पृष्ठ ५/१९९

, दन्त्यसकारः । स तु व्यञ्जनद्वात्रिंशवर्णः ।

अस्योच्चारणस्थानं दन्तः । इति व्याकरणम् ॥
(तथाच शिक्षायाम् । १७ ।
“स्युर्मूर्द्धन्या ऋटुरषा दन्त्या ऌतुलसाः स्मृताः ॥”)
तत्स्वरूपं यथा, --
“सकारं शृणु चार्व्वङ्गि शक्तिवीजं परात्परम् ।
कोटिविद्युल्लताकारं कुण्डलीत्रयसंयुतम् ॥
पञ्चदेवमयं देवि पञ्चप्राणात्मकं सदा ।
रजःसत्त्वतमोयुक्तं त्रिबिन्दुसहितं सदा ॥”
इति कामधेनुतन्त्रम् ॥ * ॥
अस्य लेखनप्रकारो यथा, --
“कुञ्चिता वामतो दक्षगता च गोकृतिल्वधः ।
पुनरूर्द्ध्वगता तासु वह्निचन्द्रदिवाकराः ।
मात्रा भवानी विज्ञेया ध्यानमस्य प्रचक्ष्यते ॥”
अस्य ध्यानादि ।
“शुक्लाम्बरां शुक्लवर्णां द्विभुजां रक्तलोचनाम् ।
श्वेतचन्दनलिप्ताङ्गीं मुक्ताहारोपशोभिताम् ॥
गन्धर्व्वगीयमानाञ्च सदानन्दमयीं पराम् ।
अष्टसिद्धिप्रदां नित्यां भक्तानन्दविवर्द्धिनीम् ॥
एवं ध्यात्वा सकारन्तु तन्मन्त्रं दशधा जपेत् ॥
त्रिशक्ति सहितं वर्णं आत्मादितत्त्वसंयुतम् ।
प्रणम्य सततं देवि हृदि भावय सुन्दरि ॥”
इति वर्णोद्धारतन्त्रम् ॥ * ॥
तत्पर्य्यायः
“सो हंसः सुयशा विष्णुर्भृग्वीशश्चन्द्रसंज्ञकः ।
जगद्वीजं शक्तिनामा सोऽहं वेशवती भृगुः ॥
प्रकृतिरीश्वरः शुद्धः प्रभा श्वेता कुलोज्ज्वलः ।
दक्षपादोऽमृतं ब्राह्मी परमात्मा परोऽक्षरः ॥
सुरूपा च गुणेशो गौः कलकण्ठो वृकोदरी ।
प्राणाद्याश्च पुरादेवी लक्ष्मीः सोमो हिरण्यपूः ।
दुर्गोत्तारिणि सम्मोहाज्जीवो मूर्त्तिर्मनोहरः ॥”
इति तन्त्रम् ॥

सं, [म्] व्य, शोभनार्थः । समार्थः । सङ्गतार्थः ।

प्रकृष्टार्थः । इति मेदिनी ॥ उपसर्गविशेषः ।
अस्यार्थाः यथा । सम् प्रकर्षाश्लेषनैरन्तर्य्यौ-
चित्याभिमुख्येषु । इति मुग्धबोधटीकायां दुर्गा-
दासः ॥

सः, पुं, ईश्वरः । सर्पः । इति शब्दरत्नावली ॥

पक्षी । इत्येक्षाकरकोषः ॥ विष्णुः । यथा । सः
स्याद्विष्णौ हरे सर्पे । इति भरतैकार्थसंग्रहः ॥
पूर्व्योक्तपरामर्शकः । से इति भाषा । तच्छब्दस्य
प्रथमैकवचननिष्पन्नः । यथा भट्टिः । १ । २ ।
“सौऽध्यैष्ट वेदांस्त्रिदशानयष्ट
पितॄनपारीत् सममंस्त बन्धून् ॥”
समासपूर्वपदत्वे सहार्थः । यथा । समातृकः ।
क्वचित् समानार्थश्च । यथा । सरूपः । इति
व्याकरणम् ॥

संग्राही, [न्] पुं, संगृह्णातीति । सं + ग्रह +

णिनिः ।) कुटजवृक्षः । इति राजनिर्घण्टः ॥
धारके, वि ॥ (यथा, सुश्रुते । १ । ४५ ।
“दीपनं लघु संग्राहि श्वासकाशास्रपित्तनुत् ॥”
संग्रहकारके च । यथा, कामन्दकीयनीति-
सारे । ४ । १० ।
“प्रख्यातवंशमक्रूरं लोकसंग्राहिणं शुचिम् ।
कुर्व्वीतात्महिताकाङ्क्षी परिवारं महीपतिः ॥”

संज्ञं, क्ली, पीतकाष्ठम् । यथा, --

“जायकं झावुकं संज्ञं प्रचेलं प्राविरः पुमान् ।
कालीयकञ्च कालानुसार्य्यञ्चाथ समर्थकम् ॥”
जायकादिसप्तपीतकाष्ठे । इति शब्दचन्द्रिका ॥

संज्ञः, त्रि, (सम्यक्प्रकारेण जानाति यः । सं +

ज्ञा + कः ।) लग्नजानुकः । यथा, --
“प्रज्ञुः प्रगतजानुः स्यात् प्रज्ञोऽत्रैव च दृश्यते ।
संज्ञुः संहतजानुश्च भवेत् संज्ञोऽपि तत्र हि ॥”
इति साहसाङ्कः । इत्यमरटीकायां भरतः ॥

संज्ञपनं, क्ली, (सं + ज्ञा + णिच् + ल्युट् ।) मार-

णम् । इत्यमरः ॥ (यथा, भागवते । ४ । ५ । २२ ।
“दृष्ट्वा संज्ञपनं योगं पशूनां स पतिर्मखे ।
यजमानपशोः कस्य कायात्तेनाहरच्छिरः ॥”)
विज्ञापनञ्च ॥

संज्ञप्तिः, स्त्री, (सं + ज्ञा + णिच् + क्तिन् ।) मार-

णम् । इति हेमचन्द्रः ॥ विज्ञापनञ्च ॥

संज्ञा, स्त्री, (सं + ज्ञा + भावे अङ् ।) चेतना ।

(यथा, कुमारे । ६ । ४४ ।
“रतिखेदसमुत्पन्ना निद्रा संज्ञाविपर्य्ययः ॥”)
बुद्धिः । (ज्ञानम् । यथा, भागवते । ६ । ७ । १७ ।
“गुरोर्नाधिगतः संज्ञां परीक्षन् भगवान् स्वराट् ।
ध्यायन् धिया सुरैर्युक्तः शर्म्म नालभतात्मनः ॥”
तथा च गीतायाम् । १ । ७ ।
“नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमिते ॥”
नाम । आख्या । (यथा, मनुः । ८ । १३१ ।
“शोकसंव्यवहारार्थं याः संज्ञाः प्रथिता भुवि ।
ताम्ररूप्यसुवर्णानां ताः प्रवक्ष्याम्यशेषतः ॥”)
हस्ताद्यैरर्थसूचना । हस्तभ्रूलोचनादिभिः प्रयो-
जनस्य ज्ञापना । इत्यमरभरतौ ॥ (यथा
कुमारे । ३ । ४१ ।
“मुखार्पितैकाङ्गुलिसंज्ञयैव
मा चापलायेति गणान् व्यनैषीत् ॥”)
गायत्त्री । सूर्य्यपत्नी । इति मेदिनी ॥ (यथा,
मार्कण्डेये । ७७ । १ ।
“मार्त्तण्डस्य रवेर्भार्य्या तनया विश्वकर्म्मणः ।
संज्ञा नाम महाभाग तस्यां भानुरजीजनत् ॥”
अस्या विशेषविवरणन्तु तत्रैवाध्याये द्रष्ट-
व्यम् ॥)

संज्ञासुतः, पुं, (संज्ञायाः सुतः ।) शनिः । इति

केचित् ॥

संज्ञुः, त्रि, (संहते संलग्नेजानुनी यस्य । प्रसंभ्यां

जानुनोर्ज्ञुः । ५ । ४ । १२९ । इति ज्ञुः ।)
सहतजानुकः । इत्यमरः ॥

संज्वरः, पुं, (संज्वरयतीति । सं + ज्वर + णिच् +

अच् ।) अग्निजतापः इत्यमरः ॥ (यथा,
कथासरित्सागरे । ५५ । ६३ ।
“कदलीपत्रपवनैर्वीज्यमानां सखीजनैः ।
पाण्डुक्षामामभिव्यक्तस्मरसंज्वरलक्षणाम् ॥”)

संयः, पुं, कङ्कालः । इति शब्दचन्द्रिका ॥

संयत्, पुं, स्त्री, (संयम्यतेऽत्रेति । सं + यम् +

क्विप् । “गमादीनाम् ।” ६ । ४ । ४० । इत्यम्य
वार्त्तिकोक्त्या मलोपः । तुक् ।) युद्धम् । इत्य-
मरभरतौ ॥ (यथा, रघुः । ७ । ३९ ।
“उत्थापितः संयति रेणुरश्वैः
सान्द्रीकृतः स्यन्दनवंशचक्रैः ॥”)

संयतः, त्रि, (सं + यम् + क्तः ।) बद्धः । इत्यमरः ॥

(यथा, राभायणे । १ । १० । २५ ।
“मायामिव परिभ्रष्टां हरिणीमिव संयताम् ॥”
कृतसंयमः । यथा ब्रह्मपुराणम् ।
“यो यः कश्चित्तीर्थयात्रान्तु गच्छेत्
सुसंयतः स च पूर्व्वं गृहे स्वे ।
पृष्ठ ५/२००
कृतोपवासः शुचिरप्रमत्तः
संपूजयेद्भक्तिनम्रो गणेशम् ॥”
इति प्रायश्चित्ततत्त्वम् ॥

संयत्वरः, पुं, वाग्यतः । जन्तुसमूहः । इति

संक्षिप्तसारोणादिवृत्तिः ॥

संयद्वरः, पुं, (संयच्छतोति । सं + यम + छित्वर-

च्छत्वरेति । उणा० ३ । १ । इति ष्वरच्प्रत्य-
येन साधु ।) नृपः । इत्युणादिकोषः ॥

संयत्ता, [ऋ] त्रि संयमनकर्त्ता । नियन्ता ।

संपूर्व्वयमधातोस्तृन्प्रत्ययेन निष्पन्नः ॥ (यथा,
महाभारते । ४ । ६२ । ४८ ।
“तं विसंज्ञमपोवाह संयन्ता रथवाजिनाम् ।
उपदेशमनुस्मृत्य रक्षमाणो महारथम् ॥”)

संयमः, पुं, (सं + यम + “यमः समुपनिविषु च ।”

३ । ३ । ६३ । इति अप् ।) व्रताद्यङ्गपूर्व्वदिन-
कत्तव्याचारः । तत्पर्य्यायः । वियामः २ वियमः
३ यामः ४ यमः ५ संयामः ६ । इत्यमरः ॥
संयमनम् ७ नियमः ८ इति धरणिः ॥ तद्-
विधानं यथा । अथ दशमीनियमाः । सूरि-
सन्तोषे ।
“कांस्यं मांसं मसूरञ्च चणकं कोरदूषकम् ।
शाकं मधु परान्नञ्च त्यजेदुपवसन् स्त्रियम् ॥”
अत्रोपवसन्निति तद्दिने भोजनासम्भवात् सामी-
प्यात् पूर्व्वापरदिनयोर्ग्रहणम् । स्मृतिः ।
“शाकं माषं मसूरञ्च पुनर्भोजनमैथुने ।
द्युतमत्यम्बुपानञ्च दशम्यां वैष्णवस्त्यजेत् ॥
कांस्यं मांसं सुरां क्षौद्रं लोभं वितथभाषणम् ।
व्यायामञ्च व्यवायञ्च दिवास्वप्नं तथाञ्जनम् ॥
तिलपिष्टं मसूरञ्च दशम्यां वर्ज्जयेत् पुमान् ।
दशम्याकेकभक्तञ्च कुर्व्वीत नियतेन्द्रियः ॥
आचम्यदन्तकाष्ठञ्च खादेत तदनन्तरम् ।
पूर्व्वं हरिदिनाल्लोकाः सेवध्वं चैकभोजनम् ॥
अवनीपृष्ठशयनाः स्त्रियाः सङ्गविवर्जिताः ।
सेवध्वं देवदेवेशं पुराणं पुरुषोत्तमम् ।
सकृद्भोजनसंयुक्ता द्वादश्याञ्च भविष्यथ ॥”
इत्येकादशीतत्त्वम् ॥ * ॥
श्राद्धपूर्व्वदिनकर्त्तव्यनियमो यथा । देवलः ।
“श्वः कर्त्तास्मीति निश्चित्य दाता विप्रान्निमन्त्र-
येत् ।
निरामिषं सकृत् भुक्त्वा सर्व्वमुप्तजने गृहे ।
असम्भवे परेद्युर्व्वा ब्राह्मणांस्तान्निमन्त्रयेत् ॥”
वराहपुराणम् ।
“वस्त्रशौचादि कर्त्तव्यंश्वः कर्त्तास्मीति जानता ।
स्थानोपलेपनञ्चैव कृत्वा विप्रान्निमन्त्रयेत् ।
दन्तकाष्ठञ्च विसृजेत् ब्रह्मचारी शुचिर्भवेत् ॥”
विसृजेत् श्राद्धीयब्राह्मणेभ्यो दद्यात् । मार्क-
ण्डयपुराणम् ।
“निमन्त्रयेच्च पूर्व्वेद्युः पूर्व्वोक्तान् द्विजसत्तमान् ।
अप्राप्तौ तद्दिने वापि हित्वा योषित्प्रसङ्गिनम् ॥”
यमः ।
“प्राथेयेत् प्रदोषान्ते भुक्तान्न शयितान् द्धिजान् ।
सर्व्वायासविनिर्मुक्तः कामक्रोधविवर्ज्जितैः ॥
भवितव्यं भवद्भिश्च श्वोभूते श्राद्धकर्म्मणि ।
दक्षिणं जानु चालभ्य त्वं मयात्र निमन्त्रितः ।
एवं निमन्त्र्य नियमान् श्रावयेत् पैतृकान्बुधः ॥”
तन्नियममाह ।
“अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः ।
भवितव्यं भवद्भिश्च मया च श्राद्धकर्म्मणि ॥”
इति श्राद्धतत्त्वम् ॥ * ॥
तीर्थयात्रापूर्व्वदिनकर्त्तव्यनियममाह । ब्रह्म-
पुराणम् ।
“यो यः कश्चित्तीर्थयात्रान्तु गच्छेत्
सुसयतः स च पूर्व्वं गृहे स्वे ।
कृतोपवासः शुचिरप्रमत्तः
संपूजयेद्भक्तिनम्रो गणेशम ॥
देवान् पितॄन् ब्राह्मणांश्चैव साधून्
धीमान् प्रीणयन् वित्तशक्त्या प्रयत्नात् ।
प्रत्यागतश्चापि पुनस्तथैव
देवान् पितॄन् ब्राह्मणान् पूजयेच्च ॥”
एवं प्रकुर्व्वतस्तस्य तीर्थाद्यदुक्तं फलं तत्
स्यान्नात्र सन्देह एव । सुसंयतः पूर्व्वदिने
कृतैकभक्तादिनियमस्तदुत्तरदिने कृतोपवास
इत्यादि । उपवासदिने मुण्डनमपि ।
“प्रयागे तीर्थयात्रायां पितृमातृवियोगतः ।
कचानां वपनं कार्य्यं वृथा न विकचो भवेत् ॥”
इति विष्णुपुराणात् । इति प्रायश्चित्ततत्त्वम् ॥
प्रायश्चित्तपूर्व्वाहकृत्यं यथा । शङ्खलिखितौ ।
“वाप्य केशनखान् पूर्व्वं घृतं प्राश्य वहिर्निशि
प्रत्येकं नियतं कालमात्मनो व्रतमादिशेत् ॥”
इति प्रायश्चित्ततत्त्वम् ॥
(बन्धनम् । यथा, साहित्यदर्पणे । ३ । १५५ ।
“कापि कुन्तलसंव्यानसंयमव्यपदेशतः ।
बाहुमूलं स्तनौ नाभिपङ्कजं दर्शयेत् स्फुटम् ॥”
संकोचः । यथा, मार्कण्डेये । ७७ । ४ ।
“मयि दृष्टे सदा यस्मात् कुरुषे नेत्रसंयमम् ।
तस्माज्जनिष्यते मूढे प्रजासंयमनं यमम् ॥”)

संयमकः, त्रि, (संयच्छतीति । सं + यम् + ण्वुल् ।

नियन्ता । यथा, --
“स एव धाता सर्व्वस्य तन्नियोगकरा वयम् ।
यमसंयमने त्यक्तः सोऽस्मत्संयमको हरिः ॥”
इति वह्निपुराणे नारसिंहप्रादुर्भावाध्यायः ॥
संयमी च ॥

संयमनं, क्ली, (सं + यम + ल्युट् ।) बन्धनम् ।

(यथा, साहित्यदर्पणे । ६ । ३१८ ।
“यथावा वेण्यां द्रौपदीकेशसंयमनहेतुर्भीमसेन-
क्रोधापचितो युधिष्टिरोत्साहः ॥”) व्रतम् ।
इति मेदिनी ॥ चतुःशालम् । इति सञ्जवन-
शब्दटीकायां भरतः ॥ (यमगृहम् । यथा,
महाभारते । ३ । १६३ । ९ ।
“एतत् संयमनं पुण्यमतीवाद्भुतदर्शनम् ।
प्रेतराजस्य भवनमृद्ध्या परमया युतम् ॥”
शासनम् । दमनम् । यथा, भागवते । १० । १६ । ६ ।
“तं चण्डवेगविषवोर्य्यमवेक्ष्य तेन ।
दुष्टां नदीञ्च खलसंयमनावतारः ॥” * ॥
संयच्छतीति । सं + यम + ल्युः । नियन्तरि,
त्रि । यथा, मार्कण्डेये । ७७ । ४ ।
“तस्माज्जनिष्यते मूढे प्रजासंयमनं यम् ॥”)

संयमनी, स्त्री, (संमम्यतेऽस्यामिति । सं + यम् +

अधिकरणे ल्युट् ।) यमपुरी । इति मेदिनी ॥
(यथा, भागवते । १० । ४५ । ४२ ।
“ततः संयमनीं नाम यमस्य दयितां पुरीम् ।
गत्वा जनार्द्दनः शङ्खं प्रदध्मौ सहलायुधः ॥”)

संयमितः, त्रि, जातसंयमः । संयमशब्दात् इतो

ऽस्य जाते इत्यनेन इतप्रत्ययेन निष्पन्नः ॥

संयमी, [न्] पुं, (संयमोऽस्यास्तीति । संयम +

इनिः ।) मुनिः । इति धरणिः ॥ निगृहीते-
न्द्रिये, त्रि । यथा, --
“या निशा सर्व्वभूतानां तस्यां जागर्त्ति संयमी
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुने ॥”
इति श्रीभगवद्गीतायाम् २ अध्यायः ॥

संयात्रा, स्त्री, द्वीपान्तरगमनम् । संपूर्व्वो याति-

र्द्वीपान्तरगमनवृत्तिस्ततस्त्रासुसिति त्रः स्त्रिया-
माप् संयात्रा । द्वीपान्तरगमनं सम्यग्यात्रा
संयात्रा वा । इति सांयात्रिकशब्दटीकायां
भरतः ॥

संयानं, क्ली, सम्यग्गमनम् । संपूर्व्वयाधातोरनट-

(ल्युट्) प्रत्ययेन निष्पन्नम् ॥ (यथा, महा-
भारते । ३ । १९ । ५ ।
“स त्वं सात्वतमुख्याद्य लब्धसंज्ञो यदृच्छया ।
पश्य मे हयसंयाने शिक्षां केशवनन्दन ! ॥”
प्रेतनिर्हारः । यथा, रामायणे । १ । ७६ । २ ।
“अलं शोकेन भद्रं ते राजपुत्त्र महायशः ।
प्राप्तकालं नरपतेः कुरु संयानमुत्तमम् ॥”)

संयामः, पुं, (सं + यम + “यमः समुपनिविषु च ।”

३ । ३ । ६३ । इति पक्षे घञ् ।) संयमः । इत्य-
मरः ॥

संयावः, पुं, (सं + यु + “समि युद्रुदुवः ।” ३ । ३ ।

२३ । इति घञ् ।) घृतक्षीरादिपक्वगोधूमः ।
यथा, --
“संयावस्तु घृतक्षीरगुडगोधूमपाकजः ।”
इति शब्दचन्द्रिका ॥
पिष्टकविशेषः । पेराकी इति भाषा । यथा, --
“पर्य्यट्यः साज्यसमिता निर्म्मिता घृतभर्ज्जिताः
कुट्टिताश्चालिताः शुद्धाः शर्कराभिर्व्विमर्द्दिताः ॥
तच्चूर्णे प्रक्षिपेदेलां लवङ्गमरिचानि च ।
नालिकेलं सकर्पूरं वारबीजान्यनेकशः ॥
घृताक्तसमितापुष्टरोटिका रचिता ततः ।
तस्यां तत्पुरणात्तस्य कुर्य्यान्मुद्रां दृढां सुधीः ॥
सर्पिषि प्रचुरे तान्तु सुपचेन्निपुणो जनः ।
प्रकारज्ञैः प्रकारोऽयं संयाव इति कीर्त्तितः ।
मण्ठकोऽपि समो ज्ञेयः संयावोऽपि गुणैर्जनैः ॥”
इति भावप्रकाशः ॥

संयुक् [ज्] त्रि, (सं + युज् + क्विप् ।) गुण-

वान् । यथा, --
“सम्बन्धी गुणवान् संयुक् मित्रयुङ्मित्रवत्सलः ।”
इति त्रिकाण्डशेषः ।
पृष्ठ ५/२०१
(यथा, महाभारते । २ । ३६ । २२ ।
“आचार्य्यमृत्विजञ्चैव संयुजञ्च युधिष्ठिर ।
स्नातकञ्च प्रियं प्राहुः षडर्घार्हान् नृपं तथा ॥”)
संयुक्तश्च ॥

संयुक्तः, त्रि, (सं + युज् + क्तः ।) संयोगाश्रयः ।

यथा, तिथ्यादितत्त्वे ।
“कुर्य्यादलाभे संयुक्तां नालाभेऽपि प्रवेशिनीम ॥”

संयुगः, पुं, (“युजिर योगे + घञ् । उक्थादिषु

युगशब्दस्य पाठात् निपातनादगुणत्वम् । ‘विशे-
षोऽसौ निपातनमिष्यते कालविशेषे रथाद्युप-
करशे च ।’ इति वृत्तिः । सङ्गता रथयुगा
यस्मिन् वा ।” इति निरुक्तटीकायां देवराज-
यज्वा । २ । १७ । २९ ।) युद्धम् । इत्यमरः । २
८ । १०५ ॥ (यथा, महाभारते । २ । १७ । ५ ।
“अनयस्यानुपायस्य संयुगे परमः क्षयः ।
सशयो जायते साम्यात् जयश्च न भवेत् द्वयोः ॥”
संयोगश्च ॥

संयुतः, त्रि, संयुक्तः । यथा, --

“चतुर्थीसंयुता कार्य्या पञ्चमी परया न तु ।
दैवे कर्म्मणि पेत्रे च शुक्लपक्षे तथासिते ॥”
इति तिथ्यादितत्त्वम् ॥

संयोगः, पुं, (सं + युज् + घञ् ।) मेलनम् । न्याय-

मते गुणपदार्थः । स च सम्बन्धविशेषः । अ-
प्राप्तवस्तुद्वयस्य प्राप्तिः । स च त्रिविधो यथा ।
एककर्म्मजन्यः । यथा पर्व्वते पक्षिसंयोगः ॥ १ ॥
उभयमर्म्मजन्यः । यथा मेषद्वयसंयोगः ॥ २ ॥
संयोगजन्यसंयोगः । यथा कपालतरुसंयोग-
जन्यतरुकुम्भसंयोगः ॥ ३ ॥ कर्म्मजन्यसंयोगो-
ऽपि द्विविधः । अभिघातः । तस्मात् शब्दो
जायते ॥ १ ॥ नोदनः । तस्मात् शब्दो न
जायते ॥ २ ॥ अत्र प्रमाणम् ।
“अप्राप्तयोस्तु या प्राप्तिः सैव संयोग ईरितः ।
कीर्त्तितस्त्रिविधस्त्वेष आद्योऽन्यतरकर्म्मजः ॥
तथोभयोः कर्म्मजन्यो भवेत् संयोगजोऽपरः ।
आदिमः श्येनशैलादिसंयोगः परिकीर्त्तितः ॥
मेषयोः सन्निपातो यः स द्वितीय उदाहृतः ।
कपालतरुसंयोगात् संयोगस्तरुकुम्भयोः ॥
द्वितीयः स्यात् कर्म्मजोऽपि द्विधैव परिकीर्त्तितः
अभिघातो नोदनश्च शब्दहेतुरिहादिमः ।
शब्दाहेतुर्द्द्वितीयः स्याद्विभागोऽपि त्रिधा
भवेत् ॥”
इति भाषापरिच्छेदः ॥ * ॥
उदयात् पूर्व्वं दशभ्याः शेषः । यथा, --
“उदयात् प्राक् दशम्यास्तु शेषः संयोग इष्यते ।
उपरिष्टात् प्रवेशस्तु तस्मात् तां परिवर्ज्जयेत् ॥”
इति तिथ्यादितत्त्वम् ॥
सम्बन्धमात्रम् । इति संयोगपृथक्त्वन्यायार्थ-
दर्शनात् ॥

संयोगपृथक्त्वं क्ली, (संयोगेन फलसम्बन्धभेदेन

पृथक्त्वं, नानाविधत्वं यत्र ।) न्यायविशेषः ।
यथा । एकस्य कर्म्मणो नित्यत्वकाम्यत्वाभ्यां
द्वैरूप्याङ्गीकारे नित्यानित्यसंयगविरोधः । मैवं
संयोगपृथक्त्वन्यायात् । स च न्यायश्चतुर्थाध्याये
उक्तः । यथा । खादिरे पशुं बध्नाति खादिरं
वीर्य्यकामस्य यूपं कुर्व्वीत इति श्रूयते । अश्र
सशयः । किं काम्यस्यैव खादिरता नित्येऽपि
स्यादुत नेति । तत्र फलार्थत्वेनानित्यतया नित्य-
प्रयोगाङ्गता न युक्ता । यत्तु नित्यऽपि खादि-
रत्वश्रवणं तत् काम्यस्यैव पशुनन्धनाय यूपा-
श्रयज्ञापनार्थं अतो न नित्ये खादिरता इति
प्राप्ते राद्धान्ताय चतुर्थाध्यायसूत्रम् । एकस्य
तूभयत्वे संयोगपृथक्त्वमिति । अत्र संयोगः
सम्बन्धमात्रं पृथक्त्वं भेदः । एकस्य खादिरस्य
क्रत्वर्थत्वपुरुषार्थत्वरूपोभयात्मकत्वे वाक्यद्वयेन
चक्रतुशेषत्वफलशेषत्वलक्षणसंयोगभेदावगमान्न
नित्यानित्यसंयोगविरोधः । न चाश्रयज्ञानार्थं
नित्यवाक्यं सन्निधानादेवाश्रयलाभात् । अत
उभयार्था खादिरतेति । एवं दध्ना जुहोति
दध्नेन्द्रियकामस्य इत्यादावुभयार्थतैव । दधि-
त्वस्य द्वेधाश्रवणात् । इति प्रायश्चित्ततत्त्वम् ॥

संयोगविरुद्धं, क्ली, (संयोगेन विरुद्धम् ।) पर-

स्परसंयोगेन रोगजनकखाद्यद्रव्यम् । यथा, --
“शाकाम्लपलपिण्याककुलत्थलवणामिषैः ।
करीरदधिमाषैश्च प्रायः क्षीरं विरुध्यते ॥
प्राणहारी तु हारीतो हरिद्रालवणैः शृतः ।
रुरोस्तैलेऽनलैर्भृष्टं विषं मायूरमामिषम् ॥
वराहवसया भृष्टा वलाका तु हरत्यसून् ।
संयुक्ता सैव वारुण्या कुल्माषंश्च बिरुध्यते ॥
अविं कुसुम्भशाकेन मत्स्यतैलैः कणां त्यजेत् ।
मांसैरिक्षविकारांश्च काञ्जिकैस्तिलशस्कुलीम् ॥
कपोतः सार्षपे भृष्टो घृतं कांस्ये दशाहगम् ।
विषं घृतसमं क्षौद्रं मधुना गगनाम्बु च ॥
मूलकं माषसूपेन मधुना च न भक्षयेत् ।
एकत्र सर्व्वमांसानि विरुध्यन्ते परस्परम् ॥
रात्र्यन्धवीसर्पदकोदराणां
विष्फोटिकोन्मादभगन्दराणाम् ।
मूर्च्छामदाध्मानगलग्रहाणां
पाण्ड्वामयस्यामविषस्य चैव ॥
किलासकुष्ठग्रहणीगदानां
शोथातिसारज्वरपीनसानाम् ।
सन्तानदोषस्य तथैव मृत्यो-
र्व्विरुद्धमन्नं प्रवदन्ति हेतुम् ॥
विरुद्धाहारजान् रोगान् विनिहन्ति विरेचनम् ।
वमनं शमनं वापि पूर्व्वं वा हितसेवनम् ॥”
इति संयोगविरुद्धम् । इति राजवल्लः ॥

संयोगितः, त्रि, जातसंयोगः । संयोगशब्दा-

दितप्रत्ययेन निष्पन्नः । इति संयोजितशब्द-
टीकायां भरतः ॥

संयोगी, [न्] त्रि, (संयोगोऽस्यास्तीति । संयोग

+ इनिः ।) संयोगविशिष्टः । यथा, --
“अग्रे वृक्षः कपिसंयोगी न मूले ।” इति
सिद्धान्तलक्षणजागदीशी ॥

संयोजनं, क्ली, (सं + युज् + ल्युट् ।) मैथुनम् ।

इति हारावली ॥ संयोगश्च ॥

संयोजितः, त्रि, (सं + युज + णिच् + क्तः ।)

पदार्थः पदार्थान्तरेण संयुक्तीकृतः । तत्पर्य्यायः
उपाहितः २ । इत्यमरः ॥ संयोगितः ३ ।
इति भरतः ॥ (यथा, भागवते । ५ । २३ । ३ ।
“यथामेधीस्तम्भ आक्रमणपशवः संयोजिताः ।
त्रिभिः सवनैर्यथास्थानं मण्डलानि चरन्ति ॥”)

संरम्भः, पुं, (सं + रभ + घञ् । नुम् ।) क्रोधः ।

इति शब्दरत्नावली ॥ (यथा, मनुः । ४ । १६६ ।
“ताडयित्वा तृणेनापि संरम्भात् मतिपूर्व्वकम् ।
एकविंशतिमाजातीः पापयोनिषु जायते ॥”)
आटोपः । इति त्रिकाण्डशेषः ॥ (सम्भ्रमः ॥
यथा, भागवते । ८ । ६ । २४ ।
“न संरम्भेण सिध्यन्ति सर्व्वार्थाः सान्त्वया
यथा ॥”)
वेगः । यथा, तत्रैव । ८ । ११ । ४५ ।
“संयम्य मन्युसंरम्भं मानयन्तो मुनेर्व्वचः ।
उपगीयमानामुचरैर्ययुः सर्व्वे त्रिविष्टपम् ॥”)
उत्साहः । यथा, --
“कार्य्यारम्भेषु संरम्भः स्थेय उत्साह इष्यते ।”
इति साहित्यदर्पणे ३ परिच्छेदः ॥

संरावः, पुं, (सं + रु ल ध्वनौ + “उपसर्गेरुवः ।”

३ । ३ । २२ । इति घञ् ।) शब्दः । इत्यमरः ॥
(यथा, राजतरङ्गिण्याम् । ३ । ३४२ ।
“ततस्तस्य सरित्पाते मुक्तसंरावमग्रतः ।
ऊर्द्ध्वबाहुर्महद्भूतं प्रादुरासीत् महौजसः ॥”)

संरावी, [न्] त्रि, प्रशस्तशब्दविशिष्टः । संराव-

शब्दादत्स्यर्थे इन्प्रत्ययेन निष्पन्नः ॥

संरूढः, त्रि, (सं + रुह + क्तः ।) प्रौढः । अङ्कु-

रितः । इति मेदिनी ॥ (यथा, महाभारते ॥
१२ । २२८ । २ ।
“तन्नो मनसि संरूढं करिष्यामस्तथा च तत् ॥”

संरोधः, पुं, (सं + रुध + घञ् ।) रोधनम् ।

(यथा, भागवते । १० । ७३ । २ ।
“क्षुत्क्षामाः शुष्कवदनाः संरोधपरिकर्शिताः
ददृशुस्ते घनश्यामं पीतकौशेयवाससम् ॥”)
क्षेपः । इति मेदिनी ॥

संलग्नः, त्रि, संयुक्तः । संपूर्व्वलगधातोः क्तप्रत्ययेन

निष्पन्नः ॥ यथा, कथासरित्सागरे । १२३ । १११ ।
“स चाब्धिवेलया नीत्वा विधिगत्येव रोधसि ।
क्षिप्तस्तद्द्वीपसंलग्नो महामत्स्योऽवसन्नवान् ॥”

संलयः, पुं, (सं + ली + अच् ।) निद्रा । इति

हेमचन्द्रः ॥ प्रलयश्च ॥

संलापः, पुं, (सं + लप + घञ् ।) परस्परभाष-

णम् । इत्यमरः ॥ अन्योन्यं प्रीतिभाषणं
संलापः । उक्तिप्रत्युक्तिभावेन विरोधरहित
मन्योन्यभाषणं संलापः । इति परेऽपि । रहसि
भाषणं संलापः । इति कौमुदी । मिथोऽन्योन्य
रहस्यपि । इति वक्ष्यति । समन्ताल्लपनं संलाप
प्रियादिकथा घञ् । यस्त्वालापः स तु केनापि
क्रियते । इदन्तु परस्परभाषणमेवेति भेदः । इति
भरतः ॥ “उक्तिप्रत्युक्तिमद्वाक्यं संलाप इति
कीर्त्त्यते ।” इत्युज्ज्वलनीलमणिः ॥
पृष्ठ ५/२०२

संवत्, व्य, वत्सरः । इत्यमरः ॥ अधुना विक्रि-

मादित्यराजवत्सरः संवत् इति ख्यातः ॥ (स्त्री
भूमिविशेषः । यथा, वाजेसनेयसंहितायाम् ।
११ । १२ ।
“वरिष्ठामनु संवतम् ।”
“वन सम्भक्तौ संवन्यते सम्यग्भज्यते मृद्धरणार्थं
सेव्यते इति संवत् संपूर्वस्य वनतेः छिप्येतदूपम् ।
मृत्खननयोग्या भूमिः संवत् । सा च पाषाणाद्य-
भावेनातिप्रशस्तत्वाद्वरिष्ठेत्युच्यते ।” इति तद्-
भाष्यम् ॥ * ॥ संग्रामः । इति निघण्टुः । २ । १७ ॥)

संवत्सरः, पुं, (स वसन्ति ऋतवौ यत्र । सं + वस

निवासे + “संपूर्व्वात् चित् ।” उणा० ३ । ७२ ।
इति तसरन् ।) वत्सरः । इत्यमरः ॥ “संवसन्ति
ऋतवो अत्र संवत्सरः । वस औ निवासे
नाम्रीति सरः सस्य तः । संवदति भावान्
इति वदो रूपंवा ।” इति भरतः ॥ पञ्चविध-
वत्सरान्तर्गतप्रथमवत्सरः । यथा --
“शकाब्दात् पञ्चभिः शेषात् समाद्यादिषु वत्-
सराः ।
संपरीदानुपूर्व्वाश्च तथोदापूर्वका मताः ॥”
संबत्सरादिफलं विष्णुधर्म्मोत्तरे ।
“संवत्सरे तथा दानं तिलस्य च महाफलम् ।
परिपूर्वे तथा दानं यवानाञ्च द्विजोत्तमाः ॥
इदापूर्व्वेऽन्नवस्त्राणां धान्यानाञ्चानुपूर्व्वके ।
उदासंवत्सरे दानं रजतस्य महाफलम् ॥
ज्योतिर्व्विदस्त्विज्यमध्यात् प्रभवादेश्च सम्भवम् ।
ऊचुस्तद्वत् समाद्यादिवर्षाणामपि सम्भवम् ॥”
इति मलमासतत्त्वम् ॥

संवदनं, क्ली, (सं + वद् + ल्युट् ।) आलोचनम् ।

वशीकरणम् । इति मेदिनी ॥ (यथा, महा-
भारते । ३ । २३२ । ५७ ।
“एतज्जानाम्यहं कर्त्तुं भर्त्तुः संवदनं महत् ।
असत्स्त्रीणां समाचारं नाहं कुर्य्यान्न कामये ॥”)
संवादः । इति हेमचन्द्रः ॥

संवदना, स्त्री, संवदनम् । वशक्रिया । यथा ।

मणिमन्त्रौषधैर्वशीकरणं संवदनम् । संपूर्व्वो
वदिर्वशीकरणे भावेऽनट् । संवदना चेति
केचित् । करणेऽनटि वशक्रियासाधने मणि-
मन्त्रादावपि । जयश्रियः संवदनं यतस्तदिति
रघुः । संचलनमिति पाठान्तरम् इत्यमर-
टीकायां भरतः ॥

संवननं, क्ली, (सं + वन + ल्युट् ।) संवदनम् ।

इत्यमरटीकायां रामाश्रमः ॥ (यथा, कथा-
सरित्सागरे । ३४ । १६९ ।
“हृदयानुप्रवेशो हि प्रभोः संवननं महत् ॥”)

संवरं, क्ली, (सं + वृ + “ग्रहवृदृनिश्चिगमश्च ।”

२ । ३ । ५८ । इति अप् ।) जलम् । बौद्धव्रत-
विशेषः । इति केचित् ॥ रभसे मकारमध्य-
पाठः । तत्र सम्बधातोररप्रत्ययेन निष्पन्नम् ॥

संवरः, पुं, दैत्यविशेषः । मत्स्यविशेषः । हरिण-

विशेषः । इति केचित् ॥ रभसकोषे सम्बर इति
पाठः ॥ (क्वचित् शम्बर इति च दृश्यते ॥)

संवर्त्तः, पुं, (सं + वृत् + घञ् ।) प्रलयः । इत्य-

मरः ॥ (यथा, भागवते । ८ । १५ । २६ ।
“दहन्निव दिशो दिग्भिः संवर्त्ताग्निरिवो-
त्थितः ॥”)
मुनिविशेषः । (यथा, मार्कण्डेये । १३० । ११ ।
“ऋत्विक् तस्य तु संवर्त्तो बभूवाङ्गिरसः सुतः ।
भ्राता बृहस्पतेर्विप्र महात्मा तपसां निधिः ॥”
अयं हि धर्म्मशास्त्रप्रयोजकानामन्यतमः ॥)
कर्षफलवृक्षः । इति मेदिनी ॥ मेघः । इति
शब्दरत्नावली ॥ (यथा, हरिवंशे । १२० । ९० ।
“शुश्रुवे सुमहान् शब्दः सवर्त्तनिनदो यथा ॥”)
मेघनायकांवशेषः । तस्य विवरणं यथा, --
“त्रियुते शाकवर्षे तु चतुर्भिः शेषिते क्रमात् ।
आवर्त्तं विद्धि संवर्त्तं पुष्करं द्रोणमम्बुदम् ॥
आवर्त्तो निर्जलो मेघः संवर्त्तश्च बहूदकः ।
पुष्करो दुष्करजलो द्रोणः शस्यप्रपूरकः ॥”
इति ज्योतिस्तत्त्वम् ॥
संपूर्व्वकान्तःस्थवकारादिवृतधातोः घञ्प्रत्ययेन
निष्पन्नत्वादनुस्वारमध्यः । मकारमध्योऽप्य-
यम् ॥

संवर्त्तकः, पुं, (संवर्त्तयतीति । सं + वृत् + णिच्

ण्वुल् ।) बलदेवः । इति शब्दरत्नावली ॥ बल-
देवस्य लाङ्गलम् । बडवानलः । इति हेमचन्द्रः ॥
(यथा भागवते । १२ । ४ । ९ ।
“ततः संवर्त्तको वह्निः सङ्कर्षणमुखोत्थितः ।
दहत्यनिलवेगोत्थः शून्यान् भूविवरानथ ॥”)

संवर्त्तकी, [न्] पुं, (संवर्त्तकोऽस्यास्तीति ।

इनिः ।) बलदेवः । इति त्रिकाण्डशेषः ॥

संवर्त्तिः, स्त्री, (सम्यक्प्रकारेण वर्त्तते इति ।

सं + वृत् + “हृपिषिरुहीति ।” उणा० ४ ।
११८ । इति इन् ।) संवर्त्तिका । इत्यमर-
टीकायां भरतः ॥

संवर्त्तिका, स्त्री, पद्मस्य केशरसमीपस्थदलम् ।

इत्यमरः ॥ पद्मादीनां जटिकाकारे नववत्रे
इत्यन्ये । सम्यक् वर्त्तते वर्द्धते इति संवर्त्तिका
णकः । संवर्त्तयति वेष्टयतीति वा नाम्नीति इ-
प्रत्यये संवर्त्तिरपि । संवर्त्तिनवपत्रिकेति वोपा
लितः । पाच्छोणादीति ईपि संवर्त्ती च अतः
स्वार्थे के संवर्त्तिका । सामान्यनूतनपत्रेऽपि
संवर्त्तिकेति हड्डचन्द्रः ॥ दलमात्रे च संवर्त्ति-
केति मधुः । कुर्व्वाणा समकोचयद्दशशतान्य-
म्भोजसंवर्त्तिकेति मुरारिः । इति भरतः ॥

संवर्द्धकः, त्रि, (संवर्द्धयतीति । सं + वृध् +

णिच् + ण्वुल् ।) संवर्द्धनकारी । इति हेमचन्द्रः ॥

संवर्द्धनं, क्ली, (सं + वृध् + ल्युट् ।) सम्यग्-

वृद्धिः । सन्दीपनम् । संपूर्ववृधधातारनट्प्रत्य-
येन निष्पन्नम् ॥) यथा, महाभारते १ । ६३ । १०१ ।
“पुरुषः स विभुः कर्त्ता सर्वभूतपितामहः ।
धर्म्मसंवर्द्ध नार्थाय प्रयज्ञेऽन्धकवृष्णिषु ॥”
क्रीडनम् । यथा, रामायणे । १११ । १० ।
“नित्यञ्च प्रियवादेन तथा संवर्द्धनेन च ॥”
“संवर्द्धनं क्रीडनम् ।” इति तट्टीका ॥)

संवर्द्धितः, त्रि, (सं + वृध् + णिच् + क्तः ।)

सम्यग्वृद्धिविशिष्टः । यथा, --
“अथ प्रभावोपनतैः कुमारं
कल्पद्रुमोत्थैरवकीर्य्य पुष्पैः ।
उवाच वाग्मी दशनप्रभाभिः
संवर्द्धितोरःस्थलतारहारः ॥”
इति रधौ ५ सर्गः ॥

संवलितः, त्रि, (सं + वल + क्तः ।) मिश्रितः ।

एकत्रीकृतः । यथा । प्रकृतग्रन्थस्थस्वरसंवलित-
स्यैव पाठस्य धर्त्तुमुचितत्वाद्व्याप्त्यवधारणं
युक्तम् । इति पक्षताजागदीशी टीका ॥
अन्यच्च ।
“प्रतीयमानः प्रत्येकं प्रथमं हेतुरुच्यते ।
ततः संवलितः सर्व्वो विभवादिः सचेतसाम् ॥”
इति साहित्यदर्पणे ३ परिच्छेदः ॥

संवसथः, पुं, (संवसत्यत्रेति । सं + वस + “उप-

सर्गे वसेः ।” उणा० ३ । ११४ । इति अथः ।)
ग्रामः । इत्यमरः ॥

संवहः, पुं, (संवहतीति । सं + वह + अच् ।

सप्तवाय्वन्तर्गतप्रशस्तवायुः । स तु उद्वहवायो-
रुपरिष्ठः । इति सिद्धान्तशिरोमणिः ॥ (यथा,
महाभारते । १२ । ३२८ । ४२ ।
“चतुर्थः संवहो नाम वायुः स गिरिमर्द्दनः ।
येन वेगवता रुग्ना रुक्षेणारुजता नगान् ॥
वायुना सहिता मेघास्ते भवन्ति बलाहकाः ।
दारुणोत्पातसञ्चारो नभसः स्तनयित्नुमान् ॥”
संवाटिका, स्त्री, शृङ्गाटकः । इति जटा-
धरः ॥

संवादः, पुं, (सं + वद् + घञ् ।) सन्देशवाक्यम् ।

समाचार इति यावत् । तत्पर्य्यायः । वाचिकम् २
सन्देशः ३ । इति जटाधरः ॥ सन्देशवाक् ४ ।
इत्यमरः ॥ वाचिकं तद्भवेद्यत्र दूतत्वेनाभि-
शंसनम् । इति शब्दरत्नावली ॥ (मिथः-
सम्भाषणम् । यथा, गीतायां । १८ । ७० ।
“अध्येष्यते च य इमं धर्म्मं संवादमावयोः ।
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥”)

संवासः, पुं, (संवसन्त्यत्रेति । सं + वस् + घञ् ।)

गृहम् । इति शब्दरत्नावली ॥ (यथा, बृहत्-
संहितायाम् । ९५ । १३ ।
“भयदो जनसंवासात्
यदि भाण्डान्यपनयेत् काकः ॥”)
पुरवासिनां विहारार्थं पुरमध्ये बहिर्व्वा
अनावृतस्थानम् । तत्पर्य्यायः । सन्निवेशः २
सन्निकर्षणम् ३ । इति जटाधरः ॥ (यथा,
रामायणे । २ । ४९ । ४ ।
“शृण्वन् वाचो मनुष्याणां ग्रामस वास-
वासिनाम् ।
राजानं धिक् दशरथं कामस्य वशमास्थितम् ॥”
एकत्रावस्थानम् । यथा, मनुः । ८ । २७३ ।
“ब्रात्यया सह संवासे चाण्डाल्या तावदेव तु ॥”

संवाहः, पुं, (संवाहतीति । सं + वह + णिच् +

अच् ।) अङ्गविमर्द्दकः । इति जटाधरः ॥
पृष्ठ ५/२०३
(सप्राकारमुद्यानम् । इति नीलकण्ठः ॥ यथा,
महाभारते । ३ । १६० । ३७ ।
“द्वारतोरणनिर्वूहध्वजसंवादशोभिना ॥”
सं + वह + घञ् । विमर्द्दनम् । यथा, मार्क-
ण्डेये । १६ । १५ ।
“तं तथा व्याधितं भार्य्या पतिं देवमियार्च्चयत् ।
पादाभ्यङ्गाङ्गसंवाहस्नानाच्छादनभोजनैः ॥”)

संवाहकः, त्रि, (संवाहयतीति । सं + वह +

णिच् + ण्वुल् ।) अङ्गमर्द्दकारकः । तत्पर्य्यायः ।
अङ्गमर्द्दकः २ । इति त्रिकाण्डशेषः ॥ अङ्ग-
मर्दः ३ । इति हेमचन्द्रः ॥ (यथा, कामन्द-
कीयनीतिसारे । १२ । ४५ ।
“प्रसाधका भोजकाश्च गात्रसंवाहका अपि ।
जलताम्बूलकुसुमगन्धभूषणदायकाः ।
कर्त्तव्याश्च सदा ह्येते ये चान्येऽभ्यासवर्त्तिनः ॥”

संवाहनं, क्ली, (सं + वह + णिच् + ल्युट् ।) अङ्ग-

मर्द्दनम् । (यथा, मार्कण्डेये । १० । ७४ ।
“तैलाभ्यङ्गी बान्धवानामङ्गसंवाहनञ्च यत् ।
तेन चाप्याय्यते जन्तुर्यच्चाश्नन्ति सबान्धवाः ॥”)
भारादिवहनम् । इति मेदिनी ॥

संवित्तिः, स्त्री, (सं + विद् + क्तिन् ।) प्रतिपत्तिः

जनस्याविवादः । इति मेदिनी ॥ चेतना ।
बुद्धिः । इति शब्दरत्नावली हेमचन्द्रश्च ॥
(यथा, किराते । १६ । ३२ ।
“छायां विनिर्द्धूय तमोमयीन्तां
तत्त्वस्य संवित्तिरिवाप विद्याम ॥”
अनुभवः । यथा तत्रैव । ११ । ३४ ॥
“श्वस्त्वया सुखसंवित्तिः स्मरणीयाधुनातनी ।
इति स्वप्नोपमान् मत्वाकामान् मागास्तदङ्ग-
ताम् ॥”)

संवित्, स्त्री, (सं + विद् + क्विप् ।) अङ्गी-

कारः । ज्ञानम् । (यथा, श्रीधर-
स्वामी ।

संवित्, स्त्री, (सं + विद् + क्विप् ।) अङ्गी-

कारः । ज्ञानम् । (यथा, श्रीधर-
स्वामी ।
“वागीशा यस्य वदने लक्ष्मीर्यस्य च वक्षसि ।
यस्यास्ति हृदये संवित् तं नृसिंहमहं भजे ॥”
सम्भाषा । क्रियाकारः । युद्धम् । इत्यमरः ॥
आचारः । (यथा, माघे । १२ । ३५ ।
“ओजस्विवर्णोज्ज्वलवृत्तशालिनः
प्रसादिनोऽनुज्झितगोत्रमंविदः ।
श्लोकानुपेन्द्रस्य पुरः स्म भूयसो
गुणान् समुद्दिश्य पठन्ति वन्दिनः ॥”)
सङ्केतः । (यथा, रघुः । ७ । ३१ ।
“स राजलोकः कृतपूर्व्वसंवित्
आरम्भसिद्धौ समयोपलभ्यम् ।
आदास्यमानः प्रमदामिषं तत्
आवृत्य पन्थानमजस्य तस्थौ ॥”)
नाम । तोषणम् । इति मेदिनी ॥ समाधिः ।
इति शब्दरत्नावली ॥

संविदितः, त्रि, (सं + विद् + क्तः ।) अङ्गीकृतः ।

इत्यमरः ॥

संविषा, स्त्री, (सं सम्यक् विषो यत्र ।) अति-

विषा । इति शब्दचन्दिका ॥

संवीक्षणं, क्ली, (सं + वि + ईक्ष + ल्युट् ।) अन्वे-

षणम् । अपहृतवस्तुनस्तात्पर्य्येणान्वेषणम् ।
इत्यमरः ॥ सम्यक्तात्पर्य्येण विविधप्रकारे-
रीक्षणं संवीक्षणं अनट् । इति भरतः ॥

संवीतं, त्रि, (सं + व्ये + क्तः ।) रुद्धम् । आवृतम् ।

इत्यमरः ॥ (यथा, मनुः । ४ । ४९ ।
“तिरस्कृत्योच्चरेत् काष्ठलोष्टपत्रतृणादिना ।
नियम्य पयतो वाचं संवीताङ्गोऽवगुण्ठितः ॥”)

संवृतः, पुं, आवृतः । संपूर्व्ववृञ्धातोः क्तप्रत्य-

येन निष्पन्नः ॥

संवृत्तः, पुं, (सं + वृत् + क्तः ।) वरुणः । इति

शब्दमाला ॥

संवृत्तिः, स्त्री, (सं + वृत् + क्तिन् ।) सम्यक्-

प्रकारेण वर्त्तनम् । (यथा, कथासरित्सागरे ।
५६ । ४१४ ।
“हसता हृदि भीमभूभुजा
कृतसंवृत्त्युपचारसत्क्रियः ।
ऋतुपार्णनृपोऽपि तं नलं
प्रतिपूज्याथ जगाम कोशलान् ॥”)
आवरणम् । इति संपूर्व्वकवृत्धातोः क्ति-
प्रत्ययेन निष्पन्ना ॥ (देवीविशेषः । यथा, महा-
भारते । २ । ११ । ३९ ।
“संवृत्तिराशा नियतिः सृष्टिर्देवी रतिस्तथा ।
एताश्चान्याश्च वै देव्य उपतस्थुः प्रजा-
पतिम् ॥”)

संवेगः, पुं, (सं + विज + घञ् ।) भयादिजनित-

त्वरा । इत्यमरः ॥ (यथा, महाभारते । २ ।
७२ । १४ ।
“अथ सभ्याः सभामध्ये समुच्छ्रितकरास्तदा ।
ऊचुरुद्बिग्नमनसः संवेगात् सर्व्व एव हि ॥”)
सम्यक्वेगश्च ॥ (यथा, राजतरङ्गिण्याम् । ४ ।
३९० ।
“अभग्नशमसंवेगलब्धसिद्धिर्नराधिपः ।
श्रीपर्वतादावद्यापि भव्यानामेति दृक्पथम् ॥”)

संवेदः, पुं, (सं + विद् + घञ् ।) अनुभवः ।

तत्पर्य्यायः । वेदना २ । इत्यमरः ॥ द्वे अनुभवे ।
विद ल मतौ घञ् संवेदः । ञीषिश्रन्थीति
अने वेदना । न नेत्युक्तेः क्ली वेदनम् । तत्र
विशेषेणापि सामान्यं वाध्यते न क्वचित् कृ-
तीति अनट् । इति भरतः ॥ (यथा, हरिवंशे ।
२०३ । २३ ।
“संवेदजननी धात्री चेति मात्रा प्रचोदिता ।
अनुतां तनुताञ्चैव जन्तूनां कर्म्मभोगिनाम् ॥”

संवेशः, पुं, (सं + विश + घञ् ।) निद्रा । इत्य-

मरः ॥ (यथा, रघुः । ९३ ।
“अथ प्रदोषे दोषज्ञः संवेशाय विशांपतिम् ।
सूनुः सूनृतवाक् स्रष्टुः विससर्ज्जोदितश्रियम् ॥”
स्त्रीरतबन्धः । इति मेदिनी ॥ पीठः । इति
हेमचन्द्रः ॥ (उपभोगस्थानम् । इति स्वामी ॥
यथा, भागवते । ३ । २३ । २० ।
“विहारस्थानविश्रामसंवेशप्राङ्गनाजिरैः ।
यथोपजोषं रचितैर्विसापिनमिवात्मनः ॥”)

संवेशनं, क्ली, (सं + विश + ल्युट् ।) रतिक्रिया ।

इति हेमचन्द्रः ॥ (उपवेशनम् । यथा, भाग-
वते । ५ । ९ । १० ।
“शीतोष्णवातवर्षेषु वृष इवानावृताङ्गः पीनः
संहननाङ्गः स्थण्डिलसंवेशनामर्द्दनामज्जन-
रजसा महामणिरिव *** विचचार ॥”)

संव्यानं, क्ली, (संवीयतेऽनेनेति + सं + व्य +

ल्युट् ।) उत्तरीयवस्त्रम् । इत्यमरः ॥ (यथा,
किराते । ४ । २८ ।
“विपाण्डु संव्यानमिवानिलोद्धतं
निरुन्धतीः सप्तपलाशजं रजः ॥”)
वस्त्रम् । इति मेदिनी ॥

संशप्तकः, पुं, समयात् संग्रामादनिवर्त्ती । इत्य-

मरः ॥ समयात् कुलाचारात् शपथाद्वा
संग्रामादनिवर्त्तिनोऽपराङ्मुखा अपलाय-
मानाश्चाक्रोशन्ति ते संशप्तकाः । शपेर्भावे क्ते
शप्तं सम्यक् सत्यं शप्तं येषां ते संशप्तकाः ।
इति भरतः ॥ नारायणीसेनाविशेषः । इति
महाभारतम् ॥ (यथा, महाभारते । १ ।
१ । १८७ ।
“तदाश्रौषं चास्मदीयान् महारथान्
व्यवस्थितानर्ज्जुनस्यान्तकाय ।
संशप्तकान् निहतानर्ज्जुनेन
तदा नाशंसे विजयाय सञ्जय ॥”
एतद्वधवृत्तान्तादिकं महाभारते द्रोणपर्व्वणि
१७ अध्यायमारभ्य द्रष्टव्यम् ॥)

संशयः, पुं, (सं + शी + अच् ।) सन्देहः । इत्य-

मरः ॥ तस्य लक्षणं यथा, --
“स संशयो भवेद्या धीरेकत्राभावभावयोः ।
साधारणादिधर्म्मस्य ज्ञानं संशयकारणम् ॥”
इति भाषापरिच्छेदः ॥
“संशयं लक्षयति संशत इति । एकधर्म्मिक-
विरुद्धभावाभावप्रकारकं ज्ञानं संशय इत्यर्थः ।
साधारणेति उभयसाधारणो यो धर्म्मस्तज्-
ज्ञानं संशयसाधनम् । यथा उच्चैस्तरत्वं
स्थाणुत्वसाधारणं ज्ञात्वा अयं स्थाणुर्न वेति
सन्दिग्धे । एवमसाधारणज्ञानं संशयकारणम् ।
यथा शब्दत्वं नित्यानित्यव्यावृत्तं शब्दे गृहीत्वा
शब्दो नित्यो न वेति सन्दिग्धे । विप्रतिपत्तिस्तु
शब्दोऽनित्यो न वेति शब्दात्मिका न संशय-
कारणं शब्दव्याप्तिज्ञानादीनां निश्चयमात्रजन-
कत्वस्वाभाव्यात् । किन्त्वत्र शब्देन कोटिद्वय-
ज्ञानम् जन्यते संशयस्तु मानस एवेति । एवं-
ज्ञानेऽप्रामाण्यसंशयाद्विषयसंशयः । एवं व्याप्य-
संशयादपि व्यापकसंशय इत्यादिकं बोध्यम् ।
किन्तु संशये धर्म्मिज्ञानं धर्म्मीन्द्रियसन्निकर्षो
वा कारणमिति ।” इति तट्टीका सिद्धान्त-
मुक्तावली ॥

संशयानः, त्रि, संशययुक्तः । संपूर्व्वशीङ्धातोः

शानप्रत्ययेन निष्पन्नः ॥

संशयापन्नमानसः, त्रि, (संशयमापन्नं मानसं

यस्य यत्रेति वा ।) संशयविषयः । संशययुक्तः ।
पृष्ठ ५/२०४
तत्पर्य्यायः । सांशयिकः २ । इत्यमरः ॥ द्वे संशय-
विषये स्थाण्वादौ । संशयमापन्नः सांशयिकः
ष्णिकः । संशयमापन्नं मानसं यत्र स्थाण्वादौ
स तथा । संशयमापन्नं मानसं यस्य स
तथेति षष्ठ्यन्यपदार्थत्वे संशयितरि पुरुषा-
दावप्ये तच्छब्दद्वयप्रवृत्तिः स्यात् । इति भरतः ॥

संशयालुः, । त्रि, संशयिता । इति हेमचन्द्रः ॥

संशयिता, [ऋ] त्रि, (सं + शी + तृच् ।)

संशयकर्त्ता । इति हेमचन्द्रः ॥

संशरणं, क्ली, (सं + शॄ + ल्युट् ।) रणारम्भः ।

इति शब्दमाला ॥ (संरक्षणम् । यथा,
कामन्दकीये । ६ । ४ ।
“लोकानुग्रहमन्विच्छन् शरीरमनुपालयेत् ।
राज्ञः संशरणं धाम शरीरं धर्म्मसाधनम् ॥”)

सांशितं, त्रि, (सं + शो + क्तः ।) सम्यक्सम्पा-

दितम् । व्रतविषयकयत्नवान् । यथा संशितं
व्रतम् । सम्यक् सम्पादितमित्यर्थः । संशितो
ब्राह्मणः । व्रतविषकयत्नवानित्यर्थः । इति
सिद्धान्तकौमुदी ॥

संशुद्धिः, स्त्री, (सं + शुध + क्तिन् ।) सम्यक्

शीधनम् । शरीरमार्ज्जनम् । यथा, --
समम्मार्ज्जनञ्च संशुद्धिः संशोधनविशोधने ॥”
इति रत्नमाला ॥

संशुष्कं, त्रि, आतपादिना संशोषितवस्तु ।

संपूर्व्वशुषधातोः क्तप्रत्ययेन निष्पन्नम् ॥

संशोधनं, क्ली, (सं + शुध + ल्युट् ।) संशुद्धिः ।

इति रत्नमाला ॥

संशोधितं, त्रि, (सं + शुध + क्तः ।) शुद्धीकृत-

वस्तु । यथा, --
“य लेपाः कुष्ठानां युज्यन्ते निर्गताश्रदोषाणाम्
संशोधिताशयानां सद्यः सिद्धिर्भवेत्तेषाम् ॥”
इति मधुमती ॥

संश्चत्, क्ली, (संचिनोति मायामिति । सं +

चि + “मश्चत्तृपद्वेहत् ।” उणा० २ । ८५ ।
इति अतिप्रत्ययेन निपातनात् साधु ।) कुहकः ।
इत्युणादिकोषः ॥

संश्यानः, त्रि, (सं + श्यै + क्तः ।) शीतेन सङ्कु-

चितः । इति मुग्धबोधव्याकरणम् ॥

संश्रयः, पुं, (सं + श्रि + अच् ।) आश्रयः । यथा,

स्तुता सुरैः पूर्व्व मभोष्टसंश्रया-
त्तथा सुरेन्द्रेण दिनेषु सेविता ।
करोतु सा नः शुभहेतुरोश्वरी
शुभानि भद्राण्यभिहन्तु चापदः ॥”
इति मार्कण्डेयपुराणे देवीमाहात्म्ये ५ अध्यायः ॥
(आश्रयस्थानम् । यथा, रामायणे । २ । ४१ । ६ ।
“अहो निश्चतनो राजा जीवलोकस्य संश्रयम् ।
धर्म्मो सत्यव्रत्रं रामं वनवासे प्रवत्स्यति ॥”)

संश्रवः, पुं, (सं + श्रु + अप् ।) अङ्गीकारः ।

इत्यमरः ॥ (मम्यक् श्रवणम् । यथा, महा-
भारते । १५ । ३ । ६ ।
“अय भीमः सुहृन्मध्ये बाहुशब्दं तदाकरोत् ।
स यवे धृतराष्ट्रस्य गान्धार्य्याश्च । प्यमर्षणः ॥”)

संश्रितः, त्रि, (सं + श्रि + क्तः ।) आश्रितः । यथा,

“न पाचीमग्रतः शम्भोर्नोदीचीं शक्तिसंश्रि-
ताम् ।
न प्रतीचों यतः पृष्ठमतो दक्षं समाश्रयेत् ॥”
इति तिथ्यादितत्त्वम् ॥

संश्रुतः, त्रि, (सं + श्रु + क्तः ।) अङ्गीकृतः ।

इत्यमरः ॥ (यथा, रामायणे । ३ । १० । ३६ ।
“मया चैतद्वचः श्रुत्वा कार्त्स्येन परिपालनम् ।
ऋषोणां दण्डकारण्य संश्रुतं जनकात्मजे ॥”)

संश्लिष्टः, त्रि, आश्लिष्टः । मिलितः । संपूर्व्व-

श्लिषधातोः क्तप्रत्ययेन निष्पन्नः ॥

संश्लेषः, पुं, (सं + श्लिष + घञ् ।) आलिङ्गनम् ।

इत्यमरः ॥ (यथा, महाभारते । १२ । १३३ । १७ ।
“संश्लेषञ्च परस्त्रीभिर्दस्युरेतानि वर्जयेत् ॥”)
मेलनम् ॥ (यथा मार्कण्डेये । ३७ । १५ ।
“अनन्तरैश्च संश्लेषमभ्येत्य तदनन्तरम् ।
तेषामन्यतमैर्भृर्त्यः समाक्रम्यानयद्वशम् ॥”)

संश्वत्, क्ली, (सं + श्वि + अतिप्रत्ययेन निपा-

तनात् सिद्धम् । “संपूर्व्वात् श्वयतेः संश्वदिति
सुभूतिचन्द्रः ।” इत्युणादिटीकायां उज्ज्वल-
दत्तः । २ । ८५ ।) माया यथा, --
“संश्चत्तु कुहके ज्ञेयं संश्वत् तत्रैव ते ममे ।”
इत्युणादिकोषः ॥

संसक्तः, त्रि, (सं + सञ्ज + क्तः ।) संलग्नः ।

अव्यवहितः । इत्यमरः ॥

संसक्तिः, स्त्री, संसक्तता । संपूर्व्वषन्जधातो-

र्भावे क्तिन्प्रत्ययेन निष्पन्ना ॥

संसत्, स्त्री, (संसीदन्त्यस्यामिति । सं +

सद् + क्विप् ।) सभा । इत्यमरः ॥
(यथा, रघुः । १६ । २४ ।

संसद् स्त्री, (संसीदन्त्यस्यामिति । सं +

सद् + क्विप् ।) सभा । इत्यमरः ॥
(यथा, रघुः । १६ । २४ ।
“तदद्भुतं संसदि रात्रिवृत्तं
प्रातर्द्विजेभ्यो नृपतिः शशंस ॥”)

संसरणं, क्ली, (सं + सृ गतौ + ल्युट् ।) प्राणि-

जन्म । असंवाधसैन्यगमनम् । घण्टापथः ।
इत्यमरः ॥ रणारम्भः । मेदिनी ॥ गमनम् ।
इति शब्दरत्नावली ॥ (संसारः । यथा,
भागवते । १० । ४० । २८ ।
“पुंसो भवेद्यर्हि संसरणापवर्ग-
स्तय्यब्जनाभ सदुपासनया मतिः स्यात् ॥”)

संसर्गः, पुं, (सं + सृज् + घञ् ।) सम्बन्धः ।

स च समवायादिः । इति न्यायशास्त्रम् ॥ * ॥
पापिष्ठान्त्यजादिसंसर्गप्रायश्चित्तम् । यथा, --
“स्तेयादिना पतिता इत्युपक्रम्य उक्तम् । अत्रा-
ज्ञानतो वत्सरेण पातित्यम् ।
“संवत्सरेण पतति पतितेन सहाचरन् ।
याजनाध्यापनाद्नादकशय्यासनाशनात् ॥”
इति हारीतवचनात् ।
ज्ञानतो वत्सरार्द्धेनेति । तदसंस्रष्टुस्तद्दोषाभाव
एव ।
“बान्धवोऽपि पृथग्भृत्वा तत् पापं नाप्नुयात् क्वचित् ।”
इति देवलवचनात् ॥ * ॥
“यस्तस्य भुङ्क्ते पक्वान्नं कृच्छ्रार्द्धं तस्य निर्दिशेत् ।
शुष्कान्नभोजिनः पादमित्याह भगवान् मनुः ॥
तस्याविज्ञातचण्डालसहितैकवेश्मस्थसङ्करीकर-
णरूपमूलपाककर्त्तुः द्वितीयसंसर्गिणः । तथा
चापस्तम्बः ।
“अन्त्यजातिरविज्ञातो निवसेद्यस्य वेश्मनि ।
स वै ज्ञात्वा तु कालेन कुर्य्यात्तस्य विशोधनम् ॥
चान्द्रायणं पराको वा द्विजातीनां विशोधनम् ।
प्राजापत्यस्तु शूद्राणां तथा संसर्गदूषणे ॥
यैस्तत्र भुक्तं पक्वान्नं कृच्छ्रं तेषां विनिर्द्दिशेत् ।
तेषामपि च यैर्भुक्तं तेषामर्द्धं विधीयते ।
तेषामपि च यैर्भुक्तं कृच्छपादो विधीयते ॥”
अत्र तृतीयसंसर्गिण एव प्रायश्चित्तदर्शनात्
चतुर्थसंसर्गे दोषो नास्ति । प्रायश्चित्तविवेको-
ऽप्येवम् ।” इति प्रायश्चित्ततत्त्वम् ॥ * ॥ अथ
संसर्गनिरूपणम् । तत्र महापातकिसंसर्गस्य
पापहेतुत्वमाह मनुः ।
“ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गणागभः ।
महान्ति पातकान्याहुः संसर्गश्चापि तैः सह ॥”
प्रायश्चित्तमपि दर्शितम् ।
“एषां पापकृतामुक्ता चतुर्णामपि निष्कृतिः ।
पतितैः संप्रयुक्तानामिमाः शृणुत निष्कृतीः ॥
यो येन पतितेनैषां संसगं याति मानवः ।
स तस्यैव व्रतं कुर्य्यात् तत्स सर्गविशुद्धये ॥
प्रायश्चित्तीयतां प्राप्य दैवात् पापकृतेन वा ।
न संसर्गं व्रजेत् सद्भिः प्रायश्चित्तेऽकृते द्बिजः ॥”
पापिष्ठसंसर्गी पातकी भवति इति कल्प्यश्रुतिः ॥
विष्णुः । यश्च येन पापात्मना मह संसृजेत् स
तस्यैव प्रायश्चित्तं कुर्य्यात् । गोतमोऽप्याह ।
ब्रह्महसुरापगुरुतल्पगपितृमातृयोनिसम्बन्धाग-
स्तेनाभक्ष्यभक्ष्यनास्तिकनिन्दकनिन्दितकर्म्मा-
त्यागिपतितात्याग्यपतितत्यागिनः पतिताः
पातकसंप्रयोकाश्च तैश्चाब्दं समाचरन् ।
निषिद्धपतितसंसर्गात् पततीति श्रुतिः कल्प्या ॥
के ते संसर्गप्रकारा इत्यत्राह बृहस्पतिः ।
“एकशय्यासनं पङ्क्तिर्भाण्डपक्वान्नमिश्रणम् ।
याजनाध्यापनं योनिस्तथा च सहभोजनम् ।
नवधा सङ्करः प्रोक्तो न कर्त्तव्योऽधमैः सह ॥”
छागलेयः ।
“आलापात् गात्रसंस्पर्शात् निश्वासात् सह-
भोजनात् ।
सहशय्यासनाध्यायात् पापं संक्रमते नृणाम् ॥”
यमः ।
“दष्कृतं हि मनुष्याणामन्नमाश्रित्य तिष्ठति ।
यो यस्यान्नमिहाश्नाति स तस्याश्नाति किल्वि-
षम् ॥”
देवलः ।
“पतितेन सहोषित्वा जानन् संवत्सरं नरः ।
मिश्रितस्तेन सोऽब्दान्ते स्वयञ्च पतितो भवेत् ॥
याजनं योनिसम्बन्धं स्वाध्यायं सहभोजनम् ।
कृत्वा सद्यः पतन्त्येते पतितेन न संशयः ॥”
व्यासः ।
“ब्रह्महा मद्यपः स्तेनो गुरुतल्पग एव च ।
पृष्ठ ५/२०५
महापातकिनस्त्वेते यश्च तैः सह संवसेत् ॥
संवत्सरन्तु पतितैः संसर्गं कुरुते तु यः ।
यानशय्यासतैर्नित्यं जानन् स पतितो भवेत् ॥”
ननु द्वितीयतृतीयसंर्गिणि प्रमाणं नास्ति
अतएव वृद्धशातातपः ।
“अशुचिं संस्पृशेद्यस्तु एक एव स दुष्यति ।
तत्स्पृष्ट्यन्यो न दुष्येत सर्व्वद्रव्येष्वयं विधिः ॥”
तथा ।
“संहतानान्तु पात्राणां यद्येकमुपहन्यते ।
तस्य तत् शोधनं प्रोक्तं न तु तत्स्पृष्टिनामपि ॥”
उच्यते । यश्च येन पापात्मनेति यो येन संपिबे-
दिर्ति संसर्गी येन संसर्गमिति विष्णुव्यास-
जावालवचनैः सामान्येन पापिष्ठसंसर्गी पापी
भवति इति प्रतिपादनात् संसर्गपापिष्ठस्यापि
संसर्गी पापयुक्तो भवतीति एभिरेव प्रति-
पादितम् ॥ * ॥ पतितोत्पन्नानां शुद्धिमिच्छतां
पतितानां प्रायश्चित्तस्य तृतीयो भागस्तत्प्राय-
श्चित्ते ज्ञेयम् । स्त्री च पतितोत्पन्ना तृतीय-
भागस्य तृतीयभागं कुर्य्यात् । इति प्रायश्चित्त-
विवेकः ॥

संसर्गाभावः, पुं, (संसर्गेण सम्बन्धेन अवच्छिन्नो-

ऽभावः ।) सम्बन्धरहितत्वम् । न्यायमते अभाव-
पदार्थविशेषः । स तु भेदभिन्नाभावः । स च
त्रिविधः । प्रागभावः १ ध्वंसः २ अन्त्यता-
भावः ३ । यथा, --
“अभावस्तु द्विधा संसर्गान्धोन्याभावभेदतः ।
प्रागभावस्तथा ध्वंसोऽप्यत्यन्ताभाव एव च ॥
एवं त्रैविध्यमापन्नः संसर्गाभाव इष्यते ॥”
इति भाषापरिच्छेदः ॥ * ॥
भेदत्वं तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिता-
काभावत्वम् । विनाश्यभावत्वं प्रागभावत्वम् १
जन्याभावत्वं ध्वंसत्वम् २ नित्यसंसर्गाभावत्व-
मत्यन्ताभावत्वम् ३ । इति सिद्धान्तमुक्तावली ॥

संसर्गो, [न्] (संसर्गोऽस्यास्तीति । इनिः ।

यद्वा, सं + सृज + “संपृचानुरुधेति ।” ३ । २ ।
१४२ । इति घिणुन् ।) संसर्गविशिष्टः । यथा ।
विभागानन्तरं मैत्र्यात् पितृभ्रातृपितृष्यभ्रातृ-
पुत्त्राणां यथायथं एकत्रावस्थानं संसर्गः । तद्-
युक्तः संसर्गी । एवम्भूतस्य संसर्गिणो मृतस्य
धनं तज्जातस्यापत्यस्य तदपत्याभावे संसर्गी
स्वयं गृह्णीयात् । इति दायतत्त्वम् ॥

संसर्पः, पुं, सम्यक्प्रकारेण गमनम् । सर्पादि-

गमनवद्गमनम् । संपूर्व्वसृपधातोर्घञ् प्रत्ययेन
निष्पन्नः ॥

संसर्पी, [न्] त्रि, संसर्पशब्दादिन्प्रत्ययेन संपूर्व्वक-

सृपधातोर्णिन्प्रत्ययेन वा निष्पन्नः ॥ संसर्प-
विविष्टः । सम्यग्गमनशीलः ॥ (यथा, रघुः ।
७ । २६ ।
“कपोलसंसर्पिशिखः स तस्याः
मुहुर्त्तकर्णोत्पलतां प्रपेदे ॥”)

संसारः, पुं, (संसरत्यस्मादिति । सं + सृ गतौ +

घञ् ।) मिथ्याज्ञानजन्यवासना । इति नैया-
यिकाः ॥ यथा । संसारश्च मिथ्याधीप्रभवा
वासना । इति प्रामाण्यवादगादाधरी टीप्पनी ॥
स्वादृष्टोपनिबद्धशरीरपरिग्रहः । इति कलाप-
टीकायां गोपीनाथः ॥ संसरणम् । इति शब्द-
रत्नावली ॥ तत्पर्य्यायः । दुःखलोकः २ भवः ३
कष्टकारकः ४ । इति त्रिकाण्डशेषः ॥ अपिच ।
“अस्माद्विजायते विश्वमत्रैव प्रविलीयते ।
अभायी मायया बद्धः करोति विविधास्तनूः ॥
न चाप्ययं संसरति न च संसारयेत् प्रभुः ।
नायं पृथ्वी न सलिलं न तेजः पवनो न तत् ॥
न प्राणो न मनो व्यक्तं न शब्दः स्पर्श एव
च ।
न रूपरसगन्धाश्च नाहं कर्त्ता न वागपि ॥
न पाणिपादौ नो पायुर्न चोपस्थो द्विजोत्तमाः ।
न कर्त्ता न च भोक्ता वा न च प्रकृतिपूरुषौ ॥
न माया नैव च प्राणश्चैतन्यं परमार्थतः ।
अहं कर्त्ता सुखी दुःखी कृशः स्थूलेति या मतिः
सा चाहङ्कारकर्त्तृत्वादात्मन्यारोप्यते जनैः ।
वदन्ति वेदविद्धांसः साक्षिणं प्रकृतेः परम् ॥
भोक्तारमक्षरं शुद्धं सर्व्वत्र समवस्थितम् ।
तस्सादज्ञानमूलोऽयं संसारः सर्व्वदेहिनाम् ॥”
इति कौर्म्मे ईश्वरगीतासु २ अध्यायः ॥
किञ्च ।
“पितृमातृसुहृद्भ्रातृकलत्रादिकृतेन च ।
हष्टोऽसकृत्तथा दैन्यमश्रुपूर्णाननो गतः ॥
एवं संसारचक्रेऽस्मिन् भ्रमता तात सङ्कटे ।
ज्ञानमेतन्मया प्राप्तं मोक्षसंप्राप्तिकारकम् ॥”
इति मार्कण्डेयपुराणे पितापुत्त्रसंवादनामा-
ध्यायः ॥

संसारगुरुः, पुं, (संसारस्य गुरुः ।) कामदेवः ।

इति त्रिकाण्डशेषः ॥ जगद्गुरुश्च ॥

संसारमार्गः, पुं, (संसारस्य मार्गः ।) योनिः ।

इति त्रिकाण्डशेषः ॥

संसारमोक्षणं, त्रि, (संसारस्य मोक्षनं यस्मात् ।)

भवतारकम् । यथा, --
“एवमेतन्महाशास्त्रं देवि ! संसारमोक्षणम् ।
मम भक्तव्यवस्थायै प्रयुक्तं परमं मया ॥”
इति वाराहे सुतस्वामिमाहात्म्यनामाध्यायः ॥ *
(संसारस्य मोक्षणम् ।) भवमोचने, क्ली ।
तदुपाया यथा, --
बलिरुवाच ।
“संसारार्णवमग्नानां नराणामन्यचेतसाम् ।
तरणे यो भवेत् पोतस्तन्मे व्याख्यातुमर्हसि ॥
प्रह्लाद उवाच ।
ये शङ्खचक्राब्जकरं तु शार्ङ्गिणं
खगेन्द्रकेतुं वरदं श्रियः पतिम् ।
समाश्रयन्ते भवभीतिनाशनं
संसारगर्त्तेन पतन्ति ते पुनः ॥
वैकुण्ठं खण्डपरशुं भवबन्धसमुच्छिदम् ।
प्रणिपत्य महात्मानं संसारे न पुनर्भवेत् ॥
ध्यायेत् दामोदरं यस्तु भक्तिनम्रोऽर्च्चयेत वा ।
न स संसारगर्त्तेऽस्मिन् मज्जते दानवेश्वर ! ॥
ये मानवा विगतरागपरावरज्ञा
नारायण सुरगुरुं सततं स्मरन्ति ।
ते धौतपाण्डरपटा इव राजहंसाः
संसारसागरजलस्य तरन्ति पारम् ॥”
इति वामने ९० अध्यायः ॥

संसारी, [न्] पुं, (संसारोऽस्त्यस्येति । इनिः ।)

संसारविशिष्टप्राणी । इति हलायुधः ॥ शरीरी ।
यथा । संसारिणामिति संसारित्वं शरीरित्वम् ।
शरीरित्वञ्च भोगावच्छेदकत्वं न तु चेष्टावत्त्वम् ।
अत ईश्वरपरिगृहीतरामकृष्णादिशरीरव्युदासः
मिथ्याज्ञानजन्यवासनाया अदृष्टस्य वा न
संसारपदेन विवक्षासम्भवः । इति बौद्धाधि-
कारस्य गादाधरी टिप्पनी ॥

संसिद्धिः, स्त्री, (स + सिध + क्तिन् ।) प्रकृतिः ।

स्वभावः । इत्यमरः ॥ सम्यक्सिद्धिः । मदीग्रा ।
इति मेदिनी ॥ परमा सिद्धिः । मोक्षः । यथा,
“मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिंद्धिं परमां गताः ॥”
इति श्रीभगवद्गीतायां ८ अध्याये १५ श्लोकः ॥
(फलम् । इति स्वामी ॥ यथा, भागवते । १ ।
२ । १३ ।
“अतः पुंभिर्द्विजश्रेष्ठा वर्णाश्रमविभागशः ।
स्वनुष्ठितस्य धर्म्मस्य संसिद्धिर्हरितोषणम् ॥”)

संसृतिः, स्त्री, (सं + सृ + क्तिन् ।) संसारः ॥

इति शब्दरत्नावली ॥ (यथा, भागवते । १ ।
१ । १४ ।
“आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् ।
ततः सद्यो विमुच्येत यद्बिभेति स्वयं भयम् ॥”)
प्रवाहः । इति त्रिकाण्डशेषः ॥

संसृष्टः, त्रि, (सं + सृज + क्तः ।) संसर्गः ।

वमनादिना संशुद्धः । इति मेदिनीकरहेम-
चन्द्रौ ॥ विभागानन्तरं मैत्र्यात् पितृभ्रातृ-
पितृव्यभ्रातृपुत्त्राणां यथायथं एकत्रावस्थान-
संसर्गस्तद्युक्तः । अथ संसृष्टधनविभागः ।
एकपितृजातयोरपि सोदरविमातृजयोर्मृतदेय-
षट्पुरुषपिण्डदातृत्वेन सोदरस्यैव धनाधिकारो
न तु पित्रादित्रयमात्रपिण्डदातुर्विमातृजस्य ।
क्वचित्तु संसृष्टत्वेन विमातृजस्याप्यसंसृष्टसोद-
रेण सह तुल्याधिकारिता सोदरम्य संसृष्टत्वे
स एव गृह्णीयान्न संसृष्ट्यपि विमातृज इति ।
तथा च याज्ञवल्क्यः ।
“संसृष्टिनन्तु संसृष्टी सोदरस्य तु सोदरः ।
दद्याच्चापहरेदंशं जातस्य च मृतस्य च ॥
अन्योदर्य्यस्तु संसृष्टी नान्योदर्य्यो धनं हरेत् ।
असंसृष्ट्यपि चादद्यात् संसृष्टो नान्यमातृजः ॥”
संसृष्टिनमाह बृहस्पतिः ।
“विभक्तो यः पुनः पित्रा भ्रात्रा चैकत्र
संस्थितः ।
पितृव्येणाथवा प्रीत्या स तु संसृष्ट उच्यते ॥”
तेन विभागानन्तरं मैत्र्यात् पितृभ्रातृपितृव्य-
भ्रातृपुत्त्राणां यथायथं एकवावस्थानं संसर्गः
तद्युक्तः संसर्गी । एवम्भूतस्य संसर्गिणो मृतस्य
पृष्ठ ५/२०६
धनं तज्जातस्यापत्यस्य तदपत्याभावे संसर्गो
स्वयं गृह्णीयात् । एवं सोदरस्य तु सोदरः ! ॥ * ॥
ततश्च स सृष्टिनस्तु संसृष्टीत्येतद्वचनं तुल्यरूप-
सम्बन्धिसंसर्गकृतविशेषप्रतिपत्त्यर्थं तेन सोद-
राणां सापत्नानां भ्रातृपुत्त्राणां पितृव्याणां
तुल्यानां सद्भावे संसर्गी गृह्णीयात् वाक्याद-
विशेषश्रुतेः । पूर्व्ववचने सर्व्वेषामेव प्रकृतत्वात्
सर्व्वेषु चाक्षेपासम्भवात् । अतो न भ्रातृमात्र-
विषयमिदं वचनमिति जीमूतवाहनः ॥ सोदरे
त्वसंसृष्टिनि संसृष्टिन्यसोदरे च सति कतर-
स्तावत् गृह्णीयात् । एवंसोदरासोदरयोः संसृ-
ष्टयोः सद्भावे कतर इत्यत्र प्रथमत आह
अन्योदर्य्यस्त्विति । अन्योदर्य्यः पुनः संसृष्टी
सन् गृह्णीयात् नान्योदर्य्यमात्रः किन्तु असं-
सृष्ट्यपि पूर्व्ववचनस्थसोदरपदानुषङ्गात् प्राप्तः
सोदरश्च गृह्णीयात् । तेन एकत्र विषये
पूर्ववचनोक्तसंसृष्टत्वसोदरत्वयोरेकशस्तुल्यत्वा-
दुभयोर्विभज्य ग्रहणम् । तदुभयसत्त्वे च असो-
दर्य्यस्यासंसृष्टिनोऽतुल्यरूपत्वात्नेति । द्वितीये
आह संसृष्टो नान्यमातृज इति । सोदरे
संसृष्टिनि सति अन्यमातृजः संसृष्ट्यपि न
गृह्णीयात् । अर्थात्तत्र संसृष्टी सोदर एव
गृह्णीयात् । संसृष्टत्वाविशेषेऽपि सोदरत्वेन तस्य
बलवत्त्वात् । दायभागकारास्तु अन्योदर्य्यस्तु
संसृष्टी सन् सत्यपि सोदरेऽसंसृष्टिनि धनं
हरेत् नान्योदर्य्यः संसृष्ट्यपि गृह्णीयादिति
पूर्व्वार्द्धस्यार्थः । तत्र किं सोदरस्तदानीं न
गृह्णीयादेवेत्यपेक्षायामुत्तरार्द्धेनोक्तंअसंसृष्ट्यपि
चादद्यात् सोदर इत्यनुषज्यते न संसृष्टोऽन्य-
मातृजः केवलः । किन्तु उभाभ्यामेव विभज्य
ग्रहीतव्यमित्याहुः । मिताक्षरादयोऽप्येवम् ।
याज्ञवल्क्यदीपकलिकायां शूलपाणिमहामही-
पाध्यायस्तु । अन्योदर्य्यस्तु संसृष्टी नान्योदर्थ्यी
धनं हरेत् । असंसृष्ट्यपि सोदर एव गृह्णीयात्
न तु संसृष्टः सापत्न्यो भ्राता । संसृष्ट इति
गभसंसृष्टः सोदर इति केचित् । नान्योदर्य्यो
धनं हरेत् इति पाठे अन्योदर्य्यः सन् धनं न
गृह्णीयात् इति व्याख्या असंसृष्टसोदरस्याधि-
कारार्थमिदं वचनमतो न पुनरुक्तिरित्याहुः ।
रत्राकरप्रभृतयस्तु कल्पतरौ नान्योदर्य्यधनं हरे
दिति पाठो दृश्यते स मूलभूतयाज्ञवल्क्यमिता
क्षरापारिजातहलायुधग्रन्थेषु नान्योदर्य्यो धनं
हरेदिति पाठदर्शनात् तदनुसारव्याख्यादर्श-
नाच्च लिपिकरप्रमाद इत्याहुः । इति दाय-
तत्त्वम् ॥

संसृष्टत्वं, क्ली, (संसृष्ट + त्व ।) संसृष्टस्य भावः ।

यथा । तेन एकत्र विषये पूर्ववचनोक्तसंसृष्टत्व-
सोदरत्वयोरेकशस्तुल्यत्वादुभयोर्विभज्य ग्रह-
णम् । इति दायतत्त्वम् ॥

संसृष्टी, [न्] पुं, संसृष्टं संसृष्टत्वमस्यास्तीति ।

इनिः ।) संसृष्टत्वविशिष्टः । यथा, याज्ञ-
वल्क्यः ॥
“संसृष्टिनन्तु संसृष्टी सोदरस्य तु सोदरः ।
दद्याच्चापहरेदंशं जातस्य च मृतस्य च ॥
अन्योदर्य्यस्तु संसृष्टी नान्योदर्य्यो धनं हरेत् ।
असंसृष्ट्यपि चादद्यात् संसृष्टो नान्यमातृजः ॥”
इति दायतत्त्वम् ॥

संस्कारः, पुं, (सं + कृ + घञ् ।) प्रतियत्नः ।

अनुभवः । मानसकर्म्म इति मेदिनी ॥ न्याय-
मते गुणविशेषः । स च त्रिविधः । वेगाख्य-
संस्कारः १ अयं मूर्त्तपदार्थस्थायी । क्वचिद्वेग-
जन्यः क्कचित्कर्म्मजन्यश्च । स्थितिस्थापक-
संस्कारः २ अयं पृथिवीगुणः केषाञ्चिन्मते पृथि-
व्यादिचतुःपदार्थगुणः । अयं अतिन्द्रियः
स्पन्दनकारणञ्च । भावनाख्यसंस्कारः ३ अयं
आत्मनः अतीन्द्रियगुणः । उपेक्षानात्मक-
निश्चयजन्यः । अयं स्मरणप्रत्यभिक्षयोः कार-
णञ्च ॥ * ॥ अस्य प्रमाणम् ।
“संस्कारभेदो वेगोऽथ स्थितिस्थापकभावने ।
मूर्त्तमात्रे तु वेगः स्यात् कर्म्मजो वेगजः क्वचित् ॥
स्थितिस्थापकमंस्कारः क्षितौ केचिच्चतुर्ष्वपि ।
अतीन्द्रियः स विज्ञेयः क्वचित् स्पन्देऽपि
कारणम् ॥
भावनाख्यस्तु संस्कारो जीववृत्तिरतीन्द्रियः ।
उपेक्षानात्मकस्तस्य निश्चयः कारणं भवेत् ॥
स्मरणे प्रत्यभिज्ञायामप्यसौ हेतुरुच्यते ॥”
इति भाषापरिच्छेदः ॥ * ॥
शुद्धिः अदृष्टविशेषजनककर्म्म । यथा । यद्यग्नि-
स्थापनान्तरं कर्म्मकाले वृष्ट्यादिशङ्कया संस्फृ-
ताग्निरन्यत्रानीयते तदा पुनर्भूसंस्ककारः
कर्त्तव्यः । संमुह्य उपलिप्य उल्लिख्य उद्धृत्य
अभ्युक्षयेत् एष संस्कारोऽनुगतोऽग्नौ भूयः ।
इति गृह्यान्तरात् । इति संस्कारतत्त्वम् ॥ * ॥
दशविधसंस्कारा यथा । विवाहः १ गर्मा-
धानम् २ पुसवनम् ३ सीमन्तोन्नयनम् ४
जातकर्म्म ५ नामकरणम् ६ अन्नप्राशनम् ७
चूडाकरणम् ८ उपनयनम् ९ समावर्त्तनम् १० ।
यथा हारीतः । गर्भाधानवदुपेतो ब्रह्मगर्भं
सन्दधाति पुंसवनात् पुंसीकरोति फलस्थापनात्
मातापितृज पाप्मानमपोहति रेतोरक्तगर्भो-
पघातः पञ्चगुणो जातकर्म्मणा प्रथममपोहति
नामकरणेन द्वितीयं प्राशनेन तृतीयं चूडा-
करणेन चतुर्थं स्नापनेन पञ्चमं एतैरष्टाभिः
संस्कारैर्गर्भोपघातात् पूतो भवतीति । स्नान-
मत्र समावर्त्तनरूपमिति कल्पतरुः । इति
संस्कारतत्त्वम् ॥ * ॥ याज्ञवल्क्यः ।
“गर्भाधानमृतौ पुंसः सवनं स्पन्दनात् पुरा ।
षष्ठेऽष्टमे वा सीमन्तः प्रसवे जातकर्म्म च ॥
अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः ।
षष्ठेऽन्नपाशनं माभि चूडा कार्य्या यथाकुलम् ॥
एवमेनः शमं याति बीजगर्भसमुद्भवम् ॥”
इति मलमासतत्त्वम् ॥ * ॥
संस्कृतानामधिकारमाह याज्ञवल्क्यः ।
“असस्कृतास्तु संस्कार्य्या भ्रातृभिः पूर्व्वसंस्कृतैः
भगिन्यश्च निजादंशाद्दत्त्वांशन्तु तुरीयकम् ॥”
असंस्कृता भ्रातरो भगिन्यश्च पूर्वसंस्कृतैरुप-
नीतैः । अन्यथा मन्त्रपाठानधिकारापत्तेःइत्यु-
द्बाहतत्त्वम् ॥ एषां विवरणं तत्तच्छब्दे द्रष्टव्यम् ।
गरुडपुराणोक्तसंस्कारास्तत्रैव ९३ । ९४ । ९५
अध्यायेषु द्रष्टव्याः ॥ * ॥
अथ जीर्णदेवगृहादिसंस्कारफलम् ।
“अथ चेज्जीर्णसंस्कारविधिः पुण्यो महामुने !
देवतादिषु कर्त्तव्यो महाभोगफलेप्सुभिः ॥
मूलादष्टगुणं पुण्यं जीर्णसंस्कारतो भवेत् ।
तस्मादनाथजीर्णेषु कार्य्यं संस्करणं मुने ! ।
स्वकीयं परकीयं वा यथाविभवविस्तरैः ॥
स्वतो वा परतो वाद्य यस्तु संस्कुरुते सुरान् ।
स यावच्चन्द्रसूर्य्यौ गौस्तावत्कालं सुखी-
भवेत् ॥
लोकेषु तेषु देवानां विरजस्केषु हृष्टधीः ।
यथा गोमेधयज्ञेषु पशुरोमसमाः समाः ॥
वसते दिवि हृष्टात्मा जीर्णसंस्कारकारकः ।
अनाथा वा सनाथा वा पूजनीयाः सदा सुराः ॥
इति देवीपुराणे पूजाविधिनामाध्यायः ॥

संस्कारजः, त्रि, संस्कारेण जातः । संस्कार-

शब्दपूर्वकजनधातोर्डप्रत्ययेन निष्पन्नः ॥

संस्कारवर्ज्जितः, पुं, (संस्कारेण जातः ।) उप-

नयनसंस्कारहीनः । तत्पर्य्यायः । व्रात्यः २ ।
इति हेमचन्द्रः ॥ दशसंस्कारहीने, त्रि ॥

संस्कारहीनः, पुं, (संस्कारहीनः ।) व्रात्यः ।

इत्यमरः ॥ संस्कारहीनत्वकालमाह । यमः ।
“पतिता यस्य सावित्री दशवर्षाणि पञ्च च ।
ब्राह्मणस्य विशेषेण तथा राजन्यवैश्ययोः ।
प्रायश्चित्तं भवेदेषां प्रोवाच वदतां वरः ॥”
तथा मार्कण्डेयः ।
“विप्रस्य षोडशाद्बर्षात् राज्ञो द्वाविंशतेः
परम् ।
वैश्यस्याष्टाधिकादब्दात् सावित्रीपतनं भवेत् ॥”
विष्णुधर्म्मोत्तरे ।
“षोडशाब्दा हि विप्रस्य राजन्यस्य द्विविं-
शतिः ।
विंशतिः सचतुर्थी च वैश्यस्य परिकीर्त्तिता ॥
सावित्री नातिरिच्येत अत ऊर्द्ध्वं निवर्त्तते ॥”
इति मलमासतत्त्वम् ॥

संस्कृतं, क्ली, (सं + कृ + क्तः ।) लक्षणोपेतम् ।

इति मेदिनी ॥ पाणिन्यादिकृतव्याकरणसूत्रेण
उपेत उपगतो लक्षणोपेतः साधुशब्दः । इत्य-
मरटीकायां भरतः ॥ स तु देववाणी । यथा,
“गौर्व्वाणवाणीवदनं मुकुन्द-
संकीर्त्तनञ्चेत्युभयं हि लोके ।
सुदुर्ल्लभ तच्च न मुग्धबोधा-
न्न लभ्यतेऽतः पठनीयमेतत् ॥”
इति मुग्धबोधव्याकरणप्रशंसाश्लोकः ॥

संस्कृतः, त्रि, (सं + कृ + क्तः ।) कृत्रिमः । इत्य-

मरः ॥ करणेन निर्वृत्तः कृत्रिमा घटादिः ।
इति भरतः ॥ पक्वः । स्वतो गुणान्तराधानम् ।
पृष्ठ ५/२०७
इत्यमरटीकायां स्वामी ॥ शस्तः । भूषितः ।
इति मेदिनी ॥ शोधितः । इति जटाधरः ॥
(यथा, देवीभागवते । १ । २ । ११ ।
“पुराणमुत्तमं पुण्यं श्रीमद्भागवताभिधम् ।
अष्टादशसहस्राणि श्लोकास्तत्र तु संस्कृताः ॥”)

संस्क्रिया, स्त्री, (सं + कृ + “कृञः शच ।” ३ ।

३ । १०० । इति शः ।) शवदाहादिक्रिया ।
इति त्रिकाण्डशेषः ॥ संस्कारश्च ॥

संस्तरः, पुं, (संस्तीर्य्यते इति । सं + स्तॄ +

अप् ।) शय्या । यज्ञः । इति हेमचन्द्रः ॥
पल्लवादिरचितशय्या । इति शब्दरत्नावली ॥
(यथा, रघुः । ८ । ५७ ।
“नवपल्लवसंस्तरेऽपि ते
मृदु दूयेत् यदङ्गमर्पितम् ।
तदिदं विषहिष्यते कथं
वद बामोरु चिताधिरोहणम् ॥”)

संस्तवः, पुं, (सं + स्तु + अप् ।) परिचयः ।

इत्यमरः ॥ (यथा, किराते । ४ । २५ ।
“विहाय वाञ्छामुदिते मदात्यया-
दरक्तकण्ठस्य रुते शिखण्डिनः ।
श्रुतिः श्रयत्युस्मदहसनिःस्वनं
गुणाः प्रियत्वेऽधिकृता न संस्तवः ॥”)
सम्यक्स्तुतिश्च ॥ (यथा, भागवते । ११ । १३ । १४ ।
“इति मे छिन्नसन्देहा मुनयः सनकादयः ।
समाजयित्वा परया भक्त्या गृणत संस्तवैः ॥”)

संस्तवानः, त्रि, (संस्तवीतीति । सं + स्तु +

“सम्यानच् स्तुवः ।” उणा० ३ । ८९ । इति
आनच् ।) सद्वक्ता । इत्युणादिकोषः ॥ वाग्मी ।
उद्गाता । हर्षः । इति संक्षिप्तसारोणादिवृत्तिः ॥

संस्तावः, पुं, (समेत्य स्तुवन्ति यस्मिन् देशे छन्दोगा

इति । सम् + स्तु + “यज्ञे समि स्तुवः ।” ३ ।
३ । ३१ । इति घञ् ।) क्रतुषु द्विजन्मनां
स्तुतिभूमिः । इत्यमरः ॥ यज्ञेषु स्तुतिकारिणां
ब्राह्मणानां अवस्थानभूमिः संस्ताव उच्यते ।
क्रतुषु यज्ञविषयेषु द्विजानां या स्तुतिभूमिः
स्थानं स संस्ताव इत्यन्वयः । समेत्य स्तूयते
छन्दोगरत्र इति संस्तावः घञ् । इति भरतः ॥

संस्तुतः, त्रि, (सं + स्तु + क्तः ।) सम्यक्प्रकारेण

स्तुतिप्राः । सम्यक्स्तवविषयीभूतः । यथा, --
“भूयश्च शतवार्षिक्यामनावृष्ट्यामनम्भसि ।
मुनिभिः संस्तुता भूमौ सम्भविष्याम्ययोनिजा ॥”
इति देवीमाहात्म्यम् ॥

संस्त्यायः, पुं, (सं + स्त्यै + घञ् । आतो युक् ।)

संघातः । सन्निवेशः । इत्यमरः ॥ संस्थानम् ।
विस्तृतिः । इति मेदिनी ॥ गृहम् । इति हेम-
चन्द्रः ॥

संस्थः, पुं, (संतिष्ठते स्वपरराष्ट्रेषु इति । सं +

स्था + कः ।) चरः । इति मेदिनी ॥ निज-
राष्ट्रकः इति हेमचन्द्रः ॥ (यथा, कामन्द-
कीये । १२ । ३६ ।
“सस्थाः स्युश्चारसंस्थित्यै दत्तदायाः शुभा-
शयाः ॥”)

संस्थः, त्रि, (संतिष्ठते इति । सं + स्था + कः ।)

अवस्थितः । इति मेदिनी ॥ (यथा, हरिवशे
भविष्यपर्व्वणि । ८ । ६६ ।
“यदा मे मरणं भूयात् तदा मा भूत् स्मृतिभ्रमः ।
दिने दिने क्षणं चित्तं त्वयि संस्थं भवत्विति ॥”)
मृतः । इति शब्दरत्नावली ॥

संस्था, स्त्री, (संतिष्ठतेऽनयेति । सं + स्था +

अङ् ।) न्याय्यपथस्थितिः । इत्यमरः ॥ सन्ति-
ष्ठतेऽनया सम्यगवस्थानं वा संस्था । इति
भरतः ॥ अस्याः पर्य्यायो मर्य्यादाशब्दे द्रष्टव्यः ॥
(यथा, उपदेशशतके । ९० ।
“अपि शक्तः परिहर्त्तुं ययातिशापं हरिर्हते
कंसे ।
राजासनं न भेजे पुरातनीं पालयेत् संस्थाम् ॥”
प्रतिज्ञा । यथा, रघुः । ११ । ३८ ।
“तस्य वीक्ष्य ललितं वपुः शिशोः
पार्थिवः प्रथितवंशजन्मनः ।
स्वं विचिन्त्य च धनुर्दुरानमं
पीडितो दुहितृशुल्कसंस्थया ॥”)
स्थितिः सादृश्यम् । नाशः । इति मेदिनी ॥
व्यवस्था । (यथा, मनुः । १ । २१ ।
“सर्व्वेषान्तु स नामानि कर्म्माणि च पृथक्
पृथक् ।
वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्म्ममे ॥”)
व्यक्तिः । क्रुतुभेदः । (यथा, भागवते । १० ।
२३ । ८ ।
“दीक्षायाः पशुसंस्थायाः सोत्रामण्याश्च
सत्तमाः ।
अन्यत्र दीक्षितस्यापि नान्नमश्नन् हि दुष्यति ॥”
समाप्तिः । इति हेमचन्द्रः ॥ प्रलयचतुष्टयम् ।
यथा, --
“नैमित्तिकः प्राकृतिको नित्य आत्यन्तिको
लयः ।
संस्थेति कविभिः प्रोक्तश्चतुर्धास्य स्वभावतः ॥”
इति पुराणम् ॥

संस्थानं, क्ली, (सं + स्था + ल्युट् ।) सन्निवेशः ।

(यथा, मनुः । ८ । ३७१ ।
“भर्त्तारं लङ्घयेत् या तु स्त्रीज्ञातिगुणदर्पिता ।
तां श्वभिः खादयेद्राजा संस्थाने बहुसंस्थिते ॥”)
चतुष्पथः । इत्यमरः ॥ आकृतिः । मृत्युः ।
इति मेदिनी ॥ चिह्नम् । इत्यजयपालः ॥ सम्यक्
स्थितिश्च ॥ (व्यवस्था । यथा, भागवते । ३ ।
९ । २७ ।
“लोकसंस्थानविज्ञान आत्मानं परिखिद्यतः ।
तामाहागाधया वाचा कश्मलं शमयन्निव ॥”)

संस्थापनं, क्ली, (स + स्था + णिच् + ल्युट् ।)

सम्यक्स्थितिप्रापणम् । स्थिरीकरणम् । यथा,
“परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्म्मसंस्थापनार्थाय संभवामि युगे युगे ॥”
इति भगवद्गीतायाम् ३ अध्यायः ॥
“साधुरक्षणेन दुष्टवधेन च धर्म्मं स्थिरीकर्त्तुम् ।”
इति तट्टीमायां श्रीधरस्वामी ॥

संस्थितः, त्रि, (स + स्था + क्तः ।) मृतः । इत्य-

मरः ॥ (यथा, मनुः । ९ । १९० ।
“संस्थितस्यानपत्यस्य सगोत्रात् पुत्त्रमाहरेत् ।
यत्र यदृक्थजातं स्यात् तत्तस्मिन् प्रतिपाद-
येत् ॥”)
सम्यक्स्थितिविशिष्टश्च ॥ (यथा, कौर्म्मे । १ । २१ ।
“इदन्तु पञ्चदशमं पुराणं कौर्म्ममुत्तमम् ।
चतुर्द्धासंस्थितं पुण्यं संहितानां प्रभेदतः ॥”

संस्थितिः, स्त्री, (सं + स्था + क्तिन् ।) संस्था-

नम् । (यथा, मनुः । ६ । ९० ।
“यथा नदीनदाः सर्वे सागरे यान्ति संस्थि-
तिम् ।
तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥”
मृत्युः । गृहम् । इति केचित् ॥

संस्पर्शः, पुं, (सं + स्पृश + घञ् ।) सम्यक्-

स्पर्शः । स तु त्वगिन्द्रियग्राह्यगुणविशेषः । यथा,
छागलेयः ।
“आलापात् गात्रसंस्पर्शात् निश्वासात् सह-
भोजनात् ।
सहशय्यासनाध्यायात् पापं संक्रमते नृणाम् ॥”
इति प्रायश्चित्तविवेकः ॥

संस्पर्शा, स्त्री, (संस्पृश्यतेऽसौ इति । सं + स्पृश

+ कर्म्मणि घञ् । टाप् ।) जनीनामगन्ध-
द्रव्यम् । इत्यमरः ॥

संस्फालः, पुं, (सम्यक् स्फालः स्फुरणं यस्य ।)

मेषः । इति त्रिकाण्डशेषः ॥

संस्फुटः, त्रि, (संस्फुटतीति । सं + स्फुट + इ-

गुपधेति कः ।) विकसितः । इति शब्दरत्नावली ॥

संस्फेटः, पुं, (सं + स्फिट अनादरे + अधिकरणे

घञ् ।) युद्धम् । इत्यभरटीकायां भरतः ॥

संस्फोटः, पुं, (संस्फोटत्यत्रेति । सं + स्फुट् भेदने

+ घञ् ।) युद्धम् । इत्यमरः ॥

संस्मरणं, क्ली, (सं + स्मृ + ल्युट् ।) संस्मृतिः ।

संस्कारजन्यज्ञानम् । यथा, योगियाज्ञवल्क्यः ।
“ध्यायेन्नारायणं नित्यं स्नानादिषु च कर्मसु ।
तद्विष्णोरिति मन्त्रेण स्नायादप्सु पुनः पुनः ॥
गायत्त्री वैष्णवी ह्येषा विष्णोः संस्मरणाय वै ।”
इति तिथ्यादितत्त्वम् ॥

संस्मृतिः, स्त्री, संस्मरणम् । संपूर्वस्मृधातोः

क्तिन्प्रत्ययेन निष्पन्ना ॥ (यथा, कथासरित्-
सागरे । ५५ । २०६ ।
“तच्छ्रुत्वा संस्मृतिं लब्ध्वा स राजा प्रत्युवाच
तम् ॥”)

संहतः, त्रि, (सं + हन + क्तः ।) दृढसन्धिः ।

इत्यमरः ॥ मिलितः । दृढः । इति मेदिनीकर-
हेमचन्द्रौ ॥ सम्यक्प्रकारेण हतश्च ॥

संहतजानुः, त्रि, (संहते जानुनी यस्य ।)

लग्नजानुकः । यथा, --
“प्रज्ञुः प्रगतजानुः स्यात् प्रज्ञोऽत्रैव च दृश्यते
संज्ञुः संहतजानुश्च भवेत् संज्ञोऽपि तत्र हि ।
ऊर्द्ध्वज्ञु रूर्द्ध्वजानुः स्यादूर्द्ध्वज्ञोऽप्यूर्द्ध्वजानुकः ॥”
इति भरतधृतसाहसाङ्कः ॥
पृष्ठ ५/२०८

संहतजानुकः, त्रि, (संहतजानुरेव । स्वार्थे कन् ।)

लग्नजानुकः । तत्पर्य्यायः । संज्ञुः २ । इत्य-
मरः ॥ संहतजानुः ३ संज्ञः ४ । इति तट्टी-
कायां भरतः ॥

संहतलः, पुं, (संहतं परस्परयोर्मेलनं लातीति ।

ला + कः ।) मिलितपाणिद्वयम् । इत्यमरः ॥
द्वौ वामदक्षिणौ प्रतलौ संहतौ मिलितौ
संहतल उच्यते । प्रतलद्धयं मिलितं संहतलः ।
स्यादित्यर्थः । संहतं लाति संहतलः हन-
जनादितिडः । निर्विसर्गपाठे द्वौ वामदक्षिणौ
पाणी संहतौ मिलितौ च्रेत् तदा संहतल-
पतलावुच्येते । अस्मिन्नर्थे प्रतलोऽयं चपेटे संह-
तले च वर्त्तमानत्वात् नानार्थः । इति भरतः ॥

संहतिः, स्त्री, (सं + हत + क्तिन् ।) समूहः ।

इत्यमरः ॥ (यथा, हितोपदेशे ।
“अल्पानामपि वस्तूनां संहतिः कार्य्यसाधिका ।
तृणैर्गुणत्वमापन्नैर्वध्यन्ते मत्तदन्तिनः ॥”)

संहननं, क्ली, (संहन्यते इति । सं + हन +

ल्युट् ।) शरीरम् । इत्यमरः ॥ (यथा, भाग-
तते । ५ । २ । २१ ।
“आग्नीध्रसुतास्ते मातुरनुग्रणादौत्पत्तिकेनैव
संहननबलोपेताः पित्रा विभक्ता आत्मतुल्य-
नानामि यथाविभागं जम्बूद्बीपवर्षाणि बुभुजुः ॥”
सम्यग्घातनञ्च ॥ (कठिने, त्रि । यथा, भाग-
वते । ५ । ९ । १० ।
“शीतोष्णवातवर्षेषु वृष इवानाधृताङ्गः पीनः
संहननाङ्गः * * * विचचार ॥” “संहन्यन्ते
निविडीभवन्ति अङ्गानि यस्य । कठिनावयव
इत्यर्थः ॥” इति तट्टीकायां स्वामी ॥)

संहराख्यः, पुं, (संहर इति आख्या यस्य ।)

पावकनामाग्निः । इति मत्स्यपुराणम् ॥

संहर्षः, पुं, (सं + हृष + घञ् ।) प्रमोदः ।

स्पर्द्धा । (यथा, महाभारते । ३ । २१८ । २४ ।
“संहर्षाद्वारयन् क्रोधं धन्वी स्रस्वी रथस्थितः ।
समरे नाशयेत् शत्रूनमोघो नाम पावलः ॥”
वायुः । इति विश्वमेदिन्यौ ॥ (लोमहर्षः ।
यथा, सुश्रुते । ६ । ६ ।
“दाहसंहर्षताभ्रत्वशोकनिस्तोदगौरवैः ॥”)

संहवनं, क्ली, सम्यक्प्रकारेणाहुतिः । संपूर्व्व-

हुधातोर्भावेऽनट् (ल्युट्) प्रत्ययेन निष्पन्नम् ॥

संहारः, पुं, (संह्रियतेऽनेनेति । सं + हृ +

“अध्यायन्यायेति ।” ३ । ३ । १२२ । इति घञन्तः
साधुः ।) नरकविशेषः । इत्यमरः ॥ प्रलयः ।
इति हेमचन्द्रः ॥ (यथा, मनुः । १ । ८० ।
“मन्वन्तराण्यसंख्यानि सर्गः संहार एव च ।
काडविवैतत् कुरुते परमेष्ठी पुनः पुनः ॥”)
मक्षेपः । इति जटाधरः ॥ संहरणञ्च ॥ (यथा,
रघुः । ५ । ५७ ।
“संमोहनं नाम सखे ! ममास्त्रं
प्रयागम हारविभक्तमन्त्रम् ॥”)

संहारमदा, स्त्री, (संहारस्य मुद्रा ।) विस-

र्ज्जनमुद्रा । यथा, राघवभट्टधृतम् ।
“अधोमुखे वामहस्ते ऊर्द्ध्वास्यं दक्षहस्तकम् ।
क्षिप्ताङ्गुलीरङ्गुलीभिः संगृह्य परिवर्त्तयेत् ।
प्रोक्ता संहारमुद्रेयमर्पणे तु प्रशस्यते ॥”
अर्पणे आत्मनीति शेषः । इति तिथ्यादितत्त्वम् ॥
भैरवविशेषः । यथा, --
“असिताङ्गो रुरुश्चण्डः क्रोध उन्मत्त एव च ।
कपाली भीषणश्चैव संहाराश्चाष्ट भैरवाः ॥”
इति तन्त्रम् ॥

संहितः, त्रि, मिलितः । संपूर्व्वधाधातोः क्तप्रत्य-

येन निष्पन्नः ॥

संहितपुष्पिका, स्त्री, (संहितानि मिलितानि

पुष्पाणि यस्याः । कापि अत इत्वम् ।) मिश्रेया ।
इति राजनिर्घण्टः ॥

संहिता, स्त्री, सम्यक् (धीयते स्मेति । धा +

कर्म्मणि क्तः । यद्धा सम्यक् हितं प्रतिपाद्यं
यस्याः ।) मन्वादिप्रणीतधर्म्मशास्त्रम् । तत्प-
र्य्यायः । स्मृतिः २ धर्म्मसंहिता ३ श्रुति-
जीविका ४ । इति शब्दरत्नावली ॥ संहिता-
विशेषा यथा, --
“एवं पुराणसंख्यानं चतुर्लक्षमुदाहृतम् ।
अष्टादशपुराणानामेवमेव विदुर्बुधाः ।
एवञ्चोपपुराणानामष्टादश प्रकीर्त्तिताः ॥
इतिहासो भारतञ्च वाल्मीकं काव्यमेव च ।
पञ्चकं पञ्चरात्राणां कृष्णमाहात्स्यमुत्तमम् ॥
वाशिष्ठं नारदीयञ्च कापिलं गौतमीयकम् ।
परं सनत्कुमारीयं पञ्चरात्रञ्च पञ्चकम् ।
पञ्चम्यः सहितानाञ्च कृष्णभक्तिसमन्विताः ।
ब्रग्मणश्च शिवस्यापि प्रह्रादस्य तथैव च ।
गौतमस्य कुमारस्य संहिताः परिकीर्त्तिताः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १३२ अध्यायः ॥
अपि च ।
“इदन्तु पञ्चदशमं पुराणं कौर्म्ममुत्तमम् ॥
चतुर्धा संस्थितं पुण्यं संहितानां प्रभेदतः ॥
ब्राह्मी भागवती शैवी वैष्णवी च प्रकीर्त्तिता ।
चतस्रः संहिताः पुण्या धर्म्मकामार्थमोक्षदाः ॥
इयन्तु संहिता ब्राह्मी चतुर्व्वेदैः समन्यिता ।
भवन्ति षट्सहस्राणि श्लोकानामत्र संख्यया ॥”
इति कौर्म्मे १ अध्यायः ॥
तत्र स्कन्दपुराणोक्तषट्संहिता यथा, --
“स्कान्दमद्याभिवक्ष्यामि पुराणं श्रुतिसम्मितम् ।
षड्विधं संहिताभेदैः पञ्चाशत्खण्डमण्डितम् ॥
आद्या सनत्कुमारोक्ता द्वितीया सूतसंहिता ।
तृतीया शाङ्करी विप्राश्चतुर्थी वैष्णवी मता ॥
तत्परा संहिता ब्राह्मी सौरान्त्या संहिता मता ।
ग्रन्थतः पञ्चपञ्चाशत्सहस्रेणोपलक्षिता ॥
आद्या तु संहिता विप्रा द्वितीया षट्सहस्रिका ।
तृतीया ग्रन्थतस्त्रिंशत् सहस्रेणोपलक्षिता ।
तुरीया संहिता पञ्चसहस्रेणोपलक्षिता ।
ततोऽन्ना त्रिसहस्रेण ग्रन्थेनैव विनिर्म्मिता ।
अन्या सहस्रतः सृष्टा ग्रन्थतः पण्डितोत्तमाः ॥”
इति स्कन्दपुराणे सूतसंहितायां शिवमाहात्म्य-
खण्डे १ अध्यायः ॥

संहूतिः, स्त्री, (सं + ह्वे + क्तिन् ।) बहुभिः

कृताह्वानम् । इत्यमरः ॥

संहृतः, त्रि, (सं + हृ + क्तः ।) कृतसंहारः । यथा,

“अहं विभूत्या बहुभिरिह रूपैर्यदा स्थिता ।
तत् संहृतं मयैकैव तिष्ठाम्याजौ स्थिरो भव ॥”
इति मार्कण्डेयपुराणीयदेवीमाहात्म्यम् ॥

संहृतिः, स्त्री, (सं + हृ + क्तिन् ।) संहारः ।

यथा, --
“विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने ।
तथा संहृतिरूप्रान्ते जगतोऽस्य जगन्मये ॥”
इति मार्कण्डेयपुराणे देवीमाहात्म्यम् ॥

संक्षयः, पुं, (सं + क्षि + अच् ।) नाशः । यथा, --

“रिपवः संक्षयं यान्ति कल्याणं चोपपद्यते ।
नन्दते च कुलं पुंसां माहात्म्यं मम शृण्वताम् ॥”
इति मार्कण्डेयपुराणे देवीमाहात्म्यम् ॥
प्रलयः । इति शब्दरत्नावली ॥

संक्षिप्तः, त्रि, (सं + क्षिप् + क्तः ।) कृतसंक्षेपः ।

संक्षेपविशिष्टः । यथा, --
“ससाहृत्यान्यतन्त्राणि संहिप्तैः प्रतिसंस्कृतैः ।
सम्पूर्णमुच्यते वर्गैर्नामलिङ्गानुशासनम् ॥”
इत्यमरः ॥
संक्षिप्तैः अल्पेनैव बह्वर्थप्रतिपादकतयाभि-
हितैः । इति तट्टीकायां भरतः ॥

संक्षेपः, पुं, (सं + क्षिप् + घञ् ।) स्तोकेन भूयसो-

ऽभिधानम् । इत्यमरटीकायां भरतः ॥ चुम्बक
इति स्वल्प इति च ख्यातः ॥

संक्षुब्धः, त्रि, (सं + क्षुभ + क्तः ।) सञ्चलनविशिष्टः ।

इति क्षुभधात्वर्थदर्शनात् । आकुलः । यथा, --
“दृष्ट्वा समस्तं संक्षुब्धं त्रैलोक्यममरारयः ।
सन्नद्धाखिलसैन्यास्ते समुत्तस्थरुदायुधाः ॥”
इति मार्कण्डेयपुराणे देवीमाहात्मम् ॥

संक्षेपणं, क्ली, (सं + क्षिप् + ल्युट् ।) विस्ती-

र्णानां संक्षेपः । प्रपञ्चकरणवैपरीत्यम् । इति
भरतः ॥ तत्पर्य्यायः । समसनम् २ । इत्यमरः ॥
संहारः ३ समाहारः ४ संग्रहः ५ समासः ६ ।
इति जटाधरः ॥

संक्षोभः, पुं, (सं + क्षुभ + घञ् ।) चाञ्चल्यम् ।

सञ्चलनम् । यथा । “संक्षोभमक्षरयुषामपि
चित्ततन्वोः ।” इति श्रीभागवतम् ॥

सकः, पुं, पूर्व्वोक्तपरामर्शकः । से इति भाषा ।

तच्छब्दस्य टेः पूर्व्वं अकि परत्र
आप्प्रत्यये च कृते प्रथमैकवचणनिष्पन्नं पद-
द्वयम् ॥ (यथा, ऋग्वेदे । १ । १९१ । ११ ।
“इयत्तिका शकुन्तिका सका जघास ते विषम् ॥”)

सका, स्त्री, पूर्व्वोक्तपरामर्शकः । से इति भाषा ।

तच्छब्दस्य टेः पूर्व्वं अकि परत्र
आप्प्रत्यये च कृते प्रथमैकवचणनिष्पन्नं पद-
द्वयम् ॥ (यथा, ऋग्वेदे । १ । १९१ । ११ ।
“इयत्तिका शकुन्तिका सका जघास ते विषम् ॥”)

सकटः, पुं, (कटेन अशुचिना शवादिना सह

वर्त्तमानः ।) शाखोटवृक्षः । इति भूरिप्रयोगः ॥

सकटान्नं, क्ली, (कटशब्देनाशौचं लक्ष्यते तत्-

सहचरितमन्नं सकटान्नम् । इति मिताक्षरा ।)
अशुद्धानम् । इति केचित् ॥ (यथा, याज्ञ-
वल्क्यः । ३ । १५ ।
“आचार्य्यपित्रुपाध्यायान्निर्हृत्यापि व्रती व्रती ।
सकटान्नं न चाश्नीयात् न च तैः सह संवसेत् ॥”
पृष्ठ ५/२०९

सकण्टकः, पुं, (कण्टकेन सह वर्त्तमानः ।)

शैवालः । इति शब्दचन्द्रिका ॥ करञ्जविशेषः ।
इति रत्नमाला ॥ नाटाकरञ्ज इति भाषा ॥
कण्टकयुक्ते, त्रि । यथा, --
“शीतलोष्णसमायुक्तसकण्टकदलान्वित ।
हर पापमपामार्ग भ्राम्यमाणः पुनः पुनः ॥”
इति तिथ्यादितत्त्वम् ॥
(लोमाञ्चिते च त्रि । यथा, कथासरित्-
सागरे । २५ । २२० ।
“स तं साहसिकस्पर्शभीतैरिव सकण्टकैः ।
अङ्गैः प्रणतमालिङ्ग्य मुमुदे भूपतिश्चिरम् ॥”)
सकरः, त्रि, हस्तयुक्तः । राजस्वविशिष्टः । शुण्ड-
युक्तः । किरणविशिष्टः । करेण सह वर्त्तते
योऽसौ । इति बहुव्रीहिसमासनिष्पन्नः ॥

सकरुणः, त्रि, (करुणया सह वर्त्तमानः !)

करुणायुक्तः । सदयः । यथा, --
“भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा-
मिति स्तोतुं वाच्छन् कथयति भवानि त्वमिति
यः ।
तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं
मुकुन्दब्रह्येन्द्रस्फुटमुकुटनीराजितपदाम् ॥”
इत्यानन्दलहरी ॥

सकर्णः, त्रि, (कर्णाभ्यां सह वर्त्तमानः ।) श्रवण-

शीलः । तत्पर्य्यायः । श्रुतितत्परः २ । इति
जटाधरः ॥ कर्णयुक्तश्च ॥

सकर्म्मकः, पुं, (कर्म्मणा सह वर्त्तमानः । कप् ।)

कर्म्मयुक्तधातुः । कर्म्मान्वयिक्रियार्थकः । यथा ।
क्वचित् सकर्म्मकाद्धातोर्भावेऽपि क्रियाव्याप्ति-
रस्ति । यथा । कां दिशं गन्तव्यम् । इति मुग्ध-
बोधटीकायां दुर्गादासः ॥ (कर्म्मयुक्ते, त्रि ।
यथा, भागवते । ५ । २० । ३२ ।
“तद्वर्षपुरुषा भगवन्तं ब्रह्मरूपिणं सकर्म्मकेण
कर्म्मणाराधयन्ति ॥” “सकर्म्मकेण ब्रह्मसालो-
क्यादिसाधनेन ।” इति तट्टीका ॥)

सकलं, त्रि, (कलया सह वर्त्तमानम् ।) समु-

दायः । तत्पर्य्यायः ! समम् २ सर्व्वम् ३ विश्वम् ४
अशेषम् ५ कृत्स्नम् ६ समस्तम् ७ निखिलम् ८
अखिलम् ९ निःशेषम् १० समग्रम् ११ पूर्णम् १२
अखण्डम् १३ अमूलकम् १४ । इत्यमरः ॥
अनन्तम् १५ । इति शब्दरत्नावली ॥ (यथा,
भागवते । ४ । २८ । ४ ।
“द्वार्भिः प्रविश्य सुभृशं प्रार्दृयन् सकलां पुरीम् ॥”
कला प्रकृतिस्तया सह वर्त्तते इति । सगुणम् ।
यथा महाभारते । १३ । १६ । ८ ।
“निष्कलं सकलं ब्रह्म निर्गुणं गुणगोचरम् ॥”)

सकामः, त्रि, (कामेन सह वर्त्तमान इति ।)

कामनाविशिष्टः । यथा, --
“अकामो वा सकामो वा यत्र क्वापि बहिर्जले
इह चामुत्र दुःखानि माघस्नायी न पश्यति ॥”
इति तिथ्यादितत्त्वम् ॥

सकाशः, पुं, (काशः प्रकाशस्तेन सह वर्त्तते इति ।)

समीपः । यथा, --
“देवि दैत्येश्वरः शुम्भस्त्रै लोक्ये परमेश्वरः ।
दूतोऽहं प्रेषितस्तेन त्वत्सकाशमिहागतः ॥”
इति मार्कण्डेयपुराणे देवीमाहात्म्यम् ॥
काशयुक्ते, त्रि ॥

सकुरुण्डः, पुं, साकुरुण्डवृक्षः । इति राज-

निर्घण्टः ॥

सकुलः, पुं, (कुलेन सह वर्त्तते इति ।) शकुल-

मत्स्यः । इति शब्दरत्नावली ॥

सकुल्यः, त्रि, (समाने कुले भवः । यत् ।)

सगोत्रः । यथा, --
“जारो लङ्गः सगोत्रास्तु स्वजनज्ञातिबान्धवाः ।
सकुल्यबन्धुदायादस्वसमानोदका अपि ॥”
इति जटाधरः ॥ * ॥
स्वावध्यूर्द्ध्वतनाष्टमावधिदशमपुरुषपर्य्यन्तपुरुष-
त्रयम् । तेषां दशमपुरुषपर्य्यन्तसन्ततिः । स्वाव-
ध्यधस्तनाष्टमावधिदशमपुरुषपर्य्यन्तसन्ततिश्च ॥
तेषामशौचं यथा, बृहस्पतिः ।
“दशाहेन सपिण्डास्तु शुध्यन्ति प्रेतसूतके ।
त्रिरात्रेण सकुल्यास्तु स्नात्वा शुध्यन्ति
गोत्रजाः ॥”
इति शुद्धितत्त्वम् ॥ * ॥
दायाधिकारिसकुल्यास्तु पञ्चमपुरुषावधयः ।
यथा । बौधायनः । प्रपितामहः पितामहः
पिता स्वयं सोदर्य्यभ्रातरः सवर्णायाः पुत्त्रः
पौत्त्रः प्रपौत्त्रो वा एतानविभक्तदायादान्
सपिण्डान् आचक्षते । विभक्तदायादान् सकु-
ल्यान् आचक्षते सत्सङ्गजेषु तद्गामी ह्यर्थो भव-
तीति । इति दायतत्त्वं शुद्धितत्त्वञ्च ॥ * ॥ तस्य
कन्यादानाधिकारित्वं यथा । विष्णुः । पिता
पितामहो भ्राता सकुल्यो मातामही माता
चेति कन्याप्रदः पूर्व्वनाशे प्रकृतिस्थः परः
परः । नारदश्च ।
‘पिता दद्यात् स्वयं कन्यां भ्राता वानुमतः पितुः
मातामहो मातुलश्च सकुल्यो बान्धवस्तथा ॥
माता त्वभावे सर्व्वेषां प्रकृतौ यदि वर्त्तते ।
तस्यामप्रकृतिस्थायां कन्यां दद्युः स्वजातयः ॥’
इत्युद्वाहतत्त्वम् ॥

सकुली, स्त्री, मत्स्यविशेषः । अस्या गुणादि-

स्तालव्यशकारादिशकुलशब्दे द्रष्टव्यः ॥

सकृत्, व्य, (एक + “एकस्य सकृच्च ।” ५ । ४ । १९ ।

इति सुच् सकृदादेशश्च । संयोगास्येति सुचो
लोपः ।) एकवारम् । (यथा, --
“सकृदंशो निपपति सकृत् कन्या प्रदीयते ।
सकृदाह ददानीति त्रीण्येतानि सकृत् सकृत् ॥”
इति महाभारतम् ॥)
सह । इत्यमरः ॥ विष्ठा । इति तट्टीका ॥
(अस्मिन्नर्थे तालव्यशकारस्य प्रयोगः प्रायशो
दृश्यते ॥)

सकृत्प्रजः, पुं, (सकृत् प्रजा यस्य ।) काकः ।

इत्यमरः ॥ जातैकमात्रापत्ये, त्रि ॥

सकृत्फला, स्त्री, (सकृत् फलानि यस्याः ।)

कदली । इति राजनिर्घण्टः ॥

सकृद्गर्भः, पुं, (सकृत् गर्भो यस्य ।) खेसरः ।

इति राजनिर्घण्टः ॥ एकमात्रगर्भिण्यां, स्त्री ॥

सकृद्वीरः, पुं, (सकृत् वीर इव ।) एकवीरवृक्षः ।

इति राजनिर्घण्टः ॥

सक्तः, त्रि, (सन्ज + क्तः ।) अविरतः । इति

हेमचन्द्रः ॥ आसक्तः ॥ (यथा, रामायणे ।
६ । ४ । ११८ ।
“अन्योन्यैराहताः सक्ता सस्वनुर्भीमनिःस्वनाः
ऊर्म्मयः सिन्धुराजस्य महाभेर्य्य इवाहवे ॥”)

सक्तिः, स्त्री, सङ्गः । सन्जधातोः क्तिप्रत्ययेन

निष्पन्ना ॥ (यथा, किराते । ५ । ४६ ।
“सक्तिं जवादपनयत्यनिले लतानां
वैरोचनैर्द्विगुणिताः सहसा मयूखैः ।
रोधोभुवां मुहुरमुत्र हिरण्मयीनां
भासस्तडिद्विलसितानि विडम्बयन्ति ॥”)

सक्तुः, पुं, (सच्यते सिच्यते इति । सच सेचने +

“सितनिगमिमसिसचीति ।” उणा० १ । ७० ।
इति तुन् ।) भृष्टयवादिचूर्णः । छातु इति
भाषा । यथा, --
“भृष्टा यवाः पुनर्धाना धानाचूर्णन्तु सक्तवः ॥”
इति हेमचन्द्रः ॥
अस्य गुणादिः तालव्यादिशक्तुशब्दे द्रष्टव्यः ॥
(यथा, कथासरित्सागरे । ४ । १२२ ।
“एकः शरावः सक्तूनामेकः प्रत्यहमम्भसः ।
शकटालस्य तत्रान्तः सपुत्त्रस्य न्यधीयत ॥”
अर्द्धर्च्चादित्वात् क्लीवलिङ्गेऽपि दृश्यते ॥ प्रायशो
ऽयं शब्दः बहुवचने प्रयुज्यते ॥)

सक्तुकः, पुं, (सक्तुरिव । कन् ।) विषभेदः ।

इति हेमचन्द्रः ॥ स्वार्थे के सक्तुश्च ॥

सक्तुफला, स्त्री, (सक्तव इव फलानि यस्याः ।

अजादित्वात् टाप् ।) शमीवृक्षः । इत्यमरः ॥

सक्तुफली, स्त्री, (सक्तव इव फलानि यस्याः ।

ङीष् ।) शमीवृक्षः । इति शब्दरत्नावली ॥

सक्थि, [न्] क्ली, (सज्यते इति । सन्ज सङ्गे +

“असिसञ्जिभ्यां क्थिन् ।” उणा० ३ । १५४ ।
क्थिन् ।) ऊरुः । इत्यमरः ॥ (यथा, मार्क-
ण्डेये । १८ । ४९ ।
“नृणां पदे स्थिता लक्ष्मीर्निलयं संप्रयच्छति ।
सक्थ्नोश्च संस्थिता वस्त्रं तथा नानाविधं वसु ॥”)
शकटावयवविशेषः । इत्युणादिकोषः ॥

सक्षमः, त्रि, क्षमताविशिष्टः । क्षमाविशिष्टः ।

क्षमेण क्षमया वा सह वर्त्तमानः । इति बहु-
व्रीहिनिष्पन्नः ॥

सक्षारः, त्रि, लवणयुक्तः । क्षारेण सह वर्त्तमानः ।

इति बहुव्रीहिसमासनिष्पन्नः ॥ (यथा, सुश्रुते ।
१ । ४५ ।
“वातश्लेष्महरं वाप्यं सक्षारं कटुपित्तलम् ॥”)

सखा, [इ] पुं, (समानः ख्यायते इति । समान +

ख्या + “समाने ख्यः सचोदात्तः ।” उणा०
४ । १३६ । इति इञ् । टिलोपयलोपौ समा-
नस्य स्वभावश्च ।) सौहार्दयुक्तः । समानः
ख्यायते जनैः नाम्नीति डिः मनीषादित्वात्
पृष्ठ ५/२१०
ख्यातेर्यलोपः समानस्य सभावश्च सख्यृद्भ्या-
मिति सेर्डा । इत्यमरटीकायां भरतः ॥ तत्प-
र्य्यायः । आक्रन्दः २ मित्रम् ३ सुहृत् ४ । इति
जटाधरः ॥ वयस्थः ५ सवयाः ३ स्निग्धः ७
सहचरः ८ । इति हेमचन्द्रः ॥ (यथा माघे ।
२ । ३६ ।
“सखागरीयान् शत्रुश्च कृत्रिमस्तौ हि कार्य्यतः
स्याताममित्रौ मित्रे च सहजप्राकृतावपि ॥”)
सहायः ! इति मेदिनी ॥ तत्पत्नीगमने दोषो
यथा, --
“गुरुतल्पव्रतं कुर्य्यात् रेतः तिक्त्वा स्वयोनिषु ।
सख्युः पुत्त्रस्य च स्त्रीषु कुमारीष्वन्त्यजासु च ॥
इति प्रायश्चित्ततत्त्वम् ॥

सखिता, स्त्री, (सख्युर्भावः । सखि + तल् ।)

सख्यम् । यथा, --
“मीमांसे बहुसेवितासि सुहृदस्तर्काः समस्ताः
स्थमे
वेदान्ताः परमात्मबोधगुरवो यूयं मयोपासिताः
जाता व्याकरणाति बालसखिता युद्माभिरभ्यर्थये
प्राप्तोऽयं समयो मनूक्तविवृतौ साहाय्यमाल-
म्ब्यताम् ॥”
इति मनुटीकायां कुल्लूकभट्टः ॥

सखित्वं, क्ली, (सख्युर्भावः । सखि + त्व ।) सख्यम् ।

(यथा, महाभारते । १ । १३७ । १५ ।
“कृतं सर्व्वेण मेऽन्येन सखित्वन्तु त्वया वृणे ।
द्वन्द्वयुद्धञ्च पार्थेन कर्त्तुमिच्छाम्यहं प्रभो ! ॥”)

सखी, स्त्री, (“सख्यश्विश्वीति भाषायाम् ।” ४ ।

१ । ६२ । इति ङीष् ।) सहचरी । तत्पर्य्यायः ।
आलिः २ वयस्या ३ । इत्यमरः । सध्रीची ४ ।
इति हेमचन्द्रः ॥ (यथा, रघुः । ३ ।
“अथेप्सितं भर्त्तुरुपस्थितोदयं
सखीजनोद्वीक्षणकोमुदीमुखम् ।
निदानमिक्ष्वाकुकुलस्य सन्ततेः
सुदक्षिणा दौर्हृदलक्षणं दधौ ॥”)

सख्यं, क्ली, (सख्युर्भावः कर्म्म वा । सखि + यत् ।)

मित्रता । तत्पर्य्यायः । सौहृदम् २ सौहाद्दम् ३
साप्तपदीनम् ४ मैत्रम् ५ जर्ज्यम् ६ सङ्गतम् ७ ।
इति हेमचन्द्रः ॥ (यथा, रघुः । १३ । ५७ ।
“वधनिर्धूतशापस्य कवन्धस्योपदेशतः ।
मुमूर्च्छ सख्यं रामस्य समानव्यसने हरौ ॥”)

सग, म ए संवृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) म, सिसगयिषति । ए,
असगीत् । इति दुर्गादासः ॥

सगन्धः, पुं, (गन्धन सह वर्त्तमान इति ।) ज्ञातिः ।

इति त्रिकाण्डशेषः ॥ गन्धयुक्ते, त्रि ॥ (यथा,
बृहत्संहितायाम् । ४३ । ३६ ।
“द्विरदमदमहीसरोजलाजै-
र्घृतमधुना च हुताशने सगन्धे ॥”)

सगरः, पुं, (गरेण सह वर्त्तमानः ।) अर्हद्भेदः ।

इति हेमचन्द्रः ॥ सूर्य्यवंशीयराजविशेषः । स तु
अयोध्याधिपतिबाहुराजपुत्त्रः तस्योत्पत्त्यादि
यथा, --
सूर्य्यवंशे महाराजी बाहुर्नाम महानभूत् ।
तस्य राज्यं हृतं सर्व्वं हैहयैस्तालजङ्घकैः ॥
काम्बोजाः पह्रवाश्चैव पारदा यवनाः शकाः ।
एते पञ्चगणा ब्रह्मन् हैहयार्थे पराक्रमन् ॥
हृतराज्यः स वै विप्र तदा बाहुर्व्वनं ययौ ।
पत्नी तु यादवी तस्य गुर्व्विण्यासीत् पतिव्रता ॥
तत्सपत्नी पूर्व्वमेव तस्या गर्भजिघांसया ।
भोजनेन सह प्रादात् गरं धर्म्मानवेक्षया ॥
यादव्यास्तु तपोयोगात् गर्भो मैव ममार ह ।
न ममार च सा राज्ञी देवानामनुकम्पया ॥
पतिं सानुययौ साध्वी सिषेवे तं वने सदा !
स राजा विपिने तस्मिन् प्राणांस्तत्याज योग-
वान् ॥
सा तु भर्त्तुश्चितिं कृत्वा वने तामध्यरोहत ।
और्व्वस्तां भार्गवस्तात कारुण्यात् समवारयत् ॥
तस्याश्रमे च सा गर्भं सुषुवे ज्वलनप्रभम् ।
व्यजायत महाबाहुर्गरेणैव सह द्विज ॥
सगरो नाम तेनाभूत् बालकोऽतिमनोहरः ।
और्वस्तु जातकर्म्मादि तस्य कृत्वा महात्मनः ॥
अध्याप्य वेदानखिलान् शस्त्राणि प्रत्यपादयत् ।
आग्नेयन्तु महाघोरममरैरपि दुःसहम् ॥
स तेनास्त्रबलेनाजौ बलेन च समन्वितः !
हैहयांस्तालजङ्घांश्च जघ्न रुद्रः पशूनिव ॥
जनयामास लोकेऽस्मिन् कीर्त्तिं कीर्त्ति मतांवरः
ततः शकान् सयवनान् काम्बोजान् पारदां-
स्तथा ।
पह्रवांश्चापि निःशेषान् कर्त्तुं व्यवसितो नृपः ॥
ते हन्यमाना वारेण सगरेण महीजसा ।
वशिष्ठं शरणं जग्मुः सूर्य्यवंशपुरोहितम् ॥
वशिष्ठः शरणापन्नान् समये स्थाप्य तानृषिः ।
सगरं वारयामास तेभ्या दत्त्वाभयं तदा ॥
सगरस्तां प्रांतज्ञान्तु निशम्य सुमहाबलः ।
धर्म्मं जघान तेषाञ्च वेशानन्यांश्चकार ह ॥
अर्द्धं शिरः शकानान्तु मुण्डयामास भूपतिः ।
यवनानां शिरः सर्व्वं काम्बाजानामपि द्विज ॥
पारदान् मुक्तकेशास्तु पह्रवान् श्मश्रुधारिणः ।
निस्वाध्यायवषट्कारान् सर्व्वानेव चकारह ॥
कालिसर्पा माहिषका दार्व्वाश्चोलाः सकेरलाः
खसास्तुषाराश्चीनाश्च मद्राः किष्किन्धका-
स्तथा ।
कोन्तलाश्च तथा बन्धाः शाम्बाः कोङ्कणका-
स्तथा ।
सर्व्वे ते क्षत्त्रियास्तात धर्म्मास्तेषां निराकृताः ॥
पुराहितस्य वाक्यन कृता विकृतवेशिनः ।
वश कृत्य सराजन्यान् स्वराज्यमन्वशासत ॥”
इति पाद्मे स्वर्गखण्डे १५ अध्यायः ॥ * ॥
अपि च ।
“रोहिताच्च वृको जातो वृकाद्वाहुरजायत ॥
सगरस्तस्य पुत्त्रोऽभूत् राजा परमधार्म्मिकः ॥
द्वे भार्य्ये सगरस्यापि प्रभा भानुमती तथा ।
ताभ्यामाराधितः पूर्व्व मौर्व्वोऽग्निः पुत्त्रकाम्यया
और्व्वस्तुष्टस्तुयाः प्रादात् यथेष्टं वरमुत्तमम् ।
एका षष्टिसहस्राणि सुतमेकं तथा परा ॥
गृह्णातु वंशकर्त्तारं प्रभा गृह्णाद्बहूं स्तथा ।
एकं भानुमतीपुत्त्रमगृह्णादसमञ्जसम् ॥
ततः षष्टिसहस्राणि सुषुवे यादवी प्रभा ।
खनन्तः पृथिवीं दग्धा विष्णुना येऽश्वमार्गणे ॥
असमञ्जसस्तु तनयः अंशुमान् नाम विश्रुतः ।
तस्य पुत्त्रो दिलीपस्तु दिलीपात्तु भगीरथः ॥
येन भागीरथी गङ्गा तपः कृत्वावतारिता ।
भगीरयस्य तनयो नाभाग इति विश्रुतः ॥”
इति मात्स्ये १२ अध्यायः ॥

सगर्भः, पुं, (समानो गर्भोयस्य । समानस्य सः ।)

सहोदरः । इति शब्दरत्नावली ॥ त्रि, अभ्य
न्तरितसूक्ष्मपत्रादियुक्तः । यथा --
“दर्भान् सगर्भानादाय नव सप्त च पञ्च वा ।
साग्रान् समूलानच्छिन्नान् द्विजो दक्षिण-
पाणिना ।
अन्वारब्धेन सव्येन तर्पयेत् षड्विनायकान् ॥”
इति काशीखण्डे सदाचारो नाम ३५ अध्यायः ॥
(गर्भविशिष्टे च त्रि ॥ यथा कथासरित्सागरे ।
२० । ८४ ।
“अनलोऽपि सगर्भोभूत् तेन वोर्य्येण धूर्जटेः ॥”

सगर्भा, स्त्री, (गर्भेण सह वर्त्तमाना ।) गर्भवती ।

यथा --
“केचिद्गहनमाश्रित्य केचित् पातालमाविशन् ।
सगर्भा चन्द्रसेनस्य भार्य्या दाल्भ्याश्रमं ययौ ॥”
इति पाद्मे सृष्टिखण्डे १ अध्यायः ॥
सहोदरा । इति सगर्भशब्ददर्शनात् ॥

सगर्भ्यः, पुं, (समाने गर्भे भवः । “सगर्भसयूथ-

सनुतात् यन् ।” ४ । ४ । ११४ । इति यन् ।)
सहोदरः । इत्यमरः ॥ (यथा, वाजसनेयसंहि-
तायाम् । ४ । २० ।
“अनु त्वा माता मन्यतामनु पितानु भ्राता
सगर्भोऽनु सखा सयूथ्यः ॥”)

सगोत्रं, क्ली, (समानं गात्रमिति । समानस्य सः ।)

कुलम् । यथा, --
“कुलं गौत्रं सगोत्रञ्च तुल्यगोत्रे निगद्यते ।”
इति शब्दरत्नावली ॥

सगोत्रः, पुं, (समानं गोत्रमस्य । “ज्योतिर्जन-

पदरात्रीति ।” ६ । ३ । ८५ । इति समानस्य सः ।)
ज्ञातिः । यथा, --
“सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः ॥”
इत्यमरः ॥
(यथा, मनुः । ९ । १९० ।
“संस्थितस्यानपत्यस्य सगोत्रात् पुत्रमाहरेत् ॥”)

सग्धिः, स्त्री, सहभोजनम् । इत्यमरः ॥ समाना

सह वा जग्धिः सग्धिः । अदः क्तिः जग्धाऽदो
इति जग्धं जग्धिः निपातनात् सग्धिरादेशः ।
सग्धिरपि छन्दसीति परे । इत्यमरटीकायां
भरतः ॥

सघ, न हिंसे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) न, सघ्नोति । असीसघत् ।
इति दर्गादासः ॥
पृष्ठ ५/२११

सङ्कटः, त्रि, (सम् + “संप्रोदश्च कटच् ।” ५ । २ ।

२९ । इति कटच् ।) संवाधः । इत्यमरः ॥ द्वे
अल्पावकाशे वर्त्मादौ । सम्यक् कटति आवृ-
णोति सङ्कटं अल् । सम्यगन्योन्यं वाधन्तऽत्र
संवाधः घञ् । वाच्यलिङ्गता च । संवाधं
बृहदपि तद्बभूव वर्त्म इति माघः । इति
भरतः ॥ दुःखे, क्ली । यथा, --
“सर्व्वाबाधासु घोरासु वेदनाभ्यर्दितोऽपि वा ।
स्मरन्ममैतच्चरितं नरो मुच्येत सङ्कटात् ॥”
सङ्कटं दुःखमुत्तरार्द्धमुत्तरान्वयि । इति देवी-
माहात्म्यस्य टीकायां नागोजीभट्टः ॥

सङ्कटा, स्त्री, (सम्यक् कटति आवृणोति या ।

सम् + कट् + अच् । टाप् ।) देवीविशेषः । सा
च वाराणस्यां प्रसिद्धा । योगिनीविशेषः । यथा,
“मङ्गला पिङ्गला धन्या भ्रामरी भद्रिका तथा ।
उल्का सिद्धिः सङ्कटा च योगिन्योऽष्टौ प्रकी-
र्त्तिताः ॥”
इति ज्योतिषम् ॥

सङ्कटाक्षः, पुं, (संकटं अक्षतीति । अक्ष व्याप्तौ +

अण् ।) धववृक्षः । इति विश्वः ॥

सङ्कथनं, क्ली, (सम्यक् कथनम् ।) सम्यग्भाष-

णम् । यथा, --
“उपवासफलं नश्येत् दिवास्वप्नाक्षमेथुनात ।
स्त्रीणां सप्रेक्षणात स्पर्शात्ताभिः सङ्कथनादपि ॥”
इत्येकादशीतत्त्वम् ॥

सङ्कथा, स्त्री, (सम्यक् कथा ।) परस्परभाषणम् ।

यथा, --
“उल्लापः काकुवागन्योन्योक्तिः संलापसङ्कथे ।”
इति हेमचन्द्रः ॥
(यथा, भागवते । १० । ८२ । १७ ।
“पृथा भ्रातॄन् स्वसॄर्वीक्ष्य तत्पुत्त्रान् पितरा-
वपि ।
भ्रातृपत्नीर्मुकुन्दञ्च जहौ संकथया शुचः ॥”)
सम्यक्कथनञ्च ॥

सङ्करः, पुं, (सङ्कीर्य्यते इति । सं + कॄ विक्षेपे +

अप् ।) सम्मार्ज्जन्या क्षिप्तधूल्यादिः । तत्प-
र्य्यायः । अवकरः २ । इत्यमरः ॥ सङ्कारः ३ ।
इति शब्दरत्नावली ॥ अग्निचटत्कारः । इति ।
मेदिनीहारावल्यौ ॥ मिश्रितत्वम् । यथा, --
“भेदाख्यानाय न द्वन्द्वो नैकशेषो न सङ्करः ।”
इत्यमरः ॥
परस्परात्यन्ताभावसमानाधिकरणयोरेकाधि-
करण्यम् । यथा । मूर्त्तत्वं मनसि वर्त्तते भूतत्वं
नास्ति आकाशे भूतत्वं वर्त्तते मूर्त्तत्वं नास्ति ।
पृथिव्यां भूतत्वं वत्तते मूर्त्तत्वञ्चास्तीति जाति-
साङ्कर्य्यम् । तथा चोक्तम् ।
“व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः ।
रूपहानिरसम्बन्धो जातिवाधकसंग्रहः ॥”
इति सिद्धान्तमुक्तावली ॥ * ॥
वर्णशङ्करजातिः । यथा, --
याज्ञवल्का उवाच ।
“वक्ष्ये सङ्करजात्यादि गृहस्थादिविधिं परम् ।
विप्रान्मूर्द्धावसिक्तो हि क्षत्रियायां विशः
स्त्रियाम् ॥
जातोऽम्बष्ठस्तु शुद्रायां निषादः पार्षतोऽपि वा ।
माहिष्योग्रौ प्रजायेते विट्शुद्राङ्गनयोर्नृपात् ॥
वेश्यां शुद्राच्च राजन्यां माहिष्योग्रौ सुतौ
स्मृतौ ।
शूद्रायां करणो वैश्यात् विद्वान् एष विधिः
स्मृतः ॥
ब्राह्मण्यां क्षत्त्रियात् सूतो वैश्याद्वैदेहकस्तथा ।
शूद्राज्जातस्तु चाण्डालः सर्व्वधर्म्मबहितष्कृतः ॥
क्षत्त्रिया मागधं वैश्यात् शूद्रात् क्षत्तारमेव च ।
शूद्रादायोगवं वैश्या जनयामास वै सुतम् ॥
माहिष्येण करण्यान्तु रथकारः प्रजायते ।
असंस्तुताश्च विज्ञेयाः प्रातिलोमानुलोमजाः ॥
जात्युत्कर्षाद्द्विजो ज्ञेयः सप्तमे पञ्चमेऽपि वा ।
व्यत्यये कर्म्मणां साम्ये पूर्व्ववच्चोत्तरावरम् ॥”
इति गारुडे ९६ अध्यायः ॥

सङ्करी, स्त्री, (सं + कॄ + अप् । गौरादित्वात्

ङौष् ।) नवदूषितकन्या । इति मेदिनी ॥

सङ्करीकरणं, क्ली, (असङ्करः सङ्करः क्रियतेऽने-

नेति । सङ्कर + कृ + ल्युट् । अभूततद्भावे च्वि ।)
नवविधपापान्तर्गतपापविशेषः । यथा, विष्णुः ।
अथ पुरुषस्य कामक्रोधलोभाख्यं रिपुत्रयं
भवति । परिग्रहप्रसङ्गेन विशेषाद्गृहाश्रमिणः ।
तेनायमाक्रान्तोऽतिपातकमहापातकानुपात-
कोपपातकेषु वर्त्तते । जातिभ्रंशकरेषु सङ्कर-
करणेष्वप्रात्रीकरणषु मलावहेषु प्रकीर्णकेषु ।
तद्यथा, --
“खराश्वोष्ट्रमृगेभानामजाविकवधस्तथा ।
सङ्करीकरणं ज्ञयं मीनाहिमहिषस्य च ॥”
तस्य प्रायश्चित्तं यथा, --
“सङ्करापात्रकृत्यासु मास शोधनमैन्दवम् ।
मलिनीकरणीयेषु तप्तः स्याद्यावकस्त्र्यहः ॥”
तथा विष्णुः ।
“ग्राम्यारण्याणां पशूनां हिंसा सङ्कीर्णोकर-
णम् ।
सङ्करीकरणं कृत्वा मासमश्नाति यावकम् ।
कृच्छ्रातिकृच्छमथवा प्रायश्चित्तन्तु कारयेत् ॥”
इति प्रायश्चित्तविवेकः ॥

सङ्कर्षणं, क्ली, आकर्षणम् । सम्यक्प्रकारेण कर्ष-

णम् । संपूर्व्वकृषधातोरनट्प्रत्ययेन निष्पन्नम् ॥
(यथा, भागवते । १० । २ । १३ ।
“गर्भसंकर्षणात् तं वै प्राहुः सङ्कषणं भुवि ॥”
एकीकरणम् । इति स्वामी ॥ यथा, भागवते ।
५ । २५ । १ ।
“तस्य मूलदेशे त्रिंशयोजनसहस्रान्तरे आस्ते
या वै कला भगवतस्तामसी समाख्याता अनन्त
इति सात्वतीया द्रष्टृदृश्ययोः सङ्कर्षणं अह-
मित्यभिमानलक्षणं यं सङ्कर्षण इत्याचक्षते ॥”)

सङ्कर्षणः, पुं, (सम्यक् कर्षतीति । सं + कृष् +

ल्युः ।) बलुदेवः । इत्यमरः ॥ (अस्य नामनि-
रुक्तिर्यथा, हरिवंशे । ५९ । ६ ।
“कर्षणेनास्य गर्भस्य स्वगर्भाच्चावितस्य वै ।
सङ्कर्षणो नाम शुभे तव पुत्त्रो भविष्यति ॥”
तथा च भागवते । १० । २ । १३ ।
“गर्भसंकर्षणात् तं वै प्राहुः सङ्कर्षणं भुवि ॥”)

सङ्कलः, पुं, सङ्कलनम् । योगः । संपूर्वंकलधातो-

र्भावे अल्प्रत्ययेन निष्पन्नः ॥

सङ्कलनं, क्ली, (सं + कल + ल्युट् ।) एकत्रीकर-

णम् । योजनम् । इति लीलावती ॥ ठिक
देओया इति भाषा ॥

सङ्कलितः, त्रि, (सं + कल + क्तः ।) लेखादिना

संवृतः । तत्पर्य्यायः । संगूढः २ । इत्यमर-
भरतौ ॥ योजिताङ्कम् । ठिक देओया आँक
इति भाषा । यथा । अथ सङ्कलितव्यवकलितयोः
करणसूत्रम् । इति लीलावती ॥ पुञ्जीकृत-
धान्यादि । इति केचित् ॥

सङ्कल्पः, पुं, (सं + कृप + भावे घञ् । गुणे कृते

रस्य लः ।) कर्म्मणो मानसम् । इत्यमरः ॥
“सङ्कल्प उक्तो हारीतेन । यथा । मनसा सङ्कल्प-
यति वाचा अभिलपति कर्म्मणा चोपपादयति
इति । भविष्यपुराणवचनेन च ।
‘सङ्कल्पेन विना राजन् यत्किञ्चित् कुरुते नरः ।
फलञ्चाल्पाल्पकं तस्य धर्म्मस्यार्द्धक्षयो भवेत् ॥’
इति । ब्रह्मपुराणेनापि ।
‘आशास्य च शुभं कार्य्यमुद्दिश्य च मनोगतम्’ ।
इत्यगस्त्यपूजने उक्तम् । मनोगतं शुभं फलं
आशास्य मनसा सङ्कल्प्य उद्दिश्य वाचा अभि-
लप्य कार्य्यं कर्म्मणा उपपाद्यम् । भविष्ये ।
‘शुक्तिशङ्खाश्महस्तैश्च कांस्यरूप्यादिभिस्तथा ।
सङ्कल्पो नैव कर्त्तव्यो मृण्मयेन कदाचन ॥
गृहीत्वौडुम्बरं पात्रं वारिपूर्णं गुणान्वितम् ।
दर्भत्रय साग्रमूलं फलपुष्पतिलान्वितम् ॥
जलाशयारामकूपे सङ्कल्पे पूर्वदिङ्मुखः ।
साधारणे चोत्तरास्य ऐशान्यां निक्षिपेज्जलम् ॥’
अत्र केवलहस्तनिषेधस्तु पात्रान्तरसद्भाव-
विषयः । शङ्खादिसाहचर्य्यात् एकहस्तपरो वा ।
“गृहीत्वौडुम्बरं पात्रं वारिपूर्णमुदङ्मुखः ।
उपवासन्तु गृह्णीयाद् यद्वा वार्य्येव धारयेत् ॥”
इति वराहपुराणदर्शनात् ।” इति तिथ्यादि-
तत्त्वम् ॥ * ॥ सङ्कल्पश्च भावे मयैतत् कर्त्तव्य-
मेव निषधे तु मयैतन्न कर्त्तव्यमिति ज्ञानविशेषः ।
व्रतादीनां सङ्कल्पसम्भवत्वं यथा, --
“सङ्कल्पमूलः कामो वै यज्ञाः सङ्कल्पसम्भवाः ।
व्रता नियमधर्म्माश्च सर्वे सङ्कल्पजाः स्मृताः ॥”
इत्येकादशोतत्त्वम् ॥
तद्वाक्यरचना यथा, --
“श्रीपदं पूर्वमुच्चार्य्य ततो विष्णुपदं वदेत् ।
ॐ तत् सदित्युच्चार्य्य नाम गोत्रं ततो वदेत् ॥
तत इष्टप्रीतिकामो मूलबीजं समुन्नयेत् ।
ततोऽस्याञ्च वरारोहे गङ्गास्नानमहं ततः ॥
करिष्ये इति सङ्कल्प्य शिरःस्नानं समाचरेत् ।
त्रिः स्नात्वा चञ्चलापाङ्गि ! इति -- वाक्यं सुरा-
र्च्चिते ! ॥
पृष्ठ ५/२१२
अद्येत्याद्यस्य चार्वङ्गि ! रहस्यं प्रवदामि ते ॥”
इति कामधेनुतन्त्रे ३२ पटलः ॥ * ॥
अपि च । अथ सङ्कल्पविधानम् ।
“असङ्कल्पितमर्त्यो यन्न्यूनाधिकमथापि वा ।
न सम्यक्फलभाग्भूयात्तस्मान्नियममाचरेत् ॥
ताम्रपात्रं सदूर्वञ्च सतिलं जलपूरितम् ।
सकुशञ्च फलैर्द्देवि ! गृहीत्वाचम्य कल्पतः ॥
अभ्यर्च्च्य च शिरःपद्मे श्रीगुरुं करुणामयम् ।
यक्षेशवदनो वापि देवेन्द्रवदनोऽपि वा ॥
मासं पक्षं तिथिञ्चैव देवपर्व्वादिकन्तथा ।
आद्यन्तकालञ्च तथा गोत्रं नाम च कामिनाम्
क्रियाह्वयं करिष्येऽन्तमेवं समुत्सृजेत् पयः ॥”
इति योगिनीतन्त्रे प्रथमखण्डीयः २ पटलः ॥ * ॥
अन्यच्च । शिवपूजायां मानससङ्कल्पो यथा, --
“ततस्तु परमेशानि ! कृत्वा सङ्कल्पमानसम् ।
यथापूर्व्वं महादेवि ! ब्रह्माण्डस्थितिमानसः ॥
तथा भवतु सर्व्वाङ्गं इति सङ्कल्प्य मानसः ।
न गोत्रं मम देवेशि ! न नाम परमेश्वरि ॥
न माता परमेशानि न पिता मम कामिनि ।
तस्मिन् काले महेशानि मम सर्वं न हि प्रिये ॥
न वारं न तिथिं देवि तस्मिन् काले शुचिस्मिते
न काष्ठां न कलां देवि तस्मिन् काले वरानने
न दिवा परमेशानि न रात्रिं परमेश्वरि ।
अतएव महेशानि सङ्कल्पं मानसं स्मृतम् ॥
मानसं यदि आयाति तदा स्थानेन किं प्रिये ।
सङ्कल्पं मानसं देवि चतुव्वर्गप्रदायकम् ॥
स्थूलं हि परमेशानि सङ्कल्पं व्यर्थमुच्यते ॥
सङ्कल्पेन विना देवि यत्किञ्चित् कृतवान्सुधीः
तदुक्तं परमेशानि तत् सर्व्वं मानसं परम् ॥
यदुक्तं परमेशानि मुनिना क्षुद्रबुद्धिना ।
तत् सर्व्वं परमेशानि व्यर्थं भवति पार्व्वति ।
इति सङ्कल्पमाचर्य्य जीवन्यासं समाचरेत् ॥”
इति लिङ्गार्च्चनतन्त्रे ५ पटलः ॥

सङ्कल्पजन्मा, [न्] पुं, (सङ्कल्पात् जन्म यस्य ।)

कामदेवः । इति हलायुधः ॥ (यथा, कथा-
मरित्सागरे । ४९ । २३८ ।
“दग्धोऽपि कामः सङ्कल्पजन्मा शर्व्वेण
निर्म्मितः ॥”)

सङ्कल्पभवः, पुं, (सङ्कल्पात् भव उत्पत्तिर्यस्य ।)

कामदेवः । इति त्रिकाण्डशेषः ॥ (अभिलाष-

सम्भूतमात्रे, त्रि । यथा, महाभारते । १३ ।

४१ । ८ ।
“त्वदर्थमागतं विद्धि देवेन्द्रं मां शुचिस्मिते ।
क्लिश्यमानमनङ्गेन त्वत्सङ्कल्पभवेन ह ॥”)

सङ्कल्पयोनिः, पुं, (सङ्कल्पात् योनिर्यस्य ।) काम-

देवः । इति हेमचन्द्रः ॥

सङ्कमुकः, त्रि, (सम्यक् कसति इतस्ततो गच्छ-

तीति । सस + कस गतौ + “समि कसेरुकन् ।”
उणा० २ । २९ । इति उकन् ।) अस्थिरः ।
इत्यमरः ॥ दुर्ब्बलः । इत्युणादिकोषः ॥ मन्दः ।
इति सिद्वान्तकौमुद्यामुणादिवृत्तिः ॥ संकीर्णः ।
अपवादशीलः । इति संक्षिप्तसारोणादिवृत्तिः ॥
(यथा, महाभारते । १२ । १९३ । १३ ।
“लोष्टमर्द्दी तृणच्छेदी नखखादी तु यो नरः ।
नित्योच्छिष्टः सङ्कसुको नेहायुर्विन्दते महत् ॥”

सङ्कारः, पुं, (संकीर्य्यते इति । सं + कॄ + विक्षेपे +

घञ् ।) सम्मार्ज्जन्या क्षिप्तधूल्यादिः । इति
शब्दरत्नावली ॥ अग्निचटत्कारः । इति
मेदिनी ॥

सङ्कारी, स्त्री, नवदूषितकन्या । इति मेदिनी ॥

सङ्काशः, त्रि, (सम्यक् काशते प्रकाशते इति ।

काश + पचाद्यच् ।) सदृशः । (यथा, महा-
भारते । १ । १२३ । ३ ।
“आजगाम ततो देवो धर्म्मो मन्त्रबलात् ततः ।
विमाने सूर्य्यसङ्काशे कुन्ती यत्र जपस्थिता ॥”)
अन्तिकः । इति विश्वः ॥

सङ्किलः, पुं, दहनोल्का । इति त्रिकाण्डशेषः ॥

सङ्कीर्णं, त्रि, (सं + कृ + क्तः ।) जनादिभिर्निर-

वकाशः । इति भरतः ॥ नानाजातिसंमिलितम् ।
इति भानुदीक्षितः ॥ तत्पर्य्यायः । सङ्कुलम् २
आकीर्णम् ३ । इत्यमरः ॥ निचितम् ४ । इति
नानार्थे अमरः ॥ व्याप्तम् ५ समाकीर्णम् ६ ।
इति शब्दरत्नावली ॥ (यथा, महाभारते । १ ।
१३४ । २९ ।
“द्रोणः सङ्कीर्णयुद्धे च शिक्षयामास वीर्य्यवान् ॥”)
सङ्कटः । इत्यजयः । परस्परविजातीयः । यथा,
“विशेष्यनिघ्नैः संकीर्णैर्नानार्थैरव्ययैरपि ।”
इत्यमरश्लोकटीकायां भरतः ॥
अशुद्धः । इति नानार्थे अमरः ॥

सङ्कीर्णः, पुं, (सं + कॄ + क्तः ।) अम्बष्ठकरणादि-

चाण्डालपर्य्यन्तमिश्रजातिः । इत्यमरः ॥ मिश्रित-
रागः । इति संगीतशास्त्रम् ॥

सङ्कीर्त्तनं, क्ली, स्त्री, (सं + कीर्त्त + ल्युट् ।) सम्यक्-

प्रकारेण देवतानामोच्चारणम् । गुणादि-
कथनम् । यथा, --
“कृष्णवर्णं त्विषा कृष्णं साङ्गोपाङ्गास्त्रपार्षदम्
यज्ञैः सङ्कीर्त्तनप्रायैर्यजन्ति हि सुमेधसः ॥”
इति श्रीमद्भागवते ११ स्कन्धे ५ अध्यायः ॥
“रूक्षतां व्यावर्त्तयति । त्विषा कान्त्या कृष्णं
इन्द्रनीलमणिवदुज्ज्वलम् । यद्वा त्विषा कृष्णं
कृष्णावतारं अनेन कलौ कृष्णावतारस्य प्राधान्यं
दर्शयति । अङ्गानि हृदयादीनि । उपाङ्गानि
कौस्तुभादीनि । अस्त्राणि सुदर्शनादीनि ।
पार्षदाः सुनन्दादयः । तत्सहितं यज्ञैरर्च्चनैः ।
सङ्कीर्त्तनं नामोच्चारणं स्तुतिश्च तत्प्रधानैः ।
सुमेधसो विवेकिनः ।” इति तट्टीकायां श्रीधर-
स्वामी ॥ * ॥ तन्माहात्म्य यथा, --
“सङ्कीर्त्तनध्वनिं श्रुत्वा ये चनृत्यन्ति मानवाः ।
तेषां पादरजःस्पर्शात् सद्यः पूता वसुन्धरा ॥”
इति बृहन्नारदीयपुराणम् ॥
अपि च ।
“नामसङ्कीर्त्तनं यत्र कृष्णस्य परमात्मनः ।
स्थानं तत्तु पवित्रं स्यान्मृतानां तत्तु मुक्तिदम् ॥”
इति पद्मपुराणम् ॥ * ॥
प्रथमसङ्कीर्त्तनारम्भप्रमाणं यथा । पुष्करतीर्थे
नारदं प्रति ब्रह्मवाक्यम् ।
“श्रीकृष्णरससङ्गीतं वीणाध्वनिसमन्वितम् ।
कुरु वत्साधुनात्रैव शृण्वन्तु मुनयः सुराः ॥
गोपीनां वस्त्रहरणं परं रासमहोत्सवम् ।
ताभिः सार्द्धं जलक्रीडां हरेरुत्कीर्त्तनं कुरु ॥
कृष्णसङ्कीर्त्तनं तूर्णं पुनाति श्रुतिमात्रतः ।
श्रोतारञ्च प्रवक्तारं पुरुषैः सप्तभिः सह ॥
यत्रैव प्रभवेद्वत्स ! तम्नामगुणकीर्त्तणम् ।
तत्र सर्व्वाणि तीर्थानि पुण्यानि मङ्गलानि च ॥
तत्कीर्त्तनध्वनिं श्रुत्वा सर्व्वाणि पातकानि च ॥
दूरादेव पलायन्ते वैतनेयमिवोरगाः ॥
तद्दिनं सफलं धन्यं यशस्यं सर्व्वमङ्गलम् ।
श्रीकृष्णकीर्त्तनं यत्र तत्र वै नायुषोऽव्ययः ॥
कृष्णसंकीर्त्तनस्थाने ये च नृत्यन्ति वैष्णवाः ।
तेषां पादरजःस्पर्शात् सद्यः पूता वसुन्धरा ॥
उत्कीर्त्तनं भवेद्यत्र कृष्णस्य परमात्मनः ।
स्थानं तच्च भवेत्तीर्थं मृतानां तत्र मुक्तिदम् ॥
नात्र पापानि तिष्ठन्ति पुण्यानि सुस्थिराणि
च ।
तपस्विनाञ्च व्रतिनां व्रतानां तपसां स्थलम् ॥
वर्त्तन्ते पापिनां देहे पापानि त्रिविधानि च ।
महापापोपपापातिपापान्येव स्मृतानि च ॥
कृष्णसंकीर्त्तनाद्ध्यानात्तन्मन्त्रग्रहणादहो ।
मुच्यन्ते पातकैस्तैश्च पापिनस्त्रिविधा जनाः ॥”
इति नारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैक-
रात्रे महोत्सवारम्भो नाम १० अध्यायः ॥

सङ्कीर्त्तितः, त्रि, (सं + कीर्त्त + क्तः ।) सम्यगु-

च्चरितः । संस्तुतः । यथा, --
“अज्ञानादथवा ज्ञानादुत्तमश्लोकनाम यत् ।
संकीर्त्तितमघं पुंसो दहेदेधो यथानलः ॥”
इति श्रीभागवते ६ स्कन्धे २ अध्यायः ॥

सङ्कुचितं, क्ली, (सं + कुच् + क्तः ।) संङ्कोच-

युक्तम् । अप्रफुल्लम् । तत्पर्य्यायः । निद्राणम् २
मीलितम् ३ मुद्रितम् ४ । इति हेमचन्द्रः ॥
सुप्तम् ५ मिलितम् ६ नतम् ७ निकुञ्चितम् ८ ।
सनिद्रम् ९ अलसम् १० । इति राजनिर्घण्टः ॥
(यथा, आर्य्यासप्तशत्याम् । ६५४ ।
“सङ्कुचिताङ्गीं द्विगुणांशुकां मनोमात्रविस्फुर-
न्मदनाम् ।
दयितां भजामि मुग्धामिव तुहिन इव प्रसा-
देन ॥”)

सङ्कुलं, क्ली, (सङ्कुलतीति । सं + कुलं संस्त्याने +

इगुपधेति कः ।) युद्धम् । इत्यजयः ॥ (यथा,
हरिवंशे । ९१ । ९५ ।
“ततो बलेन महता गजानीकेन चाप्यथ ।
उभयोरन्तरं ताभ्यां सङ्कुलं समपद्यत ॥”)
परस्परपराहतवाक्यम् । तत्पर्य्यायः । क्लिष्टम् २ ।
इत्यमरः ॥ “द्वे पूर्व्वापरविरुद्धे वाक्ये । यथा --
‘यावज्जीवमहं मौनी ब्रह्मचारी पिता मम ।
माता च मम बन्ध्या स्यात् स्मरामोऽनुपमो
भवान् ॥’
पृष्ठ ५/२१३
कुलजबन्धुसंहत्योः संपूर्व्वः इजुङत्वात् कः ।
क्लिश्यतेः क्तः क्लिष्टम् । परस्परं पराहतं
विरुद्धं परस्परपराहतम् । तत्र सरस्वती-
कण्ठाभरणे तु क्लिष्टलक्षणं यथा, --
‘दूरे यस्यार्थसंवित्तिः क्लिष्टं नेष्टं हि तत्
सताम् ।’
यथा, --
‘विजितात्मभवद्वेषिगुरुपादहतो जनः ।
हिमापहामित्रधरैर्व्याप्तं व्योमाभिनन्दति ॥’
अस्यार्थः । विना गरुडेन जित इन्द्रस्तस्यात्म-
भवोऽर्ज्जुनस्तस्य द्वेषी कर्णः तस्य गुरुः पिता
सूर्य्यः तस्य पादै रश्मिभिर्हतो जनो लोकः
व्योम आकाशमभिनन्दति । कीदृशं हिमापहो-
ऽग्निस्तस्यामित्रं जलं तद्धारयन्ति ये तैर्मेघैर्व्या-
प्तम् ।” इति तट्टीकायां भरतः ॥ (सङ्कीर्णता ।
यथा, महाभारते । ३ । १४२ । ३८ ।
“एतस्मिन् सङ्कुले तात वर्त्तमाने भयङ्करे ।
अतिभारात् वसुमती योजनानां शतं गता ॥”)

सङ्कुलं, त्रि, (सं + कुल संस्त्याने + कः ।) जना-

दिभिर्निरवकाशम् । तत्पर्य्यायः । सङ्कीर्णम् २ ।
आकीर्णम् ३ । इत्यमरः ॥ कलिलम् ४ गह-
नम् ५ । इति केचित् ॥ सङ्कीर्य्यते स्म जना-
दिभिर्निरन्तरं व्याप्यते स्म सङ्कीर्णं कृश विक्षेपे
क्तः । संकुलति सङ्कुलं कुल ज बन्धुसंहत्योः
संपूर्व्वेजुङ्त्वात् कः । संकुलं दन्त्यादि । शकि-
धातोरुले शङ्कुलं तालव्यादीति स्वामी ।
आकीर्णं सङ्कीर्णवत् । इति भरतः ॥ (यथा,
महाभारते । १ । ११३ । २६ ।
“ततः सेनामुपादाय पाण्डुर्नानाविधध्वजाम् ।
प्रभूतहस्त्यश्वयुतां पदातिरथसङ्कुलाम् ॥”)

सङ्केतः, पुं, सङ्कित्यते उच्यतेऽत्र । (सं + कित +

धञ् ।) स्वाभिप्रायष्यञ्जकचेष्टाविशेषः । तत्प-
र्य्यायः । प्रज्ञप्तिः २ परिभाषा ३ शैली ४ समयः
५ आकारः ६ । इति त्रिकाण्डशेषः ॥ उदा-
हरणं यथा, --
“सङ्केतप्रियशङ्कया निजपतिं प्रावोचदध्वश्रमम् ।”
इति रससंग्रहः ॥
(यथा च साहित्यदर्पणे ।
“सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया ।
हसन्नेत्रार्पिताकुतं लीलापद्मं निमीलितम् ॥”)
न्यायमते यथा । सङ्केतो लक्षणा चार्थे पद-
वृत्तिः । वृत्त्या पदप्रतिपाद्योऽर्थ एव पदार्थ
इत्यभिधीयते । इदं पदमिमर्थं बोधयत्विति
अस्माच्छब्दादयमर्थो बोद्धव्य इति वेच्छा
सङ्केतरूपा वृत्तिः । तत्राधुनिकसङ्केतः परि-
भाषा । तया अर्थबोधकं पदं पारिभाषिकम् ।
यथा शास्त्रकारादिसङ्केतितनदीवृद्ध्यादिपदम् ।
ईश्वरसङ्केतः शक्तिः । तया अर्थबोधकं पदं
वाचकम् । यथा गोत्वादिविशिष्टबोधकगवादि-
पदम् । तद्बोध्योऽर्थो गवादिर्वाच्यः स एव
मुख्यार्थ इत्युच्यते । इति शक्तिवादे गादाधरी
टीका ॥

सङ्केतनिकेतनं, क्ली, (सङ्केतस्य निकेतनम् ।) प्रिय-

मेलनार्थावधारितगृहम् । यथा, --
“सङ्केतनिकेतने प्रियमनवलोक्य समाकुलहृदया
विप्रलब्धा ।
‘सङ्केतकेलिगृहमेत्य निरीक्ष्य शून्य-
मेणीदृशो निभृतनिःश्वसिताधरायाः ।
अद्धक्षिरं वचनमर्द्धविकाशि नेत्रं
ताम्बूलमर्द्धकवलीकृतमेव तस्थौ ॥’
सङ्केतस्थलं प्रति भर्त्तुरनागमनकाणं चिन्तयति
या सोत्कण्ठिता ॥” इति रसमञ्जरी ॥

सङ्कोचं, क्ली, सङ्कुचतीति । सं + कुच् + अच् ।)

कुङ्कुमम् । इत्यमरः ॥

सङ्कोचः, पुं, (संकुचतीति । सं + कुच् + अच् ।)

मत्स्यभेदः । (सं + कुच्भावे घञ् ।) बन्धः ।
इति मेदिनी ॥ (यथा, कथासरित्सागरे । ९० ।
६५ ।
“निनाय च निशामिन्दुविषमामब्जिनीव ताम्
बद्धमोहालिपटले हृदि सङ्कोचमेत्य सा ॥”)
बहुविषयक-वाक्यार्थादेरल्पविषय-स्थापनम् ।
यथा, सामान्यशब्दार्थस्य विशेषनिष्ठत्वं सङ्कोचः
इति श्राद्धविवेकः ॥ रोधः । जडीभाव इत्यर्थः ।
यथा, --
“यस्मिन् प्रमुदिते राज्ञि तमः सङ्कोचति
क्षितौ ॥”
इति कविकल्पद्रुमटीकायां दुर्गादासः ॥

सङ्कोचनी, स्त्री, (सङ्कुचतीति । सं + कुच् + ल्युः ।

ङीष् ।) लज्जालुलता । इति रत्नमाला ॥

सङ्कोचपिशुनं, क्ली, (सङ्कोचेन पिशुनम् ।)

कुङ्कुमम् । इति भावप्रकाशः ॥

सङ्क्रन्दनः, पुं, (सङ्क्रन्दयति असुरानिति । सं +

क्रन्द + णिच् + ल्युः ।) इन्द्रः । इत्यमरः ॥
(भौत्यस्य मनोः पुत्त्रविशेषः । यथा, मार्क-
ण्डेये । १०० । ३२ ।
“स्त्रीमाणी च प्रतीरश्च विष्णुः सङ्क्रदनस्तथा ।
तेजस्वी सुबलश्चैव भौत्यस्यैते मनोः सुताः ॥”
सं + क्रन्द + भावे ल्युट् ।) रोदने, क्ली । (यथा,
महाभारते । ११ । २३ । ४ ।
“दिष्ट्या नैनं महाराज दारुणं भरतक्षयम् ।
कुरु संक्रन्दनं घोरं युगान्तमनुपश्यसि ॥”
सङ्क्रन्दयति शत्रूनिति । शत्रुतापके, त्रि ।
यथा, महाभारते । ४ । ५ । २६ ।
“तस्य मौर्व्वीमपाकर्षत् शूरः सङ्क्रन्दनो
युधि ।
कुले नास्ति समो रूपे यस्येति नकुलः स्मृतः ॥”)

सङ्क्रमः, पुं, क्ली, दुर्गसञ्चरः । साँको इति

भाषा । इत्यमरः ॥ संक्रामति अनेन संक्रम्यते
असौ वा संक्रमः । घञ् । दुर्गं सेत्वादि सञ्च-
रत्यनेन दुर्गसञ्चरः करणे अल् । सञ्चरो निर्ग-
मोऽम्बुपथः । इति रत्नकोषः । इति भरतः ॥
(यथा, मनुः । ९ । २८५ ।
“संक्रमध्वजयष्टीनां प्रतिमानाञ्च भेदकः ।
प्रतिकुर्य्याच्च तत्सर्व्वं पञ्च दद्यात् शतानि च ॥”)

सङ्क्रमः, पुं, (सं + क्रम + घञ् ।) क्रमणम् ।

सम्यग्राशिसञ्चारवस्तु । इति धरणिः ॥ (यथा,
भागवते । ४ । १२ । ४८ ।
“दिनक्षयेव्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा ॥”)
रविसंक्रमकालो यथा, --
“त्रुटेः सहस्रभागो यः स कालो रविसङ्-
क्रमः ॥”
इति तिथ्यादितत्त्वम् ॥

सङ्क्रमणं, क्ली, (सं + क्रम + ल्युट् ।) गमनम् ।

सूर्य्यस्य राश्यन्तरप्रवेशः । यथा । कालकौमुद्यां
जावालिः ।
“पूर्णे चेदर्द्धरात्रे तु रविसङ्क्रमणं भवेत् ।
प्राहुर्दिनद्वयं पुण्यं त्यक्त्वा मकरकर्क्कटौ ॥”
देवीपुराणे ।
“रविसङ्क्रमणे पुण्ये न स्नानायात् यस्तुमानवः ।
सप्तजन्म भवेत् कुष्ठी दरिद्रश्चोपजायते ॥”
इति तिथ्यादितत्त्वम् ॥
(प्रापणम् । यथा, हरिवंशे । ३२ । १६ ।
“अत्रैवोदाहरन्तीमं भरद्धाजस्य धीमतः ।
धर्म्मसङ्क्रमणञ्चापि मरुद्भिर्भरताय वै ॥”

सङ्क्रान्तः, त्रि, (संक्रान्तिरस्यास्तीति । अच् ।)

संक्रान्तिविशिष्टः । यथा, --
“असङ्क्रान्तमासोऽधिमासः स्फुटः स्यात्
द्विसंक्रान्तमासः क्षयाख्यः कदाचित् ।”
इति मलमासतत्त्वम् ॥
(सं + क्रम् + क्तः ।) प्राप्तः । गतः । क्रमापत-
धनादि । यथा । स्त्रीसङ्क्रान्तधनस्य स्त्रीधनत्वा-
भावात् अधिकारविशेषस्यात्र वचनादप्राप्त्या-
काङ्क्षया कल्पने सादृश्यात् स्त्रीसङ्क्रान्तधन-
मात्रस्य पूर्व्वस्वामिदायादरूपोऽधिकारी कल्प-
नीय एतदर्थं पत्नीपदस्य स्त्रीलक्षकत्वमिति
भावः । इति दायभागटीकायां श्रीकृष्णतर्का-
लङ्कारः ॥

संङ्क्रान्तिः, स्त्री, (सं + क्रम + क्तिन् ।) राश्य-

न्तरसंयोगानुकूलव्यापारः । यथा, --
“नाडीनक्षत्रदिवसे रविभौमशनैश्चराः ।
सङ्क्रान्तिं यस्य कुर्व्वन्ति तस्य क्लेशोऽभिजायते ॥
इति तिथ्यादितत्त्वम् ॥
रविसंक्रान्तिर्यथा । भविष्यमात्स्यज्योतिषेषु ।
“मृगकर्क्कटसंक्रान्ती द्वे तूदग्दक्षिणायने ।
विषुवती तुलामेषे गोलमध्ये तथापराः ॥”
मृगो मकरः । गोलो राशिचक्रम् ।
“धनुर्म्मिथुनकन्यासु मीने च षडशीतयः ।
वृषवृश्चिकसिंहेषु कुम्भे विष्णुपदी स्मृता ॥”
देवीपुराणम् ।
“यावद्विंशकला भुक्तास्तत् पुण्यं चोत्तरायणे ।
निरंशे भास्करे दृष्टे दिनान्तं दक्षिणायने ॥
अर्द्धरात्रे त्वसंपूर्णे दिवा पुण्यमनागतम् ।
अर्द्धरात्रे व्यतीते तु विज्ञेयं चापरेऽहनि ॥
संपूर्णे चार्द्धरात्रे च उदयेऽस्तमयेऽपि वा ।
मानार्द्धं भास्करे पुण्यमपूर्णे शर्व्वरीदले ॥
सम्पूर्णे तूभयोर्ज्ञेयमतिरेके परेऽहनि ।
पृष्ठ ५/२१४
षडशीतिमुखेऽतीते वृत्ते च विषुवद्वये ॥
भविष्यत्ययने पुण्यमतीते चोत्तरायणे ।
आदौ पुण्यं विजानीयात् यद्यभिन्ना तिथिर्भवेत् ॥”
विंशकला विंशतितमी कला संक्रान्तिक्षणादूर्द्ध्वं
यावद्भवति तावत् पुण्यम् । निरंशेऽंशशून्ये
संक्रान्तिकाले हि भास्करोऽंशरहितो भवति
तस्मिन् दृष्टे दिवेति यावत् । दिनञ्च दिनकर-
करसंस्कृतास्त्रिंशन्नाडिका इति ज्योतिर्विदः ।
तदन्तं तत्समाप्तिं यावत् तावत् पुण्यम् । तथा
च बृहद्वशिष्ठः । त्रिंशत्कर्क्कटके नाड्यो मकरे
विंशतिः स्मृताः । नाडी दण्डः ।
“उत्पलाद्विपलं षष्ट्या विपलात्तु पलं नयेत् ।
पलात्षष्ट्या नयेन्नाडों तत्षष्ट्या तु रवेर्द्दिनम् ॥”
इति सिद्धान्तसन्दर्भात् ॥
ततश्च देवीपुराणबृहद्वशिष्ठयोरेकवाक्यतया
कलानाड्योः पर्य्यायता ॥ * ॥ रात्रिसंक्रमणे
त्वाह अर्द्धरात्रे त्विति । असम्पूर्णे कलान्यूना-
र्द्धरात्रे ।
“कलान्यूनार्द्धरात्रे तु यदि संक्रमणं भवेत् ।
तदहः पुण्यमिच्छन्ति गार्गगालवगातमाः ॥”
इति कृत्यचिन्तामणिवर्षकृत्यधृतगर्गवचनात् ।
कालकौमुद्याञ्च गालवेत्यत्र हारीत इति पाठः ।
ततश्च कलान्यूनार्द्धरात्राभ्यन्तरे द्वादशस्वेव
संक्रान्तिषु अनागतं नागतं संक्रमणेन यत्र
दिवा तदेव पुण्यं पुण्यजनकम् । तत्तु पूर्व्वदिनं
तदैव संक्रान्तेरनागतत्वसन्भवात । तेन संक्र-
मणकालादर्व्वागेव दिवापरार्द्धे स्नानादिकं
कर्त्तव्यमित्यर्थः । अर्द्धरात्रे व्यतीते कालाधिकार्द्ध
रात्रे व्यतीते । संपूर्णे अर्द्धरात्रे रात्रिमध्य-
कलयोः । कलान्यूनार्द्धरात्रे त्विति वचना-
नन्तरं भुजबलभीमे ।
‘अर्द्धरात्रे कलाधिक्ये यदा स क्रमते रविः ।
तदोत्तरदिनं ग्राह्य स्नानदानजपादिषु ॥
अद्ध रात्रे तु संपूर्णे यदा संक्रमते रविः ।
प्राहुद्दिनद्वय पुण्यं त्यक्त्वा भकरकर्क्कटौ ॥”
इति वचनाभ्या तथा प्रतीतेः । कालविवेके
कालकौमुद्याञ्च शातातपजावाली ।
“पूर्णे चेदर्द्धरात्रे तु रविसंक्रमण भवेत् ।
प्राहुर्द्दिनद्वयं पुण्यं त्यक्त्वा मकरकर्क्कटौ ॥”
एतयोर्व्यवस्था आह कालमाधवीये भविष्यो-
त्तरीयम् ।
मियुनात् कर्किसंक्रान्तिर्यदि स्यादंशुमालिनः ।
प्रदोषे वा निशीथे वा कुर्य्यादहनि पूर्व्वतः ॥
कार्म्मुकन्तु परित्यज्य झष संक्रमते रविः ।
प्रभात वार्द्धरात्रे वा स्नान कुर्य्यात् परेऽहनि ॥”
ततश्च रात्रिमध्यदण्डद्वयात्मकार्द्धरात्रसंक्रान्ता-
वदयेऽस्तमयऽपि वा इत्यनेन उदयोपक्रममस्त-
मयान्तञ्च मानार्द्धं पुण्यम् । एवञ्चोभयदिने
पुण्यकाले पूर्व्वदिनाकरण एव परदिने ।
“श्वः कार्य्यसद्य कत्तव्य पूर्व्वाह्णे चापराह्णि
कम् ।
न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् ॥”
इति लिङ्गपुराणात् मोक्षधर्म्माच्च ॥
तत्रापि दक्षिणायने पूर्व्वदिनार्द्धमात्रमिति
विशेषः । उत्तरायणे परदिनार्द्धमात्रमिति
विशेषः । मानार्द्धमिति भास्करे भास्करोप-
लक्षिते काले दिवेति यावत् तस्मिन् संक्रमणे-
ऽपि मानार्द्धं पुण्यम् । एतच्च विषुवषडशीति-
विषयम् ! अयनकालयोः पूर्व्वमुक्तत्वात् विष्णु-
पद्याञ्चोभयतः षोडशकलानां पञ्चदशनाडि-
कानां वा पुण्यत्वस्य शातातपादिवचनेन वक्ष्य-
माणत्वात् । तेन दिवासंक्रमण एवायनादित्वेन
पुण्यकाले विशेषः । रात्रिसंक्रमणे तु अर्द्ध-
रात्रीयमकरकर्क्कटसंक्रमणव्यतिरिक्ते सर्व्वेषां
तुल्यतेति । अपूर्णे शर्व्वरीदले कलान्यूनार्द्धरात्रे
इत्यत्रापि मानार्द्धमित्यनुषज्यते । दिवापुण्य-
मिति यत् प्रागुक्तं अत्र तदेव मानार्द्धत्वेन
विशेषितमित्यपुनरुक्तिः । एवमुदयास्तमये
यन्मानार्द्धं पुण्यं तत् किमेकदिने दिनयोर्व्वेति
तत्राह संपूर्णे तूभयोरिति उभयोः पूर्व्वापर-
दिनयोर्म्मानार्द्धं पुण्यं तेन पूर्व्वदिनस्यास्तम-
यपर्य्यन्तं परदिनस्य उदयमारभ्य मानार्द्धं
पुण्यमित्यर्थः । अतिरेके अर्द्धरात्रात् परतः
संक्रमणे परेऽहनि मानार्द्बं पुण्यमित्यनुष-
ज्यते । मानार्द्धन्तु प्रहरद्वयम् ।
“अर्द्धरात्रादधस्तस्मिन् मध्याह्नस्योपरिक्रिया ।
ऊर्द्ध्वं संक्रमणे भानोरुदयात् प्रहरद्वयम् ।
पूर्णार्द्धरात्रसंक्रान्तौ द्वे दिनार्द्धे तु पुण्यदे ॥”
इति स वत्सरप्रदीपगङ्गावाक्यावलीधृतवशिष्ठ-
सौरधर्म्मवचनैकवाक्यत्वात् !
“अर्द्धरात्रादधश्चैव दिनार्द्धस्योपरि क्रिया ।
ऊर्द्धं संक्रमणे भानोरुदयात् प्रहरद्बयम् ॥”
इति भोजराजकृत्यचिन्तामणिधृतैकवाक्यत्वाच्च
अधः पूर्व्वं ऊर्द्ध परत । क्रिया स्नानादिका ।
एवञ्च गर्गवचनस्थतदहरिति यामद्वयपरम् ।
अन्यथा मूलभूतश्रुत्यन्तरकल्पनापत्तेः । एवञ्च
षडशीतिमुखेऽतीते इत्यादि दिवासंक्रमण-
विषयम् । तेन दिवा षडशीतिसंक्रमणे भूते
भविष्यन्मानार्द्धं पुण्यं एवं विषुवद्वयेऽपि ।
दिवोत्तरायणेऽपि भविष्यद्विंशतिदण्डानां
पुण्यत्वम् । अत्रीत्तरायणस्य पृथगभिधानात्
अयन इति पद दक्षिणायनपरं गीवलीवर्द्दन्या-
यात् । तेन दिवा दक्षिणायने भविष्यति भूत-
त्रिंशद्दण्डानां पुण्यत्वम । एवञ्च षडशीत्या-
दिष्वप्यवकाशमलभमानम् ।
“अर्व्वाक् षोडश विज्ञया नाड्यः पश्चाच्च
षोडश ।
कालः पुण्योऽकसक्रान्तेर्व्विद्वद्भिःपरिकीत्तितः ॥”
इति शातातपोयम् ।
“अतीतानागतो भोगो नाड्यः पञ्चदश स्मृताः ।”
इति देवीपुराणीयञ्च वचन दिवा विष्णपदी
विषयम् । अतएव जावालिबृहद्वशिष्ठौ ।
“पुण्यायां विष्णुपद्याञ्च प्राक् पश्चादपि षोडश ।”
अर्द्धरात्रे विशेषमाह आदावित्यादि । अर्द्धरात्र-
संक्रान्तावादौ पूर्व्वदिन एव मानार्द्धं पुण्यम् ।
यद्यभिन्ना संक्रान्तिकाले पूर्वदिने च एकैव
तिथिर्भवेत् तेन मध्यरात्रे संक्रमणेयदुमयदिन-
मानार्द्धं पुण्यमुक्तं तद्भिन्नतिथिविषयम् । अतीते
पुनरर्द्धरात्रे पूर्वेणाह्ना तिथ्यभेदेऽपि परदिनस्यैव
पूर्व्वार्द्धं पुण्यमिति तात्पर्य्यार्थः ॥ एवञ्च रात्रि-
संक्रान्तौ दिन एव पुण्यत्वाभिधानात् ।
“राहुदर्शनसंक्रान्तिविवाहात्ययवृद्धिषु ।
स्नानदानादिकं कुर्य्युर्निशि काम्यव्रतेषु च ॥”
इति देवलेन दिनसंक्रमणस्य रात्रिप्रविष्टपुण्य-
कालांशे सक्रान्तिनिमित्तेन स्नानदानादि
विधीयते इति ॥ * ॥ यत्तु ।
“मन्दा मन्दाकिनी ध्वाङ्क्षी घोरा चैव महोदरी
राक्षसी मिश्रिता प्रोक्ता संक्रान्तिः सप्तधा नृप
मन्दा ध्नुवेषु विज्ञेया मृदो मन्दाकिनी तथा ।
क्षिप्रे ध्वाङ्क्षीं विजानीयादुग्रे घोरा प्रकीर्त्तिता
चरे महोदरी ज्ञेया क्रूरैरृक्षैश्च राक्षसी ।
मिश्रिता चैव विज्ञेया मिश्रितर्क्षैस्तु संक्रमे ॥”
इत्येतैर्द्बादशस्वेव संक्रान्तिषु ध्रुवादिनक्षत्र-
योगान्मन्दादिरूपतया सप्तधाभिन्नासु ।
“त्रि चतुः पञ्च सप्ताष्ट नव द्वादश एव च ।
क्रमेण घटिका ह्येतास्तत्पुण्यं पारमार्थिकम् ॥”
इति देवीपुराणे एव त्रिचतुरादिघटिकानां
पुण्यत्वमुक्तं तद्दिवारात्र्योस्तत्तत्कालोपदेशात्
अवकाशमलभमानं सन्ध्याद्वयसंक्रान्तिविषयमि-
ति समयप्रकाशः ॥ * ॥ ध्रुवादिगणस्तु दीपिकायाम्
“उग्रः पूर्व्वमघान्तकाः ध्रुवगणस्त्रीण्युत्तराणि
स्वभू-
र्व्वातादित्यहरित्रयं चरगणः पुष्याश्विहस्ता
लघुः ।
चित्रामित्रमृगान्त्यभं मृदुगणस्तीक्ष्णोऽहि-
रुद्रेन्द्रयुक्
मिश्रोऽग्निः सविशाखभः शुभफलाः सर्व्वेस्वकुत्ये
गणाः ॥”
अन्तको भरणी । स्वभू रोहिणौ । वातादित्य-
हरित्रयं स्वाती पुनवसुः श्रवणा धनिष्ठा
शतभिषा । मित्रमृगान्त्यभं अनुराधामृगशिरो
रेवत्यः । अहिरुद्रन्द्रयुक् अश्लषा आर्द्रा
ज्येष्ठा मूला । आग्नः कृत्तिका । कल्पतरुस्तु ।
क्रमेण यथासंख्यन एता घटिकास्तत्पुण्यं तस्य
सक्रमणस्य पुण्यहेतुत्वात् पुण्यं पारमार्थिक
मुख्यम् ।
“त्रुटेः सहस्रभागो यः स कालो रविसंक्रमः ।”
इत्युक्तसूक्ष्मसङ्क्रमकालानानुष्ठानजन्यपुण्य-
समपुण्यहेतवं इत्याह । त्रुटिस्तु ।
“लघ्वक्षरचतुर्भागस्त्रुटिरित्यभिधीयते ।
त्रुटिद्वय लवः प्रोक्ता निमेषस्तु लवद्वयम् ॥”
इति स्मृत्युक्ता ॥
एतदेव मत युक्तम् । अतएव देवलेन ।
“या याः सन्निहिता नाड्यस्तास्ताः पुण्यतमाः
स्मृताः ।”
पृष्ठ ५/२१५
इत्यक्तम् । एवञ्चेता घटिकाः पुण्यतमाः माना-
र्द्धादिकन्तु पुण्यमात्रमिति तस्मान्मन्देत्यादि न
सन्ध्यासंक्रान्ति विषयकमिति । सन्ध्यासंक्रान्ति-
विषयत्वे पारमार्थिकमित्यनुपपत्तेः । पुण्य-
मित्यनेनैव सिद्धिः । पारमार्थिकमित्यत्र कल्प-
तरुव्यांख्यानावलोकनात् रविसंक्रम इति
पाठकल्पनं कल्पनमेव । समयप्रकाशकृतापि
तथा पठितत्वात् । जीमूतवाहनाऽपि काल-
विवेके ।
“अह्रि संक्रमणे पुण्यमहः कृत्स्नं प्रकीर्त्तितम् ।
रात्रौ संक्रमणे भानोर्द्दिनार्द्धं स्नानदानयोः ॥”
इति बृहद्वशिष्ठादिवचनपर्य्यालाचनया दिवा-
संक्रान्तौ दिनमात्रं पुण्यं पुण्यतरास्तु विशेष-
विहिता नाड्यः इत्याह । अतएव तद्धृतजा-
बालिबृहस्पतिशातातपवचनमपि सङ्गच्छते ।
यथा, --
“वर्त्तमाने तुलामेषे नाड्यस्तूभयतो दश ॥”
कालमाधवीयेऽपि । अह्रीत्यभिधाय प्राशस्त्य-
तारतम्यमुक्तम् । एवञ्च दिवासंक्रान्तौ कृत्स्नं
दिनं पुण्यं षडशीतिमुखेऽतीते इति वचनं
पुण्यतरपरम् ॥ * ॥ ननु देवीपुराणे दिवा-
रात्र्योः संक्रमणे विशिष्यकालाभिधानात्
सन्ध्यासंक्रान्तेः कः काल इति चेत् ।
“त्रिंशन्मुहूर्त्तं कथितमहोरात्रन्तु यन्मया ।”
इति विष्णुपुराणेन सन्ध्ययोः पृथगनुपादानात्
दिवारात्रिसम्बन्धित्वान्मुहूर्त्तार्द्धेन तयोरन्तर्भावः
तथा च दक्षः ।
“अहोरात्रस्य यः सन्धिः सूर्य्यनक्षत्रवर्ज्जितः ।
सा तु सन्ध्या समाख्यातामुनिभिस्तत्त्वदर्शिभिः ॥”
योगियाज्ञवल्क्यः ।
“ह्रासवृद्धी च सततं दिनरात्र्योर्यथाक्रमम् ।
सन्ध्या मुहूर्त्तमाख्याता ह्रासे वृद्धौ समा
स्मृता ॥”
वराहः ।
“अर्द्धास्तमयात् सन्ध्या व्यक्तीभूता न तारका
यावत् ॥”
तेजःपरिहानिरुषा भानोरर्द्धोदयं यावत् ॥”
अतएव केनापि मुनिना नानादेशीयसंग्रह-
कारेण च सन्ध्यासंक्रान्तित्वेन विशेषो नाभि-
हितः ॥ * ॥ * ॥ तदयं संक्षेपः । दिनसंक्र-
मणे कृत्स्नं दिनं पुण्यम् । षडशीतिमुखेऽतीते
इत्याद्युक्तं पुण्यतरं । मन्दा मन्दाकिनीत्यादि-
रूपेण त्रिचतुरादिघटिकाः पुण्यतमाः ।
दिनवृत्तोत्तरायणादिविहितविंशतिदण्डादीनां
रात्रिप्रविष्टभागस्यापि पुण्यत्वम् । रात्रिसंक्र-
मणे तु कलान्यूनप्रथमार्द्धरात्रगते तद्दिवसीय-
शेषयामद्वयं पुण्यम् । कलाद्वयात्मकमध्यरात्र-
गते तद्दिवसीयतिथिरभेदे तद्दिवसीयशेषयामद्वयं
पुण्यम् । भेदे तु तद्दिवसीयशेषयामद्वयं पर-
दिवसीयाद्ययामद्वयञ्च पुण्यम् । उभयदिने
पुण्यकालेऽपि पूर्व्वदिनाकरण एव परदिने
तद्विहितं कार्य्यम् । तिथिभेदाभेदयोर्द्दक्षिणा-
यने तद्दिवसीयशेषयामद्वयं उत्तरायणे तु पर-
दिवसीयाद्ययामद्वयं पुण्यमिति । मध्यरात्रीय-
कलोत्तरशेषार्द्धरात्रसंक्रमणमात्रे तु परदिनाद्य-
यामद्वयं पुण्यमिति । सन्ध्यासंक्रमणे तु दिन-
दण्डेदिनस्य रात्रिदण्डे रात्रेर्व्यवस्थेति ॥ * ॥ * ॥
ब्रह्मपुराणे ।
“शुक्लपक्षस्य सप्तम्यां यदा संक्रमते रविः ।
महाजया तदा प्रोक्ता सप्तमी भास्करप्रिया ॥
स्नानं दानं तपो होमः पितृदेवाभिपूजनम् ।
सर्व्वं कोटीगुणं प्रोक्तं तपनेन महौजसा ॥”
अत्र ।
“मासपक्षतिथीनाञ्च निमित्तानाञ्च सर्व्वशः ।”
इत्यनेन प्राप्ततिथ्युल्लेखे तद्विशेषणत्वेन महा-
जया इत्युल्लेख्यम् । संज्ञाविधेरेतदेव प्रयोजनं
यत्तया निर्द्देश इत्युक्तत्वात् । एवञ्च संक्रान्ति-
विशेषस्य निमित्तत्वेन प्राप्तौ विषुवाद्यु-
ल्लेखोऽपि ॥ * ॥ स्कान्दे ।
“एकान्ततो मया प्रोक्ताः कालाः संक्रान्ति-
संज्ञकाः ।
नैतेषु विद्यतेऽनिष्टं यतश्चाक्षयसंज्ञिताः ॥
अश्रद्धयापि यद्दत्तं कुपात्रेभ्योऽपि मानवैः ।
अकालेऽपि हि तत् सर्व्वं सत्यमक्षयतां व्रजेत् ॥”
मात्स्ये ।
“अयने कोटिगुणितं लक्षं विष्णुपदीषु च ।
षडशीतिसहस्रन्तु षडशीत्यामुदाहृतम् ॥
शतमिन्दुक्षये पुण्यं सहस्रन्तु दिनक्षये ।
विषुवे शतसाहस्रमा का-मा-वैष्वनन्तकम् ॥”
आ-का-मा-वैषु आषाडीकार्त्तिकीमाघी-
वैशाखीपूर्णिमासु । देवीपुराणे ।
“रविसंक्रमणे पुण्ये न स्नायाद्यस्तु मानवः ।
सप्तजन्मस्वसौ रोगी निर्द्धनश्चोपजायते ॥” * ॥
दीपिकायाम् ।
“नाडीनक्षत्रदिवसे रविभौमशनैश्चराः ।
संक्रान्तिं यस्य कुर्व्वन्ति तस्य क्लेशोऽभिजायते ॥
गोमूत्रसर्षपैः स्नानं सर्व्वौषधिजलेन च ।
विशुद्धं काञ्चनं दद्यान्नाडीदोषोपशान्तये ॥
नाडीनक्षत्राणि चाद्यदशषोडशाष्टादशत्रयो-
विंशतिपञ्चविंशतयः । रत्नमालायाम् ।
“ताराबलादिन्दुरथेन्दुवीर्य्या-
द्दिवाकरः संक्रममाण उक्तः ।
ग्रहाश्च सर्व्वे सवितुर्बलेन
महीसुताद्याः क्रमशः प्रशस्ताः ॥” * ॥
संवत्सरप्रदीपे ।
“धुस्तूरबीजसलिलैः स्नायात् संक्रान्तिशान्तये
तथा सर्व्वौषधीभिश्च विष्णुमन्त्राश्च संजपेत् ॥
यदाह्रि मेषसंक्रान्तिस्तुलासंक्रमणं निशि ।
तदा प्रजा विवर्द्धन्ते धनधान्यसमृद्धिभिः ॥
कुजार्कशनिवारेण महासंक्रमणं यदा ।
तदा भवेत् प्रजानाशो दुर्भिक्षादिभयं महत् ॥”
षट्त्रिंशन्मतनिगमौ ।
“संक्रान्त्यां पञ्चदश्याञ्च द्वादश्यां श्राद्धवासरे ।
वस्त्रं न पीडयेत्तत्र न च क्षारेण योजयेत् ॥
संक्रान्त्याञ्च त्रयोदश्यां पक्षान्ते नवमीदिने ।
सप्तम्यां रविवारे च स्नानमामलकैस्त्यजेत् ॥”
शातातपः ।
“रविवारेऽर्कसंक्रान्त्यां षष्ठ्यां वै सप्तमीतिथौ ।
आरोग्यकामस्तु नरो निम्बपत्रं न भक्षयेत् ॥” *
कृत्यचिन्तामणी गुणिसर्व्वस्वे च ।
“चैत्रे मासि च सम्पूज्यो घण्टाकर्णो घटात्मकः ।
आरोग्याय स्नुहीमूलं सक्रान्त्यां तत्र कारयेत् ॥”
पूजामन्त्रः ।
“घण्टाकर्ण महावीर सर्व्वव्याधिविनाशन ।
विस्फोटकभये प्राप्ते रक्ष रक्ष महाबल ! ॥”
शिवपुराणे ।
“घण्टाकर्णो गणः श्रीमान् शिवस्यातीव-
वल्लभः ॥” * ॥
कृत्यचिन्तामणौ ।
“मसूरं निम्बपत्रञ्च योऽत्ति मेषगते रवौ ।
अपि रोषान्वितस्तस्य तक्षकः किं करिष्यति ॥”
संवत्सरप्रदीपे तूत्तरार्द्धे ।
“मेषस्थे च विधौ तस्य नास्त्यङ्गे विषजं भयम् ॥”
स्मृतिः ।
“मेषादौ शक्तवो देया वारिपूर्णा च गर्गरी ॥”
वारिदानमन्त्रः ।
“एष धर्म्मघटो दत्तो ब्रह्मविष्णुशिवात्मकः ।
अस्य प्रदानात् सफला मम सन्तु मनोरथाः ॥
वैशाखे यो घटं पूर्णं सभोज्यं वै द्विजन्मने ।
ददात्यभुक्त्वा राजेन्द्र स याति परमां गतिम् ॥”
पूर्णं जलेनेति शेषः । महार्णवे ।
“यो ददाति हि मेषादौ शक्तूनम्बूघटान्वितान्
पितॄनुद्दिश्य विप्रेभ्यः सर्व्वपापैः प्रमुच्यते ॥
विप्रेभ्यः पादुके छत्रं पितृभ्यो विषुवे शुभम् ।”
पितृम्यः पितॄनुद्दिश्य इत्यर्थः । अत्र विषुवस्य
पुण्यविशेषजनकत्वेन विवक्षितत्वात् मेषादाविति
विषुवसंक्रान्तिपुण्यकालपरम् । अन्यथा कालद्व-
यकल्पनापत्तेः ॥ * ॥ कर्म्मोपदेशिन्यां व्यासः ।
“संक्रान्त्यां पक्षयोरन्ते द्वादश्यां श्राद्धवासरे ।
सायंसन्ध्यां न कुर्व्वीत कृते च पितृहा भवेत् ॥”
देवीपुराणे ।
“अतीतानागतो भोगो नाड्यः पञ्चदश स्मृताः ।
सान्निध्यन्तु भवेत्तत्र ग्रहाणां संक्रमे रवेः ॥
पुण्यपापविभागेन फलं देवी प्रयच्छति ।”
भोगः पुण्यपापजननयोग्यकालः । पुण्यपाप-
विवेचने विश्वामित्रः ।
“यमार्य्याः क्रियमाणं हि शंसन्त्यागमवेदिभिः ।
स धर्म्मो यं विगर्हन्ति तमधर्म्मं प्रचक्षते ॥”
आगमवेदिभिः क्रियमाणमिति सम्बन्धः ।
तान्त्रिकास्तु ।
“विहितक्रियया साध्यो धर्म्मः पुंसो गुणो मता ।
प्रतिषिद्धक्रियासाध्यः स गुणोऽधर्म्म उच्यते ॥”
अत्रैकस्मिन्नेव काले पुण्यपापफलदानदर्शनात्
संक्रमणपुण्यकाल एव स्नानादिवत्तैलादित्यागः
एवमेव गुरुचरणाः । एकादशीप्रकरणोक्त-
सक्रान्त्यु पवासस्य व्रतत्वेन भावरूपत्वात् भाव-
पृष्ठ ५/२१६
घटितत्वाद्वोभयथापि तत्र पूज्ये विधेर्वृत्तिरित्य-
नेन पुण्यकालयुक्ताहोरात्रकर्त्तव्यता अष्टम्युप-
वासवत् । एकादशीतत्त्वे एतद्बहुधा विमृष्टम् ।
एवञ्च रात्रिप्रागर्द्धसंक्रान्तौ दिवाशेषार्द्धमात्रस्य
तत्पुण्यकालत्वाद्रात्रिमुहुर्त्तार्द्धे सायं सन्ध्यो-
पासनं कार्य्यमेव । * । ब्रह्मपुराणे ।
“नित्यं द्वयोरयनयोर्नित्यं विषुवतोर्द्वयोः ।
चन्द्रार्कयोर्ग्रहणयोर्व्यतीपातेषु पर्व्वसु ॥
अहोरात्रोषितः स्नानं श्राद्धं दानं तथा जपम् ।
यः करोति प्रसन्नात्मा तस्य स्यादक्षयञ्च तत् ॥”
अहोरात्रोषितः पूर्व्वदिने कृतोपवासः । एतत-
परमेव ।
“अर्द्धरात्रे व्यतीते तु संक्रान्तिर्यदहर्भवेत् ।
पूर्व्वे व्रतादिकं कुर्य्यात् परेद्युः स्नानदानयोः ॥”
इति भीमपराक्रमीयम् ॥
स्नानदानयोरित्यत्र सप्तमीनिर्द्देषात् परदिव-
सायस्नानदानादिनिमित्तकं पूर्व्वदिने उपवास-
संयमरूपः व्रतादिकं कुर्य्यादित्यर्थः । इति
तिथ्यादितत्त्वम् ॥ * ॥ अथ रविसंक्रान्तिगणनम्
“नवाष्टशक्रहीनेन शकाब्दाङ्केन पूरिताः ।
भूर्व्वाणचन्द्रावेकाम्नी कुरामौ वेदयुग्मके ॥
१ । १५ । ३१ । ३१ । २४ ॥
अङ्का अनुपलादेस्तु षष्ट्या लब्धाङ्कमिश्रिताः ।
दण्डात् खाम्बी हयेषू च ३० । ५७ । पलाद्धित्वा
ततः पुनः ॥
सप्तावशिष्टा वाराः स्युस्ततो दण्डादिकाः परे ।
मेषसंक्रमणे भानोः सिद्धान्तस्फुटसम्मताः ॥
भुजौ षडिषू रामाग्नी २ । ५६ । ३३ । कालो
जातिर्गजावनी । ६ । २२ । १८
रामश्चन्द्रोऽग्नियुग्मश्च ३ । १ । २३ । तर्कोऽङ्क दृङ्-
नवाशुभौ ॥ ६ । २९ । ५९ ॥
द्वावङ्कदृग्वेदबाणा २ । २९ । ५४ । अब्धिर्वाणशरौ
सुराः । ४ । ५५ । ३३ ।
षणागवेदौ शून्येन्दू ६ । ४८ । १० । एकं शैलभुवौ
शराः ॥ १ । १७ । ५ ॥
द्वौ षडग्नी तथा काला २ । ३६ । ६ । अब्धीरामाः
शरावनी । ४ । ३ । १५ ।
पश्चाग्नीषू तथा रुग्रा ५ । ५३ । ११ । मेष-
संक्रमवारतः ।
अङ्केर्योज्या वृषादेस्तु वाराद्याः संक्रमे रवेः ॥”
इति ज्योतिस्तत्त्वम् ॥

सङ्क्रान्तिचक्रं, क्ली, (संक्रान्त्याश्चक्रम् ।) नराणां

शुमाशुभ-ज्ञानार्थनक्षत्राङ्कितनराकारचक्रम् ।
यथा, --
“मूर्ध्नि सप्त मुखे त्रीणि हृदये पञ्च विन्यसेत् ।
त्रितयं हस्तपादेषु महाविषुवभक्रमात् ॥
मस्तके भूपतेः सौख्यं वदने पटुता स्वभे ।
हृदये च धनाध्यक्षोऽर्थप्राप्तिर्दक्षिणे करे ॥
वामकरे महद्दुखं सुखं पादे च दक्षिणे ।
भ्रमणं वामपादे च कथितं विषुवत्फलम् ॥”
इति महाविषुवचक्रम् ॥ * ॥
“षड्मूर्ध्नि वदने पञ्च चत्वारि हृदये तथा ।
त्रितयं करपादेषु पयोविषुवभक्रमात् ॥
मानं मूर्द्ध्नि मुखे चैवं हृदये सुखसम्भवः ।
दोः पदोर्दक्षयोर्भोगस्त्रासश्च वामयोः स्वभे ॥”
इति जलविषुवचक्रफलम् ॥ * ॥
“शीर्षे पञ्च मुखे त्रीणि हस्थयोश्च त्रयं त्रयम् ।
हृदि पञ्च शशी नाभौ गुदे च पादयो रसाः ।
उत्तरायणभाज्ज्ञेयं स्वनक्षत्रस्थितेः फलम् ॥
शीर्षेऽर्थलाभो वदने सुखानि
दक्षे करेऽङ्घ्रौ हृदये च सौख्यम् ।
नाभौ शुभं वामकरेऽर्थनाशो
गुह्ये भयं वामपदे प्रवासः ॥”
इत्युत्तरायणचक्रफलम् ॥ * ॥
“शीर्षे त्रीणि मुखे त्रीणि हृदये पञ्च हस्तयोः ।
अष्टौ पादद्वयेऽप्यष्टौ दक्षिणायनभक्रमात् ॥
शीर्षे मानं मुखे विद्या हृदये वित्तसञ्चयः ।
प्रवासः स्यात् करे वामे भिक्षालाभश्च दक्षिणे ।
निष्फलं वामपादे च किञ्चिल्लाभश्च दक्षिणे ॥”
इति दक्षिणायनचक्रफलम् ॥ * ॥
“ऋक्षे संक्रसणं यत्र विष्णुपद्यां मुखे च तत् ।
चत्वारि दक्षिणे बाहौ त्रीणि त्रीणि पदद्बये ॥
चत्वारि वामवाहौ च हृदये पञ्च निर्द्दिशेत् ।
अक्ष्णोर्द्वयं द्बयं योज्यं मूर्द्ध्नि द्वौ चैककं
गुदे ॥
रोगो भोगस्तथा यानं बन्धनं लाभ एव च ।
ऐश्वर्य्यं राजपूजा च अपमृत्युरिति क्रमात् ॥”
इति विष्णुपदीचक्रफलम् ॥ * ॥
“मुखे चैकं करे वेदाः पादयुग्मे द्बयं द्बयम् ।
क्रोडे वाणस्तथा वेदाः करे सव्येतरेऽपि च ॥
द्वयं द्वयं तथा नेत्रे मस्तके त्रितयं तथा ।
द्वयञ्चैव तथा गुह्ये षडशीत्यां स्वभे स्थिते ॥
मुखे दुःखं करे लाभः पादयोर्भ्रमणं हृदि ।
कान्ता स्याद्बन्धनं वामे हस्ते स्यात् स्वीयभे
नृणाम् ॥
सम्मानं नेत्रयोश्चैव अपमानञ्च मस्तके ।
गुह्ये चैव भवेन्मृत्युः षडशीतिफलश्रुतिः ॥”
इति षडशीतिचक्रफलम् ॥ * ॥
इति ज्योतिस्तत्त्वम् ॥

सङ्क्रामः, पुं, (सं + क्रम + घञ् ।) दुर्गसञ्चरः ।

इति हेमचन्द्रः ॥

सङ्क्लेदः, पुं, (सं + क्लिद् + घञ् ।) आर्द्रीभावः ।

(यथा, हरिवंशे । ५३ ।
“अनया सह जाह्नष्या मोदमानो ममाज्ञया ।
इमं सलिलसंक्लेदं विस्मरिष्यसि सागर ! ॥”)

सङ्ख्यं, क्ली, (सम्यक् ख्यायतेऽत्रेति । सं + ख्या +

बाहुलकात् कः ।) युद्धम् । इत्यमरः ॥ (यथा,
गीतायाम् । १ । ४६ ।
“एवमुक्त्वार्ज्जुनः संख्ये रथोपस्थ उपाविशत् ॥”
सङ्ख्येये, त्रि ॥

सङ्ख्यता, स्त्री, सङ्ख्यत्वम् सङ्ख्येयता । सङ्ख्य-

शब्दात् भावे तप्रत्ययेन निष्पन्नम् ॥

सङ्ख्या, स्त्री, (संख्यायतेऽनयेति । सं + ख्या +

अङ् । टाप् ।) बुद्धिः । इति राजनिर्घण्टः ॥
विचारणा । इत्यमरः ॥ (यथा, महाभारते ।
२ । ५७ । ७ ।
“यो वेत्ति संख्यां निकृतौ विधिज्ञ-
श्चेष्टास्वखिन्नः कितवोऽक्षजासु ।
महामतिर्यश्च जानाति द्यूतं
स वै सर्व्वं सहते प्रक्रियासु ॥”)
एकत्वादिः । इति मेदिनी ॥ सङ्ख्येये, त्रि ।
यथा, --
“विपणो विक्रयः सङ्ख्याः सङ्ख्येये ह्यादश त्रिषु
विंशत्याद्याः सदैकत्वे सर्व्वाः सङ्ख्येयसङ्ख्ययोः ॥
सङ्ख्यार्थे द्विबहुत्वे स्तस्तासु चानवतेः स्त्रियः ।
पङ्क्तेः शतसहस्रादि क्रमाद्दशगुणोत्तरम् ॥”
इति चामरः ॥
“आदश दशश्रुतिपर्य्यन्तं अष्टादश यावत् एका-
दिकाः संख्याशब्दाः संख्येये द्रव्ये वर्त्तन्ते । त्रिषु
लिङ्गेषु तेन संख्यासंख्येययोः सामानाधिकरण्येन
वृत्तिः । यथा एका शाटी एकः पटः एकं
कुण्डम् । हि शब्दो अवधारणे संख्येय एव न तु
संख्यायामित्यर्थः । तेन घटा दश इति साधुर्न
घटानां दशेति । किन्तु द्व्येकयोर्द्विवचनैक-
वचने इति सूत्रे द्व्येकयोरिति निर्द्देशात् संख्या-
मात्रेऽपि सम्भव इति भाव्यम् । घटानां
पञ्च इत्यपि स्यादिति सुभूतिः । वार्त्ताकुरेषा
गुणसप्तयुक्ता इति वैद्यकम् । आङ्शब्देन
दशशब्दस्याव्ययीभावः । दशशब्दस्य त्रिलि-
ङ्गत्वात् नपुंसकत्वपक्षे क्लीवाद्वेति पक्षे अः तेन
आदशं आदशेति पाठः । विंशः । अष्टादश-
परा विंशत्याद्याः सर्व्वा एव सख्याः संख्यायां
संख्येये च नित्यमेकवचनान्ता भवन्ति यथा
विंशतिर्भावः गवां विंशतिः । संख्या । इह
संख्या संख्यान्तरं अन्यथा पूर्व्वेण विरोधः
स्यात् संख्या अर्थः अभिधेयो यस्य स संख्यार्थः
तत्र संख्यार्थे विंशत्यादौ संख्यायां संख्य्येये च
सामानाधिकरण्यात् द्विवचनबहुवचने मवतः
यथा द्बे विंशती गावः गवां वा तिस्रो विंश-
तयो गावः गवां वा एवं द्वे शते दश शतानी-
त्यादि । अयमभिप्रायः सदा विंशत्यादीनाम-
नावृत्तिरेकैव विंशतिरेकमेव शतमित्येवं स्यात्
तदा पूर्व्वेण एकवचनान्ततैव यथोक्तं विंशति-
र्गावः गवां विंशतिरिति । यदा विंश्यत्यादे-
राबृत्तिर्विंशतिद्वयं शतद्वयमित्येवं स्यात् तदा
अनेन द्विवचनबहुवचनान्तता स्यात् यथोक्तं
द्वे विंशती तिस्रो विंशतयः । अतएव परे
परिभाषन्ते । विंशत्यादेरनावृत्तौ बहुत्वे-
ऽप्येकवचनं इति एकशेषात् द्वे विंशती तिस्रो
विंशतयः इत्यन्येऽपि । स्वमतेऽपि त्र्यादयः
संख्याशब्दाव्वान्ता इत्युक्तेः टेर्लोप इति सूत्रे
विंशतेस्तेस्त्वाङाविति ङिवर्ज्जनेनैव एकवचना
न्तताज्ञापकात् क्वद्वव्वानि इत्यनेन चावृत्तौ
द्वित्वबहुत्वसम्भवाच्चायमर्थोऽवगम्यः । तासु
संख्यासु विंशताद्या नवत्यग्त्याः स्त्रीलिङ्गाः
भिन्नलिङ्गेनापि सामानाधिकरण्ये स्तिय एव
पृष्ठ ५/२१७
यथा विंशत्या पुरुषैः विंशतिः कुलानीति
विंशतिः श्रुतिरष्टाविंशतियावत् एवं त्रिंशत्
श्रुतिरष्टात्रिंशद्यावत् एवं चत्वारिंशदादौ ।
पङ्क्तिर्दशसङ्ख्या तामारभ्य परार्द्धन्तं दश-
गुणोत्तरं दशगुणाधिकं क्रमात् शतसहस्रादि
भवति । क्रमादितिपदोपादानादयमर्थः एकं
दशगुणितं पङ्क्तिरुच्यते । दशपङ्क्तयः शतम् ।
दशशतानि सहस्रम् । एवं दशगुणितं सहस्र-
मयुतम् । एवं लक्षनियुतादि ज्ञेयम् । तथा च ।
ब्रह्माण्डपुराणम् ।
‘एकं दश शतञ्चैव सहस्रमयुतं तथा ।
लक्षञ्च नियुतञ्चैव कोटिरर्वुदमेव च ॥
वृन्दः खर्व्वो निखर्व्वश्च शङ्खपद्मौ च सागरः ।
अन्त्यं मध्यं परार्द्धञ्च दशवृद्ध्या यथाक्रमम् ॥’
शतं तालव्यशकारम् । सहस्रं द्विदन्त्यसका-
रम् ।” इति भरतः ॥ * ॥ न्यायमते अस्या
गणनव्यवहारे कारणत्वम् । एकत्वं नित्य-
वस्तुनि नित्यम् । अन्यत्र अनित्यम् । द्बित्वादि-
परार्द्धपर्य्यन्तं अपेक्षाबुद्धेर्ज्जायते । एवं अपेक्षा-
बुद्धिनाशे तेषां नाशः । पर्य्याप्तिसम्बन्धेन अने-
काश्रये तिष्ठन्ति । यथा, --
“गणनव्यवहारे तु हेतुः संख्या विधीयते ।
नित्येषु नित्यमेकत्वमनित्येऽनित्यमिष्यते ॥
द्वित्वादयः परार्द्धन्ता अपेक्षा बुद्धिजा मताः ।
अनेकाश्रयपर्य्याप्ता एते तु परिकीर्त्तिताः ॥
अपेक्षाबुद्धिनाशाच्च तेषां नाशो निरूपितः ।
अनेकैकत्वबुद्धिर्या सापेक्षा बुद्धिरुच्यते ॥”
इति भाषापरिच्छेदः ॥ * ॥
अपि च ।
श्रीमैत्रेय उवाच ।
“परार्द्धसंख्यां भगवन् ! ममाचक्ष यया तु सः ।
द्विगुणीकृतया ज्ञेयः प्राकृतः प्रतिसञ्चरः ॥
श्रीपराशर उवाच ।
स्थानात् स्थानं दशगुणमेकस्माद्गुण्यते द्विज ।
ततोऽष्टादशमे भागे परार्द्धमभिधीयते ॥
परार्द्धद्वितयं यत्तु प्राकृतः प्रलयो द्विजः ।
तदाव्यक्तेऽखिलं व्यक्तं सहेतौ लयमेति वै ॥”
इति विष्णुपुराणे ६ अंशे ३ अध्यायः ॥

सङ्ख्यातं, त्रि, (सं + ख्या + क्तः ।) कृतसङ्ख्यम् ।

तत्पर्य्यायः । गणितम् २ । इत्यमरः ॥ (यथा,
भागवते । ६ । १४ । ३ ।
“इजोभिः समसंख्याताः पार्थिवैरिह जन्तवः ।
तेषां ये केचनेहन्ते श्रेयो वै मनुजादयः ॥”)

सङ्ख्यानं, क्ली, (सं + ख्या + ल्युट् ।) सङ्ख्या ।

संपूर्व्वख्याधातोरनट्प्रत्ययेन निष्पन्नम् ॥ (यथा,
मनुः । ८ । ४०० ।
“मिथ्यावादी च संख्याने दाप्योऽष्टगुणमत्ययम् ॥”
प्रकाशः यथा, भागवते ५ । १७ । १७ ।
“ॐ नमो भगवते महापुरुषाय सर्व्वगुणसंख्या-
नायानन्तायाव्यक्ताय नम इति ॥”
“सर्व्वेषां गुणानां संख्यानं प्रकाशो यस्मात् ।”
इति तत्र श्रीधरस्वामी ॥)

सङ्ख्यावान्, पुं, (संख्य्या बुद्धिरस्त्यस्येति । मतुप् ।

मस्य वः ।) पण्डितः । इत्यमरः ॥ (यथा,
काशीखण्डे । ८२ । ८ ।
“रणाङ्गणे कृतान्ताभः सङ्ख्यावांश्च सदोजिरे ॥”)
सङ्ख्यायुक्ते, त्रि । इति मेदिनी ॥

सङ्ख्येयं, त्रि, (संख्यातुं योग्यमिति । सं + ख्या +

यत् ।) सङ्ख्यायोम्यम् । तत्पर्य्यायः । गणेयम् २
गणनीयम् ३ । इति जटाधरः ॥ गण्यम् ४ ।
इति हेमचन्द्रः ॥ (यथा, साहित्यदर्पणे । ४ !
२५५ ।
“एकोऽपि भेदोऽनन्तत्वात् सङ्ख्येयस्तस्य नैव
यत् ॥”)

सङ्गः, पुं, (सञ्जसङ्गे + घञ् ।) मेलनम् । तत्प-

र्य्यायः । मेलकः २ सङ्गमः ३ । इत्यमरः ॥
(यथा, देवीभागवते । १ । २० । ६७ ।
“अम्बिका च यदा स्नाता नारी ऋतुमती तदा
सङ्गं प्राप्य मुनेः पुत्त्रमसूतान्धं महाबलम् ॥”)
रागः । यथा । “रागसङ्गौ तु गृध्नुता ।” इति
त्रिकाण्डशेषः ॥ (यथा, कुमारे । १ । २७ ।
“अनन्तपुष्पस्य मधोर्हि चूते
द्विरेफमाला सविशेषसङ्गा ॥” * ॥)
सङ्गदोषो यथा, --
“स मे समाधिर्ज्जलवासमित्र-
मत्स्यस्य सङ्गात् सहसैव नष्टः ।
परिग्रहः सङ्गकृतो ममायं
परिग्रहोत्थाश्च महाविवित्साः ॥”
इति विष्णुपुराणे ४ अंशे २ अध्यायः ॥
अन्यच्च ।
“अहोऽस्य दारसंयोगः कथं तमूर्द्धरेतसः ।
दृष्ट्वा तयोश्च शृङ्गारं मुनिः कामी बभूव ह ।
जितेन्द्रियेऽसतां सङ्गात् दोषः सांसर्गिको
भवेत् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २३ अध्यायः ॥
अपि च ।
“असतां सङ्गदोषेण को न याति पराभवम् ।
त्रिदशैवन्दितो वह्निर्भस्मना सहितो यथा ॥”
इति चाणक्यम् ॥
किञ्च ।
“यत्र यत्र स्थितो जीवस्तमोयोगेन लज्जते ।
उपहासाय किं न स्यादसत्सङ्गो मनीषिणाम् ॥”
इति ज्योतिस्तत्त्वम् ॥

सङ्गणिका स्त्री, अप्रतिरूपकथा । इति त्रिकाण्ड-

शेषः ॥

सङ्गतं, क्ली, (सं + गम् + क्तः ।) सौहार्द्दम् ।

इति हेमचन्द्रः ॥ यथा, कुमारे । ५ । ३९ ।
“यतः सतां सन्नतगात्रि ! सङ्गतं
मनीषिभिः साप्तपदीनमुच्यते ॥”)
युक्तियुक्तवाक्यम् । इति भरतः ॥ तत्पर्य्यायः ।
हृदयङ्गमम् २ ॥ इत्यमरः । १ । ६ । १८ ॥ (मौर्य्य-
वंशीयनृपतिविशेषे, पुं । यथा, भागवते । १२ ।
१ । १३ ॥
“सुयशा भविता तस्य सङ्गतः सुयशः सुतः ॥”)

सङ्गतिः, स्त्री, (सं + गम + क्तिन् ।) सङ्गमः ।

ज्ञानम् । इति मेदिनी ॥ न्यायमते । आनन्त-
र्य्याभिधानप्रयोजकजिज्ञासाजनकज्ञानविषयो
ह्मर्थः । सा च षोढा । प्रसङ्गः १ । सङ्गतित्वे
सति उपोद्घातादिभिन्नः । यथा सामान्यलक्ष-
णायां प्रसङ्गसङ्गतिः । उपोद्घोतः २ । निर्द्दि-
ष्टोपपादकत्वम् । यथा परामर्शप्रवर्त्तकज्ञाने च
उपोद्घातसङ्गतिः ! हेतुता ३ । यथा । प्रत्यक्ष-
प्रमाणे हेतुतासङ्गतिः । अवसरः ४ । अनन्तर-
वक्तव्यत्वम् । यथा । उपमाने अवसरसङ्गतिः ।
निर्व्वाहकम् ५ । कारणतानिनिर्व्वाहकं कार्य्यत्वम्
यथा । अनुगाने कार्य्यतासङ्गतिः । एककार्य्य-
त्वम् ६ । एककार्य्यकारित्वम् । यथा हेत्वाभासे
एककार्य्यकारित्वसङ्गतिः । इति अनुमितिग्रन्थे
जगदीशतर्कालङ्कारः ॥ (मेलनम् । यथा, मोह-
मुद्गरे । ६ ।
“क्षणमिह सज्जनसङ्गतिरेका
भवति भवार्णवतरणे नौका ॥”
युक्तिः । यथा, --
“त्वमद्य भव नो राजा राजपुत्त्र महायशः ।
सङ्गत्या नापराध्नोति राज्यमेतदनायकम् ॥”
इति रामायणे । २ । ७९ । ३ ॥)

सङ्गमः, पुं, क्ली, (सं + गम + “ग्रहवृदृनिश्चि-

गमश्च ।” ३ । ३ । ५८ । इति अप् ।) सङ्गः ।
इत्यमरः ॥ (यथा, साहित्यदर्पणे ।
“सङ्गमविरहविकल्पे वरमिह विरहो न
सङ्गमस्तस्याः ।
सङ्गमे सैव तथैका त्रिभुवनमपि तन्मयं
विरहे ॥”)
नद्यादिमेलकः । इति पुंनपुंसकलिङ्गसंग्रह-
टीकायां भरतः ॥ स्त्रीपुंसोर्म्मिथुनीभावः । स
त्रिविधः । प्रथमः १ । मध्यमः २ । उत्तमः ३ ।
यथा, --
“त्रिविधं तत्समाख्यातं प्रथमं मध्यमोत्तमम् ।
अदेशकालभाषाभिर्निर्ज्जने च परस्त्रियाः ।
कटाक्षावेक्षणं हास्यं प्रथमं साहसं स्मृतम् ॥ १ ॥
प्रेरणं गन्धमाल्यानां धूपभूषणवाससाम् ।
प्रलोभनञ्चान्नपानैर्म्मध्यमं साहसं स्मृतम् ॥ २ ॥
सहासनं विविक्तेषु परस्परसमाश्रयः ।
केशाकेशिग्रहश्चैव सम्यक्संग्रहणं स्मृतम् ॥” ३ ॥
इति मिताक्षराधृतव्यासवचनम् ॥

सङ्गरं, क्ली, (संगीर्य्यते इति । सं + गॄ + अप् ।)

शमीवृक्षफलम् । इति मेदिनी ॥

सङ्गरः, पुं, (संगृणन्ति शब्दायन्ते वीरा यत्र ।

सं + गॄशब्दे + अप् ।) युद्धम् । (यथा, कथा-
सरित्सागरे । ३१ । ९३ ।
“सङ्कटे हि परीक्ष्यन्ते प्राज्ञाः शूराश्च सङ्गरे ॥”)
आपत् । अङ्गीकारः । (यथा, रघुः । ५ । २६ ।
“तथेति तस्या वितथं प्रतीतः
प्रत्यग्रहीत् सङ्गरमग्रजन्मा ॥”)
संवित् । इत्यमरः ॥ क्रियाकारः । विषम् ।
इति मेदिनी ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/स&oldid=350998" इत्यस्माद् प्रतिप्राप्तम्