पृष्ठ ४/५२९

वोटा, स्त्री, दासी । यथा, --

“पोटा वोटा च चेटी च दासी च कुटहारिका ॥”
इति हेमचन्द्रः ॥

वोडः, पुं, गुवाकः । इति शब्दरत्नावली ॥

जटाधरे भूरिप्रयोगे च झोड इति पाठः ॥

वोड्रः, पुं, गोनससर्पः । वोडा इति भाषा । यथा, ।

गोनासो मण्डली वोड्रः । इति भरतधृत-
विक्रमादित्यः ॥ मत्स्यविशेषः । इति मेदिनी ॥

वोड्री, स्त्री, पणचतुर्थंशः । इति मेदिनी ॥ बुडि

इति भाषा ॥

वोढव्यः, त्रि, वहधातोस्तव्यप्रत्ययेन निष्पन्नमेतत् ।

वहनीयः । वाह्यः । इति मुग्धबोधव्याकरणम् ॥
(यथा, हरिवंशे । ७५ । ८८ ।
“वोढव्या पुङ्गवेनेव धूःसदा रणमूर्द्धनि ॥”
परिणेतव्यः । यथा, महाभारते । १२ । ४४ । ४५ ।
“न चैतेभ्यः प्रदातव्या न वोढव्या तथाविधा ॥”)

वोढा, [ऋ] पुं, (वहतीति । वह + तृच् ।

“सहिवहोरोदवर्णस्य ।” ६ । ३ । ११२ । इति
अकारस्यौकारः ।) भारिकः । (यथा, भाग-
वते । ५ । १० । २ ।
“विषमगतां स्वशिविकां रहूगण उपधार्य्य
पुरुषानधिवहत आह हे वोढारः साध्वति-
क्रामत ॥”) मूढः । परिणेता । इति शब्द-
रत्नावली ॥ (यथा, मनुः । ८ । २०४ ।
“अन्यां चेद्दर्शयित्वान्या वोढुः कन्या प्रदीयते ।
उभे ते एकशुल्केन वहेदित्यब्रवीन्मनुः ॥”)
सूतः । इति मेदिनी ॥ अनड्वान् । ऋषभः ।
इति राजनिर्घण्टः ॥ (यथा, महाभारते ।
११ । २६ । ५ ।
“तपोऽर्थीयं ब्राह्मणी धत्त गर्भं
गौर्व्वोढारं धावितारं तुरङ्गी ॥”
वहनकर्त्तरि, त्रि । यथा, कुमारे । १ । १५ ।
“भागीरथीनिर्झरशीकराणां
वोढा मुहुः कम्पितदेवदारुः ॥”)

वोढुः, पुं, मुनिविशेषः । यथा, --

“सनकश्च सनन्दश्च तृतीयश्च सनातनः ।
कपिलश्चासुरिश्चैव वोढुः पञ्चशिखस्तथा ।
सर्व्वे ते तृप्तिमायान्तु मद्दत्तेनाम्बुना सदा ॥”
इत्याह्रिकाचारतत्त्वम् ॥

वोण्टः, पुं, वृन्तम् । इति शब्दरत्नावली ॥ वोँटा

इति भाषा ॥ किन्तु लिपिकरप्रमादपाठोऽयम् ।
यथा मूलग्रन्थे ।
“तथा वोँट इति ख्याते वृन्तं प्रसवबन्धनम् ॥”

वोदः, त्रि, आर्द्रः । इति त्रिकाण्डशेषः ॥

वोदालः, पुं, (वोदः आर्द्रः सन् अलतीति । अल +

अच् ।) मत्स्यविशेषः । वोयालि इति भाषा ॥
तत्पर्य्यायः । सहस्रदंष्ट्री २ पाठीनः ३ वदा-
लकः ४ । इति शब्दरत्नावली ॥

वोरकः, पुं, लेखकः । इति त्रिकाण्डशेषः ॥

वोरटः, पुं, कुन्दपुष्पम् । इति त्रिकाण्डशेषः ॥

वोरपट्टी, स्त्री, मन्दुरा । इति शब्दमाला ॥ मादुर

इति भाषा ॥

वोरवः, पुं, धान्यविशेषः । वोरो इति भाषा ।

अस्य गुणाः ।
“वोरवस्तु बुधैः प्रोक्तस्त्रिदोषस्य प्रकोपणः ।
मधुरश्चाम्लपाकश्च व्रीहिः पित्तकरो गुरुः ॥”
इति राजवल्लभः ॥

वोरुखानः, पुं, पाटलवर्णाश्वः । इति हेमचन्द्रः ॥

वोलं, क्ली, (वोलयति प्रायशो निमग्नं भवतीति ।

वुल + अत्त । यद्वा, वा गतौ पिञ्जादित्वात् ऊलच् ।)
स्वनामख्यातबणिग्द्रव्यम् । तत्पर्य्यायः । रक्ता-
पहम् २ मुण्डम् ३ सुरसम् ४ पिण्डकम् ५ विषम् ६
निर्ल्लोहम् ७ वर्व्वरम् ८ पिण्डम् ९ सौरभम् १०
रक्तगन्धकम् ११ रसगन्धम् १२ महागन्धम् १३
विश्वम् १४ शुभगन्धम् १५ विश्वगन्धम् १६
गन्धरसम् १७ व्रणारिः १८ । अस्य गुणाः ।
“वोलञ्च कटु तिक्तोष्णं कषायं रक्तदोषनुत् ।
कफपित्तामयान् हन्ति प्रदरादिरुजापहम् ॥”
इति राजनिर्घण्टः ॥
तत्पर्य्यायगुणाः ।
“वोलं गन्धरसः प्राणपिण्डगोपरसाः समाः ।
वोलं रक्तहरं शीतं मेध्यं दीपनपाचनम् ॥
मधुरं कटु तिक्तञ्च ग्रहं स्वेदत्रिदोषजित् ।
ज्वरापस्मारकुष्ठघ्नं गर्भाशयविशुद्धकृत् ॥”
इति भावप्रकाशः ॥

वोलः, पुं, (वातीति । वा + ऊलच् ।) रसगन्धः ।

इत्यमरः ॥

वोलकः, पुं, लेखकः । इति शब्दरत्नावली ॥

वोल्लाहः, पुं, अश्वविशेषः । यथा, --

“वोल्लाहस्त्वयमेव स्यात् पाण्डुकेशरबालधिः ।”
इति हेमचन्द्रः ॥

वोहित्थं, क्ली, यानपात्रम् । इति हेमचन्द्रः ॥

जाहाज इति भाषा ॥

वौ(बौ)द्धं, क्ली, (बुद्धेन कृतम् । वुद्ध + अण् ।) वुद्ध-

कृतनिरीश्वरशास्त्रम् । तत् सर्व्वैः शास्त्रकारैः
खण्डितं अतएवाग्राह्यम् । जिनधर्म्मः । यथा,
“ततो बृहस्पतिः शक्रमकरोद्बलदर्पितम् ।
ग्रहशान्तिविधानेन पौष्टिकेन च कर्म्मणा ॥
गत्वाथ मोहयामास राजपुत्त्रान् बृहस्पतिः ।
जिनधर्म्मं समास्थाय वेदवाह्यं स वेदवित् ॥
वेदत्रयीपरिभ्रष्टांश्चकार धिषणाधिपः ।
वेदवाह्यान् परिज्ञाय हेतुवादसमन्वितान् ।
जघान शक्रो वज्रेण सर्व्वधर्म्मबहिष्कृतान् ॥”
इति मात्स्ये सोमवंशानुकीर्त्तनं नाम २४ अः ॥
बुद्धसम्बन्धिनि, त्रि ॥

वौषट्, व्य, (उह्यतेऽनेन हविरिति । वह + बाहुल-

कात् डौषट् ।) देवहविर्द्दानमन्त्रः । तत्पर्य्यायः ।
स्वाहा २ श्रौषट् ३ वषट् ४ स्वधा ५ । इत्य-
मरः ॥ एते पञ्च शब्दा देवहविर्द्दाने वह्रि-
मुखाहुतौ वर्त्तन्ते । देवाय हविषो दानं देव-
हविर्द्दानम् । तत्र देवा इन्द्रादयः अत्र पि तरो
देवता इति स्मृतेस्तेऽपि देवा हविर्दान इत्यनेन
एते मन्त्रा इति सूचितम् । अमन्त्रत्वे स्वाहयेव
हविर्भुजमिति रघुः । स्वाहाव्ययं मन्त्रभेदे
स्त्रियां स्वाहाग्नियोषितीति कोषान्तरम् । स्वाहा
दन्त्यादि । श्रौषट् तालव्यादि मूर्द्धन्यमध्यम् ।
वौषट् वषट्द्वयं मूर्द्धन्यमध्यम् । स्वधा दन्त्यादि ।
इन्द्राय स्वाहा । इत्यादिप्रयोगः । इति भरतः ॥

व्यंशकः, पुं, (विगतोऽशो विभागो यस्य ।

छेदादिना प्रायो विभागानर्हत्वादस्य तथा-
त्वम् ।) पर्व्वतः । इति त्रिकाण्डशेषः ॥

व्यंसकः, पुं, (वि + + अंस + ण्वुल् ।) धूर्त्तः । इति

हेमचन्द्रः ॥

व्यंसितः, त्रि, (वि + अंस + क्तः ।) प्रतारितः ।

इति त्रिकाण्डशेषः ॥

व्यक्तः, त्रि, (वि + अञ्जू व्याप्तौ + क्तः ।) प्राज्ञः ।

इत्यमरः ॥ स्फुटः । इति मेदिनी ॥ (यथा,
साहित्यदर्पणे । ३ । १ ।
“विभावेनानुभावेन व्यक्तः सञ्चारिणा तथा ।
रसतामेति रत्यादिः स्थायी भावः सचेतसाम् ॥”)
पुं, विष्णुः । यथा, --
“व्यक्तो वायुरधोक्षजः ।”
इति तस्य सहस्रनामस्तोत्रम् ॥

व्यक्तदृष्टार्थः, पुं, (व्यक्तं स्फुटं यथा स्यात् तथा

दृष्टोऽर्थो येन ।) साक्षी । तत्पर्य्यायः । प्रत्यक्षी
२ । इति त्रिकाण्डशेषः ॥

व्यक्तरूपः, पुं, (व्यक्तं रूपं यस्य ।) विष्णुः । यथा,

“अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ।”
इति तस्य सहस्रनामस्तोत्रम् ॥
स्पष्टरूपयुक्ते, त्रि ॥

व्यक्तिः, स्त्री, (व्यज्यतेऽनयेति । वि + अञ्ज +

क्तिन् ।) पृथगात्मिका । इत्यमरः ॥ जनः । इति
हेमचन्द्रः ॥ स्पष्टता च ॥ (यथा, रघुः । १ । १० ।
“तं सन्तः श्रोतुमर्हन्ति सदसद्व्यक्तिहेतवः ।
हेम्नः संलक्ष्यतेऽह्यग्नौ विशुद्धिः श्यामिकापि
वा ॥”
भूतमात्रम् । यथा, गीतायाम् । ८ । १८ ।
“अव्यक्ताद्व्यक्तयः सर्व्वाः प्रभवन्त्यहरागमे ॥”
“व्यक्तयश्चराचराणि भूतानि ।” इति तट्टी-
कायां स्वामी ॥ न्यायशास्त्रोक्तस्तत्तत्पदार्थः ।
यथा, साहित्यदर्पणे । २ । २५ ।
“सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः ।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥”)

व्यग्रः, त्रि, (विरुद्धं अगतीति । अग + ऋज्रे-

न्द्रेति साधुः ।) व्यासक्तः । (यथा, महा-
निर्व्वाणतन्त्रे । ३ । १२४ ।
“लुब्धा धनार्जने व्यग्राः सदा चञ्चलमानसाः ॥”)
आकुलः । इत्यमरः ॥ (यथा, कुमारे । ७ । २ ।
“वैवाहिकैः कौतुकसंविधानै-
र्गृहे गृहे व्यग्रपुरन्ध्रिवर्गम् ॥”
पृष्ठ ४/५३०
ससम्भ्रमः । इति श्रीधरस्वामी ॥ यथा, भाग-
वते । ३ । १९ । ५ ।
“तं व्यग्रचक्रं दितिजाधमेन
स्वपार्षदमुख्येन विसर्ज्जमानम् ॥”)
पुं, विष्णुः । यथा, --
“प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ।”
इति तस्य सहस्रनामस्तोत्रम् ॥

व्यङ्गः, पुं, (विकृतानि अङ्गानि यस्य ।) भेकः ।

इति मेदिनी ॥ (विकृतानि अङ्गानि यस्मात् ।)
मुखरोगविशेषः । तस्य लक्षणं यथा, --
“क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः ।
मुखमागम्य सहसा मण्डलं विसृजत्यतः ।
नीरुजं तनुकं श्यावं मुखे व्यङ्गं तमादिशेत् ॥”
इति माधवकरः ॥ * ॥
तस्य चिकित्सा ।
“वटाङ्कुरा मसूराश्च प्रलेपाद्ब्यङ्गनाशनः ।
व्यङ्गे मञ्जिष्ठया लेपः प्रशस्तो मधुयुक्तया ॥
अथवा लेपनं शस्तं शशस्य रुधिरेण च ।
जातीफलस्य लेपस्तु हरेद्व्यङ्गञ्च नीलिकाम् ॥
वटस्य पाण्डुपत्राणि मालती रक्तचन्दनम् ।
कुष्ठं कालीयकं लोध्रं एभिर्ल्लेपं प्रयोजयेत् ॥”
इति भावप्रकाशः ॥
(त्रि, विगतं अङ्गं यस्य ।) हीनाङ्गः । इति
मेदिनी ॥ (यथा, महाभारते । १ । १६ । २० ।
“यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात् ।
न करिष्यस्यनङ्गं वा व्यङ्गं वापि यशस्विनम् ॥”)

व्यङ्ग्यः, त्रि, व्यञ्जनया बोध्योऽर्थः । यथा, --

“वाच्योऽर्थोऽभिधया बोध्यो लक्ष्यो लक्षणया मतः ।
व्यङ्ग्यो व्यञ्जनया ताः स्युस्तिस्रः शब्दस्य शक्तयः ॥”
इति साहित्यदर्पणे २ परिच्छेदः ॥

व्यच, शि व्याजे । सम्बन्धे । इति कविकल्पद्रुमः ॥

(तुदा०-कुटा०-पर०-सक०-सेट् ।) व्याजश्छलः ।
श, विचति सतं खलः । छलयति इत्यर्थः ।
अविचीत् विव्याच । इति दुर्गादासः ॥

व्यजः, पुं, (व्यजत्यनेनेति । वि + अज + “गोचर-

सञ्चरेति ।” ३ । ३ । ११९ । इति घञ् । निपा-
तनादजेर्व्यघञपोरिति वीभावो न भवति ।)
व्यजनम् । विपूर्व्वाजधातोरल्प्रत्ययेन निष्पन्न-
मिदम् ॥

व्यजनं, क्ली, (व्यजत्यनेनेति । वि + अज + ल्युट् ।

‘वा यौ ।’ २ । ४ । ५७ । इति पक्षे वीभावो नास्ति ।)
तालवृन्तकम् । इत्यमरः ॥ पाखा इति भाषा ॥
(यथा, ऋतुसंहारे । १ । ८ ।
“सचन्दनाम्बुव्यजनोद्भवानिलैः
सहारयष्टिस्तनमण्डलार्पणैः ।
सवल्लकीकाकलिगीतनिस्वनैः
प्रबुध्यते सुप्त इवाद्य मन्मथः ॥”)
अस्य सामान्यगुणः । मूर्च्छादाहतृष्णाघर्म्म-
श्रमनाशित्वम् ॥ तालव्यजनगुणः । त्रिदोषशम-
नत्वम् । लघुत्वञ्च । वंशव्यजनगुणः । रूक्ष-
त्वम् । उष्णत्वम् । वायुपित्तकारित्वञ्च ॥ वेत्र-
वस्त्रमयूरपुच्छव्यजनगुणः । त्रिदोषनाशित्वम् ॥
बालव्यजनगुणः । तेजस्करत्वम् । मक्षिकादि-
निवारकत्वञ्च । इति राजवल्लभः ॥

व्यञ्जकः, पुं, (व्यनक्तीति । वि + अन्ज + ण्वुल् ।)

अभिनयः । इत्यमरः ॥ द्वे हृद्गतक्रोधादि-
भावाभिव्यञ्जके । व्यनक्तीति व्यञ्जकः । अन्ज
ध ञि गति म्रक्षणे णकः । आङ्गिकसात्त्विक-
वाचिकाहार्य्यभेदात् व्यञ्जकश्चतुर्व्विधः । अभि-
मुखं नीयते अर्थोऽनेन इति अभिनयः । नी ञ
प्रापणे अन् । हस्तादिभिः शस्त्रघातादिसूचन-
मभिनयः । घटाद्याकारसूचकं करादिसंस्थान-
मभिनयः इत्यन्येऽपि । इति भरतः ॥ व्यञ्जनया
प्रतिपादकः । (यथा, साहित्यदर्पणे । २ । ३१ ।
“अभिधादित्रयोपाधिवैशिष्ट्यात्त्रिविधो मतः ।
शब्दोऽपि वाचकस्तद्वल्लक्षको व्यञ्जकस्तथा ॥”
प्रकाशके, त्रि । यथा, मनुः । २ । ६८ ।
“उत्पत्तिव्यञ्जकः पुण्यः कर्म्मयोगं निबोधत ॥”)

व्यञ्जनं, क्ली, (व्यज्यते म्रक्ष्यते अन्नादि संयोज्यते-

ऽनेनेति । वि + अञ्ज + ल्युट् ।) अन्नोपकरणम् ।
तत्तु सूपशाकादि । इति राजनिर्घण्टः ॥ तत्प-
र्य्यायः । तेमनम् २ निष्ठानम् ३ । इत्यमरः ॥
तेमः ४ । इति शब्दरत्नावली ॥ (यथा, ऋग्वेदे ।
८ । ६७ । २ ।
“आनो भर व्यञ्जनं गामश्वमभ्यञ्जनम् ॥”)
अस्य गुणाः ।
“व्यञ्जनं शाकमत्स्याख्यं हृद्यं वृष्यञ्च पुष्टिदम् ।
द्रव्येण येन येनेह व्यञ्जनं मत्स्यमांसयोः ।
तस्य तस्य तयोश्चैतद्गुणदोषैर्विभावयेत् ॥”
इति राजवल्लभः ॥
व्यञ्जनविशेषगुणाः तत्तच्छब्दे द्रष्टव्याः ॥ *
चिह्रम् । (व्यञ्जना । यथा, साहित्यदर्पणे । ३ । ५९ ।
“अवाच्यत्वादिकं तस्य वक्ष्ये वञ्जनरूपणे ॥”)
श्मश्रु । (यथा, महाभारते । १ । १५८ । ३४ ।
“कुत एव परित्यक्तुं सुतं शक्ष्याम्यहं स्वयम् ।
बालमप्राप्तवयसमजातव्यञ्जनाकृतिम् ॥”)
अवयवः । दिनम् । इति मेदिनी ॥ स्त्रीपुंसयो-
रशुद्धदशः । स तु उपस्थः । अर्द्धमात्रकम् ।
स तु ककारादिक्षकारान्तवर्णः । इति धरणिः
(यथा, साहित्यदर्पणे । १० । ६४० ।
“सत्यर्थे पृथगर्थायाः स्वरव्यञ्जनसंहतेः ।
क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते ॥”)

व्यञ्जना, स्त्री, (वि + अञ्ज + णिच् + युच् । टाप् ।)

शब्दस्य वृत्तिविशेषः । तस्या लक्षणं यथा, --
“विरतास्वभिधाद्यासु ययार्थो बोध्यतेऽपरः ।
सा वृत्तिर्व्यञ्जना नाम शब्दस्यार्थादिकस्य च ॥”
शब्दबुद्धिकर्म्मणां विरम्य व्यापाराभाव इति
नयेनाभिधा लक्षणा तात्पर्य्याख्यासु तिसृषु
वृत्तिषु स्वं स्वमर्थं बोधयित्वा उपक्षीणासु
ययान्योऽर्थो बोध्यते सा शब्दस्यार्थस्य प्रकृति-
प्रत्ययादेश्च वृत्तिर्व्यञ्जन-ध्वनन-गमन-प्रत्यायना-
दिव्यपदेशविषया व्यञ्जना नाम । तत्र ।
“अभिधालक्षणामूला शब्दस्य व्यञ्जना द्बिधा ॥”
अभिधामूलामाह ।
“अनेकार्थस्य शब्दस्य संयोगाद्यैर्नियन्त्रिते ।
एकत्रार्थेऽन्यधीहेतुर्व्यञ्जना साभिधाश्रया ॥”
आदिशब्दाद्विप्रयोगादयः । उक्तं हि ।
“संयोगो विप्रयोगश्च साहचर्य्यं विरोधिता ।
अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः ॥
सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः ।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥”
इति ॥
सशङ्खचक्रो हरिरित्यत्र शङ्खचक्रसंयोगेन हरि-
शब्दो विष्णुमेवाभिधत्ते । अशङ्खचक्रो हरिरिति
तद्बियोगेन तमेव । भीमार्ज्जुनाविति अर्ज्जुनः
पार्थः । कर्णार्ज्जुनाविति कर्णः सूतपुत्त्रः । स्थाणुं
वन्दे भवच्छिदे इति स्थाणुः शिवः । सर्व्वं
जानाति देव इति देवो भवान् । कुपितो मकर-
ध्वजः इति मकरध्वजः कामः । देवः पुरारि-
रिति पुरारिः शिवः । मधुना मत्तः पिक इति
मधुर्वसन्तः । पातु वो दयितामुखमिति मुखं
सांमुख्यम् । विभाति गगने चन्द्रः इति चन्द्रः
शशी । निशि चित्रभानुरिति चित्रभानुर्वह्रिः ।
भाति रथाङ्गमिति नपुंसकव्यक्त्या रथाङ्गं चक्रम् ।
स्वरस्तु वेद एव विशेषप्रतीतिकृन्न काव्य इति
तस्य विषये नोदाहृतम् । इदञ्च केऽप्यसहमाना
आहुः स्वरोऽपि काक्कादिरूपः काव्ये विशेष-
प्रतीतिकृदेव । उदात्तादिरूपोऽपि मुनेः
पाठोक्तदिशा शृङ्गारादिरसविशेषप्रतीतिकृदे-
वेति । एतद्विषये उदाहरणमुचितमेव इति
तन्न तथाहि स्वराः काक्कादय उदात्तादयो वा
व्यङ्ग्यरूपमेव विशेषं प्रत्याययन्ति न खलु प्रकृ-
तोक्तमनेकार्थशब्दस्यैकार्थनियन्त्रणरूपं विशे-
षम् । किञ्च यदि यत्र क्वचिदनेकार्थशब्दानां
प्रकरणादिनियमाभावादनियन्त्रितयोरप्यर्थयो-
रनुरूपस्वरवशेनैकत्र नियमनं वाच्यं तदा
तथाविधस्थले श्लेषानङ्गीकारप्रसङ्गः न च तथा
अतएवाहुः श्लेषनिरूपणप्रस्तावे काव्यमार्गे
स्वरो न गण्यते इति च नय इत्यलमुपजीव्यानां
मान्याना व्याख्यानेषु कटाक्षनिक्षेपेण । आदि-
शब्दादेतावन्मात्रस्तनीत्यादौ हस्तादिचेष्टा-
दिभिः स्तनादीनां कमलकोरकाद्याकारत्वम् ।
एवमेकस्मिन्नर्थेऽभिधया नियन्त्रिते या शब्द-
स्यान्यार्थबुद्धिहेतुः शक्तिः सा अभिधामूला
व्यञ्जना । यथा मम तातपादानां महापात्र-
चतुर्द्दशभाषावारविलासिनीभुजङ्गमहाकवी-
श्वरश्रीचन्द्रशेखरसान्धिविग्रहिकाणाम् ।
“दुर्गालङ्घितविग्रहो मनसिजं संमीलयंस्तेजसा
प्रोद्यद्राजकलो गृहीतगरिमा विश्वग्वृतो
भोगिभिः ।
नक्षत्रेशकृतेक्षणो गिरिगुरौ गाढां रुचिं
धारयन् ।
गामाक्रम्य विभूतिभूषिततनूराजत्युमावल्लभः ॥”
अत्र प्रकरणेनाभिधया उमावल्लभशब्दस्य
उमानाम्नी महादेवी तद्वल्लभभानुदेवनृपति-
रूपेऽर्थे नियन्त्रिते व्यञ्जनयैव गौरीवल्लभरूपो-
पृष्ठ ४/५३१
ऽर्थो बोध्यते । एवमन्यत् ॥ * ॥ लक्षणामूला-
माह ।
“लक्षणोपास्यते यस्य कृते तत्तु प्रयोजनम् ।
यया प्रत्याय्यते सा स्याद्व्यञ्जना लक्षणाश्रया ॥”
गङ्गायां घोष इत्यादौ जलमयाद्यर्थबोधनादभि-
धायां विरतायां तटाद्यर्थबोधनाच्च लक्षणायां
विरतायां यया शीतत्वपावनत्वाद्यतिशयादि-
र्बोध्यते सा लक्षणामूला व्यञ्जना ॥ * ॥ एवं
शाब्दीं व्यञ्जनामुक्त्वा आर्थीं व्यञ्जनामाह ।
“वक्तृबोद्धव्यवाक्यानामन्यसन्निधिवाच्ययोः ।
प्रस्तावकालदेशानां काकोश्चेष्टादिकस्य च ।
वैशिष्ट्यादन्यमर्थं या बोधयेत् सार्थसम्भवा ॥”
व्यञ्जना इति संवध्यते । तत्र वक्तृवाक्यप्रस्ताव-
देशकालवैशिष्ट्ये यथा मम ।
“कालो मधुः कुपित एष च पुष्पधन्वा
धीरा वहन्ति रतिखेदहराः समीराः ।
केलीवनीयमपि वञ्जुलकुञ्जमञ्जु-
र्दूरे पतिः कथय किं करणीयमद्य ॥”
अत्र एतं देशं प्रति शीघ्रं प्रच्छन्नकामुकस्त्वया
प्रेष्यतामिति सखीं प्रति कयाचित् द्योत्यते ॥ * ॥
बोद्धव्यवैशिष्ट्ये यथा, --
“निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो
नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः ।
मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे
वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्या-
न्तिकम् ॥”
अत्र तदन्तिकमेव गतासीति विपरीतलक्षणया
लक्ष्यं तस्य च रन्तुमिति व्यङ्ग्यं प्रतिपाद्य दूती-
वैशिष्ट्याद्बोध्यते ॥ * ॥ अन्यसन्निधिवैशिष्ट्ये
यथा, --
“उअ निच्चल णिप्फन्दाभिसिनी पत्तम्भि रेहै
बलाआ ।
णिम्मल मरगअ भाअण परिट्ठिआ संख
सुत्तिव्व ॥”
अत्र बलाकाया निष्पन्दत्वेन विश्वस्तत्वं तेनास्य
देशस्य विजनत्वमतः सङ्केतस्थानमेतदिति
कयापि सन्निहितप्रच्छन्नकामुकं प्रत्युच्यते ।
अत्रैव स्थाननिर्जनत्वरूपव्यङ्ग्यार्थवैशिष्ट्यं प्रयो-
जनम् ।
“भिन्नकण्ठध्वनिर्धीरैः काकुरित्यभिधीयते ॥”
इत्युक्तप्रकारायाः काकोर्भेदा आकारादिभ्यो
ज्ञातव्याः ॥ * ॥ एतद्वैशिष्ट्ये यथा, --
“गुरुपरतन्त्रतया वत
दूरतरं देशमुद्यतो गन्तुम् ।
अलिकुलकोकिलललिते
नेष्यति सखि ! सुरभिसमयेऽसौ ॥”
अत्र नेष्यतीत्यपि तर्हि एष्यत्येव इति काक्वा
व्यज्यते ॥ * ॥ चेष्टावैशिष्ट्ये यथा, --
“सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया ।
हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम् ॥”
अत्र सन्ध्या सङ्केतकाल इति पद्मनिमीलनादि-
चेष्टया कयात्तित् द्योत्यते । एवं वक्त्रादीनां
व्यस्तसमस्तानां वैशिष्ट्ये बोद्धव्यम् ॥ * ॥
“त्रैधिध्यादियमर्थानां प्रत्येकं त्रिविधा मता ॥”
अर्थानां वाच्यलक्ष्यव्यङ्ग्यत्वेन त्रिरूपतया सर्व्वा
अप्यनन्तरोक्ता व्यञ्जनास्त्रिविधाः । तत्र वाच्या-
र्थस्य व्यञ्जना यथा । कालो मधुरित्यादि ॥
लक्ष्यार्थस्य यथा । निःशेषच्युतचन्दनमित्यादि ॥
व्यङ्ग्यार्थस्य यथा । उअ णिच्चल इत्यादि ॥ * ॥
प्रकृतिप्रत्ययादिव्यञ्जनन्तु प्रपञ्चयिष्यते ।
“शब्दबोध्यो व्यनक्त्यर्थः शब्दोऽप्यर्थान्तराश्रयः ।
एकस्य व्यञ्जकत्वे तदन्यस्य सहकारिता ॥”
यतः शब्दो व्यञ्जकत्वेऽर्थान्तरमपेक्ष्यते । अर्थो-
ऽपि शब्दं तदेकस्य व्यञ्जकत्वेऽन्यस्य सहकारि-
त्वमवश्यमङ्गीकरणीयम् ।
“अभिधादित्रयोपाधिवैशिष्ट्यात्त्रिविधो मतः ।
शब्दोऽपि वाचकस्तद्वल्लक्षको व्यञ्जकस्तथा ॥”
अभिधोपाधिको वाचकः । लक्षणोपाधिको
लक्षकः । व्यञ्जनोपाधिको व्यञ्जकः । किञ्च ।
“तात्पर्य्याख्यां वृत्तिमाहुः पदार्थान्वयबोधने ।
तात्पर्य्यार्थं तदर्थञ्च वाक्यं तद्बोधकं परे ॥”
अभिधाया एकैकपदार्थबोधनविरमात् वाक्यार्थ-
रूपस्य पदान्वयस्य बोधिका तात्पर्य्या नाम
वृत्तिस्तदर्थश्च तात्पर्य्यार्थस्तद्बोधकञ्च वाक्यमित्य-
भिहितान्वयवादिनां मतम् । इति साहित्यदर्पणे
वाक्यस्वरूपनिरूपणो नाम द्वितीयः परि-
च्छेदः ॥

व्यडम्बकः, पुं, एरण्डः । इत्यमरः ॥

व्यतिकरः, पुं, (वि + अति + कृ + अप् ।) व्यसनम् ।

(यथा, कथासरित्सागरे । ७४ । ८९ ।
“अस्मिन् व्यतिकरे वृत्ते शत्रुतामेव ते गतः ॥”)
व्यतिषङ्गः । इति मेदिनी ॥ (विनाशः । यथा,
भागवते । १ । ७ । ३२ ।
“प्रजोपद्रवमालक्ष्य लोकव्यतिकरञ्च तम् ।
मतञ्च वासुदेवस्य संजहारार्ज्जुनो द्वयम् ॥”
मिश्रणम् । यथा, माघे । ४ । ५३ ।
“अन्योन्यव्यतिकरचारुभिर्विचित्रै-
रत्रस्यन्नवमणिजन्मभिर्मयूखैः ॥”)

व्यतिक्रमः, पुं, (वि + अति + क्रम + घञ् ।) क्रम-

विपर्य्ययः । यथा, --
“सर्व्वत्र प्राङ्मुखो दाता ग्रहीता च उदङ्मुखः ।
एष एव विधिर्दाने विवाहे च व्यतिक्रमः ॥”
इत्युद्बाहतत्त्वम् ॥

व्यतिरिक्तः, त्रि, व्यतिरेकविशिष्टः । भिन्नः । वि-

अति-पूर्ब्बरिचधातोः क्तप्रत्ययेन निष्पन्नमेतत् ॥
(अधिकः । यथा, कातन्त्रचतुष्टयस्य प्रथमा-
विभक्तिर्लिङ्गार्थवचने इत्यस्य पञ्जी । “विशेषे-
णातिरिक्तोऽधिको व्यतिरिक्तः ॥”)

व्यतिरेकः, पुं, (वि + अति + रिच + घञ् ।) विना ।

अभावः । यथा । यद्व्यतिरेकज्ञानं यदुत्पत्ति-
प्रतिबन्धकं तत् तन्निश्चयसाध्यम् । इति परा-
मर्शग्रन्थः ॥ (यथा, कथासरित्सागरे । ३९ ।
१६६ ।
“न पतिव्यतिरेकेण सुस्त्रीणामपरा गतिः ॥”)
अलङ्कारविशेषः । यथा, --
“व्यतिरेको विशेषश्चेदुपमानोपमेययोः ।
शैला इवोन्नताः सन्तु किन्तु प्रकृतिकोमलाः ॥”
इति चन्द्रालोकः ॥

व्यतिषङ्गः, पुं, (वि + अति + षञ्ज + घञ् ।) पर-

स्परमेलनम् । (यथा, महाभारते । १२ । १०३ । ५ ।
“सेनयोर्व्यतिषङ्गेण जयः साधारणोऽभवत् ॥”
विनिमयः । यथा, भागवते । ५ । १३ । १३ ।
“अन्योन्यवित्तव्यतिषङ्गवृद्ध-
वैरानुबन्धो विहरन् मिथश्च ॥”)

व्यतिहारः, पुं, (वि + अति + हृ + घञ् ।) विनि-

मयः । यथा, --
“परिदानं विनिमयो नैमेयः परिवर्त्तनम् ।
व्यतिहारः परावर्त्तो वैमेयो विमयोऽपि च ॥”
इति हेमचन्द्रः ॥
(यथा, रघुः । १२ । ९२ ।
“विक्रम-व्यतिहारेण सामान्याभूद्द्बयोरपि ।
जयश्रीरन्तरावेदिर्मत्तवारणयोरिव ॥”)

व्यतीतः, त्रि, (वि + अति + इ + क्तः ।) अतीतः ।

गतः । यथा, --
“अर्द्धरात्रे व्यतीते तु संक्रान्तिर्यदहर्भवेत् ।
पूर्ब्बे व्रतादिकं कुर्य्युः परेद्युः स्नानदानयोः ॥
इति तिथितत्त्वे भीमपराक्रमीयम् ॥

व्यतीपातः, पुं, (वि + अति + पत + घञ् । “उप-

सर्गस्य घञीति ।” ६ । ३ । १२२ । इति उप-
सर्गस्य दीर्घः ।) महोत्पातः । अपयानम् ।
इति मेदिनी ॥ विष्कम्भादिसप्तविंशतियोगान्त-
र्गतसप्तदशयोगः । तत्र सर्व्वकर्म्मवर्जनं यथा, --
“निरंशं दिवसं विष्टिं व्यतीपातञ्च वैधृतिम् ।
केन्द्रं वापि शुभैर्हीनं पापाहमपि वर्जयेत् ॥
परिघस्य त्यजेदर्द्धं शुभकर्म्म ततः परम् ।
गण्डव्याघातयोः षट् च नव हर्षणवज्रयोः ।
वैधृतिव्यतिपातौ च समस्तौ परिवर्जयेत् ॥” * ॥
अस्य प्रतिप्रसवमाह भीमपराक्रमे ।
“न विष्कम्भो नवा गण्डो न व्यतीपातवधृती ।
चन्द्रताराबले प्राप्ते दोषा गच्छन्त्यसंमुखाः ॥
नवम्यङ्गारको विष्टिः शनैश्चरदिनं तथा ।
व्यतीपातो न दूष्येच्च यस्यार्को दक्षिणे स्थितः ॥
यदि विष्टिव्यतीपातौ दिनं वाप्यशुभं भवेत् ।
हन्यतेऽमृतयोगेन भास्करेण तमो यथा ॥”
इति ज्योतिस्तत्त्वम् ॥ * ॥
तत्र जातफलम् ।
“कठोरवाक्यः पिशुनस्वभावो
गदातुरो मातृहितो मनुष्यः ।
परस्य कार्य्ये कृतपक्षपातो
यस्य प्रसूतौ व्यतिपातयोगः ॥”
इति कोष्ठीप्रदीपः ॥
पारिभाषिकयोगविशेषः । यथा, बृहन्मनुः ।
“श्रवणाश्विधनिष्ठार्द्रानागदैवतमस्तके ।
यद्यमा रविवारेण व्यतीपातः स उच्यते ॥”
तत्र गङ्गास्नानफलं यथा । ब्रह्माण्डे ।
पृष्ठ ४/५३२
“संक्रान्तिषु व्यतीपाते ग्रहणे चन्द्रसूर्य्ययोः ।
पुष्ये स्नात्वा तु जाह्रव्यां कुलकोटीः समुद्धरेत् ॥”
इति प्रायश्चित्ततत्त्वम् ॥
(यथा च भागवते । ४ । १२ । ४८ ।
“दिनक्षये व्यतीपाते संक्रमेऽर्कदिनेऽपि वा ।
श्रावयेत् श्रद्दधानानां तीर्थपादप्रियाश्रयः ॥”)

व्यतीहारः, पुं, (वि + अति + हृ + घञ् । “उप-

सर्गस्य घञीति ।” ६ । ३ । १२२ । इति
दीर्घः ।) परीवर्त्तः । इति जटाधरः ॥ परस्पर-
मेकजातीयक्रियाकरणम् । यथा, केशाकेशि ।
दण्डादण्डि । इत्यादि । इति व्याकरणम् ॥

व्यत्ययः, पुं, (व्यत्ययनमिति । वि + अति + इ +

“एरच् ।” ३ । ३ । ५६ । इत्यच् ।) व्यतिक्रमः । तत्-
पर्य्यायः । व्यत्यासः २ विपर्य्यासः ३ विपर्य्ययः ४ ।
इत्यमरः ॥ (यथा, भागवते । ७ । १० । ४४ ।
“परावरेषां स्थानानां कालेन व्यत्ययो महान् ॥”)

व्यत्यासः, पुं, (व्यत्यसनमिति । वि + अति +

अस् + घञ् ।) विपर्य्ययः । इत्यमरः ॥ (यथा,
हरिवंशे । २७ । २९ ।
“मात्रासि वञ्चिता भद्रे ! चरुव्यत्यासहेतुना ।
भविष्यति हि पुत्त्रस्ते क्रूरकर्म्मातिदारुणः ॥”)

व्यथ, ष म ङ दुःखे । चाले । भये । इति कवि-

कल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-सेट् ।) दुःखं
दुःखानुभवः । चालः कम्पनम् । ष, व्यथा । म,
व्यथयति । ङ, व्यथते लोकः दुःखमनुभवति ।
कम्पते बिभेति वेत्यर्थः । केत्तित्तु दुःखभयचलन-
योरिति पठित्वा भये चलनं भयचलनमित्याहुः ।
दुःखभयचलने इति पठित्वा दुःखभययोश्चलन-
मुत्पादनमिति गोविन्दभट्टः । इति दुर्गादासः ॥

व्यथकः, त्रि, (व्यथयति पीडयतीति । व्यथ +

णिच् + ण्वुल् ।) व्यथाकारी । यथा, --
“अव्युत्थानं व्यथकस्तु स्यान्मर्मस्पृगरुन्तुदः ॥”
इति हेमचन्द्रः ॥
(यथा, किराते । २ । ४ ।
“परिणामसुखे गरीयसि
व्यथकेऽस्मिन् वचसि क्षतौजसाम् ।
अतिवीर्य्यवतीव भेषजे
बहुरल्पीयसि दृश्यते गुणः ॥”)

व्यथा, स्त्री, (व्यथ + अङ् । टाप् ।) दुःखम् ।

इत्यमरः ॥ (यथा, उत्तरचरिते । १ ।
“स्नेहं दयां तथा सौख्यं यदि वा जानकीमपि ।
आराधनाय लोकानां मुञ्चतो नास्ति मे व्यथा ॥”)

यथित्रः, त्रि, (व्यथ + क्तः ।) पीडितः । (यथा,

ऋतुस्रंहारे । ६ । १९ ।
“कान्ताननद्युतिमुषामचिरोद्गतानां
शोभां परां कुरुवकद्रुममञ्जरीणाम् ।
दृष्ट्वा प्रिये हि पथिकस्य भवेन्न कस्य
कन्दर्पवाणनिकरैर्व्यथितं हि चेतः ॥”)
दुःखितः । यथा, --
“ततः प्रव्यथितो बाणो दुहितुः श्रुतदूषणः ।
त्वरितः कन्यकागारं प्राप्तोऽद्राक्षीत् यदूद्बहम् ॥”
इति श्रीभागवते बाणयुद्धे ६२ अध्यायः ॥

व्यध, औ य ताडे । इति कविकल्पद्रुमः ॥ (दिवा०-

पर०-सक०-अनिट् ।) य, विध्यति शत्रुं शूरः ।
औ, अव्यात्सीत् । कश्चित्तु द्विर्भूतस्यानिकारी-
भूतयकारस्य व्यधेर्वकारो वर्ग्यः अन्यत्र तु दन्त्य
इति मन्वानः सनि विव्यत्सतीत्याह । इति
दुर्गादासः ॥

व्यधः, पुं, (व्यधनमिति । व्यध ताडे + “व्यधजपो-

रनुपसर्गे ।” ३ । ३ । ६१ । इत्यप् ।) वेधः ।
इत्यमरः ॥ (यथा, सुश्रुते । १ । ३ ।
“सिराव्यधो धमनीनां गर्भिण्या व्याकृति-
स्तथा ॥”)

व्यध्यः, पुं, (व्यधाय हितः । व्यध + यत् ।) धनु-

र्गुणः । यथा, --
“व्यध्यस्तु प्रतिकायः स्याज्जीवाज्या भारवं
गुणः ॥”)
इति त्रिकाण्डशेषः ॥

व्यध्वः, पुं, (विरुद्धो अध्वा । प्रादिसमासः ।

उपसर्गादध्वनः । इत्यच् ।) कुत्सितपथः । तत्-
पर्य्यायः । दुरध्वः २ विपथः ३ कदध्वा ४
कापथः ५ । इत्यमरः ॥ कुपथः ६ असत्पथः ७
कुत्सिसवत्मं ८ । इति शब्दरत्नावली ॥ (यथा,
महाभारते । २ । ७० । २३ ।
“तूर्णं प्रत्यायनस्वैतान् कामं व्यध्वगतानपि ॥”)

व्यप, क क्षये । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-अक०-सेट् ।) अन्तः स्थाद्ययुक्तः ॥ क,
व्यापयति । इति दुर्गादासः ॥

व्यपदेशः, पुं, (वि + अप + दिश + घञ् ।) कपटः ।

इति हेमचन्द्रः ॥ (यथा, साहित्यदर्पणे । ३ ।
१५५ ।
“कपि कुन्तलसंव्यानसंयमव्यपदेशतः ।
बाहुमूलं स्तनौ नाभिपङ्कजं दर्शयेत् स्फुटम् ॥”)
नाम । इति त्रिकाण्डशेषः ॥ वाक्यविशेषः ।
यथा, --
“व्याजेनात्माभिलाषोक्तिर्व्यपदेश इतीर्य्यते ॥”
इत्युज्ज्वलनीलमणिः ॥

व्यपाकृतिः, स्त्री, अपह्रवः । अस्वीकारः । वि-

अप-आङ् पूर्व्वकृधातोः क्तिप्रत्ययेन निष्पन्नम् ॥

व्यभिचारः, पुं, (वि + अभि + चर + घञ् ।)

कदाचारः । भ्रष्टाचारः । यथा, --
“व्यभिचारात्तु भर्त्तुः स्त्री लोके प्राप्नोति
निन्द्यताम् ।
शृगालयोनिं प्राप्नोति पापरोगैश्च पीड्यते ॥”
इति मानवे ५ अध्यायः ॥
दोषविशेषः । तस्य लक्षणम् । साध्यतावच्छेद
कावच्छिन्नप्रतियोगिताकाभाववद्वृत्तित्वं हि
व्यभिचारः । इति व्यधिकरणधर्म्मावच्छिन्ना-
भावचिन्तामणिः ॥ स त्रिविधः । साधारणः १
असाधारणः २ अनुपसंहारी ३ । तत्र विपक्ष-
वृत्तित्वं साधारणत्वम् । सर्व्वसपक्षव्यावृत्तत्व-
मसाधारणत्वम् । व्याप्तिग्रहानुकूलैकधर्म्युप-
संहाराभावो यत्र सद्धेत्वभिमतोऽनुपसंहार्य्यः ।
इति सव्यभिचारचिन्तामणिः ॥

व्यभिचारिणी, स्त्री, (व्यभिचरति या । वि +

अभि + चर + णिनिः । ङीप् ।) परपुरुष-
गामिनी । यथा, --
“हृताधिकारां मलिनां पिण्डमात्रोपसेविनीम् ।
परिभूतामधःशय्यां वासयेद्व्यभिचारिणीम् ॥
सोमः शौचं ददौ तासां गन्धर्व्वश्च शुभां गिरम् ।
पावकः सर्व्वभक्षित्वं मेध्या वै योषितो ह्यतः ॥”
इति याज्ञवल्के । १ । ७०-७१ ॥
इति तु स्त्रीसामान्यविषयम् ।
“व्यभिचारादृतौ शुद्धिर्गर्भे त्यागो विधीयते ।
गर्भभर्त्तृवधे तासां तथा महति पातके ॥”
इति गारुडे ९५ अध्यायः ॥ * ॥
तस्याः परित्यागादि यथा । हारीतः । गर्भिणी-
मधोवर्णगां शिष्यसुतगामिनीं पापव्यसनासक्तां
धनधान्यक्षयकरीं वर्ज्जयेत् । यमः ।
“स्वच्छन्दगा हि या नारी तस्यास्त्यागो
विधीयते ।
न चैव स्त्रीवधः कार्य्यो न चैवाङ्गवियोजनम् ॥”
बृहस्पतिः ।
“हीनवर्णोपभुक्ता या त्याज्या वध्यापि वा
भवेत् ॥”
विशेषयति मिताक्षरायां स्मृतिः ।
“ब्राह्मणक्षत्त्रियविशां भार्य्याः शूद्रेण सङ्गताः ।
अप्रजास्ता विशुद्ध्यन्ति प्रायश्चित्तेन नेतराः ॥”
एतत् बलात्कारविषयम् । इत्युद्वाहतत्त्वम् ॥ * ॥
तस्याः पुण्यकर्म्माणि निष्फलानि धनानधि-
कारित्वञ्च यथा । हरिवंशीयपुण्यकव्रतो-
पाख्याने ।
“दानोपवासपुण्यानि सुकृतान्यप्यरुन्धति ! ।
निष्फलान्यसतीनां हि पुण्यकानि तथा शुभे ॥”
बृहन्मनुः ।
“अपुत्त्रा शयनं भर्त्तुः पालयन्ती व्रते स्थिता ।
पत्न्येव दद्यात्तत् पिण्डं कृत्स्नमंशं लभेत
च ॥”
भर्त्तुः शयनं पालयन्ती नान्यगामिनी । इति
दायतत्त्वम् ॥

व्यभिचारी, [न्] पुं, (ब्यभिचरतीति । वि +

अभि + चर + णिनिः ।) चतुस्त्रिंशत्प्रकार-
शृङ्गारभावविशेषः । तद्यथा । निर्व्वेदः २
ग्लानिः २ शङ्का ३ असूया ४ मदः ५ श्रमः ६
आलस्यम् ७ दैन्यम् ८ चिन्ता ९ मोहः १० स्मृतिः
११ धृतिः १२ व्रीडा १३ चपलता १४ हर्षः १५
आवेगः १६ जडता १७ गर्व्वः १८ विषादः १९
औत्सुक्यम् २० निद्रा २१ अपस्मरः २२
सुप्तः २३ विबोधः २४ अमर्षः २५ अवहित्थः २६
उग्रता २७ मतिः २८ उपलम्भः २९ व्याधिः ३०
उन्मदः ३१ मरणम् ३२ त्रासः ३३ वितर्कः ३४ ।
इति हेमचन्द्रः ॥ (अस्य लक्षणादिकं यथा,
साहित्यदर्पणे । ३ । १६८ ।
“विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः ।
स्थायिन्युन्मग्ननिर्म्मग्नास्त्रयस्त्रिंशच्च तद्भिदाः ॥”
के ते इत्याह ।
पृष्ठ ४/५३३
“निर्व्वेदावेगदैन्यश्रममदजडता औग्र्यमोहौ
विबोधः
स्वप्नापस्मारगर्व्वा मरणमलसतामर्षनिद्रा-
वहित्थाः ॥
औत्सुक्योन्मादशङ्काः स्मृतिमतिसहिता
व्याधिसत्रासलज्जा
हर्षासूयाविषादाः सधृतिचपलताम्लानिचिन्ता
वितर्काः ॥”
एतेषां लक्षणादिकं तत्रैव विशेषतो द्रष्टव्यम् ॥)
त्रि, व्यभिचारविशिष्टः । (स्वमार्गच्युतः । यथा,
कथासरित्सागरे । १५ । ५५ ।
“लब्धापि मन्त्रिताख्यातिरस्माकं यान्यथा
भवेत् ।
स्वामिसंभावनायाश्च भवेम व्यभिचारिणः ॥”
अनित्यः । आगमापायी । यथा, भागवते ।
११ । ३ । ३८ ।
“नात्मा जजान न मरिष्यति नैधतेऽसौ
न क्षीयते सवनविद्व्यभिचारिणां हि ॥”)

व्यय, क नुदि । इति कविकल्पद्रुमः । (चुरा०-

पर०-सक०-सेट् ।) अन्तःस्थादियुक्तः । क,
व्याययति । नुदि प्रेरणे । इति दुर्गादासः ॥

व्यय, ञ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

उभ०-सक०-सेट् ।) ञ, व्ययति व्ययते । इति
दुर्गादासः ॥

व्यय, त् क गतौ । त्यागे । इति कविकल्पद्रुमः ॥

(अदन्तचुरा०-पर०-सक०-सेट् ।) व्यययति ।
इति दुर्गादासः ॥

व्ययं, क्ली, (व्यय गतौ + अच् ।) लग्नात् द्बादश-

स्यानम् । यथा, --
“लग्नं धनं भ्रातृबन्धुपुत्त्रशत्रुकलत्रकाः ।
मरणं धर्म्मकर्म्मायव्यया द्वादशराशयः ॥”
इति ज्योतिस्तत्त्वम् ॥
(व्ययति गच्छतीति । व्यय गतौ + अच् । नश्वरे,
त्रि । यथा, मनुः । १ । १९ ।
“सूक्ष्माभ्यो मूर्त्तिमात्राभ्यः संभवत्यव्ययाद्-
व्ययम् ॥”)

व्ययः, पुं, (वि + इ + अच् ।) अर्थस्यापगमः ।

वित्तसमुत्सर्गः । इति शब्दरत्नावली ॥ खरच्
इति पारस्यभाषा ॥ (यथा, मनुः । ९ । ११ ।
“अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत् ॥”
नाशः । यथा, भागवते । ४ । १ । ४९ ।
“ताविमौ वै भगवतो हरेवंशाविहागतौ ।
भारव्ययाय च भुवः कृष्णौ यदुकुरूद्वहौ ॥”
परित्यागः । दानम् । यथा, रघुः । १२ । २३ ।
“आत्मानं मुमुचे तस्मात् एकबेत्रव्ययेन सः ॥”
बृहस्पतिचारगतवर्षविशेषः । यथा, वृहत्-
संहितायाम् । ८ । ३६ ।
“पञ्चमं व्ययमुशन्ति शोभनं
मन्मथप्रवलमुत्सवाकुलम् ॥”
नामविशेषः । यथा, महाभारते । १ । ५७ । १६ ।
“अमाहठः कामठकः सुषेणो मानसो व्ययः ॥”)

व्ययितः, त्रि, (व्यय + क्तः ।) कृतव्ययः । व्यय-

शब्दादितप्रत्ययेन व्ययधातोः क्तप्रत्ययेन वा
निष्पन्नम् ॥

व्ययी, [न्] त्रि, (व्ययोऽस्यास्तीति । व्यय +

इनिः ।) व्यययुक्तः । यथा, --
“द्रविणं परिमितमधिकव्ययिनं जनमाकुली-
कुरुते ।
क्षीणाञ्चलमिव पीनस्तनजघनायाः कुली-
नायाः ॥”
इत्युद्भटः ॥

व्यर्थं, त्रि, (विगतोऽर्थो यस्मात् ।) निरर्थकम् ।

तत्पर्य्यायः । मोघम् २ विफलम् ३ । इति
जटाधरः ॥ (यथा, कुमारे । ३ । ७५ ।
“शैलात्मजापि पितुरुच्छिरसोऽभिलाषं
व्यर्थं समर्थ्य ललितं वपुरात्मनश्च ॥”)

व्यलीकं, क्ली, (विशेषेण अलतीति । वि + अल +

“अलीकादयश्च ।” उणा० ४ । २५ । इति
कीकन्प्रत्ययेन निपातनात् साधुः ।) पीडार्थः ।
इत्यमरः ॥ गतिविपर्य्ययः । कामजापराधः ।
इति तट्टीकायां भरतः ॥ यथा, --
“कृत्यं नैव विजानाति परेणापकृतं क्वचित् ।
कृत्यञ्च संस्मरेदेतदसत्यञ्च न जल्पति ॥
व्यलीकेषु निवृत्तो यः पर्य्येति कृतनिश्चयः ।
नित्यञ्च धृतिमान् किञ्चित् परोक्षेऽपि न च
क्षिपेत् ॥
ऋतुकालेऽभिगच्छेत अपत्यार्थं स्वकां स्त्रियम् ।
ईदृशास्तु नरा भद्रे मम कर्म्मपरायणाः ॥”
इति वाराहे योनिगर्भमोक्षणनामाध्यायः ॥
अप्रियम् । (यथा, महाभारते । ३ । ६ । ९ ।
“न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किञ्चन ।
व्यलीकं कृतपूर्व्वं वै प्राज्ञेनामितबुद्धिना ॥”)
अकार्य्यम् । वैलक्ष्यम् । इति मेदिनी ॥ (यथा,
किराते । ३ । १९ ।
“यस्मिन्ननैश्वर्य्यकृतव्यलीकः
पराभवं प्राप्त इवान्तकोऽपि ।
धुन्वन्धनुः कस्य रणे न कुर्य्यात्
मनो भयैकप्रवणं स भीष्मः ॥”)
अपराधः । इति हेमचन्द्रः ॥ (यथा, शिशु-
पालवधे । ९ । ८५ ।
“सुदृशः सरसव्यलीकतप्त-
स्तरसा श्लिष्टवतः सयौवनोष्मा ॥”)
प्रतारणा । इति हलायुधः ॥ (दुःखम् । इति
वैजयन्ती ॥ यथा, कुमारे । ३ । २५ ।
“दिग् दक्षिणा गन्धवर्ह मुखेन
व्यलीकनिश्वासमिवोत्ससर्ज्ज ॥”)
तद्बति, त्रि ॥ (यथा, भागवते । ८ । २२ । २ ।
“यद्युत्तमःश्लोक भवान् ममेरितं
वचो व्यलीकं सुरवर्य्य मन्यते ।
करोन्वृतं तन्न भवेत् प्रलम्भनं
पदं तृतीयं कुरु शीर्ष्णि मे निजम् ॥”)

व्यलीकः, पुं, (वि + अल पर्य्याप्तौ + कीकन् ।)

नागरः । इति मेदिनी ॥ तत्पर्य्यायः । षिड्गः २
वट्प्रज्ञः ३ कामकेलिः ४ विदूषकः ५ पीठ-
केलिः ६ पाठमर्द्दः ७ भङ्गिलः ८ छिदुरः ९
विटः १० । इति त्रिकाण्डशेषः ॥

व्यवकलनं, क्ली, (वि + अव + कल + ल्युट् ।)

वियोगः । हीनः । अङ्कस्यान्तरकरणम् ।
वाकिकाटा इति भाषा । यथा, --
“अये बाले लीलावति ! मतिमति ! ब्रूहि
सहितान्
द्विपञ्चद्वात्रिंशत्त्रिनवतिशताष्टादशदश ।
शतोपेतानेतानयुतवियुतांश्चापि वद मे
यदि व्यक्तेर्युक्तिव्यवकलनमार्गेऽसि कुशला ॥”
इति लीलावती ॥

व्यवकलितः, त्रि, (वि + अव + कल + क्तः ।)

कृतव्यवकलनः । वियोगितः । हीनितः । व्यव-
कलने, क्ली । यथा । अथ सङ्कलितव्यवकलि-
तयोः करणसूत्रं वृत्तार्द्धम् ।
“कार्य्यं क्रमाद्युत्क्रमतोऽथवाङ्क-
योगो यथास्थानकमन्तरं वा ॥”
इति लीलावती ॥

व्यवच्छिन्नं, त्रि, (वि + अव + छिद् + क्तः ।)

भिन्नम् । यथा । भिन्नन्तु व्यवच्छिन्नं विशेषितम् ।
इति त्रिकाण्डशेषः ॥

व्यवच्छेदः, पुं, (वि + अव + छिद् + घञ् ।) बाण-

मुक्तिः । इति हेमचन्द्रः ॥ पृथक्त्वञ्च ॥ (विरामः ।
निवृत्तिः । यथा, भागवते । ४ । २९ । ३२ ।
“जीवस्य न व्यवच्छेदः स्याच्चेत्तत्तत्प्रतिक्रिया ॥”)

व्यवधा, स्त्री, (वि + अव + धा + “आतश्चोपसर्गे ।

इत्यङ् । टाप् ।) व्यवधानम् । इत्यमरः ॥

व्यवधानं, क्ली, (वि + अव + धा + ल्युट् ।)

आच्छादनम् । तत्पर्य्यायः । तिरोधानम् २
अन्तर्द्धिः ३ अपवारणम् ४ छदनम् ५ व्यवधा ६
अन्तर्द्धा ७ पिधानम् ८ स्थगनम् ९ । इति
हेमचन्द्रः ॥ व्यवधिः १० अपिधानम् ११ ।
इति शब्दरत्नावली ॥ (यथा, रघुः । १३ । ३४ ।
“दृष्टिं विमानव्यवधानमुक्तां
पुनः सहस्रार्चिषि सन्निधत्ते ॥”
भेदः । यथा, भागवते । ४ । २२ । २७ ।
“परात्मनोर्यद्व्यवधानकं पुरस्तात्
स्वप्ने यथा पुरुषस्तद्बिनाशे ॥”
विच्छेदः । यथा, शिशुपालवधे । ९ । ५१ ।
“वपुरन्वलिप्त परिरम्भसुख-
व्यवधानभीरुकतया न बधूः ॥”
समाप्तिः । यथा, भागवते । ४ । २९ । ७७ ।
“यावदन्यं न विन्देत व्यवधानेन कर्म्मणाम् ॥”)

व्यवधायकः, त्रि, (व्यवदधातीति । वि + अव +

धा + ण्वुल् ।) व्यवधानकर्त्ता । यथा । स्वर्ग-
कामो यजेत सप्तदशावरा ऋद्धिकामाः सत्र-
मुपासीरन्निति वेदे कामिनां कर्त्तृत्वावगते-
स्तदनुपपत्त्या ऋत्विग्व्यापारान्तर्भावो न व्यव-
धायकः । इति प्रायश्चित्तविवेकः ॥

व्यवधिः, पुं, (वि + अव + धा + “उपसर्गे धोः

किः ।” ३ । ३ । ९२ । इति किः ।) व्यवधानम् । इति
शब्दरत्नावली ॥ (यथा, नैषधचरिते । २ । १९ ।
पृष्ठ ४/५३४
“व्यवधावपि वा विधोः कलां
मृडचूडानिलयां न वेद कः ॥”)

व्यवसायः, पुं, (वि + अव + सो + घञ् ।) उप-

जोविका । पेशा इति पारस्यभाषा । यथा, --
“करोति नाम नीतिज्ञो व्यवसायमितस्ततः ।
फलं पुनस्तदेव स्याद्यद्विधेर्मनसि स्थितम् ॥”
इति हितोपदेशे २ परिच्छेदः ॥
अपि च ।
“आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा ।
षड्गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः ॥”
इति चाणक्यशतकम् ॥
अनुष्ठानम् । इति व्यवसायिशब्दार्थदर्शनात् ॥
(यथा, रामायणे । २ । ३० । ४१ ।
“सर्व्वथा सदृशं सीते ! मम स्वस्य कुलस्य च ।
व्यवसायमनुक्रान्ता कान्ते ! त्वमतिशोभनम् ॥”)
निश्चयः । यथा, --
“ब्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥”
इति भगवद्गीतायाम् २ अध्यायः ॥
व्यवसायात्मिकेति । इह ईश्वराराधनलक्षणे
कर्म्मयोगे व्यवणायात्मिका परमेश्वरभक्त्यैक ध्रुवं
तरिष्यामीति निञ्चयात्मिका एकैव एकनिष्ठैव
बुद्धिर्भवति । अव्यबसायिनामीश्वराराधनबहि-
र्मुखानां कामिनां कामनानन्त्यादनन्तास्तत्रापि
कर्म्मफल-गुणफलत्वादि-प्रकारभेदाद्बहुशाखाश्च
बुद्धयो भवन्ति । इति तट्टीकायां स्वामी ॥
विष्णुः । यथा, --
“व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ॥”
इति महाभारते तस्य सहस्रनामस्तोत्रे । १३ ।
१४९ । ५५ ॥ (महादेवः । यथा, तत्रैव । १३ । १७ । ५० ।
“सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः ॥”)

व्यवसायी, [न्] त्रि, (व्यवसायोऽस्यास्तीति ।

इनिः ।) व्यवसायविशिष्टः । बाणिज्यकारकः ।
यथा, --
“कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सविद्यानां कःपरः प्रियवादिनाम् ॥”
इति चाणक्यशतकम् ॥
अनुष्ठाता । यथा, --
“अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो
वराः ।
धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यव-
सायिनः ॥”
इति मानवे १२ अध्यायः ॥
अज्ञेभ्य इति । उभयोः प्रशस्यत्वे सति अन्य-
तरस्यातिशयवि क्षया श्रेष्ठतेतीष्टिनोबिधाना-
दीषदध्ययना अज्ञाः तेभ्यः समग्रग्रन्थाध्येतारः
श्रेष्ठाः । तेभ्योऽधीतग्रन्थधारणसमर्थाः श्रेष्ठाः ।
तेन ग्रन्थिनः पथितविस्मृतग्रन्था बोद्धव्याः ।
धारिभ्योऽधीतग्रन्थार्थज्ञाः प्रकृष्टाः । तेभ्यो-
ऽनुष्ठातारः । इति तट्टीकायां कुल्लूकभट्टः ॥

व्यवसितः, त्रि, (वि + अव + सो + क्तः ।) प्रता-

रितः । इति मूरिप्रयोगः ॥ अनुष्ठितः ।
निश्चितः । इति व्यवसायिव्यवसायशब्दार्थ-
दर्शनात् ॥ (यथा, रामायणे । २ । २४ । १ ।
“तं समीक्ष्य व्यवसितं पितुर्निर्द्देशपालने ।
कौशल्या वाष्पसंरुद्धा वचो धर्म्मिष्ठमब्रवीत् ॥”)

व्यवस्था, स्त्री, (वि + अव + स्था + “आतश्चोप-

सर्गे ।” इत्यङ् । ततष्टाप् ।) शास्त्रनिरूपित-
विधिः । यथा, --
“दीर्घकालं ब्रह्मचर्य्यं धारणञ्च कमण्डलोः ।
देवरेण सुतोत्पत्तिर्दत्तकन्या प्रदीयते ॥”
इत्यादीन्यभिधाय ॥
“एतानि लोकगुप्त्यर्थं कलेरादौ महात्मभिः ।
निवर्त्तितानि कर्म्माणि व्यवस्थापूर्ब्बकं बुधैः ॥”
इत्युद्वाहतत्त्वे हेमाद्रिपराशरभाष्ययोरादि-
पुराणम् ॥ (नियमः । यथा, कथासरित्-
सागरे । १०९ । ७१ ।
“एवं कृतगुहारक्षो महारत्नानि शङ्करः ।
उत्पाद्य भगवांस्तत्र व्यवस्थामादिदेश सः ॥”)

व्यवस्थानः, पुं, विष्णुः । यथा, --

“व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ॥”
इति महाभारते तस्य सहस्रनामस्तोत्रे । १३ ।
१४९ । ५५ ॥ (वि + अव + स्था + ल्युट् ।)
व्यवस्थितौ, क्ली । यथा, --
“चातुर्व्वर्ण्यव्यवस्थानं यस्मिन् देशे न विद्यते ।
तं म्लेच्छदेशं जानीयादार्य्यावर्त्तस्ततः परम् ॥”
इत्यार्य्यावर्त्तशब्दटीकायां भरतः ॥

व्यवस्थितः, त्रि, (वि + अव + स्था + क्तः ।) विधि-

पूर्ब्बकस्थितः । व्यवस्थापितः । यथा, --
“अथ व्यवस्थितान् दृष्ट्वा धार्त्तराष्ट्रान् कपि-
ध्वजः ।
प्रवृत्त शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥”
इति श्रीभगवद्गीतायाम् १ अध्यायः ॥

व्यवहर्त्ता, [ऋ] पुं, (वि + अव + हृ + तृच् ।)

व्यवहारकर्त्ता । प्राड्विवाक इति यावत् ।
यथा । उत्तराभिधानानन्तरं सभ्यानामर्थिप्रत्य-
र्थिनोः कस्य क्रिया स्यादिति परामर्शलक्षणस्य
प्रत्याकलितस्य वोगीश्वरेण व्यवहारपादत्वेना-
नभिधानात् व्यवहर्त्तृसम्बन्धाभावाच्च न व्यव-
हारपादत्वमिति स्थितम् । इति मिताक्षरायां
व्यवहारमातृका ॥ कायस्थस्योपाधिविशेषश्च ॥

व्यवहारः, पुं, (वि + अव + हृ + घञ् ।) विवादः ।

इत्यमरः ॥ वृक्षभेदः । न्यायः । पणः । स्थितिः ।
इति मेदिनीशब्दरत्नावल्यौ ॥ * ॥ (कर्म्म ।
क्रिया । यथा, --
“न कश्चित् कस्यचिन्मित्रं न कश्चिकस्य चिद्रिपुः ।
व्यवहारेण जायन्ते मित्राणि रिपवस्तथा ॥”
यथा च रघुः । ३ । ६२ ।
“तथापि शस्त्रव्यवहारनिष्ठुरे
विपक्षभावे चिरमस्य तिष्ठतः ।
तुतोष वीर्य्यातिशयेन वृत्रहा
पदं हि सर्व्वत्र गुणैर्निधीयते ॥”)
अथ व्यवहारदर्शनम् । तत्र याज्ञवल्क्यः ।
“स्मृत्याचारव्यपेतेन मार्गेणाघर्षितः परैः ।
आवेदयति चेद्राज्ञि व्यवहारपदं हि तत् ॥”
स्मृतिसदाचारवहिर्भूतेन वर्त्मना परैरर्थतः
शरीरतो वा पीडितश्चेद्राजनि निवेदयेत्तद्ब्यव-
हारदर्शनस्थानम् । चेदित्यत्र सदिति मैथिलाः ।
आवेदयति चेदित्यनेन स्वयं विवादोत्थापनं
राज्ञा न कर्त्तव्यमिति शूलपाणिमहामहो-
पाध्यायाः । राज्ञीति व्यवहारप्रदर्शकपरम् ।
तथा च बृहस्पतिः ।
“राजा कार्य्याणि संपश्येत् प्राड्विवाकोऽथवा
द्बिजः ॥” * ॥
प्राड्विवाकलक्षणमाह स एव ।
“विवादे पृच्छति प्रश्नं प्रतिपन्नं तथैव च ।
प्रियपूर्व्वं प्राग्वदति प्राड्विवाकस्ततः स्मृतः ॥”
कात्यायनः ।
“व्यवहाराश्रितं प्रश्नं पृच्छति प्राडिति स्थितिः ।
विवेचयति यस्तस्मिन् प्राड्विवाकस्ततः स्मृतः ॥”
अर्थिनं प्रति भाषा ते कीदृशी प्रत्यर्थिनं प्रति
च तवापि कीदृशमुत्तरं इति पृच्छतीति प्राट्
श्रुत्वा च युक्तायुक्तंत्वेन जयं पराजयं वा
विविनक्ति इति विवाकः प्राट् च स विवाकश्चेति
प्राड्विवाकः ॥ * ॥ कात्यायनः ।
“सप्राड्विवाकः सामात्यः सब्राह्मणपुरोहितः ।
स्वयं स राजा चिनुयात्तेषां जयपराजयौ ॥
यदा कार्य्यवशाद्राजा न पश्येत् कार्य्यनिर्णयम् ।
तदा नियुञ्ज्याद्विद्बांसं ब्राह्मणं वेदपारगम् ॥
यदि विप्रो न विद्बान् स्यात् क्षत्त्रियं तत्र
योजयेत् ।
वैश्यं वा धर्म्मशास्त्रज्ञं शूद्रं यत्नेन वर्ज्जयेत् ॥”
स विनीतवेशः । मनुः ।
“जातिमात्रोपजीवी वा कामं स्याद्ब्राह्मणब्रुवः ।
धर्म्मप्रवक्ता नृपतेर्न तु शूद्रः कदाचन ॥
नाध्यापयति नाधीते स ब्राह्मणब्रुवः स्मृतः ॥”
व्यासः ।
“द्बिजान् विहाय यः पश्येत् कार्य्याणि वृषलैः
सह ।
तस्य प्रक्षुभ्यते राज्यं बलं कोषश्च नश्यति ॥
यः शूद्रो वैदिकं धर्म्मं स्मार्त्तं वा भाषते यदि ।
तस्य दण्डं द्बे सहस्रे सृक्नणी चैव भेदयेत् ॥
दुःशीलोऽपि द्विजः पूज्यो न शूद्रो विजितेन्द्रियः ।
दुष्टां गां कः परित्यज्यार्च्चयेत् शीलवतीं
खरीम् ॥”
व्यवहारमाह कात्यायनः ।
“वि नानार्थेऽव सन्देहे हरणं हार उच्यते ।
नानासन्देहहरणाद्व्यवहार इति स्थितिः ॥”
नानाविवादविषयः संशयो ह्रियतेऽनेन इति
व्यवहारः । भाषोत्तरक्रियानिर्णायकत्वं व्यव-
हारत्वम् । तथा च बृहस्पतिः ।
“अज्ञानतिमिरोपेतान् सन्देहपटलार्द्दितान् ।
निरामयान् यः कुरुते शास्त्राञ्जनशलाकया ॥
इह कीर्त्तिं राजपूजां लभते सद्गतिञ्च सः ।
तस्मात् संशयमूढानां कर्त्तव्यश्च विनिर्णयः ॥”
अतएव नारदः ।
पृष्ठ ४/५३५
“अनियुक्तो नियुक्तो वा शास्त्रज्ञो वक्तुमर्हति ।
दैवीं वाचं स वदति यः शास्त्रमुपजीवति ॥”
दैवीं देवानुमताम् ॥ * ॥ धर्म्मशास्त्रयोस्तु
विरोधे लोकव्यवहार एवादरणीयः । इत्याह
स एव ।
“धर्म्मशास्त्रविरोधे तु युक्तियुक्तो विधि स्मृतः ।
व्यवहारोऽपि बलवान् धर्म्मस्तेनावहीयते ॥”
अवहीयते अवगम्यते हि गतावित्यस्माद्धातोः ।
अतएव बृहस्पतिः ।
“केवलं शास्स्त्रमाश्रित्य न कर्त्तव्यो विनिर्णयः ।
युक्तिहीनविचारे तु धर्म्महानिः प्रजायते ॥”
युक्तिर्न्यायः । स च लोकव्यवहार इति व्यव-
हारमातृका ॥ अतएव कात्यायनः ।
“कुलशीलवयोवृत्तवित्तवद्भिरधिष्ठितम् ।
बणिग्भिः स्यात् कतिपयैः कुलवृद्धैरधि-
ष्ठितम् ॥”
सद इति शेषः । कात्यायनः ।
“सभ्येनावश्यवक्तव्यं धर्म्मार्थसहितं वचः ।
शृणोति यदि नो राजा स्यात्तु सभ्यस्तदानृणः ॥”
सभ्यः सभायां साधुः ॥ * ॥ तथाविधानाह
याज्ञवल्क्यः ।
“श्रुताध्ययनसम्पन्नाः कुलीनाः सत्यवादिनः ।
राज्ञा सभासदः कार्य्याः शत्रौ मित्रे च ये
समाः ॥”
श्रुताध्ययनसम्पन्नाः धर्म्मशास्त्रज्ञाः । कुलीनाः
सङ्करादिदोषशून्यमातापितृवंशपरम्पराकाः ।
एवंभूताः सभासदः सभायां यथा सीदन्ति
उपविशन्ति तथा दानमानसत्कारैः राज्ञा
कर्त्तव्याः ॥ * ॥ तथाविधावस्थानेन भूमेः सभात्व-
माह मनुः ।
“यस्मिन् देशे निषीदन्ति विप्रा वेदविदस्त्रयः ।
राज्ञः प्रतिकृतो विद्बान् ब्राह्मणस्तां सभां
विदुः ॥”
विद्वत्सहतावपि सभापर्य्यायपरिषच्छब्दमाह स
एव ।
“त्रैविद्यो हैतुकस्तकीं निरुक्तो धर्म्मपाठकः ।
त्रयश्चाश्रमिणः पूर्व्वे परिषत् स्याद्दशावराः ॥”
त्रैविद्यः त्रिवेदपारगः । हैतुकः । सद्युक्ति-
व्यवहारी । अतएवामरासंहः । सभा सदसि
सभ्ये च । अत्र भा दीप्तिः प्रकाशो ज्ञानमिति
यावत् तया सह साक्षात् परम्परया वा वर्त्तते
इति सभा ॥ * ॥ कात्यायनः ।
“दिवसस्याष्टमं भागं मुक्त्वा भागत्रयं तु यत् ।
स कालो व्यवहाराणां शास्त्रदृष्टः परः स्मृतः ॥”
अष्टमयामाद्यार्द्धप्रहरम् । भागत्रयं प्रहरद्बय-
पर्य्यन्तम् । मनुः ।
“धर्म्मासनमधिष्ठाय संवीताङ्गः समाहितः ।
प्रणम्य लोकपालेभ्यः कार्य्यदर्शनमारभेत् ॥”
मनुनारदबौधायनहारीताः ।
“पादोऽधर्म्मस्य कर्त्तारं पादः साक्षिणमृच्छति ।
पादः सभासदः सर्व्वान् पादो राजानमृच्छति ॥
राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः ।
एनो गच्छति कर्त्तारं निन्दार्हो यत्र निन्द्यते ॥”
कर्त्तारं वादिनम् । राजपादं विवेचकपरम् ॥
अनेनाः निष्पापः ॥ अर्थित्वमाहतुर्व्यासनारदौ ।
“यस्य चाभ्यधिका पीडा कार्य्यं वाप्यधिकं
भवेत् ।
तस्यार्थिभावो दातव्यो न यः पूर्व्वं निवेदयेत् ॥”
अत्रैव पूर्व्वपक्षो भवेत्तस्य इति कात्यायनीये
तृतीयपादः । न यः पूर्व्वं निवेदयेदिति तस्यो-
त्तरः पक्ष इति शेषः । स यः पूर्व्वमिति पाठे
यः प्रथमं निवेदयति स पूर्व्ववादीत्यर्थः । बृह-
स्पतिः ।
“अहं पूर्व्विकया यातावर्थिप्रतर्थिनौ यदा ।
वादो वर्णानुपूर्व्वेण ग्राह्यः पीडामवेक्ष्य वा ॥”
यत्र द्बावेव वदतः प्रभो मद्वाक्यं शृणु इति तत्र
ब्राह्मणादिक्रमेणाधिकपीडादर्शनेन वा वादो
ग्राह्यः ॥ * ॥ स्वयं विवादाशक्तौ प्रतिनिधिमाह
नारदः ।
“अर्थिना सन्नियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा ।
यो यस्यार्थे विवदते तयोर्जयपराजयौ ॥”
तयोर्व्वादिप्रतिवादिनोः । बृहस्पतिरपि ।
“ऋत्विक् वादे नियुक्तश्च समौ सम्परिकीर्त्तितौ ।
यज्ञे स्वाम्याप्नुयात् पुण्यं हानिं वादेऽथवा
जयम् ॥”
कात्यायनः ।
“मनुष्यमारणे स्तेये परदाराभिमर्षणे ।
अभक्ष्यभक्षणे चैव कन्याहरणदूषणे ॥
पारुष्ये कूटकरणे नृपद्रोहे तथैव च ।
प्रतिवादी न दातव्यः कर्त्ता तु विवदेत् स्वयम् ॥”
कुलस्त्रीप्रभृतीनां प्रतिनिधिमाह व्यासः ।
“कुलस्त्रीबालकोन्मत्तजडार्त्तानाञ्च बान्धवाः ।
पूर्ब्बपक्षोत्तरे ब्रूयुर्नियुक्तो भृतकस्तथा ॥”
भ्रात्रादीतरस्य पक्षस्थितस्य दण्डनीयत्वमाह
नारदः ।
“यो न भ्राता पिता वापि न पुत्त्रो न नियो-
जितः ।
पराथवादी दण्ड्यः स्यात् व्यवहारेषु विब्रुवन् ॥”
विब्रुवन् विरुद्धं ब्रुवन् ॥ * ॥ नारदः ।
“निर्व्वेष्टकामो रोगार्त्तो यियक्षुर्व्यसने स्थितः ।
अभियुक्तस्तथान्येन राजकर्म्मोद्यतस्तथा ॥
गवां प्रचारे गोपालाः शस्यबन्धे कृषीवलाः ।
शिल्पिनश्चापि तत्काले आयुधीयाश्च विग्रहे ॥
अप्राप्तव्यवहारश्च दूतो दानोन्मुखो व्रती ।
विषमस्थाश्च नासेव्या न चैतान्नाह्वयेन्नृपः ॥”
निर्व्वेष्टुकामो विवाहप्रवृत्तः । अन्येन वादान्त-
रेण । अप्राप्तव्यवहारः षोडशवर्षावरवयस्कः ।
तत्काले विवाहादिसमाप्तिपर्य्यन्तकाले । एते
विषमस्थाश्च उपप्लवदेशस्थाश्च उत्तमर्णादिना
नासेध्या नावधारणीयाः एतान् प्रागुक्तान्
वादिना निवेदितानिति शेषः ॥ * ॥ याज्ञवल्क्यः ।
“अभियोगमनिस्तीर्य्य नैनं प्रत्यभियोजयेत् ॥”
अभियुक्तः सन्नुत्तरमदत्त्वा भाषावादिनमेतं
स्वाभियोगानुपमर्दकेन विवादान्तरेण न योज-
येत् । युमपदनेकव्यवहारासम्भवात् । नारदो-
ऽपि ।
“पूर्व्वदादं परित्यज्य योऽन्यमालम्बते पुनः ।
वादसंक्रमणाज्ज्ञेयो हीनवादी स वै नरः ॥”
हीनवादीत्यनेन दण्ड्यतोक्ता न तु प्रकृतार्थाद्धी-
नता अन्यथा छलापत्तेः ॥ * ॥ पारुष्ये प्रति-
प्रसवमाह स एव ।
“कुर्य्यात् प्रत्यभियोगञ्च कलहे साहसेषु च ॥”
वाक्पारुष्ये शस्त्रादिप्रहारेषु च । यथापूर्ब्ब-
महमप्यनेनाक्रुष्टः शस्त्रेण हत इत्यपराधा-
भावाय प्रत्यभियोगं कुर्य्यात् । तथा च बृह-
स्पतिः ।
“आक्रुष्टस्तु यदाक्रोशंस्ताडितः प्रतिताडयन् ।
हत्वाततायिनञ्चैव नापराधी भवेन्नरः ॥”
एतेन वाक्पारुष्यदण्डपारुष्ययोः प्रकृताभि-
योगे खण्डकाभियोगेऽपि न दोषः । यत्तु ।
“पूर्ब्बमाक्षारयेद्यस्तु नियतं स्यात् स दोषभाक् ।
पश्चाद्यः सोऽप्यसत्कारी पूर्ब्बे तु विनयो गुरुः ॥”
इति नारदवचनं तत् पूर्ब्बापेक्षया परस्या-
धिकवाक्पारुष्योत्पादकस्यापि स्वल्पदण्डविधा-
यकम् ॥ * ॥ युगपत्संप्रवर्त्तने अधिकदण्डाभाव-
माह स एव ।
“पारुष्ये साहसे चैव युगपत्संप्रवृत्तयोः ।
विशेषश्चेन्न लभ्येत विनयः स्यात् समस्तयोः ॥”
विनयो दण्डः । एवञ्च दण्डोऽयमनपराधे मयि
कृतः पीडितत्वादिति भाषायां प्रत्यभियोगः
कार्य्य एव । प्रत्यवस्कन्दनोत्तरत्वेन युगपदनेक-
व्यवहारापत्तिदोषस्याभावात् ॥ * ॥ सभापतेः-
कर्त्तव्यमाह कात्यायनः ।
“अथ चेत् प्रतिभूर्नास्ति वादयोग्यस्तु वादिनोः ।
स रक्षितो दिनस्यान्ते दद्यात् भृत्याय
वेतनम् ॥”
प्रतिभवति तत्कार्य्ये तद्वद्भवति इति प्रति-
भूर्लग्नकः । वादयोग्यः विवादफलस्य साधित-
धनादिदानस्य दण्डदानस्य च क्षमः । वादिनोः
भाषावादिन उत्तरवादिनश्च । तथाच याज्ञ-
वल्क्यः ।
“उभयोः प्रतिभूर्ग्राह्यः समर्थः कार्य्यनिर्णये ।
प्रतिभुवस्त्वभावे च राज्ञा सं ज्ञपनं तयोः ॥”
राज्ञा संज्ञपनं दण्डतुल्याधिकरणं निर्णयस्य
कार्य्ये धनादिदाने राजदन्तादित्वात् कार्य्य-
शब्दस्य पूर्ब्बनिपातः । भृत्यः तद्रक्षको राज-
नियुक्तः ॥ * ॥ प्रत्यर्थी यदि कञ्चित् कालं
प्रार्थयते स लभते अर्थी तु कालं प्रार्थयन्
अर्थित्वमेव व्याहन्यादिति तेन कालो न प्रार्थ-
नीयः । तदाह ।
“प्रत्यर्थी लभते कालं त्र्यहं सप्ताहमेव च ।
अर्थी तु प्रार्थयन् कालं तत्क्षणादेव हीयते ॥”
क्वचित् प्रत्यर्थी कालं न लभते । याज्ञवल्क्यः ।
“साहसस्तेयपारुष्यगोऽभिशापात्यये स्त्रियाम् ।
विवादयेत् सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥”
साहसं मनुष्यमारणम् । गौरत्र दोह्या ।
पृष्ठ ४/५३६
अभिशापो महापातकादिना । अत्यये द्रव्य-
नाशे । स्त्रियां कुलस्त्रियां चारित्रांववादविषय-
प्राप्तायां दास्यां स्वत्वविवादे वा । एषु सद्य एव
उत्तरं दापयेदिति शूलपाणिः ॥ विशेषयति
कात्यायनः ।
“यस्मात् कार्य्यसमारम्भश्चिरात्तेन विनिश्चितः ।
तस्मान्न लभते कालमभियुक्तस्तु कालभाक् ॥”
अपवादमाह बृहस्पतिः ।
“अभियोक्ता प्रगल्भत्वात् वक्तुं नोत्सहते यदि ।
तदा कालः प्रदातव्यः कार्य्यशक्त्यनुरूपतः ॥”
अत्रापि विशेषयति व्यासः ।
“राजदवकृतो दोषस्तस्मिन् काले यदा भवेत् ।
अवध्ययोगमात्रेण न भवेत् स पराजितः ॥”
स कृतसमयबन्धोऽभियुक्तः ।
“राजदैवकृतं दोषं साक्षिभिः प्रतिपादयेत् ।
जैह्मेन वर्त्तमानस्तु दण्ड्यो दाप्यस्तु तद्धनम् ॥”
अवध्यतिक्रमहेतो राजदैविकदोषस्य प्रमितौ
न तदतिक्रामकोऽपराध्यति जैह्माच्च तदति-
क्रमेण दण्ड्यो भङ्गी च भवतीत्यर्थः । छद्म-
काठिन्यादियुक्तो जिह्मः । तथा च हारीतः ।
छद्म माया व्याजयुक्ता निकृतिः । कौटिल्य-
काठिन्यशाठ्यवैरस्यसद्भावयुक्तं जैह्म्यमिति युक्तं
योगः ॥ * ॥
अथ व्यवहारपादनिर्णयः । तत्र बृहस्पतिः ।
“पूर्ब्बपक्षः स्मृतः पादो द्बिपादश्चोत्तरः स्मृतः ।
क्रियापादस्तथा चान्यश्चतुर्थो निर्णयः स्मृतः ॥
मिथ्योक्तौ च चतुष्पात् स्यात् प्रत्यवस्कन्दने
तथा ।
प्राङ्न्याये च स विज्ञेयो द्बिपात्संप्रतिपत्तिषु ॥”
यद्यपि संप्रतिपत्तावपि निर्णयोऽस्ति तथाप्यु-
त्तरवादिनैव भाषार्थस्याङ्गीकृतत्वेन क्रियासाध्यो
न भवति इति द्विपादतोक्ता ॥ * ॥
अथ भाषापादः ।
तत्र भाषास्वरूपमाहतुः कात्यायनबृहस्पती ।
“प्रतिज्ञादोषनिर्म्मुक्तं साध्यं सत्कारणान्वितम् ।
निश्चितं लोकसिद्धञ्च पक्षं पक्षविदो विदुः ॥
स्वल्पाक्षरः प्रभूतार्थो निःसन्दिग्धो निराकुलः ।
विरोधिकारणैर्मुक्तो विरोधिप्रतिरोधकः ॥
यदा त्वेवंविधः पक्षः कल्पितः पूर्ब्बवादिना ।
दद्यात् तत्पक्षसम्बन्धं प्रतिवादी तदुत्तरम् ॥”
प्रतिज्ञा साध्याभिधायिका वाक् । तस्या दोषैः
परस्मरविरुद्धार्थपदादिभिस्त्यक्तं साध्यं साधना-
र्हाभिमतं पक्षं विदुः । अन्यथा प्रतिज्ञादोषेण
साध्यदोषः स्यात् । अतएवोक्तम् ।
“वचनस्य प्रतिज्ञात्वं तदर्थस्य च पक्षता ।
असङ्करेण वक्तव्ये व्यवहारेषु वादिभिः ॥”
वक्तव्ये पक्षप्रतिज्ञे पूर्ब्बोक्ते । नारदेनापि ।
“सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता ।
तद्धानौ हीयते वादी तरंस्तामुत्तरो भवेत् ॥”
उत्तरो विजयी । यद्यप्यन्यत्र साध्यं ज्ञाप्यं तद्-
विशिष्टधर्म्मो पक्ष इति भेदः तथाप्यत्र वाक्
प्रत्याय्यर्णादिधर्म्मविशेषविशिष्टस्य पक्षतया
धर्म्मिणोऽधमर्णादेरेव साध्यत्वात् साध्यपक्षयोर
भेदाभिधानम् । उपसंहारे च एवंविधः पक्ष
इति । मिताक्षरायान्तु भाषा प्रतिज्ञापक्ष इति
नार्थान्तरमित्युक्तम् । भाषार्थमुक्त्वा भाषास्वरूप-
प्रपञ्चमाह स्वल्पाक्षर इति । निराकुलः
पौर्व्वापर्य्यविपर्य्यासादिशून्यः । तत्र ।
“द्यूते च व्यवहारे च प्रव्रते यज्ञकर्म्मणि ।
यानि पश्यन्त्युदासीनाः कर्त्ता तानि न
पश्यति ॥”
इति गृह्यसंग्रहवचनादुदासीनेभ्यो ज्ञात्वा
शोधयेत् । तच्छोधनमाह बृहस्पतिः ।
“न्यूनाधिकं पूर्ब्बपक्षं तावद्बादी विशोधयेत् ।
न दद्यादुत्तरं यावत् प्रत्यर्थी सभ्यसन्निधौ ॥” * ॥
तल्लिखनप्रकारमाह व्यासः ।
“पाण्डुलेखेन फलके भूमौ वा प्रथमं लिखेत् ।
न्यूनाधिकन्तु संशोध्य पश्चात् पत्रे निवेशयेत् ॥”
फलकं काष्ठादिपट्टकम् । कात्यायनः ।
“पूर्ब्बपक्षं स्वभावोक्तं प्राड्विवाकोऽथ लेखयेत् ।
पाण्डुलेखेन फलके ततः पत्रेऽभिलेखयेत् ॥
शोधयेत् पूर्ब्बपक्षन्तु यावन्नोत्तरदर्शनम् ।
उत्तरेणावरुद्धस्य निवृत्तं शोधनं भवेत् ॥
अन्यदुक्तं लिखेद्योऽन्यदर्थिप्रत्यर्थिनोर्व्वचः ।
चौरवच्छासयेत्तन्तु धार्म्मिकः पृथिवीपतिः ॥”
स्वभावोक्तमकृत्रिमम् । एतच्च स्वरविशेषादिना
सुज्ञेयम् ॥ * ॥ अतएव याज्ञवल्क्यः ।
“छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः ।
भूतमप्यनुपन्यस्तं हीयते व्यवहारतः ॥”
भूतं तत्त्वार्थसम्बन्धम् । नारदः ।
“भूतं तत्त्वार्थसम्बन्धं प्रमादाभिहितं छलम् ।
किन्तु राज्ञा विशेषेण स्वधर्म्ममभिरक्षता ॥
मनुष्यचित्तवैचित्र्यात् परीक्षा साध्वसाधु वा ।
सर्व्वेष्वर्थविवादेषु वाक्छले नावसीदति ॥
पशुस्त्रीभूम्यृणादाने शास्योऽप्यर्थान्न हीयते ॥”
सर्व्वेष्वर्थविवादेषु प्रमादाभिधानेऽपि नावसी-
दति अत्रोदाहरणं पशुस्त्रीत्यादि । अर्थविवाद-
ग्रहणात् मन्युकृतविवादेषु प्रमादाभिधाने
प्रकृतार्थादप्यर्थाद्धीयत इति गम्यते । यथाह-
मनेन शिरसि पादेन ताडित इत्यभिधाय
केवलं हस्तेन ताडित इति वदन् न केवलं
दण्ड्यः पराजीयते च । ततश्च त्वं मह्यमृणं
धारयसि मत्त ऋणत्वेन गृहीततावद्धन-
कत्वादिति भाषाशरीरं एतच्च संस्कृतदेश-
भाषान्यतरेण यथाबोधं वक्तव्यं लेख्यं वा ।
मूर्खाणामपि वादिप्रतिवादितादर्शनात् अत-
एवाध्यापनेऽपि तथोक्तं विष्णुधर्म्मोत्तरे ।
“संस्कृतैः प्राकृतैर्व्वाक्यैर्यः शिष्यमनुरूपतः ।
देशभाषाद्युपायैश्च बोधयेत् स गुरुः स्मृतः ॥” * ॥
अथोत्तरपादः । तत्र कालमाह कात्यायनः ।
“सद्यःकृतेषु कार्य्येषु सद्य एव विवादयेत् ।
कालातीतेषु वा कालं दद्यात् प्रत्यर्थिने प्रभुः ॥”
वादिनोक्तस्य साध्यस्य प्रतीपमर्थयते इति
प्रत्यर्थी । नारदः ।
“गहनत्वाद्बिवादानामसामर्थ्यात् स्मृतेरपि ।
ऋणादिषु हरेत् कालं कामं तत्त्ववुभुत्सया ॥”
बृहस्पतिः ।
“यदा त्वेवंविधः पक्षः कल्पितः पूर्व्ववादिना ।
दद्यात् तत्पक्षसम्बन्धं प्रतिवादी तदोत्तरम् ॥”
सम्बन्धमुपयुक्तम् । अन्यथा अन्यवादित्वेन भङ्ग-
प्रसङ्गात् ।
“अन्यवादी क्रियाद्वेषी नोपस्थायी निरुत्तरः ।
आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः ॥
प्रपलायी त्रिपक्षेण मौनकृत् सप्तभिर्दिनैः ।
क्रियाद्वेषी तु मासेन साक्षिभिन्नस्तु तत्-
क्षणात् ॥”
इति नारदोक्तेः ॥
क्रिया लेख्यादिका । साक्षिभिन्नः साक्षिभिः
पराजितः । वादिनोक्तस्य साध्यस्य प्रतीपं
वदतीति प्रतिवादी । उत्तीर्य्यते निस्तीर्य्यते
प्रकृताभियोगोऽनेन इति उत्तरम् । याज्ञ-
वल्क्यः ।
“श्रुतार्थस्योत्तरं लेख्यं पूर्ब्बावेदकसन्निधौ ॥”
लेख्यमिति वाक्यस्याप्युपलक्षकम् ॥ * ॥ उत्तर-
स्वरूपं तद्भेदांश्चाह नारदः ।
“पक्षस्य व्यापकं सारमसन्दिग्धमनाकुलम् ।
अव्याख्यागम्यमित्येवमुत्तरं तद्बिदो विदुः ॥
मिथ्यासंप्रतिपत्तित्वं प्रत्यवस्कन्दनन्तथा ।
प्राङ्न्यायाश्चोत्तराः प्रोक्ताश्चत्वारः शास्त्र-
वेदिभिः ।
अभियुक्तोऽभियोगस्य यदि कुर्य्यादपह्रवम् ।
मिथ्या तत्तु विजानीयादुत्तरं व्यवहारतः ॥”
पक्षस्य भाषार्थस्य व्यापकं आच्छादकं अभि-
योगप्रतिकूलमिति यावत् । अतएव पूर्ब्बपक्षार्थ-
सम्बन्धं प्रतिपक्षं निवेदयेदित्युक्तम् । न च
विप्रतिपत्त्या न्यायार्थमागतस्य धारयसीत्यभि-
युक्तस्य धारयामीति संप्रतिपत्तेः कथमुत्तरत्वं
अभियोगाप्रतिकूलत्वादिति वाच्यम् । भाषा-
वादिनो मूर्खत्वेनापटुतया वा कदाचिद्भाषाभि-
वादादेवायं हीयते इति भाषाविमर्षपर्य्यन्तं
विप्रतिपन्नस्याप्युत्तरवादिनो भाषार्थं सम्यगवगम्य
तन्निषेधार्थं सम्यगुत्तरासम्भवात् विद्वत्सभायां
चासत्यवचनमत्यन्ताधर्म्मकारकं परोक्तिपराजये
च दण्ड्यत्वं वादिना च वैरमित्यादि प्रतिसन्द-
धतः संप्रतिपत्तेरुत्तरत्वं सम्भवत्येव । एवं एतेभ्य
एवानिस्तारात् साध्यत्वेनोपदिष्टस्य पक्षस्य
सिद्भत्वे नोपन्यासेन साध्यत्वनिवारणात् सिद्ध-
साधनेनापि वादिनः प्रत्यवस्थानाच्चोत्तरत्वं
संप्रतिषत्तेः सिद्धमिति । सारं प्रकृतोपयोगि ।
अनाकुलं पूर्ब्बापरविरोधशून्यम् । अव्याख्या-
गम्यमध्याहारादिकं विनैव प्रतीतं अभियोगस्य
अभियुज्यते इत्यभियोगः सहेतुकं साध्यं तस्या-
पह्नवमित्यर्थः ॥ * ॥ उत्तराभाषमाह कात्यायनः ।
“प्रकृतेन त्वसम्बन्धं अत्यल्पमतिभूरि च ।
पक्षैकदेशव्याप्यैवं तच्च नैवोत्तरं भवेत् ॥
अस्तव्यस्तप्रदव्यापि निगूढार्थं तथाकुलम् ।
पृष्ठ ४/५३७
व्याख्यागम्यमसारञ्च नोत्तरं शस्यते बुधैः ॥”
अस्तव्यस्तपदव्यापि अनन्वितार्थपदव्याप्तमिति
व्यवहारतिलके भवदेवभट्टाः ॥ * ॥ मिथ्योत्तर-
भेदमाहतुः पुनर्व्यासनारदौ ।
“मिथ्यैतन्नाभिजानामि मम तत्र न सन्निधिः ।
अजातश्चास्मि तत्काले इति मिथ्या चतुर्व्वि-
धम् ॥”
मिथ्यैतदिति शब्दतो नाभिजानामीत्यादिकमर्थ-
तोऽपह्नवः । तथा च कात्यायनः ।
“श्रुत्वा भाषार्थमन्यस्तु यदि तं प्रतिषेधति ।
अर्थतः शब्दतो वापि मिथ्या तज्ज्ञेयमुत्तरम् ॥”
त्वं मह्यं धारयसीति प्रतिज्ञायां न गृहीतमिति
शब्दतः । कालविशेषगर्भायां तस्यां सत्यां तदा
नाहं जात इति अर्थतः । देशकालविशेष-
गर्भायां तदा तत्र नाहमासं इत्यप्यर्थतः ।
देशादिमत्यां तच्छून्यायां वा न जानामीत्यर्थत
एव योग्यास्मरणेनार्थतस्तदग्रहणप्रतिपादनात्
अत्र चरमत्रयं ग्रहणावस्कन्दनमुखेन ग्रहणा-
भावप्रतिपादकं सापदेशमिथ्योत्तरमात्रं आद्यं
मिथ्योत्तरमात्रम् ॥ * ॥ बृहस्पतिः ।
“श्रुत्वाभियोगं प्रत्यर्थी यदि तत् प्रतिपद्यते ।
सा तु संप्रतिपत्तिः स्याच्छास्त्रविद्भिरुदाहृता ॥
अर्थिनाभिहितो योऽर्थः प्रत्यर्थी यदि तं तथा ।
प्रपद्य कारणं ब्रूयात् प्रत्यवस्कन्दनं हि तत् ॥
आचारेणावसन्नोऽपि पुनर्लेख्यते यदि ।
सोऽभिधेयो जितः पूर्व्वं प्राङ्न्यायस्तु स उच्यते ॥”
अभियुज्यते इत्यभियोगः । प्रतिपद्यतेऽङ्गी-
करोति । तं साध्यार्थम् । तथा प्रपद्य सत्यत्वे-
नाङ्गीकृत्य । कारणं तत्प्रतिकूलरूपं कारणं
ब्रूयात् तदा तदुत्तरं प्रत्यवस्कन्दनम् । वाद्युक्तस्य
प्रतिकूलत्वेन प्रत्यवस्कन्दनमित्यर्थः । प्रतिपक्षा-
वस्कन्दनात् प्रत्यवस्कन्दनमिति जीमूतवाहनः ॥
तञ्च कारणोत्तरं त्रिविधम् । बलवत् तुल्यबलं
दुर्ब्बलञ्च । तत्र बलवदुत्तरं यथा । त्वत्तः शतं
गृहीतमिति सत्यं किन्तु परिशोधितमिति ।
अत्र उत्तरवादिन एव क्रियानिर्द्देशः । तथा च
नारदः ।
“आधर्य्यं पूर्ब्बपक्षस्य यस्मिन्नर्थवशाद्भवेत् ।
विवादे साक्षिणस्तत्र प्रष्टव्या प्रतिवादिनः ॥”
आधर्य्यं दुर्ब्बलत्वं पूर्ब्बपक्षस्य । ततश्च स्थापक-
साध्यस्य धार्य्यमाणत्वस्य ध्वंसकारणं निर्यात-
नादि तद्रूपमुत्तरं कारणोत्तरम् । अतएव
मिथ्योत्तरादस्य भेदः । तद्धि धार्य्यमाणत्वस्या-
त्यन्ताभावप्रयोजकमग्रहणरूपं न तु ध्वंस-
रूपम् ॥ * ॥ तुल्यबलकारणोत्तरं यथा ।
मदीयेयं भूमिः क्रमागतत्वादिति वाद्युक्ते मदी-
येयं भूमिः क्रमागतत्वादिति प्रतिवादिना
तथोत्तरमिति तत्र पूर्ब्बवादिनः साक्ष्युपन्यासः ।
तदसामर्थ्ये प्रतिवादिनः । तथा च याज्ञवल्क्यः ।
“साक्षिषूभयतः सत्सु साक्षिणः पूर्व्ववादिनः ।
पूर्ब्बपक्षेऽधरीभूते भवन्त्युत्तरवादिनः ॥”
दुर्ब्बलकारणोत्तरं यथा । ममेयं भूः क्रमागत-
त्वादिति वाद्युक्ते ममेयं भूर्द्दशवर्षभुज्यमानत्वा-
दिति प्रत्युत्तरं तत्तु धनमात्रप्रयुक्तम् ।
“पश्यतोऽब्रुवतो हानिर्धनस्य दशवार्षिकी ॥”
इति याज्ञवल्क्यीयं बीजम् ॥
किन्तु नैतद्युक्तम् ।
“परेण भुज्यमानाया भूमेर्व्विंशतिवार्षिकी ॥”
इति भूमिमात्रविषयकं तत्परार्द्धेनापोदित-
त्वादिति भवदेवभट्टाः ॥
“पश्यतोऽब्रुवतो हानिर्भूमेर्व्विंशतिवार्षिकी ।
परेण भुज्यमानाया धनस्य दशवार्षिकी ॥”
इति शूलपाणिधृतपाठोऽपि तत्रार्थे प्रमाणम् ।
ततश्चात्र क्रमागतत्वे पूर्ब्बवादिनः प्रमाणोप-
न्यासः । तथा चोक्तम् ।
“गुरावभिहिते हेतौ प्रतिवादिक्रिया भवेत् ।
दुर्ब्बले वादिनः प्रोक्ता क्रिया तुल्येऽपि वादिनः ॥”
आचारेण व्यवहारेण । अवसन्नो भङ्गी । लेख-
यते भाषामिति शेषः स वादी अस्मिन्नर्थे मया
पूर्ब्बं पराजितः वाच्यः प्राङ्न्यायो हि धार्य्य-
माणत्वसामान्याभावज्ञापकः ॥ * ॥ एतेषां सङ्करे
विशेषमाहतुर्व्यासहारीतौ ।
“मिथ्योत्तरं कारणञ्च स्यातामेकत्र चेदुभे ।
सत्यञ्चापि सहानेन तत्र ग्राह्यं किमुत्तरम् ।
मिथ्याकारणयोर्व्वापि ग्राह्यं कारणमुत्तरम् ॥
यत्प्रभूतार्थविषयं यत्र वा स्यात् क्रियाफलम् ।
उत्तरं तत्तु विज्ञेयमसं कीर्णमतोऽन्यथा ॥”
शताभियोगे शतग्रहणं मिथ्या पञ्चाशदेव
गृहीतास्ताश्च परिशुद्धा इति मिथ्याकारणां-
शयोस्तुल्यरूपत्वे कारणोत्तरं ग्राह्यं आदौ
विचारणीयं परिशोधनस्यार्व्वाचीनत्वेन
स्मरणार्हत्वात् पश्चान्मिथ्योत्तरं तत्र ऋणस्य
चिरातीतस्य कष्टप्रतिपाद्यत्वात् । एवञ्च नव-
त्यभियोगे मिथ्यैतत् षष्टिपुराणा एव मया
गृहीतास्तत्रापि त्रिंशत् परिशुद्धास्त्रिंशद्धार-
यामि इति मिथ्याकारणसत्यैः सङ्कीर्णोत्तरेऽपि
पूर्ब्बवत् कारणोत्तरमेव ग्राह्यं मिथ्याकारणयो-
र्व्वापीति वापिशब्दाभ्यां तथा दर्शितत्वात्
सत्योत्तरस्य स्वयंस्वीकृतत्वेन निर्णयानर्हत्वा-
दिति भावः । प्राङ्न्यायेन सह सर्व्वथैव सङ्क-
रानुपपत्तिरिति तन्नोक्तं यदि शतं मिथ्यापञ्च-
विंशतिपुराणा गृहीतास्ते च परिशुद्धास्तथा
मिथ्यांशस्य प्रचुरार्थविषयस्य विचार उपक्रम-
णीयः । भूयोऽनुरोधस्याभ्यर्हितत्वात् पश्चात्
स्वल्पार्थस्य विचार इति । तुल्यार्थविषयत्वे तु
यत्र क्रियायाः साक्ष्यादेः फलं निर्णयः शीघ्रं
भवति तदंशस्यैव प्रमाणं ग्राह्यं तथा यदि
शतग्रहणे पत्रमस्ति शतापह्नवे च पञ्चाशत्-
परिशोधने साक्षिणस्तदा मिथ्योत्तर एवादौ
तत्खण्डनाय ग्रहनपत्रं ग्राह्यं लिखितस्य
साक्षिभ्यो बलवत्त्वेन सम्यङ्निर्णयकारित्वात्
पश्चात्परिशोधनं साक्षिणः प्रष्टव्याः । सङ्करो-
त्तरमप्यसङ्कीर्णमदुष्टं अतो भिन्नमन्यथा सङ्कीर्ण-
दुष्टमित्यर्थः । अत्र चावच्छेदभेदेन मिथ्योत्तर-
सङ्करे सदुत्तरत्वमेकावच्छेदेन । सङ्करे तु अस-
दुत्तरत्वमाह कात्यायनः ।
“पक्षैकदेशे यत् सत्यमेकदेशे च कारणम् ।
मिथ्या चैवैकदेशे स्यात् सङ्करात् तदनुत्तरम् ॥”
एकदेशे इत्यत्र एकस्मिन्नेव देशे न भिन्नदेशे
यथा शतं धारयाम्येव परिशोधितं न गृहीतं
वा इति ॥ * ॥
अथ क्रियापादः ।
उत्तराभिधानानन्तरं याज्ञवल्क्यः ।
“ततोऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधकम् ।”
अर्थी वादी प्रतिवादी च स्वपक्षार्थित्वात् ।
तयोरधिकारे नियममाह व्यासः ।
“प्राङ्न्याये कारणोक्तौ च प्रत्यर्थी साधयेत्
क्रियाम् ।
मिथ्योत्तरे पूर्व्ववादी प्रतिपत्तौ न सा भवेत् ॥”
मिथ्योत्तरे न गृहीतं मयेत्यादिरूपे पूर्व्ववादी
भाषावादी साक्ष्यादिकं निर्द्दिशेन्नोत्तरवादी तत्र
तस्य मानुष्याः क्रियाया असम्भवादिति न्यायो
मूलं अत्रापि साक्ष्याद्यभावे उत्तरवादिन एव
दिव्यम् ।
“न कश्चिदभियोक्तारं दिव्येषु विनियोजयेत् ।
अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः ॥”
इति कात्यायनोक्तेः ॥
अत्र पूर्व्वार्द्धेनार्थिनो दिव्यनिषेधेऽर्थात् प्रत्य-
र्थिनस्तत्प्राप्तौ परार्द्धाभिधानं सिद्धे सत्यारम्भो
नियमाय इति न्यायान्नियमार्थं न च व्यासवचने
क्रियापदं कारणोत्तरमानुषीदैवीपरमित्येताव-
दथकं मिथ्योत्तरेऽप्यनुयुज्यते इति तत्रापि
अर्थिन एव दिव्यमिति वाच्यं श्रूयमाणपदस्य
हि पुनरन्वयार्थमेवानुषङ्गः । नन्वर्थवैषम्यसहि-
तस्य गौरवात् पूर्व्वोक्तम्यायमूलकविषयलब्धौ
कात्यायनोक्तदिव्यविषयनियमभङ्गानर्हत्वाच्च यत्र
विवादविषये प्रत्यर्थी सन्दिहानस्तत्र तस्योत्तरा-
नर्हतया अर्थिन एव दृष्टक्रिया तदसम्भवे तस्यैव
दिव्यं न तु प्रत्यर्थिनः अधिकारनिश्चयाभावात्
अर्थिनस्तत्सत्तात् न च न कश्चिदभियोक्तार-
मित्यादिना विरोधस्तस्योत्तरार्हप्रतियोगिविषय-
त्वात् एतद्विषय एव धनस्वामिनो दिव्यमिति
लोकप्रवादः ॥ * ॥ लिखिताद्यभावेनापि दिव्य-
माह याज्ञवल्क्यः ।
“प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्त्ति-
तम् ।
एषामन्यतमाभावे दिव्यान्यतममुच्यते ॥” * ॥
अथ दिव्यम् । दिव्यान्याह स एव ।
“तुलाग्न्यापो विषं कोषो दिव्यानीह विशुद्धये ।
महाभियोगेष्वेतानि शीर्षकस्थेऽभियोक्तरि ॥
रुच्या वान्यतरः कुर्य्यादितरो वर्त्तयेच्छिरः ।
विनापि शीर्षकं कुर्य्यात् नृपद्रोहेऽथ पातके ॥”
महाभियोगेषु महापातकादिगुरुतराभियोगेषु ।
शीर्षकस्थः शीर्षकं प्रधानं व्यवहारस्य चतुर्थ-
पादो जयपराजयलक्षणः तेन दण्डो लक्ष्यते ।
तत्र तिष्ठति वर्त्तते तदङ्गीकरोतीत्यर्थः । अत्राभि-
पृष्ठ ४/५३८
योक्तुः शिरोवर्त्तित्वोक्तेरभियोज्यस्य दिव्यकर्त्तृत्वं
प्रतीयते । प्रत्यर्थीच्छया अर्थिनो दिव्यमाह
रुच्येति । इतरोऽभियुक्तः । एतत्सर्व्वं दिव्यतत्त्वे
विवृतम् । प्रतिज्ञातार्थसाधकमिति साधकं
साक्ष्यादिकम् । तदाह बृहस्पतिः ।
“द्विप्रकारा क्रिया प्रोक्ता मानुषी दैविकी तथा ।
साक्षिलेख्यानुमानञ्च मानुषी त्रिविधा स्मृता ।
धटाद्या धर्म्मजान्ता च दैविकी नवधा स्मृता ॥”
तत्रानुमानन्तु भुक्त्यादि ॥ * ॥ तत्र साक्ष्यमाह
मनुः ।
“समक्षदर्शनात् साक्ष्यं श्रवणाच्चैव सिध्यति ।”
एतत् प्रमाणमात्रोपलक्षणम् ।
“अनुभावी च यः कश्चित् कुर्य्यात् साक्ष्यं
विवादिनाम् ।”
इति तद्वचनान्तरात् ॥
अतएवाकृतमपि साक्षिणमाह मनुः ।
“यत्रानिरुद्धो वीक्ष्येत शृणुयाद्बापि किञ्चन ।
पृष्टस्तत्रापि तद्ब्रूयात् यथादृष्ठं यथाश्रुतम् ॥”
अनिरुद्धस्त्वमत्र साक्षित्वेनानियुक्तः । परम्पर-
यापि श्रवणमाह विष्णुः ।
“उद्दिष्टसाक्षिणि मृते देशान्तरगतेऽपि वा ।
तदभिहितश्रोतारः प्रमाणं नात्र संशयः ॥”
अस्योत्तरसंज्ञामाह नारदः ।
“साक्षिणामपि यत् साक्ष्यं स्वपक्षं परिभाषताम् ।
श्रवणात् श्रावणाद्बापि स साक्ष्युत्तरसंज्ञकः ॥”
स्वपक्षसम्बन्धि साक्ष्यं परिभाषतां साक्षिणां यः
स्वयं शृणोति अर्थिना श्राव्यते वा स श्रवणात्
श्रावणादुत्तरसाक्षीत्यर्थः । एवं योऽर्थिना गूढ-
तया प्रत्यर्थिवचनं श्रावितः स गूढसाक्षीत्याह
स एव ।
“अर्थिना स्वार्थसिद्ध्यर्थं प्रत्यर्थिवचनं स्फुटम् ।
यः श्राव्यते तदा गूढो गूढसाक्षी स उच्यते ॥”
तेनान्यतरवाद्यभिहितार्थविषयकदृष्टकारणजं
विज्ञापनं साक्ष्यमिति स्थितम् । तत्र नारदः ।
“तेषामपि न बालः स्यान्नैको न स्त्री न दुष्ट-
कृत् ।
न बान्धवो न चारातिर्ब्रूयुस्ते कार्य्यमन्यथा ॥”
कार्य्यं सदपि अन्यथा तद्विरुद्धत्वेन । एवञ्च
यदि परमधार्म्मिकत्वेन बान्धवादीनामपि सत्य-
वादित्वं निश्चीयते तदा तेऽपि साक्षिणो भवितु
मर्हन्तीति । तेषां साक्ष्यविधायकं वक्ष्यमाण-
मनुवचनमपि एतादृग्विषयम् । याज्ञवल्क्यः ।
“त्र्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्त्तक्रिया-
रताः ।
यथाजाति यथावर्णं सर्व्वे सर्व्वषु वा स्मृताः ॥”
त्रयोऽवरा निकृष्टा येषां ते त्र्यवराः त्रिभ्यो-
ऽन्यूना भवन्तीत्यर्थः । यथेति यो यज्जातीयस्तस्य
तज्जातीयः साक्षी । स्त्रीणां स्त्रियोऽन्त्यजानाम-
न्त्यजाः । यथावर्णं ब्राह्मणानां ब्राह्मणाः
क्षत्त्रियादीनां क्षत्त्रियादयः । अभावे तु तत्त-
द्भेदं विना सर्व्व एव । त्र्यवरा इत्यस्यापवाद-
माह स एव ।
“उभयानुमतः साक्षी भवेदेकोऽपि धर्म्मवित् ।”
उभयानुमतत्वं धर्म्मवित्त्वञ्च नियतं तन्त्रम् ।
तदाह विष्णुः । अभिमतगुणसम्पन्नस्तूभयानु-
मतस्त्वेकोऽपि इति । अतएव श्रोत्रियमप्येकं
निषेधयति बृहस्पतिः ।
“नव सप्त पञ्च वा स्युश्चत्वारस्त्रय एव वा ।
उभौ तु श्रोत्रियौ ग्राह्यौ नैकं पृच्छेत् कदा-
चन ॥”
एको मिलितगुणसम्पन्नः प्रघानकल्पः तदभावे
उभयानुमतमात्रोऽपि ग्राह्यस्तदाह नारदः ।
“उभयानुमतो यः स्याद्द्वयोर्व्विवदमानयोः ।
भवत्येकोऽपि साक्षित्वे प्रष्टव्यः स्यात् स संसदि ॥”
उभयानुमत एकोऽलुब्धत्वादिना सर्व्वजनप्रसिद्ध-
श्चेत्तदा साक्षित्वे संसदि बहुजनसन्निधौ प्रष्टव्यः
तथात्वे स्नेहवैरादिसत्त्वेऽप्यकीर्त्तिभयात् सत्या-
भिधानसम्भवादित्याशयः । विचारस्य तत्त्व-
निर्णयार्थत्वात्तदाह मनुः ।
“एकोऽप्यलुब्धः साक्षी स्यात् बह्व्यः शुच्योऽपि
न स्त्रियः ।
स्त्रीबुद्धेरस्थिरत्वात्तु दोषैश्चान्येऽपि ये वृताः ॥”
एकोऽलुब्धस्तु साक्षी स्यादिति कुल्लूकभट्टधृत-
पाठः ॥ एको लुब्धस्त्वसाक्षी स्यादिति जीमूत-
वाहनधृतपाठस्तु न युक्तः । लुब्धाश्चेद्बहवो-
ऽप्यसाक्षिणो भवितुमर्हन्तीति एकपदव्यर्थता-
पत्तेः । भवतु वा तत्पाठः तथाप्येक इत्यनुरोधात्
तन्निषेधमुखेनालुब्धस्यैकस्यानुमतिसत्त्वे धर्म्म-
वित्त्वमन्तरेण साक्षित्वं बोध्यं इत्यर्थतो न
विरोधः । अतएव विश्वरूपप्रभृतीनां उभयानु-
भत एक एव साक्षीति व्याख्याने धर्म्मवदिति
नोक्तम् । दोषैस्तेयादिभिः । तथा च नारदः ।
“स्तेनाः साहसिका धूर्त्ताः कितवा योधकाश्च
ये ।
असाक्षिणस्तु ते दृष्टास्तेषु सत्यं न विद्यते ॥”
कितवा द्यूतकराः ॥ * ॥ अपवादमाह उशनाः ।
“दासोऽन्धो वधिरः कुष्ठी स्त्रीबालस्थविरादयः ।
एतेऽप्यनभिसम्बन्धाः साहसे साक्षिणो मताः ॥”
स्थविरो ग्लानेन्द्रियग्रामः । आदिशब्दात् कित-
वादयः । उभयानुमताभावे शुचिक्रियत्वादि-
गुणश्चैको ग्राह्यः । तथा च व्यासः ।
“शुचिक्रियश्च धर्म्मज्ञो योऽन्यत्राप्यनुभूतवाक् ।
प्रमाणमेकोऽपि भवेत् साहसेषु विशेषतः ॥”
अनुभूतवाक् स्थानान्तरे सत्यत्वेनेति । भवदेव-
भट्टोऽप्येवम् ॥ साहसमाह नारदः ।
“मनुष्यमारणं स्तेयं परदाराभिमर्षणम् ।
पारुष्यमनृतञ्चैव साहसं पञ्चधा स्मृतम् ॥”
कात्यायनः ।
“अभ्यन्तरस्तु निःक्षेपे साक्ष्यमेकोऽपि दापयेत् ।
अर्थिना प्रहितः साक्षी भवेदेकोऽपि याचिते ॥
संस्कृतं येन यत् पण्यं तत्तेनैव विभावयेत् ।
एक एव प्रमाणं स विवादे परिकीर्त्तितः ॥”
संस्कृतं गठितं पण्यं कुण्डलादि । विष्णुः ।
स्तेयसाहसवाग्दण्डपारुष्यसंग्रहणेषु साक्षिणो
न परीक्षा इति स्तेयपरदारगमनादिकार्य्याणां
निह्रवेनैव क्रियमाणत्वात् दैवादेव परं साक्षिणो
भवन्तीति न परीक्षा इत्युक्तम् । तेषां वाक्यन्तु
मित्रारिभावादिनिरूपणेनैवोपपत्त्यनुपपत्ति-
भ्यामालोचनीयम् । न तु वाक्यमात्रादिति
व्यवहारमातृका ॥ अतएव कात्यायनः ।
“ऋणादिषु परीक्षेत साक्षिणः स्थिरकर्म्मसु ।
साहसात्ययिकेनैव परीक्षा कुत्रचित् स्मृता ॥”
इति ॥ * ॥
श्रोत्रियादीनामसाक्ष्यमांह नारदः ।
“श्रोत्रियास्तापसा वृद्धा ये च प्रव्रजिता
नराः ।
वचनात्तेष्वसाक्षित्वं नात्र हेतुरुदाहृतः ॥”
दानरत्नाकरे श्रोत्रियमाह देवलः ।
“एकां शाखां सकल्पां वा षड्भिरङ्गैरधीत्य
वा ।
षट्कर्म्मनिरतो विप्रः श्रोत्रियो नाम धर्म्मवित् ॥”
सकल्पां कल्पमात्राङ्गसहिताम् । षड् भिरिति
सहार्थे तृतीया । वचनादिति श्रोत्रियत्वादि-
रूपाभिधानात् न च तत्रान्यो हेतुरित्यर्थः ।
तथा च स्वीयवैदिककर्म्मकरणव्यग्रतया पर-
कीयकार्य्ये विस्मरणसम्भवात् साक्षित्वरूपलघु-
कार्य्यनियोगे तच्छापभयेन व्यवहारद्रष्टारोऽपि
तान् न पृच्छन्तीति तत्साक्ष्यकरणानर्थक्याच्च न
ते साक्षिणः कर्त्तव्याः किन्त्वकृताः स्वयं
साक्षिणो भवन्त्येव । उभौ तु श्रोत्रियौ स्याता-
मिति स्मृतेः । वृद्धस्यासाक्षित्वं वृद्धत्वादेव
ग्लानेन्द्रियत्वादित्यर्थः । मनुः ।
“स्त्रीणां साक्ष्यं स्त्रियः कुर्य्युर्द्विजानां सदृशा
द्विजाः ।
शूद्राश्च सन्तः शूद्राणामन्त्यानामन्त्ययोनयः ॥
अन्तर्व्वेश्मन्यरण्ये वा शरीरस्यात्ययेऽपि च ।
स्त्रियाप्यसम्भवे कार्य्यं बालेन स्थविरेण वा ॥
शिष्येण बन्धुना वापि दासेन भृतकेन वा ।
देवब्राह्मणसान्निध्ये साक्ष्यं पृच्छेदृतं द्विजान् ॥
उदङ्मुखान् प्राङ्मुखान् वा पूर्ब्बाह्णे वै शुचिः
शुचीन् ।
ब्रूहीति ब्राह्मणं पृच्छेत् सत्यं ब्रूहीति पार्थिवम् ॥
गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्व्वैस्तु पातकैः ॥”
गोबीजकाञ्चनापहारे यत् पापं तत्तवानृताभि-
धाने स्यादिति वैश्यम् । एतत्साक्ष्यानृताभिधाने
भवान् सर्व्वैः पातकैः संवध्यत इत्युक्त्वा शूद्रञ्च
पृच्छेत् ।
“ब्रह्मघ्नो ये स्मृता लोका ये च स्त्रीबालघातिनः ।
मित्रद्रुहः कृतघ्नस्य ते ते स्युर्व्वदतो मृषा ॥”
इति मनूक्तं दूषणम् । सत्फलञ्च ।
“अश्वमेधसहस्रन्तु सत्यञ्च तुलया धृतम् ।
अश्वमेधसहस्राद्धि सत्यमेवातिरिच्यते ॥”
इति मनुनारदोक्तं श्रावयेत् ॥
याज्ञवल्क्यः ।
“न ददाति हि यः साक्ष्यं जानन्नपि नराधमः ।
स कूटसाक्षिणां पापैस्तुल्यो दण्डेन चैव हि ॥”
पृष्ठ ४/५३९
कात्यायनः ।
“अवीचिनरके वर्षं वसेयुः कूटसाक्षिणः ॥” * ॥
याज्ञवल्क्यः ।
“सत्यां प्रतिज्ञां यस्योचुः साक्षिणः स जयी
भवेत् ।
अन्यथावादिनो यस्य ध्रुवस्तस्य पराजयः ॥
वर्णानां हि वधो यत्र तत्र साक्ष्यनृतं वदेत् ।
तत्पावनाय निर्व्वाप्यश्चरुः सारस्वतो द्बिजैः ॥”
गौतमः । नानृतवचने दोषो जीवनञ्चेत्तदवीनं
न तु पापीयसो जीवनमिति ।
“द्वैधे बहूनां वचनं समेषु गुणिनां तथा ।
गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तराः ॥”
तेषामिति शेषः । यत्तु ।
“साक्षिणां लिखितानाञ्च निर्द्दिष्टानाञ्च वादि-
नाम् ।
तेषामेकोऽन्यथावादी भेदात् सर्व्वेऽप्यसाक्षिणः ॥”
इति कात्यायनवचनम् ॥
तत्त्रयाणां तुल्यरूपाणां मध्ये एकस्याप्यन्यथा-
वादे अपरस्य तत्तुल्यस्य तत्प्रतिपक्षतया तृती-
यस्य किञ्चिद्वादित्वे तत्र भेदात् परस्पर-
विरुद्धार्थाभिधाने भेदात् साक्षिभ्यो न निर्णय
इति परम् । बृहस्पतिस्तु साक्षिद्वैधे कर्म्म-
निष्ठानां ग्रहणमाह गुणिद्वैधे क्रियावता-
मित्यनेन । तथा ।
“साक्षिणोऽर्थिसमुद्दिष्टान् सत्सु दोषेषु
दोषयेत् ।
अदुष्टं दूषयन् वादी तत्समं दण्डमर्हति ॥”
इति ॥
तत्समं विवादसमम् । सभासदादिविदितसाक्षि-
दूषणमेव ग्राह्यं न तु त्र्यवरादिसाक्षिभिः प्रति-
पाद्यम् ॥ * ॥ अनवस्थापातादित्याह नारदः ।
“सभासदां प्रसिद्धं यल्लोकसिद्धमथापि वा ।
साक्षिणां दूषणं ग्राह्यमसाध्यं दोषवर्जनात् ॥
अन्यैश्च साक्षिभिः साध्ये दूषणे पूर्व्वसाक्षिणाम् ।
अनवस्था भवेद्दोषस्तेषामप्यन्यसम्भवात् ॥”
असाध्यं साधनानर्हं सिद्धत्वाद्दोषवर्जनात् । अन-
वस्थाविरहात्तस्मात् प्रसिद्धदूषणमेव ग्राह्यम् ॥ *
दूषणमाह कात्यायनः ।
“बालोऽज्ञानादसत्यात् स्त्री पापाभ्यासाच्च
कूटकृत् ।
विब्रूयात् बान्धवः स्नेहात् वैरनिर्यातनादरिः ॥
यः साक्षी नैव निर्द्दिष्टो नाभूतो नैव दर्शितः ।
ब्रूयान्मिथ्येति तथ्यं वा दण्ड्यः सोऽपि नराधमः ॥”
यदुत्तरे येन क्रिया प्रदृश्यते तत्राह ।
“मिथ्याक्रिया पूर्व्ववादे कारणे प्रतिवादिनः ।
प्राङ्न्याये विधिसिद्धौ तु जयपत्रं विनिर्द्दिशेत् ॥”
मिथ्योत्तरे सति पूर्व्ववादे पूर्व्ववादिनि क्रिया
प्रष्टव्या इति शेषः ॥ * ॥ तदानीं सन्धिमाह
बृहस्पतिः ।
“पूर्व्वोत्तरेऽभिलिखिते प्रक्रान्ते कार्य्यनिर्णये ।
द्वयोरुत्तप्तयोः सन्धिः स्यादयःपिण्डयोरिव ॥”
उत्तापकारणमाह स एव ।
“साक्षिसभ्यविकल्पस्तु भदेद्यत्रोभयोरपि ।
दोलायमानौ यौ सन्धिं कुर्य्यातां तौ विच-
क्षणौ ॥”
कात्यायनः ।
“क्रिया न दैविकी प्रोक्ता विद्यमानेषु साक्षिषु ।
लेख्ये च सति वादेषु न दिव्यं न च साक्षिणः ।
समत्वं साक्षिणां यत्र दिव्यैस्तत्र विशोधयेत् ॥”
एतत् संशयानुच्छेदे बोध्यम् । याज्ञवल्क्यः ।
“निह्नुते लिखितानेकमेकदेशे विभावितः ।
दाप्यः सर्व्वान् नृपेणार्थान्न ग्राह्यस्त्वनिवेदितः ॥”
यो लिखितानेकं सुवर्णादिकं अपलपति स एक-
द्रव्ये साक्ष्यादिभिर्व्विभावितः सन् सर्व्वान्
दद्यात् । यद्येकदेशविभावनेन वादिनोऽवसाद-
मवगम्य इदमपरं मया लेखयितुं विस्मृतमिति
ब्रूते स तस्मै भाषाकाले अनुपन्यस्तं न दद्यादे-
तच्च न केवलं वाचनिकं किन्त्वेकदेशविभावना-
द्विजानत एवास्य तदपलापे दुःशीलत्वावधार-
णादपरांशेऽपि तथात्वमेव सम्भाव्यते सत्यविभा-
वकस्यापि प्रक्रान्तविषये यथा वस्तुवादावधार-
णादविभावितांशेऽपि सत्यवादित्वसम्भावनमि-
त्येवं रूपतर्कपरम्परा सम्भावना प्रत्ययानुगृही-
तास्मादेव योगीश्वरवचनात् सर्व्वं दापनीयमिति
निर्णयः । एवञ्च तर्कवाक्यानुसारेण निर्णये
क्रियमाणे वस्तुनोऽन्यथात्वेऽपि व्यवहारदर्शिनां
न दोषः । तथा च गौतमेनापि न्यायाधिगमे
तर्कोऽभ्युपायः तेनापि संगृह्य यथास्थानं गमये-
दित्युक्त्वा तस्माद्राजाचार्य्यावनिन्द्यावित्युपसंहृ-
तम् । एवञ्चास्य न्यायस्य वादिद्वयसाधारणत्वा-
दुभयविषयत्वं वचनानाम् । अतएव कात्या-
यनः ।
“यद्येकदेशप्राप्तापि क्रिया विद्येत मानुषी ।
सा ग्राह्या न तु पूर्णापि दैविकी वदतां नृणाम् ॥”
वदतां विवदतामित्यविशेषेण दर्शयति । पूर्णापि
दैविकी समग्रविषयिकापि न ग्राह्या तेनैक-
देशप्रतिपादिकया मानुष्या क्रियया समस्त-
साध्यसिद्धिरिति । न च यद्येषां मध्ये एकमपि
मया गृहीतं विभावयसि तदा सर्व्वमेव दातव्य-
मिति । प्रतिज्ञाविषयकत्वमेकदेशविभावितत्वं
वचनस्येति जोग्लोकमतानुसारिमैथिलमतं
युक्तमिति वाच्यं प्रतिज्ञाविषयत्वे ।
“अनेकार्थाभियुक्तेन सर्व्वार्थव्यपलापिना ।
विभावितैकदेशेन देयं यदभियुज्यते ॥”
इत्यनर्थकं प्रौढिवादेनाभियुज्य मानादधिक-
स्यापि प्रतिज्ञातस्य दानावकश्य कत्वात् न
ग्राह्यस्त्वनिवेदित इत्यपि व्यर्थं अनिवेदितस्यापि
प्रागज्ञातत्वेनाप्रतिज्ञातस्य सर्व्वथैव देयत्वात् ।
न च विभावितैकदेशवचनं व्याप्यभूतैकदेश-
विषयं तस्मिंस्तु प्रतिपादिते व्यापकैकदेशप्रतीति-
रनुमानात् सम्भवतीति वाच्यं विभावितैक-
देशानुमितव्यापकस्यापि न्यायतोऽग्राह्यत्वे सिद्धे
न ग्राह्यस्त्वनिवेदित इत्यभिधानानुपपत्तेः ।
एवञ्च ।
“साध्यार्थांशे निगदिते साक्षिभिः सकलं भवेत्
स्त्रीसङ्गे साहसे चौर्य्ये यत्साध्यं परिकल्पितम् ॥”
इति कात्यायनवचनम् ॥
तद्विषयप्रदर्शकं ऋणनिक्षेपाद्यपह्रवेऽपि योज्य-
मिति । यत्तु ।
“अनेकार्थाभियोगे तु यावत् संशोधयेद्धनी ।
साक्षिभिस्तावदेवासौ लभते साधितं धनम् ॥”
तदृणाद्यनभिज्ञपुत्त्रादिविषयकम् । तथा हि
नानाविधपित्रर्णाद्यभियुक्तेनाजानता नाहं
जानामीति उत्तरवादिना साक्ष्यादिभिर्यावद्धनं
प्रतिपादयति तावदेव पुत्त्रेण दातव्यम् एवमेव
विश्वरूपजीमूतवाहनप्रभृतयः ॥ कात्यायनः ।
“अनुमानाद्वरः साक्षी साक्षिभ्यो लिखितं
गुरु ।
अनिरुद्धा त्रिपुरुषी भुक्तिस्तेभ्यो गरीयसी ॥”
अनुमानं प्रत्यासङ्कलितं तदाह मनुः ।
“वाह्यैर्व्विभावयेल्लिङ्गैर्भावमन्तर्गतं नृणाम् ।
स्वरवर्णेङ्गिताकारैश्चक्षुषा चेष्टितेन च ॥”
स्वरो गद्गदादिः वर्णोऽस्वाभाविकः । इङ्गितं
स्वेदवेपथुरोमाञ्चादि । आकारो विकृतः ।
चक्षुषा कातरेण । चेष्टितेन स्थानत्यागादिना ।
एषाञ्चान्यथासिद्धेर्दुर्निरूप्यत्वादेभ्यः साक्षी
बलवान् इत्यर्थः ॥ * ॥ मुखनिरूप्यत्वे तु याज्ञ-
वल्क्यः ।
“देशाद्देशान्तरं याति सृक्कणी परिलेढि च ।
ललाटं स्विद्यते चास्यं मुखं वैवर्ण्यमेति च ॥
परिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषते ।
वाक् चक्षुः पूजयति नो तथौष्ठौ निर्भु जत्यपि ॥
स्वभावात् विकृतिं गच्छेन्मनोवाक्कायकर्म्मभिः ।
अभियोगे च साक्ष्ये च स दुष्टः परिकीर्त्तितः ॥”
न परोक्तां वाचं प्रतिवचनेन पूजयति तथौष्ठ-
चक्षुश्च परकीयवीक्षणेन निर्भुजति कुटिली-
करोति यदा मनोवाक्कायकर्म्मभिः स्वभावात्
पूर्व्वोक्तां यथायोग्यां विकृतिं गच्छेत्तदा स दुष्ट
इत्यर्थः । अतएव श्रीरामायणे ।
“आकारश्छाद्यमानोऽपि न शक्योऽसौ निगू-
हितुम् ।
बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम् ॥”
आकारो देहधर्म्मः मुखाप्रसादवैवर्ण्यरूपः ।
नारदः ।
“सुदीर्घेणापि कालेन लिखितं सिद्धिमाप्नुयात् ।
संजानन्नात्मनो लेख्यमजानंस्तत्तु लेखयेत् ॥”
सुदीर्घेणेति संस्कारोद्बोधकलिखनसत्त्वादयं
चिरेणापि साक्ष्यं दातुं शक्नोतीत्यर्थः ॥ * ॥
लिपिज्ञं स्वहस्तेन लेखयेत् तदज्ञं परहस्तेनेत्याह
व्यासः ।
“अलिपिज्ञो ऋणी यः स्यात् लेखयेत् स्वमतन्तु
सः ।
साक्षी वा साक्षिणान्येन सर्व्वसाक्षिसमीपगः ॥”
बृहस्पतिः ।
“मुषितं घातितं यच्च सीमायाश्च समन्ततः ।
अकृतोऽपि भवेत् साक्षी ग्रामस्तत्र ने संशयः ॥”
पृष्ठ ४/५४०
अकृता अपि साक्षिणो भवन्तीत्याहतुर्मनु-
कात्यायनौ ।
“अन्ये पुनरनिर्द्दिष्टाः साक्षिणः समुदाहृताः ।
ग्रामश्च प्राड्विवाकश्च राजा च व्यवहारिणाम् ॥
कार्य्येष्वभ्यन्तरो यः स्यादर्थिना प्रहितश्च यः ।
कुल्याः कुलविवादेषु भवेयुस्तेऽपि साक्षिणः ॥”
स्मृतिः
“दत्तादत्तेऽथ भृत्यानां स्वामिनां निर्गमे सति ।
विक्रयादानसम्बन्धे क्रीत्वा धनमनिच्छति ॥
द्यूते समाह्वये चैव विवादे समुपस्थिते ।
साक्षिणः साधनं प्रोक्तं न दिव्यं नच लेख्यकम् ॥
प्रक्रान्ते साहसे वापि पारुष्ये दण्डवाचिके ।
बलोद्भवेषु कार्येषु साक्षिणो दिव्यमेव च ॥”
बृहस्पतिः ।
“लेख्यं वा साक्षिणो वापि विवादे यस्य दूषिताः ।
तस्य कार्य्यं न सिध्येत यावत्तन्न विशोधयेत् ॥”
तल्लख्यसाक्षिरूपप्रमाणम् ॥ * ॥ लेख्यशोधनमाह
कात्यायनः ।
“स्वहस्तलेख्यसन्देहे जीवतो वा मृतस्य च ।
तत्स्वहस्तकृतैरन्यैः पत्रैस्तल्लेख्यनिर्णयः ॥”
तथा ।
“समवेतैश्च यद्दष्टं वक्तव्यं तत्तथैव च ।
विभिन्नेनैव कार्य्ये तु तद्वक्तव्यं पृथक् पृथक् ॥
नापृष्टैरनियुक्तैर्व्वा समं सत्यं प्रयत्नतः ।
वक्तव्यं साक्षिभिः साक्ष्यं विवादस्थानमागतैः ॥
अनुद्विग्नेन चित्तेत दुष्टं सम्यग्विदा तु यत् ।
प्रत्यक्षं तत् स्मृतं कार्य्यं साक्ष्यं साक्षीतुतद्वदेत् ॥”
नारदः ।
“यः परार्थेऽपहरति स्वां वाचं पुरुषाधमः ।
आत्मार्थे किं न कुर्य्यात् स पापी नरकनिर्भयः ॥
अर्था वै वाचि नियता वाङ्मूला वाग्विनिः-
स्मृताः ।
यस्तु तांस्तेनयेद्वाचं स सर्व्वस्तेयकृन्नरः ॥”
बौधायनः ।
“पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।
शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥
हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् ।
सर्व्वं भूम्यनृते हन्ति साक्ष्ये साक्षी मृषा वदन् ॥”
बृहस्पतिः ।
“यस्य शेषं प्रतिज्ञातं साक्षिभिः प्रतिपादितम् ।
स जयी स्यादन्यथा तु साध्यार्थं न समाप्नुयात् ॥”
याज्ञवल्क्यः ।
“उक्तेऽपि साक्षिभिः साक्ष्ये यद्यन्ये गुणवत्तराः ।
द्बिगुणा वान्यथा ब्रूयुः कूटाः स्युः पूर्व्वसाक्षिणः ॥”
अन्यथा पूर्व्वविपरीतार्थप्रकारेण । कूटा अना-
देयवचनाः । तथा ।
“यः साक्ष्यं श्रावितोऽन्येभ्यो निह्नुते तमसावृतः ।
स दाप्योऽष्टगुणं दण्डं ब्राह्मणञ्च विवासयेत् ॥”
त्वमन्येभ्यः साक्ष्यं श्रावयेतिवादिना प्रयुक्तो यः
श्रावितः कारितद्वयात् पदसिद्धिः एवम्भूतोऽपि
सभायां निगदकाले साक्ष्यं निह्नुते यस्तस्याष्ट-
गुणो दण्डः ॥ * ॥
अथ लिखितम् ।
तत्र बृहस्पतिः ।
“षाण्माषिकेऽपि समये भ्रान्तिः संजायते यतः ।
धात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा ॥”
नारदः ।
“लेख्यं तु द्विविधं प्रोक्तं स्वहस्तान्यकृतं तथा ।
असाक्षिकं साक्षिकच्च सिद्धिर्देशस्थितेस्तयोः ॥
मृतास्तु साक्षिणो यत्र धनिकर्णिकलेखकाः ।
तदप्यपार्थकरणमृते त्वाधेः स्थिराश्रयात् ॥
दर्शितं प्रतिकालञ्च पाठितं स्मारितञ्च यत् ।
लेख्यं सिध्यति सर्व्वत्र मृतेष्वपि च साक्षिषु ॥
लेख्ये देशान्तरस्थे च दग्धे दुर्लिखिते हृते ।
सतस्तत्कालहरणमसतो द्रष्टृदर्शनम् ॥
छिन्नभिन्नकृतोन्मृष्टनष्टदुर्लिखितेषु च ।
कर्त्तव्यमन्यलिखितं ह्येष लेख्यविधिः स्मृतः ॥
लेख्यं यच्चान्यनामाङ्कं हेत्वन्तरकृतम्भवेत् ।
विप्रतिपत्तौ परीक्ष्यं तत् सम्बन्धागमहेतुभिः ॥”
स्वलेख्यमसाक्षिकमपि प्रमाणं अन्यद्बारा लेख्यं
साक्षिमदिति यथासंख्येनान्वयः । देशस्थिते-
र्यस्मिन् देशे यादृशलेख्यस्थितिः प्रवर्त्तते तत्र
तादृश्याः । तयोः स्वहस्तान्यहस्तकृतलेख्ययोः ।
मृता इति साक्ष्यादौ मृते पुत्त्रादिसंस्थं लेख्य-
पत्रं न सिध्यति । यद्याधिभोगोऽस्ति तदा तदपि
प्रमाणमित्यर्थः ॥ * ॥ व्यक्तमाह कात्यायनः ।
“यत्र पञ्चत्वमापन्नो लेखकः सह साक्षिभिः ।
ऋणिको धनिकश्चैव नैनं पत्रं प्रमापयेत् ॥”
दर्शितमिति तथाविधमपि पूर्व्वमृणिकादि-
सन्निधौ स्वयमन्येन वा दर्शितं स्मारितं वा
तदपि सिध्यतीत्यर्थः । सतो देशान्तरस्थपत्रस्य
तत्कालहरणं पत्रानयनकालप्रतीक्षणम् । असतो
दग्धादेः तदवलोककोपन्यासः । लेख्यमिति यत्
पत्रं केनापि हेतुना अन्यनामचिह्रितं तत्र
विप्रतिपत्तौ यन्नाम्ना पत्रं तेन सहास्य विश्वास-
हेतुभूतसम्बन्धावगमरूपकारणैर्निर्णेतव्यमिति ।
बृहस्पतिः ।
“सुमृष्टशिशुभीतार्त्तैः स्त्रीमत्तव्यसनातुरैः ।
निशापत्सु बलात्कारैः कृतं लेख्यं न सिध्यति ॥”
व्यासः ।
“दासास्वतन्त्रबालैश्च स्त्रीकृतञ्चैव यद्भवेत् ।
प्रमाणं नैव तल्लेख्यमिति शास्त्रविदो विदुः ॥”
मिताक्षरायां स्मृतिः ।
“पूगश्रेणीगणादीनां या स्थितिः परकीर्त्तिता ।
तस्यास्तु साधनं लेख्यं न दिव्यं न च साक्षिणः ॥”
पूगस्तु ।
“समूहो बणिगादीनां पूगः स परिकीर्त्तितः ।”
इति कात्यायनवचनोक्तः ।
आदिशब्दात् विजातीयलाभः । तेन ग्रामनग-
रादिः । श्रेणी तु सजातीयसमूहः ताम्बूलिक-
कुबिन्दकर्म्मकारकादिः । गण एकक्रियार्थो-
द्यतः । लेख्यस्य चाप्रामाण्यशङ्कायां लेख्य-
ग्राहिणां प्रागुक्तशोधनप्रकारेण तन्निरसनीयं
तत्पुत्त्रेण तु लेख्याधीनो भोग एव उपन्यास्यो
न तु लेख्यमुद्धरणीयम् । तदाह कात्यायनः ।
“आहर्त्ता भुक्तियुक्तोऽपि लेख्यदोषान् विशो-
धयेत् ।
तत्सुतो भुक्तिदोषांस्तु लेख्यदोषांस्तु नाप्नुयात् ॥”
बृहस्पतिः ।
उद्धरेल्लेख्यमाहर्त्ता तत्सुतो भुक्तिमेव हि ।
अभियुक्तः प्रमीतश्चेत् तत्सुतोऽपि तदुद्धरेत् ॥”
अभियुक्त इति लेख्यस्य साधुत्वज्ञापनार्थं अभि-
युक्ते लेख्यग्रहीतरि तदविज्ञाप्यैव मृते तत्पुत्त्रेण
साधुत्वं साध्यमित्यर्थः तत्साधनञ्च स्वहस्तलिख-
नादिनेति प्रागुक्तम् ॥ * ॥
अथ भुक्तिः ।
तत्र याज्ञवल्क्यः ।
“पश्यतोऽब्रुवतो हानिर्भूमेर्व्विंशतिवार्षिकी ।
परेण भुज्यमानाया धनस्य दशवार्षिकी ॥”
विवादमकुर्व्वतः समक्षं भूस्वामिनः परेणासपि-
ण्डादिना भुज्यमानाया भूमेर्व्विंशतिवर्षनिर्वृत्ता
स्वत्वहानिः । अत्र लोकव्यवहारकर्म्मत्वाद्वर्ष-
गणना सावनेन । तथा च विष्णुधर्म्मोत्तरम् ।
“सत्राण्युपास्यान्यथ सावनेन
लौक्यञ्च यत् स्यात् व्यवहारकर्म्म ॥”
तत्रैव ।
“सावने च तथा मासि त्रिंशत् सूर्य्योदयाः
स्मृताः ॥”
विशेषयति व्यासः ।
“वर्षाणि विंशतिर्यस्य भूर्भुक्ता तु परैरिह ।
सति राज्ञि समर्थस्य तस्य सेह न सिध्यति ॥”
समर्थस्य बालत्वादिदोषरहितस्य । धनस्य दश-
वर्षनिर्वृत्ता स्वत्वहानिः । तथा च मनुनारदौ ।
“यत्किञ्चिद्दशवर्षाणि सन्निधौ प्रेक्षते धनी ।
भुज्यमानं परैस्तूष्णीं न स तल्लब्धुमर्हति ॥”
यत्किञ्चित् धनजातं समक्षमेव प्रीत्यादिव्यति-
रेकण परैर्दश वर्षाणि भुज्यमानं स्वामी तूष्णीं
प्रेक्षते मा भुज्यतामिति न प्रतिसिध्यति नासौ
तल्लब्धुं योग्यो भवति तत्र तस्य स्वाम्यं नश्यती-
त्यर्थः । गोतमः । अजडापौगण्डधनं दशवर्ष-
भुक्तं परैः सन्निधौ भोक्तुः इति । जडो विकले-
न्द्रियः पौगण्डः पूतोऽनुत्पन्नश्मश्रुर्गण्डः कपोलो
यस्य सः । तदाह नारदः ।
“बाल आषोडशाद्वर्षात् पौगण्डश्चापि
शब्द्यते ॥”
अत्रापौगण्डः प्रकीर्त्तित इति कुल्लूकभट्टेन
लिखितम् । तत्पाठेऽपि अपौगण्डस्तु पौगण्डः
इति द्विरूपकोषादविरुद्धः । तस्माद्याज्ञ-
वल्क्यादिवचनाद्विंशतिवर्षदशवर्षादिकालैर्भोग
एव स्वत्वं जनयति । यथा । कालप्राप्तिबलेन
बीजमङ्कुरं जनयति तरवश्च कुसुममिति
स्वामिना चापरित्यक्तेऽपि शास्त्रोक्तकालीन-
भोगात् स्वाम्यमन्यस्य भवति । यथा जयेन
राज्ञः परराष्ट्रधने इति । एवमेव श्रीकरबाल-
कजोग्लोकभवदेवभट्टशूलपाणिकुल्लूकभट्टचण्डे-
श्वरमन्त्रिनव्यवर्द्धमानोपाध्यायप्रभृतयः व्यव-
पृष्ठ ४/५४१
हारोऽपि तादृगेव । एतद्विरुद्धवचनान्यथा
व्याख्येयानि ॥ * ॥ तत्रोपेक्षया स्वत्वहानिं भुक्त्या
च स्वत्वमाह नारदः ।
“भुज्यमानान् परैरर्थान् यस्तान्मोहादुपेक्षते ।
स्रमक्षं तिष्ठतोऽप्यस्य तान् भुक्तिः कुरुते वशे ॥”
व्यक्तमाह बृहस्पतिः ।
“स्थावरं सिद्धिमाप्नोति भुक्त्या हानिमुपेक्षया ।”
उपेक्षया क्षमया तत्कारणञ्च स्वामिनः सुशी-
लत्वमहेच्छत्वदयालुत्वादि । एवञ्च विंशतिवर्षात्
पूर्व्वं स्वकृतिसाध्यकर्षणपालनाद्यैरुत्पन्नद्रव्य एव
स्वत्वम् । एवं दशवर्षात् पूर्व्वं स्वकृतिसाध्यदोहन-
पालनाद्यैरुत्पन्नदुग्धादावेव स्वत्वं तत्तत्कालपर-
तस्तु भूमौ गवादिधनेऽपि स्वत्वमिति । पूर्व्वं
तत्तन्नाशकभोगे तु चौर्य्यदोषो भवत्येव । भोगे
तु स्वत्वहानिमाध्यादीनां व्यावर्त्तयति ॥ * ॥
पश्यतोऽब्रुवत इत्यभिधाय याज्ञवल्क्यः ।
“आधिसीमोपनिक्षेपजडबालधनैर्विना ।
तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैरिह ॥”
आधिर्व्वन्धकद्रव्यम् । उपनिक्षेपस्तु वासनस्थ-
मनाख्याय समुद्रं यन्निधीयते इति नारदोक्तः ।
वासनं निक्षेपाधारभूतं सम्पुटादिकम् । समुद्रं
ग्रन्थ्यादियुतम् । जडो बुद्धिविकलः । बालः
अप्राप्तषोडशवर्षः । उपनिधिः प्रीत्या भोगार्थ-
मर्पितः । ततश्च आध्यादिभिर्ज्जडादिधनैश्च
विनान्यानि धनानि उक्तभोगकाले स्वामिनो
नश्यन्ति एतानि तु स्वामिनो न नश्यन्ति न वा
भोक्तुर्भवन्ति । मिताक्षरायां स्मृतिः ।
“द्बारमार्गक्रियाभोगजलवाहादिषु क्रिया ।
भुक्तिरेवं तु गुर्व्वी स्यान्न दिव्यं न च साक्षिणः ॥”
याज्ञवल्क्यः ।
“आगमो ह्यधिको भोगाद्बिना पूर्व्वक्रमागतात् ।
नागमः कारणं तत्र भुक्तिः स्तोकापि यत्र न ॥
आगमस्तु कृतो येन सोऽभियुक्तस्तमुद्धरेत् ।
न तत्सुतस्तत्सुतो वा भुक्तिस्तत्र गरीयसी ॥
योऽभियुक्तः परेतः स्यात्तस्य रिक्थी तमुद्धरेत् ।
न तत्र कारणं भुक्तिरागमेन विना कृता ॥”
भूम्यादावागमः पूर्व्वपुरुषक्रमानागतभोगाद्-
बलवान् अतः क्रमागतभोग आगमाद्बलवान् ।
तथा च बृहस्पतिः ।
“अनुमानात् गुरुः साक्षी साक्षिभ्यो लिखितं
गुरु ।
अव्याहता त्रिपुरुषी भुक्तिस्तेभ्यो गरीयसी ॥”
त्रिपुरुषमोगमाह व्यासः ।
“प्रपितामहेन यद्भुक्तं तत्पुत्त्रेण विना च तम् ।
तौ विना यस्य पित्रा च तस्य भोगस्त्रिपूरुषः ॥
पिता पितामहो यस्य जीवेच्च प्रपितामहः ।
त्रयाणां जीवतां भोगो विज्ञेयस्त्वेकपूरुषः ॥”
आगमोऽपि बलवान्न भवति यत्र स्तोकापि
भुक्तिर्नास्ति । तथा च नारदः ।
“विद्यमानेऽपि लिखिते जीवत्स्वपि च साक्षिषु ।
विशेषतः स्थावराणां यन्न भुक्तं न तत् स्थिरम् ॥”
इति दीपकलिका ॥
यत्र वादिनौ स्वस्वागमबलप्रवृत्तौ आगमयोश्च
पूर्व्वापरभावो नास्ति तत्र यस्य भुक्तिस्तस्यागमो
बलीयान् न त्वन्यस्येत्यर्थः इति मिताक्षरा ॥
अर्थाद्यत्रागमपौर्व्वापर्य्यनिश्चयस्तत्र ।
“सर्व्वेष्वेव विवादेषु बलवत्युत्तरा क्रिया ।
आधौ प्रतिग्रहे क्रीते पूर्व्वा तु बलवत्तरा ॥”
इति याज्ञवल्क्यवचनान्निर्णयः ।
आगमस्त्विति आ सम्यक् गम्यते प्राप्यते स्वीक्रि-
यते येन स आगमः क्रयादिरिति व्यवहार-
मातृका ॥ आगमः साक्षिपत्रादिकमिति दीप-
कलिका ॥ आगमो धनोपार्ज्जनोपायः क्रयादि-
रिति मैथिलाः ॥ तत्रान्येनाभियुक्तस्तत्कूटता-
मुद्धरेत् तत्पुत्त्रपौत्त्रौ नागममुद्धरेतां किन्तु भुक्ति-
रेव । तत्र प्रमाणं विशेषयति बृहस्पतिः ।
“आहर्त्ता शोधयेत् भुक्तिमागमञ्चापि संसदि ।
तत्सुतो भुक्तिमेवैकां पौत्त्रादिषु न किञ्चन ॥”
इदं शूलपाणिधृतं तत्पुत्त्रादिर्न किञ्चनेति
मैथिलधृतम् । आहर्त्ता अर्जनकर्त्ता अत्र पुत्त्रस्य
मुक्तिशोधनमात्रम् ॥ * ॥ भुक्तिशोधनमाहतु-
र्व्यासकात्यायनौ ।
“सागमो दीर्घकालश्च निश्छिद्रोऽन्यरवोज्झितः ।
प्रत्यर्थिसन्निधानञ्च भोगः पञ्चाङ्ग इष्यते ॥”
इष्यते प्रमाणत्वेन । सागमः क्रयादियुक्तः ।
एष च भूमिविषयकविंशतिवर्षधनविषयकदश-
वर्षान्यूनकालभोगपरः । योऽभियुक्त इत्यादि
यो भोगे क्रियमाणे परेणाभियुक्तः सन् परेतो
मृतः स्यान्नागममुद्धृतवान् तदा तत्पुत्त्रादि-
रागममुद्धरेत् । तथा च नारदः ।
“अथारूढविवादस्य प्रेतस्याव्यवहारिणः ।
पुत्रेण सोऽर्थः संशोध्यो न तु भोगो निवर्त्तयेत् ॥”
विवादे सति शेषः । भोगः केवलभोगः । तथा
च स एव । आदौ तु कारणं दानं मध्ये
भुक्तिस्तु सागमा इति एष सविवादभोगः
षष्ट्यब्देतरपरः । तथाविधभोगस्यागमं विनापि
प्रामाण्यात् । तथा व्यासः ।
“वर्षाणि विंशतिं भुक्त्वा स्वामिना व्याहता सती ।
भुक्तिः सा पौरुषी भूमेर्द्विगुणा तु द्विपौरुषी ।
त्रिपौरुषी तु त्रिगुणा न तत्रान्वेस्य आगमः ॥”
एतद्वचनमसमक्षभोगविषयकमिति समक्ष-
विंशतिवर्षाभोगविषयकवचनेनाविरोधः । एता-
दृक् स्मृत्युक्तकाल एव । कात्यायनः ।
“स्मार्त्तकाले क्रिया भूमेः सागमा भुक्तिरिष्यते ।
अस्मार्त्ते त्वागमाभावात् क्रमात्त्रिपुरुषागता ॥”
षष्ठिवर्षैकपुरुषभुक्तौ त्रिपुरुषभुक्तिव्यपदेशस्य
फलमाह न तत्रेत्यादि । अतएव नारदः ।
“अन्यायेन तु यद्भुक्तं पित्रा पूर्ब्बतनैस्त्रिभिः ।
न तत् शक्यमपाकर्त्तुं क्रमात्त्रिपुरुषागतम् ॥”
अन्यायेनेत्यत्रानागममिति शूलपाणिधृतपाठः ।
तुरप्यर्थः । पित्रा सह पितरमादाय त्रिभिरि-
त्यर्थः । यत्तु ।
“अनागमन्तु यो भुङ्क्ते बहून्यब्दशतानि च ।
चौरदण्डेन तं पापं दण्डयेत् पृथिवीपतिः ॥”
इति तस्य वचनं दण्डविधायकं न तन्मुख्यार्थपरं
धर्म्मशास्त्रविरोधात् । तदाह स एव ।
“यत्र विप्रतिपत्तिः स्यात् धर्म्मशास्त्रार्थ-
शास्त्रयोः ।
अर्थशास्त्रार्थमुत्सृज्य धर्म्मशास्त्रार्थमाचरेत् ॥”
एवमेव शूलपाण्युपाध्यायाः । वस्तुतस्तु अना-
गममिति दण्डविधायकवचनं स्त्रीधननृपधन-
परम् ।
“स्त्रीधनञ्च नृपेन्द्राणां न कदाचन जीर्य्यति ।
अनागमं भुज्यमानमपि वर्षशतैरपि ॥”
इति स्वत्वनिषेधकवचनान्तरैकवाक्यत्वात् । तत्र
विप्रतिपत्तिः स्यादिति वचनस्याप्येतदुदाहर-
णम् । यत्रैकस्य जयेऽवधार्य्यमाणे मित्रलब्धि-
रपरस्य जयेऽवधार्य्यमाणे धर्म्मलब्धिस्तत्र ।
“हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्व्वरा
यतः ।
अतो यतेत तत्प्राप्ताविति वेदविदां मतम् ॥”
इति याज्ञवल्क्योक्तार्थशास्त्रार्थमुत्सृज्य क्रोध-
लोभविवर्ज्जित इति धर्म्मशास्त्रार्थमवलम्ब्य
व्यवहारं पश्येत् । अतएव सभ्येनावश्यवक्तव्यं
धर्म्मार्थसहितं वचः । इति कात्यायनोक्तम् ।
भवदेवभट्टास्तु व्यासवचनं प्रतिवादिनोऽसन्नि-
धाने पुरुषैकद्वयभोगाभिप्रायम् । त्रैपुरुषभोगस्य
तत्रैव प्रमाणत्वादित्याहुः ॥
अथ भुक्तिस्वत्वापवादः ।
बृहस्पतिः ।
“भुक्तिस्त्रैपुरुषी सिध्येदपरेषां न संशयः ।
अनिवृत्ते सपिण्डत्वे सकुल्यानां न सिध्यति ॥
अस्वामिना च तद्भुक्तं गृहक्षेत्रापणादिकम् ।
सुहृद्बन्धुसकुल्यस्य न तद्भोगेन हीयते ॥
विवाह्यश्रोत्रियैर्भुक्तं राज्ञामात्यैस्तथैव च ।
सुदीर्घेणापि कालेन तेषां तत्तु न सिध्यति ॥”
आपणो विक्रयस्थानं विवाह्यो जामाता ॥ * ॥
अथ युक्तिः ।
नारदः ।
“उल्काहस्तोऽग्निदो ज्ञेयः शस्त्रपाणिश्च
घातकः ।
केशकेशि गृहीतश्च युगपत् पारदारिकः ॥
कुद्दालपाणिर्विज्ञेयः सेतुभेत्ता समीपगः ।
तथा कुठारहस्तश्च वनच्छेत्ता प्रकीर्त्तितः ॥
प्रत्यक्षचिह्रैर्विज्ञेयो दण्डपारुष्यकृन्नरः ।
असाक्षिप्रत्यया ह्येते पारुष्ये तु परीक्षणम् ॥”
प्रत्यक्षचिह्रैः रुधिराक्तखड्गादिभिः । पारुष्ये
वाक्पारुष्ये । शङ्खः । लोप्तहस्तश्च चौर इति ।
नारदः ।
“अभीक्ष्णं देश्यमानोऽपि प्रतिहन्यान्न तद्बचः ।
त्रिचतुःपञ्चकृत्वो वा परतोऽर्थं तमावहेत् ॥”
यदा धनिकेनाधमर्णिकस्त्रिचतुःपञ्चकृत्वो वा त्वं
मे ऋणं धारयसीति पुनः पुनर्देश्यमानोऽपि न
तद्बाक्यं प्रतिहन्ति तदोत्तरकालमनेनाभ्युपगतो-
ऽयमर्थ इत्यवधर्य्य तमर्थमृणिकाय दापये-
दित्यर्थः ॥ * ॥
पृष्ठ ४/५४२
अथ शपथः ।
नारदः ।
“युक्तिष्वप्यवसन्नासु शपथैरेनमर्द्दयेत् ।
अर्थकालवलापेक्षमग्न्यम्बुसुकृतादिभिः ॥”
एनं विचार्य्यमाणमर्थं अर्द्दयेत् पीडयेन्निर्णये-
दित्यर्थः । अर्थस्य विवादास्पदस्य बलं बह्वल्प-
भावः कालस्य च बलं पुण्यापुण्यत्वं तदपेक्षं
यथा स्यादित्यर्थः । भूदूर्व्वाकरत्वस्य पुत्त्रादि-
शिरःस्पर्शस्य चाग्रे दर्शनीयत्वात् । अत्र मयै-
तत् कृतं न वेति प्रतिज्ञामुच्चार्य्याग्नौ जले वा
हस्तं प्रक्षिपेत् । एतन्मिथ्यात्वे मम सुकृतं
नश्येदिति वा ब्रूयात् । न त्वग्निपरीक्षां जल-
परीक्षां वा कुर्य्यात् इत्यभिप्रायवर्णनं युक्तं तस्या
महाभियोगविषयकत्वेन शपथसमभिव्याहारा-
नर्हत्वात् । सुकृतादिभिरित्यादिना दूर्व्वासत्या-
द्युपग्रहः । तथा च विष्णुः ।
“सर्व्वष्ववार्थजातेषु मूल्यं स्वर्णं प्रकल्पयेत् ॥”
तत्र कृष्णलोने शूद्रं दूर्व्वाकरं शापयेत् ।
द्विकृष्णलोने तिलकरं त्रिकृष्णलोने जलकरं
चतुःकृष्णलोने स्वर्णकरं पञ्चकृष्णलोने सीतो-
द्धृतमहीकरं सुवर्णार्द्धोने कोशो देयः शूद्रस्य
यथासमये विहिता क्रिया तथा द्विगुणेऽर्थे
राजन्यस्य त्रिगुणेऽर्थे वैश्यस्य चतुर्गुणेऽर्थे
ब्राह्मणस्येति । कृष्णलः काञ्चनरत्तिका तन्-
मूल्यादूने कृष्णलोने । एवमन्यत्र । मनुः ।
“सत्येन शापयेद्विप्रं क्षत्त्रियं वाहनायुधैः ।
गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्व्वैस्तु पातकैः ।
पुत्त्रदारस्य वाप्येवं शिरांसि स्पर्शयेत् पृथक् ॥”
ब्राह्मणेन मयैतत् कृतं न कृतं वेति प्रतिज्ञा-
मुच्चार्य्य सत्यमिति वक्तव्यम् । तथैव क्षत्त्रियेण
वाहनायुधं स्प्रष्टव्यम् । तथैव वैश्येन गोबीज-
काञ्चनानामन्यतमं स्प्रष्टव्यम् । शूद्रेण तु पूर्व्वोक्तं
सर्व्वमेव स्प्रष्टव्यं तेषां वृथाकृतस्पर्शानां पातक-
हेतुत्वात् पातकशब्देन निर्द्वेशः । हलायुधो-
ऽप्येवम् ॥ * ॥ दैवक्रियाविषयमाह नारदः ।
“अरण्ये निर्ज्जने रात्रावन्तर्व्वेश्मनि साहसे ।
न्यासापहरणे चैव दिव्या सम्भवति क्रिया ॥”
बृहस्पतिः ।
“देवब्राह्मणपादांश्च पुत्त्रदारशिरांसि च ।
एते तु शपथाः प्रोक्ता मनुना स्वल्पकारणे ।
साहसेष्वभिशापे च दिव्यानि तु विशोधनम् ॥”
अत्र शपथदिव्ययोः पृथक्त्वप्रतीतेः । शपथे न
दिव्यधर्म्माः किन्तु वैधे कर्म्मणि तत्र शौचार्थं
स्नानाचमनादिमात्रं कार्य्यम् । दिव्यानि तु
दिव्यतत्त्वे कथितानि नात्र लिखितानि । अत्रा-
भियुक्तेन शपथः कर्त्तव्य इत्युत्सर्गः ॥ * ॥ उभ-
येच्छयाभियोक्तापीत्याह नारदः ।
“अभियोक्ता शिरोवर्त्ती सर्व्वत्रैव प्रकीर्त्तितः ।
इच्छयान्यतरः कुर्य्यादितरो वर्त्तयेच्छिरः ॥”
इतरः शपथकर्त्तृभिन्नः । तथा कात्यायनः ।
“आचतुर्दशकादह्नो यस्य नो राजदैविकम् ।
व्यसनं जायते घोरं स ज्ञेयः शपथे शुचिः ॥”
व्यसनमापत् । घोरमतिपीडाकरम् । तथा च
कोषाधिकारे यस्य पश्येदित्यनुवृत्तौ विष्णुः ।
“रोगोऽग्निर्ज्ञातिमरणं राजातङ्कामथापि
वा ।
तमशुद्धं विजानीयात् तथा शुद्धं विपर्य्ययात् ॥”
कात्यायनः ।
“तस्यैकस्य न सर्व्वस्य जनस्य यदि सम्भवेत् ।
रोगोऽग्निर्ज्ञातिमरणमृणं दद्यात् दमञ्च सः ॥
ज्वरातिसारविस्फोटगूढास्थिपरिपीडनम् ।
नेत्ररुग्गलरोगश्च तथोन्मादः प्रजायते ।
शिरोरुग्गुदभङ्गश्च दैविका व्याधयो नृणाम् ॥”
तस्यैकस्येति न तु देशव्यापकमरणादिः । मनुः ।
“न वृथा शपथं कुर्य्यात् स्वल्पेऽप्यर्थे नरो बुधः ।
वृथा हि शपथं कुर्व्वन् प्रेत्य चेह च नश्यति ॥
कामिनीषु विवाहेषु गवां भक्ष्ये तथेन्धने ।
ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम् ॥”
कामिनीष्विति रहसि कामिनीसन्तोषार्थं वृथा-
शपथे एवं विवाहसिद्ध्यर्थं गोग्रासार्थं आवश्यक-
होमेन्धनार्थं ब्राह्मणरक्षार्थमङ्कीकृतधनादौ ।
यमः ।
“वृथा तु शपथं कृत्वा कीटस्य वधसंयुतम् ।
अनृतेन च युज्येत वधेन च तथा नरः ।
तस्मान्न शपथं कुर्य्यान्नरो मिथ्यावधेप्सितम् ॥”
कीटस्येति प्राणिमात्रोपलक्षणं तद्बधपापेन
वृथाशपथकर्त्ता युज्यत इत्यर्थः ॥
अथ निर्णयः ।
तत्र नारदः ।
“यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी
भवेत् ।
अन्यथावादिनो यस्य ध्रुवस्तस्य पराजयः ॥
स्वयमभ्युपपन्नोऽपि स्वचर्य्यावसितोऽपि सन् ।
क्रियावसन्नोऽप्यर्हेत परं सभ्यावधारणम् ।
सभ्यैरवधृतः पश्चात् स शास्यः शास्त्रमार्गतः ॥”
यस्य वादिनः प्रतिवादिनो वा साक्षिण इत्युप-
लक्षणम् । साक्षिलिखितभुक्तिशपथानां मध्ये-
ऽन्यतमप्रमाणं यस्य प्रतिज्ञायाः सत्यत्वप्रति-
पादकं स एव जयी अन्यथा पराजित इति
प्रत्येतव्यम् । स्वयमभ्युपपन्नः आत्मनैवाङ्गीकृत-
स्वपराजयः स्वचर्य्यावसितः कम्पस्वेदवैवर्ण्या-
दिना पराजितत्वेनावधृतः । क्रियावसन्नः
साक्ष्यादिना प्राप्तपराजयः । परमनन्तरं सभ्या-
वधारणमर्हेत सभासदां मिलितानामयं परा-
जित इति निर्णयमर्हेत । आकाङ्क्षेत स शास्त्र-
विधिना शास्यः ॥ * ॥ निर्णयस्य फलमाह
बृहस्पतिः ।
“प्रतिज्ञाभावनाद्वादी प्राड्विवाकादिपूजनात् ।
जयपत्रस्य चादानात् जयी लोके निगद्यते ॥”
जयपत्रस्य लिखनप्रकारमाह स एव ।
“यद्वृत्तं व्यवहारेषु पूर्व्वपक्षोत्तरादिकम् ।
क्रियावधारणोपेतं जयपत्रेऽखिलं लिखेत् ॥
पूर्व्वेणोक्तक्रियायुक्तं निर्णयान्तं यदा नृपः ।
पदद्याज्जयिने पत्रं जयपत्रं तदुच्यते ॥”
कात्यायनः ।
“अर्थिप्रत्यर्थि वाक्यानि प्रतिसाक्षिवचस्तथा ।
निर्णयश्च तथा तस्य यथा चावधृतं स्वयम् ॥
एतद्यथाक्षरं लेख्यं यथापूर्व्वं निवेशयेत् ।
सभासदश्च ये तत्र धर्म्मशास्त्रविदस्तथा ॥”
ततश्च भाषोत्तरे क्रिया च पत्रसाक्ष्यादिकं
निर्णयो जयपराजयावधारणं निर्णयकालाव-
स्थितमध्यस्थाश्चेत्यादिकं सर्व्वं लेखनीयं निरू-
पणस्य सम्यक्त्वप्रदर्शनार्थम् । तथाहि भाषो-
त्तरलिखनं हेत्वन्तरेण पुनर्न्यायप्रत्यवस्थान-
निषेधार्थं नहि न गृहीतमिति मिथ्योत्तरेण
पराजितस्य पुनः परिशोधितं मयेति प्रत्यव-
स्थानं सम्भवति । प्रमाणलिखनन्तु पुनः प्रमा-
णान्तरेण न्यायनिषेधार्थम् । तदाह कात्या-
यनः ।
“क्रियां बलवतीं त्यक्त्वा दुर्ब्बलां योऽवलम्बते ।
स जयेऽवधृते सभ्यैः पुनस्तां नाप्नुयात् क्रियाम् ॥
बिर्णीते व्यवहारे तु प्रमाणमफलं भवेत् ।
लिखितं साक्षिणो वापि पूर्व्वमावेदितं न चेत् ॥
यथा पक्वेषु धान्येषु निष्फलाः प्रावृषो गुणाः ।
निर्णीतव्यवहाराणां प्रमाणमफलन्तथा ॥”
निर्णयोत्तरकृत्यमाह मनुः ।
“अर्थेऽपव्ययमानन्तु कारणेन विभावितम् ।
दापयेद्धनिकस्यार्थं दण्डलेशञ्च शक्तितः ॥”
अपव्ययमान अपलपन्तं कारणेन साक्ष्यादि-
प्रमाणेन । याज्ञवल्क्यः ।
“ज्ञात्वापराधं देशञ्च कालं बलमथापि वा ।
वयः कर्म्म च वित्तञ्च दण्डं दण्डेषु दापयेत् ॥”
मनुः ।
“तीरितं चानुशिष्टञ्च यत्र क्वचन सम्भवेत् ।
कृतं तद्धर्म्मतो विद्यात् न तत् भूयो निव-
र्त्तयेत् ॥”
अनुशिष्टं साक्ष्यादिनिर्णीतं अतएव तीरितं
प्राड्विवाकादिभिः समापितम् । तद्बिवादपदं
पुनर्न निवर्त्तयेदित्यर्थः । यत्र तीरितानुशिष्ट-
योरप्यधर्म्मकृतत्वं प्रत्यवतिष्ठते । तत्र पुनर्न्याय-
दर्शनमाह नारदः ।
“तीरितं चानुशिष्टञ्च यो मन्येत विधर्म्मतः ।
द्विगुणं दण्डमादाय तत् कार्य्यं पुनरुद्धरेत् ॥”
असद्बिचारे तु विचारान्तरमाह स एव ।
“असाक्षिकन्तु यद्दृष्टं विमार्गेण च तीरितम् ।
असम्मतमतैर्दृष्टं पुनर्द्दर्शनमर्हति ॥”
असाक्षिकमित्यप्रमाणकोपलक्षणम् । याज्ञ-
वल्क्यः ।
“दुर्दृष्टांस्तु पुनर्दृष्टा व्यवहारान्नृपेण तु ।
सभ्याः सजयिनो दण्ड्या विवादाद्द्विगुणं दमम् ॥
साक्षिसभ्यावसन्नानां दूषणे दर्शनं पुनः ।
सुचर्य्यावसितानान्तु नास्ति पौनर्भवो विधिः ॥”
साक्षिवचनेन सभ्यावधारणेन च प्राप्ताव-
सादानां पुनर्न्यायदर्शनम् । स्वव्यापारेण विरुद्ध-
भाषदिना प्राप्तावसादानान्तु नास्ति पुनर्न्यायः ।
बृहस्पतिरपि ।
पृष्ठ ४/५४३
“पलायनानुत्तरत्वादन्यपक्षाश्रयेण च ।
हीनस्य गृह्यते वादो न स्ववाक्यजितस्य च ॥”
मनुः ।
“बलाद्दत्तं बलाद्भुक्तं बलाद्वा लिखितञ्च यत् ।
सर्व्वान् बलकृतानर्थानकृतान् मनुरब्रवीत् ॥”
याज्ञवल्क्यः ।
“बलोपाधिविनिर्वृत्तान् जवहारान्निवर्त्तयेत् ।
स्त्रीनक्तमन्तरागारबहिर्ग्रामकृतांस्तथा ॥
मत्तोन्मत्तार्त्तव्यसनिबालभीतादियोजितः ।
असम्बन्धकृतश्चैव व्यवहारो न सिध्यति ॥”
उपाधिश्छलमिति शूलपाणिः । उपाधिर्भयादि-
रिति विज्ञानेश्वरः । तन्मते भीतादियोजित
इत्युक्तवचनेन पौनरुक्तम् । वहिर्ग्रामः वहि-
र्देशः । मत्तो मद्यादिना । उन्मत्तो वाता-
दिना । व्यसनी द्यूताद्यासक्तः । असम्बन्धो
वादिनियुक्तव्यतिरिक्त उदासीनः । आदिपदाद-
स्वतन्त्रदासपुत्त्रादेर्ग्रहणम् । तथा च नारदः ।
“स्वतन्त्रोऽपि हि यत् कार्य्यं कुर्य्याच्चाप्रकृतिं
गतः ।
तदप्यकृतमेवाहुरस्वातन्त्रस्य हेतुतः ॥
कामक्रोधाभिभूता वा भयव्यसनपीडिताः ।
रागद्वेषपरीताश्च ज्ञेयास्त्वप्रकृतिं गताः ॥
तथा दासकृतं कार्य्यमकृतं परिचक्षते
अन्यत्र स्वामिसन्देशान्न दासः प्रभुरात्मनः ॥
पुत्त्रेण च कृतं कार्य्यं यत् स्यादच्छन्दतः पितुः ।
तदप्यक्र्तमेवाहुर्द्दासपुत्त्रौ च तौ समौ ॥”
एतच्च कुटुम्बभरणातिरिक्तविषयम् ।
“कुटुम्बार्थेऽभ्यधीनोऽपि व्यवहारं यमाचरेत् ।
स्वदेशे वा विदेशे वा तं ज्यायान्न विचालयेत् ॥”
इति मनुवचनात् कुटुम्बमवश्यभरणीयम् ।
अभ्यधीनः परतन्त्रः पुत्त्रदासादिः । व्यवहार-
मृणादिकं ज्यायान् स्वतन्त्रः न विचालयेत् अनु-
मन्येत । तथा च नारदः ।
“स्वातन्त्य्रन्तु स्मृतं ज्येष्ठे ज्यैष्ठं गुणवयःकृतम् ।
अस्वतन्त्राः प्रजाः सर्व्वाः स्वतन्त्रः पृथिवीपतिः ॥
अस्वतन्त्रः स्मृतः शिष्य आचार्य्यस्य स्वतन्त्रता ।
अस्वतन्त्राः स्त्रियः सर्व्वाः पुत्त्रा दासाः परि-
ग्रहाः ॥
स्वतन्त्रस्तत्र तु गृही यस्य तत् स्यात् क्रमा-
गतम् ।
गर्भस्थैः सदृशो ज्ञेयः अष्टमाद्वत्सरात् शिशुः ॥
बाल आषोडशाद्वर्षात् पौगण्डोऽपि निगद्यते ।
परतो व्यवहारज्ञः स्वतन्त्रः पितरावृते ॥
जीवतोर्न स्वतन्त्रः स्याज्जरयापि समन्वितः ।
तयोरपि पिता श्रेयान् बीजप्राधान्यदर्शनात् ।
अभावे बीजिनो माता तदभावे च पूर्व्वजः ॥”
परिग्रहा अनुजीविप्रभृतयः । तथा च बृह-
स्पतिः ।
“पितृव्यभ्रातृपुत्त्रस्त्रीदासशिष्यानुजीविभिः ।
यद्गृहीतं कुटुम्बार्थे तद्गृही दातुमर्हति ॥”
कात्यायनः ।
“कुटुम्बार्थमशक्तेन गृहीतं व्याधितेन वा ।
उपप्लवनिमित्तञ्च विद्यादापत्कृतन्तु तत् ॥
कन्यावैवाहिकञ्चैव प्रेतकार्य्ये च यत् कृतम् ।
एतत् सर्व्वं प्रदातव्यं कुटुम्बेन कृतं प्रभोः ॥”
प्रभोरिति कर्त्तरि षष्ठी तेन प्रभुणा दातव्य-
मिति रत्नाकरः ॥ बृहस्पतिः ।
“यः स्वामिना नियुक्तोऽपि धनाय व्ययपालने ।
कुसीदकृषिबाणिज्ये निसृष्टार्थस्तु स स्मृतः ॥
प्रमाणं तत् कृतं सर्व्वं लाभालाभव्ययोदयम् ।
स्वदेशे वा विदेशे वा स्वामी तन्न विसंवदेत् ॥”
इति श्रीरघुनन्दनभट्टाचार्य्यविरचितं व्यवहार-
तत्त्वं समाप्तम् ॥ * ॥

व्यवहारज्ञः, पुं, (व्यवहारं जानातीति । ज्ञा +

कः ।) प्राप्तव्यवहारः । (साबालक इति भाषा ॥)
स तु षोडशवर्षानन्तरं भवति । यथा, --
“बाल आषोडशाद्वर्षात् पौगण्डोऽपि निगद्यते ।
परतो व्यवहारज्ञः स्वतन्त्रः पितरावृते ॥”
इति व्यवहारतत्त्वधृतनारदवचनम् ॥
व्यवहारज्ञातरि, त्रि ॥

व्यवहारदर्शनं, क्ली, (व्यवहारस्य दर्शनम् ।) न्याय-

दर्शनम् । विचारकरणम् । इति मिताक्षरा ॥

व्यवहारपदं, क्ली, (व्यवहारस्य पदम् ।) वादिना

राज्ञि निवेदनम् । (नालिस इति भाषा ॥)
यथा, याज्ञवल्क्यः ।
“स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः ।
आवेदयति चेद्राज्ञि व्यवहारपदं हि तत् ॥”
स्मृतिसदाचारबहिर्भूतेन वर्त्मना परैरर्थतः
शरीरतो वा पीडितश्चेद्राजनि निवेदयेत् तद्-
व्यवहारदर्शनस्थानम् । चेदित्यत्र यदिति मै-
थिलाः । आवेदयति चेदित्यनेन स्वयं विवादो-
त्थानं राज्ञा न कर्त्तव्यमिति शूलपाणिमहा-
महोपाध्यायाः ॥ राज्ञीति व्यवहारप्रदर्शक-
परं तथा च बृहस्पतिः ।
“राजा कार्य्याणि संपश्येत् प्राड्विवाकोऽथ वा
द्विजः ॥”
कात्यायनः ।
“सप्राड्विवाकः सामात्यः सब्राह्मणपुरोहितः ।
स्वयं स राजा चिनुयात् तेषां जयपराजयौ ॥
यदा कार्य्यवशाद्राजा न पश्येत् कार्य्यनिर्णयम् ।
तदा नियुञ्ज्यात् विद्वांसं ब्राह्मणं वेदपारगम् ॥
यदि विप्रो न विद्वान् स्यात्र् क्षत्त्रियं तत्र योज-
येत् ।
वैश्यं वा धर्म्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् ॥”
स विनीतवेशः । मनुः ।
“जातिमात्रोपजीवी वा कामं स्याद्ब्राह्मण-
ब्रुवः ।
धर्म्मप्रवक्ता नृपतेर्न तु शूद्रः कदाचन ॥”
व्यासः ।
“द्विजान् विहाय यः पश्येत् कार्य्याणि वृषलैः
सह ।
तस्य प्रक्षुभ्यते राज्यं बलं कोषश्च नश्यति ॥
दुःशीलोऽपि द्बिजः पूज्यो न शूद्रो विजिते-
दुष्टां गां कः परित्यज्यार्च्चयेच्छीलवतीं खरीम् ॥”
इति व्यवहारतत्त्वम् ॥

व्यवहारपादः, पुं, (व्यवहारस्य पादः ।) व्यव-

हारांशः । यथा । अथ व्यवहारपादनिर्णयः ।
तत्र बृहस्पतिः ।
“पूर्ब्बपक्षः स्मृतः पादो द्विपादश्चोत्तरः स्मृतः ।
क्रियापादस्तथा चान्यश्चतुर्थो निर्णयः स्मृतः ॥”
इति व्यवहारतत्त्वम् ॥
अपि च ।
“परम्परं मनुष्याणां स्वार्थविप्रतिपत्तिषु ।
वाक्यान्न्यायाद्व्यवस्थानं व्यवहार उदा-
हृतः ॥
भाषोत्तरक्रियासाध्यसिद्धिभिः क्रमवृत्तिभिः ।
आक्षिप्तचतुरंशस्तु चतुष्पादभिधीयते ॥”
इति मिताक्षरा ॥

व्यवहारमातृका, (व्यवहारस्य मातृकेव ।) व्यव-

हारोपयोगिक्रिया । तद्यथा । व्यवहार-
दर्शनम् १ व्यवहारलक्षणम् २ सभासदः ३
प्राड्विवाकादिः ४ व्यवहारविषयः ५ राज्ञः
कार्य्यानुत्पादकत्वम् ६ कार्य्यार्थिनि प्रश्नः ७
आह्वानानाह्वाने ८ आसेधः ९ प्रत्यर्थिन्यागते
लेख्यादिकर्त्तव्यता १० पश्चविधो हीनः ११
कीदृशं लेख्यं १२ पक्षाभाषाः १३ अना-
देयाः १४ आदेयः १५ नियुक्तजयपराजये
वादिजयपराजयौ १६ शोधितलेख्यनिवेशनम् १७
उत्तरावधिशोधनम् १८ शोधिते पत्रारूढे
उत्तरकर्त्तव्यम् १९ उत्तरलक्षणम् २० सत्यो-
त्तरलक्षणम् २१ मिथ्योत्तरलक्षणम् २२
प्रत्यवस्कन्दनोत्तरम् २३ प्राङ्न्यायोत्तरम् २४
उत्तराभासः २५ सङ्करानुत्तरम् २६ प्रत्यर्थि-
क्रियानिर्द्देशः २७ उत्तरे पत्रेऽभिनिवेशिते
साधननिर्द्देशः २८ तत्सिद्धौ सिद्धिः २९
चतुष्पादव्यवहारः ३० । इति मिताक्षरायां
व्यवहारमातृका ॥

व्यवहारमार्गः, (व्यवहारस्य मार्गः ।) व्यवहार-

विषयः । व्यवहारपदम् । इति मिताक्षरा ॥

व्यवहारविधिः, पुं, (व्यवहारस्य विधिः ।) व्यव-

हारस्य विधानम् । धर्म्मशास्त्रम् । इति मिता-
क्षरा ॥

व्यवहारविषयः, पुं, (व्यवहारस्य विषयः ।) व्यव-

हारपदम् । तत्तु अष्टादशविधम् । यथा ।
ऋणादानम् १ निक्षेपः २ अस्वामिविक्रयः ३
स्वम्भूयसमुत्थानम् ४ दत्तस्यानपकर्म्म ५ वेतना-
दानम् ६ संविदो व्यतिक्रमः ७ क्रयविक्रयानु-
शयः ८ स्वामिपालयोर्विवादः ९ सीमाविवाद-
धर्म्मः १० वाक्पारुष्यम् ११ दण्डपारुष्यम् १२
स्तेयम् १३ साहसम् १४ स्त्रीसंग्रहणम् १५
स्त्रीपुंधर्म्मः १६ विभागः १७ द्यूतम् १८ ।
इति मानवे ८ अध्यायः ॥

व्यवहारस्थानं, क्ली, (व्यवहारस्य स्थानम् ।)

व्यवहारपदम् । व्यवहारविषयः । इति मिता-
क्षरा ॥
पृष्ठ ४/५४४

व्यवहारिकः, त्रि, (व्यवहारमर्हतीति । व्यवहार +

ठक् ।) व्यवहारयोग्यः । यथा । इयं बुद्धिः
ज्ञानेन्द्रियैः सहिता सती विज्ञानमयकोषो
भवति । अयं कर्त्तृत्वभोक्तृत्वाभिमानित्वेन इह-
लोकपरलोकगामी व्यवहारिकोजीव उच्यते ।
इति वेदान्तसारः ॥

व्यवहारिका, स्त्री, (व्यवहारेण चरतीति ठक् ।

स्त्रियां टाप् ।) लोकयात्रा । सम्मार्ज्जनी ।
इङ्गुदवृक्षः । इति मेदिनी ॥

व्यवहारी, [न्] त्रि, (व्यवहारोऽस्यास्तीति ।

इनिः ।) व्यवहारविशिष्टः । व्यवहारशब्दा-
दस्त्यर्थे इन्प्रत्ययेन निष्पन्नमिदम् ॥

व्यवहार्य्यः, त्रि, (वि + अव + हृ + ण्यत् ।) व्यव-

हरणीयः । व्यवहर्त्तव्यः । वि-अव-पूर्ब्बहृधातो-
र्घ्यण्प्रत्ययेन निष्पन्नमेतत् ॥ (यथा, याज्ञवल्क्ये ।
३ । २२६ ।
“प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत् ।
कामतो व्यवहार्य्यस्तु वचनादेव जायते ॥”)

व्यवहितः, त्रि, (वि + अव + धा + क्तः ।) व्यव-

धानविशिष्टः । यथा, --
“कर्त्तृकर्म्मव्यवहितामसाक्षाद्धारयेत् क्रियाम् ।
उपकुर्व्वत् क्रियासिद्धौ शास्त्रेऽधिकरणं मतम् ॥”
इति मुग्धबोधटीकायां रामतर्कवागीशः ॥

व्यवायं, क्ली, (वि + अव + अय + अच् ।) तेजः ।

इति मेदिनी ॥

व्यवायः, पुं, (विशेषेण अवायनं अधः संश्लेषणम् ।

वि + अव + इ + घञ् ।) मैथुनम् । इत्यमरः ॥
(तथा, वैद्यके ।
“व्यायामञ्च व्यवायञ्च स्नानं चंक्रमणं तथा ।
ज्वरमुक्तो न सेवेत यावन्न बलवान् भवेत् ॥”)
अन्तर्द्धानम् । इति मेदिनी ॥ (यथा, पाणिनौ ।
“अडभ्यास व्यवायेऽपि ।” ६ । १ । १३६ ।)
शुद्धिः । इति धरणिः ॥ (परिणामे । तथा,
भागवते । ८ । ६ । ११ ।
“पश्यन्ति युक्ता मनसा मनीषिणो
गुण व्यवायेऽप्यगुणं विपश्चितः ॥”)

व्यवायी, [न्] पुं स्त्री, (व्यवैतुं शीलमस्य ।

णिनिः ।) कामुकः । यथा, --
“श्राद्धे नियुक्तो भुक्त्वा वा भोजयित्वा नियुज्य च ।
व्यवायी रेतसो गर्त्ते मज्जयत्यात्मनः पितॄन् ॥”
इति श्राद्धतत्त्वम् ॥
(व्यवधानकर्त्ता । यथा, पाणिनौ । “व्यवा-
यिनोऽन्तरम् ।” ६ । २ । १६६ । “व्यवायी
व्यवधाता ।” इति काशिका ॥)

व्यसनं, क्ली, (वि + अस + ल्युट् ।) विपत् । (यथा,

महाभारते । १२ । २२७ । ७ ।
“पुत्रदारैः सुखैश्चैव वियुक्तस्य धनेन वा ।
मग्नस्य व्यसने कृच्छ्रे धृतिः श्रेयस्करी नृप ! ॥”)
भ्रंशः । (यथा, मनौ । ७ । ९३ ।
“नायुधव्यसनप्राप्तं नार्त्तं नातिपरीक्षितम् ॥”)
कामजकोपजदोषः । इत्यमरः ॥ (यथा, कथा-
सरित्सागरे । ११ । २५ ।
“तन्मुञ्च व्यसनानि त्वं सुखेन हि परैर्नृपाः ।
सीदन्तस्तेषु गृह्यन्ते खातेष्विव वनद्विपाः ॥”
यथा च भागवते । ४ । २६ । २६ । ४ ।
“विहाय जाया मतदर्हां मृगव्यसनलालसः ॥”
“व्यसनं भोगासक्तिः ।” इति श्रीधरः ॥) विपत्
विपत्तिः । भ्रंशोऽपायः पतनम् । मृगयाद्यूतस्त्री-
मद्यपानस्वरूपे चतुर्व्वर्गे प्रसक्तिः कामजो
दोषः । इच्छाप्रभवत्वात् । वाक्पारुष्यं अर्थ-
पारुष्यञ्चेति त्रिवर्गः कोपजो दोषः ।
कोपप्रभवत्वात् । एषु व्यसनम् । व्यस्यति श्रेयो-
मार्गात् व्यसनं कर्त्तरि अनट् । भ्रंशे तु भावे ।
इति भरतः ॥ (अत्यासक्तिः । यथा, कथा-
सरित्सागरे । ११ । ३२ ।
“शिथिली कृतकैलासनिवासव्यसनो हरः ॥”)
अशुभम् । दैवानिष्टफलम् । पापम् । निष्फलो-
द्यमः । इति मेदिनी ॥ * ॥ राज्ञां व्यसनानि यथा,
“मृगयाक्षाः स्त्रियः पानं वाक्पारुष्यार्थदूषणे ।
दण्डपारुष्यमित्येतद्धेयं व्यसनसप्तकम् ॥”
इति हेमचन्द्रः ॥ * ॥
व्यसनासक्ते दोषो यथा, --
“एकैकविषयासक्ताः सर्व्वे मृत्युवशं गताः ।
यः पुनः संहतान् सेवेत् विषयान् विषयी नरः ।
स पतेन्महदैश्वर्य्याच्छिन्नमूल इव द्रुमः ॥
स्त्रियः पानं दिवास्वप्नं तथा वादित्रनर्त्तनम् ।
द्यूताटनमृगागेयकामजानि तथा परे ॥
दण्डैर्वाचा ईर्ष्यासूया क्रोधपैशुन्यसाहसम् ।
अर्थ दूषणक्रोधोऽर्थे अष्टकोपं विनाशकृत् ॥
देवा विद्याधरा यक्षाः किन्नरोरगमानुषाः ।
पशवः पक्षिणः सर्व्वे विषये निधनं गताः ॥
एवं विवेकमासक्तं बुद्ध्वा घोरं नराधिप ।
धव्यर्म्माजं समास्थाय विषयैः सन्निवेश्यताम् ॥”
इति देवीपुराणे ८ अध्यायः ॥

व्यसनार्त्तः, त्रि, (व्यसनेनार्त्तः ।) दैवीमानुषी-

पीडार्त्तः । तत्पर्य्यायः । उपरक्तः २ । इत्यमर-
भरतौ ॥

व्यसनी, [न्] त्रि, (व्यसनमस्यास्तीति । व्यसन +

इनिः ।) व्यसन-विशिष्टः । (यथा, शिशुपाल-
वधे । २ ।
“चिरस्य मित्रव्यसनी सुदमो दमघोषजः ॥”)
तत्पर्य्यायः । पञ्चभद्रः २ विप्लुतः ३ । इति
हेमचन्द्रः ॥

व्यस्तः (वि + अस् + क्तः ।) व्याकुलः । व्याप्तः ।

इति मेदिनी ॥ प्रत्येकम् । पृथक् पृथक् । यथा,
विश्वामित्रः ।
“कृच्छ्रचान्द्रायणादिनि शुद्ध्यभ्युदयकारणम् ।
प्रकाशे च रहस्ये च संशयेऽनुक्तकेऽस्फुटे ॥
प्राजापत्यः सान्तपनः शिशुकृच्छ्रः पराककः ।
अतिकृच्छ्रः पर्णकृच्छ्रः सौम्यः कृच्छ्रातिकृच्छ्रकः ॥
महासान्तपनः शुद्ध्यै तप्तकृच्छ्रस्तु पावनः ।
जलोपवासकृच्छ्रस्तु ब्रह्मकूर्च्चस्तु शोधकः ॥
एते व्यस्ताः समस्ता वा प्रत्येकमेकशोऽपि वा ।
पातकादिषु सर्व्वेषु पातकेषु प्रयत्नतः ।
कार्य्याश्चान्द्रायणैर्युक्ताः केवला वा विशुद्धये ॥”
इति प्रायश्चित्ततत्त्वम् ॥
विपरीतः । यथा, --
“प्रतिपदाप्यमावास्या तिथ्योर्युग्मं महाफलम् ।
एतद्व्यस्तं महाघोरं हन्ति पुण्यं पुराकृतम् ॥”
इति तिथ्यादितत्त्वम् ॥

व्यस्तपदं क्ली, (व्यस्तं पदं यस्मिन् ।) ऋणादाना-

भियोगे पदान्तरेणोत्तरम् । यथा । सुवर्णशता-
भियोगे अनेनाहन्ताडित इति । इति मिता-
क्षरा ॥

व्यस्तारं, क्ली, हस्तिमदप्रयोगः । इति त्रिकाण्ड-

शेषः ॥

व्याकरणं, क्ली, (व्याक्रियन्ते अर्था येनेति । वि +

आ + कृ + ल्युट् ।) वेदाङ्गविशेषः । इति शब्द-
रत्नावली ॥ तत्र साध्यसाधनकर्त्तृकर्म्मक्रिया-
समासादिनिरूपणम् । तस्य व्युत्पत्तिर्यथा ।
व्याक्रियन्ते व्युत्पाद्यन्ते साधुशब्दा अस्मिन् अने-
नेति वा । इति दुर्गादासः ॥ * ॥
“अथ व्याकरणं वक्ष्ये कात्यायन समासतः ।
सिद्धशब्दविवेकाय बालव्युत्पत्तिहेतवे ॥
सुप्तिङक्तं पदं ख्यातं सुपः सप्तबिभक्तयः ।
स्यौजसः प्रथमा प्रोक्ता सा प्रातिपदिकात्मके ॥
संबोधने च लिङ्गादावुक्ते कर्म्मणि कर्त्तरि ।
अर्थवत् प्रातिपदिकं धातुप्रत्ययवर्ज्जितम् ॥
अमौट्शसो द्वितीया स्यात् तत्कर्म्म क्रियते च
यत् ।
द्बितीया कर्म्मणि प्रोक्ता उक्तानुक्तविभेदतः ॥
टा भ्यां भिसस्तृतीया स्यात् करणे कर्त्तरीरिता ।
येन क्रियते करणं तत् कर्त्ता यः करोति सः ॥
ङेभ्यां भ्यसश्चतुर्थी स्यात् संप्रदाने च कारके ।
यस्मै दित्सा धारयते रोचते संप्रदानकम् ॥
पञ्चमी स्यात् ङसि भ्यां भ्यो ह्यपादाने च
कारके ।
यतोऽपैति समादत्ते अपादानं भयं यतः ॥
ङसोसामश्च षष्ठी स्यात् स्वामिसम्बन्धमुख्यके ।
ङ्योस्सुपश्च सप्तमी स्यात् सा चाधिकरणे
भवेत् ॥
आधारश्चाधिकरणं रक्षार्थानां प्रयोगतः ।
ईप्सितं चानीप्सितं यत्तदपादानकं स्मृतम् ॥
पञ्चमी पर्य्युपाङ्योग इतरर्त्तेऽन्यदिङ्मुखे ।
एनयोगे द्वितीया स्यात् कर्म्म प्रवचनीयकैः ॥
लक्ष्मणवीप्सेत्थंभूतेऽभिर्भागे च परिप्रती ।
अन्तरेषु सहार्थे च हीनेऽनूपश्च कथ्यते ॥
द्वितीया च चतुर्थी स्याच्चेष्टायां गतिकर्म्मणि ।
अप्राणे हि विभक्ती द्बे मन्यकर्म्मण्यनादरे ॥
नमःस्वस्तिस्वधास्वाहालंवषडयोग ईरिता ।
चतुर्थी चैव तादर्थ्ये तुमर्थाद्भाववाचिनः ॥
तृतीया सहयोगे स्यात् कुत्सितेऽङ्गे विशेषणे ।
काले भावे सप्तमी स्यादेतैर्योगे च षष्ठ्यपि ॥
स्वामीश्वराधिपतिभिः साक्षिदायादसूतकैः ।
निर्द्धारणे द्वे विभक्ती षष्ठी हेतुप्रयोगके ॥
स्मृत्यर्थकर्म्मणि तथा करोतेः प्रतियत्नके ।
पृष्ठ ४/५४५
हिंसाथानां प्रयोगे च कृति कर्म्मणि कर्त्तरि ॥
न कर्त्तृकर्म्मणोः षष्ठी निष्ठादौ प्रतिपादिता ।
द्बिविधं प्रातिपदिकं प्रातिपदिकमज्झलम् ॥ * ॥
भुवादिभ्यस्तिङो लः स्याल्लकारा दश वै स्मृताः ।
तिप्तसन्ति प्रथमो मध्यः सिप्थस्थोत्तमपूरुषः ॥
मिप्वस्मसः परस्मै तु पदानाञ्चात्मनेपदम् ।
तामातामन्तां प्रथमो मध्यस्थासार्थांध्वमुत्तमः ॥
आदेशा इवहिमह्यन्ता अनिजादपि धातुतः ।
नाम्नि प्रयुज्यमानेऽपि प्रथमः पुरुषो भवेत् ॥
मध्यमो युष्मदि प्रोक्त उत्तमः पुरुषोऽस्मदि ।
भुवाद्या धातवः प्रोक्ताः सनाद्यन्तास्तु धातवः ॥
लडीरितो वर्त्तमाने स्मेनातीते च धातुतः ।
भूतानद्यतने लट् च लोडाशिषि च धातुतः ॥
विध्यादावेवानुमतौ लिङ्विधिर्मन्त्रणे भवेत् ।
निमन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु तथाशिषि ॥
लिडतीते परोक्षे स्याल्लङ् लुङ् ऌट् ऌङ् भवि-
ष्यति ।
स्यादद्यतने ऌट् च भविष्यति च धातुतः ॥
धातोर्लिङ्क्रियाभिपत्तौ लिङर्थे लोट् प्रकीर्त्तितः ।
कृतस्त्रिष्वपि वर्त्तन्ते भावे कर्म्मणि कर्त्तरि ।
शतृशानतव्यङ्ण्ययङनीयङ्क्यतृचादयः ॥”
इति गारुडे कुमारव्याकरणे २०९ अध्यायः ॥
कुमार उवाच ।
“सिद्धोदाहरणं वक्ष्ये संहितादि परस्परम् ।
विप्रान्नं सागतान् धीदं सूत्तमं स्यात् पितॄषमः ॥
होतॄकारो विश्रुतेयं लाङ्गलीषा मनीषया ।
गङ्गोदकं तवल्कार ऋणार्णं प्रार्णमित्यपि ॥
शीतार्त्तश्च तवल्कारः सैन्द्री सौकार इत्यपि ।
मध्वासनञ्च पित्रम्बे नन्वयं नाप्ययोजयेत् ॥
नायको लवणं नावस्त एते तेन ईश्वराः ।
देवीगृहमथोऽमुत्र ययुरेहि पटू इमौ ॥
अमी अश्वाः षडश्वेति तनुराखुस्तृणानि च ।
तच्चरेत्तल्लु नातीति तज्जलं तच्श्मशानकम् ॥
सुगन्नत्र पचन्नत्र भवांश्छादयतीति दिक् ।
भवांष्ठक्कुरकश्चैव भवांस्तरति संसृतिम् ॥
भवाँल्लिखति ताञ्छेते भवाञ्छरोऽन्यदीदृशम् ।
भवाण्डीनं त्वन्तरसि त्वङ्करोषि सदार्च्चनम् ॥
कश्चरेत् कष्ठकारेण कः कुर्य्यात् कः खले
स्थितः ।
कः शेते चैव कः षण्डः कोऽर्थः को याति
गौरवम् ॥
क इहार्थ स्त एवाहुर्देवा आहुश्च भो व्रज ।
प्रभूर्विष्णुर्व्रजति च गीष्पतिश्चैव धूष्पतिः ॥
तस्मान्नैष व्रजेत् स स्यान्न कर्षत्यनुगच्छति ।
कुटीच्छाया तथाच्छाया साधवोऽन्ये तथे-
दृशाः ॥
समासाः षट् पुराणे ये सद्द्विजः कर्म्मधारयः ।
द्विगुस्त्रिवेदी ग्रामश्वा अयं तत्पुरुषः स्मृतः ॥
तत्कृतञ्च तदर्थ श्च वृकभीतिश्च यद्धनम् ।
ज्ञानदक्षिणतत्त्वज्ञो वहुव्रीहिरथाव्ययी ॥
भावोऽधिस्त्रि यथोक्तित्वं द्बन्द्वो देवर्षिमानवाः ।
तद्धिताः पाण्डवः शैवो ब्राह्मञ्च ब्रह्मतादयः ॥
देवाग्निसखिपत्यं शुक्रोष्टुस्वयं भुवः पिता ।
ना प्रशास्ता च रा गौर्ग्लौ रूढाजन्ताश्च
पुंस्यपि ॥ * ॥
हलन्ताश्चाश्वयुक् क्ष्माभुङ्मरुत्क्रव्यान्मृगाविधः ।
आत्मा राजा युवा पन्थाः पूषब्रह्महणौ शशी ॥
विड्वेधा उशनानड्वान् मधुलिट् काष्ठतट्
तथा । * ।
वनवार्य्यस्थिवस्तूनि जगत्सामाहनी तथा ॥
कर्म्म सर्पिर्वपुस्तेज अज्झलन्ता नपुंसके । * ।
जाया जरा नदी लक्ष्मीः श्रीः स्त्री भूमिर्बधू-
रपि ॥
भूः पुनर्भूस्तथा धेनुः स्वसा माता च नौः स्त्रियः ।
वाक् स्रक् धी क्षुत् क्षुधः पामा युवतिः ककुभ-
स्तथा ॥
द्यौर्धृतिः प्रावृषश्चैव सुमन उष्णिहौ स्त्रियाम् ।
गुणद्रव्यक्रियायोगात्त्रिलिङ्गांश्च वदामि ते ॥
शुक्लः कीलालपाश्चैव शुचिश्च ग्रामणीः सुधीः ।
पटुः कमलभूः कर्त्ता सुमतो बहवः सुनौः ॥
सत्यो नाश्रस्तथा ध्वंसो मघुभक्षमदीर्घपात् ।
धनार्थी च सुहृत् सोमौ वागङ्गस्त्वादिकस्तथा ॥
सुवर्णं बहुपाच्छेषा चैषा त्वनडुहा तथा । * ।
सर्व्वविश्वोभये चोभौ अन्यान्तरेतराणि च ॥
डतरडतरे नेमः समोऽथ सिम इत्ययम् ।
पूर्व्वापरावराश्चैव दक्षिणश्चोत्तराधरौ ॥
अपरश्चान्तरोऽप्ये तद्यत्तत्किमदसो द्बयम् ।
युष्मदस्मत् प्रथमश्चरमाल्पे तथार्द्धके ॥
एकः कतिपयो द्वौ च त्रयः सर्व्वादयस्तथा । * ।
भुविविदिपविक्रन्दिधार्य्यश्च व्ययतिः स्वदिः ॥
गीर्द्धुर्विद्या जुहोतिश्च जहातिश्च दधात्यपि ।
दीप्यति स्तूयतिर्वंहि पुत्रशिष्टश्चिनोत्यपि ॥
त्रुटिश्चासूयति स्वपि रुधि गुर्व्वी स्वती तनिः ।
समिः करोति क्रीणाति वृणोतिर्द्युति वर्च्चति ॥
कलीडकृपराजीवा धातवश्च युना तथा । * ।
भवत् भवान् भवन्ती च ज्ञेयं कर्त्तव्यमेव च ॥
कार्य्यं कृतश्च कृत्या च प्रत्ययाः स्युस्तथापरे ।
सूर्य्याहरौ सुराः सन्ति देवविप्रवनान्यज ॥
नरेण कार्य्यं वेदैश्च क्रियते देहि भोजनम् ।
द्बिजाय च वरिष्ठाभ्यां मा तेभ्योऽस्तु समागतः ॥
तीर्थात्तथाश्रमाभ्याञ्च सत्येभ्यः श्वशुरस्य च ।
गन्धर्व्वयोः करणानाञ्च ज्ञानं सिद्धमहान्धयोः ॥
ज्ञानतत्त्वेषु चेत्येवमन्ये नेया यथामति ।
सर्व्वे तिष्ठन्ति सर्व्वस्मै सर्व्वस्मात् सर्व्वतो गतः ॥
सर्व्वेषाञ्चैव सर्व्वस्मिन्नेवं विश्वादयस्तथा ।
पूर्व्वः पूर्व्वाश्च पूर्व्वस्मात् पूर्व्वस्मिन् पूर्व्व इत्यलम् ॥
सूत उवाच ।
सुप्तिङन्तं सिद्धरूपं नाममात्रेण दर्शितम् ।
कात्यायनः कुमारात्तु ज्ञात्वा विस्तरमब्रवीत् ॥”
इति गारुडे कुमारव्याकरणे २१० अध्यायः ॥ *
एतद्भिन्नं अग्निपुराणे कार्त्तिकेयोक्तव्याकरण-
मस्ति । एवं महेशकृतमाहेशव्याकरणं पाणिनि-
मुनिकृतपाणिनीयव्याकरणं शर्व्ववर्म्मकृतकलाप-
व्याकरणं क्रमदीश्वरकृतसंक्षिप्तसारव्याकरणं
पद्मनाभदत्तकृतसुपद्मव्याकरणं वोपदेवकृतमुग्ध-
बोधव्याकरणं गोस्वामिकृतहरिनामामृतव्या-
करणं भट्टोजीदीक्षितकृतसिद्धान्तकौमुदीव्याक-
रणं अनुभूतस्वरूपाचार्य्यादिकृतसारस्वतादि-
व्याकरणानि च सन्ति ॥ * ॥ (विस्तारः । यथा,
महाभारते । १२ । २५१ । ११ ।
“व्यवसायात्मिका बुद्धिर्म्मनो व्याकरणात्मकम् ॥”)

व्याकुलः, त्रि, (विशेषेण आकुलः ।) शोकादिभि-

रितिकर्त्तव्यताशून्यः । तत्पर्य्यायः । विहस्तः २ ।
इत्यमरः ॥ (यथा, महाभारते । ५ । १७७ । २५ ।
“रुरोद सा शीकवती वाष्पव्याकुललोचना ॥”
उपद्रुतः । यथा, भागवते । १ । ३ । २८ ॥
“एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् ।
इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे ॥”)

व्याकुलात्मा, [न्] त्रि, (व्याकुलः आत्मा यस्य ।)

शोकाभिहतचित्तः । यथा, --
“भो वृक्षाः पर्व्वतस्था बहुकुसुमयुता वायुना
घूर्णमाना
रामोऽहं व्याकुलात्मा दशरथतनयः पृच्छते
शोकदग्धः ।
विम्बोष्ठी चारुनेत्रा गजपतिगमना दीर्घकेशी
सुभध्या
हा सीता केन नीता मम हृदयगता केन वा
कुत्र दृष्टा ॥”
इति महानाटकम् ॥

व्याकूतिः, स्त्री, (विशिष्टा आकूतिः ।) भङ्गिः ।

इति हलायुधः ॥

व्याकोशः, त्रि, (व्याकुश्यति प्रस्फुटतीति । वि +

आ + कुश + कः ।) विकशितः । इत्यमर-
टीकायां रामाश्रमः ॥ (यथा, माघे । ४ । ४६ ।
“दोषापि नूनमहिमांशुरसौ किलेति
व्याकोशकोकनदतां दधते नलिन्यः ॥”
भावे घञ् । प्रस्फुटनम् । यथा, मृच्छकटिके ।
३ अङ्के ।
“पद्मव्याकोशं भास्करं बालचन्द्रं
वापीविस्तीर्णं स्वस्तिकं पूर्णकुम्भम् ।
तत्कस्मिन् देशे दर्शयाम्यात्मशिल्पं
दृष्ट्वा श्वो यद्विस्मयं यान्ति पौराः ॥”)

व्याकोषः, त्रि, (व्याकुष्णाति मुकुलीभावाद्बहि-

र्निःसरतीति । वि + आ + कुष + कः ।) प्रफुल्लः ।
इत्यमरः ॥ (यथा, महाभारते । ७ । ३० । २२ ।
“तं पद्मनिकराकारं पद्मपत्रनिभेक्षणम् ।
व्याकोषपद्माभिमुखो नलो विव्याध सायकैः ॥”)

व्याख्या, स्त्री, (व्याख्यानमिति । वि + आ + ख्या

+ “आतश्चोपसर्गे ।” इत्यङ् । ततष्टाप् ।)
विवरणम् । इति हलायुधः ॥ (यथा, भाग-
वते । ७ । १३ । ८ ।
“न शिष्याननुवध्नीत ग्रन्थानैवाभ्यसेद्बहून् ।
न व्याख्यामुपयुञ्जीत नारम्भानारभेत् कचित् ॥”
ग्रन्थः । यथा, तन्त्रसारे वागीश्वरीप्रकरणे ।
“शुभ्रां स्वच्छविलेपमाल्यवसनां शीतांशुखण्डो-
ज्ज्वलां
पृष्ठ ४/५४६
व्याख्यामक्षगुणं सुधाढ्यकलसं विद्याञ्च हस्ता-
म्बुजैः ।
विभ्राणां कमलासनां कुचलतां वाग्देवतां ।
सस्मितां
वन्दे वाग्विभवप्रदां त्रिनयनां सौभाग्यसम्पत्
करीम् ॥”)

व्याख्यागम्यं, क्ली, (व्याख्यया गम्यम् ।) उत्तरा-

भासभेदः । व्याख्यया विवरणेन गम्यते ज्ञायते
यत् । यथा, --
“अस्तव्यस्तपदव्यापि निगूढार्थं तथाकुलम् ।
व्याख्यागम्यमसारञ्च नोत्तरं शस्यते बुधैः ॥”
इति व्यवहारतत्त्वम् ॥

व्याख्यातः, त्रि, विवृतः कथितः । वि-आङ्पूर्व्वक-

ख्याधातोः क्तप्रत्ययेन निष्पन्नमिदम् ॥

व्याघातः, पुं, (वाहन्यतेऽनेनेति । वि + आ +

हन + घञ् ।) विष्कम्भादिसप्तविंशतियोगान्त-
र्गतत्रयोदशयोगः । यथा, --
“परिघस्य त्यजेदर्द्धं शुभकर्म्म ततः परम् ।
त्यजादौ पञ्च विष्कम्भे सप्त शूले न नाडिकाः ॥
गण्डव्याघातयोः षट् च नव हर्षणवज्रयोः ।
वैधृतिव्यतिपातौ च समस्तौ परिवर्जयेत् ॥”
इति ज्योतिस्तत्त्वम् ॥ * ॥
तत्र जातफलम् ।
“व्याघातकर्त्ता च सतां नितान्तं
व्याघातजन्मा मनुजः कठोरः ।
असत्यभाषी कृपया विहीनो
मन्देक्षणो दीर्घतनुः कृशाङ्गः ॥”
इति कोष्ठीप्रदीपः ॥ * ॥
अन्तरायः । (यथा, महाभारते । १ । २ । २८८ ।
“तेन व्याषातमन्त्राणां क्रियमाणमवेक्ष्य च ॥”)
प्रहारः । इति मेदिनी ॥ अलङ्कारविशेषः ।
तस्य लक्षणं यथा, --
“यद्यथा साधितं केनाप्यपरेण तदन्यथा ।
तथैव यद्विधीयेत स व्याघात इति स्मृतः ॥”
येनोपायेन यत् एकेन उपकल्पितं तस्यान्येन
जिगीषुतया तदुपायकमेव यदन्यथाकरणं
स स्वसाधितवस्तुव्याहतिहेतुत्वात् व्याघातः ।
उदाहरणम् ।
“दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः ।
विरूपाक्षस्य जयिनीस्ता स्तुमो वामलोचनाः ॥”
इति काव्यप्रकाशे १० उल्लासः ॥

व्याघ्रः, पुं, (व्याजिघ्रतीति । वि + आ + घ्रा +

कः ।) जन्तुविशेषः । वाघ इति भाषा ॥ (यथा,
छान्दोग्ये । ६ । ९ । ३ ।
“त इह व्याघ्रो वा सिंहो वा वृको वा वराहो
वा कीटो वा पतङ्गो वा दंशो वा मशको वा
यद्यद्भवन्ति तदा भवन्ति ॥”) तत्पर्य्यायः ।
शार्द्दूलः २ द्वीपी ३ । इत्यमरः ॥ पृदाकुः ४
वनश्वः ५ चित्रकः ६ पुण्डरीकः ७ । इति
जटाधरः ॥ हिंस्रपशुः ८ व्याडः ९ हिंस्रकः १०
हिंसारुः ११ श्वापदः १२ । इति शब्दरत्ना-
बली ॥ पञ्चनखः १३ व्यालः १४ गुहाशयः १५
तीक्ष्णदंष्ट्रः १६ भीरुः १७ नखायुधः १८ ।
अस्य मांसगुणाः ।
“शार्द्दूलसिंहसरभर्क्षतरक्षुमुख्या
येऽन्ये प्रसह्य विनिहन्त्यभिवर्त्तयन्ते ।
ते कीर्त्तिताः प्रहसनाः पललं तदीय-
मर्शःप्रमेहजठरामयजाड्यहारि ॥”
इति राजनिर्घण्टः ॥
स तु कश्यपभार्य्यादंष्ट्रासन्तानः । यथा, --
“दंष्ट्रा त्वजनयत् पुत्त्रान् व्याघ्रसिंहांश्च भाविनी ।
द्वीपिनश्च सुतास्तस्या व्याल्याद्याश्चामिष-
प्रियाः ॥”
इत्याद्ये वह्निपुराणे काश्यपीयवंशनामाध्यायः ॥
नरादिशब्दोत्तरस्थः श्रेष्ठार्थवाचकः ॥ (यथा,
महाभारते । १ । १५२ । २९ ।
“किन्नुदुःखतरं शक्यं मया द्रष्टुमतःपरम् ।
योऽहमद्य नरव्याघ्रान् सुप्तान् पश्यामि
भूतले ॥”)
रक्तैरण्डः । करञ्जः । इति मेदिनी ॥

व्याघ्रदलः, पुं, एरण्डवृक्षः । इति शब्दमाला ॥

राजनिर्घण्टे रक्तैरण्डपर्य्याये व्याघ्रतल इति
पाठः ॥

व्याघ्रनखं, क्ली, (व्याघ्रस्य नखमिव ।) नखीनाम-

गन्धद्रव्यम् । तत्पर्य्यायः । व्याडायुधम् २ कर-
जम् ३ चक्रकारकम् ४ । इत्यमरः ॥ नखाङ्कम्
५ नखी ६ नख्यम् ७ व्याघ्रनखी ८ । इति शब्द-
रत्नावली ॥ (यथा, बृहत्संहितायाम् । ७७ । ६ ।
“मञ्जिष्ठया व्याघ्रनखेन शुक्त्या
त्वया सुकुष्ठेन रसेन चूर्णः ।
तैलेन युक्तोऽर्कमयूखतप्तः
करोति तच्चम्पकगन्धितैलम् ॥”)
तत्पर्य्यायगुणाः ।
“नखं व्याघ्रनखं व्याघ्रायुधं तच्चक्रकारकम् ।
नखं स्वल्पं नखी प्रोक्ता हनुर्हठ्ठविलासिनी ॥
नखद्बयं ग्रहश्लेष्मवातास्रज्वरकुष्ठहृत् ।
लघूष्णं शुक्रलं वर्ण्यं स्वादु व्रणविषापहम् ।
अलक्ष्मीमुखदौर्गन्ध्यहृत् पाकरसयोः कटुः ॥”
इति भावप्रकाशः ॥
कन्दविशेषः । नखक्षतविशेषः । इति मेदिनी ॥

व्याघ्रनखः, पुं (व्याघ्रस्य नखमिव कण्टकं यस्य ।)

स्नुहीवृक्षः । व्यालनखः । इति राजनिर्घण्टः ।
व्याघ्रस्य नखश्च ॥

व्याघ्रनखकं, क्ली, (व्याघ्रनखमेव । स्वार्थे कन् ।)

नखक्षतम् । इति शब्दमाला ॥

व्याघ्रनायकः, पुं, (व्याघ्रस्य नायक इव ।)

शृगालः । इति राजनिर्घण्टः ॥

व्याघ्रपात्, [द्] पुं, (व्याघ्रस्य पाद इव ग्रन्थि-

युक्तमूलानि यस्य । “पादस्य लोपोऽस्त्या-
दिभ्यः ।” ५ । ४ । १३८ । इत्यलोपः ।) विकङ्कत-
वृक्षः । इत्यमरः ॥ मुनिविशेषः । इति पुराणम् ॥
व्याघ्रतुल्यचरणे, त्रि । इति मुग्धबोधव्याकरणम् ॥

व्याघ्रपादः, पुं, (व्याघ्रस्य पादा इव मूलानि यस्य ।)

विकङ्कतवृक्षः । विकण्टकवृक्षः । इति राज-
निर्घण्टः ॥ (मुनिविशेषः । यथा, महाभारते ।
१३ । १४ । १०९ ।
“पुराकृतयुगे तात ऋषिरासीत् महायशाः ।
व्याघ्रपाद इति ख्यातो वेदवेदाङ्गपारगः ॥”)

व्याघ्रपुच्छः, पुं, (व्याघ्रस्य पुच्छमिव सवृन्तदल-

मस्य ।) एरण्डवृक्षः । इत्यमरः ॥ व्याघ्रस्य
लाङ्गूलञ्च ॥

व्याघ्राटः, पुं, (व्याघ्र इव अटतीति । अट गतौ +

पचाद्यच् ।) भरद्ब्यजपक्षी । इत्यमरः ॥

व्याघ्रादनी, स्त्री त्रिवृता । इत्यमरः ॥

व्याघ्रास्यः, पुं, (व्याघ्रस्य आस्यमिव आस्यमस्य ।)

विडालः । इति शब्दचन्द्रिका ॥ व्याघ्रमुखे,
क्ली ॥

व्याघ्री, स्त्री, (व्याघ्र + ङीष् ।) कण्टकारी ।

इत्यमरः ॥ व्याघ्रपत्नी च ॥ (यथा, रघुः ।
१२ । ३७ ।
“मृग्याः परिभवो व्याघ्र्यामित्यवेहि त्वया-
कृतम् ॥”)

व्याजः, पुं, (व्यजति यथार्थव्यवहारादपगच्छत्य-

नेनेति । वि + अज + घञ् । घञि विभावो
नास्ति ।) कपटः । स तु अयथार्थव्यवहारः ।
वञ्चनमात्रफलम् । इति सर्व्वानन्दो मधुश्च ॥
अपदेशः । स कारणान्तरप्रवृत्तेः कारणान्त-
रोद्भावनम् । व्याजोऽत्र स्वरूपाच्छादनम् । यथा
ध्यानव्याजमुपेत्य चिन्तयसि कामिति । व्याजो-
ऽयमभिप्रायगोपनफलः । पूर्व्वोक्तन्तु परापकार-
फलः । इत्ययथार्थव्याजयोर्भेदः । अन्यमुद्दिश्य
अन्यपतिपादनमिह व्याज इत्यर्थः । यदाह
अन्यमुद्दिश्य अन्यार्थमनुष्ठानं अपदेशः । यथा,
जलक्रीडामुद्दिश्य जारावलोकनार्थं यातीति ।
इत्यमरभरतौ ॥

व्याजनिन्दा, स्त्री, (व्याजेन निन्दा ।) कपटकुत्सा ।

अलङ्कारविशेषः । यथा, --
“निन्दाया निन्दया व्यक्तिर्व्याजनिन्देति गीयते ॥”
इति चन्द्रालोकः ॥
(उदाहरणं यथा, --
“विघेसनिन्द्यो यस्तेप्रागेकमेवाहरच्छिरः ॥”)

व्याजस्तुतिः, स्त्री, (व्याजेन स्तुतिः । व्याजरूपा

स्तुतिश्च ।) कपटप्रशंसा । अलङ्कारभेदः । यथा,
“उक्तिव्याजस्तुतिर्निन्दास्तुतिभ्यां स्तुतिनिन्दयोः ॥”
इति चन्द्रालोकः ॥
(उदाहरणं यथा, --
“कः स्वर्धुनि ! विवेकस्ते पापिनो नयसे दिवम् ॥”)

व्याजोक्तिः, स्त्री, (व्याजेन उक्तिः ।) छलवाक्यम् ।

अलङ्कारविशेषः । यथा, --
“व्याजोक्तिरन्यहेतूक्त्या यदाकारस्य गोपनम् ॥”
इति चन्द्रालोकः ॥
(उदाहरणं यथा, --
“सखि ! पश्य गृहायाम परागैरस्मि धूसरा ॥”)
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/वोटा&oldid=44074" इत्यस्माद् प्रतिप्राप्तम्