पृष्ठ ५/२६२

सप्तनामा, स्त्री, (सप्त नामानि यस्याः । “डाबुभा-

भ्यामन्यतरस्याम् ।” ४ । १ । १३ । इति डाप् ।)
आदित्यभक्ता । इति राजनिर्घण्टः ॥

सप्तपत्रः, पुं, (सप्त सत पत्राणि यस्य ।) मुद्गर-

वृक्षः । इति राजनिर्घण्टः ॥

सप्तपदी, स्त्री, सप्तानां पदानां समाहारः ।

(“द्विगोः ।” ४ । १ । २१ । इति ङीप् ।) इति
व्याकरणम् ॥ विवाहाङ्गसप्तपदीगमनं यथा ।
ततो जामाता प्रागुदीचीं गत्वा बधूं सप्तमि-
र्म्मन्त्रैः सप्तमण्डलिकासु सप्तपदानि नयेत् ।
बवृश्च दक्षिणपादं नीत्वा पश्चाद्वामपादं मण्ड-
लिकां नयत् जामाता च बधूं ब्रूयात् । वामेन
पादेन दक्षिणं पादमाक्रमयेति । सप्तानां
मन्त्राणामृष्यादयः साधारणाः । प्रजापति-
रृषिरेकपाद्विराट् छन्दो विष्णुर्द्देवता पादा-
क्रामणे विनियोगः । ॐ एकमिषे विष्णुस्त्वा
नयतु । द्वे ऊर्ज्जे विष्णुस्त्वा नयतु । त्रीणिंव्रताय
विष्णुस्त्वा नयतु । चत्वारि मायो भवाय विष्णुस्त्वा
नयतु । पञ्चपशुभ्यो विष्णुस्त्वा नयतु । षड्-
रायस्पोषाय विष्णुस्त्वा नयतु । सप्तसप्तभ्यो
होत्राभ्यो विष्णुस्त्वा नयतु ॥ ततः सप्तमं पदं
गतां बधूं पतिराशास्ते । प्रजापतिरृषिर्म्मा-
मकीपंक्तिच्छन्दः कन्या देवता पादाक्रामणा-
नन्तरमाशासने विनियोगः । सखा सप्तपदीभव
सख्यन्ते गमेयं सख्यन्ते मा योषा सख्यन्ते
मायोष्ठ्याः । इति सप्तपदीगमनम् । इति भव-
देवभट्टः ॥

सप्तपर्णं, क्ली, (सप्तानां द्राक्षादीनां पर्णमिव यत्र ।)

मिष्टान्नविशेषः । यथा, --
“द्राक्षादाडि मखर्जूरमृजिताम्रं सशर्करम् ।
लाजचूर्णं समध्वाज्यं सप्तपर्णमुदाहृतम् ॥”
इति शब्दचन्द्रिका ॥

सप्तपर्णः, पुं, (सप्त सप्त पर्णानि यस्य ।) वृक्ष-

विशेषः । छातिम् इति भाषा ॥ (यथा, रघुः ।
४ । २३ ।
“प्रसवैः सप्तपर्णानां मदगन्धिभिराहताः ।
असूययेव तन्नागाः सप्तधैव प्रसुस्रुवुः ॥”)
तत्पर्य्यायः । विशालत्वक् २ शारदी ३ विषम-
च्छदः ४ । इत्यमरः ॥ शारदः ५ देववृक्षः ६
दानगन्धिः ७ शिरोरुजा ८ ग्रहनाशः ९ श्रुति-
पर्णः १० गृहाशी ११ ग्रहनाशनः १२ । इति
शब्दरत्नावली ॥ गुत्सपुष्पः १३ शक्तिपर्णः १४
सुपर्णकः १५ । इति जटाधरः ॥ बृहत्वक् १६
इति रत्नमाला ॥ अस्य गुणाः ।
“सप्तपणो ब्रह्मश्लेष्मवातकुष्ठास्रजन्तुजित् ।
दीपनः श्वासगुल्मघ्नः स्निग्धोष्णस्तुवरः स्मृतः ॥”
अन्यत् सप्तच्छदशब्दे द्रष्टव्यम् ॥

सप्तपर्णी, स्त्री, (सप्त सप्त पर्णान्यस्याः । ङीष् ।)

लज्जालुलता । इति रत्नमालाराजनिर्घण्टौ ॥

सप्तपातालं, क्ली, (सप्तानां पातालानां समा-

हारः ।) सप्तसंख्यकाधोभुवनम् । यथा, --
“आदित्यरश्मितो देवो रुद्ररूपी जनार्द्दनः ।
निःसृत्य प्रथमं यातः पातालतलमन्ततः ॥
सप्तपातालसंस्थांस्तु नागगन्धर्व्वराक्षसान् ।
देवानृषींश्च शेषांश्च जघान वरशूलधृक् ॥”
इति कालिकापुराणे २४ अध्यायः ॥
तन्नामानि यथाह भरतः ।
“अतलं वितलञ्चैव नितलञ्च गभस्तिमत् ।
महाख्यं सुतलञ्चाग्रं पातालं सप्तमं विदुः ॥”

सप्तपुत्त्रसूः, स्त्री (सप्त पुत्त्रान् सूते इति । सू +

क्विप् ।) सप्तपुत्त्रप्रसूता । तत्पर्य्यायः । सुत-
वस्करा २ । इति त्रिकाण्डशेषः ॥

सप्तभद्रः, पुं, (सप्तसु स्थानेषु भद्रमस्य ।) शिरीष-

वृक्षः । इति शब्दचन्द्रिका ॥

सप्तमः, त्रि, (सप्तन् + “तस्य पूरणे डट् ।” ५ ।

२ । ४८ । इति डट् । “नान्तादसंख्यादेर्मट् ।”
५ । २ । ४९ । इति डटो मडागमः ।) सप्तानां
पूरणः । सातै इत्यादि भाषा । यथा, --
“लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः
पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषम् ॥”
इति शुद्धितत्त्वम् ॥

सप्तमी, स्त्री, (सप्तन् + टित्त्वात् ङीप् ।) तिथि-

विशेषः । चन्द्रस्य सप्तमकलाक्रिया । तत्र शुक्ल-
पक्षे अमृतपूर्त्त्यवच्छिन्नसप्तमकलाक्रिया । कृष्ण
पक्षे तु अमृतह्रासानुकूलसप्तमकलाक्रियेति
विशेषः । पञ्चिकायां तस्या अङ्कः शुक्लपक्षे ७
कृष्णपक्षे २२ ॥ * ॥ तत्र जातफलम् ।
“कन्याप्रजो वैरीकुलेभसिंहो
विशालनेत्रः प्रथितप्रभावः ।
देवद्विजार्च्चारसिको महात्मा
स्यात् सप्तमीजः पितृवित्तहर्त्ता ॥”
इति कोष्ठीपदीपः ॥ * ॥
अथ सप्तमी । सा च षष्ठीयुता ग्राह्या युग्मात् ।
पैठीनसिवचनाच्च । यथा, --
“पञ्चमी सप्तमी चैव दशमी च त्रयोदशी ।
प्रतिपन्नवमी चैव कर्त्तव्या सांमुखी तिथिः ॥”
सांमुख्यमुक्तं स्कान्दे ।
“सांमुख्यं नाम सायाह्नव्यापिनी दृश्यते यदा ।”
अतएव परदिने त्रिसन्ध्यकालाव्यापित्वे षष्ठी-
युक्तसप्तम्यामुपवासमाह भविष्यपुराणम् ।
“षष्ठीसमेता कर्त्तव्या सप्तमी नाष्टमीयुता ।
पतङ्गोपासनायेह षष्ठ्यामाहुरुपोषणम् ॥”
यथा उपोषणे तथा कर्म्मान्तरे । तथा ।
“षष्ठ्या युता सप्तमी च कर्त्तव्या सर्वदा तिथिः ।
षष्ठी च सप्तमी यत्र तत्र सन्निहितो हरिः ॥”
इति स्कन्दपुराणात् ॥ तथा ।
“शुक्लपक्षस्य सप्तम्यां सूर्य्यवारो यदा भवेत् ।
सप्तमी विजया नाम तत्र दत्तं महाफलम् ॥”
भविष्ये ।
“शालितण्डुलप्रस्थस्य कुर्य्यादन्नं सुसंस्कृतम् ।
सूर्य्याय चरुकं दत्त्वा सप्तम्याञ्च विशेषतः ॥
यावन्तस्तण्डुलास्तस्मिन्नैवेद्ये परिसंख्यया ।
तावद्वर्षसहस्राणि सूर्य्यलोके महीयते ॥”
गोपथब्राह्मणम् ।
“द्वात्रिंशत्पलिकं प्रस्थमुक्तं स्वयमथर्व्वणा ॥”
ज्योतिषे ।
“पलन्तु लौकिकैर्म्मानैः साष्टरत्तिद्विमाषकम् ।
तोलकत्रितयं ज्ञेयं ज्योतिर्ज्ञैः स्मृतिसम्मतम् ॥”
तेन चतूरत्तिकाधिकमाषपञ्चकाधिकषडधिक-
शततोलकमिताः प्रस्थतण्डुलाः । इति । एव-
ञ्चैतन्न्यू नाधिकयोः फलतारतम्यं बोध्यम् । एवं
देवतान्तरेऽपि तत्तल्लोकमहितत्वफलेन कल्प-
यितुं युक्तम् । अतएव शिवेऽप्येवं वक्ष्यते ॥ * ॥
वराहपुराणे ।
“अथापरं महाराज व्रतमारोम्यसंज्ञितम् ।
कथयामि परं पुण्यं सर्व्वपापप्रणाशनम् ॥
तस्यैव माघमासस्य सप्तम्यां समुपोषितः ।
पूजयेद्भास्करं देवं विष्णुरूपं सनातनम् ॥
आदित्य भास्कर रवे भानो सूर्य्य दिवाकर ।
प्रभाकरेति संपूज्यो देवः सर्व्वेश्वरो रविः ॥
षष्ठ्याञ्चैककृताहारः सप्तम्यां समुपोषितः ।
अष्टम्याञ्चैव भुञ्जीत एष एव विधिः स्मृतः ॥
अनेन वत्सरं पूर्णं विधिना योऽर्च्चयेद्रविम् ।
पृष्ठ ५/२६३
तस्यारोग्यं धनं धान्यमिह जन्मनि जायते ॥
परत्र च शुभं स्थानं यद्गत्वा न निवर्त्तते ।”
सप्तम्यां समुपोषित इति आदिकर्म्मणि क्तः ।
तेन सप्तम्यां समुपवस्तुमारब्धवानित्यर्थः । ततश्च
प्रातः सप्तम्यामेवोपवाससङ्कल्पः । रविश्च विष्णु-
रूपतया पूजाकाले ध्येयः । अभिलापे तु
तत्तिथावित्युक्त्वा आरभ्येति ऐहिकारोग्यधन-
धान्यपारलौकिकशुभस्थानलाभकामः संवत्सरं
यावदारोग्यव्रतमिति विशेषः । ततः प्रभृति-
सप्तम्यामुपवासं कुर्व्वन् ।
“आदित्य भास्कर रवे भानो सूर्य्य दिवाकर ।
प्रभाकर नमस्तुभ्यं अस्माद्रोगाद्विमोचय ॥”
इति मन्त्रेण पूजयेत् । अत्र षष्ठ्यादिषु तत्तत्-
कर्म्मविधानात् षष्ठीसमेतेत्यस्य न विषयः ।
कालिकापुराणे भक्तं प्रति सूर्य्यवाक्यम् ।
“अदृष्ट्वा मां न भुञ्जीत विण्मूत्रं नैव दर्शयेत् ॥”
तथा ।
“मदर्च्चाधृतनिर्म्माल्यं शरीरे न तु धारयेत् ॥”
अर्च्चा प्रतिमा ॥ * ॥ अथ विधानसप्तमी ।
कृत्यचिन्तामणौ ।
“अर्काग्रं शुचि गोमयं सुमरिचं तोयं फलञ्चाश्नुते
मूलं नक्तमुपोषणञ्च विधिवत् कृत्वैकभक्तं नरः ।
क्षीरं वाय्वशनं घृताशनमिति प्रोक्तान्यमूनि
क्रमात्
कृत्वा द्वादश सप्तमीर्दिनकृतः प्राप्नोत्यभीष्टं
फलम् ॥”
अत्र चार्काग्रादीतरभोजननिवृत्तिरवसीयते ।
तपस्त्वात् । तथा च मत्स्यपुराणम् ।
“तपोभिः प्राप्यतेऽभीष्टं नासाध्यं हि तपस्यतः ।
दुर्भगत्वं वृथा लोको वहते सति साधने ॥”
तपसः क्लेशस्वभावत्वं तत्रैवोक्तम् ।
“उमेऽतिचपला पुत्त्रि न क्षमं तावकं वपुः ।
सोढुं क्लेशस्वभावस्य तपसः सौम्यदर्शने ॥”
व्यक्तमुक्तं यथा, --
“अर्कपत्राङ्कुरमात्रमन्तरीक्षगृहीतकम् ।
कपिलाविड्यवमात्रं मञ्जुलं मरिचं जलम् ॥
कदलीफलमध्यन्तु कणामात्रमपक्वकम् ।
कुशमूलं यवमात्रं स्वच्छायाद्विगुणे क्षणे ॥
भक्ष्यं मितौदनं नक्तं शुद्धोपवसनं तथा ।
एकभक्तं मयूराण्डप्रमाणं भोजनं मतम् ॥
अर्द्धप्रसृतिभात्रन्तु कपिलादुग्धभक्षणम् ।
स्नात्वा सम्पूज्य मार्त्तण्डं प्राङ्मुखो वायुमा-
शयेत् ॥
वृतं स्वल्पं पौषमासे माघादब्दं समाचरेत् ।
ब्राह्मणान् भोजयेद्भक्त्या गुडक्षीरनिरामिषैः ॥
विप्राय दक्षिणा देया विभवस्यानुरूपतः ।
अष्टम्यां पारणं कुर्य्यात् कट्वम्लरहितेन च ॥
मुद्गमाषतिलादीनि घृतञ्चैव विविर्ज्जयेत् ।
एकसिद्धं भक्ष्यमुक्तमर्कतन्त्रानुसारतः ॥” * ॥
एतद्व्रतस्य माधादिभासविशेषविहितकर्म्मत्वेन
मलमासेतरकर्त्तव्यत्वं आह वशिष्ठलिङ्गपुरा-
णम् ।
“प्रारब्धे तु व्रते पश्चात् सम्प्राप्ते त्वधिमासके ।
पूर्व्वमानेन तं त्यक्त्वा कार्य्यं द्वादशमासिकम् ॥”
पूर्व्वमानेन मलिम्लुचशून्याब्दमानेन । तं मल-
मासम् । द्वादशमासेकं द्वादशमासेष्वेव कार्य्यं
न मलमास इत्यर्थः । यत्तु ।
“मासे मलिम्लुचेऽप्येवं यजेद्देवीं सशङ्कराम् ।
किन्तु नोद्यापनं कार्य्यमित्याह भगवान्
शिवः ॥”
हति विष्णुरहस्यवचनम् ॥
तन्मासविशेषानङ्कितमासमात्रकत्तव्यामावास्या-
दिव्रतकर्त्तव्यतापरम् । उद्यापनं प्रतिष्ठा ।
एवमारम्भोऽपि निषिद्धः । गार्ग्यः ।
“अस्तं गते गुरौ शुक्रे बाले वृद्धे मलिम्लु चे ।
उपायनमुपारम्भं व्रतानां नैव कारयेत् ॥”
उपायनं प्रतिष्ठा । उपारम्भमारम्भम् । एनच्च
कालाशुद्धिमात्रपरं तत्तन्मात्रविधिकल्पने गौर-
वात् ॥ * ॥ भविष्ये ।
“भाद्रे मासि सिते पक्षे सप्तम्यां नियमेन या ।
स्नात्वा शिवं लेखयित्वा मण्डले च सहाम्बिकम्
पूजयेच्च तदा तस्या दुष्प्रापं नैव विद्यते ॥”
इदं कुक्कुटीव्रतत्वेन ख्यातम् ॥ * ॥ भविष्ये ।
“सूर्य्यग्रहणतुल्या हि शुक्ला माघस्य सप्तमी ।
अरुणोदयवेलायां तस्यां स्नानं महाफलम् ॥
माघे मासि सिते पक्षे सप्तमी कोटिभास्करा ।
दद्यात् स्नानार्घ्य दानाभ्यामायुरारोग्यसम्पदः ॥
अरुणोदयवेलायां शुक्ला माघस्य सप्तमी ।
गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैः समा ॥”
कोटिभास्करा कोटिसप्तमीतुल्या । सूर्य्यग्रहण-
फलं स्नानजं सन्निहिते बुद्धिरन्तरङ्गेति न्यायात्
तेन बहुशतसूर्य्यग्रयणकालीनगङ्गास्नानजन्य-
फलसमफलप्राप्तिः फलमत्र ज्ञेयम् । अत्र बहु-
शतसूर्य्यग्रहाणां प्रत्येकाधिकरणतासंसर्गेणान्व-
यात् कालानां स्नानानां तत्फलानामपि बहु-
शतत्वं लभ्यते अतो नाप्रसिद्धिः । पूर्णसप्तम्यां
पूर्व्व परयोर्यत्रारुणोदयकाले सप्तमी पूर्व्व दिने
तत्काले स्नानम् ।
“चतस्रो घटिका प्रातररुणोदय उच्यते ।
यतीनां स्नानकालोऽयं गङ्गाम्भःसदृशः स्मृतः ॥
त्रियामां रजनीं प्राहुस्त्यक्त्वाद्यन्तचतुष्टयम् ।
नाडीनां तदुभे सन्ध्ये दिवसाद्यन्तसंज्ञिते ॥”
इति काललाधवीयधृतब्रह्मवैवर्त्तीयेन पूर्व्वस्य
तत्कालस्य पूर्व्वतिथिसम्बन्धिदिनकर्त्तव्यकर्म्माङ्ग
त्वेन इतरस्य चेतराङ्गत्वेनाभिधानात् अतएव
दक्षेण तत्कालमारभ्याह्निककृत्यमभिहितम् ।
अत्रारुणोदयकाले मुहूर्त्तान्यू नतिथिलाभ एव
स्नानम् ।
“व्रतोपवासस्नानादौ घटिकैका यदा भवेत् ।
उदये सा तिथिर्ग्राह्या श्राद्धादावस्तगामिनी ॥”
इति विष्णुधर्म्मोत्तरात् ।
प्रत्र घटिका मुहूर्त्तं श्राद्धयोग्यकालानुरोधात्
इति वक्ष्यते । ब्रह्मवैवर्त्तवचने घटिका दण्ड-
रूपा परवचने नाडीनामाद्यन्तचतुष्टयमित्येक-
वाक्यत्वात् ॥ * ॥ ये तु सूर्य्योदयात् प्रागपि
प्रातःस्नानविधानात् तत्रैव माघसप्तम्याख्य-
गुणफलविधिर्लाघवादित्याहुस्तच्चिन्त्यम् । प्रक-
रणान्यत्वे प्रयोजनान्यत्वं इति जैमिनिसूत्रेण
प्रकरणभेदे गुणविध्यसिद्धेः । अतएव कल्पतरु-
रत्नाकरयोः ।
“य इच्छेद्विपुलान् भोगान् चन्द्रसूर्य्यग्रहोप-
मान् ।
प्रातःस्नायी भवेन्नित्यं द्वौ मासौ माघफाल्-
गुनौ ॥”
इति विष्णुस्मृतौ नित्यस्नानप्रकरणात् प्रकरणा-
न्तरास्नानात् प्रकरणान्तराधिकरणन्यायेन
काम्यस्नानान्तरमिदमित्युक्तं न तु गुणफल-
विधिः । किन्तु काम्यकरणे प्रसङ्गान्नित्यसिद्धि-
रिति । अत्र माघमासनिमित्तकमाघसप्तमी-
निमित्तककाम्यस्नानयोः प्रातर्व्विधानात् नैमि-
त्तिकत्वेन प्रायश्चित्तवत् सकृदनुष्ठानम् ।
“प्रधानस्याक्रिया यत्र साङ्गं तत् क्रियते पुनः ।
तदङ्गस्याक्रियायान्तु नावृत्तिर्न च तत्क्रिया ॥”
इति कात्यायनवचनात् ॥
“न स्नानगाचरेद्भुक्त्वा नातुरो न महानिशि ।
न वासोभिः सहाजस्रं नाविज्ञाते जलाशये ॥”
इति मनुवचनेनैकदाजस्रस्नाननिषेधाच्च ।
“धर्म्मविन्नाचरेत् स्नानमाह्निकञ्च पुनःपुनः ।”
इति मनुवचनाच्च ।
अतएव नान्दीमुखप्रकरणशेषे प्रधानानामपि
काम्यानां तत्तद्देशकालविहितानां तन्त्रेणैव
सिद्धिरिति श्राद्धचिन्तामणिः । निष्कामविष्णु-
प्रीतिकामयोः सुतरां सकृदनुष्ठानं गुणतार-
तम्यात् फलतारतम्यं इति न्यायेन फलं
बोध्यम् । तत्तु इक्षुक्षीरगुडादिमाधुर्य्यभेदव-
न्निर्द्देष्टु मशक्यम् ।
“पक्षान्तरेऽपि कन्यास्थे रवौ श्राद्धं प्रशस्यते ।
कन्यागते पञ्चमे तु विशेषेणैव कारयेत् ॥”
इति हेमाद्रिधृतादित्यपुराणोक्तवत् । एतद्व-
चनप्रागर्द्धं कार्त्तिकमलमासाब्दविषयम् ।
“देशकालाश्रमक्षेत्रद्रव्यदातृमनोगुणाः ।
सुकृशस्यासि दानस्य फलातिशयहेतवः ॥”
इति ब्रह्मपुराणोक्तवच्च ।
तीर्थभेदे त्वेकदापि नानास्नानम् ।
“विषुवद्दिवसे प्राप्ते पञ्चतीर्थी विधानतः ।”
इति ब्रह्मपुराणादिवचनात् तीर्थभेदे तन्त्रप्रस-
ङ्गयोरसम्भवाच्च । अतएव गङ्गावाक्यावली-
श्राद्धचिन्तामेण्योः । यत्तु प्रयागे त्र्यहस्नान-
क्रोडीकृतेऽपि माघसप्तमीस्नानादावसाधारण-
सङ्कल्पेन पुनस्तथैव प्रातःस्नानाचरणं तद-
युक्तम् । तदा सकृत्स्नानस्यैव विहितत्वात्
अन्यथा तत्त्र्यहफलकामनायां तदानन्त्यापत्ते-
रित्युक्तम् । * । स्नाने पारपाटीमाह कृत्य-
कल्पलतायां विष्णुः । सप्तवदरपत्राणि सप्तार्क-
पत्राणि च शिरसि निधाय ।
“यद्यज्जन्मकृतं पापं मया सप्तसु जन्मसु ।
पृष्ठ ५/२६४
तन्मे रोकञ्च शोकञ्च माकरी हन्तु सप्तमी ॥”
इत्यच्चार्य्य स्नायादिति शेषः । रोकं छिद्रम् ।
तिथिकृत्यस्य पौर्णमास्यन्तमासाङ्गकत्वान्माक-
रीति पदं मकरार्कारब्धचान्द्रमासीयतिथिपरम्
“तिथिकृत्ये च कृष्णादिं व्रते शुक्लादिमेव च ।
विवाहादौ च सौरादिं मासं कृत्ये विनिर्द्दि-
शेत् ॥”
इति ब्रह्मपुराणात् ॥
मन्वन्तरादित्वेन तथा युक्तत्वाच्च । यथा, मत्स्य-
पुराणे ।
“यस्मान्मन्वन्तरादौ तु रथमापुर्दिवाकराः ।
माघमासस्य सप्तम्यां तस्मात् सा रथसप्तमी ।
अरुणोदयवेलायां तस्यां स्नानं महाफलम् ॥”
अतएव नारसिंहे रथ्याख्यायामित्युक्तम् । यथा,
“महानवम्यां द्वादश्यां भरण्यामपि चैव हि ।
तथाक्षयतृतीयायां शिष्यान्नाध्यापयेद्बुधः ।
माघमासे तु सप्तम्यां रथ्याख्यायान्तु वर्जयेत् ॥”
द्बादश्यां शयनोत्थानद्वादश्याम् । भरण्यां शक्र-
ध्वजपातभरण्याम् । इति कल्पतरुः । अत्र
महानवम्यादिसाहचर्य्याद्गौणचान्द्रत्वं प्रती-
यते । अतएव चतुर्द्द शमन्वन्तरादिगणने क्वापि
न राश्युल्लेखः । यथा, भविष्यमात्स्ययोः ।
“अश्वयुक्शुक्लनवमी द्वादशी कार्त्तिकी तथा ।
तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥
फाल्गुनस्याप्यमावास्या पौषस्यैकादशी तथा ।
आषाढस्यापि दशमी तथा माघस्य सप्तमी ॥
श्रावणस्याष्टमी कृष्णा तथाषाढस्य पूर्णिमा ।
कार्त्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी
सिता ।
मन्वन्तरादयस्त्वेता दत्तस्याक्षयकारिकाः ॥”
अत्रामावास्याष्टमीव्यतिरिक्ताः शुक्लाः । पुनः
पुनस्तथापदोपादानात् उपक्रमोपसंहारयोः
शुक्लत्वकीर्त्तनाच्च । अत्र कामधेनौ तृतीया
चैव माघस्येति । कल्पतरौ तु तृतीया चैत्र-
मासस्येति लिखितम् । अत्र पाठद्वैधे श्रीपति-
रत्नमालायाम् । अश्वयुजि शुक्लनवमी द्वाद-
श्यूर्ज्जे मधौ तृतीया चेति पाठाच्चैत्रतृतीयैव
ग्राह्या । श्रीदत्तोऽप्येवम् । माघसप्तम्याश्चान्द्रत्वं
सौरागमेऽपि ।
“अर्कपत्रैः सवदरैर्दूर्व्वाक्षतसचन्दनैः ।
अष्टाङ्गविधिना चार्घ्यं दद्यादादित्यतुष्टये ॥
माघेऽथ फाल्गुने वापि भवेद्वै माघसप्तमी ।
माकरीति च यत् प्रोक्तं तत् प्रायोवृत्तिदर्श-
नात् ॥”
अटाङ्गविधिना ।
“योऽष्टाङ्गमर्घ्य मापूर्य्य भानोर्मूद्ध्नि निवेदयेत् ।
ताम्रपात्रार्घ्यदानेन पुण्यं दशगुणं स्मृतम् ॥”
इति विष्णुपुराणीयेन । आदित्यपुराणे ।
“ऋक्षराशिविशेषेण यत् कर्म्म विहितं नरैः ।
दैवं वाप्यथवा पैत्रं तदन्यत्रापि दृश्यते ॥”
अर्घमन्त्रस्तु ।
“जननी सर्व्वभूतानां सप्तमी सप्तसप्तिके ।
सप्तव्याहृतिके देवि नमस्ते रविमण्डले ॥”
प्रणाममन्त्रस्तु ।
“सप्तसप्तीवह प्रीत सप्तलोकप्रदीपन ।
सप्तम्यां हि नमस्तुभ्यं नमोऽनन्ताय वेधसे ॥”
सप्तिरश्वः । इति तिथ्यादितत्त्वम् ॥ * ॥ सप्तमी-
व्रतविशेषा यथा, --
ब्रह्मोवाच ।
“भगवत् भवसंसारसागरोत्तारकारकम् ।
किञ्चिद्व्रतं समाचक्ष्व स्वर्गारोग्यसुखप्रदम् ॥
श्रीभगवान् उवाच ।
शौरधर्म्मं प्रवक्ष्यामि नाम्ना कल्याणसप्तमीम् ।
विशोकसप्तमीं तद्वत् फलदां पापनाशिनीम् ॥
शर्करासप्तमीं पुण्यां तथा कमलसप्तमीम् ।
मन्दारसप्तमीं पुण्यां तथैव शुभसप्तमीम् ॥
सर्व्वाः सर्व्वफलाः प्रोक्ताः सर्व्वदेवर्षिपूजिताः ।
विधानमासां वक्ष्यामि यथावदनुपूर्व्वशः ॥
यदा तु शुक्लसप्तभ्यामादित्यस्य दिनं भवेत् ।
सा तु कल्याणिनी नाम विजया तु निगद्यते ॥”
आसां इतिकर्त्तव्यताकालौ च मत्स्यपुराणे
६९ अध्यायावधि ७५ अध्यायपर्य्यन्तं द्रष्टव्यौ ॥ * ॥
सा सूर्य्यमूर्त्तिप्रकाशिका तिथिः । यथा, --
“एवमुक्तस्तदा देवैः सौम्यां मूर्त्तिमथाकरोत् ।
प्रकाशत्वं जगामाशु देवतानां महाप्रभः ॥
एतत् सर्व्वं सुराणान्तु दहनं शामितं पुरा ।
सप्तम्यां खलु सूर्य्येण मूर्त्तिञ्च कृतवान् भूवि ॥”
इति वाराहे सुर्य्योत्पत्तिनामाध्यायः ॥

सप्तरक्तं, क्ली, (सप्तानां रक्तानां तद्वर्णानां समा-

हारः ।) शरीरस्य रक्तवर्णसप्तावयवाः । ते च
हस्तपादतलनेत्रान्तरतालुकाधरजिह्वानखाः ।
यथा, सामुद्रके ।
“पाणिपादतलौ रक्तौ नेत्रान्तरनखानि च ।
तालुकाधरजिह्वाश्च सप्तरक्तं प्रशस्यते ॥”

सप्तर्षयः, पुं, भूम्नि, (सप्त ऋषयः ।) सप्तसंख्यकर्षयः

तेषां नामानि यथा । मरीचिः १ अत्रिः २
अङ्गिराः ३ पुलस्त्यः ४ पुलहः ५ क्रतुः ६ वशिष्ठः ७ ।
इत्यमरः ॥ अपि च ।
“मप्तर्षिमण्डलं तस्माद्दृश्यते सर्व्वतोपरि ।
तत्र सप्तर्षयः सन्ति विनियुक्ताः प्रजासृजा ॥
मरीचिरत्निः पुलहः पुलस्त्यः क्रतुरङ्गिराः ।
वशिष्ठश्च महाभाग ब्रह्मणो मानसाः सुताः ॥
सप्तब्राह्मण इत्येते उच्यन्ते ब्रह्मवादिभिः ।
संभूतिरनसूया च क्षमा प्रीतिश्च सन्नतिः ॥
अरुन्धतिस्तथा लज्जा तत्पत्न्यौ लोकमातरः ।
एतासां तपसा चैतद्धार्य्यते भुवनत्रयम् ॥
सन्ध्यात्रयमुपासीना गायत्त्रीजपतत्पराः ।
तस्मिन्लोके वसन्त्येते ब्राह्मणाः ब्रह्मवादिनः ॥”
इति पाद्मे स्वर्गखण्डे ११ अध्यायः ॥
(प्रतिमन्वन्तरे सप्तर्षयो भिन्ना एवासन् । तद्-
वृत्तान्तस्तु ऋषिशब्दे द्रष्टव्यः ॥)

सप्तला, स्त्री, (सप्त लातीति । ला + कः ।) नव-

मालिका । इत्यमरः ॥ चर्म्मकषा । गुञ्जा ।
पाटला । इति मेदिनी ॥

सप्तशती, स्त्री, सप्तानां शतानां समाहारा । इति

व्याकरणम् ॥ (“द्विगोः ।” ४ । १ । २१ । इति
ङीप् ।) सप्तशतिका । सप्तशतश्लोकात्मद्यदेवी-
माहात्म्यम् । चण्डीति ख्यातम् । यथा, --
अर्गलं कीलकञ्चादौ पठित्वा कवचं ततः ।
जपेत् सप्तशतीं चण्डीं क्रम एव शिवोदितः ॥”
इत्यर्गलस्तोत्रम् ॥
तथा च नागोजीभट्टः ।
“तत्राद्ये चरिताध्याये श्लोका अशीतिरुत्तमाः
अथ मध्ये चरित्रे तु पञ्चाष्टैकसुसंख्यकाः ॥
त्रयोऽध्यायाश्चतुःसप्तचतुर्व्वेदखवेदकाः ।
अथोत्तरचरित्रे तु षट्षडग्निश्लोकभाक् ।
अग्नीसोमाध्यायवती गीता सप्तशती स्मृता ॥”

सप्तशलाकः, पुं, (सप्त शलाकाः तद्वत्रेखा यत्र ।)

विवाहस्य शुभाशुभदिनज्ञानार्थं तिर्य्यगूर्द्ध्वसप्त-
रेखाविशिष्टत्रक्रविशेषः । यथा, --
“कृत्तिकादिचतुःसप्तरेस्नाराशौ परिभ्रमन् ।
ग्रहश्चेदेकरेखास्थो वेधः सप्तशलाकजः ॥
सप्त सप्त विलिखेत् प्ररेखिका-
स्तिर्य्यगूर्द्ध्वमथ कृत्तिकादिकम् ।
लेखयेदभिजिता समन्वितं
चैकरेखगखगेन विध्यते ॥
वैश्यस्य चतुर्थेऽंशे श्रवणादौ लिप्तिकाचतुष्के च
अभिजित् तस्थे खचरे विज्ञेया रोहिणीविद्धा ॥”
लिप्तिका दण्डः ।
“यस्याः शशी सप्तशलाकभिन्नः
पापैरपापैरथवा विवाहे ।
रक्तांशुकेनैव तु रोदमाना
श्मशानभूमिं प्रमदा प्रयाति ॥”
इति सप्तशलाकवेधः । इति ज्योतिस्तत्त्वम् ॥
तच्चक्ररूपं यथा ।
२ -- १०
१ -- ११
२७ -- १२
२६ -- १३
२५ -- १४
२४ -- १५
२३ -- १६
३ -- २२
४ -- ०
५ -- २१
६ -- २०
७ -- १९
८ -- १८
९ -- १७

सप्तशिरा, स्त्री, (सप्त शिरा यस्याः ।) नागवल्ली ।

इति राजनिर्घण्टः ॥

सप्तसप्तिः, पुं, (सप्त सप्तयो घोटका यस्य ।)

सूर्य्यः । इति हेमचन्द्रः ॥ (यथा, रघुः । १३ । ४१ ।
“हविर्भुजामेधवतां चतुर्णां,
मध्ये ललाटन्तपसप्तसप्तिः ।
असौ तपस्यत्यपरस्तपस्वी
नाम्ना सुतीक्ष्णश्चरितेन दान्तः ॥”)
पृष्ठ ५/२६५

सप्तसागरः, पुं, (सप्त सगरा इव कुण्डानि यत्र ।)

महादानविशेषः । यथा, --
मत्स्य उवाच ।
“अथातः संप्रवक्ष्यामि महादानमनुत्तमम् ।
सप्तसागरकं नाम सर्व्वपापविनाशनम् ॥
पुण्यं दिनमथासाद्य कृत्वा ब्राह्मणवाचनम् ।
तुलापुरुषवत् कुर्य्यात् लोकेशावाहनं बुधः ॥
ऋत्विङ्मण्डपसंभारभूषणाच्छादकादिकम् ।
कारयेत् सप्त कुण्डानि कनकानि विचक्षणः ॥
प्रादेशमात्राणि तथारत्निमात्राणि वा पुनः ।
कुर्य्यात् सप्तपलादूर्द्ध्वमासहस्राच्च शक्तितः ॥
संस्थाप्यानि च सर्व्वाणि कृष्णाजिनतिलोपरि ।
प्रथमं पूरयेत् कुण्डं लवणेन विचक्षणः ॥
द्बितीयं पयसा तद्बत् तृतीयं सर्पिषा पुनः ।
चतुर्थन्तु गुडेनैव दध्ना पञ्चममेव च ॥
षष्ठं शर्करया तद्बत् सप्तमं तीर्थवारिणा ।
स्थापयेल्लवणस्थन्तु ब्रह्माणं काञ्चनं शुभम् ॥
केशवं क्षीरमध्ये तु घृतमध्ये महेश्वरम् ।
भास्करं गुडमध्ये तु दधिमध्ये सुराधिपम् ॥
शर्करायां न्यसेत् लक्ष्मीं जलमध्ये तु पार्व्वतीम् ।
सर्व्वेषु सर्व्वरत्नानि धान्यानि च समन्ततः ॥
तुलापुरुषवत् शेषमत्रापि परिकल्पयेत् ।
ततो वारुणहोमान्ते स्नापितो वेदपुङ्गवैः ।
त्रिः प्रदक्षिणमावृत्य मन्त्रानिमानुदीरयेत् ॥
नमो वः सर्व्वसिन्धूनां आधारेभ्यः सनातनाः ।
जन्तूनां प्राणदेभ्यश्च समुद्रेभ्यो नमो नमः ॥
क्षीरोदकाज्यदधिमाधवलावणेक्षु-
सारामृतेन भुवनत्रयजीवसंघान् ।
आनन्दयन्ति वसुभिश्च यतो भवन्त-
स्तस्मान्ममाप्यघविघातमलं विदध्वम् ॥
यस्मात् समस्तभुवनेषु भवन्त एव
तीर्थामरासुरसुवन्द्यमणिप्रतानम् ।
पापक्षयाद्धरविलोपनभूषणाय
लोकस्य बिभ्रति तदस्तु ममापि लक्ष्मीः ॥
इति ददाति रसाम्बरसंयुतान्
शुचिरविस्मयवानिह सागरान् ।
अमलकाञ्चननवरत्नमयानसौ
पदमुपैति हरेरमरावृतः ॥
सकलपापविघातविराजितं
पितृपितामहपुत्त्रकलत्रकम् ।
नरकलोकसमाकुलमप्यलं
झटिति नेतुमसौ शिवमन्दिरम् ॥”
इति मत्स्यपुराणे महादानानुकीर्त्तने सप्तसागर-
प्रादानिको नाम २६१ अध्यायः ॥

सप्तसूः, स्त्री, (सप्त सूते इति । सू + क्विप् ।) सप्त-

पुत्त्रप्रसूता । तत्पर्य्यायः । सुतवस्करा २ । इति
शब्दरत्नावली ॥

सप्तांशुपुङ्गवः, पुं, (सप्तभिरंशुभिः पुङ्गव इव

श्रेष्ठत्वात् ।) शनिग्रहः । इति जटाधरः ॥

सप्तार्च्चिः, [स्] पुं, (सप्त अर्च्चींसि यस्य ।)

अग्निः । (यथा, रघुः । १० । २१ ।
“सप्तसामोपगीतं त्वां सप्तार्णवजलेशयम् ।
सप्तार्च्चिर्मुखमाचक्षुः सप्तलोकैकसंश्रयम् ॥”)
चित्रकवृक्षः । इत्यमरः ॥ शनिग्रहः । इति
हेमचन्द्रः ॥ क्रूरचक्षुषि, त्रि । इति मेदिनी ॥
अग्नेः सप्तानामर्च्चिषां नामानि सप्तजिह्वशब्दे
द्रष्टव्यानि ॥

सप्ताश्वः, पुं, (सप्त अश्वा यस्य ।) सूर्य्यः । अर्क-

वृक्षः । इत्यमरः ॥ (क्वचित् वाच्यलिङ्गेऽपि
दृश्यते । यथा, ऋग्वेदे । ५ । ४५ । ९ ।
“आ सूर्य्यो यातु सप्ताश्वः क्षेत्रं यदस्योर्विया-
दीर्घयाथे ॥”
“सूर्य्यः सर्व्वस्य प्रेरको देवः सप्ताश्वः सर्पण-
स्वभावाश्वोपेतः सप्तसंख्याकाश्वो वा आयातु
अस्मदभिमुखमागच्छतु ॥” इति तद्भाष्ये
सायणः ॥)

सप्ताश्ववाहनः, पुं, (सप्त अश्वा वाहनान्यस्य ।)

सूर्य्यः । यथा, --
“लोकसाक्षी त्रिलोकेशः कर्त्ता हर्त्ता तमि-
स्रहा ।
तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः ॥”
इति शाम्बपुराणे सूर्य्यस्तोत्रम् ॥

सप्तिः, पुं, (“षप समवाये । ‘सपिनसिवसि-

पदिभ्यस्तिप्’ इति श्रीभोजदेवः । सपति सङ्ग्रा-
मेषु सहसामेवैति । गतिकर्म्मणो वा सप्तिः ।
सपतेः स्पर्शार्थात् इति माधवः । सृपि गतौ ।
अस्माद्वा तिप्रत्यये गुणे च रेफलोपो बाहुल-
कात् सर्पति सप्तिः ।” इति निघण्टुटीकायां
देवराजयज्वा । १ । १४ । ५ ।) अश्वः । इत्य-
मरः ॥ (यथा, ऋग्वेदे । ८ । ४ । १४ ।
“अर्व्वाञ्चं त्वा सप्तयोऽध्वरश्रियो वहन्तु सवने-
दुप ॥”)

सफरः, पुं, मत्स्यविशेषः । पुटी इति भाषा ॥

शयाना स्फुरति पार्श्वेन गच्छतीति शफरी
मनीषादिः नदादित्वादीप् । शोणिशफरी-
शय्याशकटशिलाशरणशतपद्य इत्युष्मभेदात्
तालव्यादिः । दन्त्यादिरपीति केचित् । शफ-
रश्च । इत्यमरटीकायां भरतः ॥

सफरी, स्त्री, (सफर + ङीष् ।) मत्स्यविशेषः ।

इति भरतः ॥ पुँटी इति भाषा ॥ तत्पर्य्यायः ।
शफरी २ प्रोष्ठी ३ । इत्यमरः ॥ शफरः ४
श्वेतकोलः ५ । इति त्रिकाण्डशेषः ॥ (यथा, --
“अगाधजलसञ्चारौ रोहितोऽपि स्थिरायते ।
गण्डूषजलमात्रेण सफरी फर्फरायते ॥”
इत्युद्भटः ॥)

सफलं, त्रि, (फलेन सह बर्त्तमानम् ।) फल-

विशिष्टम् । तत्पर्य्यायः । अमोघम् २ । इति
जटाधरः ॥ (यथा, मार्कण्डेये । ६१ । ३७ ।
“सफलं मे भवेज्जन्म यदि मां नावमन्यसे ॥”
सशस्यम् । यथा, कथासरित्सागरे । २५ । १२ ।
“अपश्यदाश्रमपदं सफलस्निग्धपादपम् ॥”)

सबलः, त्रि, (बलेन सह वर्त्तमानः ।) सैन्ययुक्तः ।

सामर्थ्यवान् । यथा, --
“सबले च गृहे पापे दिनमात्रं प्रचक्षते ।
मध्ये बले तथा मासं वर्षं विद्यात्तथाबले ॥”
इति पञ्चस्वरा ॥

सबलिः, पुं, विकालः । इति हेमचन्द्रः ॥

सबाधः, त्रि, पीडायुक्तः । निषेधयुक्तः । बाधया

बाधेन च सह वर्त्तमानो यः इति बहुव्रीहि-
समासनिष्पन्नः ॥

सब्रह्मचारी, [न्] पुं, (ब्रह्म वेदस्तदध्ययनार्थं

यद्व्रतं तदपि ब्रह्म तच्चरतीति ब्रह्मचारी
समानो ब्रह्मचारी । यद्बा, समाने ब्रह्मणि
चरतीति । णिनिः । “चरणे ब्रह्मचारिणि ।”
६ । ३ । ८६ । इति समानस्य सः ।) परस्परैक-
ब्रह्मव्रताचारः । इत्यमरः ॥ एकस्माद्गुरो-
र्ब्रह्मणे वेदाय अर्थात् वेदाध्ययनाय व्रतं अभि
ब्रह्मचर्य्याख्यं आचरन्ति ये तेऽन्योन्यं सब्रह्म-
चारिण उच्यन्ते । उपचारात् ब्रह्माध्ययनार्थं
व्रतमपि ब्रह्म । समानं ब्रह्म चरन्तीति ग्रहादि-
त्वाण्णिनि ज्योतिर्ज्जनपदेत्यादिना समानस्य
सभावे सब्रह्मचारिणः । एकब्रह्मव्रताचारा
इत्यत्र एकस्माद्ब्रह्मणे ब्रह्माध्येतुं व्रतमा-
चरन्तीति तुमर्थे चतुर्थ्या विगृह्णतीति परे ।
सब्रह्मचारी भिन्नगुरुशिष्य इति हारलतेति
नयनानन्दः । इति भरतः ॥

सभर्त्तृका, स्त्री, (भर्त्त्रा सह वर्त्तमाना । सहस्य

सः ।) विद्यमानपतिका । तत्पर्य्यायः । पति-
वत्नी २ । इत्यमरः ॥ सधवा ३ सनाथा ४ ।
इति जटाधरः ॥

सभा, स्त्री, (सह भान्ति शोभन्ते यत्रेति । भा

दीप्तौ + भिदादित्वात् अधिकरणे अङ् । सहस्य
सः ।) सह भान्ति अत्र । मज्लिस् इति पार-
सीक भाषा । पञ्चायित इति हिन्दी भाषा ।
मिटिं इति इङ्गरेजी भाषा । तत्पर्य्यायः ।
समज्या २ परिषत् ३ गोष्ठी ४ समितिः ५
संसत् ६ आस्थानी ७ आस्थानम् ८ सदः ९
समाजः १० । इत्यमरः ॥ पर्षत् ११ इति जटा-
धरः ॥ तल्लक्षणादि यथा । मनुः ।
“यस्मिन् देशे निषीदन्ति विप्रा वेदविदस्त्रयः ।
राज्ञः प्रतिकृतो विद्वान् ब्राह्मणस्तां सभां
विदुः ॥” * ॥
विद्वत्संहतावपि सभापर्य्यायपरिषच्छब्दमाह
स एव ।
“त्रैविद्यो हैतुकस्तर्की निरुक्तो धर्म्मपाठकः ।
त्रयश्चाश्रमिणः पूर्व्वे परिषत् स्याद्दशावराः ॥”
त्रैविद्यः त्रिवेदपारगः । हैतुकः सद्युक्ति-
व्यवहारी । अतएवामरसिंहः । सभा सदसि
सभ्ये च । अत्र भा दीप्तिः प्रकाशो ज्ञानमिति
यावत् । तया सह साक्षात् परम्परया वा वर्त्तते
इति सभा ॥ * ॥ कात्यायनः ।
“कुलशीलवयोवृत्तवित्तवद्भिरधिष्ठितम् ।
बणिगभिः स्यात कतिपयैः कुलवृद्धैरधिष्ठि-
तम् ॥”
सद इति शेषः । इति व्यवहारतत्त्वम् ॥ * ॥
सामाजिकः । द्यूतम् । एहम् । इति मेदिनी ।
पृष्ठ ५/२६६
समूहः । इति हेमचन्द्रः ॥ * ॥ सभायां एकाकि-
गमननिषेधो यथा, --
“नैकश्चरेत् सभां विप्रः समवायञ्च वर्ज्ज-
येत् ॥”
इति कौर्म्मे उपविभागे १५ अध्यायः ॥

सभाज, त् क सेवने । प्रीतौ । दर्शने । इति

कविकल्पद्रुमः ॥ (अदन्तचुरा०-पर०-सक०-
सेट् ।) अससभाजत् । इति दुर्गादासः ॥

सभाजनं, क्ली, (सभाज त् क सेवने प्रीतौ +

ल्युट् ।) गमनागमनादिसमये सुहृदादेः
आलिङ्गनारोग्यप्रश्नस्वागतादिनानन्दोत्पादनम् ।
तत्पर्य्यायः । आनन्दनम् २ आप्रच्छनम् ३ ।
इत्यमरः ॥ टु नदि संवृधि सभाज त् क
सेवनप्रीतिदर्शने प्रच्छौ श ज्ञीप्से अनट् ।
नन्दतिः पृच्छतिश्चाङ्पूर्व्वालिङ्गनादाविति
सुभूतिः । गमनसभये सुहृदमालिङ्ग्य गमना-
नुज्ञाग्रहणम् । आगतस्य वा स्वागतारोग्यादि-
पृच्छा आनन्दनमिति रमानाथः । इति भरतः ॥
(यथा, रघुः । १३ । ४३ ।
“सभाजने मे भुजमूर्द्ध्वबाहुः
सव्येतरं प्राध्वमितः प्रयुङ्क्ते ॥”
सभाजयतीति । सभाज त् क प्रीतौ + ल्युः ।
प्रीतिदायके, त्रि । यथा, महाभारते । ४ । १३ । १० ।
“प्रभूतनागाश्वरथं सभाजनं
समृद्धियुक्तं बहुपानभोजनम् ।
मनोहरं काञ्चनचित्रभूषणं
गृहं महत् शोभयतामियं मम ॥”)

सभापतिः, पुं, (सभायाः पतिः ।) समाजाधि-

पतिः । (यथा, भागवते । ६ । १७ । ७ ।
“जटाधरस्तीव्रतपा ब्रह्मवादी सभापतिः ।
अङ्गीकृत्य स्त्रियञ्चास्ते गतह्रीः प्राकृतो यथा ॥”)
द्यूतगृहस्वामी । इति केचित् ॥

सभासत् पुं, (सभा + सद् + क्विप् ।) सभाभां

सीदति उपविशति यः । तत्पर्य्यायः ।
सभास्तारः २ सभ्यः ३ सामाजिकः ४ । इत्य-
मरः ॥ परिषद्वलः ५ पर्षद्वलः ६ परिषदः ७
पार्षदः ८ परिसभ्यः ९ । इति शब्दरत्नावली ॥
तल्लक्षणादि यथा । कात्यायनः ।

सभासद् पुं, (सभा + सद् + क्विप् ।) सभाभां

सीदति उपविशति यः । तत्पर्य्यायः ।
सभास्तारः २ सभ्यः ३ सामाजिकः ४ । इत्य-
मरः ॥ परिषद्वलः ५ पर्षद्वलः ६ परिषदः ७
पार्षदः ८ परिसभ्यः ९ । इति शब्दरत्नावली ॥
तल्लक्षणादि यथा । कात्यायनः ।
“सभ्यतावश्यवक्तव्यं धर्म्मार्थसहितं वचः ।
शृणोति यदि नो राजा स्यात्तु सभ्यस्तदानृणः ॥”
सभ्यः समायां साधुः । तथाविधानाह याञ्ज-
वल्क्यः ।
“श्रुताध्ययनसम्पन्नाः कुलीनाः सत्यवादिनः ।
राज्ञा सभासदः कार्य्याः शत्रौ मित्रे च ये
समाः ॥”
श्रुताध्यनसम्पन्नाः धर्म्मशास्त्रज्ञाः । कुलीनाः
सङ्करादि-दोषशून्यमातापितृवंश-परम्पराकाः ।
गवस्मूताः मभासदः सभायां यथा सीदन्ति
तथ दानमानसत्कारै राज्ञा कर्त्तव्याः । इति
व्यवहारतत्त्वम् ॥ * ॥ अन्यच्च ।
“समः शत्रौ च मित्रे च धर्म्मशास्त्रविशारदः ।
विपमुख्यः कुलीनश्च धर्म्मधिकरणे भवेत् ॥
कार्य्यास्तथाविधास्तत्र द्विजमुख्याः सभासदः ॥”
इति मत्स्यपुराणे १८९ अध्यायः ॥
बृहस्पतिस्तु सप्त पञ्च त्रयो वा सभासदो
भवन्तीत्याह ।
“लोकवेदज्ञधर्म्मज्ञाः सप्त पञ्च त्रयोऽपि वा ।
यत्रोपाविष्टा विप्राः स्युः सा यज्ञसदृशी सभा ॥”
किञ्च ।
“सप्राड्विवाकः सामात्यः सब्राह्मणपुरोहितः ।
ससभ्यः प्रेक्षको राजा स्वर्गे तिष्ठति धर्म्मतः ॥”
तत्र ब्राह्मणा अनियुक्ताः सभासदस्तु नियुक्ता
इति भेदः । तत्र नियुक्तानां यथावस्थितार्थ-
कथनेऽपि यदि राजान्यथा करोति तदासौ
निवारणीयोऽन्यथा दोषः । उक्तञ्चकात्यायनेन ।
“अन्यायेनापि तं यान्तं येऽनुयान्ति सभासदः ।
तेऽपि तद्भागिनस्तस्माद्रोधनीयः स तैर्नृपः ॥”
इति मिताक्षरा ॥

सभास्तारः, पुं, (सभां स्तृणातीति । स्तृञ् आच्छा-

दने + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) सभा-
सद् । इत्यमरः ॥ (यथा, महाभारते । २ । ४९ । २ ।
“के च तत्र सभास्तारा राजानो ब्रह्मवित्तम ! ॥”)

सभिकः, पुं, (सभा द्यूतसभा आश्रयत्वेनास्त्यस्येति ।

सभा + व्रीह्यादित्वात् ठन् ।) द्यूतकारकः ।
इत्यमरः ॥ द्वे सहियार इति ख्याते । सभा
द्यूतमस्याश्रयत्वेनास्ति सभिकः विकारसंघेति
ष्णिकः । सभा द्यूतं सभा गृहमिति रुद्रः ।
द्यूतं कारयति द्यूतकारकः षणन्तात् स्वार्थेकः ।
इति भरतः ॥ तत्पर्य्यायः ।
“दुरोदरञ्च निर्ग्रन्थद्यूतकारकलग्नकाः ।
सभिकः प्रतिभूश्चेति -- ॥”
इति जटाधरः ॥
(यथा, याज्ञवल्क्ये । २ । २०२ ।
“म्लहे शतिकवृद्धेस्तु सभिकः पञ्चकं शतम् ।
गृह्णीयात् धूर्त्तकितवादितराद्दशकं शतम् ॥”)

सभीकः, पुं, द्यूतकारकः । इति शब्दरत्नावली ॥

सभोचितः, पुं, (सभायामुचितः ।) पण्डितः ।

इति धनञ्जयः ॥ सभायोग्ये, त्रि ॥

सभ्यः, पुं, (सभायां साधुः । सभा + “सभाया यः ।”

४ । ४ । १०५ । इति यः ।) साधुः । सभासद् ।
इत्यमरः ॥ (यथा, मनुः । ८ । १० ।
“सोऽस्य कार्य्याणि संपश्येत् सभ्यैरेव त्रिभि-
र्वृतः ॥”
अस्मिन्नर्थे वाच्यलिङ्गेऽपि दृश्यते । यथा, रघुः ।
१ । ५५ ।
“तस्मै सभ्याः सभार्य्याय गोप्त्रे गुप्ततमेन्द्रियाः ।
अर्हणामर्हते चक्रुर्मुनयो नयचक्षुषे ॥”)
सभिकः । इति जटाधरः ॥

सभ्यः, त्रि, (सभा + यः ।) प्रत्ययितः । इति

जटाधरः ॥ सभासम्बन्धी च ॥

सम्, व्य, समार्थः । प्रकृष्टार्थः । सङ्गतः । शोभनः ।

इति शब्दरत्नावली ॥ समुच्चयः । इति हेम-
चन्द्रः ॥ चतुर्थोपसर्गः । इति व्याकरणम् ॥
अस्यार्थविशेषाः संशब्दे द्रष्टव्याः ॥

समः, त्रि, (समतीति । सम वैक्लव्ये + पचाद्यच् ।)

सर्व्वम् । (अस्मिन्नर्थे सर्व्वनामसंज्ञा भवति ।
यथा, मुग्धबोधे ।
“नमः समस्मात् पूर्व्वस्मा अन्तरस्मा अमेध-
साम् ॥”)
समानम् । इत्यमरः ॥ (अस्मिन्नर्थे सर्व्वनाम-
संज्ञा न भवति । यथा, मुग्धबोधे ।
“समायैषु परायैषां मुक्तयेऽर्थान्तराय च ॥”)
साधुः । इति मेदिनी ॥

समः, पुं, (सम वैक्लव्ये + पचाद्यच् ।) राशि-

विशेषाणां संज्ञाविशेषः । ते तु राशयः वृष-
कर्क्कटकन्यावृश्चिकमकरमीनाः । यथा, --
“क्रूरोऽथ सौम्यः पुरुषोऽङ्गना च
ओजोऽथ युग्मं विषमः समश्च ।
चरस्थिरद्ब्यात्मकनामधेया
मेषादयोऽमी क्रमशः प्रदिष्टाः ॥”
इति ज्योतिस्तत्त्वम् ॥ * ॥
मानस्य प्रकारविशेषः । स तु यदा गीतवाद्ययो-
स्तालः गायकस्य हस्तपादादिचालनञ्च एकदा
समभावेन पतति तदा भवति । इति सङ्गीत-
शास्त्रम् ॥ * ॥ वर्गमूलानयनार्थं अङ्कोपरि-
दत्त ऋजुरेखाविशेषः । यथा, --
“त्यक्त्वान्त्याद्विषमात् कृतिं द्विगुणयेन्मूलं समे
तद्धृते
त्यक्त्वा लब्धकृतिं तदाद्यविषमाल्लब्धं द्विनिघ्नं
न्यसेत् ॥”
इत्यादि लीलावली ॥

समकन्या, स्त्री, (समा विवाहतुल्या कन्या ।)

विवाहोपयुक्ता । इति धनञ्जयः ॥ सदृश-
कुमारी च ॥

समकोलः, पुं, (समः कोलो यस्य ।) सर्पः । इति

त्रिकाण्डशेषः ॥

समक्नः, त्रि, गमनकर्त्ता । संपूर्व्वकान्चधातोः

क्तप्रत्ययेन निष्पन्नः । इति मुग्धबोधव्याकरणम् ॥

समक्षं, त्रि, अक्ष्णोः समीपम् । संपूर्व्वाक्षिशब्दात्

अप्रत्ययेन निष्पन्नम् । इति मुग्धबोधव्याकर-
णम् ॥ (यथा, कुमारे । ५ । १ ।
“तथा सभक्षं दहता मनोभवं
पिनाकिना भग्नमनोरथा सती ।
निनिन्द रूपं हृदयेन पार्व्वती
प्रियेषु सौभाग्यफला हि चारुता ॥”)

समगन्धकः, पुं, (समास्तुल्या गन्धा गन्धद्रव्याणि

यत्र । कप् ।) कृत्रिमधूपः । यथा, --
“वृकधूपे भक्तकरो गिरिः स्यात् समगन्धकः ।”
इति शब्दचन्द्रिका ॥

समगन्धिकं, क्ली, (समस्तुल्यो गन्धोऽस्त्यत्रेति ।

ठन् ।) उशीरम् । इति राजनिर्घण्टः ॥ तुल्य-
गन्धयुक्ते, त्रि ॥

समग्रः, त्रि, (समं समकालमेव गृह्णातीति । ग्रह +

डः ।) सकलम् । (यथा, रामायणे । २ ।
५२ । ८४ ।
“चतुर्द्दश हि वर्षाणि समग्राण्युष्य कानने ।
पृष्ठ ५/२६७
भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ॥”)
पूर्णम् । इत्यमरः ॥ (यथा, महाभारते ।
१ । १५४ । १३ ।
“अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः ।
सग्दामपूरितशिखं समग्रेन्दुनिभाननम् ॥”)

समङ्गा, स्त्री, मञ्जिष्ठा । इत्यमरः । लज्जालुलता ।

वराहक्रान्ता । इति रत्नमाला ॥ बाला । इति
राजनिर्घण्टः ॥

समचित्तं, क्ली, (समं तुल्यं चित्तम् ।) एकविष-

यकान्तःकरणवृत्तिः । यथा, --
“मनो बुद्धिश्च चित्तञ्च ते ह्यनीशाः शरीरिणाम् ।
एकचित्तं मनः कृत्वा ज्ञानेन पृथुलोचने ॥
समचित्तं प्रपद्यन्ते न ते लिम्पन्ति मानवाः ।
सर्व्वभक्ष्याणि भक्षन्तः पेयापेयं तथैव च ।
समं चित्तं मयि यदि तदा तस्य न च क्रिया ॥”
इति वाराहे गुह्यकर्म्ममाहात्म्यवर्णनं नामा-
ध्यायः ॥ (समं सर्व्वेषु पदार्थेषु तुल्यरूपं चित्तं
यस्येति विग्रहे सर्व्वत्र तुल्यदर्शके, त्रि । यथा,
भागवते । ७ । १३ । ९ ।
“न यतेराश्रमः प्रायो धर्म्महेतुर्महात्मनः ।
शान्तस्य समचित्तस्य विभृयादुत वा त्यजेत् ॥”)

समजं, क्ली, (समजन्ति पशवो यत्र । सम् + अज

गतौ + अप् ।) वनम् । इति मेदिनी ॥

समजः, पुं, (सं + अज गतौ + “समुदोरजः पशुषु ।”

३ । ३ । ६९ । इति अप् ।) पशुसमूहः । इत्यमरः ॥
मूर्खसंहतिः । इति शब्दरत्नावली ॥

समज्ञा, स्त्री, (समैः सर्व्वैर्ज्ञायते इति । ज्ञा +

घञर्थे कः ।) कीर्त्तिः । इत्यमरः ॥ समाज्ञा
समज्या समाख्या इति च पाठः । इति भरतः ॥

समज्या, स्त्री, (समजन्ति सङ्गच्छन्तेऽस्यामिति ।

सम् + अज + “संज्ञायां समजनिषदेति ।” ३ ।
३ । ९९ । इति क्यप् ।) सभा । इत्यमरः ॥
कीर्त्तिः । इति तट्टीकायां रायमुकुटः ॥

समञ्जसं, क्ली, (सम्यक् अञ्ज औचित्यं यत्र ।

अच् ।) उचितम् । इत्यमरः ॥

समञ्जसः, त्रि, (सम्यक् अञ्ज औचित्यं यत्र ।

अच् ।) समीचीनः । इति त्रिकाण्डशेषः ॥
(यथा, भागवते । ६ । ९ । ३५ ।
“आहोस्विदात्माराम उपशमशीलः समञ्जस-
दर्शन उदास्त इतिह वाव न विदाम ॥”)
अभ्यस्तः । इत्यजयपालः ॥

समण्ठः, पुं, गण्डीरः । इति शब्दरत्नावली हारा-

वली च ॥

समता, स्त्री, समत्वम् । समस्य भावः इत्यर्थे सम

शब्दात् तप्रत्ययेन निष्पन्ना ॥ (यथा, रघुः ।
९ । ६ ।
“समतया वसुवृष्टिविसर्ज्जनैः
नियमनादसताञ्च नराधिपः ॥”)

समतिरिक्तं, क्ली, सम्यगधिकम् । सम्यक्प्रकारे

णातिरिक्तं इति तत्पुरुषसमासनिष्पन्नम् ॥

समत्रयं, क्ली, (समं त्रयं यत्र ।) समभाग-

हरीतकीनागरगुडम् । इति राजनिर्घण्टः ॥

समदर्शी, [न्] त्रि, (समं पश्यतीति । दृश +

णिनिः ।) सर्व्वभूतेषु तुल्यदर्शनशीलः । यथा, --
“विद्याविनयसन्तन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥”
इति श्रीभगवद्गीता ॥

समदृष्टिः, स्त्री, (समा दृष्टिः ।) सर्व्वत्र तुल्य-

दर्शनम् । यथा, --
“दुःखे सुखे च विप्रेन्द्र या दृष्टिर्व्वर्त्तते सदा ।
तथ शत्रौ च मित्रे च समदृष्टिश्च सा स्मृता ॥”
इति पाद्मे क्रियायोगसारे १६ अध्यायः ॥
(समा दृष्टिर्यस्य ।) समदर्शिनि, त्रि ॥

समधिकः, त्रि, (सम्यक् अधिकः ।) अधिकः ।

तत्पर्य्यायः । अतिरिक्तः २ । इत्यमरः ॥ (यथा,
रघुः । १८ । ५३ ।
“प्रतिकृतिरचनाभ्यो दूतिसन्दर्शिताभ्यः
समधिकतररूपाः शुद्धसन्तानकामैः ।
अधिविविदुरमात्यैराहृतास्तस्य यूनः
प्रथमपरिगृहीते श्रीभुवौ राजकन्याः ॥”)

समन्तः, पुं, सीमा । सम्यक्प्रकारेण अन्तः इति

तत्पुरुषसमासनिष्पन्नः ॥

समन्ततः, [स्] व्य, चतुर्द्दिगभिव्याप्तः । तत्प-

र्य्यायः । परितः २ सर्व्वतः ३ विश्वक् ४ । इत्य-
मरः ॥ समन्तात् ५ । इति शब्दरत्नावली ॥
(यथा, रामायणे । २ । ५७ । ३४ ।
“स्त्रियश्च सर्व्वा रुरुदुः समन्ततः
पुरं तदासीत् पुनरेव सङ्कुलम् ॥”)

समन्तदुग्धा, स्त्री, (समन्तात् दुग्धं क्षीरमस्याः ।)

स्नुहीवृक्षः । इत्यमरः ॥

समन्तपञ्चकं, क्ली, (समन्तात् पञ्चकं ह्रदपञ्चकं

यत्र ।) कुरुक्षेत्रम् । तच्च कुरुपाण्डवयोर्युद्ध-
स्थानम् । तत्र पुरा परशुरामः क्षत्त्रियरुधिरेण
पञ्च ह्रदान् चकार । यथा, --
“त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्त्रियां प्रभुः ।
समन्तपञ्चके पञ्च कृतवान् रुधिरैर्ह्रदान् ॥
स तेषु तर्पयामास पितॄन् भृगुकुलोद्वहः ।
साक्षात् ददर्श पितरं स च रामं न्यवारयत् ॥”
इति पाद्मे भूमिखण्डे १२४ अध्यायः ॥ * ॥
अन्यच्चे ।
“त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्त्रियां प्रभुः ।
समन्तपञ्चके चक्रे शोणितोदान् ह्रदान् नव ॥”
इति श्रीभागवते ९ स्कन्धे १६ अध्यायः ॥ * ॥
तस्य माहात्म्यं सीमा च यथा, --
“पृथिव्यां नैमिषं तीर्थमन्तरीक्षे च पुष्करम् ।
त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते ॥”
इत्यारभ्य, --
“तरन्तुकारन्तुकयोर्यदन्तरं
रामह्रदानाञ्च मचक्रुकस्य च ।
एतत् कुरुक्षेत्रसमन्तपञ्चकं
पितामहस्योत्तरवेदिरुच्यते ॥”
इति महाभारतीयवनपर्व्वणि ८३ अध्यायः ॥

समन्तभद्रः, पुं, (समन्तात् भद्रमस्य ।) बुद्धः ।

इत्यमरः ॥

समन्तभुक् [ज्] पुं, (समन्तात् भुङ्क्ते इति । भुज्

+ क्विप् ।) अग्निः । इति त्रिकाण्डशेषः ॥

समन्तात्, व्य, समन्ततः । इति शब्दरत्नावली ॥

(यथा, ऋतुसंहारे । १ । २२ ।
“दिनकरपरितापात् क्षीणतोयाः समन्तात्
विदधति भयमुच्चैर्वीक्ष्यमाणा वनान्ताः ॥”)

समन्युः, पुं, (मन्युना क्रतुना क्रोधेन वा सह वर्त्त-

मानः ।) शिवः । इति केचित् ॥ क्रोधयुक्तश्च ॥
(यथा, महाभारते । ३ । २६८ । ४ ।
“बुद्धिं समाच्छाद्य च मे समन्यु-
रुद्धूयते प्राणपतिः शरीरे ॥”)

समन्वितः, त्रि, (सम् + अनु + इण् + क्तः ।)

संयुक्तः । यथा, तिथ्यादितत्त्वे ।
“विस्पष्टमद्रुतं शान्तं स्पष्टाक्षरपदं तथा ।
कलस्वरसमायुक्तं रसभावसमन्वितम् ॥”

समपदं, क्ली, (समे पदे यत्र ।) धन्विनां पादयो-

स्तुल्यरूपतया धारणम् । इत्यमरटीकायां
भरतः ॥

समपदः, पुं, (समे पदे चरणे यत्र ।) रतिबन्ध-

विशेषः । यथा, --
“योषित्पादौ हृदि स्थाप्य कराभ्यां पीडयेत्
स्तनौ ।
यथेष्टं ताडयेद्योनिं बन्धः समपदः स्मृतः ॥”
इति रतिमञ्जरी स्मरदीपिका च ॥

समपादं, क्ली, (समौ पादौ यत्र ।) धन्विनां

पादयोस्तुल्यरूपतया धारणम् । इति हेम-
चन्द्रः ॥

समभिव्याहारः, पुं, (सम् + अभि + वि + आ +

हृ + घञ् ।) सहितः । घटमानय इत्यत्र भवति
चाव्यवहितपूर्ब्बवर्त्तितालक्षणसमभिव्याहारस-
म्बन्धेन घटपदनिष्ठस्यानुस्वारपदस्य व्यतिरेक-
प्रयुक्तो घटवत् कर्म्मत्वमिति भेदान्वयबुद्ध्यभाव
इति तादृशान्वयबोधे घटपदस्यानुस्वारपदवत्त्व-
माकाङ्क्षा एवं विनिगमनाविरहादव्यवहितो-
त्तरवर्त्तितारूपसमभिव्याहारसम्बन्धेन अनुस्वार-
पदनिष्ठस्य घटपदस्य व्यतिरेकप्रयुक्तोऽपि घटवत्
कर्म्मत्वमिति भेदान्वयबुद्ध्यभाव इत्यनुस्वारपदस्य
घटपदवत्त्वमपि तादृशान्वयबोधे आकाङ्क्षा ।
इति आकाङ्क्षाग्रन्थे भथुरानाथः ॥

समभिव्याहृतः, पुं, (सम् + अभि + वि + आ +

हृ + क्तः ।) सहोच्चरितः । सहितः । यथा
निमित्तानां उत्पत्तिविधिसमभिव्याहृतनियता-
नाम् । इति तिथ्यादितत्त्वम् ॥

समभिहारः, पुं, (सम् + अभि + हृ + घञ् ।

पौनःपुन्यम् । भृशार्थः । इति मेदिनी ॥

समभूमिः, स्त्री, (समाभूमिः ।) समानस्थानम्

तत्पर्य्यायः । आजिः २ । इति जटाधरः ॥
(यथा, रामायणे । २ । ५६ । ११ ।
“समभूमितले रम्ये द्रुमैर्बहुभिरावृते ।
पुण्ये रंस्यामहे तात चित्रकूटस्य कानने ॥”)

समम्, व्य, सहितम् । यथा । सार्द्धन्तु साकं सत्रं

समं सह । इत्यमरः ॥ (यथा, मनुः । २ । ११३ ।
पृष्ठ ५/२६८
“विद्ययैव समं कामं मर्त्तव्यं ब्रह्मवादिना ।
आपद्यपि हि घोरायां नत्वेनामरिणे वपेत् ॥”)

समयः, पुं, (सम्यगेतीति । सम् + इण् गतौ +

पचाद्यच् ।) कालः । (यथा, उत्तरचरिते १ अङ्के ।
“समयः समवर्त्तत इवैष यत्र मां
समनन्दयत् सुमुखि ! गौतमार्पितः ।
अयमागृहीतकमनीयकङ्कण-
स्तव मूर्त्तिमानिव महोत्सवः करः ॥”)
शपथः । आचारः । (यथा, महाभारते ।
१३ । ९० । ५० ।
“ऋषीणां समये नित्यं ये चरन्ति युधिष्ठिर ! ।
निश्चिताः सर्व्वधर्म्मज्ञास्तान् देवान् ब्राह्मणान्
विदुः ॥”)
सिद्धान्तः । संवित् । इत्यमरः ॥ क्रियाकारः ।
निर्द्देशः । भाषा । (यथा, महाभारते । ५ ।
३३ । ११६ ।
“देशाचारान् समयान् जातिधर्म्मान्
बभूषते यः सः परावरज्ञः ॥”)
सङ्केतः । इति मेदिनी ॥ (व्यवहारः । यथा,
मनुः । १० । ५३ ।
“न तैः समयमन्विच्छेत् पुरुषो धर्म्ममाचरन् ॥”)
सम्पत् । नियमः । (यथा, भागवत । ३ । २२ । १८ ।
“अतो भजिष्ये समयेन साध्वीं
यावत्तेजो विभृयादात्मनो मे ॥”)
अवसरः । इति हेमचन्द्रः ॥ * ॥ कालप्रशंसा ।
यथा, --
परशुराम उवाच ।
“राजेन्द्रोत्तिष्ठ समरं कुरु साहसपूर्व्वकम् ।
कालभेदे जयो नॄणां कालभेदे पराजयः ॥
काले सिंहः शृगालञ्च शृगालः सिंहमेव च ।
काले व्याघ्रं नरो हन्ति गजेन्द्रं हरिणस्तथा ॥
महिषं मक्षिका काले गरुडञ्च यथोरगः ।
किङ्करः स्तौति राजेन्द्रं काले राजा च किङ्क-
रम् ॥
इन्द्राश्च मनवः काले काले राजा मरिष्यति ।
तिरोहिता च प्रकृतिः काले श्रीकृष्णविग्रहे ॥
मरिष्यन्ति सुराः सर्व्वे त्रिलोकस्थाश्चराचराः ।
सर्व्वे काले लयं यान्ति कालो हि दुरतिक्रमः ॥
कालस्य कालः श्रीकृष्णः स्रष्टुः स्रष्टा यथेच्छया ।
संहर्त्ता चैव संहर्त्तुः पातुः पाता परात्परः ॥
महास्थूलात् स्थूलतमः सूक्ष्मात् सूक्ष्मतमः कृशः
पराणुः परमः कालः कालश्च कालभेदकः ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे ४० अध्यायः ॥ * ॥
अपि च ।
“कालः करोति संसर्गं बन्धूनां बन्धुभिः समम् ।
कालः करोति विच्छेदं विरोधं प्रीतिमेव च ॥
कालः सृष्टिञ्च कुरुते कालश्च परिपालनम् ।
कालः करोति सानन्दं कालः संहरते प्रजाः ॥
सुखं दुःखं भयं शोकं जरां मृत्युञ्च जन्म च ।
सर्व्वं कर्म्मानुरोधेन काल एव करोति च ।
सर्व्वं कालकृतं तात विस्मयं न व्रज व्रज ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ९० अध्यायः ॥
अथ कालनिरूपणम् ।
“आनन्दनन्दनस्यैव परिपूर्णतमस्य च ।
शृणु कालगतिं वत्स मदीयज्ञानगोचराम् ॥
नराणाञ्च पितॄणाञ्च सुराणाञ्चापि ब्रह्मणः ।
नागानां राक्षसादीनां तत्परेषाञ्च पुत्त्रक ॥
कथयामि निगूढार्थं सावधानं निशामय ।
सर्व्वस्माच्च परः स्थूलः सर्व्वाधारो महान्
विराट् ॥
यस्य लोमसु विश्वानि चासंख्यानि च तानि च ।
सर्व्वस्माच्च परं सूक्ष्मं परमाणुं निशामय ॥
कालारम्भात्मकं सर्व्वस्यानूहं परमीप्सितम् ।
परमः सद्बिशेषाणामनेकोऽयुतशस्तथा ॥
परमाणुः स विज्ञेयो नृणामैक्यभ्रमो यथा ।
परमाणुद्बयेनाणुस्त्रसरेणुस्तु ते त्रयः ॥
त्रसरेणुत्रिकेणापि त्रुटिरुक्ता मनीषिभिः ।
वेधस्त्नुटिशतेनैव त्रिवेधेन लवस्तथा ॥
त्रिलवेन निमेषश्च त्रिनिमेषेण च क्षणः ।
काष्ठा पञ्चक्षणेनैव लघुश्च दशकाष्ठया ॥
लघुपञ्चदशे दण्डस्तत्प्रमाणं निशामय ।
द्बादशार्द्धपलोन्मा च चतुर्भिश्चतुरङ्गुलैः ॥
स्वर्णमाषैः कृतच्छिद्रं यावत् प्रच्छजलप्लुतम् ।
दण्डद्वये च मुहूर्त्तः षष्टिदण्डात्मिका तिथिः ॥
तदष्टभागः प्रहरः प्रमाणञ्च निरूपणम् ।
चतुर्भिः प्रहरै रात्रिश्चतुर्भिर्दिनमेव च ॥
तिथिपञ्चदशेनैव पक्षमानं प्रकीर्त्तितम् ।
पक्षद्बयेन मासः स्यात् शुक्लकृष्णाभिधेन च ॥
ऋतुर्म्मासद्वयेनैव तत्षट्केनैव वत्सरः ।
वसन्तग्रीष्मवर्षाश्च शरद्धेमन्तशीतकम् ॥
वर्षाः पञ्चविधा ज्ञेयाः कालविद्भिर्निरूपिताः ।
संवत्सरः प्रवत्सरश्च इलावत्सर एव च ॥
अनुवत्सरो वत्सरोऽयमिति कालविदो विदुः ।
अब्दो द्बिषट्कमासैश्च तन्नाम शृणु चोद्धव ॥ * ॥
वैशाखो ज्यैष्ठ आषाढः श्रावणो भाद्र एव च ।
आश्विनः कार्त्तिको मार्गः पौषो माघस्तु
फाल्गुनः ॥
चैत्रस्तु चरमो ज्ञेयो वर्षशेषो निरूपितः ।
वसन्तश्चैत्रवैशाखौ मासौ युग्मेन कीर्त्तितः ॥
ज्यैष्ठाषाढद्वयेनैव ग्रीष्मस्तु परिकीर्त्तितः ।
वर्षा श्रावणभाद्रेण चाश्विने कार्त्तिके शरत् ॥
मार्गे पौषे च हेमन्तः शिशिरो माघफाल्गुने ।
अब्दस्तु चायने द्वे चैवोत्तरे दक्षिणायने ॥
माघादिषट्कं नियतं उत्तरायणमीप्सितम् ।
श्रावणादिमासषट्कं दक्षिणायनमेव च ॥
माघादाषाढपर्य्यन्तं दिनवृद्धिं क्रयेण वै ।
नक्तं वृद्धं श्रावणाच्च पौषपर्य्यन्तमेव च ॥ * ॥
प्रतिपदः पूर्णिमान्तः शुक्लः पक्षः प्रकीर्त्तितः ।
पूर्णिमायाः प्रतिपदः अमावास्यान्त एव च ॥
कृष्णपक्षस्तु विज्ञेयो वेदविद्भिर्निरूपितः ।
द्बितीया च तृतीया च चतुर्थी पञ्चमी तथा ॥
षष्ठी च सप्तमी चैव ह्यष्टमी नवमी तथा ।
दशम्येकादशी चापि द्वादशी च त्रयोदशी ।
चतुर्द्दशी कुहूर्यावद्दिनन्तु गणनं स्मृतम् ॥ * ॥
अश्विनी भरणी चापि कृत्तिका रोहिणी तथा ।
मृगशिरास्तथार्द्रा च नक्षत्रे द्बे पुनर्व्वसुः ॥
पुष्याश्लेषा मघा चैव पूर्व्वा चोत्तरफल्गुनी ।
हस्ता चित्रा तथा स्वाती विशाखा चानुरा-
धिका ॥
ज्येष्ठा मूला तथा ज्ञेया पूर्व्वाषाढोत्तरा तथा ।
श्रवणाप्यभिजिच्चैव धनिष्ठा च प्रकीर्त्तिता ॥
ततः शतभिषा ज्ञेया पूर्व्वभाद्रपदस्तथा ।
तथोत्तरस्तु विज्ञेयो रेवती चरमा स्मृता ॥
अष्टाविंशच्च नक्षत्रं कलत्रं शशिनोद्धव ।
क्रमेण ताभिः सार्द्धञ्च चन्द्रस्तिष्ठति नित्यशः ॥
सप्तविंशतिनक्षत्रं कलत्रञ्च श्रुतौ श्रुतम् ।
अभिजिच्छ्रवणाच्छाया तेनाष्टाविंशतिः स्मृता ॥
एकदा च मधौ चन्द्रो रोहिण्या रामया सह ।
रेमे दिवानिशं दृष्ट्वा श्रवणा च चुकोप सा ॥
छायां दत्त्वा च चन्द्राय ययौ तातान्तिकं
भिया ।
ततः पितरमानीय सा प्रचक्रे विभागकम् ॥
बभूव तेन नक्षत्रमभिजिन्नामकं पुरा ।
एतत् श्रुतं कृष्णमुखाच्छतशृङ्गे च पर्व्वते ।
नक्षत्रं कथितं वत्स तिथ्यां भ्रमति नित्यशः ॥ * ॥
योगञ्च करणञ्चैव मद्वक्त्रेण निशामय ।
विष्कम्भः प्रीतिरायुष्मान् सौभाग्यः शोभनस्तथा ॥
अतिगण्डः सुकर्म्मा च धृतिः शूलस्तथैव च ।
गण्डों वृद्धिर्ध्रुवश्चैव व्याघातो हर्षणस्तथा ॥
वज्रश्चासृग्व्यतीपातो वरीयान् परिघः शिवः ।
सिद्धः साध्यः शुभः शुक्रो ब्रह्मेन्द्रो वैधृतिस्तथा ॥
कीर्त्तितस्तु योगगणः करणं श्रूयतामिति ।
ववश्च बालवश्चैव कौलवस्तैतिलस्तथा ॥
गरश्च बणिजश्चापि विष्टिश्च शकुनिस्तथा ।
चतुष्पाच्चापि नागश्च किन्तुघ्न इति कीर्त्तनम् ॥
नराणाञ्चापि मासेन पितॄणाञ्च दिवानिशम् ।
शुक्ले तेषां दिनञ्चापि कृष्णे नक्तं प्रकीर्त्तितम् ॥
वत्सरेण नराणान्तु सुराणाञ्च दिवानिशम् ।
दिनन्तेषामुत्तरेण नक्तञ्च दक्षिणायणे ॥
मन्वन्तरन्तु दिव्यानां युगानामेकसप्ततिः ।
मनोरायुःपरिमितं शक्रस्यायुः प्रकीर्त्तितम् ॥
पञ्चविंशत्सहस्रञ्च तथा पञ्चशतं परम् ।
तत्र सूर्य्यगतिर्नास्ति शक्रपातानुसारतः ॥
युगानां षष्टिमधिकं नराणाञ्च प्रकीर्त्तितम् ।
कालेनैतेन शक्रस्य पतनञ्च मनोस्तथा ॥ * ॥
चतुर्द्दशेन्द्रावच्छिन्नकालेन ब्रह्मणो दिनम् ।
एतेनैव च तद्युक्तमुक्तं धातुर्द्दिवानिशम् ॥
एवन्तेषां निपतनं बोद्धव्यं तद्दिवानिशम् ।
तत्र सूर्य्यगतिर्नास्ति शक्रपातानुसारतः ॥
दिवानिशञ्च जानन्ति ब्रह्मलोकनिवासिनः ।
दण्डद्वयं लवपलं शक्रपातेन तत्पलम् ॥
एवं त्रिंशद्दिनेनैव धातुर्म्मासः प्रकीर्त्तितः ।
अब्दो द्वादशभिर्म्मासैरेवन्तस्य शतायुषः ॥
ब्रह्मणः पतनेनैव निमेषः श्रीहरेरपि ॥ * ॥
धातुः पातानुसारेण वैकुण्ठेन दिवानिशम् ।
तत्र सूर्य्यगतिर्न्नास्ति चैवं गोलोकतः स्मृतम् ॥
पृष्ठ ५/२६९
वैकुण्ठवासिनः सर्व्वे तेन जानन्त्यहर्निशम् ॥
चन्द्रस्यापि ग्रहाणाञ्च गतिर्नास्तीति तत्र वै ।
चक्रं नैव भ्रमत्येव राशीनामिच्छया हरेः ॥
दिनञ्च तेजसा दीप्तं कृष्णस्य परमात्मनः ।
नक्तं तेजोविहीनञ्च हरौ च मन्दिरं गते ॥
एवं कालगतिस्तत्र विष्णुलोकेऽस्ति सन्ततम् ।
कालस्वरूपो भगवान् परमात्मा निराकृतिः ॥
चन्द्रसूर्य्यगतिर्नास्ति पातालेषु च सप्तसु ।
तद्वासिनश्च जानन्ति सङ्केतेन दिवानिशम् ॥
दिने च मूर्द्ध्नि नागानां मणिर्ज्वलति नित्यशः ।
सन्ध्यायां दीप्तिहीनश्च रात्रिश्च तमसावृता ॥
कालं तन्द्रीप्रमाणेन जानन्ति तन्निवासिनः ।
यथा भुवि तथा तत्र परिमाणं प्रकीर्त्तितम् ॥ * ॥
कृतं त्रेता द्बापरञ्च कलिश्चेति चतुर्युगम् ।
दिव्यैर्द्वादशसाहस्रैर्व्वत्सरैश्चापि सम्मितम् ॥
अष्टौ शतान्यप्यधिकं सहस्राणां चतुष्टयम् ।
दिव्यैर्व्वर्षैः कृतयुगं कालविद्भिर्निरूपितम् ॥
अष्टाविंशत्सहस्राण्यप्यविकं परिमाणकम् ।
लक्षाणाञ्च सप्तदश नृमाणं परिकीर्त्तितम् ॥
अधिकं षट्शतान्येव सहस्राणां त्रयं तथा ।
दिव्यैर्वर्षैश्च त्रेतेति वत्स कालविदो विदुः ॥
षण्णवतिसहस्राणि लक्षैर्द्बादशभिः सह ।
नृणां वर्षैश्च त्रेतेति कालविद्भिः प्रकीर्त्तितः ॥
चतुष्टयं शतानाञ्चाप्यधिकं द्विसहस्रकम् ।
वर्षं दिव्यं द्बापरञ्च कालज्ञैः परिकीर्त्तितम् ॥
चतुःषष्टिसहस्राणि लक्षैरष्टभिरेव च ।
नृणां वर्षैर्द्वापरञ्च कालज्ञैः परिकीर्त्तितम् ॥
अधिकं द्विशतञ्चैव दिव्यं वर्षसहस्रकम् ।
एवं मितं कलियुगं वत्स प्राज्ञैः प्रकीर्त्तितम् ॥
द्बात्रिंशच्च सहस्रञ्च चतुर्लक्षं नृमाणकम् ।
वर्षञ्चेति कलियुगं चकार कालकोविदः ॥
लक्षैस्त्रिचत्वारिंशद्भिः सह विंशत्सहस्रकैः ।
नृमाणवर्षैः कालज्ञैर्व्व्यक्तमेव चतुर्युगम् ॥
इति ते कथितं वत्स कालसंख्यानिरूपणम् ।
यथाश्रुतं यथाज्ञानं गच्छ वत्स हरेः पुरम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डेराधोद्धवसंवादे
कालनिरूपणम् ९६ अध्यायः ॥ * ॥ अपि च ।
मार्कण्डेय उवाच ।
“निमेषो नाम कालाङ्गो नेत्रोन्मेषविलक्षितः ।
तैरष्टादशभिः काष्ठा काष्ठानां त्रिंशता कला ॥
कलाभिस्तावतीभिस्तु क्षणाख्यः परिकीर्त्तितः ।
क्षणैर्द्वादशभिः प्रोक्तो मुहूर्त्तस्तैस्तु त्रिंशता ॥
मानुष्यः स्यादहोरात्रः पक्षस्ते दश पञ्च च ।
पक्षाभ्यां मनुषो मासः पितॄणां तदहर्न्निशम् ॥
मासैर्द्वादशभिर्व्वर्षो देवानां तदहर्निशम् ॥
कृष्णपक्षः पितॄणान्तु कर्म्मार्थं दिवसो मतः ॥
स्वप्नार्थं शुक्लपक्षस्तु रजनी परिकीर्त्तिता ।
देवानान्तु दिनं प्रोक्तं षण्मासा उत्तरायणम् ॥
रात्रिः स्वप्नाय देवानां षण्मासा दक्षिणायनम् ।
द्वाभ्यां द्बाभ्यान्तु मासाभ्यामर्कजाभ्यामृतुः
स्मृतः ॥
ऋतुभिश्चायनं प्रोक्तं त्रिभिस्तन्मानुषं मतम् ।
ऋतुभिर्व्वत्सरः षड्भिस्तांश्च शृणु पृथक्
पृथक् ॥ * ॥
चैत्रादियुगलैः संज्ञा तैस्तैः षड्भिर्द्बिजोत्तमाः ।
वसन्तश्चैत्रवैशाखौ ग्रीष्मो ज्यैष्ठः शुचिस्तथा ॥
प्रावृट् नभोनभस्यौ तु शरत् स्यादिशकार्त्तिकौ ।
सहःपौषौ च हेमन्तः शिशिरो माघफाल्गुनौ ॥
षडिमे ऋतवः प्रोक्ताः यज्ञादौ विहिताः पृथक् ।
नृणां मानेन दशभिर्लक्षैः सप्तभिरुत्तरैः ॥
साष्टाविंशतिसाहस्रैर्म्मानं कृतयुगस्य च ।
सन्ध्या चतुःशतानीह वर्षाणामन्तरालतः ॥
सन्ध्यांशस्तावता प्रोक्तस्तदन्तर्गत ईप्सितः ।
त्रेता द्बादशभिर्लक्षैर्म्मानुषैर्व्वत्सरैर्भवेत् ॥
षण्णवत्या सहस्रैश्च सन्ध्या च स्यात् शतत्रयम् ।
शतत्रयन्तु सन्ध्यांशस्तदन्तः परिकीर्त्तितः ॥
चतुःषष्टिसहस्राणि लक्षाण्यष्टौ प्रमाणतः ।
भवेद्युगं द्वापराख्यं तेषु सन्ध्या शतद्बयम् ॥
शतद्वयन्तु सन्ध्यांशस्तदन्तर्गत इष्यते ।
द्बात्रिंशत्तु सहस्राणि चतुर्लक्षाणि वै कलेः ।
संवत्सरैर्भवेन्मानं सन्ध्यैकं प्रोच्यते शतम् ॥
वत्सराणामेकशतं सन्ध्यांशश्च तदन्तरे ।
एवं कृतञ्च त्रेता च द्बापरश्च तथा कलिः ॥
मानुषेण प्रमाणेन भवेद्युगचतुष्टयम् ।
त्रिचत्वारिंशता लक्षैर्मानं चतुर्युगं भवेत् ॥
सहस्रैरपि विंशत्या सन्ध्यासन्ध्यांशसंयुतम् ।
दैवं दिनं वत्सरेण मानुषेण सरात्रकम् ॥
एवं क्रमं गणित्वा तु मानुषीयैश्चतुर्युगम् ।
दैवं द्वादशसाहस्रं वत्सराणां प्रकीर्त्तितम् ॥
दैवैर्द्बादशसाहस्रैर्व्वत्सरैर्दैविकं युगम् ।
तद्वच्चतुर्युगं नॄणां सन्ध्यासन्ध्यांशसंयुतम् ॥
देवानान्तु कृतं त्रेता द्बापरादिव्यवस्थया ।
न युगव्यवहारोऽस्ति न च धर्म्मादिभिन्नता ॥
किन्तु चातुर्युगं नारं भवेद्देवयुगं सदा ।
दैवैरेव च सप्तत्या युगैर्म्मन्वन्तरं भवेत् ॥
दैवे युगसहस्रे द्बे ब्रह्मणः स्यादहर्न्निशम् ।
चतुर्युगसहस्रे द्बे नृणां मानेन तद्भवेत् ॥
एकस्मिन् ब्राह्म्यदिवसे मनवः स्युश्चतुर्द्दश ।
एवं ब्राह्म्येण मानेन दिवसैस्तु त्रिभिः शतैः ॥
सषष्टिभिर्व्वत्सरः स्याद्ब्राह्म्यो वर्षो नृणां यथा ।
ब्राह्म्यैः पञ्चशता वर्षैः परार्द्धः परिकीर्त्तितः ॥
तदीश्वरस्य दिवसं तावती रात्रिरिष्यते ।
शतन ब्रह्मणो वर्षैः कालः स्यात् द्बिपरार्द्धकः ॥
परार्द्धेद्वितयेऽतीते ब्रह्मणः प्रलयो भवेत् ।
प्रलीने ब्रह्मणि परे जगतां प्राकृतो लयः ॥
समस्तजगदाधारमव्ययं यत् परात्परम् ।
तस्य ब्रह्मस्वरूपस्य दिवारात्रञ्च तद्भवेत् ।
तत्परं नाम तस्यार्द्धं परार्द्धमभिधीयते ॥”
इति श्रीकालिकापुराणे २४ अध्यायः ॥ * ॥
किञ्च ।
“अक्षिपक्ष्मपरिज्ञेयो निमेषः परिकीर्त्तितः ।
द्बौ निमेषौ त्रुटिर्नाम द्वे त्रुटी तु लवः स्मृतः ॥
द्बिलवः क्षण इत्युक्तः काष्ठा प्रोक्ता दश
क्षणाः ।
दश काष्ठाः किला नाम तत्संख्या स्याच्च
घाटिका ॥
घटिके द्वे मुहूर्त्तः स्यात्तैस्त्रिंशत्या दिवानिशम् ।
चतुर्व्विंशतिवेलाभिरहोरात्रं प्रचक्षते ॥
सूर्य्योदयादिविज्ञेयो मुहूर्तानां क्रमः सदा ।
पश्चिमादर्द्धरात्रादिहोराणां विद्यते क्रमः ॥”
इति वह्निपुराणे गणभेदनामाध्यायः ॥ * ॥
अपरं नृसिंहपुराणे २ अध्याये कौर्म्मे ६ अध्याये
च द्रष्टव्यम् ॥

समयकारः, पुं, (समयस्य कारः करणम् ।) सङ्केतः

यथा, --
“प्रज्ञाप्तिः परिभाषा शैली सङ्केतसमयकाराश्च ।”
इति त्रिकाण्डशेषः ॥

समया, व्य, (समयनमिति । सम् + इण् गतौ +

“आः समिण्निकषिभ्याम् ।” उणा० ४ । १७४ ।
इति आप्रत्ययः ।) निकटः । अस्य पर्य्यायः ।
बिकषा २ हिरुक् ३ । इत्यमरः ॥ (यथा,
शिशुपालवधे । ६ । ७३ ।
“कुटजानि वीक्ष्य शिखिभिः शिखरीन्द्रं
समयावनौ घनमदभ्रमराणि ।
गगनञ्च गीतनिनदस्य गिरोच्चैः
समया वनौघनमदभ्रमराणि ॥”)
मध्यः । इति चामरः । ३ । ३ । २५१ ॥
“समया निकठे मध्ये मध्ये च निकषान्तिके ।
हिरुङ्मध्ये विनार्थे च -- ॥”
इति रुद्रः ॥
हिरुगुक्तञ्च सामीप्ये । इत्यमरमाला ॥ काख-
विज्ञापनम् । इति शब्दरत्नावली ॥

समरः, पुं, क्ली, (सम्यक् अरणं प्रापणमिति

सं + ऋ गतौ + अप् । यद्बा, सम्यक् ऋच्छत्य-
त्रेति । “मन्दरकन्दरशीकरेति ।” बाहुलकात्
अरप्रत्ययेन साधुः । इत्युज्ज्वलः । ३ । १३१ ।)
युद्धम् । इत्यमरः ॥ (यथा, रघुः । १२ । ८२ ।
“इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु ।
रजांसि समरोत्थानि तच्छोणितनदीष्विव ॥”)

समरभः, पुं, (समरवत् भातीति । भा + कः ।)

रतिबन्धविशेषः । तस्य लक्षणं यथा, --
“स्वजङ्घाद्बयसंयुक्तं कृत्वा योषित्पदद्वयम् ।
स्तनौ धृत्वा रमेत् कामी बन्धः समरभः स्मृतः ॥”
इति रतिमञ्जरी ॥

समरूप्यः, त्रि, (समादागत इति । सम + “हेतु-

मनुष्येभ्योऽव्यतरस्यां रूप्यः ।” ४ । ३ । ८१ ।
इति रूप्यः ।) समस्य साधोर्भूतपूर्व्वो गवादिः ।
समशब्दात् रूप्यप्रत्ययेन निष्पन्नः ॥

समर्थः, त्रि, (समर्थयते इति । सं + अर्थ + पचा-

द्यच् ।) शक्तिष्ठः । (यथा, तिथितत्त्वे ।
“ये समर्था जगत्यस्मिन् सृष्टिस्थित्यन्तकारिणः ।
तेऽपि कालेन लीयन्ते कालो हि बलवत्तरः ॥”)
सम्बन्धार्थः । हितः । इत्यमरः ॥ (यथा, महा-
भारते । १३ । ५ । २६ ।
“नार्हसे मां सहस्राक्ष द्रुमं त्याजयितुं चिरात् ।
समर्थमुपजीव्येमं त्यजेयं कथमद्य वै ॥”)
पृष्ठ ५/२७०

समर्थता, स्त्री, (समर्थस्य भावः । समर्थ + तल् ।)

सामर्थ्यम् । शक्तिः । समर्थत्वम् । समर्थशब्दात्
तप्रत्ययेन निष्पन्ना ॥

समर्थनं, क्ली, (सम् + अर्थ + ल्युट् ।) इदमुचित-

मिदमनुचितमिति निश्चयः । तत्पर्य्यायः ।
संप्रधारणा २ । इत्यमरः ॥ समर्थना ३ । इति
शब्दरत्नावली ॥ (यथा, कथासरित्सागरे ।
२५ । ७३ ।
“शक्तिदेवस्य पार्श्वस्थो विष्णुदत्तः समर्थनम् ।
विनोदपूर्ब्बकं कुर्व्वन् कथां कथितवानिमाम् ॥”)
सामर्थ्यञ्च ॥ (यथा, महाभारते । १ । १३० । १० ।
“स तु ज्ञानगरीयस्त्वात् तपसश्च समर्थनात् ।
अवतस्थे महाप्राज्ञो धैर्य्येण परमेण ह ॥”)

समर्थना, स्त्री, (सम् + अर्थ + युच् । टाप् ।)

अशक्येऽध्यवसायः । यथा । सिन्धुमपि शोष-
याणि । इति मुग्धबोधव्याकरणम् ॥ समर्थनम् ।
इति शब्दरत्नावली ॥ (यथा, महाभारते ।
४ । ४ । २४ ।
“समर्थनासु सर्व्वसु हितञ्च प्रियमेव च ।
मंवर्णयेत्तदेवास्य प्रियादपि हितं वदेत् ॥”)

समर्द्धकः, त्रि, (समृध्रोतीति । सम् + ऋधु वृद्धौ +

ण्वुल् ।) वरदः । इष्टफलदातृदेवतादिः ।
इत्यमरः ॥

समर्पणं, क्ली, संपूर्व्वस्य ऋधातोर्ञौ (णिचि) कृते

पनि कृतेऽनट् (ल्युट्) प्रत्ययनिष्पन्नम् । सम्यक्-
प्रकारेणार्पणम् । सोँपोन इति भाषा । यथा,
“प्राणायामं ततः कृत्वा प्रजपेत् साधकाग्रणीः ।
देव्या हस्ते जपफलसमर्पणमथाचरेत् ॥”
इति तोडलतन्त्रे ३ पटलः ॥

समर्य्यादः, पुं, (मर्य्यादया सह वर्त्तमानः ।)

समीपः । मर्य्यादासहिते, त्रि । इति मेदिनी ॥

समलं, क्ली, (मलेन सह वर्त्तमानम् ।) बिष्ठा ।

इति शब्दरत्नावली ॥ आविले, त्रि । इति
जटाधरः ॥ (कलङ्कविशिष्टे च त्रि । यथा,
कथासरितसागरे । १०६ । ६२ ॥
“समलो व्योम्नि दृष्टोऽद्य चन्द्रोऽनेनेति कौतुकात् ।
अव्योम्नि दर्शितं धात्रा चन्द्रमन्यमिवामलम् ॥”)

समवकारः, पुं, (समवकीर्य्यन्ते बहवोऽर्था यस्मि-

न्निति । सम् + अव + कृ + घञ् ।) नाटकभेदः ।
यथा, --
“स्यान्नाटकं प्रकरणं भाणः प्रहसनं डिमः ।
व्यायोगः समवकारो विथ्यङ्केहामृगा इति ।
अभिनेयप्रकाराः स्युर्भाषाः षट् संस्कृता-
दिकाः ॥”
इति हेमचन्द्रः ॥
(तल्लक्षणादिकं यथा, --
अथ समवकारः ।
“वृत्तं समवकारे तु ण्यातं देवासुराश्रयम् ।
सन्धयो निर्व्विमर्षास्तु त्रयोऽङ्कास्तत्र चादिमे ॥
सन्धी द्बावन्त्ययोस्तद्वदेक एको भवेत् पुनः ।
नायका द्बादशोदात्ताः प्रख्याता देवदानवाः ॥
फलं पृथक् पृथक् तेषां वीरमुख्योऽखिलो रसः ।
वृत्तयो मन्दकौशिक्यो नात्र बिन्दुप्रवेशकौ ॥
वीथ्यङ्गानि च तत्र स्युर्यथालाभं त्रयोदश ।
गायत्र्युष्णिङ्मुखान्यत्र छन्दांसि विविधानि च ॥
त्रिशृङ्गारस्त्रिकपटः कार्य्यश्चायं त्रिविद्रवः ।
वस्तु द्बादशनाडीभिर्निष्पाद्यं प्रथमाङ्कगम् ॥
द्बितीयेऽङ्के च तिसृभिर्द्बाभ्यामङ्के तृतीयके ॥
नाडिका षटिकाद्बयमुच्यते । बिन्दुप्रवेशकौ च
नाटकोक्तावपि नेह विधातव्यौ । तत्र ।
धर्मार्थकामैस्त्रिविधः शृङ्गारः कपटः पुनः ।
स्वाभाविकः कृत्रिमश्च दैवजो विद्रवः पुनः ॥
अचेतनैश्चेतनैश्च चेतनाचेतनैः कृतः ॥
तत्र शास्त्राविरोधेन कृतो धर्म्मशृङ्गारः । अर्थ-
लाभार्थकल्पितः अर्थशृङ्गारः । प्रहसन-
शृङ्गारः कामशृङ्गारः । तत्र कामशृङ्गारः
प्रथमाङ्क एव । अन्ययोस्तु न नियम इत्याहुः ।
चेतनाचेतना गजादयः । समववीर्य्यन्ते बह-
वोऽर्था अस्मिन्निति समवकारः । यथा, समुद्र-
मथनम् ।” इति साहित्यदर्पणे । ६ । ५१५ -- ५१६ ॥)

समवतारः, पुं, तीर्थम् । समवपूर्व्वकतृधातोर्घञ्-

प्रत्ययेन निष्पन्नः ॥ (यथा, किराते । ५ । ७ ।
“दधतमाकरिभिः करिभिः क्षतैः
समवतारसमैरसमैस्तटैः ॥”)

समवर्त्ती, [न्] पुं, (समं वर्त्तते इति । सम् +

वृत् + णिनिः ।) यमः । इत्यमरः ॥ (यथा,
महाभारते । १२ । २०७ । ३५ ।
“शासितारञ्च पापानां पितॄणां समवर्त्तिनम् ।
असृजत् सर्व्वभूतात्मा निधिपञ्च धनेश्वरम् ॥”)
तुल्यवर्त्तनशीले, त्रि ॥

समवायः, पुं, (समवाय्यते इति । सम् + अव +

अय + घञ् ।) समूहः । इत्यमरः ॥ (यथा,
मनुः । ४ । १०८ ।
“अनध्यायो रुद्यमाने समवाये जनस्य च ॥”)
सम्बन्धविशेषः । यथा, --
“घटादीनां कपालादौ द्रव्येषु गुणकर्म्मणोः ।
तेषु जातेश्च सम्बन्धः समवायः प्रकीर्त्तितः ॥”
इति भाषापरिच्छेदः ॥
अवयवावयविनोर्गुणगुणिनोः क्रियाक्रियावतो-
र्जातिव्यक्त्योर्नित्यद्रव्यविशेषयोच्च यः सम्बन्धः स
समवाथः । इति सिद्धान्तमुक्तावली ॥

समवेतः, त्रि, (सम् + अव + इण् + क्तः ।) मिलितः ।

यथा, --
“धर्म्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्व्वत सञ्जय ॥”
इति भगवद्गीतायाम् १ अध्यायः ॥
समवायसम्बन्धेन वृत्तिः । यथा, --
“यत् समवेतं कार्य्यं भवति
ज्ञेयन्त समवायिजनकं तत् ।”
इति भाषापरिच्छेदः ॥

समश्नुवानः, त्रि, सम्यक्प्रकारेण व्याप्तिविशिष्टः ।

संपूर्व्वकाशधातोः शानच्प्रत्ययेन निष्पन्नः ॥

समष्टिः, स्त्री, (सं + अश व्याप्तौ + क्तिन् ।) समस्तः ।

मिलितः । यथा, --
“समष्टिरीशः सर्व्वेषां स्वात्मतादात्म्यवेदनात् ।
तदभावात्तदन्ये तु ज्ञायन्ते व्यष्टिसंज्ञया ॥”
इति पञ्चदशी ॥

समष्ठिलः, पुं, (समं तिष्ठतीति । स्था + बाहु-

लकात् इलच् ।) क्षुपविशेषः । कोकुयाँ इति
हिन्दी भाषा । तत्पर्य्यायः । भण्डीरः २
नद्याम्रः ३ आम्रगन्धकः ४ कोकाग्रः ५ कण्टकि-
फलः ६ उपदंशः ७ । अस्य गुणाः । कटुत्वम् ।
उष्णत्वम् । रुच्यत्वम् । मुखविशोधनत्वम् ।
कफवातप्रशमनत्वम् । दाहकारित्वम् । दीपन-
त्वञ्च । इति राजनिर्घण्टः ॥

समष्ठिला, स्त्री, (समष्ठिल + स्त्रियां टाप् ।)

गण्डीरः । इत्यमरः ॥ द्वे शसा इति ख्याते
शमठ इति ख्याते । अनपदेशजे शाके इति
केचित् । गुण्ठिया इति ख्याते शाके इति
सर्व्वानन्दः । गण्डीनि ग्रन्थियुक्तानि अङ्गानि
ईरयति गण्डीरः षण् । गण्डं रोगविशेषं
ईरयति गण्डीरः शूरणकन्दादिरित्यन्ये । सम्य-
गस्थि लाति समष्ठिला डः मनीषादित्वात् सस्य
षत्वम् । इति भरतः ॥

समष्ठीला, स्त्री, समष्ठिला । यथा, --

“समष्ठोऽपि च गण्डीरः समष्ठीला समष्ठिला ।”
इति शब्दरत्नावली ॥

समसनं, क्ली, (सम् + अस् + ल्युट् ।) संक्षेपणम् ।

इत्यमरः ॥ (समासः । इति केचित् ॥)

समसुप्तिः, पुं, (समेषां सर्व्वेषां सुप्तिर्यत्र ।)

कल्पान्तः । महाप्रलयः । इति हेमचन्द्रः ।
२ । ७५ ॥ (स्त्री, समा सुप्तिरिति ।) तुल्य-
शयनञ्च ॥

समस्तं, त्रि, (सम् + अस् + क्तः ।) सम्पूर्णम् ।

तत्पर्य्यायः । समम् २ सर्व्वम् ३ विश्वम् ४
अशेषम् ६ कृत्स्नम् ६ निखिलम् ७ अखिलम् ८
निःशेषम् ९ समग्रम् १० सकलम् ११ पूर्णम् १२
अखण्डम् १३ अनूनकम् १४ । इत्यमरः ॥
अनन्तम् १५ । इति शब्दरत्नावली ॥ अन्यू-
नम् १६ अनूनम् १७ । इति जटाधरः ॥ (यथा,
तिष्णुपुराणे । १ । ४ । ३३ ।
“सूक्तान्यशेषाणि शटाकलापो
घ्राणं समस्तानि हवींषि देव ॥”)

समस्थः, त्रि, (समे तिष्ठतीति । स्था + कः ।)

समानः । समभावेन स्थितः । समशब्दपूर्व्वक-
स्थाधातोर्डप्रत्ययेन निष्पन्नः ॥ (यथा, बृहत्-
संहितायाम् । ५० । २० ।
“परतो न विशेषफलं
विषमसमस्थास्तु पापशुभफलदाः ॥”)

समस्थली, स्त्री, (समा स्थली ।) गङ्गायमुनयो-

र्म्मध्यदेशः । तत्पर्य्यायः । अन्तर्व्वेदिः २ । इति
हेमचन्द्रः ॥

समस्या, स्त्री, (समसनं उक्त्या संक्षेपणम् । सम् +

अस् + ण्यत् । संज्ञापूर्व्वकत्वात् वृद्ध्यभावः ।)
समस्यते संक्षिप्यतेऽनया समस्या अस्यु इर्
क्षेपे शीव्रजयजेत्यादिना क्यप् भिन्नाभि-
पृष्ठ ५/२७१
प्रायस्य श्लोकादेस्त दीयत्वेन प्रत्यभिज्ञायमानानां
भागानां स्वकृतेन परकृतेन वा भागान्तरेण
समसनं संघटनं समस्येति माधवी ॥ श्लोकस्य
पादेनैकेन द्वाभ्यां त्रिभिर्व्वा पूरणम् । यथा, --
“मुमूर्षोः किं तवाद्यापि चित्रकानननागरैः ।
स्मर नारायणं येन त्रेतायां रावणो हतः ॥”
इत्यादिश्लोकादौ पादे पूरणरूपेणायमित्येके ।
इति रायमुकुटः ॥ तत्पर्य्यायः । समासार्था २ ।
इत्यमरः ॥ समस्यार्था ३ समाप्त्यर्था ४ । इति
भरतः ॥

समस्यार्था, स्त्री, (समस्या अर्थो यस्याः ।)

समस्या । इत्यमरटीकायां भरतः ॥

समह्या, स्त्री, यशः । इति शब्दरत्नावली ॥

समा, स्त्री, (सम वैक्लव्ये + पचाद्यच् । ततष्टाप् ।)

वत्सरः । इत्यमरः ॥ समति विकलयति भावान्
समा सम ष्टम वैक्लव्ये पचादित्वादन् आप् ।
समा नित्यबहुवचनान्ताः स्त्रियामिति वामना-
दयः । समां समां विज्ञायते इत्येकत्वेऽपि दृश्यते
इति स्वामी । अतएव समा इति बहुवचनेन
क्वचित् पाठः । समेति क्वचिदेकवचनेन । इति
तट्टीकायां भरतः ॥ (यथा, रामायणे । १ । २ । १५ ।
“मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥”)

समांशहारी, [न्] त्रि, (समांशं हरतीति । हृ +

णिनिः ।) समभागार्हः । यथा, दायतत्त्वे ।
“समांशहारिणी माता पुत्त्राणां स्यात् मृते
पतौ ॥”

समांशिकः, त्रि, (समांशोऽस्त्यस्येति । ठन् ।)

समभागार्हः । यथा, --
“यदि कुर्य्यात् समानांशान् पत्न्यः कार्य्याः
समांशिकाः ।
न दत्तं स्त्रीधनं यासां दत्ते त्वर्द्धं प्रकीर्त्तितम् ॥”
इति दायतत्त्वम् ॥

समांशी, [न्] त्रि, (समांशोऽस्त्यस्येति । इनिः ।)

तुल्यभागविशिष्टः । समानभागी । यथा, --
“ज्येष्ठं वा श्रेष्ठभागेन सर्व्वे वा स्युः समांशिनः ॥”
इति दायतत्त्वम् ॥

समांसमीना, स्त्री, (समां समां विजायते इति ।

“समां समां विजायते ।” ५ । २ । १२ । इति खः ।)
प्रतिवर्षप्रसूतगवी । इत्यमरः ॥

समाकर्षो, [न्] पुं, (समाकर्षति चित्तमिति ।

सम् + आ + कृष् + णिनिः ।) अतिदूरगामि-
गन्धः । तत्पर्य्यायः । निर्हारी २ । इत्यमरः ॥
तृष्णाजनकगन्धयुक्ते भक्ष्यादिद्रव्ये द्वयमेतदिति
साञ्झः ॥ तत्र, त्रि ॥

समाख्या, स्त्री, (समाख्यायतेऽनयेति । सम् + आ

+ ख्या + अङ् ।) कीर्त्तिः । इति शब्दरत्ना-
वली ॥ संज्ञा । यथा, --
“सपिण्डीकरणसमाख्यासिद्ध्यर्थं सुतरां तत्र
तथाचरणम् ॥” इति तिथ्यादितत्त्वम् ॥

समागतः, त्रि, (सम् + आ + गम + क्तः ।) सम्यगा-

गमनविशिष्टः । आगमनाश्रयः । यथा, --
“कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ।
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ॥”
इति भगवद्गीतायाम् । १ । २२ ॥

समागतिः, स्त्री, समागमनम् । समाङ्पूर्व्वगम-

धातोः क्तिप्रत्ययनिष्पन्नम् ॥

समागमः, पुं, (सं + आ + गम + घञ् ।) सम्यगा-

गमनम् । सम्प्राप्तिः । यथा, --
“रतिशक्तिः स्त्रियः कान्ता भोज्यं भोजन-
शक्तिता ।
दानशक्तिः सविभवा रूपमारोग्यसम्पदः ।
श्राद्धपुष्पमिदं प्रोक्तं फलं ब्रह्मसमागमः ॥”
इति श्राद्धतत्त्वधृतमत्स्यपुराणवचनम् ॥

समाघातः, पुं, (समाहन्यतेऽत्रेति । सं + आ +

हन + घञ् ।) युद्धम् । इत्यमरः ॥ (यथा,
साहित्यदर्पणे । ६ । ४२१ ।
“सम्फेटस्तु समाघातः क्रुद्धसत्वरयोर्द्वयोः ॥”)
वधः । इति मेदिनी ॥

समाचारः, पुं, (सम् + आ + चर + घञ् ।)

सम्यगाचरणम् । यथा, --
“पुण्यस्त्रीणां समाचारं श्रोतुमिच्छामि
तत्त्वतः ।”
इति मात्स्ये ६६ अध्यायः ॥
संवादः । इति लोकप्रसिद्धः ॥

समाजः, पुं, (संवीयतेऽत्रेति । सं + अज + घञ् ।

“अजेर्व्यघञपोः ।” २ । ४ । ५६ । इति वीभावो
न । “अजिव्रज्योश्च ।” ७ । ३ । ६० । इति
कुत्वनिषेधः ।) पशुभिन्नानां संघः । इत्यमरः ॥
सभा । इति हेमचन्द्रः ॥ (यथा, भागवते ।
१० । ४४ । ९ ।
“धर्म्मव्यतिक्रमोऽह्यस्य समाजस्य ध्रुवं भवेत् ।
यत्राधर्म्मः समुत्तिष्ठेन्न स्थेयं तत्र कर्हिचित् ॥”)
हस्ती । इति अनेकार्थकोषः ॥

समाज्ञा, स्त्री, (समाज्ञायते इति । सम् + आ +

ज्ञा + “आतश्चोपसर्गे ।” इत्यङ् । टाप् ।)
समज्ञा । इत्यमरटीकायां भरतः ।

समादानं, क्ली, (सम् + आ + दा + ल्युट् ।) समी-

चीनग्रहणम् । सम्यग्ग्रहणम् । (यथा, महा-
भारते । १३ । ९४ । ३५ ।
“सर्व्वपापसमादानं नृशंसे चानृते च यत् ।
तत्तस्यास्तु सदा पापं यस्ते हरति पुष्करम् ॥”)
सौगताह्निकम् । बौद्धानां नित्यकर्म्म । इति
मेदिनी ॥

समाधाः, पुं, निष्पत्तिः । विरोधभञ्जनम् । इति

लोकप्रसिद्धम् । समाधानम् । समाङ्पूर्व्वधा-
धातोर्विच्प्रत्ययेन निष्पन्नः ॥

समाधानं, क्ली, (सम् + आ + धा + ल्युट् ।)

ब्रह्मणि मनःस्थिरीकरणम् । चित्तैकाग्रम् । तत्-
पर्य्यायः । अवधानम् २ प्रणिधानम् ३ समाधिः
४ । इति हेमचन्द्रः ॥ निगृहीतस्य मनसः
श्रवणादौ तदनुगुणविषये च समाधिः समा-
धानम् । इति वेदान्तसारः ॥ इदानीं समा-
धानं लक्षयति । निगृहीतस्येति । शब्दादि-
विषयेभ्यो निगृहीतस्यान्तःकरणस्य श्रवणादौ
तदनुगुणेषु तदुपकारकेषु अमानित्वादिसाधन-
विषयेषु समाधिनैरन्तर्य्येण तच्चिन्तनं समा-
धानमित्यर्थः । इति तट्टीकासुबोधनी ॥ (यथा,
भागवते । ३ । २८ । ६ ।
“स्वधिष्ण्यानामेकदेशे मनसा प्राणधारणा ।
वैकुण्ठलीलाभिध्यानं समाधानं तथात्मनः ॥”)
पूर्व्वपक्षस्योत्तरम् । इति लोकप्रसिद्धम् ॥ (नाट-
काङ्गविशेषः । यथा, साहित्यदर्पणे । ६ । ३३८ ।
“उपक्षेपः परिकरः परिन्यासो विजोभनम् ।
युक्तिः प्राप्तिः समाधानं विधानं परिभावना ।
उद्भेदः करणं मेद एतान्यङ्गानि वै मुखे ॥”
तल्लक्षणादिकं यथा, तत्रैव । ६ । ३४५ ।
“बीजस्यागमनं यत्त तत् समाधानमुच्यते ।
यथा, वेणीसंहारे ।
नेपथ्ये भो भो विराटद्रुपदप्रभृतयः ! श्रूयताम् ।
‘यत् सत्यव्रतभङ्गभीरुमनसा यत्नेन मन्दीकृतं
यद्विस्मर्त्तुमपीहितं शमवता शान्तिं कुलस्ये-
च्छता ।
तद्द्यूतारणिसम्भृतं नृपसुताकेशाम्बराकर्षणैः
क्रोधज्योतिरिदं महत् कुरुबले यौधिष्ठिरं
जृम्भते ॥’
अत्र ‘सुस्था भवन्ति मयि जीवतीति’ आदि-
बीजस्य प्रधाननायकाभिमतत्वेन सम्यगाहित-
त्वात् समाधानम् ॥” * ॥)

समाधिः, पुं, (समाधीयतेऽस्मिन् मनो जनैरिति ।

सम् + आ + धा + “उपसर्ग धोः किः ।” इति
किः ।) समर्थनम् । नीवाकः । नियमः । इत्य-
मरः ॥ (यथा, कुमारे । ५ । ६ ।
“अयाचतारण्यनिवासमात्मनः
फलोदयान्ताय तपःसमाधये ॥”)
समर्थनं अशक्ये अध्यवसायः दुर्घटस्य घटनत्वं
वा । नीवाको वचनाभावः । इति स्वामी ॥
धान्यादिषु मूल्योत्कर्षपूर्ब्बको जनादरः । इति
सुभूतिः ॥ नियमः अङ्गीकारः । एते समा-
धयः । समाधीयतेऽस्मिन् मनो जनैरिति किः ।
इति भरतः ॥ ध्यानम् । काव्यगुणविशेषः ।
इति मेदिनी ॥ (अर्थालङ्कारविशेषः । यथा,
साहित्यदर्पणे । १० । ७४० ।
“समाधिः सुकरे कार्य्ये दैवाद्बस्त्वन्तरागमात् ॥”
यथा, --
“मानमस्या निराकर्त्तुं पादयोर्मे पतिष्यतः ।
उपकाराय दिष्ट्येदमुदीर्णं घनगर्जितम् ॥”
समाधीयतेऽनेनेति करणे किः । कारणसामग्री ।
यथा, रघुः । १ । २९ ।
“तं वेधा विदधे नूनं महाभूतसमाधिना ।
तथाहि सर्व्वे तस्यासन् परार्थैकफला गुणाः ॥”)
इन्द्रियनिरोधनम् । इति शब्दरत्नावली ॥ * ॥
समाधिलक्षणं यथा, गारुडे ४४ अध्याये ।
“नित्यं शुद्धं बुद्धियुक्तं सत्यमानन्दमद्वयम् ।
तुरीयमक्षरं ब्रह्म अहमस्मि परं पदम् ।
अहं ब्रह्मेत्यवस्थानं समाधिरिति गीयते ॥”
पृष्ठ ५/२७२
अपि च तत्रैव २४० अध्याये ।
“द्बादशध्यानपर्य्यन्तं मनो ब्रह्मणि यो नरः ।
तुष्टे तु संयतो मुक्तः समाधिः सोऽभिधीयते ॥
ध्येयमेव हि सर्व्वत्र ध्याता तल्लयतां गतः ।
पश्यति द्वतरहितं समाधिः सोऽभिधीयते ॥”
अन्यच्च विष्णुपुराणे । ६ । ७ । ९० ।
“तस्यैव कल्पनाहीनं स्वरूपग्रहणं हि यत् ।
मनसा ध्याननिष्पाद्यं समाधिः सोऽभिधीयते ॥”
अपरञ्च ।
“इमं गुणसमाहारमनात्मत्वेन पश्यतः ।
अन्तः शीतलता यस्य समाधिरिति कथ्यते ॥”
इति योगवाशिष्ठे उपशमप्रकरणम् ॥
योगाङ्गविशेषः । यथा । समाधिस्तु द्विविधः ।
सविकल्पको निर्व्विकल्पश्चेति । तत्र सविकल्पको
नाम ज्ञातृज्ञानादिविकल्पलयानपेक्षया द्वितीय-
वस्तुनि तदाकाराकारितायाच्चित्तवृत्तेरवस्था-
नम् । तदा मृण्मयगजादिभाणेऽपि मृद्भाणवत्
द्वैतभाणेऽप्यद्वैतं वस्तु भासते । तदुक्तमभियुक्तैः ।
“दृशि स्वरूपं गगनोपमं परं
सकृद्विभातं त्वजमेकमव्ययम् ।
अलेपकं सर्व्वगतं यदद्वयं
तदेव चाहं सततं विमुक्तम् ॥
दृशिस्तु शुद्धोऽहमविक्रियात्मको
न मेऽस्ति बद्धो न च मे विमोक्षः ॥”
इत्यादि ॥ * ॥
निर्व्विकल्पकस्तु । ज्ञातृज्ञानादिभेदलयापेक्षया
द्वितीयवस्तुनि तदाकाराकारिताया बुद्धिवृत्ते-
रतितरामेकीभावेनावस्थानम् । तदा तु जला-
काराकारितलवणानवभासेन जलमात्रावभास-
वदद्वितीयवस्त्वाकारांकारितचित्तवृत्त्यनवभासे-
नाद्वितीयवस्तुमात्रमेवावभासते । ततश्चास्य
सुषुप्तेश्चाभेदशङ्का न भवति उभयत्र वृत्त्यभाणे
समानेऽपि तत्सद्भावासद्भावमात्रेणानयोर्भेदोप-
पत्तेः ॥ अस्याङ्गानि । यमनियमासनप्राणायाम-
प्रत्याहारधारणाध्यानसमाधयः । तत्र अहिंसा-
सत्यास्तेयब्रह्मचर्य्यापरिग्रहाः यमाः । १ । शौच-
सन्तोषतपःस्वाध्यायेश्वण्प्रणिधानानि नियमाः । २
करचरणादिसंस्थानविशषलक्षणानि पद्मस्वस्ति-
कादीनि आसनानि । ३ । रेचकपूरककुम्भक-
लक्षणाः प्राणनिग्रहोपायाः प्राणायामाः । ४ ।
इन्द्रिवरणां स्वस्वविषयेभ्यः प्रत्याहरणं प्रत्या-
हारः । ५ । अद्वितीयवस्तुन्यन्तरिन्द्रियधारणं
धारणा । ६ । तत्राद्बितीयवस्तुनि विच्छिद्य
विच्छिद्य अन्तरिन्द्रियवृत्तिप्रवाहो ध्यानम् । ७ ।
समाधिस्तु उक्तः सविकल्पक एव । ८ । एव-
मस्याङ्गिनो निर्व्विकल्पकस्य लयविक्षेपकषाय-
रसास्वादलक्षणश्चत्वारो विघ्नाः सम्भवन्ति ।
लयस्तावत् अखण्डवस्त्वनवलम्बनेन चित्तवृत्ते-
र्निद्रा । १ । अखण्डवस्त्वनवलम्बनेन चित्तवृत्ते-
रन्यावलम्बनं विक्षेपः । २ । लयविक्षेपाभावेऽपि
चित्तवृत्ते रागादिवासनया स्तब्धीभावात्
अखण्डवस्त्वनवलम्बनं कषायः । ३ । अखण्ड-
वस्त्वनवलम्बनेनापि चित्तवृत्तेः सविकल्पानन्दा-
स्वादनं रसास्वादः । समाध्यारम्भसमये सवि-
कल्पानन्दास्वादनं वा । ४ । अनेन विघ्नचतु-
ष्टयेन रहितं चित्तं निर्व्वातदीपवदचलं सद-
खण्डचैतन्यमात्रमवतिष्टते यदा तदा निर्व्वि-
कल्पकः समाधिरित्युच्यते ॥ * ॥ तदुक्तम् ।
“लये सम्बोधयेत् चित्तं विक्षिप्तं शमयेत् पुनः ।
सकषायं विजानीयात् शमप्राप्तं न चालयेत् ॥
नास्वादयेद्रसं तत्र निःसङ्गः प्रज्ञया भवेत् ॥”
इत्यादि । यथा दीपो निवातस्थो नेङ्गते
इत्यादि च । इति श्रीसदानन्दयोगीन्द्रविरचित-
वेदान्तसारः ॥ (स्वनामख्यातवैश्यविशेषः । अयं
हि महामायामाराध्य परं ज्ञानमलभत् । अस्य
विशेषवृत्तान्तस्तु देवीमाहात्म्यतो द्रष्टव्यः ॥)

समाधिस्थः, त्रि, (समाधौ तिष्ठतीति । स्था + कः ।)

समाधियुक्तः । यथा, --
“मनः संकल्परहितमिन्द्रियार्थानचिन्तयन् ।
यस्य ब्रह्मणि संलीनं समाधिस्थः स कीर्त्तितः ॥
ध्यायतः परमात्मानमात्मस्थं यस्य योगिनः ।
मनस्तल्लयतां याति समाधिस्थः स कीर्त्तितः ॥”
इति गारुडे गीतासारे २४० अध्यायः ॥

समानं, त्रि, (समानीति सम्यक्प्रकारेण प्राणि-

तीति । सम् + आ + अन + ल्युः । यद्वा, समानं
मानमस्य । समानस्य च्छन्दसीति सः ।) सत् ।
समम् । (यथा, रघुः । २ । ७४ ।
“भुजे भुजङ्गेन्द्रसमानसारे
भूयः स भूमेर्धुरमाससञ्ज ॥”)
एकम् । इति मेदिनी ॥ (यथा, मनुः । ४ । ४० ।
“नोपगच्छेत् प्रमत्तोऽपि स्त्रियमार्त्तवदर्शने ।
समानशयने चैव न शयीत तया सह ॥” * ॥
मानेन सह वर्त्तमानमिति विग्रहे गर्व्वसहि-
तञ्च । यथा, भागवते । १ । १६ । ३६ ।
“स्थैर्य्यं समानमहरत् मधुमानिनीनां
रोमोत्सवो मम यदङ्घ्रिविटङ्कितायाः ॥”)

समानः, पुं, (समन्तादनित्यनेनेति । सम् + अन +

घञ् ।) शरीरस्थवायुविशेषः । स तु नाभि-
संस्थितः । इत्यमरभरतौ ॥ (यथा, --
“हृदि प्राणो गुदेऽपानः समानो नाभि-
संस्थितः ॥”)
षर्णभेदः । इति हेमचन्द्रः ॥ स तु एकस्थानो-
च्चार्य्यवर्णः । यथा । साम्यन्त्वेकस्थानत्वम् । इति
मुग्धबोधव्याकरणम् ॥

समानकालीनः, त्रि, (समानकाले भवः । समान-

काल + छः ।) तुल्यकालोत्पत्तिकः । यथा ।
गोषु दुह्यमानासु आगतः दुग्धास्वागत इत्यादौ
समानकालीनत्वं भाषते । तेन गोविषयकवर्त्त-
मानदोहनकालीनगमनानुकुलकृतिमान् । एवं
गोविषयकातीतदोहनसमानकालीनातीतगम-
नानुकूलकृतिमानिति बोधः । इति सार-
मञ्जरी ॥

समानोदकः, पुं, (समानं एकं तर्पणकाले देय-

मुदकं यस्य ।) एकोदकः । स तु ज्ञाति-
विशेषः । तर्पणे समानं एकमुदकमस्य । यथा,
“जारो नङ्गः सगोत्रस्तु स्वजनज्ञातिबान्धवाः ।
सकुल्यबन्धुदायादस्वसमानोदका अपि ॥”
इति जटाधरः ॥
स तु चतुर्द्दशपुरुषपर्य्य्यन्तः जन्मनामस्मृति-
पर्य्यन्तश्च । तत्र आद्यस्यैकादशपुरुषावधि-
चतुर्दशपुरुषपर्य्यन्तस्याशौचं पक्षिणी द्वितीय-
स्यैकाहः । यथा । उदकक्रियामधिकृत्य पार-
स्करः । सर्व्वे ज्ञातयो भावयन्ति । आसप्त-
माद्दशमाद्वा समानग्रामवासेन यावत् सम्बन्ध-
मनुस्मरेयुर्व्वा इति भावयन्ति निष्पादयन्ति
अत्र यावत् सम्बन्धमनुस्मरेयुरेककुलजाता वय-
मिति स्मरणं भवतीत्यनेनैव सर्व्वेषामुदकदाने
प्राप्ते यदासप्तमाद्दशमादुक्तं तत्सन्निकर्षतार-
तम्येनाशौचभेदेऽप्युदककर्म्म समानार्थमिति ।
अशौचभेदस्तु सप्तमपुरुषपर्य्यन्तं सपिण्डत्वाद्द-
शाहः । ततश्च दशमपुरुषपर्य्यन्तं त्र्यहः ।
तथा च विष्णुबृहस्पती ।
“दशाहेन सपिण्डास्तु शुध्यन्ति मृतसूतके ।
त्रिरात्रेण सकुल्यास्तु स्नात्वा शुध्यन्ति
गोत्रजाः ॥”
ततश्चतुर्दशपुरुषपर्य्यन्तं पक्षिणी ततश्च जन्मना-
मस्मृतिपर्य्यन्तमेकाहः । तथा च मिताक्षरा-
विवादचिन्तामण्योर्ब्बृहन्मनुः ।
“सपिण्डता तु पुरुषे सप्तमे विनिवर्त्तते ।
समानोदकभावस्तु निवर्त्तेताचतुर्द्दशात् ॥
जन्मनामस्मृतेरेके तत्परं गोत्रमुच्यते ॥”
अत्र समानोदकत्वे द्विविघे पूर्व्वत्र गोतमः
पक्षिणीमसपिण्डे । परत्र हारीतः । मातामहे
त्रिरात्रं स्यादेकाहस्त्वसपिण्डके इति । अत्रैव
गोत्रजानामहः स्मृतमिति जावालवचनम्
ततः परं सर्व्वथा समानोदकतानिवृत्तेः स्नान-
मात्रमिति स्नात्वा शुध्यन्ति गोत्रजा इति बृह-
स्पत्युक्तत्वादिति । इति शुद्धितत्त्वम् ॥

समानोदर्य्यः, पुं, (समाने उदरे शयितः । “समा-

नोदरे शयित ओ चोदात्तः ।” ४ । ४ । १०८ ।
इति यत् । “विभाषोदरे ।” ६ । ३ । ८८ । इति
पक्षे सादेशो न ।) सहोदरः । इत्यमरः ॥
(यथा, भट्टिः । ७ । ८६ ।
“समानोदर्य्यमस्माकं जटायुञ्च स्तुथादरात् ॥”)

समापः, पुं, (समा आपो यस्मिन् । ऋक्पूरित्यः ।

“समाप ईत्वे प्रतिषेधो वक्तव्यः ।” ६ । ३ । ९७ ।
इत्यस्य वार्त्तिकोक्त्या ईत्वप्रतिषेधः ।) देवयज-
भम् । इति मुग्धबोधव्याकरणम् ॥

समापकः, त्रि, समापनकर्त्ता । समापयति यः

संपूर्व्वापधातोर्णकप्रत्ययेन निष्पन्नः । यथा, --
“आख्यातास्तिबादयस्तेषाञ्च प्रधानत्वं वाक्य-
समापकत्वात् ।” इति दुर्गादासः ॥

समापनं, क्ली, (सम् + आप् + ल्युट् ।) परिच्छेदः ।

समाप्तिः । (यथा, मनुः । ५ । ८८ ।
“आदिष्टी नोदकं कुर्य्यादाव्रतस्य समापनात् ।
समाप्ते तूदकं कृत्वा त्रिरात्रेणैव शुध्यति ॥”)
पृष्ठ ५/२७३
वधः । इति मेदिनी ॥ समाधानम् । इति
विश्वः ॥ लब्धम् । इति धरणिः ॥

समापन्नं, त्रि, (सम् + आ + पद् + क्तः ।) समाप्तः ।

प्राप्तः । क्लिष्टः । वधः । इति विश्वः ॥

समापिका, स्त्री, (समापयतीति । सम् + आप +

ण्वुल् । टापि अत इत्वम् ।) वाक्यसमापक-
क्रिया । तत्र तिबादयो भवन्ति । यथा ।
देवदत्तो गच्छति । क्वचित् क्तान्तादिपदेनापि
वाक्यसमाप्तिः । यथा । नाम्ना दृष्टः शिवो
जनैः । क्वचित् तव्याद्यन्तक्रियाया अपि वाक्य-
समापकत्वम् । यथा । मया कां दिशं गन्तव्यम् ।
कार्दन्तिकी क्रिया असमापिका । तत्र शत्रा-
दयो भवन्ति । यथा । गच्छन् भुङ्क्ते । भुक्त्वा
व्रजति । इति व्याकरणटीका ॥

समापितं, त्रि, (सम् + आप् + णिच् + क्तः ।)

कृतसमापनम् । यथा, --
“आरब्धं मलमासात् प्राक् यत् कर्म्म न
समापितम् ।
आगते मलमासेऽपि तत् समाप्यं न संशयः ॥”
इति मलमासतत्त्वम् ॥

समाप्तः, त्रि, (सम् + आप् + क्तः ।) समापन-

प्राप्तः । समाप्तिविशिष्टः । यथा, --
“समाप्ते यदि जानीयान्मयैतदन्यथाकृतम् ।
यतस्तदन्यथाभूतं तत एव समापयेत् ॥”
इति तिथ्यादितत्त्वम् ॥

समाप्तालः, पुं, (समाप्ताय अलतीति । अल +

अच् ।) पतिः । इति संक्षिप्तसारोणादिवृत्तिः ॥

समाप्तिः, स्त्री, (सम् + आप् + क्तिन् ।) अव-

सानम् । (यथा, कुमारे । ३ । २७ ।
“सद्यः प्रबालोद्गमचारुपत्रे
नीते समाप्तिं नवचूतबाणे ।
निवेशयामास मधुर्द्विरेफान्
नामाक्षराणीव मनोभवस्य ॥”)
समर्थनम् । इति मेदिनी ॥ परिप्राप्तिः । इति
शब्दरत्नावली ॥

समाप्त्यर्था, स्त्री, (समाप्त्या अर्थो यस्याः ।)

समस्या । इति समासार्थाशब्दटीकायां
भरतः ॥

समाप्यं, त्रि, (सम् + आप् + ण्यत् ।) समा-

पनीयम् । समापितव्यम् । अस्य प्रमाणं समा-
पितशब्दे द्रष्टव्यम् ॥

समायोगः, पुं, (सम् + आ + युज + घञ् ।)

संयोगः । (यथा, मनुः । ९ । ३३ ।
“क्षेत्रभूता स्मृता नारी बीजभूतः स्मृतः
पुमान् ।
क्षेत्रबीजसमायोगात् सम्भवः सर्व्वदेहिनाम् ॥”)
समवायः । प्रयोजनम् । इति मेदिनी ॥

समालम्बी, [न्] पुं, (समालम्बते इति । सम् +

आ + लम्ब + णिनिः ।) भूतृणम् । इति राज-
निर्घण्टः ॥

समालम्भः, पुं, (सम् + आ + लभ + घञ् । “उप-

सर्गात् खलघञोः ।” ७ । १ । ६७ । इति नुम् ।)
कुङ्कुमादिविलेपनम् । इत्यमरः ॥ (यथा, महा-
भारते । १३ । १३१ । ९ ।
“गोरोचनासमालम्भो वचाहस्तश्च यो भवेत् ।
घृताक्षतञ्च यो दद्यात् मस्तके तत्परायणः ।
ये च मांसं न खादन्ति तान्न शक्नुम हिंसि-
तुम् ॥”
मारणम् । यथा, महाभारते । १२ । ३४ । २८ ।
“वृथा पशुसमालम्भं नैव कुर्य्यान्न कारयेत् ॥”)

समालम्भनं, क्ली, (सम् + आ + लम्भ + ल्युट् ।)

कुङ्कुमादिविलेपनम् । तत्पर्य्यायः । विच्छित्तिः २
कषायः ३ । इति त्रिकाण्डशेषः ॥ समालम्भः ४
विलेपनम् ५ । इत्यमरः ॥ (यथा, रामायणे ।
४ । २६ । २८ ।
“समालम्भनमादाय गोरचनमनःशिलाम् ।
आजग्मुखत्र मुदिता वराः कन्याश्च षोडश ॥”)
सम्यङ्मारणम् । सम्यक्स्पर्शनम् । यथा । अत
ऊर्द्ध्वमसमालम्भनमादशरात्रादिति गोभिल-
सूत्रम् ॥

समाली, स्त्री, कुसुमाकरः । इति त्रिकाण्डशेषः ॥

समावर्त्तनं, क्ली, (सम् + आ + वृत् + ल्युट् ।)

वेदाध्ययनानन्तरं गार्हस्थाधिकारप्रयोजकं
कर्म्म । यथा । “अथ समावर्त्तनम् । ज्योतिषे ।
‘भौमभानुजयोर्व्वारे नक्षत्रे च व्रतोदिते ।
ताराचन्द्रविशुद्धौ च समावर्त्तनमिष्यते ॥’
गोभिलः । अथाप्लवनम् । अथ व्रतानन्तर-
माप्लवनं स्नानं कुर्य्यादिति शेषः । उत्तरतः
पुरस्तादाचार्य्यकुलस्य परिव्रतं भवति ।
आचार्य्यगृहादुत्तरस्यां पूर्ब्बस्यां वा स्नानार्थ-
मावृतं स्नानं कुर्य्यात् । अत्र प्रागग्रेषु दर्भेषु
उदगाचार्य्य उपविशति तत्रावृते उदक्
उदङ्मुखः प्राक् ब्रह्मचार्य्युदगग्रेषु दर्भेषु । प्राक्
प्राङ्मुख उपविशतीत्यन्वयः । सर्व्वौषधि-
विर्फाण्डाभिरद्भिर्गन्धवतीभिः शीतोष्णाभिरा-
चार्य्योऽभिषिञ्चेत् । सर्व्वौषधयश्च ।
‘व्रीहयः शालयो मुद्गा गोधूमाः सर्षपास्तिलाः ।
यवाश्चौषधयः सप्त विपदो घ्नन्ति धारिताः ॥’
इति छन्दोगपरिशिष्टोक्तास्ताभिः सह या
आपो विर्फाण्डा विपक्वा उष्णीकृतास्ताः सर्व्वौ-
षधिविर्फाण्डास्ताभिर्गन्धवतीभि-श्चन्दनादि-गन्ध-
द्रव्ययुक्ताभिः शीतोष्णाभिः शीतोदकमिश्रि-
ताभिरिति भट्टभाष्यम् ॥ स्वयमिव तु मन्त्रवर्णो
भवति । इवशब्द एवार्थे । स्वयमेव ब्रह्मचारी
अत्मानमभिषिञ्चेत् । आचार्य्यकर्त्तृकाभिषेकस्तु
परमतो यतो मन्त्रवर्णा भवन्ति । मन्त्रवर्णः
अभिषेकमन्त्रलिङ्गं तच्च तेनाहं मामभिषिञ्चामि
इति तेन मामभिषिञ्चितमिति च । तद्विधि-
माह । येऽप्स्वन्तरग्नयः प्रविष्टा इत्यपामञ्जलि-
मवसिञ्चति । येऽप्स्वन्तरग्नय इति मन्त्रेण
कासामपामञ्जलिं ब्रह्मचारी अवसिञ्चति । क्व
भूमौ कुतः अवसिञ्चति वचनात् । तन्मन्त्रस्था-
भिहितान् सृजामीति यदपामिति मन्त्रस्याभि-
हितान् सृजामि इति मन्त्रलिङ्गद्वयाच्च सर्व्वा-
धारत्वेन प्राप्तायां भूमौ त्यजति । यदपां घोरं
यदपां क्रूरं यदपामशान्तमिति च । अपाम-
ञ्जलिमवसिञ्चतीति वर्त्तते चकारात् । यो रोचन-
स्तमिह गृह्णामीत्यात्मानमभिषिञ्चति । प्रकृ-
तानामपामञ्जलिना यो रोचन इति मन्त्रेण
ब्रह्मचारी आत्मानमभिषिञ्चति । ओम् यशसे
तेजते इति च । आत्मानमभिषिञ्चतीति वर्त्तते ।
येन स्त्रियमकृण्वतमिति च । आत्मानमभिषि ञ्च-
तीति वर्त्तते । तूष्णीं चतुर्थम् । आत्मानमभि षिञ्च-
तीति वर्त्तते । अभिषेकः शिरसि कर्त्तव्यः शिरः
प्रधानमङ्गानामिति वचनात् । उपोत्थाया-
दित्यमुपतिष्ठेत उद्यन् भ्राजभृष्टिभिरित्येतत्-
प्रभृतिमन्त्रेण । आचार्य्यसमीपादुत्थाय उद्य-
न्नित्येतत्प्रभृतिमन्त्रेण मा हिंसीरित्यन्तमन्त्रेणा-
दित्यमुपतिष्ठेत उपान्मन्त्रेण चेत्यात्मनेपदम् ।
मेखलामवमुञ्चते उदुत्तमं वरुणमिति । अव-
मुञ्चते अधस्तादवतारयति अवशब्दो अधस्ता-
दर्थे । ब्राह्मणान् भोजयित्वा स्वयं भुक्त्वा केश-
श्मश्रुरोमनखानि वापयतीति शिखावर्ज्जम् ।
ब्राह्मणान् भोजयित्वा स्वयं भुक्त्वा नापितेन
मुण्डयीत । अत्र शिखावर्ज्जमिति वचनात्
प्राक् सशिखं वपनमिति दर्शयति । उक्तञ्च ।
सशिखं वपनं कार्य्यमास्नानात् ब्रह्मचारिणा
इति । स्नात्वा अलङ्कृत्याहते वाससी परिधाय
स्रजमावध्नीत श्रीरसि मयि रमस्वेति । अलङ्कृत्य
कुण्डलादिनात्मानं योजयित्वा आहते ।
‘ईषद्धौतं नवं शुभ्रं सदृशं यन्न धारितम् ।
आहतं तद्विजानीयात् सर्व्वकर्म्मसु पावनम् ॥’
इति वशिष्ठोक्तलक्षणे ।
ईषत् सूक्ष्मम् । न धारितं न परिधानादि कृतम् ।
स्रजं ग्रथितपुष्पं आवध्नीत शिरसीति शेषः ।
श्रीरसीति मन्त्रेण । नेत्रौ स्थो नयतं मामित्यु-
पानहौ । आवध्नीतेत्यनुवर्त्तते । उपानहौ चर्म्म-
पादुके योग्यत्वात् पादयोः । गन्धर्व्वोऽसीति
मन्त्रेण वैणवं दण्डं गृह्णाति । वैणवं वंशप्रभवं
गन्धर्व्वोऽसीति मन्त्रेण । आचार्य्यं सपरिषत्क-
मभ्येत्याचार्य्यपरिषदमीक्षते । यक्षमिव चक्षुषः
प्रियो वो भूयासमिति । सपरिषत्कं शिष्यादि-
सभासहितं अभ्येत्याभिमुखेन गत्वा आचार्य्यं
परिषदञ्चेक्षते यक्षमिति मन्त्रेण । उपोपविश्य
मुख्यान् प्राणान् संस्पृशन् ओष्ठापिधाना नकु-
लीति उपाचार्य्यसमीपे मुख्यान् प्राणान् मुख-
प्रभवान् वायून् संस्पृशन् स्नातकः । ओष्ठापि-
धानमिति मन्त्रं जपेत् । अत्रैनमाचार्य्योऽर्ह-
येत् । अत्रावसरे एनं स्नातकं विवाहोक्तवरा-
र्हणविधिनार्च्चयेत् । तदशक्तौ गन्धपुष्पाभ्याम् ।
गोयुक्तं रथमुपक्रम्य पक्षसी कूवरवाक्रूराभि-
मृषेत् । वनस्पतिविड्वङ्गो हि भूया इति ।
पक्षसी चक्र । कूवरं रथिकस्थानम् । वाक्रूरं
रथरेखेत्यर्थः । वनस्पतीति मन्त्रेणाभिमृषेत्
स्पृशेत् । आस्था ते जयतु जेत्वानीत्यातिष्ठति ।
रथमारुह्य आस्था ते जयतु जेत्वानीति वन-
पृष्ठ ५/२७४
स्पते इत्यादिमन्त्रस्य चतुर्थपादेनातिष्ठति । उप-
विशति प्राग्वा उदग्वाभिप्रयाय प्रदक्षिण-
मावृत्या उपयाति । तेन रथेन प्राङ्मुखो वा
प्रयाय प्रकर्षेण गत्वा उपयाति आचार्य्य-
समीपमागच्छति उपयातायार्घ्यमिति कोह-
नीयाः । उपयातायाचार्य्यसमीपमागतायार्घ्यं
देयमिति कोहनीया आचार्य्या आहुः । रथा-
भावेऽपि मन्त्रपाठाचारः । चरुकरणे तण्डुला-
दाववघातादिवत् । अस्य कर्म्मणः समावर्त्तन-
संज्ञापि ।
‘गुरुणानुमतः स्नात्वा समावर्त्तो यथाविधि ।
उद्वहेत द्विजो भार्य्यां सवर्णां लक्षणान्विताम् ॥’
इति मनूक्तेः ॥
स्पष्टं शौनककारिकायाम् । कुर्व्वीत स्वयमेवैतत्
समावर्त्तनसंज्ञकम् ।” इति संस्कारतत्त्वम् ॥

समावायः, पुं, समूहः । इत्यमरटीकायां भरतः ।

(यथा, भागवते । २ । ८ । १३ ।
“यस्मिन् कर्म्मसमावायो यथा येनोपगृह्यते ।
गुणानां गुणिनां चैव परिणाममभीप्सताम् ॥”)

समावृतः, त्रि, (सम् + आ + वृ + क्तः ।) सम्यक्-

प्रकारेण आवृतः । यथा, --
“जय त्वं कालि सर्व्वेशे सर्व्वभूतसमावृते ।
रक्षमां निजभूतेभ्यो बलिं भुङ्क्ष्व नमोऽस्तु ते ॥”
इति दुर्गार्च्चाप्रयोगतत्त्वम् ॥

समावृत्तः, पुं, (सम् + आ + वृत् + क्तः ।) वेदा-

ध्ययननिवृत्तः । तत्पर्य्यायः । लब्धानुज्ञः २ ।
इत्यमरः ॥ साङ्गवेदाध्ययनानन्तरं त्वमिदानीं
गृहस्थो भव इति गार्हस्थ्याय प्राप्तानुमतिः
समावृत्त उच्यते । समावर्त्तते अध्ययनान्निवर्त्तते
इति समाङ्पूर्व्वात्वृतेः कर्त्तरि क्ते समावृत्तः ।
इति भरतः ॥
“अतः परं समावृत्तः कुर्य्याद्दारपरिग्रहम् ।”
इति उद्वाहतत्त्वञ्च ॥ * ॥
तस्य सर्व्वाशौचे मुण्डनं यथा अशौचाधिकारे
आपस्तम्बः । अनुभाविनाञ्च परिवापनमिति ।
अनुभाविनां स्वाशौचमनुभवतां समावृत्तानां
सर्व्वाशौचे मुण्डनम् । यत् पुनरापस्तम्बः । न
समावृत्ता वपेयुरन्यत्र वीहारादित्येके । वीहा-
रात् दर्शपौर्णमासाङ्गयागविशेषादन्यत्र समा-
वृत्ता गृहस्था न वपेयुः । इत्येकेषां मतम् । तत्
काम्यपरम् । इति शुद्धितत्त्वम् ॥

समावृत्तकः, पुं, (समावृत्त एव । स्वार्थे कन् ।)

समावृत्तः । इति शब्दरत्नावली ॥

समावेशः, पुं, (सम् + आ + विश + घञ् ।)

एकत्र सहावस्थानम् । यथा । अर्थसाधनत्वं
बलवद्निष्टाननुबन्धीष्टसाधनत्वम् । अनर्थसाध
नत्वं बलवदनिष्टसाधनत्वम् । न चानयोरेकत्र
समविशः । इति तिथ्यादितत्त्वे वैधहिंसा-
विधारः ॥ (यथा, हरिवंशे भविष्यपर्व्वाण ।
१ । ६ ।
“परस्परसमावेशात् जगतः पालने स्थितौ ।
तयोस्तत्र यथाबृत्तं केलाशे पर्व्वतोत्तमे ॥”)

समावेशितः, त्रि, सहावस्थितः । प्रविष्टः । समा-

वेशप्राप्तः । समावेश-शब्दादितप्रत्ययेन निष्पन्नः ॥

समाश्रयः, पुं, (सम् + आ + श्रि + अच् ।) सम्य-

गाश्रयः । (यथा, रघुः । ८ । १२ ।
“तमरण्यसमाश्रयोन्मुखं
शिरसा वेष्टनशोभिना सुतः ।
पितरं प्रणिपत्य पादयो-
रपरित्यागमयाचतात्मनः ॥”)
सम्यगाधारः । सहायः । समाङ्पूर्व्वकश्रिधातो-
रल्प्रत्ययेन निष्पन्नः ॥

समाश्रितः, त्रि, (सम् + आ + श्रि + क्तः ।) सम्यक्-

प्रकारेणाश्रितः । यथा, --
“रवेः कवेः किं समरस्य सारः
कृषेर्भयं किं किमदन्ति भृङ्गाः ।
सदा भयञ्चाप्यभयञ्च केषां
भागीरथीतीरसमाश्रितानाम् ॥”
इत्यन्तर्लापिका ॥

समासः[१], पुं, (सम् + अस् + घञ् ।) संक्षेपः ।

(यथा, मनुः । ७ । २०२ ।
“सर्व्वेषान्तु विदित्वैषां समासेन चिकीर्षितम् ।
स्थापयेत् तत्र तद्बंश्यं कुर्य्याच्च समयक्रियाम् ॥”)
समर्थनम् । इति मेदिनी ॥ समाहारः । इति
हलायुधः ॥ एकपद्यम् । इति हेमचन्द्रः ॥ सम-
सनं पदयोः पदानां वा एकपदीकरणं समासः ।
इति संक्षिप्तसारव्याकरणम् ॥ स च षड्विधः ।
द्वन्द्बः १ बहुव्रीहिः २ कर्म्मधारयः ३ तत्पुरुषः
४ द्विगुः ५ अव्ययीभावः ६ । तेषां लक्षणं
यथा । भिन्नान्यैकार्थद्व्यादिसंख्याव्यादीनां च-ह-
य-ष-ग-वाः । इति मुग्धबोधव्याकरणम् ॥ * ॥
अपि च ।
“नाम्नां समासो युक्तार्थस्तत्स्था लोप्या विभ-
क्तयः ॥”
इति वैयाकरणाः ॥ तस्य समान्यलक्षणं यथा ।
अभिधानाश्रितलोपाभाववदन्यमध्यवर्त्तिविभक्ति-
शून्यनाम-समुदायत्वं समासत्वम् । तत्र कर्म्म-
धारय-द्बिगुतत्पुरुष-बहुव्रीहि-द्बन्द्बाव्ययीभावाः
षट् समासा भवन्ति । तत्र कर्म्मधारयत्वं समास-
नियतलक्षणाशून्यासंज्ञास्थसंख्यावाचक पूर्व्वपद-
कान्यमध्यवर्त्तिविभक्तिशून्यतुल्याधिकरणपदसमु-
दायत्वम् । यथा नीलोत्पलमित्यादि ॥ १ ॥
तत्र द्बिगुत्वम् । समासाधीनलक्षणाशून्यमध्य-
पदवर्त्तिविभक्ति-शून्यासंज्ञास्थसंख्यावाचक-पूर्व्व-
पदक-तुल्याधिकरणनामसमुदायत्वम् । स च
तद्धितार्थे विषयीभूते तद्धितार्थेऽभिधेये उत्तर-
पदे वा समाहारे वाभिधेये भवति । उत्तर-
पदं पारिभाषिकं यत्पदघटितसमासान्तर्व्वर्त्ति
द्बिगुस्थपदं तत् पदम् । तेन च पञ्चगावो
धनानीत्येवासमस्तप्रयोगो न तु पञ्चगवानि
धनानि इति । तद्धितार्थे विषयीभूते यथा पञ्च
गर्गरूप्यः पञ्चब्राह्मण्यः पञ्चनापितिः द्बैना-
विकमित्यादि । तद्धितार्थेऽभिधेये यथा पञ्च-
कपालः ओदनः । समासस्य संस्कतोऽर्थः संस्कारे
प्रयोज्यतासम्बन्धेन पञ्चकपालस्यान्वयो व्युत्पत्ति-
वैचित्र्यात् तथा च पञ्चकपालप्रयोज्यसंस्कारा-
श्रयाभिन्न ओदनः । तद्धितार्थस्य समासेनाभि-
धानात् न तद्धितप्रत्ययाः समाहारेऽभिधेये यथा
पञ्चगवं चतुष्पथं द्विपात्रं त्रिभुवनं चतुर्य्युगमित्या-
दयः । उत्तरपदे यथा । पञ्चगवधनः इत्यादि ॥ २ ॥
तत्पुरुषत्वन्तु । समासाधीनलाक्षणिकविशेष-
णपदकमध्यवर्त्तिविभक्ति-शून्यनामसमुदायत्वम् ।
यथा । राजपुरुषः । कष्टाश्रितः । पुरुषोत्तमः ।
इत्यादि ॥ ३ ॥
समासप्रयुक्तलक्षणानियतोत्तरपदकसमासत्वं
बहुव्रीहित्वम् । समासाधीनलाक्षणिकविशेष्य-
वाचकपदकमध्यवर्त्तिविभक्तिशून्यनामसमुदायत्वं
वा सम्बन्धिलाक्षणिकत्वव्याप्योत्तरपदकत्वं वा
बहुव्रीहित्वम् । बहुव्रीहिश्च द्विविधः । समा-
नाधिकरणो व्यधिकरणश्च । यथा चित्रगुः ।
गृहधान्यकश्चैत्रः । आरूढवानरो वृक्षः ।
इत्यादि ॥ ४ ॥
स्वघटकीभूतप्रत्येकपदार्थान्वितार्थकसोत्तरविभ-
क्तिकमध्यवर्त्ति विभक्तिशून्यनामसमुदायत्वं द्बन्द्ब-
त्वम् । यथा धवखदिरपलासांच्छिन्धि । इति ।
द्विविधो द्बन्द्बः । इतरेतरयोगः समाहारश्च । यत्र
समाहारस्यावयवार्थः प्रधानं तत्रेतरेतरयोगः
द्बिवचनेऽपि तत्रैव । यथा । देवदत्तयज्ञदत्तौ ।
धवखदिरपलासाः । इति । यत्र संहतिप्राधान्यं
तत्र समाहारस्तत्रैकवचनं नपुंसकलिङ्गता च ।
यथा वाग्दृशदं हस्त्यश्वम् । इत्यादि ॥ ५ ॥
समासप्रयुक्तलक्षणाशून्यावयवपूर्व्वपदकमध्य-
वर्त्तिविभक्तिशून्यतत्पुरुषान्यनामसमुदायत्वं अ-
व्ययीभावत्वम् । यथा । उपकुम्भं अघटं निर्म्म-
क्षिकं अधिस्त्रि इत्यादि ॥ ६ ॥ इति समास-
वादः ॥ * ॥ अन्यच्च । यौगिकेषु समासं लक्षयति ।
“यादृशस्य महावाक्यस्यान्तस्त्वादिनिजार्थके ।
यादृशार्थस्य धीहेतुः स समासस्तदर्थकः ॥”
यादृशमहावाक्योत्तरः त्वतलादिः स्वार्थस्य यादृ-
शार्थावच्छिन्नविषयताशालिबोधे हेतुस्तादृशं
तद्वाक्यं तथाविधार्थे समासः । विभजते ।
“स चायं षड्विधः कर्म्मधारयादिप्रभेदतः ।
यश्चोपपदसंज्ञोऽन्यस्तेनासौ सप्तधा मतः ॥
पूर्व्वमध्यान्त्यसर्व्वान्यपदप्राधान्यतः पुनः ।
प्राच्यैः पञ्चविधः प्रोक्तः समासो वा भटादिभिः ॥”
तेषु कर्म्मधारयं लक्षयति ।
“क्रमिकं यन्नामयुगमेकार्थेऽन्यार्थबोधकम् ।
तादात्म्येन भवेदेष समासः कर्म्मधारयः ॥”
क्रमिकं यन्नामद्वयं तयोरेकस्य नान्मोऽर्थे धर्म्मिणि
तादात्म्येनापरनाम्नोऽर्थस्य अन्वयबोधं प्रति
समर्थं तादृशनामद्वयं कर्म्मधारयः । यथा
नीलोत्पलम् ॥ १ ॥ द्विगुं लक्षयति ।
“संख्याशब्दयुतं नाम तदलक्ष्यार्थबोधकम् ।
अभेदेनैव यत् स्वार्थे स द्बिगुस्त्रिवधो मतः ॥”
संख्यावच्छिन्नशक्त-यत्-पदोत्तरत्वविशिष्टयन्नाम-
स्वार्थधर्म्मिकं तादात्म्येन तदलक्ष्यार्थस्यान्वयबोधं
पृष्ठ ५/२७५
प्रति समर्थं तन्नामोत्तरतापन्नं तन्नामैव तदल-
क्ष्यार्थाभिन्नस्यार्थे द्विगुरुच्यते । तत्र तद्धितार्थ-
द्बिगुं लक्षयति ।
“तद्धितार्थान्वितस्वार्थस्तद्धितार्थद्विगुर्म्मतः ।
तद्धितार्थे लाक्षणिकस्वान्त्यनाम त्वसर्व्वगः ॥
यो द्विगुः स उत्तरतद्धितार्थान्वितस्वार्थकः ॥”
उत्तरपदद्बिगुं लक्षयति ।
“स्वान्तर्निविष्टशब्दाभ्यां शब्दान्तरसमासगः ।
यो द्बिगुः शाब्दिकैरुक्तः स उत्तरपदद्बिगुः ॥”
यो द्विगुः स्वघटकनामभ्यां सह साकाङ्क्षनामा-
न्तरेण समासस्यान्तर्गतः स उत्तरपदद्विगुः ।
यथा पञ्चगवधनः । समाहारद्विगुं लक्षयति ।
“स्वार्थान्वितसमाहारलक्षकः स्वान्त्यशब्दकः ।
उक्ताभ्यामितरः किं वा समाहारद्विगुर्द्विगुः ॥”
स्वोपस्थाप्यार्थस्य समाहारलक्षको यदीयान्त्य-
शब्दः स द्विगुः समाहारद्विगुः । यथा पञ्चपुली-
त्यादि ॥ २ ॥ तत्पुरुषं लक्षयति ।
“यदीयेन सुबर्थेन युतयद्बोधनक्षमः ।
यः समासस्तस्य तत्र स तत्पुरुष उच्यते ॥”
यदर्थगतेन सुबर्थेन विशिष्टस्य यदर्थस्यान्वय-
बोधं प्रति यः समासः स्वरूपयोग्यः स तदर्थस्य
तदर्थे तत्पुरुषः । न तु यन्नामोत्तरं यन्नाम
यदर्थगतसुबर्थावच्छिन्नस्य यत् स्वार्थस्य बोधकं
तदुत्तरतन्नामैव तदर्थयोस्तत्पुरुषः । पूर्व्वकायो-
ऽर्द्धपिप्पलीत्यादावव्याप्तेः । विभजते ।
“द्वितीयादिसुबर्थस्य भेदादेव च षड्विधः ।
क्रियान्वयी द्धितीयादेरर्थः प्रायोऽत्र
योजितः ॥” ३ ॥
अव्ययीभावं लक्षयति ।
“उत्तरार्थान्वितस्वार्थाव्ययपूर्व्वस्तु यो भवेत् ।
समासः सोऽव्ययीभावः स्त्रीपुंलिङ्गविवर्जितः ॥”
यः समासः सोऽत्तरपदोपस्थाप्येन यदर्थेनान्वि-
तस्य यदर्थस्य बोधकाव्ययपूर्व्वभागकः स तद्वि-
शिष्टस्य तदर्थस्य बोधने अव्ययीभावः । यथा
निर्मक्षिकं उपकुम्भमित्यादि ।
“अमादेशं विना श्रूयमाणषष्ठी न बोधिका ।
स्वार्थे यदर्थस्य यद्बा सोऽव्ययीभाव इष्यते ॥”
अमादेशं विना श्रूयमाणषष्ठी स्वार्थे यत् समा-
सार्थस्यान्वयबोधं प्रत्यसमर्था स एव वाव्ययी-
भावः श्रूयमाणैव षष्ठी स्वार्थे समासान्तरार्थ-
स्यान्वयबोधनेऽसमर्था न तु लुप्तापि ॥ ४ ॥
बहुव्रीहिं लक्षयति ।
“बहुव्रीहिः स्वगर्भार्थसम्बन्धित्वेन बोधकः ।
निरूढया लक्षणया स्वांशज्ञापकशब्दवान् ॥”
स्वांशस्य निरूढलक्षणया ज्ञापकेन शब्देन
घटितः स्वगर्भस्य यादृशार्थस्य सम्बन्धित्वप्रकारे-
णान्वयबोधं प्रति समर्थः समासः स्वगर्भतादृ-
शार्थसम्बन्धिबोधने बहुव्रीहिः ।
“अस्यैकं प्रथमान्तं सत् सुबन्तैरितरैः सह ।
यदा भेदसुबन्तेन साकाङ्क्ष नाम विग्रहः ॥”
अस्य बहुव्रीहेर्घटकमेकं नाम प्रथमान्तं सत्
सुबन्तेरितरनामभिः सह भेदार्थकसुबन्तयच्छ-
ब्देन साकाङ्क्षं विग्रहः कथ्यते । बहुव्रीहिं विभ-
जते ।
“तदतद्गुणसंविज्ञानौ द्बौ भेदौ तदादिमः ।
विग्रहस्य विशेष्यो यस्तद्बिशेष्यकबोधकृत् ॥”
तत्र विग्रहवाक्यस्य विशेष्यविधया प्रत्याय्यो
योऽर्थस्तद्विशेष्यकबोधकृत् बहुव्रीहिस्तयोरा-
दिमः तद्गुणसंविज्ञानः । तस्य स्वार्थगुणी-
भूतस्य सम्यग्विशेष्यविधया विज्ञानं यस्मिन्निति
व्युत्पत्त्या स्वार्थान्वयः संज्ञात्वात् तद्भिन्नश्चा-
तद्गुणसंविज्ञानश्चरम इत्यर्थादवगम्यते ।
प्राचां मतेन तद्गुणसंविज्ञानबहुव्रीहिमन्यथा
निर्व्वक्ति ।
“यः स्वार्थघटकार्थस्य स्वार्थान्धयिनि बोधने ।
अनुकूलो बहुव्रीहिः स तयोरथवादिमः ॥”
यो बहुवीहिः स्वार्थस्यान्वयिनि स्वार्थघटक-
स्याप्यर्थस्यान्वयबोधने समर्थः स तयोस्तद्-
गुणातद्गुणयोरादिमः । लम्बकर्णमानय हार-
ग्रीवं पश्य इत्यादि । पुनर्विभजते ।
“स्वान्तर्निविष्टद्बित्र्यादिनामभिर्विग्रहात् पुनः ।
बहुव्रीहिर्ब्बहुविधो द्बिपदत्रिपदादिकः ॥”
द्वित्रिचतुरादिभिरेव स्वघटकनामभिर्विग्रह-
वशात् द्विप्दत्रिपदचतुष्पदादिको बहुव्रीहि-
र्ब्बोध्यः ॥ ५ ॥ द्बन्द्बं लक्षयति ।
“यद्यदर्थकयन्नामव्यूहो यद्यत्प्रकारके ।
बोधे समर्थः स द्बन्द्बः समासस्तावदर्थकः ॥”
यद्यदर्थोपस्थापकस्य क्रमिकयादृशनामस्तोमस्य
निश्चयस्तदर्थप्रकारकान्वयवोधं प्रति तत्त्वेन
समर्थस्तादृशनामनिवह एव तावदर्थको द्बन्द्ब-
समासः । द्बन्द्बं विभजते ।
“द्वौ भेदावस्य शास्त्रोक्तौ समाहारेतरेतरौ ।
एकान्यवचनाकाङ्क्षा हानोपादानतश्च तौ ॥”
अस्य द्वन्द्बस्य द्वौ भेदौ समाहार इतरेतरश्च
शास्त्रसिद्धौ । तत्रैकवचनान्यसुवाकाङ्क्षाविहीनः
समाहारः । तथाविधसुवाकाङ्क्षश्चेतरेतरः ।
यथा । पाणिपादं हस्त्यश्वं धवखदिरौ ।
इत्यादि ॥ ६ ॥ उपपदसमासं लक्षयति ।
“यदुत्तरपदं नामानुत्तरं यदबोधकम् ।
धातुकृज्जमुपपदसमासः स तदन्तकः ॥”
धातुकृद्भ्यां निष्पन्नं यस्योत्तरपदं शब्दानुत्तरं
स यादृशार्थस्य बोधं प्रत्यसमर्थं तादृशार्थे तादृ-
शार्थकान्त्यपदकः समास उपपदसंज्ञकः । कुम्भ-
कारः क्षीरपायीत्यादि । विभजते ।
“कारकैकोपपदकः षड्विधोऽयमिति भ्रमः ।
कर्म्मकर्त्राद्युपपदभेदात् बहुविधस्त्वसौ ॥” ७ ॥
इति शब्दशक्तिप्रकाशिका ॥

समासक्तः, त्रि, (सम् + आ + सञ्ज + क्तः ।)

संयुक्तः । यथा, कर्पूराख्यस्तोत्रे ।
“त्रिपञ्चारे पीठे शवशिवहृदि स्मेरवदनां
महाकालेनोच्चैर्मदनरसलावण्यनिरताम् ।
समासक्तो नक्तं स्वयमपि रतानन्दनिरतो
जनो यो ध्यायेत्त्वामयि जननि स स्यात् स्मर-
हरः ॥”

समासञ्जनं, क्ली, (सं + आ + सञ्ज + ल्युट् ।)

समासङ्गः । मेलनम् । संयोगः । समाङ्-
पूर्ब्बकसन्जधातोरनट्प्रत्ययेन निष्पन्नम् ॥

समासन्नं, त्रि, निकटस्थम् । समाङ्पूर्व्वसदधातोः

क्तप्रत्ययेन निष्पन्नम् ॥ (यथा, रघुः । १० । ३५ ।
“अथ वेलासमासन्नशैलरन्ध्रानुनादिना ।
स्वरेणोवाच भगवान् परिभूतार्णवध्वनिः ॥”)

समासवान्, [त्] पुं, (समासः संक्षेपोऽस्त्यस्येति ।

समास + मतुप् । मस्य वः ।) तुन्नवृक्षः । इति
शब्दचन्द्रिका ॥ समासविशिष्टे, त्रि ॥

समासादितः, त्रि, (सम् + आ + सद् + णिच् +

क्तः ।) आहृतः । प्राप्तः । समाङ्पूर्व्वञ्यन्त-
सदधातोः क्तप्रत्ययेन निष्पन्नः ॥

समासाद्यं, त्रि, (सम् + आ + सद् + ण्यत् ।)

प्राप्यम् । इत्यमरः ॥ अनुस्वारशून्यञ्चेत् प्राप्त्य-
नन्तरबोधकक्रिया ॥ (यथा, महाभारते । ५ ।
१६ । १६ ।
“अपां फेनं समासाद्य विष्णुतेजोऽभिवृंहितम् ।
त्वया वृत्रो हतः पूर्व्वं देवराज ! जगत्पते ! ॥”)

समासार्था, स्त्री, (समासेन संक्षेपेण अर्थो

यस्याः ।) समस्या । श्लोकस्य पादेनैकेन द्बाभ्यां
त्रिभिर्व्वा पूरणम् । इत्यमरभरतौ ॥

समाहरणं, क्ली, (सं + आ + हृ + ल्युट् ।) समा-

हारः । समाङ्पूर्व्वकहृञ्धातोरनट्प्रत्ययेन
निष्पन्नम् ॥

समाहारः, पुं, (सं + आ + हृ + घञ् ।) समु-

च्चयः । इत्यमरः ॥ बहूनां भिन्नानां बाह्य-
व्यापारेण बुद्ध्या वा पञ्चमूली त्रिभुवनवत्
राशीकरणम् । इति भरतः ॥ संक्षेपः । यथा,
“समासस्तु समाहारः संक्षेपः संग्रहोऽपि च ।”
इति हेमचन्द्रः ॥
समाहारद्वन्द्वसमाहारद्विगुसमासयोर्व्विवरणं
समासशब्दे द्रष्टव्यम् ॥

समाहितः, त्रि, (सम् + आ + धा + क्तः ।) समा-

धिस्थः । (यथा, देवीभागवते । १ । १७ । ६६ ।
“स्नात्वा प्रातःक्रियां कृत्वा पुनरास्ते समा-
हितः ॥”)
उक्तसिद्धान्तः । आहितः । निर्विवादीकृतः ।
प्रतिज्ञातः । इति मेदिनी ॥ निष्पन्नः । इति
धरणिः ॥ शुचौ, पुं । इति शब्दरत्नावली ॥

समाहृतः, त्रि, सम्यक्प्रकारेण आहरणीकृतः ।

संगृहीतः । एकत्रीकृतः । संक्षेपेण प्रति-
पादितः । समाङ्पूर्व्वकहृधातोः क्तप्रत्ययेन
निष्पन्नः ॥

समाहृतिः, स्त्री, (सम् + आ + हृ + क्तिन् ।)

संग्रहः । इत्यमरः ॥ एककर्त्तृकाणामनेककर्त्तृ-
काणां वा एकाभिप्रायाणां वाक्यानां समा-
हरणं समाहृतिः । समाह्रियते संक्षेपेण प्रति-)
पद्यते अनया समाहृतिः । संपूर्व्वात् आङ्पूर्व्वात्
हृ ञ हरणे इत्यस्मात् क्तिः । इति भरतः ॥

समाह्वयः, पुं, (समाहूयतेऽत्रेति । सम् + आ +

ह्वे + पुंसीति घः । बाहुलकात् नात्वम् ।)
पृष्ठ ५/२७६
द्यूतम् । आह्वानम् । इति शब्दरत्नावली ॥
पशुपक्षिद्यूतम् । सङ्गरम् । इति मेदिनी ॥ * ॥
तस्य निषिद्धत्वं यथा, --
“द्यूतं समाह्वयञ्चैव राजा राष्ट्रान्निवारयेत् ।
राज्यान्तकरणावेतौ द्बौ दोषौ पृथिवीक्षिताम् ॥
प्रकाशमेतत् तस्कर्य्यं यद्देवनसमाह्वयौ ।
तयोर्नित्यं प्रतीघाते नृपतिर्यत्नवान् भवेत् ॥
अप्राणिभिर्यत् क्रियते तल्लोके द्यूतमुच्यते ।
प्राणिभिः क्रियते यस्तु स विज्ञेयः समाह्वयः ॥
द्यूतं समाह्वयञ्चैव यः कुर्य्यात् कारयेत वा ।
तान् सर्व्वान् घातयेद्राजा शूद्रांश्च द्विज-
लिङ्गिनः ॥”
इति मानवे । ९ । २२१ -- २२४ ॥

समाह्वा, स्त्री, (सम्यक् आह्वा यस्याः ।) गो-

जिह्वावृक्षः । इति शब्दचन्द्रिका ॥ समाख्या च ॥

समिकं, क्ली, शेलम् । इति शब्दरत्नावली ॥ वँड्सा

इति भाषा ॥

समित्, स्त्री, (समीयतेऽत्रेति । सम् + इण् +

क्विप् ।) युद्धम् । इत्यमरः ॥ (यथा, महा-
भारते । ५ । २२ । २३ ।
“पाण्ड्यश्च राजा समितीन्द्रकल्पो
युधि प्रवीरैर्बहुभिः समेतः ॥”)

समित्, [ध्] स्त्री, (समीध्यतेऽनयेति । इन्ध +

क्विप् ।) अग्निसन्दीपनार्थतृणकाष्ठादिः । तत्-
पर्य्यायः । इन्धनम् २ एधम् ३ इध्मम् ४ एधः
५ । इत्यमरः ॥ समिन्धनम् ६ । एतस्मिन्
सूक्ष्मे किलिञ्जम् । इति शब्दरत्नावली ॥ * ॥
होमीयसमिल्लक्षणं मत्स्यपुराणे ।
“प्रादेशमात्राः सशिखाः सवल्काश्च पला-
सिनीः ।
समिधः कल्पयेत् प्राज्ञः सर्व्वकर्म्मसु सर्व्वदा ॥”
लक्षणान्तरं यथा, छन्दोगपरिशिष्टम् ।
“नाङ्गुष्ठादधिका न्यूना समित् स्थूलतया क्वचित् ।
न निर्म्मुक्तत्वचा चैव न सकीटा न पाटिता ॥
प्रादेशात् नाधिका नोना न तथा स्याद्विशा-
खिका ।
न सपत्रा न निर्वीर्य्या होमेषु च विजानता ॥”
इति संस्कारतत्त्वम् ॥ * ॥
तस्य निषिद्धलक्षणं यथा, --
“विशीर्णा विदला ह्रस्वा वक्राः स्थूला द्विधा-
कृताः ।
कृमिदष्टाश्च दीर्घाश्च समिधो नैव कारयेत् ॥”
अत्र दोषो यथा, --
“विशीर्णयुःक्षयं कुर्य्याद्बिदला पुत्त्रनाशिनी ।
ह्स्वा नाशयते पत्नीं वक्रा बन्धुविनाशिनी ॥
कृमिद्ष्टा रोगकरी विद्वेषकरणी द्विधा ।
पशून् मारयते दीर्घा स्थूला चार्थविनाशिनी ॥”
इति तन्त्रम् ॥ * ॥
नवग्रहाणां समिधो यथा, --
“अर्कः पलाशः खदिरस्त्वपामार्गोऽथ पिप्पलः ।
उडुम्बरः शमी दूर्व्वाः कुशाश्च समिधः क्रमात् ॥”
इति संस्कारतत्त्वे याज्ञवल्क्यवचनम् ॥

समिता, स्त्री, (सम्यक्प्रकारेण इता प्राप्ता ।)

गोधूमचूर्णम् । इति हेमचन्द्रः ॥ मयदा इति
भाषा ॥ तस्या लक्षणं यथा, --
“गोधूमा धवला धौताः कुट्टिताः शोषितास्ततः ।
प्रक्षिप्ताः सा विनिष्पिष्टाश्चालिताः समिता
स्मृता ॥”
इति राजनिर्घण्टः ॥

समितिः, स्त्री, (संयन्त्यस्यामिति । सं + इण् +

क्तिन् ।) सभा । (यथा, महाभारते । १ । २ । २२४ ।
“प्रभाते राजसमितौ सञ्जयो यत्र वा विभोः ।
ऐक्यात्म्यं वासुदेवस्य प्रोक्तवानर्ज्जुनस्य च ॥”)
युद्धम् । (यथा, भागवते । २ । ७ । ३४ ।
“ये वा मृधे समितिशालिन आत्तचापाः
काम्बोजमत्स्यकुरुसृञ्जयकैकयाद्याः ॥”)
सङ्गः । इत्यमरमेदिनीकरौ ॥ साम्यम् । इति
हेमचन्द्रः ॥ (सन्निपातः । इति श्रीधरस्वामी ॥
यथा, भागवते । ११ । २५ । ८ ।
“प्रवृत्तिलक्षणे निष्ठा पुमान् यर्हि गृहाश्रमे ।
स्वधर्म्मे चानुतिष्ठेत गुणानां समितिर्हि सा ॥”)

समिथः, पुं, (समेतीति । सम् + इण् + “समीणः ।”

उणा० २ । ११ । इति थक् ।) अग्निः । इत्यु-
णादिकोषः ॥ युद्धम् । इति सिद्धान्तकौमुद्या-
मुणादिवृत्तिः ॥ (यथा, ऋग्वेदे । ४ । २० । ८ ।
“शिक्षानरः समिथेषु प्रहावान्
वस्वो राशिमभिनेतासि भूरिम् ॥”
अस्मिन्नर्थे क्वचित् क्लीवेऽपि दृश्यते । यथा,
तत्रैव । १ । ५५ । ५ ।
“स इन्महानि समिथानि मज्जना
कृणोति युध्म ओजसा जनेभ्यः ॥”)
आहुतिः । इति संक्षिप्तसारोणादिवृत्तिः ॥

समिद्, [ध्] स्त्री, (समिध्यतेऽनयेति । सं + इन्ध +

क्विप् ।) समित् । इत्यमरः ॥ (यथा, मनुः ।
२ । १७६ ।
“नित्यः स्नात्वा शुचिः कुर्य्यात् देवर्षिपितृ-
तर्पणम् ।
देवताभ्यर्च्चनञ्चैव समिदाधानमेव च ॥”)

समिद्धः, पुं, (सं + इन्ध + क्तः ।) प्रदीप्तः । यथा,

कात्यायनः ।
“योऽनर्च्चिषि जुहोत्यग्नौ व्यङ्गारिणि च मानवः ।
मन्दाग्निरामयावी च दरिद्रश्च स जायते ।
तस्मात् समिद्धे होतव्यं नासमिद्धे कदाचन ॥”
इति संस्कारतत्त्वम् ॥

समिधः, पुं, (समिध्यते इति । सं + इन्ध + कः ।)

अग्निः । इति त्रिकाण्डशेषः ॥ (यथा, रामा-
यणे । २ । २४ । ६ ।
“अयन्तु मामात्मभवस्तवादर्शनमारुतः ।
विलापदुःखसमिधो रुदिताश्रुहुताहुतिः ॥”)

समिन्धनं, क्ली, (समिध्यतेऽनेनेति । सं + इन्ध +

ल्युट् ।) समित् । इति शब्दरत्नावली ॥ (यथा,
भट्टिः । २ । २८ ।
“तपोमरुद्भिर्भवतां शराग्निः
संधुक्ष्यतां नोऽरिसमिन्धनेयु ॥”)

समिरः, पुं, वायुः । इति हेमचन्द्रः । ४ । १७२ ॥

समीकं, क्ली, (सम् + अलीकादयश्चेति ईकः ।)

युद्धम् । इत्यमरः ॥ (यथा, ऋग्वेदे । ४ । २४ । ३ ।
“तमिन्नरो विह्वयन्ते समीके
रिरिक्वांसस्तन्वः कृण्वतत्राम् ॥”)

समीकृतं, त्रि, एकीकृतम् । समानीकृतम् । कृञ्-

धातौ परे समशब्दात् च्विप्रत्ययेन निष्पन्नम् ॥

समीक्षं, क्ली, (सम्यगीक्ष्यतेऽनेनेति । सम् + ईक्ष् +

घञ् ।) साङ्ख्यशास्त्रम् । इति त्रिकाण्डशेषः ॥
सम्यग्दर्शनञ्च ॥

समीक्षणं, क्ली, सम्यक्प्रकारेण दर्शनम् । प्रेक्ष-

णम् । संपूर्व्वेक्षधातोरनट्(ल्युट्)प्रत्ययेन निष्प-
न्नम् ॥ (प्रकाशके त्रि । यथा, भागवते । ८ । २४ । ५० ।
“त्वमर्कदृक्सर्व्वदृशां समीक्षणो
वृतो गुरुर्न स्वगतिं बुभुत्सताम् ॥”)

समीक्षा, स्त्री, (सम् + ईक्ष + गुरोश्चेत्यः । टाप् ।)

तत्त्वम् । बुद्धिः । निभालनम् । इति मेदिनी ॥
मीमांसाशास्त्रम् । यत्नः । इति शब्दरत्ना-
वली ॥ (आत्मविद्या । इति स्वामी ॥ यथा,
भागवते । ११ । २८ । ३४ ।
“एवं समीक्षा निपुणा सती मे
हन्यात् तमिन्द्रं पुरुषस्य बुद्धेः ॥”
सम्यग्दर्शनम् । यथा, भागवते । ३ । ४ । १० ।
“आशृण्वतो मामनुरागहास-
समीक्षया विश्रमयन्नुवाच ॥”)

समीचः, पुं, (संयन्ति नद्यो यस्मिन्निति । सं +

इण् + “समीणः ।” उणा० ४ । ९२ । इति
चट् । दीर्घश्च ।) समुद्रः । इत्युणादिकोषः ॥

समीचकः, पुं, मैथुनम् । इति केचित् ॥

समीची, स्त्री, (संयातीति । सं + इण् + चट् ।

ङीप् ।) मृगी । इत्युणादिकोषः ॥ वन्दना ।
इति त्रिकाण्डशेषः ॥

समीचीनं, क्ली, (सम्यगेव । सम्यक् + “विभाषा-

ञ्चेरदिक् स्त्रियाम् ।” ५ । ४ । ८ । इति खः ।)
यथार्थम् । तत्पर्य्यायः । सत्यम् २ सम्यक् ३
ऋतम् ४ तथ्यम् ५ यथातथम् ६ यथास्थितम् ७
सद्भूतम् ८ । इति हेमचन्द्रः ॥ तद्बति, त्रि ॥
(यथा, भागवते । २ । ४ । ५ ।
“समीचीनं वचो ब्रह्मन् सर्व्वज्ञस्य तवानघ ।
तमो विशीर्य्यते मह्यं हरेः कथयतः कथाम् ॥”)

समीदः, पुं, गोधूमचूर्णम् । इति केचित् ॥

समीनः, त्रि, (समामधीष्टो भृतो भूतो भावी वा ।

समा + “समायाः खः ।” ५ । १ । ८५ । इति
खः ।) वत्सरसम्बन्धी । समाशब्दात् णीन-
प्रत्ययेन निष्पन्नः ॥

समीनिका, स्त्री, प्रतिवर्षप्रसूता गौः । इति

शब्दचन्द्रिका ॥

समीपः, त्रि, (सङ्गता आपो यत्र । “ऋक्

पूरब्धूःपथामानक्षे ।” ५ । ४ । ७४ । इति अः ।
“द्ब्यन्तरुपसर्गेभ्योऽप ईत् ।” ६ । ३ । ९७
इति ईत् ।) निकटः । इत्यमरः ॥ (क्लीवेऽपि
दृश्यते । यथा, मनुः । २ । १०४ ।
पृष्ठ ५/२७७
“अपां समीपे नियतो नैत्यकं विधिमास्थितः ।
सावित्रीमप्यधीयीत गत्वारण्यं समाहितः ॥”)

समीपता, स्त्री, नैकट्यम् । समीपत्वम् । सामीप्यम् ।

समीपशब्दात् तल्प्रत्ययेन निष्पन्नम् ॥

समीयः, त्रि, (सम + “गहादिभ्यश्च ।” ४ । २ ।

१३८ । इति छः ।) समसम्बन्धी । तुल्यका-
रणकः । समशब्दात् णीयप्रत्ययेन निष्पन्नह् ॥

समीरः, पुं, (सम्यगीर्त्ते गच्छतीति । सं + ईर

गतौ + कः ।) वायुः । इत्यमरः । १ । १ । ६५ ॥
(यथा, माघे । ४ । ५४ ।
“समीरशिशिरः शिरःसु वसतां
सतां जवनिका निकामसुखिनाम् ॥”)
शमीवृक्षः । इति राजनिर्घण्टः ॥

समीरणः, पुं, (समीरयतीति । सम् + ईर + ल्युः ।)

वायुः । (यथा, कुमारे । १ । ८ ।
“यः पूरयन् कीचकरन्ध्रभागान्
दरीमुखोत्थेन समीरणेन ।
उद्गास्यतामिच्छति किन्नराणां
तानप्रदायित्वमिवोपगन्तुम् ॥”)
मरुवकः । इत्यमरः । २ । ४ । ७९ ॥ पथिकः । इति
मेदिनी ॥ (क्ली, सं + ईर + ल्युट् । प्रेरणम् ।
यथा, महाभारते । ८ । ८४ । २३ ।
“शराभिघाताच्च रुषा च राजन्
स्वया च भासास्त्रसमीरणाच्च ॥” * ॥
प्रेरके, त्रि । यथा, हरिवंशे । १०२ । २२ ।
“सोऽपिबत् पाण्डुराभ्राभस्तत्कालं ज्ञातिभिर्वृतः ।
वनान्तरगतो रामः पानं मदसमीरणम् ॥”)

समुखः, त्रि, (मुखेन सह वर्त्तमानः ।) वाग्मी ।

वावदूकः । इति हेमचन्द्रः ॥

समुचितः, त्रि, (सम्यगुचितः । उपयुक्तः । यथा, --

“वदामस्त किंवा जननि वयमुच्चैर्जडधियो
न धाता नापीशो हरिरपि न ते वेत्ति परमम् ।
तथापि त्वद्भक्तिर्मुखरयति चास्माकमसिते
तदेतत् क्षन्तव्यं न खलु पशुरोषः समुचितः ॥”
इति तन्त्रसारधृतश्यामास्तोत्रम् ॥

समुच्चयः, पुं, (सं + उत् + चि + अच् ।) समा-

हारः । इत्यमरः । ३ । २ । १६ ॥ यथा, --
“राशौ द्वयोर्बहूनाञ्च समाहारः समुच्चयः ॥”
इति शब्दरत्नावली ॥
(यथा, कुमारे । १ । ४९ ।
“सर्व्वोपमाद्रव्यसमुच्चयेन
यथाप्रदेशं विनिवेशितेन ।
सा निर्म्मिता विश्वसृजा प्रयन्ता-
देकस्थसौन्दर्य्यदिदृक्षयेव ॥”)

समुच्छेदः, पुं, विनाशः । संपूर्व्वोत्पूर्व्वच्छिदधातो-

र्घञ्प्रत्ययेन निष्पन्नः ॥ (यथा, किराते । ११ । ४९ ।
“वंशलक्ष्मीमनुद्धृत्य समुच्छेदेन विद्बिषाम् ।
निर्व्वाणमपि मन्येऽहमन्तरायं जयश्रियः ॥”)

समुच्छ्रयः, पुं, (सं + उत् + श्रि + अच् ।) विरोधः ।

उत्सेधः । इति मेदिनी ॥ (यथा, रघुः । ९ । २० ।
“कनकयूपसमुच्छ्रयशोभिनो
वितमसा तमसासरयूतटाः ॥”)

समुच्छ्रायः, पुं, समुच्छ्रयः । समुत्पूर्व्वश्रिधातोर्घञ्

प्रत्ययेन निष्पन्नः ॥

समुच्छ्रितः, त्रि, उच्चैः । समुत्पूर्व्वश्रिधातोः

क्तप्रत्ययेन निष्पन्नः ॥

समुज्झितः, त्रि, (सम् + उज्झ उत्सर्गे + क्तः ।)

त्यक्तः । इत्यमरः । ३ । १ । १०७ ॥

समुत्क्रमः, पुं, ऊर्द्ध्वगमनम् । समुत्पूर्ब्बक्रमधातो-

रल्प्रत्ययेन निष्पन्नः ॥

समुत्क्रोशः, पुं, (समुत्क्रोशतीति । सं + उत् +

क्रुश + अच् ।) कुररपक्षी । इति शब्दरत्ना-
वली ॥ (भावे घञ् ।) उच्चैःशब्दश्च ॥

समुत्थः, त्रि, (समुत्तिष्ठतीति । सं + उत् +

स्था + कः ।) समुद्भवः । समुत्थितः । समुत्-
पूर्व्वस्थाधातोर्डप्रत्ययेन निष्पन्नः ॥ (यथा,
मनुः । ७ । ४५ ।
“दश कामसमुत्थानि तथाष्टौ क्रोधजानि च ।
व्यसनानि दुरन्तानि प्रयत्नेन विवर्ज्जयेत् ॥”)

समुत्थानं, क्ली, (सम् + उत् + स्था + ल्युट् ।)

समुद्योगः । (यथा, महाभारते । ३ । ३२ । ७ ।
“सर्व्वेहि स्वं समुत्थानमुपजीवन्ति जन्तवः ।
अपि धाता विधाता च यथायमुदके वकः ॥”)
व्याधीनां निर्णयः । इति मेदिनी ॥ (यथा,
मनुः । ८ । २८७ ।
“अङ्गावपीडनायाञ्च व्रणशोणितयोस्तथा ।
समुत्थानव्ययं दाप्यः सर्व्वदण्डमथापि वा ॥”)
ऊर्द्ध्वगमनम् । सम्यक्प्रकारेण उत्थानम् ॥ उत्तो-
लनम् । यथा, --
“इन्द्रध्वजसमुत्थानं प्रमादान्न कृतं यदि ।
तदा द्बादशमे वर्षे कर्त्तव्यं नान्तरा पुनः ॥”
इति तिथ्यादितत्त्वम् ॥

समुत्थितः, पुं, (सम् + उत् + स्था + क्तः ।) सम्य-

गुत्थितः । यथा, --
“समुत्थितस्त्वं श्रवणाद्यपादे
गृहाण पूजां भगवन्नमस्ते ॥”
इति तिथ्यादितत्त्वे शक्रोत्थानपूजामन्त्रः ॥

समुत्पन्नः, त्रि, (सम् + उत् + पद + क्तः ।) समु-

द्भूतः । यथा, --
“पुस्तकस्था च या विद्या परहस्तगतं धनम् ।
कार्य्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥”
इति चाणक्यम् ॥

समुत्पिञ्जः, त्रि, (मम् + उत् + पिजि हिंसायाम्

+ अच् ।) अत्यन्तव्याकुलः । यथा, --
“उत्पिञ्जलसमुत्पिञ्जपिञ्जला भृशमाकुले ॥”
इति हेमचन्द्रः ॥

समुत्पिञ्जः, पुं, (सम् + उत् + पिञ्ज + पचाद्यच् ।)

भृशमाकुलसैन्यम् । इत्यमरः । २ । ८ । ९९ ॥

समुत्सुकः, त्रि, (सम्यगुत्सुकः ।) सम्यगुत्कण्ठितः ।

इति हेमचन्द्रे उत्सुकशब्दार्थदर्शनात् ॥ सम्य-
गिष्टार्थोद्युक्तः । इत्यमरे उत्सुकशब्दार्थ-
दर्शनात् ॥ (यथा, रघुः । १ । ३३ ।
“तस्यामात्मानुरूपायामात्मजन्मसमुत्मुकः ।
विलम्बितफलैः कालं स निनाय मनोरथैः ॥”)

समुदक्तं, त्रि, (समुदच्यते स्मेति । सम् + उत् +

अन्च + क्तः ।) उद्धृतम् । कूपादेरुद्धृत-
जलादि । इत्यमरः । ३ । १ । ९० ॥

समुद्भूतः, त्रि, (सम् + उत् + भू + क्तः ।) समुत्-

पन्नः । यथा, देवीमाहात्म्ये ।
“साब्रवीत्तान् सुरान् सुभ्रूर्भवद्भिस्तूयतेऽत्र का ।
शरीरकोषतश्चास्याः समुद्भूताब्रवीच्छिवा ॥”

समुदयं, क्ली, (सम् + उत् + इण् + अच् ।)

लग्नम् । यथा, --
“सामर्थ्यं तनु कल्यते समुदये वित्तं कुटुम्बं ततो
विक्रान्तिं सहजं तृतीयभवने योधञ्च सञ्चि-
न्तयेत् ।”
इत्यादि ज्योतिस्तत्त्वम् ॥
षण्णाडीचक्रान्तर्गतचतुर्थनाडी । सा तु जन्म-
नक्षत्रावधिकाष्टादशनक्षत्ररूपा । तत्पर्य्यायः ।
सामुदायिकम् २ । यथा, ज्योतिस्तत्त्वे ।
“जन्मर्क्षं कर्म्म ततो दशमं सांघातिकं
षोडशभम् ।
समुदयमष्टादशभं विनाशसंज्ञं त्रयोविंशम् ॥
सन्तप्ते सामुदायिके मित्रभूत्यर्थसंक्षयः ॥”

समुदयः, पुं, (सम् + उत् + इण् + अच् ।) समूहः ।

इत्यमरः । २ । ५ । ४० ॥ (यथा, कथासरित्-
सागरे । १० । १९६ ।
“तमुपाजग्मतुस्तौ च सेनासमुदयान्वितौ ।
तं विज्ञायैव संबन्धं मुदा दुहितृवत्सलौ ॥”)
युद्धम् । (यथा, महाभारते । ६ । ११३ । ४४ ।
“द्रोणः पाञ्चालपुत्त्रेण समागम्य महारणे ।
महासमुदयं चक्रे शरैः सन्नतपर्व्वभिः ॥”)
समुद्गमः । इति मेदिनी ॥ दिवसः । इति
शब्दचन्द्रिका ॥

समुदागमः, पुं, (सम् + उत् + आ + गम + घञ् ।)

समन्ताज्ज्ञानम् । इति त्रिकाण्डशेषः ॥

समुदाचारः, पुं, (सम् + उत् + आ + चर +

घञ् ।) आशयः । इति त्रिकाण्डशेषः ॥

समुदायः, पुं, (सम् + उत् + अय + घञ् ।)

समूहः । युद्धम् । इत्यमरः । २ । ५ । ४०;
२ । ८ । १०६ ॥ पृष्ठस्थायिबलम् । इत्यजयः ॥
समुच्छ्रयः । इति मेदिनी ॥

समुदितः, त्रि, (सम्यक्प्रकारेण कथितः । संपूर्व्व-

वदधातोः क्तप्रत्ययेन निष्पन्नः । उदयं प्राप्तः ।
समुद्भूतः । संपूर्व्वोत्पूर्व्वेनधातोः क्तप्रत्ययेन
निष्पन्नः ॥

समुद्गः, पुं, (समुद्गच्छतीति । सम् + उत् + गम् +

अन्येष्वपीति डः ।) सम्पुटकः । इति हेम-
चन्द्रः ॥ (यथा, रामायणे । २ । ९१ । ७५ ।
“शुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठतः ॥”
मुद्गेन सह वर्त्तमानः ।) मुद्गसहितश्च ॥

समुद्गकः, पुं, (समुद्ग एव । स्वार्थे कन् ।) सम्पुटकः ।

इत्यमरः । २ । ६ । १३९ ॥ सापूडा इति ख्याते ।
समुद्गच्छतीति हनजनाद्गमादेरिति डे समुद्गः
ततः स्वार्थे कः । सम्पुटति द्रुव्येः संश्लिष्टो भवति
सम्पुटकः पुट शि श्लषे इजुङ्त्वात् कः ततः
पृष्ठ ५/२७८
स्वार्थे कः । इति भरतः ॥ (यथा, कथा-
सरित्सागरे । ३८ । ४७ ।
“भिक्षुः प्रपञ्चबुद्ध्याख्यः समुद्गकमुपानयत् ॥”)
छन्दोविशेषश्च ॥

समुद्गमः, पुं, ऊर्द्ध्वगतिः । उत्पत्तिः । संपूर्व्वोत्-

पूर्व्वगमधातोः अल् प्रत्ययेन निष्पन्नः ॥ (यथा,
कथासरित्सागरे । १११ । ९८ ।
“जुह्वतामग्निहोत्राणि धूमराजिसमुद्गमैः ।
प्रदर्शयदिवारोहमार्गं दिवि तपस्विनाम् ॥”)

समुद्गीतं, त्रि, उच्चैर्गीतम् । समुत्पूर्व्वगैधातोः

क्तप्रत्ययेन निष्पन्नम् ॥

समुद्गीर्णः, त्रि, वमितः । उत्तोलितः । कथितः ।

समुत्पूर्व्वगॄधातोः क्तप्रत्ययेन निष्पन्नः ॥

समुद्धतः, त्रि, (सम् + उत् + हन + क्तः ।) अवि-

नीतः । इत्यमरः । ३ । १ । २ ॥ समुद्गीर्णः । इति
हेमचन्द्रः ॥

समुद्धरणं, क्ली, (सम् + उत् + हृ + ल्युट् ।)

वान्तान्नम् । उन्नयः । इत्यमरः ॥ वान्तार्थ उद्गी-
र्णार्थः उन्नयः कूपादेर्जलाद्युत्तोलनं वृक्षा-
द्युन्मूलनं वा अनयोः समुद्धरणम् । समुद्ध्रियते
उत्तोल्यते यत् समुद्धरणं कर्म्मण्यनट् । भुक्तोज्-
झितोन्मूलितयोः स्यादुद्धरणमुन्नये । इति
रभसः । इति भरतः ॥ (यथा, महाभारते ।
१२ । ३२७ । १८ ।
“सोऽमृष्यमाणस्तद्वाक्यं समुद्धरणनिश्चितः ।
जग्राह तां तदा शक्तिं न चैनां स व्यकम्पयत् ॥”)

समुद्धृतं, त्रि, (सम् + उत् + हृ + क्तः ।) समुत्-

कीर्णम् । अपनीतम् । इति मेदिनी ॥ सम्यक्-
प्रकारेण उद्धृतम् । उत्थापितम् । यथा, --
“जलौघमग्ना सचराचरा धरा
विषाणकोठ्याखिलविश्वमूर्त्तिना ।
समुद्धृता येन वराहरूपिणा
स मे स्वयम्भुर्भगवान् प्रसीदतु ॥”
इति पाण्डवगीता ॥

समुद्रः, पुं, जलसमूहस्थानम् । तस्य व्युत्पत्ति-

र्यथा । “चन्द्रोदयात् आपः सम्यगुन्दन्ति क्लिद्यन्ति
अत्र । चन्द्रोदयात् समुन्दयन्ति वा समुद्रः ।
उन्दधी क्लेदे नाम्नीति रक् हसुङ् नलोप इति
नलोपः ।
‘अपां चैव समुन्नेन स समुद्र इति स्मृतः ।’
इति वायुपुराणम् ॥
मुद्रा मर्य्यादा तया सह वर्त्तते इति वा समुद्रः ।
सम्यगुद्गतो रोऽग्निरत्र इति । मुदं राति ददा-
तीति डे । मुद्राणि रत्नादीनि तैः सह वर्त्तते
इति वा ।” इति भरतः ॥ तत्पर्य्यायः । अब्धिः २
अकूपारः ३ पारावारः ४ सरित्पतिः ५ उद-
न्वान् ६ उदधिः ७ सिन्धुः ८ सरस्वान् ९
सागरः १० अर्णवः ११ रत्नाकरह् १२ जल-
निधिः १३ यादःपतिः १४ अपांपतिः १५ । इत्य-
मरः । १ । ७ । १ ॥ महाकच्छः १६ नदीकान्तः १७
तरीयः १८ द्वीपवान् १९ जलेन्द्रः २० मन्थिरः
२१ क्षौणीप्राचीरम् २२ मकरालयः २३ ।
इति जटाधरः ॥ सरिताम्पतिः २४ जलधिः २५
नीरनिधिः २६ नीरधिः २७ अम्बुधिः २८
पाथोनिधिः २९ पाधोधिः ३० यादसाम्पतिः
३१ नदीनः ३२ इन्दुजनकः ३३ तिमिकोषः ३४
वारांनिधिः ३५ वारिनिधिः ३६ वार्द्धिः ३७
वारिधिः ३८ तोयनिधिः ३९ कीलालधिः ४०
धरणीपूरः ४१ क्षीराब्धिः ४२ धरणिप्लवः ४३
वाङ्कः ४४ कचङ्गलः ४५ पेरुः ४६ मितद्रुः ४७
वाहिनीपतिः ४८ गङ्गाधरः ४९ दारदः ५०
तिमिः ५१ प्राणभास्वान् ५२ ऊर्म्मिमाली ५३
महाशयः ५४ अम्भोनिधिः ५५ अम्भोधिः ५६
तरिषः ५७ कूलङ्कषः ५८ तारिषः ५९ । इति
शब्दरत्नावली ॥ वारिराशिः ६० शैलशिवि-
रम् ६१ पराकुवः ६२ तरन्तः ६३ महीप्राची-
रम् ६४ । इति त्रिकाण्डशेषः ॥ पयोधिः ६५
सरिन्नाथः ६६ अम्भोराशिः ६७ धुनीनाथह् ६८
नित्यः ६९ कन्धिः ७० अपांनाथः ७१ । अस्य
जलगुणाः । विस्रत्वम् । लवणरक्तामयप्रद-
त्वम् । उष्णत्वम् । वैवर्णदोषजनकत्वम् । विशे-
षाद्दाहार्त्तिपित्तकारित्वञ्च । इति राजनिर्घण्टः ॥
अपि च ।
“सामुद्रमुदकं क्षारं सर्व्वदोषप्रकोपणम् ॥”
इति राजवल्लभः ॥
मुद्रायुक्ते, त्रि ॥ * ॥ स च समुद्रो ब्रह्मणो
मेढ्राज्जातः । यथा, --
“हृदि कामो भ्रुवोः क्रोधो लोभश्चाधरदच्छ-
दात् ।
आस्याद्वाक् सिन्धवो मेढ्रात् निरृतिः पायो-
रघाश्रयः ॥”
इति श्रीभागवते । ३ । १२ । १४ ॥
कल्पभेदे श्रीकृष्णौरसेन विरजागर्भजातः । यथा,
“श्रीकृष्णो विरजां दृष्ट्वा सरिद्रूपां प्रियां सतीम् ।
उच्चै रुरोद विरजातीरे नीरमनोहरे ॥
जलादुत्थाय चागच्छ विधाय तनु नूतनम् ।
आजगाम हरेरग्रं साक्षाद्राधेव सुन्दरी ॥
ताञ्च रूपवतीं दृष्ट्वा प्रेम्णोद्रेकां जगत्पतिः ।
चकारालिङ्गनं तूर्णं चुचुम्ब च मुहुर्मुहुः ॥
नानाप्रकारशृङ्गारं विपरीतादिकं प्रभुः ।
रहसि प्रेयसीं प्राप्य चकार च पुनः पुनः ॥
विरजा सा रजोयुक्ता धृत्वा वीर्य्यममोघकम् ।
सद्यो बभूव तत्रैव धन्या गर्भवती सती ।
तस्थौ तत्र सुखासीना सार्द्धं पुत्रैश्च सप्तभिः ॥
एकदा हरिणा सार्द्धं वृन्दारण्ये सुनिर्जने ।
विजहार पुनः साध्वी शृङ्गारासक्तमानसा ॥
एतस्मिन्नन्तरे तत्र मातुः क्रोडं जगाम ह ।
कनिष्ठपुत्त्रस्तस्याश्च भ्रातृभिः पीडितो भिया ॥
भीतं स्वतनयं दृष्ट्वा तत्याज तां कृपानिधिः ।
क्रोडे चकार बालं सा कृष्णो राधागृहं ययौ ॥
प्रबोध्य बालं सा साध्वी न ददर्शान्तिके प्रियम् ।
विललाप भृशं तत्र शृङ्गारातृप्तमानसा ॥
शशाप स्वसुतं कोपात् लवणोदो भविष्यति ।
कदापि ते जलं केन न खादिष्यन्ति जीविनः ॥
शशाप सर्व्वान् बालांश्च यान्तु मूढा महीतलम् ।
गच्छध्वञ्च महीं मूढा जम्बुद्बीपं मनोहरम् ॥
स्थितिर्नैकत्र युष्माकं भविष्यति पृथक् पृथक् ।
द्बीपे द्बीपे स्थितिं कृत्वा तिष्ठन्तु सुखिनः सुताः ।
द्बीपस्थाभिर्नदीभिश्च सह क्रीडन्तु निर्जने ॥
कनिष्ठो मातृशापाच्च लवणोदो बभूव ह ।
कनिष्ठः कथयामास मातृशापञ्च बालकान् ॥
आजग्मुर्दुःखिताः सर्व्वे मातृस्थानञ्च बालकाः ।
श्रुत्वा विवरणं सर्व्वे प्रजग्मुर्धरणीतलम् ॥
प्रणम्य मातुश्चरणं भक्तिनम्रात्मकन्धराः ।
सप्तद्वीपे समुद्राश्च सप्त तस्थुर्विभागशः ॥
कनिष्ठाद्बृद्धपर्य्यन्तं द्विगुणं द्विगुणं मुने ! ।
लवणेक्षुसुरासर्पिर्दधिदुग्धजलार्णवाः ॥
एतेषाञ्च जलं पृथ्व्यां शस्यार्थञ्च भविष्यति ।
व्याप्ताः समुद्राः सप्तैव सप्तद्वीपा वसुन्धराम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३ अध्यायः ॥
तस्य ह्रासवृद्धिकारणं यथा, --
“अपां चैव समुद्रेकात् समुद्र इति संज्ञितः ।
उदयतीन्दौ पूर्व्वे तु समुद्रः पूर्य्यते सदा ॥
प्रक्षीयमाणे बहुले क्षीयतेऽस्तमितेन वै ।
आपूर्य्यमाणो ह्युदधिरात्मनैवाभिपूर्य्यते ॥
ततो वै क्षीयमाणस्य स्वात्मन्येव क्षपां क्षयः ।
उद्दीप्यन्तेऽग्निसंयोगात् उखास्वापो यथा
स्वयम् ॥
तथा स्वतः समुद्रोऽपि वर्द्धते शशिनोदये ।
अन्यूनानतिरिक्तास्ता वर्द्धन्त्यापो ह्रसन्ति च ॥
उदयास्तमयेष्विन्दोः पक्षयोः शुक्लकृष्णयोः ।
क्षयो वृद्धिश्च उदधेः सोमवृद्धिक्षयौ यथा ॥
दशोत्तराणि पञ्चाहुरङ्गुलानां शतानि च ।
अपां वृद्धिः क्षयो दृष्टः समुद्राणान्तु पर्व्वसु ॥”
इति मात्स्ये १०० अध्यायः ॥
अन्यत् विष्णुपुराणे २ । ४ अध्याये द्रष्टव्यम् ॥ * ॥
समुद्रे वर्णनीयानि यथा, --
“अब्धौ द्वीपाद्रिरत्नोर्म्मिपोतयादोजलप्लवाः ।
विष्णुकुल्यागमश्चन्द्रादृद्धिरौर्व्वाङ्गपूरणम् ॥”
इति कविकल्पलतायाम् १ स्तवके ३ कुसुमम् ॥ * ॥
कलौ द्बिजानां समुद्रयात्रादिनिषेधो यथा,
उद्बाहतत्त्वधृतबृहन्नारदीयवचनम् ।
“ससुद्रयात्रास्वीकारः कमण्डलुविधारणम् ।
द्बिजानामसवर्णासु कन्यासूपयमस्तथा ॥
देवरेण सुतोत्पत्तिर्मधुपर्के पशोर्व्वधः ।
मांसादनं तथा श्राद्धे वानप्रस्थाश्रमस्तथा ॥
दत्तायाश्चैव कन्यायाः पुनर्द्दानं वरस्य च ।
दीर्घकालं ब्रह्मचर्य्यं नरमेधाश्वमेधकौ ॥
महाप्रस्थानगमनं गोमेधञ्च तथा मखम् ।
इमान् धर्म्मान् कलियुगे वर्ज्ज्यानाहुर्मनीषिणः ॥”
(केषाञ्चिमते कलावपि समुद्रयात्रास्वीकारे
न दोषः ॥) क्षीरोदसमुद्रस्य मन्थनवृत्तन्तो
यथा, भागवते । ८ । ७ । १ -- १० ।
“कृतस्थानविभागास्ते एवं कश्यपनन्दनाः ।
ममन्थुः परमं यत्ता अमृतार्थं पयोनिधिम् ॥
मथ्यमानेऽर्णवे सोऽद्रिरनाधारो ह्यपोऽविशत् ।
पृष्ठ ५/२७९
ध्रियमाणोऽपि बलिभिर्गौरवात् पाण्डुनन्दन ॥
ते सुनिर्व्विन्नमनसः परिम्लानमुखश्रियः ।
आसन् सुपौरुषे नष्टे दैवेनातिबलीयसा ॥
विलोक्य विघ्नेशविधिं तदेश्वरो
दुरन्तवीर्य्योऽवितथाभिसन्धिः ।
कृत्वा वपुः काच्छपमद्भुतं महत्
प्रविश्य तोयं गिरिमुज्जहार ॥
तमुत्थितं वीक्ष्य कुलाचलं पुनः
समुद्यता निर्म्मथितुं सुरासुराः ।
दधार पृष्ठेन स लक्षयोजन-
प्रस्तारिणा द्वीप इवापरो महान् ॥
सुरासुरेन्द्रैर्भुजवीर्य्यवेपितं
परिभ्रमन्तं गिरिमङ्ग पृष्ठतः ।
बिभ्रत्तदावर्त्तनमादिकच्छपो
मेनेऽङ्गकण्डूयनमप्रमेयः ॥”
तथा तत्रैव । ८ । ७ । १८ -- १९ ।
“निर्म्मथ्यमानादुदधेरभूद्बिषं
महोल्वणं हालाहलाह्वमग्रतः ।
संभ्रान्तमीनोन्मकराहिकच्छपात्
तिमिद्बिपग्राहतिमिङ्गिलाकुलात् ॥
तदुग्रवेगं दिशि दिश्युपर्य्यधो
विसर्पदुत्सर्पदसह्यमप्रति ।
भीताः प्रजा दुद्रुवुरङ्ग सेश्वरा
अरक्षमाणाः शरणं सदाशिवम् ॥”
तथा च तत्रैव । ८ । ७ । ३६ -- ४३ ।
“तद्बीक्ष्य व्यसनं तासां कृपया भृशपीडितः ।
सर्व्वदेवसुहृद्देव इदमाह सतीं प्रियाम् ॥
अहो वत भवान्येतत् प्रजानां पश्य वैशषम् ।
क्षीरोदमथनोद्भूतात् कालकूटादुपस्थितम् ॥
आसां प्राणपरीप्सूनां विधेयमभयं हि मे ।
एतावान् हि प्रभोरर्थो यद्दीनपरिपालनम् ॥
प्राणैश्च प्राणिनः पान्ति साधवः क्षणभङ्गुरैः ॥
बद्धवैरेषु भूतेषु मोहितेष्वात्ममायया ॥
पुंसः कृपयतो भद्रे सर्व्वात्मा प्रीयते हरिः ।
प्रीते हरौ भगवति प्रीयेऽहं सचराचरः ॥
तस्मादिदं गरं भुञ्जे प्रजानां स्वस्तिरस्तु मे ।
एवमामन्त्र्य भगवान् भवानीं विश्वभावनः ॥
तद्बिषं जग्धुमारेभे प्रभावज्ञान्वमोदत ।
ततः करतलीकृत्य व्यापि हालाहलं विषम् ॥
अभक्षयन्महादेवः कृपया भूतभावनः ।
तस्यापि दर्शयामास स्ववीर्य्यं जलकल्मषः ॥
यच्चकार गले नीलं तच्च साधोर्विभूषणम् ॥”
तथा तत्रैव । ८ । ८ । १ -- ९ ।
“पीते गरे वृषाङ्केण प्रीतास्तेऽमरदानवाः ।
ममन्थुस्तरसा सिन्धुं हविर्द्धानी ततोऽभवत्
तामग्निहोत्रीमृषयो जगृहुर्ब्रह्मवादिनः ।
यज्ञस्य देवयानस्य मेध्याय हविषे नृप ॥
तत उच्चैःश्रवा नाम हयोऽभूच्चन्द्रपाण्डरः ।
तस्मिन् बलिः स्पृहाञ्चक्रे नेन्द्र ईश्वरशिक्षया ॥
तत ऐरावतो नाम वारणेन्द्रो विनिर्गतः ।
दन्तैश्चतुर्भिः श्वेताद्रेर्हरन् हिमवतो महीम् ॥
ऐरावणादयस्त्वष्टौ दिग्गजा अभवंस्ततः ।
अभ्रमुप्रभृतयोऽष्टौ च करिण्यस्त्वभवन्नृप ॥
कौस्तुभाख्यमभूद्रत्नं पद्मरागं महोदधेः ।
तस्मिन् मणौ स्पृहाञ्चक्रे वक्षोऽलङ्करणे हरिः ॥
ततोऽभवत् पारिजातः सुरलोकविभूषणम् ।
पूरयत्यर्थिनो योऽर्थैः शश्वद्भुवि यथा भवान् ॥
ततश्चाप्सरसो जाता निष्ककण्ठ्यः सुवाससः ।
रमण्यः सर्गिणां बल्गुगतिलीलावलोकनैः ॥
ततश्चाविरभूत् साक्षात् श्रीरमा भगवत्परा ।
रञ्जयन्ती दिशः कान्त्या विद्युत्सौदामनी यथा ॥
तस्यां चक्रुः स्पृहां सर्व्वे ससुरासुरमानवाः ।
रूपौदार्य्यवयोवर्णमहिमाक्षिप्तचेतसः ॥”
तथा तत्रैव । ८ । ८ । २५ ।
“तस्याः श्रियस्त्रिजगतो जनको जनन्या
वक्षोनिवासमकरोत् परमं विभूतेः ।
श्रीः स्वाः प्रजाः सकरुणेन निरीक्षणेन
यत्र स्थितैधयत साधिपतींस्तिलोकान् ॥”
तत्रैव । ८ । ८ । ३० -- ३६ ।
“अथासीद्वारुणी देवी कन्या कमललोचना ।
असुरा जगृहुस्तां वै हरेरनुमतेन ते ॥
अथोदधेर्मथ्यमानात् काश्यपैरमृतार्थिभिः ।
उदतिष्ठन्महाराज पुरुषः परमाद्भुतः ॥
दोर्घपीवरदोर्दण्डः कम्बुग्रीवोऽरुणेक्षणः ।
श्यामलस्तरुणः स्रग्वी सर्व्वाभरणभूषितः ॥
पीतवासा महोरस्कः मुमृष्टमणिकुण्डलः ।
स्निग्धकुञ्चितकेशान्तसुभगः सिंहविक्रमः ॥
अमृतापूर्णकलसं विभ्रद्वलयभूषितः ।
स वै भगवतः साक्षाद्बिष्णोरंशांशसम्भवः ॥
धन्वन्तरिरिति ख्यात आयुर्व्वेददृगीज्यभाक् ।
तमालोक्यासुराः सर्व्वे कलसं चामृताभृतम् ॥
लिप्सन्तः सर्व्ववस्तूनि कलसं तरसाहरन् ।
नीयमानेऽसुरैस्तस्मिन् कलसेऽमृतभाजने ।
विषण्णमानसा देवा हरिं शरणमाययुः ॥”
तत्रैव । ८ । ८ । ४१ ।
“एतस्मिन्नन्तरे विष्णुः सर्व्वोपायविदीश्वरः ।
योषिद्रूपमनिर्द्देश्यं दधार परमाद्भुतम् ॥”
तत्रैव । ८ । ९ । १२ ।
“ततो गृहीत्वामृतभाजनं हरि-
र्ब्बभाष ईषत्स्मितशोभया गिरा ।
यद्यभ्युपेतः क च साध्वसाधु वा
कृतं मया वो विभजे सुधामिमाम् ॥”
तत्रैव । ८ । ९ । २० ।
“कल्पयित्वा पृथक्पड्क्तीरुभयेषां जगत्पतिः ।
तांश्चोपवेशयामास स्वेषु स्वेषु च पङ्क्तिषु ॥
दैत्यान् गृहीतकलसो वञ्चयन्नुपसञ्चरैः ।
दूरस्थान् पाययामास जरामृत्युहरां सुधाम् ॥”
तत्रैव । ८ । ९ । २४ ।
“देवलिङ्गप्रतिच्छन्नः स्वर्भानुर्देवसंसदि ।
प्रविष्टः सोममपिबच्चन्द्रार्काभ्याञ्च सूचितः ॥
चक्रेण क्षुरधारेण जहार पिबतः शिरः ।
हरिस्तस्य कबन्धस्तु सुधया प्लावितोऽपतत् ॥
शिरस्त्वमरतां नीतमजो ग्रहमचीकॢपत् ।
यस्तु पर्व्वणि चन्द्रार्कावभिषावति वैरधीः ॥
पीतप्रायेऽमृते देवैर्भगवान् लोकभावनः ।
पश्यतामसुरेन्द्राणां स्वरूपं जगृहे हरिः ॥”
पाद्मे उत्तरखण्डे ६९ अध्यायेऽप्येवम् ॥ (अन्त-
रिक्षम् । इति निघण्टुः । १ । ३ ॥ अस्य व्युत्-
पत्तिर्यथा, तट्टीकायाम् । “समुद्द्रवन्ति सङ्गता
ऊर्द्ध्वं द्रवन्ति गच्छन्त्यस्मादापो रश्मिभिराकृष्य-
माणा आदित्यमण्डलम् । समुत्-पूर्ब्बात् द्रवते-
र्गत्यर्थात् अन्येष्वपि दृश्यते इति अपादाने
ड-प्रत्यये टि-लोपे च रूपम् । यद्बा, संहता
अभिद्रवन्त्येनमापो भौमरसलक्षणा वायुना
प्रेर्य्यमाणाः आदित्यमण्डलाद्बा वर्षाकाले
रश्मिभिः प्रवर्त्तमानाः । अत्र उदित्येष उप-
सर्गोऽभीत्यर्थे वर्त्तते । कर्मणि ड-प्रत्यय इति
विशेषः । सम्मोदन्तेऽस्मिन् भूतानि अन्तरिक्ष-
चारीणीति वा । सम्पूर्वात् मुद हर्षे इत्यस्मात्
स्फायितञ्चिवञ्चि इत्यादिना अधिकरणे रक्-
प्रत्यये समो म-लोपे च रूपम् । यद्वा, सम्
इत्येकीभावे उदकात् उच्छब्दः रो मत्वर्थीयः ।
एकीभूतमुदकमस्मिन् विद्यते वर्षास्विति उदक-
शब्दस्योद्भावश्छान्दसः । यद्बा सम्पूर्वात् उन्दी
क्लेदने इत्यस्मात् स्फायितञ्चिवञ्चि इत्यादिना
कर्त्तरि रक्-प्रत्यये कित्त्वान्नलोपे च समुद्रः ॥”
इति देवराजकृतनिर्व्वचनम् ॥)

समुद्रकफः, पुं, (समुद्रस्य कफ इव ।) समुद्रफेनः ।

इति त्रिकाण्डशेषः ॥

समुद्रकान्ता, स्त्री, (समुद्रस्य कान्ता ।) नदी ।

इति हलायुधः ॥ पृक्का । इति राजनिर्घण्टः ॥

समुद्रगा, स्त्री, (समुद्रं गच्छतीति । गम + डः ।)

नदी । इति हेमचन्द्रः ॥ गङ्गा । यथा, --
“यव्यद्बयं श्रावणादि सर्व्वा नद्यो रजस्वलाः ।
तासु स्नानं न कुर्व्वीत घर्ज्जयित्वा समुद्रगाम् ॥”
इति प्रायश्चित्ततत्त्वे छन्दोगपरिशिष्टवचनम् ॥
(यथा च महाभारते । ३ । १०९ । १० ।
“सा बभूव विसर्पन्ती त्रिधा राजन् समुद्रगा ।
फेनपुञ्जाकुलजला हंसानामिव पङ्क्तयः ॥”)
समुद्रगामिनि, त्रि ॥

समुद्रगृहं, क्ली, (समुद्र इव जलयुक्तं गृहम् ।)

जलयन्त्रगृहम् । इति त्रिकाण्डशेषः ॥

समुद्रचुलुकः, पुं, (समुद्रश्चुलुक इव अनायासेन

पेयत्वात् यस्य ।) अगस्त्यमुनिः । इति त्रिकाण्ड-
शेषः ॥

समुद्रदयिता, स्त्री, (समुद्रस्य दयिता ।) नदी ।

इति हेमचन्द्रः ॥

समुद्रनवनीतं, क्ली, (समुद्रस्य क्षीरोदस्य नव-

नीतमिव ।) अमृतम् । चन्द्रः । इति
मेदिनी ॥

समुद्रफलं, क्ली, (समुद्रस्य फलमिव ।) अब्धि-

फलम् । औषधविशेषः । यथा, --
“समुद्रनाम प्रथमं पश्चात् फलमुदाहरेत् ।
समुद्रफलमित्यादि नाम वाच्यं भिषग्वरैः ॥
फलं समुद्रस्य कटूष्णकारि
वातापहं भूतनिरोधकारि ।
पृष्ठ ५/२८०
त्रिदोषदावानलदोषहारि
कफामयभ्रान्तिविरोधकारि ॥”
इति राजनिर्घण्टः ॥

समुद्रफेनः, पुं, (समुद्रस्य फेनः ।) स्वनामख्यात-

द्रव्यम् । तत्पर्य्यायः । फेनः २ अब्धिकफः ३
अर्णवजमलः ४ । इति रत्नमाला ॥ हिण्डीरः ५ ।
इत्यमरः । २ । ९ । १०५ ॥ समुद्रकफः ६ जलहासः
७ फेनकः ८ । इति त्रिकाण्डशेषः ॥ समुद्रफेनम्
९ फेनम् १० वार्द्धिफेनम् ११ पयोधिजम् १२
सुफेनम् १३ अब्धिहिण्डीरम् १४ सामुद्रम् १५ ।
अस्य गुणाः । शिशिरत्वम् । कषायत्वम् ।
नेत्ररोगकफकण्ठामयारुचिकर्णरोगनाशित्वञ्च ।
इति राजनिर्घण्टः ॥ अपि च ।
“समुद्रफेनश्चक्षुष्यो लेखनः शीतलश्च सः ।
कषायो विषपित्तघ्नः कर्णरुक्कफहृल्लघुः ॥”
इति भावप्रकाशः ॥

समुद्रमेखला, स्त्री, (समुद्रः मेखलेव यस्याः ।)

पृथिवी । इति त्रिकाण्डशेषः ॥

समुद्रयात्रा, स्त्री, (समुद्रे यात्रा गमनम् ।)

समुद्रगमनम् । (यथा, हरिवंशे । १४५ । ४ ।
“द्वारवत्यां निवसतो विष्णोरतुलतेजसः ।
समुद्रयात्रा सम्प्राप्ता तीर्थे पिण्डारके नृप! ॥”)
कलियुगे तन्निषेधो यथा, --
“समुद्रयात्रास्वीकारः कमण्डलुविधारणम् ।”
इत्युपक्रम्य ।
“इमान् धर्म्मान् कलियुगे वर्ज्ज्यानाहुर्मनी-
षिणः ॥”
इत्युद्बाहतत्त्वे उक्तवान् ॥

समुद्रयानं, क्ली, (समुद्रस्य यानम् ।) पोतम् ।

जाहाज इति भाषा । यथा, --
“पुनस्तत्रैव गमने बणिग्भावे मतिर्गता ।
समुद्रयाने रत्नानि महामौल्यानि साधुभिः ।
रत्नपारीक्षकैः सार्द्धमानयिष्ये बहूनि च ॥
एवं निश्चित्य मनसा महासार्थपुरःसरः ।
समुद्रयायिभिर्लोकैः संविदं सूच्य निर्गतः ॥”
इत्युपक्रम्य ।
“शुकेन सह संप्राप्तो महान्तं लवणार्णवम् ।
पोतारूढास्ततः सर्व्वे पोतवाहैरुपोषिताः ॥”
इति वाराहे गोकर्णमाहात्म्यनामाध्यायः ॥
(समुद्रगमनम् । यथा, मनुः । ८ । १५७ ।
“समुद्रयानकुशला देशकालार्थदर्शिनः ।
स्थापयन्ति तु यां वृद्धिं सा तत्राधिगमं प्रति ॥”)

समुद्रयायी, [न्] त्रि, (समुद्रे गच्छतीति । गम् +

णिनिः ।) समुद्रगामी । यथा, वाराहे ।
“समुद्रयायिभिलाकैः संविदं सूच्य निर्गतः ॥”
(अस्य निन्दा यथा, मनौ । ३ । १५८ ।
“आगारदाही गरदः कुण्डाशी सोमविक्रयी ।
समुद्रयायी वन्दी च तैलिकः कूटकारकः ॥
  • * *
एतान् विगर्हिताचारानपाङ्क्तेयान् द्बिजा-
धमान् ।
द्बिजातिप्रवरो विद्वानुभयत्र विवर्ज्जयेत् ॥”)

समुद्ररमणा, स्त्री, (समुद्रो रमण इव यस्याः ।)

पृथ्वी । इति हलायुधः ॥ (क्वचित् समुद्र-
रसना इति पाठो दृश्यते ॥)

समुद्रलवणं, क्ली, (समुद्रजातं लवणम् ।) समुद्र-

जलजातलवणम् । करकच् लवण इति भाषा ।
तत्पर्य्यायः । सामुद्रकम् २ सामुद्रम् ३ शिवम् ४
वशिरम् ५ सारोत्थम् ६ अक्षीवम् ७ लवणा-
ब्धिजम् ८ । अस्य गुणाः । लघुत्वम् । हृद्यत्वम् ।
पलितास्रपित्तदत्वम् । विदाहित्वम् । कफवात-
घ्नत्वम् । दीपनत्वम् । रुचिकारित्वञ्च । इति
राजनिर्घण्टः ॥ अपि च, भावप्रकाशे ।
“सामुद्रं यत्तु लवणमक्षीवं वशिरञ्च तत् ।
सामुद्रं मधुरं पाके सतिक्तं मधुरं गुरु ॥
नात्युष्णं दीपनं भेदि अक्षारमविदाहि च ।
श्लेष्मलं वातनुत्तिक्तमरूक्षं नातिशीतलम् ॥”

समुद्रवह्निः, पुं, (समुद्रस्य वह्निः ।) बाडवानलः ।

इति हलायुधः ॥

समुद्रविजयः, पुं, वृत्तार्हत्पिता । इति हेमचन्द्रः ॥

समुद्रसुभगा, स्त्री, (समुद्रस्य सुभगा ।) गङ्गा ।

इति राजनिर्घण्टः ॥

समुद्रा, स्त्री, सटी । (सम्यगुद्गतो रोऽग्नि-

र्यस्याः ।) शमी । इति राजनिर्घण्टः ॥

समुद्रान्तं, क्ली, (समुद्रस्य अन्त उत्पत्तिस्थानत्वे-

नास्त्यस्येति । अच् ।) जातीफलम् । इति
शब्दचन्द्रिका ॥ (समुद्रस्य अन्तम् ।) समुद्र-
तीरम् ॥ (समुद्रः अन्तो रस्येति । समुद्रान्त-
विशिष्टे, त्रि । यथा, भागवते । १० । ४७ । ३३ ।
“एतदन्तः समाम्नायो योगः सांख्यं मनीषि-
णाम् ।
त्यागस्तपो दमः सत्यं समुद्रान्ता इवापगाः ॥”)

समुद्रान्ता, स्त्री, (समुद्रस्य अन्तः उत्पत्तिस्थान-

त्वेनास्त्यस्या इति । अच् । टाप् ।) दुरालभा ।
इत्यमरः । २ । ४ । ९२ ॥ कार्पासी । पृक्का । इति
मेदिनी ॥ यवासः । इति राजनिर्घण्टः ॥

समुद्राम्बरा, स्त्री, (समुद्रः अम्बरमिव यस्याः ।)

पृथिवी । इति त्रिकाण्डशेषः ॥

समुद्रारुः, पुं, (समुद्रं ऋच्छतीति । ऋ + उण् ।)

कुम्भीरः । सेतुबन्धः । तिमिङ्गिलमत्स्यः । इति
मेदिनी ॥

समुद्रियः, त्रि, (समुद्रे भव इति । समुद्र +

“समुद्राभ्राद्घः ।” ४ । ४ । ११८ । इति घः ।)
समुद्रभवः । समुद्रसम्बन्धी । (यथा, वाज-
सनेयसंहितायाम् । ११ । ४६ ।
“वृषाग्निं वृषणं भरन्नपां गर्भं समुद्रियम् ॥”)

समुद्रीयः, त्रि, समुद्रसम्बन्धी । समुद्रशब्दात् णीय-

प्रत्ययेन निष्पन्नः ॥

समुन्दनं, क्ली, (सम् + उन्द + ल्युट् ।) आर्द्रीभावः ।

तत्पर्य्यायः । तेमः २ स्तेमः ३ । इत्यमरः । ३ । २ । २९ ॥

समुन्नं, त्रि, (सम् + उन्द + क्तः ।) आर्द्रम् । इत्य-

मरः । ३ । १ । १०५ ॥

समुन्नतः, त्रि, (सम् + उत् + नम + क्तः ।) समु-

न्नद्धः । स्तम्भभेदः । इति धरणिः ॥

समुन्नतिः, स्त्री, (सम् + उत् + नम + क्तिन् ।)

उच्छ्रायः । उत्सेधः । इति जटाधरः ॥ (यथा,
कुमारे । ६ । ६६ ।
“उपपन्नमिदं सर्व्वमतः परमपि त्वयि ।
मनसः शिखराणाञ्च सदृशी ते समुन्नतिः ॥”)

समुन्नद्धः, त्रि, (सम् + उत् + नह + क्तः ।) पण्डित-

म्मन्यः । गर्व्वितः । इत्यमरः । ३ । ३ । १०३ ॥ प्रभुः ।
इत्यजयः ॥ समुद्भूतः । इति मेदिनी ॥ ऊर्द्ध्वबद्धः ।
इति हेमचन्द्रः ॥

समुपजोषं, [म्] व्य, (सम् + उप + जुष + अम् ।)

आनन्दः । इत्यमरटीकायां रामाश्रमः । ३ ।
४ । १० ॥ तालव्यशकारादि च ॥

समुपेयिवान्, [स्] त्रि, गमनकर्त्ता । गमन-

विशिष्टः । समुपपूर्व्वेधातोः क्वसुप्रत्ययेन निष्पन्नः ॥

समुल्लसत्, त्रि, सम्यगुल्लासयुक्तम् । समुत्पूर्व्वलस-

धातोः शतृप्रत्ययेन निष्पन्नम् ॥

समुल्लिखन्, [त्] त्रि, (सम् + उत् + लिख +

शतृ ।) पादादिना भूमिखननकर्त्ता । यथा, --
“तुषारसंघातशिलाः क्षुराग्रैः
समुल्लिखन् दर्पकलः ककुद्मान् ।
दृष्टः कथञ्चिद्गवयैर्विविग्नै-
रसोढसिंहध्वनिरुन्ननाद ॥”
इति कुमारसम्भवे । १ । ५६ ॥

समूढः, त्रि, (सम् + वह + क्तः ।) पुञ्जितः ।

(यथा, माघे । १ । ४ ।
“नवानधोऽधो बृहतः पयोधरान्
समूढकर्पूरपरागपाण्डरम् ॥”)
भुग्नः । सद्योजातः । अनुपप्लुतः । इति
मेदिनी ॥ दमितः । विवाहितः । इति धरणिः ॥
शोधितः । इति जटाधरः ॥ मूढेन सहि-
तश्च ॥

समूरः, पुं, मृगभेदः । इति हेमचन्द्रः ॥

समूरुः, पुं, मृगविशेषः । इत्यमरः । २ । ५ । ९ ॥

समूलं, त्रि, मूलेन सह वर्त्तमानम् । मूलसहि-

तम् । यथा, --
“अधर्म्मेणैधते राजंस्ततो भद्राणि पश्यति ।
ततः सपत्नान् जयति समूलन्तु विनश्यति ॥”
इति महाभारते शान्तिपर्व्वणि राजधर्म्मे
युधिष्ठिरं प्रति भीष्मवाक्यम् ॥

समूहः, पुं, (समूह्यते इति । सम् + ऊह + घञ् ।)

अनेकः । तत्पर्य्यायः । निवहः २ व्यूहः ३
सन्दोहः ४ विसरः ५ व्रजः ६ स्तोमः ७ ओघः
८ निकरः ९ व्रातः १० वारः ११ संघातः १२
सञ्चयः १३ समुदायः १४ समुदयः १५ सम-
वायः १६ चयः १७ गणः १८ संहतिः १९
वृन्दम् २० निकुरम्बम् २१ कदम्बकम् २२ ।
इत्यमरः । २ । ५ । ३९-४० ॥ पूगः २३ सन्नयः २४
स्कन्धः २५ निचयः २६ जालम् २७ अग्रम् २८
पटलम् २९ काण्डम् ३० मण्डलम् ३१ चक्रम्
३२ । इति जटाधरः ॥ विस्तरः ३३ उत्-
कारः ३४ समुच्चयः ३५ आकरः ३६ प्रकरः
३७ संघः ३८ प्रचयः ३९ जातम् ४० । इति
शब्दरत्नावली ॥ (यथा, मनुः । ८ । २२१ ।
“एवं दण्डविधिं कुर्य्याद्धार्म्मिकः पृथिवीपतिः ।
ग्रामजातिसमूहेषु समयव्यभिचारिणाम् ॥”)
  1. समासः, पुं, (सम् + अस् + घञ् ।) संक्षेपः । (यथा, मनुः । ७ । २०२ । “सर्व्वेषान्तु विदित्वैषां समासेन चिकीर्षितम् । स्थापयेत् तत्र तद्वंश्यं कुर्य्याच्च समयक्रियाम् ॥”) समर्थनम् । इति मेदिनी ॥ समाहारः । इति हलायुधः ॥ एकपद्यम् । इति हेमचन्द्रः ॥ समसनं पदयोः पदानां वा एकपदीकरणं समासः । इति संक्षिप्तसारव्याकरणम् ॥ स च षड्विधः । द्वन्द्वः १ बहुव्रीहिः २ कर्म्मधारयः ३ तत्पुरुषः ४ द्विगुः ५ अव्ययीभावः ६ । तेषां लक्षणं यथा । भिन्नान्यैकार्थद्व्यादिसंख्याव्यादीनां च-ह- य-ष-ग-वाः । इति मुग्धबोधव्याकरणम् ॥ * ॥ अपि च । “नाम्नां समासो युक्तार्थस्तत्स्था लोप्या विभक्तयः ॥” इति वैयाकरणाः ॥ तस्य समान्यलक्षणं यथा । अभिधानाश्रितलोपाभाववदन्यमध्यवर्त्तिविभक्ति- शून्यनाम-समुदायत्वं समासत्वम् । तत्र कर्म्मधारय-द्विगुतत्पुरुष-बहुव्रीहि-द्वन्द्वाव्ययीभावाः षट् समासा भवन्ति । तत्र कर्म्मधारयत्वं समास- नियतलक्षणाशून्यासंज्ञास्थसंख्यावाचक पूर्व्वपदकान्यमध्यवर्त्तिविभक्तिशून्यतुल्याधिकरणपदसमुदायत्वम् । यथा नीलोत्पलमित्यादि ॥ १ ॥ तत्र द्विगुत्वम् । समासाधीनलक्षणाशून्यमध्य- पदवर्त्तिविभक्ति-शून्यासंज्ञास्थसंख्यावाचक-पूर्व्व- पदक-तुल्याधिकरणनामसमुदायत्वम् । स च तद्धितार्थे विषयीभूते तद्धितार्थेऽभिधेये उत्तरपदे वा समाहारे वाभिधेये भवति । उत्तरपदं पारिभाषिकं यत्पदघटितसमासान्तर्व्वर्त्ति द्विगुस्थपदं तत् पदम् । तेन च पञ्चगावो धनानीत्येवासमस्तप्रयोगो न तु पञ्चगवानि धनानि इति । तद्धितार्थे विषयीभूते यथा पञ्च गर्गरूप्यः पञ्चब्राह्मण्यः पञ्चनापितिः द्वैनाविकमित्यादि । तद्धितार्थेऽभिधेये यथा पञ्च- कपालः ओदनः । समासस्य संस्कतोऽर्थः संस्कारे प्रयोज्यतासम्बन्धेन पञ्चकपालस्यान्वयो व्युत्पत्ति- वैचित्र्यात् तथा च पञ्चकपालप्रयोज्यसंस्कारा- श्रयाभिन्न ओदनः । तद्धितार्थस्य समासेनाभिधानात् न तद्धितप्रत्ययाः समाहारेऽभिधेये यथा पञ्चगवं चतुष्पथं द्विपात्रं त्रिभुवनं चतुर्य्युगमित्यादयः । उत्तरपदे यथा । पञ्चगवधनः इत्यादि ॥ २ ॥ तत्पुरुषत्वन्तु । समासाधीनलाक्षणिकविशेष- णपदकमध्यवर्त्तिविभक्ति-शून्यनामसमुदायत्वम् । यथा । राजपुरुषः । कष्टाश्रितः । पुरुषोत्तमः । इत्यादि ॥ ३ ॥ समासप्रयुक्तलक्षणानियतोत्तरपदकसमासत्वं बहुव्रीहित्वम् । समासाधीनलाक्षणिकविशेष्य- वाचकपदकमध्यवर्त्तिविभक्तिशून्यनामसमुदायत्वं वा सम्बन्धिलाक्षणिकत्वव्याप्योत्तरपदकत्वं वा बहुव्रीहित्वम् । बहुव्रीहिश्च द्विविधः । समा- नाधिकरणो व्यधिकरणश्च । यथा चित्रगुः । गृहधान्यकश्चैत्रः । आरूढवानरो वृक्षः । इत्यादि ॥ ४ ॥ स्वघटकीभूतप्रत्येकपदार्थान्वितार्थकसोत्तरविभक्तिकमध्यवर्त्ति विभक्तिशून्यनामसमुदायत्वं द्वन्द्वत्वम् । यथा धवखदिरपलासांच्छिन्धि । इति । द्विविधो द्वन्द्वः । इतरेतरयोगः समाहारश्च । यत्र समाहारस्यावयवार्थः प्रधानं तत्रेतरेतरयोगः द्विवचनेऽपि तत्रैव । यथा । देवदत्तयज्ञदत्तौ । धवखदिरपलासाः । इति । यत्र संहतिप्राधान्यं तत्र समाहारस्तत्रैकवचनं नपुंसकलिङ्गता च । यथा वाग्दृशदं हस्त्यश्वम् । इत्यादि ॥ ५ ॥ समासप्रयुक्तलक्षणाशून्यावयवपूर्व्वपदकमध्य- वर्त्तिविभक्तिशून्यतत्पुरुषान्यनामसमुदायत्वं अव्ययीभावत्वम् । यथा । उपकुम्भं अघटं निर्म्मक्षिकं अधिस्त्रि इत्यादि ॥ ६ ॥ इति समासवादः ॥ * ॥ अन्यच्च । यौगिकेषु समासं लक्षयति । “यादृशस्य महावाक्यस्यान्तस्त्वादिनिजार्थके । यादृशार्थस्य धीहेतुः स समासस्तदर्थकः ॥” यादृशमहावाक्योत्तरः त्वतलादिः स्वार्थस्य यादृ- शार्थावच्छिन्नविषयताशालिबोधे हेतुस्तादृशं तद्वाक्यं तथाविधार्थे समासः । विभजते । “स चायं षड्विधः कर्म्मधारयादिप्रभेदतः । यश्चोपपदसंज्ञोऽन्यस्तेनासौ सप्तधा मतः ॥ पूर्व्वमध्यान्त्यसर्व्वान्यपदप्राधान्यतः पुनः । प्राच्यैः पञ्चविधः प्रोक्तः समासो वा भटादिभिः ॥” तेषु कर्म्मधारयं लक्षयति । “क्रमिकं यन्नामयुगमेकार्थेऽन्यार्थबोधकम् । तादात्म्येन भवेदेष समासः कर्म्मधारयः ॥” क्रमिकं यन्नामद्वयं तयोरेकस्य नान्मोऽर्थे धर्म्मिणि तादात्म्येनापरनाम्नोऽर्थस्य अन्वयबोधं प्रति समर्थं तादृशनामद्वयं कर्म्मधारयः । यथा नीलोत्पलम् ॥ १ ॥ द्विगुं लक्षयति । “संख्याशब्दयुतं नाम तदलक्ष्यार्थबोधकम् । अभेदेनैव यत् स्वार्थे स द्विगुस्त्रिवधो मतः ॥” संख्यावच्छिन्नशक्त-यत्-पदोत्तरत्वविशिष्टयन्नाम- स्वार्थधर्म्मिकं तादात्म्येन तदलक्ष्यार्थस्यान्वयबोधं पृष्ठ ५/२७५ प्रति समर्थं तन्नामोत्तरतापन्नं तन्नामैव तदल- क्ष्यार्थाभिन्नस्यार्थे द्विगुरुच्यते । तत्र तद्धितार्थ- द्विगुं लक्षयति । “तद्धितार्थान्वितस्वार्थस्तद्धितार्थद्विगुर्म्मतः । तद्धितार्थे लाक्षणिकस्वान्त्यनाम त्वसर्व्वगः ॥ यो द्विगुः स उत्तरतद्धितार्थान्वितस्वार्थकः ॥” उत्तरपदद्विगुं लक्षयति । “स्वान्तर्निविष्टशब्दाभ्यां शब्दान्तरसमासगः । यो द्विगुः शाब्दिकैरुक्तः स उत्तरपदद्विगुः ॥” यो द्विगुः स्वघटकनामभ्यां सह साकाङ्क्षनामान्तरेण समासस्यान्तर्गतः स उत्तरपदद्विगुः । यथा पञ्चगवधनः । समाहारद्विगुं लक्षयति । “स्वार्थान्वितसमाहारलक्षकः स्वान्त्यशब्दकः । उक्ताभ्यामितरः किं वा समाहारद्विगुर्द्विगुः ॥” स्वोपस्थाप्यार्थस्य समाहारलक्षको यदीयान्त्यशब्दः स द्विगुः समाहारद्विगुः । यथा पञ्चपुलीत्यादि ॥ २ ॥ तत्पुरुषं लक्षयति । “यदीयेन सुबर्थेन युतयद्बोधनक्षमः । यः समासस्तस्य तत्र स तत्पुरुष उच्यते ॥” यदर्थगतेन सुबर्थेन विशिष्टस्य यदर्थस्यान्वयबोधं प्रति यः समासः स्वरूपयोग्यः स तदर्थस्य तदर्थे तत्पुरुषः । न तु यन्नामोत्तरं यन्नाम यदर्थगतसुबर्थावच्छिन्नस्य यत् स्वार्थस्य बोधकं तदुत्तरतन्नामैव तदर्थयोस्तत्पुरुषः । पूर्व्वकायो- ऽर्द्धपिप्पलीत्यादावव्याप्तेः । विभजते । “द्वितीयादिसुबर्थस्य भेदादेव च षड्विधः । क्रियान्वयी द्धितीयादेरर्थः प्रायोऽत्र योजितः ॥” ३ ॥ अव्ययीभावं लक्षयति । “उत्तरार्थान्वितस्वार्थाव्ययपूर्व्वस्तु यो भवेत् । समासः सोऽव्ययीभावः स्त्रीपुंलिङ्गविवर्जितः ॥” यः समासः सोऽत्तरपदोपस्थाप्येन यदर्थेनान्वि- तस्य यदर्थस्य बोधकाव्ययपूर्व्वभागकः स तद्विशिष्टस्य तदर्थस्य बोधने अव्ययीभावः । यथा निर्मक्षिकं उपकुम्भमित्यादि । “अमादेशं विना श्रूयमाणषष्ठी न बोधिका । स्वार्थे यदर्थस्य यद्वा सोऽव्ययीभाव इष्यते ॥” अमादेशं विना श्रूयमाणषष्ठी स्वार्थे यत् समा- सार्थस्यान्वयबोधं प्रत्यसमर्था स एव वाव्ययीभावः श्रूयमाणैव षष्ठी स्वार्थे समासान्तरार्थ- स्यान्वयबोधनेऽसमर्था न तु लुप्तापि ॥ ४ ॥ बहुव्रीहिं लक्षयति । “बहुव्रीहिः स्वगर्भार्थसम्बन्धित्वेन बोधकः । निरूढया लक्षणया स्वांशज्ञापकशब्दवान् ॥” स्वांशस्य निरूढलक्षणया ज्ञापकेन शब्देन घटितः स्वगर्भस्य यादृशार्थस्य सम्बन्धित्वप्रकारे- णान्वयबोधं प्रति समर्थः समासः स्वगर्भतादृशार्थसम्बन्धिबोधने बहुव्रीहिः । “अस्यैकं प्रथमान्तं सत् सुबन्तैरितरैः सह । यदा भेदसुबन्तेन साकाङ्क्ष नाम विग्रहः ॥” अस्य बहुव्रीहेर्घटकमेकं नाम प्रथमान्तं सत् सुबन्तेरितरनामभिः सह भेदार्थकसुबन्तयच्छब्देन साकाङ्क्षं विग्रहः कथ्यते । बहुव्रीहिं विभजते । “तदतद्गुणसंविज्ञानौ द्वौ भेदौ तदादिमः । विग्रहस्य विशेष्यो यस्तद्विशेष्यकबोधकृत् ॥” तत्र विग्रहवाक्यस्य विशेष्यविधया प्रत्याय्यो योऽर्थस्तद्विशेष्यकबोधकृत् बहुव्रीहिस्तयोरादिमः तद्गुणसंविज्ञानः । तस्य स्वार्थगुणीभूतस्य सम्यग्विशेष्यविधया विज्ञानं यस्मिन्निति व्युत्पत्त्या स्वार्थान्वयः संज्ञात्वात् तद्भिन्नश्चा- तद्गुणसंविज्ञानश्चरम इत्यर्थादवगम्यते । प्राचां मतेन तद्गुणसंविज्ञानबहुव्रीहिमन्यथा निर्व्वक्ति । “यः स्वार्थघटकार्थस्य स्वार्थान्धयिनि बोधने । अनुकूलो बहुव्रीहिः स तयोरथवादिमः ॥” यो बहुवीहिः स्वार्थस्यान्वयिनि स्वार्थघटक- स्याप्यर्थस्यान्वयबोधने समर्थः स तयोस्तद्- गुणातद्गुणयोरादिमः । लम्बकर्णमानय हार- ग्रीवं पश्य इत्यादि । पुनर्विभजते । “स्वान्तर्निविष्टद्वित्र्यादिनामभिर्विग्रहात् पुनः । बहुव्रीहिर्व्वहुविधो द्विपदत्रिपदादिकः ॥” द्वित्रिचतुरादिभिरेव स्वघटकनामभिर्विग्रह- वशात् द्विपदत्रिपदचतुष्पदादिको बहुव्रीहिर्ब्बोध्यः ॥ ५ ॥ द्वन्द्वं लक्षयति । “यद्यदर्थकयन्नामव्यूहो यद्यत्प्रकारके । बोधे समर्थः स द्वन्द्वः समासस्तावदर्थकः ॥” यद्यदर्थोपस्थापकस्य क्रमिकयादृशनामस्तोमस्य निश्चयस्तदर्थप्रकारकान्वयबोधं प्रति तत्त्वेन समर्थस्तादृशनामनिवह एव तावदर्थको द्वन्द्व- समासः । द्वन्द्वं विभजते । “द्वौ भेदावस्य शास्त्रोक्तौ समाहारेतरेतरौ । एकान्यवचनाकाङ्क्षा हानोपादानतश्च तौ ॥” अस्य द्वन्द्वस्य द्वौ भेदौ समाहार इतरेतरश्च शास्त्रसिद्धौ । तत्रैकवचनान्यसुवाकाङ्क्षाविहीनः समाहारः । तथाविधसुवाकाङ्क्षश्चेतरेतरः । यथा । पाणिपादं हस्त्यश्वं धवखदिरौ । इत्यादि ॥ ६ ॥ उपपदसमासं लक्षयति । “यदुत्तरपदं नामानुत्तरं यदबोधकम् । धातुकृज्जमुपपदसमासः स तदन्तकः ॥” धातुकृद्भ्यां निष्पन्नं यस्योत्तरपदं शब्दानुत्तरं स यादृशार्थस्य बोधं प्रत्यसमर्थं तादृशार्थे तादृ- शार्थकान्त्यपदकः समास उपपदसंज्ञकः । कुम्भकारः क्षीरपायीत्यादि । विभजते । “कारकैकोपपदकः षड्विधोऽयमिति भ्रमः । कर्म्मकर्त्राद्युपपदभेदात् बहुविधस्त्वसौ ॥” ७ ॥ इति शब्दशक्तिप्रकाशिका ॥