तपोभिश्च न यज्ञैर्नापि विद्यया ॥
प्राप्यते मतिरुत्कृष्टा या विमुक्ते तु लभ्यते ।
नानावर्णा विवर्णाश्च चाण्डालाद्या जुगुप्सिताः ॥
किल्विषैः पूर्णदेहा ये विशिष्टैः पातकैस्तथा ।
भेषजं परमं तेषामविमुक्तं विदुर्ब्बुधाः ॥
अविमुक्तं परं ज्ञानमविमुक्तं परं पदम् ।
अविमुक्तं परं तत्त्वमविमुक्तं परं शिवम् ॥
कृत्वा वै नैष्ठिकीं दीक्षामविमुक्ते वसन्ति ये ।
तेषां तत् परमं ज्ञानं ददाम्यन्ते परं पदम् ॥
प्रयागं नैमिषं पुण्यं श्रीशैलोऽथ हिमालयः ।
केदारं भद्रकर्णञ्च गया पुष्करमेव च ॥
कुरुक्षेत्रं रुद्रकोटिर्नर्म्मदा स्नातकेश्वरम् ।
शालग्रामञ्च कुब्जाम्रं कोकामुखमनुत्तमम् ॥
प्रभासं विषयेशानं गोकर्णं भद्रकर्णकम् ।
एतानि पुण्यस्थानानि त्रैलोक्ये विश्रुतानि तु ॥
न यास्यन्ति परं मोक्षं वाराणस्यां तथा मृताः ।
वाराणस्यां विशेषेण गङ्गा त्रिपथगामिनी ॥
प्रविष्टा नाशयेत् पापं जन्मान्तरशतैः कृतम् ।
अन्यत्र शुभगा गङ्गा श्राद्धं दानं तपो जपः ॥
व्रतानि सर्व्वमेवैतत् वाराणस्यां सुदुर्लभम् ।
यजेत जुहुयान्नित्यं ददात्यर्च्चयतेऽमरान् ॥
वायुभक्ष्यश्च सततं वाराणस्यां स्थितो नरः ।
यदि पापो यदि शठो यदि वा धार्म्मिको नरः ।
वाराणसीं समासाद्य पुनाति सकलं नरः ॥
वाराणस्यां महादेवं येऽर्च्चयन्ति स्तुवन्ति वै ।
सर्व्वपापविनिर्म्मुक्तास्ते विज्ञेया गणेश्वराः ॥
अन्यत्र योगज्ञानाभ्यां सन्न्यासादथ नान्यतः ।
प्राप्यते तत् परं स्थानं सहस्रेणैव जन्मनः ॥
ये भक्त्या देवदेवेशं वाराणस्यां वसन्ति वै ।
ते विन्दन्ति परं मोक्षमेकेनैव तु जन्मना ॥
यत्र योगस्तथा ज्ञानं मुक्तिरेकेन जन्मना ।
अविमुक्तं तदासाद्य नान्यद्ग च्छेत्तपोवनम् ॥
ज्ञानाज्ञानाभिनिष्ठानां परमानन्दमिच्छताम् ।
या गतिर्विहिता सुभ्रु साविमुक्ते मृतस्य तु ॥
यानि चैवाविमुक्तस्य देहे भुक्तानि कृत्स्नशः ।
पुरी वाराणसी तेभ्यः स्थानेभ्यो ह्यधिका शुभा ॥
यत्र साक्षान्महादेवो देहान्ते स्वयमीश्वरः ।
व्याचष्टे तारकं ब्रह्म तत्रैव ह्यविमुक्तके ॥
तत्तत् परतरं तत्त्वमविमुक्तमिति श्रुतम् ।
एकेन जन्मना देवि वाराणस्यां तदाप्नुयात् ॥
भ्रूमध्ये नाभिमध्ये च हृदये चैव मूर्द्धनि ।
यथाविमुक्तमादित्ये वाराणस्यां व्यवस्थितम् ।
वारणायास्तथा चास्या मध्यं वाराणसी पुरी ॥
तत्रैव संस्थितं भद्रं नित्यमेवाविमुक्तकम् ।
वाराणस्याः परं स्थानं न भूतं न भविष्यति ॥
यत्र नारायणो देवो महादेवाधिरीश्वरः ।
तत्र देवाः सगन्धर्व्वाः सयक्षोरगराक्षसाः ।
पृष्ठ ४/३४७
उपासते मां सततं देवदेवः पितामहः ॥
महापातकिनो ये च ये च वै पापकृत्तमाः ।
वाराणसीं समासाद्य ते यान्ति परमां गतिम् ।
तस्मान्मुमुक्षुर्विवशो वसेद्वै मरणान्तिकम् ॥
वाराणस्यां महादेवाज्ज्ञानं लब्ध्वा विमुच्यते ।
किन्तु विघ्ना भविष्यन्ति पापौघहतचेतसः ॥
यथा नारायणः श्रेष्ठो देवानां पुरुषोत्तमः ।
यथेश्वराणां गिरिशः स्थानानां वै तदुत्तमम् ॥
यैः समाराधितो रुद्रः पूर्ब्बस्मिन्नेव जन्मनि ।
ते विन्दन्ति परं क्षेत्रमविमुक्तं शिवालयम् ॥
ये स्मरन्ति सदा कालं वदन्ति च पुरीमिमाम् ।
तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम् ॥
आचक्षध्वमिदं स्थानं सेवितं मोक्षकाङ्क्षिणाम् ।
मृतानाञ्च पुनर्जन्म न भूयो भवसागरे ॥
तस्मात् सर्व्वप्रयत्नेन वाराणस्यां वसेन्नरः ।
योगी वाप्यथवायोगी पापी वा पुण्यकृत्तमः ॥”
इति कौर्म्मे २८ अध्यायः ॥ * ॥
अन्यच्च ।
“वाराणसी नाम पुरी गङ्गातीरे मनोहरे ।
वरणायास्तथा वासेर्मध्ये चापाकृतिः सदा ॥
स्वयं वृषध्वजस्तत्र नित्यं वसति योगिनाम् ।
सदा प्रीतिकरो योगी स्वयं चाप्यात्मचिन्तकः ॥
वियत्स्था सा पुरी नित्यं भर्गयोगबलाद्भृता ।
दिव्यं ज्ञानं ददात्येष तत्र यो म्रियते जनः ॥
तस्मै स्वयं महादेवः संसारग्रन्थिमुक्तये ।
स भूत्वा परमो योगी मृतस्तत्र भवान्तरे ॥
सुलभेनैव निर्व्वाणमाप्नोति स्मरहासमः ।
योगयुक्तो महादेवः पार्व्वत्या सहितः सदा ॥
देवगन्धर्व्वयक्षाणां मानुषाणाञ्च नित्यशः ।
ज्ञेयो हरः प्रकाशश्च क्षेत्रं तच्च प्रकाशितम् ॥
न तत्र कामदो देवो न चिराच्च प्रसीदति ।
आराधितश्चिरं भक्त्या निर्व्वाणाय प्रसीदति ॥
गौर्य्यादिवर्ज्जिता सा तु पुरी तत्र न गच्छति ।
योगस्थानं महाक्षेत्रं कदाचिदपि शाङ्करी ॥
आसन्नं युवयोः क्षेत्रमिदं वाराणसी तु यत् ।
कथितं नातिदूरे च वर्त्ततेऽमरसत्तमौ ॥”
इति कालिकापुराणे ५० अध्यायः ॥ * ॥
अथ काशीयात्राविधिः ।
सूत उवाच ।
“यात्रापरिक्रमं ब्रूहि जनानां हितकाम्यया ।
यथावत् सिद्धिकामानां सत्यवत्याः सुतो मम ॥
व्यास उवाच ।
निशामय महाप्राज्ञ लोमहर्षण वच्मि ते ।
यथा प्रथमतो यात्रा कर्त्तव्या यात्रिकैर्म्मुद ॥
सचेलमादौ संस्नाय चक्रपुष्करिणीजले ।
सन्तर्प्य देवान् सपितॄन् ब्राह्मणांश्च तपस्विनः ॥
आदित्यं द्रौपदीं विष्णुं दण्डपाणिं महेश्वरम् ।
नमस्कृत्य ततो गच्छेत् द्रष्टुं ढुण्ढिविनायकम् ॥
ज्ञानवापीमुपस्पृश्य नन्दिकेशं ततोऽर्च्चयेत् ।
तारकेशं समभ्यर्च्च्य महाकालेश्वरं ततः ॥
ततः पुनर्द्दण्डपाणिमित्येषा पञ्चतीर्थिका ।
दैनन्दिनी विधातव्या महाफलमभीप्सुभिः ॥ * ॥
ततो वैश्वेश्वरी यात्रा कार्य्या सर्व्वार्थसिद्धये ।
द्विसप्तायतनानाञ्च कार्य्या यात्रा प्रयत्नतः ॥
कृष्णां प्रतिपदं प्राप्य भूतावधि यथाविधि ।
अथवा प्रतिभूतञ्च क्षेत्रसिद्धिमभीप्सुभिः ॥
तत्ततीर्थकृतस्नानस्तत्तल्लिङ्गकृतार्च्चनः ।
मौनेन यात्रां कुर्व्वाणः फलं प्राप्नोति यात्रिकः ॥
ॐकारं प्रथमं पश्येत् मत्स्योदर्य्यां कृतोदकः ।
त्रिपिष्टपमहादेवं ततो वै कृत्तिवाससम् ॥
रत्नेशञ्चाथ चन्द्रेशं केदारञ्च ततो व्रजेत् ।
धर्म्मेश्वरञ्च वीरेशं गच्छेत् कामेश्वरं ततः ॥
विश्वकर्म्मेश्वरञ्चाथ मणिकर्णीश्वरं ततः ।
अविमुक्तेश्वरं दृष्ट्वा ततो विश्वेशमर्च्चयेत् ।
एषा यात्रा प्रयत्नेन कर्त्तव्या क्षेत्रवासिभिः ॥
यस्तु क्षेत्रमुषित्वापि नैतां यात्रां समाचरेत् ।
विघ्नास्तस्योपजायन्ते क्षेत्रोच्चाटनसूचकाः ॥ * ॥
अष्टायतनयात्रान्या कर्त्तव्या विघ्नशान्तये ॥
दक्षेशः पार्व्वतीशश्च तथा पशुपतीश्वरः ।
गङ्गेशो नर्म्मदेशश्च गभस्तीशः सतीश्वरः ॥
अष्टमस्तारकेशश्च प्रत्यष्टमि विशेषतः ।
दृश्यान्येतानि लिङ्गानि महापापापशान्तये ॥ * ॥
अपरापि शुभा यात्रा योगक्षेमकरी सदा ।
सर्व्वविघ्नोपहन्त्री च कर्त्तव्या क्षेत्रवासिभिः ॥
शैलेशं प्रथमं वीक्ष्य वरणास्नानपूर्ब्बकम् ।
स्नानन्तु सङ्गमे कृत्वा द्रष्टव्यः सङ्गमेश्वरः ॥
स्वर्नीलतीर्थे सुस्नातः पश्येत् स्वर्नीलमीश्वरम् ।
स्नात्वा मन्दाकिनीतीर्थे द्रष्टव्यो मध्यमेश्वरः ॥
पश्येद्धिरण्यगर्भाख्यं तत्र तीर्थं कृतोदकः ।
पञ्चचूडह्रदे स्नात्वा ज्येष्ठस्थानं ततोऽर्च्चयेत् ॥
चतुःसमुद्रकूपे तु स्नात्वा देवं ततोऽर्च्चयेत् ।
देवस्याग्रे तु या वापी तत्रोपस्पर्शने कृते ।
शुक्रेश्वरं ततः पश्येत्तत्कूपविहितोदकः ।
दण्डखाते नरः स्नात्वा व्याघ्रेशं पूजयेत्ततः ॥
शौनकेश्वरकुण्डे तु स्नानं कृत्वा ततोऽर्च्चयेत् ।
जम्बुकेशं महालिङ्गं कृत्वा यात्रामिमां नरः ॥
क्वचिन्न जायते भूयः संसारे दुःखसागरे ।
समारभ्य प्रतिपदं यावत् कृष्णां चतुर्द्दशीम् ॥
एतत्क्रमेण कर्त्तव्यान्येतदायतनानि वै ।
इमां यात्रां नरः कृत्वा न भूयोऽप्यभिजायते ॥
अन्या यात्रा प्रकर्त्तव्यैकादशायतनोद्भवा ।
अग्नीध्रकुण्डसुस्नातः पश्येदग्नीध्रमीश्वरम् ॥
उर्व्वशीशं ततो गच्छेत्ततस्तु नकुलीश्वरम् ।
आषाढीशं ततो दृष्ट्वा भावभूतेश्वरं ततः ॥
लाङ्गलीशमथालोक्य ततस्तु त्रिपुरान्तकम् ।
ततो मनःप्रकामेशं प्रीतिकेशमथो व्रजेत् ॥
मदालसेश्वरं तस्मात् तिलपर्णेश्वरं ततः ।
यात्रैकादशलिङ्गानामेषा कार्य्या प्रयत्नतः ॥
इमां यात्रां प्रकुर्व्वाणो रुद्रत्वं प्राप्नुयान्नरः । * ।
अतः परं प्रवक्ष्यामि गौरीयात्रामनुत्तमाम् ॥
शुक्लपक्षतृतीयायां या यात्रा विश्ववृद्धिका ।
गोप्रेक्ष्यतीर्थे सुस्नाय सुखनिर्म्मालिकां व्रजेत् ॥
ज्येष्ठवाप्यां नरः स्नात्वा ज्येष्ठां गौरिं समर्च्चयेत् ।
सौभाग्यगौरी संपूज्या ज्ञानवाप्यां कृतोदकैः ॥
ततः शृङ्गारगौरीञ्च तत्रैव च कृतोदकः ।
स्नात्वा विशालगङ्गायां विशालाक्षीं ततो व्रजेत् ॥
सुस्नातो ललितातीर्थे ललितामर्च्चयेत्ततः ।
स्नात्वा भवानीतीर्थे तु भवानीं परिपूजयेत् ॥
मङ्गला च ततोऽभ्यर्च्च्या बिन्दुतीर्थकृतोदकैः ।
ततो गच्छेन्महालक्ष्मीं स्थिरलक्ष्मीसमृद्धये ॥
इमां यात्रां नरः कृत्वा क्षेत्रेऽस्मिन्मुक्तिजन्मनि ।
न दुःखैरभिभूयेत इहामुत्रापि कुत्रचित् ॥ * ॥
कुर्य्यात् प्रतिचतुर्थीह पूजां विघ्नेशितुः सदा ।
ब्राह्मणेभ्यस्तदुद्देशाद्देया वै मोदका मुदे ॥
भौमे भैरवयात्रा च कार्य्या पातकहारिणी ।
रविवारे रवेर्यात्रां षष्ठ्यां वा रविसंयुजि ॥
तथैव रविसप्तम्यां सर्व्वविघ्नोपशान्तये ।
नवम्यामथवा षष्ठ्यां चण्डीयात्रा शुभावहा ॥ * ॥
अन्तर्गृहस्य यात्रा वै कर्त्तव्या प्रतिवत्सरम् ।
प्रातः स्नानं विधायादौ नत्वा पञ्च विनायकान् ।
नमस्कृत्वा च विश्वेशं स्थित्वा निर्व्वाणमण्डपे ।
अन्तर्गृहस्य यात्रां हि करिष्येऽघौघशान्तये ॥
गृहीत्वा नियमञ्चेति गत्वाथ मणिकर्णिकाम् ।
स्नात्वा मौनेन चागत्य मणिकर्णीशमर्च्चयेत् ॥
कम्बलाश्वतरौ नागौ वासुकीशं प्रणम्य च ।
पर्व्वतेशं ततो दृष्ट्वा गङ्गाकेशवमप्यथ ॥
ततस्तु ललितां दृष्ट्वा जरासन्धेश्वरं ततः ।
ततो वै सोमनाथञ्च वराहञ्च ततो व्रजेत् ॥
ब्रह्मेश्वरं ततो नत्वा नत्वागस्तीश्वरं ततः ।
कश्यपेशं नमस्कृत्य हरिकेशवनन्त्वथ ॥
वैद्यनाथं ततो गत्वा ध्रुवेशमथ वीक्ष्य च ।
गोकर्णेशं ततोऽभ्यर्च्च्य हाटकेशमथो व्रजेत् ॥
अस्थिक्षेपतडागेऽथ दृष्ट्वा वै कीकशेश्वरम् ।
भावभूतं ततो नत्वा चित्रगुप्तेश्वरं ततः ॥
चित्रघण्टां प्रणम्याथ ततः पशुपतीश्वरम् ।
पितामहेश्वरं गत्वा ततस्तु कलसेश्वरम् ॥
चन्देशन्त्वथ वीरेशो विघ्नेशोऽग्नीश एव च ॥
नागेश्वरो हरिश्वन्द्रश्चिन्तामणिविनायकः ।
सेनाविनायकश्चाथ द्रष्टव्यः सर्व्वविघ्नहृत् ॥
वशिष्ठवामदेवौ च मूर्त्तिरूपधरावुभौ ।
द्रष्टव्यौ यत्नतः काश्यां महाविघ्नविनाशनौ ।
सीमाविनायकं नाथं करुणेशं ततो व्रजेत् ॥
त्रिसन्ध्येशो विशालाक्षी धर्म्मेशो विश्वबाहुका ।
आशाविनायकश्चाथ वृद्धादित्यस्ततः पुनः ॥
चतुर्वक्रेश्वरं लिङ्गं ब्रह्मेशस्तु ततः परम् ।
ततो मनःप्रकाशेश ईशानेशस्ततः परम् ॥
चण्डीचण्डीश्वरौ दृश्यौ भवानीशङ्करौ ततः ।
ढुण्ढिं प्रणम्य च ततो राजराजं समर्च्चयेत् ॥
लाङ्गलीशस्ततोऽभ्यर्च्च्यस्ततस्तु नकुलीश्वरः ।
परार्णेशमथो नत्वा परद्रव्येश्वरं ततः ॥
प्रतिग्रहेश्वरञ्चापि निष्कलङ्केशमेव च ।
मार्कण्डेयेशमभ्यर्च्च्य ततः अप्सरसेश्वरम् ॥
गङ्गेशोऽर्च्च्यस्ततो ज्ञानवाप्यां स्नानं समाचरेत् ।
नन्दिकेशं तारकेशं महाकालेश्वरं ततः ॥
दण्डपाणिं महेशञ्च मोक्षेशं प्रणमेत्ततः ।
वीरभद्रेश्वरं नत्वा अविमुक्तेश्वरं ततः ॥
पृष्ठ ४/३४८
विनायकांस्ततः पञ्च विश्वनाथं ततो व्रजेत् ।
ततो मौनं विसृज्याथ मन्त्रमेनमुदीरयेत् ॥
अन्तर्गृहस्य यात्रेयं यथावद्यन्मया कृता ।
न्यृनातिरिक्तया शम्भुः प्रीयतामनया विभुः ॥
इति मन्त्रं समुच्चार्य्य क्षणं वै मुक्तिमण्डपे ।
विश्राम्य यायाद्भवनं निष्पापः पुण्यवान्नरः ॥ * ॥
संप्राप्य वासरं विष्णोर्विष्णुतीर्थेषु सर्व्वतः ।
कार्य्या यात्रा प्रयत्नेन महापुण्यसमृद्धये ॥
नवम्यां पञ्चदश्याञ्च कुलस्तम्भं समर्च्चयेत् ।
दुःखरुद्रपिशाचत्वे न भवेदस्य पूजनात् ॥
श्रुत्वा पूर्ब्बमिमा यात्राः कर्त्तव्यास्तीर्थवासिभिः ।
पर्व्वस्वपि विशेषेण कार्य्या यात्राश्च सर्व्वतः ॥
न बन्ध्यं दिवसं कुर्य्यात् विना यात्रां क्वचित् कृती ।
यात्राद्वयं प्रयत्नेन कर्त्तव्यं प्रतिवासरम् ।
आदौ स्वर्गतरङ्गिण्यास्ततो विश्वेशितुर्भुवम् ॥
यस्य बन्ध्यं दिनं जातं काश्यां निवसतः सतः ।
निराशाः पितरस्तस्य तस्मिन्नेत दिनेऽभवन् ॥
स दष्टः कालसर्पेण स दष्टो मृत्युना स्फुटम् ।
स मुष्टस्तत्र दिवसे विश्वेशो यत्र नेक्षितः ॥
सर्व्वतीर्थेषु सस्नौ स सर्व्वयात्रां व्यधात् स च ।
मणिकर्ण्यान्तु यः स्नातो यो विश्वेशं निरैक्षत ॥
सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः ।
दृश्यो विश्वेश्वरो नित्यं स्नातव्या मणिकर्णिका ॥
व्यास उवाच ।
सूत स्कान्दमिमं श्रुत्वा काशीमाहात्म्यमुत्तमम् ।
नरो न निरयं याति कृत्वाप्यघसहस्रकम् ॥”
इति काशीखण्डे १०० अध्यायः ॥

वाराणसेयः, त्रि, (वाराणसी + “नद्यादिभ्यो

ढक् ।” ४ । २ । ९७ । इति ढक् ।) वाराणसीजातः ।
वाराणसी शब्दात् ष्णेयप्रत्ययेन निष्पन्नः ॥

वारासनं, क्ली, (वारां आसनम् ।) जलाधारः ।

तत्पर्य्यायः । वाःसदनम् २ । इति त्रिकाण्ड-
शेषः ॥

वाराहः, पुं, महापिण्डीतकवृक्षः । इति राज-

निर्घण्टः ॥ वराह एव (वराह + स्वार्थे अण् ।)
वाराहः । (कल्पभेदः । यथा, भागवते । ३ ।
११ । ३७ ।
“अयन्तु कथितः कल्पो द्वितीयस्यापि भारत ! ।
वाराह इति विख्यातो यत्रासीत् शूकरो
हरिः ॥”
वराहस्येदमिति । वराह + तस्येदमित्यण् ।)
तत्सम्बन्धिनि, त्रि ॥ (यथा, महाभारते । २ । ४ । २ ।
“साज्येन पायसेनैव मधुना मिश्रितेन च ।
भक्ष्यैर्मूलैः फलैश्चैव मांसैर्वाराहहारिणैः ॥”
क्ली, तीर्थभेदः । यथा, महाभारते । ३ । ८३ । १८ ।
“ततो गच्छेत धर्म्मज्ञ ! वाराहं तीर्थमुत्तमम् ।
विष्णुर्वराहरूपेण पूर्ब्बं यत्र स्थितोऽभवत् ॥”
पुराणविशेषः । यथा, देवीभागवते । १ । ३ । ८ ।
“चतुर्व्विंशतिसाहस्रं वाराहं परमाद्भुतम् ॥”)

वाराहकर्णी, स्त्री, (वाराहकर्ण इव पत्रमस्त्यस्याः ।

वाराहकर्ण + अच् । गौरादित्वात् ङीष् ।)
अश्वगन्धा । इति राजनिर्घण्टः ॥

वाराहपत्री, स्त्री, (वाराहस्तत्कर्ण इव पत्र-

मस्त्यस्याः । अच् । गौरादित्वात् ङीष् ।)
अश्वगन्धा । इति राजनिर्घण्टः ॥

वाराहाङ्गी, स्त्री, (वाराहमिवाङ्गमस्याः । ङीष् ।)

दन्तीवृक्षः । इति भावप्रकाशः ॥

वाराही, स्त्री, (वाराह + ङीष् ।) ब्रह्माण्या-

द्यष्टमातृकान्तर्गतमातृकाविशेषः । यथा, --
“वराहरूपधारी च वराहोपम उच्यते ।
वाराहजननी चाथ वाराही वरवाहना ॥”
इति देवीपुराणे देवीनिरुक्ताध्यायः ४५ ॥
योगिनीविशेषः । यथा, --
“दुर्गा चण्डेश्वरी चण्डी वाराही कार्त्तिकी
तथा ।
हरसिद्धा तथा काली इन्द्राणी वैष्णवी तथा ॥
भद्रकाली विशालाक्षी भैरवी कामरूपिणी ।
एताः सर्व्वाश्च योगिन्यो भृङ्गारैः स्नापयन्तु ते ॥”
तीर्थविशेषः । यथा, --
“वाराही यमुना गङ्गा करतोया सरस्वती ।
कावेरी चन्द्रभागा च सिन्धुभैरवसागराः ।
पशुस्नानविधानाय सान्निध्यमिह कल्पय ॥”
इति बृहन्नन्दिकेश्वरपुराणोक्तदुर्गापूजापद्धतिः ॥
वराहदेवस्य शक्तिः । यथा, --
“यज्ञवाराहमतुलं रूपं या बिभ्रतो हरेः ।
शक्तिः साप्याययौ तत्र वाराहीं विभ्रती
तनुम् ॥”
इति चण्डी ॥
अपि च ।
“वाराहरूपिणीं देवीं दंष्ट्रोद्धृतवसुन्धराम् ।
शुभदां सुप्रभां शुभ्रां वाराहीं तां नमाम्यहम् ॥”
इति बृहन्नन्दिकेश्वरपुराणोक्तदुर्गापूजापद्धतिः ॥
वराहक्रान्ता । चामालु इति ख्यातः । तत्-
पर्य्यायः । विष्वक्सेनप्रिया २ घृष्टिः ३ वदरा
४ । इत्यमरः ॥ गृष्टिः ५ । इति भरतः ॥ शूकरी
६ क्रोडकन्या ७ विष्वक्सेनकान्ता ८ वराही ९
कौमारी १० त्रिनेत्रा ११ ब्रह्मपुत्त्री १२ क्रोडी
१३ कन्या १४ गृष्टिका १५ माधवेष्टा १६
शूकरकन्दः १७ क्रोडः १८ वनवासी १९ कुष्ठ-
नाशनः २० बल्यः २१ अमृतः २२ महावीर्य्यः
२३ महौषधम् २४ शम्बरकन्दः २५ वराह-
कन्दः २६ वीरः २७ ब्राह्मीकन्दः २८ सुककन्दः
२९ वृद्धिदः ३० व्याधिहन्ता ३१ । अस्य गुणाः ।
तिक्तत्वम् । कटुत्वम् । विषपित्तकफकुष्ठप्रमेह-
क्रिमिनाशित्वम् । वृष्यत्वम् । बल्यत्वम् । रसा-
यणत्वञ्च । इति राजनिर्घण्टः ॥ अन्यच्च ।
“वाराहीकन्द एवान्यैश्चर्म्मकारालुको मतः ।
अनूपे स भवेद्देशे वाराह इव लोमवान् ॥”
इति भावप्रकाशः ॥
श्यामापक्षी । इति राजनिर्घण्टः ॥ मेदिनीमते
पवर्गीयबकारादिरयं शब्दः ॥

वारि, क्ली, (वारयति तृषामिति । वृ + णिच् +

“वसिवपियजिराजिव्रजिसदिहनिवाशिवादिवा-
रिभ्य इञ् ।” उणा० ४ । १२४ । इति इञ् ।)
जलम् । इत्यमरः । १ । १० । ३ ॥ (यथा,
मनौ । ४ । ६३ ।
“न कुर्व्वीत वृथा चेष्टां न वार्य्यञ्जलिना पिबेत् ।
नोत्सङ्गेभक्षयेत् भक्ष्यान्न जातु स्यात् कुतूहली ॥”)
दिग्विशेषे तस्य निषेधविधी यथा, --
“ईशाने चापि पूर्ब्बस्मिन् पश्चिमे च तथो-
त्तरे ।
शिविरस्य जल भद्रमन्यत्राशुभमेव च ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०२ अध्यायः ॥
जलक्रीडायां वर्णनीयानि यथा, --
“जलकेलौ सरःक्षोभचक्रहंसापसर्पणम् ।
पद्मम्लानिपयोबिन्दुदृग्रागा भूषणच्युतिः ॥”
इति कविकल्पलतायाम् १ स्तवके ३ कुसुमम् ॥
ह्रीवेरम् । इति हेमचन्द्रः ॥

वारिः, स्त्री, (वारयतीति । वारि + इञ् ।)

वाक् । सरस्वती । गजबन्धनी । हस्तिबन्धन-
भूमिः । (यथा, रघौ । ५ । ४५ ।
“संहारविक्षेपलघुक्रियेण
हस्तेन तीराभिमुखः सशब्दम् ।
बभौ स भिन्दन् बृहतस्तरङ्गान्
वार्य्यर्गलाभङ्ग इव प्रवृत्तः ॥”)
वन्दिः । कएदीति भाषा । इति मेदिनीकार-
हेमचन्द्रौ ॥ (वरणीये, त्रि । यथा, वाजसनेय-
संहितायाम् । २१ । ६१ ।
“बहुभ्य आ सङ्गतेभ्य एष मे देवेषु वसु वार्य्या-
यक्ष्यते ।”
“एषोऽग्निर्मेमह्यं देवेषु वारि वरीतुं योग्यं
वारि वरणीयं वसु धनमायक्ष्यते ।” इति तद्भाष्ये
महीधरः ॥)

वारिकण्टकः, पुं, (वारिणः कण्टक इव ।) शृङ्गा-

टकः । इति जटाधरः त्रिकाण्डशेषश्च ॥

वारिकर्णिका, स्त्री, (वारिषु कर्णा इव पत्रा-

ण्यस्याः । गौरादित्वात् ङीष् । स्वार्थे कन् ।
टाप् पूर्ब्बह्रस्वश्च ।) खमूली । इति शब्द-
रत्नावली ॥ पाना इति भाषा ॥

वारिकर्पूरः, पुं, (वारिषु कर्पूर इव ।) इल्लिश-

मत्स्यः । इति त्रिकाण्डशेषः ॥

वारिकुब्जः, पुं, (वारिषु कुब्ज इव वक्रत्वात् ।)

शृङ्गाटकः । इति शब्दरत्नावली ॥

वारिकुब्जकः, पुं, (वारिकुब्ज + स्वार्थे कन् ।)

शृङ्गाटकः । इति त्रिकाण्डशेषः ॥

वारिक्रिमिः, पुं, (वारिणः क्रिमिः ।) जलौकाः ।

इति त्रिकाण्डशेषः ॥

वारिचत्वरः, पुं, (वारिणि चत्वर इव ।)

कुम्भिका । इति त्रिकाण्डशेषः ॥

वारिचरः, पुं, (वारिषु चरतीति । चर + टः ।)

मत्स्यः । इति धनञ्जयः ॥ (यथा, भागवते ।
६ । ९ । २३ ।
“यस्योरुशृङ्गे जगतीं स्वनावं
मनुर्यथावध्य ततार दुर्गम् ।
स एव नस्त्वाष्ट्रभयाद्दुरन्तात्
त्राताश्रितान् वारिचरोऽपि नूनम् ॥”)
पृष्ठ ४/३४९
जलचरजन्तुमात्रे, त्रि ॥ (यथा, महाभारते ।
१२ । २४७ । १८ ।
“यथा वारिचरः पक्षी न लिप्यति जले चरन् ।
विमुक्तात्मा तथा योगी गुणदोषैर्न लिप्यते ॥”)

वारिचामरं, क्ली, (वारिणश्चामरमिव तदा-

कारपुञ्जवत्त्वात् ।) शैवालः । इति त्रिकाण्ड-
शेषः ॥

वारिजं, क्ली, (वारिणि जायते इति । जन + डः ।)

द्रोणीलवणम् । गौरसुवर्णम् । पद्मम् । (यथा,
अध्यात्मरामायणे । २ । ९ । २ ।
“स तत्र वज्राङ्कुशवारिजान्वित-
ध्वजादिचिह्नानि पदानि सर्व्वतः ॥”)
लवङ्गम् । इति राजनिर्घण्टः ॥ (वारिजात-
मात्रे, त्रि । यथा, महाभारते । १ । ८१ । १४ ।
“केनास्यर्थेन नृपते ! इमं देशमुपागतः ।
जिघृक्षुर्वारिजं किञ्चिदथवा मृगलिसया ॥”
“वारिजं मीनंपद्मादि वेति ।” तट्टीकायां नील-
कण्ठः ॥)

वारिजः, पुं, (वाराण जायते इति । जन + डः ।)

शङ्खः । इति हेमचन्द्रः ॥ शम्बूकः । इति शब्द-
माला ॥

वारितस्करः, पुं, (वारिणस्तस्करः । अलक्षित-

भावेन तदपहारकत्वात्तथात्वम् ।) मेघः । इति
शब्दमाला ॥ वारिशोषणकर्त्तरि, त्रि । यथा,
“स्वरूपधारिणीं चेमामानिनाय निजा-
श्रमम् ।
संज्ञां भार्य्यां प्रीतिमतीं भास्करो वारितस्करः ॥”
इति मार्कण्डेयपुराणम् ॥

वारित्रा, स्त्री, (वारिणस्त्रायते इति । त्रै + डः ।

टाप् ।) छत्रम् । इति त्रिकाण्डशेषः ॥

वारिदं, क्ली, वाला । इति शब्दरत्नावली ॥

वारिदः, पुं, (वारि ददातीति । दा + “आतो-

ऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।)
मेघः । (यथा, मृच्छटिकनाटके । ५ अङ्के ।
“विद्युद्बारिदगर्ज्जितैः सचकिता तद्दर्शना-
काङ्क्षिणी ।
पादौ नूपुरलग्नकर्द्दमधरौ प्रक्षालयन्ती
स्थिता ॥”)
मुस्तकः । इत्यमरः ॥ (यथा, सुश्रुते चिकित्-
सितस्थाने । ३८ अध्याये ।
“रास्नारग्वधवर्षाभूकटुकोशीरवारिदैः ।
त्रायमाणामृतारक्तापञ्चमूलविभीतकैः ॥”
वारिदातरि, त्रि । यथा, मनौ । ४ । २२९ ।
“वारिदस्तृप्तिमाप्नोति दीर्घमायुर्हिरण्यदः ।
गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्त-
मम् ॥”)

वारिधिः, पुं, (वारीणि धीयन्ते अस्मिन्निति ।

धा + “कर्म्मण्यधिकरणे च ।” ३ । ३ । ९३ ।
इति किः ।) समुद्रः । इति शब्दरत्नावली ॥
(यथा, कथासरित्सागरे । १८ । ३०१ ।
“तद्बद्धोऽवततारैव वारिधौ स विदूषकः ।
न जात्ववसरे प्राप्ते सत्त्ववानवसीदति ॥”)

वारिनाथः, पुं, (वारीणां नाथः ।) वरुणः ।

समुद्रः । मेघः । इति केचित् ॥

वारिनिधिः, पुं, (वारीणि निधीयन्ते अत्रेति ।

नि + धा + किः ।) समुद्रः । इति शब्दरत्ना-
वली ॥ (यथा, राजतरङ्गिण्याम् । ३ । ७८ ।
“पाराद्वारनिधेः प्राप्ताः काश्मीरेष्वधुनापि ये ।
राज्ञा यात्रासु निर्यान्ति ख्याता वारिध्वजाः
पुरः ॥”)

वारिपथिकः, त्रि, (वारिपथेन गच्छतीति । वारि-

पथ + “उत्तरपथेनाहूतञ्च ।” ५ । १ । ७७ ।
इत्यत्र “आहूतप्रकरणे वारिजङ्गलकान्तार-
पूर्ब्बादुपसंख्यानम् ।” इति वार्त्तिकसूत्रात् ठक् ।)
जलपथगामी । वारिपथं गच्छतीत्यर्थे ष्णिक-
प्रत्ययेन निष्पन्नः ॥ (वारिपथेन आहूतम् ।
इति काशिका ॥)

वारिपर्णी, स्त्री, (वारिणि पर्णाण्यस्या इति ॥

वारिपर्ण + “पाककर्णपर्णपुष्पेति ।” ४ । १ । ६४ ।
इति ङीष् ।) कुम्भिका । इत्यमरः । १ । १० । ३८ ॥
अस्या गुणाः ।
“वारिपर्णी हिमा तिक्ता मृद्वी स्वाद्बी सरा पटुः ।
दोषत्रयकरी रूक्षा शोणितज्वरशोषकृत् ॥”
इति राजवल्लभः ॥

वारिपालिका, स्त्री, (वारीणि पालयति सूर्य्य-

रश्म्यादिभ्यो रक्षतीति । पालि + ण्वुल् । टाप् ।
अत इत्वम् ।) खमूलिका । इति शब्दमाला ॥

वारिप्रवाहः, पुं, (वारिणः प्रवाहः ।) निर्झरः ।

इति शब्दमाला ॥

वारिप्रश्नी, स्त्री, (वारिजाता प्रश्नी ।) वारि-

पर्णी । इति शब्दमाला ॥

वारिबदरा, स्त्री, (वारिपरिपूर्णा बदरेव ।)

प्राचीनामलकम् । इति त्रिकाण्डशेषः ॥

वारिबालकं, क्ली, (वारिणो बालकम् ।) ह्नीवे-

रम् । इति हारावली । १७८ ॥

वारिभवं, क्ली, (वारिणे नेत्रजलाय भवति प्रभव-

तीति । भू + अच् ।) श्रोतोऽञ्जनम् । इति
राजनिर्घण्टः ॥ (जलभवमात्रे, त्रि ॥)

वारिमसिः, पुं, (वारि मसिरिव श्यामताजनकं

यस्य । सजलमेघस्यैव कृष्णवर्णत्वात् तथात्वम् ।)
मेघः । इति त्रिकाण्डशेषः ॥

वारिमुक्, [च्] पुं, (वारि मुञ्चतीति । मुच् +

क्विप् ।) मेघः । इति शब्दरत्नावली ॥ (यथा,
रघौ । ४ । ८६ ।
“स विश्वजितमाजह्रे यज्ञं सर्व्वस्वदक्षिणम् ।
आदानं हि विसर्गाय सतां वारिमुचामिव ॥”)

वारिमूली, स्त्री, (वारिणि मूलं यस्याः । “पाक-

वर्णपर्णेति ।” ४ । १ । ६४ । इति ङीष् ।)
वारिपर्णी । इति शब्दरत्नावली ॥

वारिरथः, पुं, (वारिषु रथ इव गमनसाधनत्वात् ।)

भेलकः । इति त्रिकाण्डशेषः ॥

वारिराशिः, पुं, (वारीणां राशयो यत्र ।)

समुद्रः । इति त्रिकाण्डशेषः ॥ (यथा, कथा-
सरित्सागरे । ६३ । ९८ ।
“तस्य भक्षयतो हस्ताच्च्युतमेकमुदुम्बरम् ।
जघास शिशुमारोऽत्र वारिराशिजलाश्रयः ॥”
वारीणां राशिः । जलसमूहश्च । यथा, रघौ ।
४ । ४६ ।
“शैलोपमः शैबलमञ्जरीणां
जालानि कर्षन्नुरसा स पश्चात् ।
पूर्व्वं तदुत्पीडितवारिराशिः
सरित्प्रवाहस्तटमुत्ससर्प ॥”)

वारिरुहं, क्ली, (वारिणि रोहति जायते इति ।

रुह + “इगुपधज्ञाप्रीकिरः कः ।” ३ । १ । १३५ ।
इति कः ।) कमलम् । इति राजनिर्घण्टः ॥
(यथा, किरातार्ज्जुनीये । ५ । १३ ।
“विकचवारिरुहन्दधतं सरः
सकलहंसगणं शुचिमानसम् ।
शिवमगात्मजया च कृतेर्ष्यया
सकलहंसगणं शुचिमानसम् ॥”)
जलजाते, त्रि ॥

वारिलोमा, [न्] पुं, (वारिणि लोमानि यस्य ।

यद्वा, वारि लोम्नि यस्य ।) वरुणः । इति जटा-
धरः ॥

वारिवदनं, क्ली, (वारियुक्तं वदनं यस्मात् ।

तत्सेवनेन मुखे जलनिस्रावात्तथात्तम् ।) प्राची-
नामलकम् । इति भूरिप्रयोगः ॥

वारिवरं, क्ली, करमर्द्दकम् । इति जटाधरः ॥

वारिवल्लभा, स्त्री, (वारि वल्लभमस्याः । स्वजनक-

त्वात् ।) विदारी । इति राजनिर्घण्टः ॥

वारिवासः, पुं, (वारिसमीपे वासोऽस्य । यद्वा,

वारि पर्य्युषितान्नादिजलं वासयति सुगन्धीकरो-
तीति । वास + अण् ।) शौण्डिकः । इति हेम-
चन्द्रः । ३ । ५६५ ॥

वारिवाहः, पुं, (वारि वहतीति । वह + “कर्म्म-

ण्यण् ।” ३ । २ । १ । इति अण् ।) मेघः ।
मुस्ता । इत्यमरः ॥

वारिवाहनः, पुं, (वाहयतीति । वाहि + ल्युः ।

वारीणां वाहनः ।) मेघः । इति शब्दरत्ना-
वली ॥

वारिशः, पुं, (वारिणि सागरजले शेते इति ।

शी + डः ।) विष्णुः । इति त्रिकाण्डशेषः ॥

वारिसम्भवं, क्ली, (वारिप्रधानदेशेषु सम्भव उत्-

पत्तिर्यस्य ।) लवङ्गम् । सौवीराञ्जनम् । उशी-
रम् । इति राजनिर्घण्टः ॥

वारिसम्भवः, पुं, (वारिप्रधानस्थानेषु सम्भव उत्-

पत्तिर्यस्य ।) यावनालशरः । इति राज-
निर्घण्टः ॥ (वारिषु सम्भवोऽस्य । वारिजात-
मात्रे, त्रि । यथा, रामायणे । ५ । ६६ । ९ ।
“इतस्तु किं दुःखतरं यमिमं वारिसम्भवम् ।
मणिं पश्यामि सौमित्रे ! वैदेहीमागतं
विना ॥”)

वारी, स्त्री, (वार्य्यतेऽनयेति । वृ + णिच् + “वसि-

वपियजिराजिव्रजिसदिहनिराशिवादिवारिभ्य
इञ् ।” उणा० ४ । १२४ । इति इञ् । वा
ङीष् ।) गजबन्धिनी । (यथा, रघुवंशे । ५ । ४५ ।
पृष्ठ ४/३५०
“बभौ स भिन्दन् बृहतस्तरङ्गान्
वार्य्यर्गलाभङ्ग इव प्रवृत्तः ॥”)
कलसी । इति धरणिः ॥

वारीटः, पुं, (वार्य्यां गजबन्धनभूम्यामेटतीति ।

इट् + कः ।) हस्ती । इति शब्दमाला ॥

वारीशः, पुं, (वारीणामीशः ।) समुद्रः । इति

हेमचन्द्रः ४ । १३९ ॥

वारुः, पुं, (वारयति रिपूनिति । वृ + णिच् +

बाहुलकात् उण् ।) विजयकुञ्जरः । इति
हारावली । १६० ॥

वारुठः, पुं, खट्टिः । अन्तशय्या । इति त्रिकाण्ड-

शेषः ॥

वारुणं, क्ली, (वरुणो देवतास्येति । वरुण +

अण् ।) जलम् । इति राजनिर्घण्टः ॥ (शत-
भिषानक्षत्रम् । यथा, तिथितत्त्वे ।
“वारुणेन समायुक्ता मधौ कृष्णा त्रयोदशी ।
गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैः समा ॥”
उपपुराणविशेषः । यथा, देवीभागवते । १ ।
३ । १५ ।
“वारुणं कालिकाख्यञ्च शाम्बं नन्दिकृतं
शुभम् ।
सौरं पाराशरप्रोक्तमादित्यं चातिबिस्तरम् ॥”
पुं, भारतस्य खण्डविशेषः । यथा, विष्णुपुराणे ।
२ । ३ । ६ ।
“इन्द्रद्वीपस्तथा सौम्यो गन्धर्व्वस्त्वथ बारुणः ॥”)
वरुणसम्बन्धिनि, त्रि । यथा, --
“पश्चिमे पुष्पदन्तञ्च वारुणञ्च प्रशस्यते ।
उत्तरेण तु भल्लाटं सौम्यञ्च शुभदं भवेत् ॥
उडुम्बरस्तथा याम्ये वारुणे पिप्पलः शुभः ।
प्लक्षश्चोत्तरतो धन्यो विपरीतास्त्वसिद्ध्वये ॥”
इति मात्स्ये २२९ अध्यायः ॥
(यथा च महाभारते । ३ । १०२ । १ ।
“समुद्रं ते समाश्रित्य वारुणं निधिमम्भसाम् ।
कालेयाः संप्रवर्त्तन्ते त्रैलोक्यस्य विनाशने ॥”)

वारुणकर्म्म, क्ली, (वारुणं जलसम्बन्धि कर्म्म ।)

जलाशयखननादि । तस्य शुभाशुभकालादि
यथा, --
यम उवाच ।
“सुदिने शुभनक्षत्रे चन्द्रताराबलैर्युते ।
सदृतुस्तु भवेद्यत्र काले तस्मिन् विधिः स्मृतः ॥
सदृतौ तु कृते कर्त्तुः संपूर्णस्तन्मनोरथः ।
कर्कटे पुत्त्रलाभस्तु सौख्यं तु मकरे भवेत् ॥
मीने यशोऽर्थलाभस्तु कुम्भे च सुबहूदकम् ।
वृषे च मिथुने वृद्धिर्वृश्चिके निर्ज्जलं भवेत् ॥
पितृतृप्तिस्तु कन्यायां तुलायां सत्यसङ्गतिः ।
सिंहे मेषे धनं नाशं जलस्य कुरुते द्विज ।
तथा चैतेषु लग्नेषु वारुणं कर्म्म नो दिशेत् ॥”
इति वह्निपुराणे वारुणारामप्रतिष्ठानामा-
ध्यायः ॥

वारुणिः, पुं, (वरुणस्यापत्यं पुमान् । वरुण +

इञ् ।) अगस्त्यमुनिः । इति त्रिकाण्डशेषः ॥
(यथा, महाभारते । ३ । १०५ । १ ।
“समुद्रं स समासाद्य वारुणिर्भगवानृषिः ।
उवाच सहितान् देवानृषींश्चैव समागतान् ॥
अहं लोकहितार्थं वै पिबामि वरुणालयम् ॥”
वशिष्ठः । यथा, महाभारते । १ । ९९ । ७ ।
“स वारुणिस्तपस्तेपे तस्मिन् भरतसत्तम ! ।
वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके ॥”
विनतापुत्त्रभेदः । यथा, महाभारते । १ । ६५ । ४० ।
“तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ ।
आरुणिर्वारुणिश्चैव वैनतेयाः प्रकीर्त्तिताः ॥”
भृगुः । यथा, शतपथब्राह्मणे । ११ । ६ । १ ।
“भृगुर्ह वै वारुणिः । वरुणं पितरं विद्ययाति-
मेने । तद्ध वरुणो विदाञ्चकार ॥”)

वारुणी, स्त्री, (वरुणस्येयम् । “तस्येदम् ।” ४ ।

३ । १२० । इत्यण् । ङीप् ।) सुरा । (यथा,
मनौ । ११ । १४७ ।
“अज्ञानाद्वारुणीं पीत्वा संस्कारेणैव शुध्यति ।
मतिपूर्ब्बमनिर्द्देश्यं प्राणान्तिकमिति स्थितिः ॥”
मदिराधिष्ठात्री देवी । यथा, विष्णुपुराणे । १ ।
९ । ९३ ।
“किमेतदिति सिद्धानां दिवि चिन्तयतां ततः ।
बभूव वारुणी देवी मदाघूर्णितलोचना ॥”
“वारुणी मदिराधिष्ठात्री देवी ।” इति तट्टी-
कायां श्रीधरस्वामी ॥ वरुणपत्नी । वारुणी-
वल्लभशब्ददर्शनात् ॥ यथा, महाभारते । २ ।
९ । ६ ।
“यस्यामास्ते स वरुणो वारुण्या च समन्वितः ।
दिव्यरत्नाम्बरधरो दिव्याभरणभूषितः ॥”
नदीविशेषः । यथा, गो० रामायणे । २ । ७० । १२ ।
“पूर्ब्बेण वारुणीं तीर्त्वा कुरुक्षेत्रे सरस्वतीम् ।
सरांसि च प्रफुल्लानि नदीश्च विमलोदकाः ॥”)
पश्चिमदिक् । इत्यमरः । १ । ३ । ५१ ॥ (यथा,
नैषधचरिते । ४ । ६० ।
“वद विधुन्तुदमालि मदीरितै-
स्त्यजसि किं द्विजराजधिया विधुम् ।
किमु दिवं पुनरेति यदीदृशः
पतित एष निषेव्य हि वारुणीम् ॥”
विद्याविशेषः । यथा, तैत्तिरीयोपनिषदि ।
३ तृतीयवल्ल्याम् ६ षष्ठानुवाके । “आनन्देन
जातानि जीवन्ति । आनन्दं प्रयत्यभिसंविश-
न्तीति । सैषा भार्गवी वारुणी विद्या ॥”
अश्वानां छायाविशेषः । यथा, अश्ववैद्यके ।
३ । १७३ ।
“शुद्धस्फटिकसङ्काशा सुस्निग्धा चैव वारुणी ॥”)
शतभिषानक्षत्रम् । इति हेमचन्द्रः ॥ गण्ड-
दूर्व्वा । इति मेदिनी । णे, ६८ ॥ इन्द्रवारुणी ।
दूर्व्वा । इति राजनिर्घण्टः ॥ शतभिषानक्षत्र-
युक्तचैत्रकृष्णत्रयोदशी । यथा, स्कन्दपुराणे ।
“वारुणेन समायुक्ता मधौ कृष्णा त्रयोदशी ।
गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैः समा ॥”
वारुणं शतभिषा ।
“शनिवारसमायुक्ता सा महावारुणी स्मृता ।
गङ्गायां यदि लभ्येत कोटिसूर्य्यग्रहैः समा ॥
शुभयोगसमायुक्ता शनौ शतभिषा यदि ।
महामहेति विख्याता त्रिकोटिकुलमुद्धरेत् ॥
अत्र संज्ञाविधेः सार्थकत्वाय निमित्तत्वेन मास-
पक्षतिथ्युल्लेखानन्तरं महावारुणीमहामहा-
वारुण्यावुल्लेखनीये । तेन चैत्रे मासि कृष्ण-
पक्षे त्रयोदश्यां तिथौ महावारुण्यां महा-
महावारुण्यां यथायथं प्रयोज्यम् । न चात्र ।
“स्नानं कुर्व्वन्ति या नार्य्यश्चन्द्रे शतभिषां गते ।
सप्तजन्म भवेयुस्ता दुर्भगा विधवा ध्रुवम् ॥”
इति ॥
“त्रयोदश्यां तृतीयायां दशम्याञ्च विशेषतः ।
शूद्रविट्क्षत्त्रियाः स्नानं नाचरेयुः कथञ्चन ॥”
इति प्रचेतोजावालिवचनाभ्यां स्त्रीणां शूद्रादी-
नाञ्च स्नाननिषेध इति वाच्यम् ।
“भोगाय क्रियते यत्तु स्नानं यादृच्छिकं नरैः ।
तन्निषिद्धं दशम्यादौ नित्यनैमित्तिके न तु ॥”
इति हेमाद्रिधृतवचनेन रागप्राप्तस्नान एव
निषेधात् नक्षत्रेऽपि तथा कल्पनात् । अत्र
त्रयोदश्यां पूर्णायां पूर्ब्बाह्णेतरकाले नक्षत्रादि-
सत्त्वे परदिने पूर्ब्बाह्णे तिथिनक्षत्रलाभेऽपि पूर्ब्ब-
दिन एव स्नानम् । रात्रावपि वारुण्यादिषु
गङ्गायां स्नानम् ।
“दिवा रात्रौ च सन्ध्यायां गङ्गायाञ्च प्रसङ्गतः ।
स्नात्वाश्वमेधजं पुण्यं गृहेऽप्युद्धृततज्जलैः ॥”
इति ब्रह्माण्डपुराणे सामान्यतः प्रतिप्रसवात् ।
इति तिथ्यादितत्त्वम् ॥ * ॥ वरुणप्रेरितवृन्दा-
वनस्थकदम्बतरुकोटरनिःसृतबलदेवपीतवारुणी ।
यथा, --
पराशर उवाच ।
“वने विचरतस्तस्य सह गोपैर्महात्मनः ।
मानुषच्छद्मरूपस्य शेषस्य धरणीधृतः ॥
निष्पादितोरुकार्य्यस्य कार्य्येणोर्व्वीविचारिणः ।
उपभोगार्थमत्यर्थं वरुणः प्राह वारुणीम् ॥
अभीष्टा सर्व्वदा यस्य मदिरे त्वं महौजसः ।
अनन्तस्योपभोगाय तस्य गच्छ मुदे शुभे ॥
इत्युक्ता वारुणी तेन सन्निधानमथाकरोत् ।
वृन्दावनवनोत्पन्नकदम्बतरुकोटरे ॥
विचरन् बलदेवोऽपि मदिरागन्धमुत्तमम् ।
आघ्राय मदिरातर्षमवापाथ पुरातनम् ॥
ततः कदम्बात् सहसा मद्यधारां स लाङ्गली ।
पतन्तीं वीक्ष्य मैत्रेय प्रययौ परमां मुदम् ॥
पपौ च गोपगोपीभिः समवेतो मुदान्वितः ।
उपगीयमानो ललितं गीतवाद्यविशारदैः ॥”
इति विष्णुपुराणे ५ अंशे २५ अध्यायः ॥

वारुणीवल्लभः, पुं, (वारुण्या वल्लभः । वारुणी-

वल्लभा यस्येति वा ।) वरुणः । इति शब्दमाला ॥

वारुण्डः, पुं, फणिनां राजा । इति मेदिनी । डे, ३३ ॥

तन्मते पवर्गीयादिः । किन्तु वृधातोः उण्ड-
प्रत्ययनिष्पन्नत्वात् अन्तःस्थादौ लिखितः ॥

वारुण्डः, पुं क्ली, (वृ + उण्डः ।) नौसेकपात्रम् ।

नेत्रमलम् । कर्णमलम् । इति मेदिनी । ते,
३३ ॥
पृष्ठ ४/३५१

वारुण्डी, स्त्री, (वारुण्ड + गौरादित्त्वात् ङीष् ।)

द्वारपिण्डी । इति मेदिनी । ते, ३३ ॥

वारेन्द्री, स्त्री, देशविशेषः । इति शब्दरत्नावली ॥

यथा, --
“प्राच्यां मागधशोणौ च वारेन्द्रीगौडराडकाः ।
वर्द्धमानतमोलिप्तप्राग्ज्योतिषोदयाद्रयः ॥”
इति ज्योतिस्तत्त्वम् ॥
अधुना राजशाहीनामकदेशैकदेशः ॥

वार्क्ष्यं, क्ली, (वृक्षाणां समूह इति । वृक्ष + “तस्य

समूहः ।” ४ । २ । ३७ । इति अण् ।) वनम् ।
इति हेमचन्द्रः ॥ (वृक्षस्येदमित्यण् ।) वृक्ष-
सम्बन्धिनि, त्रि । यथा, --
“वार्क्ष्यं वित्तप्रदं लिङ्गं स्फाटिकं सर्व्वकामदम् ॥”
इति तिथ्यादितत्त्वम् ॥

वार्क्षी, स्त्री, (वृक्षस्यापत्यं स्त्री । वृक्ष + अण् ।

ङीप् ।) स्त्रीविशेषः । (यथा, महाभारते ।
१ । १९७ । १५ ।
“तथैव मुनिजा वार्क्षी तपोभिर्भावितात्मनः ।
सङ्गताभूद्दश भ्रातॄन्नेकनाम्नः प्रचेतसः ॥”
इयं हि मारिषापरनाम्नी कण्डुमुनेरौरसात्
प्रम्लोचागर्भगता सती पश्चात् वृक्षेभ्य उत्पन्ना ।
तत्कथा यथा, विष्णुपुराणे । १ । १५ । १ -- ५३ ।
पराशर उवाच ।
“तपश्चरत्सु पृथिवीं प्रचेतःसु महीरुहाः ।
अरक्ष्यमाणामावब्रुर्ब्बभूवाथ प्रजाक्षयः ॥
नाशकन्मारुतो वातुं वृतं खमभवद् द्रुमैः ।
दशवर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः ॥
तद् दृष्ट्वा जलनिष्क्रान्ताः सर्व्वे क्रुद्धाः प्रचेतसः ।
मुखेभ्यो वायुमग्निञ्च तेऽसृजन् जातमन्यवः ॥
उन्मूलानथ तान् वृक्षान् कृत्वा वायुरशोषयत् ॥
तानग्निरदहद् घोरस्तत्राभूद् द्रुमसंक्षयः ॥
द्रुमक्षयमथो दृष्ट्वा किञ्चिच्छिष्टेषु शाखिषु ।
उपगम्याब्रवीदेतान् राजा सोमः प्रजापतीन् ॥
कोपं यच्छत राजानः शृणुध्वञ्च वचो मम ।
सन्धानं वः करिष्यामि सह क्षितिरुहैरहम् ॥
रत्नभूता च कन्येयं वार्क्षेयी वरवर्णिनी ।
भविष्यं जानता पूर्ब्बं मया गोभिर्व्विवर्द्धिता ॥
मारिषा नाम नाम्नैषा वृक्षाणामिति निर्म्मिता ।
भार्य्या वोऽस्तु महाभागा ध्रुवं वंशविवद्धिनी ॥
युष्माकं तेजसोऽर्द्धेन मम चार्द्धेन तेजसः ।
अस्यामुत्पत्स्यते विद्वान् दक्षो नाम प्रजापतिः ॥
मम चांशेन संयुक्तो युष्मत्तेजोमयेन वै ।
अग्निनाग्निसमो भूयः प्रजाः संवर्द्धयिष्यति ॥
कण्डुर्नाम मुनिः पूर्व्वमासीद् वेदविदां वरः ।
सुरम्ये गोमतीतीरे स तेपे परमं तपः ॥
तत्क्षोभाय सुरेन्द्रेण प्रम्लोचाख्या वराप्सराः ।
प्रयुक्ता क्षोभयामास तमृषिं सा शुचिस्मिता ॥
क्षोभितः स तया सार्द्धं वर्षाणामधिकं शतम् ।
अतिष्ठन्मन्दरद्रोण्यां विषयासक्तमानसः ॥
सा तं प्राह महात्मानं गन्तुमिच्छाम्यहं दिवम् ।
प्रसादसुमुखो ब्रह्मन् अनुज्ञां दातुमर्हसि ॥
तयैवमुक्तः स मुनिस्तस्यामासक्तमानसः ।
दिनानि कतिचिद् भद्रे स्थीयतामित्यभाषत ॥
एवमुक्ता ततस्तेन सार्द्धं वर्षशतं पुनः ।
बुभुजे विषयांस्तन्वी तेन सार्द्धं महात्मना ॥
अनुज्ञां देहि भगवन् व्रजामि त्रिदिवालयम् ।
उक्तस्तयेति स मुनिः स्थीयतामित्यभाषत ॥
पुनर्गते वर्षशते साधिके सा शुभानना ।
यामीत्याह दिवं ब्रह्मन् प्रणयस्मितशोभनम् ॥
उक्तस्तयैवं स मुनिरुपगुह्यायतेक्षणाम् ।
प्राहास्यतां क्षणं सुभ्रु चिरं कालं गमि-
ष्यसि ॥
तच्छापभीता सुश्रोणी सह तेनर्षिणा पुनः ।
शतद्वयं किञ्चिदूनं वर्षाणामन्वतिष्टत ॥
गमनाय महाभागो देवराजनिवेशनम् ।
प्रोक्तः प्रोक्तस्तया तन्व्या स्थीयतामित्यभाषत ॥
तं सा शापभयाद् भीता दाक्षिण्येन च
दक्षिणा ।
प्रोक्ता प्रणयभङ्गार्त्तिवेदनी न जहौ मुनिम् ॥
तया च रमतस्तस्य महर्षेस्तदहर्निशम् ।
नवं नवमभूत् प्रेम मन्मथाविष्टचेतसः ॥
एकदा तु त्वरायुक्तो निश्चक्रामोटजान्मुनिः ।
निष्क्रामन्तञ्च कुत्रेति गम्यते प्राह सा शुभा ॥
इत्युक्तः स तया प्राह परिवृत्तमहः शुभे ।
सन्ध्योपास्तिं करिष्यामि क्रियालोपोऽन्यथा
भवेत् ॥
ततः प्रहस्य मुदिता तं सा प्राह महामुनिम् ।
किमद्य सर्व्वधर्म्मज्ञ परिवृत्तमहस्तव ॥
बहूनां विप्र वर्षाणां परिणाममहस्तव ।
गतमेतन्न कुरुते विस्मयं कस्य कथ्यताम् ॥
मुनिरुवाच ।
प्रातस्त्वमागता भद्रे नदीतीरमिदं शुभम् ।
मया दृष्टासि तन्वङ्गि प्रविष्टा च ममाश्रमम् ॥
इयञ्च वर्त्तते सन्ध्या परिणाममहर्गतम् ।
उपहासः किमर्थोऽयं सद्भावः कथ्यतां मम ॥
प्रम्लोचोवाच ।
प्रत्यूषस्यागता ब्रह्मन् सत्यमेतन्न ते मृषा ।
किन्त्वद्य तस्य कालस्य गतान्यब्दशतानि ते ॥
सोम उवाच ।
ततः ससाध्वसो विप्रस्तां पप्रच्छायतेक्षणाम् ।
कथ्यतां भीरु कः कालस्त्वया मे रमतः सह ॥
प्रम्लोचोवाच ।
सप्तोत्तराण्यतीतानि नववर्षशतानि ते ।
मासाश्च षट् तथैवान्यत् समतीतं दिनत्रयम् ॥
ऋषिरुवाच ।
सत्यं भीरु वदस्येतत् परिहासोऽथ वा शुभे ।
दिनमेकमहं मन्ये त्वया सार्द्धमिहासितम् ॥
प्रम्लोचोवाच ।
वदिष्याम्यनृतं ब्रह्मन् कथमत्र तवान्तिके ।
विशेषेणाद्य भवता पृष्टा मार्गानुवर्त्तिना ॥
सोम उवाच ।
निशम्य तद् वचः सत्यं स मुनिर्नृ पनन्दनाः ।
धिङ्मां धिङ्मामतीवेत्थं निनिन्दात्मानमा-
त्मना ॥
मुनिरुवाच ।
तपांसि मम नष्टानि हतं ब्रह्मविदां धनम् ।
हतो विवेकः केनापि योषिन्मोहाय निर्म्मिता ॥
ऊर्म्मिषत्कातिगं ब्रह्म ज्ञेयमात्मजयेन मे ।
मतिरेषा हृता येन धिक् तं काममहाग्रहम् ॥
व्रतानि वेदविद्याप्तिकारणान्यखिलानि च ।
नरकग्राममार्गेण सङ्गेनापहृतानि मे ॥
विनिन्द्ये त्थं स धर्म्मज्ञः स्वयमात्मानमात्मना ।
तामप्सरसमासीनामिदं वचनमब्रवीत् ॥
गच्छ पापे यथाकामं यत् कार्य्यं तत्कृतं त्वया ।
देवराजस्य मत्क्षोभं कुर्व्वन्त्या भावचेष्टितैः ॥
न त्वां करोम्यहं भस्म क्रोधतीव्रेण वह्निना ।
सतां साप्तपदं मैत्रमुषितोऽहं त्वया सह ॥
अथवा तव को दोषः किं वा कुप्याम्यहं तव
ममैव दोषो नितरां येनाहमजितेन्द्रियः ॥
यया शक्रप्रियार्थिन्या कृतो मे तपसो व्ययः ।
त्वया धिक् तां महामोहमञ्जूषां सुजुगुप्सिताम् ॥
सोम उवाच ।
यावदित्थं स विप्रर्षिस्तां ब्रवीति सुमध्यमाम् ।
तावद् गलत्स्वेदजला सा बभूवातिवेपथुः ॥
प्रवेपमाणां सततं स्विन्नगात्रलतां सतीम् ।
गच्छ गच्छेतिंसक्रोधं उवाच मुनिसत्तमः ॥
सा तु निर्भत्सिता तेन विनिष्क्रम्य तदाश्रमात् ।
आकाशगामिनी स्वेदं ममार्ज्ज तरुपल्लवैः ॥
वृक्षाद् वृक्षं ययौ बाला तदग्रारुणपल्लवैः ।
निर्म्मार्ज्जमाना गात्राणि गलत्स्वदजलानि वै ॥
ऋषिणा यस्तदा गर्भस्तस्या देहे समाहितः ।
निर्ज्जगाम स रोमाच्च स्वेदरूपी तदङ्गतः ॥
तं वृक्षा जगृहुर्गर्भं एकं चक्रे तु मारुतः ।
मया चाप्यायितो गोभिः स तदा ववृधे शनैः ॥
वृक्षाग्रगर्भसंभूता मारिषाख्या वरानना ।
तां प्रदास्यन्ति वो वृक्षाः कोप एष प्रशान्ध-
ताम् ॥
कण्डोरपत्यमेवं सा वृक्षेभ्यश्च समुद्गता ।
ममापत्यं तथा वायोः प्रम्लोचा तनया च सा ॥
स चापि भगवान् कण्डुः क्षीणे तपसि सत्तमः ।
पुरुषोत्तमाख्यं मैत्रेय विष्णोरायतनं ययौ ॥
तत्रैकाग्रमतिर्भूत्वा चकाराराधनं हरेः ।
ब्रह्मपारमयं कुर्व्वन् जपमेकाग्रमानसः ।
ऊर्द्ध्वबाहुर्महायोगी स्थित्वासौ भूपनन्दनाः ॥”)

वार्च्चः, पुं, हंसः । वारि चरतीत्यर्थे डप्रत्ययेन

निष्पन्नः । इति मुग्धबोधव्याकरणम् ॥

वार्णिकः, त्रि, (वर्णलेखनं शिल्पमस्य । वर्ण +

ठञ् ।) लेखकः । इति शब्दमाला ॥

वार्त्तं, क्ली, असारम् । आरोग्यम् । इत्यमरः ।

३ । ३ । ७५ ॥

वार्त्तः, त्रि, (वृत्तिरस्त्यस्येति । “प्रज्ञाश्रद्धार्च्चा-

वृत्तिभ्यो णः ।” ५ । २ । १०१ । इति णः ।)
निरामयः । इत्यमरः । २ । ६ । ५७ ॥ वृत्ति-
शाली । इत्यजयपालः ॥

वार्त्तकः, पुं, पक्षिविशेषः । वटेर इति भाषा ।

यथा, --
पृष्ठ ४/३५२
“वार्त्ताको वार्त्तकश्चित्रस्ततोऽन्या वर्त्तका स्मृता ।
वर्त्तकोऽग्निकरः शीतो ज्वरदोषत्रयापहः ।
सुरुच्यः शुक्रदो बल्यो वर्त्तकाल्पगुणा ततः ॥”
इति भावप्रकाशः ॥

वार्त्ता, स्त्री, (वृत्तिरस्यां अस्तीति । “प्रज्ञाश्रद्धा-

र्च्चावृत्तिभ्यो णः ।” ५ । २ । १०१ । इति णः ।
ततष्टाप् ।) दुर्गा । यथा, --
“पश्वादिपालनाद्देवी कृषिकर्म्मान्तकारणात् ।
वर्त्तनाद्धारणाद्वापि वार्त्ता सा एव गीयते ॥”
इति देवीपुराणे ४५ अध्यायः ॥
वृत्तिः । जनश्रुतिः । इत्यमरः । १ । ६ । ६ ॥
उदन्तः । (यथा, मोहमुद्गरे । ८ ।
“यावद्वित्तोपार्ज्जनशक्तः
तावन्निजपरिवारो रक्तः ।
तदनुच जरया जर्जरदेहे
वार्त्तां कोऽपि न पृच्छति गेहे ॥”)
वातिङ्गणः । कृष्यादि । इति मेदिनी । ते, ५६ ॥
(यथा, मनौ । ९ । ३२६ ।
“वैश्यस्तु कृतसंस्कारः कृत्वा दारपरिग्रहम् ।
वार्त्तायां नित्ययुक्तः स्यात् पशूनाञ्चैव रक्षणे ॥”
वार्त्तेयं चतुर्विधा । यथा, भागवते । १० । २४ । २१ ।
“कृषिबाणिज्यगोरक्षाकुसीदं तुर्य्यमुच्यते ।
वार्त्ता चतुर्विधा तत्र वयं गोवृत्तयोऽनिशम् ॥”)

वार्त्ताकः, पुं, (वर्त्ततेऽनेनेति । वृत् + “वृतेर्वृद्धिश्च ।”

उणा० ३ । ७९ । इति काकुः । “बाहु-
लकात् उकारस्यात्त्वेत्त्वे वार्त्ताकवार्त्ताक्यौ ।”
इत्युज्ज्वलदत्तोक्त्या सिद्धम् ।) वार्त्ताकुः । इति
त्रिकाण्डशेषः ॥ वार्त्तकपक्षी । इति भाव-
प्रकाशः ॥

वार्त्ताकी, [न्] पुं, वार्त्ताकुः । इत्यमरटीकायां

भरतः ॥

वार्त्ताकी, स्त्री, बृहती । इति भावप्रकाशः ॥

वार्त्ताकुः । इत्यमरः । २ । ४ । ११४ ॥

वार्त्ताकुः, स्त्री, (वर्त्तते इति । वृत् + “वृते-

र्वृद्धिश्च ।” उणा० ३ । ७९ । इति काकुः ।)
स्वनामख्यातफलवृक्षः । वेगुन इति भाषा ॥
तत्पर्य्यायः । हिङ्गुली २ सिंही ३ भण्टाकी ४
दुष्प्रधर्षिणी ५ वार्त्ताकी ६ वार्त्ता ७ वाति-
ङ्गणः ८ वार्त्ताकः ९ शाकविल्वः १० राज-
कुष्माण्डः ११ । इति जटाधरः ॥ वार्त्तिकः १२
वातिगमः १३ वृन्ताकः १४ वङ्गणः १५
अङ्गणः १६ । इति शब्दरत्नावली ॥ कण्ट-
वृन्ताकी १७ कण्टालुः १८ कण्टपत्रिका १९
निद्रालुः २० मांसकफला २१ वृन्ताकी २२
महोटिका २३ चित्रफला २४ कण्टकिनी २५
महती २६ कट्फला २७ मिश्रवर्णफला २८
नीलफला २९ रक्तफला ३० शाकश्रेष्ठा ३१
वृत्तफला ३२ नृपप्रियफला ३३ । अस्या गुणाः
कटुत्वम् । रुच्यत्वम् । मधुरत्वम् । पित्तना-
शित्वम् । बलपुष्टिकारित्वम् । हृद्यत्वम् । गुरु-
त्वम् । वातेषु निन्दितत्वञ्च । इति राजनिर्घण्टः ॥
अपि च ।
“अग्निप्रदा मारुतनाशिनी च
शुक्रप्रदा शोणितवर्द्धिनी च ।
हृल्लासकासारुचिनाशिनी च
वार्त्ताकुरेषा गुणसप्तयुक्ता ॥
सा बाला कफवातघ्नी पृक्वा सक्षारपित्तला ।
सदाफला त्रिदोषघ्नी रक्तपित्तप्रसादनी ॥
अङ्गारपक्वा वार्त्ताकुः किञ्चित्पित्तकरी मता ।
कफमेदोऽनिलहरा सरा लघुतरा परा ॥”
इति राजवल्लभः ॥
अन्यच्च ।
“वृन्ताकं स्वादु तीक्ष्णोष्णं कटुपाकमपित्तलम् ।
ज्वरवातवलासघ्नं दीपनं शुक्रलं लघु ॥
तद्बालं कफपित्तघ्नं वृद्धं पित्तकरं गुरु ।
वृन्ताकं पित्तलं किञ्चिदङ्गारोपरिपाचितम् ॥
कफमेदोऽनिलामघ्नमत्यन्तं लघु दीपनम् ।
तदेव हि गुरु स्निग्धं सतैलं लवणान्वितम् ॥
अपरं श्वेतवृन्ताकं कुक्कुटाण्डसमं भबेत् ।
तदर्शःसु विशेषेण हितं हीनञ्च पूर्ब्बतः ॥”
इति भावप्रकाशः ॥

वार्त्ताकुः, पुं, (वृत् + काकुः ।) वार्त्ताकी । इति

त्रिकाण्डशेषः ॥

वार्त्तायनः, पुं, (वार्त्तानामयनमनेनेति ।) प्रवृत्तिज्ञः ।

तत्पर्य्यायः । हेरिकः २ गूढपूरुषः ३ प्रणिधिः ४
यथार्हवर्णः ५ अवसर्पः ६ मन्त्रवित् ७ चरः ८
स्पशः ९ चारः १० । इति हेमचन्द्रः । ३ ।
३९८ ॥

वार्त्तावहः, पुं, धान्यतण्डुलादे र्वार्त्तां वहति यः ।

पसारी इति भाषा । तत्पर्य्यायः । वैवधिकः २ ।
इत्यमरभरतौ ॥ वार्त्तोवहः ३ । इति शब्द-
रत्नावली ॥ संवादवाहके, त्रि ॥

वार्त्तिकः, पुं, (वृत्तिं वेदेति । वृत्ति + उक्थादित्वात्

ठक् ।) प्रवृत्तिज्ञः । चरः । इति त्रिकाण्ड-
शेषः ॥ (यथा, कथासरित्सागरे । ३४ । ७६ ।
“दुर्गतो वार्त्तिकजनो लोभात् किं नाम ना
चरेत् ॥”
(वार्त्ता कृष्यादिस्तत्र साधुः । ठक् ।) वैश्यः ।
(वार्त्ते आरोग्ये साधुरिति । ठक् ।) वर्त्तिक-
पक्षी । इति राजनिर्घण्टः ॥ वार्त्ताकी । इति
शब्दरत्नावली ॥ (वृत्तौ साधुरिति । वृत्ति +
“कथादिभ्यष्ठक् ।” ४ । ४ । १०२ । इति ठक् ।
सूत्रवृत्तिनिपुणे, त्रि ॥)

वार्त्तिकं, क्ली, (वृत्तिर्ग्रन्थसूत्रविवृतिः । तत्र

साधुः । वृत्ति + “कथादिभ्यष्ठक् ।” ४ । ४ । १०२ ।
इति ठक् ।) उक्तानुक्तदुरुक्तार्थव्यक्तीकारक-
ग्रन्थः । यथा, --
“उक्तानुक्तदुरुक्तार्थचिन्ताकारि तु वार्त्तिकम् ॥”
इति हेमचन्द्रः ॥

वार्त्तिक्रा, स्त्री, (वार्त्तिक + टाप् ।) पक्षिविशेषः ।

वटेर इति भाषा । तत्पर्य्यायः । विष्णुलिङ्गी २ ।
इति हारावली ॥

वार्त्त्रघ्नः, पुं, (वृत्रघ्न इन्द्रस्यापत्यं पुमान् । वृत्रहन्

+ अण् ।) अर्ज्जुनः । इति त्रिकाण्डशेषः ॥
जयन्तः । वृत्त्रघ्नसम्बन्धिनि, त्रि ॥ (यथा, भाग-
वते । ६ । १२ । ३४ ।
“तदा च खे दुन्दुभयो विनेदु-
र्गन्धर्वसिद्धाः समहर्षिसङ्घाः ।
वार्त्रघ्रलिङ्गैस्तमभिष्टुवाना
मन्त्रैर्मुदा कुसुमैरभ्यवर्षन् ॥”)

वार्द्दरं, क्ली, कृष्णलावीजम् । दक्षिणावर्त्तशङ्खः ।

काकचिञ्चा । भारती । इति मेदिनी । रे, २११ ॥
कृमिजम् । जलम् । आम्रबीजम् । इति विश्वः ॥

वार्द्दलं, क्ली, (वार्भिः सलिलैर्दलतीति । दल +

अच् । सदा मेघाच्छन्नवृष्टिपातात्तथात्वम् ।)
दुर्द्दिनम् । इति मेदिनी । ले, ११९ ॥ तन्मते
पवर्गीयादिः ॥ (वादल इति भाषा ॥)

वार्द्दलः, पुं, (वार्दल्यतेऽत्रेति । दल + “पुंसि

संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति
घः ।) मेलानन्दा । सा तु मस्याधारः । इति
मेदिनी । ले, ११९ ॥

वार्द्धकं, क्ली, (वृद्धाणां समूहः । “गोत्रोक्षोष्ट्रोर-

भ्रेति ।” ४ । २ । ३९ । इत्यत्र “वृद्धाच्चेति ।”
काशिकोक्तेः वुञ् ।) वृद्धसंघातः । (वृद्धस्य
भावः कर्म्म वेति । मनोज्ञादित्वात् वुञ् ।)
वृद्धस्य भावः । वृद्धस्य कर्म्म । इति मेदिनी ।
के, ५६ ॥ (यथा, मार्कण्डेयपुराणे । १०९ ।
२४ ।
“बाल्ये बालक्रिया पूर्व्वं तद्वत् कौमारके च या ।
यौवने चापि या योग्या वार्द्धके वनसंश्रया ॥”
त्रि, वृद्धः । यथा, नैषधे । १ । ७७ ।
“फलानि पुष्पाणि च पल्लवे करे
वयोऽतिपातोद्गतवातवेपिते ।
स्थितैः समादाय महर्षिवार्द्धकाद्
वने तदातिथ्यमशिक्षि शाखिभिः ॥”
“महर्षीणां मुनिश्रेष्ठानां मध्ये यो वार्द्धको वृद्ध-
स्तस्मात् । त्रिषु स्याद्बार्द्धको वृद्धे क्लीवं तद्भाव-
संघयोरिति वलः ।” इति तट्टीका ॥)

वार्द्धक्यं, क्ली, (वार्द्धकमेव । वार्द्धक + चतुर्वणादि-

त्वात् स्वार्थे ष्यञ् ।) बृद्धावस्था । तत्पर्य्यायः ।
वार्द्धकम् २ वृद्धत्वम् ३ स्थाविरम् ४ । इति
जटाधरः ॥ (यथा, महाभारते । ९ । ५२ । ८ ।
“आत्मानं मन्यमानापि कृतकृत्यं श्रमान्विता ।
वार्द्धक्येन च राजेन्द्र ! तपसा चैव कर्षिता ॥”)

वार्द्धिः, पुं, (वारि जलानि धीयन्तेऽत्रेति । धा +

किः ।) समुद्रः । इति त्रिकाण्डशेषः ॥ (यथा,
देवीभागवते । ८ । २० । ३१ ।
“सोऽनन्तो भगवान् देवोऽनन्तसत्त्वो महाशयः ।
अनन्तगुणवार्द्धिश्च आदिदेवो महाद्युतिः ॥”)

वार्द्धिभवं, क्ली, (वार्द्धौ समुद्रे भवतीति । भू +

अच् ।) द्रोणीलवणम् । इति राजनिर्घण्टः ॥

वार्द्धुषिः, पुं, (वार्द्धुषिकः । पृषोदरादित्वात्

कलोपः ।) वृद्ध्याजीवः । इत्यमरः । २ । ९ । ५ ॥
(यथा, मनौ । ३ । १५३ ।
“प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः ।
प्रतिरोद्धा गुरोश्चैव त्यक्ताग्निर्वार्द्धुषिस्तथा ॥”)
पृष्ठ ४/३५३

वार्द्धुषिकः, पुं, (वृद्ध्यर्थं द्रव्यं वृद्धिः तां प्रयच्छतीति ।

“प्रयच्छति गर्ह्यम् ।” ४ । ४ । ३० । इति ठक् ।
“वृद्धेर्वृधुषिभावो वक्तव्यः ।” इति वार्त्तिकोक्तेः
वृधुषिभावः ।) वृद्धिजीवी । लभ्यभुक् । वाडि-
खोर इति सुदखोर इति च भाषा । तत्प-
र्य्यायः । कुसीदकः २ वृद्ध्याजीवः ३ वार्द्धुषिः ४ ।
इत्यमरः ॥ कुसीदः ५ कुसीदिकः ६ । इति
शब्दरत्नावली ॥ तस्य लक्षणं यथा, --
“समर्घं धान्यमादाय महार्घं यः प्रयच्छति ।
स वै वार्द्धुषिको नाम हव्यकव्यबहिष्कृतः ॥”
इति स्मृतिः ॥
तस्य वृद्धिग्रहणनियमो यथा, मनुः ।
“अशीतिभागं गृह्णीयात् मासाद्वार्द्धुषिकः
शतात् ।
द्विकं शतं वा गृह्णीयात् सतां धर्म्ममनुस्मरन् ॥
द्विकं शतञ्च गृह्णानो न भवत्यर्थकिल्विषी ।
शतकार्षापणेऽशीतिभागं विंशतिकाः पणाः ॥”
द्विकं पुराणद्वयम् । एवंविधं नियममतिक्रम्य
अनापदि स्वयमन्यद्बारा वा स्वाच्छन्द्येन यो
व्यवहरति तस्यैव प्रायश्चित्तम् । आपदि तु
स्वयं करणे नियमातिक्रमे च न दोषः । इति
प्रायश्चित्तविवेकः । इत्याह्निकतत्त्वम् ॥

वार्द्धुष्यं, क्ली, (वार्द्धुषेर्भावः । वार्द्धुषि + ष्यञ् ।)

धान्यवर्द्धनम् । इति त्रिकाण्डशेषः ॥ (यथा,
मनौ । ११ । ६२ ।
“कन्याया दूषणञ्चैव वार्द्धुष्यं व्रतलोपनम् ।
तडागारामदाराणामपत्यस्य च विक्रयः ॥”)

वार्द्धेयं क्ली, (वार्द्धेः समुद्रस्येदमिति । वार्द्धि +

ढञ् ।) द्रोणीलवणम् । इति राजनिर्घण्टः ॥

वार्द्ध्रं, क्ली, स्त्री, (वर्द्ध्र्यै इदमिति । वर्द्ध्री + “चर्म्मणो

ऽञ् ।” ५ । १ । १५ । इति अञ् ।) चर्म्मरज्जुः ।
इत्यमरटीकायां रायमुकुटः ॥

वार्द्ध्रीणसः, पुं, (वार्द्ध्रीव नासिकास्येति । “अञ्

नासिकायाः संज्ञायां नसं चास्थूलात् ।” ५ ।
४ । ११८ । इति अच् नसादेशश्च । “पूर्ब्ब-
पदात् संज्ञायामगः ।” ८ । ४ । ३ । इति
णत्वम् ।) पशुविशेषः । यथा, --
“त्रिप्लवं त्विन्द्रियक्षीणं श्वेतं वृद्धमजापतिम् ।
वार्द्ध्रीणसः प्रोच्यतेऽसौ हव्ये कव्ये च संत्कृतः ॥”
पक्षिविशेषः । यथा, --
“नीलग्रीवो रक्तशीर्षः कृष्णपादः सितच्छदः ।
वार्द्ध्रीणसः स्यात् पक्षीशो मम विष्णोरति-
प्रियः ॥”
तेषां वलिदानफलम् । यथा, --
“रोहितस्य तु मत्स्यस्य मांसैर्व्वार्द्ध्रीणसस्य च ।
तृप्तिमाप्नोति वर्षाणां शतानि त्रीणि मत्प्रिया ॥
महिषाणाञ्च खड्गानां रुधिरैः शतवार्षि-
कीम् ।
तृप्तिमाप्नोति परमां शार्द्दूलरुधिरैस्तथा ॥”
इति कालिकापुराणे ६६ अध्यायः ॥ * ॥
तन्सांसेन पितृतृप्तिर्यथा, --
“वार्ध्रीणसामिषं लौहं कालशाकं तथा मधु ।
दौहित्रामिषमन्यच्च यद्दत्तं तत् कुलोद्भवैः ॥
अनन्तां तां प्रयच्छन्ति तृप्तिं गौरीसुतस्तथा ।
पितॄणां नात्र सन्देहो गयाश्राद्धं च पुत्त्रक ॥”
इति मार्कण्डेयपुराणे श्राद्धकल्पाध्यायः ॥
“त्रिविधं त्विन्द्रियक्षीणं श्वेतं वृद्धमजापतिम् ।
वार्द्ध्रीणसन्तु तं प्राहुर्याज्ञिकाः श्राद्धकर्म्मणि ॥
रक्तपादो रक्तशिरा रक्तचञ्चुर्विहङ्गमः ।
कृष्णवर्णेन च तथा पक्षी वार्ध्रीणसो मतः ॥”
लौहं रक्तच्छागः ।
“दौहित्रं खड्गमित्याहुरपत्यं दुहितुस्तिलाः ।
कपिलाया घृतञ्चैव दौहित्रमिति चोच्यते ॥”
गौरीसुतः दशवर्षोढाजः । इति तट्टीका ॥

वार्द्ध्री(ण)नसः, पुं, वार्द्ध्रीव नासिका यस्य । नासाया

नसादेशः ।) गण्डकः । गण्डार इति भाषा ।
यथा, --
“वार्द्ध्रीनसस्त्वेकचरो गणोत्साहश्च गण्डकः ॥”
इति त्रिकाण्डशेषः ॥

वार्भटः, पुं, (वारि जले भट इव ।) कुम्भीरः ।

इति त्रिकाण्डशेषः ॥

वार्म्मणं, क्ली, (वर्म्मणां समूहः । वर्म्मन् + “भिक्षा-

दिभ्योऽण् ।” ४ । २ । ३८ । इति अण् ।) वर्म्मसमूहः ।
इत्यमरटीकायां सारसुन्दरी ॥

वार्म्मिणं, क्ली, (वर्म्मिणां समूहः । वर्म्मिन् + अण् ।)

वर्म्मिसमूहः । इत्यमरटीकायां स्वामी ॥

वार्म्मुक्, [च्] पुं, (वाः वारि मुञ्चतीति । मुच् +

क्विप् ।) मेघः । इति शब्दरत्नावली ॥ (यथा,
भागवते । १० । २४ । ९ ।
“तं तात ! वयमन्ये च वार्म्मुचां पतिमीश्वरम् ।
द्रव्यैस्तद्रेतसा सिद्धैर्यजन्ते क्रतुभिर्नराः ॥”)

वार्य्युद्भवं, क्ली, (वारिणि उद्भव उत्पत्तिर्यस्य ।)

पद्मम् । इति धनञ्जयः ॥ जलजे, त्रि ॥

वार्य्यं, त्रि, (वारि + ष्यञ् ।) वारिसम्बन्धि । वारि-

शब्दात् ष्ण्यप्रत्ययेन निष्पन्नम् ॥ (वृङ् सम्भक्तौ
+ “ऋहलोर्ण्यत् ।” ३ । १ । १२४ । इति ण्यत् ।
वरणीये, त्रि । यथा, ऋग्वेदे । ३ । २१ । २ ।
“स्वधर्म्मन् देववीतये श्रेष्ठं नो धेहि वार्य्यम् ॥”
निवारणीयः । यथा, महाभारते । ५ । १८९ । ६ ।
“स्त्रीभारे परिनिर्ब्बिण्णा पुंस्त्वार्थे वृतनिश्चया ।
भीष्मे प्रतिचिकीर्षामि नास्मि वार्य्येति वै पुनः ॥”)

वाराशिः, पुं, (वारां राशिर्यत्र ।) समुद्रः । इति

पुराणम् ॥ (वारासनशब्दात् प्रागयं स्यात् ॥)

वार्व्वटः, पुं, (वार्भिर्वट्यते वेष्ट्यते इति । वट +

घञर्थे कः ।) वहित्रम् । इति त्रिकाण्डशेषः ॥

वार्व्वणा, स्त्री, नीलीमक्षिका । इति शब्दरत्ना-

वली ॥

वार्षकं, क्ली, (वर्षस्येदम् । वर्ष + अण् । स्वार्थे कन् ।)

सुद्युम्नकृतपृथिवीदशभागान्तर्गतभागविशेषः ।
यथा, --
“दशधा विभजन् क्षेत्रमकरोत् पृथिवीमिमाम् ।
इक्ष्वाकुर्ज्येष्ठदायादो मध्यदेशमवाप्तवान् ।
कोष्टवे वार्षकं क्षेत्रं रणवृष्टिर्बभूव ह ॥”
इति वह्निपुराणे सागरोपाख्यानाध्यायः ॥

वार्षभाणवी, स्त्री, (वृषभाणोरपत्यं स्त्री । वृष-

भाणु + अण् ।) वृषभाणुकन्या । श्रीराधा ।
यथा, --
“यथा परात्परः कृष्णस्तथेयं वार्षभाणवी ॥”
इति पाद्मोत्तरखण्डे ६७ अध्यायः ॥

वार्षिकं, क्ली, (वर्षासु जातमिति । वर्षा + “वर्षाभ्य-

ष्ठक् ।” ४ । ३ । १८ । इति ठक् ।) त्राय-
माणा । इति मेदिनी । के, १५६ ॥

वार्षिकः, त्रि, (वर्षे भवः । वर्ष + “कालात् ठञ् ।”

४ । ३ । ११ । इति ठञ् ।) वर्षभवः । वात्स-
रिकः । इति मेदिनी । के, १५६ ॥ (यथा,
भागवते । ११ । ११ । ३७ ।
“यात्रावलिविधानञ्च सर्व्ववार्षिकपर्व्वसु ॥”)
यथाच ।
“शरत्काले महापूजा क्रियते या च वार्षिकी ।
तस्यां ममैतन्माहात्म्यं पठितव्यं समाहितैः ॥”
इति मार्कण्डेयपुराणम् ॥
वर्षाकालोद्भवश्च ॥ (यथा, अध्यात्मरामायणे ।
४ । ४ । १ ।
“तत्र वार्षिकदिनानि राघवो
लीलया मनिगुहासु सञ्चरन् ।
पक्वमूलफलभोगतोषितो
लक्ष्मणेन सहितोऽवसत् सुखम् ॥”)

वाषिकी, स्त्री, (वर्षासु भवा । वर्ष + “वर्षाभ्य-

ष्टक् ।” ४ । ३ । १८ । इति ठक् । ङीष् ।) त्राय-
माणा । इति राजनिर्घण्टः ॥

वार्षिला, स्त्री, (वार्जाता शिला । “शाकपार्थि-

वादिनामुपसंख्यानं उत्तरपदलोपश्च ।” २ । १ ।
६० । इत्यस्य वार्त्तिकोक्त्या शाकपार्थिवादिवत्
समासः । पृषोदरादित्वात् शस्य षः ।) करका ।
इति शब्दचन्द्रिका ॥

वार्षुकः, त्रि, वर्षणशीलः । वृषधातोर्ञुकप्रत्ययेन

निष्पन्नो वर्षुकः । ततः स्वार्थे ष्णप्रत्ययः ॥

वा(बा)र्हतं, क्ली, (वृहत्याः फलमिति । “प्लक्षादि-

भ्योऽण् ।” ४ । ३ । १६४ । इति अण् । विधान-
सामर्थ्यात्तस्य फले न लुक् ।) बृहतीफलम् । इत्य-
मरः ॥

वा(बा)र्हद्रथः, पुं, (वृहद्रथस्यापत्यं पुमान् । वृहद्रथ

+ अण् ।) जरासन्धः । इति शब्दरत्नावली ॥
(यथा, देवीभागवते । ४ । १९ । १६ ।
“कंस्रः कुजोऽथ यवनेन्द्रसुतश्च केशी-
वार्हद्रथो वकवकीखरशाल्वमुख्याः ॥”
वृहद्रथस्येदमिति अण् ॥) वृहद्रथराजसम्ब-
न्धिनि, त्रि ॥

वा(बा)र्हद्रथिः, पुं, (वृहद्रथस्यापत्यं पुमान् । वृह-

द्रथ + इञ् ।) जरासन्धः । इति त्रिकाण्डशेषः ॥

वा(बा)लकः, पुं, क्ली, पारिहार्य्यः । अङ्गुरीयके,

त्रि । इति मेदिनी । के, १५३ ॥ अस्यार्थान्त-
राणि पवर्गीयवकारादौ द्रष्टव्यानि ॥ (गन्धयुक्त-
द्रव्यविशेषे, पुं । यथा, बृहत्संहितायाम् । ७७ । ५ ।
“त्वक्कुष्ठरेणुनलिका स्पृक्कारसतगरवालकैस्तुल्यैः ।
केशरपत्रविमिश्रैर्नरपतियोग्यं शिरःस्नानम् ॥”)
पृष्ठ ४/३५४

वालवः, पुं, ववाद्येकादशकरणान्तर्गतद्वितीय-

करणः । तत्र जातफलम् ।
“कार्य्यस्य कर्त्ता स्वजनस्य भर्त्ता
सेनाप्रणेता कुलशीलयुक्तः ।
उदारबुद्धिर्ब्बलवान् मनुष्य-
श्चेद्वालवाख्ये जननं हि यस्य ॥”
इति कोष्ठीप्रदीपः ॥

वाल्कं, त्रि, (वल्कस्य वल्कलस्य विकारः । वल्क

+ “तस्य विकारः ।” ४ । ३ । १३४ । इति अण् ।)
वल्कसम्बन्धिवस्त्रम् । क्षौमादि । इत्यमरः ॥
(यथा, मार्कण्डेयपुराणे । १५ । २८ ।
“तथैवाजाविकं हृत्वा वस्त्रं क्षौमञ्च जायते ।
कार्पासिके हृते क्रौञ्चो वाल्कहर्त्ता बकस्तथा ॥”)

वाल्कलं, त्रि, हल्कलनिर्म्मितम् । वल्कलस्येदं

इत्यर्थे ष्णप्रत्ययेन निष्पन्नम् ॥

वाल्कली, स्त्री, मदिरा । इति त्रिकाण्डशेषः ॥

वाल्मिकिः, पुं, (वल्मिके भवः । वल्मिक + इञ् ।)

वाल्मीकमुनिः । इति द्विरूपकोषः ॥

वाल्मीकः, पुं, (वल्मीके भवः । वल्मीक + अण् ।)

रामायणकर्त्ता मुनिः । तत्पर्य्यायः । प्राचेतसः
२ वाल्मीकिः ३ कविज्येष्ठः ४ कुशीवशः ५
वल्मीकः ६ । इति त्रिकाण्डशेषः ॥ कविः ७
आद्यकविः ८ । इति जटाधरः ॥

वाल्मीकिः, पुं, (वल्मीके भवः । वल्मीक + इञ् ।)

भृगुवंशीयमुनिविशेषः । इति त्रिकाण्डशेषः ॥
यथा, --
“रावणान्तकरो राजा रघूणां वंशवर्द्धनः ।
वाल्मीकिर्यस्य चरितं चक्रे भार्गवसत्तमः ॥”
इति मात्स्ये १२ अध्यायः ॥
(यथा वा काव्यादर्शभूमिकायाम् ।
“जाते जगति वाल्मीकौ कविरित्यभिधाभवत् ।
कवी इति ततो व्यासे कवयस्त्वयि दण्डिनि ॥”)

वावदूकः, त्रि, (पुनः पुनरतिशयेन वा वदतीति ।

वद + यङ् लुक् + “उलूकादयश्च ।” उणा० ४ ।
४१ । इति ऊकः । “सर्व्वस्वे तु ‘यजजप-
दशामिति ।’ ३ । २ । १६६ । इति बहुलवच-
नादन्यतोऽपि भवत्यूकप्रत्ययः इति कृत्वा वाव-
दूक इति साधितम् ।” इत्युणादिवृत्तौ उज्ज्वल-
दत्तः ।) अतिशयवचनशीलः । तत्पर्य्यायः ।
वाचोयुक्तिपटुः २ वाग्मी ३ वक्ता ४ । इत्यमरः ॥
वचक्नः ५ सुवचाः ६ प्रवाक् ७ । इति जटा-
धरः ॥ (यथा, महाभारते । १२ । १९ । २४ ।
“अमृतस्यावमन्तारो वक्तारो जनसंसदि ।
चरन्ति वसुधां कृत्स्नां वावदूका बहुश्रुताः ॥”)

वावयः, पुं, तुलसीविशेषः । इति शब्दचन्द्रिका ॥

कृष्णवावुइ इति भाषा ॥

वावुटः, पुं, वहित्रम् । इति शब्दरत्नावली ॥

वावृत, य ङ उ संभक्तौ । वरणे । इति कविकल्प-

द्रुमः ॥ (दिवा०-आत्म०-सक०-सेट् । क्त्वावेट् ।)
य ङ, वावृत्यते । उ, वावर्त्तित्वा वावृत्त्वा ।
संभक्तिःसेवनम् । इति दुर्गादासः ॥ (“ततो
वावृत्यमानासाविति भट्टिः ॥)

वावृत्तः, त्रि, कृतवरणः । इत्यमरः । ३ । १ । ९२ ॥

वाश, य ङ ऋ शब्दे । इति कविकल्पद्रुमः ॥

(दिवा०-आत्म०-अक०-आह्वाने सक०-सेट् ।)
शब्द इह तिरश्चामेव । तिरश्चां वाशितं रुत-
मित्यमरात् । य ङ, वाश्यते पक्षी । ऋ, अव-
वाशत् । उद्वाश्यमानः पितरं स राममिति
भट्टौ । अनेकार्थत्वादाह्वानार्थः । वासितं
सुरभीकृते । ज्ञानमात्रे खगारावे वासितं वस्त्र-
वेष्टिते । इति विश्वप्रकाशाद्दन्त्यान्तोऽयमपीति ।
इति दुर्गादासः ॥

वाशा, स्त्री, (वाश्यते इति । वाश शब्दे + “गुरोश्च

हलः ।” ३ । ३ । १०३ । इति अः । स्त्रियां
टाप् ।) वासकः । इति शब्दरत्नावली ॥

वाशिः, पुं, (वाश्यते इति । वश + णिच् + “वसि-

वपियजिराजिव्रजिसदिहनिवाशिवादीति ।”
उणा० ४ । १२४ । इति इञ् ।) अग्निः । इत्यु-
णादिकोषः ॥

वाशिका, स्त्री, (वाशा + स्वार्थे कन् । टाप् । अत

इत्वम् ।) वासकः । इति शब्दरत्नावली ॥

वाशितं, क्ली, (वाशृ शब्दे + भावे क्तः ।) पशु-

पक्ष्यादीनां शब्दः । इत्यमरः ॥ (यथा, महा-
भारते । ९ । ३१ । ५३ ।
“आर्त्तप्रलापान् मा तात ! सलिलस्थः प्रभा-
षिथाः ।
नैतन् मनसि मे राजन् ! वाशितं शकुने-
रिव ॥”)

वाशितः, त्रि, (धातूनामनेकार्थत्वात् वाश सुरभी-

करणे + क्तः ।) सुरभीकृतः । इत्यमरटीकायां
स्वामी ॥

वाशिता, स्त्री, (वाश + क्त । टाप् ।) स्त्रीमात्रम् ।

करिणी । इत्यमरः ॥

वाशिष्ठः, त्रि, वशिष्ठसम्बन्धी । वशिष्ठस्येदं इत्यर्थे

ष्णप्रत्ययेन निष्पन्नः ॥ (यथा, महाभारते ।
३ । ११५ । २ ।
“लोमशस्तस्य तान् सर्व्वानाचख्यौ तत्र ताप-
सान् ।
भृगूनङ्गिरसश्चैव वाशिष्ठानथ काश्यपान् ॥”
क्ली, उपपुराणविशेषः । यथा, देवीभागवते ।
१ । ३ । १६ ।
“माहेश्वरं भागवतं वाशिष्ठञ्च सविस्तरम् ।
एतान्युपपुराणानि कथितानि महात्मभिः ॥”
तीर्थभेदः । यथा, महाभारते । ३ । ८४ । ४५ ।
“ऋषिकुल्यां समासाद्य वाशिष्ठञ्चैव भारत ! ।
वाशिष्ठं समतिक्रम्य सर्व्वे वर्णा द्बिजातयः ॥”)

वाशिष्ठी, स्त्री, (वशिष्ठस्येयमिति । वशिष्ठ + अण् ।

ङीप् ।) गोमतीनदी । इति हेमचन्द्रः ॥

वाशुरा, स्त्री, (वाश्यते अस्यामिति । वाशृ शब्दे

+ “मन्दिवाशिमथिचतिचंक्यङ्किभ्य उरच् ।”
उणा० १ । ३९ । इति उरच् । टाप् ।)
रात्रिः । इत्युणादिकोषः ॥

वाश्रं, क्ली, (वाश्यतेऽस्मिन्निति । वाशृ + “स्कायि-

तञ्चिवञ्चिशकीति ।” उणा० २ । १३ । इति
रक् ।) मन्दिरम् । चतुष्पथः । इति मेदिनी ।
रे, ८३ ॥

वाश्रः, पुं, (वाश्यतेऽस्मिन्निति । वाशृ + “स्कायि-

तञ्चीति ।” उणा० २ । १३ । इति रक् ।)
दिवसः । इति मेदिनी । रे, ८३ ॥

वाष्पः, पुं, (वाधते इति । वाधृ लोडने + “खष्पशिल्प-

शष्पवाष्परूपपर्पतल्पाः ।” उणा० । ३ । २८ ।
इति पप्रत्यये धस्य षत्वं निपातनात् ।) उष्मा ।
(यथा, रघौ । ७ । ६८ ।
“तस्याः प्रतिद्धन्द्वभवाद्बिषादात्
सद्यो विमुक्तं मुखमावभासे ।
निश्वासवाष्पापगमात् प्रपन्नः
प्रसाद मात्मीयमिवात्मदर्शः ॥”)
लोहः । इति मेदिनी । पे, ११ ॥ अश्रुः । इत्य-
मरः ॥ (यथा, आर्य्यासप्तशत्याम् । ३९४ ।
“प्राङ्गण एव कदा मां श्लिष्यन्ती मन्युकम्पि-
कुचकलसा ।
अंशनिषण्णमुखी सा स्नपयति वाष्पेण मम
पृष्ठम् ॥”)

वाप्पकः, पुं, (वाष्प + संज्ञायां कन् ।) मारिषः ।

नटिया शाक इति भाषा । यथा, --
“मारिषो वाष्पको मार्षः श्वेतो रक्तश्च स स्मृतः ।
मारिषो मधुरः शीतो विष्ठम्भी पित्तनुद्गुरुः ॥
वातश्लेष्मकरो रक्तपित्तनुद्विषमाग्निजित् ।
रक्तमार्षो गुरुर्नाति सक्षारो मधुरः सरः ।
श्लेष्मलः कटुकः पाके स्वल्पदोष उदीरितः ॥”
इति भावप्रकाशः ॥

वाष्पका, स्त्री, (वाष्प + संज्ञायां कन् । टाप् ।

अभिधानादिदभावः ।) हिङ्गुपत्री । इति शब्द-
रत्नावली ॥

वाष्पिका, स्त्री, (वाष्प + संज्ञायां कन् टाप्

अत इत्वम् ।) हिङ्गुपत्री । तत्पर्य्यायः ।
कारवी २ पृथ्वी ३ कवरी ४ पृथुः ५ । इत्य-
मरः ॥ त्वक्पत्री ६ वाष्पीका ७ कर्व्वरी ।
इति तट्टीका ॥

वाष्पी, स्त्री, (वाष्प + गौरादित्वात् ङीष् ।)

वाष्पिका । इति शब्दरत्नावली ॥

वाष्पीका, स्त्री, हिङ्गुपत्री । इति राजनिर्घण्टः ॥

राँधुनी इति ख्यातश्च । अस्य गुणाः । कटु-
त्वम् । तीक्ष्णत्वम् । उष्णत्वम् । कृमिश्लेष्मनाशि-
त्वञ्च । इति राजवल्लभः ॥

वास, त् क उपसेवायाम् । इति कविकल्पद्रुमः ।

(अदन्त चुरा०-पर०-सक०-सेट् ।) उपसेवा
तु गुणान्तराधानाम् । अववासद्वस्त्रं चन्द्रनः ।
इति दुर्गादासः ॥

वासः, पुं, (वसन्त्यत्रेति । वस निवासे + “हलश्च ।”

३ । ३ । १२१ । इति घञ् ।) गृहम् । इत्य-
मरः ॥ (यथा, हरिवंशे । १७४ । ३४ ।
“उत्तिष्ठोत्तिष्ठ भद्रन्ते विषादं माकृथाः शुभे ।
नैवं विधेषु वासेषु भयमस्ति वरानने ! ॥”
वास्यते इति । वास + घञ् ।) वस्त्रम् । इति
तट्टीका ॥ (वस + भावे घञ् ।) अवस्थानम् ।
पृष्ठ ४/३५५
इति हेमचन्द्रः ॥ (यथा, महाभारते । १ ।
१२८ । ५० ।
“विहारावसथेष्वेव वीरा वासमरोचयन् ॥”)
वासकः । इति शब्दरत्नावली ॥ सुगन्धिः । इति
वासधात्वर्थदर्शनात् ॥ * ॥ स्थानविशेषे वासस्य
कर्त्तव्याकर्त्तव्यत्वं यथा, --
देवयान्युवाच ।
“वेदाहं तात बालापि कार्य्याणान्तु गतागतिम् ।
क्रोधे चैवाभिवादे वा वेद चापि बलाबलम् ॥
शिष्यस्याशिष्यवृत्तेर्हि न क्षन्तव्यं बुभूषता ।
तस्मात् सङ्कीर्णवृत्तेषु वासो मम न रोचते ॥
पुंसो येनाभिनन्दन्ति वृत्तेनाभिजनेन च ।
न तेषु च वसेत् प्राज्ञः श्रेयोऽर्थी पापबुद्धिषु ॥
ये त्वेवमभिजानन्ति वृत्तेनापि जनेन च ।
तेषु साधुषु वस्तव्यं स वासः श्रेय उच्यते ॥”
इति मात्स्वे २८ अध्यायः ॥ * ॥
अपि च ।
“धार्म्मिकैरावृते ग्रामे न व्याधिबहुले भृशम् ।
न शूद्रराज्ये निवसेत् न पाषण्डजनैर्वृते ॥
हिमवद्बिन्ध्ययोर्म्मध्यं पूर्ब्बपश्चिमयोः शुभम् ।
मुक्त्वा समुद्रयोर्देशं नान्यत्र निवसेत् द्बिजः ॥
अर्द्धक्रोशान्नदीकूलं वर्जयित्वा द्विजोत्तमः ॥
नान्यत्र निवसेत् पुण्यं नान्त्यजग्रामसन्निधौ ॥
न संवसेच्च पतितैर्न चण्डालैर्न पुक्कशैः ।
न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः ॥”
इति कौर्म्मे उपविभागे २५ अध्यायः ॥

वासः, [स्] क्ली, (वस्यतेऽनेति । वस आच्छा-

दने + “वसेर्णित् ।” उणा० ४ । २१७ । इत्य-
सुन् । स च णित् ।) वस्त्रम् । इत्यमरः ॥
(यथा, मनौ । ४ । ६६ ।
“उपानहौ च वासश्च वृतमन्यैर्न धारयेत् ॥”)
पत्रकम् । इति राजनिर्घण्टः ॥

वासकः, पुं, (वासयतीति । वासि + ण्वुल् ।) वृक्ष-

विशेषः । वाकस इति भाषा । तत्पर्य्यायः ।
वैद्यमाता २ सिंही ३ वासिका ४ वृषः ५
अटरुषः ६ सिंहास्यः ७ वाजिदन्तकः ८ ।
इत्यमरः ॥ वाशा ९ वाशिका १० वृशः ११
अटरूषः १२ वाशकः १३ । इति तट्टीका ॥
वासा १४ वासः १५ वाजी १६ वैद्यसिंही १७
मातृसिंही १८ । इति शब्दरत्नावली ॥
वासका १९ सिंहपर्णी २० । इति जटाधरः ॥
सिंहिका २१ भिषङ्माता २२ वसादनी २३
सिंहमुखी २४ कण्ठीरवी २५ शितकर्णी २६
वाजिदन्ती २७ नासा २८ पञ्चमुखी २९
सिंहपत्री ३० मृगेन्द्राणी ३१ । अस्य गुणाः ।
तिक्तत्वम् । कटुत्वम् । शीतत्वम् । काशरक्त-
पित्तकामलाकफवैकल्यज्वरश्वासक्षयनाशित्वञ्च ।
तत्पुष्पगुणाः । कटुपाकित्वम् । तिक्तत्वम् । कास-
क्षयहरत्वञ्च । इति राजनिर्घण्टः ॥ अपि च ।
“वासको वासिका वासा भिषङ्माता च
सिंहिका ।
सिंहास्यो वाजिदन्तः स्यादाटरुषोऽटरूषकः ॥
आटरूषो वृषो नाम्ना सिंहपर्णश्च स स्मृतः ।
वासको वासकृत् सर्य्यः कफपित्तास्रनाशनः ॥
तिक्तस्तुवरको हृद्यो लघुः शीतस्तृडर्त्तिहृत् ।
श्वासकासज्वरच्छर्द्दिमोहकुष्ठक्षयापहः ॥”
इति भावप्रकाशः ॥ * ॥
गानाङ्गविशषः । यथा, --
“मनोहरोऽथ कन्दर्पश्चारुनन्दन एव च ।
चत्वारो वासकाः प्रोक्ताः शङ्करेण स्वयं पुरा ॥”
केषाञ्चिन्मते नामान्यपि पृथक् ।
“विनोदो वरदश्चैव नन्दः कुमुद एव च ।
चत्वारो वासकाः प्रोक्ता गीतवाद्यविशारदैः ॥”
इति सङ्गीतदामोदरः ॥
(वासरः । इति वासकसज्जाशब्दार्थे आलङ्का-
रिकाः ॥)

वासकर्णी, स्त्री, यज्ञशाला । इति शब्दरत्नावली ॥

वासकसज्जा, स्त्री, (वासके प्रियसमागमवासरे

सज्जतीति । सज्ज् + अच् । टाप् । यद्वा, वासकं
वासवेश्म सज्जयतीति । सज्जि + अण् । टाप् ।)
स्वीयादिनायिकाभेदः । (यथा, गीतगोविन्दे ।
६ । ८ ।
“भवति विलम्बिनि विगलितलज्जा
विलपति रोदिति वासकसज्जा ॥”)
तस्या लक्षणं यथा । अद्य मे प्रियवासर इत्थं
निश्चित्य या सुरतसामग्रीं सज्जीकरोति सा
वासकसज्जा । वासको वासरः । अस्याश्चेष्टा
मनोरथसखीपरिहासदूतीप्रश्नसामग्रीविधान-
मार्गविलोकनादयः । मुग्धावासकसज्जा यथा,
“हारं गुम्फति तारकातिरुचिरं ग्रथ्नाति
काञ्चीलतां
दीपं न्यस्यति किन्तु तत्र बहुलं स्नेहं न दत्ते
पुनः ।
आलीनामिति वासकस्य रजनौ कामानुरूपाः
क्रियाः
साचिस्मेरमुखी नवोढसुमुखी दूरात् समुद्वी-
क्षते ॥”
मध्या वासकसज्जा यथा, --
“शिल्पं दर्शयितुं करोति कुतुकात् कह्लार-
हारस्रजं
चित्रप्रेक्षणकैंतवेन किमपि द्बारं ममुद्वीक्षते ।
गृह्णात्याभरणं नवं सहचरी भूषाजिगीषामिषा-
दित्थं पद्मदृशः प्रतीत्य चरितं स्मेराननोऽभूत्
स्मरः ॥”
प्रौढा वासकसज्जा यथा, --
“कृतं वपुषि भूषणं चिकुरधोरणी धूपिता
कृता शयनसन्निधौ क्रमुकवीटिकासम्भृतिः ।
अकारि हरिणीदृशा भवनमेत्य देहत्विषा
स्फुरत्कनककेतकीकुसुमकान्तिभिर्दुर्दिनम् ॥”
मनोरथश्च यथा, --
“आवयोरङ्गयोर्द्वैधे भूयो विरहपल्लवः ।
अद्वैते च स्मितस्फीतं न स्यादन्योन्यवीक्ष-
णम् ॥”
परकीया वासकसज्जा यथा, --
“श्वश्रुं स्वापयितुं छलेन च तिरोधत्ते प्रदीपा-
ङ्कुरान्
धत्ते सौधकपोतपोतनिनदैः साङ्केतिकं
चेष्टितम् ।
शश्वत्पार्श्वविवर्त्तिताङ्गलतिकं लोलत्कपोल-
द्युति
क्वापि क्वापि कराम्बुजं प्रियधिया तल्पान्तिकं
न्यस्यति ॥”
इति रसमञ्जरी ॥
(तथाच साहित्यदर्पणे । ३ । ८९ ।
“कुरुते मण्डनं यस्याः सज्जिते वासवेश्मनि ।
सा तु वासकसज्जा स्याद्बिदितप्रियङ्गमा ॥”)

वासका, स्त्री, (वासक + टाप् ।) वासकवृक्षः ।

इति जटाधरः ॥

वासगृहं, क्ली, (वासाय गृहम् ।) गर्भागारम् ।

इत्यमरः ॥ “द्वे गृहमध्यभागे शयनगृहे च
गृहान्तर्गृहे इत्येके निर्व्वातत्वात् गर्भ इवागारं
गर्भागारम् । वासाय गृहं वासगृहम् । वास-
वेश्मादि चात्र ।” इति भरतः ॥ (यथा, बृहत्-
संहितायाम् । ५३ । ७० ।
“वासगृहाणि च विन्द्याद्
विप्रादीनामुदग्दिगाद्यानि ।
विशताञ्च यथा भवनम्
भवन्ति तान्येव दक्षिणतः ॥”)

वासतः, पुं, (वास्यते इति । वासृ शब्दे + बाहुल-

कात् अतच् ।) गर्द्दभः । इति शब्दरत्नावली ॥

वासतेयी, स्त्री, (वसतौ साधुरिति । वसति +

“पथ्यतिथिवसतिस्वपतेर्ढञ् ।” ४ । ४ । १०४ ।
इति ढञ् ।) रात्रिः । इति त्रिकाण्डशेषः ॥
(वसतिसाधुमात्रे, त्रि । यथा, भट्टौ । ४ । ८ ।
“वनेषु वासतेयेषु निषसन् पर्णसंस्तरः ।
शय्योत्थायं मृगान् विध्यन्नातिथेयो विचक्रमे ॥”)

वासनं, क्ली, (वास्यते इति । वासि + ल्युट् ।)

धूपनम् । वारिधानी । वस्त्रम् । इति मेदिनी ।
ने, १२९ ॥ वासः । इति शब्दरत्नावली ॥
ज्ञानम् । इति धरणिः ॥ निक्षेपाधारः । यथा,
याज्ञवल्क्यः ।
“आधिसीमोपनिक्षेपजडवालधनैर्विना ।
तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैरिह ॥”
उपनिक्षेपस्तु ।
“वासनस्थमनाख्याय समुद्रं यद्विधीयते ॥”
इति नारदोक्तेः ॥
वासनं निक्षेपाधारभूतं सम्पुटादिकं समुद्रं
ग्रन्थ्यादियुतम् । इति व्यवहारतत्त्वम् ॥ वसन-
सम्बन्धिनि, त्रि ॥ (वसनेन क्रीतमिति । वसन +
“शतमानविंशतिकसहस्रवसनादण् ।” ५ । १ । २७ ।
इति अण् । वसनेन क्रीते च, त्रि ॥)

वासना, स्त्री, (वासयति कर्म्मणा योजयति जीव-

मनांसीति । वस + णिच् + युच् । टाप् ।)
प्रात्याशा । (यथा, भागवते । २ । २ । २ ।
“शाब्दस्य हि ब्रह्मण एष पन्था
यन्नामभिर्ध्यायनि धीरपार्थैः ।
पृष्ठ ४/३५६
परिभ्रमंस्तत्र न विन्दतेऽर्थान्
मायामये वासनया शयानः ॥”)
ज्ञानम् । इति मेदिनी । ने, १३० ॥ स्मृतिहेतुः ।
तत्पर्य्यायः । संस्कारः २ भावना ३ । इति जटा-
धरः ॥ देहात्मबुद्धिजन्यमिथ्यासंस्कारः । इति
न्यायशास्त्रम् ॥ दुर्गा । यथा, --
“वसत्यदृष्टा सर्व्वेषु भूतेष्वन्तर्हितांय च ।
धातुर्व्वस निवासेति वासना तेन सा स्मृता ॥”
इति देवीपुराणे ४५ अध्यायः ॥
(अर्कस्य भार्य्या । यथा, भागवते । ६ । ६ । १३ ।
“अर्कस्य वासना भार्य्या पुत्त्रास्तर्षादयः
स्मृताः ॥”)

वासन्तः, पुं, (वसन्ते भवः । वसन्त + “सन्धि-

वेलाद्यतुनक्षत्रेभ्योऽण् ।” ४ । ३ । १६ । इति अण् ।
उष्ट्रः । इति मेदिनी । ते, १५२ ॥ कोकिलः ।
इति राजनिर्घण्टः ॥ मलयवायुः । मुद्गः । इति
त्रिकाण्डशेषः ॥ कृष्णमुद्गः । इति हेमचन्द्रः ॥
मदनवृक्षः । इति शब्दमाला ॥ आवहिते, त्रि ।
इति मेदिनी । ते, १५२ ॥ (वसन्तोप्ते च त्रि ।
इति सिद्धान्तकौमुदी । ४ । ३ । ४६ ॥)

वासन्तकं, त्रि, वसन्तसम्बन्धि । वसन्तस्येदमित्यर्थे

कण्प्रत्ययेन निष्पन्नम् ॥ (वसन्ते उप्तम् । वसन्त
+ “ग्रीष्मवसन्तादन्यतरस्याम् ।” ४ । ३ । ४६ ।
इति वुञ् । (वसन्तोप्ते, त्रि ॥ इति सिद्धान्त-
कौमुदी ॥)

वासन्तिकः, त्रि, (वसन्तमधीते वेद वेति । वसन्त

+ “वसन्तादिभ्यष्ठक् ।” ४ । २ । ६३ । इति ठक् ।)
विदूषकः यथा । वासन्तिकः केलिकिलो वैहा-
सिको विदूषकः । इति हेमचन्द्रः ॥ (वसन्त-
स्येदमिदि । “वसन्तात् च ।” ४ । ३ । २० ।
इति ठञ् । वसन्तसम्बन्धिनि, त्रि । यथा,
भागवते । ५ । ९ । ५ ।
“सप्रणवशिरस्त्रिपदां सावित्रीं ग्रैष्मवासन्ति-
कान् मासानधीयानमप्यसमवेतरूपं ग्राहया-
मास ॥”)

वासन्ती, स्त्री, (वसुन्तस्येयमिति । वसन्त + अण् ।

ङीष् ।) माधवी । यूथी । इति मेदिनी । ते, १५२ ॥
(यथा, रामायणे । ४ । १ । ७७ ।
“मालतीमल्लिकापद्मकरवीराश्च पुष्पिताः ।
केतक्यः सिन्धुवाराश्च वासन्त्यश्च सुपुष्पिताः ॥”)
पाटला । इति विश्वः ॥ कामोत्सवः । तत्पर्य्यायः ।
चैत्रावली २ मधूत्सवः ३ सुवसन्तः ४ काम-
महः ५ कर्द्दनी ६ । इति त्रिकाण्डशेषः ॥
गणिकारी । पुष्पलताविशेषः । तत्पर्य्यायः ।
प्रहसन्ती २ वसन्तजा ३ माधवी ४ महा-
जातिः ५ शीतसहा ६ मधुबहुला ७ वसन्त-
दूती ८ । अस्या गुणाः । शिशिरत्वम् । हृद्यत्वम् ।
सुरभित्वम् । श्रमहारित्वम् । धम्मिल्लामोदित्वम् ।
मन्दमदोन्मादनदायित्वञ्च । इति राजनिर्घण्टः ॥
नवमल्लिका । नेवारि इति हिन्दी भाषा ॥
यथा, --
“नेपाली कथिता तज्ज्ञैः सप्तला नवमालिका ।
वासन्ती शीतला लध्वी तिक्ता दोषत्रयास्र-
जित् ॥”
इति भावप्रकाशः ॥ * ॥
अथ वासन्तीदुर्गापूजाप्रमाणम् । तत्र भविष्य-
पुराणम् ।
“मीनराशिस्थिते सूर्य्ये शुक्लपक्षे नराधिप ।
सप्तमीं दशमीं यावत् पूजयेदम्बिकां सदा ॥”
भविष्योत्तरे ।
“चैत्रे मासि सिते पक्षे सप्तम्यादिदिनत्रये ।
पूजयेद्बिधिवद्दुर्गां दशम्याञ्च विसर्ज्जयेत् ॥”
कालकौमुद्यां जावालिः ।
“चैत्रे मासि सिते पक्षे सप्तम्यादिदिनत्रये ।
पूजयेद्विविधैर्द्रव्यैर्लवङ्गकुसुमैस्तथा ॥
नानाविधैश्च वलिभिर्म्मेघाभैर्दोषवर्ज्जितैः ।
विचित्राभरणैः पार्थ पट्टवस्त्रादिभिस्तथा ॥
एवं यः कुरुते पूजां वर्षे वर्षे विधानतः ।
ईप्सितान् लभते कामान् पुत्त्रपौत्त्रादिकान्नृप ॥”
अत्र भविष्योत्तरे निरुपपदमासशब्दसङ्केतात्
भषिष्यपुराणवचने मीनराशिस्थित इति
मीनस्थरव्यारब्धचान्द्रमासीयतिथिपरम् । सौर-
रव्यारब्धत्वे कदाचित् सप्तम्यादितिथित्रयाला-
भात् तद्वर्षे तत्कृत्यलोपः स्यात् । न चेष्टापत्तिः
भषिष्यपुराणे सदापदोपादानात् जावालिवचने
वर्षे वर्षे इत्युपादानाच्च नित्यत्वम् । एतद्विवृतं
कालविवेके । एवं जावाली शेषवचनपरार्द्धे
पुत्त्रादिरूपफलश्रवणात् काम्यत्वञ्च । ततश्च
काम्यतया पूजने कृते प्रसङ्गात् नित्यत्वसिद्धिः ।
“सिताष्टम्यान्तु चैत्रस्य पुष्पैस्तत्कालसम्भवैः ॥
अशोकैरपि यः कुर्य्यात् मन्त्रेणानेन पूजनम् ।
न तस्य जायते शोको रोगो वाप्यथ दुर्गतिः ॥”
इति कालिकापुराणवचनात् केवलाष्टमीकल्प
उक्तः । चैत्रमासमधिकृत्य ।
“नमम्यां पूजयेद्देवीं महिषासुरमर्द्दिनीम् ।
कुङ्कुमागुरुकस्तूरीधूपान्नध्वजतर्पणैः ।
दमनैर्मुरपत्रैश्च विजयाख्यपदं लभेत् ॥”
इत्यनेन केवलनवमीकल्प उक्तः । व्यवस्था तु
शारदीयपूजाप्रकरणोक्ता ग्राह्या । विशेषस्त्वत्र
बोधनप्रक्रिया नास्ति बोधिताया बोधनासम्भ-
वात् । इति प्राक् विवृतम् । होमादिकञ्च पूर्ब्ब-
वज्ज्ञेयमिति दिक् । इति दुर्गोत्सवविवेकः ॥ * ॥
अपि च ।
श्रीनारायण उवाच ।
“पुरा स्तुता सा गोलोके कृष्णेन परमात्मना ।
संपूज्य मधुमासे च प्रीतेन रासमण्डले ॥
मधुकैटभयोर्युद्धे द्वितीये विष्णुना पुरा ।
तत्रैव काले सा दुर्गा ब्रह्मणा प्राणसङ्कटे ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ६३ अध्यायः ॥
(चतुर्द्दशाक्षरवृत्तिविशेषः । इति छन्दो-
मञ्जरी । अस्या लक्षणादिकं छन्दःशब्दे द्रष्ट-
व्यम् ॥)

वासन्तीपूजा, स्त्री, (वासन्ती तदाख्या पूजा ।)

चैत्रमासीयदुर्गापूजा । यथा, --
“चैत्रे मासि सिते पक्षे नवम्यादिदिनत्रये ।
प्रातः प्रातर्महादेवीं दुर्गां भक्त्या प्रपूजयेत् ॥”
इति ॥
तत्राष्टम्यां अन्नपूर्णापूजा यथा, --
“तत्राष्टम्यामन्नपूर्णां पूर्ब्बाह्णे साधकोत्तमः ।
रक्तवासैरक्तपुष्पैर्बलिभिः पूजयेच्छिवाम् ॥”
इति च मायातन्त्रे ७ पटलः ॥
अपि च ।
“विशेषाच्चैत्रमासस्य या तिथिः स्यात् सिता-
ष्टमी ।
तस्यां यः पूजयेद्भक्त्या प्रसादयति मां ध्रुवम् ॥”
इति शाम्भवीतन्त्रे १४ पटलः ॥

वासयोगः, पुं, (वासाय सुगन्धार्थं युज्यते इति ।

युज + घञ् ।) चूर्णम् । इत्यमरः ॥ “द्वे आविर
इति ख्याते । पटरसा क्षोदे इत्यन्ये । चूर्ण्यन्ते
प्रेर्य्यन्ते चूर्णानि चूर्ण प्रेरणे अल् । वासे सुरभी-
करणे युज्यन्ते उपयुज्यन्ते इति घञि वास-
योगः ।” इति तट्टीकायां भरतः ॥ तत्पर्य्यायः ।
गन्धचूर्णम् २ पटवासम् ३ चूर्णकम् ४ । इति
शब्दरत्नावली ॥

वासरः, पुं क्ली, (वासयतीति । वस् + णिच् +

“अर्त्तिकमिभ्रमिचमिदेविवासिभ्यश्चित् ।” उणा०
३ । १३२ । इति अरः ।) दिवसः । इत्यमरः ॥
(यथा, कथासरित्सागरे । ४ । २३ ।
“प्रवृत्ते चावयोर्वादे प्रयाताः सप्त वासराः ॥”)
नागप्रभेदे, पुं । इति मेदिनी । रे, २१३ ॥

वासवः, पुं, (वसुरेव । प्रज्ञाद्यण् ।) इन्द्रः । इत्य-

मरः ॥ (यथा, महाभारते । ३ । ४३ । २२ ।
“सहस्राक्षनियोगात् स पार्थः शक्रासनं गतः ।
अध्यक्रामदमेयात्मा द्वितीय इव वासवः ॥”)

वासवी, स्त्री, (वसोरपत्यं स्त्री । वसु + अण् ।

ङीप् ।) व्यासमाता । यथा, --
“व्यासस्याम्बा सत्यवती वासवी गन्धकालिका ।
योजनगन्धा दासेयी शीलं कायनजीवसूः ॥”
इति हेमचन्द्रः ॥
(यथा, महाभारते । १ । ६३ । ७० ।
“दिव्यां तां वासवीं कन्यां रम्भोरूं मुनिपुङ्गवः ।
सङ्गमं मम कल्याणि ! कुरुष्वेत्यभ्यभाषत ॥”)

वाससज्जा, स्त्री, (वासं गृहं सज्जयतीति । सज्ज +

णिच् + अण् । टाप् ।) नायिकाभेदः । यथा,
“खण्डितोत्कण्ठिता लब्धा तथा प्रोषितभर्त्तृका ।
कलहान्तरिता वाससज्जा स्वाधीनभर्त्तृका ॥
अभिसारिकाप्यष्टौ ता बन्धक्यां पांशुलासती ॥”
इति जटाधरः ॥
अस्या विवरणं वासकसज्जाशब्दे द्रष्टव्यम् ॥

वासा, स्त्री, (वासयतीति । वस् + णिच् + अच् ।

टाप् ।) वासकः । इति शब्दरत्नावली ॥ (यथा,
वैद्यके ।
“वासायां विद्यमानायामाशायां जीवितस्य च ।
रक्तपित्ती क्षयी कासी किमर्थमवसीदति ॥”)

वासागारं, क्ली, (वासाय वासस्य वा आगारम् ।)

वासगृहम् । तत्पर्य्यायः । भोगगृहम् २ कन्याठः ३
३ पत्न्याटः ४ निष्कुटः ५ । इति त्रिकाण्ड शेषः ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/वायकः&oldid=44063" इत्यस्माद् प्रतिप्राप्तम्