- ज्यैष्ठाषाढयोर्दिवादण्डा यथा ।
- रविवारे शू ४ अ ६ व ६ अ ६ व ४ मा २ शू २ ।
- सोमवारे व ८ अ ४ शू ६ व ८ शू ४ ।
- मङ्गलवारे अ ६ शू ४ अ ६ व ६ मा २ अ २ मा २ शू २ ।
- बुधवारे शू २ व ४ अ ८ व ६ अ ८ शू २ ।
- गुरुवारे मा २ शू २ व ६ मा ४ शू ४ व ६ अ ६ ।
- शुक्रवारे शू २ मा २ व ६ मा २ शू ४ अ ६ व ४ शू ४ ।
- शनिवारे मा २ शू २ व ६ मा ६ शू ४ व ४ अ ६ ।
- तत्र रात्रिदण्डा यथा ।
- रविवारे अ ४ शू ४ व ४ अ ६ व ८ शू ४ ।
- सोमवारे व ८ अ ८ शू ४ अ ४ शू २ मा २ शू २ ।
- मङ्गलवारे अ २ व ४ मा ४ शू ४ व २ अ ६ शू २ व ६ ।
- बुधवारे अ १० शू २ व ४ अ ४ शू १० ।
- गुरुवारे शू २ अ ६ शू २ व ४ शू २ अ ६ शू ४ अ ४ ।
- शुक्रवारे अ ६ शू २ व ४ शू ६ अ ६ शू २ अ ४ ।
- शनिवारे शू २ अ २ व ८ शू २ अ ६ शू ४ अ ६ ।
- मतान्तरे अस्य प्रमाणं यथा, --
- “माहेन्द्रे विजयो नित्यं अमृते कार्य्यशोभनम् ।
- वक्रे कार्य्यविलम्बः स्याच्छून्ये च मरणं ध्रुवम् ॥
- वैशाखादिश्रावणान्तं एकभावेन संवहेत् ।
- अमृतादि दिवारात्रौ चतुर्मासं यथाक्रमम् ॥
- याममानं दिवामाने ज्ञेयं सर्व्वत्र मासके ।
- तत्प्रमाणेन ज्ञातव्यं दण्डमानं विचक्षणैः ।
- रात्रिमानप्रमाणेन ज्ञेयो दण्डप्रमाणकः ॥
- न वारतिथिनक्षत्रं न योगकरणं तथा ।
- शिवज्ञानं समासाद्य सर्व्वं मुनिर्विचारयेत् ॥”
- तथा ।
- “भाद्रादिमार्गपर्य्यन्तं सप्तवारे समादिशेत् ।
- शून्यवक्रादियोगं हि पीषादिचैत्रतस्तथा ॥”
- इति ज्योतिषे शिवज्ञानम् ॥ * ॥
- अनेकप्रकारं शिवज्ञानं शिवाज्ञा शिवालिखितं
- अमृतघटी च दृष्टं किन्तु परस्परमनैक्यं जातम् ॥
शिवतातिः, स्त्री, कल्याणकारिणी । इति हेम-
- चन्द्रः ॥ अस्य पर्य्यायः शिवङ्करशब्दे द्रष्टव्यः ॥
शिवदत्तं, क्ली, (शिवेन दत्तम् ।) विष्णुचक्रम् ।
- इति केचित् ॥ शिवेन शिवाय वा दत्तं द्रव्य-
- मात्रञ्च ॥
शिवदारु, क्ली, (शिवस्य दारु ।) देवदारुवृक्षः ।
- इति राजनिर्घण्टः ॥
शिवदूतिका, स्त्री, (शिवदूती + स्वार्थे कन् ।)
- मातृकाविशेषः । इति शब्दरत्नावली ॥
शिवदूती, स्त्री, (शिवेन दूतयति सन्देशं प्रापयती-
- न्यर्थे दूत + णिच् + पचाद्यच् । यद्वा, शिवो दूतो
- यस्याः । गौरादेराकृतिगणत्वात् ङीष् ।) दुर्गा ।
- इति त्रिकाण्डशेषः ॥ योगिनीविशेषः । यथा,
- “ब्रह्माणो प्रथमा प्रोक्ता ततो माहेश्वरी परा ।
- कीमारी वेष्णवी चैव वाराही पञ्चमी तथा ॥
- नारमिंहो तथैवैन्द्री शिवदूती तथाष्टमी ।
- एताः पूज्या महाभागा योगिनीः काम-
- दायिनोः ॥”
|
- तस्या उत्पत्तिमन्त्रध्यानादि यथा, --
- “कौषिक्या हृदयाद्देवी निःसृता ध्यानतो
- हरेः ।
- शिवदूतीति विख्याता शिवाशतसुसंवृता ॥
- मन्त्रमस्याः प्रवक्ष्यामि धर्म्मकामार्थदायकम् ।
- यत् श्रुत्वा साधको याति दुर्लभं शिवमन्दिरम् ॥
- येनाराध्य महादेवीं शिवदूतीं शिवात्मिकाम् ।
- न चिराल्लभते कामान्नरः सर्व्वजयी भवेत् ॥
- अन्तःसमाप्तिसहितो बिन्द्विन्दुभ्यां दशावरा ।
- स्वरेण पान्त्यदन्त्येन संसृष्टोऽन्तेन पूर्वशः ॥
- स एव बिन्दुयुगलपूर्वस्थोपान्त्यपावकः ।
- षष्ठस्वरकलाशून्यैः संहितः प्रथमस्थितः ॥
- मन्त्रोऽयं शिवदूत्यास्तु शिवदूतीजयप्रदः ।
- रूपमस्याः प्रवक्ष्यामि शृणु वत्सक संमतम् ॥
- चतुर्भुजं महाकायं सिन्दूरसदृशद्युतिम् ।
- रक्तदन्तं मुण्डमालाजटाजूटार्द्धचन्द्रधृक् ॥
- नागकुण्डलहाराभ्यां शोभितं नखरोज्ज्वलम् ।
- व्याघ्रचर्म्मपरीधानं दक्षिणे शूलचक्रधृक् ॥
- वामे पाशं तथा चर्म्म बिभ्रदूर्द्ध्वं परिक्रमात् ।
- स्थूलवक्त्रञ्च पीनोष्ठं तुङ्गमूर्त्तिं भयङ्करम् ॥
- निक्षिप्य दक्षिणं पादं सन्तिष्ठेत् कुणपोपरि ।
- वामपादं शृगालस्य पृष्ठे फेरुशतैर्वृतम् ॥
- ईदृशं शिवदूत्यास्तु मूर्द्ध्नि ध्यायेद्विभूतये ।
- ध्यानमात्रादथैतस्या नरः कल्याणमाप्नुयात् ॥
- पूजनादचिराद्देवो सर्व्वान् कामान् ददाति च ॥
- यः शिवाविरुतं श्रुत्वा शिवदूतों शिवप्रदाम् ।
- प्रणमेत् साधको भक्त्या तस्य कामाः करे
- स्थिताः ॥
- यदा जघान जगतां रक्तबीजं हिताय वै ।
- महादेवी महामाया तदास्याः कायतः सृता ॥
- दूतं प्रस्थापयामास शिवं शुम्भाय साम्बिका ।
- तेन सा शिवदूतीति देवैः सर्व्वैः प्रगीयते ॥
- क्षेमङ्करी च शान्ता च वेदमाता महोदरी ।
- कराला कामदा देवी भगास्या भगमालिनी ॥
|
- भगोदरी भगाहारा भगजिह्वा भगा तथा ।
- एता द्वादश योगिन्यः पूजने परिकीर्त्तिताः ॥
- एता द्वादश योगिन्यः शिवदूत्याः सदैव हि ।
- विचरन्ति स्वयं देवी यत्र यत्रैव गच्छति ॥”
- इति कालिकापुराणे उत्तरतन्त्रे ५० अध्यायः ॥
- प्रमाणानन्तरं वामने ५३ अध्याये मार्कण्डेय-
- पुराणे देवीमाहात्म्ये रक्तबीजवधाध्याये च
- द्रष्टव्यम् ॥
शिवद्रुमः, पुं, (शिवप्रियो द्रुमः ।) विल्ववृक्षः ।
- इति राजनिर्घण्टः ॥
शिवद्विष्टा, स्त्री, (शिवेन द्विष्टा तत्पूजनानर्ह-
- त्वात् ।) केतकी । इति राजनिर्घण्टः ॥
शिवधातुः, पुं, (शिवस्य धातुः ।) पारदम् ।
- पारदं शिववीर्य्यं स्यादिति दर्शनात् । गोदन्त-
- मणिः । इति केचित् ॥
शिवनाभिः, पुं, (शिवस्य नाभिरिव ।) शिवलिङ्ग-
- विशेषः । यथा, --
- “उत्तमं मध्यमधमं त्रिविधं लिङ्गमीरितम् ।
- चतुरङ्गुलमुत्सेधे रम्यवेदिकमुत्तकम् ॥
- उत्तमं लिङ्गमाख्यातं मुनिभिः शास्त्रकोविदैः ।
- तदर्द्धं मध्यमं प्रोक्तं तदर्द्धमधमं स्मृतम् ॥
- शिवनाभिमयं लिङ्गं प्रतिपूज्य महर्षिभिः ।
- श्रेष्ठञ्च सर्व्वलिङ्गेभ्यस्तस्मात् पूज्यं विधानतः ॥”
- इति वीरमित्रोदयः ॥
शिवपुरी, स्त्री, (शिवस्य पुरी ।) काशी । इति
- हेमचन्द्रः ॥
शिवप्रियं, क्ली, (शिवस्य प्रियम् ।) रुद्रा-
- क्षम् । इति राजनिर्घण्टः ॥ शिवस्य प्रियद्रष्ये
- त्रि ॥
शिवपियः, पुं, (शिवस्य प्रियः ।) वकवृक्ष । इति
- जटाधरः ॥ स्फटिकः । धुस्तूरः । इति राजनिर्घण्टः ॥
|