पृष्ठ ४/४३४

विशयः, पुं, (वि + शी + अच् ।) संशयः । यथा,

“विषयो विशयश्चैव पूर्व्वपक्षस्तथोत्तरम् ।
निर्णयश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं स्मृतम् ॥”
विषयो विचारार्हवाक्यम् । विशयोऽस्यायमर्थो
न वा इति संशयः । इति तिथ्यादितत्त्वम् ॥
आश्रयः । इति केचित् ॥

विशयी, [न्] त्रि, (विशयोऽस्त्यस्येति । विशष +

इनिः ।) संशयी । इति विशयशब्दार्थदर्श-
नात् ॥

विशरः, पुं, (वि + शॄ हिंसायाम् + अप् ।) वधः ।

इत्यमरः ॥

विशरणं, क्ली, (वि + शॄ + ल्युट् ।) मारणम् ।

इति हेमचन्द्रः ॥

विशल्यः, त्रि, (विगतं शल्यं यस्मात् ।) शल्य-

रहितः । यथा, --
“सशल्यः स समाघ्राय लक्ष्पणः परवीरहा ।
विशल्यो विरुजः शीघ्रमुदतिष्ठन् महीतलात् ॥”
इति श्रीरामायणे युद्धकाण्डे १०२ सर्गः ॥

विशल्यकरणी, स्त्री, (विशल्यं क्रियतेऽनयेति ।

विशल्य + कृ + ल्युट् । ङीप् ।) औषधिविशेषः ।
यथा, --
“पूर्ब्बन्तु कथितो योऽसौ वीर जाम्बवता तव ।
दक्षिणे शिखरे जातां महौषधिमिहानय ॥
विशल्यकरणीं नाम्ना सावर्ण्यकरणीं तथा ।
संजीवकरणीं वीर सन्धानीञ्च महौषधीम् ॥”
इति रामायणे वाल्मीकीये युद्धकाण्डे १०३
सर्गः ॥

विशल्यकृत्, पुं, (विशल्यं तत्प्रहारजन्यवेदनादि-

नाशं करोतीति । कृ + क्विप् ।) विशालीवृक्षः ।
हापरमालीति ख्यातः । तत्पर्य्यायः । अक्षो-
डकः २ सुकल्कः ३ भूपलाशः ४ । इति रत्न-
माला ॥ आस्फोतः ५ आचरत्प्रियः ६ । इति
शब्दचन्द्रिका । विशल्यकारिणि त्रि ॥

विशल्या, स्त्री, (विगतं शल्यन्तत्प्रहारादिजनित-

वेदनादिनाशो यया ।) गुड्रची । (अस्याः
पर्य्यायो यथा, --
“गुडूची मधुपर्णी स्यादमृतामृतवल्लरी ।
छिन्ना च्छिन्नरुहा च्छिन्नोद्भवा वत्सादनीति च ॥
जीवन्ती तन्त्रिका सोमा सोमवल्ली च कुण्डली ।
चक्रलक्षणिका धीरा विशल्या च रसायनी ॥
चन्द्रहासी वयःस्था च मण्डली देवनिर्म्मिता ॥”
इति भावप्रकाशस्य पुर्व्वखण्डे १ भागे ॥)
अग्निशिखावृक्षः । (अस्याः पर्य्यायो यथा, --
“कलिहारी तु हलिनी लाङ्गली शक्रपुष्प्यपि ।
विशल्याग्निशिखानन्ता वह्निवक्त्वा च गर्भनुत् ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे १ भागे ॥)
दन्ती इत्यमरः ॥ (अस्याः पर्य्यायो यथा, --
गुदन्ती विशल्या च स्यादुदुम्बरपर्ण्यपि ।
तथैरण्डफला शीघ्रा श्येनघण्टाघुणप्रिया ॥
वारहासी च कथिता निकुम्भश्च मकूलकः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
त्रिपुटा । इति मेदिनी ॥ कलिकारी । अज-
मोदा । इति राजनिर्घण्टः ॥ (नदीविशेषः ।
यथा, महाभारते । २ । ९ । २० ।
“किम्पुना च विशल्या च तथा वैतरणी नदी ॥”)

विशसनं, क्ली, (वि + शस हिंसायाम् + ल्युट् ।)

मारणम् । इत्यमरः ॥ (यथा, हरिवंशे । ९९ ।
४३ ।
“तस्मिन् विशसने घोरे चक्रलाङ्गलसंप्लवे ।
दारुणानि प्रवृत्तानि रक्षांस्यौत्पातिकानि च ॥”
नरकविशेषः । यथा, भागवते । ५ । २६ । ७ ।
“प्राणरोधो विशसनं लालाभक्षः सारमेयादन-
मरीचिरयःपानमिति ॥” * ॥ विनाशकारिणि,
त्रि । यथा, महाभारते । ६ । ५९ । ६० ।
“यमदण्डोपमां गुर्व्वीमिन्द्राशनिसमस्वनाम् ।
अपश्याम महाराज रौद्रीं विशसनीं गदाम् ॥”)

विशसनः, पुं, (विशसति हिनस्तीति । वि + शस

हिंसायाम् + ल्युः ।) खड्गः । इति त्रिकाण्ड-
शेषः ॥ (यथा, महाभारते । १२ । १६६ ।
८३ -- ८४ ।
“असेरष्टौ हि नामानि रहस्यानि निबोध मे ।
पाण्डवेय सदा यानि कीर्त्तयन् लभते जयम् ॥
असिर्व्विशसनः खड्गस्तीक्ष्णधारो दुरासदः ।
श्रीगर्भो विजयश्चैव धर्म्मपालस्तथैव च ॥”)

विशसितः, त्रि, मारितः । विपूर्व्वशसधातोः

क्तप्रत्ययेन निष्पन्नः । इति सिद्धान्तकौमुदी ॥

विशस्तः, त्रि, अविनीतः । धृषिशसी वैघात्ये ।

एतौ निष्ठायामविनये एवानिटौ स्तः । धृष्टो
विशस्तः । अन्यत्र धर्षितः । विशसितः । इति
सिद्धान्तकौमुदी ॥

विशस्ता, [ऋ] पुं, (वि + शस हिंसायाम् +

तृच् ।) चाण्डालः । इति संक्षिप्तसारोणादि-
वृत्तिः ॥ (हिंसाकारके, त्रि । यथा, महा-
भारते । १२ । ११५ । ४९ ।
“आहर्त्ता चानुमन्ता च विशस्ता क्रयविक्रयी ।
संस्कर्त्ता चोपभोक्ता च खादकः सर्व्व एव ते ॥”
पापिन इति शेषः ॥)

विशाकरः, पुं, भद्रचूडः । इति शब्दचन्द्रिका ॥

लङ्कासिज् इति भाषा ॥

विशाखः, पुं, कार्त्तिकेयः । इत्यमरः ॥ (यथा,

महाभारते । ३ । २३१ । ७ ।
“प्रभुर्नेता विशाखश्च नैगमेयः सुदुश्चरः ॥”)
घन्विनां वितस्त्यन्तरेण पादसंस्थानम् । इति
भरतः ॥ याचकः । इति मेदिनीकरहेमचन्द्रौ ॥
पुनर्नवा । इति राजनिर्घण्टः ॥ (विगता शाखा
यस्य । शाखाविहीने, त्रि । यथा, हरिवंशे ।
४८ । ५२ ।
“कबन्धोऽवस्थितः संख्ये विशाख इव पादपः ॥”)

विशाखजः, पुं, नारङ्गः । इति शब्दचन्द्रिका ॥

विशाखजाते, त्रि ॥

विशाखलं, क्ली, युद्धकाले मध्ये विन्यस्तपादद्वयम् ।

यथा, --
“विशालान्तरविन्यस्ते पादयुग्मे विशाखलम् ॥”
इति शब्दमाला ॥

विशाखा, स्त्री, कठिल्लकः । इति मेदिनी ॥ अश्वि-

न्यादिसप्तविंशतिनक्षत्रान्तर्गतषोडशनक्षत्रम् ।
तत्पर्य्यायः । राधा २ । इत्यमरः ॥ “विशाखे द्वे ।
‘पत्न्योर्मध्यगतस्तत्र सुग्रीवः प्लवगेश्वरः ।
विशाखयोर्मध्यगतः संपूर्ण इव चन्द्रमाः ॥’
इति रामायणम् ॥
अतएव द्वित्वमुचितं किन्तु एकतारापेक्षया
एकवचनमिहोक्तम् ।” इति भरतः ॥ तस्या-
रूपं तोरणाकारचतुस्तारामयम् । इति मुहूर्त्त-
चिन्तामणिः ॥
“तोरणाकृतिनि पञ्चतारके
तारकेशवदने विशाखभे ।
तन्वि यान्ति विबुधाध्वमध्यगे
कुम्भतो रसभुजाः कलाः प्रिये ॥”
दं । ० । २६ । इति कालिदासकृतरात्रिलग्ननिरू-
पकग्रन्थः ॥ अस्या अधिदेवते शक्राग्नी । इयं
मिश्रगणान्तर्गता । इति ज्योतिस्तत्त्वम् ॥ * ॥
तत्र जातफलम् ।
“सदानुरक्तो विविधक्रियायां
सुवर्णकारैरपि सख्यमेति ।
यस्य प्रसूतौ च भवेत् विशाखा
सखा न कस्यापि भवेत् प्रसूतः ॥”
इति कोष्ठीप्रदीपः ॥

विशातनः, त्रि, (वि + शत + णिच् + ल्युः ।)

मोचनकर्त्ता । (यथा, महाभारते । ७ । ८१ । १८ ।
“नमस्ते देवदेवेश सनातन विशातन ।
विष्णो जिष्णो हरे कृष्ण वैकुण्ठ पुरुषोत्तम ॥”)
यथा च ।
“साधु वीर त्वया पृष्टमवतारकथां हरेः ।
यत्त्वं पृच्छसि मर्त्यानां मृत्युपाशविशातनीम् ॥”
इति श्रीभागवते ३ स्कन्धे १४ अध्यायः ॥
“मृत्योः पाशं विशातयति मोचयतीति तथा ।”
इति तट्टीकायां श्रीधरस्वामी ॥ (वि + शत +
णिच् + ल्युट् । पातने, क्ली । यथा, महा-
भारते । ७ । १२ । १९ ।
“यतमानाः प्रयत्नेन द्रोणानीकविशातने ।
न शेकुः सृञ्जया युद्धे तद्धि द्रोणेन पालितम् ॥”)

विशायः, पुं, (वि + शी + “व्युपयोः शेतेः पर्य्याये ।”

३ । ३ । ३९ । इति घञ् ।) प्रहरिकादीनां
क्रमेण शयनम् । यथा, अमरे ।
“उपशायो विशायश्च पर्य्यायशयनार्थकौ ॥”

विशारणं, क्ली, (वि + शॄ + णिच् + ल्युट् ।)

मारणम् । इति हेमचन्द्रः ॥

विशारदः, त्रि, विद्वान् । (यथा, मनुः । ७ । ६३ ।

“दूतञ्चैव प्रकुर्व्वीत सर्व्वशास्त्रविशारदम् ॥”)
प्रगल्भः । इत्यमरः ॥ प्रसिद्धः । इति हारा-
वली ॥ श्रेष्ठः । इत्यजयपालः ॥ वकुले, पुं । इति
राजनिर्घण्टः ॥

विशारदा, स्त्री, क्षुद्रदुरालभा । इति राज-

निर्घण्टः ॥

विशालः, त्रि, (वि + “वेः शालच्छङ्कटचौ ।” इति

शालच् । यद्वा, विश प्रवेशने + “तमिविशि-
पृष्ठ ४/४३५
विडीति ।” उणा० १ । ११७ । इति कालन् ।)
बृहत् । इत्यमरः ॥ (यथा, रघुः । ६ । ३२ ।
“अवन्तिनाथोऽयमुदग्रबाहु-
र्विशालवक्षास्तनुवृत्तमध्यः ॥”
विगतः शालः स्तम्भो यस्य । स्तम्भरहितः ।
यथा, शिशुपालवधे । ३ । ५० ।
“गृहैर्व्विशालैरपि भूरिशालैः ॥”)

विशालः, पुं, (विश + कालन् ।) मृगभेदः । पक्षि-

भेदः । इति मेदिनी ॥ नृपभेदः । वृक्षभेदः ।
इति शब्दरत्नावली ॥

विशालता, स्त्री, (विशालस्य भावः । विशाल +

तल् ।) पार्श्वविस्तारः । ओसार इति ख्यातः ॥
तत्पर्य्यायः । परिणाहः २ । इत्यमरः ॥ (यथा,
बृहत्संहितायाम् । ४ । ८ ।
“उन्नतमीषच्छृङ्गं नौसंस्थाने विशालता
चोक्ता ॥”)
सामान्यविशालत्वम् । इति शब्दरत्नावली ॥

विशालतैलगर्भः, पुं, (विशालं प्रचुरं तैलं गर्भे

यस्य ।) अङ्कोठवृक्षः । इति राजनिर्घण्टः ॥

विशालत्वक्, [च्] पुं, (विशाला त्वक् यस्य ।)

सप्तपर्णवृक्षः । इत्यमरः ॥ (यथास्य पर्य्यायः ।
“सप्तपर्णो विशालत्वक् शारदो विषमच्छदः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

विशालपत्रः, पुं, (विशालानि पत्राणि यस्य ।)

कासालुः । श्रीतालः । इति राजनिर्घण्टः ॥

विशालफलिका, स्त्री, (विशालं फलं यस्याः ।

ततः स्वार्थे कन् । टापि अत इत्वम् ।) निष्पावी ।
इति राजनिर्घण्टः ॥

विशाला, स्त्री, (विशाल + टाप् ।) इन्द्रवारुणी ।

इत्यमरः ॥ यथाच ।
“विशाला कफवातघ्नी हेमकुष्ठहरा सरा ॥”
इति राजवल्लभः ॥
उज्जयनी । इति मेदिनी ॥ उपोदकी । महेन्द्र-
वारुणी । इति राजनिर्घण्टः ॥ (यथा, --
“ऐन्द्रीन्द्रवारुणी चित्रा गवाक्षी च गवादनी ।
वारुणी च गवाप्युक्ता सा विशाला महाफला ।
श्वेतपुष्पा मृगाक्षी च मृगैर्वारुर्मृगादनी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
तीर्थविशेषः । यथा, --
“मुण्डनञ्चोपवासश्च सर्व्वतीर्थेष्वयं विधिः ।
वर्ज्जयित्वा गयां गङ्गां विशालां विरजां तथा ॥”
इति प्रायश्चित्ततत्त्वम् ॥
दक्षकन्या । यथा, --
“मनोरमां भानुमतीं विशालां बाहुदामथ ।
दक्षः प्रादान्महादेव चतस्रोऽरिष्टनेमिने ॥”
इति गारुडे ६ अध्यायः ॥

विशालाक्षः, पुं, (विशाले अक्षिणी यस्य । समासे

षच् ।) हरः । (यथा, महाभारते । १२ । ५९ । ८० ।
“ततस्तां भगवान्नीतिं पूर्ब्बं जग्राह शङ्करः ।
बहुरूपो विशालाक्षः शिवः स्थाणुरुमापतिः ॥”)
गरुडः । (तद्वंशीयविशेषः । यथा, महा-
भारते । ५ । १०१ । ९ ।
“अनिलश्चानलश्चैव विशालाक्षोऽथ कुण्डली ॥”)
सुनेत्रे, त्रि । इति मेदिनी ॥ (यथा, महा-
भारते । ३ । ३९ । ७० ।
“ददामि ते विशालाक्ष चक्षुः पूर्ब्बऋषि-
र्भवान् ॥”)
विष्णुः । इति केचित् ॥ (धृतराष्ट्रपुत्त्रः । यथा,
महाभारते । १ । ११७ । ९ ।
“अपराजितः कुण्डशायी विशालाक्षो दुरा-
धरः ॥”)

विशालाक्षी, स्त्री, (विशाले अक्षिणी यस्याः ।)

वरस्त्री । इति विश्वः ॥ (यथा, महाभारते ।
१ । ७७ । १३ ।
“यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने ।
तत्राहमुषितो भद्रेकुक्षौ काव्यस्य भामिनि ॥”)
नागदन्ती । इति राजनिर्घण्टः ॥ पार्व्वती ।
यथा, आदियामले ।
ईश्वर उवाच ।
“ध्रुवमाद्यं समुद्धृत्य मायाबीजं समुद्धरेत् ।
विशालाक्षीपदं ङेऽन्तं हृदन्तं मन्त्रमुद्धरेत् ॥
अष्टाक्षरी महाविद्या अष्टसिद्धिप्रदा शिवे ।
प्रसङ्गात् कथिता विद्या त्रैलोक्यदुर्ल्लभा प्रिये ॥
ऋषिरस्या महेशानि सदाशिवो महाप्रभुः ।
पंक्तिश्च छन्दः कथितं विशालाक्षी च देवता ॥
शक्तिः प्रणवमित्युक्तं लज्जाबीजञ्च बीजकम् ।
धर्म्मार्थकाममोक्षेषु विनियोगः प्रकीर्त्तितः ॥
अङ्गन्यासकरन्यासौ यथावदभिधीयते ।
षड्दीर्घभाजा बीजेन प्रणवाद्येन कल्पयेत् ॥
मूलेन व्यापकं न्यस्य ध्यायेद्देवीं परां शिवाम् ।
ध्यायेद्देवीं विशालाक्षीं तप्तजाम्बूनदप्रभाम् ॥
द्बिभुजामम्बिकां चण्डीं खड्गखर्परधारिणीम् ।
नानालङ्कारसुभगां रक्ताम्बरधरां शुभाम् ॥
सदा षोडशवर्षीयां प्रसन्नास्यां त्रिलोचनाम् ।
मुण्डमालावतीं रम्यां पीनोन्नतपयोधराम् ॥
शिवोपरि महादेवीं जटामुकुटमण्डिताम् ।
शत्रुक्षयकरीं देवीं साधकाभीष्टदायिकाम् ॥
सर्व्वसौभाग्यजननीं महासम्पत्प्रदां स्मरेत् ।
एवं ध्यात्वा महादेवीमुपचारैः प्रपूजयेत् ॥
पुरश्चरणकाले तु वर्णलक्षं जपेत् सुधीः ।
यन्त्रमध्ये समावाह्य प्रतिष्ठां कारयेत्ततः ॥
त्रिकोणञ्चाष्टपत्रञ्च ततो वृत्तं समालिखेत् ।
चतुरस्रं चतुर्द्बारमेवं मण्डलमालिखेत् ॥
तत्रावाह्य यजेद्देवीं सर्व्वसौभाग्यसुन्दरीम् ।
विशालाक्षीं विशालास्यां यथाविधि प्रपूजयेत् ॥
त्रिकोणान्तर्महादेवीं संपूज्य मातरः क्रमात् ।
पङ्कजाक्षी विरूपाक्षी रक्ताक्षी चण्डलोचना ॥
एकनेत्रा द्विनेत्रा च कोटराक्षी त्रिलोचना ।
एताः पूज्या महेशानि पत्राग्रेष्वष्टयोगिनीः ॥
पश्चिमादिक्रमेणैव अष्टसिद्धिस्वरूपिणीः ।
चतुरस्रे महादेवि लोकपालान् समर्च्चयेत् ॥
तद्बहिश्चैव वज्राद्यान् पूजयेद्भाग्यहेतवे ।
ततो यथाशक्ति जप्त्वा पूर्ब्बवच्च समाचरेत् ॥”
इति तन्त्रसारः ॥ * ॥
चतुःषष्टियोगिन्यन्तर्गतयोगिनीविशेषः । इति
दुर्गार्च्चापद्धतिः ॥

विशाली, स्त्री, अजमोदा । इति राजनिर्घण्टः ॥

विशिखः, पुं, (विशिष्टा शिखा यस्य ।) शर-

वृक्षः । इति राजनिर्घण्टः ॥ बाणः । इत्यमरः ॥
(यथा, भागवते । ४ । १७ । १३ ।
“सन्दधे विशिखं भूमेः क्रुद्धस्त्रिपुरहा यथा ॥”)
तोमरः । इति मेदिनी ॥ (विगता शिखा
यस्य ।) शिखारहिते, त्रि ॥ यथा, --
“विशिखोऽनुपवीती च कृतं कर्म्म न तत्
कृतम् ॥”
इति स्मृतिः ॥

विशिखा, स्त्री, खनित्री । रथ्या । (यथा, माघे ।

१५ । १७ ।
“विशिखान्तराण्यतिपपात
सपदि जवनैः स वाजिभिः ॥”)
नालिका । इति मेदिनी ॥

विशिपं, क्ली, (विशन्त्यत्रेति । विश + “विटप-

पिष्टपविशिपोलपाः ।” उणा० ३ । १४५ । इति
कप्रत्ययेन निपातनात् साधुः ।) मन्दिरम् ।
इत्युणादिकोषः ॥

विशिष्टः, त्रि, (वि + शिष् + क्तः । यद्बा, शास +

क्तः ।) युक्तः । यथा । हस्तानक्षत्रगङ्गा-
रूपगुणद्वयविशिष्टदशमीविधेर्यस्मिन् अहनि
तल्लाभस्तत्र स्नानम् । इति तिथ्यादितत्त्वे स्मार्त्त-
भट्टाचार्य्यलिखनम् ॥ विशेषेण शिष्टश्च ॥ (यथा,
हितोपदेशे ।
“समैश्च समतां याति विशिष्टैश्च विशिष्टताम् ॥”)

विशिष्टः, पुं, विष्णुः । यथा । विशिष्टः शिष्टकृत्

शुचिः । इति तस्य सहस्रनामस्तोत्रम् ॥

विशिष्टाद्वैतवादी, [न्] त्रि, (विशिष्टं युक्तं

अद्वैतं वदतीति । वद् + णिनिः ।) प्रकृति-
पुरुषयोर्भिन्नत्वेऽपि मिलितयोस्तयोर्ब्रह्मत्ववादी ।
तस्य मतं यथा । पुरुषस्तदतिरिक्ता प्रकृतिः
किन्तूभयमिलितं ब्रह्म चणकद्विदलवत् । इत्थं
ब्रह्मण एकत्वं व्यवस्थितम् । चित् परमाणु-
स्वरूपो जीवः समस्तविश्वं ब्रह्मांशः । इति
माधवभाष्यादिः ॥ * ॥ अद्वैतवादिमतं यथा ।
ब्रह्मैव सत्यं प्रत्यक्षादिसिद्धं विश्वं ब्रह्मणि आरो
पितम् । यथा रज्जुः रज्जुस्वरूपाज्ञानात्
सर्पवत् प्रतिभाति । तथा ब्रह्मस्वरूपाज्ञानात्
विश्वं वस्तुवत् प्रतिभाति । प्रकृतिर्जीवश्चापि
पर्य्यवसाने ब्रह्मैव ब्रह्मान्यत् सद्वस्तु नास्ति ।
अत्र प्रमाणं शारीरिकसूत्रस्य शङ्कराचार्य्य-
कृतभाष्यतट्टीकाकल्पतरुभाष्यरत्नप्रभादि ॥

विशीर्णः, त्रि, (वि + शॄ + क्तः ।) शुष्कः । यथा,

“विशीर्णा विदला ह्रस्वा वक्राः स्थूला द्बिधा-
कृताः ।
क्रिमिदष्टाश्च दीर्घाश्च समिधो नैव कारयेत् ॥”
इति तन्त्रसारः ॥

विशीर्णपर्णः, पुं, (विशीर्णानि पर्णानि यस्य ।)

निम्बवृक्षः । इति राजनिर्घण्टः ॥
पृष्ठ ४/४३६

विशुद्धं, त्रि, विशेषेण शुद्धम् । तत्पर्य्यायः । उज्ज्व-

लम् २ विमलम् ३ विशदम् ४ वीध्रम् ५ अव-
दातम् ६ अनाविलम् ७ शुचिः ८ । इति हेम-
चन्द्रः ॥ निभृतम् । सत्यम् । इत्यजयपालः ॥
षट्चक्रान्तर्गतपञ्चमचक्रम् । तत्तु कण्ठस्थं अका-
रादिषोडशस्वरयुक्तधूम्रवर्णषोडशदलपद्मम् ।
तन्मध्ये शिव आकाशश्चास्ति । यथा, --
“तदूर्द्धन्तु विशुद्धाख्यं दलषोडशपङ्कजम् ।
स्वरैश्च षोडशैर्युक्तं धूम्रवर्णैर्महत्प्रभम् ।
विशुद्धपद्ममाख्यातमाकाशाख्यं महाद्भुतम् ॥”
इति तन्त्रम् ॥
अगस्त्यसंहितायाम् । अकारादिषोडशस्वरान्
सबिन्दून् षोडशदलकपले कण्ठमूले न्यसेत् ।
विशुद्धे षोडशदले धूम्राभे स्वरभूषिते । इति
तन्त्रसारः ॥

विशुद्धिः, स्त्री, (वि + शुध + क्तिन् ।) समः ।

शोधनम् । इति विश्वः ॥
“सर्व्वकर्म्मण्युपादेया विशुद्धिश्चन्द्रतारयोः ॥”
इति ज्योतिषम् ॥

विशृङ्खलः, त्रि, शृङ्खलारहितः । (यथा, कथा-

सरित्सागरे । ५ । ३ ।
“अचिन्तयं ततश्चाहं राजा तावद्विशृङ्खलः ।
तत्कार्य्यचिन्तयाक्रान्तः स्वधर्म्मो मेऽवसीदति ॥”)
अबद्धः । विगता शृङ्खला यस्येति बहुव्रीहि-
निष्पन्नमिदम् ॥

विशेषः, पुं, (वि + शिष + घञ् ।) प्रभेदः ।

(यथा, मनुः । ९ । २६ ।
“प्रजनार्थं महाभागाः पूजार्हा गृहदीप्तयः ।
स्त्रियः श्रियश्च गेहेषु न विशेषोऽस्ति कश्चन ॥”)
प्रकारः । इति जटाधरः ॥ व्यक्तिः । इति हेम-
चन्द्रः ॥ तिलकः । इति हारावली ॥ सप्त-
पदार्थान्तर्गतपदार्थविशेषः । यथा, --
“द्रव्यं गुणास्तथा कर्म्म सामान्यं सविशेषकम् ।
समवायस्तथाभावः पदार्थाः सप्त कीर्त्तिताः ॥”
इति भाषापरिच्छेदः ॥
विशेषं निरूपयति । अन्त्यो नित्यद्रव्यवृत्ति-
र्विशेषः परिकीर्त्तितः । अन्तेऽवसाने वर्त्तते
इति अन्त्यः यदपेक्षया विशेषो नास्तीत्यर्थः ।
घटपटादीनां द्ब्यणुकपर्य्यन्तानां तत्तदवयवभेदात्
परस्परभेदः । परमाणूनां भेदको विशेष एव स
तु स्वत एव व्यावृत्तः । तेन तत्र विशेषान्तरा-
पेक्षा नास्ति इत्यर्थः । इति सिद्धान्तमुक्ता-
वली ॥ * ॥ अलङ्कारप्रभेदः । यथा, --
“विशेषः ख्यातमाधारं विनाप्याषेयवर्णनम् ।
गते सूर्य्येऽपि द्बीपस्थास्तमश्छिन्दन्ति तत्कराः ॥ १
विशेषः सोऽपि यद्येकं वस्त्वनेकत्र वर्ण्यते ।
अन्तर्बहिः पुरः पश्चात् सर्व्वदिश्यपि सैव मे ॥ २ ॥
किञ्चिदारम्भतोऽशक्यवस्त्वन्तरकृतिश्च सः ।
त्वां पश्यता मया लब्धं कल्पवृक्षनिरीक्षणम् ॥” ३
इति चन्द्रालोकः ॥
(पृथिवी । यथा, भागवते । २ । ५ । २९ ।
“विशेषस्तु विकुर्व्वाणादम्भसो गन्धवानभूत् ॥”
तथाच तत्रैव । ३ । ११ । ४० ।
“विकारैः सहितो युक्तैर्विशेषादिभिरावृतः ॥”
अतिशयिते, त्रि । यथा, रघुः । २ । १४ ।
“शशाम वृष्ट्यापि विना दवाग्नि-
रासीद्विशेषा फलपुष्पवृद्धिः ॥”)

विशेषकः, पुं क्ली, (विशेष एव । स्वार्थे कन् ।)

ललाटकृततिलकः । इत्यमरः ॥ (यथा, माघे ।
३ । ६३ ।
“विशेषको वा विशिशेष यस्याः
श्रियं त्रिलोकीतिलकः स एव ॥”)
तिलकवृक्षे, पुं । इति राजनिर्घण्टः ॥ (क्ली,
पद्यविशेषः । स तु त्रिभिः श्लोकैरन्वितश्चेत्
तदा भवति । यथा, --
“द्वाभ्यान्तु युग्मकं प्रोक्तं त्रिभिः श्लोकैर्विशेष-
कम् ॥”)
विशेषयितरि, त्रि । इति मेदिनी ॥

विशेषकच्छेद्यं, क्ली, (विशेषकैश्छेद्यम् ।) चतुः-

षष्टिकलान्तर्गतषष्ठकला । इति शैवतन्त्रम् ॥
सा तु तिलकेषु नानाविच्छेदरचना । इति
दशमस्कन्धीयपञ्चचत्वारिंशाध्यायटीकाव्याख्या ॥

विशेषगुणः, पुं, (विशेषो गुणः ।) बुद्ध्यादिषट्कम् ।

रूपादिचतुष्टयः । स्नेहः । स्वाभाविकद्रवत्वम् ।
अदृष्टः । भावना । शब्दः । इति भाषापरि-
च्छेदः ॥

विशेषविधिः, पुं, (विशेषो विधिः ।) अल्पवि-

षयकविधिः । यथा, --
“तथा सामान्यकार्य्येभ्यो विशेषकविधिर्ब्बली ।
बहवो विषया यस्य स सामान्यविधिर्भवेत् ।
अल्पः स्याद्विषयो यस्य स विशेषविधिर्म्मतः ॥”
इति दुर्गादासः ॥
सामान्यविशेषयोर्मध्ये विशेषविधिर्बलषान् । इति
स्मृतिः ॥

विशेषणं, क्ली, (विशिष्यतेऽनेनेति । वि + शिष +

ल्युट् ।) विशेष्यधर्म्मः । स तु गुणादिः । यथा ।
नीलोत्पलमित्यादि । विशिष्यते सम्बुध्यते अनेन ।
छत्रेण छात्रमद्राक्षीदिति । भेदयति अन्यपदार्थं
पृथक् करोति इति भेदकम् । नाम्ना शिवः
गोत्रेण गार्ग्यः । विशेषणं दृष्टमेव भेदयति ।
भेदकन्तु अदृष्टमेव भेदयति । इति विशेषण-
भेदकयोर्भेदः । इति मुग्धबोधटीकायां दुर्गा-
दासः ॥

विशेषव्याप्तिः, स्त्री, (विशेषा असामान्या व्याप्तिः ।)

व्याप्तिभेदः । तल्लक्षणं यथा । प्रतियोगिव्यधि-
करणस्वसमानाधिकरणान्यन्ताभावा-प्रतियोगि-
त्वम् । इति चिन्तामणिः ॥

विशेषितं, त्रि, (वि + शिष् + णिच् + क्तः ।)

भिन्नम् । व्यवच्छिन्नम् । इति जटाधरः ॥

विशेषोक्तिः, स्त्री, (विशेषेणोक्तिः ।) अलङ्कार-

भेदः । तल्लक्षणोदाहरणे यथा, --
“कार्य्याजनिर्व्विशेषोक्तिः सति पुष्कलकारणे ।
हृदि स्नेहक्षयो नाभूत् स्मरदीपे ज्वलत्यपि ॥”
इति चन्द्रालोकः ॥

विशेष्यः, त्रि, (विशिष्यते गुणादिभिरिति । वि +

शिष + ण्यत् ।) धर्म्मिपदार्थः । स च द्रव्यादिः ।
विशिष्यते यः । घटपटादिः । भासमान-
वैशिष्ट्यानुयोगी । अस्य लक्षणं यथा । भास-
मानवैशिष्ट्यानुयोगित्वं अस्ति च घट इति
ज्ञाने घटादौ तत् तत्र हि भासमानवैशिष्ट्यं
घटघटत्वयोः सम्बन्धस्तदनुयोगित्वस्य घटादौ
सत्त्वात् । अनुयोगित्वमपि स्वरूपसम्बन्धविशेषः
प्रतियोगित्वमनुयोगित्वञ्चातिरिक्तपदार्थ इत्य-
प्येकदेशिनः । इति कणादः ॥

विशोकः, पुं, (विगतः शोको यस्मात् ।) अशोक-

वृक्षः । इति राजनिर्घण्टः ॥ (शोकाभावः ।
यथा, भागवते । १ । १० । ७ ।
“उषित्वा हास्तिनपुरे मासान् कतिपयान्
हरिः ।
सुहृदाञ्च विशोकाय स्वसुश्च प्रियकाम्यया ॥”
युधिष्ठिरस्यानुचरविशेषः । यथा, महाभारते ।
२ । ३३ । ३० ।
“इन्द्रसेनो विशोकश्च पुरुश्चार्ज्जुनसारथिः ॥”)
शोकरहिते, त्रि ॥ (यथा, भागवते । १ । १९ । २१ ।
“लोकं परं विरजस्कं विशोकं
यास्यत्ययं भागवतप्रधानः ॥”
स्त्री, संप्रज्ञानसमाधेः पूर्व्वकालीना चित्तवृत्तिः ।
यथा, पातञ्जले । १ । ३६ ।
“विशोका वा ज्योतिष्मती ॥”)

विशोधनी, स्त्री, (विशोध्यतेऽनयेति । वि + शुध +

ल्युट् । ङीष् ।) दन्तीवृक्षः । इति राज-
निर्घण्टः ॥

विशोधिनी, स्त्री, नागदन्ती । इति राजनिर्घण्टः ॥

विशोधिनीबीजं, क्ली, जयपालः । इति केचित् ॥

विश्नः, पुं, (विच्छ दीप्तौ + “यजयाचयतविच्छेति ।”

३ । ३ । ९० । इति नङ् ।) दीप्तिः । इति
सिद्धान्तकौमुदी ॥ गतिः । इति मुग्धबोध-
टीकायां दुर्गादासः ॥

विश्रणनं, क्ली, (वि + श्रण + ल्युट् ।) दानम् ।

इति शब्दरत्नावली ॥

विश्रब्धः, त्रि, (वि + श्रन्भ + क्तः ।) अनुद्भटः ।

शान्तः । विश्वस्तः ॥ (यथा, राजतरङ्गिण्याम् ।
८ । २१२१ ।
“विश्रब्धभृत्यः शृङ्गारनामा चाप्यब्रवीत् प्रभोः ।
तं दृष्टवांस्तृतीयेऽह्नि शयनेऽवगणं स्थितम् ॥”)
अत्यर्थः । इति हेमचन्द्रः ॥ गाढः । इति
मेदिनी ॥ (निर्व्विशङ्कः । यथा, रामायणे ।
२ । १९ । ५ ।
“नियुज्यमानां विश्रब्धः किं न कुर्य्यामहं
प्रियम् ॥”)

विश्रब्धनवोढा, स्त्री, (विश्रब्धा विश्वस्ता नवोढा ।)

मुग्धानवोढाभेदः । यथा । स्वीया त्रिविधा
मुग्धा मध्या प्रगल्भा च । यथा अङ्कुरित-
यौवना मुग्धा । सा च ज्ञातयौवना अज्ञात-
यौवना च । सैव क्रमशो लज्जाभयपराधीन-
रतिर्नवोढा । सैव क्रमशो जातप्रश्रया विश्रब्ध-
पृष्ठ ४/४३७
नवोढा । अस्याश्चेष्टा क्रिया मनोहरा कोपे
मार्दवं नवविभूषणे समीहा च । विश्रब्धनवोढा
यथा, --
“दरमुकुलितनेत्रपाणिनीवी-
नियमितबाहुकृतोरुयुग्मबन्धम् ।
करकलितकुचस्थलं नवोढा
स्वपिति समीपमुपेत्य कस्य यूनः ॥”
इति रसमञ्जरी ॥

विश्रमः, पुं, (वि + श्रम + घञ् । वृद्ध्यभावः ।)

विश्रामः । इति भरतद्विरूपकोषः ॥ (यथा,
कातन्त्रकृत्सु । १ । ३ ।
“अविश्रमं यावदिदं शरीरं-
पतत्यवश्यं परिणामदुर्व्वहम् ॥”)

विश्रम्भः, पुं, (वि + श्रन्भ + घञ् ।) विश्वासः ।

इत्यमरः ॥ (यथा, भागवते । ३ । २३ । २ ।
“नित्यं पर्य्यचरत् प्रीत्या भवानीव भवं प्रभुम् ।
विश्रम्भेणात्मशौचेन गौरवेण दमेन च ॥”)
केलिकलहः । प्रणयः । इति मेदिनी । भे, २० ॥
वधः । इति विश्वः ॥

विश्राणनं, क्ली, (वि + श्रण + णिच् + ल्युट् ।)

दानम् । इत्यमरः ॥ (यथा, रघुः । २ । ५४ ।
“कथं नु शक्योऽनुनयो महर्षे-
र्विश्राणनाच्चान्यपयस्विनीनाम् ॥”)

विश्रान्तः, त्रि, श्रान्तियुक्तः । विपूर्ब्बकश्रमधातोः

क्तप्रत्ययेन निष्पन्नमिदम् ॥

विश्रान्तिः, स्त्री, विश्रामः । विपूर्व्वश्रमधातोः

क्तिप्रत्ययेन निष्पन्नमिदम् । (यथा, रामायणे ।
२ । २ । ८ ।
“जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये ॥”)
तीर्थविशेषः । यथा, --
राक्षस उवाच ।
“पुरी उज्जयनी नाम तस्यां वासो हि मे सदा ।
कस्मिंश्चिदथ कालेन गतोऽहं विष्णुमन्दिरम् ॥
तस्याग्रे तिष्ठते विप्रो वाचको वेदपारगः ।
विश्रान्तितीर्थमाहात्म्यं श्रावयेत् स दिने दिने ॥
यस्य श्रवणमात्रेण मम भक्तिर्हृदि स्थिता ।
सा संज्ञा च श्रुता तत्र विश्रान्तेश्च मयानघ ॥
वासुदेवो महाबाहुर्जगत्स्वामी जनार्द्दनः ।
विश्रामं कुरुते तत्र तेन विश्रान्तिसंज्ञिका ॥”
इति वाराहे विश्रान्तिमाहात्म्यनामाध्यायः ॥

विश्रामः, पुं, (वि + श्रम + घञ् ।) विरामः ।

इति भरतद्विरूपकोषः ॥ अस्य गुणाः ।
“विश्रामो बलकृत् स्वेदश्रमजित् स्वास्थ्यदः शुभः ॥”
इति राजवल्लभः ॥

विश्रावः, पुं, (विश्रवणमिति । वि + श्रु + “वौ

क्षुश्रुवः ।” ३ । ३ । २५ । इति घञ् ।) अति-
प्रसिद्धिः । इत्यमरः ॥ (ध्वनिः । यथा, भट्टिः ।
७ । ३६ ।
“विक्षावैस्तोयविश्रावं तर्ज्जयन्तो महोदधेः ॥”)

विश्रिः, पुं, मृत्युः । इति संक्षिप्तसारोणादिवृत्तिः ॥

विश्रुतः, त्रि, (वि + श्रु + क्तः ।) ख्यातः । इत्य-

मरः ॥ (यथा, कलाविलासे । २ । ५६ ।
“विद्वान् सुभगो मानी
विश्रुतकर्म्मा कुलोन्नतः शूरः ।
वित्तेन भवति सर्व्वो
वित्तहीनस्तु सद्गुणोऽप्यगुणः ॥”)
ज्ञातः । संहृष्टः । इति विश्वः ॥

विश्रुतिः, स्त्री, विख्यातिः । विपूर्व्वश्रुधातोः क्ति-

प्रत्ययेन निष्पन्नमिदम् ॥ (यथा, भागवते । ३ ।
२५ । २ ।
“विश्रुतौ श्रुतदेवस्य भूवि तृप्यन्ति मेऽसवः ॥”)

विश्लेषः, पुं, (वि + श्लिष् + घञ् ।) विधुरः ।

अयोगः । इति मेदिनी ॥ (यथा, रघुः । १३ । २३ ।
“सैषा स्थली यत्र विचिन्वता त्वां
भ्रष्टं मया नूपुरमेकमूर्व्व्याम् ।
अदृश्यत त्वच्चरणारविन्द-
विश्ले षदुःखादिव बद्धमौनम् ॥”)

विश्वं, क्ली, (विशति स्वकारणमिति । विश प्रवे-

शने + “अशूप्रषिलटिफणीति ।” उणा० १ । १५१ ।
इति क्वन् ।) जगत् । इति मेदिनी । वे, २३ ॥
(यथा, भागवते । ३ । १० । १२ ।
“विश्वं वै ब्रह्म तन्मात्रं संस्थितं विष्णुमायया ।
ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्त्तिना ॥”)
शुण्ठी । (अस्य पर्य्यायो यथा, --
“विश्वं महौषधं शुण्ठी नागरं विश्वभेषजम् ॥”
इति वैद्यकरत्नमालायाम् ॥
“शुण्ठी विश्वा च विश्वञ्च नागरं विश्वभेजम् ।
ऊषणं कटुभद्रञ्च शृङ्गबेरं महौषधम् ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
बोलम् । इति राजनिर्घण्टः ॥

विश्वः, पुं, गणदेवताविशेषः । इत्यमरः ॥

“वसुसत्यौ क्रतुदक्षौ कालकामौ धृत्रिः कुरुः ।
पुरूरवा माद्रवाश्च विश्वेदेवाः प्रकीर्त्तिताः ॥”
इति भरतः ॥ * ॥
“इष्टिश्राद्धे क्रतुर्दक्षः सत्यो नान्दीमुखे वसुः ।
नैमित्तिके कालकामौ काम्ये च धूरिलोचनौ ।
पुरूरवा माद्रवाश्च पार्व्वणे समुदाहृतौ ॥”
इति स्मृतिः ॥
ते तु धर्म्मात् दक्षकन्यायां विश्वायां जाताः ।
इति मात्म्ये ५ अध्यायः ॥ * ॥ नागरः । इति
विश्वः ॥ स्थूलशरीरव्यष्ट्युपहितचैतन्यम् । इति
वेदान्तसारः ॥ * ॥ परिमाणविशेषः । यथा, --
“गुञ्जाषण्णवतिस्तोलो दशघ्नं तद्भवेत् पलम् ।
विश्वा विंशपलं प्रोक्तं दिव्यं कोटिगुणं हि तत् ।
सैव कोटिगुणा ब्राह्मी विश्वाः शस्यादि-
सम्भवाः ॥”
इति ज्योतिष्मती ॥

विश्वः, त्रि, (विश + क्वन् ।) सकलम् । इत्यमरः ॥

(यथा, महाभारते । ३ । २१८ । १६ ।
“यस्तु विश्वस्य जगतो बुद्धिमाक्रम्य तिष्ठति ।
तं प्राहुरध्यात्मविदो विश्वजिन्नाम पावकम् ॥”
बहु । इति निघण्टुः । ३ । १ ॥)

विश्वकद्रुः, पुं, मृगयाकुशलकुक्कुरः । इत्यमरः ॥

ध्वानः । इति मेदिनी । रे, २९६ ॥

विश्वकद्रुः, त्रि, खलः । इति मेदिनी । रे, २९६ ॥

विश्वकर्म्मजा, स्त्री, (विश्वकर्म्मणः जायते इति ।

जन + डः ।) सूर्य्यभार्य्या । संज्ञा । इति शब्द-
रत्नावली ॥

विश्वकर्म्मसुता, क्ली, (विश्वकर्म्मणः सुता ।) सूर्य्य-

भार्य्या । संज्ञा । इति शब्दरत्नावली ॥

विश्वकर्म्मा, [न्] पुं, (विश्वेषु कर्म्म यस्य ।) सूर्य्यः ।

देवशिल्पी । इत्यमरः । तत्पर्य्यायः । त्वष्टा २
विश्वकृत् ३ देववद्धेकिः ४ । इति हेमचन्द्रः ॥
(यथा, महाभारते । १ । २१२ । १० ।
“दृष्ट्वा च विश्वकर्म्माणं व्यादिदेश पितामहः ॥”)
मुनिभेदः । इति मेदिनी । ने, २४७ ॥ स
प्रभासस्य वसोः पुत्त्रः । यथा, --
“विश्वकर्म्मा प्रभासस्य पुत्त्रः शिल्पप्रजापतिः ॥
प्रासादभवनोद्यानप्रतिमाभूषणादिषु ।
तडागारामकूपेषु स्मृतः सोऽमरवर्द्धकिः ॥”
इति मात्स्ये ५ अध्यायः ॥ * ॥
अन्यच्च ।
“प्रत्यूषस्य विदुः पुत्त्रमृषिं नाम्ना तु देवलम् ।
विश्वकर्म्मा प्रभासस्य विख्यातो देववर्द्धकिः ॥”
इति गारुडे ६ अध्यायः ॥ * ॥
अपि च ।
“बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी ।
योगसिद्धा जगत् कृत्स्नमसक्ता विचरत्युत ॥
प्रभासस्य तु भार्य्या सा वसूनामष्टमस्य तु ।
विश्वकर्म्मा महाभागस्तस्यां जज्ञे महामतिः ॥
कर्त्ता शिल्पसहस्राणां त्रिदशानाञ्च वर्द्धकिः ।
भूषणानाञ्च सर्व्वेषां कर्त्ता शिल्पवतां वरः ॥
यः सर्व्वेषां विमानानि देवतानां चकार ह ।
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः ॥”
इति विष्णुपुराणे १ अंशे १५ अध्यायः ॥
अन्यच्च ।
“द्वौ प्रोक्तौ विश्वकर्म्माणो मयस्त्वष्टा च योग-
वित् ॥
द्वौ धाता च विधाता च पौराणौ जगतः-
पती ॥”
इति वह्निपुराणे गणभेदो नामाध्यायः ॥
(चेतनाधातुः । तद्विवृतिर्यथा । “तत्र पूर्व्वं
चेतनाधातुः सत्त्वकरणो गुणग्रहणाय प्रवर्त्तते ।
स हि हेतुः कारणं निमित्तमक्षरं कर्त्ता मन्ता
वेदिता बोद्धा द्रष्टा धाता ब्रह्मा विश्वकर्म्मा
विश्वरूपः पुरुषः प्रभवोऽव्ययो नित्यो गुणी ग्रहणं
प्राधान्यमव्यक्तं जीवोज्ञः प्रतुलश्चेतनावान् विभु-
र्भूतात्मा चेन्द्रियात्मा चान्तरात्माचेति ।” इति
चरके शारीरस्थाने चतुर्थेऽध्याये ॥)

विश्वका, स्त्री, गङ्गाचिल्ली । यथा, --

“गङ्गाचिल्ली तु देवट्टी विश्वका जलकुक्कुटी ।”
इति हारावली ॥

विश्वकृत्, पुं, (विश्वं करोतीति । कृ + क्विप् ।)

विश्वकर्म्मा । इति हेमचन्द्रः ॥ (यथा, महा-
भारते । १ । २१२ । १३ ।
“त्रिषु लोकेषु यत्किञ्चित् भूतं स्थावरजङ्गमम् ।
पृष्ठ ४/४३८
समानयद्दर्शनीयं तत्तदत्र स विश्वकृत् ॥”
ब्रह्मा । यथा, भागवते । ९ । १४ । ८ ।
“निवेदितोऽथाङ्गिरसा सोमं निर्भर्त्स्य विश्व-
कृत् ।
तारां स्वभर्त्रे प्रायच्छदन्तर्वत्नीमवैत्पतिः ॥”)

विश्वकेतुः, पुं, (विश्वमेव केतुर्यस्य । विश्वव्यापी वा

केतुर्य्यस्य ।) अनिरुद्धः । इत्यमरः ॥

विश्वक्, व्य, सर्व्वतः । इत्यमरटीका ॥

विश्वक्शेनः, पुं, विष्णुः । इत्यमरटीकायां भरतः ॥

त्रयोदशमनुः । यथा, --
“मनुर्भूतेः सुतस्तद्बत् भौत्यो नाम भविष्यति ।
ततस्तु मेरुसावर्णब्रह्मसूनुर्मनुः स्मृतः ॥
ऋतुश्च ऋतुधामा च विश्वक्शेनो मनुस्तया ॥
अतीतानागताश्चैते मनवः परिकीर्त्तिताः ॥”
इति मात्स्ये ९ अध्यायः ॥ * ॥
विष्णोर्निर्म्माल्यधारिदेवता । यथा, --
“निर्म्माल्यधारी विष्णोस्तु विश्वक्शेनश्चतुर्भुजः ।
शङ्खचक्रगदापाणिर्दीर्घश्मश्रुर्जटाधरः ॥
रक्तपिङ्गलवर्णस्तु सितपद्मोपरिस्थितः ।
प-तृतीयस्वरान्तेन संयुतो बिन्दुनेन्दुना ॥
कीर्त्तितस्तस्य मन्त्रोऽयं तेन तं परिपूजयेत् ।
विसर्ज्जनं तथा विष्णोरैशान्यां परिकल्पयेत् ॥”
इति कालिकापुराणे ८२ अध्यायः ॥
(क्वचित् विश्वक्सेन इति पाठोऽपि दृश्यते ॥)

विश्वक्शेना, स्त्री, प्रियङ्गुवृक्षः । इति केचित् ॥

(केचित् द्वितीयशकारस्थाने सकारं पठन्ति ॥
यथा, --
“विश्वक्सेना प्रियाकान्ता प्रियङ्गुः फलिनी
फली ॥”
इति वैद्यकरत्नमालायाम् ॥
“पियङ्गुः फलिनी कान्त्रा लताच महिलाह्वया ।
गुन्द्रागुन्द्रफला श्यामा विश्वक्सेनाङ्गनाप्रिया”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

विश्वगः, पुं, (विश्वं गच्छतीति । गम + डः ।)

ब्रह्मा । इति हेमचन्द्रः ॥

विश्वगन्धं, क्ली, (विश्वे सर्व्वस्थाने गन्धो यस्य ।)

बोलम् । इति राजनिर्घण्टः ॥

विश्वगन्धः, पुं, (विश्वे सर्व्वदेहे गन्धो यस्य ।)

पलाण्डुः । इति राजनिर्घण्टः ॥

विश्वगन्धा, स्त्री, (विश्वेषु समस्तपदार्थेषु मध्ये गन्धा

गन्धविशिष्टा । क्षितावेव गन्ध इति न्यायादस्या-
स्तथात्वम् ।) पृथिवी । इति शब्दचन्द्रिका ॥

विश्वगोप्ता, [ऋ] पुं, (विश्वस्य गोप्ता ।) विष्णुः ।

इन्द्रः । इति केचित् ॥ (विश्वपालके, त्रि । यथा,
हरिवंशे । २५१ अध्याये ।
“त्वमेव विश्वगोप्तासि विश्वम्भर पवित्रमसि ॥”)

विश्वग्रन्थिः, स्त्री, हंसपदी । इति राजनिर्घण्टः ॥

विश्वग्वायुः, पुं, (विश्वग्गतो वायुः ।) सर्व्वतोगामि-

पवनः । अस्य गुणाः ।
“विश्वग्वायुरनायुष्यं प्राणिनां नैकदोषकृत् ।
सर्व्वर्त्तुलिङ्गको हन्ता कृत्योत्पातपुरःसरः ॥”
इति राजवल्लभः ॥

विश्वङ्, [च्] त्रि, सर्व्वत्रगामी । विश्वं अञ्चति

इत्यर्थे क्विप्प्रत्ययेन निष्पन्नमिदम् ॥

विश्वङ्करः, पुं, (विश्वं सर्व्वं करोति प्रकाशयतीति ।

कृ + बाहुलकात् टः द्वितीयाया अलुक् च ।)
चक्षुः । इति केचित् ॥

विश्वचक्रं, क्ली, (विश्वतः सर्व्वत्र चक्रं यस्य ।)

महादानविशेषः । यथा, --
मत्स्य उवाच ।
“अथातः संप्रवक्ष्यामि महादानमनुत्तमम् ।
विश्वचक्रमिति ख्यातं सर्व्वपातकनाशनम् ॥
तपनीयस्य शुद्धस्य विश्वचक्रन्तु कारयेत् ।
श्रेष्ठं पलसहस्रेण तदर्द्धेन तु मध्यमम् ॥
तस्यार्द्धेन कनिष्ठं स्याद्विश्वचक्रमुदाहृतम् ।
अन्यद्विं शत्पलादूर्द्ध्वमशक्तोऽपि निवेदयेत् ॥
षोडशारं ततश्चक्रं भूमिनेम्यष्टकावृतम् ॥
नाभिपद्मे स्थितं विष्णुं योगारूढं चतुर्भुजम् ॥
शङ्खचक्रस्य पार्श्वे तु देव्यष्टकसमावृतम् ।
द्वितीयावरणे तद्वत् पूर्ब्बतो जलशायिनम् ॥
अत्रिर्भृगुर्बशिष्ठश्च ब्रह्मा काश्यप एव च ।
मत्स्यः कूर्म्मो वराहश्च नरसिंहोऽथ वामनः ।
रामो रामश्च रामश्च बुद्धः कल्की च ते दश ॥
तृतीयावरणे गौरी मातृभिर्बहुभिर्युता ।
चतुर्थे द्वादशादित्या वेदाश्चत्वार एव च ॥
पञ्चमे पञ्चभूतानि रुद्राश्चैकादशैव तु ।
लोकपालाष्टकं षष्ठे दिङ्मातङ्गास्तथैव च ॥
सप्तमेऽस्त्राणि सर्व्वाणि मङ्गल्यानि च कारयेत् ।
अन्तरान्तरतो देवान् विन्यसेदष्टमे पुनः ॥
तुलापुरुषवत् शेषं समन्तात् परिकल्पयेत् ।
ऋत्विङ्मण्डपसंभारभूषणाच्छादनादिकम् ॥
विश्वचक्रं ततः कुर्य्यात् कृष्णाजिनतिलोपरि ।
तथाष्टादश धान्यानि रसाश्च लवणादयः ॥
पूर्णकुम्भाष्टकञ्चैव वस्त्राणि विविधानि च ।
माल्येक्षुफलरत्नानि वितानं चापि कल्पयेत् ॥
ततो मङ्गलशब्देन स्नातः शुक्लाम्बरो गृही ।
होमाधिवासनान्ते तु गृहीतकुसुमाञ्जलिः ॥
इममुच्चारयेन्मन्त्रं त्रिः कृत्वा तु प्रदक्षिणम् ।
नमो विश्वमयायेति विश्वचक्रात्मने नमः ॥
परमानन्दरूपि त्वं पाहि नः पापकर्द्दमात् ।
तेजोमयमिदं यस्मात् सदा पश्यन्ति योगिनः ॥
हृदि तत् त्रिगुणातीतं विश्वचक्रं नमाम्यहम् ।
वासुदेवे स्थितञ्चक्रं चक्रमध्ये च माधवम् ॥
अन्योन्याधाररूपेण प्रणमामि स्थिताविह ।
विश्वचक्रमिदं यस्मात् सर्व्वपापहरं परम् ।
आयुधञ्चाधिवासञ्च भवादुद्धर मामितः ॥
इत्यामन्त्र्य च यो दद्यात् विश्वचक्रममत्सरः ।
विमुक्तः सर्व्वपापेभ्यो विष्णुलोके महीयते ॥
वैकुण्ठलोकमासाद्य चतुर्ब्बाहुः सनातनः ।
सेव्यतेऽप्सरसां संघैस्तिष्ठेत् कल्पशतत्रयम् ॥
प्रणमेद्वाथ यः कुर्य्यात् विश्वचक्रन्दिने दिने ।
तस्यायुर्व्वर्द्धते नित्यं लक्ष्मीश्च विपुला भवेत् ॥
इति सकलजगत्सुराधिवासं
वितरति यस्तपनीयषोडशारम् ।
हरिभवनमुपागतः स सिद्धै-
श्चिरमधिगम्य नमस्यते शिरोभिः ॥
असुदर्शनतां प्रयाति शत्रो-
र्मदनसुदर्शनताञ्च कामिनीनाम् ।
ससुदर्शनकेशवानुरूपं
कनकसुदर्शनदानदग्धपापः ॥
कृतगुरुदुरितारिषोडशारं
प्रवितरणप्रवराकृतिं मुरारेः ।
अभिभवति भवोद्भवानि भित्त्वा
भवमभितो भवने भवानि भूयः ॥”
इति मात्स्ये महादानानुकीर्त्तने विश्वचक्रप्रादा-
निको नाम २५९ अध्यायः ॥

विश्वचक्रात्मा, [न्] पुं, (विश्वचक्रं ब्रह्माण्डमेव

आत्मा स्वरूपं यस्य ।) विष्णुः । यथा, --
“नमो विश्वमयायेति विश्वचक्रात्मने नमः ।
परमानन्दरूपी त्वं पाहि नः पापकर्द्दमात् ॥”
इति मात्स्ये २५९ अध्यायः ॥

विश्वजित्, पुं, (विश्वं जयतीति । जि + क्विप् ।

तुक् च ।) यज्ञभेदः । इति जटाधरः ॥ (यथा,
रघुः । ५ । १ ।
“तमध्वरे विश्वजिति क्षितीशं
निःशेषविश्राणितकोषजातम् ।
उपात्तविद्यो गुरुदक्षिणार्थी
कौत्सः प्रपेदे वरतन्तुशिष्यः ॥”)
न्यायविशेषः । यथा । यत्तु फलाश्रुतेर्नित्यत्व-
मभिहितं तत् फलाश्रुतौ विश्वजिन्न्यायात् स्वर्गः
कल्प्यते । इत्यनेन विरुद्धमिति । स च न्यायो
यथा । विश्वजिता यजेत इत्यादि श्रूयते ।
इत्येकादशीतत्त्वम् ॥ वरुणपाशः । इति केचित् ॥
(अग्निविशेषः । यथा, महाभारते । ३ । २१८ । १६ ।
“यस्तु विश्वस्य जगतो बुद्धिमाक्रम्य तिष्ठति ।
तं प्राहुरध्यात्मविदो विश्वजिन्नामपावकम् ॥”
दानवविशेषः । यथा, तत्रैव । १२ । २२७ । ५१ ।
“विश्वजित् प्रतिरूपश्च वृषान्तो विष्करो
मधुः ॥”
दृढरथस्य पुत्त्रः । यथा, हरिवंशे । ३१ । ५१ ।
“आसीद्दृढरथस्यापि विश्वजिज्जनमेजय ॥”
सत्यजित्तनयः । यथा, तत्रैव । २० । १९ ।
“सत्यजित्तनयस्तस्य विश्वजित्तस्य चात्मजः ॥”
विश्वजयिनि, त्रि । यथा, भागवते । ७ । ४ । ७ ।
“सर्व्वसत्त्वपतीन् जित्वा वशमानीय विश्वजित् ।
जहार लोकपालानां स्थानानि सह तेजसा ॥”)

विश्वतः, [स्] व्य, (विश्व + तसिल् ।) सर्व्वतः ।

इत्यमरटीका ॥ (यथा, भागवते । १० । ३१ । ३ ।
“वृषमयात्मजाद्विश्वतो भयात्
ऋषभ ते वयं रक्षिता मुहुः ॥”)

विश्वदेवः, पुं, (विश्वे दीव्यतीति । दिव + अच् ।)

गणदेवताविशेषः । इत्यमरटीका ॥
“विश्वदेवौ क्रतुदक्षौ सर्व्वास्विष्टिषु विश्रुतौ ।
नित्यं नान्दीमुखश्राद्धे वसुसत्यौ च पैतृके ॥
नवान्नालम्भने देवौ कामकालौ सदैव हि ।
अपि कन्यागते सूर्य्ये श्राद्धे च ध्वनिरोचकौ ।
पृष्ठ ४/४३९
पुरूरवाश्चाद्रवाश्च विश्वदेवौ च पर्व्वणि ॥”
इति वह्निपुराणे गणभेदनामाध्यायः ॥
(विश्वस्य देवतास्वरूपे, त्रि । यथा, हरिवंशे ।
१८९ । १६ ।
“श्रुतं मे विश्वदेवानां यद्रहस्यं महर्षिणाम् ।
तदिदं सर्व्वदेवानां तत्त्वतस्तत्त्ववादिनाम् ॥”)

विश्वदेवा, स्त्री, ह्रस्वगवेधुका । गोरक्चाकुलिया

इति भाषा । इति जटाधरः ॥ नागबला ।
अरुणपुष्पदण्डोत्पलः । इति रत्नमाला ॥

विश्वद्र्यङ्, [च्] त्रि, सर्व्वत्रगमनकर्त्ता । विष्वक्

समन्तात् अञ्चति गच्छति विष्वद्र्यङ् सर्व्वतो-
गामी मूर्द्धन्यमध्यः तालव्यमध्योऽपीत्येके । इत्य-
मरभरतौ ॥

विश्वधारिणी, स्त्री, (विश्वं सर्व्वं धरतीति । धृ +

णिनिः । ङीप् ।) पृथिवी । इति केचित् ॥

विश्वनाथः, पुं, (विश्वस्य नाथः ।) शिवः । इति

शब्दरत्नावली ॥ (यथा, वैराग्यशतके । १०१ ।
“न गृहीतं श्रुतिहृदयं
न चन गृहीतं परिप्लवं हृदयम् ।
इच्छामि च धाम परं
गच्छामि तु विश्वनाथपुरीम् ॥”
साहित्यदर्पणप्रणेता पण्डितविशेषः । यथा,
साहित्यदर्पणे ।
“श्रीचन्द्रशेखरमहाकविचन्द्रसूनु-
श्रीविश्वनाथकविराजकृतं प्रबन्धम् ।
साहित्यदर्पणममुं सुधियो विलोक्य
साहित्यतत्त्वमखिलं सुखमेव वित्त ॥”
विद्यानिवासभट्टाचार्य्यपुत्त्रः पञ्चाननोपाधिकः
भाषापरिच्छेदसिद्धान्तमुक्तावलीप्रणेतापरपण्डि-
तविशेषः ॥)

विश्वपर्णी, स्त्री, भूम्यामलकी । इति राज-

निर्घण्टः ॥

विश्वपाः, पुं, (विश्वं पातीति । पा + विच् ।)

विश्वपालनकर्त्ता । स तु परमेश्वरः । इति
मुग्धबोधव्याकरणम् ॥ (यथा, हरिवंशे । २५१
अध्याये ।
“विश्वस्य पते घृताव्यसि अनन्तकर्म्मन् द्रुघण-
वंशप्राग्वंश विश्वपास्त्वम् ॥”)

विश्वप्सा, [न्] पुं, (विश्वं प्सातीति । प्सा + भक्षणे

+ “श्वनुक्षन्पूषनप्लीहन्निति ।” ऊणा० १ ।
१५८ । इति कनिन्प्रत्ययेन साधुः ।) अग्निः ।
चन्द्रः । इति हेमचन्द्रः ॥ देवः । विश्वकर्म्मा ।
इति संक्षिप्तसारोणादिवृत्तिः ॥ सूर्य्यः । इति
शब्दरत्नावली ॥

विश्वबोधः, पुं, (विश्वस्य बोधो यस्य ।) बुद्धः ।

इति त्रिकाण्डशेषः ॥

विश्वभूः, पुं, बुद्धभेदः । इति हेमचन्द्रः ॥

विश्वभेषजं, क्ली, (विश्वेषां भेषजम् ।) शुण्ठी ।

इत्यमरः ॥ (यथा, सुश्रुते । १ । ४४ ।
“विश्वभेषजमृद्वीकाचित्रकैर्मूत्रभावितैः ॥”
तथास्य गुणाः ।
“सस्नेहं दीपनं वृष्यमुष्णं वातकफापहम् ।
विपाके मधुरं हृद्यं रोचनं विश्वभेषजम् ॥”
इति चरके सूत्रस्थाने २७ अध्यायः ॥)

विश्वभोजाः, [स्] पुं, सर्व्वभुक् । विश्वशब्दपूर्ब्बक-

भुजधातोः औणादिकासिप्रत्ययेन निष्पन्नमिदम् ॥
(विश्वरक्षके, त्रि । यथा, ऋग्वेदे । ५ । ४१ । ४ ।
“पूषाभागःप्रभॄथे विश्वभोजाः ॥”
“विश्वभोजा विश्वरक्षकाः ।” इति तद्भाष्ये
सायणः ॥)

विश्वमदा, स्त्री, अग्निजिह्वा । यथा, --

“काली कराली च मनोजवा च
सुलोहिता चैव च धूम्रवर्णा ।
स्फुलिङ्गिनी विश्वमदार्च्चिसोऽग्नेः
सप्तैव जिह्वाः कथिता मुनीन्द्रैः ॥”
इति शब्दमाला ॥

विश्वम्भरः, पुं, (विश्वं बिभर्तीति । भॄ + “संज्ञायां

भॄहॄवृजीति ।” ३ । २ । ४६ । इति खच् । “अरु-
र्द्विषदिति ।” ६ । ३ । ६७ । इति मुम् ।) विष्णुः ।
(यथाह कश्चित् ।
“विश्वम्भर ! भरास्माकं विश्वस्माद्बा वहिःकुरु ।
अथ पक्षद्वयाभावे त्यज विश्वम्भरत्वकम् ॥”)
इन्द्रः । इति मेदिनी । रे, २९५ ॥

विश्वम्भरा, स्त्री, (विश्वं बिभर्तीति । भॄ + खच् ।

मुम् । टाप् ।) पृथिवी । इत्यमरः ॥ अस्या
व्युत्पत्तिर्यथा, --
“विश्वम्भरा तद्धरणाच्चानन्तानन्तरूपतः ।
पृथिवी पृथुकन्यात्वाद्विस्तृतत्वान्महामुने ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ७ अध्यायः ॥
(यथा, उत्तरचरिते । १ अङ्के ।
“विश्वम्भरा भगवती भवतीमसूत
राजा प्रजापतिसमो जनकः पिता ते ॥”)

विश्वयुः, पुं, वायुः । इति केचित् ॥

विश्वरूपः, पुं, (विश्वमेव रूपं यस्य ।) विष्णुः ।

इति हेमचन्द्रः ॥ (महादेवः । यथा, महा-
भारते । ७ । २०० । १२४ ।
“विश्वे देवाश्च यत्तस्मिन् विश्वरूपस्ततः
स्मृतः ॥”
त्वष्टृपुत्त्रः । यथा, विष्णुपुराणे । १ । १५ । १२२ ।
“त्वष्टुश्चाप्यात्मजः पुत्त्री विश्वरूपो महा-
यशाः ॥”
सर्व्वरूपे, त्रि । यथा, भागवते । ६ । ४ । २८ ।
“स सर्व्वनाना स च विश्वरूपः
प्रसीदतामनिरुक्तात्मशक्तिः ॥”)

विश्वरूपकं, क्ली, कृष्णागुरु । इति राजनिर्घण्टः ॥

विश्वरेताः, [स्] पुं, (विश्वे रेतः शक्तिर्यस्य ।)

ब्रह्मा । इति हेमचन्द्रः ॥

विश्वरोचनः, पुं, (विश्वान् रोचयतीति । रुच् +

ल्युः ।) नाडीचशाकः । यथा, --
“केचुकं पेचुली पेचुर्नाडीचो विश्वरोचनः ॥”
इति त्रिकाण्डशेषः ॥

विश्ववेदाः, [स्] त्रि, सर्व्वज्ञः । विश्वं वेत्ति

इत्यर्थे विश्वशब्दपूर्ब्बविदधातोरस्प्रत्ययेन निष्पन्न
मिदम् । यथा, --
“स्वस्ति न इन्द्रो वृद्धश्रवाः
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः
स्वस्ति नो बृहस्पतिर्दधातु ॥”
इति यजुर्व्वेदिस्वस्तिवाचनमन्त्रः ॥
(यथाच भागवते । ८ । ३ । २६ ।
“सोऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसम् ।
विश्वात्मानमजं ब्रह्म प्रणतोऽस्मि परं पदम् ॥”)

विश्वसहा, स्त्री, अग्निजिह्वाविशेषः । यथा, --

“हेतिः शिखा च सप्ताग्नेर्जिह्वास्ता एव
कीर्त्तिताः ।
काली कराली सुहिता धूम्रवर्णा मनोजवा ।
स्फुलिङ्गिनी विश्वसहा संज्ञास्तासामुदाहृताः ॥”
इति जटाधरः ॥

विश्वसारं, क्ली, (विश्वेषां सारम् ।) तन्त्रविशेषः ।

इति प्रसिद्धम् ॥

विश्वसारकं, क्ली, (विश्वसार + संज्ञायां कन् ।)

विदरवृक्षः । इति शब्दचन्द्रिका ॥ फणिमनसा ।
इति भाषा ॥

विश्वसितः, त्रि, (वि + श्वस + क्तः ।) विश्वस्तः ।

इति मुग्धबोधव्याकरणम् ॥ (यथा, नैषधे । १ । १३१ ।
“ब केवलं प्राणिवधो वधो मम
त्वदीक्षणाद्विश्वसितान्तरात्मनः ॥”)

विश्वसृक्, [ज्] पुं, (विश्वं सृजतीति । सृज् +

क्विप् ।) ब्रह्मा । इत्यमरः ॥ (विश्वस्रष्टरि, त्रि ।
यथा, रघुः । १० । १६ ।
“नमो विश्वसृजे पूर्ब्बं विश्वं तदनु विभ्रते ।
अथ विश्वस्य संहर्त्ते तुभ्यं त्रेधा स्थितात्मने ॥”)

विश्वस्तः, त्रि, (वि + श्वस + क्तः ।) जातविश्वासः ।

इति मेदिनी । ते, १५५ ॥ यथा, --
“न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।
विश्वासाद्भयमुत्पन्नं मूलादपि निकृन्तति ॥”
इति गारुडे ११४ अध्यायः ॥

विश्वस्ता, स्त्री, विधवा । इत्यमरः ॥ (यथा, साहित्य-

दर्पणे । १० परिच्छेदे ।
“स्तनयुगमुक्ताभरणाः
कण्टककलिताङ्गयष्टयो देव ।
त्वयि कुपितेऽपि विश्वस्ताः
पागेव रिपुस्त्रियो जाताः ॥”)

विश्वस्था, स्त्री, (विश्वतः सर्व्वतः तिष्ठतीति ।

विश्व + स्था + कः ।) शतावरी । इति राज-
निर्घण्टः ॥

विश्वा, स्त्री, (विश + क्वन् । स्त्रियां टाप् ।) अति-

विषा । इत्यमरः ॥ शतावरी । इति राज
निर्घण्टः ॥ पिप्पली । इति शब्दचन्द्रिका ॥
(दक्षकन्याविशेषः । यथा, महाभारते । १ ।
६५ । १२ ।
“क्रोधा प्राधा च विश्वा च वनिता कपिला-
मुनिः ॥”)

विश्वाची, स्त्री, अप्सरोविशेषः । यथा, --

“उर्व्वशी मेनका रम्भा मिश्रकेशी ह्यलम्बुषा ।
विश्वाची च घृताची च पञ्चचूडा तिलोत्तमा ॥
पृष्ठ ४/४४०
भानुमत्यबला वर्च्चा द्वादशाप्सरसः शुभाः ॥”
इति वह्निपुराणे गणभेदनामाध्यायः ॥
(बाहुरोगविशेषः । तल्लक्षणादिकं यथा, --
“अथ विश्वाचीलक्षणमाह ।
‘तलं प्रत्यङ्गुलीनां या कण्डरा बाहुपृष्ठतः ।
बाह्वोः कर्म्मक्षयकरी विश्वाची नाम सा स्मृता ॥”
कण्डरा महास्नायुः तलं हस्तस्योपरिभागः ।
तलशब्दोऽत्र उपरिवाचकः यथा भूमितल-
मिति । तेनायमर्थः । बाहुपृष्ठतः बाह्वोः पृष्ठं
बाहुपृष्ठमारभ्य तलं प्रतिहस्ततलं यावल्लक्षी-
कृत्य कण्डरास्ताः सन्दूष्य बाह्वोः प्रसारणा-
कुञ्चनादिकर्म्मक्षयकरा भवति सा इह वात-
व्याधिषु विश्वाचीत्युच्यते बाह्वोरिति द्वित्वं
सम्भवपरम् । एकस्मिन्नपि बाहौ विश्वाची
भवति ।” इति भावप्रकाशः ॥)

विश्वात्मा, [न्] पुं, (विश्वमेव आत्मा यस्य विश्वस्य

आत्मा इति वा ।) विष्णुः । यथा, --
“जन्म कर्म्म च विश्वात्मन्नजस्याकर्त्तुरात्मनः ।
तिर्य्यङ्नॄषिषु यादःसु तदत्यन्तविडम्बनम् ॥”
इति श्रीभागवते १ स्कन्धे ८ अध्यायः ॥
(महादेवः । यथा, कुमारे । ६ । १ ।
“अथ विश्वात्मने गौरी सन्दिदेश मिथः सखीम् ।
दाता मे भूभृतां नाथः प्रमाणीक्रियतामिति ॥”)

विश्वाधायाः [स्] पुं, देवता । इति सिद्धान्त-

कौमुदी ॥

विश्वामित्रः, पुं, (विश्वमेव मित्रमस्य । “मित्त्रे

चर्षौ ।” ६ । ३ । १३० । इति विश्वस्य दीर्घः ।)
ब्रह्मर्षिविशेषः । तत्पर्य्यायः । गाधिजः २ ।
इति त्रिकाण्डशेषः ॥ त्रिशङ्कुयाजी ३ गाधेयः ४
कौशिकः ५ । इति हेमचन्द्रः ॥ गाधिभूः ६ ।
इति शब्दरत्नावली ॥ तस्योत्पत्तिर्यथा, --
“कृतदारं सुतं श्रुत्वा द्रष्टुं पुत्त्रं स्वकं भृगुः ।
अथाजगाम मतिमान् स्नुषां दृष्ट्वा ननन्द च ॥
दम्पती तं समासीनं भृगुं देवगणार्च्चितम् ।
पूजयित्वा समासीनं तस्थतुस्तौ कृताञ्जली ॥
ततो भृगुः स्नुषां स्वीयां सुप्रीत इदमब्रवीत् ।
वरं वृणीष्व दास्यामि वाञ्छितं वरवर्णिनि ।
अदेयं दुष्करं वापि यत्र ते वर्त्तते स्पृहा ॥
ततः सत्यवती पुत्त्रं तपस्याम्नायपारगम् ।
मातुश्च वीरमतुलं पुत्त्रं वरमयाचत ॥
स चैवमस्त्वित्युक्त्वैव भूत्वा ध्यानपरस्तदा ।
विश्वमावर्त्त्य मनसा यत्नात् श्वासं ससर्ज्ज सः ॥
तस्य निश्वासवातात्तु निःसृतं वै चरुद्वयम् ।
तस्यै तत् द्वितयं दत्त्वा भृगुस्तामिदमब्रवीत् ॥
चरुद्वयं गृहाण त्वं स्नुषे सत्यवति स्वयम् ।
स्नात्वा ऋतौ ऋतौ माता तदा त्वञ्च करिष्यथः ।
आलिङ्ग्याश्वत्थवृक्षं ते माता पुंसवनाय वै ।
चरुमारक्तकं चेमं सा भोक्ष्यति सुतस्ततः ॥
त्वचौडुम्बरवृक्षन्तु समालिङ्ग्य सितं चरुम् ।
भोक्ष्यस्येतेन पुत्त्रस्ते भविष्यति सनातनः ॥
एवमुक्त्वा भृगुर्यातो यथेच्छं सापि संमुदम् ।
अवाप मात्रा सहिता भर्त्रा पित्रा च भाविनी ।
अथ स्नानदिनेऽश्वत्थमालिङ्ग्यारक्तकं चरुम् ।
अद्यात् सत्यवती तस्या माता फल्गुं सितं
चरुम् ॥
परिवर्त्तन्तु तं ध्यात्वा दिव्यध्यानो भृगुर्म्मुनिः ।
अथागत्य स्नुषां तान्तु वचनञ्चेदमब्रवीत् ॥
विपर्य्ययस्त्वया भद्रे वृक्षालिङ्गनकर्म्मणि ।
तथा चरुप्राशने च तत्रेदन्ते भविष्यति ॥
ब्राह्मणः क्षत्त्रियाचारस्तव पुत्त्रो भविष्यति ।
क्षत्त्रियो प्राह्मणाचारो मातुस्ते भविता सुतः ॥
इत्युक्ता भृगुणा साध्वी तदा सत्यवती भृगुम् ।
पुनः प्रसादयामास पौत्त्रो मेऽस्त्विति तादृशः ।
एवमस्त्विति प्रोक्त्वा स तत्रैवान्तर्द्दधे भृगुः ॥
अथ काले सुतं दीप्तं यमदग्निञ्च गाधिजा ।
सुषुवे जननी तस्या विश्वामित्रं तपोनिधिम् ॥
यमदग्निस्ततो वेदान् चतुरः प्राप माचिरम् ।
प्रादुरासद्धनुर्व्वेदः स्वयं तस्मिन् महात्मनि ॥
विश्वामित्रोऽपि सकलान् वेदानपि तथाचिरात् ।
धनुर्व्वेदं तथा कृत्स्नं विप्रश्चाभूत्तपोधनः ॥
जाज्वल्यमानस्तेजस्वी यमदग्निर्म्महातपाः ।
वेदैस्तपोभिः स मुनीनत्यक्रामच्च सूर्य्यवत् ॥”
इति कालिकापुराणे ८४ अध्यायः ॥
(आयुर्व्वेदपारदर्शी सुश्रुतोऽस्य पुत्त्रः । यथा, --
“अथ ज्ञानदृशा विश्वामित्रप्रभृतयोऽविदन् ।
अयं धन्वन्तरिः काश्यां काशिराजोऽयमुच्यते ॥
विश्वामित्रो मुनिस्तेषु पुत्त्रं सुश्रुतमुक्तवान् ।
वत्स ! वारानसीं गच्छ त्वं विश्वेश्वरवल्लभाम् ॥
तत्र नाम्ना दिवोदासः काशिराजोऽस्ति
बाहुजः ।
स हि धन्वन्तरिः साक्षादायुर्व्वेदविदांवरः ॥
आयुर्व्वेदं ततोऽधीत्य लोकोपकृतिहेतवे ।
सर्व्वप्राणिदयातीर्थमुपकारो महामखः ॥
पितुर्व्वचनमाकर्ण्य सुश्रुतः काशिकां गतः ।
तेन सार्द्धं समध्येषु मुनिसूनुशतं ययौ ॥”
इति भावप्रकारशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
“विश्वामित्रसुतः श्रीमान् सुश्रुतः परिपृच्छति ॥”
इत्युत्तरतन्त्रे षट्षष्टितमेऽध्याये सुश्रुतेनोक्तम् ॥
विश्वस्मिन्नास्तिमित्रं यस्मात् । परममित्रम् । यथा,
“जनकेनाभिरामाय ददौ राज्यमकण्टकम् ।
मिश्वामित्रं पुरस्कृत्य वनवासं ततो ययौ ॥”
इत्युद्भटः ॥)

विश्वामित्रप्रियः, पुं, (विश्वामित्रस्य प्रियः ।) नारि-

केलः । इति शब्दरत्नावली ॥ (कार्त्तिकः ।
यथा, महाभारते । ३ । २३१ । ८ ।
“विश्वामित्रप्रियश्चैव देवसेनाप्रियस्तथा ॥”)

विश्वाराट्, [ज्] पुं, विश्वेषु राजते यः । विश्वेषां

राट् राजा इति वा । इति मुग्धबोधव्याकर-
णम् ॥ (“विश्वस्य वसुराटोः ।” ६ । ३ । १२८ ।
इति दीर्घः ॥)

विश्वावसुः, पुं, (विश्वं वसु यस्य । “विश्वस्य वसु-

राटोः ।” ६ । ३ । १२८ । इति पूर्ब्बपदान्तस्य
दीर्घः ।) गन्धर्व्वभेदः । इति मेदिनी ॥ यथा, --
“अभ्राजोऽङ्घारिवग्भारी सूर्य्यवर्च्चास्तथा कृधुः ।
हस्तः सुहस्तः स्वाञ्चैव मूर्द्ध्वन्वांश्च महामनाः ।
विश्वावसुः कृशानुश्च गन्धर्व्वैकादशो गणः ॥”
इति वह्निपुराणे गणभेदनामाध्यायः ॥
(विष्णुः । यथा, महाभारते । ६ । ६२ । ४५ ।
“विश्वावसुर्विश्वमूर्त्तिर्विश्वेशो
विश्वक्सेनो विश्वकर्म्मा वशो च ॥” * ॥
वत्सरविशेषः । यथा, बृहत्संहितायाम् । ८ । ४१ ।
“क्रोधी तृतीयः परतः क्रमेण
विश्वावसुश्चेति पराभवश्च ॥”
तत्फलं यथा, चिन्तामणिधृतवचनम् ।
“सर्व्वत्र जायते क्षेमं सर्व्वशस्यमहार्घता ।
विश्वावसौ वरारोहे कार्पासस्य महार्घता ॥”)
निशि स्त्री । इति मेदिनी ॥

विश्वासः, पुं, (वि + श्वस + घञ् ।) प्रत्ययः । तत्-

पर्य्यायः । विश्रम्भः २ । इत्यमरः ॥ आश्वासः ३
आश्रमः ४ । इति शब्दरत्नावली ॥ * ॥
“लोभप्रमादविश्वासैः पुरुषो नश्यति त्रिभिः ।
तस्माल्लोभो न कर्त्तव्यः प्रमादो न न विश्वसेत् ॥
सा श्रीर्या न मदं कुर्य्यात् स सुखी तृष्णयोज्-
झितः ।
तन्मित्रं यस्य विश्वासः पुरुषः स जितेन्द्रियः ॥”
इति गारुडे नीतिसारे ११५ अध्यायः ॥
“यस्य यावांश्च विश्वासस्तस्य सिद्धिश्च तावती ।
एतावानिति कृष्णस्य प्रभावः परिमीयते ॥”
इति तत्रैव २३४ अध्यायः ॥
“न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।
विश्वासाद्भयमुत्पन्नं मूलादपि निकृन्तति ॥”
इति च गारुडे ११४ अध्यायः ॥ * ॥
“नखिनाञ्च नदीनाञ्च शृङ्गिणा शस्त्रपाणिनाम् ।
विश्वासो नैव कर्त्तव्यः स्त्रीषु राजकुलेषु च ॥
न विश्वसेदविश्वस्तं मित्रञ्चापि न विश्वसेत् ।
कदाचित् कुपितं मित्रं गुप्तदोषं प्रकाशयेत् ॥”
इति चाणक्यम् ॥

विश्वासघातकः, त्रि, विश्वासं हन्ति यः । (विश्वास

+ हन् + ण्वुल् ।) विश्रम्भनाशकः । यथा, --
“न भाराः पर्व्वता भारा न भाराः सप्त
सागराः ।
निन्दका हि महाभारा भारा विश्वास-
घातकाः ॥”
इति कर्म्मलोचनम् ॥

विश्वेदेवाः, पुं, अग्निः । श्राद्धदेवः । इति संक्षिप्त-

सारोणादिवृत्तिः ॥
“क्रतुर्दक्षो वसुः सत्यः कामः कालस्तथा ध्वनिः ।
रोचकश्चाद्रवाश्चैव तथा चान्ये पुरूरवाः ।
विश्वेदेवा भवन्त्येते दश सर्व्वत्र पूजिताः ॥”
इति वह्निपुराणे गणभेदनामाध्यायः ॥
अन्यद्विश्वशब्दे द्रष्टव्यम् ॥

विश्वेशः, पुं, (विश्वस्य ईशः ।) शिवः । इति शब्द-

रत्नावली ॥ (विष्णुः । यथा, भागवते । १ ।
८ । ४१ ।
“अथ विश्वेश विश्वात्मन् विश्वमूर्त्ते स्वकेषु मे ।
स्नेहपाशमिमं छिन्धि दृढं पाण्डुषु वृष्णिषु ॥”)
पृष्ठ ४/४४१

विश्वेश्वरः, पुं, (विश्वस्य ईश्वरः ।) काशीस्थ-

महादेवः । यथा, --
“सर्व्वतीर्थेषु सस्नौ स सर्व्वयात्रां व्यधात् स च ।
मनिकर्ण्यान्तु यः स्नातो यो विश्वशं निरैक्षत ॥
सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः ।
दृश्यो विश्वेश्वरो नित्यं स्नातव्या मणिकर्णिका ॥”
इति काशीखण्डम् ॥
(यथाच तन्त्रे ।
“मुखेन वाद्यं सलिलेन पाद्यं
मूर्त्तिर्मृदा विल्वदलेन पूजा ।
फलं पुनस्तस्य भवेदनन्तं
निःस्वस्य विश्वेश्वर एव देवः ॥”)

विश्वौषधं, क्ली, (विश्वेषामौषधम् ।) शुण्ठी । इति

राजनिर्घण्टः ॥

विष, इर् लि ञ औ ङ व्याप्तौ । इति कवि-

कल्पद्रुमः ॥ (ह्वा०-उभ०-आत्म०-इत्येके-सक०-
अनिट् ।) इर्, अविषत् अविक्षत् । लि ञ,
वेवेष्टि वेविष्टे । औ, वेष्टा । ङ, वेविष्टे । उभय-
पदीत्यन्ये । अफलवत् कर्त्तरि आत्मने पदार्थो
ङकारः । इति दुर्गादासः ॥

विष, उ सेचने । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् । क्त्वावेट् ।) उ, वेषित्वा
विष्ट्वा । इति दुर्गादासः ॥

विष, ग औ विप्रयोगे । इति कविकल्पद्रुमः ॥

(क्र्या०-पर०-अक०-अनिट् ।) ग, विष्णाति
ज्ञानी पुत्त्रादिभ्यो वियुक्तः स्यात् इत्यर्थः । औ,
अविक्षत् । दन्त्यान्तोऽयमिति । विष्णुव्युत्पत्तौ
सुभूतिः । इति दुर्गादासः ॥

विषं, क्ली, (विष सेचने + कः ।) जलम् । इत्य-

मरः । पद्मकेशरम् । इति तट्टीकायां मुकुटः ॥
वोलम् । वत्सनाभः । सामान्यविषम् । इति
राजनिर्घण्टः ॥

विषः, पुं, क्ली, (विष + कः ।) विषम् । तत्पर्य्यायः ।

क्ष्वेडः २ गरलम् ३ । इत्यमरः ॥ आहेयम् ४
अमृतम् ५ गरदम् ६ कालकूटम् ७ कलाकूलम्
८ हारिद्रम् ९ रक्तशृङ्गिकम् १० नीलम् ११
गरम् १२ घोरम् १३ हालाहलम् १४ हला-
हलम् १५ शृङ्गी १६ भूगरम् १७ । इति राज-
निर्घण्टः ॥ जाङ्गलम् १८ तीक्ष्णम् १९ रसः २०
रसायनम् २१ गरः २२ । इति जटाधरः ॥
जङ्गुलम् २३ जाङ्गुलम् २४ । इति शब्दरत्ना-
वली ॥ काकोलः २५ वत्सनाभः २६ प्रदीपनः
२७ शौल्किकेयः २८ ब्रह्मपुत्त्रः २९ । इति
रत्नमाला ॥ तद्भेदा यथा, --
“पुंसि क्लीवे च काकोलकालकूटहलाहलाः ।
सौराष्ट्रिकः शौल्किकेयो ब्रह्मपुत्त्रः प्रदीपनः ॥
दारदो वत्सनाभश्च विषभेदा अमी नव ॥”
इति पातालवर्गे अमरः ॥ * ॥
अपि च ।
“विषः क्ष्वेडो रसस्तीक्ष्णं गरलोऽथ हला-
हलः ।
वत्सनाभः कालकूटो ब्रह्मपुत्त्रः प्रदीपनः ॥
सौराष्ट्रिकः शौल्किकेयः काकोलो दारदोऽपि
च ।
अहिच्छत्रो मेषशृङ्गकुष्ठवालूकनन्दनाः ॥
कैराटको हैमवतो मर्कटः करवीरकः ।
सर्षपो मूलको गौरार्द्रकः सक्तुककर्द्दमौ ॥
अङ्कोल्लसारः कालिङ्गः शृङ्गिको मधुसिक्थकः ।
इन्द्रो लाङ्गलिको विस्फुलिङ्गपिङ्गलगौत्तमाः ।
मुस्तको दालवश्चेति स्थावरा विषजातयः ॥”
इति हेमचन्द्रः ॥
अथ विषस्य नामलक्षणगुणाः ।
“विषं तु गरलं क्ष्वेडस्तत्तद्भेदानुदाहरेत् ।
वत्सनाभः सहारिद्रः सक्तुकश्च प्रदीपनः ॥
सौराष्ट्रिकः शृङ्गकश्च कालकूटस्तथैव च ।
हालाहलो ब्रह्मपुत्त्रो विषभेदा अमी नव ॥”
तत्र वत्नाभस्य स्वरूपनिरूपणम् ।
“सिन्धुवारसदृकपत्रो वत्सनाभ्याकृतिस्तथा ।
यत्पार्श्वे न तरोवृद्धिर्व्वत्सनाभः स भाषितः ॥”
अथ हारिद्रस्य स्वरूपम् ।
“हरिद्रातुल्यमूलो यो हारिद्रः स उदाहृतः ॥”
अथ सक्तुकस्य स्वरूपम् ।
“यद्ग्रन्थिः सक्तुकेनैव पूर्णमध्यः स सक्तुकः ॥”
अथ प्रदीपनस्य स्वरूपम् ।
“प्रदीपलोहितो यः स्याद्दीप्तिमान् दलनप्रभः ।
महादाहकरः पूर्व्वैः कथितः स प्रदीपनः ॥”
अथ सौराष्ट्रिकस्य स्वरूपम् ।
‘सुराष्ट्रविषये यः स्यात् स सौराष्ट्रिक
उच्यते ॥’
अथ शृङ्गकस्य स्वरूपम् ।
“यस्मिन् गोशृङ्गके बद्धे दुग्धं भवति लोहितम् ।
स शृङ्गक इति प्रोक्तो द्रव्यतत्त्वविशारदैः ॥”
अथ कालकूटस्य स्वरूपम् ।
“देवासुररणे देवैर्हतस्य पृथुमालिनः ।
दैत्यस्य रुधिराज्जातस्तरुरश्वत्थसन्निभः ॥
निर्यासः कालकूटोऽस्य मुनिभिः परिकीर्त्तितः ।
सोऽहिच्छत्रे शृङ्गवेरे कोकणे मलये भवेत् ॥”
अथ हालाहलस्य स्वरूपम् ।
“गोस्तनाभफलो गुच्छस्तालपत्रच्छदस्तथा ।
तेजसा यस्य दह्यन्ते समीपस्था द्रुमादयः ॥
असौ हालाहलो ज्ञेयः क्रिष्किन्धायां हिमा-
लये ।
दक्षिणाब्धितटे देशे कोकणेऽपि च जायते ॥”
अथ ब्रह्मपुत्त्रस्य स्वरूपम् ।
“वर्णतः कपिलो यः स्यात् तथा भवति साधकः ।
ब्रह्मपुत्त्रः स विज्ञेयो जायते मलयाचले ॥
ब्राह्मणः पाण्डरस्तेषु क्षत्त्रियो लोहितप्रभः ।
वैश्यः पीतोऽसितः शूद्रो विष उक्तश्चतुर्विधः ॥
रसायने विषं विप्रं क्षत्त्रियं देहपुष्टये ।
वैश्यं कुष्ठविनाशाय शूद्रं दध्याद्वधाय हि ॥”
अथ विषस्य गुणाः ।
“विषं प्राणहरं प्रोक्तं व्यवायि च विकासि च ।
आग्नेयं वातकफहृद्योगवाहिमदावहम् ॥”
व्यवायि सकलकायगुणव्यापनपूर्ब्बकपाकागमन-
शीलम् । विकासि ओजःशोषणपूर्ब्बकं सन्धि-
बन्धशिथिलीकरणशीलम् । आग्नेयं अधिका-
ग्न्यंशम् । योगवाहि संसर्गगुणवाहकम् ।
“मदावहं तमोगुणाधिक्येन बुद्धिविध्वंसकम् ।
तदेव युक्तियुक्तन्तु प्राणदायि रसायनम् ॥
योगवाहि परं वातश्लेष्मजित् सन्निपातहृत् ।
योगवाहि त्रिदोषघ्नं बृंहणं वीर्य्यवर्द्धनम् ॥
ये दुर्गुणा विषेऽशुद्धे ते स्युर्हीना विशोधनात् ।
तस्माद्विषं प्रयोगेषु शोधयित्वा प्रयोजयेत् ॥”
अथोपविषाणां निरूपणम् ।
“अर्कक्षीरं स्नुहीक्षीरं तथैव कलिहारिका ।
करवीरोऽथ धुस्तूरः पञ्च चोपविषाः स्मृताः ॥”
उपविषा गौणविषाः । एषां गुणास्तत्र तत्र
द्रष्टव्याः । अपि च ।
“अर्कक्षीरं स्नुहीक्षीरं लाङ्गली करवीरकः ।
गुञ्जाहिफेनो धुस्तूरः सप्तोपविषजातयः ॥”
एतेषां शोधनं चिन्त्यम् । गुणास्तत्र द्रष्टव्याः ॥
अथ विषाणां शोधनविधिः ।
“गोमूत्रे त्रिदिनं स्थाप्यं विषं तेन विशुद्ध्यति ।
रक्तसर्षपतैलाक्तं तथा धार्य्यञ्च वाससि ॥
येगुणा गरले प्रोक्तास्ते स्युर्हीना विशोधनात् ।
तस्माद्विषं प्रयोगेषु शोधयित्वा प्रयोजयेत् ॥”
इति भावप्रकाशे पूर्व्वखण्डः ॥
अथ विषाधिकारः । तत्र विषस्य द्वैविध्य-
माह ।
“स्थावरं जङ्गमञ्चैव द्विविधं विषमुच्यते ।
दशाधिष्ठानमाद्यन्तु द्बितीयं षोडशाश्रयम् ॥”
स्थावरविषस्य दशाश्रयानाह ।
“मूलं पत्रं फलं पुष्पं त्वक् क्षीरं सारमेव च ।
निर्यासो धातवस्कन्दः स्थावरस्याश्रया दश ॥”
तद्यथा । मूलविषं करवीरादि १ । पत्रविषं
विषपत्रिकादि २ । फलविषं कर्कोटकादि ३ ।
पुष्पविषं वेत्रादि ४ । त्वकसारनिर्यासविषाणि
करम्भादीनि ५ । ६ । ७ । क्षीरविषं स्नुह्यादि
८ । धातुविषं हरितालादि ९ । कन्दविषं वत्स-
नाभसक्तुकादि १० ॥ * ॥ जङ्गमविषस्य षोड
शाश्रयानाह ।
“दृष्टिनिश्वासदंष्ट्राश्च नखमूत्रमलानि च ।
शुक्रं लाला मुखं स्पर्शः संदंश श्चावमर्द्दितम् ।
गुदास्थिपित्तशूकानि दश षट् जङ्गमाश्रयाः ॥”
तद्यथा । दृष्टिनिश्वासविषा दिव्याः सर्पाः १ । २ ।
दंष्ट्राविषाः भौमाः सर्पाः ३ । दंष्ट्रानखविषा
व्याघ्रादयः ४ । मूत्रपुरीषविषा गृहगोधिका-
दयः ५ । ६ । शुक्रविषा मूषिकादयः ७ । लालाविषा
उच्चिटङ्गादयः ८ । लालास्पर्शमूत्रपुरीषार्त्तव-
शुक्रमुखसंदंशदंष्ट्रास्पर्शावमर्द्दितगुदपुरीषविषा-
श्चित्रशीषादयः ९ । १० । ११ । १२ । १३ । अस्थिविषाः
र्पादयः १४ । पित्तविषा नकुलमत्स्यादयः १५ ।
शूकविषा भ्रमरादयः १६ ॥ * ॥ स्थावराविषाणां
सामान्यानां कार्य्याण्याह ।
“स्थावरन्तु ज्वरं हिक्कां दन्तहर्षं गलग्रहम् ।
फेनच्छर्द्यरुचिश्वासमूर्च्छाञ्च कुरुते विषम ॥”
पृष्ठ ४/४४२
आश्रयभेदेन विशिष्टानां विषाणां कार्य्या-
ण्याह । तत्र मूलविषस्य कार्य्यमाह ।
“उद्वेष्टनं मूलविषैर्मोहः प्रलपनं भवेत् ॥”
पत्रविषस्य कार्य्यमाह ।
“जृम्भणं वेपनं श्वासो नृणां पत्रविषैर्भवेत् ॥”
फलविषस्य कार्य्यमाह ।
“शुष्कशोथः फलविषैर्दाहो द्बेषश्च भोजने ॥”
पुष्पविषस्य कार्य्यमाह ।
“भवेत् पुष्पविषैश्छर्द्दिराध्मानं मूर्च्छनं तथा ॥”
त्वक्सारनिर्यासविषाणां कार्य्याण्याह ।
“त्वक्सारनिर्यासविषैरुपयुक्तैर्भवन्ति हि ।
आस्यदौगन्ध्यपारुष्यशिरोरुक्कफसंस्रवाः ॥”
क्षीरविषकार्य्यमाह ।
“फेनागमः क्षीरविषैर्विड्भेदो गुरुजिह्वता ॥”
धातुविषकार्य्यमाह ।
“हृत्पीडनं धातुविषैर्मूर्च्छा दाहश्च तालुनि ।
प्रायेण कालघातीनि विषाण्येतानि निर्द्दिशेत् ॥
एतानि मूलादीनि विषाणि नव कालघातीनि
कालान्तरे मारकाणि ॥ * ॥ कन्दविषस्य
कार्य्यमाह ।
“कन्दजान्युग्रवीर्य्याणि यान्युक्तानि त्रयोदश ।
सर्व्वाण्येतानि कुशलैर्ज्ञेयानि दशभिर्गुणैः ॥
स्थावरं जङ्गमञ्चापि कृत्रिमञ्चापि यद्विषम् ।
सद्यो निहन्ति तत् सर्व्वं गुणैश्चेद्दशभिर्युतम् ॥”
तान् दशगुणानाह ।
“रूक्षमुष्णं तथा तीक्ष्णं सूक्ष्ममाशु व्यवायि च ।
विकाशि विशदं चैव लघ्वपाकि च ते दश ॥”
तेर्गुणैर्विषस्य कार्य्यमाह ।
“तद्रौक्षात् कोपयेद्वायुमौष्ण्यात् पित्तं सशो-
णितम् ।
तैक्ष्ण्यान्मतिं मोहयति मर्म्मवन्धांश्छिनत्ति हि ॥
शरीरावयवान् सौक्ष्मात् प्रविशेद्विकरोति च ।
आशुत्वादाशु तद्धन्ति व्यवायात् प्रकृतिं हरेत् ॥
विकाशित्वात् क्षपयति दोषान् धातून् मला-
न्यपि ।
अतिरिच्यत वैशद्याद्दुश्चिकित्स्यञ्च लाघवात् ।
दुर्ज्जरं चाविपाकित्वात्तस्मात् क्लेशयते चिरम् ॥”
विषलिप्तशस्त्रहतस्य लक्षणमाह ।
“सद्यः पाकं याति यस्य क्षतं तत्
स्रवेद्रक्तं पच्यते चाप्यभीक्ष्णम् ।
कृष्णीभूतं क्लिन्नमत्यर्थपूति-
क्षतान् मांसं शीर्य्यते यस्य चापि ॥
तृष्णातापौ दाहमूर्च्छे च यस्य
दिग्धाविद्वं तं मनुष्यं व्यवस्येत् ।
लिङ्गान्येतान्येव कुर्य्यादमित्रै-
र्दत्तः क्ष्वेडो वा व्रणे यस्य चापि ॥”
पच्यते चाप्यभीक्ष्णं पुनः पुनः पाकमेति । तापो
बहिस्तप्तता । दाहोऽभ्यन्तरे । कर्य्यादित्यत्र
क्षतं कर्त्तृपदं बोद्धव्यम् । प्रायेण राजादीना-
मन्नादौ शत्रवो विषं ददति ॥ * ॥ तेषां ज्ञानार्थं
लक्षणमाह ।
“इङ्गितज्ञो मनुष्याणां वाक्चेष्टामुखवैकृतैः ।
जानीयाद्विषदातारमेभिर्लिङ्गैश्च बुद्धिमान् ॥
न ददात्युत्तरं पृष्टो विवक्षुर्मोहमेति च ।
अपार्थं बहु संकीर्णं भाषते चापि मूढवत् ॥
अङ्गुलीः स्फोटयेदुर्व्वीं विलिखेत् प्रहसेदपि ।
वेपथुश्चास्य भवति त्रस्तश्चैकैकमीक्षते ॥
विवर्णवक्त्रो ध्यामश्च नखैः किञ्चिच्छिनत्ति च ।
आलभेत सकृद्दीनः करेण च शिरोरुहान् ॥
निर्यियासुरपद्वारैर्वीक्षते च पुनः पुनः ।
वर्त्तते विपरीतञ्च विषदाता विचेतनः ॥”
इङ्गितमभिप्रायसूचक आकारः । मुखवैकृतिं
मुखवैवर्ण्यादिः । एभिर्लिङ्गैः वक्ष्यमाणैः । न
ददात्युत्तरं पृष्टः स्वीयासत्कर्म्मजनितव्यामो-
हात् । संकीर्णं अस्फुटम् । भयजवायुजनित-
पर्व्वव्यथापनोदायाङ्गुलीः स्फोटयेत् । प्रहसेत्
अहेतावपि । ध्यामः दग्धसमानवर्णः । आल-
भेत् स्पृशेत् । विपरीतं यथा स्यादेवं वर्त्तेत ॥
जङ्गमविषाणां सामान्यानां कार्य्यमाह ।
“निद्रातन्द्राक्लमं दाहं सम्पाकं लोमहर्षणम् ।
शोथञ्चैवातिसारञ्च कुरुते जङ्गमं विषम् ॥”
जङ्गमेषु तीक्ष्णतरत्वेन सर्पानाह ।
“वातपित्तकफात्मानो भोगिमण्डलिराजिलाः ।
यथाक्रमं समाख्याता द्व्यन्तरा द्वन्द्वरूपिणः ॥”
भोगिनः फणिनः । ते च विंशतिः ।
“मण्डलैर्विविधैश्चित्राः पृथवो मन्दगामिनः ।
षट् ते मण्डलिनो ज्ञेया ज्वलनार्कसमा विषैः ॥
स्निग्धा विविधवर्णाभिस्तिर्य्यगूर्द्ध्वञ्च राजिभिः ।
विचित्रा इव ये भान्ति राजिलास्ते हि तेऽपि
षट् ॥”
एते यथाक्रमं वातपित्तकफात्मानः । द्ब्यन्तरा
द्वे अन्तरे भेदौ येषां ते द्ब्यन्तराः । यथा
भोगिनो मण्डलिभ्यां जाताः इत्यादि ॥ * ॥
भोगिप्रभृतिकृशदंशलक्षणभेदमाह ।
“दंशो भोगिकृतः कृष्णः सर्व्ववातविकारनुत् ।
पीतो मण्डलिनः शोथो मृदुः पित्तविकारवान् ॥
राजिलोत्थो भवेद्दंशः स्थिरशोथश्च पिच्छिलः ।
पाण्डुः स्निग्धोऽतिसान्द्रासृक्सर्व्वश्लेष्मविकार-
वान् ॥”
देशविशेषे कालविशेषे च दष्टस्यासाध्यत्वमाह ।
“अश्वत्थदेवायतनश्मशान-
वल्मीकसन्ध्यासु चतुष्पथेषु ।
याम्ये सपित्र्ये परिवर्ज्जनीया
ऋक्षे नरा मर्म्मसु ये च दष्टाः ॥”
याम्ये भरण्याम् । पित्र्ये मघायाम् ।
“दार्व्वीकराणां विषमाशु हन्ति
सर्व्वाणि चोष्णे द्बिगुणीभवन्ति ॥”
उष्णे उष्मसंयोगे । दार्व्वीकरलक्षणमाह ।
“रथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कुशधारिणः ।
ज्ञेया दार्व्वीकराः सर्पाः फणिनः शीघ्र-
गामिनः ॥”
अपरेषु येषु विषमाशु मारकं भवति तानाह ।
“अजीर्णपित्तातपपीडितेषु
बालेषु वृद्धषु बुभुक्षितेषु ।
क्षीणे क्षते मेहिनि कुष्ठजुष्टे
रूक्षे बले गर्भवतीषु चापि ॥
शस्त्रक्षते यस्य न रक्तमस्ति
राज्यो लताभिश्च न संभवन्ति
शीताभिरद्भिश्च न रोमहर्षो
विषाभिभूतं परिवर्ज्जयेत्तम् ॥
जिह्मं मुखं यस्य च केशशातो
नासावसादश्च सकण्ठभङ्गः ।
कृष्णश्च रक्तः श्वयथुश्च दंशो
हन्वोः स्थिरत्वञ्च स वर्ज्जनीयः ॥”
केशशातः आकर्षणात् । नासावसादः नासाया
नतत्वम् । कण्ठभङ्गः ग्रीवाधारणाशक्तिः । हन्वोः
स्थिरत्वं हनुद्बयस्तम्भः ॥ * ॥ अपरश्च ।
“वर्त्तिर्घनी यस्य निरेति वक्त्रा-
द्रक्तं स्रवेदूर्द्ध्वमधश्च यस्य ।
दंष्ट्रानिपातांश्चतुरश्च पश्येद्-
यस्यापि वैद्यैः परिवर्जनीयः ॥”
वर्त्तिः रुधिरस्थम् । रक्तं स्रवेदूर्द्ध्वमधश्च यस्य
यस्य च नासामुखलिङ्गगुदादिभ्यो रक्तं स्रवेत् ।
“उन्मत्तमत्यर्थमुपद्रुतं वा
हीनस्वरं वाप्यथवा विवर्णम् ।
सारिष्टमत्यर्थमवेगिनञ्च
जह्यान्नरं तस्य न कर्म्म कुर्य्यात् ॥”
अत्यर्थमुपद्रुतं वा ज्वरातिसारादिभिरतिशये-
नोपद्रुतम् । हीनस्वरं वक्तुमक्षमम् । विवर्णं
कृष्णवर्णम् । सारिष्टं नासाभङ्गादियुक्तम् ।
अवेगिनं वेगो विषवेगः लहरि इति लोके
तद्रहितम् । * । स्थावरं जङ्गमं विषमेव
जीर्णत्वादिभिः कारणैर्दूषीविषसंज्ञां लभते ।
तदाह ।
“जीर्णं विषघ्नौषधिदूषितं वा
दावाग्निवातातपशोषितं वा ।
स्वभावतो वा गुणविप्रहीनं
विषं हि दूषीविषतामुपैति ॥”
जीर्णं अतिपुराणम् । विषघ्नौषधिदूषितं विषघ्ना-
भिरोषधीभिर्व्वीर्य्यहीनीकृतम् । स्वभावतो वा
गुणविप्रहीनं स्वभावादेव दशानां गुणानां
मध्ये द्वित्र्यादिगुणहीनम् ॥ * ॥ दूषीविषस्य
कार्य्यमाह ।
“वीर्य्याल्पभावान्न निपातयेत्तत्
कफान्वितं वर्षगुणानुबन्धि ।
तेनार्द्दितो भिन्नपुरीषवर्णो
विगन्धवैरस्ययुतः पिपासी ॥
मूर्च्छां भ्रमं गद्गदवाग्वमिञ्च
विचेष्टमानोऽरतिमाप्नुयाद्वा ॥”
न निपातयेत् न मारयति । कफान्वितं कफेन
मन्दीकृतौष्णादिगुणम् । वर्षगुणानुबन्धि कफे-
नाग्नेर्मान्द्यादीषत्पाकाच्चिरमास्थायि । भिन्न-
पुरीषवर्णः भिन्नपुरीषो द्रुतमलः भिन्नवर्णश्च ।
विचेष्टमानो विरुद्धां चेष्टां कुर्वन् मूर्च्छादीन्
व्याधीन् लभते ॥ * ॥ स्थानविशेषस्थिते दूषी-
विषे लिङ्गविशेषमाह ।
पृष्ठ ४/४४३
“आमा शयस्थे कफवातरोगी
पक्वाशयस्थेऽनिलपित्तरोगी ।
भवेत् समुद्धस्तशिरोऽङ्गरुट्को
विलूनपक्षश्च यथा विहङ्गः ॥”
समुद्धस्तशिरोरुहः केशाः अङ्गरुहि च रोमाणि
यस्य सः । एतदपि लिङ्गं पक्वाशयस्थे दूषीविषे
बोद्धव्यम् । स्थिरं रसादिष्वथ तद्यथोक्तान्
करोति धातुप्रभवान् विकारान् । तत् दूषी-
विषम् । यथोक्तान् सुश्रुते व्याधिसमुद्देशी-
योक्तान् । * । दूषीविषस्य प्रकोपसमयमाह ।
“कोपन्तु शीतानिलदुर्दिनेषु
जात्याशु पूर्ब्बं शृणु तस्य रूपम् ॥” * ॥
कुपितस्य तस्य दूषीविषस्य पूर्ब्बरूपमाह ।
“निद्रागुरुत्वञ्च विजृम्भणञ्च
विश्लेषहर्षावथवाङ्गमर्दः ॥”
विश्लेषः गात्रशैथिल्यम् । हर्षः रोमाञ्चः । * ।
रूपमाह ।
“ततः करोत्यन्नमदाषिपाका-
वरोचकं मण्डलकोटजन्म ।
मांसक्षयं पाणिपदाक्षिशोथं
मूर्च्छां तथा च्छर्द्दिमथातिसारम् ॥”
दूषीविषं श्वासतृषौ ज्वरांश्च कुर्य्यात् प्रवृद्धिं
जठरस्य चापि । अन्नमदः अन्ने भुक्ते पूगफले-
नेव मदः अविपाकः । * । अन्नस्य दूषीविष-
भेदेन विकारभेदमाह ।
“उन्मादमन्यज्जनयेत्तथान्य-
दानाहमन्यत् क्षपयेच्च शुक्रम् ।
गाद्गद्यमन्यज्जनयेच्च कुष्ठं
तांस्तान् विकारांश्च बहुप्रकारान् ॥”
अन्यत् दूषीविषम् । तांस्तान् विकारान् विसर्प-
विस्फोटादीन् । * । दूषीविषस्य निरुक्तिमाह ।
“दूषितं देशकालान्नं दिवास्वप्नैरभीक्ष्णशः ।
यस्मात् संदूषयेद्धातुं तस्मात् दूषीविषं स्मृतम् ॥”
देशः अनूपादिः । कालो दुर्दिनादिः । अन्नं
कुलत्थतिलमसुरादि । धातुदूषकत्वाद्दूषीवि-
षम् ॥ * ॥ दूषीविषस्य साध्यत्वादिकमाह ।
“साध्यमात्मवतः सद्यो याप्यं संवत्सरोषितम् ।
दूषीविषमसाध्यं स्यात् क्षीणस्याहितसेविनः ॥”
कृत्रिमं विषं द्विविधम् । एकं सविषं दूषीविष-
संज्ञम् । अपरमविषं तदेव गरसंज्ञम् । तथा च
काश्यपसंहितायाम् ।
“संयोगजञ्च द्विविधं द्वितीयं विषमुच्यते ।
दूषीविषन्तु सविषमविषं गर उच्यते ॥”
संयोगजं कृत्रिमं विषम् । द्वितीयं स्वाभावि-
कात् । तच्च द्विविधम् । * । तत्र दूषीविष-
मभिधाय गरं दर्शयितुमाह ।
“सौभाग्यार्थं स्त्रियः स्वेदरजोनानाङ्गजान्
मलान् ।
शत्रुप्रयुक्तांश्च गरान् प्रयच्छन्त्यन्नमिश्रितान् ॥” *
गरकाय्यमाह ।
“तैः स्यात् पाण्डुकृशोऽल्पाग्निर्ज्ज्वरश्चास्योप-
नायते ।
मर्मप्रधमनाध्मानं हस्तयोः शोथसम्भवः ॥
जठरं ग्रहणीरोगा यक्ष्मा गुल्मः क्षयो ज्वरः ।
एवंविधस्य चान्यस्य व्याधेर्लिङ्गञ्च जायते ॥”
तैर्गरैः स्वेतरजःप्रभृतिभिः । ज्वरश्चास्योप-
जायत इति अपाकात् । मर्म्मप्रधमनं मर्म्म-
व्यथाम् । क्षयो धातुक्षयः ॥ * ॥ लूतानां जन्तु-
विशेषाणामुत्पत्तिं संख्याञ्चाह ।
“यस्माल्लूनं तृणं प्राप्ता मुनेः प्रस्वेदबिन्दवः ।
तेभ्यो जातास्ततो लूता इति ख्यातास्तु
षोडश ॥”
तत्र सुश्रुतः ।
“विश्वामित्रो नृपवरःः कदाचिदृषिसत्तमम् ।
वशिष्ठं कोपयामास गत्वाश्रमपदं किल ॥
कुपितस्य मुनेस्तस्य ललाटात् स्वेदबिन्दवः ।
अपतन्दर्शनादेव ह्यधस्तात्तीव्रवर्च्चसः ।
लूने तृणे महर्षेस्तु धेन्वर्थे सम्भृतेऽपि च ॥
ततो जातास्त्विमे घोरा नानारूपा महाविषाः ।
तासामष्टौ कष्टसाध्या वर्ज्यास्तावन्त्य एव हि ॥
तत्र तृणमण्डलाप्रभृतयोऽष्टौ कष्टसाध्याः । सौव-
र्णिकाप्रभृतयोऽष्टावसाध्याः ॥ * ॥ तासां सामा-
न्यानां दंशलक्षणमाह ।
“ताभिर्दष्टे दंशकोप्यः प्रवृत्तिः क्षतजस्य च ।
ज्वरो दाहोऽतिसारश्च गदाः स्युश्च त्रिदो-
षजाः ॥
पिडका विविधाकारा मण्डलानि महान्ति च ।
शोथो महान्तो मृदवो रक्ताः श्यावाश्चला-
स्तथा ॥
सामान्यं सर्व्वलूतानामेतद्दंशस्य लक्षणम् ।”
दंशकोप्यः दंशमध्ये पूतिभावः ।
“दंशमध्ये तु यत् कृष्णं श्यावं वा जालमावृतम् ॥
दग्धाकृति भृशं पाकं क्लेदशोऽथज्वरान्वितम् ।
दूषीविषाभिर्लूताभिस्तं दष्टमिति निर्द्दिशेत् ॥”
सौवर्णिकादयोऽष्टावसाध्याः प्राणहरास्तासां
लक्षणमाह ।
“शोथः श्वेता सिता रक्ता पीता वा पिडका
ज्वरः ।
प्राणान्तिको भवेद्दाहः श्वासहिक्का शिरो-
ग्रहः ॥”
आखुदूषीविषलक्षणमाह ।
“आदंशाच्छोणितं पाण्डुमण्डलानि ज्वरो-
ऽरुचिः ।
लोमहर्षश्च दाहश्चाप्याखुदूषीविषार्द्दिते ॥”
प्राणहरमूषकविषकार्य्यमाह ।
“मूर्च्छाङ्गशोथवैवण्यं क्लेदशब्दाश्रुतिज्वराः ।
शिरोगुरुत्वं लालासृक्छर्द्दिश्चासाध्यमूषकात् ॥”
अङ्गशोथोऽत्र मूषकाकारो बोद्धव्य इति तन्त्रा-
न्तरे ॥ * ॥ कृकलासदष्टस्य लक्षणमाह ।
“शोथस्य कार्य्यमथवा नानावर्णत्वमेव च ।
मोहोऽथ वर्च्चसो भेदो दष्ठस्य कृकलासकैः ॥”
वृश्चिकविषस्य लक्षणमाह ।
“दहत्यग्निरिवादौ च भिनत्तीवोर्द्ध्वमाशु च ।
वृश्चिकस्य विषं याति पश्चात् दंशोऽवतिष्ठते ॥”
असाध्यवृश्चिकदष्टस्य लक्षणमाह ।
“दष्टोऽसाध्यैस्तु हृद्घ्राणरसनोपहतो नरः ।
मांसैः पतद्भिरत्यर्थं वेदनार्त्तो जहात्यसून् ॥”
असाध्यैर्वृश्चिकैस्तेषामेवानुवृत्तेः । हृदादिषूप-
हतः हृदादिकार्य्यरहितो भवति । अत्यर्थं
वेदनार्त्त इत्यन्वयः ॥ कणभदष्टस्य लक्षणमाह ।
“विसर्पः श्वयथुः शूलं ज्वरश्छर्द्दिरथापि च ।
लक्षणं कणभैर्दष्टे दंशश्चैवावशीर्य्यते ॥”
कणभः कीटविशेषः ॥ उच्चिटङ्गदष्टस्य लक्षण-
माह ।
“कृष्णरोमोच्चिटङ्गेन स्तब्धलिङ्गो भृषार्त्ति-
मान् ।
दष्टः शीतोदकेनेव सिक्तान्यङ्गानि मन्यते ॥”
कृष्णरोमा अधिकतरकृष्णरोमा । उच्चिटङ्ग-
श्चीटाकीटविशेषः ॥ * ॥ सविषमण्डूकदष्टस्य
लक्षणमाह ।
“एकदंष्ट्रार्द्दितः शूनः सरुजः पीतकः सतृट् ।
सनिद्रश्छर्द्दिमान् दष्टो मण्डूकैः सविषैर्भवेत् ॥”
एकदंष्ट्रार्द्दितः स्वभावादेकयैव दंष्ट्रया दष्टो
भवति ॥ * ॥ मत्स्यविषस्य कार्य्यमाह ।
“मत्स्यास्तु सविषाः कुर्य्युर्दाहं शोथं रुजं तथा ॥”
जलौकोविषकार्य्यमाह ।
“कण्डूशोथं ज्वरं मूर्च्छां सविषास्तु जलौकंसः ।”
कुर्य्युरिति शेषः ॥ * ॥ गृहगोधिकाविषकार्य्य-
लक्षणमाह ।
“विदाहं श्वयथुं तोदं प्रस्वेदं गृहगोधिकाः ।”
कुर्य्युः । इति शेषः ॥ * ॥ शतपदीविषकार्य्यमाह ।
“दंशे स्वेदं रुजं दाहं कुर्य्यात् शतपदीविषम् ।”
शतपदी गिजाइ इति लोके ॥ * ॥ मशकविष-
कार्य्यमाह ।
“कण्डूमान् मशकैरीषच्छोथः स्यान्मन्दवेदनः ॥”
असाध्यमशकलक्षणमाह ।
“असाध्यकीटसदृशमसाध्यं मशकक्षतम् ।”
असाध्यकीटसदृशं असाध्यैः कीटैर्लूताभिः कृतं
यत् क्षतं तत्सदृशवेदनम् ॥ * ॥ मक्षिकादंशस्य
लक्षणमाह ।
“सद्यःसंस्राविणी श्यावा दाहमूर्च्छाज्वरा-
न्विता ।
पिडका मक्षिकादंशे तासान्तु स्थगिकाशुहृत् ॥”
तासामित्यादि । तासां सुश्रुतोक्तानां षण्णां
मक्षिकाणां मध्ये स्थगिकानाम्नी शीघ्रं प्राणं
हरतीत्यर्थः ॥ व्याघ्रादिविषाणां कार्य्यमाह ।
“चतुष्पाद्भिर्द्विपाद्भिर्व्वा नखैर्दन्तैश्च यत् क्षतम् ।
सूयते पच्यते तत्तु स्रवते ज्वरयत्यपि ॥”
चतुष्पाद्भिर्व्याघ्रादिभिः । द्विपाद्भिर्वनमानुषा-
दिभिः । सूयते सूनं भवति ॥ * ॥ विषोज्झितस्य
लक्षणमाह ।
“प्रसन्नदोषं प्रकृतिस्थधातु-
मन्नाभिकामं सममूत्रविट्कम् ।
प्रसन्नवर्णेन्द्रियचित्तचेष्टं
वैद्योऽवगच्छेदविषं मनुष्यम् ॥”
प्रसन्नदोषं प्रकृतिस्थदोषं शेषं सुगयम् ॥ * ॥
पृष्ठ ४/४४४
अथ विषाणां चिकित्सा । तत्र स्थावरविषास्य
चिकित्सा ।
“स्थावरेण विषेणार्त्तनरं यत्नेन वामयेत् ।
वमनेन समं नास्ति यतस्तस्य चिकित्सितम् ॥
विषमत्यर्थमुष्णञ्च तीक्ष्णञ्च कथितं यतः ।
अतः सर्व्वविषे युक्तः परिषेकस्तु शीतलः ॥
औष्ण्यात्तैक्ष्ण्याद्विशेषेण विषं पित्तं प्रकोपयेत् ।
वामितं सेचयेत्तस्माच्छीतलेन जलेन च ॥
पाययेन्मधुसर्पिर्भ्यां विषघ्नं भेषजं द्रुतम् ।
भोक्तुमम्लं रसं दद्यात् चर्व्वयेन्मरिचानि च ॥
यस्य यस्य च दोषस्य पश्येल्लिङ्गानि भूरिशः ।
तस्य तस्यौषधैः कुर्य्याद्विपरीतगुणैः क्रियाम् ॥
शालयः षष्टिकाश्चैव कोरदूषाः प्रियङ्गवः ।
भोजनार्थे विषार्त्तानां हिताः पटुषु सैन्धवम् ॥”
प्रियङ्गुः कङ्गुः ।
“मूलत्वक पत्रपुष्पाणि बीजञ्चेति शिरीषतः ।
गवां मूत्रेण संपिष्टं लेपाद्बिषहरं भवेत् ॥
दूषीविषार्त्तः सुस्निग्धमूर्द्ध्वं चाधश्च शोधितम् ।
पाययेदगदं मुख्यमिदं दूषीविषापहम् ॥
पिप्पलीध्यामकं मांसी लोध्रमेला सुवर्च्चिका ।
मरिचं बालकं चैला तथा कनकगैरिकम् ॥
क्षौद्रयुक्तः कषायोऽयं दूषीविषमपोहति ॥”
ध्यामकं रोहिषम् । तदलाभे उशीरं देयम् ।
कनकगैरिकं सोणागेरू इति लोके । अत्यन्त-
मारक्तम् ॥ * ॥ अथ जङ्गमविषस्य चिकित्सा ।
“अभयां रोचनां कुष्ठमर्कपुष्पं तथोत्पलम् ।
नलवेतसमूलानि गरलं सुरसां तथा ॥
सकलिङ्गं समञ्जिष्ठामनन्ताञ्च शतावरीम् ।
शृङ्गाटकं समङ्गाञ्च पद्मकेशरमित्यपि ॥
कल्कीकृत्य पचेत् सर्पिः पयो दद्याच्चतुर्गुणम् ।
सम्यक्पक्वेऽवतीर्णे च शीते तस्मिन् विनिः-
क्षिपेत् ॥
सर्पिस्तुल्यं भिषक् क्षौद्रं कृतरक्षं निधापयेत् ।
विषाणि हन्ति दुर्गाणि गरदोषकृतानि च ॥
स्पर्शाद्धन्ति विषं सर्व्वं गरैरुपहितां त्वचाम् ।
योगजन्तमकं कण्डूं मांससादं विसंज्ञताम् ॥
नाशयत्यञ्जनाभ्यङ्गपानवस्तिषु योजितम् ।
सर्पकीटाखुलूतादिदष्टानां विषहृत् परम् ॥”
मृत्युपाशच्छ्रेदि घृतम् ॥
“धुस्तूरस्य शिफा पेया क्षीरेण परिपेषिता ।
अङ्कोठवंशजा चापि श्वविषघ्नी प्रयत्नतः ॥
रजनीयुग्गपत्तङ्गमञ्जिष्ठानागकेशरैः ।
शीताम्बुपिष्टैरालेपः सद्यो लूतां विनाशयेत् ॥
जीरकस्य कृतः कल्को घृतसैन्धवसंयुतः ।
सुखोष्णो मधुना लेपो वृश्चिकस्य विषं हरेत् ॥
गन्धमाघ्राय मुदितसूर्य्यावर्त्तदलस्य तु ।
वृश्चिकेन नरो विद्धः क्षणाद्भवति निर्व्विषः ॥”
इति विषाधिकारः । इति भावप्रकाशः ॥ * ॥
पारिभाषिकविषा यथा, --
“न विषं विषमित्याहुब्रह्मस्वं विषमुच्यते ।
देवस्वञ्चापि यत्नेन सदा परिहरेत्ततः ॥”
इति कौर्म्मे उपविभागे १५ अध्यायः ॥
अपि च ।
“दुरधीता विषं विद्या अजीर्णे भोजनं विषम् ।
विषं गोष्ठी दरिद्रस्य वृद्धस्य तरुणी विषम् ॥
विषं चंक्रमणं रात्रौ विषं राज्ञोऽनुकूलता ।
विषं स्त्रियोऽप्यन्यहृदो विषं व्याधिरवीक्षितः ॥”
इति चाणक्यम् ॥

विषकण्टकिनी, स्त्री, (विषयुक्तः कण्टकोऽस्या

अस्तीति । इनिः । ङीष् ।) बन्ध्याकर्कोटकी ।
इति राजनिर्घण्टः ॥ (अस्याः पर्य्यायो यथा, --
“वन्ध्याकर्कोटकी देवी कन्यायोगीश्वरीति च ।
नागारिनक्रदमनी विषकण्टकिनी तथा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

विषकन्दः, पुं, (विषयुक्तः कन्दो यस्य ।) नीलकन्दः ।

इति राजनिर्घण्टः ॥

विषघा, स्त्री, गुडूची । इति शब्दचन्द्रिका ॥

विषघाती, [न्] पुं, (विषं हन्तीति । हन +

णिनिः ।) शिरीषवृक्षः । इति शब्दमाला ॥
विषनाशके, त्रि ॥

विषघ्नः, पुं, (विषं हन्तीति । हन + टक् ।) शिरीष-

वृक्षः । इति शब्दचन्द्रिका ॥ यवासः । विभी-
तकः । इति राजनिर्घण्टः ॥ चम्पकवृक्षः । इति
जटाधरः ॥ विषनाशके, त्रि ॥ (यथा, मनुः ।
७ । २१८ ।
“विषघ्नैरगदैश्चास्य सर्व्वद्रव्याणि योजयेत् ।
विषघ्नानि च रत्नानि नियतो धारयेत् सदा ॥”)
विषघ्नौषधानि यथा, --
मनुरुवाच ।
“रक्षोघ्नानि विषघ्नानि यानि धार्य्याणि भूभुजा ।
अगदादि समाचक्ष्व तानि धर्म्मभृतांवर ॥
मत्स्य उवाच ।
विल्वाढकायवक्षारं पाटला वाह्लिकोषणा ।
श्रीपर्णी शल्लकीयुक्ता निष्काथ्य प्रोक्षणं परम् ।
सविषं प्रोक्षितं तेन सद्यो भवति निर्व्विषम् ॥ १ ॥
यवसेन्धनपानीयवस्त्रशय्यासनोदनम् ।
कवचाभरणं छत्रं बालव्यजनवेश्मनी ॥
शेलुः पाटल्यतिविषा गोपी भार्गी पुनर्नवा ।
समङ्गावृक्षमूलत्वक्कपित्थवृषशोणितम् ।
सहदन्तशठन्तद्वत् प्रोक्षणं विषनाशनम् ॥ २ ॥
लाक्षा प्रियङ्गु मञ्जिष्ठा सममेला हरेणुका ।
सयष्ट्या मधुना युक्ता वभ्रुपित्तेन कल्किता ॥
निखनेद्गोविषाणस्थं सप्तरात्रं महीतले ।
ततः कृत्वा मणिं हेम्ना बद्धं हस्तेन धारयेत् ।
संस्पृष्टं सविषन्तेन सद्यो भवति निर्व्विषम् ॥ ३ ॥
मनो जलं शमीपुष्पं दुर्द्धर्षा चैव कर्षकाः ।
कपित्थकुष्ठमञ्जिष्ठाः पित्तेन श्लक्ष्णकल्किताः ॥
शुनो गोः कपिलायाश्च सौम्याख्येयापरोऽगदः ।
विषजित् परमं कार्य्यं मणिरत्नञ्च पूर्ब्बवत् ।
मूषिका जतुका वापि हस्ते बद्धा विषापहा ॥ ४ ॥
हरेणु मांसी मञ्जिष्ठा रजनी मधुका मधु ।
अक्षत्वक् सुरसं लाक्षाम्बुपित्तं पूर्ब्बवद्भुवि ॥
वादित्राणि पताकाश्च पिष्टैरेतैः प्रलेपिताः ।
श्रुत्वा दृष्ट्वाथ चाघ्राय सद्यो भवति निर्व्विषः ॥ ५
त्र्युषणं पञ्चलवणं मञ्जिष्ठा रजनीद्वयम् ।
सूक्ष्मैला त्रिवृतापत्रं विडङ्गमिन्द्रवारुणी ॥
मधुकं वेतसं क्षौद्रं गोविषाणे निधापयेत् ।
तस्मादुष्णाम्बुना मात्रा प्रागुक्तं योजयेत्तथा ।
विषं भुक्तं जारयति निर्व्विषेऽपि न दोषकृत् ॥ ६ ॥
सक्तुं सर्ज्जरसोपेतं सर्षपा एलवालुकैः ।
सुवर्णा तस्करतरोः कुसुमैरर्ज्जुनस्य तु ॥
धूपो वासगृहे हन्ति विषं स्थावरजङ्गमम् ।
न तत्र कीटाः सविषा न दर्द्दरसरीसृपाः ।
न कृत्या कर्म्मणस्तत्र धूपोऽयं यत्र दह्यते ॥ ७ ॥
कल्कितैश्च तृणक्षीरपलाशद्रुमवल्कलैः ।
दूर्व्वैलवालुसुरसानाकुलीतण्डुलीयकैः ।
क्वाथः सर्वौदकार्थेषु काकमाचीयुतैर्वृतः ॥ ८ ॥
रोचनापत्रनेपालीकुङ्कुमैस्तिलकोऽन्वहम् ।
विषैर्न वाध्यते स्याच्च नरनारीनृपप्रियः ॥ ९ ॥
चूर्णैर्हरिद्रामञ्जिष्ठाकिणिहीकणनिम्बजैः ।
दिग्धं निर्व्विषतामेति गात्रं सर्व्वविषार्द्दितम् ॥ १०
शिरीषस्य फलं पत्रं पुष्पं त्वङ्मूलमेव च ।
गोमूत्रघृष्टो ह्यगदः सर्व्वकर्म्मकरः स्मृतः ॥ ११ *
एकवीरमहौषध्यः शृणु चातः परं द्बिज ।
बन्ध्याकर्कोटकी राजन् विष्णुक्रान्ता तथोत्कटा ।
शतमूली शतानन्दी वला मोचा पटोकिला ॥
सोमा पिण्डनिशा चैव तथा दग्धरुहा च या ।
स्थले कमलिनी या च विशाली शङ्खमूलिका ॥
चण्डाली हस्तिचण्डाली गोचण्डाली च
गन्धिका ।
रक्ता चैव महारक्ता तथा वर्हिशिखा च या ।
कोषातकी नक्तमाला पियाला शुभलक्षणा ।
वारणा च सुगन्धा च तथा वै गन्धनाकुली ॥
ईश्वरी च शिलीन्ध्री च सोमली वंशतालिका ।
जतुकाली महाश्वेता श्वेता च मधुयष्टिका ॥
वर्जटः पारिभद्रश्च तथा वै सिन्धुवारिका ।
जीवानन्दा वसुमती नर्त्तनागरकण्टकी ॥
तालता जालपाताला तथा च वटपत्रिका ।
कार्त्तक्षीरी महानीला कट्टरं हंसपादिका ॥
मण्डूकपर्णी वाराही द्वे तथा तण्डुलीयके ।
सर्पाक्षी लवणा ब्राह्मी विश्वरूपा सुखङ्करी ॥
रजापहा वृद्धिकरी तथा शल्यापहा च या ।
पत्रिका रोहिणी चैव रक्तमाला महौषधी ॥
तथामलकवन्दाकं या च चित्रा पटोलिका ।
काकोली क्षीरकाकोली पीलुपर्णी तथैव च ॥
केशिनी वृश्चिकाली च महानागा शतावरी ।
तथा गरुडवेगा च स्थले कुमुदिनी तथा ॥
स्थले चोत्पलिनी या च महाभूमिलता च या ।
उन्मादिनी सोमराजी सर्व्वरत्नानि पार्थिव ॥
विशेषान्मरकतान्यत्र कीटपक्षं विशेषतः ।
जीवजाताश्च मणयः सर्व्वे धार्य्या विशेषतः ॥ * ॥
रक्षोघ्नाश्च यशस्याश्च कृत्या वेतालनाशनाः ।
विशेषान्नरनागाश्च गोखरोष्ट्रसमुद्भवाः ॥
सर्पतित्तिरिगोमायुवभ्रुमण्डूकजाश्च ये ।
सिंहव्याघ्रर्क्षमार्ज्जारद्वीपिवानरसम्भवाः ॥
कपिञ्जलाजगोधाहिमहिषेषु भवाश्च ये ॥
पृष्ठ ४/४४५
इत्येवमेतैः सकलैरुपेतै-
र्द्रव्यैश्च सर्व्वैः स्वपुरं सुरक्षितम् ।
राजा वसेत्तत्र गृहञ्च शुभ्रं
गुणान्वितं लक्षणसंप्रयुक्तम् ॥”
इति मात्स्ये १९२ अध्यायः ॥
(तण्डुलीयः । तत्पर्य्यायो यथा । अथ च वराइ ।
अल्पमरुसा इति च ।
“तण्डुलीयो मेघनादः काण्डेरस्तण्डुलेरकः ।
भण्डीरस्तण्डुलीबोजो विषघ्नश्चाल्पमारिषः ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

विषघ्नी, स्त्री, (विषं हन्ति या । हन + टक् ।

स्त्रियां ङीप् ।) हिलमोचिका । इति त्रिकाण्ड-
शेषः ॥ (अस्याः पर्य्यायो यथा, --
“मारी विषघ्नी मत्स्याङ्की चक्राङ्गी हिल-
मोचिका ॥”
इति वैद्यकरत्नमालायाम् ॥)
इन्द्रवारुणी । वनवर्व्वरिका । स्वल्पफला ।
भूम्यामली । रक्तपुनर्नवा । हरिद्रा । वृश्चि-
काली । (अस्याः पर्य्यायो यथा, --
“वृश्चीपत्री वृश्चिकाली विषघ्नी नागदन्तिका ।
सर्पदंष्ट्रामराकाली चोष्ट्रधूषरपुच्छिका ॥”
इति वैद्यकरत्नमालायाम् ॥)
महाकरञ्जः । इति राजनिर्घण्टः ॥ (हवुषा ।
तत्पर्य्यायो यथा, --
“हवुषा पुष्पवन्ता च पराश्वत्थफला मता ।
मत्स्यगन्धा प्लीहहन्त्री विषघ्नी ध्वाङ्क्षनाशिनी ॥”
देवदाली । तत्पर्य्यायो यथा, --
“देवदाली तु वेणी स्यात् कर्कटी च गरागरी ।
देवताण्डी वृत्तकोशस्तथा जीमूत इत्यपि ।
पीतापरा खरस्पर्शा विषघ्नी गरनाशिनी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

विषजिह्वः, पुं, देवताडवृक्षः । इति रत्नमाला ॥

विषज्वरः, पुं, (विषवत् प्राणनाशको ज्वरो यस्य ।)

महिषः । इति शब्दरत्नावली ॥ विषजज्वरश्च ॥

विषण्डं, क्ली, मृणालम् । इति शब्दरत्नावली ॥

विषण्णः, त्रि, (वि + षद + क्तः ।) विषादप्राप्तः ।

यथा, --
“इति विप्रियमाकर्ण्य गोप्यो गोविन्दभाषितम् ।
विषण्णा भग्नसङ्कल्पा चिन्तामापुर्दुरत्ययाम् ॥”
इति श्रीभागवते १० स्कन्धे २९ अध्यायः ॥

विषण्णता, स्त्री, (विषण्णस्य भावः । तल् ।) जडता ।

यथा, --
“जाड्यं मौर्ख्यं विषादोऽवसादः सादो विष-
ण्णता ॥”
इति हेमचन्द्रः ॥

विषतिन्दुः, पुं, कारस्करवृक्षः । इति राजनिर्घण्टः ॥

कुपीलुः । इति भावप्रकाशः ॥

विषदं, क्ली, (विषं ददातीति । दा + कः ।) पुष्प-

कासीसम् । इति राजनिर्घण्टः ॥ शुक्लवर्णे, पुं ।
इत्यमरटीका ॥ (निर्म्मले प्रसन्ने च त्रि । यथा,
रघुः । १० । १४ ।
“योगनिद्रान्तविषदैः पावनैरवलोकनैः ॥”)

विषदंष्ट्रा, स्त्री, (विषं दंष्ट्रायां यस्याः ।) सर्प-

कङ्काली । इति रत्नमाला ॥

विषदन्तकः, पुं, (विषं दन्ते यस्य । कन् ।) सर्पः ।

इति शब्दचन्द्रिका ॥

विषदर्शनमृत्युकः, पुं, (विषदर्शने मृत्युर्यस्य । कन् ।)

चकोरपक्षी । इति हेमचन्द्रः ॥

विषद्रुमः, पुं, (विषयुक्तो द्रुमः ।) कारस्करवृक्षः ।

इति राजनिर्घण्टः ॥

विषधरः, पुं, (धरतीति । धृ + अच् । विषस्य

धरः ।) सर्पः । इत्यमरः ॥ (यथा, गीत-
गोविन्दे । १ । १९ ।
“कालियविषधरगञ्जनजनरञ्जन ॥”
स्त्रियां विषधरी । यथाह कश्चित् ।
“धावद्घोरविभावरी विषधरीभोगस्य भीमो
मणिः ॥”)

विषधर्म्मा, स्त्री, कुलक्षया । इति शब्दचन्द्रिका ॥

आलकुशी इति भाषा ॥

विषधात्री, स्त्री, (विषाणां विषधरसर्पाणां धात्री

मातेव ।) जरत्कारुमुनिपत्नी । इति शब्द-
माला ॥

विषनाशनः, पुं, (विषं नाशयति । ल्युः ।) शिरीष-

वृक्षः । इति हारावली ॥ विषनाशके, त्रि ॥

विषनाशिनी, स्त्री, (विषं नाशयतीति । नाशि +

णिनिः ।) सर्पकङ्काली । इति शब्दचन्द्रिका ॥
(अथ रास्ना भेदनाइ इति लोके । तत्पर्य्यायो
यथा, --
“नाकुली सरसा नागसुगन्धा गन्धनाकुली ।
नकुलेष्टा भुजङ्गाक्षी सर्य्याङ्गी विषनाशिनी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

विषनुत्, पुं, (विषं नुदति दूरीकरोति । नुद् +

क्विप् ।) श्योणाकवृक्षः । इति शब्दचन्द्रिका ॥

विषपुष्पं, क्ली, नीलपद्मम् । इति शब्दमाला ॥

विषयुक्तपुष्पञ्च ॥

विषपुष्पः, पुं, (विषयुक्तं पुष्पं यस्य ।) छर्द्दनवृक्षः ।

इति रत्नमाला ॥ मनफल इति भाषा ॥

विषपुष्पकः, पुं, (विषयुक्तं पुष्पं यस्य बहुव्रीहौ

कन् ।) मदनवृक्षः । इति भावप्रकाशः ॥ विष-
पुष्पभक्षणजन्यरोगः । इति केचित् ॥

विषभिषक्, [ज्] पुं, (विषस्य विषचिकित्सको

वा भिषक् ।) विषवैद्यः । इति हेमचन्द्रः ॥

विषभुजङ्गः, पुं, विषयुक्तसर्पः । इति केचित् ॥

विषमं, त्रि, असमानम् । यथा, मनुः ।

“भ्रातॄणामविभक्तानां यद्युत्थानं भवेत् सह ।
न तत्र भागं विषमं पिता दद्यात् कथञ्चन ॥”
इति दायतत्त्वम् ॥
(सङ्कटः । यथा, गीतायाम् । २ । २ ।
“कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ॥”
अनतिक्रमणीयः । यथा, साहित्यदर्पणे । १० ।
“का विषमा दैवगतिः किं दुर्ग्राह्यं जनः खलो
लोके ॥”)

विषमं, क्ली, पद्यस्य त्रिविधवृत्तान्तर्गतवृत्तविशेषः ॥

यथा, --
“पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्बिधा ।
वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥
सममर्द्धसमं वृत्तं विषमञ्चेति तत्त्रिधा ।
समं समचतुष्पादं भवत्यर्द्धसमं पुनः ॥
आदिस्तृतीयवद्यस्य पादस्तूर्य्यो द्वितीयवत् ।
भिन्नचिह्नचतुष्पादं विषमं परिकीर्त्तितम् ॥”
इति छन्दोमञ्जर्य्यां प्रथमस्तवकः ॥
वर्गमूलोक्तोर्द्ध्वरेखा । यथा, --
“त्यक्त्वान्त्याद्बिषमात् कृतिं द्विगुणयेन्मूलं समे
तद्धृते
त्यक्त्वा लब्धकृतिन्तदाद्यविषमाल्लब्धं द्विनिघ्नं
न्यसेत् ।
पङ्क्त्यां पङ्क्तिहृते समेऽन्यविषमात् त्यक्त्वाप्तवर्गं
फलं
पङ्क्त्यान्तद्द्विगुणं न्यसेदिति मुहुः पङ्क्तेर्दलं
स्यात् पदम् ॥”
इति लीलावती ॥
(अर्थालङ्कारविशेषः । यथा, साहित्यदर्पणे ।
१० ।
“यद्वारब्धस्य वैकल्यं अनर्थस्य च सम्भवः ।
विरूपयोः सङ्घटना या च तद्विषमं मतम् ॥”
उदाहरणम् ।
“क्व वनं तरुवल्कभूषणं
नृपलक्ष्मीः क्व महेन्द्रवन्दिता ॥”)

विषमः, पुं, अयुग्मराशिः । स तु मेषः मिथुनः

सिंहः तुला धनुः कुम्भश्च । यथा, --
“क्रूरोऽथ सौम्यः पुरुषोऽङ्गना च
ओजोऽथ युग्मं विषमः समश्च ।
चरस्थिरद्व्यात्मकनामधेया
मेषादयोऽमी क्रमशः प्रदिष्टाः ॥”
इति ज्योतिस्तत्त्वम् ॥
तालविशेषः । यथा, सङ्गीतदामोदरे ।
“चतुर्व्विधः परिज्ञेयस्तालः कङ्कणनामकः ।
पूर्णः खण्डः समश्चैव विषमश्चैव कथ्यते ॥
लचतुष्कं गणौ पूर्णे खण्डे बिन्दुद्वयं गुरुः ।
यगणस्तु समे ज्ञेयस्तगणो विषमे भवेत् ॥”
(जठराग्निविशेषः । यथा, --
“मन्दस्तीक्ष्णोऽथ विषमः समश्चेति चतुर्विधः ।
विषमो वातजान् रोगान् तीक्ष्णः पित्तनिमि-
त्तजान् ॥”
इति वैद्यकरुग्विनिश्चये मन्दाग्न्यधिकारे ॥)

विषमच्छदः, पुं, (विषमः अयुग्मः छदो यस्य ।)

सप्तच्छदवृक्षः । इत्यमरः ॥

विषमज्वरः, पुं, (विषमः ज्वरः ।) ज्वररोगबिशेषः ।

तस्य निदानकथनपूर्ब्बिकां संप्राप्तिमाह ।
“दोषोऽल्पोऽहितसम्भूतो ज्वरोत्सृष्टस्य वा पुनः ।
धातुमन्यतमं प्राप्य करोति विषमज्वरम् ॥”
अयमर्थः । ज्वरोत्सृष्टस्य ज्वरेण त्यक्तस्य ।
सन्निकृष्टं लक्षणमाह । दोषः अल्पः ज्वरमुक्त्या
स्वल्पोऽपि । विप्रकृष्टं हेतुमाह । अहित-
माहारविहारादि तेन सम्भूतः संपूर्णो जातः
अन्यतमं धातुं रसरक्तादिकं प्राप्य दूषयित्वा
पृष्ठ ४/४४६
पुनः विषमज्वरं करोति । ज्वरोत्सृष्टस्य वेति
वाशब्देनेति बोध्यते । प्रथमतोऽपि विषमज्वरो
भवति । यत उक्तम् । आरम्भाद्विषमो यस्त्वि-
त्यादिकम् । धातुं दूषयित्वा कं विषमज्वरं
करोतीत्यपेक्षायामाह ।
“सन्ततं रसरक्तस्थः सततं रक्तधातुगः ।
दोषः क्रुद्धो ज्वरं पुंसां सोऽन्येद्युः पिशिताश्रितः ॥
मेदोगतस्तृतीयेऽह्नि अस्थिमज्जगतः पुनः ।
कुर्य्याच्चातुर्थकं घोरमन्तकं रोगसङ्करम् ॥”
अन्तकं अन्तकमिव मारकत्वात् ॥ * ॥ विषम-
ज्वरस्य सामान्यलक्षणमाह ।
“यः स्यादनियतात् कालाच्छीतोष्णाभ्यां तथैव
च ।
वेगतश्चापि विषमो ज्वरः स विषमः स्मृतः ॥”
यस्त्वनियतात् कालात् स्यादित्यस्यायमर्थः ।
यथा, वातिको ज्वरः सप्तदिनानि पैत्तिको दश
दिनानि श्लैष्मिको द्वादश दिनानि दोषाणां
प्राबल्ये वातिकश्चतुर्द्दश दिनानि पैत्तिको
विंशतिदिनानि श्लैष्मिकश्चतुर्व्विंशतिदिनानि
स्यात् तथा विषामज्वरो नियतं कालं व्याप्य न
स्यादित्यर्थः । शीतोष्णाभ्यां गुणाभ्यां स्यात् ।
“वेगतश्चापि विषमः कदाचिदपि वेगवान् ॥”
कदाचिदपि शान्तवेगः ॥ विषमज्वरस्य भेदा-
नाह ।
“सन्ततः सततोऽन्येद्युस्तृतीयकचतुर्थकौ ।”
तत्र सन्ततस्य लक्षणमाह ।
“सप्ताहं वा दशाहं वा द्बादशाहमथापि वा ।
सन्तत्या योऽविसर्गी स्यात् सन्ततः स निग-
द्यते ॥”
विकल्पो वातिकादिभेदात् । सन्तत्या नैरन्त-
र्व्येण अविसर्गी अपरित्यागी ॥ ननु मुक्तानु-
बन्धित्वं विषमत्वमिति विषमलक्षणं तदत्र न
घटत इति कथमयं विषमेषु पट्यते । घटत एव
इति न दोषः । यत उक्तं चरकेण ।
“विसर्गं द्वादशे कृत्वा दिवसेऽव्यक्तलक्षणम् ।
दुर्ल्लभोपशमः कालं दीर्घमप्यनुवर्त्तते ॥”
यत्तु खरनादः ।
“ज्वराः पञ्च च ये प्रोक्ताः पूर्ब्बं सततकादयः ।
चत्वारः सन्ततं हित्वा ज्ञेयास्ते विषमज्वराः ॥”
इति । तच्चिरेण त्यागाभिप्रायेण ॥ * ॥ सतत-
लक्षणमाह ।
“अहोरात्रे सततको द्बौ कालावनुवर्त्तते ।”
द्वौ कालौ अहन्येककालं रात्रावेककालम् ।
यतो दोषाणामहोरात्रे प्रत्येकं द्वौ द्वौ प्रकोप-
कालौ । यत उक्तं वाग्भटेन ।
“वयोऽहोरात्रिभुक्तानामन्तमध्यादिकाः
क्रमात् ।” इति ॥
अन्येद्युष्कलक्षणमाह ।
“अन्येद्युष्कस्त्वहोरात्रादेककालं प्रवर्त्तते ।”
एककालं दोषापेक्षया एककालमपि द्वितीयं
प्रथमकाले हृद्येव दोषस्थितेः ॥ * ॥ तृतीयक-
चतुर्थकयोर्लक्षणमाह ।
“तृतीयकस्तृतीयेऽह्नि चतुर्थेऽह्नि चतुर्थकः ॥”
तृतीयेऽह्नि इत्यागमनदिनं गृहीत्वा । यत
उक्तम् ।
“दिनमेकमतिक्रम्य यो भवेत् स तृतीयकः ।
दिनद्वयं त्वतिक्रम्य यः स्यात् स हि चतुर्थकः ॥”
इति ॥
अत्राह वृद्धसुश्रुतः ।
“कफस्थानविभागेन यथासंख्यं करोति हि ।
सततान्येद्युष्कत्र्याख्यचतुर्थकप्रलेपकान् ॥
अहोरात्रादहोरात्रात् स्थानात् स्थानं प्रप-
द्यते ।
दोष आमाशयं प्राप्य करोति विषमज्वरम् ॥”
अयमर्थः । आमाशयोरः कण्ठशिरःसन्धयः पञ्च
कफस्थानानि एषु तिष्ठन् दोषो यथासंख्यं
सततादीन् करोति । तत्रामाशये स्थितो दोषः
सततं करोति द्वौ कालौ अहोरात्रे कालद्बये
दोषप्रकोपात् । हृदये स्थितो दोष आमाशय-
मागत्य अन्येद्युष्कं करोति । एककालं नैकद्या-
देकस्मिन्नेवाहोरात्रे दोष आमाशयमायाति ।
तत्र द्वौ दोषकोपकालौ एकस्मिन् काले हृदये
तिष्ठत्यपरस्मिन्नामाशय इति । कण्ठे स्थितो
दोषोऽहोरात्रात् हृदयमायाति । तृतीये दिने
आमाशयमागत्य स्वप्रकोपकाले तृतीयकं ज्वरं
करोति एककालं न तु द्वौ कालौ स्वभावात् ।
एवं शिरःस्थितो दोषोऽहोरात्रात् कण्ठ-
मायाति । ततः पुनरहोरात्रा द्धृदयमायाति
चतुर्थदिने आमाशयमागत्य स्वप्रकोपकाले
चतुर्थकं ज्वरं करोति । एककालं न तु द्वौ
कालौ स्वभावादेव ॥ * ॥ ननु दोषस्यागमन-
क्रमेण निजस्थानगमनक्रमात् कथं तृतीयचतुर्थ-
दिवसयोर्ज्वरागमनम् । उच्यते । दोषो हि
प्रकोपशमये वेगवत्तया लाघवात् स्वस्थानन्तु
वेगदिन एव याति । यत आह ।
“दोषः प्रकोपकाले हि वेगवत्त्वेन लाघवात् ।
वेगवासर एवायं स्वस्थानमभिगच्छति ॥”
सन्धिषु स्थितः प्रलेपं करोति । सन्धयश्चामा-
शयेऽपि सन्ति तेषु स्थितः प्रलेपकं सर्व्वदा
करोति ॥ * ॥
“निवृत्तः पुनरायाति विषमो नियते दिने ।
स्वभावं कारणं तत्र मन्यन्ते मुनिपुङ्गवाः ॥”
स्वभावस्य कारणत्वे कफस्थानविभागनिरपेक्षा-
श्चतुर्थकादिविपर्य्यया अपि ज्वराः स्वस्य काले
भवन्ति ।
“अधिशेते यथा भूमिं वीजं काले प्ररोहति ।
अधिशेते तथा धातून्दोषः काले प्रकुप्यति ॥”
सुश्रुतोऽप्याह ।
“स चापि विषमो देहं न कदाचित् प्रमुञ्चति ।
ग्लानिगौरवकार्श्येभ्यः स यस्मान्न प्रमुच्यते ॥
वेगे तु समतिक्रान्ते गतोऽयमिति लक्ष्यते ।
धात्वन्तरस्थो लीनत्वात् सौक्ष्मान्नैवोपलभ्यते ॥”
द्विदोषोस्त्वणस्य तृतीयकस्य लक्षणमाह ।
“कफपित्तात्त्रिकग्राही पृष्ठाद्वातकफात्मकः ।
वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृती-
यकः ॥”
त्रिकग्राही वेदनया त्रिकं गृह्णाति इत्यर्थः ॥ * ॥
ननु कफपित्तात्त्रिकग्राही वेदनया त्रिकव्यापी
त्रिकस्य वातस्थानं तत्कयं तद्गृहीतौ पित्त-
कफौ अन्यस्थानगत्वेन दुर्ब्बलत्वेन दुर्ब्बलौ वेगं
कुरुते । उच्यते दोषाणां स्थाननियमः न तु
कुपितानाम् । तथा च सुश्रुतः ।
“कुपितानां हि दोषाणां शरीरे परिधावति ।
यत्र सङ्गः स वैगुण्याद्ब्याधिस्तत्रोपजायते ॥”
एवं अन्यस्थानगत्वेन चतुर्थकोऽपि वाच्यम् ।
वातकफात्मकः पृष्ठात् व्यथया पृष्ठं व्याप्य भवति
इत्यर्थः । यव्लोपकर्म्मण्यधिकरणे चेति सूत्रेण
पञ्चमी ॥ * ॥ कफोल्वणस्य वातोल्वणस्य च
चतुर्थकस्य लक्षणमाह ।
“चतुर्थको दर्शयति स्वभावं द्बिविधं ज्वरः ।
जङ्घाभ्यां श्लैष्मिकः पूर्ब्बं शिरसोऽनिलसंभवः ॥”
श्लैष्मिकः श्लेष्मोल्वणः तथा अनिलसंभवः वातो-
ल्वणः । सन्ततादीनां त्रिदोषजत्वात् । उक्तञ्च
चरकेण ।
“प्रायशः सन्निपातेन पञ्च स्युर्व्विषमज्वराः ।”
इति ।
प्रायशो ग्रहणादेकदोषजाः द्विदोषजा अपि
न भवन्ति इति जैज्जटः ॥ पूर्ब्बं प्रथमं जङ्घाभ्यां
व्यथया जङ्घे व्याप्य पश्चात् सकलं शरीरं
व्याप्नोति । एवमुल्वणवातजातः शिरसः पूर्ब्बं
व्यथया शिरो व्याप्य सकलं शरीरं व्याप्नोती-
त्यर्थः ।
“विषमज्वर एवान्यश्चतुर्थकविपर्य्ययः ।
अस्थिमज्जगतो दोषश्चतुर्थकविपर्य्ययः ॥”
अन्यः सन्ततादिपञ्चकादपरश्चतुर्थकविपर्य्ययाख्यो
ज्वरः सोऽपि विषमज्वर एव । स किंधातुस्थ
इत्यपेक्षायामाह अस्थीत्यादि । तस्य चतुर्थक-
विपर्य्ययस्य लक्षणमाह ।
“स मध्ये ज्वरयत्यह्नीआद्यन्ते च विमुञ्चति ॥”
चतुर्थकविपर्य्यय इत्युपलक्षणम् । सततादि-
विपर्य्ययोऽपि बोद्धव्यः । यथा, अहोरात्रे द्वौ
कालौ मुञ्चति शेषं सर्व्वमहोरात्रं तिष्ठतीति
सततविपर्य्ययः । अहोरात्रे एकं कालं मुञ्चति
शेषं सर्व्वमहोरात्रं तिष्ठति इत्यन्येद्युष्कविप-
र्य्ययः । मध्ये एकं दिनं ज्वरयति आदावन्ते
च दिने मुञ्चति इति तृतीयकविपर्य्ययः । एते
विषमज्वरा उपलक्षकाः अन्ये रात्रिज्वरा-
दयोऽपि विषमज्वरा बोद्धव्याः ॥ यथा, --
“समौ वातकफौ यस्य क्षीणपित्तस्य देहिनः ।
रात्रौ प्रायो ज्वरस्तस्य दिवा हीनकफस्यतु ॥”
प्रायो बाहुल्येन ॥ * ॥ सन्ततादीनां शीत-
पूर्ब्बत्वे दाहपूर्ब्बत्वे च हेतुमाह ।
“त्वक्स्थौ श्लेष्मानिलौ शीतमादौ जनयतो
ज्वरम् ।
तयोः प्रशान्तयोः पित्तमन्तर्दाहं करोति च ॥”
शीतं शीतसहितं प्रशान्तयोः प्रशान्तवेगयोः ।
पृष्ठ ४/४४७
अन्तः अभ्यन्तरे ।
“करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च ।
तस्मिन् प्रशान्ते त्वितरौ कुरुतः शीतमन्ततः ॥”
अन्ततः हस्तपादादितः ॥ * ॥ शीतादिदाहा-
दिज्वरयोस्त्रिदोषजत्वमाह ।
“द्वावेतौ दाहशीतादी ज्वरौ संसर्गजौ स्मृतौ ।
दाहपूर्ब्बस्तयोः कष्टः सुखसाध्यतमोऽपरः ॥”
संसर्गजौ सान्निपातिकौ । कष्टः कष्टसाध्यः ॥ * ॥
विषमज्वरविशेषानाह ।
“विदग्धेऽन्नरसे देहे श्लेष्मपित्ते व्यवस्थिते ।
तेनार्द्धं शीतलं देहं चार्द्धमुष्णं प्रजायते ॥”
अन्नरसे विदग्धे आहारजे रसे दुष्टे श्लेष्मपित्ते
च व्यवस्थिते दुष्टे स्थिते तेन हेतुना शीतलं
कफेन उष्णं पित्तेन अर्द्धत्वं चार्द्धनारीश्वरा-
कारेण नरसिंहाकारेण वा ।
“काये दुष्टं यदा पित्तं श्लेष्मा चान्ते व्यवस्थितः ।
तेनोष्णत्वं शरीरस्य शीतत्वं हस्तपादयोः ॥”
अन्ते हस्तपादादौ ।
“काये श्लेष्मा यदा दुष्टः पित्तश्चान्ते व्यवस्थितः ।
शीतत्वं तेन गात्रे स्यादुष्णत्वं हस्तपादयोः ॥”
विषमज्वरविशेषस्य प्रलेपकस्य लक्षणमाह ।
“प्रलिम्पन्निव गात्राणि घर्म्मेण गौरवेण च ।
मन्द्रज्वरविलेपी च सशीतः स्यात् प्रलेपकः ॥”
गौरवेण उपलक्षितः । मन्दज्वरविलेपी मन्द-
वेगस्य ज्वरस्य सदा सम्बन्धोऽस्यास्तीति मन्द-
ज्वरविलेपी अयं विषमज्वरः । यथा च सुश्रुतः ।
प्रलेपकाख्यो विषमः प्रायः क्लेशाय शोषिणा-
मिति ॥ * ॥ अथ विषमज्वराणां सामान्य-
चिकित्सा ।
“ज्वराश्च विषमाः सर्व्वे सन्निपातसमुद्भवाः ।
अथोल्वणस्य दोषस्य तेषु कार्य्यं चिकित्सितम् ॥
विषमेष्वय कर्त्तव्यमूर्द्ध्वं वाधश्च शोधनम् ।
स्निग्धोष्टैरन्नपानैश्च शमयेद्विषमज्वरम् ॥ * ॥
कालिङ्गकः पटोलस्य पत्रं कटुकरोहिणी ।
पटोलं सारिवा मुस्तं पाठा कटुकरोहिणी ॥
निम्बः पटोलस्त्रिफला मृद्वीका मुस्तवत्सकौ ।
किराततिक्तममृता चन्दनं विश्वभेषजम् ॥
गुडूच्यामलकं मुस्तमर्द्धश्लोकसमापनाः ।
कषायाः शमयन्त्याशु पञ्च पञ्चविधज्वरम् ॥”
कालिङ्गकः इन्द्रयवः । वत्सकः कुटजः । चन्दन-
मत्र रक्तचन्दनम् । कवायाः पञ्च । पञ्चविधं
सन्ततसततान्येद्युष्कतृयीयचतुर्थकरूपम् ॥ * ॥
“महाबलामूलमहौषधाभ्यां
क्वाथो निहन्याद्विषमज्वरं हि ।
शीतं सकम्पं परिदाहयुक्तं
विनाशयेत् द्वित्रिदिनं प्रयोगात् ॥ * ॥
क्षुद्रामृतानागरपुष्कराद्यैः
कृतः कषायः कफमारुतोत्तरे ।
सश्वासकासारुचिपार्श्वरुग्ज्वरे
सदा त्रिदोषप्रभवेऽपि शस्यते ॥” * ॥
क्षुद्रादि ॥ * ॥
“क्षुद्रामृतापद्मकचन्दनैर्घनै-
र्भूनिम्बपर्पटपटोलपौष्करैः ।
तिक्ताकलिङ्गपिचुमर्द्दवासकै-
र्महौषधं भार्गिवितुन्नकैः समैः ॥
शृतं पिबेत् पूर्ब्बदिनं कषायं
निहन्ति वृद्धज्वरमुग्रशीतम् ।
सश्वासमूर्च्छारुचिदाहमुल्वणं
तृषां वमिं कासमतीव शूलकम् ।
आनाहहिक्कादिषु सन्निपाते
गलग्रहे तन्द्रिशिरोरुहायाम् ॥”
बृहत्क्षुद्रादिविषमज्वरे ॥ * ॥
“मुस्तामलकगुडुचीविश्वौषधकण्टकारिक्वाथः ।
पीतः सकणाचूर्णः समधुर्विषमज्वरं हन्ति ॥ * ॥
तिलतैललवणयुक्तकल्को लशुनसेवितः प्रातः ।
विषमज्वरमपहरते वातव्याधीनशेषांश्च ॥ * ॥
कालाजाजी नु सगुडा विषमज्वरनाशिनी ।
मधुनाढ्याभया लीढा हन्त्याशुविषमज्वरान् ॥”
कालाजाजी मगरैला इति लोके । सा च
किञ्चिद्भृष्टा गुडतुल्या कर्षमिता भक्षणीया । *
“पीतो मरीचचूर्णेन तुलसीपत्रजो रसः ।
द्रोणपुष्पीभवो वापि निहन्ति विषम-
ज्वरान् ॥ * ॥
अमृतायाः शतं चूर्णं वाससा परिशोधितम् ।
पृथक् षोडशभागाः स्युर्गुडमाक्षिकसर्पिषाम् ॥
यथाग्नि भक्षयेदेतन्नरो हितमिताशनः ।
नास्य कश्चिद्भवेद्व्याधिर्न जरा पलितं न च ॥
न ज्वरा विषमा नैव मेहनानिलरक्तकम् ।
न च नेत्रगता रोगाः परमेतद्रसायनम् ॥
मेघाकरं त्रिदोषघ्नं प्रयोगादस्य बुद्धिमान् ।
जीवद्वर्षशतं साग्रं यथैवादितिजस्तथा ॥”
गुडूचीकल्कः ॥ * ॥ अथान्नमाह ।
“तक्रमांसं पयोमांसं दधिमांसमथापि वा ।
माषमांसञ्च भुञ्जानो मुच्यते विषमज्वरात् ॥” *
अग्निवेशश्च ।
“सुरा समण्डा पानाय भोजने चरणायुधाः ।
तित्तिरा विष्किराः पथ्याः कुक्कुटा विषमज्वरे ॥
चरणायुधा गृहकुक्कुटाः । कुक्कुटा वनकुक्कुटाः ।
विष्किराः वर्त्तिकालावविगिरचकोराद्याः ॥ * ॥
अथ सन्ततादीनां विशिष्टा चिकित्सा ।
“त्रायन्तीकटुकानन्तासारिवाभिः शृतं जलम् ।
सन्तताख्ये ज्वरे देयं वातादीनां निवृत्तये ॥”
अनन्ता दुरालभा ॥ * ॥
“पटोलाब्दविषातिक्तासारिवाभिः शृतं जलम् ।
सन्तताख्ये ज्वरे देयं वातादीनां निवृत्तये ॥”
वृषा बृहद्दन्ती एरण्डवत्पत्रविटपा तदलाभे
दन्ती च ग्राह्या समानगुणत्वात् ॥ * ॥
“पटोलेन्द्रयवानन्तापथ्यारिष्टामृताजलम् ।
क्वथितं तज्जलं पीतं ज्वरं सन्ततकं जयेत् ॥”
अनन्ता सारिवा । अरिष्टः निम्बः । जलं
बालकम् ॥ * ॥
“द्राक्षापठोलनिम्बाब्दशक्राह्वत्रिफलाशृतम् ।
जलं जन्तुः पिबेच्छीघ्रमन्येद्युर्ज्वरशान्तये ॥”
शक्राह्वः इन्द्रयवः ॥ * ॥
“कर्म्मसाधारणं त्यक्त्वा तृतीयकचतुर्थकौ ।
भिषजा प्रतिकर्त्तव्यौ विशेषोक्तचिकित्सितैः ॥
उशीरं चन्दनं मुस्तं गुडूचीधान्यनागरम् ।
अम्भसा क्वथितं पेयं शर्करामधुयोजितम् ॥ * ॥
ज्वरे तृतीयके पुंसां तृष्णादाहसमन्विते ।
अपामार्गजटां कट्यां लोहितैः स प्ततन्तुभिः ।
बद्ध्वा वारे रवेस्तूर्णं ज्वरं हन्ति तृतीयकम् ॥ * ॥
स्थिरातामलकीदारुशिवावृषमहौषधैः ।
सितामधुयुतः क्वाथश्चतुर्थकहरः परः ॥”
स्थिरा शालिपर्णी । तामलकी भूधात्री । शिवा
हरीतकी । वृषो वासा ॥ * ॥
“अगस्तिपत्रस्य रसेन नस्यं
निहन्ति चातुर्थकमुग्रवीर्य्यम् ।
शिरीषपुष्पस्य निशाद्वयस्य
कल्केन वा तत्घृतसंयुतेन ॥”
तत् नस्यम् ॥ * ॥
“ज्वरस्य वेगकालञ्च चिन्तयन् ज्वर्य्यते तु यः ।
तस्येष्टैरद्भुतैर्व्वापि विषयैर्नाशयेत् स्मृतिम् ॥
सन्ततं विषमञ्चापि क्षीणस्य सुचिरोत्थितम् ।
ज्वरं सभोजनैः पथ्यैर्ज्वरघ्नैः समुपाचरेत् ॥” * ॥
सततादिविपर्य्ययाणां विषमज्जराणां चिकित्सा
सततादीनामिव कर्त्तव्या ।
“शीताभिभूते पुरुषे कुर्य्याच्छीतहरीं क्रियाम् ।
दाहाभिभूते तु विधिं विदध्याद्दाहनाशनम् ॥
आच्छादनैर्ब्बहुतरैर्गुरुभिः कम्बलादिभिः ।
तूलवत्या महाशीतं शीतादिज्वरिणो हरेत् ॥”
तूलवती तुलाई इति लोके ॥
“तं स्तनाभ्यां सुपीनाभ्यां पीवरोरुर्नितम्बिनी ।
युवतिर्गाढमालिङ्गेत्तेन शीतं प्रशाम्यति ॥
कान्ताङ्गसङ्गसंजातं तस्य शीते निवारिते ।
प्रह्लादं चास्य विज्ञाय पृथक् तां कारयेत्
स्त्रियम् ॥
ततो दाहे तु संजाते पत्रैरेरण्डसम्भवैः ।
शीतलैर्धारितैर्द्देहे दाहं तस्यापनोदयेत् ॥
तालकं शुक्तिकाचूर्णं तुल्यं तत्रोभयोरपि ।
नवमांसञ्च तुत्थं स्यात् मर्द्दयेत् कन्यकाद्रवैः ॥
तत् तु संशुष्कमुपलैर्वन्यैर्गजपुटैः पचेत् ।
शीतं तच्चूर्णयेच्चूर्णं गुञ्जामात्रं सितायुतम् ॥
प्रभाते भक्षयेत्तेन याति शीतज्वरक्षयम् ।
वान्तिर्भवति कस्यापि कस्यापि न भवत्यपि ॥
एकेन दिवसेनैव शीतज्वरहरं परम् ।
मध्याह्नसमये पथ्यं शिखरिणी भक्तकं च ॥” * ॥
शीतज्वरे भूतभैरवचूर्णम् ।
“एला जातीफलं व्योषत्रिफलाजीरकं घनः ।
सविडङ्गं सितायुक्तं चूर्णं शीतज्वरापहम् ॥
कायस्थानाकुलीतिक्तावयस्थापुरचोरकैः ।
सहदेवावचाकुष्ठैः शीतघ्नैर्धपलेपनैः ॥
एतैरेवौषधैः पिष्टैर्लवणक्षारसंयुतैः ।
साम्लैर्व्विपाचितं तैलमभ्यङ्गाच्छीतनाशनम् ॥”
कायस्था हरितकी । नाकुली रास्ना । भेदसाई
इति लोके । वयस्था गुडूची । पुरो गुग्गुलुः ।
चोरकः । भटिउर । तदलाभे गटिवन । सह-
पृष्ठ ४/४४८
देवा बृहद्वला । क्षारो यवक्षारः । काय-
स्थादिधूपं लेपनं तैलञ्च ॥
“एरण्डस्य तु पत्राणि लिप्तभूमौ निधापयेत् ।
दाहादिज्वरिणो देहे तानि पत्राणि धारयेत् ॥
तेन नश्यति दाहोऽस्य ज्वरश्चैवोपशाम्यति ।
दाहे शान्ते यदा शैत्यं तच्च युक्त्या निवारयेत् ॥
जघनचक्रचलन्मणिमेखला
सरसचन्दनचन्द्रविलेपना ।
वनलतेव तरुं परिवेष्टयेत्
प्रबलदाहनिपीडितमङ्गना ॥”
चन्द्रः कर्पूरः ।
“तदङ्गसङ्गसंजातशैत्यैर्द्दाहे निवारिते ।
प्रह्लादश्चास्य विज्ञाय तां स्त्रीमपनयेत् पुनः ॥ * ॥
सुवर्च्चिकानागरकुष्ठमूर्व्वा-
लाक्षानिशालोहितयष्टिकाभिः ।
सिद्धं हरेत् षड्गुणतक्रपङ्कं
तैलं ज्वरं दाहसमन्वितञ्च ॥”
षट्तक्रतैलम् ॥ * ॥
“रास्नानागरकुष्ठचन्दननिशायष्ट्याह्वकृष्णावला
लाक्षासैन्धवसारिवामधुरसादेवद्रुरोहीतकैः ।
सोशीराम्बुधिफेनरौहिषजलैस्तैलं पचेत् षड्गुणे
तक्रेतच्छमयेज्ज्वरं दृढतरं दाहादिशीतादि-
कम् ॥”
चन्दनमत्र श्वेतम् । मधुरसा मूर्व्वा । रोही-
तकः रोहिणि इति लोके । रौहिषं रोहिस
इति तृणविशेषः । जलं बालकम् । महाषट्-
तक्रतैलम् ॥ * ॥
“पद्मकोत्पलकह्लारमृणालविषपौष्करैः
कुमुदोशीरमञ्जिष्ठापद्मगैरिककट्फलैः ॥
सारिवाद्वयलोध्राब्दक्षीरीखर्ज्जुरमस्तकैः ।
धात्रीशतावरीयुक्तैः क्वाथे कल्के प्रयोजितैः ॥
लाक्षारसपयः शुक्लमस्तुभिः सह काञ्जिकैः ।
पक्वतैलमिदं त्वच्यं दाहज्वरहरं परम् ॥”
लाक्षारसादिः पृथक् तैलतुल्यः पद्मकादि-
तैलम् ॥ * ॥
“प्रलेपके प्रयुञ्जीत श्लेष्मज्वरहरीं क्रियाम् ।
रुद्रजटा गोशृङ्गं विडालविष्ठोरगस्य निर्म्मोकः ।
मदनफलभूतकेश्यौ वंशत्वग्रुद्रनिर्म्माल्यम् ॥
धृतयवमयूरचन्द्रच्छगलकरोमाणि सर्षपाः
सवचाः ।
हिङ्गुगवास्थिमरीचाः समभागाश्छागमूत्र-
संपिष्टाः ॥
धूपनविधिना शमयन्त्येते सर्व्वान् ज्वरान्नियतम् ।
ग्रहडाकिनीपिशाचप्रेतविकारानयं धूपः ॥”
रुद्रजटा जटाधारी । भूतकेशी जटामांसी ।
रुद्रनिर्म्माल्यं रुद्रनिर्म्माल्यपुष्पादि । मयूरचन्द्रः
मयूरपुच्छचन्द्रकम् । माहेश्वरो धूपः ॥ * ॥
“सोमं सानुचरं देवं समातृगणमीश्वरम् ।
पुजयन् प्रयतः शीघ्रं मुच्यते विषमज्वरात् ॥”
सोमं उमादिसहितम् । सानुचरं नन्द्यादिगण-
सहितम् । प्रयतः पवित्रः ॥ * ॥
“विष्णुं सहस्रमूर्द्धानं चराचरपतिं विभुम् ।
स्तुवन्नामसहस्रेण ज्वरान् सर्व्वान् व्यपोहति ॥”
सहस्रमूर्द्धानमिति सहस्रशीर्षेत्यादि वेदाभि-
हितम् । नामसहस्रेण भारतोक्तेनेत्यर्थः ॥ * ॥
ज्वरस्यापि देवतात्वात् पूजा कार्य्या । यत
आह विदेहः ।
“तीर्थायतनदेवाग्निगुरुवृद्धोपसर्पणैः ।
श्रद्धया पूजनैश्चापि सहसा शाम्यति ज्वरः ॥”
तीर्थं ऋषिजुष्टं जलम् । आयतनं देवाधिष्ठितं
पुरुषोत्तमक्षेत्रश्रीशैलादि ॥ * ॥
“निम्बपत्रं वरा व्योषं यवानी लवणत्रयम् ।
क्षारो दिग्वह्निरामेषुत्रिनेत्रक्रमशोऽंशकाः ॥
सर्व्वमेकीकृतं चूर्णं प्रत्यूषे भक्षयेन्नरः ।
एकाहिकं द्व्यहिकञ्च तथा त्रिदिवसज्वरम् ॥
चातुर्थिकं महाघोरं सन्ततं सततं हि वा ।
धातुस्थञ्च त्रिदोषोत्थं ज्वरं हन्ति च मान-
वम् ॥”
निम्बादि चूर्णम् । इति विषमज्वराधिकारः ॥
इति भावप्रकाशः ॥

विषमनयनः, पुं, (विषममयुग्मं नयनं यस्य ।

त्रिनेत्रत्वात्तथात्वम् ।) शिवः । इति हारावली ॥

विषमन्त्रः, पुं, (विषनिवर्त्तको मन्त्रो यत्र ।) सर्प-

धारकः । वादिया इति ख्यातः । तत्पर्य्यायः ।
जाङ्गली २ । इति जटाधरः ॥

विषममयं, त्रि, (विषम + मयट् ।) विषमादा-

गतम् । इति सिद्धान्तकौमुदी ॥

विषमरूप्यं, त्रि, (विषम + रूप्यः ।) विषमादा-

गतम् । इति सिद्धान्तकौमुदी ॥

विषमर्द्दनिका, स्त्री, (विषं मर्द्दयतीति । मर्द्द +

ल्युः ङीप् । स्वार्थे कन् च ।)
गन्धनाकुली । इति राजनिर्घण्टः ॥

विषमर्द्दनी, स्त्री, (विषं मर्द्दयतीति । मर्द्द +

ल्युः ङीप् । स्वार्थे कन् च ।)
गन्धनाकुली । इति राजनिर्घण्टः ॥

विषमविभागः, पुं, (विषमो विभागः ।) असमा-

नांशः । यथा, यत्र तु भ्रातर एव विभागमर्थ-
यन्ते तत्र विषमविभागाभावमाह मनुः ।
“भ्रातॄणामविभक्तानां यद्युत्थानं भवेत् सह ।
न तत्र भागं विषमं पिता दद्यात् कथञ्चन ॥”
इति दायतत्त्वम् ॥

विषमस्थः, त्रि, (विषमे तिष्ठतीति । स्था + कः ।)

असमानस्थितः । इति केचित् ॥ उपप्लव-
देशस्थः । यथा नारदः ।
“अप्राप्तव्यवहारश्च दूतो दानोन्मुखो व्रती ।
विषमस्थाश्च नासेध्या न चैतान्नाह्वयेन्नृपः ॥”
विषमस्थाः उपप्लवदेशस्थाः । इति व्यवहार-
तत्त्वम् ॥

विषमशिष्टः, पुं, दोषविशेषः । स च अनुचित-

शासनरूपः । महद्वैषम्यम् । यथा, अत्र कामत
एव चान्द्रायणतप्तकृच्छ्रयोर्विषमशिष्टत्वेन इच्छा-
विकल्पासम्भवात् कामतश्चान्द्रायणं अकामत-
स्तप्तकृच्छ्रम् । इति प्रायश्चित्ततत्त्वम् ॥

विषमाक्षः, पुं, (विषमं अयुग्मं अक्षि यस्य ।

त्रिनयनत्वादस्य तथात्वम् ।) शिवः । इति
त्रिकाण्डशेषः ॥

विषमायुधः, पुं, (विषमा अयुग्मा आयुधा यस्य ।

तस्य पञ्चबाणत्वात्तथात्वम् । यद्वा, विषमः अत्युग्र
असह्य इत्यर्थः आयुधो यस्य ।) कामदेवः ।
इति हलायुधः ॥

विषमीयं, त्रि, (विषम + “गहादिभ्यश्च ।” ४ ।

२ । १३८ । इति छः ।) विषमादागतम् । इति
सिद्धान्त कौमुदी ॥

विषमुष्ठिः, पुं, क्षुपविशेषः । विषदोडि इति

कड्सिङ्गे इति च हिन्दीभाषा । तत्पर्य्यायः ।
केशमुष्टिः २ सुमुष्टिः ३ रणमुष्टिकः ४ क्षुप-
डोडमुष्टिः ५ । अस्य गुणाः । कटुत्वम् । तिक्त-
त्वम् । दीपनत्वम् । कफवातकण्ठामयरक्तपित्ता-
दिदाहनाशित्वम् । रुच्यत्वञ्च । इति राज-
निर्घण्टः ॥

विषमृत्युः, पुं, (विषेण तद्दर्शनमात्रेण मृत्युर्यस्य ।)

जीवञ्जीवपक्षी । इति जटाधरः ॥ चकोर इति
ख्यातः ॥

विषयः, पुं, (“विषिण्वन्ति विषयिणं स्वेन रूपेण

निरूपणीयं कुर्व्वन्ति ।” इति सांख्यतत्त्वकौमुदी ।
वि + षि + अच् ।) चक्षुरादिग्राह्यः । स तु
शब्दस्पर्शरूपरसगन्धरूपः । तत्पर्य्यायः । गोचरः
२ इन्द्रियार्थः ३ ॥ देशः । (यथा, रघुः । ११ ।
१८ ।
“यच्चकार विवरं शिलाघने
ताडकोरसि स रामसायकः ।
अप्रविष्टविषयस्य रक्षसां
द्वारतामभवदन्तकस्य तत् ॥”)
आशयः । इत्यमरः ॥ न्यायमते क्षित्यप्तेजो-
वायूनां विषया यथा, --
“तत्र क्षितिर्गन्धहेतुर्नानारूपवती मता ।
षड्विधस्तु रसस्तत्र गन्धोऽपि द्बिविधो मतः ॥
स्पर्शस्तस्यापि विज्ञेयो ह्यनुष्णाशीतपाकजः ।
नित्यानित्या च सा द्वेधा नित्या स्यादणु-
लक्षणा ॥
अनित्या तु तदन्या स्यात् सवावयवयोगिनी ।
सा च त्रिधा भवेद्देह इन्द्रियं विषयस्तथा ।
योनिजादिर्भवेद्देह इन्द्रियं घ्राणलक्षणम् ।
विषयो द्व्यणुकादिस्तु ब्रह्माण्डान्त उदाहृतः ॥
वर्णः शुक्लो रसस्पर्शौ जले मधुरशीतलौ ।
स्नेहस्तत्र द्रवत्वन्तु सांसिद्धिकमुदाहृतम् ॥
नित्यतादि प्रथमवत् किन्तु देहमयोबिजम् ।
इन्द्रियं रसनं सिन्धुर्हिमादिर्विषयो मतः ॥ * ॥
स्पर्श उष्णस्तेजसस्तु स्याद्रूपं शुक्लभास्वरम् ।
नैमित्तिकद्रवत्वन्तु नित्यतादि तु पूर्ब्बवत् ॥
इन्द्रियं नयनं वह्निस्वर्णादिर्विषयो मतः । * ।
अपाकजानुष्णाशीतस्पर्शस्तु पवने मतः ॥
तिर्य्यग्गमनवानेष ज्ञेयः स्पर्शादिलिङ्गकः ।
पूर्ब्बवन्नित्यताद्युक्तं देहव्यापि त्वगिन्द्रितम् ॥
प्राणादिस्तु महावायुपर्य्यन्तो विषयो मतः ॥”
इति भाषापरिच्छेदः ॥
विषय इति । भोगसाधनं विषयः । सर्व्वमेव हि
कार्य्यं अदृष्टाधीनं यच्च कार्य्यं यददृष्टाधीनं
पृष्ठ ४/४४९
तत्तदुपभोगं साक्षात्परम्परया जनयत्येव नहि
बीजप्रयोजनाभ्यां विना कस्यचिदुत्पत्तिरस्ति
तेन द्व्यणुकादिब्रह्माण्डान्तं सर्व्वमेव विषयो
भवतीत्यर्थः । इति सिद्धान्तमुक्तावली ॥ * ॥
नित्यसेवितः । इति भरतधृताजयः ॥ अव्यक्तः ।
शुक्रः । इत्यप्यजयपालः ॥ जनपदः । इति
मेदिनी ॥ कान्तादिः । इति शब्दरत्नावली ॥
नियामकः । यथा, --
“विशब्दो हि विशेषार्थः सिनोतेर्ब्बन्ध उच्यते ।
विशेषेण सिनोतीति विषयोऽतो नियांमकः ॥”
इति भट्टकारिका ॥ * ॥
आरोपाश्रयः । यथा, --
“सारोपान्या तु यत्रोक्तौ विषयी विषयस्तथा ।
विषय्यन्तःकृतेऽन्यस्मिन् सा स्यात् साध्यवसा-
निका ॥”
यथा, गौर्व्वाहीकः । इति काव्यप्रकाशे २
उल्लासः ॥ (“भोगसाधनं विषयः ।” इति
तर्ककौमुदी ॥)

विषयाज्ञानं, क्ली, (विषयस्याज्ञानं यस्याम् ।)

तन्द्रा । इति राजनिर्घण्टः ॥

विषयायी, [न्] पुं, (विषयान् अयते प्राप्नोतीति ।

अय गतौ + णिनिः ।) राजा । वैषयिकजनः ।
इन्द्रियः । कामदेवः । विषयासक्तपुरुषः । इति
मेदिनी । ने, २४६ ॥

विषयि, [न्] क्ली, (विषयाः सन्त्यस्येति । विषय

+ इनिः ।) इन्द्रियम् । इति मेदिनी । ने, २११ ॥

विषयी, [न्] त्रि, (विषयोऽस्त्यस्येति । इनिः ।)

विषयासक्तः । इति मेदिनी । ने, २११ ॥

विषयी, [न्] पुं, (विषयोऽस्यास्तीति । इनिः ।)

नृपतिः । कामदेवः । वैषयिकः । इति मेदिनी ।
ने, २११ ॥ ध्वनिः । इत्यजयपालः ॥ आरोप्य-
माणः । यथा, --
“विषय्यन्तःकृतेऽन्यस्मिन् सा स्यात् साध्यवसा-
निका ॥”
विषयिणा आरोप्यमाणेन अन्तःकृते निगीर्णे-
ऽन्यस्मिन् आरोपविषये सति सा स्यात् साध्य-
वसानिका । इति काव्यप्रकाशः ॥

विषरूपा, स्त्री, अतिविषा । इति राजनिर्घण्टः ॥

विषलं, क्ली, विषम् । इति शब्दचन्द्रिका ॥

विषलता, स्त्री, (विषस्य लता ।) इन्द्रवारुणी ।

इति राजनिर्घण्टः ॥ (विषप्रधानलतामात्रे ।
यथा, गीतायां श्रीधरः । २ । ४२ । “विषलता-
वदापाततो रमणीयाम् ॥”)

विषविद्या, स्त्री, विषघ्नमन्त्रः । इति विषवैद्य-

शब्दटीकायां भरतः ॥

विषवैद्यः, पुं, (विषस्य वैद्यः ।) विषघ्नमन्त्रवेत्ता ।

ओझा इति ख्यातः । यथा । विषविद्यां वेत्ति
अधीते वा विषवैद्यः ष्णसुपाञ्चालादित्वादन्त्य-
पदवृद्धिः । विषस्य वैद्यश्चिकित्सकः इति वा ।
इति भरतः ॥ तत्पर्य्यायः । जाङ्गुलिकः २ ।
इत्यमरः ॥ जाङ्गलिकः ३ नरेन्द्रः ४ कौशिकः ५
कथाप्रसङ्गः ६ चक्राटः ७ । इति जटाधरः ॥
व्यालग्राही ८ जाङ्गुलिः ९ जाङ्गलिः १०
अहितुण्डिकः ११ व्यालग्राहः १२ गारु-
डिकः १३ । इति शब्दरत्नावली ॥

विषवैरिणी, स्त्री, (विषस्य वैरिणी ।) निर्व्विषा ।

इति राजनिर्घण्टः ॥

विषशालूकः, पुं, (विषस्य शालूकः ।) पद्मकन्दः ।

अस्य गुणाः । गुरुत्वम् । विष्टम्भित्वम् । शीतल-
त्वञ्च । इति राजवल्लभः ॥

विषशूकः, पुं, (विषं शूके यस्य ।) भृङ्गरोलः । इति

भूरिप्रयोगः ॥

विषशृङ्गी, [न्] पुं, (विषं विषयुक्तं शृङ्गं तदस्या-

स्तीति । विषशृङ्ग + इनिः ।) भृङ्गरोलः । इति
हारावली ॥

विषसूचकः, पुं, (विषं सूचयति विषयुक्तान्नादि-

दर्शने मृतः सन् ज्ञापयतीति । सूच् + णिच् +
ण्वुल् ।) चरोकपक्षी । इति हेमचन्द्रः ॥

विषसृक्का, [न्] पुं, (विषं सृक्कनि यस्य ।) भृङ्ग-

रोलः । इति त्रिकाण्डशेषः ॥

विषहन्त्री, स्त्री, (विष + हन + तृच् । स्त्रियां

ङीष् ।) अपराजिता । निर्व्विषा । इति राज-
निर्घण्टः ॥

विषहरः, त्रि, (हरतीति । हृ + अच् । विषस्य

हरः ।) गरलनाशकौषधादिः । यथा । ॐ ह्रँ
जः ।
“मन्त्रोऽयं हरते रुद्र सर्व्ववृश्चिकगं विषम् ।
पिप्पली नवनीतञ्च शृङ्गवेरञ्च सैन्धवम् ।
मरीचं दधि कुष्ठञ्च नस्ये पाने विषं हरेत् ॥
त्रिफला टङ्ककुष्ठञ्च चन्दनं घृतसंयुतम् ।
एतत्पानाच्च लेपाच्च विषनाशो भवेच्छिव ॥
पारावतस्य चाक्षीणि हरितालं मनःशिला ।
एष योगो विषं हन्ति वैनतेय इवोरगान् ॥
सैन्धवं व्युषणं चूर्णं दधिमध्वाज्यसंयुतम् ।
वृश्चिकस्य विषं हन्ति लेपोऽयं वृषभध्वज ॥”
इति गारुडे १८६ अध्यायः ॥

विषहरा, स्त्री, मनसादेवी । इति शब्दरत्नावली ॥

(यथा, देवीभागवते । ९ । ४७ । ५२ ।
“जरत्कारुप्रियास्तीकमाता विषहरेति च ॥”)

विषहरी, स्त्री, मनसादेवी । इति शब्दरत्नावली ॥

(यथा, देवीभागवते । ९ । ४७ । ४७ ।
“विषं संहर्त्तुमीशा या तस्माद्विषहरी स्मृता ॥”)

विषहा, स्त्री, (विषह + टाप् ।) देवदालीलता ।

निर्व्वाषा । इति राजनिर्घण्टः ॥

विषा, स्त्री, अतिविषा । इत्यमरः ॥ बुद्धिः । इत्यु-

णादिकोषः ॥ (अस्याः पर्य्यायो गुणाश्च यथा,
“काश्मीरातिविषा श्वेता श्यामा गुञ्जा विषा-
रुणा ॥”
इति वैद्यकरत्नमालायाम् ॥
“विषात्वतिविषा विश्वा शृङ्गी प्रतिविषारुणा ।
शुक्लकन्दा चोपविषा भङ्गुराघुणवल्लभा ॥
विषा सोष्णा कटुस्तिक्ता पाचनी दीपनी हरेत् ।
कफपित्तातिसारामविषकासवमिक्रिमीन् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

विषाङ्कुरः, पुं, (विषस्याङ्कुरः ।) शल्यास्त्रम् ।

इति त्रिकाण्डशेषः ॥

विषाणं, क्ली, कुष्ठौषधम् । पशुशृङ्गम् । (यथा,

साहित्यदर्पणे । १० ।
“क्षिपसि शुकं वृषदंशकवदने
मृगमर्पयसि मृगादनरदने ।
वितरसि तुरगं महिषविषाणे
विदधच्चेतो भोगविताने ॥”)
हस्तिदन्तः । इति मेदिनी । ने, ७७ ॥ (यथा,
शिशुपालवधे । १ । ६० ।
“न जातु वैनायकमेकमुद्धृतं
विषाणमद्यापि पुनः प्ररोहति ॥”)
कोलदन्तः । इति हेमचन्द्रः ॥ (विशेषेण मद-
दातरि, त्रि । यथा, ऋग्वेदे । ५ । ४४ । ११ ।
“विषाणं परिपानमन्ति ते ।”
“विषाणं विशेषेण मदस्य दातारम् ।” इति
तद्भाष्ये सायणः ॥)

विषाणिका, स्त्री, मेषशृङ्गी । इति रत्नमाला ॥

(अस्याः पर्य्यायो यथा, --
“शृङ्गी कर्कटशृङ्गी स्यात् कुलीरञ्च विषाणिका ।
अजशृङ्गी च रक्ता च कर्कटाख्या च कीर्त्तिता ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
सातला । कर्कटशृङ्गी । आवर्त्तकी । इति
राजनिर्घण्टः ॥

विषाणी, स्त्री, क्षीरकाकोली । अजशृङ्गी । इति

मेदिनी । णे, ७७ ॥ वृश्चिकाली । इति राज-
निर्घण्टः ॥ तिन्तिडी । इति शब्दचन्द्रिका ॥

विषाणी, [न्] पुं, (विषाणमस्यास्तीति । विषाण +

इनिः ।) हस्ती । शृङ्गी । इत्यजयः ॥ (यथा,
हरिवंशे । २०४ । २२ ।
“खड्गा विषाणिनश्चैव वृषभाश्च मृगास्तथा ॥”)
ऋषभनामौषधम् । शृङ्गाटकः । इति राज-
निर्घण्टः ॥

विषादः, पुं, (वि + षद + घञ् ।) अवसादः ।

यथा, --
“जाड्यं मौर्ख्यं विषादोऽवसादः सादो विष-
ण्णता ।”
इति हेमचन्द्रः ॥
(यथा, भागवते । १ । ११ । १ ।
“दध्मौ दरवरं तेषां विषादं शमयन्निव ॥”)

विषादनी, स्त्री, पलाशीलता । इति राजनिर्घण्टः ॥

विषाननः, पुं, (विषमानने यस्य ।) सर्पः । इति

शब्दमाला ॥

विषान्तकः, पुं, (विषस्य अन्तकः नाशकः । पीत-

विषत्वात् ।) शिवः । इति हेमचन्द्रः ॥ विष-
नाशके, त्रि ॥

विषापहः, पुं, (विषं अपहन्तीति । हन + डः ।)

मुष्ककवृक्षः । इति राजनिर्घण्टः ॥ (विष-
नाशके, त्रि । यथा, मनौ । ७ । २१७ ।
“सुपरीक्षितमन्नाद्यमद्यान्मन्त्रैर्ब्बिषापहैः ॥”)

विषापहा, स्त्री, इन्द्रवारुणी । निर्व्विषा । इति

राजनिर्घण्टः ॥ नागदमनी । इति भावप्रकाशः ॥
अर्कमूला । ईशुरमूल इति भाषा । इति शब्द-
चन्द्रिका ॥ (अस्याः पर्य्यायो यथा, --
“अर्कपत्रा सुनन्दा स्यादर्कमूला विषापहा ॥”
इति वैद्यकरत्नमालायाम् ॥)
सर्पकङ्कालिका । इति रत्नमाला ॥

विषाभावा, स्त्री, (विषस्याभावो यत्र सा ।)

निर्व्विषा । इति राजनिर्घण्टः ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/विशयः&oldid=44069" इत्यस्माद् प्रतिप्राप्तम्