पृष्ठ ५/३४२

साला, स्त्री, (सालः प्रकारोऽस्त्यस्या इति । अच् ।

टाप् ।) गृहम् । इत्यमरटीकायां भरतः ॥

सालाकारी, स्त्री, युद्धे पराजितनारी । इति

केचित् ॥

सालातुरीयः, पुं, पाणिनिमुनिः । इति हेमचन्द्रः ॥

तालव्यशकारादिः साधुपाठः । यथा, --
“शालातुरीयशालङ्किदाक्षिपुत्त्राश्च पाणिनौ ।”
इति शब्दरत्नावली ॥

सालारं, क्ली, (सालां रातीति । रा + कः ।)

द्रव्यरक्षणार्थभित्तिस्यकीलकः । डाण्डा इति
भाषा । इति केचित् ॥

सालावृकः, पुं, (सालाया वृक इव ।) कुक्कुरः ।

शृगालः । तरक्षुः । इति केचित् ॥ तालव्यशका-
रादिश्चायम् ॥

सालूरः, पुं, मण्डूकः । इति शब्दरत्नावली ॥

तालव्यशकारादिश्च ॥

सालेयः, पुं, मधुरिका । इत्यमरटीका ॥ तालव्य-

शकारादिश्च ॥

साल्वः, पुं, विष्णुवध्यराजविशेषः । इति हेमचन्द्रः

स तु सोभदेशाधिपतिः । इति महाभारते
कर्णपर्व्व ॥ देशविशेषः । तद्देशस्थे, पुं भूम्नि ।
तद्दे शसम्बन्धिनि, त्रि ॥ तालव्यशादिश्च ॥

साल्वहा, [न्] पुं, (साल्वं हन्तीति । हन् +

क्विप् ।) विष्णुः । इति हेमचन्द्रः ॥

साल्विकः, पुं, पक्षिविशेषः । सालिक इति भाषा

यथा, --
“शवमल्लः क्षुद्रचुडो गूथलक्तश्च साल्विकः ।”
इति शब्दचन्द्रिका ॥

सावकः, त्रि, शिशुः । इति केचित् ॥ तालव्य-

शकारादिः साधुपाठः ॥

सावधानः, त्रि, (अवधानेन सह वर्त्तमानः ।)

सचेतनः । सतर्कः । यथा, श्राद्धतत्त्वे ।
“आगच्छन्तु महाभामा विश्वेदेवा वरप्रदाः ।
ये चात्र विहिताः श्राद्धे सावधाना भवन्तु ते ॥”

सावनं, क्ली, (सवनं सोमयज्ञस्नानं तस्येदमित्यण्)

सवनसम्बन्धिदिनम् । यथा । सोमयागे सवन-
त्रयस्याहोरात्रसाध्यत्वात् तत्सम्बन्धि दिनं
सावनम् । इति माधवाचार्य्यः ॥ अपि च ।
ब्रह्मसिद्धान्ते । सावनं दण्डाः षष्टिरहःस्वलग्न-
स्वगुणांशाढ्यास्तदैनं भवेत् । इति मलमास-
तत्त्वम् ॥ (यथाच सूर्य्यसिद्वान्ते ।
“उदायादुदयं भानोः सावनं तत् प्रकीर्त्तितम् ।
सावनानि स्युरेतेन यज्ञकालविधिस्तु तैः ॥”)

सावनः, पुं, (सवनस्यायमिति । अण्) यज्ञ-

कर्म्मान्तः । यजमानः । वरुणः । इति मेदिनी ॥
दिवसविशेषः । यथा, --
“तिथिनैकेन दिवसश्चान्द्रमाने प्रकीर्त्तितः ।
अहोरात्रेण चैकेन सावनो दिवसः स्मृतः ॥”
इति मलमासतत्त्वम् ॥
मासभेदः । स च त्रिंशदहोरात्रात्मकः । यथा,
“त्रिंशता सौरदिवसैः सावनः परिकीर्त्तितः ।”
इति शब्दरत्नावली ॥
अपि च । ब्रह्मसिद्धान्ते ।
“चान्द्रः शुक्लादिदर्शान्तः सावनस्त्रिंशता दिनैः ।
एकराशौ रविर्यावत् कालं मासः स भास्करः ।
सर्व्वर्क्षपरिवर्त्तैश्च नाक्षत्र इति चोच्यते ॥”
विष्णुधर्म्मोत्तरे च ।
“सन्निकर्षादथारभ्य सन्निकर्षमथापरम् ।
चन्द्रार्कयोर्बुधैर्म्मासश्चान्द्र इत्यभिधीयते ।
सावने च तथा मासि त्रिंशत्सूर्य्योदयाः स्मृताः ॥
आदित्यराशिभोगेन सौरो मासः प्रकीर्त्तितः ।
सर्व्वर्क्षपरिवर्त्तैश्च नाक्षत्र इति चोच्यते ॥” * ॥
सावनमासकर्त्तव्यकर्म्मादि यथा, --
“सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा ।
मध्यमग्रहभुक्तिश्च सावनेन प्रकीर्त्तित्ः ॥
पितामहः ।
“आब्दिके पितृकृत्ये च मासश्चान्द्रमसः स्मृतः ।
विवाहादौ स्मृतः सौरो यज्ञादौ सावनो मतः ॥”
अत्र आदिपदेन सत्रभृतिवृद्धिप्रायच्चित्तायुर्द्दाया-
शौच-गर्भाधान-पुंसवन-सीमन्तोन्नयन-नामकर-
णान्नप्राशन-निष्क्रमण-चूडादिग्रहणम् । तथा च
विष्णुधर्म्मीत्तरम् ।
“अध्वायनञ्च ग्रहचारकर्म्म
सौरेण मानेन सदाध्यवस्येत् ।
सत्राण्युपास्यान्यथ सावनेन
लौक्यञ्च यत् स्याद्व्यवहारकर्म्म ॥”
इति मलमासतत्त्वम् ॥ * ॥
वर्षविशेषः । यथा, --
“सौरेणाब्दस्तु मानेन यदा भवति भार्गव ।
सावनेन च मानेन दिनषट्कं प्रपूर्य्यते ॥”
सौरसंवत्सरे दिनषट्काधिकः सावनः संवत्-
सरो भवतीति । इति मलमासतत्त्वम् ॥

सावरः, पुं, (सवराणामयमिति । अण् ।) लोध्रः ।

इत्यमरटीका शब्दरत्नावली च ॥ (यथा,
सुश्रुते । ४ । २२ ।
“शारिवोत्पलषष्ट्याह्वसावरागुरुचन्दनैः ॥”)
पापम् । अपराधः । इति विश्वः ॥ (मृगविशेष-
मांसे, क्ली । तस्य गुणा यथा, --
“सावरं पललं सिग्धं शीतलं गुरु च स्मृतम् ।
रसे पाके च मधुरं कफदं रक्तपित्तहृत् ॥”
इति भावप्रकाशस्य पूर्व्वस्वण्डे द्वितीये भागे ॥)
तालव्यशकारादिरप्ययम् ॥

सावर्णः, पुं, (सवर्ण एव । स्वार्थे अण् । सवर्णायाः

छायाया अपत्यमिति अण् वा ।) अष्टममनुः ।
यथा, --
“छायासंज्ञासुतो योऽसौ द्वितीयः कथितो मनुः
पूर्व्वजस्य सवर्णोऽसौ सावर्णस्तेन कथ्यते ॥”
इति देवीभागवतम् ॥
(तथाच हरिवंशे । ९ । १९ ।
“पूर्व्वजस्य मनोस्तात सदृशोऽयमिति प्रभुः ।
मनुरेवाभवन्नाम्ना सावणं इति चोच्यते ॥”)
यथाच मात्स्ते । ९ । ३१ -- ३३ ।
“सावर्णस्य प्रवक्ष्यामि मनोर्भावि तथान्तरम् ।
अश्वत्थामा शरद्वांश्च कौशिको गालवस्तथा ॥
सतानन्दः कश्यपश्च रासश्च ऋषयः स्मृताः ।
धृतिर्व्वरीयान् यवसः सुवर्णो वृष्टिरेव च ॥
चरिष्णुरीड्यः सुमतिः वसुः सुभ्रुश्च वीर्य्यवान् ।
भविष्या दशसावर्णा मनोः पुत्त्राः प्रकीर्त्तिताः ॥”

सावर्णलक्ष्यं, क्ली, (सावर्णस्य समानवर्णस्य पूर्व्वा-

कृतेरिति यावद् लक्ष्यं तस्मात् ।) चर्म्म । इति
शब्दरत्नावली ॥

सावर्णिः, पुं, (सवर्णाया अपत्यमिति । इञ् ।)

अष्टममनुः । स च सूर्य्यपुत्त्रः । यथा, --
“विवस्वतश्च द्वे जाये विश्वकर्म्मसुते उभे ।
संज्ञा छाया च राजेन्द्र ये प्रागभिहिते तव ॥
तृतीयां वडवामेके तासां संज्ञासुतास्त्रयः ।
यमो यमी श्राद्धदेवश्छायायाश्च सुतान् शृर्णु ॥
सावर्णिस्तपती कन्या भार्य्या संवरणस्य या ।
शनैश्चरस्तृतीयोऽभूदश्विनौ बडवात्मजौ ॥
अष्टमेऽन्तर आयाते सावर्णिर्भविता मनुः ।
निर्म्मोकविरजस्काद्याः सावर्णितनया नृप ॥
तत्र देवाः सुतपसो विरजा अमृतप्रभाः ।
तेषां विरोचनसुतो वलिरिन्द्रो भविष्यति ॥
दत्त्वेमां याचमानाय विष्णवे यः पदत्रयम् ।
राद्धमिन्द्रपदं हित्वा ततः सिद्धिमवाप्स्यति ॥
योऽसौ भमवता बद्धः प्रीतेन सुतले पुनः ।
निवेशितोऽधिके स्वर्गादधुनास्ते स्वराडिव
गालवो दीप्तिमान्रामो द्रोणपुत्त्रः कृपस्तथा ।
ऋष्यशृङ्गः पितास्माकं भगवान् वादरायणः ।
इमे सप्तर्षयस्तत्र भविष्यन्ति स्वयोगतः ॥
इदानीमासते राजन् स्वे स्वे आश्रममण्डले ।
देवगुह्यात् सरस्वत्यां सार्व्वभौम इति प्रभुः ।
स्थानं पुरन्दराद्वृत्वा वलये दास्यतीश्वरः ॥”
इति श्रीभागवते । ८ । १३ । ८ -- १७ ॥
(अस्य विशेषविवरणन्तु मार्कण्डेपुराणे देवी-
माहात्म्ये द्रष्टव्यम् ॥) गोत्रविशेषः । यथा ।
वात्स्यसावर्णिगोत्रयोरौर्व्वच्यवनभार्गवजामद-
ग्न्याप्नुवत्प्रवराः । इत्युद्वाहतत्त्वम् ॥

सावित्रं, क्ली, (सविता देवता अस्येति । अण् ।)

यज्ञोपवीतम् । इति शब्दरत्नावली ॥ (तत्-
सम्बन्धिनि, त्रि । यथा, भागबते । ४ । ३१ । १० ।
“किं जन्मभिस्त्रिभिर्व्वेह शौक्रसावित्रयाज्ञिकैः ।
कर्म्मभिर्वा त्रयीप्रोक्तैः पुंसोऽपि बिबुधायुसा ॥”

सावित्रः, पुं, (सविता देवता अस्येति । अण् ।)

ब्राह्मणः । इति हेमचन्द्रः ॥ शङ्करः । वसुः ।
इति मेदिनी ॥ (स्वार्थे अण् ।) सूर्य्यः । गर्भः ।
इति शब्दरत्नावली ॥ (सवितुरपत्यं पुमान् ।
अण् । कर्णः । यथा, महाभारते । १ । १३७ ।
८ ।
“सोऽव्रवीत् मेघगम्भीरस्वरेण वदतां वरः ।
भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम् ॥”
सूर्य्यवंशीये, त्रि । यथा, उत्तरचरिते १ अङ्के ।
“यत् सावित्रैर्दीपितं भूमिपालै-
र्लोकश्रेष्ठैः साधु शुद्धं चरित्रम् ।
मत्सम्बन्धात् कश्मला किंवदन्ती
स्याच्चेदस्मिन् हन्त धिक् मामधन्यम् ॥”
पृष्ठ ५/३४३
सवितृसम्बन्धिनि च त्रि । यथा, मनुः । ४ ।
१५० ।
“सावित्रान् शान्तिहोमांश्च कुर्य्यात् पर्व्वसु
नित्यशः ॥”)

सावित्री, स्त्री, शाल्वदेशीयसत्यवद्राजपत्नी । सा

तु मद्रदेशीयाश्वपतिराजकन्या ॥ (अस्या विशेष-
विवरणन्तु महाभारते वनपर्व्वणि २९२ अध्याय-
मारभ्य द्रष्टव्यम् ॥ * ॥) उमा । इति मेदिनी ॥
तन्नामकरणं यथा, --
“त्रिदशैरर्च्चिता देवी वेदयोगेषु पूजिता ।
भावशुद्धस्वरूपा तु सावित्री तेन सा स्मृता ॥”
इति देवीपुराणे ४४ अध्यायः ॥
अपि च ।
“सर्व्वलोकप्रसवनात् सविता स तु कीर्त्त्यते ।
यतस्तद्देवता देवी सावित्रीत्युच्यते ततः ।
वेदप्रसवनाच्चापि सावित्री प्रोच्यते बुधैः ॥”
इति वह्निपुराणे ब्राह्मणप्रशंसानामाध्यायः ॥
गायत्त्री । इति त्रिकाण्डशेषः ॥ * ॥ (उप-
नयनकर्म्म । यथा, मनुः । २ । ३८ ।
“आ षोडशात् ब्राह्मणस्य सावित्री नातिवर्त्तते ।
आ द्वाविंशात् क्षत्रबन्धोरा चतुर्व्विंशतेर्व्विशः ॥”
“सावित्रीशब्देन तदनुवचनसाधनमुपनयनाख्यं
कर्म्म लक्ष्यते ।” इति मेधातिथिः ॥) ब्रह्मपत्नी ।
सा तु सवितुः पृश्न्यां पत्न्यां जाता । अस्या
उत्पत्तिनामान्तराणि यथा, --
“ततः संजपतस्तस्य भित्त्वा देहमकल्मषम् ।
स्त्रीरूपमर्द्धमकरोदर्द्धं पुरुषरूपवत् ॥
शतरूपा च सा ख्याता सावित्री च निगद्यते ।
सरस्वत्यथ गायत्त्री ब्रह्माणी च परन्तप ॥”
इति मात्स्ये । ३ । ३० -- ३२ ॥ * ॥
तस्या शतनामानि यथा, --
विष्णुरुवाच ।
“सावित्री पुष्करे नाम तीर्थानां प्रवरे शुभे ।
वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी ।
मयागे ललिता देवी कामुका गन्धमादने ।
मानसे कुमुदा नाम विश्वकाया तथाम्बरे ॥
गोमते गोमती नाम मन्दारे कामचारिणी ।
मदोत्कटी चैत्ररथे जयन्ती हस्तिनापुरे ॥
कान्यकुब्जे तथा गौरी रम्भा मलयपर्व्वते ।
एकाम्रके कीर्त्तिमती विश्वा विश्वेश्वरे तथा ॥
जवा वराहशैले तु कमला कमलालये ।
रुद्रकोट्यान्तु रुद्राणी काली कालञ्जरे गिरौ ॥
महालिङ्गे तु कपिला कर्क्कोटे मुकुटेश्वरी ।
शालग्रामे महादेवी शिवलिङ्गे जनप्रिया ॥
नीलोत्पला मायापुर्य्यां सन्दन्ती ललिते तथा ।
उत्पलाक्षी साहस्राक्षे हिरण्याक्षी महोत्पले ॥
गङ्गायां मङ्गला नाम विमला पुरुषोत्तमे ।
विशालायाममोघाक्षी पाण्डला पाण्डुपर्व्वते ॥
नारायणी सुपार्श्वे तु त्रिकूटे रुद्रसुन्दरी ।
विपुले विपुला नाम कल्याणी मलयाचले ॥
कोटरी कोटरीतीर्थे सगन्धा गन्धमादने ।
कुजाम्रके त्रिसन्ध्या तु गङ्गाद्वारे हरिप्रिया ॥
शिवचण्डे शुभा चण्डा नन्दिनी देविकातटे ।
रुक्मिणी द्वारवत्यान्तु राधा वृन्दावने वने ॥
देवकी मथुरायान्तु पाताले परमेश्वरी ।
सीता बिन्ध्ये तथा रौद्री कालिन्द्यां बिन्ध्य-
वासिनी ॥
सह्याद्रावेकवीरा तु हरिश्चन्द्रे तु चन्द्रिका ।
रमणा रामतीर्थे तु यमुनायां मृगावती ॥
करवीरे महालक्ष्मीरुमा देवी विनायके ।
अरोगे तु रोगहन्त्री महाकाले महेश्वरी ॥
अभयेत्युष्णतीर्थे तु असूता बिन्ध्यकन्दरे ।
माण्डव्ये माद्रवी देवी महागौरी महेश्वरी ॥
गणेशे च प्रचण्डा तु चण्डिकामरकण्टके ।
सोमेश्वरी वराहे तु प्रभासे पुष्करावती ॥
देवी माता सरस्वत्यां पारावारतटे स्थिता ।
महालये महापद्मा पयोष्ण्यां पिङ्गलेश्वरी ।
सिंहिका कृतसौरे च कार्त्तिकेये तु शङ्करी ।
उत्पलावर्त्तके काला मुभद्रा सिन्धुसङ्गमे ॥
माता सिन्धुवने लक्ष्मीस्तरङ्गा भरताश्रमे ।
जालन्धरे विश्वमुखी तारका बिन्ध्यपर्व्वते ॥
देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले ।
भीमा देवी हिमाद्रौ तु सेतुर्व्वक्रेश्वरे तथा ॥
कपालमोचने शुद्धा माता कायावरोहणे ।
शङ्खोद्धारे ध्वनिर्न्नाम धृतिः पिण्डारके वने ॥
काली तु चन्द्रभागायामक्षोदे सिद्धिदायिनी ।
नरनारायणे देवी वदर्य्यामुर्व्वशी तथा ॥
ओषधीशोत्तरकुले कुशद्वीपे कुशोदका ।
मन्मथा हेमकूटे तु कुमुदे सत्यवादिनी ॥
अश्वत्थवन्धनीका तु विविक्ते श्रमणालये ।
मायत्त्री वेदशालायां सावित्री ब्रह्मसन्निधौ ॥
सूर्य्यविम्बे प्रभा नाम मातॄणां वैष्णवी मता ।
अरुन्धती सतीनान्तु रामासु च तिलोत्तमा ॥
व्रजे ब्रह्मकला नाम शक्तिः सर्व्वशरीरिणाम् ।
एतदुद्देशतः प्रोक्तं नामाष्टशतमुत्तमम् ॥
अष्टोत्तरञ्च तीर्थानां शतमेतदुदाहृतम् ।
यो जपेत् शृणुयाद्वापि सर्व्वपापैः प्रमुच्यते ॥
एषु तीर्थेषु यत् कृत्वा स्नात्वा पश्येन्नरो हिः यः
सर्व्वपापविनिर्म्मुक्तः कल्पं ब्रह्मपुरे वसेत् ॥
नामाष्टशतकं यस्तु श्रावयेद्ब्रह्मसन्निधौ ।
पौर्णमास्याममावस्यां बहुपुत्त्रो भवेन्नरः ॥
गोदाने श्राद्धदाने च अहन्यहनि वा पुनः ।
देवार्च्चनविधौ विद्वान् परं ब्रह्माधिगच्छति ॥”
इति पद्मपुराणे सृष्टिखण्डे १७ अध्यायः ॥ * ॥
अपि च ।
नारद उवाच ।
“तुलस्युपाख्यानमिदं श्रुतमीश सुधोपमम् ।
तत्तु सावित्र्युपाख्यानं तन्मे व्याख्यातुमर्हसि ॥
पुरा येन समुद्भू ता सा श्रुता च श्रुतिप्रसूः ।
केन वा पूजिता देवी प्रथमे कैश्च वा परे ॥
नारायण उवाच ।
ब्रह्मणा वेदजननी पूजिता प्रथमे मुने ।
द्वितीये च वेदगणैस्तत्पश्चाद्विदुषां गणैः ॥
तदा चाश्वपतिः पूर्व्वं पूजयामास भारते ।
तत्पश्चात् पूजयामासर्व्वर्णाश्चत्वार एव च ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे । २३ । १ -- ४ ॥

सावित्रीव्रतं, क्ली, (सावित्र्या व्रतम् ।) ज्यैष्ठ-

कृष्णचतुर्द्दश्यां स्त्रीकर्त्तव्यनियमविशेषः । तद्वि-
वरणं यथा, । पराशरः ।
“मेषे वा वृषभे वापि सावित्रीं तां विनिर्द्दिशेत् ॥”
तां चतुर्द्दशीम् ।
“ज्यै ष्ठकृष्णचतुर्द्दश्यां सावित्रीमर्च्चयन्ति याः ।
वटमूले सोपवासा न ता वैधव्यमाप्नु युः ॥”
राजमार्त्तण्डकृत्यचिन्तामण्योः ।
“ज्यैष्ठे मासि चतुर्द्दश्यां सावित्रीव्रतमुत्तमम् ।
अवैधव्याय कुर्व्वन्ति स्त्रियः श्रद्धासमन्विताः ॥”
व्रतमात्रे तु अनन्तचतुर्द्दशीव्रतोक्तमाचरन्ति ।
दृष्टपरिकल्पनान्यायात् । तदुक्तं मत्स्यपुराणे ।
“गर्भिणी सूतिका नक्तं कुमारी च रजस्वला ।
यदाशुद्धा तदान्येन कारयेत् क्रियते सदा ॥”
उपवासाशक्तौ नक्तं भोजनं कुर्य्यात् ।
“उपवासेष्वशक्तानां नक्तं भोजनमिष्यते ।”
इति तद्धृतवचनान्तरात् । अशुद्धा चेत् पूजां
कारयेत् । कायिकञ्चोपवासादिकं सदा शुद्वया
अशुद्धया च स्वयं क्रियते । एवं स्मृ तिपरि-
भाषायां वर्द्धमानोपाध्यायाः । नारदः ।
“दिवाभागे त्रयोदश्यां यदा चतुर्द्दशी भवेत् ।
तत्र पूज्या महासाध्वी देवी सत्यवता सह ॥”
दिवाभागे दण्डद्वयमात्रसत्त्वेऽपि अतएव प्रदोषे
व्रतमाचरन्ति । पूर्व्वाहे तद्विधत्वेऽपि पराहे
त्रिसन्ध्यव्यापित्वे पराह एव त्रिसन्ध्यव्यानीति
वचनात् । यदा तु पूर्व्वापरयोर्न तथाविधा ।
तदापि पराह एव । यथा । ज्योतिषे ।
“चतुर्द्दश्याममावास्या यदा भवति नारद ! ।
उपोष्य पूजनीया सा चतुर्द्दश्यां विधानतः ॥”
सा सावित्री । ततश्चामावास्यायां सावित्रीव्रत-
विधानं शिवा घोरा तथा प्रेतेति वचनञ्चैतत्-
परम् । पराशरः ।
“सावित्रीमर्च्चयित्वा तु फलाहारा परेऽहनि ।
ततश्चाविधवा नारी वित्तभोगान् लभेत सा ॥”
इति तिथ्यादितत्त्वम् ॥
अन्यत् वनपर्व्वीयसावित्रीव्रतकथायां द्रष्टव्यम् ।

सावित्रीसूत्रं, क्ली, (सावित्रीदीक्षाकालिक-

सूत्रम् ।) यज्ञोपवीतम् । इति शब्दरत्नावली ॥

साशयन्दकः, पुं, ज्यैष्ठी । इति केचित् ॥

साशूकः, पुं, कम्बलः । इति हारावली । १५६ ॥

साश्रुधीः, स्त्री, श्वश्रूः । इति त्रिकाण्डशेषः ॥

सास्थिताम्रार्द्धं, क्ली, (सास्थि अस्थिसहितं

ताम्रार्द्धं यत्र ।) कांस्यम् । इति त्रिकाण्ड-
शेषः ॥

सास्ना, स्त्री, (षस स्वप्ने + “रास्नासास्नास्नूणा-

वीणाः” उणा० ३ । १५ । इति नप्रत्ययेन
साधुः । गलकम्बलः । इत्यमरः । २ । ९ । ६३ ॥
(यथा, माघे । ५ । ६२ ।
“रोमन्थमन्थरचलद्गुरुसास्नमासा-
ञ्चक्रे निमीलदलसेक्षणमौक्षकेण ॥”)
पृष्ठ ५/३४४

साहचर्य्यं, क्ली, (सहचरस्य भावः कर्म्म वा ।

सहचर + ष्यञ् ।) सहचरस्य भावः । (यथा,
कुमारे । ३ । ११ ।
“मधुश्च ते मन्मथ ! साहचर्य्या-
दसावनुक्तोऽपि सहाय एव
समीरणो नोदयिता भवेति
व्यादिश्यते केन हुतासनस्य ॥”)
सहगमनम् । सहचरशब्दात् ष्ण्यप्रत्ययेन निष्प-
न्नम् ॥ सहचारः । सामानाधिकरण्यम् ।
एकाधिकरणवृत्तित्वम् । यथा, --
“प्रायशो रूपभेदेन साहचर्य्याच्च कुत्रचित् ।”
इत्यमरः ॥
(सहधर्म्माचरणम् । इति मल्लिनाथः ॥ यथा,
रघुः । १६ । ८७ ।
“तस्याः स्पृष्टे मनुजपतिना साहचर्य्याय हस्ते
माङ्गल्योर्णावलयिनि पुरः पावकस्योच्छिखस्य ॥”)

साहयः, त्रि, (साहयतीति । साहि + “अनुप-

सर्गात् लिम्पविन्देति ।” ३ । १ । १३८ । इति
शः ।) सहनकारयिता । इति व्याकरणम् ॥

साहसं, क्ली, (सहसा बलेन निर्वृत्तम् । सहस् +

“तेन निर्वृ त्तम् ।” ४ । २ । ६८ । इति अण् ।)
दण्डः । इत्यमरः । २ । ८ । २१ ॥ स च त्रिविधः ।
यथा, याज्ञवल्क्यः ।
“साशीतिपणसाहस्रो दण्ड उत्तमसाहसः ।
तदूर्द्धं मध्यमः प्रोक्तस्तदर्द्धमधमः स्मृतः ॥”
इति प्रायश्चित्ततत्त्वम् ॥
बलात्कारकृतकार्य्यम् । इति मेदिनी ॥ (यथा,
“वेगरोधात् क्षयाच्चैव साहसाद्विषमाशनात् ।
त्रिदोषो जायते यक्ष्मा गदो हेतुचतुष्टयात् ॥”
इति माधवकरसंगृहीतरुग्विनिश्चये यक्ष्माधि-
कारे ॥ “साहसादिति साहसो बलवद्विग्रहादि-
रूपः क्षोभहेतुत्वेन कारणत्वम् ॥” इति तट्टी-
कायां विजयरक्षितः ॥ * ॥ दुष्कृतकर्म्म । अवि-
मृष्यकृतिः । (यथा, महाभारते । १ । ४२ । १ ।
“यद्येतत् साहसं तात ! यदि वा दुष्कृतं कृतम्
प्रियं वाप्यप्रियं वा ते वागुक्ता न मृषा भवेत् ॥”)
द्वेषः । इति हेमचन्द्रः ॥ प्रश्चाद्दोषमनालोच्य
करणम् । तत्तु चीर्य्यपरदारगमनादि । इति
मुग्धबोधटीकायां दुर्गादासः ॥ * ॥ साहसमाह
नारदः
मनुष्यमारणं स्तेयं परदाराभिमर्षणम् ।
पारुष्यमनृतञ्चैव साहसं पञ्चधा स्मृतम् ॥”
अत्र सद्य एवोत्तरदापनम् । यथा, --
साहसस्तेयपारुष्यगोऽभिशापात्यये स्त्रियाम् ।
विवादयेत् सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥”
विवादयेत् सद्य एवोत्तरं दापयेत् । इति शूल-
पाणिः ॥ तत्र दासादयोऽपि साक्षिणो भवन्ति
यथा, उशना ।
“दासोऽन्धो वधिरः कुष्ठी स्त्रीबालस्थविरा-
दयः ।
एतेऽप्यनभिसम्बन्धाः साहसे साक्षिणो मताः ॥”
इति व्यवहारतत्त्वम् ॥
(तद्युक्ते, त्रि । यथा, हरिवंशे भविष्यपर्व्वणि ।
३९ । ३७ ।
“न जाने इति यद्ब्रूषे किमतः साहसं वचः ॥”)

साहसः, पुं, (सहसे बलाय हितः । सहस् +

अण् ।) अग्निविशेषः । यथा, --
“प्रायश्चित्ते विधुश्चैव पाकयज्ञे तु साहसः ।
लक्षहोमे च वह्निः स्यात् कोटिहोमे हुता-
शनः ॥”
इति तिथ्यादितत्त्वम् ॥

साहसाङ्कः, पुं, (साहसः एव अङ्कश्चिह्नं यस्य ।)

विक्रमादित्यराजः । इति जटाधरः ॥

साहसिकः, त्रि, (सहसा बलेन वर्त्तते इति ।

सहस् + “ओजःसहोम्भसा वर्त्तते ।” ४ । ४ ।
२७ । इति ठक् ।) मनुष्यमारकः । चौरः ।
पारदारिकः । परुषवादी । अनृतवादी । इति
साहसशब्दार्थदर्शनात् । एते असाक्षिणः ।
यथा नारदः ।
“स्तेनाः साहसिका धूर्त्ताः कितवा योधकाश्च
ये ।
असाक्षिणस्तु ते दुष्टास्तेषु सत्यं न विद्यते ॥”
इति व्यवहारतत्त्वम् ॥
(हठकारी । यथा । “केचित् साहसिका-
स्त्रिलोचनमिति पेठुः ।” इति कुमारटीकायां
मल्लिनाथः । ३ । ४४ ॥)

साहस्रं, क्ली, (सहस्राणां समूहः । सहस्र +

“भिक्षादिभ्योऽण् ।” ४ । २ । ३८ । इति अण् ।)
सहस्रसमूहः इत्यमरः । ३ । २ । ४५ ॥ (यथा,
महाभारते । २ । ५८ । १३ ।
“एतावन्ति च दासानां साहस्राण्युत सन्ति मे ॥”
सहस्रमेव । स्वार्थे अण् ।) सहस्रमात्रम् ।
यथा, --
“हरिस्ते साहस्रं कमलबलिमाधाय पदयो-
र्यदेकोने तस्मिन्निजमुदहरन्नेत्रकमलम् ।
गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा
त्रायाणां रक्षायै त्रिपुरहर जागर्त्ति जगताम् ॥
इति महिम्नस्तवः ॥
(सहस्रेण क्रीतमिति । “शतमानविंशतिक-
सहस्रवसनादण् ।” ५ । १ । २७ । इति अण् ।)
सहस्रेण क्रीते, त्रि ॥ (सहस्रस्येदमिति । अण् ।)
सहस्रसम्बन्धिनि च त्रि ॥ (यथा, विष्णुपादादि-
केशान्तवर्णनस्तोत्रे । १४ ।
“साहस्री वापि संख्या प्रकटमभिहिता सर्व्व-
वेदेषु येषाम् ॥”)

साहस्रः, पुं, (सहस्रमस्यास्तीति । सहस्र + “अण्

च ।” ५ । २ । १०३ । अण् ।) सहस्रसङ्ख्यक-
गजादिना बली । इत्यमरः । २ । ८ । ६२ ॥
(सहस्रविशिष्टे, त्रि । यथा, मनुः । ८ । ३८३ ।
“सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन्
शूद्रायां क्षत्त्रियविशोः साहस्रो वै भवेद्दमः ॥”)

साहायकं, क्ली, (सहायस्य भावः कर्म्म वा ।

सहाम + “योपधात् गुरूपोत्तमात् वुञ् ।”
५ । १ । १३२ । इत्यत्र सहायाद्वेति वक्तव्यम् इत्युक्तेः
पाक्षिको वुञ् ।) साहाय्यम् । सहायस्य भाव
इत्यर्थे कण्प्रत्ययेन निष्पन्नम् ॥ (यथा, रघुः ।
१७ । ५ ।
“स कुलोचितमिन्द्रस्य साहायकमुपेयिवान् ।
जघान समरे दैत्यं दुर्जयं तेन चावधि ॥”)

साहाय्यं, क्ली, (सहायस्य भावः कर्म्म वा । सहाय

+ पक्षे ब्राह्मणादित्वात् ष्यञ् ।) सहायता ।
सहायशब्दात् ष्ण्यप्रत्ययेन निष्पन्नम् ॥ (यथा,
महाभारते । १ । १५५ । १९ ।
“साहाय्येऽस्मि स्थितः पार्थ ! पातयिष्यामि
राक्षसम् ॥”

साहित्यं, क्ली, स्त्री, (सहित + ष्यञ् ।) मेलनम् ।

सहितस्य भावः इत्यर्थे ष्ण्यप्रत्ययेन निर्ष्पन्नम् ॥
परस्परसापेक्षाणां तुल्यरूपाणां युगपदेक-
क्रियान्वयित्वं साहित्यम् । इति श्राद्धविवेकः ॥
तुल्यवदेकक्रियान्वयित्वम् । बुद्धिविशेषविशेषत्वं
वा । इति शब्दशक्तिप्रकाशिका ॥ साहित्यं
एकक्रियान्वयित्वम् । तद्यथा । धवखदिर-
पलाशांश्छिन्धि इत्यत्र धवखदिरपलाशप्रति-
योगिकं यत् साहित्यं तन्निरूपितं यद्वयव-
विभागरूपफलं तज्जनिका या छिदिक्रिया
तदनुकूलकृतिमांस्त्वम् । इति सारमञ्जरी ॥
मनुष्यकृतश्लोकमयग्रन्थविशेषः । स तु भट्टि-रघु-
कुमारसम्भव-माघ-भारवि-मेघदूत-विदग्धमुख-
मण्डनशान्तिशतकप्रभृतयः ॥

साह्यं, क्ली, (सहस्य भावः । सह + ष्यञ् ।)

मेलनम् । सहितत्त्वम् । इति धरणिः ॥ (साहा-
य्यम् । यथा, महाभारते । ५ । ७ । ११ ।
“ततो दुर्य्योधनः कृष्णमुवाच प्रहसन्निव ।
विग्रहेऽस्मिन् भवान् साह्यं मम दातुमिहा-
र्हति ॥”)

साह्यकृत्, पुं, (साह्यं करोतीति । कृ + क्विप् ।)

समभिव्याहारी ॥

साह्वयः, पुं, (आह्वयेन सह वर्त्तमानः ।) मेषादि-

प्राणिद्यूतम् । पशुयुद्धम् । यथा, --
“मेषादिप्राणिद्यूते स्यात् साह्वयश्च समाह्वयः ।”
इति शब्दरत्नावली ॥
(नामयुक्ते, त्रि । यथा, भागवते । १ । ४ । ६ ।
“कथमालक्षितः पौरैः स प्राप्तः कुरुजाङ्गलम् ।
उन्मत्तमूकजडवत् विचरन् गजसाह्वये ॥”)

सिंहः, पुं, (सिञ्चति तेजः पशुषु इति । सिच +

“सिचेः सज्ञायां हनुमौ कश्च ।” उणा० ५ !
६२ । इति कः । अन्त्यादेशो हकारः । नुम् च ।
पृषोदरादित्वात् अन्तविपर्य्यये हिनस्तीति
सिंह इत्यपि भवति ।) स्वनामख्यातपशुः ।
(यथाह कश्चित् ।
“सिंहो बली द्विरदकुञ्जरमांसभोजी
संवत्सरेण कुरुते रतिमेकवारम् ।
पारावतः खलु शिलाकणमात्रभोजी-
कामी भवेदनुदिनं वद कोऽत्र हेतुः ॥”)
तत्पर्य्यायः । मृगेन्द्रः २ पञ्चास्यः ३ हर्य्यक्षः ४
केशरी ५ हरिः ६ । इत्यमरः । २ । ५ । १ ॥
पृष्ठ ५/३४५
पारीन्द्रः ७ श्वेतपिङ्गलः ८ कण्ठीरवः ९ पञ्च-
शिखः १० शैलाटः ११ भीमविक्रमः १२
सटाङ्कः १३ मृगराट् १४ मृगराजः १५ मरुत्-
प्लवः १६ केशी १७ लग्नौकाः १८ करिदारकः १९ ।
इति शब्दरत्नावली ॥ महावीरः २० श्वेतपिङ्गः २१
गजमोचनः २२ मृगारिः २३ । इति जटाधरः ॥
इभारिः २४ नखरायुधः २५ महानादः २६
मृगपतिः २७ । इति हेमचन्द्रः ॥ पञ्चमुखः २८
नखी २९ मानी ३० क्रव्यादः ३१ मृगाधिपः ३२
शूरः ३३ विक्रान्तः ३४ द्विरदान्तकः ३५ बहु-
बलः ३६ दीप्तः ३७ बली ३८ विक्रमी ३९ दीप्त-
पिङ्गलः ४० । तन्मांसगुणाः । अर्शःप्रमेहजठरा-
मयजाड्यनाशित्वम् । इति राजनिर्घण्टः ॥
अपि च ।
“सिंहव्याघ्रवृका ऋक्षतरक्षुद्वीपिनस्तथा ।
वभ्रु जम्बु कमार्जारा इत्याद्यास्तु गुहाशयाः ॥
गुहाशया वातहरा गुरूष्णमधुराश्च ते ।
स्निग्धा बल्या हिता नित्यं नेत्रगुह्यविकारि-
णाम् ॥”
इति भावप्रकाशः ॥ * ॥
पदान्ते श्रेष्ठार्थवाचकः । इत्यमरः । ३ । १ । ५९ ॥
(यथा, रामायणे । २ । ७३ । ७ ।
“क्व यास्यसि महाराज ! हित्वेमं दुःस्वितं
जनम् ।
हीनं पुरुषसिंहेन रामेणाक्लिष्टकर्म्मणा ॥”)
अर्हतां ध्वजः । इति हेमचन्द्रः ॥ रक्तशिग्रुः ।
इति राजनिर्घण्टः ॥ (यथा, सुश्रुते । ४ । ९ ।
“तुत्थालकटुकाव्योषसिंहार्कहयमारकाः ॥”)
मेषादिद्वादशराश्यन्तर्गतपञ्चमराशिः । तत्-
पर्य्यायः । लेयः २ । इति सत्कृत्यमुक्तावली ॥
तस्याधिष्ठात्री देवता सिंहः । स च मघा-
पूर्व्वफल्गुनी-समुदायोत्तरफल्गुनी-प्रथमपादेन
भवति । अग्निराशिः । पीतवर्णः । रूक्षः । एवं
धूम्रवर्णः । पित्तप्रकृतिः । पूर्व्वदिक्स्वामी ।
पर्व्वतचारी । क्षत्त्रियवर्णः । क्रूरः । महाशब्दः ।
अल्पसन्तानः । अल्पस्त्रीसङ्गश्च । तत्र जात-
फलम् । क्रोधी । शीघ्रगतिः । हास्यबाणिः ।
अतिवक्ता । चञ्चलः । शीतलः । मत्स्यप्रियश्च ।
इति बृहज्जातकादयः ॥ * ॥ मेषादिद्वादश-
लग्नान्तर्गतपञ्चमलग्नम् । तत्र जातफलम् ।
“सिंहलग्ने समुद्भूतो भोगी शत्रुविमर्द्दनः ।
स्वल्पोदरोऽल्पपुत्त्रश्च सोत्साही गजविक्रमः ॥”
इति कोष्ठीप्रदीपः ॥

सिंहकेलिः, पुं, (सिंहस्येव केलिर्यस्य ।) मञ्जु-

घोषः । जिनविशेषः । इति त्रिकाण्डशेषः ॥

सिंहकेशरः, पुं, (सिंहस्येव केशरो यस्य ।)

वकुलः । इति त्रिकाण्डशेषः ॥ सिंहस्य जटा
च ॥

सिंहतलः, पुं, (सिंहस्येव तलमत्र । यद्वा, सिंह-

तलः । पृषोदरादित्वात् साधुः ।) कृताञ्जलिः ।
करद्वययोजनम् । इत्यमरटीकायां रामाश्रमः ।
२ । ६ । ८५ ॥

सिंहतुण्डः, पुं, (सिंहस्य तुण्डमिव पुष्पमस्य ।)

सेहुण्डवृक्षः । इति राजनिर्घण्टः ॥ (अस्य
पर्य्यायो यथा, --
“सेहुण्डः सिंहतुण्डः स्यात् वज्री वज्रद्रुमोऽपि च
सुधासमन्तदुग्धा च स्नुक् स्त्रियां स्यात्
स्नुही गुडा ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥
सिंहस्य तुण्डमिव तुण्डमस्य । मत्स्यविशेषः ।
यथा, मनुः । ५ । १६ ।
“पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः ।
राजीवान् सिंहतुण्डांश्च सशल्कांश्चैव सर्व्वशः ॥”
सिंहमुखे, क्ली ॥)

सिंहद्वारं, क्ली, (सिंहचिह्नितं द्वारमिति मध्य-

पदलोपिकर्म्मधारयः ।) प्रवेशद्वारम् । तत्-
पर्य्यायः । प्रवेशनम् २ । इति हेमचन्द्रः ॥
(यथा, कथासरित्सागरे । ४३ । १७५ ।
“सिंहद्वारे युवा देवि दृष्टोऽस्माभिर्महाब्रती ।
सद्वितीयोऽपि यो धत्ते सौन्दर्य्येणाद्वितीयताम् ॥”)

सिंहध्वनिः, पुं, (सिंहस्य ध्वनिः ।) सिंहशब्दः ।

सिंहनादसदृशशब्दः । यथा, --
“तुषारसंघातशिलाः क्षुराग्रैः
समुल्लिखन् दर्पकलः ककुद्वान् ।
दृष्टः कथञ्चिद्गवयैर्विविग्नै-
रसोढसिंहध्वनिरुन्ननाद ॥”
इति कुमारसम्भवम् ॥

सिंहनादः, पुं, (सिंहस्येव नादः ।) योधानां

रणोत्साहजरवः । तत्पर्य्यायः । क्षेड्वा २ । इत्य-
मरः । २ । ८ । १०७ ॥ गजयूथदर्शनात् तद्भ-
ङ्गाय यथा सिंहस्य नादस्तथा परबलभङ्गाय
स्वोत्साहविवृद्धये च यो रावः सः । सिंहस्येव
नादः सिंहनादः । इति भरतः ॥ (यथा आर्य्या-
सप्तशत्याम् । ७०० ।
“कविसमरसिहनादः स्वरानुनादः सुधैक-
संवादः ।
विद्वद्विनोदकन्दः सन्दर्भोऽयं मया सृष्टः ॥”
महादेवः । इति महाभारतम् । १३ । १७ ।
११० ॥ * ॥ सिंहस्य नादः ।) सिंहशब्दश्च ॥

सिंहनादकः, पुं, (सिंह इव नदतीति नद +

ण्वुल् ।) वुक्कारः । इति हारावली । १९४ ॥
सिङ्गा इति भाषा ॥

सिंहनादिका, स्त्री, सिंहमपि नादयतीति । नद

+ णिच् + ण्वुल् । टापि अत इत्वम् ।) दुरा-
लभा । इति शब्दचन्द्रिका ॥

सिंहपर्णी, स्त्री, सिंहस्य शिग्रोः पर्णमिव पर्ण-

मस्याः । ङीष् ।) वासकः । इति जठाधरः ॥

सिंहपुच्छिका, स्त्री, (सिंहपुच्छी + स्वाथे कन् ।)

चित्रपर्णिका । इति रत्नमाला ॥ क्षुद्रचाकुलिया
इति भाषा ॥

सिंहपुच्छी, स्त्री, (सिंहस्य पुच्छ इव पुष्पमस्याः ।

ङीष् ।) चित्रपर्णिका । पृश्निपर्णी । इत्यमरः ।
२ । ४ । ९३ ॥ माषपर्णी । इति रत्न-
माला ॥

सिंहपुष्पी, स्त्री, (सिंहस्य पुच्छ इव पुष्पमस्याः ।

ङीष् ।) पृश्निपर्णी । इति राजनिर्घण्टः ॥

सिंहमुखी, स्त्री, (सिंहस्य मुखमिव पुष्पमस्याः ।

ङीष् ।) वासकः । इति राजनिर्घण्टः ॥

सिंहयाना, स्त्री, (सिंहो यानं वाहनं यस्याः ।)

दुर्गा । इति हेमचन्द्रः ॥

सिंहरथा, स्त्री, (सिंह एव रथो यस्याः ।) दुर्गा ।

इति शब्दरत्नावली ॥ (यथा, हरिवंशे । १७६ ।
१७ ।
“वराङ्गनां सिंहरथां बहुरूपां वृषध्वजाम् ॥”)

सिंहलं, क्ली, (सिंहलो देशः प्रभवत्वेनास्त्यस्येति ।

अच् ।) रङ्गम् । इति हेमचन्द्रः ॥ रीतिः ।
त्वचम् । इति राजनिर्घण्टः ॥

सिंहलः, पुं, स्त्री, (सिंहं लाति प्राप्नोतीति ।

ला + कः ।) देशविशेषः । शिलोन इति
ख्यातः । यथा, --
“दक्षिणेऽवन्तिमाहेन्द्रमलया ऋष्यमूककाः ।
चित्रकूटमहारण्यकाञ्चीसिंहलकोङ्कणाः ॥”
इति ज्योतिस्तत्त्वम् ॥
(अयञ्च जम्बुद्वीपस्य अष्टप्रमिद्धद्वीपानामन्य-
तमः । यथा, भागवते । ५ । १९ । २९ -- ३० ।
“जम्बुर्द्वपस्य च राजन् उपद्वीपानष्टौ हैक
उपदिशन्ति सागरात्मजैरश्वान्वेषण इमां महीं
परितो निखनद्भिरुपकल्पितान् । तद्यथा
स्वर्णप्रस्थश्चन्द्रशुक्ल आवर्त्तनो रमणको मन्द-
हरिणः पाञ्चजन्यः सिंहलो लङ्गेति ॥” * ॥
तद्देशवासिनि, पुं, भूम्नि । यथा, महाभारते ।
१ । १७६ । ३५ ।
“पौण्ड्रान् किरातान् यवनान् सिंहलान्
वर्व्ववान् खशान् ।
ससर्ज्जफेनतः सा गौर्म्लेच्छान् बहुविधानपि ॥”)

सिंहलस्था, स्त्री, (सिंहले तिष्ठति या । स्था +

कः ।) सैंहली । इति राजनिर्घण्टः ॥ सिंहल-
देशवासिनी च ॥

सिंहलास्थानः, पुं, (सिंहल आस्थानं यस्य ।)

तालवृक्षसदृशवृक्षविशेषः । यथा, --
“प्रोत्फलः सिंहलास्थानश्छडी पिञ्जा छटापि
च ॥”
इति शब्दमाला ॥

सिंहलीलः, पुं, (सिंहस्य लीलेव लीला यत्र ।)

रतिबन्धविशेषः । तस्य लक्षणं यथा, --
“लिङ्गोपरिस्थिता नारी भूमौ दत्त्वा पदद्वयम् ।
हृदये दत्तहस्ता च सिंहलीलः प्रकीर्त्तितः ॥
लिङ्गोपरिस्थिता नारी कान्तोरुस्थपदद्वया ।
हृदये दत्तहस्ता च सिंहलीलोऽप्यसावपि ॥”
इति रतिमञ्जरी ॥

सिंहवाहिनी, स्त्री, सिंहरूपो वाहो वाहन-

मस्त्यस्या इति । इनि ।) दुर्गा । यथा, --
“सिंहमारुह्य कल्पान्ते निहतो महिषो
यतः ।
महिषघ्नी ततो देवी कथ्यते सिंहवाहिनी ॥”
इति देवीपराणे ४५ अध्यायः ॥
पृष्ठ ५/३४६

सिंहविक्रान्तः, पुं, (सिंह इव विक्रान्तः ।) अश्वः ।

इति हारावली । ५२ । शब्दमाला च ॥ सिंह-
तुल्यविक्रमविशिष्टे, त्रि ॥

सिंहविन्ना, स्त्री, (सिंह इव विन्ना विज्ञाता ।)

मासपर्णी । इति राजनिर्घण्टः ॥

सिंहसंहननः, त्रि, (सिंहस्येव संहननं अवयवो

यस्य ।) वराङ्गरूपोपेतः । इत्यमरः । ३ । १ । १२ ॥
प्रत्येकमवयवशुद्ध्या सुन्दरः । सिंहसंहननः स
स्याद्यो हि सर्व्वाङ्गसुन्दरः । इति कोषान्तरम् ॥
सिंहस्येव संहननं देहोऽस्य सिंहसंहननः ।
रूढिशब्दोऽयं यथाकथञ्चिदन्वयः । इति भरतः ॥
(सिंहस्य संहननम् ।) सिंहनाशने, क्ली ॥

सिंहा, स्त्री, (सिञ्चतीति । सिञ्च + कः । अन्त्या-

देशो हकारः । नुम् च । टाप् ।) नाडी । इति
राजनिर्गण्टः ॥

सिंहाणं, क्ली, लौहमलम् । इत्यमरटीका । २ ।

१ । ९८ ॥

सिंहानं, क्ली, लौहमलम् । इत्यमरः । २ । १ । ९८ ॥

तस्य रूपान्तराणि यथा । शिंघाणम् २ सिंहाणम्
३ सिंघाणम् ४ । इति तट्टीका ॥ नासिकामलम्
सिक्नी इति भाषा । तत्पर्य्यायः । सिंहाणकम् ।
२ सिंघाणम् ३ सिंघणम् ४ । इति शब्दरत्ना-
वली ॥ कफः ५ श्लेष्मा ६ खेटः ७ । इति जटा-
धरः ॥

सिंहासनं, क्ली, (सिंहचिह्नितमासनम् ।) स्वर्ण-

मयराजासनम् । इत्यमरः । २ । ८ । ३२ ॥ अथ
सिंहासनयुक्तिः ।
“राज्ञो वरासनं नाम श्रीसिंहासनमुच्यते ॥
शुभे मुहूर्त्ते शुभमासवर्षे
सुवारवेलातिथिचन्द्रयोगे ।
काले निरुत्पातनिरीतिभावे
सिंहासनावस्थविधिं वदन्ति ॥
स्थिरराशिस्थिते भानौ चन्द्रे च स्थिरभोदिते ।
आसनारम्भमिच्छन्ति गृहारम्भोऽपि येषु च ॥”
एतेन गृहारम्भसिंहासनयोरारम्भः । तत्र क्रमः ।
“बाणवेदाग्निपक्षाणि सोपानानि युगैः क्रमात्
चत्वारिंशत्तथा त्रिंशत् विंशतिः षोडशैव च ॥
सिंहान्वितानि ज्ञे यानि चरणानि युगः क्रमात्
पद्मः शङ्खो गजो हंसः सिंहो भृङ्गो मृगो हयः ॥
अष्टौ सिंहासनानीति नीतिशास्त्रविदो विदुः ।
आदित्यादिदशाजानां भूपतीनां यथाक्रमम् ॥
राज्ञः स्वहस्तैरष्टाभिरायामपरिणाहयोः ।
राजपात्रमिदं नाम सोपानं पुरुषोन्नतम् ॥
तदर्द्धमानं तन्मध्ये राजासनमुदाहृतम् ।
अर्द्वोन्नतमिदं रम्यं प्रोक्तं कलिमहीभुजाम् ।
दिगष्टर्द्ध्यब्धिकोणः स्याद्ब्रह्मादीनां यथा-
यथम् ॥”
अथाष्टानां लक्षणानि ।
“गम्भारीकाष्ठघटितः पद्ममालोपचित्रितः ।
पद्मरागविचित्राङ्गः शुद्धः काञ्चनसंवृतः ॥
चरणाग्रे पद्मकापात् पद्मरागविचित्रिताः ।
दिक्ष्त्रष्टौ पुत्त्रिका राजद्वादशाङ्गलिसम्मिताः ॥
राजासनं चतस्रश्च एवं द्वादशपुत्त्रिकाः ।
रत्नैश्च नवभिः कार्य्यं निर्म्माणं चान्तरान्तरा ॥
रक्तवस्त्रावृतं ह्येतत् पद्मसिंहासनं मतम् ।
अत्रोषित्वा नरपतिः प्रतापमतिविन्दति ॥ १ ॥
भद्रेन्द्रकाष्ठघटितः शङ्खमालोपशोभितः ।
शुद्धस्फटिकचित्राङ्गः शुद्धरूप्योपशोभितः ॥
चरणाग्रे शङ्खनाभिः पुत्त्रिकाः सप्तविंशतिः ।
स्थाने स्थाने विधातव्याः शुद्धस्फटिकसस्कृताः ।
शुक्लपट्टावृतं ह्येतत् शङ्खसिंहासनं मतम् ॥ २ ॥
पनसेनोपघटितो गजमालोपशोभितः ।
विद्रुमैरपि वैदूर्य्यैः काञ्चनेनापि शोभितः ॥
चरणाग्रे गजशिरः पुच्छादेकैकपुत्त्रिका ।
माणिक्यरचिता रक्तवस्त्रादिकविभूषणम् ।
गजसिंहासनं नाम साम्राज्यफलदायकम् ॥ ३ ॥
शालकाष्ठेन घटितो हंसमालोपशोभितः ।
पुष्परागैः काञ्चनेन कुरुविन्दैश्च चित्रितः ॥
चरणाग्रे हंसरूपं पुत्त्रिकास्त्वे कविंशतिः ।
गोमेदकोपघटितापीतवस्त्रविभूषणम् ।
हंससिंहासनं नाम सर्व्वानिष्टविनाशनम् ॥ ४ ॥
चन्दनेनोपघटितः सिंहमालोपभूषितः ।
शुद्धहीरकचित्राङ्गः शुद्धकाञ्चननिर्म्मितः ॥
चरणानां सिंहलेखः पुत्त्रिकाश्चैकविंशतिः ।
मुक्ताशुक्तिभिरन्यैश्च निर्म्मलैरेव भूषणम् ॥
शुद्धशुण्डावृतं ह्येतत् सिंहसिंहासनं मतम् ।
अत्रोषित्वा नरपतिः कृत्स्नां साधयति
क्षितिम् ॥ ५ ॥
भृङ्गमालोपसहितं शुद्धचम्पककल्पितम् ।
शुद्धैर्म्मरकतैर्युक्तं पादाग्रे पद्मकोषिकाः ॥
द्वाविंशतिः पुत्त्रिकास्तु नीलवस्त्रादिभूषणम् ।
भृङ्गसिंहासनं नाम शत्रुक्षयजयप्रदम् ॥ ६ ॥
निम्बकाष्ठेन घटनामृगमालोपशोभितम् ।
इन्द्रनीलैर्म्महानीलैः काञ्चनेनापि चित्रितम् ॥
चरणाग्रे मृगशिरश्चत्वारिंशश्च पुत्त्रिकाः ।
नीलवस्त्रादियुक्तन्तु मृगसिंहासनं मतम् ।
लक्ष्मीविजयसम्पत्तिर्नैरुज्यपदमुत्तमम् ॥ ७ ॥
केशरेणोपघटितं हयमालोपशोभितम् ।
समस्तवस्त्रैर्भूषाश्च पुत्त्रिकाः पञ्चसप्ततिः ॥
चरणाग्रे हयशिरश्चित्रवस्त्रादिभूषणम् ।
हयसिंहासनं नाम लक्ष्मीविजयवर्द्धनम् ॥ ८ ॥
इत्येतत् कथितं सारं महासिंहासनाष्टकम् ।
यथा भोजेन लिखितं यथा चान्यै श्च पण्डितैः ॥
एतस्यातिक्रमं दम्भाद्यः कुर्य्यात् पृथिवोपतिः
अचिरादेव कुरुते तस्य मृत्युरतिक्रमम् ॥
परासनस्थो यो राजा यो राजा च निरासनः ।
स परैर्हन्यते सिंहैरिव मत्तगजाधिपः ॥
स्वलग्नमित्रासनमध्यसंस्थिति-
र्न दुष्यतीति प्रवदन्ति तज्ज्ञाः ॥”
इति युक्तिकल्पतरुः ॥ * ॥
चतूराजीक्रीडायः जयविशेषः । यथा, तिथ्यादि-
तत्त्वे ।
“अन्यद्राजपदं राजा यदा यातो युधिष्ठिर ।
तदा सिंहासनं तस्य भण्यते नृपसत्तम ॥
राजा च नृपतिं हत्वा कुर्य्यात् सिंहासनं यदा
द्विगुणं वाहयेत् पण्यमन्यथैकगुणं भवेत् ॥
मित्रसिंहासनं पार्थ यदा रोहति भूपतिः ।
तदा सिंहासनं नाम सर्व्वं नयति तद्वलम् ॥
यदा सिंहासनं कर्त्तुं राजा षष्ठपदाश्रितः ।
तदा घातेन हन्तव्यो बलेनापि सुरक्षितः ॥” * ॥
योगासनविशेषः । यथा, हठप्रदीपे ।
“गुल्फौ च वृषणस्याधः सीवन्धाः पार्श्वयोः
क्षिपेत् ।
दक्षिणे सव्यगुल्फन्तु दक्षगुल्फन्तु सव्यके ॥
हस्तौ च जान्वोः संस्थाप्य स्वाङ्गु लीः संप्रसार्य्यच
व्यात्तवक्त्रो निरीक्षेत नासाग्रं सुसमाहितः ॥
सिंहासनं भवेदेतत् पूजितं योगिभिः सदा ।
बन्धत्रयस्य सन्धानं कुरुते चासनोत्तमम् ॥”

सिंहासनः, पुं, (सिंहस्य आसनं उववेशनमिव

आसनं यत्र ।) षोडशरतिबन्धान्तर्गतचतुर्द्दश-
बन्धः । तस्य लक्षणं यथा, --
“स्वजङ्घाद्वयबाहू च कृत्वा योषापदद्वयम् ।
स्तनौ धृत्वा रमेत् कामी बन्धः सिंहासनो मतः ॥”
इति रतिमञ्जरी ॥

सिंहासनचक्रं, क्ली, (सिंहासनमिव चक्रम् ।)

सप्तविंशति-नक्षत्राङ्कित-नराकार-चक्र-त्रयम् ।
यथा, --
“अथातः संप्रवक्ष्यामि चक्रं सिंहासनत्रयम् ।
सप्तविंशतिनक्षत्रैरेकैकञ्च नवात्मकम् ॥
अश्विनीमघमूलाद्यं पञ्चनाडीविभेदतः ।
अश्विन्याद्युत्तरे भागे मघाद्यं पूर्व्वतः स्थितम् ।
मूलाद्यं दक्षिणे भागे ज्ञातव्यं नृपतित्रयम् ।
इतरेषु च राज्येषु नृपनामर्क्षतो वदेत् ॥
शुभाशुभमिदं सर्व्वं यत्र यस्य शनिः स्थितः ।
नाडिकापञ्चवेधेन एकैकस्यासनं भवेत् ॥
आधारमासनं पट्टं सिहं सिंहासनं तथा ।
ग्रहैर्व्वेधवशाज्ज्ञेयं सौम्यः क्रूरैः शुभाशुभम् ॥
ऋक्ष आधारगे राजा अभिषिक्तो य आसने ।
पराधीनगतं राज्यं कुरुते नात्र संशयः ॥
आसनस्थेन ऋक्षेण नीतियुक्तो भवेन्नृपः ।
प्रधानपुरुषो देवः प्रजाशान्तिकरो भवेत् ॥
पट्ट ऋक्षे यदा राजा उपविष्टो नृपासने ।
पूर्व्वराजस्थितेस्तुल्यश्चिरं पालयते महीम् ॥
सिंहरूपी भवेद्राजा सिंहर्क्षेणासने स्थितः ।
संग्रामस्य प्रियो नित्यमसाध्यो मन्त्रिमण्डलैः ॥
सिंहासनगते धिष्ण्ये तेजस्वी भीषणाकृतिः ।
चलच्चित्तो महाक्रोधी प्रजापीडाकरो नृपः ॥
तत्कालेन्दुगते ऋक्षे क्रूरनिर्व्वेधनाडिके ।
शुभावस्था शुभे लग्ने संस्थाप्यो नृप आसने ॥
ईदृशे च समायोगे उपविष्टो य आसने ।
उच्छाद्य शत्रुसंघातमेकच्छत्रं करोति सः ॥
क्रू रग्रहगतां नाडीमुपविष्टो य आसने ।
बन्धनं भूमिनाशश्च तथा मृत्युः प्रजायते ॥
आधार ऋक्षगः सौरिरनावृष्टं करोति च ।
दुर्मिक्षं रौरवं तत्र प्रजापीडा च जायते ॥
आसने च यदा सौरिर्युद्धे भङ्गप्रदो भवेत् ।)
पृष्ठ ५/३४७
अथवा व्याधिपीडा च मनोदुःखं प्रजायते ॥
पट्ट ऋक्षे यदा सौरिः पट्टराज्ञी विनश्यति ।
प्रियो वाथ कुमारो वा मन्त्रिबन्धुक्षयोऽपि वा ॥
सिंहे सिंहासने वापि यदा तिष्ठति सूर्य्यजः ।
तदा मृत्युर्न सन्देहो यदि शक्रसमो नृपः ॥
शनिराह्वर्कमाहेया यदा चन्द्रेण संयुताः ।
यस्यासनगता एते तस्य राज्ञो भयङ्कराः ॥
क्रूरयुक्तोऽथ वक्रस्तु क्रूरनाडीगतोऽपि वा ॥
आसने चन्द्रयोगेन कालरूपी शनैश्चरः ॥
एवं शुभफलं दद्याद्दे वमन्त्री न संशयः ।
करोति विपुलं राज्यं यस्यासनगतो गुरुः ॥”
इति ज्योतिस्तत्त्वम् ॥

सिंहास्यः, पुं, (सिंहस्य आस्यमिव पुष्पमस्य ।)

वासकः । इत्यमरः । २ । ४ । १०३ ॥ सिंह-
तुल्यमुखे, त्रि ॥

सिंहिका, स्त्री, कश्यपपत्नी । राहुमाता । यथा,

“कश्यपस्य गृहिणी तु सिंहिका
राहुवास्तुतनयावजीजनत् ।
पूर्व्वजो हरिनिकृत्तकन्धरो
दैवतैरवरजो निपातितः ॥”
इति वास्तुयागतत्त्वम् ॥
(पीठस्था देवीविशेषः । यथा, देवीभागवते ।
७ । ३० । ७५ ।
“सिंहिका कृतशौचे तु कार्त्तिके त्वतिशाङ्करी ॥”

सिंहिकासूनुः, पुं, (सिंहिकायाः सूनुः पुत्त्रः ।

राहुः । इति शब्दरत्नावली । वास्तुपुरुषः ।
इति वास्तुयागतत्त्वम् ॥

सिंही, स्त्री, (सिंह + ङीष् ।) सिंहपत्नी ।

(यथा, कथासरित्सागरे । ६ । १०२ ।
“अयं स वर्द्धि तोऽन्यासां सिंहीनां पयसा
मया ॥”)
वार्त्ताकी । इत्यमरः । २ । ४ । ११४ ॥ कण्ट-
कारी । वासकः । इति मेदिनी ॥ बृहती ।
राहुमाता । इति विश्वः ॥ मुद्गपर्णी । इति
राजनिर्घण्टः ॥

सिंहीलता, स्त्री, (सिंह्याः लता ।) बृहती । इति

भावप्रकाशः ॥

सिक, सेचने । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०

सक०-सेट् ।) दन्त्यादिः । सिकता । इति
दुर्गादासः ॥ सौत्रधातुरयम् ॥

सिकता, स्त्री, (सिक सेचने + बाहुलकात् अतच् ।

सिकतिलः । वालुकायुक्तभूमिः । इति मेदिनी ॥
ते, १६९ ॥ वालुका । इति राजनिर्घण्टः ॥

सिकताः, स्त्री, भूम्नि, (सिक + अतच् ।) वालुका ।

इति मेदिनी । ते, १६९ ॥ अमरश्च । ३ । ३ । ७३ ॥
(यथा, महाभारते । २ । ७६ । १६ ।
“सिकता वपन् सव्यसाचो राजानमनुगच्छति
असक्ताः सिकतास्तस्य यथा संप्रति भारत ।
असक्तं शरवर्षाणि तथा मोक्ष्यति शत्रुषु ॥”)

सिकतामयं, क्ली, (सिकतात्मकम् । मयट् ।)

वालुकामयतटम् । तत्पर्य्यायः । सैकतम् २ ।
इत्यमरः । १ । १० । ९ ॥

सिकतावान्, [न्] त्रि, (सिकताः सन्त्यत्रेति ।

मतुप् । मस्य वः ।) वालुकाबहुलदेशः । तत्-
पर्य्यायः । सिकता २ सिकतिलः ३ सैकतः ४ ।
इत्यमरभरतौ । २ । १ । ११ ॥।

सिकतिलः, त्रि, (सिकताः सन्त्यत्रेति । सिकता +

“देशे लुबिलचौ च ।” ५ । २ । १०५ । इति
इलच् ।) सिकतावान् । इत्यमरटीकायां
भरतः । २ । १ । ११ ॥

सिक्, [च्] स्त्री, (सिच्यते इति । सिच् + क्विप् ।)

वस्त्रम् । इति हेमचन्द्रः ॥ (जालम् । यथा,
भागवते । ६ । १२ । ८ ।
“लोकाः सपाला यस्येमे श्वसन्ति विवशा वशे ।
द्विजा इव सिचाबद्धाः स काल इह कारणम् ॥”)

सिक्तः, त्रि, (सिच् + क्तः ।) सेकाश्रयः कृत-

सेचनः । यथा, वायुपुराणे गयापद्धतौ ।
“आम्राश्च सिक्ताः पितरश्च तृप्ता
एका क्रिया द्व्यर्थकरी प्रसिद्धा ॥”

सिक्थं, क्ली, (सिञ्चति क्षरतीति । सिच क्षरणे +

“पातॄतुदिवचीति ।” उणा० २ । ७ । इति
थक् ।) मधूच्छिष्टम् । इति मेदिनी ॥ मोम
इति भाषा ॥ (यथा, --
“तिक्तासिक्थनिशायष्टीनक्ताह्वफलपत्रकैः ।
पटोलमालतीनिम्बपत्रैर्व्रण्यं घृतं स्मृतम् ॥”
इति तिक्ताद्यघृतम् ॥
इति वैद्यकचक्रपाणिसंग्रहे व्रणशोथाधिकारे ॥)
नीली । इति हेमचन्त्रः ॥

सिक्थः, पुं, (सिच + थक् ।) भक्तपुलाकः ।

(सिटी इति भाषा ॥ यथा, --
“ -- पेया सिक्थसमन्विता ॥”
इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ॥)
ग्रासः । इति मेदिनी ॥ (यथा, कथासरित्सागरे ।
१०८ । ७७ ।
“भक्तसिक्थद्वयं प्राप्य पाकभाण्डादभक्षयम् ॥”)

सिक्थकं, क्ली, (सिक्थमेव । स्वार्थे कन् ।)

मधूच्छिष्टम् । इत्यमरः । २ । ९ । १०७ ॥ (पुं,
भक्तपुलाकः । सिटी इति भाषा । यथा, --
“सिक्थकैरहितो मण्डः पेया सिक्थसमन्विता
यवागूबहुसिक्था स्याद्विलेपी विरलद्रवा ॥”
इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ॥
यथा च बृहत्सं हितायाम् । २६ । ८ ।
“दन्तैर्नागा गोहयाद्यश्च लोम्ना
हेम्ना भूपाः सिव्थकेन द्विजाद्याः ।
तद्वद्देशा वर्षमासा दिशश्च
शेषद्रव्याण्यात्मरूपस्थितानि ॥”)

सिक्ष्यः, पुं, स्फटिकः । इति केचित् ॥

सिङ्घणं, क्ली, नासिकामलम् । इति शब्दरत्ना-

वली ॥ सिक्नी इति भाषा ॥

सिङ्घाणं, क्ली, नासिकामलम् । इति शब्दरत्ना-

वली ॥

सिङ्घाणकं, क्ली, नासिकामलम् । इति शब्दारत्ना-

वली ॥ (यथा, वाभटे उत्तरस्थाने २९ अध्याये ।
“अजस्रं पिच्छिलं पीतं पक्वं सिङ्घाणकं घनम् ॥”

सिङ्घिनी, स्त्री, नासिका । इति हलायुधः ॥

सिचयः, पुं, (सिचं सिञ्चनमेति प्राप्नोतीति ।

इन् + अच् ।) वस्त्रम् । इति हेमचन्द्रः ॥
(यथा, राजतरङ्गिण्याम् । १ । १ ।
“भूषाभोगिफणारत्नरोचिःसिचयचारवे ।
नमः प्रलीनमुक्ताय हरकल्पमहीरुहे ॥”)
जीर्णवस्त्रम् ॥ इति त्रिकाण्डशेषः ॥

सिञ्चन्, [त्] त्रि, (सिञ्चतीति । सिच् + शतृ ।)

सेचनकर्त्ता ॥

सिञ्चिता, स्त्री, (सिञ्च + णिच् + क्तः । टाप् ।)

पिप्पली । इति शब्दचन्द्रिका ॥

सिञ्जा, स्त्री, अलङ्कारध्वनिः । इति केचित् ॥

तालव्यशकारादिः साधुपाठः ॥

सितं, क्ली, (सितः शुक्लवर्णोऽस्यास्तीति । अच् ।)

रौप्यम् । मूलकम् । इति राजनिर्घण्टः ॥
चन्दनम् । इति रत्नमाला ॥ (तत्तु शुक्लचन्द-
नम् । यथा, --
“सितं मलयजं शीतं गोशीर्षसितचन्दनम् ॥”
इति गारुडे २०८ अध्याये ॥)

सितः, पुं, (सिनोतीति । सि बन्धने + “अञ्जिधृ-

सिभ्यः क्तः ।” उणा० ३ । ८९ । इति क्तः ।)
शुक्लवर्णः । इत्यमरः । ३ । ३ । ८० ॥ शुक्रा-
चार्य्यः । इति शब्दरचावली ॥ शरः । इति
नानार्थध्वनिमञ्जरी ॥

सितः, त्रि, (सितः शुक्लवर्णोऽस्यास्तीति । अच् ।)

शुक्लवर्णयुक्तः । इत्यमरः । ३ । ३ । ७९ ॥ (यथा,
माघे । १ । २५ ।
सितं सितिम्ना सुतरां मुनेर्वपु-
र्विसारिभिः सौधमिवाथ लम्भयन् ॥” * ॥
सो + क्तः ।) समाप्तः । निबद्धः । ज्ञातः । इति
विश्वः ॥

सितकण्टा, स्त्री, (सितः शुक्लः कण्टो यस्याः ।)

श्वेतकण्टकारी । इति राजनिर्घण्टः ॥

सितकण्टारिका, स्त्री, श्वेतकण्टकारी । इति

राजनिर्घण्टः ॥

सितकण्ठः, पुं, (सितः कण्ठो यस्य ।) दात्यूह-

पक्षी । इति शब्दरत्नावली । श्वेतकण्ठयुक्ते,
त्रि ॥

सितकरः, पुं, (सितः शुक्लः करो यस्य ।) कर्पूरः ।

इति राजनिर्घण्टः ॥ चन्द्रश्च ॥

सितकर्णी, स्त्री, (सितः कर्ण इव पुष्पमस्याः ।

ङीष् ।) वासकः । इति राजनिर्घण्टः । (सित-
पर्णी इति क्वचित् पाठः ॥ गुणादयोऽस्या
वासकशब्दे ज्ञातव्याः ॥)

सितकुञ्जरः, पुं, (सितः कुञ्जरो यस्य ।) इन्द्रः ।

(सितः शुक्लः कुञ्जरः । इन्द्रहस्ती । इति
केचित् ॥

सितगुञ्जा, स्त्री, सिता गुञ्जा ।) श्वेतगुञ्जा ।

इति राजनिर्घण्टः ॥

सितचिह्नः, पुं, (सितानि चिह्नानि यत्र ।) वालुका-

गडः । इति हारावली ॥ वेलिया मत्स्य इति
भाषा ॥
पृष्ठ ५/३४८

सितच्छत्रं, क्ली, (सितं छत्रम् ।) राजच्छत्रम् ।

इति भूरिप्रयोगः ॥

सितच्छत्रा, स्त्री, (सितं छत्रमिव पुष्पमस्याः ।)

शतपुष्पा । इत्यमरः । २ । ४ । १५२ ॥ (विवृति-
रस्याः शतपुष्पाशब्दे द्रष्टव्या ॥)

सितच्छत्रितः, पुं, (सितच्छत्रं जातमस्येति ।

इतघ् ।) श्वेतच्छत्रयुक्तः । यथा, नैषधे ।
१ । १ ।
“निपीय यस्य क्षितिरक्षिणः कथां
तथाद्रियन्ते न बुधाः सुधामपि ।
नलः सितच्छत्रितकीर्त्तिमण्डलः
स राशिरासीन्महसां महोज्ज्वलः ॥”

सितच्छदः, पुं, (सितौ छदौ पक्षौ यस्य ।) हंसः ।

इति हेमचन्द्रः ॥

सितच्छदा, स्त्री, (सितश्छदो यस्याः ।) श्वेत-

दूर्व्वा । इति राजनिर्घण्टः ॥

सितदर्भः, पुं, (सितो दर्भः ।) श्वेतकुशः । इति

राजनिर्घण्टः ॥

सितदीधितिः, पुं, चन्द्रः । सिता शुक्ला दीधितिः

किरणो यस्य इति बहुव्रीहिसमासनिष्पन्नः ॥

सितदीप्यः, पुं, (सितं दीप्यं दौप्तिर्यस्य ।) श्वेत-

जीरकः । इति राजनिर्घण्ठः ॥

सितदूर्व्वा, स्त्री, (सिता दूर्व्वा ।) श्वेतदूर्व्वा ।

इति रत्नमाला ।

सितद्रुः, पुं, (सितः द्रुर्वृक्षो यस्य ।) मोरट-

विशेषः । ईति रत्नमाला ॥ (सितो द्रुरिति ।)
शुकवर्णवृक्षश्च ॥

सितधातुः, पुं, (सित + शुक्लो धातुः ।) कठिनी ।

इति राजनिर्घण्टः ॥ शुस्ववर्णधातुमात्रञ्च ॥

सितपक्षः, पुं, (सितौ पक्षौ यस्य ।) हंसः । इति

शब्दरत्नावली ॥ (सितः पक्षः ।) शुक्लपक्षः ।
यथा, बृहत्संहितायाम् । ६० । २० ।
“उदगयने सितपक्षे
शिशिरगभस्तौ च जीववर्गस्थे ॥”)

सितपर्णी, स्त्री, (सितं पर्णमस्याः । ङीष् ।)

अर्कपुष्पिकावृक्षः । इति रत्नमाला ॥

सितपाटलिका, स्त्री, (सिता पाटलिका ।)

शुक्लपाटलावृक्षः । श्वेतपाडरि इति हिन्दी
भाषा । तत्पर्य्यायः । सितकुम्भी २ फलेरुहा ३
सितामोघा ४ कुबेराक्षी ५ श्वेताह्वा ६ काष्ठ-
पाटला ७ धवलपाटली ८ । अस्या गुणाः ।
तिक्तत्त्वम् । गुरुत्वम् । उष्णत्वम् । वातदोष-
वमिहिक्काकफश्रमशोफनाशित्वञ्च । इति राज-
निर्घण्टः ॥

सितपुङ्खा, स्त्री, (मितः पुङ्खो यस्याः ।) श्वेतशर-

पुङ्का । इति राजनिर्घण्टः ॥

सितपुष्पं, क्ली, (सितं पुष्पमस्य ।) कैवर्त्ती-

मुस्तकम् । इति जटाधरः ॥ तालव्यशकारादि-
रपि पाठः ॥

सितपुष्पः, पुं, (सितं पुष्पमस्य ।) तगरवृक्षः ।

इति शब्दरत्नावली ॥ श्वेतरोहितः । काशः ।
इति राजनिर्घण्टः ॥

सितपुष्पा, स्त्री, (सितं पुष्पं यस्याः ।) मल्लिका ।

इति शब्दरत्नावली ॥

सितपुष्पी, स्त्री, (सितं पुष्पं यस्याः । ङीष् ।)

श्वेतापराजिता । इति राजनिर्घण्टः ॥ अस्याः
पर्य्यायो यथा, वैद्यकरत्नमालायाम् ।
“गवाक्ष्यश्वखुरी श्वेता श्वेतभण्डापराजिता ।
द्विविधा सा सिता नीला गिरिकर्णी गवादनी ॥”

सितमरिचं, क्ली, (सितं मरिचम् ।) श्वेतमरि-

चम् । तत्पर्य्यायः । सिताख्यम् २ सितवल्लीजम् ३
वालुकम् ४ बहुलम् ५ धवलम् ६ चन्द्रकम् ७ ।
अस्य गुणाः । कटुत्वम् । उष्णत्वम् । विषभूत-
दृष्टिरोगनाशित्वम् । अवृष्यत्वम् । युक्त्या रसा-
यनत्वञ्च । इति राजनिर्घण्टः ॥

सितमाषः, पुं, (सितो माषः ।) राजमाषः ।

इति हारावली ॥

सितरञ्जनः, पुं, (सितं रञ्जयतीति । रञ्ज + ल्युः ।)

पीतवर्णः । इति हेमचन्द्रः ॥

सितरश्मिः, पुं, चन्द्रः । सितः शुक्लो रश्मिः

किरणो यस्य सः ॥

सितवर्षाभूः, पुं, (सितो वर्षाभूः ।) पुनर्नवा ।

इति राजनिर्घण्टः ॥

सितशायका, स्त्री, (सिता शायका ।) श्वेतशर-

पुङ्खा । इति राजनिर्घण्टः ॥

सितशिम्बिकः, पुं, (सिता शिम्बिर्यस्य । कप् ।)

गोधूमः । इति हेमचन्द्रः ॥ शितिशिम्बिकोऽपि
पाठः ॥

सितशिवं, क्ली, (सितं शुक्लं शिवं मङ्गलजनकञ्च ।)

सैन्धवलवणम् । तस्य रूपान्तराणि । शित-
शिवम् । सितसिवम् । शीतशिवम् । शीत-
सिवम् । इत्यमरटीका । २ । ९ । ४२ ॥

सितशिंशपा, स्त्री, (सिता शिंशपा ।) श्वेत-

शिंशपावृक्षः । इति राजनिर्घण्टः ॥

सितशूकः, पुं, (सितः शूको यस्य ।) यवः । इत्य-

मरटीकायां भरतः ॥ (यवशब्देऽस्य विवरणं
ज्ञातव्यम् ॥)

सितशूरणः, पुं, (सितः शूरणः ।) वनशूरणः ।

इति राजनिर्घण्टः ॥

सितसप्तिः, पुं, (सिता सप्तयो घोटका यस्य ।)

अर्ज्जुनः । इति केचित् ॥ (यथा, किराते । १३ । १९
“स भवस्य भवक्षयैकहेतोः
सितसप्तेश्च विधास्यतोः सहार्थम् ।
रिपुराप पराभवाय मध्यं
प्रकृतिप्रत्यययोरिवानुबन्धः ॥” * ॥
सितः सप्तिः ।) श्वेताश्वश्च ॥

सितसर्षपः, पुं, (सितः सषपः ।) गौरसर्षपः ।

इति राजनिर्घण्टः ॥

सितसारः, पुं, (सितः सारो निर्य्यासो यस्य ।)

शालिञ्चशाकः । इति राजनिर्घण्टः ॥

सितसारकः, पुं, (सितसार एव । स्वार्थे कन् ।)

शालिञ्चशाकः । इति राजनिर्घण्टः ॥ (अस्य
पर्य्यायो यथा, वैद्यकरत्नमालायाम् ।
“शालिञ्चः सितसारश्च पत्तुरो लोहमारकः ॥)

सितसिंही, स्त्री, (सिता सिंहीव ।) श्वेतकण्ट-

कारी । इति राजनिर्घण्टः ॥

सितसिन्धुः, स्त्री, (सिता शुक्लजला सिन्धुः ।) गङ्गा ।

इति शब्दरत्नावली ॥

सिता, स्त्री, (सित + टाप् ।) शर्करा । इत्यमरः ।

२ । ९ । ४३ ॥ अस्या गुणाः ।
“खण्डन्तु सिकतारूपं सुश्वेतं शर्करा सिता ।
सिता सुमधुरा रुच्या वातपित्तास्रदाह-
हृत् ।
मूर्च्छाच्छर्द्दिज्वरान् हन्ति सुशीता शुक्रका-
रिणी ॥”
इति राजनिर्घण्टः ॥
(यथा, महानिर्व्वाणतन्त्रे । ९ । ७८ ।
“ततो दुग्धं सिताञ्चैव दत्त्वा पाकविधानतः ।
सुपचेत् संस्कृते वह्नौ सावधानेन सुव्रते ॥”)
मल्लिका । इति शब्दरत्नावली ॥ श्वेतकण्ट-
कारी । वाकुची । विदारी । श्वेतदूर्व्वा ।
चन्द्रिका । कुटुम्बिनी । मद्यम् । पिङ्गा । त्राय-
माणा । तेजनी । इति राजनिर्घण्टः । पर्व्वत-
जातापराजिता । इति रत्नमाला ॥

सितांशुः, पुं, (सिता अंशवो यस्य ।) चन्द्रः ।

(यथा, नैषधे । १ । १२ ।
“सितांशुवर्णैर्वयति स्म तद्गुणै-
र्म्महासिवेम्नः सहकृत्तरी बहुम् ।
दिगङ्गनाङ्गाभरणं रणाङ्गने
यशः पटं तद्भटचातुरीतुरी ॥”)
कर्पूरः । इति शुभ्रांशुशब्ददर्शनात् ॥

सितांशुतैलं, क्ली, (सितांशुजातं कर्पूरसम्भवं

तैलम् ।) कर्पूरतैलम् । इति राजनिर्घण्टः ॥

सिताखण्डः, पुं, (सितायाः खण्डो यत्र ।)

मधुजातशर्करा । तत्पर्य्यायः । खण्डकः २
सितजा ३ शर्करजा ४ माधवी ५ मधुशर्करा
६ माक्षीकशर्करा ७ । अस्य गुणाः । अति-
मधुरत्वम् । चक्षुष्यत्वम् । छर्द्दिकुष्ठव्रणकफ-
श्वासहिक्कापित्तास्रदोषनाशित्वञ्च । इति राज-
निर्घण्टः ॥

सिताग्रः, पुं, (सितः अग्रो यस्य ।) कण्टकम् ।

इति हारावली ॥

सिताङ्कः, पुं, (सितः अङ्को यत्र ।) वालुका-

गडमत्स्यः । इति हारावली । १९० ॥ (सिताङ्ग
इति पाठः साधुः ॥

सिताङ्गः, पुं, (सितमङ्गं यस्य ।) श्वेतरोहितः ।

इति राजनिर्घण्टः ॥ (वालुकागडमत्स्यः । इति
हारावली । १९० ॥)

सिताजाजी, स्त्री, श्वेतजीरकः । इति राजनिर्घण्टः ॥

(गुणादयोऽस्याः श्वेतजीरकशब्दे ज्ञेयाः ॥)

सितादिः, पुं, (सितायाः आदिः कारणम् ।)

गुडः । इति राजनिर्घण्टः ॥

सिताननः, पुं, (सितमाननं यस्य ।) गरुडः ।

इति केचित् ॥ शुक्लमुखयुक्ते, त्रि ॥

सितापाङ्गः, पुं, (सितौ अपाङ्गौ यस्य ।) मयूरः ।

इति त्रिकाण्डशेषः ॥
पृष्ठ ५/३४९

सिताब्जं, क्ली, (सितमब्जम् ।) श्वेतकमलम् ।

इति राजनिर्घण्टः ॥ (यथा, सरस्वतीध्याने ।
“कुचभरनमिताङ्गी सन्निसन्ना सिताब्जे ॥”)

सिताभः, पुं, (सिता शुक्ला आभा यस्य ।) कर्पूरः ।

इत्यमरटीकायां रायमुकुटः ॥

सिताभा, स्त्री, (सिता आभा यस्याः ।) तक्राह्वा ।

इति राजनिर्घण्टः ॥

सिताभ्रः, पुं, (सितं शुक्लमभ्रति प्राप्नोतीति । अभ्र

गतौ + अण् ।) कर्पूरः । इत्यमरः । २ । ६ । १३० ॥
(अस्य पर्य्यायो यथा, --
“पुं सि क्लीवे च कर्पूरः सिताभ्रो हिमवालुकः
घनसारश्चन्द्रसंज्ञो हिमनामापि स स्मृतः ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

सिताभ्रकं, क्ली, (सितं शुभ्रमभ्रति प्राप्नोतीति ।

अभ्र + ण्वुल् ।) कर्पूरम् । इति रत्नमाला ॥

सिताम्बरः, पुं, (सितमम्बरं यस्य ।) श्वेतवस्त्र-

परिहितव्रती । इति हलायुधः ॥ शुक्लवस्त्र-
परिधायिनि, त्रि ॥

सिताम्भोजं, क्ली, (सितं अम्भोजम् ।) श्वेतपद्मम् ।

इत्यमरः । १ । ९ । ४१ ॥

सितार्ज्जकः, पुं, (सितमर्ज्जयतीति । अर्ज्ज +

ण्वुल् ।) श्वेततुलसी । श्वेताजवला इति हिन्दी
भाषा । तत्पर्य्यायः । वैकुण्ठः २ वटपत्रः ३
कुठेरकः ४ जम्बीरः ५ गन्धवहलः ६ सुमुखः ७
कटुपत्रकः ८ । अस्य गुणाः । कटुत्वम् । उष्ण-
त्वम् । कफवातनेत्रामयनाशित्वम् । रुच्यत्वम् ।
सुखप्रसवकारकत्वञ्च । इति राजनिर्घण्टः ॥

सितालकः, पुं, (आलयति भूषयतीति । अल +

णिच् + ण्वुल् । सितः आलकः ।) श्वेतमन्दा-
रकः । इति राजनिर्घण्टः ॥

सितालता, स्त्री, (सिता लता ।) श्वेतदूर्व्वा ।

इति रत्नमाला ॥ (श्वेतदूर्व्वाशब्देऽस्या विषयो
ज्ञातव्यः ॥)

सितालिकटभी, स्त्री, श्वेतकिणिहीवृक्षः । इति

राजनिर्घण्टः ॥

सितावरः, पुं, (सितमावृणोतीति । आ + वृ

+ अच् ।) शाकविशेषः । सुसुनी इति भाषा ।
तत्पर्य्यायः । सूच्याह्वः २ सूचीपत्रकः ३ श्रीवा-
रकः ४ शिखीः ५ वभ्रुः ६ स्वस्तिकः ७ सुनि-
षण्णकः ८ कुरुटः ९ कुकुटः १० सूचीदलः ११
श्वेतावरः १२ मेधाकृत् १३ ग्राहकः १४ । अस्य
गुणाः । संग्राहित्वम् । कषायत्वम् । उष्णत्वम् ।
त्रिदोषनाशित्वम् । मेधारुचिप्रदत्वम् । दाह-
ज्वरहारित्वम् । रसायनत्वञ्च । इति राज-
निघण्टः ॥ निद्राकारित्वम् । इति लोकप्रसिद्धम् ॥
तस्य लक्षणं यथा, --
“चाङ्गेरीसदृशः पत्रैश्चतुर्द्दल इतीरितः ।
शाको जलान्विते देशे चतुष्पत्रीति चोच्यते ॥”
इति भावप्रकाशः ॥

सितावरी, स्त्री, (सितमावृणोतीति । आ + वृ

+ अच् । ङीष् ।) वाकुची । इति राज-
निर्घण्टः ॥

सितासितः, पुं, (वर्णेन सितः वस्त्रेण असितः ।)

बलदेवः । इति हेमचन्द्रः ॥ शुक्रसहितशनिः ।
यथा । ज्योतिस्तत्त्वे ।
“सितासितौ चन्द्रमसो न कश्चित्
बुधः शशी सौम्यसितौ रवीन्दू ।
रवीन्दुभौमा रवितस्त्वमित्रा
मित्रारिशेषश्च समः प्रदिष्टः ॥”
शुक्लसहितकृष्णश्च ॥ (यथा, महाभारते । ७ ।
१३० । २९ ।
“ते हया बह्वशोभन्त मिश्रिता वातरंहसः ।
सितासिता महाराज यथा व्योम्नि वलाहकाः ॥”

सिताह्वयः, पुं, (सित आह्वयो यस्य ।) श्वेत-

शिग्रुः । श्वेतरोहितः । इति राजनिर्घण्टः ॥

सितिः, त्रि, शुक्लः । कृष्णः । इत्यमरटीकायां

रमानाथः ॥

सितिकण्ठः, पुं, (सितिः कृष्णः कण्ठो यस्य ।)

शितिकण्ठः । शिवः । इत्यमरटीकायां सिति-
शब्दस्य दन्त्यादित्वदर्शनात् ॥

सितिमा, [न्] पुं, (सितस्य सितेर्वा भावः । इम-

निच् । शुक्लता । (यथा, माघे । १ । २५ !
“सितं सितिम्ना सुतरां मुनेर्वपु-
र्विसारिभिः सौधमिवाथ लम्भयन् ॥”)
कृष्णता । इति सितिशब्दादिमन्प्रत्ययेन निष्पन्नः

सितिवारः, पुं, (सितिं वृणोतीति । वृ + अण्)

सुनिषण्णकः । इति भावप्रकाशः ॥

सितिवासाः, [स्] पुं, (सिति नीलं वासो यस्य ।)

बलदेवः । इति नीलाम्बरशब्ददर्शनात् ॥ (यथा,
माघे । १ । ६ ।
“पिशङ्गमौञ्जीयुजमर्ज्जूनच्छविं
वसानमेनाजिनमञ्जनद्युति ।
सुवर्णसूत्राकलिताधराम्बरां
विडम्बयन्तं सितिवाससस्तनुम् ॥”)

सितेक्षुः, पुं, (सितः इक्षुः ।) श्वेतेक्षुः । इति

राजनिर्घण्टः ॥

सितेतरः, पुं, (सितादितरः ।) श्यामशालिः ।

कुलत्थः । इति राजनिर्घण्टः ॥ शुक्लेतरवर्णश्च ॥
(यथा, कुमारे । ३८ ।
“नीविमतिक्रम्य सितेतरस्य
तन्मेखलामध्यमणेरिवार्च्चिः ॥”
सितश्च इतरश्च इति विग्रहे । कृष्णशुक्लौ ।
अत्र द्विवचनप्रयोगः स्यात् । यथा, भागवते ।
१० । ४१ । ४१ ।
“नानालक्षणवेषाभ्यां कृष्णरामौ विरेजतुः ।
स्वलङ्कृतौ बालगजौ पर्व्वणीव सितेरतौ ॥”)

सितेतरगतिः, पुं, (सितेतरा कृष्णा गतिरस्य ।)

अग्निः । इति हलायुधः ॥

सितोदरः, पुं, (सितमुदरं यस्य ।) कुबेरः । इति

हेमचन्द्रः ॥ शुक्लकुक्षियुक्ते, त्रि ॥ (सितमुदर-
मिति ।) शुक्लकुक्षौ, क्ली ॥

सितोद्भवं, क्ली, (सित उद्भवो यस्य ।) श्वेत-

चन्दनम् । इति केचित् ॥ (सिताया उद्भवो
यस्य ।) शर्कराजाते, त्रि ॥

सितोपलं, क्ली, (सितमुपलमिव ।) कठिनी । इति

त्रिकाण्डशेषः ॥

सितोपलः, पुं, (सितः उपलः ।) स्फटिकः । इति

राजनिर्घण्टः ॥

सितोपला, स्त्री, (सित उपल इव आकृतिर्यस्याः

स्त्रियां टाप् ।) शर्करा । इति हेमचन्द्रः ॥
(यथा, --
“सितासितोपला चैव मत्स्यण्डीशर्करा स्मृता”
इति गारुडे २०८ अध्यायः ॥
अस्या गुणा यथा, --
“सितोपला सरा लघ्वी वातपित्तहरी हिमा ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे द्वितीये भागे ॥)

सिद्धं, क्ली, (सिध + क्तः ।) सैन्धवलवणम् । इति

राजनिर्घण्टः ॥

सिद्धः, पुं, (सिध + क्तः) देवयोनिविशेषः ।

इत्यमरः । १ । १ । ११ ॥ स तु अणिमादिगुणो-
पेतो विश्वावसुप्रभृतिः । इति भरतः ॥ (यथा,
कुमारे । १ । ५ ।
“उद्वेजिता वृष्टिभिराश्रयन्ते
शृङ्गाणि यस्यातपवन्ति सिद्धाः ॥”)
व्यासादिः । विस्कम्भादिसप्तविंशतियोगान्तर्गतै-
कविंशयोगः । इति मेदिनी ॥ तत्र जातफलम् ।
“जितेन्द्रियः सर्व्वकलानिधानो
गौरोऽतिशूरो मधुरो विनीतः ।
सत्योपपन्नः कृतभूरिभोगो
यस्य प्रसूतौ किल सिद्धयोगः ॥”
इति कोष्ठीप्रदीपः ॥
व्यवहारः । इति शब्दरत्नावली ॥ कृष्ण-
धुस्तूरः । गुडः । इति राजनिर्घण्टः ॥

सिद्धः, त्रि, (सिध + क्तः ।) प्रसिद्धः । (यथा,

भागवते । १० । १८ । १६ ।
“एवं तौ लोकसिद्धाभिः क्रीडाभिश्चेरतुर्वने ॥”)
नित्यः । निष्पन्नः । इति शब्दरत्नावली ॥ (यथा,
रामायणे । २ । ९८ । ८ ।
“सिद्धार्थः खलु सौमित्रिर्यश्चन्द्रविमलोपमम् ।
मुखं पश्यति रामस्य राजीवाक्षं महाद्युतिम् ॥”)
मुक्तः । इति हेमचन्द्रः ॥ (यथा, भागवते । ६ ।
१२ । १९ ।
“अहो दानव सिद्धोऽसि यस्य ते मतिरीदृशी ॥”)
पक्वम् । यथा, सुमन्तुः ।
“पर्य्युसितं पुनःसिद्धमभोज्यमन्यत्र हिरण्यो-
दकस्पर्शात् ।” इति श्राद्धतत्त्वम् ॥ मन्त्रसिद्धि-
विशिष्टः । यथा, --
अथ मन्त्रसिद्धेरुपायाः । गौतमीये ।
“सम्यगनुष्ठितो मन्त्रो यदि सिद्धिर्न जायते ।
पुनस्तेनैव कर्त्तव्यं ततः सिद्धो भवेद्ध्रु वम् ॥
पुनरनुष्ठितो मन्त्रो यदि सिद्धिर्न जायते ।
पुनस्तेनैव कर्त्तव्यं ततः सिद्धो न संशयः ॥
पुनः सोऽनुष्ठितो मन्त्रो यदि सिद्धिर्न जायते ।
उपायास्तत्र कर्त्तव्याः सप्त शङ्करभाषिताः ।
भ्रामणं रोधनं वश्यं पीडनं पोषशोषणम् ।
दहनान्तं क्रमात् कुर्य्यात् ततः सिद्धो भवेन्मनुः ॥
पृष्ठ ५/३५०
भ्रामणं वायुवीजेन यथानुक्रमयोगतः ।
तम्मन्त्रं यन्त्र आलिख्य सिद्धकर्पूरकुङ्कुमैः ।
उशीरचन्दनाभ्यान्तु मन्त्रं संग्रथितं लिखेत् ।
क्षीराज्यमधुतोयानां मध्ये तल्लिखितं भवेत् ॥
पूजनाज्जपनाद्धोमात् भ्रामितः सिद्धिदो भवेत्
भ्रमितो यदि न सिद्धः स्याद्रोधनं तस्य कारयेत्
सारस्वतेन बीजेन संपुटीकृत्य संजपेत् ।
एवं रुद्धे भवेत् सिद्धो न चेदेतद्वशीकुरु ॥
अलक्तचन्दनं कुष्ठं हरिद्रा मादनं शिला ।
एतैस्तु मन्त्रमालिख्य भूर्ज्जपत्रे सुशोभने ।
धार्य्यकण्टे भवेत् सिद्धः पीडनं वास्य कारयेत् ॥
अधरोत्तरयोगेन पदानि परिजप्य वै ।
ध्यायेच्च देवतां तद्वत् अधरोत्तररूपिणीम् ॥
विद्यामादित्यदुग्धे न लिखित्वाक्रम्य चाङ्घ्रिणा
तथाभूतेन मन्त्रेण होमः कार्य्यो दिने दिने ॥
पीडितो लज्जयाविष्टः सिद्धः स्यादथ पोषयेत् ।
बालायान्त्रितयं बीजं आद्यन्ते तस्य योजयेत् ॥
गोक्षीरमधुनालिख्य विद्यां पाणौ विभावयेत् ।
पोष्रितोऽयं भवेत् सिद्धो न चेत् कुर्व्वीत
शोषणम् ॥
द्वाभ्यान्तु वायुबीजाभ्यां मन्त्रं कुर्य्याद्विदर्भिणम्
एषा विद्या गले धार्य्या लिखित्वा वरभस्मना ॥
शोषितोऽपि न सिद्धः स्यात् दहनीयोऽग्नि-
बीजतः ।
आग्नेयेन तु बीजेन मन्त्रस्यैकैकमक्षरम् ॥
आद्यन्तमध ऊर्द्धञ्च योजयेद्दाहकर्म्मणि ।
ब्रह्मवृक्षस्य तैलेन मन्त्रमालिख्य धारयेत् ॥
कण्ठदेशे ततो मन्त्रः सिद्वः स्याच्छङ्करोदितम् ।
इत्येतत् कथितं सम्यक् केवलं तव भक्तितः ॥
एकेनेव कृतार्थः स्याद्बहुभिः किमु सुव्रते ॥”
इति तन्त्रसारः ॥ * ॥
सिद्धिविशिष्टः । स च चतुस्त्रिंशद्विधः । यथा, --
“चतुस्त्रिंशद्विधः सिद्धः सर्व्वकर्म्मोपकारकः ।
तमुपैति स्वयं सिद्धं भक्तस्तं नैव वाञ्छति ॥
द्वात्रिंशद्विधं सिद्धं सर्व्वसाधनकारणम् ।
मन्मुखात् श्रूयतां नन्द सिद्धमन्त्रं गृहाण च ॥
अणिमा लघिमा प्राप्तिः प्राकाम्य महिमा तथा
ईशित्वञ्च वशित्वञ्च तथा कामावसायिता ॥
दूरश्रवणमेवेति परकायप्रवेशनम् ।
मनोवायित्वमेवेति सर्व्वज्ञत्वमभीप्सितम् ॥
वह्निस्तम्भं जलस्तम्भं चिरजीवित्वमेव वा ।
वायुस्तम्भं क्षुत्पिपासानिद्रास्तम्भनमेव च ॥
कायव्यूहञ्च वाक्सिद्धं मृतानयनमीप्सितम् ।
सृष्टीनां कारणञ्चैव प्राणाकर्षणमेव च ॥
प्राणानाञ्च प्रदानञ्च लोभादीनाञ्च स्तम्भनम् ।
इन्द्रियाणां स्तम्भनञ्च बुद्धिस्तम्भनमेव च ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । ७८ । २०-२९

सिद्धकः, पुं, (सिद्ध इव । इवार्थे कन् ।) सिन्धु-

वारः । शालः । इति राजनिर्घण्टः ॥ (यथा,
सुश्रुते । ५ । ३ ।
“धवाश्वकर्णासनपारिभद्रां
सपाटलाः सिद्धकमोक्षकौ च ॥”)

सिद्धकामेश्वरी, स्त्री, (सिद्धा कामेश्वरी ।) कामा-

ख्यायाः पञ्चमूर्त्त्यन्तर्गतप्रथममूर्त्तिः । तस्या
रूपं यथा, कालिकापुराणे ६१ अध्याये ।
“रविशशियुतकर्णा कुङ्कुमापीतवर्णा
मणिकनकविचित्रा लोलकर्णा त्रिनेत्रा ।
अभयवरदहस्ता साक्षसूत्रप्रशस्ता
प्रणतसुरवरेशा सिद्धकामेश्वरी सा ॥
अरुणकमलसंस्था रक्तपद्मासनाख्या
नवतरुणशरीरा मुक्तकेशी सुहारा ।
शवहृदि पृथुतुङ्गस्तन्ययुग्मा मनोज्ञा
शिशुरविसमवस्त्रा सिद्धकामेश्वरी सा ॥
विपुलविभवदात्री स्मेरवक्त्रा सुकेशी
दलितकरकदन्ता सासिचन्द्रावनम्रा ।
मनसिजदृशदिस्था योनिमुद्रालसन्ती
पवनचलनशक्ता संश्रुतस्थानभागा ॥”

सिद्धगङ्गा, स्त्री, (सिद्धा गङ्गा । ‘क्वचित् सिद्धजना-

कीर्णां पश्य मन्दाकिनीं नदीम् ।’ रामा० २ ।
९५ । ९ । इत्युक्तेः सिद्धसेविता गङ्गा इति वा ।)
मन्दाकिनी । इति जटाधरः ॥

सिद्धजलं, क्ली, (सिद्धं पक्वं जलं यत्र ।) काञ्जि-

कम् । इति हारावली ॥ (सिद्धं जलमिति ।)
पक्ववारि च ॥

सिद्धदेवः, पुं, (सिद्धो देवः ।) शिवः । इति शब्द-

रत्नावली ॥

सिद्धधातुः, पुं, (सिद्धो धातुः ।) पारदः । इति

त्रिकाण्डशेषः ॥

सिद्धपीठः, पुं, (सिद्धः पीठः ।) सिद्धस्थानम् ।

यथा, --
“जातो लक्षवलिर्यत्र होमो वा कोटिसंख्यकः ।
महाविद्याजपः कोटिः सिद्धपीठः प्रकीर्त्तितः ॥”
इति तन्त्रम् ॥

सिद्धपुरं, क्ली, (सिद्धं पुरम् ।) भूगोलस्याधो-

देशविशेषः । यथा, --
“लङ्का कुमध्ये यमकोटिरस्याः
प्राक्पश्चिमे रोमकपत्तनञ्च ।
अधस्ततः सिद्धपुरं सुमेरुः
सौम्येऽथ याम्ये वडवानलश्च ॥
कुवृत्तपादान्तरितानि तानि
स्थानानि षड् गोलविदो वदन्ति ॥”
इति सिद्धान्तशिरोमणिः ॥

सिद्धपुष्पः, पुं, (सिद्धप्रियं यन्त्रसिद्धं वा पुष्पमस्य)

करवीरवृक्षः । इति राजनिर्घण्टः ॥

सिद्धप्रयोजनः, पुं, (सिद्धानां प्रयोजनं यत्र ।)

गौरसर्षपः । इति राजनिर्घण्टः ॥

सिद्धमन्त्रः, पुं, (सिद्धो मन्त्रः ।) सिद्धप्राप्तमन्त्रः ।

यथा, ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । ७८ । २१ ;
२७ -- २८ ।
“द्धात्रिंशद्विधं सिद्धं सर्व्वसाधनकारणम् ।
मन्मुखात् श्रूयतां नन्द सिद्धमन्त्रं गृहाण च ॥”
“ओम् सर्व्वेश्वराय सर्व्वविघ्नविनाशिने मधुसूद-
नाय स्वाहेत्येवं मन्त्रश्च सर्व्वेषां कल्पपादपः ।
सामवेदे च कथितः सिद्धानां सर्व्वसिद्धिदः ॥
अनेन योगिनः सिद्धा मुनिन्द्राश्च सुरास्तथा ।
शतलक्षजपेनैव मन्त्रसिद्धिर्भवेत् सताम् ॥”

सिद्धमोदकः, पुं, (सिद्धान् मोदयतीति । मुद +

णिच् + ण्वुल् ।) तवराजोद्भवखण्डः । इति
राजनिर्घण्टः ॥

सिद्धयोगिनी, स्त्री, (सिद्धा योगिनी ।) योगिनी-

विशेषः । इत्यपराजितास्तोत्रम् ॥ (यथा,
कथासरित्सागरे । ३७ । १६१ ।
“इत्युक्त्वैव गतायाञ्च तस्यां सा सिद्धयोगिनी ।
तत्प्रतीघातहेतोर्मामवोचद्बन्धमोचिनी ॥”)

सिद्धरसः, पुं, (सिद्धो रसः ।) पारदः । रससिद्धः ।

इत्यजयपालः ॥

सिद्धरसः, त्रि, (सिद्धो रसो यस्य ।) धातुप्रभृतिः ।

इति मेदिनी ॥

सिद्धविद्या, स्त्री, (सिद्धा विद्या ।) महाविद्या-

विशेषः । यथा, --
“काली तारा महाविद्या षोडशी भुवनेश्वरी ।
भैरवी छिन्नमस्ता च विद्या धूमावती तथा ॥
वगलामुखी सिद्धविद्या मातङ्गी कमलात्मिका
एता दश महाविद्याः सिद्धविद्याः प्रकीर्त्तिताः”
इति तन्त्रसारः ॥

सिद्धसलिलं, क्ली, (सिद्धं पक्वं सलिलं यत्र ।)

काञ्जिकम् । इति त्रिकाण्डशेषः ॥

सिद्धसाधनं, क्ली, (सिद्धस्य साधनम् ।) सिद्धस्य

वस्तुनः साधनम् । साध्यवत्त्वानिश्चयसत्त्वेऽप्यनु-
मानम् । यथा, --
“अतएव न स्वरूपासिद्धिः सिद्धसाधनं वा ।”
इति सिद्धान्तलक्षणे जगदीशः ॥

सिद्धसाधनः, पुं, (सिद्धानां साधनमस्मादिति ।)

गौरसर्षपः । इति राजनिर्घण्टः ॥

सिद्धसाध्यः, पुं, (सिद्धात् साध्यः ।) मन्त्रविशेषः ।

यथा, --
“सिद्धसिद्धो यथोक्तेन द्विगुणात् सिद्धसाध्यकः ।
सिद्धसुसिद्धोऽर्द्धजपात् सिद्धारिर्हन्ति बान्धवान् ॥”
इति तन्त्रसारः ॥

सिद्धसिद्धः, पु, (सिद्धात् सिद्धः ।) मन्त्रविशेषः ।

यथा, --
“सिद्धसिद्धो यथोक्तेन द्विगुणात् सिद्धसाध्यकः ।
सिद्धसुसिद्धोऽर्द्धजपात् सिद्धारिर्हन्तिबान्धवान् ॥”
इति तन्त्रसारः ॥

सिद्धसिन्धुः, स्त्री, (सिद्धसेविता सिन्धुः ।) गङ्गा ।

इति त्रिकाण्डशेषः ॥

सिद्धसुसिद्धः, पुं, (सिद्धात् सुसिद्धः ।) मन्त्र-

विशेषः । अस्य प्रमाणं सिद्धसाध्यशब्दे द्रष्टव्यम् ।

सिद्धसेनः, पुं, (सिद्धा सेना यस्य ।) कार्त्तिकेयः ।

इति शब्दरत्नावली ॥

सिद्धसेवितः, पुं, (सिद्धैः सेवितः ।) वटुक-

भैरवः । इति तस्याष्टोत्तरशतनामस्तोत्रम् ॥
सिद्धजनोपासिते, त्रि ॥

सिद्धा, स्त्री, (सिध + क्तः । टाप् ।) ऋद्धिः । इति

राजनिर्घण्टः ॥ योगिनीविशेषः । यथा, जातकं-
दीपिकायाम् ।
पृष्ठ ५/३५१
“मङ्गला पिङ्गला धन्या भ्रामरी भद्रिका तथा ।
उल्का सिद्धा सङ्कटा च योगिन्योऽष्टौ प्रकी-
र्त्तिताः ॥”

सिद्धान्तः, पुं, (सिद्धः अन्तो यस्मात् ।) पूर्व्व-

पक्षं निरस्य सिद्धपक्षस्थापनम् । इति भरतः ॥
(यथा, महाभारते । १ । ७० । ४३ ।
“स्थापनाक्षेपसिद्धान्तपरमार्थज्ञतां गतैः ॥”)
तत्पर्य्यायः । राद्धान्तः २ । इत्यमरः । १ । ५ । ४ ॥
नवविधज्योतिर्ग्रन्याः । यथा । ब्रह्मसिद्धान्तः १
सूर्य्यसिद्धान्तः २ सोमसिद्धान्तः ३ बृहस्पति-
सिद्धान्तः ४ गर्गसिद्धान्तः ५ नारदसिद्धान्तः ६
परागरसिद्धान्तः ७ पुलस्त्यसिद्धान्तः ८ वशिष्ठ-
सिद्धान्तश्च ९ ॥ तन्त्राधिकरणाभ्यु पगमसंस्थितिः
सिद्धान्तः । स च चतुर्विधः । सर्व्वतन्त्रप्रति-
तन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात्
सर्व्वतन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सर्व्वतन्त्र-
सिद्धान्तः ॥ १ ॥ समानतन्त्रसिद्धः परतन्त्रासिद्धः
प्रतितन्त्रसिद्धान्तः ॥ २ ॥ यत्सिद्धावन्यप्रकरणसिद्धिः
सोऽधिकरणसिद्धान्तः ॥ ३ ॥ अपरीक्षिताभ्यु प-
गमात् तद्विशेषपरीक्षणमभ्यु पगमसिद्धान्तः ॥ ४ ॥
इति गोतमसूत्रम् ॥ (तथास्य विवृतिर्यथा, --
“अथ सिद्धान्तः । सिद्धान्तो नाम यः परीक्षकै-
र्बहुविधं परीक्ष्य हेतुभिः साधयित्वा स्थाप्यते
निर्णयः स सिद्धान्तः । स चोक्तश्चतुर्विधः । सर्व्व-
तन्त्रसिद्धान्तः, प्रतितन्त्रसिद्धान्तः, अधिकरण-
सिद्धान्तः, अभ्युपगमसिद्धान्त इति ।
तत्र सर्व्वतन्त्रसिद्धान्तो नाम सन्ति निदानानि,
सन्ति व्याधयः, सन्ति सिद्ध्युपायाः साध्यानामिति
प्रतितन्त्रसिद्धान्तो नाम तस्मिंस्तस्मिंस्तन्त्रे तत्तत्
प्रसिद्धं यथान्यत्राष्टौ रसाः षडन्यत्र । पञ्चेन्द्रि-
याणि यथान्यत्र षडिन्द्रियाणि । वाताधिकृताः
सर्व्वविकारा यथान्यत्र वातादिकृता भूतकृताश्च
प्रसिद्धाः ।
अधिकरणसिद्धान्तो नाम यस्मिन्नधिकरणे
संस्तूयमाने सिद्धान्यन्यान्यपि अधिकरणानि
भवन्ति । न मुक्तः कर्म्मानुबन्धिकं कुरुते निस्पृ-
हत्वादिति प्रस्तुते सिद्धाः कर्म्मफलमोक्षपुरुष-
प्रेत्यभावा भवन्ति ।
अभ्युपगमसिद्धान्तः । अभ्युपगमसिद्धान्तो नाम
यमर्थमसिद्धमपरीक्षितमनुपदिष्टमहेतुकं वा
वादकालेऽभ्यु पगच्छन्ति भिषजः । तद्यथा द्रव्यं
न प्रधानमिति कृत्वा वक्ष्यामः । गुणाः प्रधाना
इति कृत्वा वक्ष्यामः । इत्येवमादिश्चतुर्व्विधः
सिद्धान्तः ।” इति चरके विमानस्थाने
८ अध्यायः ॥)

सिद्धान्ताचारः, पुं, (सिद्धोऽन्तो यस्य । तादृश

आचारः ।) तान्त्रिकाचारविशेषः । यथा, --
“आत्मानं देवतां मत्वा यजेद्देवीञ्च मानसैः ।
सदा शुद्धः सदा शान्तः सिद्धान्ताचार उच्यते ॥”
इत्याचारभेदतन्त्रम् ॥

सिद्धान्ती, [न्] पुं, (सिद्धान्तोऽस्यास्तीति । इन् ।)

मीमांसकः । इति भूरिप्रयोगः ॥

सिद्धापगा, स्त्री, सिद्धसेविता आपगा ।) गङ्गा ।

इति हेमचन्द्रः ॥

सिद्धायिका, स्त्री, चतुर्व्विंशतिबुद्धशासनदेव-

तान्तर्यतदेवीविशेषः । इति हेमचन्द्रः ॥

सिद्धारिः, पुं, मन्त्रविशेषः । एतत्प्रमाणं सिद्ध-

साध्यशब्दे द्रष्टव्यम् ॥

सिद्धार्थः, पुं, (सिद्धोऽर्थो यस्य ।) वृत्तार्हत्पिता ।

इति हेमचन्द्रः ॥ शाक्यसिंहः । इति मेदिनी ॥
(सिद्धोऽर्थो यस्मात् ।) श्वेतसर्षपः । इत्यमरः ।
२ । ९ । १८ ॥ (यथा, भागवते । ४ । ९ । ५८ ।
“ध्रुवाय पथि दृष्टाय तुत्र तत्र पुरस्त्रियः ।
सिद्धार्थाक्षतदध्यम्बुपूर्व्वापुष्पफलानि च ।
उपजह्रुः प्रयुञ्जाना व्यात्सल्यादाशिषः सतीः ॥”)
अस्य पर्य्यायगुणाः गौरसर्षपशब्दे द्रष्टव्याः ॥
वटीवृक्षः । इति राजनिर्घण्टः ॥ प्रसिद्धार्थः ।
यथा, --
“सिद्धार्थं सिद्धसम्बन्धं श्रेतुं श्रोता प्रवर्त्तते ।
ग्रन्थादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः ॥”
इति व्याकरणटीका ॥

सिद्धार्था, स्त्री, (सिद्धोऽर्थो यस्याः ।) चतुर्थ-

जिनमाता । इति हेमचन्द्रः ॥

सिद्धिः, स्त्री, (सिध + क्तिन् ।) दुर्गा । यथा, --

साधनात् सिद्धिरित्युक्ता साधका वाथ ईश्वरी ॥”
इति देवीपुराणे ४५ अध्यायः ॥
ऋद्धिनामौषधम् । इत्यमरः । २ । ४ । ११२ ॥
योगविशेषः । निष्पत्तिः । यथा, मनुः । २ । ९७ ।
“वेदास्त्यागश्च यज्ञाश्च नियमाश्च तपांसि च ।
न विप्रदुष्टभावस्य सिद्धिं गच्छन्ति कर्हिचित् ॥”)
पादुका । अन्तर्द्धिः । वृद्धिः । इति मेदिनी ॥
मोक्षः । इति हेमचन्द्रः ॥ (यथा, मनुः ।
१२ । ११ ।
“कामक्रोधौ तु संयम्य ततः सिद्धिं नियच्छति ॥”)
सम्पत्तिः । इति धरणिः ॥ बुद्धिः । इति शब्द-
रत्नावली ॥ * ॥ अष्टसिद्धिनामलक्षणानि यथा,
“अणिमा महिमा चैव लघिमा प्राप्तिरेव च ।
प्राकाम्यञ्च तथेशित्वं वशित्वञ्च तथापरम् ॥
यत्र कामावसायित्वं गुणानेतानथैश्वरान् ।
प्राप्नोत्यष्टौ नरव्याघ्र परनिर्व्वाणसूचकान् ॥
सूक्ष्मात् सूक्ष्मतरोऽणीयान् शीघ्रत्वाल्लघिमा
गुणः ।
महिंमाशेषपूज्यत्वात् प्राप्तिर्नाप्राप्यमस्य यत् ॥
प्राकाम्यमस्य व्यापित्वात् ईशित्वं चेश्वरो यतः ।
वशित्वात् वशिता नाम योगिणः सप्तमो गुणः ॥
यत्रेच्छास्थानमप्युक्तं यत्र कामावसायिता ।
ऐश्वर्य्यं कारणैरेभिर्योगिनः प्रोक्तमष्टधा ॥”
इति मार्कण्डेये दत्तात्रेयालकसंवादे योगवल्लभ-
नामाध्यायः ॥ * ॥ (अष्टादशसिद्धिनामानि
यथा, ब्रह्मवैवर्त्ते । १ । ६ । १८ -- १९ ।
“अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा
तथा ।
ईशित्वञ्च वशित्वञ्च सर्व्वकामावसायिता ॥
सर्व्वज्ञदूरश्रवणं परकायप्रवेशनम् ।
वाक्सिद्धिः कल्पवृक्षत्वं स्रष्टुंसंहर्त्तुमीशता ।
अमरत्वञ्च सर्व्वाङ्गं सिद्धयोऽष्टादश स्मृताः ॥”)
भावनासिद्धिर्यथा, --
“तीर्थे कान्तेऽभीष्टदेवे गुरौ मन्त्रे भवौषधे ।
आस्था च यादृशी यासां सिद्धिस्तासाञ्च
तादृशी ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३९ अध्यायः ॥
ज्ञानात् सिद्धिर्यथा, --
“तस्मात् त्वमपि भूपाल देहि न्यायार्ज्जितं
धनम् ।
दानात् ज्ञानं ततः प्राप्य ज्ञानात् सिद्धिमवा-
प्स्यसि ॥”
इति वह्निपुराणे शिवेरुपाख्याननामाध्यायः ॥

सिद्धिदः, पुं, (सिद्धिं ददातीति । दा + कः ।)

वटुकभैरवः । इति तस्य स्तोत्रम् ॥ सिद्धिदातरि,
त्रि । (यथा, देवीभागवते । ६ । २ । ५१ ।
“तं कुन्ती वचनं प्राह मम मन्त्रोऽस्ति कामदः
दत्तो दुर्व्वाससा पूर्व्वं सिद्धिदः सर्व्वथा प्रभो ॥”)
यथा च ।
“मधुमासे तु संप्राप्ते शुक्लपक्षे चतुर्द्दशी ।
प्रोक्ता मदनभञ्जीति सिद्धिदा तु महोत्सवे ॥”
इति तिथ्यादितत्त्वम् ॥

सिद्धियोगः, पुं, (सिद्धेर्योगो यत्र ।) तिथिवार-

घटितशुभयोगविशेषः । यथा, --
“शुक्रे नन्दा बुधे भद्रा शनौ रिक्ता कुजे जया
गुरौ पूर्णा च संयुक्ता सिद्धियोगः प्रकीर्त्तितः ॥
इति ज्योतिःसागरः ॥

सिद्धियोगिनी, स्त्री, (सिद्धिप्रिया योगिनी ।)

योगिनीभेदः । यथा, --
“प्रणवाद्याश्च या विद्याः शूद्रादौ न समीरिताः
अस्याञ्चैव विशेषो यत् योषिच्चेत् समुपासयेत् ॥
डाकिनी सा भवत्येव डाकिनीभिः प्रजायते ।
पतिहीना पुत्त्रहीना यथा स्यात् सिद्धियोगिनी”
इति तन्त्रसारः ॥ * ॥
दक्षस्य पञ्चाशत् कन्याः । तथा, --
“सती ज्योतिः स्मृतिः स्वाहा ह्यनसूया स्वधा
तथा ।
प्रीतिः क्षमा च संभूतिः सन्नतिश्च अरुन्धती ॥
कीर्त्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः
बुद्धिर्लज्जा वपुःशान्तिस्तुष्टिः सिद्धिस्तथा रतिः ॥
अरुन्धती वसुर्यामी लम्बा भानुर्मरुन्धती ।
सङ्कल्पा च मुहूर्त्ता च साध्या विश्वा च नामतः
अदितिश्च दितिश्चैव दनुः कालादनायुषा ।
सिंहिका सुरसा कद्रुर्विनता सुरभिः श्वसा ॥
क्रोधा इरा च प्राधा च दक्षकन्याः प्रकीर्त्तिताः
पञ्चाशत् सिद्धियोगिन्यः सर्व्वलोकस्य मातरः ॥”
इति वह्निपुराण्णे गणभेदनामाध्यायः ॥

सिद्धिली, स्त्री, (सिद्धिं लातीति । ला + कः ।

ङीष् ।) क्षुद्रपिपीलिका । इति केचित् ॥

सिद्धिस्थानं, क्ली, (सिद्धेः स्थानम् ।) पुण्यस्थान-

विशेषः । यथा, --
“अतः परं प्रवक्ष्यामि सिद्धिस्थानानि यानि तु
पृष्ठ ५/३५२
यस्मिन्नाराधिता देवी क्षिप्रं भवति सिद्धिदा ॥
तुङ्गारं शतशृङ्गञ्च त्रिकूटं पर्व्वतं तथा ।
विन्ध्या गङ्गा सरिद्यत्र रेवातीरमथापि वा ॥
पयोष्णी असुराख्या तु अथवा मण्डलेश्वरे ।
शङ्करेश्वररामेशे अथवा अमरेश्वरे ॥
वेत्रवत्यास्तटे रम्ये हरिश्चन्द्रे तथा प्रिये ।
सरस्वतीतटे पुण्ये सुगन्धायतनेऽपि वा ।
स्थानेष्वेषु जपं कुर्य्यात् नन्दाहे कृतमानसः ।
भैरवं शूलभेदञ्च चण्डीशं त्रिपुरान्तकम् ॥
अष्टचक्रं चक्रोच्छासं कपालाक्षाग्रनामकम् ।
अजाविकं खरोष्ट्राख्यं स्थानान्येतानि वर्जयेत् ॥”
इति देवीपुराणे कुण्डप्रवेशनामाध्यायः ॥

सिद्धेश्वरी, स्त्री, (सिद्धा ईश्वरी ।) देवीविशेषः ।

यथा, --
“सिद्धां सिद्धेश्वरीं सिद्धविद्याधरगणैर्युताम् ।
मन्त्रसिद्धिप्रदां योनिसिद्धिदां लिङ्गशोभिताम् ॥
इति मुण्डमालातन्त्रे ११ पटले महाविद्या-
स्तोत्रम् ॥ अपि च ।
“कृष्णेन बलभद्रेण गोपैः कंसजिघांसुभिः ।
सङ्के तकं कृतं तत्र मन्त्रनिश्चयकारकम् ॥
तदा सङ्के तकैः सा च सिद्धा देवी प्रतिष्ठिता ।
सिद्धिप्रदा भोगदा च तेन सिद्धेश्वरी स्मृता ।
सङ्केतकेश्वरीञ्चैव दृष्ट्वा सिद्धिमवाप्नुयात् ॥”
इति वाराहे मथुरापरिक्रमप्रादुर्भावनामा-
ध्यायः ॥

सिद्धौघः, पुं, (सिद्धानामोघः ।) गुरुक्रमविशेषः ।

यथा, तन्त्रे ।
“अथ तारागुरून् वक्ष्ये दृष्टादृष्टफलप्रदान् ।
ऊर्द्ध्वकेशो व्योमकेशो नीलकण्ठो वृषध्वजः ॥
दिव्यौघाः सिद्धिदा वत्स सिद्धौघान् शृणु
यत्नतः ।
वशिष्ठः कूर्म्मनाथश्च मीननाथो महेश्वरः ॥
हरिनाथो मानवौघान् शृणु वक्ष्यामि तद्गु-
रून् ।
तारावती भानुमती जयाविद्या महोदरी ॥
सुखानन्दः परानन्दः पारिजातः कुलेश्वरः ।
विरूपाख्यः फेरवी च कथितं तारिणीकुलम् ।
आनन्दनाथशब्दान्ता गुरवः सर्व्वसिद्धिदाः ।
स्त्रियोऽपि गुरुरूपाश्च अम्बान्ताः परि-
कीर्त्तिताः ॥”
इति तन्त्रसारः ॥
अन्यच्च ।
“ब्रह्मानन्दः पूर्णदेवश्चलचित्तश्चलाचलः ।
कुमारः क्रोधनश्चैव तथा च स्वरदीपनः ॥
माया मायावती चैव मानवीघान् शृणु प्रिये ।
वशिष्ठः कूर्म्मनाथश्च मीननाथो महेश्वरः ।
हरिनाथो मानवौघानथ वक्ष्यामि सद्गुरून् ॥”
इति शक्तिरत्नाकरतन्त्रम् ॥
तथा ।
“नारदः काश्यपः शम्भुर्भार्गवः कुलकौशिकः ।
एते पञ्च महादेव सिद्धौघाः परिकीर्त्तिताः ॥”
इति तन्त्रम् ॥

सिध्म, [न्] क्ली, (सिध + मन् । स च कित् ।)

किलासरोगः । इत्यमरः । २ । ६ । ५३ ॥ (यथा,
सुश्रुते । २ । ५ ।
“क्षुद्रकुष्ठान्यपि स्थूलारुष्कं महाकुष्ठमेककुष्ठ-
ञ्चर्म्मदलं विसर्पः परिसर्पः सिध्म विचर्च्चिका
किटिमं पामा रकसा चेति ॥”)

सिध्मं, क्ली, (सिध + बाहुलकात् मक् ।) किलास-

रोगः । इति हेमचन्द्रः ॥ सप्तमहाकुष्ठान्तर्गत-
कुष्ठरोगविशेषः । तल्लक्षणं यथा, --
“श्वेतं ताम्रं तनु च यद्रजो घृष्टं विमुञ्चति ।
प्रायश्चोरसि तत् सिध्ममलावुकुसुमोपमम् ॥”
इति माधवकरः ॥
त्वङ्मात्रगता सिध्मपुष्पिका इति अलावुपुष्पवत्
श्वेतं सिध्मं सिध्मपुष्पिका । महाकुष्ठन्तु सिध्मं
धातुप्रविष्टं सिध्मपुष्पिकेतरं श्वेतलोहितवर्णम्
एतेन सिध्मस्य द्वैविध्यं सूचितम् । इति विजय-
रक्षितादयः ॥

सिध्मपुष्पिका, स्त्री, (सिध्मस्य किलासस्य पुष्पं

विद्यते यस्याः । सिध्मपुष्प + ठन् ।) कुष्ठव्याधि-
भेदः । सा च त्वङ्मात्रगता अलावुपुष्पवत्श्वेता
इति रुग्विनिश्चयटीकायां विजयरक्षितादयः ॥

सिध्मलः, त्रि, (सिध्मं अस्यास्तीति । सिध्म +

“सिध्मादिभ्यश्च ।” ५ । २ । ९७ । इति लच् ।)
किलासी । इत्यमरः । २ । ६ । ६१ ॥ (यथा,
वाजसनेयसंहितायाम् । ३० । १७ ।
“विश्वेभ्यो भूतेभ्यः सिध्मलं भूत्यै जागरण-
मभूत्यै इति ॥”)

सिध्मला, स्त्री, (सिध्ममस्या अस्तीति । लच् + टाप् ।)

मत्स्यविकृतिः । इति मेदिनी ॥ (औषधविशेषः ।
तद्यथा, --
“त्वगादिहीनाः संशुद्धाः प्रत्यग्राः शकुलादयः ।
श्लक्ष्णचूर्णीकृतं तेषां शीते पलशतत्रयम् ॥
शतेन कटुतैलेऽस्य व्योषरामठधान्यकैः ।
क्रिमिघ्नदीप्यकनिशाचबिकाग्रन्थिकार्द्रकैः ॥
जीरकद्वयवृश्चीरसुरसार्ज्जकसिग्रुकैः ।
दशमूलात्मगुप्ताभ्यां मार्कवैर्लवणैस्त्रिभिः ॥
चूर्णितैः पलिकैः सार्द्ध मारणालपरिप्लुतैः ॥
विन्यसेत् स्नेहपात्रे तु धान्यराशौ पुनर्न्यसेत् ।
सप्तरात्रात् समुद्धृत्य पानभक्षणभोजनैः ।
सिध्मलेयं प्रयोक्तव्या सामे वायौ विशेषतः ॥
भग्नरुग्नाश्चू तहताः कम्पिनः पीठसर्पिणः ।
गृध्रसीमग्निसादञ्च शूलगुल्मोदराणि च ।
वलीपलितखालित्यं हत्वास्युरमलोन्द्रियाः ॥”
इति वैद्यकचक्रपाणिसंग्रहे आमवाताधिकारे)

सिध्मवान्, [त्] त्रि, (सिध्ममस्त्यस्येति । सिध्म +

पक्षे मतुप् । मस्य वः ।) किलासरोगविशिष्टः
इति सिध्मशब्दादस्त्यर्थे वतुप्रत्ययेन निष्पन्नः ॥

सिध्मा, स्त्री, किलासरोगः । इति हेमचन्द्रः ॥

सिध्यः, पुं, (सिध्यन्त्यस्मिन्नर्था इति । सिध +

“पुष्पसिध्यौ नक्षत्रे ।” ३ । १ । ११६ । इति
क्यप्प्रत्ययेन निपातितः ।) पुष्यनक्षत्रम् । इत्य-
मरः । १ । ३ । २२ ॥

सिध्रः, पुं, साधुः । वृक्षः । इत्यु नादिकोषः ॥

सिध्रका, स्त्री, (सिध्र + स्वार्थे कन् । अभिधानात्

स्त्रीत्वम् ।) वृक्षविशेषः । इत्यमरः । ३ । ५ । ८ ॥
सेधति रोगहन्तृत्वमिति सिध्रमा । सीध इति
ख्यातो वृक्षः । षिधु गत्यां नाम्नीति रक् ततः
स्वार्थे कः संज्ञाविधेरनित्यत्वात् न इत् । इति
भरतः ॥

सिध्रकावणं, क्ली, (सिध्रकाणां वनमिति । णत्वम् ।)

देवोद्यानम् । इति त्रिकाण्डशेषः ॥

सिनं, क्ली, (सिनोति बध्राति आत्मानमिति । षिञ्

बन्धने + “इण्षिञ्जीति ।” उणा० ३ । २ ।
इति नक् ।) शरीरम् । इति संक्षिप्तसारो-
णादिवृत्तिः ॥ (अन्नम् । इति निघण्टुः । २ । ७ ॥

सिनः, पुं, (सिनोतीति । षिञ् बन्धने + “इण्

सिञ्जीति ।” उणा० ३ । २ । इति नक् ।)
ग्रासः । इति मुग्धबोधव्याकरणम् ॥ काणः ।
इति केचित् ॥ शुक्लगुणविशिष्टे, त्रि ॥

सिनी, स्त्री, शुक्लगुणविशिष्टा । यथा । श्वेता सिता

सिनी श्येनी । इति व्याडिः । इति सिनीवाली-
शब्दटीकायां भरतः ॥

सिनी(वा)वाली, स्त्री, (सिनी शुक्ला बाला चन्द्र-

कला अस्यामिति । यद्वा, सिन्या शुक्लया चन्द्र-
कलया वल्यते मिश्र्यते या । वल मिश्रणे +
घञ् । ततो ङीष् ।) दृष्टेन्दुकलामावास्या ।
इत्यमरः । १ । ४ । ९ ॥ सा चतुर्द्दशीयुक्ता-
मावस्या । सिनी श्वेता वाला चन्द्रकलास्यां
सिनीवाली नदादित्वादीप् । इति तट्टीकायां
भरतः ॥ (यथा, भागवते । ४ । १२ । ४८ ।
“पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणे-
ऽथवा ॥”)
दुर्गा । इति मेदिनी ॥

सिन्दुकः, पुं, सिन्दुवारवृक्षः । इत्यमरः । २ । ४ । ६८ ॥

(तथास्य पर्य्यायगुणाश्च ।
“सिन्दुवारः श्वेतपुष्पः सिन्दुकः सिन्दुवारकः ॥
नीलपुष्पी तु निर्गुण्डी शेफाली सुवहा च सा ।
सिन्दुकः स्मृतिदस्तिक्तः कषायः कटुको लघुः ॥
केश्यो नेत्रहितो हन्ति शूलशोथाममारुतान् ।
कृमिकुष्ठारुचिश्लेष्मज्वरान्नीलापि तद्विधा ।
सिन्दुवारदलं जन्तु वातश्लेष्महरं लघु ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

सिन्दु(न्धु)वारः, पुं, सिन्धुं गजमदं वारयति तिक्त-

त्वात् । वृ + अण् । पाक्षिको धस्य दः ।) वृक्ष-
विशेषः । निसिन्दा इति भाषा । इनछुर इति
च क्वचित् । तत्पर्य्यायः । सिन्दुकः २ इन्द्र-
सुरिसः ३ निर्गुण्डी ४ इन्द्राणिका ५ । इत्यमरः ।
२ । ४ । ६८ ॥ सिन्धुकः ६ सिन्धुवारकः ७ इन्द्राणी
८ पौलोमी ९ शक्राणी १० कासनाशिनी ११ ।
इति रत्नकोषः ॥ श्वेतपुष्पः १२ सिन्दुवारकः
२३ स्थिरसाधनकः १४ अनन्तः १५ सिद्धकः
१६ अर्थसिद्धकः १७ । अस्य गुणाः । कटुत्वम् ।
तिक्तत्वम् । कफवातक्षयकुष्ठकण्डूतिशूलना-
शित्वम् । कायसिद्धिदत्वञ्च । इति राजनिर्घण्टः ॥
पृष्ठ ५/३५३
अपि च ।
“सिन्धुकः स्मृतिदस्तिक्तः कषायः कटुको लघुः
केश्यो नेत्रहितो हन्ति शूलशोथाममारुतान् ॥
कृमिकुष्टारुचिश्लेष्मव्रणान् नीलापि तद्विधा ।
सिन्धुवारदलं तत्तु वातश्ले ष्महरं लघु ॥”
इति भावप्रकाशः ॥ * ॥
“स्यन्दं वारयति सिन्दुवारः षण् निपातनात् जिः
अत उच्च । सिन्दुकसिन्दुवारौ दन्त्यसादी तवर्ग-
तृतीयवन्ताविति बहवः । केचित्तु सिन्धुं समुद्र-
मपि वारयति शोषयति तीक्ष्णरसत्वेन कफघ्न-
त्वात् सिन्धुवारः सिन्धुकसिन्धु वारौ तवर्गचतुर्थ-
वन्तावित्याहुः ।” इति भरतः ॥

सिन्दूरं, क्ली, (स्यन्दते इति स्यन्दू ङ क्षरणे +

“स्यन्देः सम्प्रसारणञ्च ।” उणा० १ । ६९ ।
इति ऊरन् । सम्प्रसारणञ्च ।) रक्तवर्णचूर्ण-
विशेषः । सिँदूर इति भाषा । तत्पर्य्यायः ।
नागसम्भवम् २ । इत्यमरः । २ । ९ । १०५ ॥
नागरेणुः ३ रक्तम् ४ सीमन्तकम् ५ नागजम् ६
नागगर्भम् ७ शोणम् ८ वीररजः ९ गणेश-
भूषणम् १० सन्ध्यारागम् ११ शृङ्गारकम् १२
सौगाग्यम् १३ अरुणम् १४ मङ्गल्यम् १५ ।
अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् ।
व्रणविरोपणत्वम् । कुष्ठास्रभ्रमकण्डूतिविसर्पशम-
नत्वञ्च । इति राजनिर्घण्टः ॥ * ॥ अपि च ।
“सिन्दूरं रक्तरेणुञ्च नागगर्भञ्च सीसजम् ।
सीसोपधातुः सिन्दूरं गुणैस्तत् सीसवन्मतम् ॥
संयोगजप्रभावेण तस्याप्यन्ये गुणाः स्मृताः ।
सिन्दूरमुष्णं वीसर्पकुष्ठकण्डविषापहम् ।
भग्नसन्धानजननं व्रणशोधनरोहणम् ॥” * ॥
सिन्दूरस्य शोधनमाह ।
“दुग्धाम्लयोगतस्तस्य विशुद्धिर्गदिता बुधैः ।”
इति भावप्रकाशः ॥ * ॥
सिन्दूरदानमन्त्रो यथा, --
“सिन्दूरञ्च वंरं रम्यं भाले शोभाविवर्द्धनम् ।
पूरणं भूषणानाञ्च सिन्दूरं प्रतिगृह्मताम् ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २१ अध्यायः ॥ * ॥
तस्य धारणात् पत्युरायुर्व्वृद्धिर्भवति । यथा, --
“हरिद्रां कुङ्कु मञ्चैव सिन्दूरं कज्जलं तथा ।
कार्पासकञ्च ताम्बूलं माङ्गल्याभारणं शुभम् ॥
केशसंस्कारकवरीकरकर्णविभूषणम् ।
भर्त्तुरायुष्यमिच्छन्ती दूरयेन्न पतिव्रता ॥”
इति काशीखण्डे ४ अध्यायः ॥

सिन्दूरः, पुं, (स्यन्दते इति । ऊरन् ।) वृक्ष-

विशेषः । इति मेदिनी ॥

सिन्दूरकारणं, क्ली, (सिन्दूरस्य कारणमिति ।)

सीसकम् । इति हेमचन्द्रः ॥

सिन्दूरतिलकः, पुं, (सिन्दूरस्येव तिलको यस्य ।)

हस्ती । इति मेदिनी ॥

सिन्दूरतिलका, स्त्री, (सिन्दूरस्य तिलको यस्याः ।)

साधवा नारी । इति मोदनी ॥

सिन्दूरपुष्पी, स्त्री, (सिन्दूरवत् रक्तवर्णं पुष्पं

यस्याः । पाककर्णेत्रि ङीष् ।) पुष्पवृक्षविशेषः ।
तत्पर्य्यायः । सिन्दूरी २ वोरपुष्पी ३ तृणपुष्पी ४
करच्छदा ५ शोणपुष्पी ६ । अस्या गुणाः ।
कटुत्वम् । तिक्तत्वम् । कषायत्वम् । श्लेष्मवात-
शिरोऽर्त्तिभूतनाशित्वम् । चण्डीप्रियत्वञ्च ।
इति राजनिर्घण्टः ॥

सिन्दूरी, स्त्री, (सिन्दूरं तद्वद्वर्णोऽस्या अस्तीति ।

अच् । गौरादित्वात् ङीष् ।) रोचनी । रक्त-
चेलिका । धातकी । इति मेदिनी ॥

सिन्धुः, पुं, (स्यन्दते इति । स्यन्दू प्रस्रवणे +

“स्यन्देः सम्प्रसारणं धश्च ।” उणा० १ । १२ ।
इतिः उः । धकारादेशः सम्प्रसारणञ्च ।)
समुद्रः । इत्यमरः । १ । १० । १ ॥ यथा,
भागवते । ३ । ११ । ३१ ।
तावत्त्रिभुवनं सद्यः कल्पान्तै धितसिन्धवः ।
प्लावयन्त्युत्कटाटोपचण्डवातेरितोर्म्मयः ॥”)
वमथुः । देशविशेषः । (यथा, रघुः । १५ ।
८७ ।
“युधाजितश्च सन्देशात् स देशं सिन्धुनामकम् ।
ददौ दत्तप्रभावाय भरताय भृतप्रजः ॥”)
नदविशेषः । इति मेदिनी ॥ इन्दस् इति
ख्यातः । (यथा, रघुः । ४ । ६७ ।
“विनीताध्वश्रमास्तस्य सिन्धु तीरविचेष्टनैः ।
दुधुवुर्वाजिनः स्कन्धान् लग्नकुङ्कुमकेशरान् ॥”)
गजमदः । इति हेमचन्द्रः ॥ सिन्धु वारवृक्षः ।
इति शब्दचन्द्रिका ॥ श्वेतटङ्कणम् । इति राज-
निर्घण्टः ॥ रागविशेषः । स च मालकौशराग-
पुत्त्रः । यथा, --
“माधवः शोभनः सिन्धु र्म्मारुमेवाडुकुन्तलाः ।
कलिङ्गः सोमसंयुक्तः कौशिकस्य सुता इमे ॥”
इति सङ्गीतसिन्धुः ॥

सिन्धुः, स्त्री, (स्यन्दते इति । स्यन्द + उः । सम्प्र-

सारणम् । दस्य धश्च ।) नदी । इति मेदिनी ॥
(यथा, मुण्डकोपनिषदि । २ । १ । ९ ।
“अतः समुद्रा गिरयश्च सर्व्वे-
ऽस्मात् स्यन्दन्ते सिन्धवः सर्व्वरूपाः ।
अतश्च सर्व्वा ओषधयो रसश्च
येनैष भूतैस्तिष्ठते ह्यन्तरात्मा ॥”)
नदीविशेषः । तज्जलगुणाः । यथा, --
“शतद्रोर्विपाशायुजः सिन्धुनद्याः
सुशीतं लघु स्वादु सर्व्वामयघ्नम् ।
जलं निर्म्मलं दीपनं पाचनञ्च
प्रदत्ते बलं बुद्धिमेधायुषञ्च ॥”
इति राजनिर्घण्टः ॥

सिन्धुकः, पुं, (सिन्धुरेव । स्वार्थे कन् ।) सिन्धु-

वारवृक्षः । इति शब्दचन्द्रिका ॥ (यथा, बृहत्-
संहितायाम् । ५९ । ६ ।
“वैश्यानां जीवकखदिर-
सिन्धुकस्पन्दनाश्च शुभफलदाः ॥”)

सिन्धुकफः, पुं, (सिन्धोः कफ इव ।) समुद्रफेनः ।

इति शब्दरत्नावली ॥

सिन्धुकरं, क्ली, (सिन्धौ सिन्धुदेशे कीर्य्यते इति

कॄ + अप् ।) श्वेतटङ्कणम् । इति राजनिर्घण्टः ॥

सिन्धुखेलः, पुं, (सिन्धौ तत्समीपे खेलतीति ।

खेल + कः ।) सिन्धुदेशः । इति शब्दरत्ना-
वली ॥

सिन्धुजं, क्ली, (सिन्धोर्जायते इति । जन + डः ।)

सैन्धवलवणम् । इत्यमरः । २ । ९ । ४२ ॥
(यथा, सुश्रुते । ४ । ३७ ।
“वचापुष्करकुष्ठैलामदनामरसिन्धुजैः ॥”)
समुद्रजाते, त्रि ॥ (यथा, महाभारते । ३ ।
७१ । १४ ।
“शुद्धान् दशभिरावर्त्तैः सिन्धुजान् वातरंहसः ॥)

सिन्धुजन्म, [न्] क्ली, (सिन्धोर्जन्म उत्पत्तिर्यस्य ।)

सैन्धवलवणम् । इति रत्नमाला ॥

सिन्धुजन्मा, [न्] पुं, (सिन्धोः क्षीरसमुद्रात्

जन्म यस्य ।) चन्द्रः । इति जटाधरः ॥

सिन्धुजा, स्त्री, (सिन्धोर्जायते इति । जन + डः ।)

लक्ष्मीः । इति जटाधरः ॥

सिन्धुडा, स्त्री, मालवरागभार्य्या । यथा, --

“धामुषी मालसी रामकिरी च सिन्धुडा तथा ।
अश्ववारी भैरवी च मालवस्य प्रिया इमाः ॥
इति सङ्गीतदामोदरः ॥

सिन्धुनन्दनः, पुं, (सिन्धोः क्षीरोदस्य नन्दनः ।)

चन्द्रः । इति त्रिकाण्डशेषः ॥

सिन्धुनाथः, पुं, (सिन्धुनां नदीनां नाथः ।)

समुद्रः । इति केचित् ॥ (यथा, माघे । १४ । ६८ ।
“मत्कुणाविव पुरा परिप्लवौ
सिन्धु नाथशयने निषेदुषः ।
गच्छतः स्म मधुकैटभौ विभो-
र्यस्य नैद्रसुखविघ्नतां क्षणम् ॥”)

सिन्धुपुत्त्रः, पुं, (सिन्धोः पुत्त्रः ।) मर्कटेन्दुः । इति ।

शब्दचन्द्रिका ॥ चन्द्रश्च ॥

सिन्धुपुष्पः, पुं, (सिन्धौ पुष्प्यति प्रकाशते इति ।

पुष्प फुल्लने + अच् ।) शङ्खः । इति शब्द-
चन्द्रिका ॥

सिन्धुमन्थजं, क्ली, (सिन्धु मन्थात् जायते इति ।

जन + डः ।) सैन्धवलवणम् । इति रत्नमाला ॥

सिन्धुरः, पुं, (सिन्धुं मदं राति ददातीति । रा +

कः ।) हस्ती । इति हेमचन्द्रः ॥ (यथा,
आर्य्यासप्तशत्याम् । १९८ ।
“गतिगञ्जितवरयुवतिः करी कपोलौ करोतु
मदमलिनौ ।
मुखबन्धमात्रसिन्धुर लम्बोदर किं मदं वहसि ॥”

सिन्धुरद्वेषी, [न्] पुं, (सिन्धुरं हस्तिनं द्वेष्टीति ।

द्विष + णिनिः ।) सिंहः ॥

सिन्धुलवणं, क्ली, (सिन्धु जातं लवणम् ।) सैन्ध-

वम् । इति रत्नमाला ॥

सिन्धु वारः, पुं, (सिन्धु मपि वृणोति गत्येति ॥

वृ + अण् ।) हयोत्तमः । इति त्रिकाण्डशेषः ॥
(सिन्धुं मदजलमपि वारयति तिरस्करोति
तिक्तरसेन । वृ + णिच् + अण् ।) सिन्धुवार-
वृक्षः । इत्यमरः । २ । ४ । ६८ ॥ यथा, --
“विसुन्धकः सिन्धु वारः सिन्धुकं सुरसोऽपि च ।
तथेन्द्रसुरसस्त्विन्द्रसुरिसः सिन्धु वारितः ।
पृष्ठ ५/३५४
निर्गुण्डीन्द्राणिकेन्द्राणी सुरसा सिन्धुवारकः ॥”
इति शब्दरत्नावली ॥
अस्य गुणाः ।
“सिन्धुवारो विषश्लेष्मव्रणकुष्ठक्षयापहः ।”
इति राजवल्लभः ॥

सिन्धुवारकः, पुं, (सिन्धुवार एव । स्वार्थे कन् ।)

सिन्धुवारवृक्षः । इति शब्दरत्नावली ॥

सिन्धुवारितः, पुं, (सिन्धुर्मदजलं वारितो येन ।)

सिन्धु वारवृक्षः । इति शब्दरत्नावली ॥

सिन्धुवेषणः, पुं, गम्भारीवृक्षः । इति शब्द-

चन्द्रिका ॥

सिन्धुशयनः, पुं, (सिन्धुः क्षीरोदः शयनं यस्य ।)

विष्णुः । क्षीरोदशायित्वात् ॥

सिन्धुसङ्गमः, पुं, (सिन्धूनां सङ्गमो यत्र ।) नदी-

नदसमुद्राणां परस्परमेलकः । तत्पर्य्यायः ।
सम्भेदः २ । इत्यमरः । १ । १० । ३५ ॥ सिन्ध्वो-
र्नद्योः सङ्गमो मेलकः सम्भेदः । सम्भिदन्ति
मिलन्ति अस्मिन्निति सम्भेदः घञ् । सिन्धु-
शब्देन नदी नदः समुद्रश्चोच्यते तेन नद्योर्नदयो-
र्नदीसमुद्रयोश्च मेलकः सम्भेदः । इति वैकुण्ठा-
दयः । इति भरतः ॥

सिन्धूद्भवं, क्ली, (सिन्धोरुद्भवो यस्य ।) सैन्धव-

लवणम् । इति रत्नमाला ॥ (यथा, सुश्रुते ।
१ । ४४ ।
“षिडङ्गसारो मरिचं सदारु-
योगः स सिन्धू द्भवमूत्रयुक्तः ॥”)

सिन्धूपलं, क्ली, (सिन्धोः समुद्रस्य उपलमिव ।)

सैन्धवलवणम् । इति हारावली । ५५ ॥

सिप्रं, क्ली, (सिच् + क्विप् । सिचं क्षरणं रातीति ।

रा + कः । पृषोदरादित्वात् चस्य पः ।) सरो-
वरविशेषः । यथा, कालिकापुराणे ४१ अध्याये ।
“एतस्मिन्नन्तरे शम्भुः सिप्रं त्यक्त्वा तदा सरः ।
गङ्गावतारमगमत् हिमवत्प्रस्थमुत्तमम् ॥”

सिप्रः, पुं, (सिच् क्षरणे + क्विप् । तं रातीति ।

रा + कः । पृषोदरादित्वात् साधुः ।) चन्द्रः ।
इति त्रिकाण्डशेषः ॥ निदाघसलिलम् । घर्म्मः ।
इति मेदिनी ॥

सिप्रा, स्त्री, (सिप्र + स्त्रियां टाप् ।) नदीमेदः ।

इति मेदिनी ॥ सा तु उज्जयनीदेशसमीपे
वर्त्तते । (यथा, रघुः । ६ । ३५ ।
“अनेन यूना सह पार्थिवेन
रम्भोरु ! कच्चित् मनसो रुचिस्ते ।
सिप्रातरङ्गानिलकम्पितासु
विहर्त्तुमुद्यानपरम्परासु ॥”)
तस्या उत्पत्तिर्यथा कालिकापुराणे २३ अ-
ध्याये ।
“एवं विवाह्य विधिबत् सौवर्णे मानसाचले ।
अरुन्धतीं वशिष्ठस्तु मोदमाप तया सह ॥
तत्र यत् पतितं तोयं मानसाचलकन्दरे ।
विवाहावभृतार्थाय शान्त्यर्थं च पुरा कृतम् ॥
ब्रह्मविष्णुमहादेवपाणिभिः समुदीरितम् ।
तत्तोयं सूप्तधा भूत्वा पतितं मानसाचलात् ॥
हेमाद्रेः कन्दरे सानौ सरस्याञ्च पृथक् पृयक् ।
तत्तोयं पतितं सिप्रे देवभोग्ये सरोवरे ।
तेन सिप्रा नदी जाता विष्णुना प्रेरिता
क्षितिम् ॥”

सिमः, पुं, (षि ञ् बन्धने + “अविसिविसिशुषिभ्यः

कित् ।” उणा० १ । १४३ । इति मन् । सच
कित् ।) समुदायः । सिमः सर्व्वः । इति सिद्धा-
न्तकौमुदी ॥ (यथा, ऋग्वेदे । १ । ११५ । ४ ।
रात्री वासस्तनुते सिमस्मै ॥”)

सिम्बा, स्त्री, (षम वैक्लव्ये + उल्वादयश्चेति

साधुः ।) शमी । यथा, --
“शमी समी शिम्बिशिम्बसिम्बासिम्बिरपीष्यते
इति द्विरूपकोषः ॥
द्व छिमिडा इति ख्याते शुँठी इति ख्याते ।
शाम्यति वृद्धिरनया शमी शमभिर्य शमे
नाम्नीति इः पाच्छोणादीति ईपि शमी ताल-
व्यादिः शमेः पूर्व्वेण वे निपातनादकारस्य इत्वे
शिम्बापि तालव्यादिः । सिम्बा दन्त्यादिरिति
पुरुषोत्तमादयः । सिम्बिशब्दौऽप्यत्र शिम्बिरपि
तालव्यादिर्दन्त्यादिश्च । इति भरतः ॥

सिम्बिः, स्त्री, शिम्बा । इति द्विरूपकोषः ॥

नखीनामगन्धद्रव्यम् । इति राजनिर्घण्टः ॥

सिम्बिजा, स्त्री, शमीधान्यम् । इति भावप्रकाशः ॥

तालव्यशकारादिरपि ॥

सिम्बी, स्त्री, (सिम्बि + पक्षे ङीष् ।) निष्पावी ।

इति राजनिर्घण्टः ॥ अपि च ।
“सिम्बा सिम्बी पुस्तसिम्बिस्तथा पुस्तकसिम्बिका
शिम्बिद्वयञ्च मधुरं रसे पाके हिमं गुरु ।
बल्यं दाहकरं प्रोक्तं श्लेष्मलं वातपित्तजित् ॥”
इति भावप्रकाशः ॥

सिरः, पुं, पिप्पलीमूलम् । इति हेमचन्द्रः ॥ (पिप्प-

लीमूलशब्देऽस्य विषयो ज्ञेयः ॥)

सिरा, स्त्री, (सिनोतीति । षिञ् बन्धने + रक् ।

इत्युणादौ उज्ज्वलः । २ । १३ ।) नाडी । (यथा,
सुश्रुते । ३ । ७ ।
“व्याप्नुवन्त्यभितो देहं नाभितः प्रसृताः सिराः
प्रतानाः पद्मिनीकन्दाद्विसादीनां यथा जलम् ॥”
यथा च ।
“ध्मानाद्धमन्यः स्रवणात् स्रोतांसि सरणात्
सिराः ॥”
इति चरके सूत्रस्थाने त्रिंशेऽध्याये ॥
तथा च ।
“सप्त सिराशतानि भवन्ति । याभिरिदं शरीर-
माराम इव जलहारिणीभिः केदार इव च
कुल्याभिरुपस्निह्यतेऽनुगृह्यते चाकुञ्चनप्रसा-
रणादिभिर्विशेषैः । द्रुमपत्रसेवनीनामिव च
तासां प्रतानास्तासां नाभिर्मूलं ततश्च प्रस-
रन्त्यूर्द्ध्वमधस्तिर्य्यक् च ॥ भवतश्चात्र ॥
यावत्यस्तु सिरा काये सम्भवन्ति शरीरिणाम् ।
नाभ्यां सर्व्वा निबद्धास्ताः प्रतन्वन्ति समन्ततः ॥
नाभिस्थाः प्राणिनां प्राणाः प्राणान्नाभिर्व्युपा-
श्रिता ।
सिराभिरावृता नाभिश्चक्रनाभिरिवारकैः ॥
तासां मूलसिराश्चत्वारिंशत्तासां वातबाहिन्यो
दश पित्तवाहिन्यो दश कफवाहिन्यो दश दश
रक्तवाहिन्यः । तासान्तु वातवाहिनीनां वात-
स्थानगतानां पञ्चसप्ततिशतं भवति तावत्य एव
पित्तवाहिन्यः पित्तस्थाने कफवाहिन्यश्च कफ-
स्थाने रक्तवाहिन्यश्च यकृत्प्ली ह्नोरेवमेतानि सप्त
सिराशतानि ।
तत्र वातवाहिन्यः सिरा एकस्मिन् सक्थ्निपञ्च-
विंशतिः एतेनेतरसक्थिबाहू च व्याख्यातौ ।
विशेषतस्तु कोष्ठे चतुस्त्रिंशत्तासां गुदमेढ्राश्रिताः
श्रोण्यामष्टौ द्वे द्वे पार्श्वयोः षट् पृष्ठे तावत्य एव
चोदरे दश वक्षसि । एकचत्वारिंशज्जत्रुण ऊर्द्धं
तासां चतुर्द्दश ग्रीवायां कर्णयोश्चतस्रः । नव
जिह्वायाम् । षट्नासिकायाम् । अष्टौ नेत्रयोः ।
एवमेतत् पञ्चसप्तत्यधिकशतं वातवहानां
सिराणां व्याख्यातम् । एष एव विभागः शेषा-
णामपि । विशेषतस्तु पित्तवाहिन्यो नेत्रयोर्द्दश
कर्णयोर्द्वे । एवं रक्तवहाः कफवहाश्च । एव-
मेतानि सप्त सिराशतानि सविभागानि व्याख्या-
तानि । भवन्ति चात्र ।
क्रियाणामप्रतीघातममोहं बुद्धिकर्म्मणाम् ।
करोत्यन्यान् गुणांश्चापि स्वाः सिराः पवन-
श्चरन् ॥
यदा तु कुपितो वायुः स्वाः सिराः प्रतिपद्यते ।
तदास्य विविधा रोमा जायन्ते वातसम्भवाः ॥
भ्राजिष्णुतामन्नरुचिमग्निदीप्तिमरोगताम् ।
संसर्पत् स्वाः सिराः पित्तं कुर्य्याच्चान्यान्
गुणानपि ॥
यदा प्रकुपितं पित्तं सेवते स्ववहाः सिराः ।
तदास्य विविधा रोगा जायन्ते पित्तसम्भवाः ॥
स्नेहमङ्गेषु सन्धीनां स्थैर्य्यं बलमुदीर्णताम् ।
करोत्यन्यान् गुणांश्चापि बलासः स्वाः सिरा-
श्चरन् ॥
यदा तु कुपितः श्लेष्मा स्वाः सिराः प्रतिपद्यते
तदास्य विविधा रोगा जायन्ते श्लेष्मसम्भवाः ॥
धातूनां पूरणं वर्णं स्पर्शज्ञानमसंशयम् ।
स्वाः सिराः सञ्चरद्रक्तं कुर्य्याच्चान्यान् गुणानपि
यदा तु कुपितं रक्तं सेवते स्ववहाः सिराः ।
तदास्य विविधा रोगा जायन्ते रक्तसम्भवाः ॥
नहि वातं सिराः काश्चिन्न पित्तं केवलन्तथा ।
श्लेष्माणं वा वहन्त्येता अतः सर्व्ववहा स्मृताः ॥
प्रदुष्टानां हि दोषाणा मुच्छ्रितानां प्रधाबताम्
ध्रुवमुन्मार्गगमनमतः सर्व्ववहाः स्मृताः ॥
तत्रारुणा वातवहाः पूर्य्यन्ते वायुना सिराः ।
पित्तादुष्णाश्च नीलाश्च शीता गौर्य्यः स्थिराः
कफात् ॥
असृग्वहास्तु रोहिण्यः सिरा नात्युष्णशीतलाः
अत ऊर्द्ध्वं प्रवक्ष्यामि न विध्येद्याः सिरा
भिषक् ॥
वैकल्यं मरणञ्चापि व्यधात्तासां ध्रु वं भवेत् ।
सिराशतानि चत्वारि विद्याच्छाखासु वुद्धिमान्
पृष्ठ ५/३५५
षट्त्रिंशच्च शतं कोष्ठे चतुःषष्टिञ्च मूर्द्धनि ।
शाखासु षोडश सिराः कोष्ठे द्वात्रिंशदेव तु ॥
पञ्चाशज्जत्रुणश्चोर्द्धमवेध्याः परिकीर्त्तिताः ॥”
इति सुश्रुते शारीरस्थाने सप्तमेऽध्याये ॥)
अम्बु, वाहिनी । इति हेमन्द्रः ॥

सिल्लकी, स्त्री, शल्लकीवृक्षः । इत्यमरटीकायां

भरतः । २ । ४ । १२४ ॥

सिवरः, पु, हस्ती । इति जटाधरः ॥

सिषाधयिषा, स्त्री, (साधयितुमिच्छा । साध +

सन् + अः । स्त्रियां टाप् ।) साधनेच्छा । यथा,
भाषापरिच्छेदे । ७० ।
“सिषाधयिषया शून्या सिद्धिर्यत्र न विद्यते ।
स पक्षस्तत्र वृत्तित्वज्ञानादनुमितिर्भवेत् ॥”

सिहुण्डः, पुं, स्नुहीवृक्षः । इति शब्दरत्नावली ॥

(स्नु हीशब्दऽस्य विवृतिर्विज्ञेया ॥)

सिह्लः, पुं, (स्निह्यति मनो यत्र । स्निह + घञ् ।

पृषोदरादित्वात् साधुः ।) गन्धद्रव्यविशेषः ।
सिह्ना इति ख्यातः । तत्पर्य्यायः । तुरुष्कः २
पिण्डकः ३ यावनः ४ । इत्यमरः । २ । ४ । १२८ ॥
सिह्लकः ५ पिण्याकः ६ कपिचञ्चलः ७ तैलाख्यः
८ यावः ९ यावलः १० । इति शब्दरत्नावली ॥
सल्लकीद्रवः ११ पिष्टकः १२ तैलपर्णी १३ वृक-
धूपः १४ कॢप्तधूपः १५ । इति जटाधरः ॥

सिह्लकः, पुं, (सिह्ल एव । स्वार्थे कन् ।) सिह्लः ।

इति शब्दरत्नावली ॥ (शिलारसः । अस्य
पर्य्यायो यथा, --
“कपिनामा कपितैलं कृत्रिमं कपिलश्चलः ।
तुरुस्को मुक्तिमुक्तश्च पिण्डातः सिह्लको रसः ॥”
इति वैद्यकरत्नमालायाम् ॥
“सिह्लकस्तु तुरुष्कः स्याद्यतो यवनदेशजः ।
कपितैलञ्च सङ्ख्यातस्तथाच कपिनामकः ॥”
अस्य गुणा यथा, --
“सिह्लकः कटुकः खादुः स्निग्धोष्णः शुक्र-
कान्तिकृत् ।
वृष्यः कण्ठ्यः स्येदकुष्ठज्वरदाहग्रहापहः ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

सिह्लकी, स्त्री, सल्लकी । इति शब्दरत्नावली ॥

सिह्लभूमिका, स्त्री, सल्लकी । इति शब्दरत्ना-

वली ॥

सीक, ऋ ङ सेके । इति कविक्ल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) ऋ, असिसीकत् । ङ,
सेकते । इति दुर्गादासः ॥

सीक, कि आमृशि । इति कविकल्पद्रुमः ॥ (चुरा०-

पक्षे भ्वा०-पर०-सक०-सेट् ।) कि, सीकयति
सीकति । आमृशि स्थर्शे । प्रमाणं तालव्यादौ
दृश्यम् । इति दुर्गादासः ॥

सीकरः, पुं, शीकरः । इत्यमरटीकायां भरतः ।

१ । ३ । ११ ॥ (यथा, रघुः । ५ । ४२ ।
“स नर्म्मदा रोधसि सीकरार्द्रै-
र्मरुद्भिरानर्त्तितनक्तमाले ।
निवेशयामास विलङ्घिताध्वा
क्लान्तं रजोधूसरकेतु सैन्यम् ॥”)

सीता, स्त्री, (सिनोतीति । सिञ्न बन्धे + बाहु-

लकात् क्तः । दीर्घश्च । इत्युणादौ उज्ज्वलः । ३ ।
९० ।) लाङ्गलपद्धतिः । इत्यमरः । २ । ९ । १४ ॥
“द्वे लाङ्गलरेखायां सिनोति खनति भूमिं सीता
षि न ग ञ बन्धे नाम्नीति तः निपातनाद्दीर्घः ।
सीता दन्त्यसादिः । शेते भुवि इति शीता
तालव्यशादिश्च ।” इति भरतः ॥ (यथा,
कुमारे । ५ । ६१ ।
“न वेद्मि स प्रार्थितदुर्लभः कदा
सखीभिरस्रोत्तरमीक्षितामिमाम् ।
तपःकृशामभ्युपपत्स्यते सखीं
वृषेव सीतां तदवग्रहक्षताम् ॥”)
जनकराजनन्दिनी । सा तु श्रीरामपत्नी । तत्-
पर्य्यायः । वैदेही २ मैथिली ३ जानकी ४
धरणीसुता ५ । इति हेमचन्द्रः ॥ भूमिसम्भवा ६
इति जटाधरः ॥ अस्या उत्पत्तिर्यथा, वाल्मी-
कीये रामायणे । ६६ । १३ -- १४ ।
“अथ मे कृषतः क्षेत्रं लाङ्गलादुत्थिता ततः ।
क्षेत्रं शोधयता लब्धा नाम्ना सीतेति विश्रुता ॥
भूतलादुत्थिता सा तु व्यवर्द्धत ममात्मजा ।
वीर्य्यशुल्केति मे कन्या स्थापितेयमयोनिजा ॥”
अपि च तट्टीकाधृतपद्मपुराणम् ।
“अथ लोकेश्वरी लक्ष्मीर्जनकस्य पुरे स्वतः ।
शुभक्षेत्रे हलोत्खाते तारे चोत्तरफल्गुने ॥
अयोनिजा पद्मकरा बालार्कशतसन्निभा ।
सीतामुखे समुत्पन्ना बालभावेन सुन्दरी ॥
सीतामुखोद्भवात् सीता इत्यस्यै नाम चाकरोत्
ततोऽभूदौरसी तस्य उर्म्मिला नाम कन्यका ॥”
तज्जन्मव्रतादि गौतमं प्रति शिवेनोक्तं यथा, --
“वैशाखशुक्लपक्षे त्वष्टम्यां संयमनं कुरु ।
परेद्युर्विकुरुष्वै तज्जानकीजन्मनो व्रतम् ॥
सन्तुष्टा जानकी तेन भविष्यति न संशयः ।
एतद् व्रतं ममाप्यस्ति कर्त्तव्यं श्वो द्विजोत्तमः ॥
माहात्म्यं तस्य गदितुं नास्ति मे निश्चलं मनः ।
अहं तद्रसलीनोऽस्मि शक्तस्तद्गदितुं न हि ॥
तस्मादेकं वदामि त्वां मार्कण्डेयाश्रमेऽधुना ।
गत्वा मुनीन्द्रः सकलं मार्कण्डेयोऽनुपृच्छ्यताम्
सर्व्वं निवेदितं तस्मै व्रतमाहात्म्यमुत्तमम् ।
विधानञ्च फलं तस्य स मुनिस्त्वां वदिष्यति ॥
मार्कण्डेयोपदिष्टेन विधिनाचर तद्ब्रतम् ।
यथाशक्त्यपि कुर्व्वाणो व्रतस्योत्सवमादरात् ॥
लप्स्यसे सकलान् कामान्नात्र कार्य्या विचा-
रणा ॥”
इत्यादि गौतमप्रश्नानन्तरं श्रीमार्कण्डेय उवाच
“त्रेतायुगे उत्तराशां गते कमलिनीपतौ ।
सर्व्वर्त्तुनिकरश्रेष्ठ ऋतौ तु कुसुमाकरे ॥
मासि पुण्यतमे विप्र माधवे माधवप्रिये ।
नवम्यां शुक्लपक्षे च वासरे मङ्गले शुभे ॥
सार्प्य ऋक्षे च मध्याह्ने जानकी जनकालये ।
आविर्भूता स्वयं देवी योगेषु गतिरुत्तमा ॥
एतद्योगे कृतञ्चैतद्व्रतं प्रोक्तमनन्तकम् ॥
अष्टम्यां यदि विद्धा स्यान्नवमी माधवे सिते ।
कुर्य्यान्नेदं व्रतं तस्यां कृतञ्चेल्ल्युनता भवेत् ॥
मध्याह्नव्यापिनी ग्राह्या ब्रतेऽस्मिन्नवमी तिथिः
दिनद्वयगतायान्तु तस्यां कार्य्या परा नरैः ॥
एतैर्योगैर्विनापि स्यात् तद्दिनं पापनाशनम् ।
व्रतानां नित्यमाम्नातं कर्त्तव्यं व्रतमुत्तमम् ॥ * ॥
यस्तु नो कुरुते मोहात् जानकीजन्मसम्भवम् ।
व्रतं स पच्यते घोरे नरके नात्र संशयः ॥
तस्मिन्नहनि मूढात्मा भुक्त्वाप्यन्नन्तु यो नरः ।
मुने स कृमिसङ्घातं सपूयं खादति स्फुटम् ॥
न करोति हि यः श्रुत्वा व्रतानामुत्तमं व्रतम् ।
स महापातकी ज्ञेयः सर्व्वधर्म्मबहिष्कृतः ॥ * ॥
कुरुते यो व्रतं सोऽपि पृथ्वीदानफलं लभेत् ।
महाषोडशदानानां यज्ञानां मुनिपुङ्गव ! ॥
प्राप्नोति सर्व्वतीर्थानां प्राप्नुयात् सकलं फलम्
सर्व्वभूतदयां कृत्वा फलमाप्नोति यज्जनः ।
तत्प्राप्नोति व्रतादस्मात् नात्र कार्य्या विचारणा
अष्टम्यां प्रातरुत्थाय कृत्वा शौचमतन्द्रितः ।
महानद्यां तडागे वा कूपे वाप्यन्तिकेऽपि वा ॥
स्नात्वा कुर्य्यान्नित्यकर्म्म प्रातःसन्ध्यादिवन्दनम्
देवान् पितॄंश्च संतर्प्य हविष्याशी च संयतः ॥
एकभुक् ब्रह्मचारी स्याद्भू मिशायी च गोतम ॥
नवम्यां प्रातरुत्थाय दान्तो भूत्वा समाहितः ॥
तीर्थादौ विधिवत् स्नात्वा कृतनित्यक्रियो नरः
कुर्व्वीत मण्डपं रम्यं षोडशस्तम्भमण्डितम् ॥
अष्टस्तम्भयुतं वापि चतुःस्तम्भमथापि वा ।
तोरणैः सहितं कुर्य्याद्वितानवरशोभितम् ॥
द्वारेषु शङ्खचक्रादिपताकाभिर्ध्वजैस्तथा ।
अलङ्कुर्य्यात् प्रतिस्तम्भं स्थापयेत् कलसान्
शुभान् ॥
शुद्धतण्डुलराशीषु पूर्णपात्रैरलङ्कृतान् ।
मध्ये तु चत्वरं कुर्य्यात् चतुर्हस्तप्रमाणतः ॥
हस्तमात्रोच्छ्रितं रम्यं चतुरस्रं मृदा मुने । * ।
पलद्वयमितां कुर्य्यात् जानकीप्रतिमां शुभाम्
काञ्चनीमथवा शक्त्या कुर्य्यादेकपलोन्मिताम् ।
तदर्द्धेन तदर्द्धेन कुर्य्याच्छक्त्या चतुर्भुजाम् ॥
वित्तशाठ्यमकृत्वैवं राजतीमपि कारयेत् ।
औडुम्बरीं पैत्तलीं वा मृण्मयीं वृक्षजामुत ॥
कुड्ये पटेऽथ वा लेख्या वर्णकैः प्रतिमां वराम् ।
लेख्यञ्च सूतिकागारं सर्व्वतश्च पटावृतम् ॥
पर्य्यङ्कशयने सुप्ता तत्र राज्ञी महामतिः ।
तस्याः समीपतः सुप्ता मैथिली स्तनपायिनी ॥
जातकर्म्मकरो लेख्यो जनकश्च महीपतिः ।
शतानन्दः पुरोधाश्च लेखनीयः प्रयत्रतः ॥
इत्यादि चरितं लेख्यं जानकीजन्मसम्भवम् ।
यथाशक्ति हलं कुर्य्यात् काञ्चनं किल गौतम ॥
राजतं क्षेत्रममलं स्वर्णसिंहासनं तथा ।
कुर्य्यात्ताम्रमयं कुम्भं पूर्णपात्रावृतं मुखे ॥
तन्मध्ये पञ्चरत्नादि तीर्थाम्बु निक्षिपेन्मुने ॥
आचार्य्यं शास्त्रकुशलं वेदाध्ययनकोविदम् ।
वृणुयाद्विमलाचारमवतंसाङ्गदासनैः ॥
अन्तरीयोत्तरीयैश्च पञ्चपात्रादिभिर्व्रती ।
श्रीफलादिभिरभ्यर्च्च्य गन्धमाल्यानुलेपनैः ॥
पृष्ठ ५/३५६
वृणुयाद्वै विधानेन ततः षोडश ऋत्विजः ॥
विद्यावतः सदाचारानष्टौ वा भक्तिसंयुतः ।
मध्ये वेदी समालेख्या विचित्रैर्व्वर्णकैस्ततः ॥
पद्ममष्टदलं तत्र स्थापयेत् कलसं ततः ।
रत्नसिंहासनं रम्यं संस्थाप्य विजितेन्द्रियः ॥
तत्राधिवासनं कुर्य्यादग्न्युत्तारणपूर्व्वकम् ।
प्रतिमायां विधानेन देवीमावाहयेत्ततः ॥ * ॥
प्राणानायम्य मूलेन त्रिरेकाग्रेण चेतसा ।
मूलमन्त्रस्य जनकं मुनिं विन्यस्य मूर्द्धनि ॥
मुखे छन्दश्च गायत्री सीतादेवीं हृदि न्यसेत् ।
नाभौ तु विन्यसेद्ब्रह्मन् लक्ष्मीबीजं सबिन्दुकम्
पादयोश्च नमः शक्त्यै ततो विन्यस्य मन्त्रवित् ।
श्रीँ श्रीमित्यादिभिर्ब्बीजैर्द्दीर्घषट्स्वरसंयुतैः ।
कृत्वा करषडङ्गेषु न्यासं ध्यायेत्ततो व्रती ॥ * ॥
चतुर्भुजां सुवर्णाभां रामालोकनतत्पराम् ।
श्रीराघवान्वितां सीतां चिन्तयेद्धृदि सर्व्वदा ॥
इति ध्यात्वा समुच्चार्य्य मूलमन्त्र कृताञ्जलिः ।
सविन्दुकमलाबीजं पूर्व्वमुच्चार्य्य गौतम ॥
सीताय इति पश्चात्तु नमशब्दं वदेत् किल ।
संपूज्य प्रतिमां रात्रौ कृत्वैवमधिवासनम् ।
ब्रह्मचारी भूमिशायी तस्यां रात्रौ भवेद्व्रती ॥
तस्यां नवस्यां विधिवत् कृत्वा शौचमतन्द्रितः ।
नद्यादौ विमले स्नात्वा नित्यकर्म्म विधाय च ॥
ततस्तु प्रथमे यामे नित्यपूजाविधिं व्रती ।
कृत्वा द्वितीयप्रहरे गीतवाद्यपुरःसरम् ॥
मध्याह्नसमये भक्त्या कुर्य्यादेकाग्रचेतसा ।
आसने उपविश्यादौ मूलं विन्यस्य पूर्व्ववत् ॥
चतुरस्रञ्च षट्कोणं त्रिकोणञ्च पुरस्ततः ।
कृत्वा मण्डलमाधारं तत्र संपूज्य मन्त्रवित् ॥
मूलेन शङ्खं संस्थाप्य जलमासिच्य निर्म्मलम् ।
चिन्मयं तत्र संचिन्त्य तीर्थमङ्कुशमुद्रया ॥
आकृष्य मूलमन्त्रेण सप्तवाराभिमन्त्रितैः ।
जलैः संप्रोक्षयेद्विद्वान् सामग्रीं पूजनीचिताम् ॥
पात्राणि ताम्रहेमादिनिर्म्मितानि ततो मुने ।
पाद्यार्घप्रदानार्थञ्च मधुपक्कार्थमेव च ॥
तथैवाचमनीयार्थमेवमासादयेत् क्रमात् ।
एकस्मिन्नथवा पात्रे पाद्यादीनि प्रकल्पयेत् ॥
पात्राणीत्थं समासाद्य ततोऽन्तर्यागमाचरेत् ।
पुप्पाञ्जलिं समादाय ध्यायेद्वै प्रतिमागताम् ॥
शङ्कचक्रगदाप्रद्मान्याश्रयन्तीं चतुर्भुजैः ।
महामतेस्तथा प्राज्ञो जनकस्य महात्मनः ॥
हलचालनतः साक्षादाविर्भूतां स्वतः श्रियम् ।
सीतां देवीं हृदि ध्यात्वा मूलमन्त्रेण मन्त्रवित्
पुप्पाञ्जलित्रय देवी प्रतिमामूर्द्धनि क्षिपेत् ।
हिरण्यवर्णां मन्त्रेण देवीमावाहयेत्ततः ॥
आवाहनादिमुद्राणामष्टकं संप्रदर्शयेत् ।
तामावाहय इत्युक्तो मन्त्रो देव्यासने मुने ॥
अश्वपूर्णामर्घदाने पाद्यं कासोऽस्मि मन्त्रतः ।
चन्द्रप्रभेति मन्त्रेण दद्यादाचमनीयकम् ॥
आदित्यवर्ण इत्युक्तो मन्त्रः पञ्चामृते भवेत् ।
अप्यायस्वेति मन्त्रण पयसा स्नापयेत्ततः ॥
दधिक्राव्नस्ततो दध्ना घृतेन घृतवत्युत ।
मधुना मधुवातेति त्र्यृचया सितया मुने ॥
स्वादुयवस्वमन्त्रेण ततस्तीर्थाम्बुभिः क्रमात् ।
उपैतु मामिति प्रोक्तः सीतायाः स्नपने मनुः ॥
स्वर्णसिंहासने रम्ये प्रतिमां स्थापयेद्व्रती ।
वासोभिः क्षुत्पिपासेति पूजयेद्विमलोत्तमैः ॥
गन्धद्वारामिति भवेद्दाने गन्धादिकस्य तु ।
मनसः काममित्याहुर्म्मन्त्रमाभरणादिके ॥
मधुपर्क्कं ततो दद्यात् सीतादेव्यै विधानतः ।
कस्तूरीकुसुमोपेतैः कर्पूरागुरुचन्दनैः ॥
प्रतिमां पूजयेद्भक्त्या यतः पुष्पैः स्वकालिकैः ।
सुगन्धैः कर्द्दमेनेति मन्त्रेण किल गौतम ॥
अर्च्चयेत्तुलसीपत्रैः कोमलैर्म्मञ्जरीयुतैः ।
प्रतिमां मूलमन्त्रेण शतमष्टोत्तरं जपेत् ।
ततः संपूजयेद्विद्वान् राजानं जनकं व्रती ॥”
जनकपूजामन्त्रः ।
“देवी पद्मालया साक्षादवतीर्णा यदालये ।
मिथिलापतये तस्मै जनकाय नमो नमः ॥”
महामतिपूजामन्त्रः ।
“श्रीसीताजननी मातर्महिषी जनकस्य च ।
पूजां गृहाण मद्दत्तां महामति नमोऽस्तु ते ॥”
शतानन्दपूजनमन्त्रः ।
“निधानं सर्व्वविद्यानां विद्वत्कुलविभूषणः ।
जनकस्य पुरोधास्त्वं शतानन्दाय ते नमः ॥”
हलपूजनमन्त्रः ।
“जीवयस्यखिलं विश्वं चालयन् वसुधातलम् ।
प्रादुर्भावयसे सीतां सीर तुभ्यं नमोऽस्तु वै ॥” *
सुभगापूजनमन्त्रः ।
“त्वयैवोत्पादितं सर्व्वं जगदेतच्चराचरम् ।
त्वमेवासि महामाया मुनीनामपि मोहिनी ॥
त्वयायत्ता इमे लोकाः श्रीसीतावल्लभा परा ।
वन्दनीयासि देवानां सुभगे त्वां नमाम्यहम् ॥ * ॥
ततोऽष्टदलमध्यस्थजयाद्या भक्तितः क्रमात् ।
संपूजयेद्विशुद्धात्मा गन्धपुष्पाक्षतादिभिः ॥
बहिर्म्मण्डलवर्त्तिन्यः षोडशाद्यास्तु देवताः ।
अणिमाद्यभिधाः पूज्या वहिः सर्व्वा ऋचस्ततः ॥
संपूज्यावरणाण्येवं मुख्यदेव्यास्ततो व्रती ।
दशाङ्गैर्गुग्गुलैर्द्द द्याद्धू पमापः स्रतंविभिः ॥
दीपन्तु साज्यवर्त्तीभिरार्द्रपुष्करिणामिति ।
नैवेद्यं घृतपक्वान्नैर्नानाव्यञ्जनसंयुतैः ॥
प्रदद्यात् पायसाद्यैरप्यार्द्रापः करिणामिति ।
राज्ञ्यै च गुडलड्डू कान् महामत्यै निवेदयेत् ॥
ताम्बूलञ्च ततो दद्यात् कर्पूराद्यैः सुसंयुतम् ।
साङ्गतासिद्धये देया यथाशक्ति च दक्षिणा ॥
नीराजयेत्ततो देवीं प्रणमेत्तदनन्तरम् ।
तामाहूय च मन्त्रेण पुष्पाञ्जलिमथार्पयेत् ॥ * ॥
मूलेन हावयेत् विप्रैरष्टोत्तरसहस्रकम् ।
अष्टोत्तरशतं वापि पायसं शर्क्करायुतम् ॥
आहुतीनां ततः पश्चान्मुने कुर्य्यात् प्रदक्षिणाम्
पुनः पुष्पाञ्जलिं दद्यात् सीतामूर्द्धनि भक्तितः
आदाय तुलसीपत्रं पुष्पं यत्किञ्चिदेव वा ।
सीताङ्घ्रिपङ्कजाद्भक्त्यां तदाकारं विभावयन् ॥
इति नम्रशिरा भूत्वा रोपयेत्तत् स्वमूर्द्धनि ।
ततः सीतापदाम्भोजद्वयं संस्पृश्य मङ्गलम् ॥
कराञ्जलिपुटं बद्ध्वा प्रार्थयेद्रामवल्लभाम् ।
भक्त्या परमया ब्रह्मन् ताभिः कोमलशक्तिभिः
दुरन्तसंसारसमुद्रमग्नं
सीते शरण्यां शरणागतं त्वाम् ।
उद्धारयस्वाशु कृतं भयैत-
द्व्रतं ततो देवि मयि प्रसीद ॥
संप्रार्थ्य जानकीमेवं दण्डवत् प्रणमेत् पुनः ।
पुष्पाञ्जलिं पुनर्द्द त्त्वा स्तुवीत परमेश्वरीम् ॥
नीलनीरजदलायतेक्षणां
कौशलेशभुजसावलम्बनाम् ।
सानुरागहरिमेवमीक्षतीं
भावये मनसि रामवल्लभाम् ॥
मन्दहंसगतिगाञ्च कृशाङ्गीं
कामकान्तिपरिभूतचन्द्रिकाम् ।
ताडकारिसहप्रेमविमग्नां
भावये मनसि रामवल्लभाम् ॥
कुन्तलालककपोलमाननां
राहुवक्त्रगसुधासमद्युतिम् ।
वाससा पिदधतीं हियाकुलां
भावये मनसि रामवल्लभाम् ॥
कायवाङ्मनसगीः पतिर्व्यधात्
स्वप्नजाग्रतिषु राघवेश्वरः ।
शिवविरिञ्चिभिरङ्घ्रिवन्दितां
भावये मनसि रामवल्लभाम् ॥
भक्तैकगम्यां प्रकृतेः पराञ्च
चित्ते भृशं लोकनमस्कृताञ्च ।
भूवायुवह्निवननाकसस्थितां
विभावये चेतसि रामवल्लभाम् ॥
इन्द्ररुद्रधनदानुपालकैः
सद्विमानगणमास्थितैर्द्दिवि ।
पुष्पवर्षमनुसंस्तुतशीलां
भावये मनसि रामवल्लभाम् ॥
ध्ये यमानममरैश्च स्वरूपां
वामधामतनुनिर्ज्जितहेमाम् ।
फुल्लनीरजविभावराननां
भावये मनसि रामवल्लभाम् ॥
सञ्चयैर्द्दि विसदां विमानगै-
र्व्विस्मयाकुलमनोभिरीक्षिताम् ।
तेजसापि दधतीं सदा दिशं
भावये मनसि रामवल्लभाम् ॥
एतदष्टकमनिष्टहानिकृद्
यः पठेदथ शृणोत्यहर्म्मुखे ।
अन्तरापरहिता तु मैथिली
तस्य भक्तिमतुलां प्रयच्छति ॥
स्तुत्वेत्थं जानकीदेवीं गीतबाद्यादिभिर्व्रती ।
रात्रौ जागरणैः सर्व्वां तां रात्रिमपवाहयेत् ॥
ततः प्रातर्द्दशम्याञ्च पूर्व्वोक्तविधिना द्विज ।
प्रतिमां पूजयित्वादा वा चार्य्यं पूजयेत्ततः ॥
तस्मै सोपस्करां दद्यात् सवत्सां गां पयस्विनीम्
दक्षिणाञ्च यथाशक्ति ततः पूर्णाहुतिं चरेत् ॥
पूर्णाहुतिविधानेन कृत्वा च प्रतिमादिकम् ।
पृष्ठ ५/३५७
सीतायाः प्रीतये दद्यात् मण्डपादि विसृज्य च ॥
सोताप्रीतिं वाचयीत ब्राह्मणाचार्य्यभाषितैः ।
अन्येभ्योऽपि यथाशक्त्या भूयसीं दक्षिणां ददेत् ॥
अतिथिभ्योऽन्नदानञ्च कर्त्तव्यं तद्दिने किल ।
सन्तोष्य सकलान् लोकान् कुटुम्बसहितो व्रती ॥
विधिना पारणं कुर्य्यात् भूमिशायी च मानवः ।
तस्योपरि सदा प्रीता सीता स्यान्नात्र संशयः ॥ *
यद्गृहे नित्यपूज्या स्यात् प्रतिमा तत्र गौतम ।
तस्यामेवोत्सवं कुर्य्याज्जानक्याः पूजनादिकम् ॥
नित्यपूज्या त यस्य स्यात् सीतायाः प्रतिमा यदा
शालग्रामशिलायां स कुर्य्यात् सीतोत्सवं वुधः ॥
लक्ष्मीनारायणौ यस्मात्तस्यां संवसतः सदा ।
पूर्व्वोक्तविधिना सीतानवम्या उत्सवं द्विज ॥
पूजां कुर्व्वीत वै तस्याः सर्व्वां पञ्चामृतादिभिः ।
तुष्येत तेन वै तस्मिन् जानकीरघुनन्दनौ ॥ * ॥
इत्थं निगदितं सर्व्वं जानकीजन्मनो व्रतम् ।
कुव्वन्तीन्द्रादयः सर्व्वे व्रतमेतदनुत्तमम् ॥
गन्धर्व्वाः किन्नरा यक्षा गुह्यकाः सिद्धचारणाः ।
नागाश्च मुनयश्चापि प्रकुर्व्वन्ति व्रतं द्विज ॥
यः कुर्य्याद्व्र तमेतद्धि जानकीजन्मसम्भवम् ।
स लभेत् सकलं ब्रह्मन् पृथ्वीयात्राफलं किल ॥
तथा षोडशदानानां फलं प्राप्नोति मानवः ।
अश्वमेधादियज्ञानां तीर्थानामपि गौतम ॥
अत्युग्रतपसां वापि वेदोक्तायुश्च विन्दति ।
गौतमेदं व्रतं तस्मादवश्यं कुरु भक्तितः ॥
नेदं वक्तुं समर्थास्ते फणीन्द्रचतुराननाः ।
कृताद्व्रतोत्तमादस्माद्दीर्घायुः प्राप्तवानहम् ।
व्रतानां नित्यमाम्रातं भक्तिदं कुर्व्वतां सताम् ॥
सूत उवाच ।
मुनये गौतमायेत्थं जानकीजम्मसम्भवम् ।
व्रतञ्च व्रतमाहात्म्यं विधानं श्रुतिचोदितम् ।
जगाद सकलं व्यक्तं मार्कण्डेयो मुनीश्वरः ॥”
इत्यादि श्रीभविष्यपुराणे श्रीसीतानवमीव्रत-
माहात्मां समाप्तम् ॥ * ॥ स्वर्गगङ्गा । इति
मेदिनी ॥ सा तु भद्राश्ववर्षगङ्गा । यथा, श्रीभाग-
वते ५ स्कन्धे । “सीता तु ब्रह्मसदनात् केशवा-
चलादिगिरिशिखरेभ्योऽधोऽधः प्रस्रवन्ती गन्ध-
मादनसूर्द्धसु पतित्वान्तरेण भद्राश्वं वर्षं प्राच्यां
दिशि क्षारसमुद्रमभिप्रविशति ॥” अपि च ।
मार्कण्डेय उवाच ।
“यत्र देवसभा भूता सानौ तस्य महागिरेः ।
तत्र जाता देवनदी सीताख्या वचनाद्विधेः ॥
स्नापयित्वा यथा चन्द्रं सीतातोयैर्मनोहरैः ।
चन्द्र पपुब्र ह्मवाक्यात् सर्व्वे ते त्रिदिवौकसः ॥
तदा सीताजलं चन्द्रस्नानयोगाच्च सामृतम् ।
भूत्वा निपतितं तस्मिन् वृहल्लोहितसंज्ञके ॥
तद्विवृद्धं तदा तोयं तस्मिन् सरसि निर्म्मलम् ।
तद्ददर्श स्वयं ब्रह्मा विवृद्धं साधु तज्जलम् ॥
तद्दर्शनाज्जलात्तस्मादुत्थिता कनकोत्तमा ।
नन्द्रभागेति तन्नाम विधिश्चक्रे स्वयं ततः ।
भार्य्यार्थे सागरस्तान्तु जग्राह ब्रह्मसम्मते ॥”
इति कालिकापुराणे २२ अध्यायः ॥
लक्ष्मीः । उमा । शस्याधिदेवता । इति नानार्थ-
ध्वनिमञ्जरी ॥ मदिरा । इति राजनिर्घण्टः ॥
गङ्गास्रोतः । यथा, --
“गङ्गायान्तु भद्रसोमा महाभद्राथ पाटला ।
तस्याः स्रोतसि सीता च वङ्क्षुर्भद्रा च कीर्त्तिता
तद्भेदेऽलकनन्दापि शारिणी त्वल्पनिम्नगा ॥”
इति शब्दमाला ॥
(नदीविशेषः । इति केचित् ॥ यथा, महा-
भारते । ३ । १८८ । १०० ।
“गाङ्गं शतद्रुं सीताञ्च यमुनामथ कौशिकीम् ।
एताश्चान्याश्च सरितः पृथिव्यां या नरोत्तम ।
परिक्रामन् प्रपश्यामि तस्य कुक्षौ महात्मनः ॥”)

सीतापतिः, पुं, (सीतायाः पति ।) श्रीरामचन्द्रः ।

इति शब्दरत्नावली ॥

सीतायाःपतिः, पुं, (सीतायाः पतिः । अलुक्

समासः ।) श्रीरामचन्द्रः । इति शब्दरत्ना-
वली ॥ (यथा, रामायणटीकाकृतो मङ्गला-
चरणे ।
“रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय सीतायाःपतये नमः ॥”)

सीतीलकः, पुं, सतीलकः । इत्यमरटीकायां

रायमुकुटः ॥

सीत्कारः, पुं, (सीत् + कृ + भावे घञ् ।) मनु-

ष्याणां गुणानुरागजशब्दः । (यथा, आर्य्या-
सप्तशत्याम् । २१६ ।
“गेहिण्या चिकुरग्रहसमयसीत्कारमीलित-
दृशापि ।
बाला कपोलपुलकं विलोक्य निहतोऽस्मि
शिरसि पदा ॥”)

सीत्कृतं, क्ली, (सीत् + कृ + भावे क्तः ।) मनु-

ष्याणां गुणानुराजगशब्दः । यथा, --
“शब्दो गुणानुरागोत्थः प्रणादः सीत्कृतं
नृणाम् ॥”
इति हेमचन्द्रः ॥

सीत्यं, क्ली, (सीतया निर्वृत्तमिति । सीता + यत्)

धान्यम् । इति हेमचन्द्रः ॥

सीत्यं, त्रि, (सीतया समितम् । सीता + “नौ-

वयोधर्म्मेति ।” ४ । ४ । ९१ । इति यत् ।)
कृष्टक्षेत्रादि । इत्यमरः । २ । ९ । ८ ॥

सीद्यं, क्ली, आलस्यम् । इति भूरिप्रयोगः ॥

सीधुः, पुं, (शोधुः । पृषोदरादित्वात् शस्य सः ।)

मद्यम् । इति शब्दरत्नावली ॥ (यथा, देवी-
भागवते । ५ । २४ । ६० ।
“अशोकं कुरुराजानं पादघातविकाशितम् ।
वकुलं सीधुसेकेन तथा कुरुवकं कुरु ॥”)
मद्यभेदः । इत्यमरः । २ । १० । ४२ ॥ यथा, --
“इक्षोः पक्वै रसः सिद्धः सीधुः पक्वरसश्च सः ।
आमैस्तैरेव यः सोधुः स च शीतरसः स्मृतः ॥
सीधुः पक्वरसः श्रेष्ठः स्वराग्निबलवणकृत् ।
वातपित्तकरा हृद्यः स्नेहनो रोचनो हरेत् ॥
विबन्धभेदशोफार्शः शोफोदरकफामयान् ।
तस्मादल्पगुणः शीतरसः संलेखनः स्मृतः ॥”
इति राजनिर्घण्टः ॥
(यथा च ।
“सीधुः कषायाम्लकमाधुरो वा
सन्दीपनो भेदमलापहा च ।
आमातिसारानिलपित्तशूल-
श्लेष्मामयार्शोग्रहणीगदघ्नः ॥”
इति हारीते प्रथमे स्थाने ११ अध्यायः ॥)

सीधुगन्धः, पुं, (सीधोरिव गन्धो यस्य ।) वकुलः ।

इति शब्दरत्नावली ॥

सीधुपुष्पः, पुं, (सिधुवत् गन्धयुक्तं पुष्पं यस्य ।)

कदम्बः । वकुलः । इति राजनिर्घण्टः ॥

सीधुपुष्पी, स्त्री, (सीधुवत् गन्धयुक्तं पुष्पं यस्याः ।

ङीष् ।) धातकी । इति राजनिर्घण्टः ॥
(धातकीशब्देऽस्या विवरणं ज्ञातव्यम् ॥)

सीधुरसः, पुं, (सीधोरिव रसो यत्र ।) आम्र-

वृक्षः । इति राजनिर्घण्टः ॥

सीधुसंज्ञः, पुं, (सीधोः संज्ञा संज्ञा यस्य ।)

वकुलवृक्षः । इति राजनिर्घण्टः ॥

सीध्रं, क्ली, अपानम् । इति केचित् ॥

सीपः, पुं, तर्पणाद्यर्थजलपात्रम् । कोषा इति

भाषा । यथा, --
“वस्तुतस्तु अत्रानुद्धृतस्य क्षेपासम्भवात् उद्धृत-
पदं हस्तादन्येन सीपादिनोद्धृतपरम् । तेन
सीपादियुक्तकरतर्पणे तत्रैव जले तिलान्
मिश्रयेत् ।” इति गोपालन्यायपञ्चाननकृत-
विचारतिर्णयः ॥

सीमन्तः, पुं, (सीम्नोऽन्तः । शकन्ध्वादित्वात्

साधुः ।) केशेषु बर्त्म । इति हेमचन्द्रः ॥
सिंति इति भाषा ॥ (यथा महाभारते । १ । ४४ । २
“अपश्यन्त तथा यान्तमाकाशे नागमुत्तमम् ।
सीमन्तमिव कुर्व्वाणं नभसः पद्मवर्च्चसम् ॥”)
सीमन्तोन्नयनसंस्कारः । यथा, याज्ञवल्क्यः ।
१ । ११ ।
“गर्भाधानमृतौ पुंसःसवनं स्पन्दनात् पुरा ।
षष्ठेऽष्टमे वा सीमन्तः प्रसवे जातकर्म्म च ॥”
(प्रत्यङ्गविशेषः । यथा, सुश्रुते । ३ । ५ ।
“चतुद्दशैव सीमन्ताः । ते चास्थिसघातवद्गण-
नीया यतस्तैर्युक्ता अस्थिसंघाताः । ये ह्युक्ताः
संघातास्तु खल्वष्टादशैकेषाम् ॥”)

सीमन्तकं, क्ली, (सीमन्ते कायति शोभते इति ।

कै + कः ।) सिन्दूरम् । इति राजनिर्घण्टः ॥

सीमन्तकः, पुं, नरकावासः । यथा, --

“लक्ष पञ्चव नरकावासा सीमन्तकादयः ॥”
इति हेमचन्द्रः ॥

सीमन्तिनी, स्त्री, (सीमन्तोऽस्या अस्तीति ।

इनिः । ङीप् ।) नारी । इत्यमरः । २ । ६ । २ ॥
(यथा, रामायणे । २ । ३५ । २१ ।
“मास्म सीमन्तिनी काचित् जनयेत् पुत्त्रमी-
दृशम् ।
सौमित्रे ! योऽहमम्बाया दद्मि शोकमनन्त-
कम् ॥”)
पृष्ठ ५/३५८

सीमन्तोन्नयनं, क्ली, (सीमन्तस्य उन्नयनं उत्तो-

लनं यत्र ।) संस्कारविशेषः । इति जटाधरः ॥
तद्विधानञ्च यथा, --
अथ सीमन्तोन्नयनम् ।
“यदि पुंसवनं न कृतं तदा तस्मिन्नेव दिने
प्रायश्चित्तात्मकमहाव्याहृतिहोमं कृत्वा पुंस-
वनञ्च कृत्वा सीमन्तोन्नयनं कार्य्यम् । तथा च
नारदः ।
‘येषान्तु न कृताः पित्रा संस्कारविधयः क्रमात् ।
कर्त्तव्या भ्रातृभिस्तेषां पैतृकादेव तद्धनात् ॥
अविद्यमाने पित्रर्थे स्वांशादुद्धृत्य वा पुनः ।
अवश्यकार्य्याः संस्कारा भ्रातृभिः पूर्व्वसंस्कृतैः ॥
क्रमात् भ्रातॄणां संस्काराणाञ्च पौर्व्वापर्य्यक्रमात्
भ्रातृक्रमस्तु सोदरविषय एव । विवाहे तथा
दर्शनात् । छन्दोगपरिशिष्टम् ।
देवतानां विपर्य्यासे जुहोतिषु कथं भवेत् ।
सर्व्वं प्रायश्चित्तं कृत्वा क्रमेण जुहुयात् पुनः ॥
संस्कारा अतिपत्येरन् स्वकालाच्चेत् कथञ्चन ।
हुत्वैतदेव कुर्व्वीत ये तूपनयनादधः ॥’
एतदित्यनेन सर्व्वं प्रायश्चित्तमनुकृष्टं तच्च प्रागेव
विवृतम् । उभयकरणे तन्त्रेणैव मातृका-
पूजादि ।
‘गणशः क्रियमाणे तु मातृभ्यः पूजनं सकृत् ।
सकृदेव भवेत् श्राद्धमादौ न पृथगादिषु ॥’
इति छन्दोगपरिशिष्टात् ॥ * ॥
गोभिलः । अथ सीमन्तोन्नयनं प्रथमे गर्भे चतुर्थे
मासि षष्ठे ऽष्टमे वा । अथ पुंसवनानन्तरम् ।
सीमन्तः केशरचनाविशेषः । वाशब्देक्यान्न चतु-
र्थादिमासानां तुल्यवद्विकल्पः । किन्तु पूर्व्वपूर्व्व-
कालः प्रशस्तः । समर्थस्य क्षेपायोगात् इति
न्यायात् ततश्च नवममासादौ प्रायश्चित्तं कृत्वैव
कर्त्तव्यम् । प्रथमगर्भ इत्युपादानात् । यदि
कथञ्चिदकृत एतस्मिन् संस्कारे गभनाशे पुन-
र्गर्भोत्पत्तौ अयं कालनियमो न किन्तु गर्भस्पन्दने
सीमन्तोन्नयणं यावन्न वालप्रसबः । इति शङ्ख-
लिखितोक्तकालो ग्राह्यः । वृहद्राजमार्त्तण्डे ।
‘या नार्य्यकृतसीमन्ता प्रसूते च कथञ्चन ।
अङ्के विधाय तं बालं पुनः संस्कारमर्हति ॥ * ॥
षष्ठे मासेऽष्टमेऽह्नीज्यकुजदिनकृतां नन्दभद्रे
तिथौ चे
मैत्रेमूले मृगाङ्के करपितृपवनेपौष्णविष्णुत्रियुग्म
पुष्याश्वादित्यरौद्रे युवतिहरिझसे वृश्चिके वापि
लग्ने ।
चन्द्रे तारानुकूले शुभमपि नियतं स्याच्च
सीमन्तकर्म्म ॥
मृगाजरहिते लग्ने नवांशे पुंग्रहस्य च ।
केचिद्वदन्ति सीमन्तं तथा रिक्तेतरे तिथौ ॥
गोभिलः । प्रातः सशिरस्काप्लुतोदगग्रेषु दर्भेषु
पश्चादग्नेः प्राच्युपविशति उक्तार्थमेतत् । पश्चात्
पतिरवस्थाय युगमन्तमौडम्बरं शलाटुग्रथ्नमाव-
ध्नाति अयमूर्ज्जावतो वृक्ष इति । अग्नेः पश्चात्
पतिः स्थित्वा । युगानि फलानि यस्मिन् शला-
टुग्रथ्ने नीलस्तवके स युगमान् तं मतुवन्तम् ।
तथा च भट्टनारायणधृतं छन्दोगपरिशिष्टम् ।
‘शलाटु नीलमित्युक्तं ग्रथ्नस्तवक उच्यते ।
कपुष्णिकाभितः केशा मूर्द्ध्नि पश्चात् कपुच्छलः
एतद्वचनं नारायणोपाध्यायेन धृतम् । उडु-
म्बरभवमौडम्बरम् । अयमूर्ज्जावतो वृक्ष इति
मन्त्रेण भार्य्यायाः कण्ठे बध्नाति ॥ * ॥ अथ
सीमन्तमूर्द्धं नयति भूरिति दर्भपिञ्जलीभिरेव
प्रथमं भुव इति द्वितीयं स्वरिति तृतीयम् ।
अथानन्तरं यत्र सिन्दूरं स्त्री ददाति तं सीमन्तं
ललाटोर्द्ध्वं नयति भूरिति मन्त्रेण दर्भपिञ्जली-
भिस्तिसृभिः । एकवारकरणाद्यावन्त्युन्नयनानि
तावतीभिरेव तिसृभिरित्यर्थः । प्रथमादिपदानि
तु व्याहृतीनां पिञ्जलीनाञ्च पृथङ्नियोगार्थम्
पिञ्जली पवित्रम् । तथा च छन्दोगपरिशिष्टम्
‘अनन्तर्गर्भिणं साग्रं कौशं द्विदलमेव च ।
प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित् ।
एतदेव हि पिङ्गल्या लक्षणं समुदाहृतम् ॥’
गोभिलः । अथ वीरतरेण येनादितेरित्येतयर्च्चा
बीरास्तरन्त्यनेन युद्धमिति वीरतरः शरः ॥
तथा च छन्दोगपरिशिष्टम् ।
‘श्वाविच्छलाका शलली तथा वीरतरः शरः ।
तिलतण्डुलसम्पाकः कृषरः सोऽभिधीयते ॥’
ततश्च शरेण येनादितेरिति मन्त्रेण सीमन्तमूर्द्ध्वं
नयति इति पूर्व्वसूत्रादनुवर्त्तते ॥ * ॥ अथ
पूर्णेन सूत्रचात्रेण वाकामहमित्येतयर्च्चा । चात्रं
तर्कुः । तेन सूत्रपूर्णेन वाकामहमिति मन्त्रेण
सीमन्तमूर्द्ध्वं नयतीति शेषः । त्रिः श्वेतया
शलल्या यास्ते वाके सुमतय इति स्थानत्रितये
शुक्लेन शेजाजन्तुकण्टकेन यास्ते इति मन्त्रेण
सीमन्तमूर्द्ध्वं नयतीति शेषः । कृषरः स्थाली-
पाक उत्तरघृतस्तमवेक्षयेत् । कृषर उक्तः ।
स्थालीपाकश्चरुः स उपरि दत्तघृतस्तं बध्वाः
प्रदर्शयेत् । स्थालीपाकपदं चरुस्थाल्यां कृष-
रस्य श्रपणार्थम् । मनुष्यार्थत्वात् द्विःप्रक्षालनम्
ततश्च यः कश्चिन्महानसे श्रपयित्वा स्थापयेत् ।
किम्पश्यसीत्युक्त्वा प्रजामिति वाचयेत् किं पश्य-
सीति पतिरुक्त्वा प्रजामित्यादि मन्त्रं गभिणीं
वाचयेत् । तं सा स्वयं भुञ्जीत । तमेवेक्षितं
कृषरम् । वीरसूर्जीवसूर्ज्जीवपत्नीति ब्राह्मण्यो
मङ्गल्यादिभिर्व्वाग्भिरुपासीरन् । बीरान् विक्रा-
न्तान् पुत्त्रान् सूत इति वीरसूस्त्वं भवेति वाक्य-
शेषः प्रतिपदं स्यात् । जीवतो दीर्घायुषः
पुत्तान् सूत इति जीवसूः जीवतः पत्नी जीव-
पत्री अविधवेत्यर्थः । एवं प्रकाराभिर्व्वाग्भि-
रनुनयेयुः । क्रमश्च महाव्याहृतिभिर्हुत्वा
औडुम्बरफलस्तवकं कण्ठे बद्ध्वा प्रजामिति
वाचयेदित्यन्तं तन्त्रं कृत्वा व्याहृतिभिर्होमादि-
तन्त्रं समापयेत् ततो ब्राह्मस्य उपासीरन् ।”
इति संस्कारतत्त्वम् ॥

सीमा, [न्] स्त्री, (सीयते इति । सि + “नामन्-

सीमन्व्योमन्निति ।” उणा० ४ । १५० ।

सीमा, [न्] स्त्री, (सीयते इति । सि + “नामन्-

सीमन्व्योमन्निति ।” उणा० ४ । १५० ।
इति मनिन्प्रत्ययेन साधुः । “डावुभाभ्याम-
न्यतरस्याम् ।” ४ । १ । १३ । इति पाक्षिको डाप् ।)
ग्रामादीनामवधारितान्तभागः । सीमाना इति
भाषा । तत्पर्य्यायः । मर्य्यादा २ अवधिः ३
आघाटः ४ । इति जटाधरः ॥ (यथा, मनुः ।
८ । २५३ -- २५४ ।
इति मनिन्प्रत्ययेन साधुः । “डावुभाभ्याम-
न्यतरस्याम् ।” ४ । १ । १३ । इति पाक्षिको डाप् ।)
ग्रामादीनामवधारितान्तभागः । सीमाना इति
भाषा । तत्पर्य्यायः । मर्य्यादा २ अवधिः ३
आघाटः ४ । इति जटाधरः ॥ (यथा, मनुः ।
८ । २५३ -- २५४ ।
“यदि संशय एव स्यात् लिङ्गानामपि दर्शने ।
साक्षिप्रत्यय एव स्यात् सीमावादविनिर्णयः ॥
ग्रामीयककुलानाञ्च समक्षं सीम्नि साक्षिणः ।
प्रष्टव्याः सीमलिङ्गानितयोश्चैव विवादिनोः ॥”)
स्थितिः । (यथा, माघे । ३ । ५७ ।
“यस्यामजिह्मा महतीमपङ्काः
सिमानमत्यायतयोऽत्यजन्तः ।
जनैरजातस्खलनैर्ण जातु
द्वयेऽप्यमुच्यन्त विनीतमार्गाः ॥”)
क्षेत्रम् । अण्डकोषः । इति मेदिनी ॥ (यथा, --
“केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः ॥”
इति सिद्धान्तकौमुदी । २ । ३ । ३६ ॥)
वेला । इति विश्वः ॥

सीमाविवादः, पुं, (सीमायाः विवादः ।) ग्रामा-

दीनां सीमाविषयककलहः । यथा । अधुना
सीमाविवादनिर्णय उच्यते ।
“सीम्नो विवादे क्षेत्रस्य सामन्ताः स्थविरादयः
गोपाः सीमाकृषाणा ये सर्व्वे च वनगोचराः ॥
नयेयुरेते सीमानं स्थलाङ्गारतुषद्रुमैः ।
सेतुवल्मीकनिम्नास्थिचैत्याद्यैरुपलक्षिताम् ॥”
ग्रामद्वयसम्बन्धिनः क्षेत्रस्य सीम्नी विवादेतथैक-
ग्रामान्तर्व्वर्त्तिक्षेत्रमर्य्यादाविवादे च सामन्ता-
दयः स्थलाङ्गारादिभिः पूर्व्वकृतैः सीमालक्षणै-
रुपलक्षितां चिह्नितां सीमां नयेयुः निश्चिनियुः
सीमा क्षेत्रादिमर्य्यादा सा चतुर्व्विधा । जन-
पदसीमा १ ग्रामसीमा २ क्षेत्रसीमा ३ गृह-
सीमा ४ चेति । सा च यथासम्भवं पञ्चलक्षणा
तदुक्तं नारदेन ।
“ध्वजिनी मत्सिनी चैव नैधानी भयवर्ज्जिता ।
राजशासननीता च सीमा पञ्चविधा स्मृता ॥”
ध्वजिनी वृक्षादिलक्षिता । वृक्षादीनां प्रकाश-
कत्वेन ध्वजतुल्यत्वात् । मत्सिनी सलिलवती
मत्स्यशब्दस्य स्वधारजललक्षणत्वात् । नैधानी
निखाततुषाङ्गारादिमती । तेषां निखातत्वेन
निधानतुल्यत्वात् । भयवर्जिता अर्थिप्रत्यर्थि-
परस्परसम्प्रतिपत्तिनिर्म्मिता । राजशासन-
नीता । ज्ञातृचिह्नाभावे राजेच्छया निर्म्मिता
एवम्भूतायां षोढा विवादः संभवति । यथाह
कात्यायनः ।
“आधिक्यं न्यूनता चांशे अस्तिनास्तित्वमेव च
अभोगभुक्तिः सीमा च षड्भूवादस्य हेतवः ॥”
इति । तथा हि । ममात्र पञ्चनिवर्त्तनाया भूमे-
रधिका भूरस्तीति केनचिदुक्ते पञ्चनिवर्त्तनैव
नाधिकेत्याधिक्ये विवादः । पञ्चनिवर्त्तना मदीयां
भूरित्युक्तेन ततो न्यूनैवेति न्यूनतायाम् । पञ्च-
निवर्त्तनो ममांश इत्युक्तेऽंश एव नास्तीत्यस्ति-
पृष्ठ ५/३५९
नास्तित्वविवादः सम्भवति । मदीया भूः प्राग-
विद्यमानभोगैव भुज्यत इत्युक्तेन सन्तता चिर-
न्तन्येव मे भुक्तिरित्यभोगभुक्तौ विवादः । इयं
मर्य्यादेयञ्चेति सीमाविवाद इति षट्प्रकार एव
विवादः सम्भवति । षट्प्रकारेऽपि भूविवादे
श्रुत्यर्थाभ्यां सीमाया अपि निर्णीयमानत्वात्
सीमानिर्णयप्रकरणे तस्यान्तर्भावः । समन्ता-
द्भवाः सामन्ताः । चतसृषु दिक्ष्वनन्तरा ग्रामा-
दयस्त च प्रतिसीमं व्यवस्थिताः ।
“ग्रामो ग्रामेषु सामन्तः क्षेत्रं क्षेत्रस्य कीर्त्ति-
तम् ।
गृहं गृहस्य निर्द्दिष्टं समन्तात् परिरभ्य हि ॥”
इति कात्यायनवचनात् । ग्रामादिशब्देन तत्-
स्थाः पुरुषा लक्ष्यन्त । ग्रामः पलायत इति
यथा । सामन्तग्रहणञ्च तत्संसक्ताद्युपलक्षणा-
र्थम् । उक्तञ्च कात्यायनेन ।
“संसक्तकास्तु सामन्तास्तत्संसक्तास्तथोत्तराः ।
संसक्तसक्तसंसक्ताः पद्माकाराः प्रकीर्त्तिताः ॥”
इति । स्थविरा वृद्धाः । आदिग्रहणेन मौलोद्ध-
तयोर्ग्र हणम् । वृद्धादिलक्षणञ्च तेनैवोक्तम् ।
“निष्पाद्यमानं यैर्दृष्टं तत् कार्य्यं तद्गुणा-
न्वितैः ।
वृद्धा वा यदि वावृद्धास्ते च वृद्धाः प्रकीत्तिताः ॥
ये तत्र पूर्व्वं सामन्ताः पश्चाद्देशान्तरं गताः ।
तन्मूलत्वात्तु ते मौला ऋषिभिः परिकीर्त्तिताः ॥
उपश्र वणसम्भोगकार्य्याख्यानोपचिह्निताः ।
उद्धरन्ति पुनर्यस्मादुद्धतास्ते ततः स्मृताः ॥”
गोपा गोचारकाः ।
“सीमाकृषाणाः सीमासंनिहितक्षेत्रकर्षकाः ।”
सर्व्वे च वनगोचरा वनचारिणो व्याधादयस्ते
च मनुनोक्ताः ।
“व्याधान् शाकुनिकान् गोपान् कैवर्त्तान्
मूलखातकान् ।
व्यालग्राहानुञ्छवृत्तीनन्यांश्च वनगोचरान् ॥”
स्वलमुन्नतो भूप्रदेशः । अङ्गारोऽग्ने रुच्छिष्टम् ।
तुषा धान्यत्वचः । द्रुमा न्यग्रोधादयः । सेतु-
र्जलप्रवाहबन्धः । चैत्यं पाषाणादिबन्धः ।
आद्यशब्देन वेणुवालुकादीनां ग्रहणम् । एतानि
च प्रकाशाप्रकाशभेदेन द्विःप्रकाराणि । तथा
च मनुः ।
“सीमावृक्षांस्तु कुर्व्वीत न्यग्रोधाश्वत्थकिंशुकान्
शाल्मलीन् शालतालांश्च क्षीरिणश्चैव पाद-
पान् ॥
गुल्मान् वेणूंश्च विविधान् शमी वल्ली स्थलानि
च ।
शरान् कुब्जकगुल्मांश्च तथा सीमा न नश्यति ॥
तडागानुदपानानि वाप्यः प्रस्रवणानि च ।
सोमासन्धिषु कार्य्याणि देवतायतनानि च ॥”
इति प्रकाशरूपाणि ॥
“उपच्छन्नानि चान्यानि सीमालिङ्गानि
कारयेत् ।
सीमाज्ञाने नृणां वीक्ष्यनित्यं लोके विपर्य्ययम् ॥
अश्मनोऽस्यीनि गोबालांस्तुषान भस्मकपा-
लिकाः ।
करीषमिष्टकाङ्गारशर्करावालुकास्तथा ॥
यानि चैवं प्रकाराणि कालाद्भूमिर्न भक्षयेत् ।
तानि सन्धिषु सोमाया अप्रकाशानि कारयेत् ॥
एतैर्लिङ्गैर्नयेत् सीमां राजा विवदमानयोः ॥”
प्रच्छन्नलिङ्गानि एतैः प्रकाशाप्रकाशरूपैर्लिङ्गैः
सामन्तादिप्रदर्शितैः सोमां प्रति विवदमानयोः
सीमानिर्णयं कुर्य्याद्राजा ॥ * ॥ यदा पुनश्चि-
ह्नानि न सन्ति विद्यमानानि वा लिङ्गालिङ्ग-
तया सन्दिग्धानि तदा निर्णयोपायमाह ।
“सामन्ता वा समग्रामाश्चत्वारोऽष्टौ दशापि वा
रक्तस्रग्वसनाः सीमां नयेयुः क्षितिधारिणः ॥”
सामन्ताः पूर्व्वोक्तलक्षणाः । समग्रामाश्चत्वा-
रोऽष्टौ दशापि वा इत्येवं समसंख्याः प्रत्यासन्न-
ग्रामीणाः । रक्तस्रग्विणो रक्ताम्बरधराः मूर्द्धा-
रोपितक्षितिखण्डाः सीमानं नयेयुः प्रदर्शयेयुः
सामन्ता वेति विकल्पाभिधानं स्मृत्युत्तरोक्त-
साक्ष्यभिप्रायम् । यथाह मनुः ।
“साक्षिप्रत्यय एव स्यात् सीमावादविनिर्णयः ।”
तत्र च साक्षिणां निर्णेतृत्वं मुख्यं तदभावे
सामन्तानाम् । तदुक्तम् ।
“साक्ष्यभावे तु चत्वारो ग्रामाः सीमन्तवासिनः
सीमाविनिणयं कुर्य्युः प्रयता राजसन्निधौ ॥”
तदभावे तत्संसक्तादीनां निर्णेतृत्वम् । यथाह
कात्यायनः ।
“स्वार्थसिद्धौ प्रदुष्टेषु सामन्ते ष्वर्थगौरवात् ।
तत्संसक्तैस्तु कत्तव्य उद्धारो नात्र संशयः ॥
संसक्तसक्तदाषे तु तत्संसक्ताः प्रकीर्त्तिताः ।
कर्त्तव्या न प्रदुष्टास्तु राज्ञा धर्म्मं विजानता ॥”
सामन्ताद्यभावे मौलादयो ग्राह्याः । तेषाम-
भावे सामन्ता मौलवृद्धोद्धृतादयः । स्थावरे
षट्प्रकारेऽपि कार्य्या नात्र विचारणेति कात्या-
यनेन क्रमविधानात् । एते च सामन्तादयः
संख्यागुणातिरेकेन संभवन्ति ।
“सामन्ताः साधनं पूर्व्वंनिर्दोषाः स्युर्गुणा-
न्विताः ॥”
द्विगुणास्तूत्तरा ज्ञेयास्ततोऽन्ये त्रिगुणा मताः
इति स्मरणात् ॥ * ॥
ते च साक्षिणः सामन्तादयश्च स्वैः स्वैः शपथैः
शापिताः सन्तः सीमां नयेयुः ।
“शिरोभिस्ते गृहीत्वोर्व्वीं स्रग्विणो रक्तवाससः
सुकृतैः शापिताः स्वैः स्वैर्नयेयुस्ते समञ्जसम् ॥
इति स्मरणात् ॥
नयेयुरिति बहुवचनं द्वयोर्निरासार्थं नैकस्य ।
“एकश्चेदुन्नयेत् सोमां सोपवासः समुन्नयेत् ।
रक्तमाल्याम्बरधरो भूमिमादाय मूर्द्धनि ॥”
इति नारदेनेकस्याभ्यनुज्ञानात् । यस्तु ।
“नैकः समुन्नयेत् सोमां नरः प्रत्ययवानपि ।
गुरुत्वादस्य कार्य्यस्य त्रियेषा बहुषु स्थिता ॥”
इत्येकस्य निषेधः । स उभयानुमतधर्म्मविद्व्यति-
रिक्तविषय इत्यविरोधः ॥ * ॥
स्थलादिचिह्नाभावेऽपि साक्षिसामन्तादीनां
सीमाज्ञान उपायविशेषो नारदेनोक्तः ।
“निम्नगापहृतोथृष्टनष्टचिह्नासु भूमिषु ।
तत्प्रदेशानुमानाच्च प्रमाणाद्भोगदर्शनात् ॥”
निम्नगाया नद्या अपहृतेनापहरणेनोत्सृ-
ष्टानि स्वस्थानात् प्रच्युतानि नष्टानि वा
लिङ्गानि यासु मर्य्यादाभूमिषु तत्र तत्प्रदेशा-
नुमानात् उत्सृष्टनष्टचिह्नानां प्राचीनप्रदेशा-
नुमानाद् ग्रामादारभ्य सहस्रदण्डपरिमितं
क्षेत्रमस्य ग्रामस्य पश्चिमे भाग इत्येवं विधानातु
प्रमाणाद्वा प्रत्यर्थिसमक्षमविप्रतिपन्नायाः
स्मार्त्तकालोपलक्षितैर्भुक्तैव्वा निञ्चिनुयुः । बृह-
स्पतिना चात्र विशेषो दर्शितः ।
“आगमञ्च प्रमाणञ्च भोगं कालञ्च नाम च ।
भूभागलक्षणञ्चैव ये विदुस्तऽत्र साक्षिणः ॥”
एते च साक्षिसामन्तादयः शपथैः शापिताः
सन्तः कुलादिसमक्षं राज्ञा प्रष्टव्याः । यथाह
मनुः ।
“ग्रामेयककुलानान्तु समक्षं सीम्नि साक्षिणः ।
प्रष्टव्याः सीमलिङ्गानि तयोश्चैव विवादिनोः ॥
ते पृष्टाः साक्ष्यादयः समस्ता ऐकमत्येन सीम्नि
निणयं कुर्य्युः । तैर्निर्णीतां सीमां तत्प्रदर्शित-
सकललिङ्गयुक्तां साक्ष्यादिनामान्विताञ्चाविस्म-
रणार्थं पत्रे समारोपयेत् । उक्तञ्च मनुना ।
“ते पृष्टास्तु यथा ब्रूयुः सामन्ताः सीम्नि
निर्णयम् ।
निबध्नीयात्तथा सीमां सर्व्वांस्तांश्चैव नामतः ॥
एतेषां साक्षिसामन्तप्रभृतीनां सोमाचंक्रमण-
दिनादारभ्य यावत् त्रिपक्षं राजदैविकं व्यसनं
चेन्नोपपद्यते तदा तत्प्रदशनात् सोमानिर्णयः ।
अयञ्च राजदैविकव्यसनावधिः कात्यायनोक्तः ।
“सीमाचंक्रमणे कोषे पादस्पर्शे तथैव च ।
त्रिपक्षपक्षसप्ताहं दैवराजिकमिष्यते ॥” इति ॥
यदा त्वमीषां उक्तसाक्ष्यवचसां त्रिपक्षाभ्यन्तरे
रोगादिर्दृश्यते । अथवा प्रतिवादिनिर्द्दिष्टाभ्य-
धिकसंख्यागुण-साक्ष्यन्तरविरुद्धवचनता तदा
ते मृषाभाषितया दण्डनीयाः । तदाह ।
“अनृते तु पृथग्दण्ड्या राज्ञा मध्यमसाहसम् ॥
अनृते मिथ्यावदने निमित्तभूते सति सर्व्वेसा-
मन्ताः प्रत्येकं मध्यमसाहसेन चत्वारिंशदधि-
केन पणपञ्चशतेन दण्डनीयाः । सामन्तविष-
यता चास्य साक्ष्यमौलादोनां स्मृत्यन्तरे
दण्डान्तरविधानादवगम्यते । तथा च मनुः ।
“यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः ।
विपरीतं नयन्तस्तु दाप्याः स्युर्द्विशतं दमम् ॥”
नारदोऽपि ।
“अथ चदनृतं ब्रूयुः सामन्ताः सीम्नि निर्णये ।
सर्व्वे पृथक् पृथक् दण्ड्या राज्ञा मध्यमसाह-
सम् ॥”
सामन्तानां मध्यमसाहसं दण्डमभिधाय ।
“शेषाश्चेदनृतं ब्रूयुर्नियुक्ता भूमिकर्म्माणि ।
प्रत्येकन्तु जघन्यास्ते विनेयाः पूर्व्वसाहसम् ॥”
पृष्ठ ५/३६०
तत्संयुक्तादिषु प्रथमं साहसमुक्तवान् । मौला-
दीनामपि तमेव दण्डमाह ।
“मौलवृद्धादयस्त्वन्ये दण्डगत्या पृथक् पृथक् ।
विनेयाः प्रथमेनैव साहसेनानृते स्थिताः ॥”
इति ।
आदिग्रहणेन गोपशाकुनिकव्याधवनगोचराणां
ग्रहणम् ॥ * ॥ यदपि शाकुनिकादीनां पाप-
रतत्वाल्लिङ्गदर्शन एवोपयोगो न साक्षात्सीमा-
निर्णये तथापि लिङ्गदर्शन एव मृषाभाषित्व-
सम्भवात् दण्डविधानमुपपद्यत एव । अनृते तु
पृथग्दण्ड्या इत्यतद्दण्डविधानमज्ञानविषयम् ।
“बहूनान्तु ग्रहीतॄणां न सर्व्वे निर्णयं यदि ।
कुर्य्युर्भयाद्वा लोभाद्वा दण्ड्यास्तूत्तमसाहसम् ॥”
इति ज्ञानविषये साक्ष्यादीनां कात्यायनेन
दण्डान्तरविधानात् ॥ * ॥ तथा साक्षिवचन-
भेदेऽप्ययमेव दण्डस्तेनैवोक्तः । कीर्त्तिते यदि
भेदः स्याद्दण्ड्यास्तूत्तम-साहसमिति । एव-
मज्ञानादिना अनृतवदने साक्ष्यादीन् दण्ड-
यित्वा पुनः सीमाविचारः प्रवर्त्तयितव्यः । अज्ञा-
नोक्तौ दण्डयित्वा पुनः सीमां विचारयेदित्युक्त्वा
“त्यक्त्वा दुष्टांस्तु सामन्तानन्यान् भौलादिभिः
सह ।
संमिश्रः कारयेत् सीमामेवं धर्म्मविदो विदुः ॥”
इति निर्णयप्रकारस्ते नैवोक्तः ॥ * ॥ यदा पुनः
सामन्तप्रभृतयो ज्ञातारश्चिह्नानि च न सन्ति
तदा कथं निर्णय इत्यत आह ।
“अभावे ज्ञातृचिह्नानां राजा सीम्नः प्रवर्त्तिता ॥
ज्ञातॄणां सामन्तादीनां लिङ्गादीनाञ्च । वृक्षा-
दीनामभावे राजैव सीम्नः प्रवर्त्तिता प्रवर्त्त-
यिता । अन्तर्भावितोऽत्र ण्यर्थः । ग्रामद्वय-
मध्यवर्त्तिनीं विवादास्पदीभूतां भुवं समं
प्रविभज्यास्येयं भूरस्येयमित्युभयो समर्प्य
तन्मध्ये सीमालिङ्गानि कुर्य्यात् । यदा तस्यां
भूमावन्यतरस्योपकारातिशयो दृश्यते तदा
तस्यैव ग्रामस्य सकला भूः समर्पणीया । यथाह
मनुः ।
“सीमायामविषह्यायां स्वयं राजैव धर्म्मवित् ।
प्रदिशेद्भू मिमेकेषामुपकारादिभिः स्थितिः ॥” *
असत्यामप्यतद्भावाशङ्कायामस्याः स्मृतेर्न्याय-
मूलतां द्योतयितुमतिदेशमाह ।
“आरामायतनग्रामनिपानोद्यानवेश्मसु ।
एष एव विधिर्ज्ञेयो बर्षाम्बुप्रवहादिषु ॥”
आरामः पुष्पफलोपचयहेतुः भूभागः । आयतनं
निवेशनं पलालकूटाद्यर्थं विभक्तो प्रदेशः ग्रामः
प्रसिद्धः । ग्रामग्रहणञ्च नगराद्युपलक्षणम् ।
निपानं पानीयस्थानं कूपवापीप्रभृतिकम् ।
उद्यानं क्रीडार्थाभूमिः । वेश्म गृहम् । एतेष्वा-
रामादिष्वयमेव सामन्तसाक्ष्यादिलक्षणो विधि
र्ज्ञातव्यः । तथा प्रवषणोद्भूतेषु जलप्रवाहेषु
अनयोर्गृहयोर्मध्ये न जलौघः प्रवहत्यनयो-
र्वेत्येवं प्रकारे विवादे आदिग्रहणात् प्रासा-
दादिष्वपि प्राचोन एव विधिर्ज्ञेयः वेदितव्यः ।
तथा च कात्यायनः ।
“क्षेत्रकूपतडागानां केदारारामयोरपि ।
गृहप्रसादावसथनृपदेवगृहेषु च ॥” इति ॥ * ॥
सीमानिर्णयमुक्त्वा तत्प्रसङ्गेन मर्य्यादाप्रभेद-
नादौ दण्डमाह ।
“मर्य्यादायाः प्रभेदे तु सीमातिक्रमणे तथा ।
क्षेत्रस्य हरणे दण्डा अधमोत्तममध्यमाः ॥”
अनेकक्षेत्रव्यवच्छेदिका साधारणी भूर्मर्य्यादा
तस्याः प्रकर्षेण भेदनेसीमातिक्रमणे सीमामति-
लङ्घ्य कर्षणे क्षेत्रस्य च भयादिप्रदर्शनेन हरणे
यथाक्रमेणाधमोत्तममध्यमदण्डा वेदितव्याः ।
क्षेत्रग्रहणञ्च गृहारामाद्युपलक्षणार्थम् । यदा
पुनः स्वीयभ्रान्त्या क्षेत्रादिकमपहरति तदा
द्विशतो दमो वेदितव्यः ॥ यथाह मनुः ।
“गृहं तडागमारामं क्षेत्रं वा भीषया हरन् ।
शतानि पञ्च दण्ड्यः स्यादज्ञानाद्द्विशतो दमः ॥”
इति ॥
अपह्रियमाणक्षेत्रादि भूयस्त्वपर्य्यालोचनया
कदाचिदुत्तमोऽपि दण्डः प्रयोक्तव्यः । अत
एवाह ।
“वधः सर्व्वस्वहरणं पूरान्निर्वासनाङ्कने ।
तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहसः ॥”
इति ॥ * ॥
यः पुनः परक्षेत्रे सेतुकूपादिकं प्रार्थनया अर्थ-
दानेन वा लब्धानुज्ञो निर्मातुमिच्छति तं निषे-
धतः क्षेत्रस्वामिन एव दण्ड इत्यत आह ।
“न निषेध्योऽल्पवाधस्तु सेतुः कल्याणकारकः ।
परभूमिं हरन् कूपः स्वल्पक्षेत्रो बहूदकः ॥”
परकीयां भूमिमपहरन्नाशयन्नपि सेतुर्जल-
प्रवाहबन्धः क्षेत्रस्वामिना न प्रतिषेध्यः स
चेदीषत्पीडाकरो बहूपकारकश्च भवति ।
कूपश्चाल्पक्षेत्रव्यापित्वेनाल्पवाधो बहूदकत्वेन
बहूपकारको नैव निवारणीयः । कूपग्रहणञ्च
वापीपुष्करिण्याद्युपलक्षणार्थम् । यदा पुन-
रसौ सर्व्वक्षेत्रवर्त्तितया बहुवाधो नद्यादिसमीप
क्षेत्रवर्त्तितया वा अल्पोपकारकस्तदासौ निषध्य
इत्यर्थादुक्तम्भवति ॥ * ॥ सेतोश्च द्वैविध्यमुक्तं
नारदेन ।
“सेतुश्च द्विविधो ज्ञेयः खेयो बन्ध्यस्तथैव च ।
तोयपवर्त्तनात् खेयो बन्ध्यः स्यात्तन्निवर्त्तनात् ॥
इति ॥
यदा त्वन्यनिर्म्मितं सेतुं भेदनादिना नष्टं स्वयं
संस्करोति तदा पूर्व्वस्वामिनं तद्वं श्यनृपं वा
स्पृष्ट्वैव संस्कुर्य्यात् । यथाह नारदः ।
“पूर्व्वप्रवृत्तमुत्सन्नमपृष्ट्वा स्वामिनन्तु यः ।
सेतुं प्रवर्त्तयेत् कश्चित् न स तत्फलभाक् भवेत्
मृते तु स्वामिनि पुनस्तद्वं श्ये वापि मानवे ।
राजानमामन्त्र्य ततः कुर्य्यात् सेतुप्रवर्त्तनम् ॥”
इति ॥ * ॥
क्षेत्रस्वामिनं प्रति उपदिष्टमिदानीं सेतोः
प्रवर्त्त यितारं प्रति आह ।
“स्वामिने योऽनिवेद्यैव क्षेत्रे सेतुं प्रवर्त्तयेत् ।
उत्पन्ने स्वामिनो भोगस्तदभावे महीपतेः ॥”
क्षेत्रस्वामिनमनभ्युपगम्य तदभावे राजानं वा
यः परक्षेत्रे सेतुं प्रवर्त्तयत्यसौ न फलभाग्भव-
त्यपि तु तदुत्पन्ने फले क्षेत्रस्वामिनो भोग-
स्तदभावे राज्ञः । तस्मात् प्रार्थनयार्थदानेन वा
क्षेत्रस्वामिनं तदभावे राजानं वाप्यनुज्ञाप्यैव
परक्षेत्रे सेतुः प्रवर्त्तनीय इति तात्पर्य्यार्थः ॥ * ॥
क्षेत्रस्वामिना सेतुर्न प्रतिषेध्य इत्यक्तमिदानीं
तस्यैव प्रसक्तानुप्रसक्त्या क्वचिद्विध्यन्तरमाह ।
“फालाहतमपि क्षेत्रं न कुर्य्याद्यो न कारयेत्
स प्रदाप्यः कृष्टफलं क्षेत्रमन्येन कारयेत् ॥”
यः पुनः क्षेत्रस्वामिनः पार्श्वेऽहमिदं क्षेत्रं
कृषामि इत्यङ्गीकृत्य पश्चादुत्सृजति न चान्येन
कर्षयति तच्च क्षेत्रं यद्यपि फलाहतमीषद्वलेन
विदारितं न सम्यग्वीजवापार्हं तथापि तस्या-
कृष्टस्यफलंयावत्तत्रोत्पत्त्यर्हं सामन्तादिकल्पितं
तावदसौ कर्षको दापनीयः । तच्च क्षेत्रं पूर्वकर्ष
कादुच्छिद्यान्ये न कारयेत् । इति सीमाविवाद
प्रकरणम् । इति मिताक्षरा ॥ * ॥ अपि च ।
“सीमां प्रति समुत्पन्ने विवादे ग्रामयोर्द्वयोः ।
ज्येष्ठे मासि नयेत् सीमां सुप्रकाशेषु सेतुषु ॥
सीमावृक्षांश्च कुर्व्वीत न्यग्रोधाश्वत्थकिंशुकान् ।
शाल्मलीन् शालतालांश्च क्षीरिणश्चैव पादपान् ॥
गुल्मान् वेणूंश्च विविधान् शमीवल्ली स्थलानि च
शरान् कुब्जकगुल्मांश्च तथा सीमा न नश्यति ॥
तडागान्युदपानानि वाप्यः प्रस्रवणानि च ।
सोमासन्धिषु कार्य्याणि देवतांयतनानि च ॥
उपच्छन्नानि चान्यानि सीमालिङ्गानि कारयेत्
सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्य्ययम्
अश्मनोऽस्थीनि गोबालान् तुषान् भस्म कपा-
लिकाः ।
करीषमिष्टकाङ्गारान् शर्करा वालुकास्तथा ॥
यानि चैवं प्रकाराणि कालाद्भूमिर्न भक्षयेत् ।
तानि सन्धिषु सीमायामप्रकाशानि कारयेत् ॥
एतैर्लिङ्गैर्नयेत् सीमां राजा विवदमानयोः ।
पूर्व्वभुक्त्या च सततमुदकस्यागमेन च ॥
यदि संशय एव स्यात् लिङ्गानामपि दर्शने ।
साक्षिप्रत्यय एव स्यात् सीमावादविनिर्णयः ॥
ग्रामीयककुलानाञ्च समक्षं सीम्नि साक्षिणः ।
प्रष्टव्याः सीमलिङ्गानि तयोश्चैव विवादिनोः ॥
ते पृष्टास्तु तथा ब्रूयुः समन्ताः सीम्नि निश्चयम्
निबध्नीयात्तथा सीमां सर्व्वांस्तांश्चैव नामतः ॥
शिरोभिस्त गृहीत्वोर्व्वीं स्रग्विणो रक्तवाससः
सुकृतैः शापिताः स्वै स्वै र्नयेयुस्ते समञ्जसम् ॥
यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः ।
विपरीतं नयन्तस्तु दाप्याः स्युर्द्विशतं दमम् ॥
साक्ष्यभावे तु चत्वारो ग्रामाः सामन्तवा-
सिनः ।
सीमाविनिर्णयं कुर्य्युः प्रयता राजसन्निधौ ॥
सामन्तानामभावे तु मौलानां सीम्नि साक्षि-
णाम् ॥
इमानप्यनुयुञ्जीत पुरुषान् वनगोचरान् ॥
पृष्ठ ५/३६१
व्याधान् शाकुनीकान् गोपान् कैवर्त्तान् मूल-
खानकान् ।
व्यालग्राहानुञ्छवृत्तीनन्यांश्च वनचारिणः ॥
ते पृष्टास्तु यथा ब्रूयुः सीमासन्धिषु लक्षणम् ।
तत्तथा स्थापयेद्राजा धर्म्मेण ग्रामयोर्द्वयोः ॥
क्षेत्रकूपतडागानामारामस्य गृहस्य च ।
सामन्तप्रत्ययो ज्ञेयः सीमासेतुविनिर्णयः ॥
सामन्ताश्चेन्मृषा ब्रूयुः सेतौ विवदतां नृणाम् ।
सर्व्वे पृथक् पृथक् दण्ड्या राज्ञा मध्यमसाहसम्
गृहं तडागमारामं क्षेत्रं वा भीषया हरन् ।
शतानि पञ्च दण्ड्यः स्यादज्ञानाद्दिशतो दमः ॥
सीमायामविषह्यायां स्वयं राजैव धर्म्मवित् ।
प्रदिशेत् भूमिमेतेषामुपकारादिति स्थितिः ॥”
इति मानवे ८ अध्यायः ॥

सीमिकः, पुं, (स्यमति शब्दायते इति । स्यमु

शब्दे + “स्यमेः संप्रसारणञ्च ।” उणा० २ ।
४३ । इति किकन् धातोः सम्प्रसारणं दीर्घश्च ।)
वृक्षभेदः । वल्मीकः । सूक्ष्मकृमिजातिः । इति
संक्षिप्तसारोणादिवृत्तिः ॥

सी(शी)रः, पुं, (सिनोति सीयते इति वा । सि बन्धे

+ “शुसिचिमिञां दीर्घश्च ।” उणा० २ । २५ ।
इति क्रन् । दीर्घश्च ।) सूर्य्यः । इति मेदिनी ॥
अर्कवृक्षः । हलः । इत्यमरः । २ । ९ । १४ ॥
(यथा, मेघदूते । १६ ।
“सद्यः सीरोत्कर्षणसुरभि क्षेत्रमारुह्य मालं
किञ्चित्पश्चात् व्रज लघुगतिः किञ्चिदेवोत्तरेण ॥”)

सी(शी)रकः, पुं, (सीर + संज्ञायां कन् ।) शिशु-

मारः । इति शब्दमाला ॥ (सीर + स्वार्थे
कन् ।) सीरशब्दार्थोऽप्यत्र ॥

सी(शी)रध्वजः, पुं, (सीरः ध्वजे यस्य ।) चन्द्र-

वंशीयराजविशेषः । स तु ह्रस्वरोमराजपुत्त्रः ।
यस्य पुत्त्रार्थं यजनभुवं कृषतः सीरे सीता
दुहिता समुत्पन्ना तस्य पुत्त्रो भानुमान् । इति
विष्णुपुराणे । ४ । ५ । १२ ॥ (भागवतमतेऽस्य
पुत्त्रः कुशध्वजः । यथा, तत्रैव । ९ । १३ ।
१८ ।
“ततः सीरध्वजो जज्ञे यज्ञार्थं कर्षतो महीम् ।
सीता सीराग्रतो जाता तस्मात् सीरध्वजः
स्मृतः ॥
कुशध्वजस्तस्य पुत्त्रस्ततो धर्म्मध्वजो नृपः ॥”)

सीरपाणिः, पुं, (सीरः पाणौ यस्य ।) बलदेवः ।

इत्यमरः । १ । १ । २५ ॥

सीरी, [न्] पुं, (सीरोऽस्यास्तीति । इनिः ।)

बलदेवः । इति हलायुधः भूरिप्रयोगश्च ॥

सीलन्धः, पुं, मत्स्यभेदः । सिलिन्दा इति भाषा ।

तस्य गुणाः ।
“सीलन्धः श्लेष्मलो वृष्यो विपाके मधुरो गुरुः ।
वातपित्तहरो हृद्य आमवातकरश्च सः ॥”
इति भावप्रकाशः ॥

सीवनं, क्ली, (सिव्यु तन्तुसन्ताने + ल्युट् । ष्ठिवु

सिव्योर्ल्युटि वा दीर्घः इति स्वामी । मुग्धबोध-
मते “ष्ठीवनसीवने वा ।” इति सूत्रात् निपा-
तितः ।) तन्तुसन्तानम् । सूचीकर्म्म । सेयानी
इति सेलायी इति च भाषा । तत्पर्य्यायः ।
सेवनम् २ स्यूतिः ३ । इत्यमरः । ३ । २ । ५ ॥
ऊतिः ४ व्यूतिः ५ । इति शब्दरत्नावली ॥
(यथा, सुश्रुते । ४ । १ ।
“यथोक्तं सीवनं तेषु कार्य्यं सन्धानमेव च ॥”)

सीवनी, स्त्री, (सिव + ल्युट् । स्त्रियां ङीप् ।)

लिङ्गमण्यधःसूत्रम् । लिङ्गाग्रात् गुह्यपर्य्यन्त-
सीवनम् । इति हेमचन्द्रः ॥

सीसं, क्ली, सीसकम् । इति हेमचन्द्रः ॥ (यथा,

महाभारते । ५ । ४९ । ७९ ।
“सुवर्णस्य मलं रुप्यं रूप्यस्यापि मलं त्रपु ।
ज्ञेयं त्रपु मलं सीसं सीसस्यापि मलं मलम् ॥”
अथ सीसस्योत्पत्तिर्नामगुणाश्च ।
“दृष्ट्वा भोगीसुतां रम्यां वासुकिस्तु मुमोच यत् ।
वीर्य्यं जातस्ततो नागः सर्व्वरोगापहो नृणाम् ।
सीसं वघ्रञ्च वप्रञ्च योगेष्टं नागनामकम् ॥
नागनामकं नागः भुजङ्ग इत्यादि ।
सीसं रङ्गगुणं ज्ञेयं विशेषात् मेहनाशनम् ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

सीसकं, क्ली, (सीसमेव । स्वार्थे कन् ।) धातु-

विशेषः । सीसा इति भाषा । तत्पर्य्यायः ।
नागम् २ योगेष्टम् ३ वप्रम् ४ । इत्यमरः । २ । ९ ।
१०५ ॥ सीसम् ५ सीसपत्रकम् ६ गण्डूपदभवम् ७
सिन्दूरकारणम् ८ वर्द्धम् ९ स्वर्णारि १०
यवनेष्टम् ११ सुवर्णकम् १२ । इति हेमचन्द्रः ॥
वध्रम् १३ पिच्चटम् १४ सुवर्णारि १५ त्रपु १६
त्रपुः १७ । इति शब्दरत्नावली ॥ वध्रकम् १८
महावलम् १९ यवनेष्टकम् २० । इति
जटाधरः ॥ बहुमलम् २१ चीनम् २२
पिष्टम् २३ । इति रत्नमाला ॥ जडम् २४
भुजङ्गमम् २५ उरगम् २६ कुरङ्गम् २७ परि-
पिष्टकम् २८ मृदुकृष्णायसम् २९ पद्मम् ३० तार-
शुद्धिकरम् ३१ शिरावृत्तम् ३२ वयोवङ्गम् ३३
चीनपिष्टम् ३४ । अस्य गुणाः ।
“सीसन्तु वङ्गसाम्यं साद्रसवीर्य्यविपाकतः ।
उष्णञ्च कफवातघ्नमर्शोघ्नं गुरु लेखनम् ॥
वर्णे नीलं मृदु स्निग्धं निर्म्मलञ्च सुगौरवम् ।
रौप्यसंशोधने क्षिप्रं सीसकञ्च तदुत्तमम् ॥”
इति राजनिर्घण्टः ॥ * ॥
अथ सीसस्योत्पत्तिनामगुणाः ।
“दृष्ट्वा भोगिसुतां रम्यां वासुकिस्तु मुमोच यत् ।
वीर्य्यं जातस्ततो नागः सर्व्वरोगापहो नृणाम् ।
सीसं वध्रञ्च वप्रञ्च योगेष्टं नागनामकम् ।
नागः भुजङ्ग इत्यादि ।
सीसं वङ्गगुणं ज्ञेयं विशेषान्मेहनाशनम् ॥
नागस्तु नागशततुल्यबलं ददादि
व्याधिं विनाशयति जीवनमातनोति ।
वह्निं प्रदीपयति कामबलं करोति
मृत्युञ्च नाशयति सन्ततसेवितः सः ॥
पाकेन हीनौ किल रङ्गनागौ
कुष्ठानि गुल्मांश्च तथा निकृष्टान् ।
पाण्डुप्रमेहानिलसादसोथ-
भगन्दरादीन् कुरुतः प्रयुक्तौ ॥” * ॥
अथ सीसकस्य शोधनम् ।
“तस्य साहजिका दोषा वङ्गस्येव निदर्शिताः ।
शोधनञ्चापि तस्यैव भिषग्भिर्गदितं पुरा ॥” * ॥
अथ सीसकस्य मारणविधिः ।
“ताम्बू लरससंपिष्टशिलालेपात् पुनः पुनः ।
द्वात्रिंशद्भिः पुटैर्नाशो निरुत्थं भस्म जायते ॥”
शिला मनःशिला । अन्यच्च ।
अश्वत्थचिञ्चात्वक्चूर्णं चतुर्थांशेन निःक्षिपेत् ।
मृत्पात्रे विद्रुतो नागो लोहदर्व्या प्रचालितः ॥
यामैकेन भवेद्भस्म तत्तुल्या स्यान्मनःशिला ।
काञ्जिकेन द्वयं पिष्ट्वा पचेद्दृढपुटेन च ॥
स्वाङ्गशीतं पुनः पिष्ट्वा शिलया काञ्जिकेन च ।
पुनः पचेत् शरावाभ्यामेवं षष्टिपुटैर्मृतिः ॥”
इति भावप्रकाशः ॥
मारितस्यास्य गुणाः पूर्व्ववत् ॥ * ॥ अपि च ।
“तैले तक्रे गवां मूत्रे काञ्जिके च कुलत्थके ।
त्रिधा त्रिधा विशुद्धिः स्यात् स्वर्णादीनां
समासतः ॥”
अथ सीसकस्य मारणम् ।
“कुडवं नागपत्राणां कुनट्याः स्यात् पलार्द्ध-
कम् ।
तण्डु लीयरसैर्य्यामं यामं वासारसैस्तथा ॥
संमर्द्य च क्रियां कृत्वा घर्म्मे संशोष्य तं पुनः ।
सरावसंपुटे कृत्वा पचेद्वन्योपलैर्भिषक् ॥
एवं सप्तपुटैर्नागो भस्मीभवति निश्चितम् ।
द्विगुञ्जोऽयं ध्रुवं हन्यात् प्रमेहानखिलानपि ॥”
इति वैद्यदर्पणः ॥

सीसपत्रकं, क्ली, सीसकम् । इति हेमचन्द्रः ॥

सीहुण्डः, पुं, सेहुण्डवृक्षः । स्नुही । इत्यमरः । २ ।

४ । १०५ ॥

सु, गतौ । ऐश्वर्य्ये । प्रसवे । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-सक०-अनिट् ।) सवति । इति
दुर्गादासः ॥

सु, ञ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-उभ०-

सक०-अनिट् ।) ञ, सुसाव सुषुवे । इति दुर्गा-
दासः ॥

सु, व्य, निर्भरम् । इत्यमरः । ३ । ४ । २ ॥ (यथा,

महाभारते । १ । १५८ । १६ ।
“विदित्वा व्यवसिष्यामि यद्यपि स्यात् सुदु-
ष्करम् ॥”)
पूजा । इत्यमरः । ३ । ४ । ५ ॥ (शोभनम् । यथा,
मनुः । ७ । ३१ ।
“प्रणेतुं शक्यते दण्डः सुसहायेन धीमता ॥”)
अनुमतिः । कृच्छ्रम् । समृद्धिः । इति मेदिनी ॥
अनायासः । इति भरतैकार्थसंग्रहः ॥ उप-
सर्गविशेषः । यथा । सुपूजानायासातिशयेषु ।
इति मुग्धबोधटीकायां दुर्गादासः ॥ सप्तम्या
वहुवचनविभक्तिः । इति व्याकरणम् ॥

सुकण्टका, क्ली, (सुष्ठुकण्टकोऽस्याः ।)

घृतकुमारी । इति राजनिर्घण्टः ॥

सुकण्डुः, पुं, (सु शोभना कण्डुर्यत्र ।)

कण्डूरोग इति शब्दरत्नावली ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/साला&oldid=44105" इत्यस्माद् प्रतिप्राप्तम्