पृष्ठ ५/१५४

श्रथ कि वधे । मोक्षे । वधे । इति कविकल्पद्रुमः ॥

(चुरा०-पक्षे भ्वा०-सक०-सेट् ।) कि, श्राथ-
यति श्रथयति । श्लाघ्यं श्राथयति स्फुटार्थ-
मधुरं गद्यञ्च पद्यं सदा भावालङ्कृतिपेशलं
श्रथयति स्पष्टाक्षरं नाटकम् । श्रथ्नाति प्रथि-
तावदातचरितः शास्त्रं विचित्रञ्च य इति
हलायुधोक्तं श्रथयतीति श्रथ त् क दौर्ब्बल्ये
इत्यदन्तस्य रूपम् । अनेकार्यत्वात् बध्नाती-
त्यर्थः । इति दुर्गादासः

श्रथ, त् क दौर्बल्ये । इति कविकल्पद्रुमः ॥ (अदन्त

चुरा०-पर०-अक०-सेट् ।) श्रथयति । इति
दुर्गादासः ॥

श्रथ, म वधे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) म, श्रथयति ! इति दुर्गादासः ॥

श्रथनं, क्ली, (श्रथ + ल्युट् ।) वधः । यत्नः । पुनः-

पुनर्हर्षणम् । बन्धनम् । मोक्षणम् । शिथिली-
करणम् । इति श्रथधातोरनट्प्रत्ययेन निष्प-
न्नम् ॥

श्रद्दधानः, त्रि, (श्रद्वत्ते इति । श्रत् + धा +

शानच् ।) श्रद्वायुक्तः । यथा, --
“तच्छ्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया ।
पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतगृहीतया ॥”
इति श्रीभागवते १ स्कन्धे २ अध्यायः ॥

श्रद्धा, स्त्री, (श्रद्धानमिति । श्रत् + धा + “षिद्-

भिदादिभ्योऽङ् ।” ३ । ३ । १०४ । इत्यङ् ।
टाप् ।) संप्रत्ययः । स्पृहा । इत्यमरः ॥ (यथा,
रामायणे । २ । ३८ । २ ।
“चिच्छेद जीविते श्रद्धां धर्म्मे यशसि चात्मनः ॥”
आदरः । शुद्धिः । इति शब्दरत्नावली ॥
शास्त्रार्थे दृढप्रत्ययः । यथा, --
“प्रत्ययो धर्म्मकार्य्येषु यथा श्रद्धेत्युदाहृता ।
नास्ति ह्यश्रद्दधानस्य धर्म्मकृत्ये प्रयोजनम् ॥”
इति स्मृतिः ॥
(यथा, रघुः । २ । १६ ।
“बभौ च सा तेन सतां मतेन ।
श्रद्धेव साक्षात् विधिनोपपन्ना ॥”)
चेतसः प्रसादः । इति पातञ्चलभाष्ये वेदव्यासः ॥
सा त्रिविधा । यथा, --
श्रीभगवानुवाच ।
“त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।
सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥
सत्त्वानुरूपा सर्व्वस्य श्रद्धा भवति भारत ।
श्रद्धामयोऽयं पुरुषो यो यच्छद्धः स एव सः ॥
यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः ।
प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥”
इति श्रीभगवद्गीतायां १७ अध्यायः ॥ * ॥
तस्याः प्रशंसा यथा, --
ब्रह्मोवाच ।
“श्रद्धापूर्व्वा इमे धर्म्माः श्रद्धा मध्यान्त-
संस्थिताः ।
श्रद्धा नित्या प्रतिष्ठाश्च धर्म्माः श्रंद्धैव कीर्त्तिताः ॥
श्रुतिमात्ररसाः सूक्ष्माः प्रधानपुरुषेश्वराः ।
श्रद्धामात्रेण गृह्यन्ते न करेण न चक्षुषा ॥
कायक्लेशैर्न बहुभिस्तथवार्थस्य राशिभिः ।
धर्म्मः संप्राप्यते सूक्ष्मः श्रद्धाहीनैः सुरैरपि ॥
श्रद्धा धर्म्मः परः सूक्ष्मः श्रद्धा ज्ञानं हुतं तपः ।
श्रद्धा स्वर्गश्च मोक्षश्च श्रद्धा सर्व्वमिदं जगत् ॥
सर्व्वस्वं जीवितं वापि दद्यादश्रद्धया यदि ।
नाप्नुयात्तत्फलं किञ्चित् श्रद्धादानं ततो भवेत् ॥
एवं श्रद्धान्वयाः सर्वे सर्वधर्म्माः प्रकीर्त्तिताः ।
केशवः श्रद्धया गम्यो ध्येयः पूज्यश्च सर्वदा ॥”
इति वह्निपुराणे धेनुदानमाहात्म्याध्यायः ॥
देवलः ।
“अर्थानामुदिते पात्रे श्रद्धया प्रतिपादनम् ।
दानमित्यभिनिर्दिष्टं व्याख्यानन्तस्य वक्ष्यते ॥”
उदिते शास्त्रकथिते । श्रद्धा देवलोक्ता यथा,
“सत्कृतिश्चानसूया च सदा श्रद्धेति
कीर्त्तिता ॥”
अतएव भगवद्गीतासु ।
“अश्रद्धया हुतं दत्तं तपस्तप्तं कृतन्तु यत् ।
असदित्युच्यते पार्थ न च तत् प्रेत्य नेह च ॥”
हरिवंशे बलिं प्रति भगवद्वाक्यम् ।
अश्रोत्रियं श्राद्धमधीतमव्रतं
त्वदक्षिणं यज्ञमनृत्विजा हुतम् ।
अश्रद्धया दत्तमसंस्कृतं हवि-
र्भागाः षडेते तव दैत्यपुङ्कव ॥”
इति शुद्धितत्त्वम् ॥
याज्ञवल्क्यः ।
“श्रद्धाविधिसमायुक्तं कर्म्म यत् क्रियते नृभिः ।
सुविशुद्धेन भावेन तदानन्त्याय कल्प्यते ॥”
योगियाज्ञवल्क्यः ।
“विधिहीनं भवेद्दुष्टं कृतमश्रद्धया च तत् ।
तद्धरन्त्यसुरास्तस्य मूढस्य दुष्कृतात्मनः ॥”
इति प्रायश्चित्ततत्त्वम् ॥

श्रद्धालुः, स्त्री, (श्रद्दधातीति । श्रत् + धा + स्पृहि

गृहिपतिदयिनिद्रेति” । ३ । २ । १५८ । इति
आलुच् ।) दोहदवती । श्रद्धायुक्ते, त्रि । इत्य-
मरः ॥ (यथा, भागवते । ३ । ८ । १० ।
“सोऽहं तवैतत् कथयामि वत्स
श्रद्धालवे नित्यमनुव्रताय ॥”)

श्रद्धावान्, [त्] त्रि, (श्रद्धा विद्यतेऽस्येति । श्रद्धा

+ मतुप् । मस्य वः ।) श्रद्धायुक्तः । यथा, --
“श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥”
इति भगवद्गीतायां ४ अध्यायः ॥

श्रन्थ, कि दर्भे । वधे । इति कविकल्पद्रुमः ॥

(चुरा०-पक्षे भ्वा०-सक०-सेट् ।) कि, श्रन्थ-
यति श्रन्थति । दर्भो ग्रन्थनम् । इति दुर्गा-
दासः ॥

श्रन्थ, ग मोक्षे । प्रतिहृषि । इति कविकल्पद्रुमः ॥

(क्र्या०-पर०-सक०-सेट् ।) ग, श्रथ्नाति वत्सं
लोकः मोचयतीत्यर्थः । श्रथ्नाति शिशुं लोकः
पुनः पुनर्हर्षयति इत्यर्थः । शश्रन्थ । इति दुर्गा-
दासः ॥

श्रन्थः, पुं, (श्रथ्नाति मोचयति भक्तान् संसारा-

दिति । श्रन्थ + अच् ।) विष्णुः । इति त्रिकाण्ड-
शेषः ॥ (श्रन्थ + भावे घञ् ।) श्रन्थधात्वर्थो-
ऽप्यत्र ॥

श्रन्थनं, क्ली, (श्रन्थ + भावे ल्युट् ।) ग्रन्थनम् ।

यथा, --
“सन्दर्भो रसना गुम्फः श्रन्थनं ग्रन्थनं समाः ।”
इति हेमचन्द्रः ॥

श्रन्थितः, त्रि, ग्रन्थितः । बद्धः । कृतवधः । मुक्तः ।

हर्षितः । इति श्रन्थधातोः क्तप्रत्ययेन निष्पन्नः ॥

श्रपितं, त्रि, (श्रप + क्तः ।) घृतदुग्धजलभिन्नपक्व-

द्रव्यम् । यथा, --
“निष्पक्वं क्वथिते पक्वन्त्वाज्यं क्षीरं पयः स्मृतम् ।
अन्यत्तु श्रपितं श्राणं समुदक्तोद्धृते समे ॥”
इति जटाधरः ॥

श्रपिता, स्त्री, (श्रप + क्तः । टाप् ।) काञ्जिकम् ।

इति केचित् ॥

श्रभ उ भ य ञि इर् तपःखेदयोः । इति कवि-

कल्पद्रुमः ॥ (दिवा०-पर०-अक०-सेट् । क्त्वावेट् ।)
उ, श्रमित्वा श्रान्त्वा । भ य, श्राम्यति लोकः
तपः करोति खिद्यति वेत्यर्थः । ञि, श्रान्तो-
ऽस्ति । इर् अश्रमत् अश्रीत् । अस्मात् पुषा-
दित्वान्नित्यं ङ इत्यन्ये । धूर्य्यान् विश्रामयेति स
इति रघौ श्राम त् क मन्त्रे इत्यदन्तस्य रूपम् ।
इति दुर्गादासः ॥

श्रमः, पुं, (श्रम + घञ् । नोदात्तोपदेशस्येति

वृद्ध्यभावः ।) तपः । खेदः । इति श्रमधात्वर्थ-
दर्शनात् ॥ श्रान्तिः । तत्पर्य्यायः । क्लमः २ ।
क्लेशः ३ परिश्रमः ४ प्रयासः ५ आयासः ६
व्यायामः ७ । इति हेमचन्द्रः ॥ क्लमथः ८ ।
इत्यसरः ॥ (यथा, भागवते । ५ । १९ ।
१४ ।
“यथैहिकामुष्मिककामलम्पटः
सुतेषु दारेषु धनेषु चिन्तयन् ।
शङ्केत विद्वान् कुकलेवरात्ययात्
यस्तस्य यत्नः श्रम एव केवलम् ॥”)
शस्त्राभ्यासः । तत्पर्य्यायः । स्वुरली २ योग्यः ३
अभ्यासः ४ । इति च हेमचन्द्रः ॥

श्रमणः, पुं, (श्राम्यति तपस्यतीति । श्रम + स्यु ।)

यतिविशेषः । इति मेदिनी ॥ (स तु बौद्व-
सन्न्यासी ।) तत्पर्य्यायः ।
“मुक्तिर्मोक्षोऽपवर्गोऽथ मुमुक्षुः श्रमणो यतिः ।
वाचंयमो व्रती साधुरनगार ऋषिर्मुनिः ॥
निर्ग्रन्थो भिक्षुरस्य स्यं तपोयोगशमादयः ।”
इति हेमचन्द्रः ॥
(यथा, रामायणे । १ । १४ । १२ ।
“तापसा भूञ्जते चापि श्रमणाश्चैव भुञ्जते ॥”)
निन्द्यजीविनिं त्रि, । इति मेदिनी ॥

श्रमणा, स्त्री, सुदर्शना । मांसी । मुण्डीरी ।

शवरीभेदः इति मेदिनी ॥

श्रमी [न्] त्रि, श्रमविशिष्टः । श्रमशब्दादस्त्यर्थे

इन्प्रत्ययेन निष्पन्नः । (यद्वा, श्राम्यतीति ।
पृष्ठ ५/१५५
श्रम तपः खेदयोः + “शमित्यष्टाभ्यो घिनुण् ।”
३ । २ । १४१ । इति घिनुण् ॥)

श्रयः, पुं, (श्रि + “एरच् ।” ३ । ३ । ५६ । इति

अच् ।) आश्रयः । श्रिधातोरल्प्रत्ययेन निष्पन्नः

श्रयणं, क्ली, (श्रि + ल्युट् ।) आश्रयः । तत्पर्य्यायः

श्रायः २ । इत्यमरः ॥ (यथा, भागवते । ८ ।
९ । २८ ।
“तत्रामृतं सुरगणाः फलमञ्जसापु-
र्यत्पादपङ्कजरजःश्रयणान्न दत्याः ॥”)

श्रवः, पुं, (श्रूयतेऽनेनेति । श्रु + “ऋदोरप् ।”

३ । ३ । ५७ । इत्यप् ।) कर्णः । (यथा,
कथासरित्सागरे । १०३ । १५८ ।
“तुमुलप्रोल्ल सच्छब्दपिहितान्यरवश्रवः ।
चचाल स बलाम्भोधिस्तयोर्गम्भीरभीषणः ॥”
चु + भावे अप् ।) श्रवणम् । इत्यमरटीकायां
भरतः ॥ (यथा, रघुः । ११ । ७१ ।
“सप्तसर्प इव दण्डघट्टनात्
रोषितोऽस्मि तव विक्रमश्रवात् ॥”
श्रूयते इति । कर्म्मणि अप् । शब्दः । यथा,
वाजसनेयसंहितायाम् । १६ । ३४ ।
“नप्तो वन्याय च कक्ष्याय च नमः श्रवाय च
प्रतिश्रवाय च ॥”)

श्रवः, [स्] क्ली, (श्रूयतेऽनेनेति । श्रु + “सर्व-

धातुभ्योऽसुन् ॥” इत्यसुन् ।) कर्णः । इत्यमरः ॥
(अन्नम् । इति निघण्टुः । २ । ७ ॥ यथा, ऋग्-
वेदे । ३ । १९ । ५ ।
“अधिश्रवांसि धेहि नस्तनूषु ॥”
धनम् । इति निघण्टुः । २ । १० ॥ यशः । यथा,
भागवते । ४ । १७ । ६ ।
“श्रवः सुश्रवसः पुण्यं सर्व्वदेहकथाश्रयम् ॥”
शब्दः । यथा, तत्रैव । ५ । ११ । ९ ।
“गन्धाकृति स्पर्शरसश्रवांसि
विसर्गवत्यर्त्त्यभिजल्पशिल्पाः ॥”)

श्रवणं, क्ली, (श्रूयतेऽनेनेति । श्रु + करणे ल्युट् ।)

कर्णः । इत्यमरः ॥ न स्त्रियां श्रवणः कर्णः ।
इति हेममाली । इति तट्टीकायां भरतः ॥
षण्मासाभ्यन्तरे श्रवणयोश्छिद्रं भवति । इति
सुखबोधः ॥ श्रुतिः । सा तु कर्णेन्द्रियज्ञानम् ।
इति मेदिनी ॥ शोना इति भाषा ॥ (यथा,
मनुः । ८ । ७४ ।
“समक्षद्रर्शनात् साक्ष्यं श्रवणाच्चैव सिध्यति ॥”
तत्तु नीतिशास्त्रोक्तधीगुणानामन्यतमम् । यथा,
कामन्दकीये । ४ । २२ ।
“शुश्रूषा श्रवणञ्चैव ग्रहणं धारणं तथा ।
ऊद्वोऽपोहोऽर्थविज्ञानं तत्त्वज्ञानञ्च धीगुणाः ॥”)
वड्विधलिङ्गैरशेषवेदान्तानामद्वितीये वस्तुनि
तात्पर्य्यावधारणम् । लिङ्गानि तु उपक्रमोप-
संहाराभ्यासापूर्व्वता फलार्थवादोपपत्त्या-
ख्यानि । इति वेदान्तसारः ॥

श्रवणः, पुं, क्ली, श्रवणानक्षत्रम् । इति मेदिनी ॥

(यथा च स्मृतिः ।
“अमार्कपाते श्रवणं यदि स्यादिति ॥”)

श्रवणद्वादशी, स्त्री, (श्रवणयुक्ता द्वादशी ।)

श्रवणानक्षत्रयुक्तभाद्रशुक्लद्वादशी । यथा, --
पितामह उवाच ।
“श्रवणद्वादशीं वक्ष्ये भुक्तिमुक्तिप्रदायिनीम् ।
एकादशी द्वादशी च श्रवणेन च संयुता ॥
विजया सा तिथिः प्रोक्ता हरिपूजादि चाक्ष-
यम् ।
एकभक्तेन नक्तेन तथैवायाचितेन च ॥
उपवासेन भक्ष्येण नैवाद्वादशिको भवेत् ।
कांस्यं माषं तथा क्षौद्रं लोभं वितथभाषणम् ॥
व्यायामञ्च व्यवायञ्च दिवास्वप्नमथाञ्जनम् ।
शिलापिष्टं मसूरञ्च द्वादश्यां वर्ज्जयेन्नरः ॥
मासि भाद्रपदे शुक्ले द्वादशी श्रवणान्विता ।
महती द्वादशी ज्ञेया उपवासे महाफला ॥
सङ्गमे सरितः स्नानं बुधयुक्ता महाफला ।
कुम्भे सरत्ने सजले यजेत् स्वर्णन्तु वामनम् ॥
सितवस्त्रयुगच्छन्नं छत्रोपानद्युगान्वितम् ।
ॐ नमो वासुदेवाय शिरः संपूजयेत्ततः ॥
श्रीधराय मुखं तद्वत् कण्ठं कृष्णाय वै नमः ।
नमः श्रीपतये वक्षो भुजौ सर्व्वास्त्रधारिणे ॥
व्यापकाय नमः कक्षौ केशवायोदरं बुधः ।
त्रैलोक्यपतये मेढ्रं जङ्घां सर्व्वपते नमः ॥
सर्व्वात्मने नमः पादौ नैवेद्यं घृतपायसम् ।
कुम्भांश्च मोदकान् दद्यात् जागरं कारयेन्निशि ॥
स्नात्वा प्रीतोऽर्च्चयित्वा तु कृतपुष्पाञ्जलिर्वदेत् ।
नमो नमस्ते गोबिन्द बुध श्रवणसंज्ञक ॥
अघौघसंक्षयं कृत्वा सर्वसौख्यप्रदो भव ।
प्रीयतां देव देवेशो विप्रेभ्यः कलसान् ददेत् ।
नद्यास्तीरेऽथवा कुर्य्यात् सर्व्वान् कामानवा-
प्नुयात् ॥”
इति गारुडे १४१ अध्यायः ॥
अन्यत् द्वादशीशब्दे द्रष्टव्यम् ॥

श्रवणशीर्षिका, स्त्री, श्रावणीवृक्षः । इति राज-

निर्घण्टः ॥

श्रवणा, स्त्री, पुं, नक्षत्रविशेषः । इति मेदिनी ॥ सा

तु अश्विन्याद्यन्तर्गतद्वाविंशनक्षत्रम् । तस्याः
स्वरूपं शराकारतारात्रयात्मकम् । तस्याधि-
देवो हरिः । यथा, --
“तारकात्रयमिते शराकृतौ
केशवे गगनमध्यवर्त्तिनि ।
मत्तवारणगतेऽजलग्नतो
निर्ययुर्गजमहीध्रलिप्तिकाः ॥” दं १ । पं १८ ।
इति कालिदासकृतरात्रिलग्ननिरूपणम् ॥ * ॥
तत्र जातफलम् ।
“शास्त्रानुरक्तो बहुपुत्त्रमित्रः
सत्पुत्त्रभक्तिर्व्विजितारिवर्गः ।
चेज्जन्मकाले श्रवणा हि यस्य
प्रेमा पुराणश्रवणे प्रवीणः ॥
इति कोष्ठीप्रदीपः ॥ * ॥
तत्र गृहारम्भार्यतृणकाष्ठादिच्छेदनसंग्रहदक्षि-
णादिक्गमननिषेधा यथा, --
“छेदनं संग्रहञ्चैव काष्ठादीनां न कारयेत् ।
श्रवणादौ बुधः षट्के न गच्छेद्दक्षिणां दिशम् ॥
अग्निपीडा भयं शोको राजपीडा धनक्षयः ।
संग्रहे तृणकाष्ठानां कृते वस्वादिपञ्चके ॥”
इति ज्योतिस्तत्त्वम् ॥

श्रवणा, स्त्री, मुण्डरिकावृक्षः । इति रत्नमाला ॥

श्रवाय्यः, पुं, (श्रु श्रवणे + “श्रुदक्षिस्पृहिगृहिभ्य

आय्यः ।” उणा० ३ । ९६ । इति आय्यः ।)
बलियोग्यपशुः । यज्ञियपशुः । इति सिद्धान्त-
कौमुदी ॥ (श्रवणीये, त्रि । यथा, ऋग्वदे । १ ।
२७ । ८ ।
“वाजो अस्ति श्रवाय्यः ॥”
“श्रवाय्यः श्रवणीयो वाजोऽस्ति बलविशेषो-
ऽस्ति ।” इति तद्भाष्यम् ॥)

श्रविष्ठा, स्त्री, (श्रवणमिति श्रवः । सोऽस्या

अस्तीति । मतुप् । अतिशयेन श्रववती । अति-
शयने तमबिष्ठनौ इति इष्ठन् । विन्मतुपोर्लुगिति
मतुपो लुक् ।) धनिष्ठानक्षत्रम् । इत्यमरः ॥
(यथा, वामनपुराणे ७७ अध्याये ।
“श्रविष्ठायां तथा पृष्ठं शालिभक्तञ्च दोहदे ।
पुष्ये मुखं पूजयेत दोहदे घृतपायसम् ॥”)

श्रविष्ठाजः, पुं, (श्रविष्ठायां जायते इति । जन् +

डः ।) बुधग्रहः । इति त्रिकाण्डशेषः ॥ तत्र
जाते, त्रि ॥

श्रव्यः, त्रि, श्रोतव्यः । श्रवणार्हवाक्यादिः । श्रुधातो

र्यप्रत्ययेन निष्पन्नः ॥ (यथा, राधातन्त्रे । ९ । ३ ।
“यत्श्रुत्वा परमेशानि श्रव्यमन्यन्न रोचते ॥”)
श्रा, ल स्वेदे । इति कविकल्पद्रुमः ॥ अदा०-
पर०-अक०-अनिट् ।) रेफयुक्तस्तालव्यादिः ।
ल, श्राति । इति दुर्गादासः ॥

श्रा, ल म पाके । इतिकविकल्कद्रुमः ॥ (अदा०-

पर०-सेक०-अनिट् ।) रेफयुक्तस्तालव्यादिः । ल,
श्राति । म, श्रपयति । इति दुर्गादासः ॥

श्राणं, त्रि, (श्रा + क्तः ।) पक्वम् । इति मेदिनी ॥

घृतदुग्धजलभिन्नपक्वद्रव्यम् । इति जटाधरः ॥

श्राणा, स्त्री, (श्रायते स्मेति । श्रा + क्तः )

यवागूः । इत्यमरः ॥

श्राद्धं, क्ली, (श्रद्धा प्रयोजनमस्य । श्रद्धा + “चूडा-

दिभ्य उपसंख्यानम् ।” ५ । १ । ११० । इत्यस्य
वार्त्तिकोक्त्या अण् ।) शास्त्रोक्तविधानेन पितृ-
कर्म्म । इत्यमरः ॥ पित्रु द्देश्यकश्रद्धयान्नादि-
दानम् । तस्य लक्षणम् । यथा, --
“संस्कृतव्यञ्जनाढ्यञ्च पयोदधिघृतान्वितम् ।
श्रद्धया दीयते यस्मात् श्राद्धं तेन निगद्यते ॥”
इति पुलस्त्यवचनात् श्रद्धया अन्नादेर्दानं श्राद्धं
इति वैदिकप्रयोगाधीनयौगिकम् । इति श्राद्ध-
तत्त्वम् ॥ अपि च । सम्बोधनपदोपनीतान्
पित्रादीन् चतुर्थ्य न्तपदेनोद्दिश्य हविस्त्यागः
श्राद्धम् । तत्तु द्वादशविधं यथा । विश्वामित्रः ।
“नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं सपिण्डनग्
पार्व्वणञ्चेति विज्ञेयं गोष्ठ्यां शुद्ध्यर्थमष्टमम् ॥
कर्म्माङ्गं नवमं प्रोक्तं दैविकं दशमं स्मृतम् ।
यात्रार्थैकादशं प्रोक्तं पुष्ट्यर्थं द्वादशं स्मृतम् ॥”
पृष्ठ ५/१५६
एतद्भविष्यपुरांणे विवृतम् । यथा, भविष्ये ।
“अहन्यहनि यच्छ्राद्धं तन्नित्यमभिधीयते ।
वैश्वदेवविहीनं तदशक्तावुदकेन तु ॥
एकोद्दिष्टन्तु यच्छ्राद्धं तन्नैमित्तकमुच्यते ।
तदप्यदैवं कर्त्तव्यमयुग्मानासयेद्द्विजान् ॥
काम्याय तु हितं काम्यमभिप्रेतार्थसिद्धये ।
पार्व्वणेन विधानेन तदप्युक्तं खगाधिप ॥
वृद्धौ यत् क्रियते श्राद्धं वृद्धिश्राद्धं तदुच्यते ।
सर्व्वं प्रदक्षिणं कार्य्यं पूर्व्वाह्णे तूपवीतिना ॥
गन्धोदकतिलैयुक्तं कुर्य्यात् पात्रचतुष्टयम् ।
अघ्यार्थं पितृपात्रेषु प्रे तपात्रं प्रसेचयेत् ॥
ये समाना इति द्वाभ्यामेतज्ज्ञेयं सपिण्डनम् ।
नित्येन तुल्यं शेषं स्यादेकोद्दिष्टं स्त्रिया अपि ॥
श्रमावास्यां यत् क्रियते तत् पार्व्वणमुदाहृतम्
क्रियते वा पर्वणि यत् तत् पार्वणमिति स्थितिः
गोष्ट्यां यत् क्रियते श्राद्धं गोष्ठीश्राद्धं तदुच्यते
बहूनां विदुषां सम्पत्सुखार्थं पितृतृप्तये ॥
क्रियते शुद्धये यत्तु ब्राह्मणानान्तु भोजनम् ।
शुद्ध्यथमिति तत् प्रोक्तं वेनतेय मनीषिभिः ॥
निषेककाले सोमे च सीमन्तोन्नयने तथा ।
ज्ञेयं पुंसवने चैव श्राद्धं कर्म्माङ्गमेव च ॥
देवानुद्दिश्य यच्छ्राद्धं तद्दैविकमिहोच्यते ।
हविष्येण विशिष्टेन सप्तम्यादिषु यत्नतः ॥
गच्छन् देशान्तरं यत्तु श्राद्धं कुर्य्याच्च सर्पिषा
यात्रार्थमिति तत् प्रोक्तं प्रवेशे च न संशयः ॥
शरीरोपचये श्राद्धमर्थोपचय एव च ।
पुष्ट्यर्थमेतद्विज्ञे यमीपचायिकमुच्यते ॥” * ॥
तस्य पञ्चविधत्वं यथा । बृहस्पतिः ।
“नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं तथैव च
पार्व्वणञ्चेति मनुना श्राद्धं पञ्चविधं स्मृतम् ॥”
कूर्म्मपुराणे ।
“अहन्यहनि नित्यं स्यात् काम्यं नैमित्तिकंपुनः
एकोद्दिष्टन्तु विज्ञेयं बृद्धिश्राद्धञ्च पार्वणम् ॥
एत त् पञ्चविधं श्राद्धं मनुना परिकीर्त्तितम् ॥”
मत्स्यपुराणे त्रैविध्यमुक्तं यथा, --
“नित्य नैमित्तिकं काम्यं त्रिविधं श्राद्धमुच्यते ॥”
तस्य द्वैविध्यम् । विष्णुना नित्यकाम्यरूपतया
द्वैविध्यं वक्ष्यते । तत्र नित्यपदमावश्यकरूपतया
पार्व्वणैकोद्दिष्टयोरपि परिग्रहार्थम् । काम्य-
पदमनावश्यकत्वार्थम् । इति श्राद्धविवेकः ॥ * ॥
आदावात्रेयमुनिपुत्त्रेण निमिना तत्पुत्त्रस्य
श्राद्धं कृतम् । यथा, --
धरण्युवाच ।
“को गुणः पितृयज्ञस्य कथमेव प्रपूज्यते ।
केन चोत्पादितं श्राद्धं कस्मिन्नर्थे किमात्मकम्
एतदिच्छाम्यहं श्रोतुं विस्तरेण ववेस्व मे ॥
वाराह उवाच ।
मनोस्तु वंशसम्भूत आत्रेय इति विश्रुतः ।
आत्रेयस्यात्मजो विप्रो निमिनामा तपोधनः ॥
निमिपुत्त्रस्तु धर्मात्मा त्रिषु लोकेषु विश्रुतः ।
वर्षाणाञ्च सहस्राणि तपस्तप्त्वा वसुन्धरे ॥
मृत्युकालमनुप्राप्तस्ततः पञ्चत्वमागतः ।
नष्टञ्च तं सुतं दृष्ट्वा निमेः शोक उपाविशत् ।
पुत्त्रशोकाभिसंयुक्तो दिवा रात्रौ च चिन्तयन् ॥
निमिः कृत्वा ततः शोकं विधिना तत्र माधवि
तमेव गतसङ्कल्पस्त्रिरात्रे प्रत्यपद्यत ॥
तस्य प्रतिविशुद्धस्य माघमासे तु द्वादशीम् ।
मनः संसृज्य विषयं बुद्धिर्विस्तारगामिनी ॥
स निमिश्चिन्तयामास श्राद्धकल्पं समाहितः ।
यानि तस्यैव भोज्यानि मूलानि च फलानि च ॥
यानि कानि च भक्ष्याणि नवञ्च रससम्भवम् ।
यानि तस्यैव चेष्टानि सर्व्वमेतदुदाहरत् ॥
आमन्त्र्य ब्राह्मणं पूर्व्वं शुचिर्भूत्वा समाहितः ।
दक्षिणावर्त्ततः सर्वं ऋषिः स्वयमकुर्व्वत ।
सप्त कृत्वा ततस्तत्र युगपत् समुपाविशत् ॥
दत्त्वा तु मांसशाकानि मूलानि च फलानि च
पूजयित्वा तु विप्रान् स सप्तकृत्वस्तु सुन्दरि ॥
कृत्वा तु दक्षिणाग्रांश्च कुशांश्च प्रयतः शुचिः ।
प्रददौ श्रीमते पिण्डं नामगोत्रमुदाहरन् ॥
एतस्मिन्नन्तरे देवि नारदो द्विजसत्तमः ।
जगाम तापसारण्यं ऋष्याश्रमविभूषितम् ॥
तं दृष्ट्वा पूजयामास स्वागतेनाथ माधवि ।
भीतो गद्गदया वाचा निश्वसंश्च मुहुर्मुहुः ॥
सव्रीडो भाषते विप्रः कारुण्ये न समन्वितः ।
कृतः स्नेहश्च पुत्त्रार्थे मया संकल्प्य यत् कृतम् ॥
तर्पयित्वा द्विजान् सप्त अन्नाद्येन फलेन च ।
पश्चाद्विसर्ज्जितं पिण्डं दर्भानास्तीर्य्य भूतले ॥
उदकानयनञ्चैव त्वपसव्येन पायितम् ।
शोकस्ने हप्रभावेण एतत् कर्म्म मया कृतम् ॥
न च श्रुतं मया पूर्वं न देवैरृ षिभिः कृतम् ।
भयं तीव्रं प्रपश्यामि मुनिशापात् सुदारुणात्
नारद उवाच ।
न भेतव्यं द्विजश्रेष्ठ पितरं शरणं व्रज ।
अधर्म्मं न च पश्यामि धर्मेणैवात्र संशयः ॥
नारदेनैवमुक्तस्तु निमिर्ध्यानमुपाविशत् ।
कर्म्मणा मनसा वाचा पितरं शरणं गतः ॥
ततोऽतिचिन्तयामास वंशकर्त्तारमात्मनः ।
ध्यायमानस्ततोऽप्याशु आजगाम तपोधनः ॥
पुत्त्रशोकेन सन्तप्तं पुत्त्रं दृष्ट्वा तपोधनः ।
पुत्त्रमाश्वासयामास वाग्भिरिष्टाभिरव्ययैः ॥
निमे सङ्कल्पितश्रेयान् पितृयज्ञस्तपोधन ।
पितृयज्ञेति निर्द्दिष्टो धर्म्मोऽयं ब्रह्मणा स्वयम् ॥
ततो ह्यतितरो धर्म्मः क्रतुरेकः प्रतिष्ठितः ।
कृतः स्वयम्भुवा पूर्वंश्राद्धे यो विधिरुत्तमः ॥”
इति वाराहे श्राद्धोत्पत्तिनामाध्यायः ॥ * ॥
अपि च ।
“अपसव्येन दातव्यं मासि मासि तिलोदकम् ।
प्रणम्य शिरसा देवीर्निर्व्वापस्य च धारिणीः ।
वष्णवी काश्यपी चेति अजया चेति नामतः ॥
एवं दत्तेन प्रीयन्ते पितरश्च न संशयः ।
परमात्मा शरीरस्थो देवतानां मया कृतः ॥
त्रयस्तत्र वरारोहे देवगात्राद्विनिस्मृताः ।
पितृदेवा भविष्यन्ति भोक्तारः पितृपिण्डकान् ।
देवतासुरगन्धर्व्वा यक्षराक्षसपन्नगाः ।
पिण्डं श्राद्धस्य पश्यन्ति वायुभूता न संशयः ॥
पितृयज्ञं विशालाक्षि ये कुर्व्वन्ति विदो जनाः ।
आयुः कीर्त्तिर्बलं तेजो धनं पुत्त्रपशुस्त्रियः ॥
ददन्ति पितरस्तस्य आरोग्यं नात्र संशयः ।
आत्मकर्म्मवशाल्लोकान् प्राप्नु वन्तीह शोभनान् ।
तिर्य्यक्ष च विमुच्यन्ते प्रेतभावाच्च मानवाः ।
नरके पच्यमानानां त्राता भवति मानवः ॥
पूजकः पितृदेवानां सर्व्वकालं गृहाश्रमे ।
द्विजातींस्तर्पयित्वां तु पूर्णेन विधिना नरः ॥
अक्षयं तस्य मन्यन्ते पितरः श्राद्धतर्पिताः ।
नरा ये पितृभक्तास्ते प्राप्नु वन्ति परां गतिम् ॥ *
पक्वान्नं तत्र वै कार्य्यं सुविसृष्टञ्च शुद्धितः ।
वृत्ते तु तत्र मध्याह्ने श्राद्धारम्भन्तु कारयेत् ॥
स्वागतञ्च तथा कृत्वा पाद्यार्थं मण्डलं शुचिः ।
पाद्यं दत्त्वा तु विप्राय गृहस्याभ्यन्तरं नयेत् ॥
आसनं कल्पयित्वा तु आवाह्य तदनन्तरम् ।
अर्घ्यं दद्याद्विधानेन गन्धमाल्यैः प्रपूज्य च ॥
धूपं दीपं तथा वस्त्रं तिलोदकमथापि वा ।
पात्रञ्च भोजनस्यार्थे विप्राग्रे धारयेत्तथा ॥
भस्मना मण्डलं कार्य्यं पंक्तिदोषनिवारकम् ।
अग्निकार्य्यं ततः कृत्वा अन्नञ्च परिवेशयेत् ॥
तत्र कार्य्यस्तु सङ्कल्पः पितॄनुद्दिश्य सुन्दरि ।
ययासुखेन भोक्तव्यमिति ब्रूयाद्द्विजं प्रति ॥
रक्षोघ्नमन्त्रपाठांश्च आचमेत विचक्षणः ।
तृप्तांस्तु ब्राह्मणान् ज्ञात्वा दद्याद्वै विकिरं
ततः ॥
उत्तरापोशनं दत्त्वा पिण्डप्रश्नन्तु कारयेत् ।
दक्षिणाभिमुखो भूत्वा दर्भानास्तीर्य्य भूतले ॥
पिण्डदानं प्रकुर्व्वीत पित्रादित्रितये तथा ।
पिण्डानां पूजनं कार्य्यं तन्तुवृद्ध्यै यथाविधि ॥
ब्राह्मणस्य च हस्ते तु दद्यादक्षय्यमात्मवान् ।
पिण्डास्त्रयस्तु वसुधे यावत्तिष्ठन्ति भूतले ॥
आप्यायमानाः पितरस्तावत्तिष्ठन्ति वै गृहे ।
उपस्पृश्य शुचिर्भूत्वा दद्यात् शान्त्युदकानि च ॥
प्रणम्य शिरसा भूमौ निर्वापस्य च धारिणीः ।
वैष्णवी काश्यपी चेति अक्षय्या चेति नामतः ॥
भक्षयेत् प्रथमं पिण्डं पत्न्यै देयञ्च मध्यमम् ।
तृतीयमुदके दद्यात् श्राद्धे एवं विधिः स्मृतः ॥
पितृदेवं विसृज्याथ भक्त्या तु प्रणमेत्तु तान् ।
एवं दत्तेन तुष्यन्ति पितृदेवा न संशयः ॥
दीर्घायुष्यं प्रयच्छन्ति पुत्त्रपौत्त्रधनानि च ।
तेनोत्तमेषु विप्रेषु दद्यात् श्राद्धं विधानतः ॥
अन्यथा तत्तु वै श्राद्धं निष्फलं नास्ति संशयः ।
मन्त्रहीनं क्रियाहीनं यत् श्राद्धं कुरुते द्विजः ।
मद्भक्तस्यासुरेन्द्रस्य फलं भवति भागतः ॥”
इति वाराहे पितृयज्ञनिर्णयनामाध्यायः ॥ * ॥
तस्याधिकारिक्रमो यथा, --
“पुत्त्रः पौत्त्रः प्रपौत्त्रो वा भ्राता वा भ्रातृ-
सन्ततिः ।
सपिण्डसन्ततिर्बापि क्रियार्हा नृप जायते ॥
तेषामभावे सर्व्वेषां समानोदकसन्ततिः ।
मातृपक्षस्य पिण्डेन सम्बद्धा ये जलेन वा ॥
पृष्ठ ५/१५७
कुलद्वयेऽपि चोत्सन्ने स्त्रीभिः कार्य्या क्रिया नृप ।
संघातान्तर्गतैर्व्वापि कार्य्याः प्रेतस्य याः
क्रियाः ॥
उत्सन्नबन्धुरिक्थाद्वा कारयेदवनीपतिः ।
पूर्व्वाः क्रिया मध्यमाश्च तथा चैवोत्तराः
क्रियाः ॥
त्रिप्रकाराः क्रियास्त्वेतास्तासां भेदं शृणुष्व मे ।
आदाहवार्य्यायुधादिस्पर्शाद्यन्तास्तु याः क्रियाः ॥
ताःपूर्व्वा मध्यमा मासि मास्येकोद्दिष्टसंज्ञिताः ।
प्रेते पितृत्वमापन्ने सपिण्डीकरणादनु ॥
क्रियन्ते याः क्रियाः पित्र्याः प्रोच्यन्तेता नृपो-
त्तराः ।
पितृमातृसपिण्डैस्तु समानसलिलैस्तथा ॥
संघातान्तर्गतैश्चैव राज्ञा वा धनहारिणा ।
पूर्व्वाः क्रियास्तु कर्त्तव्याः पुत्त्राद्यैरेव चोत्तराः ।
दौहित्रैर्व्वा नरश्रेष्ठ कार्य्यास्तत्तनयैस्तथा ।
मृताहनि च कर्त्तव्याः स्त्रीणामप्युत्तराः क्रियाः ॥
प्रतिसंवत्सरं राजन्ने कोद्दिष्टं विधानतः ॥”
इति विष्णुपुराणे ३ अंशे १३ अध्यायः ॥ * ॥
याज्ञवल्क्य उवाच ।
“अथ श्राद्धविधिं वक्ष्ये सर्व्वपापप्रणाशनम् ।
अमावास्याष्टकावृद्धिः कृष्णपक्षोऽयनद्वयम् ॥
द्रव्यं ब्राह्मणसम्पत्तिर्विषुवत् सूर्य्यसंक्रमः ।
व्यतीपातो मजच्छाया ग्रहणं चन्द्रसूर्य्ययोः ॥
श्राद्धं प्रतिरुचिश्चैव श्राद्धकालाः प्रकीत्तिताः ॥ * ॥
अग्रो यः सर्व्ववेदेषु श्रोत्रियो वेदविद्युवा ।
वेदार्थविज्ज्येष्ठसामास्त्रिमधुस्त्रिसुपर्णिकः ॥
स्वस्रीयऋत्विग् जामातृयाज्यश्वशुरमातुलाः ।
त्रिणाचिकेतदीहित्रशिष्यसम्बन्धिबान्धवाः ॥
कर्म्मनिष्ठास्तपोनिष्ठाः पाञ्चाग्निर्ब्रह्यचारिणः ।
पितृमातृपराश्चैव ब्राह्मणाः श्राद्धदेवताः ॥ * ॥
रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा ॥
अवकीर्ण्यादयो ये च ये चाचारविवर्ज्जिताः ।
अवैष्णवाश्च ये सर्व्वे न श्राद्धार्हाः कदाचन ॥ * ॥
निमन्त्रयेच्च पूर्व्वेद्युर्द्विजैर्भाव्यञ्च संयतैः ।
आचान्तश्चैव पूर्व्वाह्णे ह्यासने सूपवेशयेत् ॥
युग्मान्दैवे तथा पित्रे सुप्रदेशे स्वशक्तितः ।
द्वौ दैवे प्रागुदक्पित्र्ये त्रीण्येकं चोभयोः पृथक् ॥
मातामहानामप्येवं तन्त्रं वा वैश्यदेविकम् ।
हस्तप्रक्षालनं दत्त्वा विष्टरार्थं कुशानपि ॥
आवाह्य तदनुज्ञातो विश्वेदेवास इत्यृचा ।
यवैरन्ववकीर्य्याथ भाजने सपवित्रके ॥
शन्नो देव्या पयः क्षिप्त्वा यवोऽसीति यवांस्तथा ।
या इति मन्त्रेण हस्तेष्वे व विनिक्षिपेत् ॥
नन्धोदके तथा धूपमाल्यदानप्रदीपकम् ।
अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणम् ॥
द्विगुणांस्तु कुशान् दत्त्वा उषन्तस्त्वेत्यृचा
पितॄन् ।
आवाह्य तदनुज्ञातो जपेदायान्तु नस्ततः ॥
यवार्थस्तु तिलैः कार्य्यः कुर्य्यादर्घ्यादि पूर्ववत् ।
दत्त्वा तु संश्रवांस्तेषां पात्रे कृत्वा विधानतः ॥
पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः ।
अग्नौ करिष्येत्यादाय पृच्छत्यन्नं घृतप्लु तम् ॥
कुरुष्वेति तथोक्तोऽग्नौ हुत्वासौ पितृयज्ञतः ।
हुतशेषं प्रदद्याच्च भाजनेषु समाहितः ॥
यथालाभोपपन्नेषु रौप्येषु च विशेषतः ।
दत्त्वान्नं पृ थवी ते पात्रमिति पात्राभि
मन्त्रणम् ॥
कृत्वेदं विष्णुरित्यन्ने निजाङ्गुष्ठं निवेशयेत् ।
सव्याहृतिकां गायत्त्रीं मधुवातेत्यृचं तथा ॥
जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्तेऽपि वाग्यताः ।
अन्नमिष्टं हविष्यञ्च दद्यादक्रोधनोऽत्वरः ॥
आतृप्तेश्च पवित्राणि जप्त्वा पूर्व्वजपन्तथा ।
अन्नमादाय तृप्ताः स्थ शेषञ्चैवानुमन्य ह ॥
तदन्नं प्रकिरेद्भूमौ दद्याच्चापः सकृत् सकृत् ।
सर्व्व मन्नमुपादाय सतिलं दक्षिणामुखः ॥
उच्छिष्टसन्निधौ पिण्डान् प्रदद्यात् पितृयज्ञवत् ।
मातामहानामप्येवं दद्याच्चाचमनं ततः ॥
स्वस्ति प्रीयन्तामिति चाहैवं विश्वेदेवान् जलं
ददत् ।
स्वस्तिवाच्य ततो दद्यादक्षय्योदकमेव च ॥
दत्त्वा तु दक्षिणां शक्त्या स्वधाकारमुदीरयेत् ।
वाच्यतामित्युनुज्ञातः पितृभ्यश्च स्वधोच्यताम् ॥
विप्रैरस्तु स्वधेत्युक्तो भूमौ सिञ्चेत्ततो जलम् ।
दातारो नोऽभिवर्द्धन्तां वेदाः सन्ततिरेव च ॥
श्रद्धा च नो मा व्यगमत् । बहु देयञ्च नोऽस्त्विति
इत्युक्त्वापि प्रियं वाचं प्रणिपत्य विसर्ज्जयेत् ॥
वाजे वाजे इति प्रीत्या पितृपूर्व्वं विसर्ज्जनम् ।
यस्मि स्ते संश्रवाः पूर्व्व मर्घ्यपात्रे निपातिताः ॥
पितृपात्रं तदुत्तानं कृत्वा विप्रान् विसर्ज्जयेत् ।
प्रदक्षिणमनुव्रज्य भुञ्जीत पितृसेवितम् ॥
ब्रह्मचारी भवेत्तान्तु रजनीं भार्य्यया सह ।
एवं प्रदक्षिणं कृत्वा वृद्धौ नान्दिमुखानपि ॥
यजेत यवकर्क्कन्धुमिश्राः पिण्डा यवैः श्रिताः ।
एकोद्दिष्टं दैवहीनमेकार्घ्यैकपवित्रकम् ।
आवाहनाग्नौ करणरहितं अपसव्यवत् ।
उपतिष्ठतामित्यक्षय्यस्थाने विप्रान् विसर्ज्जयेत् ॥
अभिरम्यतां प्रब्रूयात् ब्रूयुस्तेऽभिरताः स्म ह ।
गन्धोदकतिलैमिश्रं कुर्य्यात् पात्रचतुष्टयम् ॥
अर्घ्याथं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ।
ये समाना इति द्वाभ्यां शेषं पूर्व्ववदाचरेत् ॥
एतत् सपिण्डीकरणमेकोद्दिष्टं स्त्रिया अपि ।
अर्व्वाक् सपिण्डीकरणं यस्य संवत्सराद्भवेत् ॥
तस्याप्यन्नं सोदकुम्भं दद्यात् संवत्सरं द्विज ।
पिण्डांस्तु गोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा ॥
हविष्यान्नेन वै मासं पायसेन तु वत्सरम् ।
मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः ॥
ऐणरौरववाराहशाशैर्मांसैर्यथाक्रमम् ।
मासवृद्ध्यापि तुष्यन्ति दत्तैरिह पितामहाः ॥
दद्याद्वर्षा त्रयोदश्यां मघासु च न संशयः ।
प्रतिपत्प्रभृतिष्वेवं कन्यादीन् श्राद्वदो भवेत् ॥
शस्त्रेण निहतानान्तु चतुर्द्दश्यां प्रदीयते ॥ * ॥
स्वर्गं ह्यपत्यमोजश्च शौर्य्यं क्षेत्रं बलं तथा ॥
पुत्त्रश्रेष्ठान् ससौभ्याम्यानपत्यं मुख्यतां शुभम् ।
प्रवृत्तचक्रतां पुत्त्रान् बाणिज्यप्रभृतींस्तथा ॥
अरोगित्वं यशो वीतशोकतां परमां गतिम् ।
धनं विद्यां भिषक्सिद्धिं कुप्यं गोऽजाविकं तथा ॥
अश्वानायुश्च विधिवद्यः श्राद्धं संप्रयच्छति ।
कृत्तिकादिभरण्यन्तं सकामानाप्नुयादिमान् ॥
वस्त्राद्याः प्रीणयन्त्येव नवं श्राद्धं कृतं द्विजाः ।
आयुष्प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च ॥
प्रयच्छति तथा राज्यं प्रीतो नित्यं पितामहः ॥”
इति गारुडे ९९ अध्यायः ॥ * ॥
अपिच ।
“व्याशश्राद्धमहं वक्ष्ये भुक्तिमुक्तिप्रदं नृणाम् ।
पूर्व्वं निमन्त्रयेद्विप्रान् निशि स्युर्ब्रह्मचारिणः ॥
प्रदक्षिणोपवीतेन देवान् वामोपवीतिना ।
पितॄन्निमन्त्रयेत् पादौ क्षालयेद्वाक्यमन्त्रतः ॥
ॐ स्वागतं भवद्भिरिति प्रश्नः । ॐ सुस्वागतमिति
तैरुक्ते ॐ विश्वेभ्यो देवेभ्य एतत् पादोकमर्घ्यं
स्वाहा पितृभ्यः स्वधा इति देवब्राह्मणपादयो-
र्देवतीर्थेनाभुग्नकुशजलकुसुमदानम् । ततो
दक्षिणामुखस्य वामोपवीतेन अमुकगोत्रेभ्यः
अस्मत्पितृपितामहप्रपितामहेभ्यो यथानाम-
शर्म्मभ्यः सपत्नीकेभ्य एतत् पादादकमर्घ्यं स्वधा
इति पित्रादिब्राह्मणपादयोः पितृतीर्थेन भुग्न-
कुशतिलकुसुमजलदानम् । एवं मातामहा
दिषु । एतद्व आचमनीयं स्वाहा स्वधेति
ब्राह्मणहस्ते । एष वो अर्घ्यः इति ब्राह्मणहस्त-
ऽर्ध्यदानम् । एतद्वः पुष्पं इति ब्राह्मणहस्ते-
पुष्पदानम् । ॐ सिद्धमिदमासनं इहासध्व-
मित्यभिधाय ॐ भूः ॐ भुवः ॐ स्वः ॐ महः
ॐ जनः ॐ तपः ॐ सत्यं सप्तव्याहृतिभिः
पूर्व्व मुखदेवव्राह्मणोपवेशनम् । उत्तराभिमुखाः
पितरः ॐ देवताभ्यः पितृभ्यश्च महायोगिभ्य
एवच । नमः स्वधायै स्वाहायै नित्यमेव नमो
नमः इति त्रिर्ज्जपेत् । ॐ अद्यास्मिन्देशे
अमुकमासे अमुकराशिगते सवितरि अमुकस्यां
तिथौ अमुकगोत्राणामस्मत्पितृपितामह-
प्रपितामहानां यथानामशर्म्मणां विश्वेदेवपूर्व्वकं
श्राद्धमहं करिष्ये ॐ विश्वेभ्यो देवेभ्य इदमासनं
स्वाहा । ॐ विश्वान् देवानावाहयिष्ये ॐ
आवाहय इत्युक्ते ॐ विश्वेदेवास आगत शृणु-
ताम इमं हवं एदं वर्हिर्निषीदत । ॐ विश्व-
देवाः शृणुतेमं हवं ये मे अन्तरीक्षे य उप-
द्यविष्ट येऽग्निजिह्वा उत वा यजत्रा आस-
द्यास्मिन् वर्हिषि मादयध्वम् । ॐ ओषधयः
समवदन्त सोमेन सह राज्ञा यस्मै कृणोति
ब्राह्मणस्त्वं राजन् पारयामसि ।
ॐ आगच्छन्तु महाभागा विश्वेदेवा महाबलाः
ये यत्र विहिताः श्राद्धे सावधाना भवन्तु ते ॥
ॐ अपहतासुरारक्षांसि वेदिसदः । इति
त्रिभिर्यवविकिरणम् । ॐ पवित्रमहं करिष्ये
ॐ कुरुष्वेति तेनोक्ते साग्रकुशपत्रद्धयं प्रादेश-
प्रमाणं कृत्वा ॐ पवित्रे स्थो वैष्णव्यौ अनेनं
कुशान्तरेण छित्त्वा ॐ विष्णुर्मनसा पूते स्थः
पृष्ठ ५/१५८
इत्युभ्य क्ष्य कुशान्तरेण त्रिवृतं कृत्वा पात्रे
पवित्रनिवेशनम् । शन्नो देवीरभीष्टये आपो
भवन्तु पीतये शंयोरभिस्रवन्तु नः । इति पात्रे
जलदानम् । ॐ यवोऽसि यवयास्मद्दे शो यवया-
राती इति यवदानम् ।
ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईखरीं सर्व्वभूतानां त्वामिहोपह्वये श्रियम् ॥
इति गन्धदानम् ॥
ॐ श्रीश्च ते लक्ष्मीश्च पत्न्या इति पुष्पदानम् ।
ॐ या दिव्या आपः पयसा सम्बभूवुर्य्या अन्त-
रीक्षा उतपार्थ वीर्य्या हिरण्यवर्णा यज्ञियास्ता
न आपः शिवाः संश्योनाः सुहवा भवन्तु ॐ
धुरिलोचनसंज्ञकेभ्यो विश्वे भ्यो देवेभ्य एषोऽर्घ्यो
नमः । इति हस्तेऽर्घ्यं दत्त्वा अनेनैव पात्रेण
सप्लवपवित्रग्रहणं प्रथमपात्रेण संप्लवं पवित्रञ्च
गृहीत्वा ब्राह्मणदक्षिणपार्श्वे कुशोपरि उर्द्ध्व-
मुखपात्रे स्थापनं तदुपरि कुशदानम् । ततः
ॐ धुरिलोचनसंज्ञकेभ्यो विश्वेभ्यो देवेभ्य एतानि
गन्धपुष्पधूपदीपवासोयुगसोत्तरीययज्ञोपवीतानि
नमः । गन्धादिदानमच्छ्रिद्रमस्तु संकल्पसिद्धि-
रस्तु । ब्राह्मणवाचनम् । ततः पितृपितामह-
प्रपितामहमातामहप्रमातामहवृद्धप्रमाता-
महानां सपत्नीकानां श्राद्धमहं करिष्ये । अनु-
ज्ञापनम् । ॐ कुरुष्वेति ब्राह्मणैरुक्ते । ॐ देव-
ताभ्यः तृइभ्यश्च महायोगिभ्य एव च । इति
त्रिर्जपेत् । तत ॐ अमुकसगोत्राणां अस्मत्-
पितृपितामहप्रपितामहानां यथानामशर्म्मणां
सपत्नीकानां श्राद्धं युष्मास्वहं करिष्ये । ॐ
कुरुष्व श्राद्धकरणानुज्ञानम् । ॐ अमुक-
सगोत्रेभ्यः अस्मत्पितृपितामहप्रपितामहेभ्यो
यथानामशर्म्मभ्यः सपत्नीकेभ्य इदमासनं स्वधा ।
ब्राह्माणवामपार्श्वे आसनम् । ॐ पितॄनावाह-
यिष्ये ॐ आवाहयेत्युक्ते ॐ उशन्तस्त्वानिधीमह्यु-
शन्तः समिधीमही । उशन्नु शत आवह पितॄन्
हविषे अत्तवे । ॐ आयान्तु नः पितरः
सौम्यासो अग्निष्वात्ताः पथिभिर्देवयानैः ।
अस्मिन् यज्ञे स्वधया मदन्तोऽधिब्रुवन्तु तेऽवन्त्व-
स्मान् । इत्यावाहनम् । ॐ अपहतासुरा
रक्षांसि वेदिसदः । त्रिस्तिलविकिरणम् । ॐ
तिलोऽपि सोमदैवत्यो गोसवो देवनिर्म्मितः ।
प्रत्नमद्भिः पृक्तः स्वधया पितॄन् लोकान् प्रीणाहि
नः स्वाहा । तिलदानम् । गन्धपुष्पं हस्ताभ्यां
दत्त्वा पितृपात्रमुत्थाप्य या दिष्येति पठित्वा
अमुकगोत्र अस्मत्पितः अमुकशर्म्मन् सपत्रीक
एष ते अर्घ्यः स्वधा । एवं पितामहादौ ।
सपवित्रं पात्रं गृहीत्वा ब्राह्मणवामपार्श्वे
टक्षिणाग्रकुशोपरि ॐ पितृभ्यः स्थानमसीति
अधोमुस्वपात्रस्थापनम् । ॐ शुन्धन्तां लोकाः
पित्मदनाः पितृसदनमसि । अधोमुखपात्र-
स्पर्शनम् । ततः अमुकसगोत्रेभ्यः अस्मत्पितृ-
पितामहप्रपितामहेभ्यः मपत्नीकेभ्यः एतानि
गवपुप्पध पदीपवासोयुगसोत्तरीययज्ञोपवीतानि
स्वधा । पितृतीर्थेन गन्धादिदानम् । गन्धादि-
दानमच्छिद्रमस्तु सङ्कल्पसिद्धिरस्तु । ब्राह्मण-
वाचनम् । एवं मातामहादीनामनुज्ञापनादि
कर्म्म । ॐ या दिव्येति भूमिसम्मार्ज्जनम् । ततो
घृताक्तमन्नं गृहीत्वा दक्षिणोपवीतं पितृ-
ब्राह्मणम् । ॐ अग्नौ करणमहं करिष्ये ॐ कुरु-
ष्वेति तेनोक्ते ॐ अग्नये कव्यवाहनाय स्वाहा
ॐ सोमाय पितृमते स्वाहा । आहुतिद्वयं देव-
ब्राह्मणहस्ते दत्त्वा अवशिष्टार्द्धंपिण्डार्थं स्थाप-
यित्वा अपरमर्द्धं पित्रादिपात्रे मातामहादिपात्रे
च निःक्षिपेत् । पात्रे अन्नादिनिधाय कु शंदत्त्व
अधोमुखाभ्यां पाणिभ्यां पात्रं गृहीत्वा । ॐ
पृथिवी ते पात्रं द्यौः पिधानं ब्राह्मणस्य मुखे
अमृते अमृतं जुहोमि स्वाहा । पात्राभि-
मन्त्रणम् । इदं विष्णुर्व्विचक्रमे त्रेधा निदधे
पदम् । समूढमस्य पांशुले विष्णो हव्यं रक्षस्व ।
इत्यन्नोपर्य्यधोमुखद्विजाङ्गष्ठनिवेशनम् । ॐ अप-
हतेति त्रिर्य्यवविकरणम् ।
ॐ निहन्मि सर्व्वं यदमेध्यवद्भवेत्
हताश्च सर्व्वेऽसुरदानवा मया ।
रक्षांसि यक्षाः सपिशाचसंघा
हता मया यातुधानाश्च सर्व्वे ॥
इति सिद्धार्थविकिरणम् ॥
ततः ॐ धुरिलोचनसंज्ञकेभ्यो विश्वे भ्यो देवेभ्य
एतदन्नं सघृतं सपानीयं सव्यञ्जनं स्वाहा इति
वारिकुशाद्यैरन्नसङ्कल्पनम् । ॐ श्राद्धमिद-
मच्छिद्रमस्तु सङ्कल्पसिद्धिरस्तु । ततो वामोप-
वीतेन सव्यञ्जनं सघृतमन्नं पित्रादिपात्रे निधाय
तदुपरि भूमिसंलग्नकुशं दत्त्वा ॐ पृथिवी ते
पात्रं अभिमन्त्रणम् । उत्तानाभ्यां पाणिभ्यां
पात्रं गृहीत्वा ॐ इदं विष्णुरित्यन्नोपरि उत्ता-
नाङ्गुष्ठं निवेशयेत् ॐ अपहता इति तिलविकि-
रणम् । भूमिपातितवामजानुः । अमुकगो-
त्रेभ्यः अस्मत्पितृपितामहप्रपितामहेभ्य अमु-
कामुकशर्म्मभ्यः सपत्नीकेभ्य एतदन्नं सघृतं
सपानीयं सव्यञ्जनं प्रतिषिद्धवर्ज्जितं स्वधा ।
अन्नसङ्कल्पः । ॐ ऊर्ज्जं वहन्तीरमृतं घृतं
पयः कीलालं परिस्रु तं स्वधास्त तर्पयत मे
पितॄन् । दक्षिणामुखवारित्यागः । ॐ
अन्नमिदमच्छिद्रमस्तु सङ्कल्पसिद्धिरस्तु । ततः
सव्याहृतिकया गायत्त्र्या विसर्ज्जयित्वा मधु-
वाता ऋतायते मधु क्षरन्ति सिन्धवः माध्वीर्नः
सन्त्वोषधीः । मधुनक्तमुतोषसो मधुमत् पार्थिवं
रजः मधु द्यौरस्तु नः पिता । मधुमान्नो वन-
स्पतिर्मधुमानस्तु सूर्य्यो माध्वीर्गावो भवन्तु नः ॥
मधु मधु मधु इति जपः । यथा सुखं बाग्यता
जुषध्वमिति ब्रूयात् । भुक्तवत्सु सप्तव्याधादिकं
पितृस्तोत्रं जपत् ।
ॐ सप्तव्याधा दशार्णेषु मृगाः कालाञ्जरे गिरौ ।
चक्रवाकाः सरद्वीपे हंसाः सरसि मानसे ॥
तेऽपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ।
प्रस्थिता दूरमध्वानं यूयं तेभ्योऽवसीदत ॥
ततस्तृप्तेषु । दक्षिणामुखो वामोपवीती
उच्छिष्ठाग्रतः ।
ॐ अग्निदग्धाश्च ये जीवाः येऽप्यदन्धाः कुले
मम ।
भूमौ दत्तन तृप्यन्तु तृप्ता यास्तु परां गतिम् ॥
इति भूमौ कुशोपरि सघृमन्नं जलप्लुतं विकि-
रेत् । ततो देवब्राह्मणक्रमेण जलगण्डूष दत्त्वा
पूर्व्ववत् पुनः सव्याहृतिकां सावित्रीं मधुवाते-
त्यृचं मधु मध्विति च जप्त्वा ॐ रुचितं भव-
द्भिरिति देवब्राह्मणप्रश्नः । सुरुचितमिति
तेनोक्ते ॐ शेषमन्नमप्यस्तीति प्रश्नः । इष्टैः सह
भुङ्क्ष्वेति तेनोक्ते पित्रादिब्राह्मणे वामोप-
वीतेन ॐ तृप्तास्थ इति प्रश्नः । ॐ तृप्तास्म
इत्यक्त शेषमन्नेति प्रश्नः । ॐ इष्टैः सह
भुङ्क्ष्वेति तेनोक्ते मातामहादिब्राह्मणे तथैव
प्रश्नः । ततः पित्रादिब्राह्मणे पिण्डानहं पात-
यिष्ये पातयेत्युक्ते । तदुच्छिष्टाग्रतोऽभ्युक्षणं
मण्डलञ्च चतुष्कोणं तिलविकिरणं ॐ अमुक-
गोत्र अस्मत्पितः अमुकशर्म्मन् सपत्नीक
एतत्ते पिण्डासनं स्वधा इत्थं रेखामध्ये पिता-
महाय प्रपितामहाय च । सव्याहृतिकां
गायत्त्रीं मधुवातेति त्रिर्ज्जपन् अन्नं साज्यं पिण्ड
कृत्वा कुशोपरि अमुकगोत्रास्मत्पितः अमुक-
शर्म्मन् सपत्नीक एष ते पिण्डः ये चात्र त्वामनु
यांश्च त्वमनु तस्मै ते स्वधा । एवं पितामह-
प्रपितामहमातामहप्रमातामहवृद्धप्रमाताम-
हेभ्यः । पिण्डशेषविकिरणं पिण्डान्तिके । ॐ
लेपभुजः प्रीयन्तां इति स्तरणकुशेषु हस्त-
मार्ज्जनम् । प्रक्षालितेन पिण्डपात्रोदकेन अमुक
गोत्र अस्मत्पितः अमुकशर्म्मन् सपत्नीक
एतत्ते जलमवनेनिक्ष्व ॐ ये चात्र त्वामनु यांश्च
त्वमनु तस्मै ते स्वधेति पितृपिण्डसेचनम् ।
पिण्डपात्रमधोमुखं कृत्वा बद्धाञ्जलि ॐ अत्र
पितरो मादयध्वं यथाभागमावृषायध्वमिति
जपः । अपः स्पृष्ट्वा वामेन परावृत्य उदङ्मुखश्च
प्राणास्त्रिः संयम्य ।
ॐ वसन्ताय नमस्तुभ्यं ग्रीस्माय च नमो नमः ।
वर्षाभ्यश्च शरत्संज्ञ ऋतवे च नमः सदा ॥
हेमन्ताय नमस्तुभ्यं नमस्ते शिशिराय च ।
माससंवत्सरभ्यश्च दिवसेभ्यो नमो नमः ॥
ॐ षड्भ्य ऋतुभ्यो नमः पितृभ्यो नमः । इति
जपः । वामेनेव परावृत्य दक्षिणामुखः अमी
मदन्त पितरो यथाभागमावृषायिषत । इति
जपः । वासः शिथिलीकृत्याञ्जलिं कृत्वा ॐ
नमो वः पितरः पितरो नमो वः । इति जपः ।
गृहान्नः पितरो दत्त । इति गृहवीक्षणम् ॥
ॐ सदो वः पितरो देष्मः । इति पिण्डवीक्ष-
णम् । ॐ एतद्वः पितरो वासः इत्युच्चार्य्य
अमुकगोत्र इत्यादिना एतत्ते वासः ॐ ये
चात्र त्वामनु यांश्च त्वमनु तस्मै ते स्वधा ।
दशाभवसूत्रदानम् । वामेन पाणिना उदक
पात्रं गृहीत्वा । ॐ ऊर्ज्जं वहन्तीरमृतं घृतं पयः
पृष्ठ ५/१५९
कीलालं इत्यादिना पिण्डोपरि बारिधारा-
त्यागः । पूर्वस्थापितपात्रशेषोदकैः प्रत्येकं पिण्ड-
सेचनम् । पिण्डवाह्येन गन्धादिदानम् । पिण्डो-
परि कुशं हस्तञ्च दत्त्वा ॐ अक्षन्नमी मदन्त-
ह्यवप्रिया अधूषत अस्तोषत स्वभानवो विप्रा न
विष्टया मतीयो यान्न्विन्द्र ते हरीति जपः ।
इत्थं मातामहादेर्ब्राह्मणानामाचमनं सुसुप्रो-
क्षितमस्त्विति भूम्यभ्युक्षणं कृत्वा ।
अपां मध्ये स्थिता देवा सर्व्वमप्सु प्रतिष्ठितम् ।
ब्राह्मणस्य करे न्यस्ताः शिवा आपो भवन्तु
नः ॥
शिवा आपः सन्त्विति हस्ते ब्राह्मणस्य जल-
दानम् ।
लक्ष्मीर्वसति पुष्पेषु लक्ष्मीर्वसति पुष्करे ।
लक्ष्मीर्वस्ते सदा गोष्ठे सौमनस्यं सदास्तु मे ॥
मीमनस्यमस्तु पुष्पदानम् ।
ॐ अक्षतञ्चास्तु मे पुण्यं शान्तिः पुष्टिर्धृतिश्च
मे ।
यद्यत् श्रेयस्करं लोके तत्तदस्तु सदा मम ॥
ॐ अक्षतञ्चारिष्टञ्चास्तु यवतण्डुलदानम् । अमुक-
गोत्राणामस्मत् पितृ-पितामह-प्रपितामहानां
सपत्नीकानां दत्तमिदमन्नपानादिकमक्षय्यमस्तु
इति पित्रादिब्राह्मणहस्ते सतिलजलदानम् ।
यजमानस्य प्रश्ने अस्त्विति ब्राह्मणो वदेत् ।
एवं मातामहादीनामक्षय्यम् । आशिषः ।
ॐ अघोराः पितरः सन्तु गोत्रं नो वर्द्धताम् ।
दातारो नोऽभिवर्द्धन्तां वेदाः सन्ततिरेव च ।
श्रद्धाच नो मा व्यगमद्वहु देयञ्च नोऽस्त्विति ॥
अन्नञ्च नो बहु भवेदतिथोंश्च लभेमहि ।
याचितारश्च नः सन्तु मा च याचिष्म कञ्चन ॥
एता एवाशिषः सन्तु सौमनस्यमस्तु सुसुखं
चास्तु इत्युक्ते पिण्डपात्रे अर्घ्यसम्बन्धान् कुशान्
पवित्राणि चास्तीर्य्य पित्रादिब्राह्मणं स्पृष्ट्वा
स्वधां वाचयिष्ये ॐ वाच्यतां ॐ पितृपितामह-
प्रपितामह-मातामह-प्रमातामह-वृद्धप्रमाता-
महेभ्यो यथानामशर्म्मभ्यः सपत्नीकेभ्यः स्वधो-
च्यतां अस्त स्वधा इत्युक्ते ऊर्ज्जं वहन्तीरमृतं
घृतं इति पिण्डानामुपरि वारिधारां दद्यात् ।
तत ॐ विश्वेदेवा अस्मिन् यज्ञे प्रीयन्तां देव-
ब्राह्मणहस्ते यवोदकदानं ॐ प्रीयन्तामिति
तेनोक्त ॐ देवताभ्य इति त्रिर्ज्जपेत् । अधो-
मुखपिण्डपात्राणि चालयित्वा आचम्यदक्षिणो
पवोती पूर्व्वाभिमुखः ॐ अमुकसगोत्राय
अमुकशर्म्मणे ब्राह्मणाय सपत्नीकाय श्राद्ध-
प्रतिष्ठार्थं दक्षिणामिदं रजतं तुभ्यमहं ददे
इति दक्षिणां दद्यात् एवं मातामहादौ ततो
देवब्राह्मणाय दक्षिणादानम् । ततः पितृ-
ब्राह्मणे । पिण्डपात्रमुत्तानं कृत्वा ॐ पिण्डाः
सम्पन्नाः ॐ सुसम्पन्ना इति पिण्डे क्षीरधारां
दत्त्वा पिण्डचालनम् ।
ॐ वाजे वाजे वतवाजिनो नो
धनेषु विप्रा अमृता ऋतज्ञाः ।
अस्य मध्वः पिबत मादयध्वं
तृप्ता यात पथिभिर्देवयानैः ॥
इति पित्रादिविसर्ज्जनम् ॥
ॐ आ मा वाजस्य प्रसवो जगम्या-
देमे द्यावा पृथिवी विश्वरूपे ।
आ मा गन्तु पितरा मातरा युव-
मा मा सोमोऽमृतत्वाय गम्यात् ॥
इति देवविसर्ज्जनम् ॥
ॐ अभिरम्यतामित्युक्ते अभिरताः स्म इति
ब्राह्मणैरनुज्ञातस्य निवर्त्तनम् । गवादिषु पिण्ड-
प्रतिपादनमिति ।
एष श्राद्धविधिः प्रोक्तः पठतां पापनाशनः ।
अनेन विधिना श्राद्धं कृतं वै यत्र कुत्रचित् ॥
अक्षयं स्यात् पितॄणाञ्च स्वर्गप्राप्तिर्ध्रुवा तथा ।
इत्युक्तं पार्व्वणश्राद्धं पितॄणां ब्रह्मलोकदम् ॥”
इत्याद्ये गारुडे पार्व्वणश्राद्धम् २२२ अध्यायः ॥
ब्रह्मोवाच ।
“नित्यश्राद्धं प्रवक्ष्यामि पूर्व्ववत्तद्विशेषयेत् ॥
ॐ अमुकसगोत्राणामस्मत्पितृपितामहप्रपि-
तामहानाममुकशर्म्मणां सपत्नीकानां श्राद्धं
सिद्धान्नेन युष्मभ्यमहं करिष्ये ।
आसनादिकमत्र स्याद्विश्वे देवविवर्ज्जितम् ।
वृद्धिश्राद्धं प्रवक्ष्यामि पूव्ववत्तद्विशेषकम् ॥
जातपुत्त्रमुखदर्शनादौ वृद्धिश्राद्धे पूर्व्वाभिमुखेषु
दक्षिणोपवीतिषु मधुयववदरमिश्राः पिण्डा दैव
तीर्थेन नमस्कारान्तेन दक्षिणोपचारेणकर्त्तव्यम्
दक्षिणजानु गृहीत्वा ॐ अद्यास्मदीयामुकवृद्धौ
अमुक-गोत्राणामस्मत्पितृ-पितामहप्रपिता-
मह-मातामह-प्रमातामह-वृद्धप्रमातामहानां
अमुकशर्म्मणां सपत्नीकानां नान्दीमुखानां
श्राद्धेकर्त्तव्ये वसुसत्यसंज्ञकानां विश्वेषां देवानां
श्राद्धं सिद्धान्नन युष्मासु मया कर्त्तव्यम् । इति
देवब्राह्मणामन्त्रणं ॐ करिष्यसीति तेनोक्ते
इत्थमेव मातृपितामहीप्रपितामहीनां देवब्राह्म
णामन्त्रणम् । तत ॐ अमुकगोत्राया मत्-
प्रतितामह्या अमुको देव्या नान्दोमुख्याः श्राद्धं
सिद्धान्नेन युष्मासु मया कर्त्तव्यमिति प्रपिता-
महीब्राह्मणामन्त्रणम् । करिष्यसीति तेनोक्ते
इत्थमेव पितामहाब्राह्मणामन्त्रणं मातृब्राह्मणा
मन्त्रणञ्च । तत ॐ अद्यामुकवृद्धौ अमुक-
गोत्राणामस्मत्-प्रपितामह-पितामह-पितॄणां
नान्दोमुखानां श्राद्धं सिद्धान्नेन युष्मासु मया
कर्त्तव्यमिति ब्राह्मणामन्त्रणं ॐ करिष्यसीति
तेनोक्ते इत्थमेव वृद्धप्रमातामहादिब्राह्मणा-
मन्त्रणम् । देवपितृसर्व्वदेवब्राह्मणश्राद्धकरणानु-
ज्ञापनम् । आसने ॐ विश्वे देवास आगत शृणु-
ताम् इमं हवं एदं वर्हिर्निषीदत ॐ विश्वे-
देवाः शृणुतेमं हवं ये मेऽन्तरीक्षे य उपद्यविष्ट
ये अग्निजिह्वा उतवा यजत्रा आसद्यास्मिन्
वर्हिषि मादयध्वम् । ॐ आगच्छन्तु महाभागा
विश्वेदेवा इति विश्वेदेवावाहनम् । गन्धादि-
दानञ्च । अच्छिद्रावधारणवाचनम् । ततः प्रपि-
तामहीप्रभृतीनामनुज्ञापनं आसनं गन्धादि-
दानं अच्छिद्रावधारणम् । इत्थं प्रपितामहा-
दीनां अनुज्ञापनम् । आसनं आवाहने
गन्धादिदानम् । एवं वृद्धप्रमातामहादीनां
अनुज्ञापनादिकरणम् । ॐ वसुसत्यसंज्ञकेभ्यो
विश्वेभ्यो देवेभ्य एतदन्नं सघृतं सपानीयं सव्य-
ञ्जनं सवदरे सदधि प्रतिषिद्धवर्ज्जितं नमः ।
इति अन्नसङ्कल्पनम् । ॐ अमुकमोत्रे मत्-
प्रपितामहि अमुकीदेवि नान्दिमुखि एतदन्नं
सवदरं सदधि नमः । इत्थं पितामहौमातृ-
ब्राह्मणे । ततः प्रपितामहादिब्राह्मणपात्रे ॐ
अमुकगोत्रेभ्यो मत्प्रपितामहपितामहपितृभ्य
एतदन्नं सवदरं सदधि सव्यञ्जनं सपानीयं नमः ।
एवं वृद्धप्रमातामहादिभ्यः ॥ * ॥
एकोद्दिष्टं पुरावश्यं तद्विशेषं वदे शृणु ॥
प्रथमं निमन्त्रणं पादप्रक्षालनं आसनम् । अद्य
अमुकगोत्रस्य मत्पितुरसुकदेवशर्म्मणः प्रति-
सांवत्मरिकमेकोद्दिष्टं श्राद्धं सिद्धान्नेन युष्मासु
अहं करिष्ये । श्राद्धकरणानुज्ञापनम् । आसनं
अर्घ्यः । गन्धादिदानं पितृस्थापनम् । अन्न-
संङ्कल्पनं जप्यं निवीती उत्तराभिमुखीभूया-
तिथिश्राद्धं कुर्य्यात् । ततस्तृप्तिं ज्ञात्वा दक्षि-
णाभिमुखो वामोपवीती उच्छिष्टसमीपे ये
अग्निदग्धा इति अन्नविकिरणम् । ॐ अमुक-
गोत्र पितुरमुकदेवशर्म्मन् एतत्ते जलमवने-
निक्ष्व ये चात्र त्वामनु यांश्च त्वमनु तस्मै ते
स्वधा इति रेखोपरि दक्षिणामुखवारिधारा-
दानम् ।” इति गारुडे २२३ अध्यायः ॥ * ॥
ब्रह्मोवाच ।
“सपिण्डीकरणं वक्ष्ये पूर्णेऽब्दे तत्क्षयाहनि ।
कृत्वा कुतपकाले तु प्रेतादेः पितृलोकदम् ।
सपिण्डीकरणं कुर्य्यात् अपराह्वे तु पूर्व्ववत् ॥
पितामहादिब्राह्मणनिमन्त्रनम् । ॐ पुरोरवो
माद्रवःसंज्ञकेभ्यो देवेभ्य एतदासनं नमः ।
वामपार्श्वे चासनदानम् । ततः पितामह-
प्रपितामहवृद्धप्रपितामहानां सपत्नीकानां
श्राद्धमहं करिष्ये । इत्यनुज्ञाग्रहणम् । पात्र-
त्रयकरणं पात्रोपरि कुशं दत्त्वा पात्रान्तरेण
पिधाय अच्छिद्रावधारणान्तं परिसमाप्य तथैव
पितुरपि सपत्नीकस्य प्रेतान्तनाम्ना श्राद्धकर-
णानुज्ञापनम् । देवपात्राच्छिद्रावधारणम् । तं
परिसमाप्य पितामहप्रपितामहवृद्धप्रपितामह-
पितृक्रमेण पात्राणां मनाक् वाचनं उद्धाटनं
कृत्वा ये समानाः संमनसः पितरो यमराज्ये ।
तेषां लोकः स्वधा नमो यज्ञो देवेश कल्प्यताम् ॥
ये समानाः समनसो जीवा जीवेषु मामकाः ।
तेषां श्रीर्मयी कल्प्यतां अस्मिन् लोके शतं
समाः ॥
एतन्मन्त्रद्वयेन पितृपात्रोदकं पितामहप्रपिता-
महवृद्धप्रपितामहपात्रे दत्त्वा वृद्धप्रपितामह-
पात्रं परित्यज्य पितामहप्रपितामहयोरुदकं
पवित्रञ्च पितृपात्रे निक्षिपेत् । ततः पितृ-
पृष्ठ ५/१६०
ब्राह्मणहस्ते पवित्रदानम् । पात्रपुष्पेण शिरसः
करपादार्च्चनं हस्तेऽन्यजलदानं हस्ताभ्यां पात्र-
मुत्थाप्य ॐ या दिव्येति च पठित्वा अमुक-
गोत्र मत्पितरमुक प्रेत एष ते अर्घ्यो ये
चात्र त्वामनु यांश्च त्वमनु तस्मै ते स्वधा इति
पितृब्राह्मणहस्ते स्तोकमर्घ्योदकं पितृतीर्थेन
दत्त्वा पितामहब्राह्मणहस्ते पवित्रदानं पात्र-
पुष्पेण शिरः करपादार्च्चनं हस्तेऽन्यजलदानम् ।
हस्ताभ्यां पात्रमुत्थाप्य या दिव्येति पठित्वा
अमुकगोत्र मत्पितामह अमुकदेवशर्म्मन्
सपत्नीक एष तेऽर्घ्यः स्वधा । पितृपात्रेणैव
पितामहब्राह्मणहस्ते स्तोकमर्घ्योदकं दत्त्वा-
शेषमुदवां पिण्डसेचनार्थं पात्रान्तरे निधाय
तेनैव पात्रेण पितामहब्राह्मणानां हस्तस्थं
उदकं पवित्रञ्च गृहीत्वा पितृब्राह्मणवामपार्श्वे-
दक्षिणाग्रकुशोपरि पितृभ्यः स्थानमसीति
अधोमुखपात्रस्थापनम् । पितामहानां गन्धादि-
दानं अग्नौकरणम् । देवानां अवशिष्टान्नं
पितामहादिपात्रे क्षिपेत् । पितामहादिपात्रा-
भिमन्त्रणादिवाचनपर्य्यन्तं क्रमेण समाप्य पितृ
ब्राह्मणपात्राभिमन्त्रणं अङ्गुष्ठनिवेशनं तिल-
विकिरणम् । सिद्धान्नविकिरणं कृत्वा अमुक-
गोत्र मत्पितरमुक प्रेत एतत्ते अन्नं सघृतं
सपानीयं सव्यञ्जनं प्रतिषिद्धवर्जितं ये चात्र
त्वामनु यांश्च त्वमनु तस्मै ते स्वधा । ततो
देवप्रभृति आपोशानं दद्यात् । अतिथौ
प्राप्ते अतिथिश्राद्धं कुर्य्यात् अस्मिन्नवसरे ।
ततो विकिरणम् । पितामहादौ प्रश्नं कृत्वा
पितृब्राह्मणे ॐ स्वदितं भवद्भिरिति प्रश्नः
अमुकगोत्र मत्पितामह अमुकशर्म्मन् सप-
त्रीक एष ते पिण्डो ये चात्र त्वामनु यांश्च
त्वमनु तस्मै ते स्वधा । एवमन्ययोः । पिण्ड-
दानमच्छिद्रमस्तु । सङ्कल्पसिद्धिरस्तु इति वाचनं
कृत्वा ततः पितप्रे तपिण्डपातनं ॐ संकल्प-
सिद्धिरस्त्विति वाचनम् । तंसमाप्य पिण्डं त्रिधा
कृत्वा ये समानाः समनसः इति मन्त्रद्वयं
पठित्वा पितामहप्रपितामहवृद्धप्रपितामह-
पिण्डेषु क्षिपेत् । पिण्डेषु गन्धादिकं पिण्डचाल
नम् । अतिथिब्राह्मणे स्वदितमित्यादि प्रश्नः ।
ब्राह्मणानामाचमनं भुक्तक्रमेण ताम्बूलदानं
सुसुप्रोक्षितमस्तु शिवा आपः सन्तु वृद्धप्रपिता-
महादिक्रमेण ब्राह्मणानां हस्ते जलदानम् ।
गोत्रस्याक्षय्यमस्तु पितृब्राह्मणहस्ते ॐ उप-
तिष्ठतामिति सतिलजलदानं नामगोत्रेण उप-
तिष्ठतामिति तेनोक्ते अघोराः पितरः सन्तु
मन्त्विति उक्ते स्वधां वाचयिष्ये इति पिता-
महादिब्राह्मणानुज्ञापनम् ॐ वाच्यतामित्युक्ते
पितामहादिभ्यः स्वधोच्यताम् अस्तु स्वधा इत्युक्ते
पितृब्राह्मणे पितृभ्यः स्वधोच्यतां इति अस्तु
स्वधा इत्युक्ते ॐ ऊर्ज्जं वहन्तीरमृतं इति
दक्षिणाभिमुखवारिधारात्यागः । ॐ विश्वेदेवा
अस्मिन् यज्ञे प्रीयन्तामिति देवब्राह्मणहस्ते
यवोदकदानम् । ॐ देवताभ्य इति त्रिर्ज्जपः ।
पिण्डान् पात्रे तोलयित्वा आचम्य पितामहा-
दिभ्यो दक्षिणां दत्त्वा ततः पितृब्राह्मणाय ततो
अतिथिब्राह्मणाय च । आशिषो मे दीयन्ता-
मित्याशीःप्रार्थनं आशिषः प्रतिगृह्यन्तां इत्युक्ते
दातारो नोऽभिवर्द्धन्तामिति पात्रमुत्तानं कृत्वा
वाजे वाजे इति विसर्ज्जनम् । अभिरम्यतामिति
पितृब्राह्मणविसर्जनम् ।
सपिण्डीकरणश्राद्धं व्यासप्रोक्तं मया तव ।
श्राद्धं विष्णुः श्राद्धकर्त्ता फलं श्राद्धादिकं हरिः ॥”
इति गारुडे २२४ अध्यायः ॥ * ॥
तिथ्यादिविशेषे श्राद्धकरणफलं यथा, --
व्यास उवाच ।
“अथ श्राद्धममावास्यां प्राप्य कार्य्यं हिजोत्तमैः ।
पिण्डान्नाहार्य्यकं भक्तभुक्तिमुक्तिफलप्रदम् ॥
पिण्डान्नाहार्य्यकं श्राद्धं क्षीणे राजनि शस्यते ।
अपराह्णे द्विजातीनां प्रशस्ते नामिषेण तु ॥
प्रतिपत्प्रभृति ह्येतास्तिथयः कृष्णपक्षके ।
चतुर्द्दशीं वर्ज्ज यित्वा प्रशस्ता ह्युत्तरोत्तराः ॥
अमावास्याष्टकास्तिस्रः पौषमाघादिषु त्रिषु ।
तिस्रश्चान्वष्टकाः पुण्या माघस्य दशमी तथा ॥
त्रयोदशी मघायुक्ता वर्षासु तु विशेषतः ।
शस्यपाकश्राद्धकाला नित्यं प्रोक्ता दिने दिने ॥
नैमित्तिकं हि कर्त्तव्यं ग्रहणे चन्द्रसूर्य्ययोः ।
बान्धवानाञ्च मरणे नारकी स्यादथान्यथा ॥
काम्यानि चैव श्राद्धानि शस्यन्ति ग्रहणादिषु ।
अयने विषुवे चैव व्यतीपातेऽप्यनन्तकम् ॥
संक्रान्त्यामक्षयं श्राद्धं तथा जन्मदिनेष्वपि ।
नक्षत्रेषु च सर्व्वेषु तथा कामे विशेषतः ॥
स्वर्गन्तु लभते कृत्वा कृत्तिकासु द्विजोत्तमः ।
अपत्यमथ रोहिण्यां सौम्ये तु ब्रह्मवर्च्चसम् ॥
मुद्राणां कर्म्मणां सिद्धिमार्द्रायां शस्यमेव च ।
पुनर्व्वसौ तथा भूमिं श्रियं पुष्पे तथैव च ॥
सर्व्वान् कामान् तथा सर्पेपैत्रे सौभाग्यमेव च
अर्य्यमणे त धनं विद्यात् फाल्गुन्यां पाप-
नाशनम् ॥
ज्ञातिश्रेष्ठं तथा हस्ते चित्रायां सुबहून् सुतान् ।
बाणिज्यसिद्धिं स्वातौ च विशाखायां सुवर्णकम् ।
मैत्रे बहूनि मित्राणि राज्यं शक्रे तथैव च ।
मूले कृषिं लभेद्यानं सिद्धिमाप्ये तथैव च ॥
सर्व्वान् कामान् वैश्वदेवे श्रैष्ठन्तु श्रवणे पुनः ।
श्रविष्ठायां तथा कामान् वारुणेच क्ष परं बलम्
अजैकपादके कुर्य्यादहिव्रध्ने गृहे शुभम् ।
रेवत्यां बहवो रोगा ह्यश्विन्यां तुरगांस्तथा ॥
याम्ये चाजीवनं तस्मात् यदि श्राद्धं प्रयच्छति
आदित्यवारे चारोग्यं चान्द्रे सौभाग्यमेव च ॥
कौजे सर्व्वत्र विजयं सर्व्वान् कामान् बुधस्य च
विद्यामभीष्टं जीवे तु धनं वै भार्गवे पुनः ।
शनैश्चरे लभेदायुः प्रतिपत्सु शुभान् सुतान् ।
कन्यकां वै द्धितीयायां तृतीयायां भुवन्तथा ॥
पशून् क्षुद्रांश्चतुर्थ्यान्तु पञ्चम्यां शोभनान्
सुतान् ।
षष्ठ्यां द्युतिं कृषिञ्चापि सप्तम्यां लभते नरः ॥
अष्टम्यामपि बाणिज्यं लभते श्राद्धदः सदा ।
स्यान्नवम्यामेकस्वुरं दशम्यां द्विखुरं बहु ॥
एकादश्यान्तथा रूप्यं ब्रह्मवर्च्चस्विनः सुतान्
द्वादश्यां जातरूपन्तु रजतं रौप्यमेव च ॥
ज्ञातिश्रैष्ठं त्रयोदश्यां चतुर्द्दश्यान्तु कुप्रजाः
पञ्चदश्यां सर्व्वकाममाप्नोति श्राद्धदः सदा ॥
तस्माच्छ्राद्धं न कर्त्तव्यं चतुर्द्दश्यां द्विजातिभिः ।
शस्त्रेण तु हतानां वै तत्र श्राद्धं प्रकल्पयेत् ॥
द्रव्यब्राह्मणसम्पत्ती न कालनियमः कृतः ।
तस्माद्भोगापवर्गार्थं श्राद्धं कुर्य्यात् द्विजातिभिः ।
कर्म्मारम्भेषु सर्व्वेषु कुर्य्यादाभ्युदयं पुनः ।
पुत्त्रजन्मादिषु श्राद्धं पार्व्वणं पर्व्वणि स्मृतम् ॥
अहन्यहनि नित्यं स्यात् काम्यं नैमित्तिकं तथा
एकोद्दिष्टन्तु विज्ञेयं वृद्धिश्राद्धञ्च पार्वणम् ॥
एतत् पञ्चविधं श्राद्धं मनुना परिकीर्त्तितम् ।
यात्रायां षष्ठमाख्यातं तत् प्रयत्नेन पालयेत् ॥
शुद्धये सप्तमं श्राद्धं ब्रह्मणा परिकीर्त्तितम् ।
दैविकं चाष्टमं श्राद्धं यत् कृत्वा मुच्यते भयात् ॥
सन्ध्यारात्र्योर्न कर्त्तव्यं रात्रोरन्यत्र दर्शनात् ।
देशानाञ्च विशेषेण भवेत् पुण्यमनुत्तमम् ॥
गयायामक्षयं श्राद्धं प्रयागेऽमरकण्टके ।
गायन्ति पितरो गाथां कीर्त्तयन्ति मनीषिणः ॥
एष्टव्या बहवः पुत्त्रा यद्येकोऽपि गयां व्रजेत् ।
यजेत् वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥
एष्टव्या बहवः पुत्त्राः शीलवन्तो गुणान्विताः ।
तेषान्तु समवेतानां यद्योकोऽपि गयां व्रजेत् ॥
गयां प्राप्यानुषङ्गेण यः श्राद्धं सम्यगाचरेत् ।
तारिताः पितरस्तेन स याति परमां गतिम् ॥
वराहपर्व्वते चैव गङ्गायाञ्च विशेषतः ।
वाराणस्यां विशेषेण यत्र देवः स्वयं हरः ॥
गङ्गाद्वारे प्रभासे च विन्ध्यके नीलपर्वते ।
कुरुक्षेत्रे च कुब्जाम्रे भृङ्गतुङ्गे महालये ॥
केदारे फल्गुतीर्थे च नैमिषारण्य एव च ।
सरस्वत्यां विशेषेण पुष्करे च विशेषतः ॥
नर्म्मदायां कुशावर्त्ते श्रीशैले भद्रकर्णके ।
वेत्रवत्यां विपाशायां गोदावर्य्यां विशेषतः ॥
एवमादिष्वथान्येषु तीर्थेषु पुलिनेषु च ।
नदीनाञ्चैव तीरेषु तुष्यन्ति पितरः सदा ॥ * ॥
ब्रीहिभिश्च यवैर्म्मांसैरद्भिर्म्मूलफलेन च ।
श्यामकैश्च तथा शाकैर्नीवारैश्च प्रियङ्गुभिः ॥
गोधूमैश्च तिलैर्म्मुद्नेर्म्मासं प्रीणयते पितॄन् ।
आम्रानाम्रातकानिक्षून् मृद्धीकांश्च सदाडि-
मान् ॥
विदारीश्च भरुण्डांश्च श्राद्धकाले प्रदापयेत् ।
लाजन्माधुयुतान्दद्यात् शक्तून् शर्कया सह
दद्याच्छ्राद्धे प्रयत्नेन शृङ्गाटककशेरुकान् ॥
द्वौ मासौ मत्स्यमांसेन त्रीन्मासान् हारिणेन तु ।
औरभ्रे णाथ चतुरः शाकुनेन तु पञ्च च ॥
षण्माषान् छागमांसेन पाषतेनाथ सप्त व ।
अष्टावेणस्य मांसेन रौरवेण नवैव तु ॥
दशमासांस्तु तप्यन्ति वराहमहिषामिषैः ।
पृष्ठ ५/१६१
शशकूर्म्मयोस्तु मांसेन मासानेकादशैव तु ॥
संवत्सरन्तु गव्येन पयसा पायसेन वा ।
वाध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥
कालशाकं महाशल्कं खङ्गिनोऽप्यामिषं मधु ।
आनन्त्यायैव कल्प्यन्ते मुन्यन्नानि च सर्व्वशः ॥
क्रीत्वा लब्ध्वा स्वयंवाथ मृतानाहृत्यवै द्विजः ।
दद्यात् श्राद्धे प्रयत्नेन यदस्याक्षयमुच्यते ॥ * ॥
पिप्पलिं शिग्रु कञ्चैव तथा चैव मसूरकम् ॥
कुष्माण्डालाववार्त्ताकान् भूतृणं सुरसं तथा ।
कुसुम्भं पिण्डमूलं वै तण्डुलीयकमेव च ॥
राजमाषांस्तथा क्षीरं माहिषञ्च विवर्जयेत् ।
कोद्रवान् कोविदारांश्च पालङ्कीं मरिचं तथा ।
वर्जयेत् सर्व्वयत्नेन श्राद्धस्थाने द्विजोत्तमः ॥”
इति कौर्म्मे उपविभागे १९ अध्यायः ॥
व्यास उवाच ।
“स्रात्वा यथोक्तं संतर्प्य पितॄन् चन्द्रक्षये द्विजः
पिण्डान्वाहार्य्यकं श्राद्धं कुर्य्यात् सौम्यमनाः
शुचिः ॥
पूर्व्वमेव परीक्षेत ब्राह्मणं वेदपारगम् ।
तीर्थं तद्धव्यकव्यानां प्रदाने वातिथिः स्मृतः ॥
ये सोमपा विरजसो धर्म्मज्ञाः शान्तचेतसः ।
व्रतिनो नियमस्थाश्च ऋतुकालाभिगामिनः ॥
पञ्चाम्निरप्यधीयानो यजुर्व्वेदविदेव च ।
सुबह्वृक् च त्रिषवणस्त्रिमधुर्व्वाथ यो भवेत् ॥
त्रिणाचिकेतश्छन्दोगो ज्ये ष्ठसागम एव च ।
अथर्व्व शिरसोऽध्येता रुद्राध्यायी विशेषतः ॥
अम्निहोत्रपरो विद्वान् न्यायविच्च षडङ्गवित् ।
मन्त्रब्राह्मणविच्चैव यश्च स्याद्धर्म्मपाठकः ।
ऋषिव्रती ऋषिकश्च तथा द्वादशवार्षिकः ॥
ब्रह्मदेयार्थसन्तानो गर्भशुद्धः सहस्रदः ।
चान्द्रायणब्रतचरः सत्यवादी पुराणवित् ।
गुरुदेवाग्निपूजासु प्रसक्तो ज्ञानतत्परः ॥
विमुक्तः सर्व्वतो धीरो ब्रह्मभूतो द्विजोत्तमः ।
महादेवार्च्चनरतो वैष्णवः पंक्तिपावनः ॥
अहिंसानिरतो नित्यमप्रतिग्राहकस्तथा ।
सत्रिणो दाननिरता विज्ञेयाः पंक्तिपावनाः ॥
मातापित्रोर्हिते युक्तः प्रातःस्नायी च वा द्विजः
अध्यात्मविन्मुनिर्द्दान्तो विज्ञेयः पंक्तिपावनः ॥
ज्ञाननिष्ठो महायोगी वेदान्तार्थविचिन्तकः ।
श्रद्धालुः श्राद्धनिरतो ब्राह्मणः पंक्तिपावनः ॥
वेदविद्याव्रतस्नातो ब्रह्मचर्य्यापरः सदा ।
आथर्व्वणो मुमुक्षुश्च ब्राह्मणः पंक्तिपावनः ॥
असमानप्रवरको ह्यसगोत्रस्तथैव च ।
असम्बन्धी च विज्ञेयाः ब्राह्मणाः पंक्तिपावनाः ॥
भोजयेद्योगिनं पूर्व्वं तत्त्वज्ञानरतिं यतिम् ।
अलामे नैष्ठिकं दान्तमुपकुर्व्वाणकं तथा ॥
तदलाभे गृहस्थं वा मुमुक्षुं सङ्गवर्ज्जितम् ।
सर्व्वालाभे साधकं वा गृहस्थमपि भोजयेत् ॥
प्रकृतेर्गुणतत्त्वज्ञो यस्याश्नाति यतिर्हविः ।
फलं वेदविदां तस्य सहस्रादतिरिच्यते ॥
तस्मात् यत्नेन योगीन्द्रमीश्वरज्ञानतत्परम् ।
योजयेद्धष्यकव्येषु त्वलाभे त्वितरान् द्विजान् ॥
एव वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।
अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरतुष्ठितः ॥ * ॥
मातामहं मातुलञ्च स्वस्रीयं श्वशुरं गुरुम ।
दौहित्रं विट्पतिं बन्धुमृत्विग्याज्यौ च भोज-
येत् ॥ * ॥
न श्राद्धे भोजयेन्मित्रं धनैः कार्य्योऽस्य संग्रः ।
पैशाची दक्षिणा सा हि नैवामुत्र फलप्रदा ॥
कामं श्राद्धेऽर्च्चयेन्मित्रं नाभिरूपमपि त्वरिम् ।
द्विषता हि हविर्भुक्तं भवति प्रेत्य निष्फलम् ॥
ब्राह्मणस्त्वनधीयानस्तुणाग्निरिव शाम्यति ।
तस्मै हव्यं न दातव्यं न च भस्मनि हूयते ॥
यथौषरे बीजसुप्त्वा न वप्ता लभते फलम् ।
तथानृचे हविर्द्दत्त्वा न दाता लभते फलम् ॥
यावतो ग्रसते पिण्डान् हव्यकव्ये ष्वमन्त्रवित् ।
तावतो ग्रसते प्रेत्य दीप्तान् शूलर्ष्ट्ययोगुडान् ॥
अपि विद्याकुलैर्मुक्ता हीनवृत्ता नराधमाः ।
यत्रेते भुञ्जते हव्यं तद्भवेदासुरं द्विजाः ॥
यस्य वेदश्च वेदी च विच्छिद्येते त्रिपूरुषम् ।
एष त्वब्राह्मणो नार्हः श्राद्धादिषु कदाचन ॥
शूद्रप्रेष्यो भृतो राज्ञा वृषलग्रामयाजकः ।
वधबन्धोपजीवी च षडेते ब्रह्मबन्धवः ॥
दत्तात्मयोगो वृत्त्यर्थं पतितान्मनुरब्रवीत् ।
वेदविक्रयिणो ह्येते श्राद्धादिषु विगर्हिताः ॥
श्रुतिविक्रयिणो ये तु परपूर्व्वासमुद्भवाः ।
अधमान् ये याजयन्ति पतितास्ते प्रकीर्त्तिताः ॥
असंस्कृताध्यापका ये भृत्यर्थेऽध्यापयन्ति ये ।
अधीयते तथा वेदान् पतितास्ते प्रकीर्त्तिताः ॥
बुद्धश्रावकनिर्ग्रन्थाः पञ्चरात्रिविदो जनाः ।
कापालिकाः पाशुपताः पाषण्डा ये च तद्विधाः ॥
यस्याश्नन्ति हवोंष्येते दुरात्मानस्तु तामसाः ।
न तस्य तद्भवेच्छ्राद्धं प्रेत्य चेह फलप्रदम् ॥
अनाश्रमी यो द्विजः स्यादाश्रमी वा निरर्थकः ।
मिथ्याश्रमी च ये विप्रा विज्ञेयाः पंक्तिदूषकाः ॥
दुश्चर्म्मा कुनखी कुष्ठी श्वित्री च श्यावदन्तकः ।
विद्धप्रजननश्चैव स्तेनः क्लीवोऽथ नास्तिकः ॥
मद्यपो वृषलीसक्तो वीरहा दिधिषूपतिः ।
अगारदाही कुण्डाशी सोमविक्रयिणो द्विजाः ॥
परिवेत्ता तथा हिंस्राः परिवित्तिर्निराकृतिः ।
पौनर्भवः कुशीदी च तथा नक्षत्रदर्शकः ॥
गीतवादित्रनिरतो व्याधितः काण एव च ।
हीनाङ्गश्चातिरिक्ताङ्गो ह्यवकीर्णी तथैव च ॥
कन्यादूषी कुण्डगोलौं ह्यभिशस्तोऽथ देवलः ।
मित्रध्रुक् पिशुनश्चैव नित्यं भार्य्यानुवर्त्तकः ॥
मातापित्रोर्गुरोस्त्यागी दारत्यागी तथैव च ।
गोत्रभिद्भ्रष्टशौचश्च काण्डपृष्ठस्तथैव च ॥
अनपत्यः कूटसाक्षी याचको रङ्गजीवनः ।
ममुद्रयायी कृतहा तथा समयभेदकः ॥
वेदनिन्दापरश्चै व परदाररतास्तथा ।
द्विजनिन्दारताश्चैव वर्ज्याः श्राद्धादिकर्म्मसु ॥
कृतघ्नः पिशूनः क्रूरो नास्तिको वेदनिन्दकः ।
मित्रध्रुक् कुहकश्चैव विशेषात् पंक्तिदूषकाः ॥
सर्वे पुनरभोज्यान्नास्तदानार्हा हि कर्म्मसु ।
ब्राह्मभावान्निरस्ताश्च वर्ज्ज नीयाः प्रयत्नतः ॥
शूद्रान्नरसपुष्टाङ्गः सन्ध्योपासनयर्ज्जितः ।
महायज्ञविहीनश्च ब्राह्मणः पंक्तिदूषकः ॥
अधीतनाशनश्चैव स्नानहोमविवर्ज्जितः ।
तामसो राजसश्चैव ब्राह्मणः पंक्तिदूषकः ॥
बहुनात्र किमुक्तेन विहितान् ये न कुर्वते ।
निन्दितानाचरन्त्येव वर्ज्जनीयाः प्रयत्नतः ॥”
इति कौर्म्मे उपविभागे २० अध्यायः ॥ * ॥
“गोमयेनोदकैर्भूमिं शोधयित्वा समाहितः ।
सन्निपात्र द्विजान् सर्व्वान् साधुभिः सन्निमन्त्र-
येत् ॥
श्वो भविप्यति मे श्राद्धं पूर्वेद्युरभिपूज्य च ।
असम्भवे परेद्युर्व्वा यथोक्तलक्षणैर्युतान् ॥
तस्य ते पितरः श्रुत्वा श्राद्धकालमुपस्थितम् ।
अन्योन्यमनसा ध्यात्वा सम्पतन्ति मनोजवाः ॥
ब्राह्मणैस्ते सहाश्नन्ति पितरो ह्यन्तरीक्षगाः ।
वायुभूताश्च तिष्टन्ति भुक्त्वा यान्ति परां गतिम् ॥
आमन्त्रिताश्च ते विप्राः श्राद्धकाल उपस्थिते ।
वसेयुर्नियताः सर्वे ब्रह्मचर्य्यपरायणाः ॥
अक्रोधनोऽत्वरोऽमत्तः सत्यवादी समाहितः ।
भारं मैथुनमध्वानं श्राद्धकृद्वर्जयेज्जपम् ॥
आमन्त्रितो ब्राह्मणो यः अन्यं वै कुरुते क्षणम्
स याति रौरवं घोरं शूकरत्वं प्रयाति च ॥
आमन्त्रयित्वा यो मोहादपरं मन्त्रयेत् द्विजम् ।
स तस्मादधिकः पापी विष्ठाकीटोऽभिजायते ॥
श्राद्धे निमन्त्रितो विप्रो मेथुनं योऽधिगच्छति
ब्रह्महत्यामवाप्नोति तिर्य्यग्योनौ स गच्छति ॥
श्राद्धं कृत्वा तु भुक्त्वा च योऽध्वानं प्रतिपद्यते ।
भवन्ति पितरस्तस्य तन्मासं पांशुभोजनाः ॥
निमन्त्रितस्तु यः श्राद्धे प्रकुर्य्यात् कलहं द्विजः
भवन्ति तस्य तन्मासं पितरो मलभोजनाः ॥
तस्मान्निमन्त्रितः श्राद्धे नियतात्मा भवेत् द्विजः
अक्रोधनः शौचपरः कर्त्ता चैव जितेन्द्रियः ॥
श्वोभूते दक्षिणां गत्वा दिशं दर्भान् समाहितः
समूलानाहरेद्वापि दक्षिणाग्रान् सुनिर्म्मलान् ॥
दक्षिणाप्लवनं स्निग्धं विविक्तं शुभलक्षणम् ।
शुचिं देशं विविक्तञ्च गोमयेनोपलेपयेत् ॥
नदीतीरेषु तीर्थेषु स्वभूमौ चैव सानुषु ।
विविक्तेषु च तुष्यन्ति दत्ते च पितरं सदा ॥
पारक्ये भूमिभागे तु पितॄणां नैच निर्वपेत् ।
स्वामिभिस्तद्विहन्ये त मोहात् यत् क्रियते नरेः ॥
अटव्यः पर्व्वताः पुण्यास्तीर्थान्यायतनानि च ।
सर्व्वाण्यस्वामिकान्याहुर्न हि तेषु परिग्रहः ॥
तिलानवकिरेत्तत्र सर्वतो बन्धयेदजान् ।
असुरोपहतं सर्व्वं तिलैः शुध्यत्यजेन वा ॥
ततोऽन्नं बहुसंस्कारं नैकव्यञ्जनमच्युतम् ।
चोष्यपेयसमृद्धञ्च यथाशक्त्या प्रकल्पयेत् ॥
ततो निवृत्ते मध्याह्ने न्यु प्तलोमनखान् द्विजान
अभिगम्य यथामार्गं प्रयच्छेद्दन्तधावनम् ॥
तैलमभ्यञ्जनं स्नानं स्नानोयञ्च पृथम्बिघम् ।
पात्रैरौडुम्बरैः कुर्य्यात् वैश्वदेवत्यपूर्वकम् ॥
ततः स्नात्वा विवृत्तेम्यः प्रत्युत्थाय कृताञ्जलिः ।
पृष्ठ ५/१६२
पाद्यमाचमनीयञ्च संप्रयच्छेद्यथाक्रमम् ॥”
पुस्तकान्तरे विवृत्तेभ्यः स्थाने निमित्तेभ्य इति
निवृत्तेभ्य इति च पाठः ॥
“ये चात्र विश्वदेवानां द्विजाः पूर्व्वं निमन्त्रिताः
प्राङ्मु खान्यासनान्येषां द्विदर्भोपहितानि च ॥
दक्षिणासुखयुक्तानि पितॄणामासनानि च ।
दक्षिणाग्रैकदर्भाणि प्रोक्षितानि तिलोदकैः ॥
तेषूप्रवेशयेदेतानासनं संस्पृशन् द्विजः ।
आसध्वमिति संजल्पन्नासीरंस्ते पृथक् पृथक् ॥
द्वौ दैवे प्राङ्मु खौ पित्रे त्रयश्चोदद्मुखास्तथा ।
एकैकं वा भवेत्तन्त्रं देवमातामहेष्वपि ॥
सत्क्रियां देशकालौ च शौचं ब्राह्मणसम्पदम् ।
पञ्चैतान् विस्तरो हन्ति तस्मान्नेहेत विस्तरम् ॥
अपि वा योजयेदेकं ब्राह्मणं वेदपारगम् ।
श्रुतशीलादिसम्पन्नमलक्षणविवर्ज्जितम् ॥
उद्धृत्य पात्रे चान्नं तत् सर्व्वस्मात् प्राकृतात्
पुनः ।
देवतायतने तस्मै निवेद्यान्नं प्रवर्त्तयेत् ॥
प्रास्येदग्नौ तदन्नन्तु दद्याद्वा ब्रह्मचारिणे ।
तस्मादेकमपि श्रेष्ठं विद्धांसं भोजयेत् द्विजम् ॥
भिक्षुक्षो ब्रह्मचारी वा भोजनार्थमुपस्थितः ।
उपविष्टेषु यः श्राद्धे कामं तमपि भोजयेत् ॥
अतिथिर्यस्य नाश्नाति न तत् श्राद्धं प्रशस्यते ।
तस्मात् प्रयत्नात् श्राद्ध्वेषु पूज्या ह्यतिथयो द्विजैः ॥
आतिथ्यरहितश्राद्धे भुञ्जते ये द्विजातयः ।
काकयोनिं व्रजन्त्येते दाता चैव न संशयः ॥ * ॥
हीनाङ्गः पतितः कुष्ठी ब्रणी पुक्कसनास्तिकौ ।
कुक्कुटाः शूकराः श्वानो वर्ज्याः श्राद्धेषु दूरतः ॥
वीभत्समशुचिं नग्नं मत्तं धूर्त्तं रजस्वलाम् ।
नीलकाषायवसनं पाषण्डांश्च विवर्ज्जयेत् ॥
यत्तत्र क्रियते कर्म्म पैतृकं ब्राह्मणान् प्रति ।
तत् सर्वमेव कर्त्तव्यं वैश्वदैवकपूर्व्व कम् ॥
यथोपदिष्टान् सर्व्वांस्तानलं कुर्य्याद्विभूषणैः ।
स्रग्दामभिः शिरोवेष्टिधूपवासोऽनुलेपनैः ॥
ततस्त्वावाहयेद्देवान् ब्राह्मणानामनुज्ञया ।
उदङ्मुखो यथान्यायं विश्वदेवास इत्यृचा ॥
द्वे पवित्रे गृहीत्वा च भाजने क्षालिते पुनः ।
शन्नो देव्या जलं क्षिप्त्वा यवोऽसीति यवांस्तथा
या दिव्या इति मन्त्रेण हस्ते त्वर्घ्यं निवेदयेत् ।
प्रदद्याद्गन्धमाल्यानि धूपादीनि च शक्तितः ॥
अपसव्यं ततः कृत्वा पितॄणां दक्षिणामुखः ।
आवाहनं ततः कुर्य्यात् उशन्तस्त्वे त्युचा बुधः ॥
आवाह्य तदनुज्ञातो जपेदायान्तु नस्ततः ।
शन्नो देव्योदकं पात्रे तिलोऽसीतितिलां स्तथा
क्षिप्त्वा चाघ्ये यथापूर्वं दत्त्वा हस्तेषु वै पुनः ।
मंम्रवांश्च ततः सर्व्वान् पात्रे कुर्य्यात् समा-
हितः ॥
पितृभ्यः स्थानमेतेन न्युब्जं पात्रं निधाय तु ।
अग्नी करिष्येत्यादाय पृच्छत्यन्नं घृतप्लुतम् ॥
कुरुष्वेति ह्यनुज्ञातो जुहुयादुपवीतवत् ।
यज्ञोपवीतिना होमः कर्त्तष्यः कुशपाणिना ।
प्राचीनावीतिना पित्र्यं वैश्वदेवन्तु होमयेत् ।
दक्षिणं पातयेज्जानुं देवान् परिचरन् मदा ॥
पितॄणां परिचर्य्यासु पालयेदितरं तथा ।
सोमाय वै पितृमते स्वधा नम इति ब्रुवन् ॥
अग्नये कव्यवाहनाय स्वधेति जुहुयात्ततः ।
अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् ॥
महादेवान्तिके वाथ गोष्ठे वा सुसमाहितः ।
ततस्तेरभ्यनुज्ञातो गत्वा वै दक्षिणां दिशम् ॥
गोमयेनोपलिप्योर्व्वों स्थानं कृत्वा तु सैकतम् ।
मण्डलं चतुरस्रं वा दक्षिणावनतं शुभम् ।
त्रिरुल्लिखेत्तस्य मध्यं दर्भेणैकेन चैव हि ॥
ततः संस्तीर्य्य तत्स्थाने दर्भान् वै दक्षिणाग्र-
कान् ।
त्रीन् पिण्डान् निर्व्वपेत्तत्र हविःशेषान् समा-
हितः ॥
न्युप्य पिण्डांस्तु तद्धस्तं निर्मृज्याल्लेपभागिनाम् ।
तेषु दर्भेष्वथाचम्य त्रिरायम्य शनैरसून् ॥
षडप्यृतून्नमस्कुर्य्यात् पितॄनेव च मन्त्रवत् ।
उदकं निनयेच्छेषं शनैः पिण्डान्तिके पुनः ॥
अवजिघ्रेषु तान् पिण्डान् यथाभ्युप्तान् समा-
हितः ।
अथ पिण्डावशिष्टान्नं विधिना भोजयेद्द्विजान् ॥
मांसान् पुपांश्च विविधान् दद्यात् कृशरपाय-
सम् ।
सूपशाकफलानीक्षून् पयो दधि घृतं मधु ॥
अन्नञ्चैव यथाकामं विविधं भक्ष्यपेयकम् ।
यदुद्दिष्टं द्विजेन्द्राणां तत्तत्सर्व्वं निवेदयेत् ॥
धान्यांस्तिलांश्च विविधान् शर्करा विविधास्तथा
उष्णमन्नं द्विजातिभ्यो दातव्यं श्रेय इच्छता ॥
अन्यत्र फलमूलेभ्यः पानकेभ्यस्तथैव च ।
नाश्रूणि पातयेज्जातु न कुप्येन्नानृतं वदेत् ॥
न पादेन स्पृशेदन्नं न चैतदवधूनयेत् ॥
क्रोधेन चैव यद्दत्तं यद्दत्तं त्वरया पुनः ॥
यातुधाना विलुम्पन्ति जल्पता चोपपादितम् ।
स्विन्नगात्रो न तिष्ठेत सन्निधौ च द्विजन्मनाम्
न चात्र श्येनकाकादीन् पक्षिणः प्रतिषेधयेत् ।
न दद्यादत्र हस्ते न प्रत्यक्षलवणं तथा ॥
न चायसेन पात्रेण न चैवाश्रद्धया पुनः ।
काञ्चनेन तु पात्रेण राजतौडुम्बरेण च ॥
दत्तमक्षयतां याति खाङ्गेन च विशेषतः ।
पात्रे तु मृण्मये यो वै श्राद्धे भोजयते पितॄन् ॥
स याति नरकं घोरं भोक्ता चैव पुरोधसा ।
न पंक्त्या विषमं दद्यात् न याचेन्न च दापयेत्
याचिता दापिता दाता नरकान् यान्ति-
दारुणान् ।
भुञ्चीत वाग्यताः स्पृष्टा न ब्रूयुः प्राकृतान्
गुणान् ॥
तावद्धि पितोरऽश्नन्ति यावन्नोक्ता हविर्गुणाः ।
नाग्रासनोपविष्टस्तु भुञ्जीत प्रथमं द्विजः ॥
बहूनां पश्यतां सोऽज्ञः पंक्त्या हरति किल्वि-
षम् ।
न किञ्चिद्वर्ज्जयेच्छ्राद्धे नियुक्तस्तु द्विजोत्तमः ॥
न मांसं प्रतिषेधेत नवान्यस्यान्नमीक्षयेत् ।
यो नाश्नाति द्विजो मांसं नियुक्तः पितृकर्म्मणि
स प्रेत्य पशुतां याति सम्भवानेकविंशतिम् ॥
स्वाध्यायं श्रावयेदेषां धर्म्मशास्त्राणि चैव हि ।
इतिहासपुराणानि श्राद्धकल्पांश्च शोभनान् ॥
ततोऽन्नमुत्सृजेद्भुक्तेष्वग्रतो विकिरन् भुवि ।
स्पृष्ट्वा स्वदितमित्येवं तृप्तानाचमयेत्ततः ॥
आचान्ताननुजानीयादभितो रम्यतामिति ।
स्वधास्त्विति च तं ब्रूयुर्ब्राह्मणास्तदनन्तरम् ॥
ततो भुक्तवतां तेषामन्नशेषं निवेदयेत् ।
यथा ब्रूयुस्तथा कुर्य्यादनुज्ञातो द्विजोत्तमैः ॥
पित्रे स्वदितमित्येवं वाच्यं गोष्ठेषु सुश्रुतम् ।
सम्पन्नमित्यभ्युदये दैवे रुचितमित्यपि ॥
विसृज्य ब्राह्मणांस्थान् वै पितृपूर्व्वन्तु वाग्यतः
दक्षिणां दिशमाकाङ्क्षन् याचेतेमान् वरान्
पितॄन् ॥
दातारो नोऽभिवर्द्धन्तां वेदाः सन्ततिरेव च ।
श्रद्धा च नो मा व्यगमद्वहु देयञ्च नोऽस्त्विति ॥
पिण्डांस्तु गोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा
मध्यमन्तु ततः पिण्डमद्यात् पत्नी सुतार्थिनी
प्रक्षाल्य हस्तावाचम्य ज्ञातीन् शेषेण भोजयेत्
ज्ञातिष्वपि च भुक्तेषु स्वान् भृत्यान् भोजयेत्ततः
पश्चात् स्वयञ्च पत्नीभिः शेषमन्नं समाहरेत् ।
नोद्वासयेत्तदुच्छिष्टं यावन्नास्तं गतो रविः ॥
ब्रह्मचारी भवेतान्तु दम्पती रजनीन्तु ताम् ।
दत्त्वा श्राद्धं तथा भुक्त्वा सेवते यस्तु मैथुनम् ॥
महारौरवमासाद्य कीटयोनिं व्रजेत् पुनः ।
शुचिरक्रोधनः शान्तः सत्यवादी समाहितः ॥
स्वाध्यायञ्च तथाध्वानं कर्त्ता भोक्ता च वर्जयेत् ॥
श्राद्धं कृत्वा परश्राद्धे भुञ्जते ये द्विजातयः ।
महापातकिभिस्तुल्या यान्ति ते नरकान् बहून्
एष वोऽभिहितः सम्यक् श्राद्धकल्पः सनातनः ।
अनेन वर्त्तयेन्नित्यमुदासीनोऽथ तत्त्ववित् ॥
अनग्निरध्वगो वापि तथैव व्यसनान्वितः ।
आमश्राद्धं द्विजः कुर्य्यात् वृषलस्तु सदैवहिः ॥
आमश्राद्धं यदा कुर्य्यात् विधिज्ञः श्रद्धयान्वितः
तेनाग्नौ करणं कुर्य्यात् पिण्डांस्तेनैव निर्वपेत् ॥
योऽनेन विधिना श्राद्धं कुर्य्यात् संयतमानसः ।
व्यपेतकल्मषो नित्यं यतीनां वर्त्तते पदम् ॥
तस्मात् सर्व्वप्रयत्नेन श्राद्धं कुर्य्यात् द्विजोत्तमः
आराधितो भवेदीशस्तेन सम्यक् सनातनः ।
अपि मूलफलैर्व्वापि प्रकुर्व्वन्निर्धनो द्विजः ॥
तिलोदकैस्तर्पयेद्वा पितॄन् स्नात्वा समाहितः ।
न जीवत्पितृको दद्याद्धामान्तं वा विधीयते ।
येषां वापि पिता दद्यात्तेषाञ्चैके प्रचक्षते ।
पितापितामहश्चैव तथैव प्रपितामहः ॥
यो यस्य म्रियते यस्मै देयं नाम्नास्य तेन तु ।
भोजयेद्वापि जीवन्तं यथाकामन्तु भक्तितः ॥
न जीवन्तमतिक्रम्य ददाति श्रूयते श्रुतिः ।
द्व्यामुष्यायणिको दद्याद्वीजिक्षेत्रिकयोः समम् ॥
ऋक्थादर्द्धं समादद्यात् नियोगोत्पादितो यदि
अनियुक्तात् सुतो यस्तु शुल्कतो जायते द्विजः ॥
प्रदद्याद्वीजिने पिण्डं क्षेत्रिणे तु ततोऽन्यथा ।
पृष्ठ ५/१६३
द्वी पिण्डौ निर्व्वपेत्ताभ्यां क्षेत्रिणे बीजिने तथा ।
कोर्त्तयेदथ चैकस्मिन् बीजिनं क्षेत्रिणं ततः ।
मृताहनि तु कर्त्तव्यमेकोद्दिष्टं विधानतः ॥
अशौचे स्वे परिक्षीणे काम्यं वै कामतस्ततः ।
पूर्व्वाह्णे चैव कर्त्तव्यं श्राद्धमभ्युदयार्थिना ॥
देववत् सर्व्वमेव स्यान्न वै कार्य्या तिलक्रिया ।
दर्भाश्च ऋजवः कार्य्या युग्मान् वै भोजयेत्
द्विजान् ॥
नान्दीमुखास्ते पितरः प्रीयन्तामिति वाचयेत् ।
मातृश्राद्धन्तु पूर्वं स्यात् पितॄणां स्यादनन्तरम् ॥
ततो मातामहानाञ्च वृद्धौ श्राद्धत्रयं स्मृतम् ।
देवपूर्व्वन्तु दद्याद्वै न कुर्य्यादप्रदक्षिणम् ॥
प्राङ्मुखो निर्व्वपेत् पिण्डानुपवीतौ समाहितः ।
पूर्व्वं वै मातरः पूज्या भक्त्या चैव गणेश्वरः ॥
स्थण्डिलेषु पवित्रेषु प्रतिमासु द्विजातिषु ।
पुष्पै र्धूपैश्च नैवेद्यैर्गन्धाद्यैर्भूषणैरपि ॥
पूजयित्वा मातृगणान् कुर्य्यात् श्राद्धत्रयं बुधः ।
अकृत्वा मातृयागन्तु यः श्राद्धं परिवेशयेत् ।
तस्य क्रोधसमाविष्टा हिंसामिच्छन्ति मातरः ॥”
इति कौर्म्मे उपविभागे २१ अध्यायः ॥
मात्स्ये १६ । १७ । १८ । अध्यायेषु चान्यत् द्रष्ट-
व्यम् ॥ * ॥ श्राद्धे कदलीपत्रं निषिद्धं भोजन-
पात्रतया । इति हेमाद्रिव्याख्या श्राद्धखण्डे ॥
न जातीकुसुमानि दद्यात् न कदलीपत्रम् ।
इति क्रतुवचनम् ॥ * ॥ श्राद्धोत्तरनिषिद्धानि
यथा, --
“यात्रा युद्धं नदीपारं मिथ्यालापो द्विभोजनम् ।
द्यूतक्रीडा दिवानिद्रा श्राद्धे सप्त विवर्ज्जयेत् ॥”
इति कर्म्मलोचनम् ॥
स्मृतिः ।
द्यूतञ्च कलहञ्चैव सायंसन्ध्यां दिवाशयम् ।
श्राद्धकर्त्ता च भोक्ता च पुनर्भुक्तञ्च वर्जयेत् ॥”
अपि च । विष्णुपुराणम् ।
“वर्ज्यानि कुर्व्वता श्राद्धं कोपोऽध्वगमनं त्वरा ।
भोक्तुरप्यत्र राजेन्द्र त्रयमेतन्न शस्यते ॥”
राजमार्त्तण्डे ।
“पुनर्भोजनमध्यानं द्युताध्ययनमैथुनम् ।
दानं प्रतिग्रहं सन्ध्यां श्राद्धं कृत्वाष्ट वर्जयेत् ॥”
नव्यवर्द्धमानधृता स्मृतिः ।
“पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् ।
दानं सन्ध्यां पुनः स्नानं श्राद्धं कृत्वाष्ट वर्जयेत् ॥”
इति श्राद्धतत्त्वम् ॥
अथ वैष्णवश्राद्धविधिः ।
“प्राप्ते श्राद्धदिनेऽपि प्रागन्नं भागवतेऽर्पयेत् ।
तच्छेषेणैव कुर्व्वीत श्राद्धं भागवतो नरः ॥”
यच्च स्मृतौ ।
“गृहाग्निशिशुदेवानां यतीनां ब्रह्मचारिणाम् ।
पितृपाकोन दातव्यो यावत् पिण्डान्न निर्वपेत् ॥”
इति ॥
“ईदृक् सामान्यवचनं विशेषवचनघ्रजैः ।
श्रुतिस्मृतिपुराणादिवर्त्तिभिर्व्वाध्यते ध्रुवम् ॥”
तथा च पाद्मे ।
“विष्णोर्निवेदितान्ने न यष्टव्यं देवतान्तरम् ।
पितॄभ्यश्चापि तद्देयं तदानन्त्याय कल्प्यते ॥”
मोक्षधर्म्मे नारदोक्तौ ।
“सात्वतं विधिमास्थाय प्राक् सूर्य्यमुखनिः-
सृतम् ।
पूजयामास देवेशं तच्छेषेण पितामहान् ॥”
ब्रह्माण्डपुराणे ।
“यः श्राद्धकाले हरिभुक्तशेषं
ददाति भक्त्या पितृदेवतानाम् ।
तेनैव पिण्डांस्तुलसीविमिश्रा-
नाकल्पकोटिं पितरः सुतृप्ताः ॥”
स्कान्दे श्रीशिवोक्तौ ।
“देवान् पितॄन् समुद्दिश्य यद्विष्णोर्विनिवेदितम्
तानुद्दिश्य ततः कुर्य्यात् प्रदानं तस्य चैव हि ॥
प्रयान्ति तृप्तिमतुलां सोदकेन तु तेन वै ।
मुकुन्दगात्रलग्नेन ब्राह्मणानां विलेपनम् ॥
चन्दनेन तु पिण्डानां कर्त्तव्यं पितृतृप्तये ।
देवानाञ्च पितॄणाञ्च जायते तृप्तिरक्षया ॥
एवं कृते महीपाल मा भवेत् संशयः क्वचित् ॥”
तत्रैव श्रीपुरोषोत्तमखण्डे ।
“अन्नाद्यं श्राद्धकाले तु पतिताद्यैर्निरीक्षितम् ।
तुलसीदलमिश्रेण सलिलेनाभिषिञ्चयेत् ॥
तदन्नं शुद्धतामेति विष्णोर्नैवेद्यमिश्रितम् ।
विष्णोर्नैवेद्यशेषन्तु तस्माद्देयं द्विजन्मना ।
पिण्डे चैव विशेषेण पितॄणां तृप्तिमिच्छता ॥”
तत्रैव श्रीब्रह्मनारदसंवादे ।
“पितॄनुद्दिश्य यैः पूजा केशवस्य कृता नरैः ।
त्यक्त्वा ते नारकीं पीडां मुक्तिं यान्ति महामुने ॥
धन्यास्ते मानवा लोके कलिकाले विशेषतः ।
ये कुर्व्वन्ति हरेर्नित्यं पित्रर्थं पूजनं मुने ॥
किं दत्तैर्ब्बहुभिः पिण्डैर्गयाश्राद्धादिभिर्मुने ॥
यैरर्च्चितो हरिर्भक्त्या पित्रर्थश्च दिने दिने ॥
यमुद्दिश्य हरेः पूजा क्रियते मुनिपुङ्गव ॥
उद्धृत्य नरकावासात्तं नयेत् परमं पदम् ॥
यो ददाति हरेः स्थानं पितॄनुद्दिश्य नारद ।
कर्त्तव्यं हि पितॄणां यत्तत् कृतं तेन भो द्विज ॥” *
श्रुतौ च । एक एव नारायण आसीत् न ब्रह्मा
नेमे द्यावापृथिव्यौ सर्वे देवाः सर्वे पितरः सर्वे
मनुष्याः विष्णुना अशितमश्नति विष्णुना घ्रातं
जिघ्रन्ति विष्णुना पीतं पिबन्ति तस्साद्विद्वांसो
विष्णूपहृतं भक्षयेयुरिति । अतएवोक्तं श्रीभग-
वता विष्णुधर्म्मे ।
“प्राणेभ्यो जुहुयादन्नं मन्निवेदितमु त्तमम् ।
तृप्यन्ति सर्व्वदा प्राणा मन्निवेदितभक्षणात् ॥
तस्मात् सर्व्वप्रयत्नेन प्रदेयं मन्निवेदितम् ।
ममापि हृदयस्थस्य पितॄणाञ्च विशेषतः ॥”
किञ्च तत्रै वान्यत्र ।
भक्ष्यं भोज्यञ्च यत्किञ्चिदनिवेद्याग्रभोक्तरि ।
न देयं पितृदेवेभ्यः प्रायश्चित्ती यतो भवेत् ॥
सर्गादौ कथितो देवैरग्रभुक् भगवान् हरिः ।
यज्ञभागभुजो देवा ततस्तेन प्रकल्पिताः ॥”
इति श्रीहरिभक्तिविलासे ९ विलासः ॥ * ॥
अथोपवासदिने श्राद्धनिषेधः । पाद्मे पुष्कर-
खण्डम् ।
“एकादश्यां यदा राम श्राद्धं नैमित्तिकं भवेत् ।
तद्दिने तु परित्यज्य द्वादश्यां श्राद्धमाचरेत् ॥”
तत्रैवोत्तरखण्डे ।
“एकादश्यान्तु प्राप्तायां मातापित्रोर्म्मृतेऽहनि
द्वादश्यां तत् प्रदातव्यं नोपवासदिने क्वचित् ॥
गर्हितान्नं न चाश्नन्ति पितरश्च दिवौकसः ॥”
स्कान्दे ।
“एकादशी यदा नित्या श्राद्धं नैमित्तिकं भवेत्
उपवासं तदा कुर्य्यात् द्वादश्यां श्राद्धमाचरेत् ॥”
ब्रह्मवैवर्त्ते ।
“ये कुर्व्वन्ति महीपाल श्राद्धं त्वेकादशीदिने ।
त्रयस्ते नरकं यान्ति दाता भोक्ता परेतकः ॥”
इति श्रीहरिभक्तिविलासे १२ विलासः ॥

श्राद्धं, त्रि, (श्रद्धा अस्त्यस्येति । श्रद्धा + “प्रज्ञा

श्रद्धार्च्चावृत्तिभ्यो णः ।” ५ । २ । २०१ । इति णः ।)
श्रद्धासमन्वितम् । इति हेमचन्द्रः ॥

श्राद्धकर्त्ता, [ऋ] त्रि, (करोतीति । कृ + तृच् ।

श्राद्धस्य कर्त्ता ।) श्राद्धकारकः । यथा, --
“श्राद्धकर्त्ता च भोक्ता च पुनर्भुक्तञ्च वर्ज्जयेत् ॥”
इति श्राद्धतत्त्वम् ॥

श्राद्धदेवः, पुं, (श्राद्धस्य देवः ।) यमः । इत्यमरः ॥

(यथा, मार्कण्डेये । ८ । १५६ ।
“श्राद्धदेवेन कथितं विश्वामित्रस्य चेष्टितम् ॥”)
स तु विवस्वतः संज्ञायां पत्न्यां जातः ॥ मनु-
मेदः । इति पुराणम् ॥ (यथा, मार्कण्डेये ।
१०६ । ४ ।
“मनुर्वैवस्वतो ज्येष्ठः श्राद्धदेवः प्रजापतिः ।
ततो यमो यमी चैव यमलौ सम्बभूवतुः ॥”)

श्राद्धशाकं, क्ली, (श्राद्धे देयं शाकम् ।) काल-

शाकम् । इति भावप्रकाशः ॥

श्राद्धिकः, त्रि, (श्राद्धमनेन भुक्तमिति । श्राद्ध +

“श्राद्धमनेन भुक्तमिनिठनौ ।” ५ । २ । ८५ ।
इति ठन् ।) श्राद्धभोक्ता । इति सिद्धान्त-
कौमुदी ॥ श्राद्धसम्बन्धिद्रव्यादि । यथा, याज्ञ-
वल्क्यः ।
“सन्ध्यागर्ज्जितनिर्घाते भूकम्पोल्कानिपातने ।
समाप्य वेदं द्युनिशमारण्यकमधीत्य च ॥
पञ्चदश्यां चतुर्द्दश्यामष्टम्यां राहुसूतके ।
ऋतुसन्धिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च ॥”
इति तिथ्यादितत्त्वम् ॥

श्राद्धी, [न्] त्रि, श्राद्धभोक्ता । श्राद्ध + “श्राद्ध-

मनेन भुक्तमिनिठनौ ।” ५ । २ । ८५ । इति
सूत्रे ण इनिः । इति सिद्धान्तकौमुदी ॥

श्रान्तः, पुं, (श्रम + क्तः ।) शान्तः । जितेन्द्रियः ।

इति हेमचन्द्रः ॥ श्रमयुक्ते, त्रि । श्रम
तपःखेदयोः इत्यस्मात् क्तप्रत्ययेन निष्पन्नः ।
यथा, --
“सखि मत्प्राणनाथन्तु साधयन्ती निरन्तरम् ।
अतिश्रान्तासि सद्भावस्नेहयोरियमौचिती ॥”
इति काव्यचन्द्रिका ॥
पृष्ठ ५/१६४

श्रान्तमंवाहनं, क्ली, (श्रान्तस्य संवाहनम् ।)

श्रमान्वितस्य आसनादिप्रदानद्वारा श्रमोप-
शमनम् । इति केचित् ॥

श्राम, त् क मन्त्रे । इति कविकल्पद्रुमः ॥ (अदन्त-

चुरा०-पर०-सक०-सेट् ।) अशश्रामत् । मन्त्रो-
ऽभिमुखीकरणम् । गुप्तोक्तिरित्येके । इति
दुर्गादासः ॥

श्रामः, पुं, (श्रामयतीति । श्राम + अच् ।) मासः ।

मण्डपः । कालः । इति मेदिनी ॥

श्रामणेरः, पुं, जिनभिक्षुशिष्यः । तत्पर्य्यायः ।

चेलुकः २ प्रव्रजितः ३ महापासकः ४ गोमी ५ ।
इति त्रिकाण्डशेषः ॥

श्रायः, पुं, (श्रि श्रये + “श्रिणीभुवोऽनुपसर्गे ।”

३ । ३ । २४ । इति घञ् ।) श्रयणम् । आश्रयः ।
इत्यमरः ॥ (यथा, भट्टिः । ७ । ३६ ।
“यात यूथं यमश्रायं दिशं नायेन दक्षिणाम् ॥”)
श्रीसम्बन्धिनि, त्रि । यथा । श्रीर्देवता अस्य
श्रायं हविः । इति श्रीशब्दादण्प्रत्ययेन निष्पन्न-
मिति सिद्धान्तकौमुदी ॥

श्रायसः, त्रि, (श्रेयस् + अण् । “देविकाशिंश-

पेति ।” ७ । ३ । १ । इति आदेरचः आत् ।)
श्रेयसि भवः । इति सिद्धान्तकौमुदी ॥

श्रावः, पुं, श्रवणम् । श्रुधातोर्घञ्प्रत्ययेन

निष्पन्नः । इक्ष्वाकुवंशीयनृपतिविशेषः । यथा,
महाभारते । ३ । २०१ । ३ ।
“आर्द्रात्तु युवनाश्वस्तु श्रावस्तस्यात्मजो-
ऽभवत् ॥”)

श्रावकः, पुं, (शृणोतीति । श्रु + ण्वुल् ।) शाक्य-

मुनिशिष्यविशेषः । काकः । इति त्रिकाण्ड-
शेषः ॥ (श्रावयतीति । श्रु + णिच् + ण्वुल् ।
दूरध्वनिः । यथा, माघे । ११ । १ ।
“प्रणिजगदुरकाकुश्रावकस्निग्धकण्ठाः
परिणतिमिति रात्रे र्मागधा मागधाय ॥”)
श्रोतरि, त्रि । (यथा, पुराणम् ।
“ऋग्वेदश्रावकं पैलं जग्राह विधिवद्द्विजम् ।
यजुर्वेदप्रवक्तारं वैशम्पायनमेव च ॥”)

श्रावणः, पुं, (श्रवणेनाचरति न तु कार्य्येणेति ।

श्रवण + अण् । पाषण्डः । इति मेदिनी ॥
(श्रवणेन गृह्यते इति । श्रवण + “शेषे ।” ४ ।
२ । ९२ । इत्यण् । शब्दः । इति काशिका ॥)
वैगाखादि-द्वादशमासान्तर्गत-चतुर्थ-मासः ।
श्रवणानक्षत्रयुक्ता पौर्णमासी श्रावणी सा यत्र
मासे सः । (श्रवणा + अण् ।) तत्पर्य्यायः ।
नभाः २ श्रावणिकः ३ । इत्यमरः ॥ नभः ४ ।
इति शब्दरत्नावली । स च द्विविधः सौर-
श्चान्द्रश्च । कर्क्कटस्थरविको मामः सौर-
श्रावणः । कर्कटस्थरविप्रारब्धशुक्लप्रतिपदादि-
दर्शान्तो मासश्चान्द्रश्रावणः । चान्द्रोऽपि
द्विविधो मुख्यो गौणश्च । तत्र मुख्यचान्द्रश्राव-
णोयकृष्णप्रतिपदादिपौर्णमास्यन्तो मासो गौण-
चान्द्रः श्रावणः । मुख्यलक्षर्ण प्रागेवोक्तम् ।
इति मलमासतत्त्वम् ॥ * ॥ तत्र जातफलम् ।
“लोकप्रमिद्धो धनवान् वदान्यः
सुहृत्कलत्रात्मजदासयुक्तः ।
आज्ञाकरा यस्य जनस्य सर्व्वे
स श्रावणाख्ये सुतरां प्रसूतः ॥”
अथ श्रावणकृत्यम् । तत्र देवीपुराणम् ।
“सुप्ते जनार्द्दने कृष्णे पञ्चम्यां भवनाङ्गने ।
पूजयेन्मनसा देवीं स्नुहीविटपसंस्थिताम् ॥”
स्नु ही सिजवृक्षः ।
“देवीं संपूज्य नत्वा च न सर्पभयमाप्नुयात् ।
पञ्चम्यां पूजयेन्नागाननन्ताद्यान् महोरगान् ।
क्षीरं सर्पिश्च नैवेद्यं देयं सर्पविषापहम् ॥”
गारुडे ।
“अनन्तं वासुकिं शङ्खं पद्मं कम्बलमेव च ।
तथा कर्कोटकं नागं धृतराष्ट्रञ्च शङ्खकम् ॥
कालीयं तक्षकञ्चापि पिङ्गलं मणिभद्रकम् ।
यजेत्तानसितान्नागान दष्टमुक्तो दिवं ब्रजेत् ॥”
पुराणान्तरेऽपि ।
अनन्तो वासुकिः पद्मो महापद्मोऽथ तक्षकः ।
कुलीरः कर्कटः शङ्खो ह्यष्टौ नागाः प्रकी-
र्त्तिताः ॥”
पाद्मे ।
शेषः पद्मो महापद्मः कुलीरः शङ्खपालकः ।
वासुकिस्तक्षकश्चैव कालीयो मणिभद्रकः ।
ऐरावतो धृतराष्ट्रः कर्कोटकधनञ्जयौ ॥”
रत्नाकरे ।
“पिचुमर्द्दस्य पत्राणि स्थापयेद्भवनोदरे ।
स्वयञ्चापि तदश्नीयात् ब्राह्लणानपि भोजयेत् ॥”
पिचुमर्द्दस्य निम्बस्य ॥ * ॥ तत्र प्रयोगः ।
हरिशयनानन्तरं गौणचान्द्रेण श्रावणकृष्ण-
नवम्यां कृतस्नानादिरुदङ्मुखः । अद्य श्रावणे
मासि कृष्णे पक्षे पञ्चम्यां तिथौ अमुकगोत्रः
श्रीअमुकदेवशर्म्मा सर्पभयाभावकामो मनसा-
देवीपूजामहं करिष्ये । इति सङ्कल्प्य स्नुही-
वृक्षे पूजयेत् । तदभावे घटे जले वा न्यासा-
दिकं कृत्वा देवीमम्बेति ध्यात्वा मनसादेवि
इहागच्छ इहावाह्य एतत् पाद्यं ॐ मनसा-
देव्यै नमः । इत्यनेन यथाशक्ति गन्धपुष्पधूप-
दीपनैवेद्यानि दद्यात् । ततोऽनन्तादीन्
नागान् पूजयेत् तत्र क्षीरसर्पिर्नैवेद्यं प्रधानम् ।
अनन्तादिकं पाद्यादिभिः संपूज्य ।
ॐ योऽसावनन्तरूपेण ब्रह्माण्डं सचराचरम् ।
पुष्पवद्धारयेन्मूध्नि तस्मै नित्यं नमो नमः ॥”
इत्यनेन त्रिः पूजयेत् । एवं प्रणवादिनमोऽन्तेन
स्वस्वनाम्ना पूजयेत् । ॐ वासुकय नमः । ॐ
शङ्णाय नमः । ॐ कम्बलाय नमः । ॐ कर्को-
टकाय नमः । ॐ शङ्खकाय नमः । ॐ काली-
याय नमः । ॐ तक्षकाय नमः । ॐ पिङ्गलाय
नमः । ॐ महापद्माय नमः । ॐ कुलिकाय
नमः । ॐ मणिभद्राय नमः । ॐ धनञ्जयाय
नमः । ॐ शेषाय नमः । ॐ ऐरावताय
नमः । अशक्तौ गन्धपुष्पाभ्यां पूजयेत् । निम्ब-
पत्राणि गृहे स्थापयेत् ब्राह्मणेभ्यो दद्यात्
स्वयं भक्षयेच्च । उभयदिने पूर्व्वाह्णे मुहूर्त्तान्यून-
पञ्चमीलाभे पूर्व्वदिने पूजा युग्मात् । श्रावण्यां
पौर्णमास्यां श्राद्धमावश्यकम् । इति कृत्यतत्त्वम् ॥
श्रवणानक्षत्रसम्बन्धिनि, त्रि ॥

श्रावणा, स्त्री, दध्यालीकवृक्षः । इति मेदिनी ।

श्रावणिकः, पुं, (श्रवणा पौर्णमास्यस्मिन्नस्तीति ।

श्रवणा + “विभाषा फाल्गुनीश्रवणाकार्त्तिकी-
चैत्रीभ्यः ।” ४ । २ । २६ । इति ठक् ।) श्रावण-
मासः । इत्यमरः ॥

श्रावणी, स्त्री, (श्रवणेन नक्षत्रेण युक्ता पौर्णमासी ।

श्रवण + “नक्षत्रेण युक्तः कालः ।” ४ । २ । ३ ।
इत्यण् । ङीप् ।) श्रावणमासीयपूर्णिमा । यथा,
“पौर्णमासी तथा माघी श्रावणी च नरोत्तम ।
एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजापतिः ॥
इति श्राद्धतत्त्वम् ॥
बृक्षविशेषः । मुण्डी इति थोलकुडिया इति च
हिन्दीभाषा । तत्पर्य्यायः । मुण्डितिका २
भिक्षुः ३ श्रवणशीर्षिका ४ श्रवणा ५ प्रव्रजिता ६
परिव्राजी ७ तपोधना ८ । अस्या गुणाः ।
कषायत्वम् । कटुत्वम् । उष्णत्वम् । कफवाता-
मातिसारकासविषच्छर्द्दिनाशित्वञ्च । इति राज-
निर्घण्टः ॥ अपि च ।
“मुण्डी भिक्षुरपि प्रोक्तः श्रावणी च तपोधना ।
श्रवणाह्ना मुण्डितिका तथा श्रवणशीर्षिका ॥
महाश्रावणिकान्या तु सा स्मृ ता भूकदम्बिका
कदम्बपुष्पिका च स्यादव्यथा तु तपस्विनी ।
मुण्डितिका कटुः पाके वीर्य्योष्णा मधुरा लघुः
मेध्या गण्डा पची कृच्छ्रकृमियोन्यर्त्तिपाण्डुनुत ॥
श्लीपदारुच्यपस्मारप्लीहमेदोगुदार्त्तिहृत् ।
महामुण्डी च तत्तुल्या गुणैरुक्ता महर्षिभिः ॥”
इति भावप्रकाशः ॥
अन्यत् मुण्डितिकाशब्दे द्रष्टव्यम् ॥

श्रावन्ती, स्त्री, धर्म्मपत्तनाख्यदेशः । इति त्रिकाण्ड-

शेषः ॥

श्राविष्ठीयः, त्रि, (श्रविष्ठासु जातः । + श्रविष्ठा +

“श्रविष्ठाफल्गुन्यनुराधेति ।” ४ । ३ । ३४ । इतिछण् ।)
श्रवणानक्षत्रजातः ॥ इति सिद्धान्तकौमुदी ॥

श्रि, ञ सेवने । इति कविकल्पद्रुमः ॥ (भ्वा०-

उभ०-सक०-सेट् ।) ञ, श्रयति श्रयते । इति
दुर्गादासः ॥

श्रितः, त्रि, (श्रि + क्तः । “श्र्युकः किति ।” ७ । २ । ११

इति इडागमो न ।) सेवितः । आश्रितः ।
इति सिद्धान्तकौमुदी ॥ (यथा, रघुः । ११ । ६१ ।
“भास्करश्च दिशमध्युवास यां
तां श्रिताः प्रतिभयं ववाशिरे ॥”
पक्वः । यथा, रामायणे । २ । ५६ । २८ ।
“लक्ष्मणः पुरुषव्याघ्रमथ राघवमब्रवीत् ।
अयं सर्व्वः समस्ताङ्गः श्रितः कृष्णमृगो मया ।
देवता देवसङ्काश यजस्व कुशलो ह्यसि ॥”)

श्रितवान्, [त्] त्रि, (श्रि + क्तवतु । “श्र्युकः

किति । ७ । २ । ११ । इति इडागमो न)
सेवाकारकः । इति मिद्धान्तकौमुदी ॥
पृष्ठ ५/१६५

श्रियंमन्या, स्त्री, आत्मानंश्रियं मन्यते या । इति

मुग्धबोधव्याकरण्णम् ॥ (यथा, भट्टिः । ५ । ७१ ।
“मिथ्यैव श्रीः श्रियंमन्या श्रीमन्मन्यो मृषा-
हरिः ॥”)

श्रिष, उदाहे । इति कविकल्पद्रुमः ॥ (भ्वा० पर०

सक०-सेट् ।) क्त्वावेट् ।) उ, श्रेषित्वा श्रिष्ट्वा ।
इति दुर्गादासः ॥

श्री, ञ ग पाके । इति कविकल्पद्रुमः ॥ [क्र्या०-

उभ०-सक०-सेट् ।) ञ ग श्रीणाति श्रीणीते ।
इति दुर्गादासः ॥

श्रीः, स्त्री, (श्रयतीति । श्रि + “क्विप्वचिप्रच्छीति ।”

उणा० २ । ५७ । इति क्विप् दीर्घश्च ।) लक्ष्मीः
(यथा, विष्णुपुराणे । १ । ८ । १३ ।
“श्रियञ्च देवदेवस्य पत्नी नारायणस्य च या ॥”
लवङ्गम् । इत्यमरः ॥ वेशरचना । शोभा ।
(यथा, रामायणे । २ । ९४ । १० ।
एवमादिभिराकीर्णः श्रियं पुष्यत्रयं गिरिः ॥”)
सरस्वती । सरलवृक्षः । त्रिवर्गः । सम्पत्तिः ।
(यथा, --
“न दातुं नोपभोक्तुं वा शक्नोति कृपणः
श्रियम् ॥”)
विधा । डपकरणम् । विभूतिः । मतिः । इति
मेदिनी ॥ अधिकारः । प्रभा । कीर्त्तिः । इति
धरणिः ॥ वृद्धिः । सिद्धिः । इति शब्दरत्नावली ॥
वृत्तार्हन्माता । इति हेमचन्द्रः ॥ कमलम् ।
विल्ववृक्षः । वृद्धिनामौषधम् । इति राज-
निर्घण्टः ॥ * ॥ देवादिनाम्नः पूर्व्वं श्रीशब्द-
प्रयोगः कर्त्तव्यः । यथा, --
“देवं गुरुं गुरुस्थानं क्षेत्रं क्षेत्राधिदेवताम् ।
सिद्धं सिद्धाधिकारांश्च श्रीपूर्व्वं समुदीरयेत् ॥”
इति राघवभट्टधृतप्रयोगसारदर्शनात् स्वर्ग-
गामित्वादिना सिद्धोऽधिकारो येषां नराणां
इत्यनेन जीवतां श्रीशब्दादित्वं नाम्रः । न तु
मृतानां तथेति शिष्टाचारः । इति संस्कार-
तत्त्वम् ॥ * ॥ पत्रपृष्ठे श्रीशब्ददानप्रमाणं पत्र-
शब्दे द्रष्टव्यम् ॥ (एकाक्षरच्छन्दोविशेषः ।
यथा छन्दोमञ्जर्य्याम् । “ग्श्रीः ।” उदा-
हरणम् । “श्रीस्ते । [सास्ताम् ॥”)

श्रीः, पुं, (श्रि + क्विप् दीर्घश्च ।) रागविशेषः । स

तु हनुमन्मते षड्रागान्तर्गतपञ्चमरागः ।
पृथिव्या नाभितो निर्गतः । अस्य जातिः
सम्पू र्णा । तस्य स्वरावलिः । ष ऋ ग म प ध
नि अस्य गृहं षड्जस्वरः । हेमन्तर्त्तौ अप-
राह्णे गानसमयः । रागमालायां अस्याकारः ।
सुन्दरपुरुषः । शुक्लवस्त्रपरीधानः । मतान्तरे
रक्तवस्त्रपरीधानः । स्फाटिकपद्मरागमणि-
मालागलः । पद्मपुष्पहस्तः । विचित्रसिंहा-
सनारूढः । अस्य संमुखे गायन्ति गायकाः ॥
हनुमन्मते अस्य भार्य्याः पञ्च । यथा । प्रथमा
मालश्रोः । [तस्याः सम्पूर्णजातिः । अस्याः
स्वरावलिः । ष ऋ ग म प ध नि । अस्या गृहं
षड्जस्वरः । हिमर्त्तौद्वितीयप्रहरदिवसे गान-
समयः । रागमालायां तस्याः स्वरूपम् । रक्त-
वर्णा स्त्री । कोमलाङ्गी । पीतवस्त्रपरीधाना ।
कौतुकाद्भ्रमन्ती सती नायकादभिन्ना सखी-
गणेन सह हास्ययुक्ताम्रतरुतलोपविष्टा ॥ १ ॥
द्वितीया मारवा अथवा मालवा । अस्याः
षाडवजातिः । अस्याः स्वरावलिः । ष प ग
म ध नि । अस्या गृहं षड्जस्वरः । हिमर्त्तौ
शेषवेलायां गानसमयः । रागमालायां तस्याः
स्वरूपं यथा । स्वर्णवस्त्रपरीधाना । पुष्पमाल्य-
धरा । नायकमेलनार्थमेकाकिनीसङ्केतस्थानोप-
विष्टा ॥ २ ॥ तृतीया धनाश्रीः । अस्याः षाडव-
जातिः । अस्याः स्वरावलिः । ष प ध नि ऋ
ग । गृहं षड्जस्वरः । हिमर्त्तौ द्वितीयप्रहर-
दिवसे शेषवेलायां वा गानसमयः । राग-
मालायां तस्याः स्वरूपम् । वियोगिनी नारी ।
रक्तवस्त्रपरीधाना । वियोगजसन्तापेन दुःखि-
तातिकृशा । एकाकिनी रोरुद्यमाना बकुल-
तरुतलोपविष्टा ॥ ३ ॥ चतुर्थी वसन्तरागिणी ।
अस्याः सम्पूर्णा जातिः । अस्याः स्वरावलिः ।
ष ऋ ग म प ध नि । अस्या गृहं षड्जस्वरः ।
हिमर्त्तौ मध्याह्ने वसन्तर्त्तौ दिवा मात्रे च गान-
समयः । रागमालायां तस्याः स्वरूपम् ।
सुन्दरपुरुषाकृतिः । कस्यचिन्मते श्यामवर्णा ।
रक्तवसना । मयूरपुच्छशिखा । आम्रमुकुल-
हस्ता । यौवनमदनमदमत्ता । पुष्पमाल्यगल-
देशा । पुष्पोद्याने सह नर्त्तकीसुस्वरगायनीभिः
सुखेन रागरङ्गयुता । वामहस्तधृतताम्बूल-
वीटिका । स्त्रीगणसहितहास्यकौतुकक्रीडा-
नृत्यगीतवाद्यासक्ता । रागमालान्तरे उक्तगुणं-
युक्ता श्रीकृष्णमूर्त्तिसदृशमूर्त्तिर्लिखिता ॥ ४ ॥
पञ्चमी आशावरी । अस्या औडवजातिः ।
अस्याः स्वरावलिः । ध नि ष म प । अस्याः
गृहं धैवतस्वरः । हिमर्त्तौ द्वितीयप्रहरदिवसे
गानसमयः । रागमालायां अस्याः स्वरूपम् ।
श्यामवर्णा स्त्री । कोमलाङ्गी । श्वेतशाटीपरि-
धाना । कर्पूरानुलेपना । हस्तपदयोर्बृहत्सर्प-
वेष्टिता केशैर्बद्धचूडा । जलमध्यस्थपर्वतगुहा-
यामुपविष्टा । रागमालान्तरे उक्तगुणयुक्ता
वृक्षपत्रबद्धकटिदेशा नग्ना लिस्विता ॥ ५ ॥ * ॥
अस्य पुत्त्रा अष्टौ । यथा । सिन्धुः १ मालवः २
गौँडः अथवा गोण्डः ३ अस्य स्थाने केचित्
कल्याणः इति केचिच्च हामीर इति पठन्ति ।
नुण सागरः ४ कुम्भः ५ गम्भीरः ६ शङ्करः
अथवा आगडः ७ विहागरः ८ ॥ * ॥ कल्लि-
नाथमते श्रीरागः प्रथमरागः अस्य भार्य्या षट् ।
यथा । गौरी १ गौलाहली २ धवली ३
रुद्राणी ४ मालकौश अर्थात् कौशिकी ५ देव-
गान्धारी ६ । तन्मते पुत्त्रा अष्टौ हनुमन्मत-
तुल्याः । किन्तु गौँडशङ्करविहागरस्थाने
कल्याण आगडा विगडा लिखिताः ॥ * ॥
सोमेश्वरमतेऽपि प्रथमरागोऽयम् । अस्य
रागिण्यः षट् । यथा । मालवी अथवा मरवा १
त्रिवेणी अथवा तिरवनी २ गौरी ३ केदारा ४
मधुमाधवी ५ पाहाडिका अथवा पाहाडी ६ ।
अस्य पुत्त्राः पूर्व्वोक्तमतद्वयतुल्याः । तन्मते
अस्य रागस्य रागिणीसहितस्य शिशिरर्त्तौ
गानममयः ॥ * ॥ भरतमते पञ्चमरागोऽयम् ।
अस्य रागिण्यः पञ्च । यथा । सिन्धुवी १ । काफी
२ ठुमरी ३ पूर्व्वदेशे विस्तार इति ख्याता ।
विचित्रा ४ शिरहटी अथवा सोरहठी ५
तन्मते अस्याष्ट पुत्त्राः यथा । श्रीरमणः १
कोलाहलः २ सामन्तः ३ शङ्करणः ४ राके-
श्वरः ५ खटरागः ६ वडहंसः ७ देशकारः ८ ।
तेषां भार्य्या यथा । विय्या १ धाय्या २ कुम्भा ३
सुहनी ४ शरदा ५ क्षेमा ६ शशरेखा ७ सुर-
सती ८ । इति नानासङ्गीतशास्त्रतः संगृही-
तम् ॥

श्रीकण्ठः, पुं, (श्रीः शोभा कण्ठेयस्य ।) शिवः ।

इत्यमरः ॥ कुरुजाङ्गलदेशः । स तु हस्तिना-
पुरस्य उत्तरपश्चिमे वर्त्तते । इति हेमचन्द्रः ॥
(पक्षिविशेषः । यथा, बृहत्संहितायाम् ।
८६ । ३८ ।
“स्त्रीसंज्ञा भासभषककपिश्रीकर्णछिक्कराः ।
शिखिश्रीकण्ठपिप्पीकरुरुश्येनश्च दक्षिणाः ॥”)

श्रीकण्डपदलाञ्छनः, पुं, (श्रीकण्ठ इति पदं

लाञ्छनं यस्य ।) भवभूतिः । स तु मालती-
माधवादिनाटककर्त्ता । इति शब्दमाला ॥
(यथा, उत्तरचरिते प्रस्तावगायाम् ।
“अस्ति खलु तत्रभवान् काश्यपः श्रीकण्ठ-
पदलाञ्छनो भवभूतिर्नाम ॥”)

श्रीकण्ठसखः, पुं, (श्रीकण्ठस्य महादेवस्य सखा ।

समासे टच् ।) कुबेरः । इति हलायुधः ॥

श्रीकन्दा, स्त्री, (श्रीः शोभा तद्युक्तः कन्दो

यस्याः ।) बन्ध्याकर्कोटकी । इति राज-
निर्घण्टः ॥

श्रीकरं, क्ली, रक्तोत्पलम् । इति त्रिकाण्डशेषः ॥

श्रीकरः, पुं, विष्णुः । इति त्रिकाण्डशेषः ॥ स्मृति-

ग्रन्थकारविशेषः । यथा । श्रीकराचार्य्यादि-
ग्रन्थादरपराहतविवेकानाम् । इति दायभागा-
द्यश्लोकटीमायां श्रीकृष्णतर्कालङ्कारः ॥ (श्रियः
शोभायाः करः) । श्रीकारके, त्रि ॥

श्रीकरणं, क्ली, (श्रीः क्रियतेऽनेनेति । कृ + करणे

ल्युट् ।) लेखनी । इति शब्दरत्नावली ॥

श्रीकान्तः, पुं, (श्रियाः कान्तः ।) विष्णुः । इति

शब्दरत्नावली ॥

श्रीकारी, [न्] पुं, (श्रियं शोभां करोतीति । कृ +

णिनिः ।) मृगविशेषः । तत्पर्य्यायः । शिखि-
यूपः २ कुरङ्गः ३ महायवः ४ यवनः ५ वेगि-
हरिणः ६ जङ्घालः ७ जाङ्घिकाह्वयः ८ । अस्य
मांसगुणाः । लघुत्वम् । हृद्यत्वम् । बलप्रदत्वञ्च
इति राजनिर्घण्टः ॥

श्रीखण्डः, पुं, क्ली, (श्रियः शोभायाः खण्ड इव

यत्र ।) चन्दनम् । इति त्रिकाण्डशेषः ॥ (यथा,
गीतगोविन्दे । ९ । १० ।
पृष्ठ ५/१६६
“तद्युक्तं विपरीतकारिणि तव श्रीखण्डचर्च्चा
विषं
शीतांशुस्तपनो हिमं हुतवहः क्रीडामुदो
यातनाः ॥”)

श्रीगर्भः, पुं, (श्रीर्गर्भेऽस्य ।) विष्णुः । इति त्रिकाण्ड-

शेषः ॥ खङ्गः । यथा, --
“असिर्व्विषशनः खङ्गस्तीक्ष्णधारो दुरासदः ।
श्रोगर्भो विनयश्चैव धर्म्मपाल नमोऽस्तु ते ॥”
इति तिथ्यादितत्त्वम् ॥

श्रीग्रहः, पुं, (श्रियः ग्रहो यत्र ।) पक्षिणः पानीय-

शाला । तत्पर्य्यायः । शकुनिप्रपा २ । इति
हारावली ॥

श्रीघनं, क्ली, (श्रिया घनम् ।) दधि । इति जटा-

धरः ॥

श्रीघनः, पुं, (श्रिया बुद्ध्या घनः ।) बुद्धः । इत्य-

मरः ॥

श्रीचक्रं, क्ली, (श्रियाश्चक्रम् ।) त्रिपुरसुन्दर्य्याः

पूजायन्त्रविशेषः । यथा, --
“श्रीचक्रस्योद्धृतिं वक्ष्ये तत्र पूजाप्रसिद्धये ।
बिन्दुगर्भं त्रिकोणन्तु कृत्वा चाष्टारमुद्धरेत् ॥
दशारद्वयमन्वस्राष्टारषोडशकोणकम् ।
त्रिरेखात्मकभूगेहवेष्टितं यन्त्रमालिखेत् ॥”
इति मन्त्रमहोदधौ ११ तरङ्गः ॥
अपिच । अथ श्रीचक्रम् । यथा बिन्दुमत् त्र्यस्र
अष्टकोणं एतत्रयं संहारचक्रम् । द्विदशारं
चतुर्द्दशारं स्थितिचक्रमेतत्त्रयम् । अष्टपत्रं
षोडशदलं वृत्तत्रयम् । भूसदनत्रयं चतुर्द्दार-
समायुक्तमेतत् सृष्ट्यात्मकम् । तदुक्तं यामले ।
“बिन्दुत्रिकोणवसुकोणदशारयुग्म-
मन्वस्रनागदलसङ्गतषोडशारम् ।
वृत्तत्रयञ्च धरणीसदनत्रयञ्च
श्रीचक्रराजमुदितं परदेवतायाः ॥”
चक्रराजं सिन्दूरकुङ्कुमादिना लिखितं सुवर्ण-
रजतपञ्चरत्नस्फटिकताम्राद्युत्कीर्णं कुर्य्यात् ।
तथा भूतभैरवतन्त्रे ।
“अकृत्वा सुसमां रेखां नालिख्य सुसमं मुखम्
योऽत्र यन्त्रे प्रवर्त्तेत तस्य सर्व्वं हराम्यहम् ॥
यस्या यत्र स्थितिर्द्देवि तत्र तां नार्च्चयेद्यदि ।
तन्मांसरुधिरेणैव पारणा तस्य जायते ॥
पशोरालोकनं न स्यात्तथा कुरुत यत्नतः ।
यदि दैवात् पशोरग्रे लिखितं विद्यते क्वचित् ।
ममाङ्गक्षतिरेवात्र क्रियते पापबुद्धिना ॥”
तथा भूतभैरवे ।
“योऽस्मिन् यन्त्रेमहेशानि केशराणि प्रकल्पयेत्
योगिनीसहितास्तस्य हिंसां कुर्व्वन्ति भैरवाः ॥”
इति वचनान्नात्र केशराणि ।
“न रात्रावङ्कयेत् यन्त्रं साधकस्तु कदाचन ।
प्रमादादङ्किते यन्त्रे शापो भवति तत्क्षणात् ॥
तत्रापराजितापुष्पे करवीरे जवासु च ।
तत्र देवी वसेन्नित्यं तद्यन्त्रे पूजनं मम ॥”
तथा सच्छन्दभैरवे ।
“कुर्य्याच्च स्थण्डिले यन्त्रं हस्तमात्रं सुसुन्दरम् ।
रत्नादिषु च निर्म्माणे मानमिच्छावशाद्भवेत् ॥
एकतोलं द्वितोलं वा त्रितोलं वेदतोलकम् ।
इतोऽधिकं नरः कृत्वा प्रायश्चित्तीभवेत् ध्रुवम् ॥
रक्तेन रजसापूर्य्य श्रीचक्रं भुवि पूजयेत् ।
नश्यन्ति सर्व्वविघ्नानि प्राप्यते च यथेप्सितम् ॥
दशभागं सुवर्णस्य ताम्रस्य द्वादशं तथा ।
षड्दशं रजतस्याथ चैतल्लोहत्रयं भवेत् ॥
चक्रेऽस्मित् पूजयेद्यो हि स सौभाग्यमवाप्नुयात
अणिमाद्यष्टसिद्धीनामधिपो जायतेऽचिरात् ॥
विद्रुमे रचिते यन्त्रे पद्मरागेऽथवा प्रिये ।
इन्द्रनीलेऽथ वैदूर्य्ये स्फाटिके मरकतेऽपि वा ।
धनं पुत्त्रं तथा दारान् यशांसि लभते ध्रुवम् ।
ताम्रन्तु कान्तिदं प्रोक्तं सुवर्णं शत्रुनाशनम् ॥
राजतं क्षेमदञ्चैव स्फाटिकं सर्व्वसिद्धिदम् ॥”
एतदद्यन्त्रमात्रे ज्ञेयम् ॥ * ॥ अथ श्रीचक्रनाशे
प्रायश्चित्तम् ।
“दग्धं च स्फुटितं यन्त्रं हृतं चौरेण वा प्रिये ।
उपवासं प्रकुर्व्वोत दिनमेकमतन्द्रितः ॥
लक्षमात्रं जपेद्विद्यां होमतर्पणपूर्व्वकम् ।
सद्भक्त्या च गुरुं तोष्य ब्राह्मणानपि भोज-
येत् ॥”
लक्षं जप्त्वा दशांशहोमः तद्दशांशञ्च तर्पणम् ।
लक्षमयुतमित्येके ।
“कदाचिल्लुप्तचिह्नं वा स्फु टितादि विदूषणम्
भग्नं करोति यो मर्त्यो मृत्युस्तस्य द्रुतं भवेत्
तस्माच्च तीर्थराजे वा गङ्गादिसरितां वरे ॥
समुद्रे वा क्षिपेद्देवि चान्यथा दुःखमाप्नुयात् ॥”
इदन्तु यन्त्रमात्रविषयम् ॥ * ॥ अथ श्रीचक्र-
पादोदकमाहात्म्यम् ।
“गङ्गापुष्करनर्म्मदासु यमुनागोदावरीगोमती-
गङ्गाद्वारगयाप्रयागवदरीवाराणसीसिन्धुषु ।
रेवासेतुसरस्वतीप्रभृतिषु ब्रह्माण्डभाण्डोदरे
तीर्थस्नानसहस्रकोटिफलदं श्रीचक्रपादोदकम्”
अथ दर्शनफलम् ।
“सम्यक् शतक्रतून् कृत्वा यत् फलं समवाप्नुयात्
तत् फलं लभते भक्त्या कृत्वा श्रीचक्रदर्शनम् ॥
षोडशं वा महादानं कृत्वा यल्लभते फलम् ।
तत् फलं समवाप्नोति कृत्वा श्रीचक्रदर्शनम् ॥
सार्द्धत्रिकोटितीर्थेषु स्नात्वा यत् फलमश्नुते ।
तत् फलं लभते भक्त्या कृत्वा श्रीचक्रदर्शनम् ॥
इति तन्त्रसारः ॥

श्रीजः, पुं, (श्रियः जायते इति । जन् + डः ।)

कामदेवः । श्रिया जातत्वात् । शाम्बः । इति
केचित् ॥

श्रीतालः, पुं, (श्रीयुक्तस्तालः ।) तालवृक्षसद्दृश-

वृक्षविशेषः । तत्पर्य्यायः । मृदुतालः २ लक्ष्मी-
तालः ३ मृदुच्छदः ४ विशालपत्रः ५ लेखार्हः
६ मसीलेख्यदलः ७ शिरालपत्रकः ८ याम्योद्-
भूतः । अस्य गुणाः । मधुरत्वम् । शीतत्वम् ।
ईषत् कषायत्वम् । पित्तनाशित्वम् । कफकारि-
त्वम् । ईषद्वातप्रकोपणत्वञ्च । इति राज-
निर्घण्टः ॥

श्रीदः, पुं, (श्रियं ददातीति । दा + कः ।)

कुबेरः । इत्यमरः ॥ शोभादातरि, त्रि, ॥

श्रीधरः, पुं, (धरतीति । धृ + अच् । श्रिया

धरः ।) विष्णुः । (यथा, मुकुन्दमालायाम् । ९ ।
“मा भैर्मन्दमनो विचिन्त्य बहुधा यामीश्चिरं
यातना
नामी नः प्रभवन्ति पापरिपवः स्वामी ननु
श्रीधरः ।
आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणं
लोकस्य व्यसनापनोदनकरो दासस्य किं न
क्षमः ॥”)
भूतार्हद्भेदः । इति हेमचन्द्रः ॥ शालग्राम-
चक्रे, क्ली, । यथा, --
“अतिक्षुद्रं द्विचक्रन्तु वनमालाविभूषितम् ।
श्रीधरं देवि विज्ञेयं श्रीप्रदं गृहिणां सदा ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १९ अध्यायः ॥

श्रीनन्दनः, पुं, (श्रियाः नन्दनः ।) कामदेवः ।

इति हेमचन्द्रः ॥ लक्ष्मीपुत्त्रश्च ॥

श्रीनिकेतनः, पुं, (श्रियं निकेतयति वासयतीति ।

नि + कित + णिच् + ल्युः ।) विष्णुः । इति
शब्दरत्नावली ॥ (यथा, भागवते । ९ । १८ । १३ ।
“भगवानपि विश्वात्मा पावनः श्रीनिकेतनः ॥”
श्रियः आश्रयस्थाने, त्रि । यथा, भागवते । ३ ।
३ । २० ।
“स्निग्धस्मितावलोकेन वाचा पीयूषकल्पया ।
चरित्रे णानवद्येन श्रीनिकेतेन चात्मना ॥”)

श्रीनिवासः, पुं, (श्रियो निवास आश्रयस्थानम् ।

विष्णुः । इति त्रिकाण्डशेषः ॥

श्रीपं, त्रि, (श्री + पा + कः ।) श्रियं पाति यत् ।

इति मुग्धबोधव्याकरणम् ॥

श्रीपञ्चमी, स्त्री, (श्रियः सरस्वत्याः पञ्चमी ।)

माघशुक्लपञ्चमी । यथा, --
“चतुर्थी वरदा शुक्ला तत्र गौरी सुपूजिता ।
सौभाग्यमतुलं कुर्य्यात् पञ्चम्यां श्रीरपि श्रियम् ॥
सरस्वतीपूजानध्यायश्चात्र गौडाचारः । अत्र
श्रीपञ्चम्यामारभ्य प्रतिमासं षडब्दसमाप्यं
श्रीपञ्चमीव्रतं कुर्व्वन्ति पठन्ति च । इति संव-
त्सरकौमुदीधृतब्रह्मपुराणवचनम् ॥

श्रीपतिः, पुं, (श्रियः पतिः ।) विष्णुः । इत्यमरः ॥

(यथा, मुकुन्दमालायाम् । १६ ।
“सेव्यः श्रोपतिरेव सर्व्वजगतामेकान्ततः
साक्षिणः
प्रह्लादश्च विभीषणश्च करिराट् पाञ्चाल्य-
हल्या ध्रुवः ॥”)
पृथिवीनाथः । इति मेदिनी ॥

श्रीपथः, पुं, (श्रियः पन्थाः । “ऋक्पूरब्धूःपथा-

मानक्षे ।” ५ । ४ । ७४ । इति अः ।) राज-
पथः । इति हेमचन्द्रः ॥

श्रीपर्णं, क्ली, (श्रीविशिष्टानि पर्णानि यस्य ।)

पद्मम् । अग्निमन्थवृक्षः । इति मेदिनी ॥

श्रीपर्णिका, स्त्री, (श्रीपर्णी एव । स्वार्थे कन् ।)

वाट्फलवृक्षः । इत्यमरः ॥
पृष्ठ ५/१६७

श्रीपर्णी, स्त्री, (श्रीयुक्तानि पर्णानि यस्याः । ङीष्)

गम्भारीवृक्षः । इत्यमरः । कट्फलवृक्षः । इति
मेदिनी ॥ शाल्मलीवृक्षः । हठवृक्षः । इति
हेमचन्द्रः । अग्निमन्थवृक्षः । इति राज-
निर्घण्टः ॥

श्रीपिष्टः, पुं, (श्रियः सरलद्रुमस्य पिष्टः ।) सरल-

वृक्षरसः । इत्यमरटीकायां रामाश्रमः ॥

श्रीपुत्त्रः, पुं, अश्वः । इति त्रिकाण्डशेषः ॥ (श्रियः

पुत्त्रः ।) कामदेवश्च ॥

श्रीपुष्पं, क्ली, (श्रीयुक्तं पुष्पमस्य ।) लवङ्गम् ।

इति राजनिर्घण्टः ॥ पद्मकाष्ठम् । इति रत्न-
माला ॥

श्रीफलः, पुं, (श्रीयुक्तं फलमस्य ।) विल्ववृक्षः ।

इत्यमरः । राजादनी । इति राजनिर्घण्टः ॥

श्रीफला, स्त्री, (श्रीविशिष्टं फलमस्याः ।) नीली ।

क्षुद्रकारवेल्ली । इति राजनिर्घण्टः ॥

श्रीफलिका, स्त्री, (श्रीफला + स्वार्थे कन् । टापि

अत इत्वम् ।) क्षुद्रकारवेल्ली । महानीलीवृक्षः ।
इति राजनिर्घण्टः ॥

श्रीफली, स्त्री, (श्रीयुक्तं फलमस्याः । ङीष् ।)

आमलकी । नीली । इति मेदिनी ॥

श्रीभद्रा, स्त्री, भद्रमुस्तकः । इति शब्दरत्नावली ॥

श्रीभागवतं, क्ली, (श्रीमत् भागवतमिति मध्यपद-

लोपिसमासः ।) अष्टादशमहापुराणान्तर्गता-
ष्टादशसहस्रश्लोकयुक्तपुराणविशेषः ! (तत्तु मत-
भेदेन विष्णुभागवतदेवीभागवतभेदात् । द्विवि-
धम् ।) यथा, --
“अष्टादशं भागवतं सारमाकृष्य सर्व्वतः ।
कृतवान् भगवान् व्यासः शुकञ्चाध्यापत् सुतम् ॥
स्कन्धेर्द्वादशभिर्युक्तं ब्रह्मविद्यासमन्वितम् ।
वेदवेदान्तसारं तत् पुराणानाञ्च सत्तम ॥
यत्र संकीर्त्तितः कृष्णो भगवान् वै पदे पदे ।
श्रीभागवतमित्येव ये स्मरन्ति नराः क्वचित् ।
मुच्यन्ते सर्व्वपापेभ्यो यथा नाम्ना गदाभृतः ॥
महीभृतां यथा मेरुर्देवानां केशवो यथा ।
सुरभिः कामधेनूनामप्सरस्सु यथोर्व्वशी ॥
कार्ष्णानां पार्व्वतीनाथो राज्ञां दाशरथिर्यथा ।
सप्तीनाञ्चेव गन्धर्व्वा नदीनां जाह्नवी यथा ।
पुराणानां तथा राजन् श्रीभागवतमुत्तमम् ॥
अम्बरीश उवाच ।
पुराणं तं भागवतं पठ मे पुरतो हरेः ।
चरितं दैत्यराजस्य प्रह्लादस्य च मत्पतेः ॥
गौतम उवाच ।
अम्बरीश शुकप्रोक्तं नित्यं भागवतं शृणु ।
पठस्व स्वमुखेनापि यदीच्छति भवक्षयम् ॥
स्कन्धे स्कन्धेऽश्वमेधस्य फलमाप्नोति मानवः ।
प्रत्यध्यायं राजसूयफलेन परियुज्यते ॥
प्रतिश्लोकं वाजपेयफलं तस्योपजायते ।
पदे पदे महाराज तीर्थस्नानफलं लभेत् ॥
एतद्भागवतं देवि पुराणं मुक्तिसाधकम् ।
तत्रापि दशमस्कन्धः सर्व्वभक्तमनोहरः ।
तत्रापि रासलीलाढ्या पञ्चाध्यायी महाफला ॥
श्रीपार्व्वत्युवाच ।
सर्व्वञ्च हरिलीलाढ्यं श्रीमद्भागवतं यदि ।
स्कन्धस्य दशमस्यायं महिभा केन हेतुना ॥
रासलीलेति तत्रापि कथ्यते सर्वतोऽधिका ।
तत्र मे कारणं श्रोतुमुत्कण्ठा वर्द्धते भृशम् ॥
श्रीसदाशिव उवाच ।
स्वयं भगवतो जन्म तस्य लीला च वर्ण्यते ।
श्रुतीनाञ्च स्तुतिर्यत्र सर्व्ववेदार्थसम्मिता ॥
स्वयं भगवतो लीला सर्वशक्तिश्च दर्शिता ।
दशमस्कन्धमाहात्म्यं एतद्वै कारणं मतम् ॥
तत्रापि रासलीलाया यन्माहात्म्यमुदीरितम् ।
तत्रापि कारणं वच्मि शृणु पर्वतनन्दिनि ॥
यः स्वयं भगवान् कृष्णः पूर्णैश्वर्य्य इतीर्य्यते ।
स सर्व्वशक्तिसम्पूर्णः सर्वलीलाप्रकाशकः ॥
तस्यैव शक्तयो गोप्यः प्रोक्ताः सर्व्वोत्तमा यतः ।
शक्तीनाञ्च शक्तिमतो लीला यत्रैकतः स्थिता ।
सा लीला सर्वतः श्रष्ठा कीर्त्तिता परम-
र्षिभिः ॥”
इति पाद्मे पातालखण्डे ७१ अध्यायः ॥
(तथाच शिवपुराणे ।
“भगवत्याश्च दुर्गायाश्चरितं यत्र विद्यते ।
तत्तु भागवतं प्रोक्तं नतु देवीपुराणकम् ॥”
अस्य विशेषविवृतिस्तु पुराणशब्द-भागवत-
शब्दयोर्द्रष्टव्यम् ॥)

श्रीभ्राता, पुं, (श्रियः भ्राता समुद्रजातत्वात् ।)

अश्वः । इति राजनिर्घण्टः ॥ चन्द्रः । समुद्रो-
त्पन्नत्वात् ॥

श्रीमतिः, स्त्री, राधा । यथा, --

“श्रीराधा श्रीमतिः श्रेष्ठा श्रेष्ठरूपा श्रुति-
प्रिया ॥”
इति नारदपञ्चरात्रे तस्याः सहस्रनामस्तोत्रम् ॥

श्रीमती, स्त्री, (श्रीर्विद्यतेऽस्या इति । मतुप ।

ङीप् ।) श्रीयुक्ता । योषिन्नाम्नः पूर्व्वं एतच्छब्दो
योज्यः । इति शिष्टाचारः ॥

श्रीमस्तकः, पुं, (श्रीयुक्तं मस्तकमस्य ।) रसोनः ।

इति त्रिकाण्डशेषः ॥ (श्रियो मस्तकः ।)
लक्ष्मीशिरश्च ॥

श्रीमान्, [त्] पुं, (श्रीर्विद्यतेऽस्येति । मतुप् ।)

तिलकवृक्षः । इत्यमरः ॥ अश्वत्थवृक्षः । इति
राजनिर्घण्टः ॥ विष्णुः । इति शब्दरत्नावली ॥
शिवः । इति त्रिकाण्डशेषः ॥ कुबेरः । इति
शब्दमाला ॥

श्रीमान्, [त्] त्रि, (श्री + मतुप् ।) मनोज्ञः ।

(यथा, माघे । १ । १ ।
श्रियः प्रतिः श्रीमति शासितुं जगत्
जगन्निवासो वसुदेवसद्मनि ।
वसन् ददर्शावतरन्तमम्बरात्
हिरण्यगर्भाङ्गभुवं मुनिं हरिः ॥”)
धनी । इति मेदिनी ॥ तत्पर्य्यायः । लक्ष्मीवान् २
लक्ष्मणः ३ श्रीलः ४ । इत्यमरः ॥ (यथा, --
“श्रीमन्नाथ भवद्यशोविटपिनः खे तारकाः
कोरका-
स्तेषामेकतमः पुरा विकशितो यः पूर्णिमा-
चन्द्रमाः ।
तेनेदं शरदिन्दुसुन्दरसुधास्यन्दैर्जगत् मण्डित
शेषेष्वेषु विकस्वरेषु भविता कीदृक् न जार्ना
महे ॥”
इति कालिदासः ॥)

श्रीमलापहा, स्त्री, धूम्रपत्रा । इति राज-

निर्घण्ठः ॥

श्रीमुखः, पुं, कालचक्रस्य सप्तमवत्सरः । इति

केचित् ॥ पत्रपृष्ठे श्रीशब्दलिखनम् । इति लोक-
प्रसिद्धिः ॥ शोभायुक्तानने, क्ली ॥

श्रीमूर्त्तिः, स्त्री, (श्रीयुक्ता मूर्त्तिः ।) देवविग्रहः ।

विष्णुप्रतिमा । यथा । अथ श्रीमूर्त्तयः । एका-
दशस्कन्धे ।
“शैली दारुमयी लौही लेप्या लेख्या च मैकता
मनोमयी मणिमयी प्रतिमाष्टविधा मता ॥
चलाचलेति द्विविधा प्रतिष्ठा जीवमन्दिरम् ।
उद्वासावाहने न स्तः स्थिरायामुद्धवार्च्चने ॥
अस्थिरायां विकल्यः स्यात् स्थण्डिले तु भवेत्
द्वयम् ।
स्नपनं त्वविलेप्यायामन्यत्र परिमार्ज्जनम् ॥
गोपालमन्त्रोद्दिष्टत्वात् तच्छ्रीमूर्त्तिरपेक्षिता ।
तथापि वैष्णवप्रीत्यै लेख्याः श्रीमूर्त्तयोऽखिलाः ॥”
अथ श्रीमूर्त्तिलक्षणानि । हयशीर्षपञ्चरात्रे ।
भगवच्छ्रीहयशीर्षब्रह्मसंवादे ।
“आदिमूर्त्तिर्वासुदेवः सङ्कर्षणमथासृजत् ।
चतुर्मुर्त्तिः परं प्रोक्तं एकैको भिद्यते त्रिधा ॥
केशवादिप्रभेदेन मूर्त्तिद्वादशकं स्मृतम् ।
पङ्कजं दक्षिणे दद्यात् पाञ्चजन्यं तथोपरि ॥
वामोपरि गदा यस्य चक्रं चाधोव्यवस्थितम् ।
आदिमूर्त्तेस्तु भेदोऽयं केशवेति प्रकीर्त्त्यते ॥ १ ॥
अधरोत्तरभावेन कृतमेतत्तु यत्र वै ।
नारायणाख्या सा मूर्त्तिः स्थापिता भुक्ति-
मुक्तिदा ॥ २ ॥
सव्याधः पङ्कजं यस्य पाञ्चजन्यं तथोपरि ।
दक्षिणोर्द्धे गदा यस्य चक्रं चाधोव्यवस्थितम् ॥
आदिमूर्त्तेस्तु भेदोऽयं माधवेति प्रकीर्त्त्यते ॥ ३ ॥
दक्षिणाधःस्थितं चक्रं गदा यस्योपरिस्थिता ॥
वामोर्द्ध्वसंस्थितं पद्मं शङ्खं चाधोव्यवस्थितम् ।
सङ्कर्षणस्य भेदोऽयं गोविन्देति प्रकीर्त्त्यते ॥ ४ ॥
दक्षिणोपरि पद्मं तु गदा चाधोव्यवस्थिता ।
सङ्कर्षणस्य भेदोऽयं विष्णुरित्यभिशब्द्यते ॥ ५ ॥
दक्षिणोपरि शङ्खञ्च चक्रं चाधः प्रदृश्यते ।
वामोपरि तथा पद्मं गदा चाधः प्रदृश्यते ।
मधुसूदननामायं भेदः सङ्कर्षणस्य च ॥ ६ ॥
त्रिविक्रममूर्त्तिमाह ।
दक्षिणोर्द्धे गदा यस्य पङ्कजं चाप्यधः स्थितम् ।
वामोर्द्धे संस्थितं चक्रमधः शङ्खं प्रदृश्यते ।
ब्रह्माण्डगं वामपादं दक्षिणं शेषपृष्ठगम् ॥ ७ ॥
श्रोवामनमूर्त्तिमाह ।
बलिवञ्चनसयुक्त वामनं चाप्यधःस्थितम् ।
वामोर्द्धे कौमोदी यस्य पुण्डरीकमधास्थितम् ॥
पृष्ठ ५/१६८
दक्षिणोर्द्धं सहस्रारं पाञ्चजन्यमधः स्थितम् ।
सप्ततालप्रमाणेन वामनं कारयेत् सदा ॥ ८ ॥
ऊर्द्धं दक्षिणतश्चक्रमधः पद्मं व्यवस्थितम् ।
वामोर्द्धे कौमोदी यस्य पाञ्चजन्यमधःस्थितम् ॥
पद्मा पद्मकरा वामे पार्श्वे तस्य व्यवस्थिता ।
स्थितो वाप्युपविष्टो वा सानुरागविलासवान् ॥
प्रद्युम्नस्य हि भेदोऽयं श्रीधरेति प्रकीर्त्त्यते ॥ ९ ॥
दक्षिणोर्द्धं महाचक्रं कौमोदी तदधःस्थिता ॥
वामोर्द्ध नलिनं यस्य अधः शङ्खं विराजते ।
हृषीकेशेति विज्ञेयः स्थापितः सर्व्वकामदः ॥ १०
दक्षिणोर्द्धे पुण्डरीकं पाञ्चजन्यमधस्तथा ।
वामोर्द्धे संस्थितं चक्रं कौमोदी तदधःस्थिता ॥
पद्मनाभेति सा मूर्त्तिःस्थापिता मोक्षदायिनी ११
दक्षिणोर्द्धे पाञ्चजन्यमधस्तात्तु कुशेशयम् ॥
सव्योर्द्धं कौमोदी देवी हेतिराजमधःस्थितम् ।
अनिरुद्धस्य भेदोऽयं दामोदर इति स्थितः ॥ १२ ॥
एतेषान्तु स्त्रियौ कार्य्ये पद्मवीणाधरे शुभे ।
इति क्रमेण मार्गादिमासाधिपाः केशवादयो
द्वादश ॥ * ॥ अथ सिद्धार्थसंहितायां चतु-
र्व्विशतिमूर्त्तयः ।
“वामुदेवो गदाशङ्खचक्रपद्मधरो मतः । १ ।
पद्मं शङ्खं तथा चक्रं गदां वहति केशवः ॥ २ ॥
शङ्खं पद्मं गदां चक्रं धत्ते नारायणः सदा । ३ ।
गदां चक्रं तथा शङ्खं पद्मं वहति माधवः ॥ ४ ॥
चक्रं पद्मं तथा शङ्खं गदाञ्च पुरुषोत्तमः । ५ ।
पद्मं कौमदकीं शङ्खं चक्रं धत्तेऽप्यधोक्षजः ॥ ६ ॥
सङ्कर्षणो गदाशङ्खपद्मचक्रधरः स्मृतः । ७ ।
चक्रं गदां पद्मशङ्खौ गोविन्दो धरते भुजे ॥ ८ ॥
गदां पद्मं तथा शङ्खं चक्रं विष्णुर्विभर्त्तियः । ९ ।
चक्रं शङ्खं तथा पद्मं गदाञ्च मधुसूदनः ॥ १० ॥
गदां सरोजं चक्रञ्च शङ्खं धत्तेऽच्युतः सदा । ११ ।
शङ्खं कौमोदकीं चक्रमुपेन्द्रः पद्ममुद्वहेत् ॥ १२ ॥
शङ्खचक्रगदापद्मधरः प्रद्युम्न उच्यते । १३ ।
पद्मं कौमोदकीं चक्रं शङ्खं धत्ते त्रिविक्रमः ॥ १४ ॥
शङ्खं चक्रं गदां पद्मं वामनो वहते सदा । १५ ।
पद्मं चक्रं गदां शङ्खं श्रीधरो वहते भुजे ॥ १६ ॥
चक्रं पद्मं गदां शङ्खं नरसिंहो बिभर्त्ति यः । १७ ।
पद्मं सुदर्शनं शङ्खं गदां धत्ते जनार्द्दनः ॥ १८ ॥
अनिरुद्धश्चक्रगदाशङ्खपद्मलसद्भुजः । १९ ।
हृशीकेशो गदां चक्रं पद्मं शङ्खञ्च धारयेत् ॥ २० ॥
पद्मनाभो वहेत् शङ्खं पद्मं चक्रं गदां तथा । २१ ।
पद्मं चक्रं गदाशङ्खं धत्ते दामोदरः सदा ॥ २२ ॥
शङ्खं चक्रं सरोजञ्च गदां वहति यो हरिः । २३ ।
शङ्ख कौमोदकीं पद्मं चक्रं कृष्णो विभर्त्ति
यः ॥ २४ ॥
एताश्च मूर्त्तयो ज्ञेया दक्षिणाधःकरक्रमात् ॥”
मत्स्यपुराणे च ।
“एतदुद्देशतः प्रोक्तं प्रतिमालक्षणं तथा ।
विस्तरेण न शक्नोति बृहस्पतिरपि द्विजाः ॥”
इति ।
सेवानिष्ठा हरेः श्रीमद्वैष्णवाः पाञ्चरात्रिकाः ।
प्राकट्यादखिलाङ्गानां श्रीमूर्त्तिं बहु मन्यते ॥
सेव्या निजनिजैरेव मन्त्रैः स्वस्वेऽष्ट मूर्त्तयः ।
शालग्रामात्मके रूपे नियमो नैष विद्यते ॥
द्विभुजा जलदश्यामा त्रिभङ्को मधुराकृतिः ॥
सेव्या ध्यानानुरूपैव श्रीमूर्त्तिः कृष्णदैवतैः ॥
अन्याश्च विविधाः श्रीमदवतारादिमूर्त्तयः ।
प्रादुर्भावविधावग्रे लेख्यास्तत्तद्विशेषतः ॥
नित्यकर्म्मप्रसङ्गेऽत्र मूर्त्तिजन्मप्रतिष्ठयोः ।
विधिर्न्न लेखितुं योग्यः स तु लेखिष्यतेऽग्रतः ॥”
इति श्रीहरिभक्तिविलासे १८१ विलासः ॥

श्रीयुक्तः, त्रि, (श्रिया युक्तः ।) लक्ष्मीविशिष्टः ।

श्रीमान् । जीवत्पुरुषनाम्नः पूर्वं दातव्योऽयम् ॥

श्रीयुतः त्रि, (श्रिया युतः ।) लक्ष्मीविशिष्टः ।

श्रीमान् । जीवत्पुरुषनाम्नः पूर्वं दातव्योऽयम् ॥

श्रीरसः, पुं, (श्रियः रसो निर्य्यासः ।) श्रीवेष्टः ।

इति राजनिर्घण्टः ॥

श्रीरङ्गपत्तनं, क्ली, देशविशेषः । सारंपटन् इति

भाषा । इति मादराजाख्यदेशे प्रसिद्धम् ॥

श्रीरागः, पुं, षड्रागाणां मध्ये तृतीयरागः । इति

हलायुधः । अस्य रागिण्यो यथा, --
“गान्धारी देवगान्धारी मालवश्रीश्च सारवी ।
रामकीर्य्यपि रागिण्यः श्रीरागस्य प्रिया
इमाः ॥”
इति सङ्गीतदामोदरः ॥
विस्तारस्तु श्रीशब्दे द्रष्टव्यः ॥

श्रीरामः, पुं, (श्रीयुतो रामः ।) रामचन्द्रः । इति

शब्दरत्नावली ॥

श्रीरामनवमी, स्त्री, (श्रीरामस्य नवमी तज्जन्म

दिनत्वात् ।) चैत्रशुक्लनवमी । सा च श्रीरामस्य
जन्मतिथिः ॥ तद्व्रतकथा यथा, --
“पुरैकदा सुखासीन ब्रह्माणं जगतां पतिम् ।
उवाच सहसागत्य सनकः संजितेन्द्रियः ॥
सनक उवाच ।
राज्ञा दशरथेनैव राज्ञ्या कोशल्ययापि वा ।
कस्मात् कर्म्मवशाल्लब्धः पुत्त्रोऽसौ जगतीपतिः ।
दूर्व्वादलश्यामरामो विस्तार्य्य कथयस्व मे ॥
ब्रह्मोवाच ।
साधु पृष्टं त्वया वत्म जगतां हितकारकम् ।
पुरा राजा दशरथः कौशल्या च समाहितौ ॥
जजाप मन्त्रं दुर्गायाः शिवस्य च विशेषतः ।
तयोर्जपेन तुष्टः सन् शिवः प्रत्यक्षतां गतः ॥
दशरथ उवाच ।
अद्य मे सफलं जन्म अद्य मे सफलं तपः ।
अद्य मे सफलं चक्षुर्यतस्त्वमवलोकितः ॥
श्रीशिव उवाच ।
किन्ते काम्यं महाराज कथयस्व ददामि तत् ॥
दशरथ उवाच ।
देवदेवाप्यपुत्त्रोऽहमिति दुःखेन दुःखितः ।
चिरं विचार्य्य मनसा शिवाराधनतत्परः ॥
इति श्रुत्वा महादेवस्तमुवाच दयापरः ।
कुरु राजन् वंशयज्ञं ततस्ते जगतीपतिः ॥
श्रीरामनामा पुत्त्रोऽसौ कौशल्यायां भविष्यति ।
इत्युक्त्वा तं महादेवस्तयोरन्तर्हितोऽभवत् ॥ * ॥
इति रुद्रमुखात् श्रुत्वा राजा दशरथः सुखी ।
ततश्चक्रे वशयज्ञं स देव्या सह तत्परः ॥
ततः काले महाराज्ञी गर्भं धत्ते मनोहरम्
चैत्रे मासि सिते पक्षे नवम्यां शोभने दिने ।
अतिपुण्यसुसंलग्ने जातो रामः स्वयं हरिः ।
पुनव्वस्वक्षसंयुक्ता सा तिथिः सर्व्वकामदा ।
श्रीरामनवमी प्रोक्ता कोटिसूर्य्यग्रहाधिका ॥
अस्मिन् दिने महापुण्ये राममुद्दिश्य भक्तितः ।
यत्किञ्चित् क्रियते कर्म्म तदक्षयकरं स्मृतम् ॥
उपोषणं जागरणं पितॄनुद्दिश्य तर्पणम् ।
तस्मिन् दिने तु कत्तव्यब्रह्मप्राप्तिमभीपसुभिः ।
तस्मिन् दिने महापुण्ये राममुद्दिश्य भक्तितः
जपेदेकान्त आसीनो यावत् स्याद्दशमौदिनम् ॥
तेनैव स्यात् पुरश्चर्य्या दशम्यां भोजयेद्धिजान् ।
भक्ष्यभोज्यैर्बहुविधैर्भक्त्या दद्याच्च दक्षिणाम् ।
कृतकृत्यो भवेत्तेन सद्यो रामः प्रसीदति ॥
यस्तु रामनवम्यान्तु भुङ्क्ते मर्त्यो विमूढधीः ।
कुम्भोपाकेषु घोरेषु पच्यते नात्र संशयः ॥
कुर्य्याद्रामनवम्यां य उपोषणमतन्द्रितः ।
न शेते मातृजठरे स्वयं रामो भवेत्तु सः ॥
श्रीरामनवमी नाम पुण्यात् पुण्यतमय्रतम् ।
इति श्रुत्वा सुसंतुष्टः सनकः पुनरब्रवीत् ।
विधिना केन कर्त्तव्यं वद मे कमलोद्भव ॥ * ॥
ब्रह्मोवाच ।
व्रतपूर्व्वदिने स्नात्वा सकृद्भुक्त्वा निरामिषम् ।
त्यक्त्वा च योषिच्छयनं शयीत स्थण्डिले कुशे ॥
ब्राह्मे मुहूर्त्ते चोत्थाय कृत्वा प्रातः क्रियां ततः ।
प्रातः स्नात्वा शुचिर्भूत्वा सङ्कल्पं विधिनाचरेत्
प्रतिमायां घटे वापि पटे वा यन्त्रतोऽपि वा ।
शालग्रामशिलायान्तु तुलसीदलकल्पिता ॥
पूजा श्रीरामचन्द्रस्य कोटिकोटिगुणाधिका ।
कौशल्या पूजनीयादौ राजा चैव ततः परम् ॥
षडङ्गं पूजयेत्तत्र लक्ष्मणादीन् विशेषतः ।
पूजयेत् परया भक्त्या परिवारं ततः परम् ॥
ततो ग्रहांश्च दिक्पालांस्तदस्त्राणि च पूजयेत् ।
उच्चस्थे ग्रहपञ्चके सुरगुरौ सेन्दौ नवम्यां तिथौ
लग्ने कर्क्कटके पुनर्व्वसुदिने मेषं गते पूषणि ।
निर्द्दग्धुं निखिलाः पलाशसमिधो मध्यादयो-
ध्यारणे-
राविर्भूतमभूदपूर्व्वविभवं यत्किञ्चिदेकं महः ॥
ततो वाद्यादिकं कृत्वा दद्यादर्घ्यं विशेषतः ।
मूलमन्त्रेण दद्याद्वै भक्त्या पुष्पाञ्जलित्रयम् ॥
एवमष्टसु यामेषु अष्टधा च जपेद्व्रती ।
इतिहासकथां श्रुत्वा गीतनृत्यैर्निशां नयेत् ॥
ततः परदिने प्रातः स्नानं कृत्वा विधानतः ।
रामं दूर्व्वादलश्यामं भक्त्या भक्त्या प्रपूजयेत् ।
दक्षिणां विधिवद्दत्त्वा ततोऽच्छिद्रावधारयेत् ।
भोजयित्वा ततो विप्रान् स्वयं पारणमाचरेत् ।
य इदं शृणुयान्नित्यं पुण्याहे च विशेषतः ।
बहुपुत्त्रो धनाढ्यश्च अन्ते ब्रह्मत्वमाप्नुयात् ॥
संग्रामे वैरिणो हन्ता सर्वत्र विजयी भवेत्
राजद्वारे महाघोरे संग्रामे शत्रुसङ्क ले ॥
पृष्ठ ५/१६९
दूर्व्वादलश्यामरामस्तस्य रक्षाकरो भवेत् ॥
भक्त्या यः शृणुयाद्रोगी उल्लाषः स भवेत् सदा
बन्ध्या पुत्त्रवती सा च पतिचित्तानुवर्त्तिनी ।
सपत्नीदर्पदलनी सा भवेन्नात्र संशयः ॥
दरिद्रो लभते वित्तं भीतो भवति निर्भयः ।
यज्ञदानतपांस्यस्य तीर्थस्नानादिकाः क्रियाः ॥
न रामनवमी-नाम-व्रतस्यैककला-समाः ।
यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन ॥
शिष्याय भक्तियुक्ताय शुचयेऽपि प्रदापयेत् ।
शठाय परतन्त्राय विकत्थनरताय च ॥
भ्रमादपि न वक्तव्यं यदीच्छेदात्मनो हितम् ।
मयैतत् कथितं वत्स तव स्नेहाद्व्रतोत्तमम् ॥
य इदं कुरुते भक्त्या श्रीरामनवमीव्रतम् ।
सर्व्वपापप्रमुक्तश्च अन्ते ब्रह्मत्वमाप्नुयात् ॥”
इति श्रीरामभक्तितरङ्गिण्यां ब्रह्मसनकसंवादे
श्रीरामनवमीव्रतकथा समाप्ता ॥

श्रीलः, त्रि, (श्रीर्विद्यतेऽस्येति । श्री + सिध्मादि-

त्वात् लच् ।) लक्ष्मीवान् । इत्यमरः ॥ शोभा-
युक्तश्च ॥

श्रीलता, स्त्री, (श्रीविशिष्टा लता ।) महा-

ज्योतिष्मती । इति राजनिर्घण्टः ॥

श्रीवत्सः, पुं, (श्रीयुक्तं वत्सं वक्षो यस्य ।) विष्णुः ।

विष्णुचिह्नविशेषः । स तु वक्षस्यशुक्लवर्ण-
दक्षिणावर्त्तलोमावली । (यथा, रघुः । १० । १० ।
“प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणम् ।
कौस्तुभाख्यमपांसारं बिभाणं बृहतोरसा ॥”)
अर्हतां ध्वजः । इति हेमचन्द्रः ॥ सुरुङ्गाभेदः ।
इति त्रिकाण्डशेषः ॥

श्रीवत्सकी, [न्] पुं, श्रीवत्सकः श्रीवत्सवत् चिह्न-

मस्त्यस्येति । श्रीवत्सक + इनिः ।) हृद्वक्रावर्त्त-
हयः । इति हेमचन्द्रः ॥

श्रीवत्सभृत्, पुं, (श्रीवत्सं बिभर्त्तीति । भृ +

क्विप् ।) विष्णुः । इति हेमचन्द्रः ॥

श्रीवत्सलाञ्छनः, पुं, विष्णुः । इत्यमरः । १ । १ । २२ ॥

“श्रीवत्सो लाञ्छनं चिह्नं यस्य श्रीवत्सलाञ्छनः ।
वक्षस्यनन्यमहापुरुषलक्षणं श्वेतरोमावर्त्त-
विशेषः श्रीवत्स इति सर्व्वस्वे । श्रीवत्सो हृत्-
सङ्गतमणिविशेषः कौस्तुभवदिति कृष्णदासः ।”
इत्यरमटीकायां भरतः ॥

श्रीवत्साङ्कः, पुं, (श्रीवत्सः अङ्कश्चिह्नं यस्य ।)

विष्णुः । इति हलायुधः ॥ (यथा, बृहत्सं-
हितायाम् । ४३ । ३ ।
“लब्धवराः क्षीरोदं गत्वा ते तुष्टुवुः सुराः
सेन्द्राः ।
श्रीवत्साङ्कं कौस्तुभमणिकिरणोद्भासितोर-
स्कम् ॥”)

श्रीवराहः, पुं, (श्रिया युक्तो वराहः ।) विष्णुः ।

इति त्रिकाण्डशेषः ॥

श्रीवल्ली, स्त्री, (श्रीयुता वल्ली ।) कण्टकवृक्षभेदः ।

तत्पर्य्यायः । शिववल्ली २ कण्टवल्ली ३ शावली
४ अम्ला ५ कटुफला ६ दुरारोहा ७ । अस्या
गुणाः । कटुत्वम् । अम्लत्वम् । वातशोफकफा-
पहत्वञ्च । तत्फलं तैललेपघ्नमत्यम्लं रुचिकृत्
परम् । इति राजनिर्घण्टः ॥

श्रीवाटी, स्त्री, नागवल्लीभेदः । इति राजनिर्घण्टः ॥

श्रीवारकः, पुं, (श्रियं वारयति कामयते इति ।

वृ + णिच् + ण्युल् ।) सितावरशाकः । इति
राजनिर्घण्टः ॥

श्रीवासः, पुं, (श्रियं सरलवृक्षं वासयतीति ।

वस + णिच् + अच् ।) सरलवृक्षरसः । टार-
पिन् इति भाषा । तत्पर्य्यायः । पायसः २ वृक-
धूपः ३ श्रीवेष्टः ४ सरलद्रवः ५ । इत्यमरः ॥
तैलपर्णी ६ श्रीपिष्टः ७ । इति जटाधरः ॥
श्रीवेशः ८ । इति शब्दरत्नावली ॥ अस्य गुणाः ।
“श्रीवासः सरलं पूतिः कुन्दुरुर्ग्रन्थिपर्णकम् ।
सिह्लकः परमा मांसी देवदारु मुरा नखम् ।
सर्व्वेऽमी परमा लक्ष्मी रक्षोघ्ना ज्वर-
नाशनाः ॥”
इति राजवल्लभः ॥
अन्यत श्रीवेष्टशब्दे द्रष्टव्यम् ॥ (श्रियो लक्ष्म्या
वासः आश्रयस्थानम् ।) पद्मम् । (यथा, राजेन्द्र
कर्णपूरे । ४२ ।
“श्रीवासो यशसां पदं सुमनसामप्यास्पदं सम्पदां
यत्रागच्छति गोचरं नयनयोः काश्मीरमीन-
ध्वजः ॥”)
विष्णुः । इति मेदिनी ॥ शिवः । इति शब्द-
रत्नावली ॥

श्रीवासाः, [स्] पुं, श्रियं सरलवृक्षं वासयतीति ।

वस + णिच् + असुन् ।) सरलद्रवः । इत्यमर-
टीका ॥

श्रीविद्या, स्त्री, (श्रिया विद्या ।) महाविद्यावि-

शेषः । सा तु त्रिपुरसुन्दरी । तस्याः षट्त्रिंश-
द्भेदाः ग्रन्थबाहुल्यभिया न लिखिताः । अथ
श्रीविद्या । तत्र मेरुः । ज्ञानार्णवे ।
“भुमिश्चन्द्रः शिवो माया शक्तिः कृष्णाध्व-
मादनौ ।
अर्द्धचन्द्रश्च बिन्दुश्च नवार्णो मेरुरुच्यते ॥
महात्रिपुरसुन्दर्य्या मन्त्रा मेरुसमुद्भवाः ।
सकला भुवनेशानी कामेशी बीजमुद्धृतम् ।
अनेन सकला विद्याः कथयामि वरानने ॥
शक्त्यन्तस्तुर्य्यवर्णोऽयं कलमध्ये सुलोचने ।
वाग्भवं पञ्चवर्णाठ्यं कामराजमथोच्यते ॥
मादनं शिवचन्द्राठ्यं शिवान्तं मीनलोचने ।
कामराजमिदं भद्रे षड्वर्णं सर्व्वमोहनम् ॥
शक्तिबीजं वरारोहे चन्द्राद्यं सर्व्वमोहनम् ।
एतामुपास्य देवेशि कामः सर्व्वाङ्गसुन्दरः ।
कामराजो भवेद्देवि विद्येयं ब्रह्मरूपिणी ॥”
अस्यार्थः । शक्तिरेकारः तूर्य्य ईकारः तेन
ककार एकार ईकारलकारमहामाया वाग्-
भवकूटम् । शिवो हकारः चन्द्रः सकारः तेन
हकारमकारलकारमहामाया इति कामराज-
कूटम् । चन्द्रः सकारः तेन सकारककारलकार-
महामाया इति शक्तिकूटम् । तेन त्रिभिः कूटैः
कामराजविद्येयम् ॥ * ॥ अस्याः ध्यानं यथा, --
“बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम्
पाशाङ्गुशशरांश्चापं धारयन्तीं शिवां श्रये ॥”
एवं ध्यात्वा मानसपूजादिकं कुर्य्यात् । इति
तन्त्रसारः ॥

श्रीवृक्षः, पुं, (श्रीप्रदः श्रीप्रियो वा वृक्षः । शाक

पार्थिवादिवत् सभासः ।) अश्वत्थवृक्षः । इति
हेमचन्द्रः ॥ विल्ववृक्षः । यथा, --
“इषे मास्यसिते पक्षे नवम्यामार्द्रयोगतः ।
श्रीवृक्षे बोधयामि त्वां यावत् पूजां करो-
म्यहम् ॥”
इति तिथ्यादितत्त्वधृतश्रीदुर्गाबोधनमन्त्रः ॥
(विष्णोर्वक्षस्थःलस्थशुभावर्त्तविशेषः । यथा,
विष्णुपादादिकेशान्तवर्णनस्तोत्रे । २८ ।
“वक्षः श्रीवृक्ष-कान्तं मधुकरनिकरश्यामलं
शार्ङ्गपाणेः
संसाराध्वश्रमात्तैरुपवनमिव यत् सेवितं तत्
प्रपद्ये ॥”
अश्वस्य ह्वदावर्त्तः । इति माघटीकायां मल्लि-
नाथः । ५ । ५६ ॥)

श्रीवृक्षकः, पुं, (श्रीवृक्ष एव । स्वार्थे कन् ।)

अश्वस्य हृदावर्त्तः । इति त्रिकाण्डशेषः ॥
(अस्य प्रमाणं माघे । ५ । ५६ । इत्यस्य
टीकायां द्रष्टव्यम् ॥ * ॥)

श्रीवेष्टः, पुं, (श्रियः सरलवृक्षस्य वेष्टः निर्य्यासः ।)

सरलवृक्षस्य निर्यासः । तत्पर्य्यायः ।
“श्रीवेष्टो वृक्षधूपश्च चितागन्धो रसायकः ।
श्रीवासः श्रीरसो वेष्टो लक्ष्मीवेष्टस्तु वेष्टकः ॥
वेष्टसारो रसावेष्टः क्षीरशीर्षः सुधूपकः ।
धूपाङ्गस्तिलपर्णश्च सरलाङ्गोऽपि षोडश ॥”
तद्गुणाः ।
“श्रीवेष्टः कटुतिक्तश्च कषायः श्लेष्मपित्तजित् ।
योनिदोषरुजाजीर्णव्रणघ्नाध्मानदोषनुत् ॥”
इति राजनिर्घण्टः ॥ * ॥
अपि च ।
“श्रीवासः सरलः श्रावः श्रीवेष्टो वृक्षधूपकः ।
श्रीवासो मधुरस्तिक्तः स्निग्धोष्णस्तुवरः सरः ॥
पित्तलावातमूर्द्धाक्षिस्वररोगकफापहः ।
रक्षोऽश्रीस्वे ददौर्गन्ध्ययूकाकण्डूव्रणप्रणुत् ॥”
इति भावप्रकाशः ॥

श्रीशः, पुं, (श्रिया ईशः ।) विष्णुः । (यथा,

मुग्धबोधे ।
“श्रीशोऽधिशेतेऽहिमधिष्ठितोऽब्धि-
मध्यास्य घोषं मथुरामनूष्य ।
यो द्वारकामध्यु षितो विकुण्ठ-
मुपावसच्चावसतात् स हृन्नः ॥”)
श्रीरामः । इति शब्दरत्नावली ॥

श्रीसंज्ञं, क्ली, (श्रियः संज्ञा संज्ञा यस्य ।)

लवङ्गम् इत्यमरः ॥

श्रीसहोदरः, पुं, (श्रियाः सहोदरः समुद्रजात-

त्वात् ।) चन्द्रः । इति केचित् ॥

श्रीहस्तिनी, स्त्री, (श्रीयुक्ता हस्तीनीव ।) वृक्ष-

विशेषः । हातिशूडा इति भाषा । तत्पर्य्यायः
पूरुण्डी २ । इत्यमरः ॥ नागदन्ती ३ । इति जटाधरः ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/श्रथ&oldid=44093" इत्यस्माद् प्रतिप्राप्तम्