पृष्ठ ४/४१५

विमलः, पुं, (विगतो मलः पापं यस्मात् ।) अर्हन् ।

इति हेमचन्द्रः ॥ (सुद्युम्नपुत्त्रः । यथा, भाग-
वते । ९ । १ । ४१ ।
“तस्योत्कलो गयो राजन् विमलश्च त्रयःसुताः ॥”)

विमलदानं, क्ली, (विमलं विशुद्धं दानम् ।) नित्य-

नैमित्तिककाम्यदानम् । ईश्वरप्रीणनार्थदानञ्च ।
यथा, --
“नित्यं नैमित्तिकं काम्यं विमलं दानमीरितम् ।
अहन्यहनि यत्किञ्चिद्दीयतेऽनुपकारिणे ।
अनुद्दिश्य फलं तत् स्यात् ब्राह्मणाय तु नित्य-
कम् ॥
यत्तु पापापशान्त्यै च दीयते विदुषां करे ।
नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुष्ठितम् ॥
अपत्यविजयैश्वर्य्यस्वर्गार्थं यत् प्रदीयते ।
दानं तत् काम्यमाख्यातमृषिभिर्द्धर्म्मचिन्तकः ॥
चेतसा सत्त्वयुक्तेन दानं तद्बिमलं स्मृतम् ॥”
इति गारुडे ५१ अध्यायः ॥

विमलमणिः, पुं, (विमलः स्वच्छो मणिः ।)

स्फटिकः । इति राजनिर्घण्टः ॥

विमला, स्त्री, (विमल + टाप् ।) सप्तला ।

इत्यमरः ॥ चामरकषा इति भाषा ॥ (अस्याः
पर्य्यायो यथा, --
“शातला सप्तला सारा विमला विदुला च सा ।
तथा निगदिता भूरिफेना चर्म्मकषेत्यपि ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
भूमिभेदः । इति मेदिनी । ले, १३१ ॥ देवी-
भेदः । यथा, --
“यूथाख्यविमला कार्य्या शुद्धहारेन्दुवर्च्चसा ।
मुक्ताक्षसूत्रधारी च कमण्डलुकरा वरा ॥
नावासनसमारूढा श्वेतमाल्याम्बरप्रिया ।
दधिक्षीरोदनाहारा कर्पूरमदचर्च्चिता ।
सितपङ्कजहोमेन राष्ट्रायुर्नृपवर्द्धिनी ॥”
इति देवीपुराणे संवत्सरदेवताद्वितीयविंश-
तिकाविधिः ॥ * ॥ अन्यच्च ।
“पूजयेत् कर्णिकामध्ये वासुदेवन्तु नायकम् ।
विमला नायिका तस्य वासुदेवस्य कीर्त्तिता ॥”
इति कालिकापुराणे ८२ अध्यायः ॥ * ॥
अपरञ्च ।
“उत्कले नाभिदेशञ्च विरजाक्षेत्र उच्यते ।
विमला सा महादेवी जगन्नाथस्तु भैरवः ॥”
इति तन्त्रचूडामणौ ५१ पीठनिर्णयः ॥
(यथा च देवीभागवते । ७ । ३० । ६४ ।
“गयायां मङ्गला प्रोक्ता विमला पुरुषोत्तमे ॥”)

विमलात्मकः, त्रि, (विमलो निर्म्मल आत्मा यस्य ।)

निर्म्मलः । इत्यमरटीकायां रायमुकुटः ॥

विमलाद्रिः, पुं, (विमलः अद्रिः ।) शत्रुञ्जय-

पर्व्वतः । इति हेमचन्द्रः ॥

विमलार्थकः, त्रि, निर्म्मलः । इत्यमरटीकायां

रायमुकुटः ॥

विमांसं, क्ली, (विरुद्धं मांसम् ।) अशुद्धमांसम् ।

तत्तु कुक्कुरादिमांसम् । इति केचित् ॥

विमाता, [ऋ] स्त्री, (विरुद्धा माता ।) मातृ-

सपत्नी । सत्मा इति भाषा । सा कनीयस्यपि
नमस्या । यथा, स्मृतिः ।
“मातुः पितुः कनीयांसं न नमेद् वयसाधिकः ।
नमस्कुर्य्यात् गुरोः पत्नीं भ्रातृजायां विमा-
तरम ॥”
स्मृत्यर्थसारे ।
“स्त्रियो नमस्या वृद्धाश्च वयसा पत्युरेव ताः ॥”
यतः पत्युर्व्वयसा तास्त्रियो वृद्धा अतः कनिष्ठा
अपि नमस्याः । इति मलमासतत्त्वत् ॥ * ॥
विमातृरजोनिवृत्तावपि पितामहधनविभाग-
कर्त्तव्यत्वम् । यथा बृहस्पतिः ।
“पित्रोरभावे भ्रातॄणां विभागः संप्रदर्शितः ।
मातुर्निवृत्ते रजसि जीवतोरपि शस्यते ॥”
अत्र मातृपदं विमातृपरमपि पुत्त्रान्तरोत्पत्ति-
सम्भावनातौल्यात् । इति दायतत्त्वम् ॥ * ॥
अस्या अनंशित्वं यथा । सोदरभ्रातृभिर्विभागे
क्रियमाणे मात्रे पुत्त्रसमांशो दातव्यः । समांश-
हारिणी माता इति वचनात्मातृपदस्य जननी-
परत्वात् न सपत्नीमातृपरत्वमपि । सकृच्छ्रुतस्य
मुख्यगौणत्वानुपपत्तेः । इति दायभागः ॥

विमातृजः, पुं, (विमातुर्जायते इति । विमातृ +

जन + डः ।) मातृसपत्नीपुत्त्रः । तत्पर्य्यायः ।
वैमात्रेयः २ । इत्यमरः ॥ वैमात्रः ३ । इति
जटाधरः ॥

विमानः, पुं क्ली, (विगतं मानमुपमा यस्य ।)

देवरथः । तत्पर्य्यायः । व्योमयानम् २ । इत्य-
मरः ॥ (यथा, कुमारसम्भवे । २ । ४५ ।
“भुवनालोकनप्रीतिः स्वर्गिभिर्नानुभूयते ।
खिलीभूते विमानानां तदापातभयात् पथि ॥”)
सार्व्वभौमगृहम् । (तत्तु सप्तभूमिगृहम् । यथा,
रामायणे । १ । ५ । १६ ।
“सर्व्वरत्नसमाकीर्णां विमानगृहशोभिताम् ॥”
“विमानोऽस्त्री देवयाने सप्तभूमौ च सद्मनि ॥”
इति तट्टीकाधृतनिघण्टुः ॥)
घोटकः । यानमात्रम् । इति मेदिनी । ने,
१३२ ॥ (त्रि, परिच्छेदकम् । यथा, ऋग्वेदे ।
२ । ४० । ३ ।
“सोमापूषणा रजसो विमानं
सप्तचक्रं रथमविश्वमिन्वम् ॥”
“विमानं परिच्छेदकं सर्व्वमानमित्यर्थः ।” इति
तद्भाष्ये सायणः ॥ साधनम् । यथा, तत्रैव ।
३ । ३ । ४ ।
“पिता यज्ञानामसुरो विपश्चितां
विमानमग्निर्वयुनञ्च वाघताम् ॥”)
“विमानं विमीयतेऽनेन फलमिति विमानं
यज्ञादिकर्म्मसाधनम् ।” इति तद्भाष्ये सायणः ॥
विगतो मानो यस्येति विग्रहे । अवज्ञातः ।
यथा, भागवते । ५ । १३ । १० ।
“कर्हिस्मचित् क्षुद्ररसान् विचिन्वं-
स्तन्मक्षिकाभिर्व्यथितो विमानः ।
तत्राति कृच्छ्रं प्रति लब्धमानो
बलाद्विलुम्पन्त्यथ तांस्ततोऽन्ये ॥”)

विमार्गः, पुं, विपूर्ब्बमृजधातोर्घञ्प्रत्ययेन निष्पन्नः ॥

सम्मार्ज्जनी । (विरुद्धो मार्गः ।) कुपथः ।
(यथा, शाकुन्तले ५ अङ्के ।
“नियमयसि विमार्गप्रस्थितानात्तदण्डः
प्रशमयसि विवादं कल्पसे रक्षणाय ॥”)

विमुक्तः, त्रि, (वि + मुच् + क्तः ।) विशेषेण मुक्तः ।

यथा, --
“येऽन्येऽरविन्दाक्ष विमुक्तमानिन-
स्त्वय्यस्तभावादविशुद्धबुद्धयः ।
आरुह्य क्रच्छ्रेण परं पदं ततः
पतन्त्यधो नादृतयुष्मदङ्घ्रयः ॥”
इति श्रीभागवते १० स्कन्धे १४ अध्यायः ॥
त्यक्तः । (यथा, महाभारते । ७ । २८ । ३५ ।
“विमुक्तं परमास्त्रेण जहि पार्थ महासुरम् ।
वैरिणं युधि दुर्द्धर्षं भगदत्तं सुरद्विषम् ॥”
पुं, माधवी । तत्पर्य्ययो यथा, --
“माधवी स्यात्तु वासन्ती पुण्ड्रको मण्डकोऽपि च ।
अतिमुक्तो विमुक्तश्च कामुको भ्रमरोत्सवः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ॥)

विमुक्तिः, स्त्री, (वि + मुच् + क्तिन् ।) विमोचनम् ।

मोक्षः । यथा, प्रायश्चित्ततत्त्वे ।
“पितॄन्नमस्ये दिवि ये च मूर्त्ताः
स्वधाभुजः काम्यफलाभिसन्धौ ।
प्रदानशक्ताः सकलेप्सितानां
विमुक्तिदा येऽनभिसंहितेषु ॥”

विमुखः, त्रि, (विरुद्धं अननुकूलं मुस्वं यस्य ।)

बहिर्मुखः । विरतः । यथा, --
“स्वागमैः कल्पितैस्त्वं हि जनान् मद्विमुखान्
कुरु ।
माञ्च गोपय येन स्यात् सृष्टिरेषोत्तरोत्तरा ॥”
इति पाद्मोत्तरखण्डे शिवं प्रति विष्णुवाक्यम् ॥

विमुद्रः, त्रि, (विगता मुद्रा मुद्रणभावो यस्य ।)

प्रफुल्लः । इति हेमचन्द्रः ॥ मुद्रारहितश्च ॥

विमोक्षणं, क्ली, (वि + मोक्ष + ल्युट् ।) विमो-

चनम् । परित्यजनम् । यथा, --
“यं धर्म्मकामार्थविमुक्तिकामा
भजन्त इष्टां गतिमाप्नुवन्ति ।
किञ्चाशिषो रात्यपि देहमव्ययं
करोतु मेऽदभ्रदयो विमोक्षणम् ॥”
इति श्रीभागवते १० । ८३ अध्यायः ॥

विमोचनं, क्ली, (वि + मुच् + ल्युट् ।) दूरीकरणम् ।

विमुक्तिः । विपूर्ब्बमुचधातोरनट्प्रत्ययेन निष्प-
न्नम् ॥ (यथा, महाभारते । १ । १६० । १३ ।
“अथवाहं करिष्यामि कुलस्यास्य विमोचनम् ।
फलसंस्था भविष्यामि कृत्वा कर्म्म सुदुष्करम् ॥”
पृष्ठ ४/४१६
तीर्थविशेषः । यथा, महाभारते । ३ । ८३ । १५० ।
“विमोचनमुपस्पृश्य जितमन्युर्जितेन्द्रियः ।
प्रतिग्रहकृतैर्द्दोषैः सर्व्वैः स परिमुच्यते ॥”
पुं, महादेवः । यथा, महाभारते । १३ । १७ । ५९ ।
“विमोचनः समुरणो हिरण्यकवचोद्भवः ॥”)

विमोहनं, क्ली, वैचिंत्तीकरणम् । विपूर्व्वमुह-

धातोरनट्(ल्युट्)प्रत्ययेन निष्पन्नम् ॥ (विमो-
हयतीति । वि + मुह + णिच् + ल्युः । विमो-
हके, त्रि । यथा, भागवते । ११ । २४ । ६ ।
“ततो विकुर्व्वतो जातो योऽहङ्कारो विमो-
हनः ॥”)

विमोहितः, त्रि, (वि + मुह + णिच् + क्तः ।)

मोहयुक्तः । मोहितः । यथा, --
“तावप्यतिबलोन्मत्तौ महामायाविमोहितौ ।
उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम् ॥”
इति देवीमाहात्म्यम् ॥

वि(बि)म्बं, क्ली, (वी गत्यादिषु + “उल्वादयश्च ।”

उणा० ४ । ९५ । इति वन् प्रत्ययेन निपातनात्
साधुः ।) प्रतिविम्बम् । कमण्डलुः । इति
संक्षिप्तसारोणादिवृत्तिः ॥ (मूर्त्तिः । यथा,
भागवते । ३ । २ । ११ ।
“प्रदर्श्यातप्ततपसामवितृप्तदृशां नृणाम् ।
आदायान्तर्दधात् यस्तु स्वविम्बं लोकलोचनम् ॥”
तथाच राजतरङ्गिण्याम् । ३ । ४६६ ।
“मेघवाहनभूभर्त्तृपत्न्या भिन्नाख्यया कृते ।
विहारेऽपि तया बुद्धविम्बं साधु निवेशितम् ॥”)
विम्बिकाफलम् । तेलाकुचा इति भाषा । इति
मेदिनी । वे, ७ ॥ (यथा, कुमारे । ३ । ६७ ।
“उमामुखे विम्बफलाधरोष्ठे
व्यापारयामास विलोचनानि ॥”)
अस्य पर्य्यायः । तुण्डिकेरी २ रक्तफला ३
बिम्बिका ४ पीलुपर्णी ५ । इत्यमरः ॥ ओष्ठी ६
बिम्बी ७ । इति रत्नमाला ॥ बिम्बा ८ बिम्ब-
कम् ९ बिम्बजा १० । इति शब्दरत्नावली ॥
अस्य गुणाः । पित्तकफच्छर्द्दिव्रणहृल्लासकुष्ठ-
नाशित्वम् । इति राजवल्लभः ॥ अपि च ।
“बिम्बी रक्तफला तुम्बी तुण्डिकेरी च बिम्बिका ।
ओष्ठोपमफला प्रोक्ता पीलुपर्णी च कथ्यते ॥
बिम्बीफलं स्वादु शीतं गुरु पित्तास्रवातजित् ।
स्तम्भनं लेखनं रुच्यं विबन्धाध्मानकारकम् ॥”
इति भावप्रकाशः ॥

वि(बि)म्बः, पुं क्ली, (वी + “उल्वादयश्च ।” उणा०

४ । ९५ । इति वन्प्रत्ययेन साधुः ।) सूर्य्य-
चन्द्रमण्डलम् । इत्यमरः ॥ (यथा, प्रबोध-
चन्द्रोदये ६ अङ्के ।
“असौ त्वदन्यो न सनातनः पुमान्
भवान् न देवात् पुरुषोत्तमात् परः ।
स एव भिन्नस्त्वमनादिमायया
द्बिधेव विम्बं सलिले विवस्वतः ॥”
यथाच मार्कण्डेये । ८४ । ११ ।
“ईषत्सहासममलं परिपूर्णचन्द्र-
विम्बानुकारि कनकोत्तमकान्तिकान्तम् ॥”
मण्डलमात्रेऽपि । यथा, ऋतुसंहारे । १ । ४ ।
“नितम्बविम्बैः सुदुकूलमेखलैः
स्तनैः सहाराभरणैः सचन्दनैः ।
शिरोरुहैः स्नानकषायवासितैः
स्त्रियो निदाघं शमयन्ति कामिनाम् ॥”
यथाच कुमारे । ७ । २२ ।
“आत्मानमालोक्य च शोभमान-
मादर्शविम्बे स्तिमितायताक्षी ।
हरोपयाने त्वरिता बभूव
स्त्रीणां प्रियालोकफलो हि वेशः ॥”)

वि(बि)म्बः, पुं, (वी + वन्प्रत्ययेन साधुः ।) कृक-

लासः । इति मेदिनी । वे, ७ ॥

वि(बि)म्बकं, क्ली, (विम्ब + स्वार्थे कन् ।) चन्द्रसूर्य्य-

मण्डलम् । विम्बिकाफलम् । इति शब्दरत्ना-
वली ॥ (सञ्चकः । साँच इति भाषा ॥ यथा,
नैषघे । २२ । ४७ ।
“विधिर्व्विधर्त्ते विधिना बधूनां
किमाननं काञ्चनसञ्चकेन ॥”
अत्र । “काञ्चनस्य सञ्चकेन विम्बकेन ॥” इति
नारायणीटीका ॥)

वि(बि)म्बजा, स्त्री, (विम्बं फलं जायतेऽस्यामिति ।

जन् + डः ।) बिम्बिका । इति शब्दरत्नावली ॥

वि(बि)म्बटः पुं, सर्षपः । इति शब्दचन्द्रिका ॥

वि(बि)म्बा, स्त्री, (विम्वं फलमस्त्यस्यामिति ।

विम्ब + अच् । टाप् ।) विम्बिका । इति शब्द-
रत्नावली ॥

वि(बि)म्बिका, स्त्री, विम्बम् । इत्यमरः ॥ (यथा, --

“तुम्बी रक्तफला विम्बी तुण्डीकेरी च विम्बिका ॥”
इति वैद्यकरत्नमालायाम् ॥)
चन्द्रसूर्य्यमण्डलम् । इति शब्दरत्नावली ॥

वि(बि)म्बी, स्त्री, (विम्ब + गौरादित्वात् ङीष् ।)

बिम्बिका । इति शब्दरत्नावली ॥ (यथा, --
“काकादनीं चित्रफलां विम्बीं गुञ्जाश्च
धारयेत् ॥”
इति सुश्रुते उत्तरतन्त्रे ३२ अध्यायः ॥)

वि(बि)म्बुः, स्त्री, गुवाकः । इति केचित् ॥

वि(बि)म्बोष्ठः त्रि, (विम्ब + ओष्ठः । “ओत्वो-

ष्ठयोः समासे वा ।” इति पाक्षि-
कोऽकारलोपः ।) विम्बे इव ओष्ठौ यस्य ।
इति मुग्धबोधव्याकरणम् ॥

वि(बि)म्बौष्ठः त्रि, (विम्ब + ओष्ठः । “ओत्वो-

ष्ठयोः समासे वा ।” इति पाक्षि-
कोऽकारलोपः ।) विम्बे इव ओष्ठौ यस्य ।
इति मुग्धबोधव्याकरणम् ॥

वियच्चारी, [न्] पुं, (वियति आकाशे चरतीति ।

चर + णिनिः ।) चिल्लः । इति शब्दमाला ॥
आकाशगामिनि, त्रि ॥

वियत्, क्ली, (वियच्छति न विरमतीति । वि +

यम + “अन्येभ्योऽपि दृश्यते ।” ३ । २ । १७८ ।
इति क्विप् । क्वौ चगमादीनामिति मलोपे तुक् ।)
आकाशम् । इत्यमरः ॥ (यथा, भागवते ।
३ । ८ । ३३ ।
“तर्ह्येव तन्नाभिसरःसरोज-
मात्मानमम्भः श्वसनं वियच्च ।
ददर्श देवो जगतो विधाता
नातः परं लोकविसर्गदृष्टिः ॥”
द्यवापृथिव्यौ । अत्र द्बिवचनस्य प्रयोगः स्यात् ।
यथा, तैत्तिरीयब्राह्मणे । १ । १ । ३ । २ ।
“द्यावापृथिवी सहास्ताम् । ते वियती अब्रूताम् ॥”
तथाच शतपथब्राह्मणे । ७ । १ । २ । २३ ।
“तयोर्वियत्योर्योऽन्तरेणाकाश आसीत् तदन्त-
रिक्षमभवत् ॥” * ॥ वि + या + शतृ । गमन-
शीले, त्रि । यथा, भागवते । ७ । ६ । १४ ।
“कुटुम्बपोषाय वियन्निजायु-
र्न बुध्यतेऽर्थं विहतं प्रमत्तः ॥”
तथा, तत्रैव । ९ । २१ । ३ ।
“वियद्बित्तस्य ददतो लब्धं लब्धं बुभूषतः ।
निष्किञ्चनस्य धीरस्य सकुटुम्बस्य सीदतः ।
व्यतीयुरष्टचत्वारिंशदहान्यपिबतः किल ॥”
“वियद्वित्तस्य वियतो गगनादिव उद्यमं विनैव
दैवादुपस्थितं वित्तं भोग्यं यस्य । यद्वा वियत्
व्ययं प्राप्नुवद्वित्तं भोग्यं यस्य ।” इति तट्टीकायां
श्रीधरस्वामी ॥)

वियद्गङ्गा, स्त्री, (वियतो गङ्गा ।) स्वर्गगङ्गा ।

इत्यमरः ॥

वियद्भूतिः, स्त्री, (वियतो भूतिर्भस्मेव ।) अन्ध-

कारः । इति त्रिकाण्डशेषः ॥

वियन्मणिः, पुं, (वियतो मणिः ।) सूर्य्यः । इति

हारावली ॥

वियमः, पुं, (वि + यम + “यमः समुपनिविषु

च ।” ३ । ३ । ६३ । इत्यप् ।) संयमः । इत्य-
मरः ॥ दुःखम् । इति स्वामी ॥

वियातः, त्रि, (विरुद्धं निन्दां यातः प्राप्तः ।)

निर्लज्जः । इत्यमरः ॥

वियामः, पुं, (वि + यम + घञ् ।) संयमः ।

इत्यमरः ॥

वियुक्तः, त्रि, वियोगविशिष्टः । विपूर्ब्बयुजधातोः

क्तप्रत्ययेन निष्पन्नः ॥ (यथा, देवीभागवते । २ ।
९ । १३ ।
“किं करोमि क्वगच्छामि मृतामे प्राणवल्लभा ।
न वै जीवितुमिच्छामि वियुक्तः प्रिययानया ॥”)

वियोगः, पुं, (वि + युज + घञ् ।) विच्छेदः ।

तत्पर्य्यायः । विप्रलम्भः २ विप्रयोगः ३ विरहः ४ ।
इति हेमचन्द्रः ॥ (यथा, भागवते । ९ । १३ । ९ ।
“यस्य योगं न वाञ्छन्ति वियोगभयकातराः ।
भजन्ति चरणाम्भोजं मुनयो हरिमेधसः ॥”)

वियोगभाक्, [ज्] त्रि, (वियोगं भजते इति ।

भज + विण् ।) विच्छेदयुक्तः । यथा, नैषधे ।
“वियोगभाजोऽपि नृपस्य पश्यता
तदेव साक्षादमृतांशुमाननम् ।
पिकेन रोषारुणचक्षुषा मुहुः
कुहूरुताहूयत चन्द्रवैरिणी ॥”

वियोगी, [न्] पुं, (वियोगोऽस्यास्तीति । वियोग +

इनिः ।) चक्रवाकः । इति शब्दचन्द्रिका ॥
वियोगयुक्ते, त्रि ॥ (यथा, मार्कण्डेये । २२ । २५ ।
“ताः शोच्या या वियोगिन्यो न शोच्या या
मृताः सह ।
भर्त्तुर्व्वियोगस्त्वनया नानुभूतः कृतज्ञया ॥”)
पृष्ठ ४/४१७

वियोजितः, त्रि, वियोगं प्रापितः । विपूर्ब्बञ्यन्त-

युजधातोः क्तप्रत्ययेन निष्पन्नः ॥

विरक्तः, त्रि, (वि + रन्ज + क्तः ।) विरागयुक्तः ।

अननुरक्तः । यथा, --
“ज्ञाननिष्ठो विरक्तो वा मद्भक्तो वानपेक्षकः ।
स्वलिङ्गानाश्रमांस्त्यक्त्वा चरेदविधिगोचरः ॥”
इति श्रीभागवते ११ स्कन्धे १८ अध्यायः ॥
(यथा च ।
“त्वयि प्रसन्ने मम किं गुणेन
त्वय्यप्रसन्ने मम किं गुणेन ।
रक्ते विरक्ते च वरे बधूनां
निरर्थकः कुङ्कुमराग एषः ॥”
इत्युद्भटः ॥)

विरक्ता, स्त्री, दुर्भगा । इति त्रिकाण्डशेषः ॥

अननुकूला । यथा, नीतिशतके । १ ।
“यां चिन्तयामि सततं मयि सा विरक्ता
सा चान्यमिच्छति जनं स जनोऽन्यरक्तः ।
अस्मत्कृतेऽपि परितुष्यति काचिदन्या
धिक् ताञ्च तञ्च मदनञ्च इमाञ्च माञ्च ॥”

विरक्तिः, स्त्री, (वि + रन्ज + क्तिन् ।) विरागः ।

यथा, --
“देहो गुरुर्मम विरक्तिविवेकहेतु-
र्ब्बिभ्रत् स्म सत्त्वनिधनं सततार्त्त्युदर्कम् ।
तत्त्वान्यनेन विमृशामि यथा तथापि
पारक्यमित्यवशितो विचराम्यसङ्गः ॥”
इति श्रीभागवते । ११ । ९ । २५ ॥

विरङ्गं, क्ली, कङ्कुष्टम् । इति राजनिर्घण्टः ॥

विरचितः, त्रि, (वि + रच + क्तः ।) विशेषेण

रचितः । निर्म्मितः । यथा, --
“एष श्रीलहनूमता विरचिते श्रीमन्महानाटके
वीरश्रीयुतरामचन्द्रचरिते प्रत्युद्धृते विक्रमैः ॥”
इत्यादि महानाटकम् ॥

विरजस्तमाः [स्] पुं, सत्त्वगुणविशिष्टः । तत्-

पर्य्यायः । द्बयातिगः २ । इत्यमरः । २ । ७ । ४५ ॥
“विगते रजस्तमसी येषां ते रजस्तमोगुणशून्याः
सत्त्वैकनिष्ठाः साक्षात्कृतब्राह्मणो जीवन्मुक्ता
व्यासादयो द्वयातिगा उच्यन्ते । द्वयं द्वैतं अति-
क्रम्य गच्छति इति डः ।” इति भरतः ॥

विरजाः, [स्] स्त्री, (विनिवृत्तं रजः शोणितं

यस्याः ।) विगतार्त्तवा । इति जटाधरः ॥
(नास्ति रजो धूलिर्यत्र । धूलिरहिते, त्रि ।
यथा, महाभारते । १ । ९३ । १५ ।
“सर्व्वैरिदानीं गन्तव्यं सह स्वर्गजितो वयम् ।
एष नो विरजाः पन्था दृश्यते देवसद्मनः ॥”
निर्म्मलः । यथा, महाभारते । २ । ७ । ५ ।
“विरजोऽम्बरश्चित्रमाल्यो ह्रीकीर्त्तिद्यूतिभिः
सह ॥”
पुं, नागविशेषः । यथा, महाभारते । १ । ३५ । १४ ।
“विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्य्य-
वान् ॥”)

विरजा, स्त्री, कपित्थानीवृक्षः । इति रत्नमाला ॥

दूर्व्वा । इति हारावली ॥ ययातिमाता । यथा,
उत्पन्नाः पितृकन्यायां विरजायां महाबलाः ।
यतिर्ययातिः स्वर्यातिरायातिः पञ्चमो लुकः ।
तेषां ययातिः पञ्चानां महाबलपराक्रमाः ॥
इति कौर्म्मे २० अध्यायः ॥
श्रीकृष्णसखी । सा राधाभयात्त्यक्तप्राणा सती
सरिद्रूपाभवत् । तस्याः सप्त पुत्त्राः तप्त समुद्रा
अभवन् । यथा, --
“एकदा राधिकासार्द्धं गोलोके श्रीहरिः स्वयम् ।
विजहार महारण्ये निर्ज्जने रासमण्डले ॥
कृत्वा विहारं श्रीकृष्णस्तामदृष्ट्वा विहाय च ।
गोपिकां विरजामन्यां शृङ्गारार्थं जगाम ह ॥
दृष्ट्वा च श्रीहरिस्तूर्णं विजहार तया सह ।
तयासक्तं श्रीहरिञ्च रत्नमण्डपसंस्थितम् ॥
दृष्ट्वा च राधिकान्याश्च चक्रुस्ताञ्च निवेदनम् ।
जगाम सहसा देवी तं रत्नमण्डपं मुने ॥
द्वारे नियुक्तं ददर्श द्वारपालं मनोहरम् ।
तमुवाच रुषा देवी रक्तपङ्कजलोचना ॥
दूरं गच्छ गच्छ दूरं रतिलम्पटकिङ्कर ! ।
कीदृशीं मत्परां कान्तां द्रक्ष्यामि तत्प्रभो-
रहम् ॥
श्रुत्वा कोलाहलं शब्दं गोपिकानां हरिः
स्वयम् ।
ज्ञात्वा च कोपितां राधामन्तर्धानं चकार ह ॥
विरजा राधिकाशब्दात् अन्तर्धानं हरेरपि ।
दृष्ट्वा राधाभयार्त्ता सा जहौ प्राणांश्च योगतः ॥
सद्यस्तत्र सरिद्रूपं तच्छरीरं बभूव ह ॥
व्याप्तञ्च वर्त्तुलाकारं तया गोलोकमेव च ।
कोटियोजनविस्तीर्णं प्रस्थेऽतिनिम्नमेव च ॥
दैर्घे दशगुणं चारु नानारत्नाकरं परम् ।
राधा रतिगृहं गत्वा न ददर्श हरिं मुने ॥
विरजाञ्च सरिद्रूपां दृष्ट्वा गेहं जगाम सा ।
श्रीकृष्णो विरजां दृष्ट्वा सरिद्रूपां प्रियां सतीम् ॥
उच्चै रुरोद विरजातीरे नीरमनोहरे ।
त्वया विनाहं सुभगे कथं जीवामि सुन्दरि ! ॥
नद्यधिष्ठातृदेवी त्वं भव मूर्त्तिमती सति ।
पुरातनं शरीरं ते सरिद्रूपमभूत् सति ॥
जलादुत्थाय चागच्छ विधाय नूतनां तनूम् ।
आजगाम हरेरग्रं साक्षाद्राधेव सुन्दरी ॥
पश्यन्तं प्राणनाथञ्च पश्यन्ती वक्रचक्षुषा ।
ताञ्च रूपवतीं दृष्ट्वा प्रेम्णोद्रेकां जगत्पतिः ॥
चकारालिङ्गनं तूर्णं चुचुम्ब च मुहुर्मुहुः ।
नानाप्रकारशृङ्गारविपरीतादिकं प्रभुः ॥
रहसि प्रेयसीं प्राप्य चकार च पुनः पुनः ।
विरजा सा रजोयुक्ता धृत्वा वीर्य्यममोघकम् ॥
सद्यो बभूव तत्रैव धन्या गर्भवती सती ।
तस्थौ तत्र सुखासीना सार्द्धं पुत्त्रैश्च सप्तभिः ॥
एकदा हरिणा सार्द्धं वृन्दारण्ये सुनिर्ज्जने ।
विजहार पुनः साध्वी शृङ्गारासक्तमानसा ॥
एतस्मिन्नन्तरे तत्र मातुः क्रोडं जगाम ह ।
कनिष्ठपुत्त्रस्तस्याश्च भ्रातृभिः पीडितो भिया ॥
भीतं स्वतनयं दृष्ट्वा तत्याज तां कृपानिधिः ।
क्रोडे चकार बालं सा कृष्णो राधागृहं ययौ ॥
प्रबोध्य बालं सा साध्वी न ददर्शान्तिकं प्रियम् ।
विललाप भृशं तत्र शृङ्गारातृप्तमानसा ॥
शशाप स्वसुतं कोपात् लवणोदो भविष्यसि ।
शशाप सर्व्वान् बालांश्च यान्तु मूढा रसातलम् ॥
श्रुत्वा विवरणं सर्व्वे प्रजग्मुर्धरणीतलम् ।
सप्तद्वीपे समुद्राश्च सप्त तस्थुर्व्विभागशः ॥
कनिष्ठाद्वृद्धपर्य्यन्तं द्विगुणं द्विगुणं मुने ।
लवणेक्षुसुरासर्पिर्दधिदुग्धजलार्णवाः ।
एतेषाञ्च जलं पृथ्व्यां शस्यार्थञ्च भविष्यति ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २ । ३ अध्यायौ ॥
जगन्नाथक्षेत्रम् । यथा, --
“उत्कले नाभिदेशञ्च विरजाक्षेत्रमुच्यते ।
विमला सा महादेवी जगन्नाथस्तु भैरवः ॥”
इति तन्त्रचूडामणौ ५१ पीठनिर्णयः ॥ * ॥ तत्र
मुण्डनोपवासौ न कर्त्तव्यौ । यथा । स्कान्दे ।
“मुण्डनञ्चोपवासश्च सर्व्वतीर्थेष्वयं विधिः ।
वर्जयित्वा गयां गङ्गां विशालां विरजां तथा ॥”
इति प्रायश्चित्ततत्त्वम् ॥

विरञ्चः, पुं, ब्रह्मा । इति हेमचन्द्रः ॥

विरञ्चिः, पुं, ब्रह्मा । इति हेमचन्द्रः ॥

विरणं, क्ली, वीरणतृणम् । इति शब्दरत्नावली ॥

विरतः, त्रि, (वि + रम + क्तः ।) निवृत्तः ।

यथा --
“आत्तविद्यो मुनेर्जातो भ्रातुस्त्रातो निजैर्भवात् ।
विरतोऽन्तर्हितो दुष्टाच्छोकाद्रामेण वारितः ॥”
इति मुग्धबोधव्याकरणम् ॥

विरतिः, स्त्री, (वि + रम + क्तिन् ।) निवृत्तिः ।

तत्पर्य्यायः । आरतिः २ अवरतिः ३ उप-
रामः ४ । इत्यमरः ॥ उपरमः ५ विरामः ६ ।
इति भरतः ॥ (यथा, कथासरित्सागरे ।
१०१ । ६ ।
“कृच्छ्राच्च दुःखदीर्घायां गतायां विरतिं
निशि ॥”)

विरलं, क्ली, दधि । इति राजनिर्घण्टः ॥

विरलः, त्रि, अवकाशः । फाक् इति भाषा ।

तत्पर्य्यायः । पेलवः २ तनुः ३ । इत्यमरः ॥
(यथा, बृहत्कथायाम् । ६७ । ३ ।
“शूर्पाकारविरूक्षपाण्डुरनखौ वक्रौ शिरास-
न्ततौ
संशुष्कौ विरलाङ्गुली च चरणौ दारिद्य्रदुःख-
प्रदौ ॥”)

विरलद्रवा, स्त्री, (विरलो निर्म्मलो द्रवो यस्याः ।)

श्लक्ष्णयवागूः । यथा, --
“यवागूरुष्णिका श्राणा सेव तु द्रुतसिक्थिका ।
विलेपी तरला च स्यात् सा श्लक्ष्णा विरलद्रवा ॥”
इति जटाधरः ॥

विरहः, पुं, (वि + रह त्यागे + घः ।) विच्छेदः ।

तत्पर्य्यायः । विप्रलम्भः २ विप्रयोगः ३
वियोगः ४ । इति हेमचन्द्रः ॥ * ॥ (यथा,
साहित्यदर्पणे । १० ।
“सङ्गमविरहविकल्पे वरमिह विरहो न सङ्गम-
स्तस्याः ।
पृष्ठ ४/४१८
सङ्गे सैव तथैका त्रिभुवनमपि तन्मयं विरहे ॥”
भर्त्तृविरहस्तु स्त्रीणां दोषाय भवति । यथा,
मनौ । ९ । १३ ।
“पानं दुर्ज्जनसंसर्गः पत्या च विरहोऽटनम् ।
स्वप्नोऽन्यगेहे वासश्च नारीणां दूषणानि षट् ॥”)
विरहे वर्णनीयानि यथा । तापः । निश्वासः ।
चिन्ता । मौनम् । कृशाङ्गता । वत्सरतुल्य-
रात्रिदैर्घ्यम् । जागरणम् । शीतले उष्णता-
ज्ञानम् । इति कविकल्पलता ॥

विरहिणी, स्त्री, (विरहोऽस्या अस्तीति । विरह

+ इनि + स्त्रियां ङीप् ।) विच्छेदविशिष्टा
नारी । यथा, --
“रतिः पुंसो विरहिणी शिवः स्त्रीविरही
चिरम् ।
द्वयोर्द्वयोश्च संप्राप्तौ किं बभूव द्बयोः सुखम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ४६ अध्यायः ॥
भृतिः । इति शब्दमाला ॥

विरहितः, त्रि, (वि + रह + क्तः ।) त्यक्तः ।

विहीनः । यथा, --
“अभिभूतञ्चावमतं त्यक्तस्तु स्यात् सभुज्झितम् ।
हीनं विरहितं धूतमुत्सृष्टविधुते अपि ॥”
इति जटाधरः ॥
(यथा, साहित्यदर्पणे । १० ।
“इदं वक्त्रं साक्षाद्विरहितकलङ्कः शशधरः
सुधाधाराधारश्चिरपरिणतं बिम्बमधरः ॥
इमे नेत्रे रात्रिन्दिवमधिकशोभे कुवलये
तनुर्लावण्यानां जलधिरवगाहे सुखतरः ॥”)

विरही, [न्] पुं, (विरहोऽस्यास्तीति । इनिः ।)

विरहविशिष्टः । वियोगी । यथा, --
“विहरति हरिरिह सरसवसन्ते ।
नृत्यति युवतित्रनेन समं सखि विरहिजनस्य
दुरन्ते ॥”
इति जयदेवः ॥

विरागः, पुं, (वि + रञ्ज + घञ् ।) अननुरागः ।

रागशून्यः । यथा, --
“विषयेष्वतिसं रागो मानसो मल उच्यते ।
तेष्वेव हि विरागो हि नैर्मल्यं समुदाहृतम् ॥”
इति प्रायश्चित्ततत्त्वम् ॥
(त्रि, विविधवर्णविशिष्टः । यथा, महाभारते ।
२ । २१ । २५ ।
“बलाद्गृहीत्वा माल्यानि मालाकारान्महा-
बलाः ।
विरागवसनाः सर्व्वे स्रग्विणो मृष्टकुण्डलाः ॥”
विगतो रागो विषयवासना यस्येत्यर्थे । वीत-
रागः । यथा, भागवते । ३ । १५ । ४७ ।
“यत्तेऽनुतापविदितै र्दृढभक्तियोगैः
हृद्ग्रन्थयो हृदि विदुर्म्मुनयो विरागाः ॥”)

विरागार्हः, त्रि, (विरागं अर्हतीति । अर्ह +

अच् ।) विरागयोग्यः । तत्पर्य्यायः । वैर-
ङ्गिकः २ । इति हेमचन्द्रः ॥

विराजः, पुं, (विशेषेण राजते इति । वि + राज

+ अच् ।) विराट् । यथा, --
“इन्द्राग्नी वदनात्तुभ्यं पशवो मलसम्भवाः ।
ओषध्यो रोमसम्भूता विराजस्त्वं नमोऽस्तु ते ॥”
इति वामने ८३ अध्यायः ॥

विराजमानः, त्रि, (वि + राज + शानच् ।) दीप्ति-

विशिष्टः । यथा, --
“जटाकटाहसम्भ्रमद्भ्रमन्निलिम्पनिर्झरी
विलोलवीचिवल्लरीविराजमानमूर्द्ध्वनि ।
धगद्धगद्धगज्ज्वलल्ललाटपट्टपावके
किशोरचन्द्रशेखरे रतिः प्रतिक्षणं मम ॥”
इति काशीखण्डे रावणकृतशिवताण्डवस्तोत्रम् ॥

विराजितः, त्रि, (वि + राज + क्तः ।) शोभितः ।

दीप्तः । यथा, --
“अतीव निर्म्मलं सारं सूर्य्यभासविनिन्दकम् ।
परिष्कृतञ्च मानिक्यैहींरकेण विराजितम् ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे १० अध्यायः ॥

विराट्, [ज्] पुं, (विशेषेण राजते इति । राज

दीप्तौ + क्विप् ।) क्षत्त्रियः । इत्यमरः ॥ स्थूल-
शरीरसमष्ट्युपहितचैतन्यम् । इति वेदान्त-
सारः ॥ * ॥ (ब्रह्मणो विराड्मूर्त्तिवर्णनं यथा,
शङ्करविजये ६ प्रकरणे । “व्यूहमूर्त्तिर्विराट्
चतुर्द्दशलोकात्मकः । तस्य ब्रह्माण्डकर्परपर्य्यन्त-
माकाशः शिरः, चन्द्रसूर्य्यौ नेत्रे, प्रागादिदिशः
श्रोत्रे, अन्तरीक्षलोको घ्राणं, मेरुः पृष्ठवंशः,
शिखरत्रयं भुजकण्ठाः, प्रत्यन्तपर्वताः पृष्ठपार्श्व-
वक्षांसि, उपपर्वताः शाल्मल्यादीनि, समुद्रा रक्तं,
लता स्नायूनि, तृणवृक्षाः रोमाणि, भूमिः
कुक्षिः, द्वीपा वलयः, भूरेखा रोमराजिः,
भूमध्यप्रदेशो वस्तिः, शेषः शिश्नं, दिग्दन्ति-
पङ्क्तिर्नितम्बोरुभागः, अतलादिसप्तकं कटि-
पादान्तरालः, कूर्म्मः पादौ इति ॥” * ॥) महा-
विराजुत्पत्तिर्यथा, --
श्रीनारायण उवाच ।
“अथ डिम्बो जले तिष्ठन् यावद्वै ब्रह्मणो वयः ।
ततः स काले सहसा द्विधा भूतो बभूव ह ॥
तन्मध्ये शिशुरेकश्च शतकोटिरविप्रभः ।
क्षणं रोरूयमानश्च स्तनन्धः पीडितः क्षुधा ॥
पितृमातृपरित्यक्तो जलमध्ये निराश्रयः ।
ब्रह्माण्डसंघनाथो यो ददर्शोर्द्ध्वमनाथवत् ॥
स्थूलात् स्थूलतमः सोऽपि नाम्ना देवो महा-
विराट् ।
परमाणुर्यथा सूक्ष्मात् परः स्थूलात्तथाप्यसौ ॥
तेजसा षोडशांशो यः कृष्णस्य परमात्मनः ।
आधारोऽसंख्यविश्वानां महान् विष्णुश्च प्राकृतः ।
प्रत्येकं लोमकूपेषु विश्वानि निखिलानि च ।
तस्यापि तेषां संख्याञ्च कृष्णो वक्तुं न हि क्षमः ॥
संख्या चेद्रजसाभस्ति विश्वानां न कदाचन ।
ब्रह्मविष्णुशिवादीनां तथा संख्या न विद्यते ॥
प्रतिविश्वेषु सन्त्येवं ब्रह्मविष्णुशिवादयः ।
पातालाद्ब्रह्मलोकान्तं ब्रह्माण्डं परिकीर्त्तितम् ॥
अत ऊर्द्ध्वे च वैकुण्ठो ब्रह्माण्डाद्वहिरेव च ।
स च सत्यस्वरूपश्च शश्वन्नारायणो यथा ॥
अत ऊर्द्ध्वञ्च गोलोकः पञ्चाशत्कोटियोजनात् ।
नित्यं सत्यस्वरूपश्च यथा कृष्णस्तथाप्ययम् ॥
सप्तद्वीपमिता पृथ्वी सप्तसागरसंयुता ।
ऊनपञ्चाशदुपद्वीपासंख्यशैलसमन्विता ॥
ऊर्द्ध्वं स्वर्गाः सप्त लोका ब्रह्मलोकसमन्विताः ।
पातालानि च सप्ताधश्चैवं ब्रह्माण्डमेव च ॥
ऊर्द्ध्वं धराया भूर्लोको भुवर्लोकस्ततः परः ।
ततः परश्च स्वर्लोको जनो लोकस्ततः परः ॥
ततः परस्तपोलोकः सत्यलोकस्ततः परः ।
ततः परो ब्रह्मलोकस्तप्तकाञ्चननिर्म्मितः ॥
एवं सर्व्वं कृत्रिमञ्च धराभ्यन्तरमेव च ।
तद्विनाशे विनाशश्च सर्व्वेषामेव नारद ॥
जलबुद्वुदवत् सर्व्वं विश्वसंघमनित्यकम् ।
नित्यौ वैकुण्ठगोलोकौ सत्यौ शश्वदकृत्रिमौ ॥
प्रतिलोमकूपे ब्रह्माण्डं प्रत्येकमस्य निश्चितम् ।
एषां संख्या न जानाति कृष्णोऽन्यस्यापि का
कथा ॥
प्रत्येकं प्रतिब्रह्माण्डे ब्रह्मविष्णुशिवादवः ।
तिस्रः कोट्यः सुराणाञ्च संख्याः सर्व्वत्र पुत्त्रक ॥
दिगीशाश्चैव दिक्पाला नक्षत्राणि ग्रहादयः ।
भुवि वर्णाश्च चत्वारोऽप्यधो नागाश्चराचराः ॥
अथ काले च स विराट् ऊर्द्ध्वं दृष्ट्वा पुनः पुनः ।
डिम्बान्तरञ्च शून्यञ्च न द्बितीयञ्च कञ्चन ॥
चिन्तामवाप क्षुद्युक्तो रुरोद च पुनः पुनः ।
ज्ञानं प्राप्य तदा दध्यौ कृष्णं परमपूरुषम् ॥
ततो ददर्श तत्रैव ब्रह्मज्योतिः सनातनम् ।
नवीनजलदश्यामं द्विभुजं पीतवाससम् ॥
सस्मितं मुरलीहस्तं भक्तानुग्रहकारकम् ।
जहास बालकस्तुष्टो दृष्ट्वा जनकमीश्वरम् ॥
वरं तस्मे ददौ तुष्टो वरेशः समयोचितम् ।
मत्समो ज्ञानयुक्तश्च क्षुत्पिपासादिवर्ज्जितः ॥
ब्रह्माण्डासंख्यनिलयो भव वत्स लयावधि ।
निष्कामो निर्भयश्चैव सर्व्वेषां वरदो वरः ॥
जरामृत्युरोगशोकपीडादिवर्ज्जितो भव ।
इत्युक्त्वा च द्रक्षकर्णे महामन्त्रं षडक्षरम् ॥
त्रिःकृत्वश्च प्रजजाप वेदागमवरं परम् ।
प्रणवादिचतुर्थ्यन्तं कृष्ण इत्यक्षरद्वयम् ॥
वह्निजायान्तमिष्टञ्च सर्व्वविघ्नहरं परम् ।
मन्त्रं दत्त्वा तदाहारं कल्पयामास स प्रभुः ॥
श्रूयतां मद्वचः श्रुत्वा निबोध कथयामि ते ।
प्रतिविश्वेषु यन्नैवद्यं ददाति विष्णवे जनः ॥
तत्षोडशांशं विषयिणो विष्णोः पञ्चदशस्य वै ।
निर्गुणस्यात्मनश्चैव परिपूर्णतमस्य च ॥
नैवेद्येन च कृष्णस्य नहि किञ्चित् प्रयोजनम् ।
यद्यद्ददाति नैवेद्यं यस्मै देवाय यो जनः ॥
स च खादति तत् सर्व्वं लक्ष्मीदृष्ट्या पुनर्भवेत् ।
तञ्च मन्त्रं वरं दत्त्वा तमुवाच पुनर्व्विभुः ॥
वरमन्यं किमिष्टन्ते तन्मे ब्रूहि ददामि च ।
कृष्णस्य वचनं श्रुत्वा तमुवाच महाविराट् ॥
अदन्तो बालकस्तत्र वचनं समयोचितम् ॥
श्रीमहाविराडुवाच ।
वरं मे त्वत्पदाम्भोजे भक्तिर्भवतु निश्चला ।
सन्ततं यावदायुर्मे क्षणं वा सुचिरं हि वा ॥
पृष्ठ ४/४१९
त्वद्भक्तियुक्तो यी बालो जीवन्मुक्तश्च सन्ततम् ।
तद्भक्तिहीनो मूर्खश्च जीवन्नपि मृतो हि सः ॥
किन्तज्जपेन तपसा यज्ञेन पूजनेन च ।
कृष्णभक्तिविहीनस्य मूर्खस्य जीवनं वृथा ॥
येनात्मना जीवितश्च तमेव नहि मन्यते ।
यावदात्मा शरीरेऽस्ति तावत् स शक्तिसंयुतः ॥
पश्चाद्यान्ति गते तस्मिन् न स्वतन्त्राश्च शक्तयः ।
स च त्वाञ्च महाभाग सर्व्वात्मा प्रकृतेः परः ॥
स्वेच्छामयश्च सर्व्वेभ्यो ब्रह्मज्योतिः सनातनः ।
इत्युक्त्वा बालकस्तत्र विरराम च नारद ॥
उवाच कृष्णः प्रत्युक्तिं मधुरां श्रुतिसुन्दरीम् ॥
श्रीकृष्ण उवाच ।
सुचिरं सुस्थिरं तिष्ठ यथाहं त्वं तथा भव ।
ब्रह्मणोऽसंख्यपाते च पातस्ते न भविष्यति ॥
अंशेन प्रतिब्रह्माण्डे त्वञ्च क्षुद्रविराड्भव ।
तन्नाभिपद्मे ब्रह्मा च विश्वस्रष्टा भविष्यति ॥
ललाटे ब्रह्मणश्चैव रुद्राश्चैकादशैव तु ।
शिवांशेन भविष्यन्ति सृष्टिसञ्चारणाय वै ॥
कालाग्निरुद्रस्तेष्वेको विश्वसंहारकारकः ।
पाता विष्णुश्च विषयी क्षुद्रांशेन भविष्यति ॥
मद्भक्तियुक्तः सततं भविष्यसि वरेण मे ।
ध्यानेन कमनीयं मां नित्यं द्रक्ष्यसि निश्चितम् ॥
मातरं कमनीयाञ्च मम वक्षःस्थलस्थिताम् ।
यामि लोकं तिष्ठ वत्सेत्युक्त्वा सोऽन्तरधीयत ॥
गत्वा स्वलोकं ब्रह्माणं शङ्करं स उवाच ह ।
स्रष्टारं स्रष्टुमीशश्च संहर्त्तारश्च तत्क्षणम् ॥
श्रीकृष्ण उवाच ।
सृष्टिं स्रष्टुं गच्छ वत्स नाभिपद्मोद्भवो भव ।
महाविराड्लोमकूपे क्षुद्रस्य च विधे शृणु ॥
गच्छ वत्स महादेव ब्रह्मभालोद्भवो भव ।
अंशेन च महाभाग स्वयञ्च सुचिरं तपः ॥
इत्युक्त्वा जगतां नाथो विरराम विधिस्ततः ।
जगाम ब्रह्मा तं नत्वा शिवश्च शिवदायकः ॥
महाविराड्लोमकूपे ब्रह्माण्डे गोलोके जले ।
बभूव च विराट् क्षुद्रो विराडंशेन सांप्रतम् ॥
श्यामो युवा पीतवासाः शयानो जलतल्पके ।
ईषद्धास्यः प्रसन्नास्यो विश्वव्यापी जनार्द्दनः ॥
तन्नाभिकमले ब्रह्मा बभूव कमलोद्भवः ।
संभूय पद्मदण्डञ्च बभ्राम युग-लक्षकम् ॥
नान्तं जगाम दण्डस्य पद्मनाभस्य पद्मजः ।
नाभिजस्य च पद्मस्य चिन्तामाप पिता तव ॥
स्वस्थाने पुनरागत्य दध्यौ हृष्टः पदाम्बुजम् ।
ततो ददर्श क्षुद्रन्तं कालेन दिव्यचक्षुषा ॥
शयानं जलतल्पे च ब्रह्माण्डे गोलकावृते ॥
यल्लोमकूपे ब्रह्माण्डं तञ्च तत् परमेश्वरम् ।
श्रीकृष्णञ्चापि गोलोकं गोपगोपीसमन्वितम् ॥
तं संस्तूय वरं प्राप ततः सृष्टिञ्चकार सः ।
बभूवुर्ब्रह्मणः पुत्त्रा मानसाः सनकादयः ॥
ततो रुद्राः कपालाच्च शिवांशैकादश स्मृताः ।
बभूव पाता विष्णुश्च क्षुद्रस्य वामपार्श्वतः ॥
चतुर्भुजश्च भगवान् श्वेतद्वीपनिवासकृत् ।
क्षुद्रस्य नाभिपद्मे च ब्रह्मा विष्णुं ससर्ज्ज च ॥
स्वर्गं मर्त्यञ्च पातालं त्रिलोकं सचराचरम् ।
एवं सर्व्वं लोमकूपे विश्वं प्रत्येकमेव च ॥
प्रतिविश्वे क्षुद्रविराट् ब्रह्मविष्णुशिवादयः ।
इत्येवं कथितं वत्स श्रीकृष्णकीर्त्तनं परम् ॥
सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ३ अध्यायः ॥
स्वायम्भुवमनुः । यथा, --
“गतेषु तेषु सृष्ट्यर्थं प्रणामावनतामिमाम् ।
उपयेमे स विश्वात्मा शतरूपामनिन्दिताम् ॥
सम्बभूव तया सार्द्धमतिकामातुरो विभुः ।
सलज्जां चकमे देवः कमलोदरमन्दिरे ॥
यावदन्दशतं दिव्यं यथान्यः प्राकृतो जनः ।
ततः कालेन महता ततः पुत्त्रोऽभवन्मनुः ॥
स्वायम्भुव इति ख्यातः स विराडिति नः श्रुतम् ।
तद्रूपगुणसामान्यादधिपूरुष उच्यते ॥
वैराजा यत्र ते जाता बहवः शंसितव्रताः ।
स्वायम्भुवा महाभागा सप्त सप्त तथापरे ॥
स्वारोचिषाद्या सर्व्वे ते ब्रह्मतुल्याः स्वरूपिणः ।
औत्तमिप्रमुखास्तद्वद्येषां त्वं सप्तमोऽधुना ॥”
इति मात्स्ये ३ अध्यायः ॥

विराटः, पुं, देशविशेषः । इति शब्दरत्नावली ॥

(अत्रैव पञ्चपाण्डवाः सह द्रौपद्या अज्ञात-
मुषितवन्तः । यथा, महाभारते । ४ । १ । १ ।
“कथं विराटनगरे मम पूर्ब्बपितामहाः ।
अज्ञातवासमुषिता दुर्य्योधनभयार्द्दिताः ॥”)
तद्देशीयराजा । यथा, --
“अत्र शूरा महेष्वासा भीमार्ज्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥”
इति श्रीभगवद्गीतायाम् १ अध्यायः ॥

विराटकः, पुं, राजपट्टः । इति हेमचन्द्रः ॥

विराटजः, पुं, (विराटे जायते इति । जन् +

डः ।) विराटदेशीयहीरकः । तत्पर्य्यायः ।
राजपट्टः २ राजावर्त्तः ३ । इति हेमचन्द्रः ॥
विराटराजजाते, त्रि ॥ (यथा, महाभारते ।
१४ । ६२ । ८ ।
“सुबहूनि च राजेन्द्र दिवसानि विराटजा ।
नाभुङ्क्त पतिदुःखार्त्ता तदाभूत्करुणं महत् ॥”)

विराणी, [न्] पुं, हस्ती । इति शब्दमाला ॥

विराधः, पुं, (विराधयति लोकान् पीडयतीति ।

वि + राध + अच् ।) राक्षसभेदः । यथा, --
“लक्ष्मणस्य तु तद्वाक्यं श्रुत्वा रामं ततोऽब्रवीत् ।
पिता मेऽभूत् सुपर्जन्यो माता मे च शतद्रुता ॥
विराध इति मामाह पृथिव्यां सर्व्वराक्षसाः ।
उत्सृज्य प्रमदामेनां पलायेतां पराङ्मुखौ ॥
तच्छ्रुत्वा राममाहेदं लक्ष्मणः किं प्रतीक्षसे ॥
इत्युक्तो लक्ष्मणो वीर आनम्य सुमहद्धनुः ।
उत्ससर्ज शरं घोरं कालदण्डोपमं ततः ॥
तच्छरीरं महाकायं भित्त्वा पातालमाविशत् ॥
पपाताशु गतप्राणः सफेनं रुधिरं वमन् ।
ततोऽसौ राममाहेदं प्राञ्जलिर्विनयान्वितः ॥
तुम्बुरुर्नाम गन्धर्व्वः प्रविष्टो राक्षसीं तनुम् ।
अभिशापादहं त्रोरं शप्तो वैश्रवणेन वै ॥
प्रसाद्यमानः स मया प्रावचन्मां पुनः पुनः ।
यदा दाशरथी रामो भविष्यति महाबलः ॥
शापस्यान्तोऽभविष्यत्ते तेन रामेण संयुगे ।
प्रसादात्तव मुक्तोऽहं गमिष्यामि स्वमालयम् ॥”
इति वह्निपुराणे सूर्पणस्वाकर्णनासिकोत्कर्त्तनं
नामाध्यायः ॥

विराधनं, क्ली, (वि + राध + ल्युट् ।) पीडा ।

इति शब्दरत्नावली ॥

विराधानं, क्ली, पीडा । इति शब्दरत्नावली ।

विवाधानमिति च पाठः ॥

विरामः, पुं, (वि + रम + घञ् ।) शेषः । निवृत्तिः ।

विरतिः । तत्पर्य्यायः । अवसानः २ सातिः
३ । इति जटाधरः ॥ मध्यम् ४ । इति त्रिकाण्ड-
शेषः ॥ (यथा, मनौ । २ । ७३ ।
“अध्येष्यमाणन्तु गुरुं नित्यकालमतन्द्रितः ।
अधीष्व भो इति ब्रूयात् विरामोऽस्त्वितिचार-
मेत् ॥”)
परवर्णाभावः । इति व्याकरणम् ॥ (यथा,
पाणिनौ । १ । ४ । ११० । “विरामोऽवसानम् ॥”)

विरालः, पुं, विडालः । इत्यमरटीका ॥

विरावः, पुं, (वि + रु + घञ् ।) शब्दः । इत्य-

मरः ॥ (यथा, महाभारते । ३ । १४६ । ६४ ॥
“सिंहनादभयत्रस्तैः कुञ्जरैरपि भारत ! ।
मुक्तो विरावः सुमहान् पर्व्वतो येन पूरितः ॥”
इल्वलप्रदत्ताश्वान्यतरः । यथा, महाभारते ।
३ । ९९ । १७ ।
“विरावश्च सुरावश्च तस्मिन् युक्तौ रथे हयौ ॥”)

विरावी, [न्] त्रि, विरावविशिष्टः । विरावो

विद्यतेऽस्येति इन्प्रत्ययेन निष्पन्नः ॥ (यथा,
बृहत्संहितायाम् । ५३ । ९ ।
“दिशि शान्तायां शकुनो मधुरविरावी यदा
तदा वाच्यः ।
अर्थस्तस्मिन् स्थाने गृहेश्वराधिष्ठितेऽङ्गेवा ॥”)

विरिक्तः, त्रि, कृतविरेकः । यथा, --

“दुर्विरिक्तस्य नाभेस्तु स्तब्धता कुक्षिशूलरुक् ।
पुरीषवातसङ्गश्च कण्डुमण्डलगौरवम् ॥”
इति भावप्रकाशः ॥

विरिञ्चः, पुं, ब्रह्मा । (यथा, भागवते । ८ । ५ । ३९ ।

“बलान्महेन्द्रस्त्रिदशाः प्रसादा-
न्मन्योर्गिरीशो धिषणाद्विरिञ्चः ॥”)
विष्णुः । शिवः । इति शब्दरत्नावली ॥

विरिञ्चनः, पुं, ब्रह्मा । इति हेमचन्द्रः ॥

विरिञ्चिः, पुं, शिवः । विष्णुः । विधाता । इति

शब्दरत्नावली ॥ (यथा, महाभारते । १ ।
१९ । १७ ।
“एवमस्त्विति तं देवाः पितामहमथा
ब्रुवन् ।
उक्त्वैवं वचनं देवान् विरिञ्चिस्त्रिदिवं ययौ ॥”)

विरिब्धः, पुं, स्वरः । इति मुग्धबोधव्याकरणम् ॥

विरुदः, पुं, गुणोत्कर्षादिवर्णनम् । यदुक्तम् ।

“वाशिकः कम्पितश्चेति विरुदो द्विविधो मतः ।
संयुक्तनियमो ह्यत्र वर्णितः पूर्ब्बवद्बुधैः ॥
पृष्ठ ४/४२०
द्विचतुःषड् दशश्चात्र कलास्तु विरुदे मताः ।
दशभ्यो नाधिकाः कार्य्याः कलास्तु विरुदे बुधैः ॥
कलिकाभ्यस्तु विरुदे भिदासावेव कीर्त्तिता ।
विरुदं कवयः प्राहुर्गुणोत्कर्षादिवर्णनम् ।
विरुदः कलिका चान्ते धीरवीरादिशब्दभाक् ॥
इत्युपोद्घातः । इति श्रीरूपगोस्वामिकृतश्रीगो-
विन्दविरुदावलीभाष्ये श्रीबलदेवविद्याभूषणः ॥

विरुदावली, स्त्री, (विरुदानामावली ।) विरुद-

श्रेणी । स्तवमाला । तल्लक्षणादि यथा, --
“अधीत्य विरुदावल्या लक्षणं ग्रन्थकृत्कृतम् ।
एताञ्चेत् पठति प्राज्ञस्तदा बोधोऽस्य पुष्कलः ॥
सामान्यविरुदावल्या गोविन्दविरुदावलौ ।
योऽभ्यधायि विशेषस्तैः स तावदिह लिख्यते ॥
कलिका लोकविरुदैर्युता विविधलक्षणैः ।
कीर्त्तिप्रतापशौटीर्य्यसौन्दर्य्योन्मेषशालिनी ॥
कलिकाद्यन्तसंसर्गिपद्या दोषविवर्ज्जिता ।
शब्दाडम्बरसंवद्धा कर्त्तव्या विरुदावली ॥”
इति श्रीरूपगोस्वामिकृते श्रीगोविन्दविरुदावली-
भाष्ये श्रीबलदेवविद्याभूषणः ॥ * ॥ कलिका-
लक्षणं कलिकाशब्दे लिखितम् । विरुदलक्षणं
तच्छब्दे द्रष्टव्यम् ॥

विरुद्धः, त्रि, (वि + रुध + क्तः ।) विरोधविशिष्टः ।

यथा । विरुद्धधर्म्मसमवाये भूयसां स्यात्
सधर्म्मकत्वम् । इति जैमिनीसूत्रम् ॥
“विरुद्धं गुरुवाक्यस्य यदत्र भाषितं मया ।
तत् क्षन्तव्यं बुधैरेव स्मृतितत्त्वबुभुत्सया ॥
स्मृतितत्त्वे प्रमादाद्यद्विरुद्धं बहुभाषितम् ।
गुणलेशानुरागेण तच्छोध्यं धर्म्मदर्शिभिः ॥”
इति तिथ्यादितत्त्वम् ॥
(दशममनोर्ब्रह्मसावर्णेः देवतान्यतमः । यथा,
भागवते । ८ । १३ । २२ ।
“हविष्मान् सुकृतः सत्यो जयो मूर्त्तिस्तदा
द्विजाः ।
सुवासना विरुद्धाद्या देवाः शम्भुः सुरेश्वरः ॥”
क्ली, विचाराङ्गीयदोषविशेषः । यथा । “विरुद्धं
नाम यद्दृष्टान्तसिद्धान्तसमयैर्विरुद्धं तत्र
दृष्टान्तसिद्धान्तावुक्तौ । समयः पुनर्यथायुर्वेदिक
समयो याज्ञियसमयो मोक्षशास्त्रिकसमय इति ।
तत्रायुर्व्वेदिकसमयः चतुष्पादसिद्धिः । आलभ्या
पशव इति याज्ञियसमयः । सर्व्वभूतेष्वहिंसेति
मोक्षशास्त्रिकसमयस्तत्र स्वसमयविपरीतमुच्य-
मानं विरुद्धमिति ॥” इति चरके विमान-
स्थानेऽष्टमेऽध्याये ॥)

विरूढः, त्रि, अङ्कुरितः । (यथा, “विरूढजान्नं

अङ्कुरितधान्यकृतमन्नम् ।” इति माधवकृतरुग्वि-
निश्चये शूलव्याख्याने विजयरक्षितः ॥) जातः ।
इति मेदिनी । ढे, ९ ॥ (यथा, रघुवंशे । २ । २६ ।
“गङ्गाप्रपातान्तविरूढशष्पं
गौरीगुरोर्गह्वरमाविवेश ॥”)
आरोहणविशिष्टः । यथा ।
“सन्तुष्टे तिसृणां पुरामपि रिपौ कण्डूलदो-
र्मण्डली
लीलालूनपुनर्विरूढशिरसो वीरस्य लिप्सु-
र्व्वरम् ।”
इत्यादि मुरारिः ॥

विरूपं, क्ली, पिप्पलीभूलम् । इति राजनिर्घण्टः ॥

विरूपः, त्रि, (विकृतं रूपं यस्य ।) कुत्सितः ।

कुरूपः । यथा, --
“विरूपोन्मत्तनिस्वानामकुत्सापूर्ब्बकं हि यत् ।
पूरणं दानमालाभ्यामनुग्रह उदाहृतः ॥”
इति रामतर्कवागीशः ॥
(यथा, बृहत्संहितायाम् । ७० । २३ ।
“या तूत्तरोष्ठेन समुन्नतेन
रूक्षाग्रकेशी कलहप्रिया सा ।
प्रायो विरूपासु भवन्ति दोषा
यत्राकृतिस्तत्र गुणा वसन्ति ॥”
परित्यक्तरूपः । यथा, ऋग्वेदे । १० । ९५ । १६ ।
“यद्विरूपाचरं मर्त्तेष्ववसंरात्रीः शरदश्चतस्रः ।”
“यद्यदा विरूपा परं मनुष्यस्य सम्पर्कात्
विगतसहजभूतदेवरूपाः ।” इति तद्भाष्ये
सायणः ॥ नानारूपः । यथा, ऋग्वेदे । ३ ।
५३ । ७ ।
“इमे भोजा अङ्गिरसो विरूपा
दिवस्पुत्त्रासो असुरस्य वीराः ॥”
“हे इन्द्र इमे यागं कुर्व्वाणा भोजाः सौदासाः
क्षत्त्रियाः तेषां याजका विरूपाः विविधरूपा
मेधातिथिप्रभृतयः ॥” इति तद्भाष्ये सायणः ॥
विरुद्धः । यथा, साहित्यदर्पणे । १० परिच्छेदे ।
“विरूपयोः संघटना या च तद्विषमं मतम् ॥”
उदाहरणं यथा, --
“क्व वनं तरुवल्कभूषणं
नृपलक्ष्मीः क्व महेन्द्रवन्दिता ॥”)
स्वार्थे के विरूपकश्च ॥

विरूपः, पुं, सुमनोराजपुत्त्रः । यथा, --

“जाताः सुमनसः पुत्त्रास्त्रयः शूरा महाबलाः ।
सुमतिश्च विरूपश्च सत्यः शास्त्रार्थपारगाः ॥”
इति कालिकापुराणे ९० अध्यायः ॥

विरूपा, स्त्री, दुरालभा । अतिविषा । इति

राजनिर्घण्टः ॥

विरूपाक्षः, पुं, (विरूपे अक्षिणी यस्य । “सक्-

थ्यक्ष्णोः स्वाङ्गात् षच् ।” इति षच् ।) शिवः ।
इत्यमरः ॥ (यथा, साहित्यदर्पणे । १० ।
“दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः
विरूपाक्षस्य जयिनीस्तास्तुमो वामलोचनाः ॥”)
रुद्रभेदः । इति जटाधरः ॥ तस्य पुरी सुमेरो-
र्नैरृतकोणे वर्त्तते । यथा, --
“तथा चतुर्थे दिग्भागे नैरृताधिपतेः श्रुता ।
नाम्ना कृष्णावती नाम विरूपाक्षस्य धीमतः ॥”
इति वाराहे रुद्रगीता ॥
(विरूपे, त्रि । यथा, कुमारे । ५ । ७२ ।
“वपुर्व्विरूपाक्षमलक्ष्यजन्मता
दिगम्बरत्वेन निवेदितं वसु ॥”)

विरूपिका, स्त्री, (विकृतं रूपं यस्याः । कन् ।

टापि अत इत्वम् ।) कुरूपा । यथा, --
“नाग्नयः परिविन्दन्ति न यज्ञा न तपांसि च ।
न च श्राद्धं कनिष्ठस्य या च कन्या विरू-
पिका ॥”
इत्युद्वाहतत्त्वम् ॥

विरूपी, [न्] पुं, (विरुद्धं रूपमस्यास्तीति ।

इनिः ।) जाहकजन्तुः । इति राजनिर्घण्टः ॥
कुरूपविशिष्टे, त्रि ॥

विरेकः, पुं, (वि + रिच् + घञ् ।) मलभेदः ।

तत्पर्य्यायः । रेचनम् २ रेकः ३ रेचना ४ विरे-
चनम् ५ । इति शब्दरत्नावली ॥ प्रस्कन्दनम् ६ ।
इति रत्नमाला ॥ (यथा, वैद्यके ।
“धूमात्युष्णशिरो विरेकवमनस्वेदोपनाहादिकं
पानाहारविहारभेषजमिदं श्लेष्माणमुग्रं
जयेत् ॥”
अस्य योग्यायोग्या यथा, --
“बालवृद्धकृशक्षीणपीनसार्त्तभयार्द्दिताः ।
रूक्षशोषतृषायुक्ता गर्भिणी च नवज्वरी ॥
अधो गच्छति यस्यासृक्सूतिकातङ्करोगिणी ।
नैते विरेकयोग्याः स्युरन्येषाञ्च बलाबलम् ॥
नवज्वरे च ये योगा भेदकाः परिकीर्त्तिताः ।
ते तथैव प्रयोक्तव्या वीक्ष्य देहमलादिकम् ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे विरेकाधिकारे ॥)

विरेचकः, त्रि, रेचकः । विरेककारकः । सारकः ।

मलभेदकः । जोल्लाव इति आरवीभाषा ॥
विपूर्ब्बकरिच्धातोर्वुन्प्रत्ययेन निष्पन्नः । (यथा,
वैद्यके ।
“पटोलपत्रं पित्तघ्नं नाडी तस्य कफापहा ।
फलं तस्य त्रिदोषघ्नं मूलं तस्य विरेचकम् ॥”)

विरेचनं, क्ली, (वि + रिच + ल्युट् ।) विरेकः ।

इति शब्दरत्नावली ॥ तत्कारकौषधं यथा, --
“हरीतकी समगुडा मधुना सह पेषिता ।
विरेचनकरी रुद्र भवतीति न संशयः ॥
त्रिफला चित्रकं चित्रं तथा कटुकरोहिणी ।
ऊरुस्तम्भहरो ह्येष उत्तमन्तु विरेचनम् ॥”
अपि च ।
“त्रिफला वदरं द्राक्षा पिप्पली च विरेचकृत् ।
हरीतकी सोष्णनीरा लवणञ्च विरेचकृत् ॥”
इति गारुडे १८७ । १९९ अध्यायौ ॥ * ॥
अन्यच्च । अथ विरेचनविधिः ।
“स्निग्धस्विन्नाय वान्ताय दद्यात् सम्यग्विरेचनम् ।
अवान्तस्य त्वधःस्रस्तो ग्रहणीं छादयेत् कफः ॥
मन्दाग्निगौरवं कुर्य्याज्जनयेद्वा प्रवाहिकाम् ।
अथवा पाचनैरामं वलासं परिपाचयेत् ।
अन्यदात्ययिके कार्य्ये शोधनं शीलयेद्बुधः ॥”
आत्ययिके प्राणसङ्कटे ।
“पित्ते विरेचनं युञ्यादामोद्भूते गदे तथा ।
उदरे च तथाध्माने कोष्ठशुद्धौ विशेषतः ॥
दोषाः कदाचित् कुप्यन्ति जिता लङ्घनपाचनैः ।
शोधनैः शोधिता ये तु न तेषां पुनरुद्भवः ॥
बालो वृद्धो भृशं स्निग्धः क्षतक्षीणो भयान्वितः ।
श्रान्तस्तृषार्त्तः स्थूलश्च गर्भिणी च नवज्वरी ॥
पृष्ठ ४/४२१
अधोगरक्तपित्ती च न विरेच्या विजानता ।
नवप्रसूता नारी च मन्दाग्निश्च मदात्ययी ॥
शल्यार्दितश्च रूक्षश्च न विरेच्या विजानता ।
जीर्णज्वरी गरव्याप्तो वातरक्ती भगन्दरी ॥
अर्शःपाण्डूदरग्रन्थिहृद्रोगारुचिपीडिताः ।
योनिरोगप्रमेहार्त्तगुल्मप्लीहव्रणार्द्दिताः ॥
विद्रधिच्छर्द्दिविस्फोटविसूचीकुष्ठसंयुताः ।
कर्णनासाशिरोवक्त्रगुदमेढ्रामयान्विताः ॥
प्लीहशोथाक्षिरोगार्त्ताः कृमिक्षारानलार्द्दिताः ।
शूलिनो मूत्रघातार्त्ता विरेकार्हा नरा मताः ॥
बहुपित्तो मृदुः प्रोक्तो बहुश्लेष्मा च मध्यमः ।
बहुवातः क्रूरकोष्ठो दुर्व्विरेच्यः स कथ्यते ॥
मृद्वी मात्रा मृदौ कोष्ठे मध्यकोष्ठे च मध्यमा ।
क्रूरे तीक्ष्णा मता द्रव्यैर्मृदुमध्यामतीक्ष्णकैः ॥
मृदुर्द्राक्षापयश्चञ्चुतैलैरपि विरिच्यते ।
मध्यमस्त्रिवृतातिक्ताराजवृक्षैर्व्विरिच्यते ।
क्रूरः स्रुक्पयसा हेमक्षीरीदन्तीफलादिभिः ॥”
चञ्चुतैलमेरण्डतैलम् । राजवृक्षः धनवहेरा ।
हेमक्षीरी चोकम् । दन्तीफलं बृहद्दन्तीफलं
जयपाल इति प्रसिद्धम् ।
“मात्रोत्तमा विरेकस्य त्रिंशद्वेगैः कफात्मिका ।
वेगैर्व्विंशतिभिर्म्मध्या हीनोक्ता दशवेगिका ॥
द्विपलं श्रेष्ठमाख्यातं मध्यमञ्च पलं भवेत् ।
पलार्द्धञ्च कषायाणां कनीयस्तु विरेचनम् ॥
कल्कमोदकचूर्णानां कर्षमध्वाज्यलेहतः ।
कर्षद्वयं पलं वापि वयोरोगाद्यपेक्षया ॥
पित्तोत्तरे त्रिवृच्चूर्णं द्राक्षाक्वाथादिभिः पिबेत् ।
त्रिफलाक्वाथगोमूत्रैः पिबेत् व्योषं कफार्द्दितः ॥
त्रिवृत्सैन्धवशुण्ठीनां चूर्णमम्लैः पिबेन्नरः ।
वातार्द्दितो विरेकाय जाङ्गलानां रसेन वा ॥
एरण्डतैलं त्रिफलाक्वाथेन द्बिगुणेन वा ।
युक्तं पीतं पयोभिर्व्वा न चिरेण विरिच्यते ॥”
शीघ्रमेव विरिच्यत इत्यर्थः ।
“त्रिवृता कोटजं बीजं पिप्पली विश्वभेषजम् ।
समृद्वीकारसं क्षौद्रं वर्षाकाले विरेचनम् ॥
त्रिवृद्दुरालभामुस्तशर्करोदीच्यचन्दनम् ।
द्राक्षाम्बुना सपुष्पाह्वं शीतलं च घनात्यये ॥”
उदीच्यं बाला । घनात्यये शरदि ।
“पिप्पली नागरं सिन्धुश्यामात्रिवृतषा सह ।
लिह्यात् क्षौद्रेण शिशिरे वसन्ते च विरे-
चनम् ॥”
श्यामा कृष्णसाउ ।
“त्रिवृता शर्करातुल्या ग्रीष्मकाले विरेचनम् ।
अभया मरिचं शुण्ठीविडङ्गामलकानि च ॥
पिप्पली पिप्पलीमूलं त्वक्पत्रं मुस्तमेव च ।
एतानि समभागानि दन्ती तु द्विगुणा भवेत् ॥
त्रिवृताष्टगुणा ज्ञेया षड्गुणा वात्र शर्करा ।
मधुना मोदकान् कृत्वा कर्षमात्रान् प्रमाणतः ॥
एकैकं भक्षयेत् प्रातः शीतञ्चानुपिबेज्जलम् ॥
तावद्विरिच्यते जन्तुर्यावदुष्णं न सेवते ।
पानाहारविहारेषु भवेन्निर्यन्त्रणः सदा ॥
विषमज्वरमन्दाग्निपाण्डुकासभगन्दरान् ।
दुर्नामकुष्ठयक्ष्मार्शोगलगण्डोदरभ्रमान् ॥
विदाहप्लीहमेहांश्च यक्ष्माणं नयनामयान् ।
वातरोगांस्तथाध्मानं मूत्रकृच्छ्राणिचाश्मरीम् ॥
पृष्ठपार्श्वोरुजघनजङ्घोदररुजं जयेत् ।
सततं शीलनादेषां पलितानि प्रणाशयेत् ।
अभया मोदका ह्येते रसायनवराः स्मृताः ॥”
अभयामोदको रसायनः ॥ * ॥
“पीत्वा विरेचनं शीतजलैः संसिच्य चक्षुषी ।
सुगन्धि किञ्चिदाघ्राय ताम्बूलं शीलयेद्वरम् ॥
निर्व्वातस्थो न वेगांश्च धारयेन्न शयीत च ।
शीताम्बु न स्पृशेत् क्वापि कोष्णनीरं पिबेन्मुहुः ॥
बलासौषधपित्तानि वायुर्वान्ते यथा व्रजेत् ।
रेकात्तथा मलं पित्तं भेषजं च कफो व्रजेत् ॥
दुर्विरिक्तस्य नाभेस्तु स्तब्धता कुक्षिशूलरुक् ।
पुरीषवातसङ्गश्च कण्डूमण्डलगौरवम् ॥
विदाहोऽरुचिराध्मानं भ्रमश्छर्दिश्च जायते ।
तं पुनः पाचनैः स्नेहैः पक्त्वा संस्निह्य रेचयेत् ॥
तेनास्योपद्रवा यान्ति दीप्ताग्निर्लघुता भवेत् ।
विरेकस्यातियोगेन मूर्च्छा भ्रंशो गुदस्य च ॥
शूलं कफातियोगः स्यान्मांसधारणसन्निभम् ।
मेदोनिभं जलाभासं रक्तञ्चापि विरिच्यते ॥
तस्य शीताम्बुभिः सिक्त्वा शरीरं तण्डुलाम्बुभिः ।
मधुमिश्रैस्तथा शीतैः कारयेद्वमनं मृदु ॥
सहकारत्वचः कल्को दध्ना सौवीरकेण वा ।
पिष्टो नाभिप्रलेपेन हन्त्यतीसारमुल्वणम् ॥
सौवीरन्तु यवैरामैः पक्वैर्व्वा निस्तुषीकृतम् ॥”
सौवीरं सन्धानम् ।
“आजं क्षीरं रसञ्चापि वैष्किरं हारिणं तथा ॥
शालिभिः षष्टिकैस्तुल्यं मसूरैर्व्वापि भोजयेत् ।
वर्त्तिकालावविकिरकपिञ्जलकतित्तिराः ॥
चकोरक्रकराद्याश्च विष्किराः समुदाहृताः ।
कपिञ्जल इति ख्यातो लोके कपिशतित्तिरः ॥”
क्रकरः कएर इति लोके । हरिणस्ताम्रवर्ण-
मृगः ।
“शीतैः संग्राहिभिर्द्रव्यैः कुर्य्यात् संग्रहणं
भिषक् ।
लाघवे मनसन्तुष्टावनुलोमं गतेऽनिले ॥
सुविरिक्तं नरं ज्ञात्वा पाचनं पाययेन्निशि ।
इन्द्रियाणां बलं बुद्धेः प्रसादो वह्निदीप्तता ॥
धातुस्थैर्य्यं वयःस्थैर्य्यं भवेद्रेचनसेवनात् ।
प्रवातसेवां शीताम्बु स्नेहाभ्यङ्गमजीर्णताम् ॥
व्यवायं मैथुनं चैव न सेवेत विरेचितः ।
शालिषष्टिकमुद्गाद्यैर्यवागूं भोजयेत् कृताम् ॥
जङ्घालविष्किराणां वा रसैः शाल्योदनं हितम् ।
हरिणैणकुरङ्गर्त्यवातायुमृगमातृकाः ।
राजीवः पृषतश्चैव जङ्घाला सरभादयः ॥”
इति भावप्रकाशः ॥

विरेचनः, पुं, (विशेषेण रेचयतीति । वि + रिच् +

णिच् + ल्युः ।) पीलुवृक्षः । इति राज-
निर्घण्टः ॥ (विरेचके, त्रि । यथा, सुश्रुते ।
चिकित्सितस्थाने २४ अध्याये ।
“तेजनं त्वग्गतस्याग्नेः सिरामुखविरेचनम् ॥”)

विरेफः, पुं, नदमात्रम् । इति धनञ्जयः ॥ रेफ-

शून्यश्च ॥

विरेभितः, त्रि, शब्दितः । विपूर्ब्बकरेभधातोः

क्तप्रत्ययेन निष्पन्नः ॥

विरोकं, क्ली, (वि + रुच् + घञ् । कुत्वम् ।)

छिद्रम् । इति त्रिकाण्डशेषः ॥ (यथा, माघे ।
५ । ५४ ।
“नासाविरोकपवनोन्नमितं तनीयो
रोमाञ्चतामिव जगाम रजः पृथिव्याः ॥”)
सूर्य्यकिरणे, पुं । इति हलायुधः ॥ (प्रातः-
कालः । यथा, ऋग्वेदे । ३ । ५ । २ ।
“पूर्ब्बीरृतस्य संदृशश्चकानः संदूतो अद्यौ
दुषसो विरोके ॥”
“विरोके विरोचने प्रातःकाले ।” इति तद्भाष्ये
सायणः ॥)

विरोचनः, पुं, (विशेषेण रोचते इति । वि + रुच्

+ “अनुदात्तेतश्च हलादेः ।” ३ । २ । १४९ । इति
युच् ।) सूर्य्यः । (यथा, महाभारते । ३ । ३ । ६३ ।
“दिवाकरः सप्तसप्तिर्धामकेशी विरोचनः ॥”)
अर्कवृक्षः । इत्यमरः ॥ प्रह्लादतनयः । (यथा,
महाभारते । १ । ६५ । १९ ।
“प्रह्लादस्य त्रयः पुत्त्राः ख्याताः सर्व्वत्र भारत ।
विरोचनश्च कुम्भश्च निकुम्भश्चेति भारत ॥”)
अग्निः । चन्द्रः । इति मेदिनी ॥ (यथा,
महाभारते । ९ । ३५ । ५३ ।
“तासां तद्वचनं श्रुत्वा दक्षः सोममथाब्रवीत् ।
समं वर्त्तस्व भार्य्यासु मा त्वां शप्से विरोचन ! ॥”
रोहितकवृक्षः । श्योनाकप्रभेदः । घृतकरञ्जः ।
इति राजनिर्घण्टः ॥ (दीप्तिशालिनि, त्रि ।
यथा, महाभारते । १२ । ३४३ । ३४ ।
“तेजसाभ्यधिकौ सूर्य्यात् सर्व्वलोकविरो-
चनात् ॥”)

विरोचनसुतः, पुं, (विरोचनस्य सुतः ।) बलि-

राजः । इति त्रिकाण्डशेषः ॥

विरोधः, पुं, (वि + रुध + घञ् ।) शत्रुता । तत्-

पर्य्यायः । वैरम् २ विद्वेषः ३ । इत्यमरः ॥ द्वेषः
४ द्वेषणम् ५ । इति शब्दरत्नावली ॥ अनुशयः
६ समुच्छ्रयः ७ । इति जटाधरः ॥ पर्य्यवस्था ८
विरोधनम् ९ । इति संकीर्णवर्गे अमरः ॥
(यथा, रघुः । ६ । ४६ ।
“नीपान्वयः पार्थिव एष यज्वा
गुणैर्यमाश्रित्य परस्परेण ।
सिद्धाश्रमं शान्तमिवेत्य सत्त्वै-
र्नैसर्गिकोऽप्युत्ससृजे विरोधः ॥”)
विरोधकरणे दोषो यथा, --
“अथ पुत्त्रं रेणुका सा कृत्वा स्नेहात् स्ववक्षसि ।
उवाच किञ्चिद्वचनं परिणामसुखावहम् ॥
अविरोधो भवाब्धौ च सर्व्वमङ्गलमङ्गलम् ।
विरोधो नाशबीजञ्च सर्व्वोपद्रवकारणम् ॥
अकर्त्तव्यो विरोधश्च दारुणैः क्षत्त्रियैः सह ।
प्रतिज्ञा चैषा कर्त्तव्या मदीयं वचनं शृणु ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे २९ अध्यायः ॥
पृष्ठ ४/४२२
अपि च ।
“न कुर्य्याद्बहुभिः सार्द्धं विरोधं बन्धुभिस्तथा ।
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥”
इति कौर्म्मे उपविभागे १५ अध्यायः ॥
न्यायमते साध्यव्यापकाभावप्रतियोगित्वम् । इति
चिन्तामणिः ॥ साध्यासामानाधिकरण्यम् ।
इति दीधितिः ॥ * ॥ प्रभवादिषष्टिसंवत्सरान्त-
र्गतत्रयस्त्रिंशवर्षम् । यथा, भविष्यपुराणे ।
भैरव उवाच ।
“विषमस्थं जगत् सर्व्वं विरोधे भयसंप्लवम् ।
विकारी सर्व्वतोऽपायो मम वाक्यन्तु नान्यथा ॥”
इति ज्योतिस्तत्त्वम् ॥
अनैक्यः । विपरीतार्थः । यथा, --
“श्रुतिस्मृतिविरोधे तु श्रुतिरेव गरीयसी ।
अविरोधे सदा कार्य्यं स्मार्त्तं वैदिकवत् सता ॥”
इति स्मृतिः ॥
(नाशः । यथा, महाभारते । ३ । ३०० । ३ ।
“यस्त्वं प्राणविरोधेन कीर्त्तिमिच्छसि शाश्वतीम् ।
सा ते प्राणान् समादाय गमिष्यति न संशयः ॥”
नाटकोक्तप्रतिमुखाङ्गान्यतमः । यथा, साहित्य-
दर्पणे । ६ । ३५१ ।
“विरोधश्च प्रतिमुखे तथा स्यात् पर्य्युपासनम् ॥”
तल्लक्षणोदाहरणे यथा, तत्रैव । ३५९ ।
“विरोधो व्यसनप्राप्तिः । यथा, चण्डकौशिके
राजा । नूनमसमीक्ष्यकारिणा मयान्धेनेव
स्फुरच्छिखाकलापो ज्वलनः पद्भ्यां समा-
क्रान्तः ॥” * ॥ अलङ्कारविशेषः । यथा,
साहित्यदर्पणे । १० । ७१८ ।
“क्रियाक्रियाद्रव्याभ्यां यद्द्रव्यं द्रव्येण वा मिथः ।
विरुद्धमिव भाषेत विरोधोऽसौ दशाकृतिः ॥”)

विरोधनं, क्ली, (वि + रुध + ल्युट् ।) विरोधः ।

इत्यमरः ॥ (यथा, कथासरित्सागरे । ५६ । १६९ ।
“ईदृक्पापफलं पुत्त्र मातापित्रोर्विरोधनम् ॥”
नाशः । यथा, रामायणे । २ । ३६ । २९ ।
“अदुष्टस्य हि संत्यागः सत्पथे निरतस्य च ।
निर्द्दहेदपि शक्रस्य द्युतिं धर्म्मविरोधनात् ॥”
नाटकोक्तविमर्षाङ्गान्यतमः । यथा, साहित्य-
दर्पणे । ६ । ३७८ ।
“शक्तिः प्रसङ्गः खेदश्च प्रतिषेधो विरोधनम् ॥”
तल्लक्षणादिकं यथा, तत्रैव । ३८७ ।
“कार्य्यात्ययोपगमनं विरोधनमिति स्मृतम् ॥”)

विरोधिनी, स्त्री, (विरुणद्धि या । वि + रुध +

णिनि । ङीप् ।) विरोधकारिका । यथा, --
“विरोधं कुरुते चान्या दम्पत्योः प्रीयमाणयोः ।
बधूनां सुहृदां पित्रोः पुत्त्रैः सारणिकैश्च या ।
विरोधिनी सा तद्रक्षां कुर्व्वीत बलिकर्म्मणा ॥”
इति मार्कण्डेयपुराणे दुःसहवंशोत्पत्तिः ॥

विरोधी, [न्] पुं, (विरुणद्धीति । वि + रुध +

णिनि ।) शत्रुः । इति हलायुधः ॥ (यथा,
मनुः । ४ । १७ ।
“सर्व्वान् परित्यजेदर्थान् स्वाध्यायस्य विरो-
धिनः ॥”
विरोधोऽस्त्यस्मिन्निति । विरोध + इनिः ।) प्रभ-
वादिषष्टिसंवत्सरान्तर्गतत्रयोविंशवर्षम् । यथा,
भविष्यपुराणे । भैरव उवाच ।
“अनग्निप्रबला लोका धान्यौषधिप्रपीडनम् ।
जायते मानुषे कष्टं विरोधिनि न संशयः ॥”
इति ज्योतिस्तत्त्वम् ॥
विरोधविशिष्टे, त्रि । (यथा, कुमारे । ५ । १७ ।
“विरोधिसत्त्वोज्झितपूर्ब्बमत्सरं
द्रुमैरभीष्टप्रसवार्च्चितातिथि ॥”)

विरोधोक्तिः, स्त्री, (विरोधस्य उक्तिः ।) पर-

वचनविरोधिवचनम् । तत्पर्य्यायः । विप्रलापः २
विरोधवाक् ३ क्रोधोक्तिः ४ प्रलापः ५ । इति
शब्दरत्नावली ॥

विल, श स्तुतौ । इति कविकल्पद्रुमः ॥ (तुदा०-

पर०-सक०-सेट् ।) स्तुतिरिह आच्छादनम् ।
श, विलति वस्त्रं लोकः परिदधाति इत्यर्थः ।
वेलिता । अयं कैश्चिन्न मन्यते । इति दुर्गा-
दासः ॥

वि(बि)लं, क्ली, (विल + कः ।) छिद्रम् । इत्यमरः ॥

(यथा, महाभारते । १ । १४९ । १७ ।
“पाण्डवाश्चापि ते सर्व्वे सह मात्रा सुदुःखिताः ।
विलेन तेन निर्गत्य जग्मुर्द्रुतमलक्षिताः ॥”)
गुहा । इति मेदिनी ॥ (यथा, कुमारे ।
६ । ३९ ।
“जितसिंहभया नागा यत्राश्वा विलयोनयः ।
यक्षाः किंपुरुषाः पौरा योषितो वनदेवताः ॥”)

वि(बि)लः, पुं, (उच्चैःश्रवा हयः । इति मेदिनी ॥

वेतसः । इति शब्दचन्द्रिका ॥

वि(बि)लकारी, [न्] पुं, (विलं करोतीति । कृ +

णिनिः ।) मूषकः । इति राजनिर्घण्टः ॥ गर्त्त-
कारके, त्रि ॥

विलक्षः, त्रि, (विशेषेण लक्षयतीति । वि + लक्ष

+ पचाद्यच् ।) विस्मयान्वितः । इत्यमरः ॥
(यथा, कथासरित्सागरे । ३९ । १५ ।
“इत्युक्त्वा स विलक्षं तं वैद्यं सूदान्नृपोऽब्रवीत् ।
किं तस्य च्छगलस्यापि मांसशेषोऽपि कश्चन ॥”)

विलक्षणं, क्ली, (विगतं लक्षणं आलोचनं यत्र ।)

हेतुशून्यास्था । निष्प्रयोजनस्थितिः । यथा, --
“विलक्षणं मतं स्थानं यद्भवेन्निष्प्रयोजनम् ॥”
इति भागुरिः । इत्यमरभरतौ ॥
(यथा, भागवते । १० । ७० । ३८ ।
“यद्विद्यमानात्मतयावभासते
तस्मै नमस्ते स्वविलक्षणात्मने ॥ * ॥)

विलक्षणः, त्रि, (विभिन्नं लक्षणं यस्य ।) भिन्नः ।

इति जटाधरः ॥ (यथा, भागवते । ५ । ६ । ६ ।
“अथैवमखिललोकपालसमो विलक्षणैर्जड-
वदभूतवेशभाषाचरितैरविलक्षितभगवत्प्रभाव
इति ॥” * ॥ यथा च भाषापरिच्छेदे । ११४ ।
“अस्मात् पृथगिदं नेति प्रतीतिर्हि विल-
क्षणा ॥”
विशिष्टं लक्षणं यस्याः ।) विशेषलक्षणयुक्तः ।
यथा, मत्स्यपुराणे ।
“अशौचान्ताद्दितीयेऽह्नि शय्यां दद्याद्विल-
क्षणाम् ।
काञ्चनं पुरुषं तद्वत् फलपुष्पसमन्वितम् ॥
संपूज्य द्विजदाम्पत्यं नानाभरणभूषणैः ।
वृषोत्सर्गश्च कर्त्तव्यो देया च कपिला शुभा ॥”
द्विजदम्पतीं पूजयित्वा काञ्चन प्रेतप्रतिकृतिरूपं
पुरुषं फलवस्त्रयुतं शय्यायामारोप्य भूषित-
द्विजदम्पतीभ्यां शय्यां दद्यात् । इति शुद्धि-
तत्त्वम् ॥

विलग्नं, क्ली, (विशेषेण लग्नम् ।) मध्यः । यथा, --

“मध्योऽवलग्नं विलग्नं मध्यमोऽथ कटः कटिः ॥”
इति हेमचन्द्रः ॥
जन्मलग्नम् । यथा, --
“गोचरे वा विलग्ने वा ये ग्रहा रिष्टसूचकाः ।
पूजयेत्तान् प्रयत्नेन पूजिताः स्युः शुभावहाः ॥
गोचरे स्वराश्यपेक्षया यदा कदापि । विलग्ने
जन्मलग्ने । इति संस्कारतत्त्वम् ॥ मेषादिलग्न-
मात्रम् । यथा, --
“शुभग्रहार्कवारे च मृदुक्षिप्रध्रुवेषु च ।
शुभराशिविलग्ने च शुभं शान्तिकपौष्टिकम् ॥”
इति दीपिका ॥
संलग्ने, त्रि । यथा, --
“विलग्नं न स्त्रियां मन्ये त्रिषु स्याल्लग्नमात्रके ॥”
इति मेदिनी ॥

विलज्जः, त्रि, (विगता लज्जा यस्य ।) लज्जा-

रहितः । निर्लज्जः । यथा, --
“तनयगतदिनेशे शैशवे सौख्यभागी
न भवति फलभागी यौवने व्याधियुक्तः ।
जनयति सुतमेकं निर्णयं नाशयित्वा
चपलमतिविलज्जः क्रूरकर्म्मा कुचेलः ॥”
इति ज्योतिषे पञ्चमस्थानस्थरविफलम् ॥

विलपनं, क्ली, (वि + लप + ल्युट् ।) विलापः ।

भाषणम् । विपूर्ब्बलपधातोः अनट्प्रत्ययेन
निष्पन्नम् ॥

विलम्बः, पुं, (वि + लम्ब + घञ् ।) लम्बनम् ।

गौणः । यथा, देवीपुराणे ।
“अकालेऽप्यथवा काले तीर्थश्राद्धं तथा नरैः ।
प्राप्तैरेव सदा कार्य्यं कर्त्तव्यं पितृतर्पणम् ॥
पिण्डदानं तत्र शस्तं पितॄ णाञ्चातिदुर्ल्लभम् ।
विलम्बो नैव कर्त्तव्यो न च विघ्नं समाचरेत् ॥”
इति प्रायश्चित्ततत्त्वम् ॥
प्रभवादिषष्टिसंवत्सरान्तर्गतद्वात्रिंशबर्षम् । यथा,
भविष्ये ।
“तस्करैः पार्थिवैश्चैव अभिभूतमिदं जगत् ।
अर्घो भवति सामान्यो विलम्बे तु भयं महत् ॥”
इति ज्योतिस्तत्त्वम् ॥

विलम्बनं, क्ली, (वि + लम्ब + ल्युट् ।) अशीघ्रम् ।

इति विलम्बितशब्दटीकायां भरतः ॥ (यथा,
हरिवंशे भविष्यपर्व्वणि । ४१ । २२ ।
“आगच्छ त्वरितं कृष्ण न ते कार्य्यं विलम्बनम् ॥”)

विलम्बितं, त्रि, (वि + लम्ब + क्तः ।) अशीघ्रम् ।

इत्यमरे शीघ्रपर्य्यायेऽविलम्बितशब्ददर्शनात् ॥
पृष्ठ ४/४२३
(यथा, रघुवंशे । १ । ३३ ।
“विलम्बितफलैः कालं स निनाय मनोरथैः ॥”)
मन्दत्वे, क्ली । यथा, --
“विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात् ॥”
इत्यमरः ॥
मन्दत्वशीघ्रत्व उभयेतरत्वयुतेषु नृत्यविषयक-
गमनविशेषेषु क्रमात्तत्त्वादिनामत्रयं विलम्बिता-
दीनां त्रयाणां लयाणां तत्त्वादिकाः संज्ञाः ।
इति मधुः ॥ साञ्झे ।
“द्रतामध्ययने वृत्तिं प्रयोगार्थे तु मध्यमाम् ।
शिष्याणामुपरोधार्थे विलम्बितां समाचरेत् ॥”
इति वेदव्यवस्था ॥
नृत्यगीतादौ च प्रत्येकमवसरबोधार्थं कण्ठ-
स्वरादि विलम्बनात् । विलम्बन्ते करचरणादयः
प्रत्येकं गतिविशेषप्रदर्शनायात्रेति विलम्बितम् ।
लवि ङ स्रंसने ध्रौव्यगत्यदनार्थादिति आधारे
क्तः । भावे क्तः इति मुकुटः । इति भरतः ॥
विलम्बगमनशीलपशुः । तद्यथा । द्विरद-
खड्गोष्ट्रमहिषगोगवयचमरवराहाः । इति
राजनिर्घण्टः ॥

विलम्बी, [न्] त्रि, विलम्बविशिष्टः । इति विलम्ब-

शब्दादिन्प्रत्ययेन निष्पन्नः ॥ (यथा, गीत-
गोविन्दे । ६ । ८ ।
“भवति विलम्बिनि विगलितलज्जा
विलपति रोदिति वासकसज्जा ॥”
विशेषेण लम्बते इति । वि + लम्ब + णिनिः ।
लम्बमानः । यथा, किराते । ५ । ६ ।
“उदितपक्षमिवारतनिःस्वनैः
पृथुनितम्बविलम्बिभिरम्बुदैः ॥”
पुं, क्ली । वत्सरविशेषः । यथा, बृहत्संहिता-
याम् । ८ । ३९ ।
“हेमलम्ब इति सप्तमे युगे
स्याद्विलम्बि परतो विकारि च ।
शर्व्वरीति तदनु प्लवः स्मृतो
वत्सरो गुरुवशेन पञ्चमः ॥”)

विलम्भः, पुं, (वि + लभ + घञ् । नुम् ।) अति-

दानम् । तत्पर्य्यायः । अतिसर्ज्जनम् २ । इत्य-
मरः ॥

विलयः, पुं, (विशेषेण लीयन्ते पदार्था अस्मि-

न्निति । वि + ली + “एरच् ।” इत्यच् ।)
प्रलयः । इति शब्दरत्नावली ॥ (यथा, भाग-
वते । ७ । ९ । ३२ ।
“नस्येदमात्मनि जगद्विलयाम्बुमध्ये
शेषे त्मना निजसुखानुभवो निरीहः ॥”
विनाशः । यथा, माघे । ९ । १७ ।
“दिवसोऽनुमित्रमगमद्विलयं
किमिहास्यते वत मयाबलया ॥”)

विलला, स्त्री, श्वेतबला । इति रत्नमाला ॥

वि(बि)लवासः, पुं, (विले वासो यस्य ।) जाहक-

जन्तुः । इति राजनिर्घण्टः ॥

वि(बि)लवासी, [न्] पुं, (विले वसतीति । वस +

णिनिः ।) सर्पः । इति शब्दरत्नावली ॥ (रन्ध्र-
वासिनि, त्रि । यथा, महाभारते । १४ । ४३ । २ ।
“अविः पशूनां सर्व्वेषामहिश्च विलवासिनाम् ॥)
श्रेष्ठ इति शेषः ॥)

वि(बि)लशयः, पुं, (विले शेते इति । शी + अच् ।)

सर्पः । इति शब्दरत्नावली ॥ (विलवासिनि,
त्रि । यथा, महाभारते । १४ । ९० । ६ ।
“सकृदुत्सृज्य तं नादं त्रासयानो मृगद्बिजान् ।
मानुषं वचनं प्राह धृष्टो विलशयो महान् ॥”)

विलसन्, [त्] त्रि, (वि + लस + शतृ ।) विलास-

युक्तः । यथा, --
“व्रजसुश्रुवो विलसत्कलाः ।
अभवन् प्रिया मुरवैरिणः ॥”
इति छन्दोमञ्जरी ॥

विलापः, पुं, (वि + लप + घञ् ।) अनुशोच-

नोक्तिः । तत्पर्य्यायः । परिदेवनम् २ । इत्यमरः ॥
अपि च ।
“क्रन्दनादौ विलापः स्यात् परिदेवनमित्यपि ।”
इति शब्दरत्नावली ॥
विलापो दुःखजं वचः । इत्युज्ज्वलनीलमणिः ॥
(यथा, गीतगोविन्दे । १ । २९ ।
“उन्मादमदनमनोरथपथिक-
बधूजनजनितविलापे ।
अलिकुलसङ्कुलकुसुमसमूह-
निराकुलवकुलकलापे ॥”)

विलालः, पुं, यन्त्रम् । इति शब्दचन्द्रिका ॥

विडालः । इत्यमरटीका ॥

विलासः, पुं, (वि + लस + घञ् ।) हावभेदः ।

इत्यमरः ॥ (यथा, कुमारे । ५ । १५ ।
“लतासु तन्वीषु विलासचेष्टितं
विलोलदृष्टं हरिणाङ्गनासु च ॥”)
लीला । इति मेदिनी ॥ (यथा, भागवते ।
३ । २५ । ३५ ।
“तैर्दर्शनीयावयवैरुदार-
विलासहासेक्षितवामसूक्तैः ॥”)
“स्त्रीणां विलासादयः शृङ्गारभावजाः क्रिया
हावशब्देनोच्यन्ते । प्रियसमीपगमने यः स्थाना-
सनगमनविलोकनेषु विकारोऽकस्माच्च क्रोध-
स्मितचमत्कारमुखविकूननं स विलासः । तथा
च ।
‘यो वल्लभां चानुगतो विकारो
गत्यासनस्थानविलोकनेषु ।
तथा स्मृतं क्रोधचमत्कृती च
विकूननञ्चास्यगतं विलासः ॥’
तथान्यत्र ।
‘तात्कालिको विशेषस्तु विलासोऽङ्गक्रियादिषु ।’
तात्कालिको दयितालोकनादिभवः ।” इति
भरतः ॥ * ॥ अपि च ।
“गतिस्थानासनादीनां मुखनेत्रादिकर्म्मणाम् ।
तात्कालिकन्तु वैशिष्ट्यं विलासः प्रियसङ्गजम् ॥”
इत्युज्ज्वलनीलमणिः ॥
अन्यच्च ।
“यद्रूपं तदभेदेन स्वरूपेण विराजते ।
आकृत्यादिभिरन्यादृक् स तदेकात्मरूपकः ।
स विलासः स्वांश इति धत्ते भेदद्वयं पुनः ॥”
तत्र विलासः ।
“स्वरूपमन्याकारं तत्तस्य भाति विलासतः ।
प्रायेणात्मसमं शक्त्या स विलासो निगद्यते ॥
परमव्योमनाथस्तु गोविन्दस्य यथा स्मृतम् ।
परमव्योमनाथस्य वासुदेवश्च यादृशः ॥”
स्वांशः ।
“तादृशो न्यूनशक्तिं यो व्यनक्ति स्वांश ईरितः ।
सङ्कर्षणादिर्मत्स्यादिर्यथा तत्तत् स्वधामसु ॥”
इति भागवतामृतम् ॥

विलासमन्दिरं, क्ली, (विलासस्य मन्दिरम् ।)

क्रीडागृहम् । इति केचित् ॥

विलासविपिनं, क्ली, (विलासस्य विपिनम् ।)

क्रीडावनम् । यथा, --
“यदीयहलतो विलोक्य विपदं
कलिन्दतनया जलोद्धतगतिः ।
विलासविपिनं विवेशं सहसा
करोतु कुशलं हली स जगताम् ॥”
इति छन्दोमञ्जरी ॥

विलासविभवानसः, त्रि, लुब्धः । इति जटाधरः ॥

विलासिनी, स्त्री, (विलासोऽस्या अस्तीति ।

विलास + इनिः । ङीप् ।) नारी । इति राज-
निर्घण्टः ॥ (यथा, ऋतुसंहारे । ४ । ३ ।
“न बाहुयुग्मेषु विलासिनीनां
प्रयान्ति सङ्गं वलयाङ्गदानि ॥”)
वेश्या । इति धनञ्जयः ॥ (यथा, महाभारते ।
३ । ४६ । १४ ।
“सिद्धचारणगन्धर्व्वैः सा प्रयाता विलासिनी ।
बह्वाश्चर्य्येऽपि वै स्वर्गे दर्शनीयतमाकृतिः ॥”
विलासशालिनी । यथा, गीतगोविन्दे । १ । ४० ।
“विलासिनि ! विलसति केलिपरे ॥”)

विलासी, [न्] पुं, (विलासोऽस्यास्तीति । विलास

+ इनिः ।) भोगी । व्यालः । (उभयार्थे प्रमाणं
यथा, कुट्टनीमते । १८ ।
“तस्यां खगपतितनुरिव विलासिनां हृदय-
शोकसंजननी ॥”
“विले आसत इति विलासिनः सर्पाः पक्षे विल-
सनशीला भोगिनः ।” इति तट्टीका ॥ * ॥)
कृष्णः । अग्निः । चन्द्रः । इति मेदिनी ॥
स्मरः । हरः । इति शब्दरत्नावली ॥ (विलास-
शीले, त्रि । यथा, रघुः । ९ । ४३ ।
“परभृताविरुतैश्च विलासिनः
स्मरवलैरवलैकरसाः कृताः ॥”)

विलीनः, त्रि, (वि + ली + क्तः ।) प्राप्तद्रवीभाव-

घृतादिः । तत्पर्य्यायः । विद्रुतः २ द्रुतः ३ ।
इत्यमरः ॥ विश्लिष्टः । विशेषेण लीनः । यथा, --
“करादस्य भ्रष्टे ननु शिखरिणी दृश्यति शिशो-
र्विलीनाः स्मः सत्यं नियतमवधेयं तदखिलैः ।
इति त्रस्यद्गोपानुचितनिभृतालापजनित-
स्मितं बिभ्रद्देवो जगदवतु गोवर्द्धनधरः ॥”
इति छन्दोमञ्जरी ॥
पृष्ठ ४/४२४

विलेखनं, क्ली, लेखनम् । विपूर्ब्बकलिखधातोरनट्

(ल्युट्) प्रत्ययेन निष्पन्नम् ॥

विलेपः, पुं, लेपः । विपूर्ब्बकलिपधातोर्घञ्प्रत्ययेन

निष्पन्नः ॥ (यथा, भागवते । १० । ४२ । १ ।
“अथ व्रजन् राजपथेन माधवः
स्त्रियं गृहीताङ्गविलेपभाजनाम् ।
विलोक्य कुब्जां युवतीं वराननां
पप्रच्छ यान्तीं प्रहसन् रसप्रदः ॥”)

विलेपनं, क्ली, (विलिप्यन्तेऽङ्गान्यनेनेति । वि + लिप

+ ल्युट् ।) गात्रानुलेपनयोग्यं पिष्टं घृष्टं वा
सुगन्धिद्रव्यम् । तत्पर्य्यायः । गात्रानुलेपनी २
वर्त्तिः ३ वर्णकम् ४ । इत्यमरः ॥ “द्वे गात्रानु-
लेपनयोग्ये वर्त्तितविलेपने ।
‘वर्णकादिद्बयं घृष्टचन्दनादिविलेपने ॥’
इति केचित् । विलिप्यतेऽनेन करणेऽनटि
विलेपनम् ।” इति तट्टीकायां भरतः ॥ कुङ्कु-
मादिलेपनम् । तत्पर्य्यायः । समालम्भः २ ।
इति च संकीर्णवर्गे अमरः ॥

विलेपनी, स्त्री, (वि + लिप् + कर्म्मणि करणे

वा ल्युट् । ङीप् ।) यवागूः । सुवेशस्त्री । इति
मेदिनी ॥

विलेपी, स्त्री, (विलिप्यतेऽसाविति । वि + लिप +

कर्म्मणि घञ् । स्त्रियां ङीष् ।) यवागूः । इत्य-
मरः ॥
“अन्नं पञ्चगुणे साध्यं विलेपी च चतुर्गुणे ।
मण्डश्चतुर्द्दशगुणे यवागूः षड्गुणेऽम्भसि ॥”
इति वैद्यकोक्तो भेद इह नादृतः । इति तट्टी-
कायां भरतः ॥ अस्य गुणाः ।
“विलेपी तर्पणी लघ्वी ग्राहिणी क्षुत्तृषा-
पहा ॥”
इति राजवल्लभः ॥

विलेपी, [न्] त्रि, लेपनकर्त्ता । विलेपयति यः

इत्यर्थे णिन्प्रत्ययेन निष्पन्नः ॥ (यथा, कथा-
सरित्सागरे । ३७ । २५ ।
“ततः प्रागनुरागेण रञ्जितः स्वान्तरान् मम ।
पश्चात् पृष्ठविलेपिन्या अङ्गरागेण ते करः ॥”)

विलेप्यः, पुं, (वि + लिप् + यत् ।) यवागूः । इति

शब्दरत्नावली ॥ विलेपनीये, त्रि ॥ (यथा,
भागवते । ११ । २७ । १४ ।
“स्नपनं त्वविलेप्यायामन्यत्र परिमार्जनम् ॥”)

वि(बि)लेवासी, [न्] पुं, (विले गर्त्ते वसतीति ।

वस + णिनिः । “शयवासेति ।” ६ । ३ । १८ ।
सप्तम्या अलुक् ।) सर्पः । इति शब्दरत्नावली ॥

वि(बि)लेशयः, पुं, (विले शेते इति । विले + शी +

“अधिकरणे शेतेः ।” ३ । २ । १५ । इत्यच् । शय-
वासेत्यलुक् ।) सर्पः । इत्यमरः ॥ मूषिकः । इति
जटाधरः ॥ गोधा । शशः । शल्लकी । यथा, --
“गोधाशशभुजङ्गाखुशल्लक्याव्या विलेशयाः ।
विलेशया वातहरा मधुरा रसपाकयोः ।
बृंहणा वद्धविण्मूत्रा वीर्य्योष्णा अपि कीर्त्तिताः ॥”
इति भावप्रकाशः ॥
(गर्त्तशायिनि, त्रि । यथा, महाभारते । १ । ४५ । ४ ।
“स ददर्श पितॄन् गर्त्ते लम्बमानानधोमुखान् ।
एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान् ।
तं तन्तुञ्च शनैराखुमाददानं विलेशयम् ॥”)

विलोकनं, क्ली, आलोकनम् । विपूर्ब्बलोकृधातो-

रनट्-(ल्युट्)-प्रत्ययेन निष्पन्नम् ॥ (यथा,
किराते । ३ । १६ ।
“अनुचरेण धनाधिपतेरथो
नगविलोकनविस्मितमानसः ॥”)

विलोकितं, त्रि, आलोकितम् । विपूर्ब्बलोकधातोः

क्तप्रत्ययेन निष्पन्नम् ॥

विलोचनं, क्ली, (विलोच्यते दृश्यतेऽनेनेति । वि +

लोचि + ल्युट् ।) चक्षुः । इति जटाधरः ॥
(यथा, कुमारे । ३ । ६७ ।
“उमामुखे विम्बफलाधरोष्ठे
व्यापारयामास विलोचनानि ॥”)
दर्शनञ्च ॥ (विरुद्धे लोचने यस्येति । विकृतनयने,
त्रि । यथा, देवीभागवते । ५ । ३१ । ४३ ।
“यदि ते सङ्गरेच्छास्ति कुरूपा भव भामिनि ।
लम्बोष्ठी कुनखी क्रूरा ध्वाङ्क्षवर्णा विलोचना ॥”)

विलोटकः, पुं, (विशेषेण लुटतीति । वि + लुट् +

ण्वुल् ।) नलमीनः । इति शब्दचन्द्रिका ॥ वेले
माछ इति भाषा ॥

विलोडनं, क्ली, (वि + लुड + ल्युट् ।) मन्थनम् ।

आलोडनम् । यथा, --
“राधिका दधिविलोढनस्थिता
कृष्णवेणुनिनदैरथोद्धता ।
यामुनं तटनिकुञ्जमञ्जसा
सा जगाम सलिलाहृतिच्छलात् ॥”
इति छन्दोमञ्जरी ॥

विलोडितं, क्ली, (वि + लुड + क्तः ।) तक्रम् ।

इति राजनिर्घण्टः ॥ आलोडिते, त्रि ॥

विलोपः, पुं, विशेषेण लोपः । विपूर्ब्बलुपधातो-

र्घञ्प्रत्ययेन निष्पन्नः ॥ (यथा, कामन्दकीय-
नीतिसारे । ५ । ६५ ।
“काले स्थाने च पात्रे च न हि वृत्तिं विलो-
पयेत् ।
एतद्वृत्तिविलोपेन राजा भवति गर्हितः ॥”)

विलोभः, पुं, विलोभनम् । विशेषलोभः । विपूर्ब्बक-

लुभधातोर्घञ् प्रत्ययेन निष्पन्नः ॥

विलोमं, क्ली, अरघट्टकः । इति मेदिनी ॥

विलोमं, त्रि, विपरीतम् । तत्पर्य्यायः । प्रति-

कूलम् २ अपसव्यम् ३ अपष्ठुरम् ४ वामम् ५
प्रसव्यम् ६ प्रतीपम् ७ प्रतिलोमम् ८ अपष्ठु ९ ।
इति हेमचन्द्रः ॥ सव्यम् १० विलोमकम् ११ ।
इति जटाधरः ॥ (यथा, बृहत्संहितायाम् ।
९४ । १२ ।
“द्रुतमुकुलितदृष्टिः स्वप्नशीलो विलोमो
भयकृतहितभक्षी नैकशोऽसृक्छकृच्च ॥”)

विलोमः, पुं, सर्पः । वरुणः । कुक्कुरः । इति

मेदिनी ॥

विलोमकः, त्रि, (विलोम एव । स्वार्थे कन् ।)

विपरीतः । इति जटाधरः ॥

विलोमजिह्वः, पुं, (विलोमा जिह्वा यस्य ।) हस्ती ।

इति त्रिकाण्डशेषः ॥

विलोमवर्णः, पुं, (विलोमः प्रतिलोमो वर्णः ।)

वर्णसङ्करजातिः । इति स्मृतिः ॥

विलोमी, स्त्री, आमलकी । इति मेदिनी ॥

विलोलः, त्रि, (विशेषेण लोलः ।) चञ्चलः ।

यथा, --
“कापि विलासविलोलविलोचनखेलनजनित-
मनोजम् ।
ध्यायति मुग्धबधूरधिकं मधुसूदनवदनसरो-
जम् ॥”
इति श्रीगीतगोविन्दे । १ । ४२ ॥

वि(बि)ल्लं, क्ली, आलवालम् । यथा, --

“अवघट्टावटौ तुल्यौ तल्लं विल्लं तलञ्च तत् ।
द्विजप्रपालबालं स्यात् केदारः पांशुमर्द्दनः ॥”
इति त्रिकाण्डशेषः ॥
हिङ्गुः । इति शब्दचन्द्रिका ॥

वि(बि)ल्लमूला, स्त्री, वाराहीकन्दः । इति शब्द-

चन्द्रिका ॥

वि(बि)ल्लसूः, स्त्री, प्रसूतदशपुत्त्रा । यथा, --

“सप्तपुत्त्रप्रसूतायां सप्तसूः सुतवस्करा ।
विल्लसूर्द्दशपुत्त्रा स्यादेकाधिका तु रुद्रसूः ॥”
इति शब्दरत्नावली ॥

वि(बि)ल्वं, क्ली, विल्ववृक्षस्य फलम् । इति मेदिनी ॥

(यथा, --
“खलः सर्षपमात्राणि परच्छिद्राणि पश्यति ।
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ॥”
इत्युद्भटः ॥)
पलपरिमाणम् । इति शब्दमाला ॥ (यथा,
सुश्रुते । ६ । १८ ।
“अत ऊर्द्ध्वं प्रवक्ष्यामि पुटपाकप्रसाधनम् ।
द्वौ विल्वमात्रौ श्लक्ष्णस्य पिण्डौ मांसस्य
पेषितौ ।
द्रव्याणां विल्वमात्रन्तु द्रवाणां कुडवो मतः ॥”)

वि(बि)ल्वः, पुं, (विल भेदने + उल्वादयश्चेति साधुः ।)

फलवृक्षविशेषः । वेल्गाछ इति भाषा ॥
तत्पर्य्यायः । शाण्डिल्यः २ शैलूषः ३ मालूरः ४
श्रीफलः ५ । इत्यमरः ॥ महाकपित्थः ६ गोह-
रीतकी ७ पूतिवातः ८ अतिमङ्गल्यः ९
महाफलः १० । इति रत्नमाला ॥ शल्यः ११
हृद्यगन्धः १२ शालाटुः १३ कर्क्कटाह्वः १४
शैलपत्रः १५ शिवेष्टः १६ पत्रश्रेष्ठः १७
त्रिपत्रः १८ गन्धपत्रः १९ लक्ष्मीफलः २० गन्ध-
फलः २१ दुरारुहः २२ त्रिशाखपत्रः २३
त्रिशिखः २४ शिवद्रुमः २५ सदाफलः २६
सत्यफलः २७ सुभूतिकः २८ समीरसारः २९ ।
अस्य फलगुणाः । मधुरत्वम् । हृद्यत्वम् ।
कषायत्वम् । गुरुत्वम् । पित्तकफज्वरातिसार-
नाशित्वम् । रुचिकारित्वम् । दीपनत्वञ्च ।
अस्य मूलगुणाः । त्रिदोषघ्नत्वम् । मधुरत्वम् ।
लघुत्वम् । वान्तिनाशित्वञ्च ॥ अस्य कोमलफल-
गुणाः । स्निग्धत्वम् । गुरुत्वम् । संग्राहित्वम् ।
पृष्ठ ४/४२५
दीपनत्वञ्च ॥ अस्य पक्वफलगुणाः । मधुरत्वम् ।
गुरुत्वम् । कटुत्वम् । तिक्तत्वम् । कषायत्वम् ।
उष्णत्वम् । संग्राहित्वम् । त्रिदोषनाशित्वञ्च ।
इति राजनिर्घण्टः ॥ * ॥ अपि च ।
“श्रीफलस्तुवरस्तिक्तो ग्राही रूक्षोऽग्निपित्तकृत् ।
बालः श्लेष्महरो बल्यो लघुरुष्णश्च पाचनः ॥”
इति भावप्रकाशः ॥ * ॥
किञ्च ।
“विल्वं बालं कषायोष्णं पाचनं वह्निदीपनम् ।
संग्राहि तिक्तकटुकं तीक्ष्णं वातकफापहम् ।
पक्वं सुगन्धि मधुरं दुर्ज्जरं ग्राहि दोषलम् ॥
फलेषु परिपक्वेषु यो गुणः समुदाहृतः ।
विल्वादन्यत्र स ज्ञेयो विल्वमामं गुणोत्तरम् ॥
कफवातामपित्तघ्नी ग्राहिणी विल्वपेषिका ॥”
इति राजवल्लभः ॥
अन्यच्च ।
“काञ्जिके संस्थितं विल्वमग्निसन्दीपनं परम् ॥”
इति वैद्यकम् ॥ * ॥
विल्वोत्पत्त्यादिर्यथा, --
“विल्वादिपालनं कुर्य्यात् शुभं भयदमन्यथा ।
श्रीवृक्षान् रोपयेत् पञ्च यदि स्वर्गान्न हीयते ॥
भृगो लक्ष्मीश्च या धेनुर्गोरूपा सा गता
महीम् ।
तद्गोमयभवो विल्वः श्रीश्च तस्मादजायत ॥
निराकृतिं पतिं दृष्ट्वा क्रोधेन महता ततः ।
शप्ता सा उमया देवी सर्व्वभोग्या भवाधमे ॥
ततः संप्रणता भाना मामैवं भवतु प्रिये ।
प्रियत्वं सर्व्वलोकेशि सुरासुरनमस्कृता ॥
माता त्वं सर्व्वलोकानामबलानां विशेषतः ।
एवमात्मवशां कृत्वा शापमोक्षमयाचत ॥
वरं ददौ च सा कामं शापमोक्षप्रदं नृप ।
क्षीराब्धौ त्वं भृगाङ्केन सह गोभिर्धनेन च ॥
वसस्व मथने यावत् ततो विष्णुमवाप्स्यसि ।
पतिं त्वं सर्व्वलोकानां पूज्यं श्रेष्ठं महाबलम् ॥
तस्य वक्षःस्थिता भद्रे दुष्टा त्वं विचरिष्यसि ।
लोकभोग्या च भूतित्वादन्त्यजेषु नृपेषु च ॥
न जातिरूपशौर्य्यादि न वेश्म न शुभा मतिः ।
भविष्यति यदा चेह चञ्चला जलबिन्दुवत् ॥
विल्ववृक्षः प्रियः शम्भोस्तव योनिर्भविष्यति ।
सर्व्वपुष्पोत्तमश्रेष्ठो देवाहारो मनोरमः ॥ * ॥
अच्छेद्यः सर्व्वलोकानां छेदान्नाशः सदा नृणाम् ।
ये च पापा दुराचाराः श्रीतरोश्छेदकारिणः ।
ते त्ववीच्यादिनरके पात्यन्ते ब्रह्मणो दिनम् ॥
सुदुःखिता भविष्यन्ति नरा दुष्कुलिनः सदा ।
तत्र देशे भयं नित्यं चिरं राजा न जीवति ।
न च द्रव्यपतिः कश्चिद्विल्ववृक्षस्य छेदकः ॥
क्रियते यत्र विच्छेदः सपुष्पफलिनस्तरोः ।
अनावृष्टिभयं घोरं तस्मिन् देशे प्रजायते ॥”
इति वह्निपुराणे वामनप्रादुर्भावनामाध्यायः ॥ *
मतान्तरे तस्योत्पत्तिर्यथा, --
शिव उवाच ।
“मातः समुद्रतनये मा मा च्छिन्धि स्तनं परम् ।
यस्ते च्छिन्नस्तनो वामो जायतां पुनरेव सः ।
ज्ञाता ते परमा भक्तिः पूर्णस्तेन मनोरथः ॥
यश्च च्छिन्नस्तनो दत्तो मल्लिङ्गोपरि ते शुभे ।
सोऽस्तु वृक्षः क्षितौ पुण्यो नाम्ना श्रीफल
इत्युत ॥
मूर्त्तिमांस्तव वै भक्तिर्वृक्षः श्रीफलनामकः ।
त्वत्कीर्त्तये क्षितावास्तां यावच्चन्द्रदिवाकरौ ॥
स तरुर्म्मम वै लक्ष्मि परमः सुप्रियो भवेत् ।
तत्पत्रेणैव मे पूजा भविष्यति न चान्यथा ॥
स्वर्णमुक्ताप्रबालादि पुष्पाण्यन्यानि च ध्रुवम् ।
श्रीफल च्छदलेशस्य कलां नार्हन्ति कोटिकाम् ॥
यथा मे श्रीफलतरुर्यथा गङ्गाजलं मम ।
तथा प्रियतमं लक्ष्मि त्रिपत्रः श्रीफलच्छदः ॥
इत्युक्तः स तथेत्युक्त्वा महेशोऽन्तर्द्दधे सखि ।
कपालमोचनक्षेत्रे वृक्षः श्रीफलकोर्ज्जितः ॥”
इति बृहद्धर्म्मपुराणे १० अध्यायः ॥ * ॥
तस्य गोमयोद्भवत्वं यथा, --
“यज्ञानां चेह संभूत्यै यथा हरिहरस्य च ।
गोमयो रोचना क्षीरं मूत्रं दधि घृतं गवाम् ॥
षडङ्गानि पवित्राणि तथा सिद्धिकराणि च ।
उत्थितो विल्ववृक्षस्तु गोमयान्मुनिसत्तम ।
तत्रासौ वसते लक्ष्मीः श्रीवृक्षस्तेन चोच्यते ॥”
इति वह्निपुराणे वैष्णवधर्म्मे शुद्धिव्रतनामा-
ध्यायः ॥ * ॥
देव्युवाच ।
“वैशाखशुक्लपक्षस्य तृतीयायां सखि त्वयम् ।
जातो वै श्रीफलतरुर्म्माहात्म्यं तस्य कथ्यते ॥
जाते तु श्रीफलतरौ देवाः सर्व्वे सवासवाः ।
ब्रह्मा नारायणश्चापि देवपत्न्यः समागताः ॥
ददृशुः स्निग्धविटपं त्रिपत्रैर्मृदुलैर्युतम् ।
दीप्यमानं तेजसैव शिवरूपं शिवप्रदम् ॥
प्रणेमुः सिषिचुस्तत्र वासञ्चक्रुः सुखान्विताः ।
तद्रक्षणाय भगवानुवाच विष्णुरव्ययः ॥
विष्णुरुवाच ।
अयं नाम्ना विल्व इति मालूरः श्रीफलस्तथा ।
शाण्डिल्यश्चाथ शैलूषः शिवः पुण्यः शिवप्रियः ॥
देवावासस्तीर्थपदः पापघ्नः कोमलच्छदः ।
जयो विजयनामा च विष्णुस्त्रिनयनो वरः ॥
धूम्राक्षः शुक्लवर्णश्च संयमी श्राद्धदेवकः ।
इत्येकविंशतिं नाम्नां दधात्वेष तरूत्तमः ॥ * ॥
धनुःशतञ्चास्य मूलात् खञ्चाग्रात्तीर्थमुव्यते ।
अधो भूमेस्तथा तीर्थमतस्तीर्थत्रयं सखि ॥
ऊर्द्ध्वपत्रं हरो ज्ञेयः पत्रं वामं विधिः स्वयम् ।
अहं दक्षिणपत्रञ्च त्रिपत्रदलमित्युत ॥
अस्य च्छायाञ्च पत्रञ्च लङ्घयेन्न पदा स्पृशेत् ।
हरते लङ्घनादायुः पदा स्पर्शात् श्रियं हरेत् ॥
पद्मपुष्पसहस्रस्य फलपत्रसमापि च ।
दर्शने प्रणतौ स्पर्शे स्थानसम्मार्ज्जने तथा ।
पूजने चयने दाने क्रमान्मन्त्रानुदीरयेत् ॥
विल्ववृक्ष महाभाग महेशस्य सदा प्रियः ।
शिवदर्शनकज्योतिः प्रसीदाब्धिसुतास्तन ॥
नर एतेन मत्रेण प्रफुल्लाक्षः प्रगे शुभम् ।
प्रपश्येत् स शिवं पश्येत् प्रणमेत्तदनन्तरम् ॥
ॐ नमो विल्वतरवे सदा शङ्कररूपिणे ।
सफलानि ममाङ्गानि कुरुष्व शिवहर्षद ॥
मन्त्रेणानेन मालूरमष्टाङ्गैः प्रणमेत् कृती ।
स वैष्णवो मतो भक्तः स मे प्रियतरः परः ॥
शिवपूजक मालूर प्रियस्पर्श महातरो ।
स्पुशामि त्वां महापापसञ्चयान् मे प्रणाशय ॥
देववृक्षवरश्रेष्ठ स्थानन्ते सुमनोहरम् ।
क्रीडन्त्यागत्य विबुधा मार्ज्जये तत् प्रसीद मे ॥
मन्त्रेणानेन विल्वस्य दशहस्तस्थलं मृजेत् ।
सगोमयजलैः प्रातःसमये स तु वैष्णवः ॥
ॐ द्रुमाय श्रीफलाय नमो दशभिरक्षरैः ।
मन्त्रेण पूजयेद्विल्वं जपेच्छक्तिक्रमात्तथा ॥
पुण्यवृक्ष महाभाग मालूर श्रीफल प्रभो ।
महेशपूजनार्थाय तत्पत्राणि चिनोम्यहम् ॥
मन्त्रेणानेन चिनुयाद्विल्वपत्राणि भक्तितः ।
पक्षान्तद्वादशीसायं मध्याह्नभिन्नकालतः ॥
शाखाभङ्गो न कर्त्तव्यो नैवारोहेत्तथा तरुम् ।
वरमारुह्य चिनुयान्न शाखाभञ्जनं क्वचित् ॥
खण्डितैश्च शिवः पूज्यः पत्रैरन्यैश्च खण्डितैः ।
षण्मासानन्तरं विल्वपत्रं पर्य्युषितं भवेत ॥
पूज्या एतेन वै देवाः सूर्य्यलम्बोदरौ विना ।
विल्ववृक्षवनं यत्र सा तु वाराणसी पुरी ॥
पञ्च विल्वद्रुमा यत्र तत्र तिष्ठेत् स्वयं हरिः ।
सप्त विल्वद्रुमा यत्र तत्र दुर्गायुतो हरः ॥
एको विल्वतरुर्यत्र तत्र शम्भुर्म्मया सह ।
विल्ववृक्षा यत्र दश तत्र शम्भुर्गणैः सह ॥
एतान्युक्तानि तीर्थानि देवाः सर्व्वे मरुद्गणैः
यत्र वाट्यां गृहस्थस्य कोण ईशाननामके ।
जायते श्रीफलतरुर्न तत्र विपदः क्वचित् ॥
पूर्ब्बस्यां सुखदः स स्याद्दक्षिणे यमभीतिहा ।
पश्चिमे च प्रजादायी वृक्षो विल्व उदाहृतः ।
श्मशाने च नदीतीरे प्रान्तरे वा वनान्तरे ।
विल्ववृक्षतलं प्रोक्तं सिद्धपीठस्थलं सुधीः ॥
न मध्यप्राङ्गणे वृक्षं स्थापयेत् श्रीफलाख्यकम् ।
दैवाद्यदि प्रजायेत तदा शिववदर्च्चयेत् ॥
चैत्रादिचतुरो मासान् शम्भवे परमात्मने ।
दत्तं स्याद्विल्वपत्रैकं लक्षधेनुसमं सुराः ॥
मध्याह्नकाले ये मर्त्या विल्वं कुर्य्युः प्रदक्षिणम् ।
तैः सुमेरुर्गिरिवरः कृत एव प्रदक्षिणम् ॥
न च्छिन्द्यात् श्रीफलतरु न दहेत् काष्ठमेव च ।
विना ब्राह्मणयज्ञार्थं पतितो विल्वविक्रयी ॥
पक्वविल्वसमुद्घृष्टं यो धते मूर्द्ध्नि मानवः ।
यमाधिकारो नात्र स्यात् हृतः पापोपपातकैः ॥
विल्वपत्रं फलं बीजं भूमौ पतितमीश्वरः ।
स्वयं गृह्णाति शिरसा वैयर्थ्यभयशङ्कितः ॥
चैत्रादिचतुरो मासान् सिञ्चेद्विल्वतरु कृती ।
यथा स्निग्धो भवेद्वृक्षस्तथा तत्पितरोऽपि च ।
चैत्रादिचतुरो मासान् सदा भ्रमति शङ्करः ।
नवीनविल्वपत्रार्थी भुक्तिमुक्तिप्रदायकः ॥
हरिद्रानगरे यत्र वैद्यनाथो महेश्वरः ।
तत्राक्षयो विल्ववृक्षः स्वर्णवृक्ष उदाहृतः ॥
पृष्ठ ४/४२६
कामरूपे कामतरुः काश्यामुक्तस्तथादिमः ।
काञ्चीपुरे पुरः प्रोक्तः श्रीफलोऽक्षयपुण्यदः ।
तेऽपि तीर्थविशेषाः स्युस्तीर्थेष्वपि सदातुलाः ॥
देव्युवाच ।
एतस्मिन्नेव काले तु शम्भुरागत्य वै सखि ।
ब्रह्मणा विष्णुना पत्रैः पूजितः श्रीफलैरभूत् ॥
ततः सर्व्वे यथास्थानं जग्मुर्नारायणादयः ।
कथितोऽयं मया सख्यौ विल्ववृक्षस्तरूत्तमः ॥
अयं वां संप्रोक्तः शिवतरुकथापुण्यनिचयः
पवित्रः श्रोतव्यः श्रवणरमणीयः खलु सताम् ।
शिवे विष्णौ भेदापहरण उदारः सुमनसां
सुसेव्यः संपाव्यः प्रभवति शिवस्यापि निकटः ॥”
इति च बृहद्धर्म्मपुराणे विल्ववृक्षमाहात्म्यम्
११ अध्यायः ॥ * ॥ तन्त्रमते तस्योत्पत्तिर्यथा, --
देव्युवाच ।
“कथं सा विष्णुवनिता विल्ववृक्षो बभूव ह ।
ज्योतीरूपं मदंशं प्रार्थिता ब्रह्मादिभिः सदा ॥
तत्र मेऽनुग्रहाद्वाणी सर्व्वेषां प्रियतां गता ।
विष्णोरतिप्रिया नित्यं साभूत् सरस्वती सदा ॥
तादृक् प्रीतिर्न लक्ष्म्याञ्च जायते केशवस्य च ।
इतिचिन्तापरा लक्ष्मीर्ययौ श्रीशैलमन्दिरम् ॥
प्राप्य मल्लिङ्गमेकान्तं तपस्तेपेऽतिदारुणम् ।
तथापि यदि नैवाभूत् कृपा मे परमेश्वरि ॥
तदा सा वृक्षरूपेण स्थिता लिङ्गप्रिया सती ।
पत्रैः पुष्पैः फलैः स्वीयैः पूजयामास सन्ततम् ॥
कोटिवर्षं महादेवि ततो मेऽनुग्रहोऽभवत् ।
तेनैवानुग्रहेणैव विष्णोर्वक्षःस्थिताभवत् ॥
सदैव परमेशानि विप्रवश्या सदैव हि ।
अतस्तु कारणाद्देवि तद्रूपेण हरिप्रिया ॥
सदैव पूजयेन्मां सा मद्भक्ता सातुला शिवे ।
अतस्तं वृक्षमाश्रित्य तिष्ठामि च दिवानिशम् ॥
सर्व्वतीर्थमयो देवि सर्व्वदेवमयः सदा ।
श्रीवृक्षः परमेशानि अतएव न संशयः ॥ * ॥
तत्फलैस्तत्प्रसूनैर्व्वा तत्पत्रैर्यः प्रपूजयेत् ।
तत्काष्ठचन्दनैर्व्वापि स मे भक्तः स मे प्रियः ॥
तत्काष्ठचन्दनं भाले यो धारयति सम्भ्रमात् ।
तत्तनुं शिवबुद्ध्या सा नमेद्देवी मुदान्विता ॥
अतस्तच्चन्दनं देवि न धारयति कश्चन ।
तत्पत्रं तत्प्रसूनं वा कदापि धारयेन्नहि ॥
विल्वमूले महेशानि प्राणांस्त्यजति यो नरः ।
रुद्रदेहो भवेत् सत्यं पापकोटियुतोऽपि सन् ॥”
इति योगिनीतन्त्रे पूर्ब्बखण्डे ५ पटलः ॥ * ॥
अपि च ।
“विल्ववृक्षं तथा देवि भगवान् शङ्करः स्वयम् ।
विल्ववृक्षतले स्थित्वा यदि प्राणांस्तजेत् सुधीः ॥
तत्क्षणान्मोक्षमाप्नोति किन्तस्य तीर्थकोटिभिः ।
यत्र ब्रह्मादयो देवास्तिष्ठन्ति शक्तिहेतवे ॥
विल्ववृक्षतले स्थानं यदि विष्ठादिपूरितम् ।
तदेव शाङ्करं क्षेत्रं सर्व्वतीर्थमयं सदा ॥
सर्व्वपीठमयं तत्तु सर्व्वदेवमयं सदा ।
न त्यजेत् शाङ्करं क्षेत्रं न च गङ्गां त्यजेत्
प्रिये ॥
समीपे स च चार्व्वङ्गि विल्ववृक्षो यदि प्रिये ।
काशीपुरसमं तत्तु तत्र प्राणान् त्यजेद्यदि ।
किन्तस्य कोटितीर्थेन काशीवासेन किं प्रिये ॥”
इति पुरश्चरणरसोल्लासे १० पटलः ॥ * ॥
तद्दानविधिर्यथा, --
“पत्रं वा यदि वा पुष्पं फलं नेष्टमधोमुखम् ।
यथोत्पन्नं तथा देयं विल्वपत्राण्यधोमुखम् ॥”
इति मातृकातन्त्रे ५५ पटलः ॥
श्रीशिव उवाच ।
“शृणु देवि प्रवक्ष्यामि रहस्यं त्रिजटात्मकम् ।
पत्रं ब्रह्ममयं देवि अद्भुतं वरवर्णिनि ॥
श्रीशैलशिखरे जातः श्रीफलः श्रीनिकेतनः ।
विष्णुप्रीतिकरश्चैव मम प्रीतिकरः सदा ॥
ब्रह्मविष्णुशिवाः पत्रे वृन्तञ्च शक्तिरूपिणी ।
वृन्तमूले तु वज्रं स्यात् पत्रे ब्रह्मपदं प्रिये ॥
त्रिजटापत्रकैकेन हरं वा हरिमर्च्चयेत् ।
कैवल्यं तस्य तेनैव शक्तिपूजा विशेषतः ॥
पत्रं पुष्पं फलं तोयं नैवेद्यं धूपदीपकम् ।
दत्त्वा यद्यत् फलं प्राप्तं तस्मात् कोटिगुणं
भवेत् ॥
सर्व्वैरर्च्चनतो देवि त्रिजटामेकमर्पणम् ।
कैवल्यदो हरिश्चैव दास्येऽहं त्वां स्वरूपताम् ॥
त्वयि कैवल्यदं ज्ञानं धर्म्मकामार्थदं प्रिये ।
वज्रहीनमिदं देवि प्राप्नुयाद्वाञ्छितं फलम् ॥
सवज्रे म्रियते नूनं वज्राघातेन पार्व्वति ।
तस्माच्च साधकेन्द्रेण वज्रहीनं प्रदापयेत् ॥” * ॥
विल्वपत्रघ्राणग्रहणानन्तरगमनफलम् । यथा,
“ध्राणं गृहीत्वा यो गच्छेत् सर्व्वसिद्धिमवा-
प्नुयात् ।
ऊर्द्ध्वं सुदर्शनं रक्षेदधः पाशुपतस्तथा ।
पुरो माहेश्वरी रक्षेत् पृष्ठे च शूलधारिणी ।
दक्षपार्श्वे च श्रीनाथो वामपार्श्वे प्रजापतिः ।
चन्द्रसूर्य्यौ धृतौ छत्रमहं पादौ करौ सदा ॥”
इति ज्ञानभैरवतन्त्रे शिवपार्व्वतीसंवादे ६
पटलः ॥ (अस्य गुणाः यथा, --
“बालं विल्वफलं ग्राहि दीपनम्पाचनङ्कटु ।
कषायोष्णं लघु स्निग्धं तिक्तं वातकफापहम् ॥
पक्वं गुरु त्रिदोषं स्याद्दुर्ज्जरं पूतिमारुतम् ।
विदाहि विष्टम्भकरं मधुरं वह्निमान्द्यकृत् ॥
फलेषु परिपक्वं यद्गुणवत्तदुदाहृतम् ।
विल्वादन्यत्र विज्ञेयमामन्तद्धि गुणाधिकम् ।
द्राक्षाविल्वशिवादीनां फलं शुष्कं गुणाधि-
कम् ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

वि(बि)ल्वपेषिका, स्त्री, (विल्वस्य पेषिका ।)

शुष्कविल्वखण्डम् । वेलशुँठा इति भाषा ।
यथा, --
“कफवातामशूलघ्नी ग्राहिणी विल्वपेषिका ।”
इति राजनिर्घण्टः ॥

वि(बि)ल्वा, स्त्री, (विल्व + टाप् ।) हिङ्गुपत्री ।

इति राजनिर्घण्टः ॥ (गुणादयोऽस्या हिङ्गु-
पत्रीशब्दे ज्ञातव्याः ॥)

विवक्षा, स्त्री, वक्तुमिच्छा । सनन्तवचधातोरप्र-

त्ययेन निष्पन्नमिदम् । यथा । विवक्षावशात्
कारकाणि भवन्ति । इति व्याकरणटीका ॥
शक्तिः । यथा, --
“प्रकृत्यर्थोऽपि खल्वेतदुद्दिश्यस्य विशेषणम् ।
संख्यया तुल्यनीतित्वादविवक्षां प्रपद्यते ॥”
एत्येकादशीतत्त्वम् ॥

विवक्षितः, त्रि, वक्तुमिष्टः । सनन्तवचधातोः क्तप्र-

त्ययेन निष्पन्नमिदम् । शक्यार्थः । यथा । उपा-
देयगतायाः संख्याया विवक्षितत्वं युक्तम् । अनु-
पादेयगता संख्या न विवक्षिता । इति माधवा-
चार्य्यः । इत्येकादशीतत्त्वम् ॥

विवदमानः, त्रि, विवादकर्त्ता । विपूर्व्ववदधातोः

शानप्रत्ययेन निष्पन्नः ॥

विवधः, पुं, (विविधो वधो हननं गमनं वा यत्र ।)

पर्य्याहारः । स तु धान्यतण्डुलादिः । मार्गः ।
पन्थाः । इत्यमरभरतौ ॥ व्रीहितृणादेः पर्य्या-
हरणम् । इति स्वामी ॥ उपरितो बद्धशिक्य-
स्कन्धबाह्यकाष्ठम् । वाँक् इति ख्यातम् । इति
भानुदीक्षितः ॥ भारः । इति मुकुटधृतविश्वः ॥

विवधिकः, पुं, (विवधेन हरतीति । विवध +

“विभाषा विवधवीवधात् ।” ४ । ४ । १७ । इति
ष्ठन् ।) वैवधिकः । इत्यमरटीका सारसुन्दरी ॥

विवरं, क्ली, (विवृणोतीति । वि + वृ + पचाद्यच् ।)

छिद्रम् । इत्यमरः ॥ (यथा, रघुः । ११ । १८ ।
“यच्चकार विवरं शिलाघने
ताडकोरसि स रामसायकः ।
अप्रविष्टविषयस्य रक्षसां
द्वारतामगमदन्तकस्य तत् ॥”)
दोषः । इति मेदिनी ॥ (यथा, महाभारते ।
१ । १४१ । १७ ।
“एकाग्रः स्यादविवृतो नित्यं विवरदर्शकः ।
राजन्राज्यं सपत्नेषु नित्योद्विग्नः समाचरेत् ॥”
अवकाशः । यथा, भागवते । ५ । १० । १२ ।
“विशेषबुद्धेर्विवरं मबाक् च
पश्याम यन्न व्यवहारतोऽन्यत् ॥”)

विवरणं, क्ली, (वि + वृ + ल्युट् ।) व्याख्या ।

इति हलायुधः ॥

विवरनालिका, स्त्री, (विवरयुक्तं नालं यस्याः ।)

वेणुः । इति त्रिकाण्डशेषः ॥

विवर्णः, पुं, (विरुद्धो वर्णः ।) नीचः । इत्य-

मरः । २ । १० । १६ ॥ (यथा, मार्कण्डेये । ४१ । १० ।
“भैक्षचर्य्यव विवर्णेषु जघन्या वृत्तिरिष्यते ॥”
त्रि, विकृतो वर्णो यस्य ।) मलिनः ॥ (यथा,
रामायणे । २ । २६ । ८ ।
“विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम् ।
आह दुःखाभिसन्तप्ता किमिदानीमिदं प्रभो ॥”)

विवर्त्तः, पुं, (वि + वृत् + घञ् ।) समुदायः । अप-

वर्त्तनम् । नृत्यम् । इति विश्वः ॥ (प्रतिपक्षः ॥
यथा, नैषधे । ३ । ६४ ।
“ईशाणिमैश्वर्य्यविवर्त्तमध्ये
लोकेशलोकेशयलोकमध्ये ॥”
पृष्ठ ४/४२७
समवायिकारणविसदृशकार्य्योत्पत्तिः । यथा,
सांख्यतत्त्वकौमुद्याम् ।
“एकस्य सतो विवर्त्तः कार्य्यजातं नतु वस्तु
सत् ॥”)

विवर्त्तनं, क्ली, परिभ्रमणम् । विपूर्ब्बकवृतधातो-

रनट् (ल्युट्) प्रत्ययेन निष्पन्नम् ॥ (यथा,
किराते । ५ । ४० ।
“कथयति शिवयोः शरीरयोगं
विषमपदा पदवी विवर्त्तनेषु ॥”)

विवशः, त्रि, (विरुद्धं वष्टीति । वि + वश + अच् ।)

अवश्यात्मा । अरिष्टदुष्टधीः । इति मेदिनी ॥
द्वे आसन्नमरणसूचितलक्षणेन दूषितबुद्धौ ।
विरुद्धं वष्टि विवशः अल् । आसन्नमरणख्यापकं
लिङ्गमरिष्टम् । तेन दुष्टा धीर्यस्य स तथा ।
इत्यमरटीकायां भरतः ॥

विवस्वती, स्त्री, सूर्य्यनगरी । इति मेदिनी ॥

विवस्वान्, [त्] पुं, (विशेषेण वस्ते आच्छादय-

तीति । वि + वस् + क्विप् । विवस्तेजोऽस्या-
स्तीति । विवस् + मतुप् । मस्य वः । “तसौ
मत्वर्थे ।” १ । ४ । १९ । इति भत्वादुत्वाभावः ।)
सूर्य्यः । (यथा, क्रिराते । ५ । ४८ ।
“भवति दीप्तिरदीपितकन्दरा
तिमिरसंवलितेव विवस्वतः ॥”)
अर्कवृक्षः । इत्यमरः ॥ देवता । इति मेदिनी ॥
अरुणः । इति शब्दरत्नावली ॥ वैवस्वतमनुः ।
इत्यजयः ॥ (मनुष्यः । इति निघण्टुः । २ । ३ । २४ ॥
“वस निवासे इत्यस्यात् ‘अन्येभ्योऽपि दृश्यन्ते’
इति विच् । दृशिग्रहणात् भावे भवति । विविधं
वसनं विवः । तद्वन्तो विवस्वन्तः । सर्व्वस्यापि
मनुष्यस्य यत्किञ्चित् विवसनमस्ति ।” इति
तट्टीका ॥ * ॥ परिचरणशीले, त्रि । यथा,
ऋग्वेदे । १० । ६५ । ६ ।
“देवेभ्यो दाशद्धविषा विवस्वते ॥”
“हविषा अन्नेन देवान् विवस्वते परिचरते ।”
इति तद्भाष्ये सायणः ॥)

विवाकः, त्रि, विवेचनकर्त्ता । यथा, --

“अर्थिप्रत्यर्थिनोर्व्वचनं विरुद्धाविरुद्धं सभ्यैः
सह विविनक्ति विवेचयति वा विवाकः ।” इति
मिताक्षरा ॥

विवादः, पुं, विरुद्धो वादो विवादः । स च धन-

विभागादिविषयन्यायादिः । इति भरतः ॥
तत्पर्य्यायः । व्यवहारः २ । इत्यमरः ॥ ऋणादि-
न्यायः ३ । इति जटाधरः ॥
“ऋणादिदायकलहे द्वयोर्ब्बहुतरस्य वा ।
विवादो व्यवहारश्च द्बयमेतन्निगद्यते ॥”
इति शब्दरत्नावली ॥ * ॥
मात्रादिना विवादनिषेधो यथा, --
“आचरेत् सर्व्वधर्म्मं तद्विरुद्धन्तु न चाचरेत् ।
मातापित्रतिथीत्युच्चैर्विवादं नाचरेत् गृही ॥”
इति गारुडे ९६ अध्यायः ॥ * ॥
अष्टादश विवादस्थानानि यथा, --
“तेषामाद्यमृणादानं निःक्षेपोऽस्वामिविक्रयः ।
सम्भूय च समुत्थानं दत्तस्यानपकर्म्म च ॥
वेतनस्यैव चादानं संविदश्च व्यतिक्रमः ।
क्रयविक्रयानुशयो विवादः स्वामिपालयोः ॥
सीमाविवादधर्म्मश्च पारुष्ये दण्डवाचिके ।
स्तेयञ्च साहसञ्चैव स्त्रीसंग्रहणमेव च ॥
स्त्रीपुंधर्म्मो विभागश्च द्यूतमाह्वयमेव च ।
पदान्यष्टादशैतानि व्यवहारस्थिता विदुः ॥”
इति मनुः ॥
अस्यार्थः । स्वधनस्यान्यस्मिन्नर्पणरूपो निक्षेपः ।
अस्वामिना च कृतो विक्रयः । सम्भूय बणिगा-
दीनां क्रियानुष्ठानम् । दत्तस्य धनस्यापात्र-
बुद्ध्या क्रोधादिना वा ग्रहणम् । कर्म्मकारस्य
भृतेरदानम् । कृतव्यवस्थातिक्रमः । क्रये विक्रये
च कृते पश्चात् या विप्रतिपत्तिः । स्वामिपशु-
पालयोर्विवादः । ग्रामादिसीमाविप्रतिपत्तिः ।
वाक्पारुष्यं आक्रोशनादि । दण्डपारुष्यं ताड-
नादि । स्तेयं निह्नवेन धनग्रहणम् । साहसं
प्रसह्य धनहरणादि स्त्रियाश्च परपुरुषसम्पर्कः ।
स्त्रीसहितस्य पुंसो धर्म्मव्यवस्था । पैतृकादि-
धनस्य विभागः । द्यूतं अक्षादिक्रीडा । आहूय
पण्यव्यवस्थापूर्व्वकं पक्षिमेषादिप्राणियोधनम् ।
इति कुल्लूकभट्टः ॥ (कलहः । यथा, रघुः ।
७ । ५३ ।
“परस्परेण क्षतयोः प्रहर्त्रो-
रुत्क्रान्तवाय्वोः समकालमेव ।
अमर्त्त्यभावेऽपि कयोश्चिदासी-
देकाप्सरःप्रार्थितयोर्बिवादः ॥”)

विवादानुगतः, त्रि, (विवादं अनु गतः ।) विवाद-

कर्त्ता । यथा, मिताक्षरायाम् ।
“विवादानुगतं पृष्ट्वा ससभ्यस्तत् प्रयत्नतः ।
विचारयति येनासौ प्राड्विवाकस्ततः स्मृतः ॥”

विवादी, [न्] त्रि, (विवादोऽस्यास्तीति । विवाद

+ इनिः ।) विवादकर्त्ता । यथा, --
“अनुभावी च यः कश्चित् कुर्य्यात् साक्ष्यं
विवादिनाम् ॥”
इति व्यवहारतत्त्वम् ॥

विवाहः, पुं, (विशिष्टं वहनम् । वि + वह +

घञ् ।) उद्वाहः । दारपरिग्रहः । तत्पर्य्यायः ।
उपयमः २ परिणयः ३ उद्बाहः ४ उपयामः ५
पाणिपीडनम् ६ । इत्यमरः ॥ दारकर्म्म ७
करग्रहः ८ । इति शब्दरत्नावली ॥ पाणि-
ग्रहणम् ९ निवेशः १० पाणिकरणम् ११ ।
इति जटाधरः ॥ स चाष्टविधः । यथा, --
“ब्राह्म्यो विवाह आहूय दीयते शक्त्यलङ्कृता ।
तज्जः पुनात्युभयतः पुरुषानेकविंशतिम् ॥
यज्ञस्थायर्त्विजे दैवमादायार्षन्तु गोयुगम् ।
चतुर्द्दशप्रथमजः पुनात्युत्तरजश्च षट् ॥
इत्युक्त्वा चरतां धर्म्मं सह या दीयतेऽर्थिने ।
सकायः पावयेत्तज्जः षड्वंश्यांश्च सहात्मना ॥
आसुरो द्रषिणादानात् गान्धर्व्वः समयान्मिथः ।
राक्षसो युद्धहरणात् पैशाचः कन्यकाच्छलात् ॥”
इति याज्ञवल्क्यः ॥ * ॥
अपि च ।
“गृहीतविद्यो गुवरे दत्त्वा च गुरुदक्षिणाम् ।
गार्हस्थ्यमिच्छन् भूपाल कुर्य्याद्दारपरिग्रहम् ॥
वर्षैरेकगुणां भार्य्यामुद्वहेत्त्रिगुणः स्वयम् ।
नातिकेशामकेशां वा नातिकृच्छ्रां न पिङ्गलाम् ॥
निसर्गतोऽधिकाङ्गीं वा न्यूनाङ्गीमपि नोद्वहेत् ।
अविशुद्धां सरोगां वाकुलजां वातिरोगिणीम् ॥
न दुष्टां दुष्टवाचाटां वाङ्गिनीं पितृमातृतः ।
न श्मश्रुव्यञ्जनवतीं न चैव पुरुषाकृतिम् ॥
न घर्घरस्वरां क्षामवाक्यां काकस्वरां न च ।
नानिबद्धेक्षणां तद्वद्वृत्ताक्षीं नोद्ब हेद्बुधः ॥
यस्याश्च रोमशे जङ्घे गुल्फौ चैव तथोन्नतौ ।
कूपौ यस्या हसन्त्याश्च गण्डयोस्ताञ्च नोद्बहेत् ॥
नातिरूक्षच्छविं पाण्डुकरजामरुणेक्षणाम् ।
आपीनहस्तपादाञ्च न कन्यामुद्वहेद्बुधः ॥
न वामनां नातिदीर्घां नोद्वहेत् संहतभ्रुवम् ।
न चातिच्छिद्रदशनां न करालमुखीं नरः ॥
पञ्चमीं मातृपक्षाच्च पितृपक्षाच्च सप्तमीम् ।
गृहस्थश्चोद्वहेत् कन्यां न्यायेन विधिना नृप ॥
ब्राह्म्यो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ।
गान्धर्व्वराक्षसौ वान्यौ पैशाचश्चाष्टमोऽधमः ॥
एतेषां यस्य यो धर्म्मो वर्णस्योक्तो मनीषिभिः ।
कुर्व्वीत दाराहरणं तेनान्यं परिवर्ज्जयेत् ॥
स धर्म्मचारिणीं प्राप्य गार्हस्थ्यं सहितस्तया ।
समुद्बहेद्ददात्येतत् सम्यगूढं महाफलम् ॥”
इति विष्णुपुराणे ३ अंशे १० अध्यायः ॥ * ॥
अन्यच्च ।
याज्ञवल्क्य उवाच ।
“शृण्वन्तु मुनयो धर्म्मान् गृहस्थस्य यतव्रताः ।
गुरवे च धनं दत्त्वा स्नात्वा च तदनुज्ञया ॥
अविप्लुतब्रह्मचर्य्यो लक्षण्यां स्त्रियमुद्बहेत् ।
अनन्यपूर्व्विकां कान्तामसपिण्डां यवीयसीम् ॥
अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम् ।
पञ्चमात् सप्तमादूर्द्द्वं मातृतः पितृतस्तथा ॥
द्विपञ्चनवविख्यातात् श्रोत्रियाणां महाकुलात् ।
सवर्णः श्रोत्रियो विद्वान् वरदोषान्वितो न च ॥
यदुच्यते द्विजातीनां शूद्रादारोपसंग्रहः ।
न तन्मम मतं यस्मात्तत्रायं जायते स्वयम् ॥
तिस्रो वर्णानुपूर्ब्बेण द्बे तथैका यथाक्रमम् ।
ब्राह्मणक्षत्त्रियविशां भार्य्यां वा शूद्रजन्मनः ॥
ब्राह्मो विवाह आहूय दीयते शक्त्यलङ्कृता ।
तज्जः पुनात्युभयतः पुरुषानेकविंशतिम् ॥
यज्ञस्थायर्त्विजे दैवमादायार्षस्तु गोयुगम् ।
चतुर्द्दश प्रथमजः पुनात्युत्तरतश्च षट् ॥
इत्युक्त्वा चरतां धर्म्मं सह या दीयतेऽर्थिने ।
सकायः पावयेत्तज्जः षड्वंश्यानात्मना सह ॥
आसुरो द्रविणादानात् गान्धर्व्वः समयान्मिथः ।
राक्षसो युद्धहरणात् पैशाचः कन्यकाच्छलात् ॥
चत्वारो ब्राह्मणस्याद्यास्तथा गान्धर्व्वराक्षसौ ।
राज्ञस्तथासुरो वैश्ये शूद्रे चान्त्यस्तु गर्हितः ॥
पाणिर्ग्राह्यः सवर्णासु गृह्णीत क्षत्त्रिया शरम् ।
वैश्या प्रतोदमादद्याद्वेदने चाग्रजन्मनः ॥
पृष्ठ ४/४२८
पिता पितामहो भ्राता सकुल्यो जननी तथा ।
कन्याप्रदः पूर्ब्बनाशे प्रकृतिस्थः परः परः ॥
अप्रयच्छन् समाप्नोति भ्रूणहत्यामृतावृतौ ।
एषामभावे दातॄणां कन्या कुर्य्यात् स्वयंवरम् ॥
सकृत् प्रदीयते कन्या हरंस्तां चौरदण्डभाक् ।
अदुष्टां हि त्यजन् दण्ड्यः सुदुष्टां हि परि-
त्यजेत् ।”
इति गारुडे ९५ अध्यायः ॥ * ॥
अपरञ्च ।
यम उवाच ।
“कन्यां ये तु प्रयच्छन्ति यथाशक्त्या स्वल-
ङ्कृताम् ।
ब्रह्मदेयां द्विजश्रष्ठ ब्रह्मलोकं व्रजन्ति ते ॥
कन्यादानन्तु सर्व्वेषां दानानामुत्तमं स्मृतम् ॥
महान्त्यपि समृद्धानि गोऽजाविकधनान्यतः ।
स्त्रीसम्बन्धे दशेमानि कुलानि परिवर्ज्जयेत् ॥
हीनज्ञातिषु पाषण्ड मुने उद्वेगकारिणाम् ।
छद्मामयसदावाच्यचित्रिकुष्टिकुलानि च ॥
यस्यास्तु न भवेद्भ्राता न च विज्ञायते पिता ।
नोपयच्छेत तां प्राज्ञः पुत्त्रिकाधर्म्मशङ्कया ॥
चतुर्णामपि वर्णानां प्रेत्य चेह हिताय च ।
अष्टाविमान् समासेन स्त्रीविवाहान्निबोधत ॥
ब्राह्म्यो दैवस्तथा चार्षः प्राजापत्यस्तथासुरः ।
गान्धर्व्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः ॥
प्रसाद्य चार्च्चयित्वा च श्रुतशीलवते स्वयम् ।
दद्यात् कन्यां यथान्यायं ब्राह्म्यो धर्म्मः प्रकी-
र्त्तितः ॥ १ ॥
यज्ञे तु वितते सम्यगृत्विजे कर्म्म कुर्व्वते ।
अलङ्कृत्य तथा दानं दैवो धर्म्मः प्रशस्यते ॥ २ ॥
एकं गोमिथुनं द्वे वा वरादादाय धर्म्मतः ।
कन्यादानन्तु विधिवदार्षो धर्म्मः स उच्यते ॥ ३ ॥
सहोभौ चरतां धर्म्ममिति चैवानुभाष्य तु ।
कन्याप्रदानमभ्यर्च्च्य प्राजापत्यो विधिः स्मृतः ॥ ४ ॥
ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः ।
कन्याप्रदानं स्वाच्छन्द्यादासुरो धर्म्म उच्यते ॥ ५ ॥
इच्छयान्योन्यसंयोगात् कन्यायाश्च वरस्य च ।
गान्धर्व्वः स तु विज्ञेयो मिथुन्यः कामसञ्चरः ॥ ६ ॥
हत्वा जित्वा च भित्त्वा च प्रसह्य रुदतीं गृहात् ।
हरणं क्रियते यत्र राक्षसो विधिरुच्यते ॥ ७ ॥
सुप्ता मत्ता रहः कन्या छद्मना नीयते तु या ।
स पापिष्ठो विवाहानां पैशाचः प्रथितो-
ऽष्टमः ॥ ८ ॥
पञ्चानाञ्च त्रयो धर्म्मा द्वावधर्म्मौ द्बिजोत्तम ।
पैशाचश्चासुरश्चैव न कर्त्तव्यौ कदाचन ॥
चतुर्णामपि वर्णानामेष धर्म्मः सनातनः ।
पृथग्वा यदि वा मिश्रा कर्त्तव्या नात्र संशयः ॥
कन्यां ये तु प्रयच्छन्ति यथाशक्त्या स्वलङ्कृताम् ।
विवाहकाले संप्राप्ते यथोक्ते सदृशे वरे ।
क्रमात् क्रमं क्रतुशतमनुपूर्ब्बं लभन्ति ते ॥
श्रुत्वा कन्धाप्रदानन्तु पितरः प्रपितामहाः ।
विमुक्ताः सर्व्वपापेभ्यो ब्रह्मलोकं व्रजन्ति ते ॥
ब्राह्येण तु विवाहेन यस्तु कन्यां प्रयच्छति ।
ब्रह्मलोकं व्रजेच्छीघ्रं ब्रह्माद्यैः पूजितः सुरैः ॥
दिव्येन तु विवाहेन यस्तु कन्यां प्रयच्छति ।
भित्त्वा द्वारन्तु सूर्य्यस्य स्वर्गलोकञ्च गच्छति ॥
गान्धर्व्वेन विवाहेन यस्तु कन्यां प्रयच्छति ।
गन्धर्व्वलोकमासाद्य क्रीडते देववच्चिरम् ॥
शुल्कन दत्त्वा यो कन्यां तां पश्चात् सम्यगर्च्चयेत् ।
स किन्नरैश्च गन्धर्व्वैः क्रीडते कालमक्षयम् ॥
न मन्युं कारयेत् तासां पूज्याश्च सततं गृहे ।
ब्रह्मदेया विशेषेण ब्राह्मभोज्या सदा भवेत् ॥
कन्यायां ब्रह्मदेयायामभुञ्जन् सुखमश्नुते ।
अथ भुञ्जति यो मोहात् भुक्त्वा स नरकं व्रजेत् ॥ *
अप्रजायाञ्च कन्यायां न भुञ्जीयात् कदाचन ।
दौहित्रस्य मुखं दृष्ट्वा किमर्थमनुशोचसि ॥
महासत्त्वसमाकीर्णान्नास्ति ते नरकाद्भयम् ।
तीर्णस्त्वं सर्व्वदुःखेभ्यः परं स्वर्गमवाप्स्यसि ॥”
इत्याद्ये वह्निपुराणे तडागवृक्षप्रशंसानामा-
ध्यायः ॥ * ॥ विवाहकाले मिथ्यावचने दोषा-
भावो यथा, --
शर्म्मिष्ठोवाच ।
“न नर्म्मयुक्तं वचनं हिनस्ति
न स्त्रीषु राजन् न विवाहकाले ।
प्राणात्यये सर्व्वधनापहारे
पञ्चानृतान्याहुरपातकानि ॥”
इति मात्स्ये ३१ अध्यायः ॥ * ॥
विवाहे वर्णनीयानि यथा, --
“विवाहे स्नानशुभ्राङ्गभूषोलूलुत्रयोरवाः ।
देवी संगीततारेक्षा लाजमङ्गलवर्त्तनम् ॥”
इति कविकल्पलतायाम् १ स्तवके ३ कुसुमम् ॥ * ॥
अथ विवाहोक्तदिनानि । तत्राब्दादिशुद्धि-
र्यथा, --
“प्रसूत्याधानतः शुद्धिर्विषमेऽब्दे समे क्रमात् ।
विवाहे योषितां चन्द्रार्केज्यशुद्धिर्नृयोषितोः ॥
सभर्त्तृकक्रियारम्भे भर्त्तुर्गोचरशुद्धितः ।
यात्रोद्वाहे गर्भकृत्ये स्वशुद्ध्याप्नोति तत् फलम् ॥
प्रारभ्य जन्मसमयात् युवतेर्विवाह-
मोजाब्दकेषु मुनयः शुभमादिशन्ति ।
आधानतः प्रभृतितः समवत्सरेषु
प्रोक्तस्तयोर्न शुभदस्तु विलोमवर्षे ॥ * ॥
अयुग्मे दुर्भगा नारी युग्मे च विधवा भवेत् ।
तस्माद्गर्भान्विते युग्मे विवाहे सा पतिब्रता ॥
मासत्रयादूर्द्ध्वमयुग्मवर्षे
युम्मे च मासत्रयमेव यावत् ।
विवाहशुद्धिं प्रवदन्ति सर्व्वे
वात्स्यादयो ज्योतिषि जन्ममासात् ॥
युग्माब्दकेषु युवतेरपि जन्ममासात्
मासत्रयं विवहने परमब्दशुद्धिम् ।
प्राहुः समस्तमुनयो विषमे तु वर्षे
मासत्रयादुपरितः खलु जन्ममासात् ॥” * ॥
राजमार्त्तण्डे ।
“माङ्गल्येषु विवाहेषु कन्यासंवरणेषु च ।
दश मासाः प्रशस्यन्ते चैत्रपौषविवर्ज्जिताः ॥”
कन्यासंवरणे हस्तोदकविधौ ।
“दम्पत्योर्द्विनवाष्टराशिरहिते दारानुकूले रवौ
चन्द्रे चार्ककुजार्किशुक्रवियुते मध्येऽथवा
पापयोः ।
त्यक्त्वा च व्यतिपातवैधृतिदिनं विष्टिञ्च रिक्तां
तिथिं
क्रूराहायनचैत्रपौषरहिते लग्नांशके मानुषे ॥” *
योगविशेषे दोषविशेषानाह रत्नमालायाम् ।
“कुलोच्छेदो व्यतीपाते परिधे स्वामिघातिनी ।
वैधृतौ विधवा नारी विषदाहोऽतिगण्डके ॥
व्याघाते व्याधिसं घातः शोकार्त्ता हर्षणे तथा ।
शूले च व्रणशूलं स्यात् गण्डे रोगभयं तथा ॥
विष्कम्भेऽप्यहिदंशः स्यात् वज्रके मरणं भवेत् ।
एते वै दारुणाः सर्व्वे दश योगाः प्रकीर्त्तिताः ॥”
आश्वलायनः । उदगयने आपूर्य्यमाणे पक्षे
कल्याणे नक्षत्रे चौडकर्म्मोपनयनगोदान-
विवाहाः । विवाहः सार्व्वकालिक इत्येक इति ।
“आषाढे धनधान्यभोगरहिता नष्टप्रजा श्रावणे
वेश्या भाद्रपदे इषे च मरणं रोगान्विता
कार्त्तिके ।
पौषे प्रेतवती वियोगबहुला चैत्रे मदोन्मादिनी
अन्येष्वेव विवाहिता पतिरता नारी समृद्धा
भवेत् ॥
हरौ च सुप्ते न च दक्षिणायने
तिथौ च रिक्ते शशिनि क्षयं गते ॥
राजग्रस्ते तथा युद्धे पितॄणां प्राणसंशये ।
अतिप्रौढा च या कन्या नानुकूलं प्रतीक्षते ॥
अतिप्रौढा च या कन्या कुले धर्म्मविरोधिनी ।
अविशुद्धापि सा देया चन्द्रलग्नबलेन तु ॥
अयनस्योत्तरस्यादौ मकरं याति भास्करः ।
राशिं कर्कटकं प्राप्य कुरुते दक्षिणायनम् ॥”
इति विष्णुपुराणोक्तस्य चूडादावयनस्य परिग्रहः
दिनमानादिबोधे तु सिद्धान्तादयनपरिग्रहः ॥ * ॥
सार्व्वकालिक इत्यस्य विषयमाह भुजवलभीमे ।
“ग्रहशुद्धिमब्दशुद्धिं शुद्धिं मासायनर्त्तुदिव-
सानाम् ।
अर्व्वाक् दशवर्षेभ्यो भुनयः कथयन्ति कन्य-
कानाम् ॥
एतत्परन्तु विज्ञेयमङ्गिरोवचनं यथा ।
कालात्यये च कन्यायाः कालदोषो न विद्यते ॥
मलमासादिकालानां विवाहाद्ये प्रयत्नतः ।
पुंसः प्रति सदा दोषात् सर्व्वदैव हि वर्ज्ज्यता ॥”
कृत्यचिन्तामणौ ।
“वापीकूपतडागयागगमनक्षौरप्रतिष्ठाव्रतं
विद्यामन्दिरकर्णवेधनमहादानं वनं सेवनम् ।
तीर्थस्नानविवाहदेवभवनं मन्त्रादिदेवेक्षणं
दूरेणैव जिजीविषुः परिहरेदस्तं गते भार्गवे ॥”
बृहद्राजमार्त्तण्डे ।
“सर्व्वाणि शुभकर्म्माणि कुर्य्यादस्तं गते सिते ।
विवाहं मेखलाबन्धं यात्राञ्च परिवर्ज्जयेत् ॥”
यात्राञ्चेति चकारो वचनान्तरोक्तप्रातिष्विक-
निषिद्धकर्म्मान्तरं समुच्चिनोति ।
“बाले शुक्रे वृद्धे शुक्रे नष्टे शुक्रे जीवे नष्टे ।
पृष्ठ ४/४२९
बाले जीवे वृद्धे जीवे सिंहादित्ये गुर्व्वादित्ये ॥
तथा मलिम्लुचे मासि सुराचार्य्येऽतिचारगे ।
वापीकूपतडागादिक्रियाः प्रागुदितास्त्यजेत् ॥
अतीचारं गते जीवे वक्रे चैव बृहस्पतौ ।
कामिनी विधवा प्रोक्ता तस्मात्तौ परिवर्ज्जयेत् ॥
अतीचारं गतो जीवः पूर्ब्बभं नैव गच्छति ।
समचारेऽपि कर्म्माणि नैव तत्रैव संस्थिते ॥” * ॥
देवलः ।
“बाले वृद्धे तथैवास्ते कुरुते दैत्यमन्त्रिणि ।
उद्वाहितायां कन्यायां दम्पत्योरेव नाशनम् ॥
प्रागुद्गतः शिशुरहस्त्रितयं सितः स्यात्
पश्चाद्दशाहमिति पञ्चदिनानि वृद्धः ।
प्राक् पक्षमेव कथितोऽत्र वशिष्ठगर्गै-
र्जीवस्तु पक्षमपि वृद्धशिशुर्व्विवर्ज्यः ॥”
अत्यन्ताशक्तौ राजमार्त्तण्डः ।
“बाले वृद्धे च सन्ध्यांशे चतुःपञ्चत्रिवासरान् ।
जीवे च भार्गवे चैव विवाहादिषु वर्ज्जयेत् ॥
वक्रे चैवातिचारे त्रिदशपतिगुरौ देवपूज्ये च
सुप्ते
गुर्व्वादित्येऽधिमासे दिवसकररिपौ वाक्पतौ
चैत्रपौषे ।
विष्ट्यां केतूद्गमे वा शरदि सुरगुरौ सिंहसंस्थे
मनोज्ञे
वर्षादाप्नोति चोढा सुनियतमरणं देवकन्यापि
भर्त्तुः ॥” * ॥
शुक्रमधिकृत्य राजमार्त्तण्डे ।
“बाले च दुर्भगा नारी वृद्धे नष्टप्रजा भवेत् ।
नष्टे च मृत्युमाप्नोति सर्व्वमेतद्गुरावपि ॥
सिंहे गुरौ परिणीता पतिमात्मानमात्मजान्
हन्ति ।
क्रमशस्त्रिषु पित्रादिषु वशिष्ठगर्गादयः प्राहुः ॥
गुरौ हरिस्थे न विवाहमाहु-
र्हारीतगर्गप्रमुखा मुनीन्द्राः ।
यदा न माघी मघसंयुता स्यात्
तदा तु कन्योद्वहनं वदन्ति ॥”
अत्रैव माण्डव्यः ।
“मधाऋक्षं परित्यज्य यदा सिंहे गुरुर्भवेत् ।
तत्राब्दे कन्यका चोढा सुभगा सुप्रिया भवेत् ॥”
हारीतः ।
“अतीचारं गते जीवे वृषे वृश्चिककुम्भयोः ।
यज्ञोद्बाहादिकं कुर्य्यात् तत्र कालो न लुप्यते ॥”
कृत्यचिन्तामणौ ।
“अतीचारं गते जीवे वृषे वृश्चिककुम्भयोः ।
तत्र चोद्वाहिता कन्या संपृणीयात् कुलद्वयम् ॥”
सङ्केतकौमुद्यां भीमपराक्रमे ।
“यदातिचारं सुरराजमन्त्री
करोति गोमन्मथमीनसंस्थः ।
न याति चेद्यद्यपि पूर्ब्बराशिं
शुभाय पाणिग्रहणं वशिष्ठः ॥
अतीचारं गते जीवे स्थिरराशौ च संस्थिते ।
तत्र न लुप्यते कालो वदत्येवं पराशरः ॥
वापीकूपतडागादि निषिद्धं सिंहगे गुरौ ।
मकरस्थे च तत् कार्य्यं न दोषः काललोपजः ॥”
यत्तु ।
“कन्यावृश्चिकमेषेषु मन्मथे च झषे वृषे ।
अतिचारेऽपि कर्त्तव्यं विवाहादि बुधैः सदा ॥”
इत्येतदमूलं द्बैतनिर्णयेऽप्युक्तम् ॥ * ॥ दीपि-
कायाम् ।
“त्रिकोणजाया धनलाभराशौ
वक्रातिचारेण गुरुः प्रयातः ।
यदा तदा प्राह शुभे विलग्ने
हिताय पाणिग्रहणं वशिष्ठः ॥”
देवीपुराणम् ।
“मकरस्थो यदा जीवो वर्ज्जयेत् पञ्चमांशकम् ।
शेषेष्वपि च भागेषु विवाहः शोभनो मतः ॥”
भोजराजः ।
“यो जन्ममासे क्षुरकर्म्म यात्रां
कर्णस्य वेधं कुरुते च मोहात् ।
नूनं स रोगं धनपुत्त्रनाशं
प्राप्नोति मूढो वधबन्धनानि ॥
जातं दिनं दूषयते वशिष्ठ-
श्चाष्टौ च गर्गो जवनो दशाहम् ।
जन्माख्यमासं किल भागुरिश्च
चौडे विवाहे क्षुरकर्णवेधे ॥”
श्रीपतिसमुच्चये ।
“स्नानं दानं तपो होमः सर्व्वमङ्गल्यवर्द्धनम् ।
उद्वाहश्च कुमारीणां जन्ममासे प्रशस्यते ॥”
कृत्यचिन्तामणौ ।
“जन्ममासे च पुत्त्राढ्या धनाढ्या च धनोदये ।
जन्मभे जन्मराशौ च कन्या हि ध्रुवसन्ततिः ॥”
गर्गः ।
“ज्यैष्ठे मासि तथा मार्गे क्षौरं परिणयं व्रतम् ।
ज्येष्ठपुत्त्रदुहित्रोश्च यत्नतः परिवर्ज्जयेत् ॥”
अत्र ज्येष्ठत्वमादिगर्भजातत्वम् । तथा च ।
“जन्ममासि न च जन्मभे तथा
नैव जन्मदिवसेऽपि कारयेत् ।
आद्यगर्भभवपुत्त्रकन्ययो-
र्ज्यैष्ठमासि न च जातु मङ्गलम् ॥”
अत्र जन्ममासादौ पुत्त्रमात्रस्य निषेधः ज्यैष्ठ-
मासे तु ज्येष्ठपुत्त्रस्येति विशेषः ।
“कृत्तिकास्थं रविं त्यक्त्वा ज्यैष्ठे ज्येष्ठस्य कार-
येत् ।
उत्सवेषु च सर्व्वेषु दिनानि दश वर्ज्जयेत् ॥ * ॥
रेवत्युत्तररोहिणीमृगशिरोमूलानुराधामघा-
हस्तास्वातिषु तौलिषष्ठमिथुनेषूद्यत्सु पाणिग्रहः ।
सप्ताष्टान्त्यवहिःशुभैरुडुपतावेकादशद्बित्रिगे
क्रूरैस्त्र्यायषडष्टगैर्न तु भृगौ षष्ठे कुजे
चाष्टमे ॥”
ज्योतिर्व्विहितनक्षत्रात् अधिकं चित्राश्रवणा-
धनिष्ठाश्विनीनक्षत्रं पारस्करोक्तं यथा, --
“कुमार्य्याः पाणिं गृह्णीयात् त्रिषु त्रिषूत्तरा-
दिषु ॥”
उत्तरफल्गुन्यादित्रयोत्तराषाढादित्रयोत्तरभा-
द्रपदादित्रयेषु नवसु नक्षत्रेष्वित्यर्थः ॥ * ॥ भीम-
पराक्रमे ।
“पूर्व्वात्रये विशाखायां शिवाद्ये भचतुष्टये ।
ऊढा चाशु भवेत् कन्या विधवातो विवर्जयेत् ॥
विष्णुभाद्ये त्रिके चित्रे ज्येष्ठायां ज्वलने यमे ।
एभिर्व्विवाहिता कन्या भवत्येव सुदुःखिता ॥”
एवञ्च पारस्करोक्तं यजुर्व्वेदिविषयमापद्विषयं
वा बोध्यम् ॥ * ॥
“आद्ये मघाचतुर्भागे नैरृतस्याद्य एव च ।
रेवत्यन्तचतुर्भागे विवाहः प्राणनाशकः ॥
कर्णवेधे विवाहे च व्रते पुंसवने तथा ।
प्राशने चाद्यचूडायां विद्धमृक्षं विवर्ज्जयेत् ॥”
विद्धर्क्षन्तु ।
“तिथ्य १५ ङ्ग ६ वेदै १४ क १ दशो १० नविंश १९
भै २७ कादशा ११ ष्टादश १८ विंश २० संख्याः ।
इष्टोडुना सूर्य्ययुतोडुना च
योगादमूश्चेद्दशयोगभङ्गः ॥”
कर्म्मकालीननक्षत्रसूर्य्यभुज्यमाननक्षत्रयोर्मेलने
यदि पञ्चदशाद्यन्यतमसंख्या भवति तदा न
कर्म्मयोग्यमित्यर्थः । सप्तविंशाधिकत्वे सप्त-
विंशतिमपहाय शेषात् फलं अन्यथैकसंख्यानु-
पपत्तेः ॥ * ॥ अपवादस्तु ।
“आद्यपादे स्थिते सूर्य्ये तुरीयांशं प्रदुष्यति ।
द्वितीयस्थे तृतीयन्तु विपरीतमतोऽन्यथा ॥”
व्यक्तमाह स्वरोदये ।
“आद्यांशेन चतुर्थांशं चतुर्थांशेन चादिमम् ।
द्वितीयेन तृतीयन्तु तृतीयेन द्बितीयकम् ॥”
अत्रैव खर्ज्जूरवेधः । तथा च रत्नमाला ।
“एकामूर्द्ध्वगतां त्रयोदश तथा तिर्य्यग्गताः
स्थापयेत्
रेखाश्चक्रमिदं बुधैरभिहितं खार्ज्जूरिकं तत्र तु ।
व्याघातादि तु मूर्ध्नि भन्तु कथितं तत्रैकरेखा-
स्थयोः
सूर्य्याचन्द्रमसोर्म्मिथो निगदिता दृक्पात
एकार्गलः ॥”
व्याघातादीतिव्याघातयोगसंख्याङ्कस्त्रयोदशा-
ङ्कम् । तथा च हस्तादीनि नक्षत्राणि देया-
नीत्यर्थः ॥ * ॥ अथ सप्तशलाकावेधः । दीपि-
कायाम् ।
“कृत्तिकादिचतुःसप्तरेखाराशौ परिभ्रमन् ।
ग्रहश्चेदेकरेखास्थो वेधः सप्तशलाकजः ॥
सप्त सप्त विलिखेत् प्ररेखिका-
स्तिर्य्यगूर्द्ध्वमथ कृत्तिकादिकम् ।
लेखयेदभिजिता समन्वितं
चैकरेखगखगेन विध्यते ॥
वैश्यस्य चतुर्थेऽंशे श्रवणादौ लिप्तिकाचतुष्के
च ।
अभिजित्तस्थे खेचरे विज्ञेया रोहिणीविद्धा ॥”
लिप्तिकादण्डः ॥ * ॥
“यस्याः शशी सप्तशलाकभिन्नः
पापैरपापैरथवा विवाहे ।
रक्तांशुकेनैव तु रोदमाना
श्मशानभूमिं प्रमदा प्रयाति ॥”
पृष्ठ ४/४३०
अस्यापवादो यथा, राजमार्त्तण्डे ।
“विषप्रदिग्धेन हतस्य पत्रिणा
मृगस्य मांसं शुभदं क्षतादृते ।
यथा तथात्राप्युडुपाद एव
प्रदूषितोऽन्योडुपदं शुभावहम् ॥”
अथ पञ्चशलाकचक्रम् ।
“ऊर्द्ध्वं रेखास्थिताः पञ्च तिर्य्यक् पञ्च तथैव च ।
द्वे द्वे च कोणयो रेखे साभिजित् कृत्तिका-
दिकम् ॥
शम्भुकोणे द्वितीये तु लेखयेत् सर्व्वकर्म्मणि ।
क्रूरैर्भिन्नमथो सौम्यैर्नैक्षत्रं परिवर्ज्जयेत् ॥
नत्वापाते च ये दोषा ये च सप्तशलाकके ।
ते सर्व्वे प्रभवन्त्यत्र नाम्ना पञ्चशलाकके ॥
अथ चक्रान्वये कश्चित् पादवेध इहेष्यते ॥”
तदुक्तं रत्नमालायाम् । कैश्चित्तत्रापीष्यते पाद-
वेध इति । इति पञ्चशलाकाचक्रम् ॥ * ॥
रत्नमालायाम् ।
“ऋक्षं द्वादशमुष्णरश्मिरवनीसूनुस्तृतीयं गुरुः
षष्ठं चाष्टममर्कजस्तु पुरतो हन्ति स्फुटं नत्वया ।
पश्चात् सप्तममिन्दुजस्तु नवमं राहुः सितः
पञ्चमम् ।
द्वाविंशं परिपूर्णमूर्त्तिरुडुपः सन्ताडयेन्नेतरत् ॥”
नत्वापातोऽयम् ॥ * ॥
“पापात् सप्तमगः शशी यदि भवेत् पापेन
युक्तोऽथवा
यत्नात् तं परिवर्ज्जयेत् मुनिमतो दोषो ह्ययं
कथ्यते ।
यात्रायां विपदो गृहे सुतवधः क्षौरेषु रोगोद्भवो-
ऽप्युद्वाहे विधवा व्रते च मरणं शूलञ्च पुंस्क-
र्म्मणि ॥” * ॥
“रविमन्दकुजाक्रान्तं मृगाङ्कात् सप्तमं
त्यजेत् ।
विवाहयात्राचूडासु गृहकर्म्मप्रवेशने ॥”
यामित्रवेधः ॥ * ॥
“मूलत्रिकोणनिजमन्दिरगोऽथ पूर्णो
मित्रर्क्षसौम्यगृहगोऽथ तदीक्षितो वा ।
यामित्रवेधविहितानपहृत्य दोषान्
दोषाकरः शुभमनेकविधं विधत्ते ॥” * ॥
भोजराजः ।
“त्रिषड् दशैकादशगो दिनेशः
सुतार्थसौभाग्यशुभप्रदः स्यात् ।
वैधव्यदाताष्टमराशिसंस्थः
शेषेषु रुग्दुःखशुचः करोति ॥”
रविशुद्धिः ॥ * ॥
“कन्यानक्षत्रशुद्धौ स्याद्ब वाहः शुभकृन्नृणाम् ।
पश्चाद्भर्त्तुर्व्विशुद्ध्या तु यात्रापुष्पोत्सवादयः ॥”
विद्याधरीविलासे ।
“पुंसामर्कः स्मृतो योनिर्योषिताममृतद्युतिः ।
अतः पुंयोषितोः शस्तं वलमर्कशशाङ्कजम् ॥
गोचरथद्बाविन्दुं कन्याया यत्नतः शुभं वीक्ष्य ।
तिग्मकिरणञ्च पुंसः शेषैरबलैरपि विवाहः ॥
द्वितीयपुत्त्राङ्कगतः प्रभाकरः
त्रयोदशाहात् परतः शुभप्रदः ।
न जन्मसप्तव्ययरन्ध्रगस्तथा
करोति पुंसामपि तादृशं फलम् ॥”
तथा त्रयोदशाहात् परतः ॥ * ॥
“त्रयोदशदिनान्यर्को दश षड्धरणीसुतः ।
सार्द्धं दिनञ्च शीतांशुर्मासमेकादशं तमः ॥
सौरिः पादाधिकं वर्षं मासानष्टौ बृहस्पतिः ।
भवनार्द्धं भृगुः सौम्यो यावद्राश्यशुभाः फलम् ॥
कष्टं व्रतादिके दद्युर्न तथा शेषभागगाः ॥ * ॥
लग्ने तत्पञ्चमे तूर्य्ये नवमे दशमे तथा ।
गुरुर्भृगुर्व्वा दोषघ्नो विवाहे वर्द्धते शुभम् ॥”
अयमेव सुतहिवुकयोगः ॥ * ॥
“गोधूलिं त्रिविधां वदन्ति मुनयो नारीविवा-
हादिके
हेमन्ते शिशिरे प्रयाति मृदुतां पिण्डीकृते
भास्करे ।
ग्रीष्मेऽर्द्धास्तमिते वसन्तसमये भानौ गते
दृश्यतां
सूर्य्ये चास्तमुपागते च नियतं प्रावृट्शरत्-
कालयोः ॥ * ॥
लग्नं यदा नास्ति विशुद्धमन्यद्-
गोधूलिकां तत्र शुभां वदन्ति ।
लग्ने विशुद्धे सति वीर्य्ययुक्ते
गोधूलिका नैव फलं विधत्ते ॥ * ॥
नास्मिन् ग्रहा न तिथयो न च विष्टिवारा
ऋक्षाणि नैव जनयन्ति कदापि विघ्नम् ।
अव्याहतः सततमेव विवाहकाले
यात्रासु चायमुदितो भृगुजेन योगः ॥ * ॥
मार्गे गोधूलियोगे प्रभवति विधवा माघमासे
तथैव
पुत्त्रायुर्धनयौवनेन सहिता कुम्भे स्थिते
भास्करे ।
वैशाखे सुखदा प्रजाधनवती ज्यैष्ठे पतेर्म्मानदा
आषाढे धनधान्यपुत्त्रबहुला पाणिग्रहे
कन्यका ॥” * ॥
विवाहपटले ।
“व्यूढा धनुषि च कुलटा तत्पूर्व्वार्द्धे सतीत्यपरे
जगुः ॥” * ॥
ज्योतिःसारस ग्रहे ।
“विवाहे तु दिवाभागे कन्या स्यात् पुत्त्र-
वर्ज्जिता ।
विरहानलदग्धा सा नियतं स्वामिघातिनी ॥ * ॥
महाभारते ।
“रात्रौ दानं न शंसन्ति विना चाभकदक्षि-
णाम् ।
विद्यां कन्यां द्विजश्रेष्ठा दीपमन्नं प्रतिश्रयम् ॥” *
व्यासः ।
“रिक्तासु विधवा कन्या दर्शेऽपि स्याद्बिवा-
हिता ।
शनैश्चरदिने चैव यदा रिक्ता तिथिर्भवेत् ।
तस्मिन् विवाहिता कन्या पतिसन्तानवर्द्धिता ॥”
स्मृतिः ।
“धर्म्मार्थकाममोक्षाणां दाराः संप्राप्तिहेतवः ।
परीक्ष्यन्ते प्रयत्नेन पूर्व्वमेव करग्रहात् ॥” * ॥
मनुः ।
“अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् ।
तनुलोमकेशदशनां मृद्वङ्गीमुद्वहेत् स्त्रियम् ॥” *
शातातपः ।
“हंसस्वनां मेघवर्णां मधुपिङ्गललोचनाम् ।
तादृशीं वरयेत् कन्यां गृहस्थः सुखमेधते ॥” * ॥
भविष्ये ।
“प्रतिष्ठिततलाः सम्यक् रक्ताम्भोजसमत्विषः ।
तादृशाश्चरणा धन्या योषितां भोगवर्द्धनाः ॥”
प्रतिष्ठितो भूमौ लग्नः समस्तलोऽधोभागो येषां
ते तथा ॥ * ॥ मनुः ।
“नोद्वहेत् कपिलां कन्यां नाधिकाङ्गीं न
रोगिणीम् ।
नालोभिकां नातिलोम्नीं न वाचाटां न पिङ्ग-
लाम् ॥
नर्क्षवृक्षनदीनाम्नीं नान्त्यपर्व्वतनामिकाम् ।
न पक्ष्यहिप्रैष्यनाम्नीं न च भीषणनामिकाम् ॥”
प्रतिप्रसवमाह मत्स्यसूक्ते ।
“गङ्गा च यमुना चैव गोमती च सरस्वती ।
नदीष्वासां नाम वृक्षे मालती तुलसी अपि ।
रेवती चाश्विनी भेषु रोहिणी शुभदा भवेत् ॥”
कृत्यचिन्तामणौ ।
“नेत्रे यस्याः केकरे पिङ्गले वा
स्याद्दुःशीला श्यावलोलेक्षणा च ।
कूपो यस्या गण्डयोः सस्मिताया
निःसन्दिग्धां बन्धकीं तां वदन्ति ॥” * ॥
नन्दिकेश्वरपुराणे ।
“श्यामा सुकेशी तनुलोमराजी
सुभ्रूः सुशीला सुगतिः सुदन्ता ।
वेदीविमध्या यदि पङ्कजाक्षी
कुलेन हीनापि विवाहनीया ॥
धृष्टा कुदन्ता यदि पिङ्गलाक्षी
लोम्ना समाकीर्णसमाङ्गयष्टिः ।
मध्ये च पुष्टा यदि राजकन्या
कुलेऽपि योग्या न विवाहनीया ॥” * ॥
हारीतः ।
“तस्मात् कुलनक्षत्रविज्ञानोपपन्नां वरयेत् ।”
नक्षत्रोपपन्नां नाडीनक्षत्रहीनाम् ॥ * ॥
नाडीनक्षत्रमाह स्वरोदये ।
“अश्विन्यादि लिखेच्चक्रं सर्पाकारं त्रिनाडिकम् ।
तत्र वेधवशाज्ज्ञेयं विवाहादि शुभाशुभम् ॥
त्रिनाडीवेधनक्षत्रमश्विन्यार्द्रायुगोत्तरा ।
हस्तेन्द्रमूलवारुण्यः पूर्ब्बभाद्रपदास्तथा ॥
याम्यः सौम्यो गुरुर्योनिश्चित्रा मित्रजलाह्वयम् ।
धनिष्ठा चोत्तराभद्रा मध्यनाडीव्यवस्थिताः ॥ * ॥
कृत्तिका रोहिणी सर्पो मघा स्वातीविशा-
खके ।
उत्तरा श्रवणा पौष्णं पृष्ठनाडीव्यवस्थिताः ॥ * ॥
अश्व्यादिनाडीवेधर्क्षे षष्ठं द्वितीयकं क्रमात् ।
पृष्ठ ४/४३१
याम्यादितूर्य्यतूर्य्यञ्च कृत्तिकादिद्बिषट्ककम् ॥
एवं निरीक्षयेद्वेधं कन्यामन्त्रे सुरे गुरौ ।
पण्यश्रीस्वामिमित्रेषु देशे ग्रामे पुरे गृहे ॥
एकनाडीस्थधिष्टानि यदि स्युर्व्वरकन्ययोः ।
तदा वेधं विजानीयात् गुर्व्वादिषु तथैव च ॥
प्रकटं यस्य जन्मर्क्षं तस्य जन्मर्क्षतो व्यधः ।
प्रनष्टं जन्मभं यस्य तस्य नामर्क्षतो वदेत् ॥
द्वयोर्जन्मभयोर्वेधो द्बयोर्नामभयोस्तथा ।
नामजन्मर्क्षयोर्वेधो न कर्त्तव्यं कदाचन ॥
एकनाडीस्थिता चेत् स्यात् भर्त्तर्नाशाय
चाङ्गना ।
तस्मान्नाडीव्यधो वीक्ष्यो विवाहे शुभमिच्छता ॥
प्राङनाड्या वेधतो भर्त्ता मध्यनाड्योभयं
तथा ।
पृष्ठनाडीव्यधे कन्या म्रियते नात्र संशयः ॥
एकनाडीस्थिता यत्र गुरुर्म्मन्त्रश्च देवताः ।
तत्र द्वेषं रुजं मृत्युं क्रमेण फलमादिशेत् ॥
प्रभुः पण्याङ्गनामित्रं देशो ग्रामः पुरं गृहम् ।
एकनाडीगता भव्या अभव्या वेधवर्ज्जिताः ॥”
प्रतिप्रसवमाह ज्योतिषे ।
“एकराश्यादियोगे तु नाडीदोषो न विद्यते ॥”
स यथा ।
“एकराशौ च दम्पत्योः शुभं स्यात् समसप्तके ।
चतुर्थे दशमे चैव तृतीयैकादशे तथा ॥”
समग्रहणाद्विषमसप्तके दोषः । तथा च ।
“योटके सप्तके मेषतुले युग्महयौ तथा ।
सिंहघटौ सदा वर्ज्यौ मृतिं तत्राब्रवीच्छिवः ॥”
श्रीपतिव्यवहारनिर्णये ।
“सुहृदेकाधिपयोगे ताराबले वश्यराशौ वा ।
अपि नाड्यादिवेधे भवति विवाहो हितार्थाय ॥”
राजमार्त्तण्डे ।
“न राजयोगे ग्रहवैरिता च
न तारशुद्धिर्न गणत्रयं स्यात् ।
न नाडिदोषो न च वर्णदुष्टि-
र्गर्गादयस्ते मुनयो वदन्ति ॥” * ॥
राजयोगस्तु एकराश्यादियोग एव तत्रैव
नाड्यादिप्रतिप्रसवात् ॥ श्रीपतिरत्नमालायाम् ।
“अश्वे भाजफणिद्बयञ्च वृषभुङ्मेषोन्दुरुर्मूषिक-
श्चाखुर्गौः क्रमशस्ततोऽपि महिषी व्याघ्रः पुनः
सौरभी ।
व्याघ्रेणौ मृगकुक्कुरौ कपिरथोरभ्रद्वयं वानरः
सिंहोऽश्वो मृगराट् पशुश्च करटी योनिश्च
भानामियम् ॥
गोव्याघ्रं गजसिंहमश्वमहिषं श्वैणञ्च वभ्रूरगं
वैरं वानरमेषकञ्च सुमहत्तद्वद्विडालोन्दुरुम् ।
लोकानां व्यवहारतोऽन्यदपि च ज्ञात्वा प्रय-
त्नादिदं
दम्पत्योर्नृपभृत्ययोरपि सदा वर्ज्यः शुभस्या-
र्थिभिः ॥
मकरसमेतं मिथुनं कन्याकलसौ मृगेन्द्रमीनौ च ।
वृषभतुलेऽलिमेषौ कर्कटधनुषी च मित्रविधौ ॥”
षडष्टकावितिशेषः ॥ * ॥ अरिषडष्टकमाह ।
“मकरः करिकुलरिपुणा
कन्या मेषेण सह झषस्तुलया ।
कर्किघटौ वृषधनुषी
वृश्चिकमिथुने चारिविधौ ॥ * ॥
यदि कन्याष्टमे भर्त्ता भर्त्तुः षष्ठे च कन्यका ।
षडष्टकं विजानीयाद्वर्ज्जितं त्रिदशैरपि ॥ * ॥
पुंसो गृहात् सुतगृहे सुतहा च कन्या
धर्म्मे स्थिता सुतवती पतिवल्लभा च ।
द्विद्वादशे धनगृहे धनहा च कन्या
ऋप्फे स्थिता धनवती पतिवल्लभा च ॥”
षडष्टकादौ तारानियममाह भीमपराक्रमः ।
“सौहृद्ये ह्युभयोर्द्वयोरपि तयोरैकाधिपत्येऽपि
वा
तारा षष्ठसुमित्रमित्रदहनक्षेमार्थसम्पद्यदि ।
षट्काष्टे नवपञ्चमे व्ययधने योगे च पुंयोषितोः
प्रीत्यायुःसुखवृद्धिपुष्टिजनकः कार्य्यो विवाह-
स्तदा ॥” * ॥
गर्गः ।
“मरणं ताराविरोधे ग्रहरिपुभावे चिरेण ।
रोगादि नरनार्य्योः षट्काष्टके वैरमवश्यं भवे-
दाशु ॥” * ॥
व्यासः ।
“मैत्रादियोगेऽपि षडष्टकादौ
तारा विपत्प्रत्यरिनैधनाख्याः ।
वर्ज्या विवाहे पुरुषोडुतो हि
प्रीतिः परा जन्मसु तारकासु ॥
नक्षत्रमेकं यदि भिन्नराशि-
र्न दम्पती तत्र सुखं लभेताम् ।
विभिन्नमृक्षं यदि चैकराशि-
स्तदा विवाहः सुतसौख्यदायी ॥”
एकर्क्षा च यदा कन्या राश्येका च यदा
भवेत् ।
धनपुत्त्रवती नारी साध्वी भर्त्तृप्रिया सदा ॥
षडष्टके गोमिथुनं प्रदेयं
कांस्यं सरूप्यं नवपञ्चके तु ।
द्विद्वादशाख्ये कनकान्नताम्रं
विप्रार्च्चनं हेम च नाडीदोषे ॥
मरणं नाडीदोषे कलहः षट्काष्टके विप-
त्तिर्वा ।
अनपत्यता त्रिकोणे द्विद्वादशे च दारिद्य्रम् ॥” * ॥
कृत्यचिन्तामणौ ।
“हस्तास्वातिश्रुतिमृगशिरःपुष्यमैत्राश्विभानि
पौष्णादित्ये जमुरिह बुधा देवसंज्ञानि भानि ।
पूर्ब्बास्तिस्रः शिवभभरणीरोहिणी चोत्तराश्च
प्राहुर्मर्त्याह्वयमुडुगणं नूनमेतं मुनीन्द्राः ॥
चित्राश्लेषानिरृतिपितृभे वासवं वासवर्क्षं
शक्राग्न्योर्भे वरुणदहनर्क्षे च रक्षोगणोऽयम् ॥”
फलमाह श्रीपतिः ।
“स्वकुले चोत्तमा प्रीतिर्मध्यमा देवमानुषे ।
देवासुरे कनिष्ठा च मृत्युर्मानुषराक्षसे ॥
राक्षसी च यदा कन्या मानुषश्च वरो भवेत् ।
तदा मृत्युर्न दूरस्थो निर्घनत्वमथापि वा ॥”
राजमार्त्तण्डे ।
“यदि स्याद्राक्षसो भर्त्ता कन्यका मानुषी भवेत् ।
विवाहे सुखमाप्नोति वैपरीत्यं विवर्ज्जयेत् ॥”
युद्धजयार्णवे ।
“देवा जयन्ति युद्धेन सर्व्वथा नात्र संशयः ।
रक्षसां मानुषाणाञ्च संग्रामे निश्चया मृतिः ॥
कर्किमीनालयो विप्राः क्षत्त्राः सिंहतुलाहयाः ।
वैश्या युग्माजकुम्भाख्याः शूद्रा वृषमृगाङ्गनाः ॥
सर्व्वाः परिणयेद्विप्रः क्षत्त्रियो नवभाग्भवेत् ।
षडाश्रयो भवेद्वैश्यस्तिस्रः शूद्रे प्रकीर्त्तिताः ॥
वर्णश्रेष्ठा च या नारी हीनवर्णश्च यः पुमान् ।
महत्यपि कुले जाता नासौ भर्त्तरि रज्यते ॥”
इति ज्योतिस्तत्त्वम् ॥ * ॥
अन्यत् उद्वाहशब्दे द्रष्टव्यम् ॥ * ॥ * ॥ तत्प्रयोग
यथा । अथ कृतवृद्धिश्राद्धः संप्रदाता लग्नसमये
संप्रदानशालायां गत्वा उत्तरतः स्त्रीगवीं बद्ध्वा
विष्टरादिकं सज्जीकृत्य पश्चिमाभिमुखोऽनुप-
विष्टस्तिष्ठेत् । ततोऽग्रत उपस्थिते वरे संप्रदाता
कृताञ्जलिर्वरणं कुर्य्यात् । ॐ साधु भवानास्ता-
मिति पृच्छेत् । जामाता ॐ साध्वहमासे
इति वदेत् संप्रदाता ॐ अर्च्चयिष्यामो भवन्तं
इति पृच्छेत् । जामाता ॐ अर्च्चय इति वदेत् ।
ततः संप्रदाता पाद्यार्घ्याचमनीयगन्धमाल्य-
यथाशक्त्यङ्गुरीयसपट्टकयज्ञोपवीतसपर्णपूगा-
दिकं प्रदाय जामातरमर्च्चयेत् । ततः संप्रदाता
दक्षिणं जानु धृत्वा ॐ अद्येत्यादि अमुक-
गोत्रस्यामुकप्रवरस्यामुकदेवशर्म्मणः प्रपौत्त्रं
अमुकगोत्रस्यामुकप्रवरस्यामुकदेवशर्म्मणःपौत्त्रं
अमुकगोत्रस्यामुकप्रवरस्यामुकदेवशर्म्मणः पुत्त्रं
अमुकगोत्रं अमुकप्रवरं अमुकदेवशर्म्माणं
अमुकगोत्रस्यामुकप्रवरस्यामुकदेवशर्म्मणः प्र-
पौत्त्रीं अमुकगोत्रस्यामुकप्रवरस्यामुकदेव-
शर्म्मणः पौत्त्रीं अमुकगोत्रस्यामुकप्रवरस्य
अमुकदेवशर्म्मणः पुत्त्रीं अमुकगोत्रां अमुक-
प्रवरां श्रीअमुकीदेवीं एनां कन्यां शुभविवाहेन
दातुं एभिः पाद्यादिभिः अभ्यर्च्य भवन्तमहं
वृणे । जामाता ॐ वृतोऽस्मि इति वदेत् ।
संप्रदाता यथाविहितं विवाहकर्म्म कुरु ।
जामाता ॐ यथाज्ञानतः करवाणीति वदेत् ।
ततः स्त्र्याचारादिकं कारयित्वा मुखचन्द्रिकां
कारयेत् । ततोऽग्रे उपस्थिते वरे संप्रदाता
अमुं मन्त्रं जपति । प्रजापतिरृषिरनुष्टुप्
छन्दोऽर्हणीया गौर्देवता गवोपस्थापने विनि-
योगः । ॐ अर्हणा पुत्त्रवाससा धेनुरभवद्य
मे सा नः पयस्वती दुहा मुत्तरा मुत्तरां
समाम् । ततो जामाता प्रजापतिरृषिर्गायत्त्री
च्छन्दो विराड्देवता उपविशदर्हणीयजपे
विनियोगः । ॐ इदमहमिमां पद्यां विराज-
मन्नाद्यायाधितिष्ठामि । इमं मन्त्रं जपन्नासने
प्राङ्मुख उपविशति । ततः संप्रदातापि पश्चि-
माभिमुख उपविशेत् । ततो दाता साग्रपञ्च-
विंशतिकुशपत्रैः द्विर्वामाधोमुखग्रन्थिं रचितं
पृष्ठ ४/४३२
विष्टरं उत्तराग्रं उत्तानहस्ताभ्यां गृहीत्वा
ॐ विष्टरो विष्टरो विष्ठरः प्रतिगृह्यतामित्याद-
धानो विष्टरमर्पयति । जामाता च ॐ विष्टरं
प्रतिगृह्णामि इति विष्टरं गृहीत्वा प्रजापति-
रृषिरनुष्टुप्छन्द ओषध्यो देवता विष्टरस्यासन-
दाने विनियोगः ।
“ॐ या ओषधीः सोमराज्ञीर्ब्बह्वीः शतविच
क्षणाः ।
ता मह्यमस्मिन्नासने अच्छिद्राः शर्म्म यच्छत ॥”
इत्यासने विष्टरमुत्तराग्रं दत्त्वा उपविशति ।
ततः सम्प्रदाता पुनस्तादृशमेव विष्टरं गृहीत्वा
ॐ विष्टरो विष्टरो विष्टरः प्रतिगृह्यतामिति
तथैव पुनरर्पयति । जामाता च ॐ विष्टरं
प्रतिगृह्णामीति तथैव गृहीत्वा प्रजापतिरृषि-
रनुष्टुप् छन्द ओषध्यो देवता विष्टरस्य पादयो-
रधस्ताद्दाने विनियोगः ।
“ॐ या ओषधीः सोमराज्ञीर्व्विष्ठिताः
पृथिवीमनु ।
ता मह्यमस्मिन् पादयोरच्छिद्राः शर्म्म यच्छत ॥”
इति पादयोरधस्तादुत्तराग्रं विष्टरं स्थापयेत् ॥
ततः सम्प्रदाता पानीयपात्रं गृहीत्वा ॐ पाद्याः
पाद्याः पाद्याः प्रतिगृह्यन्तामिति पानीयपात्र-
मर्पयति । जामाता ॐ पाद्यं प्रतिगृह्णामीति
गृहीत्वा प्रजापतिरृषिर्व्विराड्गायत्त्री च्छन्द
आपो देवता पादप्रक्षालनार्थोदकवीक्षणे
विनियोगः । ॐ यतो देवीः प्रतिपस्याम्याप-
स्ततो मा ऋद्धिरागच्छतु । अनेनोदकं वीक्षेत् ।
ततो जामाता तस्मात् पात्रादुदकं गृहीत्वा
प्रजापतिरृषिर्व्विराड्गायत्त्री च्छन्दः श्रीर्द्देवता
सव्यपादप्रक्षालने विनियोगः ॐ सव्यं पादमवने-
निजे अस्मिन्राष्ट्रे श्रियं दधे । अनेन वामपादे
उदकाञ्जलिं दद्यात् । ततोऽपरमञ्जलिं गृहीत्व
प्रजापतिरृषिर्ब्बिराड्गायत्त्री च्छन्दः श्रीर्द्देवता
दक्षिणपादप्रक्षालने विनियोगः । ॐ दक्षिणं
पादमवनेनिजे अस्मिन्राष्ट्रे श्रियमाबेशयामि ।
अनेन दक्षिणपादे उदकाञ्जलिं दद्यात् । ततः
पुनरुदकाञ्जलिं गृहीत्वा प्रजापतिरृषिर्विराड्-
गायत्त्री च्छन्दः श्रीर्द्देवता उभयपादप्रक्षालने
विनियोगः । ॐ पूर्ब्बमन्यमपरमन्यमुभौ पादाव-
घनेनिजे राष्ट्रस्यर्द्ध्या अभयस्यावरुद्ध्यै । अनेन
पादद्वये उदकाञ्जलिं दद्यात् । ततः सम्प्रदाता
साक्षतदूर्व्वापल्लवान् शङ्खादिपात्रे निधाय ।
ॐ अर्घ्यमर्घ्यमर्घ्यं प्रतिगृह्यताम् । इत्यभि-
धायार्घ्यमर्पयति । जामाता च ॐ अर्घ्यं प्रति-
गृह्णामीति गृहीत्वा प्रजापतिरृषिरर्घ्यं देवता
अर्घ्यप्रतिग्रहणे विनियोगः । ॐ अन्नस्य राष्ट्रि-
रसि राष्ट्रिस्ते भूयासम् । अनेनार्घ्यं शिरसि
दद्यात् । ततः सम्प्रदाता उदकपात्रं गृहीत्वा ।
ॐ आचमनीयमाचमनीयमाचमनीयं प्रति-
गृह्यतां इत्युदकपात्रमर्पयति । जामाता च
ॐ आचमनीयं प्रतिगृह्णामीति गृहीत्वा प्रजा-
पतिरृषिराचमनीयं देवता आचमनीयाचमने
विनियोगः । ॐ यशोऽसि यशो मयि धेहि ।
अनेनोत्तराभिमुखीभूयाचामेत् । ततः सम्प्र-
दाता घृतदधिमधुयुक्तं कांस्यपात्रं कांस्यपात्रा-
न्तरेणापिधाय गृहीत्वा ॐ मधुपर्क्को मधुपर्क्को
मधुपर्क्कः प्रति गृह्यतामिति मधुपर्क्कं समर्पयति ।
जामाता च ॐ मधुपर्क्कं प्रतिगृह्णामीति गृहीत्वा
प्रजापतिरृषिर्म्मधुपर्क्को देवता अर्हणीयमधु-
पर्क्कग्रहणे विनियोगः । ॐ यशसो यशोऽसि ।
अनेन मधुपर्क्कं गृहीत्वा भूमौ निधाय प्रजा-
पतिरृषिर्म्मधुपर्क्को देवता अर्हणीयमधुपर्क्क-
प्राशने विनियोगः । ॐ यशसो भक्ष्योऽसि
महसो भक्ष्योऽसि श्रीर्भक्ष्योऽसि श्रियं मयि धेहि ।
अनेन मन्त्रेण वारत्रयं भक्षयित्वा सकृत् तूष्णीं
भक्षयेत् । ततो जामाता आचान्तो मङ्गलौ-
षधिलिप्तेन दक्षिणहस्तेन तादृशमेव कन्याया
दक्षिणहस्तं स्वहस्तोपरि निदध्यात् । ततः
सौभाग्यपतिपुत्त्रवती नारी मङ्गलपूर्ब्बकं कुशेन
हस्तद्वयं वध्नाति । ततः सम्प्रदाता तिलकुश-
सहितमुदकपात्रं गृहीत्वा वामहस्तेनार्च्चितां
कन्यां धृत्वा ओमद्यामुके मासि अमुकराशिस्थे
भास्करे अमुके पक्षे अमुकतिथौ अमुकगोत्रः
श्रीअमुकदेवशर्म्मा अमुककामः अमुकगोत्रस्या-
मुकप्रवरस्य अमुकदेवशर्म्मणः प्रपौत्त्राय अमुक-
गोत्रस्य अमुकप्रवरस्य अमुकदेवशर्म्मणः
पौत्त्राय अमुकगोत्रस्यामुकप्रवरस्यामुकदेव-
शर्म्मणः पुत्त्राय अमुकगोत्राय अमुकप्रवराय
श्रीअमुकदेवशर्म्मणे ब्राह्मणाय वराय अर्च्चि-
ताय अमुकगोत्रस्यामुकप्रवरस्यामुकदेवशर्म्मणः
प्रपौत्त्रीं अमुकगोत्रस्यामुकप्रवरस्यामुकदेव-
शर्म्मणः पौत्त्रीं अमुकगोत्रस्य अमुकप्रवरस्य
अमुकदेवशर्म्मणः पुत्त्रीं अमुकगोत्रां अमुक-
प्रवरां श्रीअमुकीदेवीं इति त्रिरुच्चार्य्य एनां
कन्यां सवस्त्रालङ्कृतां प्रजापतिदेवताकां तुभ्य-
महं सम्पददे । इति हस्तद्वयोपरि सतिल-
जलकुशानर्पयति । जामाता ॐ स्वस्तीत्यभि-
धाय कन्येयं प्रजापतिदेवताका इति वदेत् ।
गायत्त्रीं कामस्तुतिञ्च पठेत् । ॐ क इदं कस्मा
अदात् कामः कामायादात् कामो दाता कामः
प्रतिग्रहीता कामः समुद्रमाविशत् कामेन त्वा
प्रतिगृह्णामि कामैतत्ते । * । ततः ॐ अद्येत्यादि
कृतैतत्कन्यादानकर्म्मणः साङ्गतार्थं दक्षिणामेतत्
सुवर्णं अमुकगोत्रायामुकदेवशर्म्मणे ब्राह्मणाय
वराय तुभ्यमहं सम्प्रददे । ततो जामाता ॐ
स्वस्तीति वदेत् । ततः पतिपुत्त्रवती नारी
दाम्पत्योर्वस्त्रेण ग्रन्थिं वध्नाति । ततः कुशग्रन्थिं
मुक्त्वा वस्त्रेणाच्छाद्यान्योन्यावलोकनं कारयेत् ।
ततो भर्त्तुर्द्दक्षिणपार्श्वे बधूमुपवेशयेत् । ततो
नापितेन गौर्गौरित्युक्ते जामाता पठति । प्रजा-
पतिरृषिर्ब्बृहती च्छन्दो गौर्देवता पूर्ब्बबद्धगवी-
मोक्षणे विनियोगः । ॐ मुञ्च गां वरुणपाशा-
द्द्विषन्तं मेऽभिधेहि त्वं जह्यमुष्य चोभयोरुत्सृज
गामत्तु तृणानि पिबतूदकम् । इति पठेत् । ततो
नापितेन मुक्तायां गवि जामाता पठति । प्रजा-
पतिरृषिस्तृष्टुप् छन्दो गौर्देवता गवानुमन्त्रणे
विनियोगः । ॐ माता रुद्राणां दुहिता वसूनां
स्वसादित्यानां अमृतस्य नाभिः प्रनुवोचं चिकि-
तुषे जनाय मा गा मना गा मदितीं वधिष्ट ।
अनेन गां विसर्ज्जयेत् । ततो मङ्गलं कुर्य्यात् ।
ततो भर्त्तुर्व्वामपार्श्वे बधूमुपवेशयेत् । इति
सम्प्रदानं समाप्तम् ॥ * ॥ इति भवदेवभट्टः ॥

विवाहितः, पुं क्ली, (वि + वह + णिच् + क्तः ।)

कृतविवाहः । यथा, --
“शनैश्चरदिने चैव यदि रिक्ता तिथिर्भवेत् ।
तस्मिन् विवाहिता कन्या पतिसन्तानवर्द्धिता ॥”
अपि च ।
“विष्णुभाद्ये त्रिके चित्रे ज्येष्ठायां ज्वलने यमे ।
एभिर्विवाहिता कन्या नित्यमेव सुदुःखिता ॥”
इति ज्योतिस्तत्त्वम् ॥

विवाह्यः, पुं, (वि + वह + णिच् + यत् ।) जामाता ।

इति केचित् ॥ विवाहयोग्ये, त्रि ॥ (यथा,
कथासरित्सागरे । ३३ । १९० ।
“पद्मावत्या ऋते राज्ञ्या न विवाह्यापरेति यत् ।
प्रोक्तं देवि प्रतिज्ञातं मया निर्व्यूढमद्य तत् ॥”)

विविक्तं, त्रि, (वि + विच + क्तः ।) पवित्रम् ।

विजनम् । इत्यमरः ॥ (यथा, गीतायाम् । १३ । १० ।
“विविक्तदेशसेवित्वमरतिर्ज्जनसंसदि ॥”)
असम्पृक्तः । (यथा, माघे । ११ । १७ ।
“पुनरुषसि विविक्तैर्म्मातरिश्वावचूर्ण्य
ज्वलयति मदनाग्निं मालतीनां रजोभिः ॥”)
विवेकी । इति मेदिनी ॥

विविक्ता, स्त्री, दुर्भगा । इति त्रिकाण्डशेषः ॥

मुद्राङ्कितपुस्तके विरिक्ता इति पाठः ॥

विविधं, त्रि, नानाप्रकारम् । इत्यमरः ॥ (यथा,

कौतुकसर्व्वस्वे । २ ।
“कृतं विविधदुष्कृतं सततमेव प्रत्यूहतः ॥”)

विवीतः, पुं, भूमिविशेषः । यथा, --

“सममेषां विवीतेऽपि खरोष्ट्रं महिषीसमम् ।
विवीतः प्रचुरतृणकाष्ठो रक्ष्यमाणः परिगृहीतो
भूप्रदेशः तदुपघातेऽपीतरक्षेत्रसमं दण्डं एषां
महिष्यादीनां विद्यात् । इति मिताक्षरायां
स्वामिपालविवादप्रकरणम् ॥

विवीतभर्त्ता, [ऋ] पुं, विवीतभूस्वामी । इति

मिताक्षरा ॥

विवृक्ता, स्त्री, (वि + वृज + क्तः । स्त्रियां टाप् ।)

दुर्भगा । इति भूरिप्रयोगः ॥

विवृतं, त्रि, (वि + वृ + क्तः ।) विस्तृतम् । इति

मेदिनी । (यथा, शाकुन्तले १ अङ्के ।
“दभैरर्द्धावलीढः श्रमविवृतमुखभ्रंशिभिः
कीर्णवर्त्मा ॥”
वर्णोच्चारणे प्रयत्नविशेषः । यथा, सिद्धान्तकौ-
मुद्याम् । १ । १ । ९ । “स्पृष्टेषत्स्पृष्टविवृतसंवृत-
भेदात् ।” “विवृतमुष्मणां स्वराणाञ्च । ह्रस्वस्या-
वर्णस्यप्रयोगे संवृतम् । प्रक्रियादशायान्तु विवृत
मेव ॥”)
पृष्ठ ४/४३३

विवृता, स्त्री, क्षुद्ररुग्भेदः । इति मेदिनी ॥

तल्लक्षणं यथा, --
“विवृतास्यां महादाहां पक्वोडुम्बरसन्निभाम् ।
विवृतामिति तां विद्यात् पित्तोत्थां परिमण्ड-
लाम् ॥”
परितः शोथवतीम् ॥ * ॥ अस्याश्चिकित्सा ।
“विवृतामिन्द्रवृद्धाञ्च गर्द्दभीं जालगर्द्दभम् ।
पैत्तिकस्य विसर्पस्य क्रियया साधयेद्भिषक् ।
पाके तु रोपयेदाज्यैः पक्वैर्म्मधुरभेषजैः ॥”
इति भावप्रकाशः ॥
(विवृत्तेति क्वचित् पाठः ॥)

विवृताक्षः, पुं, (विवृते अक्षिणी यस्य ।) कुक्कुटः ।

इति हेमचन्द्रः ॥

विवृतिः, स्त्री, व्याख्या । विपूर्ब्बवृधातोः क्तिप्रत्य-

येन निष्पन्नमिदम् । विवरणम् । यथा, --
“शक्तिग्रहं व्याकरणोपमान-
कोषाप्तकाक्याद्व्यवहारतश्च ।
वाक्यस्य शेषात् विवृतेर्व्वदन्ति
सान्निध्यतः सिद्धपदस्य वृद्धाः ॥”
इति मलमासतत्त्वम् ॥

विवृत्तं, त्रि, (वि + वृत् + क्तः ।) चलितम् ।

यथा, --
“विवृत्तपार्श्वं रुचिराङ्गहावं
समुद्वहच्चारु नितम्बरम्यम् ।
आमन्द्रमन्थध्वनिदत्ततालं
गोपाङ्गनानृत्यमनन्दयत्तम् ॥”
इति भट्टिः ॥
विवृत्तं तिर्य्यक्चलितं पार्श्वं यत्र । इति
तट्टीका ॥

विवृत्तिः, स्त्री, चक्रवद्भ्रमणम् । घूर्णनम् । विपूर्ब्ब-

वृतधातोः क्तिप्रत्ययेन निष्पन्नमिदम् ॥ (विविध-
वृत्तिः । यथा, भागवतटीकायां श्रीधरः । ३ । ६ । १० ।
“विश्वसृजां विवृत्तये विविधवृत्तिलाभाय ॥”)

विवेकः, पुं, परस्परव्यावृत्त्या वस्तुस्वरूपनिश्चयः ।

प्रकृतिपुरुषयोर्विभागेन ज्ञानं इत्यन्ये । इति
भरतः ॥ तत्पर्य्यायः । पृथगात्मता २ । इत्य-
मरः ॥ विवेचनम् ३ । इति शब्दरत्नावली ॥
पृथग्भावः ४ । इति धरणिः ॥
“विवेको वस्तुनो भेदः प्रकृतेः पुरुषस्य वा ॥”
इति जटाधरः ॥
यथा । नित्यानित्यवस्तुविवेकस्तावत् ब्रह्मैव नित्यं
वस्तु ततोऽन्यदखिलमनित्यमिति विवेचनम् ।
इति वेदान्तसारः ॥ (यथा, मनौ । १ । २६ ।
“कर्म्मणाञ्च विवेकार्थं धर्म्माधर्म्मौ व्यवेचयत् ॥”)
जलद्रोणी । विचारः । इति मेदिनी ॥ (यथा,
मनौ । १ । ११२ ।
“तस्य कर्म्मविवेकार्थं शेषाणामनुपूर्ब्बशः ॥”)

विवेकिता, स्त्री, (विवेकिन् + तल् ।) विवेकित्वम् ।

विवेकिनो भावः । यथा, --
“यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता ।
एकैकमप्यनर्थाय किमु तत्र चतुष्टयम् ॥”
इति हितोपदेशः ॥
(यथा, याज्ञवल्क्ये । ३ । १५६ ।
“आचार्य्योपासनं वेदशास्त्रार्थेषु विवेकिता ॥”)

विवेकी, [न्] पुं, (विवेकोऽस्यास्तीति । विवेक +

इनिः ।) देवसेनराजपुत्त्रः । यथा, --
“देवसेनोऽपि केशिन्यां जनयामास पुत्त्रकान् ।
सप्त शृणुत तान् यूयं नामतः कीर्त्तितांस्तथा ॥
सुमना वसुदानश्च ऋतध्रग्यवनः कृती ।
नीलो विवेकीत्येते वै सर्व्वशास्त्रविशारदाः ॥”
इति कालिकापुराणे भैरववंशानुकीर्त्तने ९०
अध्यायः ॥ विचारकर्त्ता । इति मेदिन्यां विवेक-
शब्दार्थदर्शनात् ॥ विवेकविशिष्टे, त्रि ॥ (यथा,
मार्कण्डेये । ६६ । ३४ ।
“दृष्टादृष्टांस्तथा भोगान् वाञ्छमाना विवे-
किनः ।
दानानि च प्रयच्छन्ति पूर्णधर्म्मांश्च कुर्व्वते ॥”)

विवेचकः, पुं, (वि + विच् + ण्वुल् ।) विवेचन-

कर्त्ता । विवेचयति य इत्यर्थे णकप्रत्ययेन
निष्पन्नमिदम् ॥

विवेचनं, क्ली, (वि + विच् + ल्युट् ।) विवेकः ।

इति शब्दरत्नावली ॥ (यथा, हरिवंशे भविष्य-
पर्व्वणि । ४३ । १८ ।
“विद्वद्भिर्गीयसे विष्णो त्वमेव जगतीपते ।
इच्छया सर्व्वमाप्नोषि दृष्टादृष्टविवेचनम् ॥” * ॥
निर्णयः । यथा, मनुः । ८ । २१ ।
“यस्य शूद्रस्तु कुरुते राज्ञो धर्म्मविवेचनम् ।
तस्य सीदति तद्राष्ट्रं पङ्केगौरिव पश्यतः ॥”)

विवेचनीयः, त्रि, विवेच्यः । विवेचितव्यः । इति

विपूर्ब्बविचधातोरनीयप्रत्ययेन निष्पन्नमिदम् ॥

विव्रु(ब्रु)वन्, [त्] त्रि, (वि + ब्रू + शतृ ।) विरुद्ध-

वक्ता । यथा, --
“यो न भ्राता पिता वापि न पुत्त्रो न नियो-
जितः ।
परार्थवादी दण्ड्यः स्यात् व्यवहारेषु विब्रुवन् ॥”
विब्रुवन् विरुद्धं ब्रुवन् । इति व्यवहारतत्त्वम् ॥

विवोढा, [ऋ] पुं, (वि + वह + तृच् ।) वरः ।

पतिः । इति हेमचन्द्रः ॥

विव्वोकः, पुं, स्त्रीणां शृङ्गारभावजा क्रिया । इत्य-

मरः ॥ अभिमतवस्तुप्राप्तावपि गर्व्वादनादरः
सापराधस्य च संयमनं ताडनञ्च विव्वोकः ।
यदुक्तम् ।
“गर्व्वाभिमानादिष्टेऽपि विव्वोकोऽनादरक्रिया ।”
तथा ।
“अभिमतवस्तूपहृतावपि गुरुगर्व्वादनादर-
स्तन्व्याः ।
स्खलति प्रियस्य हृदयं संयमताडनमयन्तु
विव्वोकः ॥”
इति भरतः ॥
“विव्वोकस्त्वतिगर्व्वेण वस्तुनीष्टेऽप्यनादरः ।
न त्वराहर्षवागादेर्दयितागमनादिषु ॥”
इति सारसुन्दरी ॥
“इष्टेऽपि गर्व्वमानाभ्यां विव्वोकः स्यादनादरः ॥”
इत्युज्ज्वलनीलमणिः ॥

विश, औ श प्रवेशे । इति कविकल्पद्रुमः ।

(तुदा०-पर०-सक०-अनिट् ।) श, विशति ।
औ, अविक्षत् । विवेश कश्चिज्जटिलस्तपोवनम् ।
विपराजिपरिव्यवक्रीनिविशेत्यादिनात्मनेपदवि-
धानेऽपि भर्त्तुरङ्के निविशती भयादिति रघौ ।
केवलात् शतृप्रत्ययं विधाय पश्चादुपसर्गयोगा-
दिति दुर्घटवृत्तिः । निशब्द इह उपसर्गप्रति-
रूपको वा । यस्माद्विश्वमिदं सर्व्वं तस्य शक्त्या
महात्मनः । तस्मादेवोच्यते विष्णुर्विशधातोः
प्रवेशनादिति पुराणे विष्णुशब्दव्युत्पादनात्
मूर्द्धन्यान्तोऽयमिति केचित् तच्चिन्त्यम् । ताल-
व्यान्तस्यैव सर्व्वसम्मतत्वात् । इति दुर्गादासः ॥

विशं, क्ली, (विश + कः ।) मृणालम् । इत्यमर-

टीकायां रायमुकुटः ॥ (तत्पर्य्यायो यथा, --
“पद्मनालं मृणालं स्यात्तथाविशमिति स्मृतम् ।”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

विशंवरा, स्त्री, (विशं मनुष्यं वृणोतीति । वृ +

अच् । अभिधानात् द्वितीयाया अलुक् ।)
पल्ली । इति राजनिर्घण्टः ॥

विशकण्ठी, स्त्री, (विशमिव कण्ठो यस्याः ।

विशकण्ठ + ङीष् ।) बलाका । इति राज-
निर्घण्टः ॥

विशङ्कः, त्रि, विगता शङ्का यस्य बहुव्रीहिः ।

शङ्कारहितः । (यथा, रघुः । २ । ११ ।
“धनुर्भृतोऽप्यस्य दयार्द्रभाव-
माख्यातमन्तःकरणैर्विशङ्कैः ॥”)

विशङ्कटः, त्रि, (वि + “वेः शालच्छङ्कटचौ ।”

५ । २ । २८ । इति शङ्कटच् ।) विशालः ।
इत्यमरः ॥ (यथा, भट्टिः । २ । ५० ।
“विशङ्कटो वक्षसि बाणपाणिः
सम्पन्नतालद्वयसः पुरस्तात् ॥”
भयानकः । यथा, कथासरित्सागरे । १०८ । १०७ ।
“मांसासृङ्मत्तवेतालतालवाद्यविशङ्कटः ।
अभून्नृत्यत्कबन्धोऽसौ भूतप्रीत्यै रणोत्सवः ॥”)

विशदः, पुं, (वि + शद् + अच् ।) श्वेतवर्णः ।

इत्यमरः ॥ (जयद्रथपुत्त्रः । यथा, भागवते ।
९ । २१ । २३ ।
“बृहत्कायस्ततस्तस्य पुत्त्र आसीज्जयद्रथः ।
तत्सुतो विशदस्तस्य स्येनजित् समजायत ॥”)

विशदः, त्रि, (वि + शद् + अच् ।) विमलः ।

इति हेमचन्द्रः ॥ (यथा, रघुः । ४ । १८ ।
“प्रसादसुमुखे तस्मिन् चन्द्रे च विशदप्रभे ।
तदा चक्षुष्मतां प्रीतिरासीत् समरसा द्वयोः ॥”)
व्यक्तः । इति मेदिनी ॥ (यथा, रघुः । ८ । ३ ।
“विशदोच्छ्वसितेन मेदिनी
कथयामास कृतार्थतामिव ॥”)
शुक्लगुणयुक्तः । इत्यमरः ॥ (उज्ज्वलः । यथा,
माघे । ८ । ७० ।
“स्वच्छाम्भः स्नपनविधौतमङ्गमोष्ठ-
स्ताम्बूलद्युतिविशदो विलासिनीनाम् ।
वासश्च प्रतनु विविक्तमस्त्वितीया-
नाकल्पो यदि कुसुमेषुणा न शून्यः ॥”)
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/विमलः&oldid=44068" इत्यस्माद् प्रतिप्राप्तम्