पृष्ठ ५/४२४

सौधः, पुं, क्ली, (सुधालेपोऽस्यास्तीति । ज्योत्स्नादि-

त्वादण् । (राजसदनम् । इत्यमरः । २ । २ । १० ॥
(यथा, रघुः । ८ । ९३ ।
“तस्य प्रसह्य हृदयं किल शोकशङ्कुः
प्लक्षप्ररोह इव सौधतलं विभेद ॥”)
रौप्यम् । इति राजनिर्घण्टः ॥ सुधासम्बन्धिनि,
त्रि ॥ (यथा, रामायणे । २ । ८० । १९ ।
“प्रसादमालासंयुक्ताः सौधप्राकारसंवृताः ॥”
तथाच सुश्रुते । १ । ४४ ।
“विरेचनानां तीक्ष्णानां पयः सौधं परं मतम् ॥”)

सौधः, पुं, दुग्धपाषाणः । इति राजनिर्घण्टः ॥

सौधारः, पुं, नाटकस्य चतुर्द्दशभागैकभागः । इति

केचित् ॥

सौधालं, क्ली, (सौधवत् अलति पर्य्याप्नोतीति ।

अल + अच् ।) शिवमन्दिरम् । इति केचित् ॥

सौनन्दं, क्ली, (सुनन्दमेव । स्वार्थे अण् ।) बल-

देवमुषलम् । इति हेमचन्द्रः ॥ (यथा, हरि-
वंशे । ९ । ६३ ।
“सौनन्दञ्च ततः श्रीमान्निरानन्दकरं द्विषाम् ।
सव्येन सात्त्वतां श्रेष्ठो जग्राह भुषलोत्तमम् ॥”)

सौनन्दी, [न्] पुं, (सौनन्दं मुषलमस्यास्तीति ।

इनिः ।) बलदेवः । इति त्रिकाण्डशेषः ॥

सौनिकः, पुं, (सूनया पश्वादिवधस्थानेन चरतीति

सूना + ठक् ।) पशुपक्षिमांसविक्रयकर्त्ता । तत्
पर्य्यायः । वैतंसिकः २ मांसिकः ३ कौटिकः ४ ।
इति हेमचन्द्रः ॥ (यथा, मनुः । ४ । ८६ ।
“दश सूनासहस्राणि यो वाहयति सौनिकः ।
तेन तुल्यः स्मृतो राजा घोरस्तस्य प्रतिग्रहः ॥”)
तालव्यशकारादिरपि ॥

सौन्दर्य्यं, क्ली, (सुन्दरस्य भावः । सुन्दर + ष्यञ् ।)

सुन्दरत्वम् । सुन्दरस्य भावः । तस्य लक्षणं यथा,
“अङ्गप्रत्यङ्गकानां यः सन्निवेशो यथोचितम् ।
सुश्लिष्टः सन्धिबन्धः स्यात् तत् सौन्दर्य्यमुदा-
हृतम् ॥
इत्युज्ज्वलनीलमणिः ॥
(यथा, कुमारे । १ । ४९ ।
सर्व्वोपमाद्रव्यसमुच्चयेन
यथाप्रदेशं विनिवेशितेन ।
सा निर्म्मिता विश्वसृजा प्रयत्ना-
देकस्थसौन्दर्य्यदिदृक्षयेव ॥”)

सौपर्णं, क्ली, (सुपर्णं गरुडं तद्वर्णमित्यर्थः अर्ह-

तीति । सुपण + अण् ।) मरकतम् । शुण्ठी ।
इति राजनिर्घण्टः ॥ (गरुडपुराणम् । यथा,
भागवते । १२ । १३ । ८ ।
“एकोनविंशं सौपर्णं ब्रह्माण्डं द्वादशैवतु ॥”
गारुत्मतास्त्रम् । यथा, रघुः । १६ । ८० ।
“विभूषणप्रत्युपहारहस्त-
मुपस्थितं वीक्ष्य विशाम्पतिस्तम् ।
सौपर्णमस्त्रं प्रतिसञ्जहार
प्रह्वेष्वनिर्बन्धरुषो हि सन्तः ॥”)
सुपर्णसम्बन्धिनि, त्रि ॥ (यथा, महाभारते ।
६ । ८७ । ६९ ।
“छाद्यमानस्तु नागैः स ध्यात्वा राक्षसपुङ्गवः ।
सौपर्णं रूपमास्थाय भक्षयामास पन्नगान् ॥”)

सौपर्णी, स्त्री, पातालगरुडी लता । इति राज-

निर्घण्टः ॥

सौपर्णेयः, पुं, (सुपर्ण्या अपत्यं पुमानिति । “स्त्रीभ्यो

ढक् ।” ४ । १ । १२० । इति ढक् ।) गरुडः ।
इति हेमचन्द्रः ॥ गायत्त्र्यादिच्छन्दांसि । यथा,
“विनतायास्तु पुत्त्रौ द्वावरुणो गरुडस्तथा ।
प्रभावत्यः स्वसारश्च यवीयस्यस्तयोः स्मृताः ॥
गायत्त्र्यादीनि च्छन्दांसि सौपर्णेयानि पक्षिणः ।
हव्यवाहानि सर्व्वाणि दिक्षु संनियतानिच ॥”
इति वह्निपुराणे काश्यपीयवंशकथननामा-
ध्यायः ॥

सौप्तिकं, क्ली, (सुप्तौ सुप्तिकाले भवम् । सुप्ति +

ठञ् ।) रात्रियुद्धम् । तत्पर्य्यायः । निशा-
रणम् २ । इति जटाधरः ॥ रात्रिमारणम् ३ ।
इति त्रिकाण्डशेषः ॥ (यथा, महाभारते । १० ।
४ । ३३ ।
“अहन्तु कदनं कृत्वा शत्रूणामद्य सौप्तिके ।
ततो विश्रमिता चैव स्वप्ता च विगतज्वरः ॥”)
महाभारतीयपर्व्वविशेषः । यथा, --
“आदिः सभावनविराटमथोद्यमश्च
भीष्मो गुरू रविजमद्रवसौप्तिकञ्च ।
स्त्रीपर्व्व शान्तिरनुशासनमश्वमेध-
व्यासाश्रमो मुषलयानदिवावरोहः ॥”
इति महाभारतटीका ॥
सुप्तसम्बन्धिनि, त्रि ॥

सौभं, क्ली, हरिश्चन्द्रपुरम् । इति त्रिकाण्डशेषः ॥

तत्पर्य्यायः । कामचारिपुरम् २ । इति जटा-
धरः ॥ (शाल्वराजपुरम् । यथा, महाभारते ।
३ । १२ । ३३ ।
“हतः सौभपतिः शाल्वस्त्वया सौभश्च पाति-
तम् ।”
अस्य विशेषविवरणन्तु तत्रैव १४ अध्यायमारभ्य
विस्तरशो द्रष्टव्यम् ॥)

सौभद्रः, पुं, (सुभद्राया अपत्यं पुमानिति । सुभद्रा

अण् ।) सुभद्रापुत्त्रः । स चाभिमन्युः । यथा, --
“सौभद्रो द्रौपदेयाश्च सर्व्व एव महारथाः ॥”
इति भगवद्गीतायां १ अध्यायः ॥
(सुभद्रा प्रयोजनमस्य । “संग्रामे प्रयोजन-
योद्धृभ्यः ।” ४ । ३ । ५६ । इति अण् । संग्राम-
विशेषः । सुभद्रामधिकृत्य कृतो ग्रन्थः । “अधि-
कृत्यकृते ग्रन्थे ।” ४ । ४ । ८७ । इत्यण् । ग्रन्थ-
विशेषः । इति काशिका ॥ * ॥ तीर्थविशेषे,
क्ली । यथा महाभारते । १ । २१७ । ३ -- ४ ।
“अगस्त्यतीर्थं सौभद्रं पौलोमञ्च सुपावनम् ।
कारन्धमं प्रसन्नञ्च हयमेधफलञ्च तत् ॥
भारद्वाजस्य तीर्थन्तु पापप्रशमनं महत् ।
एतानि पञ्चतीर्थानि ददर्श कुरुसत्तमः ॥”)
सुभद्रासम्बन्धिनि, त्रि ॥

सौभद्रेयः, पुं, (सुभद्रायाः अपत्यं पुमानिति ।

सुभद्रा + “स्त्रीभ्यो ढक् ।” ४ । १ । १२० । इति
ढक् ।) अभिमन्युः । सुभद्राया अपत्यत्वात् ॥
विभीतकवृक्षः । इति शब्दचन्द्रिका ॥

सौभरिः, पुं, मुनिविशेषः । यथा, --

“मीनान् सुदुःखितान् दृष्ट्वा दीनान् मीनपतौ
हृते ।
कृपया सौभरिः प्राह तत्रत्यक्षेममाचरन् ॥”
इति श्रीभागवते । १० । १७ । १० ।
(अस्य विशेषविवरणन्तु विष्णुपुराणे ४ अंशस्य
२ अध्यायमारभ्य द्रष्टव्यम् ॥)

सौभागिनेयः, पुं, (सुभगाया अपत्थ पुमानिति ।

सुभगा + “कल्याण्यादीनामिनङ्” । ४ । १ । १२६ ।
इति ढक् इनङादेशश्च । “हृद्भगसिन्ध्वन्तेपूर्व्व-
पदस्य च ।” ७ । ३ । १९ । इति उभयपद-
वृद्धिः ।) सुभगापुत्त्रः । तत्पर्य्यायः । सुभगा-
सुतः २ । इत्यमरः । २ । ६ । २४ ॥ सुभागिनेय-
सम्बन्धिनि, त्रि, ॥

सौभाग्यं, क्ली, (सुभगायै हितम् । सुभगा + ष्यञ्

“हृद्भगेति ।” ७ । ३ । १९ । इत्युभयपदवृद्धिः ।)
सिन्दूरम् । टङ्कणः । इति राजनिर्घण्टः ॥
(अस्य पर्य्यायो यथा, --
“सौभाग्यं टङ्कणं क्षारो धातुद्रावकमुच्यते ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥
सुभगायाः मुभगस्य वा भावः । ष्यञ् ।) सुभ-
गत्वम् । (यथा, कुमारे । ५ । १ ।
“तथा समक्षं दहता मनोभवं
पिनाकिना भग्नमनोरथा सती ।
निनिन्द रूपं हृदयेन पार्व्वती
प्रियेषु सौभाग्यफला हि चारुता ॥”)
योगभेदः । इति मेदिनी ॥ स च विष्कम्भादि-
सप्तविंशतियोगान्तर्गतचतुर्थयोगः । तत्र जात-
फलम् ।
“सौभाग्यजन्मा सुभगो मनुष्यः
श्लाघ्यो जनानां धनवान् गुणज्ञः ।
उदारचित्तो बलवान् विवेकी
महाभिमानी प्रियभाषणश्च ॥”
इति कोष्ठीप्रदीपः ॥ * ॥
व्रतविशेषः । यथा, --
अगस्त्य उवाच ।
“अतः परं महाराज सौभाग्यकरणं व्रतम् ।
शृणु येनाशु सौभाम्यं स्त्रीपुं सोरुपजायते ॥
फाल्गुनस्य तु मासस्य तृतीया शुक्लपक्षगा ।
उपासितव्या नक्तेन शुचिना सत्यवादिना ॥
सश्रीकञ्च हरिं पूज्य रुद्रं वा चोमया सह ।
या श्रीः सा गिरिजा प्रोक्ता यो हरिः स
त्रिलोचनः ॥
एवं सर्व्वेषु शास्त्रे षु पुराणेषु च पठ्यते ।
एतस्मादन्यथा यस्तु ब्रूते शास्त्रं पृथक्तया ॥
रुद्रो जनानां मर्त्यानां वाच्यं शास्त्रं न तद्भवेत् ।
विष्णुं रुद्रकृतं ब्रूयात् श्रीगौरीति निगद्यते ॥
एतयोरन्तरं यश्च ब्रूयात् सोऽधम उच्यते ।
तं नास्तिकं विजानीयात् सर्व्वधर्म्मबहिष्कृतम् ॥
एवं ज्ञात्वा सलक्ष्मीकं हरिं संपूज्य भक्तितः ।
पृष्ठ ५/४२५
मन्त्रेणानेन राजेन्द्र ततस्तं परमेश्वरम् ॥
गम्भीरायेति पादौ तु सुभगायेति वै कटिम् ।
उदरं देवदेवाय त्रिनेत्रायेति वै मुखम् ॥
वाचस्पतये च शिरो रुद्रायेति च सर्व्वतः ।
एवमभ्यर्च्च्य मेधावी विष्णुं लक्ष्म्या समन्वितम् ॥
हरं वा गौरीसंयुक्तं गन्धपुष्पादिभिः क्रमात् ।
ततस्तस्याग्रतो होमं कारयेत् मधुसर्पिषा ॥
तिलैः सह महाराज सौभाग्यपतयेति च ।
ततस्त्वक्षारविरसं निस्नेहं धरणीतले ॥
गोधूमान्नन्तु भुञ्जीत कृष्णेऽप्येवं विधिः स्मृतः ।
आषाढादिद्वितीये तु पारणं तत्र भोजयेत् ॥
यवान्नन्तु ततः पश्चात् कार्त्तिकादिषुं पार्थिव ।
श्यामाकं तत्र भुञ्जीत त्रीन् मासान् नियतः ॥
शुचिः ॥
ततो माघे सिते पक्षे तृतीयायां नराधिप ।
सौवर्णां कारयेद्गौरीं रुद्रं चैकत्र बुद्धिमान् ॥
सलक्ष्मीकं हरिञ्चापि यथाशक्त्या प्रसन्नधीः ।
ततस्तां ब्राह्मणे दद्यात् पात्रभूते विचक्षणे ॥
अन्नेन हीने वेदानां पारगे साधुवर्त्तिनि ।
सदाचारेऽथवा दद्यात् विष्णुभक्ते विशेषतः ॥
षड्भिः पात्रैरुपेतन्तु ब्राह्मणाय निवेदयेत् ।
एकं मधुमयं पात्रं द्वितीयं घृतपूरितम् ॥
तृतीयं तीलतैलस्य चतुर्थं गुडसंयुतम् ।
पञ्चमं लवणः पूर्णं षष्ठं गोक्षीरसंयुतम् ॥
एतानि दत्त्वा पात्राणि सप्तजन्मान्तरं भवेत् ।
सुभगो दर्शनीयश्च नारी वा पुरुषोऽपि वा ॥”
इति वाराहे सौभाग्यव्रतनामाध्यायः ॥

सौभाग्यचिन्तामणिः, पुं, (सौभाग्याय चिन्ता-

मणिरिव ।) औषधविशेषः । यथा, --
“सौभाग्यामृतजीरपञ्चलवणव्योषाभयाक्षानला
निश्चन्द्राभ्रकशुद्धगन्धकरसानेकीकृतान् भाव-
येत् ।
निर्गुण्डीयुगभृङ्गराजकवृषापामार्गपत्रोल्लसत्
प्रत्येकं स्वरसेन सिद्धवटिका घ्नन्ति त्रिदोषो-
दयम् ॥
येषां शीतमतीव देहमखिलं स्वेदद्रवाद्रीकृतं
निद्रा घोरतरा समस्तकरणव्यामोहमूढंमनः ।
शूलश्वासबलाशकाससहितं मूर्च्छारुचिं तृट्
ज्वरं
तेषां वै परिहृत्य जीवितमसौ गृह्वाति मृत्यो-
र्मुखात् ॥”
इति सारकौमुदी ॥

सौभाग्यतृतीया, स्त्री, (सौभाग्याय तृतीया ।)

भाद्रशुक्लतृतीया । सा च मन्वन्तरा । इति
स्मृतिः ॥

सौभाञ्जनः, पुं, (सोभाञ्जन एव । स्वार्थे अण् ।)

शोभाञ्जनवृक्षः । इत्यमरटीका । २ । ४ । ३१ ॥

सौभिकः, पुं, (सौभं कामचारिपुरादिनिर्म्माणं

शिल्पमस्य । ठक् ।) इन्द्रजालिकः । इति
हारावली ।

सौमनसा, स्त्री, जातीपत्री । इति राज-

निघण्टः ॥

सौमनस्यं, क्ली, (सुमनसो भावः । ष्यञ् ।) श्राद्धे

पिण्डदानानन्तरब्राह्मणहस्ते पुष्पदानमन्त्रः ।
यथा शातातपः ।
“पिण्डनिर्व्वापरहितं यत्तु श्राद्धं विधीयते ।
स्वधावाचनलोपोऽत्र विकिरस्तु न लुप्यते ॥
अक्षय्यदक्षिणास्वस्तिसौमनस्यमथास्त्विति ॥”
छन्दोगपरिशिष्टम् ।
“अथाग्रभूमिमासिञ्चेत् सुसुप्रोक्षितमस्त्विति ।
शिवा आपः सन्त्विति च युग्मानेवोदकेन च ॥
सौमनस्यमस्त्विति च पुष्पदानमनन्तरम् ।
अक्षतञ्चारिष्टञ्चास्त्विति च अक्षतानपि दाप-
येत् ॥”
अथ प्रकृतब्राह्मणाचमनान्तरम् । ब्राह्मणाग्र-
भूमिं सुसुप्रोक्षितमस्त्विति प्रोक्षयेत् । शिवा
आप इत्यादिना उदकेन हस्ते सिञ्चेत् ॥ सीम-
नस्यमस्त्वित्यनेन हस्ते पुष्पदानं कुर्य्यात् । इति
श्राद्धतत्त्वम् ॥ सुमनसो भावः सौमनस्यं तदत्र
श्राद्धे दत्तं पुष्पं सौमनस्यं मनसः प्रसादजनकं
भवतु । इति गुणविष्णुः ॥ (सन्तुष्टचित्तता ।
यथा माघे । ७ । २८ ।
“रथचरणवराङ्गनाकराब्ज-
व्यतिकरसम्पदुपात्तसौमनस्याः ॥”
प्रसन्नचित्तार्हे, त्रि । यथा, भागवते । ४ । १२ । ४४ ।
“धन्यं यशस्यमायुष्यं पुण्यं स्वस्त्ययनं महत् ।
स्वर्ग्यं ध्रौव्यं सौमनस्यं प्रशस्यमघमर्षणम् ॥”)

सौमनस्यायनी, स्त्री, (अयति प्राप्नोत्यनयेति ।

अय + ल्युट् । ङीप् । सौमनस्यस्य प्रसन्नचित्त-
ताया अयनी ।) मालतीपुष्पकलिका । इति
त्रिकाण्डशेषः ॥ (यथा । “सुमनाः सौमनस्यायि-
नीहरिद्रादारुहरिद्रावृश्चीरपुनर्नवामहासहा-
क्षुद्रसहाकषायैश्च ।” इति चरके विमानस्थाने
अष्टमेऽध्याये ॥)

सौमिकी, स्त्री, (सोमस्तद्दीक्षा प्रयोजनमस्याः ।

ठक् ।) दीक्षणीयेष्टिः । इति हेमचन्द्रः ॥

सौमित्रः, पुं, (सुमित्रायां भवः । सुमित्रा + अण् ।)

लक्ष्मणः । इति शब्दरत्नावली ॥

सौमित्रिः, पुं, (सुमित्राया अपत्यं पुमानिति ।

बाह्वादित्वात् । इञ् ।) लक्ष्मणः । इति शब्द-
रत्नावली ॥ (यथा, रामगीतायाम् । २ ।
“सौमित्रिणा पृष्ट उदारबुद्धिना
रामः कथाः प्राह पुरातनीः शुभाः ॥”)

सौमेधिकः, पुं, (सुमेधया निर्वृत्तः । सुमेधा + ठक्

सिद्धः । इति हारावली ॥ शोभनमेधासम्बन्धिनि,
त्रि ॥

सौमेरुकं, क्ली, सुवर्णम् । इति राजनिर्घण्टः ॥

सुमेरुसम्बन्धिनि, त्रि ॥ (क्वचित् सीमेरबमिति
पाठो दृश्यते ॥)

सौम्यः, पुं, (सोमस्यापत्यं पुमान् । सोम +

ष्यञ् । बुधग्रहः । इत्यमरः । १ । ३ । २६ ॥
(यथा, बृहत्संहितायाम् । ५ । ६० ।
“पश्यन् ग्रस्तं सौम्यो घृतमधुतैलक्षयाय
राज्ञाञ्च ॥”
सोम इव सोम्यः । ततः प्रज्ञाद्यण् ।) विप्रः ।
इति शब्दमाला ॥ उडुम्बरवृक्षः । इति राज-
निर्घण्टः ॥ वृषकर्क्कटकन्यावृश्चिकमकरमीन-
राशयः । यथा, --
“क्रूरोऽथ सौम्यः पुरषोऽङ्गना च
ओजोऽथ युग्मं विषमः समश्च ।
चरस्थिरद्व्यात्मकनामधेया
मेषादयोऽमी क्रमशः प्रदिष्टाः ॥”
इति ज्योतिस्तत्त्वम् ॥
भूखण्डविशेषः । यथा, --
“गन्धर्व्वो वरुणः सौम्यो बहवः कङ्ख एव च ।
कुमुदश्च कसेरुश्च नागो भद्रारकस्तथा ॥
चन्द्रेन्द्रमलयाशङ्खयवाङ्गकगभस्तिमान् ।
ताम्राकुश्च कुमारी च तत्र द्वीपदशाष्टभिः ॥”
इति शब्दमाला ॥
सौम्यकृच्छ्रव्रतम् । यथा, --
“प्राजापत्यः सान्तपनः शिशुकृच्छ्रः पराककः ।
अतिकृच्छ्रः पर्णकृच्छ्रः सौम्यः कृच्छ्रातिकृ-
च्छ्रकः ॥”
सौम्यः सौम्यकृच्छ्रः । इति प्रायश्चित्ततत्त्वम् ॥
(पितृगणविशेषः । यथा, मनुः । ३ । १९९ ।
“अग्निदग्धानग्निदग्धान् काव्यान् वर्हिषदस्तथा
अग्निष्वात्तांश्च सौम्यांश्च विप्राणामेव निर्द्दिशेत् ॥

सौम्यः, त्रि, (सोमो देवतास्य । सोम + “सोमात्

ट्यण् ।” ४ । २ । ३० । इति ट्यण् ।) सोम-
दैवतः । अनुग्रः । मनोज्ञः । इति मेदिनी ॥
(यथा रघुः । १२ । ३६ ।
“संरम्भं मैथिलीहासः क्षणसौम्यां निनाय
ताम् ।
निवातस्तिमितां वेलां चन्द्रोदय इवोदधेः ॥”
भक्तः । यथा, भागवते । २ । ४ । २३ ।
“नमस्तस्मै भगवते वासुदेवाय वेधसे ।
पपुर्ज्ञानमयं सौम्या यन्मु खाम्बुरुहासवम् ॥”)
भास्वरः । इति धरणिः ॥

सौम्यकृच्छः, पुं, (सौम्यः अनुग्रः कृच्छ्रः ।) व्रत-

विशेषः । यथा, गारुडे । १०५ । ६८ ।
“पिण्याकाचामतक्राम्बुशक्तूनां प्रतिवासरम् ।
एकैकमुपवासश्च कृच्छ्रः सौम्योऽयमुच्यते ॥”

सौम्यगन्धी, स्त्री, (सौम्यो गन्धो यस्याः । ङीष् ।)

शतपत्री । इति राजनिर्घण्टः ॥

सौम्यग्रहः, पुं, (सौम्यो ग्रहः ।) शुभग्रहः । स च

पूर्णचन्द्रः पापग्रहायुक्तबुधः बृहस्पतिः शुक्रश्च ।
यथा, ज्योतिस्तत्त्वे ।
“अर्द्धोनेन्द्वर्कशौराराः पापाः सौम्यास्तथापरे ।
पापयुक्तो बुधः पापो राहुकेतू च पापदौ ॥”

सौम्यधातुः, स्त्री, (सौम्यो धातुः ।) कफः । इति

राजनिर्घण्टः ॥

सौम्या, स्त्री, (सोम इव सौम्यः । शाखादित्वात्

यः । ततः प्रज्ञाद्यण् । स्त्रियां टाप् ।) दुर्गा ।
यथा, --
“सौम्या सौम्यतराशेषसौम्ये भ्यस्त्वतिसुन्दरी ॥”
इति देवीमाहात्म्यम् ॥
पृष्ठ ५/४२६
महेन्द्रवारुणी । रुद्रजटा । महाज्योतिष्मती ।
महिषवल्ली । गुञ्जा । शालपर्णो । ब्राह्मी ।
शटी मल्लिका । इति राजनिर्घण्टः ॥

सौम्याः, स्त्री, (सोमो देवता यासाम् । सोम +

ठ्यण् ।) इल्ललाः । तास्तु मृगशिरोनक्षत्र-
शिरःस्थाः पञ्च ताराः । इति विश्वहेमचन्द्रौ ॥

सौरः, पुं, (सूरस्य सूर्य्यस्यायमिति । सूर + अण् ।

शनैश्चरः । इत्यमरटीकायां भरतः । १ । ३ ।
२६ ॥ (यथा, बृहत्संहितायाम् । १० । ४ ।
“बहुलास्थे पीड्यन्ते सौरेऽम्न्युपजीविन-
श्चमूपाश्च ॥”)
तुम्बुरुवृक्षः । इति राजनिर्घण्टः ॥ सूर्य्यैक-
राशिभोगावच्छिन्नमासादिः । यथा, विष्णु-
धर्म्मोत्तरम् ।
“आदित्यराशिभोगेन सौरो मासः प्रकीर्त्तितः ॥
विवाहादिकर्म्मसु सौरमासस्योत्तेखः कर्त्तव्यः ।
यथा, पितामहः ।
“आब्दिके पितृकृत्ये च मासश्चन्द्रमसः स्मृतः ।
विवाहादौ स्मृतः सौरो यज्ञादौ सावनो मतः ॥”
विवाहादावित्यत्रादिपदं यात्राग्रहचारपरम् ।
यत्कर्म्म सूर्य्यभोग्यराश्युल्लेखेन विहितं यच्च
विशेष्योदगयनादिविहितं तत्परञ्च । अयनस्य
सौरमासघटितत्वेन वक्ष्यमाणत्वात् । तच्च
चूडोपनयनादि । विष्णुधर्म्मोत्तरम् ।
“अध्वायनञ्च ग्रहचारकर्म्म
सौरेण मानेन सदाध्यवस्येत् ।
सत्रास्त्यपास्यान्यथ सावनेन
लौक्यञ्च यत् स्याद्व्यवहारकर्म्म ॥”
अध्वायनं अध्वगमनं यात्रति यावत् । इति
ज्योतिस्तत्त्वम् ॥ * ॥ सूर्य्योपासकः । (यथा,
महानिर्व्वाणतन्त्रे । ३ । १४२ ।
“शाक्ताः शैवा वैष्णवाश्च सौरा गाणपतास्तथा ।
विश विप्रेतराश्चैव सर्व्वेऽप्यत्राधिकारिणः ॥”)
गुरुविशेषः । यथा, --
“गौडाः शाल्वोद्भवाः सौरा मागधाः केरला-
स्तथा ।
कोशलाश्च दशार्णाश्च गुरवः सप्त मध्यमाः ॥”
इति तन्त्रसारे १ परिच्छेदः ॥
(उपपुराणविशेषे, क्ली । यथा, देवीभागवते ।
१ । ३ । १५ ।
“सौरं पराशरप्रोक्तमादित्यञ्चातिविस्तरम् ॥”
सूर्य्यसम्बन्धिनि, त्रि । यथा, --
“शैवानि गाणपत्यानि शाक्तानि वैष्णवानि च ।
साधनानि च सौराणि चान्यानि यानि कानि च
श्रुतानि तानि देवेश तद्वक्त्रान्निःसृतानि च ॥”
इति तन्त्रसारे ३ परिच्छेदः ॥ * ॥
यथा च हरिवंशे भविष्यपर्व्वणि । ४९ । ५२ ।
“यदा सौरं वपुरिति स्मर्त्ता स्यां जगतीपते ।
तदा तद्भावनायोगात् सूर्य्य एव विराजसे ॥”)

सौरजः, पुं, (सौरात् तेजसः जायते इति ।

जन + डः ।) तुम्ब, रुवृक्षः । राजनिर्घण्टः ॥
सौरजाते, त्रि ॥

सौरदिवसः, पुं, (सौरो दिवमः ।) सूर्य्यसम्बन्धि-

दिनम् । तत्तु रविभुक्तांशाधिकषष्टिदण्डैर्भवति ।
यथा, “सावनं दण्डाः षष्टिरहः स्वलग्नस्वगुणां-
शाट्यास्तदैनं भवेत् ॥” इति मलमासतत्त्वम् ॥
“त्रिंशता सौरदिवसैः सावनः परिकीर्त्तितः ॥”
इति शब्दरत्नावली ॥

सौरनक्तं, क्ली, व्रतविशेषः । यथा, --

“हस्तयुक्ते अर्कदिने सौरनक्तं समाचरेत् ।
स्नात्वा चार्कं समभ्यर्च्च्य नीरोगी चिरजीवति ॥
आत्मनो द्विगुणच्छायं यदा सन्तिष्ठते रविः ।
सौरनक्तं विजानीयात् नक्तञ्च निशिभोजनम् ॥
इति नारसिंहे ६४ अध्यायः ॥

सौरभं, क्ली, (सौरभमस्यास्तीति । अच् ।)

कुङ्कुमम् । इति त्रिकाण्डशेषः ॥ वोलम् । इति
राजनिर्घण्टः ॥ सद्गन्धः । सुरभेर्भाव इत्यर्थे
ष्ण(अण्) प्रत्ययेन निष्पन्नम् ॥ (यथा, नैषधे ।
२ । ९२ ।
“सममेणमदैर्यदापणे
तुलयन् सौरभलोभनिश्चलम् ।
पणिता न जनारवैरवै-
दपि गुञ्जन्तमलिं मलीमसम् ॥”
तद्विशिष्टे, त्रि । यथा, भागवते । ८ । २ । ८ ।
“सरित्सरोभिरच्छोदैः पुलिनैर्मणिबालुकैः ।
देवस्त्रीमज्जनामोदसौरभाम्ब्रनिलैर्युतः ॥”)

सौरभेयः, पुं, (सुरभेरपत्यमिति । सुरभि + ढक्

वृषः । इत्यमरः । २ । ९ । ६० ॥ (यथा, भाग-
वते । १ । १७ । ९ ।
“मा सौरभेयात्र शुचौ व्येतु ते वृषलात् भयम् ॥”
सुरभिसम्बन्धिनि त्रि ॥

सौरभेयी, स्त्री, (सुरभेरपत्यं स्त्री । सुरभि +

ढक् । ङीप् ।) नौः । इत्यमरः । २ । ९ । ॥ ३ ॥
(यथा, रघुः । २ । ३ ।
“निवर्त्त्य राजा दयितां दयालु-
स्तां सोरभेयीं सुरभिर्यशोभिः ।
पयोधरीभूतचतुःसमुद्रां
जुगोप् गोरूपधरामिवोर्व्वीम् ॥”
अप्सरोविशेषः । यथा, महाभारते । २ । १० । ११ ।
“विश्वाची सहजन्या च प्रम्लोचा उर्व्वशी इरा
वर्गा च सौरभेयी च समीची वुद्वुदा लता ॥”)

सौरभ्यं, क्ली, (सुरभेर्भावः । सुरभि + व्यञ् ।)

मनोज्ञत्वम् । सौगन्धम् । (यथा, आर्य्यासप्त-
शत्याम् । २१३ ।
“गुणविधृता सखि तिष्टसि तथैव देहेन किन्तु
हृदयं ने ।
हृतममुना मालायाः समीरणेनेव सौरभ्यम् ॥”)
गुणगौरवम् । इति मेदिनी ॥

सौरभ्यः, पुं, (सौरभ्यं गुणगौरवमस्यास्तीति ।

अच् ।) कुबेरः । इति शब्दरत्नावली ॥

सौरमासः, पुं, (सौरो मासः ।) सूर्य्यैकराशि-

भोगावच्छिन्नकालः । यथा, ब्रह्मसिद्धान्ते ।
“एकराशौ रविर्यावत्कालं मासः स भास्करः ॥”
इति मलमासतत्त्वम् ॥
अपि च ।
“अथ षड्भिः सौरमासैरयनं परिकीर्त्तितम् ॥”
इति शब्दरत्नावली ॥
अस्यान्यद्विवरण सौरशब्दे द्रष्टव्यम् ॥

सौरसंवत्सरः, पुं, (सौरः संवत्सरः ।) सूर्य्यस्य

द्वादशराशिभोगावच्छिन्नकालः । यथा, --
“सौरसंवत्सरस्यान्ते मानेन शशिजेन तु ।
एकादशातिरिच्यन्ते दिनानि भृगुनन्दन ॥”
अपि च ।
“सौरेनाब्दस्तु मानेन यदा भवति भार्गव ।
सावनेन तथा मासि दिनषट्कं प्रपूर्य्यते ॥”
इति मलमासतत्त्वम् ॥

सौरसेयः, पुं, स्कन्दः । इति शब्दमाला ॥ सुर-

साया अपत्यञ्च ॥ (सुरसमर्हतीति । सुरस +
“वुञ्छण्कटजिति ।” ४ । २ । ८० । इति
सख्यादित्वात् ढञ् । सुरसार्हे, त्रि ॥)

सौरसैन्धवः, त्रि, (सुरसिन्धोरयम् । सुरसिन्धु +

अण् ।) गङ्गासम्बन्धीयः । स च भीष्मादिः ।
(सौरः सूर्य्यसम्बन्धी सैन्धवः घोटकः ।) सूर्य्य-
घोटके, पुं, ॥

सौराष्ट्रः, पुं, (सुराष्ट्र एव । अण् ।) देश विशेषः ।

इति जटाधरः ॥ सुरट् इति भाषा ॥ कुन्दुरुकः ।
इति राजनिर्घण्टः ॥ कांस्ये, क्ली । इति केचित् ।

सौराष्ट्रकं, क्ली, (सुराष्ट्रे भवम् । अण् । ततः

कन् ।) पञ्चलोहम् । इति हेमचन्द्रः ॥

सौराष्ट्रा, स्त्री, (सुराष्ट्रे भवा । अण् ।) तुवरी ।

इति राजनिर्घण्टः ॥

सौराष्ट्रिकं, क्ली, (सुराष्ट्रे देशे भवम् । अध्या-

त्मादित्वात् ढञ् ।) विषभेदः । इति शब्दरत्ना-
वलो भरतश्च ॥ (अस्य पर्य्यायो लक्षणञ्च ।
यथा, --
“विषन्तु गरलं क्ष्वेडस्तस्य भेदानूदाहरे ।
वत्सनाभः स हारिद्रः सक्तकश्च प्रदीपनः ॥
सीराष्ट्रिकः शृङ्गिकश्च कालकूटस्तथैव च ।
हलाहलो ब्रह्मपुत्त्रो विषभेदा अमी नव ॥”
“सुराष्ट्रविषये यः स्यात् स सौराष्ट्रिक उच्यते ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
सौराष्ट्रदेशसम्बन्धिनि, त्रि ॥

सौराष्ट्री, स्त्री, (सुराष्ट्रे भवा । अण् । ङीष् ।)

सौराष्ट्रदेशीयसुगन्धिमृत्तिका । तत्पर्य्यायः ।
पार्व्वती २ काशी ३ मृत्स्रा ४ काक्षी ५
पर्पटी ६ । इति रत्नमाला ॥ कालिका ७
सती ८ । इति हेमचन्द्रः ॥ अस्या गुणाः ।
कफपित्तवीसर्पव्रणनाशित्वम् । इति राजवल्लभः ॥
राजनिर्घण्टोक्तगुणपर्य्यायौ तुवरीशब्दे द्रष्टव्यौ ॥

सौरिः, पुं, (सुरस्यापत्यमिति । सूर + इञ् ।)

शनिः । इत्यमरः । १ । ३ । २६ ॥ यथा,
बृहत्संहितायाम् । १०४ । १४७ ।
“कृष्णद्रव्यैः सौरिः सौम्यो मणिरजततिलक-
कुसुमैर्गुरुः परिपीतकैः ॥”)
असनवृक्षः । आदित्यभक्ता । इति राज-
निर्घण्टः ॥
पृष्ठ ५/४२७

सौरिकः, पुं, (सुरेभ्यो हितः । सुर + ठक् ।)

स्वर्गः । इतिशब्दरत्नावली ॥ (सुरया चर-
तीति । सुरा + ठक् ।) सुराविक्रयकर्त्ता ।
इति केचित् ॥ स्वार्थे कप्रत्यये शनैश्चरः ॥
(सुराया अयमिति । सुरासम्बन्धिनि, त्रि ।
यथा, मनुः । ८ । १५९ ।
“प्रातिभाव्यं वृथादानमाक्षिकं सौरिकञ्च यत् ।
दण्डशुक्लावशेषञ्च ने पुत्त्रो दातुमर्हति ॥”)

सौरिरत्नं, क्ली, (सौरेः शनैश्चरस्य रत्नम् ।) नील-

मणिः । इति राजनिर्घण्टः ॥

सौरी, स्त्री, (सूर्य्य + अण् । ङीप् । “सूर्य्यतिष्येति ।”

६ । ४ । १४९ । इति यलोपः ।) सूर्य्यस्यापत्यं
स्त्री । इति मुग्धबोधव्याकरणम् ॥

सौरीयं, त्रि, (सूर्य्य + छः । “सूर्य्यागस्त्र्ययोश्छे च

ङ्याञ्च ।” ६ । ४ । १४९ । इत्यस्य वार्त्तिकोक्त्या
यलोपः ।) सूर्य्याय हितम् । इति मुग्धबोध-
व्याकरणम् ॥ सौर्य्ये भवः । यथा । सूर्य्यस्येदं
इत्यर्थे ष्णः सौर्य्यं तेजः पुनः सौर्य्ये भव इत्यर्थे
ईयप्रत्यये अनेन यलोपे सौरीयः । इति मुग्ध-
बोधटीकायां दुर्गादासः ॥

सौरेयः, पुं, शुक्लझिण्टीवृक्षः । यथा, --

“सौरेयकः श्वेतपुष्पः सौरेयः कटसारिका ।
सहाचरः सहचरः स च विन्द्यपि कथ्यते ॥
कुरण्टकोऽत्र पीते स्याद्रक्तः कुरवकः स्मृतः ।
नीलो वाणो द्वयोरुक्तो दास आर्त्तगलश्च सः ॥
सौरेयः कुष्ठवातास्रकफकण्डूविषापहः ।
तिक्तोष्णो मधुरो दन्त्यः सुस्निग्धः केशरञ्जनः ॥”
इति भावप्रकाशः ॥

सौरेयकः पुं, शुक्लझिण्टीवृक्षः । यथा, --

“सौरेयकः श्वेतपुष्पः सौरेयः कटसारिका ।
सहाचरः सहचरः स च विन्द्यपि कथ्यते ॥
कुरण्टकोऽत्र पीते स्याद्रक्तः कुरवकः स्मृतः ।
नीलो वाणो द्वयोरुक्तो दास आर्त्तगलश्च सः ॥
सौरेयः कुष्ठवातास्रकफकण्डूविषापहः ।
तिक्तोष्णो मधुरो दन्त्यः सुस्निग्धः केशरञ्जनः ॥”
इति भावप्रकाशः ॥

सौल्वकः, पुं, (सुल्वं ताम्रपात्रादिनिर्म्माणं

शिल्पमस्य । सुल्व + ठक् ।) ताम्रकुट्टकः ।
इत्यमरटीका ॥

सौवं, त्रि, स्वस्य इदम् । (स्व + अण् ।) स्वसम्बन्धि ।

स्वर्गे भवम् । इति मुग्धबोधव्याकरणम् ॥
(स्वःस्वम्बन्धि । तथा, वाजसनेयसंहितायाम् ।
१३ । ५७ ।
“तस्य श्रोत्रं सौवम् ॥”
“तस्य स्वर्गस्य सम्बन्धि श्रोत्रं कीदृशं सौवं स्वः
इदं सौवं तस्ये दमिति अण् । द्वारादित्वादै-
जागमः । अव्ययानां भमात्रे टिलोपः ।” इति
तद्भाष्यम् ॥) शासनम् । इति केचित् ॥

सौवग्रामिकं, त्रि, (स्वग्रामे भवम् । स्वग्राम + ठक्

स्वग्रामभववस्तु । इति मुग्धबोधव्याकरणम् ॥

सौवरं, त्रि, (स्वरस्ये दमिति । स्वर + अण् ।

“द्वारादीनाञ्च ।” ७ । ३ । ४ । इति ऐजागमः ।)
स्वरसम्बन्धि । स्वरशब्दात् ष्णप्रत्यये उमागमेन
निष्पन्नम् । इति मुग्धबोधव्याकरणम् ॥

सौवर्च्चलं, क्ली, (सुवर्च्चले देशे भवम् । सुवर्च्चल +

अण् ।) सुवर्च्चलदेशभवलवणम् । सच्लवण
इति भाषा । तत्पर्य्यायः । अक्षम् २ रुचकम् ३ ।
इत्यमरः । २ । ९ । ४२ ॥ कृष्णलवणम् ४ ।
इति रत्नमाला ॥ तिलकम् ५ हृद्यगन्धकम् ६
रुच्यम् ७ कौद्रविकम् ८ । इति राजनिर्घण्टः ॥
अस्य गुणाः । रुचिकारित्वम् । उष्णवीर्य्यत्वम् ।
निर्म्मलत्वम् । कटुत्वम् । गुल्मशूलविबन्धना-
शित्वम् । किञ्चित्पित्तकरत्वम् । लघुत्वञ्च । इति
राजवल्लभः ॥ अपि च ।
“सौवर्च्चलं लघु क्षारं कटूष्णं गुल्मशूलनुत् ।
ऊर्द्ध्ववातामशूलार्त्तिविबन्धारोचकान् जयेत् ॥”
इति राजनिर्घण्टः ॥
अन्यच्च ।
“सौवर्च्चलं स्याद्रुचकमक्ष्यं पाक्यञ्च तन्मतम् ।
रुचकं रोचनं भेदि दीपनं पाचनं परम् ॥
सस्नेहवातनुन्नातिपित्तलं विशदं लघु ।
उद्गारशुद्धिदं सूक्ष्मं विबन्धानाहशूलहृत् ॥”
इति भावप्रकाशः ॥
सर्ज्जिकाक्षारः । इत्यमरः । २ । ९ । १०९ ॥
सुवर्च्चलासम्बन्धिनि, त्रि ॥

सौवर्णं, त्रि, (सुवर्णस्येदम् । सुवर्ण + अण् ।)

सुवर्णसम्बन्धि । कर्षमितहेमसम्बन्धि । यथा,
मत्स्यपुराणम् ।
“सौवर्णी राजती वापि ताम्री रत्नमयी तथा ।”
इत्युपक्रम्य ॥
“शुभदारुमयी वापि देवतार्च्चा प्रशस्यते ॥”
इति देवप्रतिष्ठातत्त्वम् ॥

सौवर्णभेदिनी, स्त्री, (सौवर्णमिव वर्णं भिनत्ति प्रका-

शयतीति । भिद् + णिनिः । ङीप् ।) प्रियङ्गुः ।
इति शब्दमाला ॥

सौवस्तिकः, पुं, (स्वस्ति तत् करणे साधुः । स्वस्ति +

ठक् ।) पुरोहितः । इति हेमचन्द्रः ॥ स्वस्ति-
सम्बन्धिनि, त्रि । इति व्याकरणम् ॥

सौवास्तवः, त्रि, (सुवास्तोरिदम् । सुवास्तु +

सुवास्त्वादिभ्योऽण् ।” ४ । २ । ७७ । इत्यण् ।)
सुन्दरवास्तुसम्बन्धी । सुशब्दपूर्व्वकवास्तुशब्दात्
ष्णप्रत्ययेन निष्पन्नः ॥ (सुवास्तोरदूरभवः । इति
काशिका ॥)

सौविदः, पुं, (सुष्ठु वेत्तीति । सु + विद + कः ।

ततः प्रज्ञाद्यण् ।) अन्तःपुररक्षकः । इत्यमरः ।
२ । ८ । ८ ।

सौविदल्लः, पुं, (सुष्ठु विदन्तं विज्ञमपि लाति वश-

वर्त्तिनं करोतीति । सुविदत् + ला + कः । ततः
स्वार्थे अण् ।) अन्तपुररक्षकः । (यथा, कथा-
सरित्सागते । ३९ । २८ ।
“तदन्यस्य न लाभोऽस्ति सौविदल्लाभिरक्षिते ।
अन्तःपुरेऽत्र पुंसो यदतोऽसौ तेन संगता ॥”)
तत्पर्य्यायः । कञ्चुकी २ स्थापत्यः ३ सौविदः ४ ।
इत्यमरः । २ । ८ । ८ ॥ स्थपतिः ५ सुविदः ६ ।
इति तट्टीका ॥ चत्वारि महल्लरक्षके । बहिः
सञ्चरन्तीनां पुरस्त्रीणां प्रेक्षकपुरुषान्तरवार-
णाय राज्ञा स्त्र्यगारे ये वेत्रधरा नियुक्तास्ते
बहिर्महल्लकाः सौविदल्लादिशब्दवाच्याः ।
शोभनं विदन्ति सुविदः पण्डिताः क्विप् तान्
अतति सत्येन गच्छति सुविदत् भूपालः तं
लाति सुविदल्लं अन्तःपुरं हनजनाति डः ले
लस्तोरिति लः तत्र नियुक्ता इति ढघे कादिति
ष्णे सौविदल्लाः । इति भरतः ॥

सौविदल्लकः, पुं, (सौविदल्ल एव । स्वार्थे कन् ।)

सौविदल्लः । इति शब्दरत्नावली ॥

सौवीरं, क्ली, बदरम् । काञ्जिकम् । स्रोतोञ्जनम् ।

इत्यमरः । २ । ४ । ३७ । २ । ९ । ३९ । २ ।
९ । १०० ॥ एतेषां विशेषा यथा, --
“ -- सौवीरं बदरं महत् ।”
इति रत्नमाला ॥
“सौवीरन्तु यवैरामैः पक्वैर्वा निस्तुषैः कृतम् ।
गोधूमैरपि सौवीरमाचार्य्यैः कैश्चिदूचिरे ॥
सौवीरन्तु ग्रहण्यर्शःकफघ्नं भेदि दीपनम् ।
उदावर्त्ताङ्गमर्दास्थिशूलानाहेषु शस्यते ॥”
इति भावप्रकाशः ॥
सौवीराञ्जनम् । यथा, --
“सुवीरकं पार्व्वतेयं सौवीरं नीलमञ्जनम् ।”
इति रत्नमाला ॥

सौवीरः, पुं, (सुष्ठु वीरा यत्र । ततः स्वार्थे अण् ।)

देशविशेषः । इति भेदिनी ॥ (यथा, हरिवंशे ।
९० । १९ ।
“सौवीरराजः शैव्यश्च पाण्ड्यश्च बलिनां
वरः ॥”)

सौवीरकं, क्ली, (सौवीरमेव । स्वार्थे कन् ।)

काञ्जिकविशेषः । तत्पर्य्यायः । सुरीराम्लम् २
गोधूमसम्भवम् ३ यवाम्लजम् ३ यवोत्थम् ५
तुषोत्थम् ६ तुषोदकम् ७ । अस्य गुणाः ।
अम्लरसत्वम् । केश्यत्वम् । मस्तकदोषजरा-
शैथिल्यनाशित्वम् । बलकारित्वम् । सन्तर्पण-
त्वञ्च । इति राजनिर्घण्टः ॥

सौवीरकः, पुं, (सौवीर + संज्ञायां कन् ।) बदर-

वृक्षः । इति राजनिर्घण्टः ॥

सौवीरसारं, क्ली, स्रोतोञ्जनम् । इति राज-

निर्घण्टः ॥

सौवीराञ्जनं, क्ली, (सौवीरनामकमञ्जनम् ।)

अञ्जनप्रभेदः । तत्पर्य्यायः । अञ्जनम् २ यामु-
नम् ३ कृष्णम् ४ नादेयम् ५ मेचकम् ६
स्रोतोजम् ७ दुष्प्रदम् ८ नीलम् ९ सुवीरजम् १०
नीलाञ्जनम् ११ चक्षुष्यम् १२ वारिसम्भवम् १३
कपोतकम् १४ कापोतम् १५ । अस्य गुणाः ।
शीतत्वम् । कटुत्वम् । तिक्तत्वम् । कषायत्वम् ।
चक्षुष्यत्वम् । कफवातविषनाशित्वम् । रसायन-
त्वञ्च । इति राजनिर्घण्टः ॥

सौष्ठवं, क्ली, (सुष्ठु भावः । सुष्ठु + “प्राणभृज्जाति-

वयोवचनोद्गात्रादिभ्योऽञ् ।” ५ । १ । १२९ ।
इत्यञ् ।) आतिशय्यम् । (यथा, महाभारते ।
१ । १३४ । १४ ।
“तुलेष्वस्त्रप्रयोगेषु लाघवे सौष्ठवेषु च ।
सर्व्वेषामेव शिष्याणां बभूवाभ्यधिकोऽर्ज्जुनः ॥”)
प्रशंसनत्वम् । इति सुष्ठुशब्दार्थदर्शनात् ॥ (यथा
हरिवंशे । ४० । ३४ ।
“आयुःक्षेत्राण्युपचयो लक्षणं रूपसौष्ठवम् ॥”)
नाटकाङ्गविशषः । इति केचित् ॥
पृष्ठ ५/४२८

सौहार्द्दं, क्ली, (सुहृदः सुहृदयस्य वा भावः कर्म्म

वा । सुहृत् सुहृदय वा + “हायनान्तयुवा-
दिभ्योऽण् ।” ५ । १ । १३० । इत्यण् । हृदयस्य
हृदादेशः । “हृद्भगसिन्ध्वन्ते पूर्व्वपदस्य च ।”
७ । ३ । १९ । इति उभयपदवृद्धिः ।) सुहृदो
भावः । तत्पर्य्यायः । सख्यम् २ सौहृदम् ३
साप्तपदीनम् ४ मैत्री ५ अजर्य्यम् ६ सङ्गतम् ७
इति हेमचन्द्रः ॥ (यथा, महाभारते । १ ।
७७ । ११ ।
“सौहार्द्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम् ।
न मामर्हसि धर्म्मज्ञ त्यक्तुं भक्तामनागसम् ॥”)

सौहार्द्दः, पुं, (सुहृदोऽपत्यमिति । सुहृद् + अण् ।

सुहृत्पुत्त्रः । इति केचित् ॥

सौहार्द्द्यं, क्ली, (सुहृदयस्य भावः । सुहृदय +

ष्यञ् । “वा शोकष्यञ् रोगेषु ।” ६ । ३ । ५१ ।
इति हृदयस्य हृदादेशः ।) सौहार्द्दम् । इति
सिद्धान्तकौमुदी ॥

सौहित्यं, क्ली, (सुहितस्य भावः कर्म्म वा ।

सुहित + “पत्यन्तपुरोहितादिभ्यो यक् ।” ५ ।
१ । १२८ । इति यक् ।) तृप्तिः । इत्यमरः ।
२ । ९ । ५६ ॥ (यथा, महाभारते । १२ । २४४ । १३ ।
“अहेरिव गणाद्भीतः सौहित्यान्नरकादिव ।
कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः ॥

सौहृदं, क्ली, (सुहृदः कर्म्म भावो वा । सुहृत् +

अण् ।) सख्यम् । सौहार्द्दम् । इति हेमचन्द्रः ॥
तस्य प्राशस्त्यं यथा, --
“तद्भुज्यते यद्द्विजभुक्तशषं
स बुद्धिमान् यो न करोति पापम् ।
तत् सौहृदं यत् क्रियते परोक्षे
दम्भैर्विना यः क्रियते स धर्म्मः ॥”
इति गारुडे ११५ अध्यायः ॥
स्कद, द ङ आप्लवे । उद्धृतौ । उत्प्लुत्य गत्याम्
इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-
सक० च-सेट् ।) आद्यस्वरी । इ, स्कन्द्यते ।
ङ, स्कन्दते चिस्कन्दिषते । पञ्चभस्वरीति धातु-
प्रदीपरामौ । स्कन्दते स्कुन्दते चापि षडाप्लवन-
वाचिनः । इति भट्टमल्लोऽपि । चुस्कुन्दिषते ।
इति दुर्गादासः ॥

स्कन्द, इर् और शोषणे । गत्याम् । इति कविकल्प-

द्रुमः ॥ (भ्वा०-पर०-सक०-अनिट् ।) इर्,
अस्कदत् । अस्कांत्सीत् । औ, स्कन्ता चस्कन्द ।
इति दुर्गादासः ॥

स्कन्द, त क समाहृतौ । इति कविकल्पद्रुमः ॥

(अनन्तचुरा०-पर०-सक०-सेट् ।) दस्त्यवर्ग-
तृतोयोपधोऽयम् । तच्चतुर्थोपध इति केचित् ।
स्कन्दयति स्कन्दापयति अचस्कन्दत् । इति
दुर्गादासः ॥

स्कन्दः, पुं, (स्कन्दते उत्प्लुत्य गच्छति स्कन्दति

शोषयति दैत्यान् वा । स्कन्द + अच् ।) कार्त्ति-
केयः । इत्यमरः । १ । १ । ४२ ॥ तस्य उत्पत्तिषडा-
ननपञ्चनामचतुर्म्मर्त्त्यभिषेकगणवाहनास्त्रादि
यथा, --
नारद उवाच ।
“किमर्थमेषकः क्रौञ्चो भिन्नः स्कन्देन सुव्रत ।
एतन्मे विस्तराद्व्रह्मन् कथयस्वामितद्युते ॥
पुलस्त्र्य उवाच ।
एतां ते कथयिष्यामि कथां पुण्यां पुरातनीम् ।
यशोवृद्धिं कुमारस्य कार्त्तिकेयस्य नारद ॥
यत् पीतं वीतिहोत्रेण वीर्य्यं त्यक्तं पिनाकिनः ।
तेनाक्रान्तोऽभवद्व्रह्मन् मन्दतेजा हुताशनः ॥
ततो जगाम देवानां सकाशममितद्युतिः ।
दैवतैः प्रहितस्तूर्णं ब्रह्मलोकं जगाम ह ॥
स गच्छन् कुटिलां देवीं ददर्श पथि पावकः ।
तां दृष्ट्वा प्राह चाधत्स्व तेजो यन्मम दुर्द्धरम् ॥
महेश्वरेण सन्त्यक्तं निर्दहेत् भुवनान्यपि ।
तद्धारणाच्च कुटिले पुत्त्रो धन्यो भविष्यति ॥
इत्यग्निना सा कुटिला श्रुत्वा सुतमनुत्तमम् ।
प्रक्षिप्तमात्रं जग्राह तेज ऐशं महापगा ॥
ततस्त्वधारयद्देवी शार्व्वं तेजः स्वपूपुषत् ।
हुताशनोऽपि च भयात् यत्र तत्र परिभ्रमन् ॥
पञ्चवर्षसहस्राणि ह्यध्यास्ते हव्यभुक् ततः ।
मांसमस्थीनि रक्तानि मेदोमज्जस्त्वचस्तथा ॥
रोमाणि चाक्षिकेशाद्याः सर्व्वे जाता हिर-
ण्मयाः ।
हिरण्यरेता लोकेऽस्मिन् विख्यातः पावकस्तदा
पञ्चवर्षसहस्राणि कुटिला ज्वलनोपमम् ।
धारयन्ती तदा गर्भं ब्रह्मणः स्थानमागता ॥
पितामहस्तां क्षीणाङ्गीं सन्तप्यन्तीं महापगाम्
दृष्ट्वा पप्रच्छ केनायं तव गर्भः समाहितः ॥
सा चाह शाङ्करं तेजः पावकेन समर्पितम् ।
अप्यशक्तेन तेनाद्य निक्षिप्तं मयि सत्तम ॥
पञ्चवर्षसहस्राणि धारयन्त्याः पितामह ।
अन्नपानादिकमपि न मेऽपच्यत कर्हिचित् ॥
तच्छ्रुत्वा भगवानाह गच्छ त्वमुदयं गिरिम् ।
तत्रास्ति योजनशतं विस्तीर्णं सुरसेवितम् ॥
तमनुप्राप्य सुश्रोणि विस्तीर्णे गिरिसानुनि ।
दशवर्षसहस्रान्ते ततो बालो भविष्यति ॥
ब्रह्मणो वचनं श्रुत्वा कुटिला गिरिमागता ।
आगत्य गर्भं तत्याज मुखेनैवाद्रिनन्दिनी ॥
सा तु संत्यज्य तं बालं ब्रह्माणं सहसागमत् ।
आपोमयी मन्त्रवशात् संयता कुटिला सती ॥
तेजसा चापि शार्व्वेण रौक्मः शरवणोऽभवत् ।
तन्निवासवतश्चाग्रे पादपा मृगपक्षिणः ॥
ततो दशसु पूर्णेषु शरद्दशशतेष्वथ ।
बालार्कदीप्तिः संजातो बालः कमललोचनः ॥
उत्तानशायी भगवान् दिव्ये शरवणे स्थितः ।
मुखेऽङ्गुष्ठं समाक्षिप्य रुरोद घनराडिव ॥
एतस्मिन्नन्तरे देव्यः कृत्तिकाः षट् सुतेजसः ।
ददृशुः स्वेच्छया यान्त्यो बालं शरवणे स्थितम् ॥
कृपायुक्ताः समाजग्मुर्यत्र स्कन्दः स्थितोऽभवत्
अहं पूर्व्वमहं पूर्व्वं तस्मै स्तन्ये हि चुक्रुशुः ॥
विवदन्तीः स ता दृष्ट्वा षण्मुखः समजायत ।
अवीभरन्तस्ताः सर्व्वाः शिशुं स्नेहाच्च
कृत्तिकाः ॥
भ्रियमाणः सतीभिस्तु बालो वृद्विमगान्मुने ।
कार्त्तिकेय इति ख्यातो जातः स बलिनांवरः ॥
एतस्मिन्नन्तरे ब्रह्मन् पावकं प्राह पद्मभूः ।
कियत्प्रमाणः पुत्त्रस्ते वर्त्तते साम्प्रतं गुहः ॥
स तद्वचनमाकर्ण्य अजानन् तं हरात्मजम् ।
प्रोवाच पुत्त्रं देवेश न वेद्मि कतमो गुहः ॥
तं प्राह भगवान् युक्तं तेजः पीतं पुरा त्वया ।
त्रैयम्बकं त्रिलोकेशं जातः शरवणे शिशुः ॥
श्रुत्वा पितामहवचः पावकस्त्वरितोऽभ्यगात् ।
उदयाद्रिञ्च कुटिला तं ददर्श हिते रता ॥
पप्रच्छ कुटिला देवी क्व शीघ्रं व्रजसे कवे ।
सोऽब्रवीत् पुत्त्रदृष्ट्यर्थं जातं शरवणे शिशुम् ॥
साब्रवीत्तनयो मह्यं ममेत्याह च पावकः ।
विवदन्तो ददर्शाथ स्वे च्छाचारी जनार्द्दनः ॥
ती पप्रच्छ किमर्थं वा विवादमिह चक्रतुः ।
तमूचतुः पुत्त्रहेतो रुद्रशुक्रोद्भवादिति ॥
तावुवाच हरिर्देवो गच्छतं त्रिपुरान्तकम् ।
स यद्वक्ष्यति देवेशः कुरुतं तदसंशयम् ॥
इत्युक्तौ वासुदेवेन कुटिलाग्नी हरान्तिकम् ।
समभ्येत्योचतुस्तथ्यं कस्य पुत्त्रो भवेद्गुहः ॥
रुद्रस्तद्वाक्यमाकर्ण्य हर्षनिर्भरमानसः ।
दिष्ट्या दिष्ट्येति गिरिजां प्रोद्भूतपुलकोऽब्रवीत्
ततोऽम्बिका प्राह हरं देव गच्छाव तं शिशुम् ।
दृष्ट्वा समागमेद्यां स तस्याः पुत्त्रो भविष्यति ॥
वाढमित्येव भगवान् समुत्तस्थौ वृषध्वजः ।
सहोमया कुटिलया पावकेन च धीमता ॥
सम्प्राप्तास्ते शरवणं हरोमाकुटिलाग्नयः ।
ददृशुः शिशुकं तञ्च कृत्तिकोत्सङ्गशायिनम् ॥
ततः स बालकस्तेषां मत्वा चिन्तितमादरात्
योगी चतुर्म्मूर्त्तिरमूत् षण्मुखः स शिशुः पितुः ॥
कुमारः शङ्करमगात् विशाखो गिरिजामगात्
कुटिलामगमच्छाखो नैगमेयोऽग्निमभ्यगात ॥
ततः प्रीतियुतो रुद्रः उवाच कुटिला तथा ।
पावकश्चापि देवेशः परां मुदमवाप च ॥
ततोऽब्रुवन् कृत्तिकास्ताः षण्मुखः किं हरा
त्मजः ।
ता अब्रवीत् हरः प्रीत्या विवेश वचनं मुने ॥
नाम्ना तु कार्त्तिकेयेति पुष्माकञ्च भवत्वसौ ।
कुटिलायाः कुमारेति पुत्त्रोऽयं भविताव्ययः ॥
स्कन्द इत्येव विख्यातो गौरीपुत्त्रो भवत्वसौ ।
गुह इत्येव नाम्ना च ममासौ तनयः स्मृतः ॥
महासेन इति ख्यातो हुताशस्यास्तु पुत्त्रकः ।
सारस्वत इति ख्यातः सुतः शरवणस्य च ॥
एवमेष महायोगी पृथिव्यां ख्यातिमेष्यति ।
षडास्यत्वान्महाबाहुः षण्मुखो नाम गीयते ॥
इत्येवमुक्ता भगवान् शूलपाणिः पितामहम् ।
सस्मार दैवतैः सार्द्धं तेऽप्याजग्मुस्त्वरान्विताः ॥
प्रणिपत्य च कामारिं उमाञ्च गिरिनन्दिनीम् ।
दृष्ट्वा हुताशनं प्रीत्या कुटिलां कृक्षिकास्तथा ॥
ददृशुर्बालमत्युग्रं षण्मुखं सूर्य्यसन्निभम् ।
मुष्णन्तमिव चक्षूंषि देवानां स्वेन तेजसा ॥
कौतुकाभिवृताः सर्व्वे एवमूचः सुरोत्तमाः ।
पृष्ठ ५/४२९
देवकार्य्यं त्वया देव कृतं देव्याग्निना तथा ॥
तदुत्तिष्ठ व्रजामोऽद्य तीर्थमौजसमव्ययम् ।
कुरुक्षेत्रे सरस्वत्यामभिषिञ्चाम षण्मुखम् ॥
सेनायाः पतिरस्त्वेष देवगन्धर्व्वकिन्नराः ।
महिसं घातयत्वे ष तारकञ्च सुदारुणम् ॥
वाढमिप्यब्रवीच्छर्व्वः समुत्तस्थुः सुरास्ततः ।
कुमारसहिता जग्मुः कुरुक्षेत्रं महाफलम् ॥
तत्रैव देवताः सेन्द्रा रुद्रब्रह्मजनार्द्दनाः ।
यत्नमस्याभिषेकार्थं चक्रुर्म्मुनिगणैः सह ॥
ततोऽम्बुना सप्तसमुद्रवाहिनी-
नदीजलेनापि महाफलेन ।
वनौषधीभिश्च सहस्रमूर्त्तिभि-
स्तदाभ्यषिञ्चन्त हराच्युताद्याः ॥
अभिषिञ्चति सेनान्यां कुमारे दिव्यरूपिणि ।
जगुर्गन्धर्व्वपतयो ननृतुश्चाप्सरोगणाः ॥
अभिषिक्तं कुमारञ्च गिरिपुत्री निरीक्ष्य हि ।
स्नेहात्तत्सङ्गमं स्कन्दं मूर्द्ध्यजिघ्रन्मुहुर्म्मुहुः ॥
जिघ्रती कार्त्तिकेयस्य अभिषेकार्द्रमाननम् ।
भात्यद्रिजा यथेन्द्रस्य देवमातादितिः पुरा ॥
तदाभिषिक्तं तनयं दृष्ट्वा शर्व्वो मुदं ययौ ।
पावकः कृर्त्तिकाश्चैव कुटिला च यशस्विनी ॥
ततोऽभिषिक्तस्य हरः सैनापत्ये गुहस्य तु ।
प्रथमांश्चतुरः प्रादाच्छक्रतुल्यपराक्रमान् ॥
घण्टाकर्णं लोहिताक्षं नन्दिषेणं शुदारुणम् ।
चतुर्थं बलिनां मुख्यं ख्यातं कुमुदमालिनम् ॥
हरदत्तान् गणान् दृष्ट्वा देवाः स्कन्दस्य नारद ।
प्रददुः प्रमथानन्यान् सर्व्वे ब्रह्मपुरोगमाः ॥
स्याणुर्ब्रह्मा गणं प्रादाद्विष्णुः प्रादात् गणत्रयम्
संक्रमं विक्रमञ्चैव तृतीयञ्च पराक्रमम् ॥
उक्षेशं पंङ्कजं शक्रो रविर्दण्डकपिङ्गलौ ।
चन्द्रो मणिं वसुमणिं अश्विनौ नन्दिनन्दिनौ ॥
ज्योतिर्हुताशनः प्रादात् ज्वालाजिह्वं तथा-
परम् ।
कुन्दनिष्कुन्दकुमुदान् धाता चानुचरान् ददौ ॥
चक्रानुचक्रौ त्वष्टा च वेधातिस्थिरदुस्थिरौ ।
पाणित्यजं कालकञ्च प्रादात् पूषा महाबलौ ॥
स्वर्णमालं धनार्कञ्च हिमवान् प्रमथोत्तमौ ।
प्रादाद्दे वोच्छ्रितो बिन्ध्यस्तुतिशृङ्गञ्च पार्षदम् ॥
सुवर्च्चसञ्च वरुणः प्रददौ चातिवर्च्चसम् ।
सग्रहं विग्रहञ्चैव नागाभिजयसंजयौ ॥
उन्मादं शङ्कुकर्णञ्च पुष्पदन्तं तथाम्बिका ।
दुर्गञ्चातिबलञ्चैव श्रेष्ठौ चानुचरावुभौ ॥
परिघं चटकं भीमं दाहाभिदहनौ तथा ।
प्रददावंशुमाल्यञ्च प्रमथान् षण्मुखाय हि ॥
यमः प्रमाथमुन्माथं कालसेनमजामुखम् ।
तालशक्रं नाडिजञ्च षडेवानुचरान् ददौ ॥
सुप्रभं शुभकर्म्माणं विधृतो दानवेश्वरौ ।
सुप्रसुत्यं सन्नमित्र सुप्रजञ्च द्विजोत्तम ॥
अनन्तः शङ्कुपीठञ्च निकुम्भकुमुदावजः ।
एकाक्षं कुलटीचक्रः किचीटः कलसोदरः ॥”
किचीटस्थाने किरीटः इति च पाठः ।
“सूचीवक्त्रः कोकनदः प्रदासः सिद्धकोऽव्ययः ।
गणाः पञ्चदशैते वै यक्षैर्दत्त्वा गुहस्य च ।
कालिन्द्याः कलकन्दश्च नर्म्मदाया रणोत्कटः ।
गोदावर्य्याः सिद्धपात्रस्तमसायास्तु पङ्कजः ॥
सहस्रबाहुः सीताया वञ्जुलायाः स्मितोदरः ।
मन्दाकिन्याः सुबाहुश्च विपद्यायाः प्रियङ्करः ॥
ऐरावत्याश्चतुर्दंष्ट्रः षोडशाक्षोऽपरस्तथा ।
मार्जारं कौशिकी प्रादात् क्रथक्रौञ्चौ च
गोतमी ॥
बाहुदा शतशीर्षञ्च बाहा गोनन्दनन्दिनौ ।
भीमं भीमरथी प्रादात् दुर्गारिं सरयूर्ददौ ॥
अष्टबाहुं ददौ काशी सुबाहुमपि गण्डकी ।
महानन्दी चित्रदेवं चित्रा चित्ररथं ददौ ॥
कुहुः कुवलयं प्रादात् मधुवर्णं मधूदका ।
जम्बूकं धूतपापा च वेण्वा पेटाननं ददौ ॥
स्तुता प्रथमपर्णञ्च रेवा सागरवेगिनम् ।
प्रभावा पाशजं प्रादात् काञ्चना कनकप्रभम् ॥
धृतपत्रञ्च विमला चारुवक्त्रं मनोहरा ॥
अपापा च महारामं वेण्वा विद्रुमसुप्रभम् ॥
सुप्रसादं सुवेण्वा च जिष्णु मोघवती ददौ ।
यज्ञबाहु विशाला च सरस्वत्या ददुर्गणान् ॥
कुटिलातनयस्यादात् दशशक्रबलाद्गणान् ।
करालं शितकेशञ्चं कृष्णकेशं जटाधरम् ॥
मेघनादं चतुर्दंष्ट्रं विद्युजिह्वं दशाननम् ।
सोमाप्यायनमेवोग्रं देवयाजिनमेव च ॥
हंसास्यं कुण्डजठरं बहुग्रीवं हयाननम् ।
कूर्म्मग्रीवञ्च पञ्चैतान् ददुः पुत्त्राय कृत्तिकाः ॥
स्थूलजङ्घं कुण्डवक्त्रं लोहजङ्घं महाननम् ।
पिण्डारकञ्च पञ्चैतान् ददुः स्कन्दाय चर्षयः ॥
नागजिह्वं चन्द्रभासं पाणिकूर्म्मं शशिष्करम् ।
वासवक्त्रं सजम्बूकं ददौ तीर्थः पृथूदकः ॥
चक्रतीर्थं सुचक्राख्यं मकराक्षं गयाशिरः ।
गणं पञ्चशिखं नाम ददौ कनखलः स्वयम् ॥
बन्धुदत्तं वालिशिरो वालुसारञ्च पुष्करम् ।
सर्व्वौजसं माहिषकं मानसं पिङ्गलं तथा ॥
रुद्रमौशनसः प्रादात् ततोऽन्या मातरो ददुः ।
वसुदामां शोणतीर्थः प्रभासो नन्दिनीमपि ॥
इन्द्रतीर्थं विशोकाञ्च उदपानं घनस्वनाम् ।
सप्तसारस्वतः प्रादात् मातरश्चतुरोऽद्भुताः ॥
जितप्रियां माधवीञ्च तीर्थनेमिं मिताननाम् ।
एकलूतां नागतीर्थः कुरुक्षेत्रं पलाशदाम् ॥
ब्रह्मात्मनिः खण्डशिलां भद्रकालीं त्रिपिष्टपः ।
पैण्डी भैण्डी योषभैण्डी प्रादादुरदरपावनः ॥
सोपानीयां महान्प्रादाच्छालिकां मानसोह्रदः
शतपुण्ड्रां शतानन्दां तथोलूखलमेखलाम् ॥
पद्मावतीं माधवीञ्च ददौ बदरिकाश्रमः ।
सुखसामेकचूलाञ्च देवों धर्म्मधरां तथा ॥
उकाथनीं वेदमित्रां केदारो मातरो ददौ ।
सुनक्षत्राञ्च करणां सुप्रभावां सुमङ्गलीम् ॥
वेदमित्रां चित्रसेनां ददौ रुद्रो महाबलः ।
कोटराक्षी संयताक्षामसतीं बहुपुत्त्रिकाम् ।
पलितां कमलाक्षीञ्च प्रयासां मानसो ददौ ॥
सुपलीं मधुकुम्भाञ्च ख्यातिं दहदहां पराम् ।
प्रादाद्वै कार्त्तिकेयाय सर्व्वपापविमोचनः ॥
सान्तानिकां विकलिकां क्रमुकां खरवासिनी
जलेश्वरी कुक्कुटिका सुदामा लोहमेखला ॥
वपुष्मत्युन्मुकाक्षी च केकनामा महाशनी ।
रौद्रा भूभुविका तुण्डा श्वेततीर्थो ददौ त्विमाः ॥
एतानि भूतानि गणाश्च मातरो
दृष्ट्वा महात्मा विनतातनूजः ।
ददौ मयूरं स्वसुतं महाजवं
तथारुणश्चाद्भुतरत्नमुत्तमम् ॥
शक्तिं हुताशोऽद्रिसुता तु वस्त्रं
दण्डं गुरुः सा कुटिला कमण्डलुम् ।
मालां हरिः शूलधरः पताकां
कण्ठे च हारं मघनानुरस्तः ॥
गणैर्वृतो मातृभिरन्वितश्च
मयूरसंस्थो वरशक्तिपाणिः ।
सैन्याधिपत्ये स वृतो भवेन
रराज सूर्य्येव महावपुष्मान् ॥”
इति वामनपुराणे कार्त्तिकेयोत्पत्तौ ५४ अध्यायः ॥
देव्या द्वारपालविशेषः । तस्य बलिर्यथा --
“महानवम्यां शरदि रात्रौ स्कन्दविशाखयोः ।
यवचूर्णमयं कृत्वा रिपुं मृण्मयमेव वा ॥
शिरश्छित्त्वा बलिं दद्यात् कृत्वा तस्य तु मन्त्रतः
अनेनैव तु मन्त्रेण खङ्गमामन्त्र्य यत्रतः ॥
रक्तं किलकिली घोरघोरा धारविहिंसकः ।
ब्रह्मशिख्याम्बिकाशिख्यममुकं चारिसत्तमम् ॥
तान्तो विसर्गसहितः स च बिन्दुयुतोऽपरः ।
ब्रह्माग्नियोगश्चन्द्रेण बिन्दुना च समन्वितः ॥
शिरश्छित्त्वा बलिं दद्यात् कृत्वा तस्य तु
मन्त्रतः ।
अनेनैव तु मन्त्रेण बिन्दुना च समन्वितः ॥
फडन्ते बलिषु प्रोक्तः खङ्गे स्कन्दविशाखयोः ॥
रक्तद्रव्यैः सेचयित्वा कृत्तिमं तं रिपुं बलिम् ॥
कुचन्दनस्य तिलकं ललाटेऽभिनिवेशयेत् ।
रक्तमाल्यधरं कृत्वा रक्तवस्त्रधरं तथा ॥
कण्ठे बद्ध्वा रक्तसूत्रैर्नाभौ माल्यञ्च कृत्रिमम् ।
दत्त्वोत्तरशिरःस्कन्धं कृत्वा खङ्गेन च्छेदयेत् ॥
शिरस्तस्य ततो दद्यात् स्कन्दाय तेन मन्त्रतः ।
चतुर्द्दशस्वराग्निभ्यां संयुक्तः स परः समम् ॥
परतः परतः पूर्व्वं चन्द्रबिन्दुसमन्वितः ।
स्कन्दस्य मूलमन्त्रोऽयं तेन तस्मै बलिं सृजेत् ॥
चतुर्द्द शस्वराग्निभ्यां पतृतीयन्तु पूर्व्ववत् ।
प्रोक्तो विशाखमन्त्रोऽयं तेन तस्मै बलिं सृजेत् ॥
कुटिलाक्षौ कृष्णपिङ्गवर्णौ रक्तांशुधारिणौ ।
त्रिशूलं करबालञ्च पाणिभ्यां दक्षिणे तथा ॥
बिभ्रतौ नृकपालञ्च कर्त्तृकञ्चापि वामतः ।
त्रिनेत्रौ नरमुण्डानां मालामुरसि बिभ्रतौ ॥
विकटौ दशनैर्भीमैर्गणेशौ द्वारपालकौ ।
ध्यानेन चिन्तयेद्देव्याः पुरतः संस्थितौ सदा ॥”
इति कालिकापुराणे ६६ अध्यायः ॥ * ॥
(महादेवः । इति महाभारतम् । १३ । १७ । १०३ ॥
नृपतिः । इति जटाधरः ॥ शरीरम् । इति
त्रिकाण्डशेषः ॥ पारदः । इति राजनिर्घण्टः ॥
पृष्ठ ५/४३०
नदीतटम् । पण्डितः । इति केचित् ॥ बालकस्य
ग्रहविशेषः । (यथा, --
“स्कन्दो विशाखो मेषाख्यः श्वग्रहः पितृ-
संज्ञितः ।
शकुनिः पूतना शीतपूतना दृष्टिपूतना ॥
मुखमण्डलिका तद्वद्रेवती शुष्करेवती ।
तेषां ग्रहीष्यतां रूपं प्रततं रोदनं ज्वरः ॥
सामान्यं रूपमुत्त्रासजृम्भाभ्रूक्षेपदीनताः ।
फेनस्रावोर्द्ध्वदृष्टोष्ठदन्तदंशप्रजागराः ॥
रोदनं कूजनं स्तन्यविद्वे षस्वरवैकृतम् ।
नखैरकस्मात् परितः स्वधात्र्यङ्गविलेखनम् ॥
तत्रैकनयनस्रावी शिरो विक्षिपते मुहुः ।
हतैकपक्षः स्तब्धाङ्गः सस्वेदो नतकन्धरः ॥
दन्तखादी स्तनद्वेषी त्रस्यन् रोदिति विस्वरः ।
वक्रवक्त्रे वमेल्लालां भृशमूर्द्धं निरीक्षते ॥
वसासृग्गन्धिरुद्विग्नो बद्धमुष्टिशकृच्छिशुः ।
चलितैकाक्षिगण्डभ्रूः संरक्तो भयलोचनः ॥
स्कन्दार्त्तस्तेन वैकल्यं मरणं वा भवेद्ध्रुवम् ॥”
इत्युत्तरस्थाने तृतीयेऽध्याये वाभटेनोक्तम् ॥)
तस्य चिकित्सा बालग्रहशब्दे द्रष्टव्या ॥

स्कन्दनं, क्ली, (स्कन्द + ल्युट् ।) रेचनम् । इति

त्रिकाण्डशेषः ॥ (यथा, सुश्रुते । १ । १४ ।
“चतुर्व्विधं यदेतद्धि रुधिरस्य निवारणम् ।
सन्धानं स्कन्दनञ्चैव पाचनं दहनन्तथा ॥”)
गमनम् । शोषणम् ॥ इति स्कन्दधात्वर्थ-
दर्शनात् ॥

स्कन्दषष्ठी, स्त्री, (स्कन्दप्रिया षष्ठी ।) चैत्र-

मासीयशुक्लषष्ठी । तत्प्रमाणादि षष्ठीशब्दे
द्रष्टव्यम् ॥ अन्यच्च ।
“अमावस्यासमुत्पन्नः स्कन्दः पूर्व्वं हुताशनात् ।
ततः षष्ठ्यान्तु शुक्लायां मासे तु चैत्रनामनि ।
सैनापत्येऽभिषिक्तस्तु देवानां ब्रह्मणा स्वयम् ॥
इति संवत्सरकौमुदीधृतब्रह्मपुराणवचनम् ॥

स्कन्दांशकः, पुं, (स्कन्दस्य अंश इव अंशो यत्र ।

शिववीर्य्योद्भवत्वात् । ततः कन् ।) पारदः ।
इति राजनिर्घण्टः ॥

स्कन्धः, [स्] क्ली, (स्कन्दते इति । स्कन्द + “स्कन्देश्च

खाङ्गे ।” उणा० ४ । २०६ । इति असुन्
धश्चान्तादेशः ।) अंसः । प्रकाण्डः । यथा,
“स्कन्धः सान्तं नपुंसकमिति केचित् ।” इत्यमर-
टीकायां भरतः ॥ (यथा, ऋग्वेदे । १ । ३२ । ५ ।
“स्कन्धांसौव कुलिशेनाविवृक्णा ॥”)

स्कन्धः, पुं, (स्कन्द्यतेऽसौ इति । स्कन्द + घञ् ।

पृषादरादित्वात् साधुः । स्कन्द + असुन् । धश्चा-
न्तादेशः । सर्व्वे सान्ता अदन्ताश्च इति न्यायात्
अकारान्तो वा ।) अवयवविशेषः । काँध इति
भापा ॥ तत्पर्य्यायः । भुजशिरः २ अंसः ३ ।
इत्यमरः । २ । ६ । ७८ ॥ स्कन्धः ४ । इति
शब्दरत्नावली ॥ दोःशिखरम् ५ । इति राज-
निर्घण्टः ॥ (यथा, भागवते । ४ । २९ । ३३ ।
“यथा हि पुरुषो भारं शिरसा गुरुमुद्वहन् ।
तं स्कन्धेन स आधत्ते तथा सर्व्वाः प्रतिक्रियाः ॥”)
तरोर्मूलादिशाखापर्य्यन्तम् । गुँडी इतिभाषा
तत्पर्य्यायः । प्रकाण्डः २ । इत्यमरः ॥ काण्डम् ३
इति शब्दरत्नावली ॥ दण्डः ४ । इति जटा-
धरः ॥ (यथा, रघुः । ४ । ५७ ।
“खर्ज्जूरीस्कन्धनद्धानां मदोद्गारसुगन्धिषु ।
कटेषु करिणां पेतुः पुन्नागेभ्यः शिलीमुखाः ॥”)
नृपतिः । सम्परायः । समूहः । कायः । (यथा,
महाभारते । १२ । १५ । २६ ।
“सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानिचित्
पक्ष्मणोऽपि निपातेन येषां स्यात् स्कन्धपर्य्ययः ॥”
भद्रादिः । छन्दोभेदः । इति मेदिनी ॥ विज्ञा-
नादिपञ्च । (यथा, शिशुपालवधे । २ । २८ ।
“सर्व्वकार्य्यशरीरेषु मुक्ताङ्गस्कन्धपञ्चकम् ।
सौत्रतानामिवात्मान्यो नास्ति मन्त्रो मही-
भृताम् ॥”
“रूपवेदनाविज्ञानसंज्ञासंस्काराः पञ्च स्कन्धाः
तत्र विषयप्रपञ्चो रूपस्कन्धः । तज्ज्ञानप्रपञ्चो
वेदनास्कन्धः । आलयविज्ञानसन्तानो विज्ञान
स्कन्धः । नामप्रपञ्चः संज्ञास्कन्धः । वासना-
प्रपञ्चः संस्कारस्कन्धः । एवं पञ्चधा परिवर्त्त-
मानो ज्ञानसन्तान एवात्मा इति बौद्धाः ।”
इति तट्टीकायां मल्लिनाथः ॥) व्यूहः । इति
हेमचन्द्रः ॥ (यथा, रघुः । ४ । ३० ।
“प्रतापोऽग्रे ततः शब्दः परागस्तदनन्तरम् ।
ययौ पश्चाद्रथादीति चतुस्कन्धेव सा चमूः ॥”)
पन्थाः । इति शब्दरत्नावली ॥ (यथा महा-
भारते । ३ । २३० । ५५
“तथाब्रवीत् महासेनं महादेवो बृहद्वचः ।
सप्तमं मारुतस्कन्धं रक्ष नित्यमतन्द्रितः ॥”)
ग्रन्थपरिच्छेदः । यथा --
श्रीपार्व्वत्युवाच ।
स्कन्धै र्द्वादशभिः प्रोक्तं श्रीमद्भागवतं प्रभो ।
शुकस्तच्छ्रावयामास महाराजं परीक्षितम् ॥”
इति पाद्मे पातालखण्डे ७१ अध्यायः ॥

स्कन्धचापः, पुं, (स्कन्धे चाप इव ।) वंशादि-

निर्म्मितशिक्याधानम् । तत्पर्य्यायः । विह-
ङ्गिका २ । इति हारावली ॥

स्कन्धजः, पुं, (स्कन्धात् जायते इति । जन + डः ।)

शल्लक्यादिः । यथा, हेमचन्द्रे ।
“पर्व्वयोनय इक्ष्वाट्या स्कन्धजाः शल्लकीमुखाः ॥”
मुद्राङ्कितहेमचन्द्रे कन्दज इति पाठः ॥ (वटः
अस्य पर्य्यायो यथा, --
“वटो रक्तफलः शृङ्गी न्यग्रोधः स्कन्धजो ध्रुवः ।
क्षीरी वैश्रवणावासो बहुपादो वनष्पतिः ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

स्कन्धतरुः, पुं, (स्कन्धप्रधानस्तरुः ।) नारिकेल-

वृक्षः । इति राजनिर्घण्टः ॥

स्कन्धदेशः, पुं, (स्कन्धस्य देशः ।) गजस्य स्कन्धः ।

यत्र हस्तिपक उपविशति । तत्पर्य्यायः । आस-
नम् २ । इत्यमरः ॥ स्कन्धमात्रम् । यथा, --
“त्रिपुरारिः स्कन्धदेशे कण्ठे कामाङ्गनाशनः ॥”
इति भृग्भरतसंवादे माहेश्वरकवचम् ॥

स्कन्धफलः, पुं, (स्कन्धे फलमस्य ।) नारिकेलवृक्षः ।

इति राजनिर्घण्टः ॥ उडुम्बरवृक्षः । इति शब्द-
चन्द्रिका ॥

स्कन्धवन्दना, स्त्री, (स्कन्धे वन्दनमिवास्याः ।)

मधुरिका । इति शब्दचन्द्रिका ॥

स्कन्धमल्लकः, पुं, (स्कन्धेन मल्ल इव । कन् ।)

कङ्कपक्षी । इति हेमचन्द्रः ॥

स्कन्धरुहः पुं, (स्कन्धात् रोहतीति । रुह + कः ।)

वटवृक्षः । इति राजनिर्घण्टः ॥

स्कन्धवाहः, पुं, (स्कन्धे न वाहयतीति । वह +

णिच् + अच् ।) शकटादिवाहकवृषः । यथा,
“स्कन्धवाहस्तु शङ्कश्च शृङ्गी गौरक्षधूर्त्तिलः ॥”
इति हारावली ॥

स्कन्धवाहकः, पुं, (स्कन्धेन वहतीति । वह +

ण्वुल् ।) शकटादिवाहकवृषः तत्पर्य्यायः ।
स्कन्धिकः २ । इति हेमचन्द्रः ॥ स्कन्धेन वहन-
कर्त्तरि, त्रि ॥

स्कन्धशाखा, स्त्री, (स्कन्धस्य शाखा ।) वृक्षस्य

मुख्यशाखा । तत्पर्य्यायः । शाला २ । इत्यमरः ।
२ । ४ । ११ ॥ (यथा, भागवते । ८ । ५ । ४९ ।
“यथा हि स्कन्धशाखानां तरोर्मूलावसेचनम् ।
एवमाराधनं विष्णोः सर्व्वेषामात्मनश्च हि ॥”)

स्कन्धशृङ्गः, पुं, (स्कन्धपर्य्यन्तं शृङ्गमस्य ।)

महिषः । इति केचित् ॥

स्कन्धा, स्त्री, शास्वा । लता । इति केचित् ॥

स्कन्धाग्निः, पुं, (स्कन्धस्य काण्डस्य अग्निरिव ।)

बृहत्काष्ठाग्निः । इति त्रिकाण्डशेषः ॥

स्कन्धानलः, पुं, (स्कन्धस्य काण्डस्य अनल इव ।)

बृहत्काष्ठाग्निः । तत्पर्य्यायः । स्थूलकाष्ठधक् २ ।
इति जटाधरः ॥

स्कन्धावारः, पुं, (स्कन्धेनसैन्यसमूहेन व्यूहेन नृप-

तिना वा आव्रियते इति । आ + वृ + घञ् ।)
सैन्यस्थितिः । (यथा, रामायणे । ६ । ४२ । २२ ।
“एतस्मिन्नन्तरे चक्रुः स्कन्धावारनिवेशनम् ॥”)
राजधानी । इति हेमचन्द्रः ॥ (यथा, महा-
भारते । १ । १८५ । ६ ।
“ते तु दृष्ट्वा परं तच्च स्कन्धावारञ्च पाण्डवाः ।
कुम्भकारस्य शालायां निवासं चक्रिरे तदा ॥”)
कटकः । इति भूरिप्रयोगः ॥

स्कन्धिकः, पुं, (स्कन्धेन वहतीति । स्कन्ध + ठक् ।)

स्कन्धवाहकवृषः । इति हेमचन्द्रः ॥

स्कन्धी, [न्] पुं, (स्कन्धोऽस्यास्तीति । इनिः ।

वृक्षः । इति रत्नमाला ॥ स्कन्धयुक्ते, त्रि ॥
(काण्डविशिष्टे, च त्रि । यथा, महाभारते ।
१२ । १५४ । ५ ।
“हिमवन्तं समासाद्य महानासीद्वनस्पतिः ।
वर्षपूगाभिसंवृद्धः शाखी स्कन्धी पलाशवान् ॥”)

स्कन्नं, त्रि, (स्कन्द + क्तः ।) च्युतम् । इत्यमरः ।

३ । १ । १०४ ॥ (यथा, महाभारते । १ । ६३ । ४९ ।
स्कन्नमात्रञ्च तद्रेतो वृक्षपत्रेण भूमिपः ।
प्रतिजग्राह मिथ्या मे न पतेद्रे त इत्युत ॥”)
शुष्कम् । गतम् । इति स्कन्दधात्वर्थदर्शनात् ॥
पृष्ठ ५/४३१

स्कभ, इ ङ स्तम्भे । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) स्तम्भ इह रुद्धीकरणम् ।
इ, स्कम्भ्यते । ङ, स्कम्भते कबाटेन द्वारं
लोकः । चस्कम्भे । इति दुर्गादासः ॥

स्कान्दं, क्ली, (स्कन्दस्येदमिति । स्कन्द + अण् ।)

स्कन्दपुराणम् । यथा, --
“वाराहञ्च तथा स्कान्दं वामनं कूर्म्मसंज्ञकम् ।”
इत्यादि नारदीयपुराणम् ॥
अस्य विवरणं पुराणशब्दे द्रष्टव्यम् ॥
स्कु, ग न ञ उद्धृतौ । आप्लावने । इति कवि-
कल्पद्रुमः ॥ (क्र्या०-स्वा० च-उभ०-सक०-सेट् ।)
ग ञ, स्कुनाति स्कुनीते । न ञ, स्कुनोति
स्कुनुते । चुस्काव । उद्धृतिरुद्धरणम् । आप्ल-
वने । इति प्राञ्चः ।
“स्कुनाति च स्कुनीते च स्कुनोत्याप्लवनऽपि च ।
स्कन्दते स्कुन्दते चापि षडाप्लवनवाचिनः ॥”
इति भट्टमल्लः ।
आवरणे इति पाणिनीयाः । स्कुनाति शत्रुं
बाणेन भटः आच्छादयतीत्यर्थः । इति रमा-
नाथः । इति दुर्गादासः ॥

स्कुद, इ ङ आप्लवे । उद्धृतौ । उत्प्लुत्य गत्याम् ।

इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-अक०
च-सेट् । “पञ्चमस्वरीति धातुप्रदीपरामौ ।
“स्कन्दते स्कुन्दते चापि षडाप्लवनवाचिनः ।
इति भट्टमल्लोऽपि ।
चुस्कुन्दिषते ॥” इति दुर्गादासः ॥

स्कुन्भ, ग न उ रोधने । इति कविकल्पद्रुमः ॥

(क्र्या०-स्वा० च-पर०-सक०-सेट् । क्त्वावेट् ।)
दन्त्यादि पञ्चमस्वरी । ग, स्कुभ्नाति । न,
स्कुभोति । उ स्कुम्भित्वा स्कुब्ध्वा । रोधन-
मावरणम् । इति दुर्गादासः ॥ सौत्रधातुरयम् ॥

स्कोटिका स्त्री, पक्षिविशेषः । यथा, --

अथ सर्षपी ।
हामुक्तिका खञ्जनिका तुलिकास्कोटिके समे ॥”
इति त्रिकाण्डशेषः ॥

स्खद, म ष ङ विदारे । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-सक०-सेट् ।) म स्खदयति ।
उपसर्गात् परस्य तु वा शम यम फण इत्या-
दिना वा ह्रस्वः । प्रस्खदति प्रस्खादयति । अव
परिवर्ज्जादुपसर्गात् परस्य घटादित्व नास्ति
इति कातन्त्नाद्याः । तत्रैव अवस्थाने अप इति
भीमः प्रस्खादयति अवस्खादयति परिस्खद-
यति । अपपरिभ्यां परस्य घटादित्वं नास्तीति
जीमराद्याः । अपस्खादयांत परिस्खादयति
प्रस्खदयति । स्खद स्खदने इति प्राञ्चः । स्खदनं
स्थैर्य्यमिति विलोचनरामौ । पाटनमिति गो-
विन्दः । क्लेशोत्पादनमिति गोयीचन्द्रः ।
हिंसेति रमानाथः । इति दुर्गादासः ॥

स्खदनं, क्ली, (स्खद + ल्युट् ।) विदारणम् । इति

स्खदधात्वर्थदर्शनात् ॥ स्थैर्य्यम् । पाटनम् ।
क्लेशोत्पादनम् । हिंसा । इति कविकल्पद्रुम-
टीकायां दुर्गादासः ॥

स्खल, मि चये । चले ॥ इति कविकल्पद्रुमः ॥

(म्वा०-पर-सक०-चले अक०-सेट् ।) मि,
स्खलयति वचनं ते सर्व्वथा सुभ्रु खेदमिति
मालत्याम् । स्खालयति चस्खाल । चयः सञ्चयः
स्खलति पुष्पं मालिकः सञ्चिनोतीत्यर्थः । चलः
स्खलनम् । स्खलति पत्रं वृक्षस्य ।
“दृढः प्रेमा भग्नः सदसिरिव सन्धिं न लभते ।
लभेतापि प्रायः सवलति खलु यत्नैरपि धृतः ।”
इति दुर्गादासः ॥

स्खलनं, क्ली, (स्खल + ल्युट् ।) पतनम् । तत्-

पर्य्यायः । रिङ्गणम् २ । इत्यमरः । १ । ७ । ३६ ॥
रिङ्खणम् ३ । इति हेमचन्द्रः ॥ (यथा, सुश्रुते ।
४ । २४ ।
“श्रमस्खलनदोषघ्नं स्थविरे च प्रशस्यते ।
सत्त्वोत्साहबलस्थैर्य्यधैर्य्यवीर्य्यविवर्द्धनम् ॥”
अभिघातः । इति मल्लिनाथः ॥ यथा, माघे ।
९ । ५२ ।
“निजपाणिपल्लवतलस्खलना-
दभिनासिकाविवरमुत्पतितैः ।
अपरा परीक्ष्य शनकैर्मुमुदे
मुखवासमास्य कमलश्वसनैः ॥”
उच्चारणम् । यथा, साहित्यदर्पणे । ३ । २१९ ।
“उत्स्वप्नायितभोगाङ्कगोत्रस्खलनसम्भवा ॥”
तथाच भागवते । ५ । ३ । १२ ।
“अथ कथञ्चित् स्खलनक्षुत्पतनजृम्भनदुरवस्था-
नादिषु विवशानां नः स्मरणाय ज्वरमरण-
दशायामपि सकलकश्मलनिरसनानि तव गुण-
कृतनामधेयानि वचनगोचराणि भवन्तु ॥”)

स्खलितं, क्ली, (स्खल + क्तः ।) कूटयुद्धादिना

युद्धमर्य्यादायाः स्खलनम् । तत्पर्य्यायः । छलम् ।
२ । इत्यमरः । २ । ८ । १०८ ॥ भ्रंशः । त्रि,
चलितम् । इति मेदिनी । ते, १६४ ॥ (यथा,
आर्य्यासप्तशत्याम् । ६७२ ।
“सौधगवाक्षगतापि हि दृष्टिस्तं स्थितिकृत-
प्रयत्नमपि ।
द्विमगिरिशिखरस्खलिता गङ्गेवैरावतं
हरति ॥”)

स्तक, म प्रतीघाते । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) म, तिष्टकयिषति तिस्त-
कयिषति । इति दुर्गादासः ॥

स्तन, त् क अभ्रशब्दे । इति कविकल्पद्रुमः ॥

(अदन्तचुरा०-पर०-अक०-सेट् ।) स्तनयति
मेघः । इति दुर्गादासः ॥

स्तन, मि शब्दे । इति कविकल्कद्रुमः ॥ (म्वा०-

पर०-सक०-सेट् ।) मि स्तनयति स्तानयति ।
अतिस्तनत् । इति दुर्गादासः ॥

स्तनः, पुं, (स्तन्यते शब्द्यते कामुकैः स्तनयति

कथयति वक्षःशोभामिति वा । स्तन शब्दे +
घञ् ।) अवयवविशेषः । माइ इति चूँची इति
च भाषा ॥ तत्पर्य्यायः । कुचः २ । इत्यमरः ।
२ । ६ । ७७ ॥ कूचः ३ उरोजः ४ वक्षोजः ५
पयोधरः ६ वक्षोरुहः ७ उरसिजः ८ । तस्याग्रं
चूचुकम् । इति शब्दरत्नावली । तस्य शुभ-
लक्षणं यथा, गारुडे । ५६ । ९५ ।
“अरोमशौ स्तनौ पीनौ घनावविषमौ
शुभौ ।
कठिनावरोममुरो मृदुग्रीवा च कम्बुभा ॥”
तस्य मनोहरत्वकारकौषधं यथा, तत्रैव ।
१९४ । ४ ।
“कुष्ठनागबलाचूर्णं नवनीतसमन्वितम् ।
तल्लेपो युवतीनाञ्च कुर्य्यान्मनोहरं स्तनम् ॥”
अधस्तनरोगस्य संप्राप्तिमाह ।
“सक्षीरौ वाप्यदुग्धौ वा दोषः प्राप्य स्तनौ स्त्रियः
रक्तं मांसञ्च संदूष्य स्तनरोगाय कल्प्यते ॥”
अदुग्धावपि स्तनौ प्रसूताया गर्भिण्याश्च
स्त्रिया बोद्धव्यौ । यत आह सुश्रुतः
“धमन्यः संवृतद्वाराः कन्यानां स्तनसंश्रिताः ।
दोषाविसरणास्तासां न भवन्ति स्तनामयाः ॥”
दोषाविसरणाः संवृतद्वारत्वेन दोषाणाम-
विसरणमसञ्चारो यासु ताः ।
“तासामेव प्रसूतानां गर्भिणीनाञ्च ताः पुनः ।
स्वभावादेव विवृता जायन्ते सम्भवन्त्यतः ॥” * ॥
स्तनरोगाणामतिदेशेन लक्षणान्याह ।
“पञ्चानामपि तेषान्तु हित्वा शोणितविद्रधिम् ।
लक्षणानि समानानि बाह्यविद्रधिलक्षणैः ॥”
पञ्चानां वातपित्तकफसन्निपातागन्तुजानाम् ।
आगन्तुजस्तनरोगाभिघातेन शल्येन च बोद्धव्यः ॥
रक्तजस्यासम्भवः । स्वभावात् ॥ * ॥
अथ स्तनरोगस्य चिकित्सा ।
“शोथं स्तनोत्थितमवेक्ष्य भिषग्विदध्यात्
यद्विद्रधावभिहितं बहुथा विधानम् ।
आमे विदाहिनि तथैव च तस्य पाके
तस्याः स्तनौ सततमेव च निर्गृहीतौ ॥
पित्तघ्नानि तु शीताति द्रव्याण्यत्र प्रयोजयेत् ।
जलौकाभिर्हरेद्रक्तं न स्तनावुपनाहयेत् ॥”
उपनाहयेत् स्वेदयेत् ।
“लेपो विशालामूलेन हन्ति पीडां स्तनो-
त्थिताम् ।
निशाकनककल्काभ्यां लेपः प्रोक्तः स्तना-
र्क्षिहा ॥”
विशाला इन्द्रवारुणी । कनकस्य धत्तूरस्य पत्रं
ग्राह्यम् ।
“लेपान्निहन्ति मूलं स्तनरोगं वन्ध्यकर्कोट्याः ।
निर्वाप्य तप्तलोहं सलिले तद्वा पिबेत्तत्र ॥”
इति भावप्रकाशः ॥

स्तननं, क्ली, (स्तन शब्दे + ल्युट् ।) ध्वनिमात्रम् ।

मेघशब्दः । कुन्थितम् । इति मेदिनी ॥

स्तनन्धयः, पुं, स्त्री, (स्तनं धयति पिबतीति स्तन

+ धेट् पाने + “नासिकास्तनयोर्ध्माधेटोः ।” ३ ।
२ । २९ । इति खश् । अरुर्द्विषदिति मुम् ।
अतिशिशुः । तत्पर्य्यायः । उत्तानशयः २ उत्ता-
नशया ३ डिम्भः ४ डिम्भा ५ स्तनपः ६ स्तनपा
७ स्तनन्धयी ८ स्तनन्धया ९ । इत्यमरभरतौ ॥
(यथा, रघः । १४ । ७८ ।
पृष्ठ ५/४३२
“पयोधरैराश्रमबालवृक्षकान्
संवर्द्धयन्ती स्वबलानुरूपैः ।
असंशयं प्राक् तनयोपपत्तेः
स्तनन्धयप्रीतिमवाप्स्यसि त्वम् ॥”)
स्तनन्धया, स्त्री, (स्तनन्धय + टाप् ।) अति-
बालिका । इत्यमरटीकायां भरतः । २ । ६ । ४१ ॥

स्तनन्धयी, स्त्री, (स्तनन्धय + टित्त्वात् ङीप् ।)

अतिबालिका । इत्यमरः । २ । ६ । ४१ ॥

स्तनपः, पुं, स्तनं पिबतीति । पा + कः ।) अति-

शिशुः । इति भरतः ॥ स्तनपानकर्त्तरि, त्रि ॥

स्तनपा, स्त्री, (स्तनं पिबति या । पा + कः ।

टाप् ।) अतिबालिका । इत्यमरः । २ । ६ । ४१ ॥

स्तनपायिका, स्त्री, अतिबालिका । दुग्धपोष्या ।

स्तनशब्दपूर्व्वकपाधातोर्णक्(ण्वुल्) प्रत्यये आप्-
प्रत्ययेन निष्पन्नम् ॥

स्तनभरः, पुं, (स्तनयोर्भरः ।) स्थूलस्तनभारः ।

तत्पर्य्यायः । स्तनभोगः २ । इति त्रिकाण्ड-
शेषः ॥

स्तनभवः, पुं, (स्तनाभ्यां भव उत्पत्तिर्यस्य । रति-

बन्धविशेषः । यथा, --
“स्वजङ्घाद्वयमध्ये तु कृत्वा योषित्पदद्वयम् ।
स्तनौ धृत्वा रसेत् कामी बन्धः स्तनभवः
स्मृतः ॥”
इति स्मरदीपिका ॥
स्तनजाते, त्रि ॥

स्तनमुखः, पुं, (स्तनयोर्मुखम् । अभिधानात्

पुंस्त्वम् ।) स्तनाग्रभागः । यथा । चूचुकन्तु स्तना-
द्वृन्तशिखामुखाः । इति हेमचन्द्रः । ३ । २६७ ॥

स्तनयित्नुः, पुं, (स्तनयतीति । स्तन त्काभ्रशब्दे +

“स्तनिहृषिपुषीति ।” उणा० ३ । २९ । इति
इत्नुच् । “अयमन्तेति ।” ६ । ४ । ५५ । इति
अयादेशः ।) मेधः । इत्यमरः । १ । ३ । ६ ॥
(यथा, उत्तररामचरिते ३ अङ्के ।
“किमव्यक्तेऽसि निनदे कुतस्त्येऽपि त्वमीदृशी ।
स्तनयित्नोर्मयूरीव चकितोत्कण्ठिता स्थिता ॥”)
मुस्तकः । इति चामरः । २ । ४ । १५९ ॥ मेघध्वनिः ।
इति मेदिनी ॥ विद्युत् । इति शब्दरत्नावली ॥
मृत्युः । रोगः । इति हेमचन्द्रः ॥

स्तनवृन्तः, पुं, (स्तनयोर्वृन्तम् । अभिधानात्

पुंस्त्वम् ।) स्तनमुखम् । इति हेमचन्द्रः । ३ । २६७ ॥
स्तनेर वोँटा इति भाषा ॥

स्तनशिखा, स्त्री, (स्तनयोः शिखा ।) स्तनवृन्तः ।

इति हेमचन्द्रः । ३ । २६७ ॥

स्तनाग्रं, क्ली, (स्तनयोरग्रम् ।) स्तनवृन्तम् ।

इति राजनिर्घण्टः ॥

स्तनान्तरं, क्ली, (स्तनयोरन्तरम् ।) हृदयम् ।

इति हेमचन्द्रः ॥ (यथा, रघुः । १० । ६२ ।
“बिभ्रत्या कौस्तुभन्यामं स्तनान्तरविलम्बिनम्
पर्य्युपाम्यन्त लक्ष्म्या च पद्मव्यजनहस्तया ॥”)
स्त्रीवैधष्यलक्षणविशेषः । इति केचित् ॥

स्तनाभोगः, पुं, (स्तनयोराभोसः ।) स्तनभरः ।

इति त्रिकाण्डशेषः ॥ स्तनस्य परिपूर्णता च ॥

स्तनितं, क्ली, (स्तन + क्तः ।) मेघनिर्घोषः । इत्य-

मरः । १ । ३ । ८ ॥ (यथा, मनुः । ४ । १०३ ।
“विद्युत्स्तनितवर्षेषु महोल्कानाञ्च संप्लवे ।
आकालिकमनध्यायमेतेषु मनुरब्रवीत् ॥”)
करतालिशब्दः । इति केचित् ॥ (शब्दमात्रम् ।
यथा, हरिवंशे । ९९ । ४८ ।
“आर्त्तस्तनितसंनादे रुधिराम्बुह्रदाकुले ॥”)
शब्दिते, त्रि ॥

स्तनितफलः, पुं, (स्तनितानि फलानि यस्य ।)

विकण्ठकवृक्षः । इति राजनिर्घण्टः ॥

स्तन्यं, क्ली, (स्तने भवम् । स्तन + “शरीरावय-

वाच्च ।” ४ । ३ । ५५ । इति यत् ।) दुग्धम् ।
इति हेमचन्द्रः ॥ (यथा, रघुः । २ । ६९ ।
“स नन्दिनीस्तन्यमनिन्दितात्मां
सद्वत्सलो वत्सहुतावशेषम् ।
पपौ वशिष्ठेन कृताभ्यनुज्ञः
शुभ्रं यशो मूर्त्तमिवातितृष्णः ॥”
स्तनाय हितमिति । “शरीरावयात् यत् ।” ५ ।
१ । ६ । इति यत् स्तनहिते, त्रि ॥)

स्तब्धः, त्रि, स्तम्भितः । जडीकृतः । स्तभधातोः

क्तप्रत्ययेनं निष्पन्नः ॥ (यथा, कथासरित्-
सागरे । २० । ९६ ।
“स्वयमुत्क्षिप्तकलसस्तब्धबाहुरभूत्तदा ॥”)

स्तब्धरोमा, [न्] पुं, (स्तब्धानि रोमाणि यस्य ।)

शूकरः । इत्यमरः । २ । ५ । २ ॥ स्तम्भित-
लोमयुक्ते त्रि ॥ (यथा, आर्य्यासप्तशत्याम् । ५३२ ।
“विमुखे चतुर्मुखेऽपि श्रितवति चानीशभाव-
मीशेऽपि ।
मग्नमहीनिस्तारे हरिः परं स्तब्धरोमाभूत् ॥”)

स्तभ, इ ङ स्तम्भे । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-सक०-च सेट् ।) दन्त्यादिः । इ,
स्तम्भ्यते । ङ, स्तम्भते । तिष्ठम्भयिषति । तिस्त-
म्भयिषति । स्तम्भो जडीभावस्तत्करणञ्च ।
स्तम्भः स्थूणाजडीभावावित्यमरोक्तेः । शीते-
नावस्तब्धो जडीकृतः इत्यर्थ इति क्रमदीश्वरो-
क्तेश्च । स्तम्भ इह क्रियानिरोधः इति भीमः ।
दोषवृद्विरिति गोविन्दभट्टः । स्तम्भो रुद्धीकर-
णञ्च । स्तम्भते कबाटेन द्वारं लोकः । इति
दुर्गादासः ॥

स्तभः, पुं, छागः । इति शब्दरत्नावली ॥

स्तम्बः, पुं, (तिष्ठतीति । स्था + “स्थः स्तोऽम्बज-

वकौ ।” उणा० ४ । ९६ । इति अम्बच् । स्तादे-
शश्च ।) प्रकाण्डरहितवृक्षः । स तु झिण्टि-
कादिः । तत्पर्य्यायः । गुल्मः २ । इत्यमरः । २ ।
४ । ९ ॥ तृणादिः । तत्पर्य्यायः । गुच्छः २ ।
इति चामरः ॥ गुत्सः ३ । इति तट्टीका ॥
विटपः ४ । इति जटाधरः ॥

स्तम्बकरिः, पुं, (स्तम्बं करोतीति । स्तम्ब + कृ +

स्तम्बशकृतोरिन् ।” ३ । २ । २४ । इति इन् ।)
धान्यम् । इत्यमरः । २ । ९ । २१ ॥ अपि च ।
“पुंसि स्तम्बकरिर्धान्यं व्रोहिर्ना धान्यमात्रके ।”
इति शब्दरत्नावली ॥

स्तम्बकारः, त्रि, (स्तम्बं करोतीति । कृ + अण् ।)

गुच्छकारकः । स्तम्बशब्दात् कृञधातोः षण्-
प्रत्ययेन निष्पन्नः ॥

स्तम्बघनः, त्रि, (स्तम्बः हन्यतेऽनेनेति । स्तम्ब +

हन् + “स्तम्बे क च ।” ३ । ३ । ८३ । इति चकारात्
अप् घनादेशश्च ।) तृणाद्यन्मूलनकारिखनि-
त्रादिः । तत्पर्य्यायः । स्तम्बघ्नः २ इत्यमरः ।
३ । २ । ३५ ॥ स्तम्बहनन ३ । इति सारसुन्दरी ॥
स्तम्बघ्नः, त्रि, (स्तम्बो हन्यते येनेति । स्तम्ब +
हन् + “स्तम्बे क च ।” ३ । ३ । ८३ इति कः ।)
स्तम्बघनः । इत्यमरः । ३ । २ । ३५ ॥

स्तम्बपूः, [र्] स्त्री, (स्तम्बानां पूरिव ।) पुरीभेदः ।

तत्पर्य्यायः ।
“तामलिप्तं दामलिप्तं तामांलप्ती तमालिनी ।
स्तम्बपूर्व्विष्णुगृहञ्च स्याद्विदर्भा तु कुण्डिनम् ॥”
इति हेमचन्द्रः ॥

स्तम्बहननः, त्रि, (स्तम्बो हन्यतेऽनेनेति । हन +

करणे ल्युट् ।) स्तम्बघनः । इत्यमरटीकासार-
सुन्दरी । ३ । २ । ३५ ॥

स्तम्बेरमः, पुं, (स्तम्बे रमते इति । स्तम्ब + रम +

“स्तम्बकर्णयो रमिजपोः ।” ३ । २ । १३ । इत्यच् ।
“तत्पुरुषे कृति बहुलम् ।” ६ । ३ । १४ । इति
सप्तम्या अलुक् ।) हस्ती । इत्यमरः । २ । ८ । ३५ ॥
(यथा, रघुः । ५ । ७२ ।
“शय्यां जहात्युभयपक्षविनीतनिद्राः
स्तम्बेरमा मुखरशृङ्खलकर्षिणस्ते ॥”)

स्तम्भ, ग न उ रोधने । इति कविकल्पद्रुमः ॥

(क्र्या० स्वा० च०-पर०-सक० सेट् । क्त्वावेट् ।)
ग, स्तभ्नाति । न, स्तभ्नोति । उ, स्तम्भित्वा
स्तब्ध्वा । रोधनमावरणम् । इति दुर्गादासः ।
सौत्रधातुरयम् ॥

स्तम्भः, पुं, (स्तभ्नातीति । स्तम्भ + पचाद्यच् ।)

स्थूणा । थाम इति खुँटी इति च भाषा ।
जडीभावः । स तु निष्प्रतिभता । इत्यमर-
भरतौ । ३ । ३ । १३४ ॥ (यथा, माघः, । ५ । ४८ ।
“स्तम्भं महान्तमुचितं सहसा मुमोच
दानं ददावतितरां सहसाग्रहस्तः ।
बद्धापराणि परितो निगडान्यलावीत्
स्वातन्त्र्यमुज्ज्वलमवाप करेणुराजः ॥”
“महान्तं स्तम्भं आलानं जाड्यञ्च सहसा
मुमोच । स्तम्भः स्थूणाजडत्वहोरिति विश्वः ।”
इति तट्टीका ॥ काण्डम् । यथा, रघुः । ५ । १५ ।
“आरन्यकोपात्तफलप्रसूतिः
स्तम्बेन नीवार इवावविष्टः ॥”)

स्तम्भकरः, पुं, (करोतीति । कृ + अच् । स्तम्बस्य

करः ।) वेष्टनम् । इति केचित् ॥ स्थूणाकारके
जाड्यकारके च त्रि ॥

स्तम्भकी, [न्] पुं, वाद्यविशेषः । इति केचित् ॥

स्तम्भनं, क्ली, (स्तम्भ + ल्युट् ।) जडीकरणम् ।

यथा, वगलामुखीस्तोत्रे ।
“दुष्टस्तम्भनमुग्रविघ्नशमनं दारिद्रविद्रावणम् ॥”
षट्कर्म्मान्तर्गताभिचारकर्म्मविशेषः । यथा, --
पृष्ठ ५/४३३
“उलूककाकयोः पक्षौ गृहीत्वा मन्त्रवित्तमः ।
आलिख्य वै शरावे निशायाञ्च साध्याक्षर-
संपुटितम् ॥
मन्त्रं स्थापितपवनं सहस्रजप्तं चतुस्पथे निखनेत्
स्तम्भनमेतदवश्यं भविता जगताञ्च नात्र
सन्देहः ॥”
स्थापितपवनं कृतप्राणप्रतिष्ठम् ।
“कृत्वा प्रतिकृतिमथवा
श्मशानाङ्गारकेशशववसनजाम् ।
सम्यगधिष्ठितपवनां
हृद्गतनाम्नीं समन्त्रललाटाम् ॥
वसनाधिष्ठितपवनां
सहस्रजप्तां तदुल्कया वसनाम् ।
दग्धां कृत्वा निखनेत्
श्मशानदेशे सपदि वाक्स्तम्भः ॥
आलिण्य चेष्टकायुगले मन्त्रं सनामपुटितम् ।
निशया निशीथकाले सहस्रजप्तं प्रतिष्ठित-
प्राणम् ॥
बन्धनभतितीक्ष्णतरं स्तम्भनमतितीक्ष्णाम्बु-
निःक्षिप्तम् ।
लिखितमन्त्रचितामयकीलकं,
सहितकर्म्म सनाम समारुतम् ॥
कृतजपं त्रिसहस्रकसंख्यया
पथि खनेदथ याननिवारणम् ।
विहितनिम्बतरौ रिपुनामयुतं
मनुमिमं निशया कृतनामकम् ।
नवसहस्रजपादिसुसाधितं
पथि खनेदथ सैन्यनिरोधनम् ॥”
इति स्तम्भनम् ॥
इति फेत्कारिणीतन्त्रे ५ पटलः ॥ * ॥
अथाग्निस्तम्भनम् ।
“मालूरस्य रसं गृह्य जलौकां तत्र पेषयेत् ।
हस्तौ तु लेपयेत्तेन अग्निस्तम्भनमुत्तमम् ॥
शाल्मलीरसमादाय खरमूत्रे निधाय तम् ।
अग्न्यागारे क्षिपेत्तेन अग्निस्तम्भनमुत्तमम् ॥
वायसी उदरं गृह्य मण्डूकवसया सह ।
गुडिकां कारयेत्तेन ततोऽग्नौ प्रक्षिपेद्बशी ॥
एवमेतत्पयोगेन अग्निस्तम्भनमुत्तमम् ॥
रक्तपाटलमूलन्तु अवष्टब्धञ्च मूलकैः ।
दिव्यं स्तम्भयते क्षिप्रं पयः पिण्डं जलान्तकम् ॥
मुण्डीतकवचाकुष्ठं मरीचं नागरं तथा ।
चर्व्वित्वा च इमं सद्यो जिह्वया ज्वलनं लिहेत्
गोरोचनां भृङ्गराजं चूर्णीकृत्य घृतं समम् ।
दिव्यस्तम्भश्च पीत्वा स्यात् मन्त्रे णानेन वै तथा
ॐ ह्यं अग्निस्तम्भनं कुरु ॥ ॐ नमो भगवते
जलं स्तम्भय स्तम्भय सं समं सके कके कचर ।
जलस्तम्भनमन्त्रोऽयं जलं स्तम्भयते शिव ॥”
इति गारुडे पूव्वखण्डे । १८६ । ११ -- १८ ॥
प्रकारान्तरं षट्कर्म्मशब्दे द्रष्टव्यम् ॥

स्तम्भनः, पुं, (स्तम्भयतीति । स्तम्भ + णिच् + ल्युः ।)

कामदेवस्य पञ्चवाणान्तर्गत-वाण-विशेषः ।
यथा, --
“उन्मादनः शोषणश्च तापनस्तम्भनस्तथा ।
सम्मोहनश्च पञ्चैते विख्याताः कामशायकाः ॥”
इति जटाधरः ॥
(स्तम्भके, त्रि । यथा, सुश्रुते । १ । ४२ ।
“कषायः संग्राहको रोपणः स्तम्भनः शोधनो
लेखनः शोषणः पीडनः क्लेदोपशोषणश्चेति ॥”)

स्तम्भितः, त्रि, जडीभूतः । जडीकृतः । इति स्तम्भ-

शब्दात् इतोऽस्य जाते इतप्रत्ययेन स्तम्भधातोः
क्तप्रत्ययेन वा निष्पन्नः ॥

स्तरिमा, [न्] पुं, (स्तृणोति आच्छादयतीति ।

स्तृ + “हृभृधृसृस्तृभ्य इमणिच् ।” उणा० ४ ।
१४१ । इति इमनिच् ।) तल्पम् । इत्युणादि-
कोषः ॥

स्तरी, स्त्री, (स्तृणोति आच्छादयतीति । स्तृ +

“अवितॄस्तृतन्द्रिभ्य ईः ।” उणा० ७ । १५८ ।
इति ईः ।) धूमः । इति हेमचन्द्रः ॥

स्तवः, पुं, (स्तृयतेऽनेनेति । स्तु + अप् ।) प्रशंसा ।

तत्पर्य्यायः । स्तोत्रम् २ नुतिः ३ स्तुतिः ४ ।
इत्यमरः । १ । ६ । ११ ॥ स्तवनम् ५ । इति
शब्दरत्नावली ॥ वर्णः ६ । इति जटाधरः ॥
(यथा, हरिवंशे । १२९ । २८ ।
“तुष्टाव च तमीशानं मारीचः कश्यपस्तदा ।
वेदोक्तैः स्वकृतैश्चैव स्तवै स्तुत्यं जगद्गुरुम् ॥”)

स्तवकः, पुं, (तिष्ठतीति । स्था + “स्थः स्तोऽम्ब-

जवकौ ।” उणा० ४ । ९६ । इति अवकः
धातोश्च स्तादेशः ।) गुच्छकः । इत्यमरः ।
२ । ४ । १६ ॥ “द्वे स्तवके थलो इति ख्याते
बहुभिः पुष्पैः फलैर्व्वा संवाधः पल्लवग्रन्थिः
गुच्छः । गूयते ध्वन्यते भ्रमरैरत्र गुच्छः । गु
घु ङ ङ ध्वनौ नाम्नीति छक् ।
‘पुष्पादिस्तवके गुच्छो मुक्ताहारकलापयोः ।’
इति चवर्गान्तेषु रन्तिदेवः ॥
‘स्यात् गुच्छः स्तवके स्तम्बे हारभेदकलापयोः ॥’
इति चवर्गद्वितीयान्ते मेदिनी ॥
स्वार्थेके गुच्छकः गुत्सकः इति च पठन्ति । तदा
वुध्यति वेष्टते इति गोधन्ते क्रीडन्ति भ्रमरा
अत्रेति वा गुत्सः । गुध्य वेष्टे गुथ ङ क्रीडे
इत्यस्माद्वा नाम्नीति सः । स्वार्थे कः गुत्सकः ।
‘स्तवके हारभेदे च गुत्सः स्तम्बे च कीर्त्तितः ॥’
इति दन्त्यान्तेषु रुद्रः ।
‘गुत्सः स्यात् स्तवके स्तम्बे हारभिद्ग्रन्थि-
पर्णयोः ।’
इति दन्त्यसान्तेषु मेदिनी ।
‘मुकुरः कुट्मलश्चापि स्तवको गुत्सकाविति ॥’
इति हडडः ।
स्तूयते इति स्तवकः । ष्टु ञ ल स्तुतौ अल् स्तवः
स्वार्थे अभिधानात् नित्यकः । इति भरतः ॥ *
स्तुतिः । इतिविश्वः ॥ ग्रन्थपरिच्छेदः । समूहः ।
इति केचित् ॥ स्तवकारके, त्रि ॥

स्तवरकः, पुं, आवरकः । इति केचित् ॥

स्तावः, पुं, स्तवः । स्तुधातोर्भावे घञ् प्रत्ययेन

निष्पन्नः ॥

स्तावकः, त्रि, (स्तौतीति । स्तु + ण्वुल् ।) स्तव-

कर्त्ता । स्तुधातोर्णकप्रत्ययेन निष्पन्नः ॥ (यथा,
भागवते । ४ । १५ । २१ ।
“स्तावकान् तानभिप्रेत्य पृथुर्वैण्यः प्रतापवान् ।
मेघनिह्रादया वाचा प्रहसन्निदमब्रवीत् ॥”)

स्तिमितः, त्रि, (स्तिम + क्तः ।) अचञ्चलः । (यथा,

रघुः । १३ । ४८ ।
“एषा प्रसन्नस्तिमितप्रवाहा
सरिद्विदूरान्तरभावतन्वी ।
मन्दाकिनी भाति नगोपकण्ठे
मुक्तावली कण्ठगतेव भूमेः ॥”
आर्द्रः । यथा, “स्तिमितोऽचञ्चलार्द्रयोः ।”
इति मेदिनी ॥

स्तिम्भिः, पुं, (स्तभ्नातीति । स्तम्भ + “क्रमित

मिशतिस्तम्भामत इच्च ।” उणा० ४ । १२१ ।
इति इन् अत इच्च ।) समुद्रः । वाधा । इत्यु-
णादिकोषः ॥

स्तीर्व्विः, पुं, (स्तृणातीति । स्तृ + “स्तृञ्जॄशॄ-

स्तॄ जागृभ्यः क्विन् ।” उणा० ४ । ५४ । इति
क्विन् ।) नभः । रुधिरम् । तृणजातिः । अध्वर्य्युः ।
पयः । शक्रः । इति संक्षिप्तसारोणादिवृत्तिः ॥

स्तुतः, त्रि, (स्तु + क्तः ।) स्तुतिविषयः । तत्-

पर्य्यायः । ईलितः २ शस्तः ३ पणायितः ४
पनायितः ५ प्रणुतः ६ पणितः ७ पनितः ८
अपिगीर्णः ९ वर्णितः १० अभिष्टुतः ११ । इत्य-
मरः । ३ । २ । ११० ॥ गीर्णः १२ ईडितः १३ । इति
शब्दरत्नावली ॥ नुतः १४ । इति जटाधरः ॥
(यथा, महाभारते । १२ । २८४ । १८ ।
“नमः स्तुताय स्तुत्याय स्तूयमानाय वै नमः ॥”)

स्तुतिः, स्त्री, (स्तु + क्तिन् ।) स्तवः । इत्यमरः ।

१ । ६ । ११ ॥ (यथा, नैषधे । ३ । ११६ ।
“इतः स्तुतिः का खलु चन्द्रिकाया
यदब्धिमप्युत्तरलीकरोति ॥”)
दुर्गा । यथा, --
“स्तुतिः सिद्धिरिति ख्याता श्रियाः संश्रयणाच्च
सा ।
लक्ष्मीर्वा ललना वापि क्रमात् सा कान्तिरुच्यते”
इति देवीपुराणे ४५ अध्यायः ॥

स्तुतिपाठकः, पुं, (स्तुतिं पठतीति । पठ + ण्वुल् ।)

राजादेर्यात्रादौ वौर्य्यस्तुतिकर्त्ता । तत्पर्य्यायः ।
वन्दी २ । इत्यमरः । २ । ८ । ९७ ॥ लग्नः ३
स्तुतिव्रतः ४ सूतः ५ मागधः ६ मधुकः ७ ।
इति जटाधरः ॥ प्रातर्गेयः ८ । इति त्रिकाण्ड-
शेषः ॥

स्तुतिव्रतः, पुं, (स्तुतिरेव व्रतं यस्य ।) स्तुति-

पाठकः । इति जटाधरः ॥

स्तुत्यः, त्रि, स्तवनीयः । स्तुधातोः क्यप्प्रत्ययेन

निष्पन्नः । इति मुग्धबोधव्याकरणम् ॥ (यथा,
रघुः । ४ । ६ ।
“परिकल्पितसान्निध्या काले काले च बन्दिषु ।
स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती ॥”)

स्तुनकः, पुं, छागः । इति शब्दचन्द्रिका ॥

पृष्ठ ५/४३४

स्तुन्भ, ग न उ रोधने । सौत्रधातुरयम् । इति

कविकल्पद्रुमः ॥ (क्र्या०-स्वा० च०-पर०-सक०-
सेट् । क्त्वावेट् ।) दन्त्यादिः । पञ्चमस्वरी । ग,
स्तुभ्नाति । न, स्तुभ्नोति । उ, स्तुम्भित्वा स्तुब्धा ।
रोधनमावरणम् । इति दुर्गादासः ॥

स्तुभः, पुं, छागः । इत्यमरटीकायां भरतः २ ।

९ । ७६ ॥ (अग्निविशेषः । यथा, महाभारते ।
२ । २२० । १४ ।
“चातुर्म्मास्ये षु नित्यानां हविषां योनिरग्रहः ।
चतुर्भिः सहितः पुत्त्रैर्भानोरेवान्वयः स्तुभः ॥”)

स्तुवेय्यः, पुं, (स्तूयते इति । स्तु + “स्तुवः केय्य-

श्छन्दसि ।” उणा० ३ । ९९ । इति केय्यः ।
कित्त्वादुगुणाभावे सत्युवङादेशः ।) इन्द्रः ।
इत्युणादिकोषः ॥

स्तुषेप्यः, त्रि, श्रेष्ठः । उत्तमः । वैदिकशब्दोऽयम् ।

ष्टुधातोरौणादिकसेप्यप्रत्ययेन निष्पन्नम् । इति
सिद्धान्तकौमद्यामुणादिवृत्तिः ॥

स्तूप, क उच्छ्राये । इति कविकल्पद्रुमः ॥ (चुरा०

पर०-सक०-सेट् ।) षष्ठस्वरी । उच्छ्रायो राशी-
वरणम् । स्तूपयति धान्यं कृषकः । तुष्टूपयि-
षति । इति दुर्गादासः ॥

स्तूप, य इर उच्छ्राये । इति कविकल्पद्रुमः ॥

(दिवा०-पर०-सक०-सेट् ।) षष्ठस्वरी । य,
स्तूप्यति । इर्, अस्तूपत् अस्तूपीत् । अस्मात्
पुषादित्वान्नित्यं ङ इत्यन्ये । अतुस्तूपत् । इति
दुर्गादासः ॥

स्तूपः, पुं, (स्तूयते इति । स्तु + “स्तुवोदीर्घश्च ।”

उणा० ३ । २५ । इति पः दीर्घश्च ।) मृदादि-
कूटः । राशीकृतमृत्तिकादिः । इति पुंलिङ्ग-
संग्रहे अमरः । ३ । ५ । १९ ॥ संघातः ।
निष्प्रयोजनम् । बलम् । इति संक्षिप्तसारोणादि-
वृत्तिः ॥

स्तृ, न प्रीतिरक्षाप्राणने । इति कविकल्पद्रुमः ॥

(स्वा०-पर०-सक०-अक०-च-अनिट् ।) न,
स्तृणोति । इति दुर्गादासः ॥

स्तृ, न ञ स्तृतौ । इति कविकल्पद्रुमः ॥ (स्वा०

उभ०-सक०-अनिट् ।) न ञ, स्तृणोति स्तृणुते
स्तृतिराच्छादनम् । इति दुर्गादासः ॥

स्तृक्ष, गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) सप्तमंस्वरयुक्ततमध्यः ।
स्तृक्षति । तरीस्तृक्षते । इति द्रुर्गादासः ॥

स्तृह, ऊ श वधे । इति कविकल्पद्रुमः ॥ (तुदा०

पर०-सक०-वेट् ।) ऊ, अस्तर्हीत् अस्तृक्षत् ।
श, स्तृहति । तिस्तर्हयिषति । इति दुर्गा-
दासः ॥

स्तॄ ञ गि छादने । इति कविकल्पद्रुमः ॥ (क्र्या

उभ०-सक०-अनिट् ।)ञ गि, स्तृणाति स्तृणीते
स्तार्णः स्तीर्णिः । इति दुर्गादासः ॥

स्तॄह, ऊ श वधे । इति कविकल्पद्रुमः ॥ (तुदा०

पर०-सक०-वेट् ।) ऊ, अस्तॄहीत् अस्तॄक्षत् ।
ग, स्तृहती स्तॄहन्ती । तिस्तॄहयिषति । इति
दुर्गादासः ॥

स्तेन, त् क चौर्य्ये । इति कविकल्पद्रुमः ॥ (अदन्त

चुरा०-पर०-सक०-सेट् ।) अतिस्तेनत् धनं
चौरः । इति दुर्गादासः ॥

स्तेनं, क्ली, (स्तेनत् क चौर्य्ये + भावे अच् ।)

स्तेयम् । इत्यमरटीकायां भरतः । २ । १० । २४ ॥

स्तेनः, पुं, (स्तेनयतीति । स्तेन + पचाद्यच् ।)

चौरः । इत्यमरः । २ । १० । २४ ॥ तस्य दण्ड-
निर्णयो यथा, --
“स्तेनस्यातः प्रवक्ष्यामि विधिं दण्डविनिर्णये ।
परमं यत्नमातिष्ठेत् स्तेनानां निग्रहे नृपः ।
स्तेनानां निग्रहादस्य यशो राष्ट्रञ्च वर्द्धते ॥
अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्य्यापचारिणी ।
गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि
किल्विषम् ॥
यस्तु तान्यु पकॢप्ताणि द्रव्याणि स्तेनयेन्नरः ।
तमाद्यं दण्डयेद्राजा यश्चाग्निं चौरयेद्गृहात् ॥
येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते ।
तत्तदेव हरेत्तस्य प्रत्यादेशाय पार्थिवः ॥”
इति मानवे ८ अध्यायः ॥
तद्वैदिकपर्य्यायः । तृपुः १ तक्का २ रिभ्वा ३
रिपुः ४ रिक्वा ५ रिहायाः ६ तायुः ७
तस्करः ८ वनर्गुः ९ हुरश्चित् १० मुषीवान् ११
मलिम्लुचः १२ अघशंसः १३ वृकः १४ । इति
चतुर्द्दशेव स्तेननामानि । इति वेदनिघण्टौ ।
३ । २४ ॥ * ॥ देवायानिवेद्यान्नादिभोक्ता ।
यथा, श्रीभगवदगीतायाम् । ३ । १२ ।
“इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञ-
भाविताः ।
तैर्द्दत्तानप्रदायैभ्यो यो भुङ्क्त्वे स्तेन एव सः ॥”
स्तेप, क क्षेपे । इति कविकल्पद्रुमः ॥ (चुरा०-
पर०-सक०-सेट् ।) एकादशस्वरी । क, स्तेप-
यति । तिस्तेपयिषति । इति दुर्गादासः ॥

स्तेमः, पुं, (स्तिम आर्द्रे + घञ् ।) आर्द्रीभावः ।

इत्यमरः । ३ । २ । २९ ॥

स्तेयं, क्ली, (स्तेनस्य भावः कर्म्म वा । स्तेन +

“स्तेनाद्यन्नलोपश्च ।” ५ । १ । १२५ । इति
यत् । नलोपश्च) चौर्य्यम् । तत्तु चौरस्य भावः
तस्य कर्म्म च इत्यमरभरतौ । २ । १० । २५ ॥
तस्य लक्षणं यथा, प्रायश्चित्त्वविवेके ।
“प्रत्यक्षं वा परोक्षं वा रात्रौ वा यदि वा दिवा
यत् परद्रव्यहरणं स्तेयं तत् परिकीर्त्तितम् ॥”
तत्करणे नरकं प्रतिप्रसवञ्च यथा, --
व्यासोवाच ।
“न हिंस्यात् सर्व्वभूतानि नानृतञ्च वदेत् क्वचित्
नाहितं नाप्रियं वाक्यं न स्तेनः स्यात् कदाचन
तृणं वा यदि वा शाकं मृदं वा जलमेव वा ।
परस्यापहरन् जन्तुर्नरकं प्रतिपद्यते ॥
न राज्ञां प्रतीगृह्णीयान्न शूद्रपतितादपि ।
न चान्यस्मादशक्तश्च निन्दितान् वर्जयेद्बुधः ॥
नित्यं याचनको न स्यान्न पुनस्तत् प्रयाचयेत् ॥
न विषं विषमित्याहुर्ब्रह्यस्वं विषमुच्यते ।
देवस्वञ्चापि यत्नेन सदा परिहरेत्ततः ॥
पुष्पे शाकोदके काष्ठे तथा मूले फले तृणे ।
अदत्तादानमस्तेयं मनुराह प्रजापतिः ॥
ग्रहीतव्यानि पुष्पाणि देवार्च्चनविधौ द्विजैः ।
नैकस्मादेव नियतमननुज्ञाय केवलम् ॥
तृणं काष्ठं फलं पुष्पं प्रकाशं वै हरेद्बुधः ।
धर्म्मार्थं केवलं ग्राह्यमन्यथा पतितो भवेत् ॥
तिलमुद्गयवादीनां मुष्टिर्ग्राह्या पथि स्थितैः ।
क्षुधार्त्तैर्नान्यथा विप्र विधिविद्भिरितिस्थितिः ॥”
इति कौर्म्मे उपविभागे । १६ । १ -- १० ॥
स्ते यप्रायश्चित्तं यथा, --
“एतैर्व्रतैरपोह्यं स्यादेनो हिंसासमुद्भवम् ।
स्तेयदोषापहर्त्तॄणां व्रतानां श्रूयतां विधिः ॥
धान्यान्यधनचौर्य्याणि कृत्वा कामात् द्विजो-
त्तम ।
स्वजातीयगृहादेव कृच्छार्द्धेन विशुध्यति ॥
मनुष्याणान्तु हरणे स्त्रीणां क्षेत्रगृहस्य च ।
कूपवापीजलानाञ्च शुद्धिश्चान्द्रायणं स्मृतम् ॥
द्रव्याणामप्लसाराणां स्तेयं कृत्वान्यवेश्मनः ।
चरेत् सान्तपनं कृच्छ्रं तत्पापपरिशुद्धये ॥
भक्षभोज्यापहरणे यानशय्यासनस्य तु ।
पुष्पमूलफलानाञ्च पञ्चगव्यं विशोधनम् ॥
तृणकाष्ठद्रुमाणान्तु पक्वान्नस्य गुडस्य तु ।
तैलचर्म्मामिषाणान्तु त्रिरात्रं स्यादभोजनम् ॥
मणिमुक्ताप्रबालानां ताम्रस्य रजतस्य तु ।
अयस्कांस्योपलानाञ्च द्वादशाहं कणान्नभुक् ॥
कार्पासकीटकोर्णानां द्विशफैकशफस्य च ।
पक्षिगन्धौषधानाञ्च रज्वाश्चैव त्र्यहं पयः ॥
एतैर्व्रतैर्व्यपोहेत पापं स्तेयकृतं बुधः ॥”
इति मात्स्ये २०१ अध्यायः ॥ * ॥
स्तेयस्य दण्डविधिर्दण्डशब्दे द्रष्टव्यः । सुवर्ण-
स्तेयप्रायश्चित्तं प्रायश्चित्तशब्दे द्रष्टव्यम् ॥

स्तेयी, [न्] पुं, (स्तेयमस्यास्तीति । इनिः ।

चौरः । यथा । सुमन्तुः । सुवर्णस्तेयी मासं
सावित्र्यष्टसहस्रं आज्याहुतीर्जुहुयात् त्रिरात्र-
मुपवसेत् तप्तकृच्छ्रेण वा पूतो भवति । इति
प्रायश्चित्तविवेकः ॥ स्वर्णकारः । इति केचित् ॥

स्तैनं, क्ली, (स्तैनस्य चौरस्य भावः कर्म्म वा)

स्तेन + अण् ।) चौर्य्यम् । इत्यमरटीकायां
भरतः । २ । १० । २५ ॥

स्तैन्यं, क्ली, (स्तेनस्य भावः कर्म्म वा । स्तेन +

ष्यञ् ।) चौर्य्यम् । इत्यमरभरतौ । २ । १० । २५ ॥
(यथा, महाभारते । ३ । २७२ । ७ ।
“इमां हि पत्नीमस्माकं धर्म्मज्ञां धस्मचारिणीम्
संस्पृशेदीदृशो भावः शुचिं स्तैन्यमिवामृतम् ॥”)

स्तैन्यः, पुं, (स्तेन एव । स्वार्थे ष्यञ् ।) चौरः ।

इति शब्दरत्नावली ॥

स्तैमित्यं, क्ली, (स्तिमितस्य भावः । स्तिमत +

ष्यञ् ।) जडता । इति राजनिर्घण्टः ॥
(आर्द्रत्वम् । यथा, “स्तैमित्यं स्तिमितो वेगः ।”
इति वैद्यमाधवकरसंगृहीतरुग्विनिश्चयस्य
ज्वराधिकारे ॥ “स्तैमित्यमङ्गस्यार्द्रपटावगुण्ठि-
तत्वमिव ॥” इत्यस्य व्याख्याने विजयेनोक्तम् ॥)
पृष्ठ ५/४३५

स्तोकः, पुं, (स्तुच्यते इति । स्तुच प्रसादे + घञ् ।)

चातकः । इति मेदिनी ॥ बिन्दुः । कणा ।
इति केचित् ॥ (यथा, मार्कण्डेये । ४९ । ५९ ।
“वृष्ट्यावरुद्धैरभवत् स्रोतः खातानि निम्नगाः ।
ये पुरस्तादपां स्तोका आपन्नाः पृथिवीतले ॥”)
तथा च भागवते । ९ । ६ । ४८ ।
“एवं गृहेष्वभिरतो विषयान् विविधैः सुखैः ।
सेवमानो न चातुष्पादाज्यस्तोकैरिवानलः ॥”)

स्तोकः, त्रि, (स्तुच् + घञ् ।) अप्लः । इत्यमरः ।

३ । १६१ ॥ (यथा, महाभारते । १ । १ । २१८ ।
“सञ्जयैर्वगते प्राणांस्त्यक्तुमिच्छामि मारिचम् ।
स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे ॥”)

स्तोककः, पुं, (स्तोक एव । स्वार्थे कन् ।) चातक-

पक्षी । इत्यमरः ॥ (यथा, मनुः । १२ । ६७ ।
“रक्तानि हृत्वा वांसांसि जायते जीवजीवकः ।
वृको मृगेभं व्याघ्रोऽश्वं फलमूलन्तु मर्कटः ।
स्त्रीमृक्षस्तोमको वारि यानान्युष्ट्रः पशूनजः ॥”

स्तोता, [ऋ] त्रि, (स्तौतीति । स्तु + ण्वुल् ।)

स्तवकर्त्ता । ष्टुधातोस्तृण्प्रत्ययेन निष्पन्नः ॥
(यथा, ऋग्वेदे । ८ । ४४ । १८ ।
“स्तोता स्यां तव शर्म्मणि ॥”)
तद्वैदिकपर्य्यायः । रेभः १ जरिता २ कारुः ३
नदः ४ स्तामुः ५ कीरिः ६ गौः ७ सूरिः ८
नादः ९ छन्दः १० स्तुप् ११ रुद्रः १२
कृपण्युः १३ । इति त्रयोदश स्तोतृनामानि ।
इति वेदनिर्घण्टौ । ३ । १६ ॥ (विष्णुः । इति
महाभारतम् । १३ । १४९ । ८६ ॥)

स्तोत्रं, क्ली, (स्तूयतेऽनेनेति । स्तु + “दाम्नीशस-

युयुजेति ।” ३ । २ । १८२ । इति ष्ट्रन् ।)
स्तवः । इत्यमरः । १ । ६ । ११ ॥ तच्चतुर्व्विधं
यथा मात्स्ये १२१ अध्याये ।
“अत्र वो वर्णयिष्यामि विधिं मन्वन्तरस्य तु ।
ऋचो यजूंषि सामानि तथावत् प्रति दैवतम् ।
विधिहोत्रं तथा स्तोत्रं पूर्व्ववत् संप्रवर्त्तते ॥
द्रव्यस्तोत्रं कर्म्मस्तोत्रं विधिस्तोत्रं तथैव च ।
तथैवाभिजनस्तोत्रं स्तोत्रमेतच्चतुष्टयम् ॥
मन्वन्तरेषु सर्व्वेषु यथा भेदाद्भवन्ति ये ।
प्रवर्त्तयन्ति तेषां वै ब्रह्मस्तोत्रं पुनः पुनः ॥”

स्तोभः, पुं, (स्तुभ + घञ् ।) सामावयवविशेषः । स

तु गीतालापपूरणाक्षरः । स च त्रयोदशविधो
यथा । अयं वावलोको हाउकारो १ वायुर्हा-
इकार २ श्चन्द्रमाअथकारः ३ । आत्मेहकारो ४
ऽग्निरीकारः ५ आदित्य ऊकारः ६ । निहव
एकारो ७ विश्वेदेवा औहोइकारः ८ प्रजा-
पतिर्हिकारः ९ । प्राणः स्वरी १० ऽन्नं या ११
वाग्विराङ्निरुक्त १२ स्त्रयोदशः स्तोभः सञ्चरो
हुंकारः १३ । दुग्धेऽस्मै वाग्दोहं यो वाचो
दोहोऽन्नवानन्नादो भवति य एतामेवँ साम्ना-
मुपनिषदं वेदोपनिषदंवेद । इति छान्द्योग्योप-
निषद्ब्राह्मणे प्रथमप्रपाठकः समाप्तः ॥ * ॥
अस्य भाष्यम् । भक्तिविषयोपासनं सामा-
वयवसम्बन्धमित्यतः सामावयवान्तरस्तोभाक्षर-
विषयाण्युपासनान्तराणि संहतान्युपदिश्यन्ते ।
अनन्तरं सामावयवसम्बन्धत्वाविशेषादयंवावाय
मेव लोको हाउकारः स्तोभो रथन्तरे साम्नि
प्रसिद्ध इयं वै रथन्तरमित्यस्मात् सम्बन्ध-
सामान्याद्धाउकारः स्तोभोऽयं लोक इत्येव-
मुपासीत । १ ।
वायुर्हाईकारो वामदेव्ये सामनि हाइकारः
प्रसिद्धो वाय्वप्सम्बन्धश्च वामदेव्यस्य साम्नो योनि-
रित्यस्मात् सामान्याद्धाइकारं वायुदृष्ट्यौ-
पासीत । २ ।
चन्द्रमा अथकारः चन्द्रदृष्ट्या अथकारमुपा-
सोत अन्ने हीदं स्थितमन्नात्मा चन्द्रः थकारा-
कारसामान्याच्च । ३ ।
आत्मा इह कार इहेति स्तोभः प्रत्यक्षो ह्यात्मा
इहेति व्यपदिश्वते इहेति च स्तोभः । ४ ।
तत्सामान्यादग्निरीकार इति । इ निधा-
नानि चाग्नेयानि सर्व्वाणि सामानीत्यतः । ५ ।
तत्सामान्यादादित्य ऊकारः । उच्चैरूर्द्धं
सन्तं आदित्यं गायत्त्र्युकारश्चायं स्तोभआदित्य
दैवत्ये साम्नि स्तोभ इत्यादित्य ऊकारः । ६ ।
निहव इत्याह्वानमेकारस्तोभः एहोति चाह्वय-
न्तीति । ७ ।
तत्सामान्याद्विश्वेदेवा औहोइकारो वैश्व-
देव्ये साम्नि स्ताभस्य दर्शनात् । ८ ।
प्रजापतिर्हिकार अनिरुक्ताद्धिकारस्य
चाव्यक्तत्वात् । ९ ।
प्राणः स्वरः स्वर इति स्तोभः प्राणस्य च
स्वरहेतुत्वसामान्यात् । १० ।
अन्नं या या इति स्तोभोऽन्नं अन्नेन हीदं
यातीत्यतः । ११ ।
तत्सामान्यात् वागिति स्तोभो विराडन्नं
देवताविशेषो वा वैराजे साम्नि स्तोभदर्शनात्
अनिरुक्तोऽव्यक्तत्वात् इदञ्चेदञ्चेति निर्व्वक्तुं न
शक्यत इत्यतः । १२ ।
सञ्चरो विकल्पमानस्वरूप इत्यर्थः कोऽसावि-
त्याह हुंकारीऽव्यक्तो ह्ययतोऽनिरुक्तविशेष
एवोपास्य इत्यभिप्रायः ॥ १३ ॥
स्तोभाक्षरोपासनाफलमाह । दुग्धेऽस्मै वाग्
दोहमित्याद्युक्तार्थं य एतामेवं यथोक्तलक्षणं
साम्नां सामावयवस्तोभाक्षरविषयामुपनिषदं
दर्शनं वेद तस्यैतत् यथोक्तं फलमित्यर्थः । द्विर-
भ्यासोऽध्यायपरिसमाप्त्यर्थः सामावयवविषयो
पासनाशेषः परिसमाप्त्यर्थो वेति ॥ * ॥ इति
श्रीमद्गोविन्दभगवत्पूज्यपादशिष्यस्य परम-
हंसपरिव्राजकाचार्य्यस्य श्रीमच्छङ्करभगवत्-
पादस्य कृतौ छान्दोग्योपनिषद्विवरणे प्रथमः
प्रपाठकः समाप्तः ॥ * ॥ * ॥ हेलनम् । स्तम्भ-
नम् । इति हेमचन्द्रः ॥ अपि च ।
साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा ।
वैकुण्ठनामग्रहणमशेषाघहरं विदुः ॥”
इति श्रीभागवते । ६ । २ । १४ ॥
“साङ्केत्यं पुत्त्रादौ साङ्केतितम् । पारिहास्यं परि-
हासेन कृतम् । स्तोभं गीतालापपूरणार्थे
कृतम् । हेलनं किं विष्णुनेति सावज्ञमपि च
वैकुण्ठनामोच्चारणम् ।” इति तट्टीकायां श्रीधर-
स्वामी ॥

स्तोम, त् क श्लाघने । इति कविकल्पद्रुमः ॥ अदन्त

चुरा०-पर०-सक०-सेट् ।) अतुस्तोमत् । इति
दुर्गादासः ॥

स्तोभं, क्ली, (स्तूयते इति । स्तु + “अर्त्तिस्तुसुहु-

स्रिति ।” उणा ०१ । १३९ । इति मन् ।)
मस्तकम् । धनम् । शस्यम् । लोहाग्रदण्डः ।
वक्त्रे, त्रि । इति केचित् ॥

स्तोमः, पुं, (स्तु + मन् ।) समूहः । इत्यमरः ।

२ । ५ । ३९ ॥ (यथा, उत्तररामचरिते । १ अङ्के
“ऋषोणामुग्रतपसां यमुनातीरवासिनाम् ।
लवणत्रासितः स्तोमस्त्रातारं त्वामुपस्थितः ॥”)
यज्ञः इति हेमचन्द्रः ॥ स्तवः । इति चाभरः ।
३ । ३ । २४१ ॥

स्तौपिकं, क्ली, बुद्धद्रव्यविशेषः । इति त्रिकाण्ड-

शेषः ॥ ओघा इति हिन्दी भाषा ॥

स्त्यानं, क्ली, (स्त्यै + क्तः ।) स्निग्धम् । प्रति-

ध्वानम् । घनत्वम् । (यथा, उत्तररामचरिते ।
२ अङ्के ।
“दधति कुहरभाजामत्र भल्लूकयूना-
मनुरसितगुरूणि स्त्यानमम्बूकृतानि ॥”)
आलस्यम् । इति विश्वमेदिन्यौ ॥

स्त्यानः, त्रि, संहतिकर्त्ता । ध्वनिकर्त्ता । इति

स्त्यैधातोः कर्त्तरि क्तप्रत्ययेन निष्पन्नः । इति
मुग्धबोधव्याकरणम् ॥

स्त्येनः, पुं, (स्त्यायतीति । स्त्ये + “श्यास्त्याहृञ

विभ्यैनच् ।” उणा ० २ । ४६ । इति इनच् ।)
चौरः । अमृतम् । इत्युणादिकोषः ॥

स्त्यै संहतौ । ध्वनौ । इति कविकल्पद्रुमः ॥ (भ्वा-

पर०-अक०-अनिट् ।) दन्त्यादिरन्तः स्थाद्य-
युक्ततमध्यः । स्त्यायति तिस्त्यासति । इति दुर्गा-
दासः ॥

स्त्री, स्त्री, (स्त्यायति गर्भो यस्यामिति । स्त्यै +

“स्त्यायतेः ड्रट् ।” उणा० ४ । १६५ । ड्रट् ।
डित्त्वात् टिलोपः । टित्त्वात् ङीप् ।) स्तन-
योन्यादिमती । तत्पर्य्यायः । योषित् २ अवला ३
योषा ४ नारी ५ सीमन्तिनी ६ बधूः ७ प्रतीप-
दर्शिनी ८ वामा ९ वनिता १० महिला ११
इत्यमरः । २ । ६ । २ ॥ प्रिया १२ रामा १३
जनिः १४ जनी १५ योषिता १६ जोषित् १७
जोषा १८ जोविता १९ वनिका २० महे-
लिका २१ महेला २२ । इति शब्दरत्नावली ॥
शर्व्वरी २३ सिन्दूरतिलका २४ सुभ्रूः २५ । इति
जटाधरः ॥ सुनयना २६ वामदृक् २७ अङ्गना २८
ललना २९ कान्ता ३० पुरन्ध्री ३१ वरवर्णिनी ३२
सुतनुः ३३ तन्वी ३४ तनुः ३५ कामिनी ३६
तन्वङ्गी ३७ रमणी ३८ कुरङ्गनयना ३९
भीरुः ४० भाविनी ४१ विलासिनी ४२ नित-
म्बिनी ४३ मत्तकासिनी ४४ सुनेत्रा ४५ प्रमदा
पृष्ठ ५/४३६
४६ सुन्दरी ४७ अञ्चितभ्रूः ४८ ललिता ४९
वासिता ५० भामिनी ५१ वरारोहा ५२
नताङ्गी ५३ त्रिनता ५४ वरा ५५ श्यामा ५६
चारुवर्द्धना ५७ । इति राजनिर्घण्टः ॥ * ॥
सा चतुर्व्विधा । पद्मिनी १ चित्रिणी २ शङ्खिनी
३ हस्तिनी ४ । तासां लक्षणानि यथा, --
“भवति कमलनेत्रा नासिकाक्षुद्ररन्ध्रा
अविरलकुचयुग्मा दीर्घकेशी कृशाङ्गी ।
मृदुवचनसुशीला नृत्यगीतानुरक्ता
सकलतनुसुवेशा पद्मिनी पद्मगन्धा ॥ १ ॥
भवति रतिरसज्ञा नातिदीर्घा न खर्व्वा
तिलकुसुमसुनासा स्निग्धदेहोत्पलाक्षी ।
कठिनघनकुचाढ्या सुन्दरी सा सुशीला
सकलगुणविचित्रा चित्रिणी चित्रवक्त्रा ॥ २ ॥
दीर्घा सुदीर्घनयना वरसुन्दरी या
कामोपभोगरसिका गुणशीलयुक्ता ।
रेखात्रयेण च विभूषितकण्ठदेशा
सम्भोगकेलिरसिका किल शङ्खिनी सा ॥ ३ ॥
स्थूलाधरा स्थूलनितम्बभागा
स्थूलाङ्गुली स्थूलकुचा सुशीला ।
कामोत्सुका गाढरतिप्रिया च
नितम्बखर्व्वा खलु हस्तिनी सा ॥ ४ ॥
पद्मिनी पद्मगन्धा च मीनगन्धा च चित्रिणी ।
शङ्क्षिनी क्षारगन्धा च मदगन्धा च हस्तिनी ॥
शशके पद्मिनी तुष्टा मृगे तुष्टा च चित्रिणी ।
वृषभे शङ्खिनी तुष्टा हये तुष्टा च हस्तिनी ॥
पद्मिनी शशयोर्योनिमेढ्रकौ चतुरङ्गुलौ ।
चित्रिणीमृगयोर्योनिमेढ्रकौ च तथाविधौ ॥
शङ्खिनीवृषयोरष्टाङ्गुलौ तावेव सम्मतौ ।
हस्तिनीवाजिनोरेव तावेव द्वादशाङ्गुलौ ॥” ॥
तस्या अवस्था यथा, --
“आ षोडशात् भवेद्बाला तरुणी त्रिंशता मता ।
पञ्चपञ्चाशतं यावत् प्रौढा वृद्धा ततः परम् ॥”
इति रसमञ्जरी ॥ * ॥
“बाला तु प्राणदा प्रोक्ता युवती प्राणधारिणी
प्रौढा करोति वृद्धत्वं वृद्धा मरणमादिशेत् ॥
निदाघशरदोर्ब्बाला प्रौढा वर्षावसन्तयोः ।
हेमन्ते शिशिरे योग्या न वृद्धा क्वापि शस्यते ॥
नार्त्तवे षोडशाद्वर्षात् सप्तत्याः परतो न च ।
आयुःकामो नरः स्त्रीभिः संयोगं कर्त्तुमर्हति ॥
त्रिभिस्त्रिभिरहोभिश्च सेवेत प्रमदां नरः ।
सर्व्वेष्वृतुषु ग्रीष्मेषु पक्षान्मासाद्व्रजेद्वुधः ॥
पञ्चपञ्चाशतो नारी सप्तसप्ततितः पुमान् ।
द्वावेतौ न प्रसूयेते प्रसूयेते विपर्य्ययात् ॥”
इति राजवल्लभे रात्रिकृत्यम् ॥ * ॥
स्त्रियाः शुभाशुभलक्षणानि यथा, --
श्रीहरिरुवाच ।
“यस्यास्तु कुञ्चिताः केशा मुखञ्च परिमण्डलम्
नाभिश्च दक्षिणावर्त्ता मा कन्या कुलवद्धिनी ॥
या च काञ्चनवर्णाभा रक्तहस्तसरोरुहा ।
सहस्राणान्तु नारीणां भवेत् सापि पतिव्रता ॥
वक्रकेशा च या कन्या मण्डलाक्षिई च या भवेत्
भर्त्ता च म्रियते तस्या नियतं दुःखभागिनी ॥
पूर्णचन्द्रमुखी कन्या बालसूर्य्यसमप्रभा ।
विशालनेत्रा विम्बौष्ठी सा कन्या लभते सुखम ॥
रेखाभिर्ब्ब हुभिः क्लेशं स्वल्पाभिर्धनहीनताम् ।
रक्ताभिः सुखमाप्नोति कृष्णाभिः प्रेष्यतां व्रजेत् ॥
कार्य्येऽपि मन्त्री पत्नी स्यात् सखी स्यात्
करणेषु च ।
स्नेहेषु भाय्या माता स्यात् वेश्या च शयने
शुभा ॥
अङ्कुशं कुण्डलं चक्रं यस्याः पाणितले भवेत् ।”
पुस्तकान्तरे चक्रं स्थाने छत्रमिति च पाठः ।
“पुत्त्रं प्रसूयते नारी नरेन्द्रं लभते पतिम् ॥
यस्यास्तु रोमशौ पार्श्वौ रोमशौ च पयोधरौ ।
उन्नतौ चाधरौष्ठौ च क्षिप्रं मारयते पतिम् ॥
यस्याः पाणितले रेखा प्राकारं तोरणं भवेत् ।
अपि दासकुले जाता राज्ञीत्वमुपगच्छति ॥
उद्वृत्तकपिला यस्या रोमराजी निरन्तरम् ।
अपि राजकुले जाता दासीत्वमुपजायते ॥
यस्या अनामिकाङ्गुष्ठौ पृथिव्यां नैव तिष्ठतः ।
पतिं मारयते क्षिप्रं स्वातन्त्य्रेणैव वर्त्तते ॥
यस्या गमनंमात्रेण भूमिकम्पः प्रजायते ।
पतिं मारयते क्षिप्रं म्ले च्छाचारेण वर्त्तते ॥
चक्षुःस्नेहेन सौभाग्यं दन्तस्नेहेन भोजनम् ।
त्वचः स्नेहेन शय्याञ्च पादस्नेहेन वाहनम् ॥
स्निग्धोन्नतौ ताम्रनखौ नार्य्याश्च चरणौ शुभौ ।
मत्स्याङ्कुशाब्जचिह्नौ च चक्रलाङ्गललक्षितौ ॥
अस्वेदिनौ मृदुतलौ प्रशस्तौ चरणौ स्त्रियाः ।
शुभे जङ्घे विरोमे च उरू हस्तिकरोपमौ ॥
अश्वत्थपत्रसदृशं विपुलं गुह्यमुत्तमम् ।
नाभिः प्रशस्ता गम्भीरा दक्षिणावर्त्तिका शुभा
अरोमा त्रिवली नार्य्या हृत्स्तनौ रोमवर्जितौ ॥
इति गारुडे नरस्त्रोलक्षणम् ६४ अध्यायः ॥
तस्याश्चरित्रं यथा, --
“विषकुम्भाकाररूपाममृतास्याञ्च सन्ततम् ।
हृदये क्षुरधाराभां शश्वन्मधुरभाषिणीम् ॥
स्वकार्य्यपरिनिष्पन्नतत्परां सततं सदा ।
स्वान्तर्मलिनरूपाञ्च प्रसन्नवदनेक्षणाम् ॥
श्रुतौ पुराणे यासाञ्च चरित्रमनिरूपितम् ।
तासु को विश्वसेत् प्राज्ञः अप्राज्ञाञ्च दुराशयाम् ॥
तासां को वा रिपुर्म्मित्रं प्रार्थयन्ती नवं नवम्”
दृष्ट्वा सुवेशं पुरुषमिच्छन्ती हृदये सदा ॥
बाह्ये स्वात्मसतीत्वञ्च पापयन्ती प्रयत्नतः ।
शश्वत्कामाञ्च वामाञ्च कामाधारां मनोहराम् ॥
बाह्ये भावं छादयन्तीं स्वान्तर्म्मैथुनमानसाम् ।
कान्तं ग्रसन्तीं रहसि वाह्येऽतीव सुलज्जिताम् ॥
मानिनीं मैथुनाभावे कोपनां कलहाङ्कुराम् ।
सुप्रीतां भूरिसंयोगात् स्वल्पमैथुनदुःखिताम् ॥
सुमिष्टान्नात् शौततोयादाकाङ्क्षन्तीञ्च मानसः ।
सुन्दरं रसिकं कान्तं युवानं गुणिनं सदा ॥
सुतात् परमपि स्नेहं कुर्व्वतीं रतिकर्त्तरि ।
प्राणाधिकं प्रियतमं सम्भोगकुशलं प्रियम् ।
पश्यन्तीं रिपुतुल्यञ्च वृद्धं वा मैथुनाक्षमम् ।
कलहं कुर्व्वतीं शश्वत् तेन सार्द्धं सुकोपनाम् ॥
चर्च्चया भक्षयन्तीं तं कीनाश इव गोजरम् ।
दुःसाहसस्वरूपाञ्च सर्व्वदोषाश्रयां सदा ॥
शश्वत् कपटरूपाञ्च दुःसाध्यमप्रतीतकाम् ।
ब्रह्मविष्णुशिवादीनां दुस्त्याज्यां मोहकारि-
णीम् ॥
तपोमार्गार्गलां शश्वत् मुक्तिमार्गकपाटिकाम् ।
हरेर्भक्तिव्यवहितां सर्व्वमायाकरण्डिकाम् ॥
संसारकारागारे च शश्वन्निगडरूपिणीम् ।
इन्द्रजालस्वरूपाञ्च मिथ्यातिस्वप्लरूपिणीम् ॥
बिभ्रतीं बाह्यसौन्दर्य्यमधोऽङ्गमतिकुत्सितम् ।
लालाविण्मूत्रपूयानामाधारं मलसंयुतम् ।
दुर्गन्धिदोषसंयुक्तं रक्ताक्तकमसंस्कृतम् ॥
मायारूपां मायिनाञ्च विधिना निर्म्मितां पुरा
विषरूपां मुमुक्षूणामदृश्यामप्यवाञ्छिताम् ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १६ अध्यायः ॥ * ॥
तस्या निन्दा यथा, --
“दुर्निवार्य्यश्च सर्व्वेषां स्त्रीस्वभावश्च चापलः ।
दुस्त्याज्यं योगिभिः सिद्धै रस्माभिश्च तपस्विभिः ॥
जितेन्द्रियैर्जितक्रोधैः स्त्रीरूपं मोहकारणम् ।
सर्व्वमायाकरण्डञ्च कामवर्द्धनकारणम् ॥
ब्रह्मास्त्रं कामदेवस्य दुर्भेद्यं जयकारणम् ।
सुनिर्म्मितञ्च विधिना सर्व्वाद्यं ब्रह्मपूर्व्वजम् ॥
मोक्षद्वारकवाटञ्च हरिभक्तिविरोधनम् ।
संसारबन्धनस्तम्भरज्जुरूपमकृन्तनम् ॥
वैराग्यनाशबीजञ्च शश्वद्रागविवर्द्धनम् ।
पत्तनं साहसानाञ्च दोषाणामालयं सदा ॥
अप्रत्ययानां क्षेत्रञ्च स्वयं कपटमूर्त्तिमत् ।
अहङ्काराश्रयं शश्वद्विषकुम्भं सुधामुखम् ॥
सर्व्वैरसाध्यमानञ्च दुराराध्यञ्च सर्व्वदा ।
स्वकार्य्यसाध्यं चाराध्यं कलहाङ्कुरकारणम् ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे । ६ । ५५ -- ६१ ॥
स्त्रीससर्गयुक्तपुंदर्शननिषेधो यथा, --
“रहःस्थलनियुक्तश्च न दृश्यः स्त्रीयुतः पुमान् ।
स्त्रीसंसक्तञ्च पुरुषं य पश्यति नराधमः ॥
करोति रसभङ्गं वा कालसूत्रं व्रजेत् ध्रुवम् ।
तत्र तिष्ठति पापीयान् यावच्चन्द्रदिवाकरौ ॥
विशेषतश्च पितरं गुरुं वा भूमिपं द्विज ।
रहःसु रतिसंसक्तं न हि पश्येद्विचक्षणः ॥
कामतः कोपतो वापि यः पश्येत्सुरतोन्मुखम् ।
स्त्रीविच्छेदो भवेत्तस्य ध्रवं सप्तसु जन्मसु ॥
श्रीणीं वक्षःस्थलं वक्त्रं यः पश्यति परस्त्रियाः ।
कामतो वापि मूढश्च पण्डो भवति निश्चितम् ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे । ४२ । १० -- १४ ॥
सा च त्रिभी रक्षितव्या यथा, --
“स्त्रीजातिरवला शश्वद्रक्षणीया स्वबन्धुभिः ।
जनकस्वामिपुत्त्रैश्च गर्हितान्यैश्च निश्चितम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । ४ । १९ ॥ * ॥
अपि च ।
“पिता रक्षति कौमारे भर्त्ता रक्षति यौवने ।
पुत्त्रश्च स्याविरे रक्षेत् न स्त्री स्वातन्त्र्यमर्हति ॥”
इति दायतत्त्वम् ॥ * ॥
पृष्ठ ५/४३७
अन्यच्च ।
“कौमारे रक्षिता तातो दत्त्वा पात्राय सत्कृती
सर्व्वदा रक्षिता कान्तस्तदभावे च तत्सुतः ॥
त्रिष्ववस्थासु नारीणां रक्षितारस्त्रयः सदा ।
याः स्वतन्त्राश्च ता नष्टाः सर्व्वधर्म्मबहिस्कृताः ॥
असत्कुलप्रसूतास्ताः कुलटा दुष्टमानसाः ।
शतजन्मकृतं पुण्यं तासां नश्यति पद्मज ! ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । १७ । ८२-८४
अपरञ्च ।
“रक्षेत् कन्यां पिता बाल्ये यौवने पतिरेव ताम् ।
वार्द्धके रक्षते पुत्त्रो ह्यनाथां ज्ञातयस्तथा ॥
पतिं विना न तिष्ठेत दिवा वा यदि वा निशि ॥”
इति गारुडे । ९५ । ३१ -- ३२ ॥ * ॥
सा सूर्य्यैरपि अदृश्या कर्त्तव्या । यथा, --
“परस्पृष्टा च या नारी या स्पृहां कुरुते परम् ।
सापि दुष्टा परित्याज्या चेत्याह कमलोद्भवः ॥
तस्मान्नारी परैर्यत्नाददृष्टा कृतिभिः कृता ।
असूर्य्यम्पश्या या रामाः शद्धास्ताश्च पतिव्रताः ॥
स्वच्छन्दगामिनी या च स्वतन्त्रः शूकरीसमा ।
अन्तर्दुष्टा सदा सैव निश्चितं परगामिनी ॥
स्वामिसाध्या च या नारीकुलधर्म्मभिया स्थित ॥
कान्तेन सार्द्धं सा कान्ता वैकुण्ठं याति
निश्चितम् ॥”
इतिब्रह्मवैवर्त्तेश्रीकृष्णजन्मखण्डे १८ । ११६-११९
तस्यामानावमानयोर्गुणदोषौ यथा, --
“पदे पदे शुभं तस्य यः स्त्रीमानञ्च रक्षति ।
अवमन्य स्त्रियं मूढो यो याति पुरुषाधमः ।
पदे पदे तदशुभं करोति पार्व्वती सती ॥”
इति ब्रह्मवैवर्त्तेश्रीकृष्णजन्मखण्डे ३२ अध्यायः ॥
उपयाचिकास्त्रीत्यागे दोषो यथा, --
मोहिन्युवाच ।
“इङ्गितेनैव नारीणां सद्यो मत्तो भवेत् पुमान्
करोत्याकृष्य सम्भोग यः स एवोत्तमो विभो ॥
ज्ञात्वा स्फुटमभिप्रायं नार्य्या संप्रेरितो हि यः
पश्चात् करोति शृङ्गारं पुरुषः स च मध्यमः ॥
पुनः पुनः प्रेरितश्च स्त्रिया कामार्त्तया च यः ॥
तया न लिप्तो रहसि स क्लीवो न पुमानहो ॥
गृही तपस्वी कामी वा त्यजेत् स्त्रियमुपस्थिताम्
व्रजेत् षरत्र नरकमपूज्यश्च भवेदिह ॥
भ्रष्टश्रीर्भ्रष्टरूपश्च भ्रष्टदर्पो भवेद्ध्रुवम् ।
स सद्यः क्लीवतां याति व्रह्मन् शापेन योषितः ॥
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । ३३ । ३-७ ॥
परस्त्रीसङ्गदोषो यथा, --
“सदापकीर्त्ति र्व्वसति परस्त्रीषु च वस्तुषु ।
तस्मात्ते नैव गृह्णन्ति सन्तः स्वक्लेशकारणे ॥
स्मर मामन्तरे बाह्ये मदीयं विषयं कुरु ।
अतस्तेन मनो लोलं भविता परवस्तुषु ॥
योषिद्रुपा च मे माया सर्व्वेषां मोहकारिणी ।
लोलया कुरुते मोहं स्वात्मारामस्य सन्ततम् ॥
नृणां मूत्राश्रये देशे रागिणां सन्ततं रतिः ।
स्तनाभिधे मांसपिण्डेऽधरे लालालयेऽशुचौ ॥
मोणी वक्त्रं स्तनं तासां क्रामदेवालयं सदा ।
तस्मात्ता न हि पश्यन्ति सन्तो हि धर्म्मभीरवः ॥
को धर्म्मः किं यशस्तेषां का प्रतिष्ठा च किन्तपः ।
किं बुद्धिर्विद्या ज्ञानञ्च परस्त्रीषु च यन्मनः ॥
इहाप्यपयशो दुःखं नरकेषु परत्र च ।
वासः प्रहारस्तेषाञ्च ताडनैः कृमिभक्षणैः ॥
दुःखबीजं सुखं मत्वा मूढाश्च दैवदोषतः ।
परस्त्रीसेवणं प्रीत्या कुर्व्वन्ति सततं मुदा ॥
उत्तमा मत्पदाम्भोजं मत्कर्म्म मध्यमाः सदा ।
स्मरन्ति शश्वदधमाः परस्त्रोसेवनं मुदा ॥
विपत्तिः सन्ततं तस्य परवस्तुषु यम्मनः ।
विशेषतः परस्त्रोषु सुवर्णेषु च भूमिषु ॥
दैवाल् परस्त्रियं दृष्ट्वा विरमेद्यो हरिं स्मरन् ।
स्पृष्ट्वा परसुवर्णञ्च हस्तप्रक्षालनाच्छुचिः ॥
सन्ततं नातिसंसक्ताः सन्तः स्त्रीषु च कामन्तः ।
यक्ष्मव्याधिज्ञानहानिलोकनिन्दाभयेन च ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखन्दे । ३५ । ७८-८९ ॥
सभर्त्तृकायास्तु व्रतोपवासादिः पृथङ्निषिद्धो
मनुना यथा, --
“नास्ति स्त्रीणां पृथक् यज्ञो न व्रतं नाप्युपोषणम्
पतिं शुश्रूषते यत्तु तेन स्वर्गे महीयते ॥”
विष्णुनापि भर्त्तुः समानव्रतचारित्वमित्युक्तम् ।
समानव्रतचारित्वं भर्त्तृव्रताचरणे तदानुकूल्य-
कारित्वम् । यत्र तु सावित्रीव्रतादौ विशेषविधि
स्तत्र भर्त्रनुज्ञया पृथगपि । यथा शङ्कः ।
कामं भर्त्तुरनुज्ञया व्रतोपवासनियमेज्यादी-
नामभ्यासः स्त्रीधर्म्म इति । यत्तु ।
“पत्यौ जीवति या नारी उपोष्य व्रतमाचरेत् ।
आयुः संहरते पत्युः सा नारी नरकं व्रजेत् ॥
इति विष्णूक्तं तदनुज्ञातविषयम् । इत्येकादशी
तत्त्वम् ॥ * ॥ स्त्रीधर्म्मादि यथा, --
“या स्त्री भर्त्तुरसौभाग्या सा सौभाग्या च
सर्व्वतः ।
शयने भोजने तस्या न सुखं जीवनं वृथा ॥
यस्या नास्ति प्रियप्रेम तस्या जन्म निरर्थकम् ।
तत् किं पुत्त्रं धने रूपे सम्पत्तौ यौवनेऽथवा ॥
यद्भक्तिर्नास्ति कान्ते च सर्व्वप्रियतमे परे ।
साशुचिर्धर्म्महीना च सर्व्वकर्म्मविवर्ज्जिता ॥
पतिर्बन्धुर्गतिर्भर्त्ता दैवतं गुरुरेव च ।
सर्व्वस्माच्च गुरुः स्वामी न गुरुः स्वामिनः परः ॥
पिता माता सुतो भ्राता क्लिष्टो दातुमिदं धनम्
सर्व्वस्वदाता स्वामी च सूढानां योषितां सुराः
काचिदेव हि जानाति महासाध्वी च
स्वामिनम् ।
अतिसद्वंशजाता च सुशीला कुलपालिका ॥
असद्वंशप्रसूता या दुःशीला धर्म्मवर्ज्जिता ।
मुखदुष्टा योनिदुष्टा पतिं निन्दति कोपतः ॥
या स्त्री द्वेष्टि सर्व्वपरं पतिं विष्णुसमं गुरुम् ।
कुम्भीपाके पतति सा यावदिन्द्राश्चतुर्द्दश ॥
व्रतं चानशनं दानं सत्यं पुण्यं तपश्चिरम् ।
पतिभक्तिविहीनाया भस्मीभूतं निरर्थकम् ॥
अतः किञ्चिन्न वक्ष्यामि निष्ठुरं पतिमीश्वरम् ।
भृत्वापराधैर्दैवेन प्राणांस्त्यक्ष्यामि निश्चितम् ॥
पतिदोषे महासाध्वी पतिं न निष्ठुरं वदेत् ।
यदि सोढुमशक्ता च पाणां स्त्यजति धर्म्मतः ॥
पतिसेवा व्रतं स्त्रीणां पतिसेवा परं तपः ॥
पतिसेवा परो धर्म्मः पतिसेवा सुरार्च्चनम् ।
पतिसेवा परं सत्यं दानतीर्थानुतीर्थकम् ॥
सर्व्वदेवमयः स्वामी सर्व्वदेवमयः शुचिः ।
सर्व्वपुण्यस्वरूपश्च पतिरूपी जनार्द्दनः ॥
या सती भर्त्तुरुच्छिष्टं भुङ्क्ते पादोदकं सदा ।
तस्या दर्शमुपस्पर्शं नित्यं वाञ्छन्ति देवताः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । ४७ । ७-२० ॥
अपिच ।
“भर्त्ता हि दैवतं स्त्रीणां भर्त्ता च गतिरुच्यते ।
जीवपत्याः स्त्रियो भर्त्ता दैवतं प्रभुरेव च ॥
या धर्म्मचारिणी नारी पतिव्रता परायणा ।
नानुवर्त्तति भर्त्तारं सा सद्भिर्न प्रशस्यते ॥
पतिव्रता भर्त्तृपरा नारी भर्त्तृपरायणा ।
इह कीर्त्तिं परां प्राप्य प्रेत्य स्वर्गे महीयते ॥
भर्त्तुश्चितानुगामिन्या देवाराधनशीलया ।
गार्हस्थ्यधर्म्मरतया भर्त्ता सेव्यस्त्विह त्वया ॥”
इति वह्निपुराणम् ॥ * ॥
गृहिणीधर्म्मा यथा, --
“गृहिणीनां सदाचारं श्रूयतां यत् श्रुतौ श्रुतम् ।
गृहिणी पतिभक्ता च देवब्राह्मणपूजिता ॥
सा शुद्धा प्रातरुत्थाय नमस्कृत्य पतिं सुरम् ।
प्राङ्गणे मण्डलं दद्यात् गोमयेन जलेन च ॥
गृहकृत्यञ्च कृत्वा च स्नात्वागत्य गृहं सती ।
सुरं विप्रं पतिं नत्वा पूजयेत् गृहदेवताम् ॥
गृहकृत्यं सुनिव्वृत्य भोजयित्वा पतिं सती ।
अतिथिं पूजयित्वा च स्वयं भुङ्क्ते सुखं सती ॥”
इतिब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । ८४ । १३-१६ ॥
स्त्रीणां त्रैविध्यं यथा, --
“उत्तमा पतिभक्ता सा किञ्चिद्वर्म्मसमन्विता ।
प्राणान्तेऽपि न कुरुते तं जारमयशस्करम् ॥
पूजयेत् सा यथा कान्तं तथा देवद्विजातिथिम् ।
व्रतानि चोपवासांश्च कुरुते सर्व्वपूजनम् ॥
गुरुणा रक्षिता यत्नात् जारञ्च न भजेत् भयात्
सा कृत्तिमा मध्यमा च यथाकिञ्चितपतिं व्रजेत्
स्थानं नास्ति क्षणं नास्ति नास्ति प्रार्थयिता नरः
तेन हे नन्द तासाञ्च सतीत्वमुपजायते ॥
अधमा परमा दुष्टात्यन्तासद्वंशजा तथा ॥
अधर्म्मशीला दुःशीला दुर्म्मुखा कलहप्रिया ॥
पतिं भर्त्सयते नित्यं जारञ्च सेवयेत् सदा ।
दुःखं ददाति कान्ताय विषतुल्यञ्च पश्यति ॥
जारद्वारमुपायेन हन्ति कान्त मनोहरम् ॥”
जारद्वारं स्थाने आयद्वारमिति पाठः ।
“ददाति भर्त्त्रे नाहारं विषोक्तिं वक्ति सन्ततम् ।
धर्म्मिष्ठञ्च वरिष्ठञ्च गरिष्ठञ्च महीतले ॥
कामदेवसमञ्चापि जारं पश्यति कामतः ।
शुभट्टष्ट्या कटाक्षेण शश्वत्पापीयसी मुदा ॥
सुवेशं पुरुषं दृष्ट्वा युवानं रतिशूरकम् ।
योनिः क्लिद्यति नारीणां कामुकीनां निरन्तरम्
अधर्म्मं चिन्तयेत् शश्वत् जारञ्च परमं मदा ॥
पृष्ठ ५/४३८
गुरुभिर्भर्त्सिता सा च रक्षिता च शतेन च ।
तथापि जारं कुरुते नापि साध्या नृपैरपि ॥
नास्ति तस्याः प्रियं किञ्चित् सर्व्व कार्य्यवशेन च
गावस्तृणमिवारण्ये प्रार्थयन्ती नबं नवम् ॥
विद्युद्भासा जले रेखा तस्याः प्रीतिस्तथैव च ।
अधर्म्मयुक्ता सततं कपटं वक्ति निश्चितम् ॥
व्रते तपसि धर्म्भे च न मनो गृहकर्म्मणि ।
न गुरौ न च देवेषु जारे म्निग्धञ्च चञ्चलम् ॥
स्त्रीजातित्रिविधानाञ्च कथा च कथिता मया ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । ८४ । २६-४०
स्त्रीसंसर्गे दोषो यथा, --
सनत्कुमार उवाच ।
“अयि भ्रातः किं करोषि कुशलं युवतीपते ।
स्त्रीपुंसोर्व्वर्द्धते प्रेम नित्यं तन्नित्यनूतनम् ॥
अर्गलं ज्ञानमार्गस्य भक्तिद्बारकपाटकम् ।
मोक्षमार्गव्यवहितं चिरं वन्धनकारणम् ॥
गर्भ वासस्य बीजञ्च परं नरककारणम् ।
पीयूषबुद्ध्या गरलं भुङ्क्ते पापी नराधमः ॥”
इति च तत्रैव । १३० । ३१ -- ३३ ॥ * ॥
स्त्रीणां स्वभावा यथा, --
“स्त्रीस्वभावं चरित्रञ्च आश्चर्य्यं पापकारकम् ॥
क्षणं नास्ति रहो नास्ति नास्ति कृत्ये विभावना
तेन नारद नारीणां सतीत्वमुपजायते ॥
एकवासा तथा गौरी श्यामा वा वरवर्णिनी ।
मध्यगण्डा प्रगलभा च वयोऽतीतास्तथा स्त्रियः
सुरूपं पुरुषं दृष्ट्वा क्षरन्ति भुनिसत्तम ।
स्वभाव एष नारीणां शाम्बस्य शृणु कारणम् ॥”
इति वाराहे सूर्य्यप्रतिष्ठाननामाध्यायः ॥ * ॥
अपि च ।
“विद्याघातो ह्यनभ्यासः स्त्रीणां घातः कुचेलता
व्याधीनां भोजनं जीर्णं शत्रोर्घातः प्रगल्भता
तस्करस्य वधो दण्डः कुमित्रस्याल्पभाषणम् ।
पृथक् शय्या तु नारीणां ब्राह्मणस्यानिमन्त्रिता
दुर्ज्जनाः शिल्पिनो दासा दुष्टाश्च पटहाः
स्त्रियः ।
ताडिता मार्दवं यान्ति न ते सत्कारभाजनाः ॥
जानीयात् प्रेषणे भृत्यान् बान्धवान्व्यसनागमे ।
मित्रञ्चापदि काले च भार्य्याञ्च विभवक्षये ॥
स्त्रीणां द्विगुणमाहारः प्रज्ञा चैव चतुर्गुणा ।
षड्गुणो व्यवसायश्च कामाश्चाष्टगुणाः स्मृताः ॥
न स्वप्ने न जयेन्निद्रां न कामेन स्त्रियं जयेत् ।
न चेन्धनैर्ज्जयेद्वह्निं न मद्येन तृषां जयेत् ।
समांसभोजनैः स्निग्धैर्म्मद्यैः सीधुसुरासवैः ।
वस्त्रैर्म्मनोहरैर्म्माल्यैः कामः स्त्रीषु विजृम्भते ॥
ब्रह्मचार्य्येव वक्तव्यः प्राप्तं मन्मयचेष्टितम् ।
हृद्यं हि पुरुषं दृष्ट्वा योनिः प्रहृष्यते स्त्रियाः ॥
सुवेशं पुरुषं दृष्ट्वा भ्रातरं यदि वा सुतम् ।
मुरुं वा भिक्षुकं वाढ्यमिच्छन्ति सततं स्त्रियः ॥
नद्यश्च नार्य्यश्च समस्वभावाः
स्वतन्त्रता वेगबलाधिकञ्च ।
तोयैश्च दोषेश्च निपातयन्ति
नद्यो हि कूलानि कुलानि नार्य्यः ॥
नदी पातयते कूलं नारी पातयते कुलम् ।
नारीनाञ्च नदीनाञ्च स्वच्छन्दललिता गतिः ॥
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्व्वभूतानां न पुंसां वामलोचना ॥
मनोऽनुकूलाः प्रमदा रूपवत्यः स्वलङ्कृताः ।
वासः प्रासादपृष्ठेषु स्वर्गः स्याच्छुभकर्म्मणः ॥
न दानेन न मानेन नार्ज्जवेन न सेवया ।
न शस्त्रेण न शास्त्रेण सर्व्वदा विषमाः स्त्रियः ॥
इति गारुडे १०९ अध्यायः ॥ * ॥
स्त्रीवधनिषेधो यथा, --
“अवध्याञ्च स्त्रियं प्राहुस्तिर्य्यग्योनिगतेष्वपि ।
स त्वं सुपृथिवोपाल न धर्म्मं त्यक्तुमर्हसि ॥”
इति वह्निपुराणे पृथोरुपाख्याननामाध्यायः ॥
स्त्रीणामात्मदाने अस्वातन्त्र्य यथा, --
“ततोऽब्रवीच्चाप्यवजा नाहंत्वां पार्थिवात्मज ।
दातुं शक्ता तथात्मानं स्वतन्त्रा न हि योषितः ॥”
इत्युपक्रम्य ॥
“विश्वकर्म्मसुता माध्वी नाम्ना चित्राङ्गदाभवत् ।
सा कदाचिन्महारण्यं सखीभिः परिवारिता ।
जगाम नैमिषं नाम स्नातुं कमललोचना ।
सा स्नातुमवतीर्णा च अथाभ्यागान्नरेश्वरः ॥
सुदेवतनयो धीमान् सुरथो नाम नामतः ।
तां ददर्श च तन्वङ्गीं शुभाङ्गीं मदनातुरः ॥
संवृत्तः सा सखीं प्राह वचनं सत्त्वसंयुता ।
असौ नराधिपसुतो मदनेन कदर्थ्यते ।
मदर्थञ्च क्षमं मेऽस्य स्वप्रदानं सुरूपिणः ॥
सख्यस्तामब्रुवन् बाले न प्रगल्भासि सुन्दरि ।
न स्वातन्त्र्यं तवास्तीह प्रदाने स्वात्मनोऽनघे ॥
पिता तवास्ति धर्म्मिष्ठः सर्व्वशिल्पविशारदः ।
न ते युक्तमिहात्मानं दातुं नरपते स्वयम् ॥”
इति वामनपुराणे ६० अध्यायः ॥ * ॥
स्त्रीणां मध्य गुरवो यथा, --
“मातामही मातुलानी तथा मातुश्च सहोदरा ।
श्वश्रूः पितामही ज्येष्ठा धात्री च गुरवः स्त्रीषु ॥
इत्युक्तो गुरुवर्गोऽयं मातृतः पितृतो द्विजाः ।
अनुवर्त्तनमेतासां मनोवाक्कायकर्म्मभिः ॥”
इत्यादि ॥
“गुरूणामपि सर्व्वेषां पूज्याः पञ्च विशेषतः ।
तेषामाद्यास्त्रयः श्रेष्ठास्तेषां माता सुपूजिता ॥
यावत् पिता च माता च द्वावेतौ निर्व्वि-
कारिणौ ।
तावत् सर्व्वं परित्यज्य पुत्त्रः स्यात्तत्परायणः ॥
माता पिता च सुप्रीतौ स्यातां पुत्त्रगुणैर्यदि ।
स पुत्त्रः सकलं धर्म्मं प्राप्नुयात्तेन कर्म्मणा ॥
नास्ति मातृसमं देवः नास्ति मातृसमं गुरुः ।
तयोः प्रत्युपकारोऽपि न कथञ्चन विद्यते ॥
तयोर्न्नित्यं प्रियं कुर्य्यात् कर्म्मणा मनसा गिरा ।
न ताभ्यामननुज्ञातो धर्म्ममन्यं समाश्रयेत् ॥”
इति कीर्म्मे उपविभागे । ११ । २७, ३१, ३४-३७ ॥
व्यभिचारिण्याः स्त्रिया निर्व्वास्यत्वं यथा, --
“हृताधिकारां मलिनां पिण्डमात्रोपसेविनीम्
परिभूतामधःशय्यां वासयेद्ब्यभिचारिणीम् ॥”
स्त्रीणां मेध्यत्वं त्याज्यत्वञ्च यथा,
“सोमः शौचं ददौ तासां गन्धर्व्वाश्च शुभां
गिंरम् ।
पावकः सर्व्वभक्षित्वं मेध्या वै योषितो ह्यतः ॥
व्यभिचारादृतौ शुद्धिर्गर्भे त्यागो विधीयते ।
गर्भभर्त्तृवधे तासां तथा महति पातके ॥
सुरापी व्याधिता द्वेष्ट्री विहर्त्तव्या ग्रियंवदा ।
भर्त्तव्या चान्यथा ह्येन ऋषयो हि भवेन्महत् ॥”
तस्याः प्रशंसा यथा; --
“यत्राविरुद्धं दम्पत्योस्यियर्गस्तत्र वर्द्धते ।
मृते जीवति वा पत्यौ या नान्यमुपगच्छति ॥
सेह कीर्त्तिमवाप्नोति मोदते चोमया सह ।
शुभां त्यजंस्तृतीयांशं दाप्यो ह्याभरणं स्त्रियाः ।
स्त्रीभिर्भर्त्तृवचः कार्य्यं एष धर्म्मः परः स्त्रियाः ॥”
स्त्रीगमनार्हकालो यथा, --
षोडशर्त्तुर्निशाः स्त्रीणां तासु युग्मासु
संविशेत् ।
ब्रह्मचार्य्येव पर्व्वण्याद्याश्चतस्रस्तु वर्ज्जयेत् ॥
एवं गच्छेत् स्त्रियं क्षामां मघां मूलञ्च वर्ज्जयेत्
लक्षण्यं जनयेदेव पुत्त्रं रोगविवर्ज्जितम् ॥
यदा कामी भवेद्वापि स्त्रीणाम्बरमनुस्मरन् ।
स्वदारनिरतश्चैव स्त्रियो रक्ष्या यतस्ततः ॥” * ॥
भूषणादिना भर्त्रादिभिः स्त्रियः पूज्या यथा, --
“भर्त्तृभ्रातृपितृज्ञातिश्वश्रूश्वशुरदेवरैः ।
बन्धुभिश्च स्त्रियः पूज्या भूषणाच्छादनाशनैः ॥
स्त्रीभिः श्वश्रूश्वशुरयोः पादवन्दनं सदा कार्य्यम्
यथा, --
“संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी ।
श्वश्रूश्वशुरयोः कुर्य्यात् पादयोर्वन्दनं सदा ॥”
प्रोषितभर्त्तृ कया क्रीडादिकं वर्ज्जनीयं यथा, --
“क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम् ।
हास्यं परगृहे यानं त्यजेत् प्रोषितभर्त्तृका ॥”
ज्येष्ठया स्त्रिया सह धर्म्मकर्म्मानुष्ठानं कर्त्तव्यम् ।
यथा, --
“ज्येष्ठां धर्म्मविधौ कुर्य्यान्न कनिष्ठां कदाचन ।
दाहयित्वाग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः ॥
आहरेद्विधिवद्दारानग्निञ्चैवाविलम्बितः ।
हिता भर्त्तुर्द्दिवं गच्छेदिह कीर्त्तिमवाप्य च ॥”
इति गारुडे । ९५ । ३२ -- ३३ ॥
चञ्चलस्त्रीणां कुलनाशकत्वं यथा, --
“लवणजलान्ता नद्यः स्त्रीभेदान्तञ्च मैथ्वनम् ।
पैशुन्यं जनवार्त्तान्तं वित्तं दुःखत्रयान्तकम् ॥
राज्यश्रीर्ब्रह्मशापान्तं हालान्तं ब्रह्मवर्च्चसम् ।
आचारं घोषवासान्तं कुलस्यान्तं स्त्रियश्चलाः ॥
सर्व्वे क्षयान्ता निचयाः पतनान्ताः समु-
च्छ्रिताः ॥”
स्त्रीनायके वासनिषेधादि यथा, --
अनायके न वस्तव्यं वस्तव्यं बहुनायके ।
स्त्रीनायके न वस्तव्यं वस्तव्यं बालनायके ॥
त्यजेद्बन्ध्यामष्टमाब्दे नवमे तु गृतप्रजाम् ।
एकादशे स्त्रीजननीं सद्यश्चाप्रियवादिनीम् ॥
अनर्थित्वान्मनुष्याणां भिया परिजनस्य च ।
पृष्ठ ५/४३९
अर्थादपेतमर्य्यादाः स्त्रियस्तिष्ठन्ति भर्त्तृषु ॥”
इति गारुडे । ११५ । ५८ -- ५९; ६२ -- ६५ ॥
स्त्रियो धन्या यथा, --
“योषितः साधु धन्यास्तास्ताभ्यो धन्यतरोऽस्ति
कः ॥”
इत्युपक्रम्य ।
“कलिः साध्विति यत् प्रोक्तं शूद्रः साध्विति
योषितः ।
तच्चाह भगवान् साधुर्धन्याश्चेति पुनः पुनः ॥
तत् सर्व्वं श्रोतुमिच्छामो न चेद्गुह्यं महामुने
इत्युक्तो मुनिभिर्व्यासः प्रहस्येदमथाब्रवीत् ॥
योषिच्छुश्रूषणं भर्त्तुः कर्म्मणा मनसा गिरा ।
कुर्व्वती समवाप्नोति तत्सालोक्यं ततो द्बिजाः ॥
नातिक्लेशेन महता तानेव पुरुषो यथा ।
तृतीयं व्याहृतं तेन मया साध्विति योषिताम् ॥”
इति विष्णुपुराणे । ६ । २ । ८२ -- ८३ ॥
वेश्यास्त्रीणां धर्म्मा यथा, --
श्रीकृष्णमहिष्य ऊचुः ।
वेश्यानामपि यो धर्म्मस्तन्नो ब्रूहि तपोधन ।
दाल्भ्य उवाच ।
यः कश्चित् शुल्कमादाय गृहमेष्यति वः सदा ।
निश्छद्मनैवोपचर्य्यः स तदान्यत्र दाम्भिकात् ॥
देवतानां पितॄणाञ्च पुण्याहे समुपस्थिते ।
गोभूहिरण्यदानानि प्रदेयानि च शक्तितः ॥
ब्राह्मणेभ्यो वरारोहाः कार्य्याणि वचनानि च ।
यच्चाप्यन्यद्व्रतं सम्यगुपदेक्ष्यामि तत्त्वतः ॥
अविचारेण सर्व्वाभिरनुष्ठेयन्तु तत् पुनः ।
संसारोत्तारणायालमेतद्वे दविदो विदुः ॥
यदा सूर्य्यदिने हस्तः पुष्यो वाय पुनर्व्वसुः ।
भवेत् सर्व्वौषधिस्नानं सम्यङ्नारी समाचरेत् ।
तदा पञ्चशरस्याथ सन्निधातृत्वमिष्यते ॥
अर्च्चयेत् पुण्डरीकाक्षमनङ्गस्यानुकीर्त्तनैः ।
कामाय पादौ संपूज्य जङ्घे वै मोहकारिणे ॥
मेढ्रं कन्दर्पनिधये कटिं प्रीतिमते नमः ।
नाभिं सौख्यसमुद्राय रामाय च तथोदरम् ॥
हृदयं हृदयेशाय स्तनावाह्लादकारिणे ।
उत्कण्ठायेति वै कण्ठमास्यमानन्दकारिणे ॥
वामांसं पुष्पचापाय पुष्पबाणाय दक्षिणम् ।
नमोऽनङ्गाय वै मौलिं विलोलायेति च ध्वजम्
सर्व्वात्मने शिरस्तद्वद्देवदेवस्य पूजयेत् ।
नमः शिवाय शान्ताय पाशाङ्कुशधराय च ॥
गदिने पीतवस्त्राय शङ्खचक्रधराय च ॥
नमो नारायणायेति कामदेवात्मने नमः
नमः शान्त्यै नमः प्रीत्यै नमो रत्यै श्रिये नमः ।
नमः पुष्टै नमस्तुष्टै नमः सर्व्वार्थसम्पदे ॥
एवं संपूज्य गोविन्दमनङ्गात्मानमीश्वरम् ।
गन्धैर्म्माल्यैस्तथा धूपैर्नैवेद्येन च भामिनी ॥
तत आहूय धर्म्मज्ञं ब्राह्मणं वेदपारगम् ।
अव्यङ्गावयववं पूज्य गन्धधूपार्च्चनादिभिः ॥
शालेयतण्डुलप्रस्थं घृतपात्रण संयुतम् ।
तस्मै विप्राय सा दद्यान्माधव प्रीयतामिति ॥
यथेष्टाहारयुक्तं वै तमेव द्विजसत्तमम् ।
रत्यर्थं कामदेवोऽयमिति चित्तेन धार्य्यताम् ॥
यद्यदिच्छति विप्रेन्द्रस्तत्तत् कुर्य्यात् विलासिनी
एवमादित्यवारेण सदा तद्व्रतमाचरेत् ।
तण्डुलप्रस्थदानञ्च यावन्मासांस्त्रयोदश ॥
ततस्त्रयोदशे मासि सम्प्राप्ते तस्य भाविनी ।
विप्रस्योपकरैर्युक्तां शय्यां दद्याविलक्षणाम् ।
सोपधानकविश्रामां स्वास्तरावरणां शुभाम् ॥
दीपिकोपानहच्छत्रं पादुकासनसंयुताम् ।
सपत्नीकमलङ्कृत्य हेमसूत्राङ्गुलीयकैः ॥
सूक्ष्मवस्त्रैः सकटकैर्धूपमाल्यानुलेपनैः ।
कामदेवं संपत्नीकं गुडकुम्भोपरिस्थितम् ॥
ताम्रपात्रासनगतं हैमं नेत्रपटावृतम् ।
सकांस्यभाजनोपेतमिक्षुदण्डसमन्वितम् ।
दद्यादेतेन मन्त्रेण तथैकां गां पयस्विनीम् ॥
यथान्तरं न पश्यामि कामकेशवयोः सदा ।
तथैव सर्व्वकामाप्तिरस्तु विष्णो सदा मम ॥
यथा न कामिनी देहात् प्रयाति तव केशव ।
तथा ममापि देवेश शरीरे त्वं कुरु प्रभो ॥
तथा च काञ्चनं देवं प्रतिगृह्य द्विजोत्तमः ।
कोऽदात् कस्मा अदादिति वैदिकं मन्त्रमी-
रयेत् ॥
ततः प्रदक्षिणीकृत्य विसर्ज्य द्विजसत्तमम् ।
शय्यासनादिकं सर्व्वं ब्राह्मणस्य गृहं नयेत् ॥
ततः प्रभृति योऽन्योऽपि रत्यर्थं गेहमागतः ।
सामान्यं सूर्य्यवारे च स संपूज्यो भवेत्तदा ॥
एवं त्रयोदशं यावत् मासमेकं द्विजोत्तमम् ।
तर्पयीत यथाकालं प्रोषितेऽन्यं समाचरेत् ॥
तदनुज्ञारूपवन्तं यावदस्यागमो भवेत् ।
आत्मनोऽपि तथा विघ्नं गर्भसूतकराजसम् ॥
दैवं वा मानुषं वा स्यादुपरागेण वा ततः ।
साचारानिष्टयशसो यथाशक्त्या समाचरेत् ॥
एतद्वः कथितं सम्यग्भवतीनां विशेषतः ।
स्वधर्म्मोऽयं यतो भाव्यो वेश्यानामिह सर्व्वदा ॥
पुरहूतेन यत् प्रोक्तं दानवीषु पुरा मया ।
तदिदं साम्प्रतं सर्व्वं भवतीष्वपि युज्यते ॥
सर्व्वपापप्रशमनमनन्तफलदायकम् ।
कल्याणिनीनां कथितं कुरुध्वञ्च वरानना ॥
करोति याशेषमखण्डमेतत्
कल्याणिनी माधवलोकसस्था ।
सा पूजिता देवगणैरशेषै-
रानन्दकृत् स्थानमुपैति विष्णोः ॥
तपोधनः सोऽप्यभिधाय चैत-
दनङ्गदानव्रतमङ्गनानाम् ।
स्वस्थानमेष्यत्यनु ताः समस्त-
मित्थं करिष्यन्ति च वेदयोने ॥”
इति मत्स्यपुराणेऽनङ्गदानव्रतम् । ७० । ३० -- ६४
स्त्रीरोगनाशकाद्यौषधं यथा, --
द्धरिरुवाच ।
“एकं पुनर्नवामूलं अपामार्गस्य वा शिव ।
सरसं योनिविक्षिप्तं वराङ्गस्य व्यथां हरेत् ॥
प्रसूतिवेदनाञ्चै व तरुणीनां व्यथां हरेत् ॥
भूमिकुष्माण्डमूलं वै शालितण्डुलवारिणा ।
सप्ताहं दुग्धपीतं स्यात् स्त्रीणां बहुपयस्करम् ॥
रुद्रेन्द्रवारुणीमूललेपात् स्त्री स्तनवेदना ।
नस्येत् घृतविपक्वा च कार्य्यावल्यन्तु पालिका ।
भक्षिता सा महेशान योनिशूलं विनाशयेत् ॥
प्रलेपिता कारवेल्लमूलेनैव विनिर्गता ।
योनिः प्रवेशमायाति नात्र कार्य्या विचारणा ॥
नीलीपटोलमूलानि साज्यानि तिलवारिणा ।
पिष्टांन्येषां प्रलेपो वै ज्वालागर्भगरोगनुत् ॥
पाठामूलं रुद्रपीतं पिष्टं तण्डुलवारिणा ।
पापरोगहरं स्याच्च कुष्ठपानन्तथैव च ॥
वाप्योदकञ्च समधु पीतमन्तर्गतस्य वै ।
पापरोगस्य सन्तापनिवृत्तिं कुरुते शिव ॥
कदलीलिकुचं पीतं पिष्ट्वा तण्डुलवारिणा ।
स्त्रीणाञ्चै व महादेव रक्तसावं हि वारयेत् ॥
घृततुल्या रुद्र लाक्षा पीता क्षीरेण वै सह ।
प्रदरं हरते रोगं नात्र कार्य्या विचारणा ॥
द्विजयष्टीत्रिकटुकं चूर्णं पीतं हरेच्छिव ।
तिलक्वाघेन संयुक्तं रक्तगुल्मं स्त्रिया हर ॥
कुसुमस्य निवद्धञ्च तरुणीनां महेश्वर ।
रक्तोत्पलस्य वै कन्दं शर्करातिलसंयुतम् ॥
पीतं सशर्करं स्त्रीणां धारयेत् गर्भपातनम् ।
रक्तस्रावस्य नाशः स्यात् शीतोदकनिषेवणात् ॥
पीतन्तु काञ्जिकं रुद्र क्वथितं शरपुङ्खया ।
हिङ्गु सैन्धवसंयुक्तं शीध्रं स्त्रीणां प्रसूतिकृत् ॥
मातुलुङ्गस्य वै मूलं कटिबद्धं प्रसूतिकृत् ।
अपामार्गस्य वै मूलं योनिस्थञ्च प्रसूतिकृत् ॥
अपामार्गस्य वै मूले गर्भवत्यास्तु नामतः ।
उत्पाट्यमाने सकले पुत्त्रः स्यादन्यथा सुता ॥
अपामार्गस्य वै मूले नारीणां शिरसि स्थिते ।
गर्भशूलं विनश्येत नात्रं कार्य्या विचारणा ॥
कर्पूरमदनफलं मधुकैः पूरितः शिव ।
योनिः शुभः स्याद्वृद्धाया युवत्याः किं पुन-
र्हर ॥
माषस्य विदलान्येव वितुषाणि महेश्वर ।
घृतभावितशुष्काणि पयसा साधितानि वै ॥
समध्वाज्यपयोभिश्च भक्षयित्वा च कामयेत् ।
स्त्रीणां शतं महादेव तत्क्षणान्नात्र संशयः ॥
रसश्चै रण्डतैलेन गन्धकेन शुभो भवेत् ।
त्रिफलोदकसंघृष्टो बलकृद्भक्षणाद्भवेत् ॥
दुग्धं वितुषमाषैश्च शिम्बीवीजैश्च साधितम् ।
अपामार्गस्य तैलेन पीतं स्त्रीशतकामकृत् ॥”
इति गारुडे १९६ अध्यायः ॥
(स्त्रीसम्भूतेः कारणं यथा, --
“स्त्रीरेतसोऽधिकत्वेन हीनशुक्रेन्द्रियादपि ।
रजसोऽप्यधिकत्वेन स्त्रीसम्भूतिः प्रजायते ॥
सप्तधातुबलेनापि प्रकृत्या विकृतेः समे ।
ऋतुव्याप्तरजःस्त्रीणां या या भवति भावना ॥
सात्त्विकी राजसी वापि तामसी वापि सत्तम ।
तादृशं जनयेद्बालं गुणैर्वा तादृशैरपि ॥”
इति हारीते शारौरस्थाने प्रथमेऽध्याये ॥
द्व्यक्षरच्छन्दोविशेषः । यथा, छन्दोमञ्जर्य्याम् ।
“गौ स्त्री । गोपस्त्रीभिः कृष्णो रेमे ॥”)
पृष्ठ ५/४४०

स्त्रीगवी, स्त्री, (स्त्री चासौ गौश्चेति । समासे

षच् । स्त्रीयां ङीप् ।) धेनुः । गाइ इति
भाषा । तत्पर्य्यायः । तुम्बा २ निलिम्पा ३
रोहिणी ४ । इति त्रिकाण्डशेषः ॥ (यथा,
काशिकायाम् । ३ । ३ । ७१ । “स्त्रीगवीषु
पुङ्गवानां यर्भाधानाय प्रथममुपसरणमुच्यते ॥”)

स्त्रीगुरुः, पुं, (स्त्री चासौ गुरुश्चेति ।) दीक्षा-

कर्त्री । मन्त्रमात्रोपदेष्ट्री । तल्लक्षणं यथा, --
“साध्वी चैव सदाचारा गुरुभक्ता जितेन्द्रिया ।
सर्व्वमन्त्रार्थतत्त्वज्ञा सुशीला पूजने रता ॥
सर्व्वलक्षणसम्पदा रूपिका पद्मलोचना ।
रत्नालङ्कारसंयुक्ता स्वर्णाभरणभूषिता ॥
शान्ता कुलोना कुलजा चन्द्रास्या सर्व्व-
वुद्धिगा ।
अनन्तगुणसम्पन्ना रुद्रत्वदायिनी प्रिया ॥
युरुरूपा शक्तिदात्री शिवज्ञानविरूपिणी ।
गुरुयोग्या भवेत् सा हि विधवा परिवर्ज्जिता ॥ *
स्त्रियो दीक्षा शुभा प्रोक्ता मातुश्चाष्टगुणा
स्मृता ।
पुत्त्रिणी विधवा ग्राह्या केवलानन्दकारिणी ॥
सिद्धमन्तं यदि तदा गृह्णीयाद्विधवामुखे ।
केवलं सुफलं तत्र मातुरष्टगुणं स्मृतम् ॥
स्वयं वा स्वप्नविलये ददाति यदि मन्मनुम् ।
तत्राष्टगुणमाप्नोति यदि सा पुत्त्रिणी सती ॥
यदि माता स्वीयमन्त्रं ददाति तनुजाय च ।
तदाष्टसिद्धिमाप्नोति भक्तिमार्गे न सशयः ॥
तदेव दुर्ल्लभं देव यदि मात्रा प्रदीयते ॥
आदौ भक्तिं ततो मुक्तिं सम्प्राप्य कामरूप-
धृक् ।
सहस्रकोटिविद्यार्थं जानाति नात्र संशयः ॥
स्वप्ने वा यदि वा माता ददाति च समन्त्रकम् ॥
पुनर्द्दोक्षां सोऽपि कृत्वा दानवत्यमवाप्नुयात् ॥
यदि भाग्यवशेनैव जननीच्छानुवर्त्तिनी ।
तदा सिद्धिमवाप्नोति तत्र मन्त्रं विचारयेत् ॥
स्वीयमन्त्रोपदेशेन न कुर्य्याद्गुरुचिन्तनम् ॥”
इति स्त्रीगुरुकथनम् ॥
इति रुद्रयामले उत्तरखण्डे २ पटलः पूर्व्वखण्डे
१५ पटलश्च ॥ * ॥ तद्ध्यानं गुप्तसाधनतन्त्रे
२ पटले तत्पूजनं बृहन्नीलतन्त्रे २ पटले तत्-
स्तोत्र कवत्तञ्च मातृकाभेदतन्त्रे ७ पटले द्रष्ट-
व्यम् । तद्गीता च कङ्कालमालिनीतन्त्रे २
पटत वेदितव्या ॥

स्त्रीघोषः, पुं, (स्त्रीणां घोषो यत्र ।) प्रत्यूषः ।

इति केचित् ॥

स्त्रीचित्तहारी, [न्] पुं, (स्त्रीणां चित्तं हर-

तीति । हृ + णिनिः ।) शोभाञ्जनः । इति
त्रिकाण्डशेषा ॥ नारीमनोहारिणि, त्रि ॥

स्त्रीचिह्नं, क्ली, (स्त्रियश्चिह्नम् ।) योनिः । इति

जटाधरः ॥ नारीलक्षणञ्च ॥

स्त्रीचौरः, पुं, (स्त्रियाश्चौरः ।) कामुकः । तत्प-

र्य्यायः । रतहिण्डकः २ । इति त्रिकाण्ड-
शेषः ॥ नारीहर्त्तरि, त्रि ॥

स्त्रीजितः, पुं, (स्त्रिया जितः ।) स्त्रीवशीभूतः ।

यथा, ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । ४२ । १५ ।
स्त्रीजितस्पर्शमात्रेण सर्व्वं पुण्य प्रणश्यति ।
न भूमौ पातकी पापात् पापिनां स्त्रीजितात्
परः ॥”

स्त्रीता, स्त्री, स्त्रीत्वम् । स्त्रिया भावः इत्यर्थे तल्-

प्रत्ययटाप्प्रत्ययाभ्यां निष्पन्नम् ॥

स्त्रीधनं, क्ली, (स्त्रिया धनम् ।) स्त्रीस्वत्त्वास्पदी-

भूतधनम् । तत् षड्विधम् । यथा, --
“अध्यग्न्यध्यावाहनिकं भर्त्तृदायं तथैव च ।
भ्रातृदत्तं पितृभ्याञ्च षड्विधं स्त्रीधनं स्मृतम् ॥”
इति दायभागधृतनारदवचनम् ॥ * ॥
अथ स्त्रीधनम् । तत्र कात्यायनः ।
“प्राप्तं शिल्पैस्तु यद्वित्तं प्रीत्या चैव यदन्यतः ।
भर्त्तुः स्वाम्यं भवेत्तत्र शेषन्तु स्त्रीधनं स्मृतम् ॥”
अन्यतः पितृमातृभर्त्तृकुलव्यतिरिक्ताद्यल्लब्धं
शिल्पेन वा यदर्ज्जितं तत्र भर्त्तुः स्वातन्त्र्यं तेन
स्त्रिया अपि धनं न स्त्रीधनं अस्वातन्त्र्यात्
एतद्द्वयातिरिक्तधने स्वत्वं स्त्रिया एव दानाद्य-
धिकारात् । मनुविष्णू ।
“पत्यौ जीवति यः कश्चिदलङ्कारो धृतो भवेत्
न तं भजेरन् दायादा भजमानाः पतन्ति ते ॥”
पत्युरदत्तेऽपि तदनुज्ञया परिहितोऽलङ्कार-
स्तावता एव भार्य्यायाः स्वीयो भवतीति मेधा-
तिथिः ॥ कात्यायनः ।
“ऊढया कन्यया वापि पत्युः पितृगृहेऽथवा ।
भर्त्तुः सकाशात् पित्रोर्व्वा लब्धं सौदायिकं
स्मृतम् ॥
सौदायिकं धनं प्राप्य स्त्रीणां स्वातन्त्र्यमिष्यते
यस्मात्तदानृशंस्यार्थं तैर्दत्तं तत् प्रजीवनम् ॥
सौदायिके सदा स्त्रीणां स्वातन्त्र्यं परिकीर्त्तितम्
विक्रये चैव दाने च यथेष्टं स्थावरेष्वपि ॥”
सुदायेभ्यः पितृमातृभर्त्तृकुलसम्बन्धिभ्यो लब्धं
सौदायिकम् । आनृशंस्यमनैष्ठुर्य्यम् । नारदः ।
“भर्त्रा प्रीतेन यद्दत्तं स्त्रियै तस्मिन् मृतेऽपि तत्
सा यथाकाममश्नीयाद्दद्याद्वा स्थावरादृते ॥”
भर्त्तृदत्तविशेषणात् भर्त्तृदत्तस्थावरादृतेऽन्य-
स्थावरं देयमेव । अन्यथा यथेष्टं स्थावरेष्वपि
इति कात्यायनोक्तं विरुध्यते । कल्पतरुरत्ना-
करयोः कात्यायनः ।
अपकारक्रियायुक्ता निर्लज्जा चार्थनाशिनी ।
व्यभिचाररता या च स्त्रीधनं न च सार्हति ॥”
याज्ञवल्क्यः ।
“दुर्भिक्षे धर्म्मकार्य्ये वा व्याधौ संप्रतिरोधके ।
गृहीतं स्त्रीधनं भर्त्ता नाकामो दातुमर्हति ॥”
संप्रतिरोधके भोजनाद्यवरोधकारिण्युत्तमर्णा-
दिके । अन्यत्र तु कात्यायनः ।
“न भर्त्ता नैव च सुतो न पिता भ्रातरो न च ।
आदाने वा विसर्गे वा स्त्रोधने प्रभविष्णवः ॥” *
अथ स्तीधनाधिकारिणः । देवलः ।
“सामान्यं पुत्त्रकन्यानां मृतायां स्त्रीधनं विदुः ॥
अप्रजायां हरद्भर्त्ता माता भ्राता पितापिवा” ।
अत्र द्वन्द्वनिर्द्देशात् पुत्त्रकन्ययोस्तुल्याधिकारः ।
अन्यतराभावे अन्यतरस्य तद्धनम् । पतयो-
रभावे ऊढाया दुहितुः पुत्त्रवत्याः सम्भावित-
पुत्त्रायाश्च तुल्याधिकारः । स्वपुत्त्रद्वारेण
पार्व्वणे ।
“सपिण्डीकरणादूर्द्ध्वं यत् पितृभ्यः प्रदीयते ।
सर्व्वेष्वं शहरा माता इति धर्म्मेषु निश्चयः ॥”
इति शातातपोक्ततद्भोम्यपतिपिण्डदानसम्भ-
वात् । तथा च नारदः ।
“पुत्त्राभावे तु दुहिता तुल्यसन्तानदर्शनात् ॥”
अतएव एतादृशदुहित्रभावे पौत्त्राधिकारः ।
तदभावे दौहित्राधिकारः ।
“दौहित्रोऽपि ह्यमुत्रैनं सन्तारयति पौत्त्रवत् ॥”
इति मनुवचने दौहित्रे पौत्त्रधर्म्मातिदेशात् ।
पुत्त्रेण परिणीतदुतितुर्व्वाधाद्वाधकपुत्त्रेण वाध्य-
दुहितृपुत्त्रवाधस्य न्याय्यत्वात् । एवं तदभावे
प्रपौत्त्रः तद्भोग्यपिण्डदातृत्वात् । तदभावे बन्ध्या-
विधवयोर्म्मातृधनाधिकारः तयोरपि तत्प्रजा-
त्वात् । तदभावे तु भर्त्ता । तच्च न पितृमातृ-
दत्तधनविषयं तत्र भ्रातुरधिकारात् । तथा च
वृद्धकात्यायनः ।
“पितृभ्याञ्चैव यद्दत्तं दुहितुः स्थावरं धनम् ।
अप्रजायामतीतातां भ्रातृगामि तु सर्व्वदा ॥”
मातुः परिणयनकाललब्धन्तु पुत्त्रसत्त्वेऽपि क्रमे-
णानूढोढदुतित्रोरेवाधिकारः । मातुः पारि-
णाय्यं स्त्रियो भजेरन्निति वशिष्ठोक्तेः । स्त्रीधनं
दुहितॄणामप्रत्तानामप्रतिष्ठितानाञ्चेति गोतम-
वचनेन प्रथममप्रत्तानामवाग्दत्तानां तदभावे
त्वप्रतिष्ठितानां वाग्दत्तानां ईषदर्थे नञ् तद-
भावे चकारसमुच्चितानामूढानां स्त्रीधनं दुहि-
तॄणामिति सामान्यतः प्रागुक्तत्वात् अप्रत्ता-
नामित्यादेस्तु क्रमार्थत्वेनोपसंहारार्थत्वात् ।
व्यक्तमाह मनुः ।
“मातुश्च यौतुकं यत् स्यात् कुमारीभाग एव
सः ॥”
यौतुकपदं यु मिश्रणे इत्यस्मात् सिद्धं मिश्रता च
स्त्रीपुंसयोव्विवाहाद्भवति । यदेतत् हृदयन्तव
तदस्तु हृदयं मम यदिदं हृदयं मम तदस्तु
हृदयं तव इति मन्त्रलिङ्गात् । यौतुकं तदिति
वाचस्पतिमिश्ररायमुकुटधृतात् यौतुकं यौतक
मपि साधु । परिणयनकालः परिणयनपूर्व्वा-
परीभूतकालः स च वृद्ध्यारम्भपत्यभिवादनान्तो-
विवाहतत्त्वे विवृतः । यत्तु मनुवचनम् ।
“स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं कथञ्चन ।
ब्राह्मणी तद्धरेत् कन्या तदपत्यस्य वा भवेत् ॥”
इति तत् पित्रा दत्तमिति विशेषणाद्विवाह-
समयादन्यदपि पितृदत्तं कन्यायां एवेत्येत-
दर्थम् । ब्राह्मणीपदन्तु कन्यामात्रपरम् । यद्वा
क्षत्त्रियादिस्त्रीणामनपत्यानां पितृदत्तं धनं
सपत्नीदुद्विता ब्राह्मणीकन्या हरेत् न पुनरप्र-
जस्त्रीधनं भर्त्तुरिति वचनावकाशः । इति वच-
नार्थः । तभावे पुत्त्राधिकारः ।
पृष्ठ ५/४४१
“दुहितॄणामभावे तु रिक्थं पुत्त्रेषु तद्भवेत् ॥”
इति मनुवचनात् ॥
एवं पुत्त्राधिकारात् प्राक् दुहित्रधिकारविधा-
यकवचनान्तराण्येतद्विषयकाणि । पुत्त्राद्यभावे
तु ब्राह्म्यादिपञ्चकविवाहकालीनं स्त्रीधनं
भर्त्तुः । आसुरादित्रयविवाहकालीनन्तु मातुः
तदभावे पितुः । यथा मनुः ।
“ब्राह्म्यदैवार्षगान्धर्व्वप्राजापत्येषु यद्धनम् ।
अतीतायामप्रजायां भर्त्तुरेव तदिष्यते ॥
यत्तस्याः स्यात् धनं दत्तं विवाहेष्वासुरादिषु ।
अतीतायामप्रजायां मातापित्रोस्तदिष्यते ॥”
कन्याधनाधिकारे क्रममाह बौधायनः ।
“रिक्थं मृतायाः कन्याया गृह्णीयुः सोदराः
स्वयम् ।
तदभावे भवेन्मातुस्तदभावे भवेत् पितुः ॥
अत्रक्रमदर्शनात् पूर्व्ववचने मातापित्रोरित्यत्र
पाठक्रमेणाधिकारो न तु द्वन्द्वनिर्द्देशात् समु-
च्चितेन । बृहस्पतिः ।
“मातृस्वसा मातुलानी पितृव्यस्ती पितृस्वसा
श्वश्रूः पूर्व्वजपत्नी च मातृतुल्या प्रकीर्त्तिताः ॥
यदासामौरसो न स्यात् सुतो दौहित्र एव वा ।
तत्सुतो वा धनं तासां स्वस्रीयाद्याः समा-
प्नुयुः ॥”
औरसपदं कन्यापुत्त्रोभयपरम् । सुत इति
सपत्नीपुत्त्रपरम् ।
“सर्व्वासामेकपत्नीनामेका चेत् पुत्त्रिणी भवेत्
सर्व्वास्तास्तेन पुत्त्रेण प्राह पुत्रवतीर्म्मनुः ॥”
इति मनुस्मृतेः ।
एकपत्नीनामिति एकः पतिर्यासां ताः । न तु
सुतपदमौरसविशेषणं वैयर्थ्यात् । सपत्नीपुत्त्र-
सद्भावे स्वस्रीयाद्यधिकारापत्तेश्च । तत्सुत इति
पौत्त्रः सपत्नीपौत्त्रपरं न तु दौहित्रपुत्त्रपरं तस्य
स्वभोग्यभर्त्तृपिण्डदानानधिकारात् । अत्र प्रागु-
क्तानुसारात् दौहित्रपर्य्यन्तानन्तरमेव सपत्नी-
पुत्त्रतत्पुत्त्रयोरधिकारः । न तु प्रागुक्तभर्त्रादि-
पितृपर्य्यन्ताभावेऽपीति वाच्यं भर्त्रादीनां धनि-
भोग्यपार्व्वणपिण्डदानानधिकारात् । तस्मादे-
तेषां सपत्नीपौत्त्रान्तानां तत्सुतो वेति
बाशब्दसमुच्चितानाम् ।
“मामान्यं पुत्त्रकन्यानां मृतायां स्त्रीधनं
विदुः ।
अप्रजायां हरत् भर्त्ता माता भ्राता पितापि-
वा ॥”
इति देवलोक्तानां भर्त्त्रादिपितृपर्य्यन्तानाञ्चा-
भाव एव सत्स्वपि श्वशुरभ्रातृश्वशुरादिषु
स्वस्रायाद्या इत्यनेन भगिनीसुतभर्त्तृभागिनेय-
भर्त्तृ ज्येष्ठकनिष्ठोभयरूपभ्रातृसुत-स्वभ्रातृपुत्त्र-
जामातृ-देवराणां मातृस्वस्रादिधने अधिकारः ।
अनन्यगतेर्व्वचनात् । अत्र ।
“त्रयाणामुदकं कार्य्यं त्रिपु पिण्डः प्रवर्त्तते ।
चतुर्थः सम्प्रदातैषां पञ्चमो नोपपद्यते ॥”
इति दायभागप्रकणीयमनुस्मृतेः ।
पिण्डदोऽंशहर इति याज्ञवल्क्यीयात् । मातृ-
तुल्याः प्रकीर्त्तिता इत्यनेन स्वस्रीयादीनां पुत्त्र-
त्वज्ञापनेन एकप्रयोजनकत्वात् ।
“मातुलो भागिनेयस्य स्वस्रीयो मातुलस्य च ।
श्वशुरस्य गुरोश्चैव सख्युर्मातामहस्य च ॥
एतेषाञ्चैव भार्य्याभ्यः स्वसुर्मातुः पितुस्तथा ।
पिण्डदानन्तु कर्त्तव्यमिति वेदविदां स्थितिः ।
इति शातातपवनात् ।
पिण्डदानविशेषेणैव षण्णामेषामधिकारक्रमः
प्रतिपत्तव्यः । पाठक्रमादर्थक्रमस्य बलवत्त्वात् ।
अन्यथा सर्व्वशेषे देवराधिकारे महाजनविरोधः
स्यात् । तत्र प्रथमं देवरः तत्पिण्डतद्भर्त्तृपिण्ड-
तद्भर्त्तृदेयपुरुष-त्रय-पिण्डदत्वात् सपिण्डत्वाच्च-
भ्रातृस्त्रीधने अधिकारी । तदभावे भ्रातृश्वशुर-
देवरयोः सुतौ तत्पिण्डतद्भर्त्तृपिण्डतद्भर्त्तृदेय-
पुरुषद्वयपिण्डदत्वात् सपिण्डत्वाच्च । तयोरभावे
त्वसपिण्डोऽपि भगिनीपुत्त्रः तत्पिण्डतत्पुत्त्रदेय-
तत्पित्रादित्रयपिण्डदत्वात् । तदभावे भर्त्तृभा-
गिनेयः पुत्त्राद्भर्त्तुर्दुर्बलत्वेन तत्स्थानपातिनो-
रपि भगिनीपुत्त्रभत्तृभागिनेययोस्तथैव बला-
बलस्य न्याय्यत्वेन तद्भर्त्तृदेयपुरुषत्रयपिण्डद-
त्वात् तत्पिण्डदत्वात् तद्भर्त्तृपिण्डदत्वाच्च मातु-
लानीधने अधिकारी । तदभावे भ्रातृपुत्त्रः
तत्पिण्डतत्पुत्त्रदेयतत्पित्रादिपिण्डद्वयदत्वात्
पितृस्वसुर्धने अधिकारी । तदभावे श्वशुरयोः
पिण्डदानात् जामाता श्वश्रूधने अधिकारीति
क्रमः । स्वस्रीयाद्या इति अधिकारिमात्रपरं न
पाथिकक्रमपरं एषां षण्णां प्रातिस्विकोक्ताना-
मभावे सपिण्डानन्तर्य्येण श्वशुरादिवदधिकारी
न च सपिण्डाभावे मातृस्वसेति वचनं वाच्यं
अस्मिन्नधिकारिगणने देवरतत्सुतभ्रातृश्वशुर-
सुतानांअधिकारज्ञापनादासन्नतरश्वशुरभ्रातृश्व
शुरादेः परित्यागादिति । इति दायतत्त्वम् ॥

स्त्रीधर्म्मः, पुं, (स्त्रिया धर्म्मः ।) ऋतुः । तत्प-

र्य्यायः । पुष्पम् २ आर्त्तवम् ३ रजः ४ । इति
हेमचन्द्रः ॥ (मैथुनम् । यथा हरिवंशे । ८४ ।
६१ ।
“शृण्वती कामजननीर्व्वाचः श्रोत्रसुखावहाः ।
बर्हिणाञ्चैव विरुतं खगानाञ्च विकूजितम् ॥
अभीक्ष्णमभिशृण्वन्ती स्त्रीधर्म्मं सा व्यरोचयत् ॥”
स्त्रीणां शुभकर्म्मादिः । यथा, मनुः । १ । ११४ ।
“स्त्रीधर्म्मयोगं तापस्यं मोक्षं सन्न्यासमेव च ॥”)

स्त्रीधर्म्मिणी, स्त्री, (स्त्रीधर्म्मोऽस्या अस्तीति ।

इनिः । ङीप् ।) ऋतुमती । इत्यमरः । २ ।
६ । २० ॥ (यथा, महाभारते । २ । ७७ । १४ ।
“स्त्रीधर्म्मिणी वरारोहा शोणितेन परिप्लुता ।
एकवस्त्राथ पाञ्चाली पाण्डवानभ्यवैक्षत ॥”)
अस्य विवरणं रजस्वलाशब्दे द्रष्टव्यम् ॥

स्त्रीधवः, पुं, (स्त्रीणां धवः प्रियः ।) पुरुषः । इति

जटाधरः ॥

स्त्रीपरः, पुं, (स्त्रीषु परः निरतः ।) षिड्गः ।

कामुकः । इति कचित् ॥

स्त्रीपण्योपजीवी, [न्] पुं, (स्त्रीपण्येन उपजीव-

तीति । उप + जीव + णिनिः ।) सम्भोगार्थ-
मन्यस्मै स्त्रियं दत्त्वा तद्धनोपजीवी । इति
महाभारते दानधर्म्मः ॥

स्त्रीपुंधर्म्मः, पुं, (स्त्री च पुमांश्च स्त्रीपुंसौ । तयो-

र्धर्म्मः ।) स्त्रीपुंसयोर्व्यवहारः । स च अष्टा-
दशविवादपदान्तर्गतविवादविशेषः । यथा, --
“स्त्रीपुंधर्म्मो विभागश्च द्यूतमाह्वयमेव च ।
पदान्यष्टादशैतानि व्यवहारस्थिताविह ॥”
इति मानवे ८ अध्यायः ॥
तद्विवरणं यथा, --
“पुरुषस्य स्त्रियाश्चैव धर्म्मे वर्त्मनि तिष्ठतोः ।
संयोगे विप्रयोगे च धर्म्मान् वक्ष्यामि शाश्वतान्
अस्वतन्त्राः स्त्रियः कार्य्याः पुरुषैः स्वैर्दिवानिशम् ॥
विषयेषु च सज्जन्त्यः संस्थाप्या आत्मनो वशे ॥
पिता रक्षति कौमारे भर्त्ता रक्षति यौवने ।
रक्षन्ति स्थविरे पुत्त्रा न स्त्री स्वातन्त्र्यमर्हति ॥
कालेऽदाता पिता वाच्यो वाच्यश्चानुपयन् पतिः
मृते भर्त्तरि पुत्त्रस्तु वाच्यो मातुररक्षिता ॥
सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतः
द्वयोर्हि कुलयोः शोकमावहेयुररक्षिताः ॥
इमं हि सर्व्ववर्णानां पश्यन्तो धर्म्ममुत्तमम् ।
यतन्ते रक्षितुं भार्य्यां भर्त्तारो दुर्ब्बला अपि ॥
स्वां प्रसूतिं चरित्रञ्च कुलमात्मानमेव च ।
स्वञ्च धर्म्मं प्रयत्ने न जायां रक्षन् हि रक्षति ॥
पतिर्भार्य्यां संप्रविश्य गर्भो भूत्वेह जायते ।
जायायास्तद्धि जायात्वं यदस्यां जायते पुनः ॥
यादृशं भजते हि स्त्री सुतं सूते तथाविधम् ।
तस्मात् प्रजाविशुद्ध्यर्थं स्त्रियं रक्षेत् प्रयत्नतः ॥
न कश्चित् योषितः शक्तः प्रसह्य परिरक्षितुम् ।
एतैरुपाययोगैस्तु शक्यास्ताः परिरक्षितुम् ॥
अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत् ।
शौचे धर्म्मेऽन्नपक्त्याञ्च पारिणाह्यस्य वेक्षणे ॥
अरक्षिता गृहे रुद्धाः पुरुषैराप्तकारिभिः ।
आत्मानमात्मना यास्तु रक्षेयुस्ताः सुरक्षिताः ॥
पानं दुर्ज्जनसंसर्गः पत्या च विरहोऽटनम् ।
स्वप्नोऽन्यगेहवासश्च नारीसंदूषणानि षट् ॥
नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः ।
सुरूपं वा विरूपं वा पुमानित्येव भुञ्जते ॥
पौंश्चल्याच्चलचित्ताच्च नैस्नेह्याच्च स्वभावतः ।
रक्षिता यत्नतोऽपीह भर्त्तृष्वे ता विकुर्व्वते ॥
एवं स्वभावं ज्ञात्वासां प्रजापतिनिसर्गजम् ।
परमं यत्नमातिष्ठेत् पुरुषो रक्षणं प्रति ॥
शय्यासनामलङ्कारं कामं क्रोधमनार्ज्जवम् ।
द्रोहभावं कुचर्य्याञ्च स्त्रीभ्यो मनुरकल्पयत् ॥
नास्ति स्त्रीणां क्रिया मन्त्रैरिति धर्म्मो व्यवस्थितः
निरिन्द्रिया ह्यमन्त्राश्च स्त्रियोऽनृतमिति स्थितिः
तथा च श्रुतयो बह्व्यो निगीता निगमेष्वपि ।
स्वालक्षण्यपरीक्षार्थं तासां शृणुत निष्कृतीः ॥
यन्मे माता प्रलुलुभे विचरन्त्यपतिव्रता ।
तन्मे रेतः पिता वृक्तामित्यस्यैतन्निदर्शनम् ॥
ध्यायत्यनिष्टं यत्किञ्चित् पाणिग्राहस्य चेतसा
पृष्ठ ५/४४२
तस्यैव व्यभिचारस्य निह्रवः सम्यगुच्यते ॥
यादृग्गुणेन भर्त्रा स्त्री संयुज्येत यथाविधि ।
तादृग्गुणा सा भवति समुद्रेणेव निम्नगा ॥
अक्षमाला वशिष्ठेन संयुक्ताधमयोनिजा ।
शारङ्गी मन्दपालेन जगामाभ्यर्हणीयताम् ॥
एताश्चान्याश्च लोकेऽस्मिन्नपकृष्टप्रसूतयः ।
उत्कर्षं योषितः प्राप्ताः स्वैः स्वैर्भर्त्तृगुणैः शुभैः ॥
एषोदिता लोकयात्रा नित्यं स्त्रीपुंसयोः शुभाः
प्रेत्येह च मुखोदर्कान् प्रजाधर्म्मान्निबोधत ॥ * ॥
प्रजनार्थं महाभागाः पूजार्हा गृहदीप्तयः ।
स्त्रियः श्रियश्च गेहेषु न विशेषोऽस्ति कश्चन ॥
उत्पादनमपत्यस्य जातस्य परिपालनम् ।
प्रत्यहं लोकयात्रायाः प्रत्यक्षं स्त्रीनिबन्धनम् ॥
अपत्यं धर्म्मकार्य्याणि शुश्रूषा रतिरुत्तमा ।
दाराधीनस्तथा स्वर्गः पितृणामात्मनश्च ह ॥
पतिं या नाभिचरति मनोवाग्देहसंयताः ।
सा भर्त्तृलोकानाप्नोति सद्भिः साध्वीति चोच्यते ॥
व्यभिचारात्तु भर्त्तुः स्त्री लोके प्राप्नोति निन्द्य-
ताम् ।
शृगालयोनिञ्चाप्नोति पापरोगैश्च पीड्यते ॥
पुत्त्रं प्रत्युदितं सद्भिः पूर्व्वजैश्च महर्षिभिः ।
विश्वजन्यमिमं पुण्यमुपन्यासं निबोधत ॥
भर्त्तुः पुत्त्रं विजानन्ति श्रुतिद्वैधन्तु भर्त्तरि ।
आहुरुत्पादकं केचिदपरे क्षेत्रिणं विदुः ॥
क्षेत्रभूता स्मृता नारी बीजभूतः स्मृतः पुमान्
क्षेत्रबीजसमायोगात् सम्भवः सर्व्वदेहिनाम् ॥
विशिष्टं कुत्रचिद्बोजं स्त्रीयोनिस्त्वेव कुत्रचित् ।
उभयन्तु समं यत्र सा प्रसूतिः प्रशस्यते ।
बीजस्य चैव योन्याश्च बीजमुत्कृष्टमुच्यते ।
सर्व्वभूतप्रसूतिर्हि बीजलक्षणलक्षिता ॥
यादृशं तूप्यते बीजं क्षेत्रे कालोपपादिते ।
तादृग्रोहति तत्तस्मिन् बीजं स्वैर्व्यञ्जितंगुणैः ॥
इयं भूमिर्हि भूतानां शाश्वती योनिरुच्यते ।
न च योनिगुणान् कांश्चिद्बीजं पुष्यति पुष्टिषु ॥
भूमावप्येककेदारे कालोप्तानि कृषीबलैः ।
नानारूपाणि जायन्ते बीजानीह स्वभावतः ॥
ब्राहयः शालयो मुद्गास्तिला माषास्तथा यवाः ।
यथाबीजं प्ररोहन्ति लशुनानीक्षवस्तथा ॥
अन्यदुप्तं जातमन्यदित्येतन्नोपपद्यते ।
उप्यते यद्धि यद्वीजं तत्तदेव प्ररोहति ॥
तत् प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिना ।
आयुष्कामेन वप्तव्यं न जातु परयोषिति ॥
अत्र गाथा वायुगीताः कीर्त्तयन्ति पुराविदः ।
यया बीजं न वप्तव्यं पुंसा परपरिग्रहे ॥
नश्यतोषुर्यथा विद्धः खे विद्धमनुविध्यतः ।
तथा नश्यति वै क्षिप्रं बीजं परपरिग्रहे ॥
पृथोरपोमां पृथिवीं भार्य्यां पृर्व्वविदो विदुः ।
स्थाणुच्छेदस्य केदारमाहुः शल्यवतो मृगम् ॥
एतावनेन पुरुपो यज्जायात्मा प्रजेति ह ।
विप्राः प्राहस्तथा चैतद्यो भर्त्ता सा स्मृताङ्गना
न निष्क्रयविमर्गाभ्यां भर्त्तृभार्य्या विमुच्यते ।
एवं धर्म्मं विजानीमः प्राक प्रजापतिनिर्म्मितम् ॥
सकृदंशो निपतति सकृत् कन्या प्रदीयते ।
सकृदाह ददानीति त्रीण्येतानि सतां सकृत् ॥
यथा गोऽश्वोष्ट्रदासीषु महिष्यजाविकासु च ।
नोत्पादकः प्रजाभागी तथैवान्याङ्गनास्वपि ॥
ये क्षेत्रिणो बीजवन्तः परक्षेत्रप्रवापिणः ।
ते वै शस्यस्य जातस्य न लभन्ते फलं क्वचित् ॥
यदन्यगोषु वृषभो वत्सानां जनयेच्छतम् ।
गोमिनामेव ते वत्सा मोघं स्कन्दितमार्षभम् ॥
तथैवाक्षेत्रिणो बीजं परक्षेत्रप्रवापिणः ।
कुर्व्वन्ति क्षेत्रिणामर्थं न बीजी लभते फलम् ॥
फलन्त्वनभिसन्धाय क्षेत्रिणां बीजिनां तथा ।
प्रत्यक्षं क्षेत्रिणामर्थो बीजाद्योनिर्गरीयसी ॥
क्रियाभ्युपगमात्त्वेतद्बीजार्थं यत् प्रदीयते ।
तस्येह भागिनौ दृष्टौ बीजी क्षेत्रिक एव च ॥
ओघवाताहृतं बीजं यस्य क्षेत्रे प्ररोहति ।
क्षेत्रिकस्यैव तद्वीजं न वप्ता लभते फलम् ॥
एष धर्म्मो गवाश्वस्य दास्युष्ट्राजाविकस्य च ।
विहङ्गमहिषीणाञ्च विज्ञेयः प्रसवं प्रति ॥
एतद्वः सारफल्गुत्वं बीजयोन्योः प्रकीर्त्तितम् ।
अतः परं प्रवक्ष्यामि योषितां धर्म्ममापदि ॥ * ॥
भ्रातुर्ज्येष्ठस्य भार्य्या या गुरुपत्न्यनुजस्य सा ।
यवीयसस्तु या भार्य्या स्नुषा ज्येष्ठस्य सा स्मृता
ज्येष्ठो यवीयसो भार्य्यां यवीयान् वाग्रजस्त्रियम्
पतितौ भवतो गत्वा नियुक्तावप्यनापदि ॥
देवराद्वा सपिण्डाद्वा स्त्रिया सभ्यङ्नियुक्तया ।
प्रजेप्सिताधिगन्तव्या सन्तानस्य परिक्षये ॥
विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि ।
एवमुत्पादयेत् पुत्त्रं न द्वितीयं कथञ्चन ॥
द्वितीयमेके प्रजनं मन्यन्ते स्त्रीषु तद्विदः ।
अनिवृत्तं नियोगार्थं पश्यन्तो धर्म्मतस्तयोः ॥
विधवायां नियोगार्थे निर्वृत्ते तु यथाविधि ।
गुरुवच्च स्नुषावच्च वर्त्तेयातां परस्परम् ॥
नियुक्तौ यौ विधिं हित्वा वर्त्तेयातान्तु कामतः
तावुभौ पतितौ स्यातां स्नुषागगुरुतल्पगौ ॥
नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजा-
तिभिः ।
अन्यस्मिन् हि नियुञ्जाना धर्म्मंहन्युः सनातनम्
नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्त्यते क्वचित् ।
न विवाहविधावुक्तं विधवा वेदनं पुनः ॥
अयं द्विजैर्हि विद्धद्भिः पशुधर्म्मो विगर्हितः ।
मनुष्याणामपि प्रोक्तो वेणे राज्यं प्रशासति
स महीमखिलां भुञ्जन् राजर्षिप्रवरः पुरा ।
वर्णानां सङ्करं चक्रे कामोपहतचेतनः ॥
ततः प्रभृति यो मोहात् प्रमीतपतिकां स्त्रियम् ।
नियोजत्यपत्यर्थं तं विगर्हिन्ति साधवः ॥
यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः ।
तामनेन विधानेन निजो विन्देत देवरः ॥
यथाविध्यभिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् ।
मिथो भजेदाप्रसवात् सकृत् सकृदृतावृतौ ॥
न दत्त्वा कस्यचित् कन्यां पुनर्दद्यात् विचक्षणः
दत्त्वा पुनः प्रयच्छन् हि प्राप्नोति पुरुषानृतम्
विधिवत् प्रतिगृह्यापि त्यजेत् कन्यां विगर्हिताम्
व्याधितां विप्रदुष्टां वा छद्मना चोपपादिताम् ॥
यस्तु दोषवतीं कन्यामनाख्यायोपपादयेत् ।
तस्य तद्वितथं कुर्य्यात् कन्यादातुर्दुरात्मनः ॥
विधाय वृत्तिं भार्य्यायाः प्रवसेत् कार्य्यवान्नरः ।
अवृत्तिकर्षिता हि स्त्री प्रदुष्येत् स्थितिमत्यपि ॥
विधाय प्रोषिते वृत्तिं जीवेन्नियममास्थिता ।
प्रोषिते त्वविधायैव जीवेच्छिल्पैरगर्हितैः ॥
प्रोषितो धर्म्मकार्य्यार्थं प्रतीक्ष्योऽष्टौ नरः समाः ॥
विद्यार्थं षट् यशोऽर्थं वा कामार्थं त्रींस्तु
वत्सरान् ॥
संवत्सरं प्रतीक्षेत द्विषन्तीं योषितं पतिः ।
ऊर्द्ध्वं संवत्सरात्त्वेनां दायं हृत्वा न संवसेत् ॥
अतिक्रामेत् प्रमत्तं या मत्तं रोगार्त्तमेव वा ।
सा त्रीन् मासान् परित्याज्याविभूषणपरि-
च्छदा ॥
उन्मत्तं पतितं क्लीवमबीजं पापरोगिणम् ॥
न त्यागोऽस्ति द्विषन्त्याश्च न च दायापवर्त्तनम् ॥
मद्यपासाधुवृत्ता च प्रतिकूला च या भवेत् ।
व्याधिता साधिवेत्तव्या हिंसार्थघ्नी च सर्व्वदा ॥
बन्ध्याष्टमेऽधिवेद्याब्दे दशमे तु मृतप्रजा ।
एकादशे स्त्रीजननी सद्यस्त्वप्रियवादिनी ॥
या रोगिणीस्यात्तु हिता सम्पन्ना चैव शीलतः ।
सानुज्ञाप्याधिवेत्तव्या नावमान्या च कर्हिचित्
अधिविन्ना तु या नारी निर्गच्छेद्रुषिता गृहात्
सा सद्यः सन्निरोद्धव्या त्याज्या वा कुलसन्निधौ ॥
प्रतिषिद्धा पिबेद्या तु मद्यमभ्युदयेष्वपि ।
प्रेक्षासभाजं गच्छेद्वा सा दण्ड्या कृष्णलानि
षट् ॥
यदि स्वाश्चापराश्चै व विन्देरन् योषितो द्विजाः
तासां वर्णक्रमेणैव ज्यैष्ठं पूजा च वेश्म च ॥
भर्त्तुः शरीरशुश्रूषां धर्म्मकार्य्यञ्च नैत्यिकम् ।
स्वा चैव कुर्य्यात् सर्व्वेषां नान्यजातिः कथञ्चन ॥
यस्तु तत् कारयेन्मोहात् स्वजात्या स्थितया-
न्यया ।
यथा ब्राह्मणचाण्डालः पूर्व्वदृष्टस्तथैव सः ॥
उत्कृष्टायाभिरूपाय वराय सदृशाय च ।
अप्राप्तामपि तां तस्मै कन्यां दद्याद्यथाविधि ॥
काममामरणात्तिष्ठे द्गृहे कन्यर्त्तुमत्यपि ।
न चैवैनां प्रयच्छेत्तु गुणहीनाय कर्हिचित् ॥
त्रीणि वर्षाण्युदीक्षेत कुमार्य्यृतुमती सती ।
ऊर्द्ध्वन्तु कालादेतस्माद्विन्देत सदृशं पतिम् ॥
अदीयमाना भर्त्तारमधिगच्छेद्यदि स्वयम् ।
नैनः किञ्चिदवाप्नोति न च यं साधिगच्छति ॥
अलङ्कारं नाददीत पित्र्यं कन्या स्वयंवरा ।
मातृकं भ्रातृदत्तं वा स्तेना स्यात् यदि तं
हरेत् ॥
पित्रे न दद्याच्छुल्कन्तु कन्यामृतुमतीं हरन् ।
स हि स्वाम्यामतिक्रामेदृतूनां प्रतिरोधनात् ॥
त्रिंशद्वर्षो वहेत् कन्यां हृद्यां द्वादशवार्षिकीम् ।
त्र्यष्टवर्षोऽष्टवर्षां वा धर्म्मे सीदति सत्वरः ॥
देवदत्तां पतिर्भार्य्यां विन्दते नेच्छयात्मनः ।
तां साध्वीं विभृयान्नित्यं देवानां प्रियमाचरन् ॥
पृष्ठ ५/४४३
प्रजनार्थं स्त्रियः सृष्टाः सन्तानार्थञ्च मानवाः ।
तस्मात् साधारणो धर्म्मः श्रुतौ पत्न्या सहोदितः ॥
कन्यायां दत्तशुल्कायां म्रियेत यदि शुल्कदः ।
देवराय प्रदातव्या यदि कन्यानुमन्यते ॥
आददीत न शूद्रोऽपि शुल्कं दुहितरं ददत् ।
शुल्कं हि गृह्णन् कुरुते छन्नं दुहितृविक्रयम् ॥
एतत्तु न परे चक्रुर्न्नापरे जातु साधवः ।
यदन्यस्य प्रतिज्ञाय पुनरन्यस्य दीयते ॥
नानुशुश्रुम जात्वेतत् पूर्व्वेष्वपि हि जन्मसु ।
शुल्कसंज्ञं न मूल्येन छन्नं दुहितृविक्रयम् ॥
अन्योन्यस्याव्यभिचारो भवेदामरणान्तिकः ।
एष धर्म्मः समासेन ज्ञेयः स्त्रीपुंसयोः परः ॥
तथा नित्यं यतेयातां स्त्रीपुंसौ तु कृतक्रियौ ।
यथा नाभिचरेतां तौ वियुक्तावितरेतरम् ॥
एष स्त्रीपुंसयोरुक्तो धर्म्मो वो रतिसंहितः ।
आपद्यपत्यप्राप्तिश्च दायभागं निबोधत ॥”
इति मानवे ९ अध्यायः ॥

स्त्रीपुंसलक्षणा, स्त्री, स्त्रीपुंसयोर्लक्षणं चिह्नं स्तन-

श्मश्र्वादिरूपं यस्यां सा । इति भरतः ॥ तत्-
पर्य्यायः । पोटा २ । इत्यमरः ॥

स्त्रीपुंसौ, पुं, (स्त्री च पुमांश्च । “अचतुरविचतु-

रेति ।” ५ । ४ । ७७ । इति अच्प्रत्ययेन
साधुः ।) स्त्रीपुंसयोर्युग्मम् । तत्पर्य्यायः ।
मिथुनम् २ द्वन्द्वम् ३ । इत्यमरः । २ । ५ । ३८ ।
द्विवचनान्तोऽयम् ॥ (यथा, मनुः । ९ । २५ ।
“एषोदिता लोकयात्रा नित्यं स्त्रीपुंसयोः शुभा ॥”

स्त्रीपूर्व्वः, पुं, (स्त्री पूर्व्वे प्रधानतया सर्व्वकार्य्येषु

अग्रगामिनीव यस्य ।) स्त्रीजितः । इति महा-
भारते दानधर्म्मः ॥

स्त्रीप्रियः, पुं, (स्त्रियाः प्रियः ।) आम्रवृक्षः ।

इति त्रिकाण्डशेषः ॥ नारीप्रियद्रव्ये, त्रि ॥

स्त्रीमुखपः, पुं, (स्त्रीमुखं पातीति । पा + कः ।)

दोहलः । इति राजनिर्घण्टः ॥

स्त्रीरञ्जनं, क्ली, (स्त्रियमपि रञ्जयति रागे-

णेति । रञ्ज + ल्युः ।) ताम्बूलम् । इति केचित् ॥

स्त्रीरोगः, पुं, (स्त्रिया रोगः ।) नारीणामामयः ।

तस्य चिकित्सा यथा, --
धन्वन्तरिरुवाच ।
“स्त्रीरोगादिचिकित्सान्तु वक्ष्ये सुश्रुत तां शृणु
यौनिव्यापत्सु भूयिष्ठं शस्यते कर्म्म वातजित् ॥
वचोपकुञ्चिकाजातीकृष्णावृषकसैन्धवम् ।
अजमोदा यवक्षारं चित्रकं शर्करान्वितम् ॥
पिष्ट्वालोड्य जलाद्यैश्च खादयेद्घृतभर्ज्जितम् ।
योनिपार्श्वार्त्ति हृद्रोगगुल्मार्शोविनिवृत्तये ॥
बदरीपत्रसंलेपात् योनिर्भिन्ना प्रशाम्यति ।
लोध्रं तुम्बीफलालेपो योनिदाट्यं करोति च ॥
पञ्चपल्लवशट्यकमालतीकुसुमैर्घृतम् ।
रविपक्वमसृग्धारा योनिगन्धविनाशनम् ॥”
असृग्धारास्थाने असृग्वाधा इति च पाठः ।
“सकाञ्जिकं जवापुष्पं प्लुष्टं ज्योतीष्मतीदलम्
दूर्व्वापिष्टञ्च संप्राश्य वनिता नार्त्तवं लभेत् ॥
धात्र्यञ्जनाभयाचूर्णं तोयपीतं यदा भवेत् ।”
यदा भवेदित्यत्र रजो हरेदिति च पाठः ।
“सदुग्धा लक्ष्णणा पीता न स्याद्वा पुत्त्रदा हृयतौ
दुग्धस्यार्द्धाढकं चाक्षमश्वगन्धा च पुत्त्रदा ।
बन्ध्या पुत्त्रं लभेत् पीत्वा घृतेन व्योषकेशरम् ॥
कुशकाशोरुवूकाणां मूलैर्गोक्षुरकस्य च ।
दुग्धञ्चैव सितायुक्तं गर्भिण्याः शूलनुत्परम् ॥
पाठालाङ्गलिसिंहास्यमयूरकुटजैः पृथक् ।
नाभिवस्तिभगालेपात् सुखं नारी प्रसूयते ॥
सूताया हृच्छिरोवस्तिशूलं वै मन्दसंज्ञितम् ।
यवक्षारं पिबेत्तत्र मस्तुनोष्णोदकेन वा ॥
कुशमूलीकृतः क्वाथः साज्यः सूतिरुजापहः ।
शालितण्डुलचूर्णन्तु सदुग्धं दुग्धकृद्भवेत् ॥
विदारिकुसुमरसं मूलं कार्पासजं तथा ।
धात्री स्तन्यविशुद्ध्यथं मुद्गयूषरसायनी ॥
कुष्ठा वचाभया ब्राह्मी मधुरी क्षौद्रसर्पिषी ।
वर्णायुःकान्तिजननं लेहं बाले प्रदापयेत् ॥
स्तन्याभावे पयश्छाग्यं गव्यं वा तद्गुणं भवेत्
मुस्तशुण्ठीविषा बाला कुटजा चातिसारनुत् ॥
व्योषं मधु मातुलुङ्गं हिक्काच्छर्द्दिनिवारणम् ।
कुष्ठेन्द्रयवसिद्धार्थनिशा दूर्व्वा च कुष्ठजित् ॥
सप्तच्छदामयनिशाचन्दनैश्चानुलेपनम् ।
शङ्खाब्जबीजरुद्राक्षवचालोहादिधारणम् ॥”
इति गारुडे । १७६ । १ -- १९ ॥

स्त्रीसभ, क्ली, (स्त्रीणां सभा । अशालाचेति नपुं-

सकत्वम् ।) नारीणां सभा । इति केचित् ॥

स्त्रीस्वभावः, पुं, (स्त्रीणां स्वभाव इव स्वभावो

यस्य ।) महल्लकः । इति शब्दमाला ॥ नारीणां
शीलञ्च ॥ (यथा, महाभारते । ३ । ७१ । ६ ।
“स्त्रीस्वभावश्चलो लोके मम दोषश्च दारुणः ।
स्यादेवमपि कुर्य्यात् सा विवशा गतसौहृदा ॥”)

स्त्रैणं, क्ली, (स्त्रिया इदम् । स्त्री + नञ् ।) स्त्री-

स्वभावः । यथा, भट्टिः ।
“कर्णेजपैराहितराज्यलोभा
स्त्रेणेन नीता विकृतिं लघिम्ना ।
रामप्रवासे व्यमृषन्न दोषं
जनापवादं सनरेन्द्रमृत्युम् ॥”
(यथा, च भागवते । ४ । ४ । ३ ।
“पित्रोरगात् स्त्रैणविमूढधीर्गृहान्
प्रेम्णात्मनो योऽर्द्धमदात् सतां प्रियः ॥”
स्त्रीणां समूहः । स्त्री + नञ् । स्त्रीसमूहः ।
इति काशिका । ४ । १ । ८७ ॥ यथा, शान्तिशतके ।
“तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः
क्वचित् पुण्येऽरण्येशिव शिव शिवेति प्रलपतः ॥)

स्त्रैणः, त्रि, (स्त्रीषु भवः । स्त्रीभ्य आगतः । स्त्रीभ्यो

हितो वा । स्त्री + “स्त्रीपुंसाभ्यां नञ् स्नञौ
भवनात् ।” ४ । १ । ८७ । इति नञ् ।) स्त्री-
सम्बन्धी । इति मुग्धबोधव्याकरणम् ॥ स्त्रिया
अपत्यं स्त्रैणः । स्त्रिया इदं स्त्रीणां समूहो वा
स्त्रैणम् । इति तट्टीकायां दुर्गादासः ॥ (रमणी
रतः । यथा, भागवते । १ । ११ । ४० ।
“तं मेनिरेऽबलामौढ्यात् स्त्रैणं चानुव्रतं रहः ।
अप्रमाणविदो भर्त्तुरीश्वरं मतयो यथा ॥”)

स्थः, त्रि, (तिष्ठत्यस्मिन्निति स्था + घञर्थे कः ।)

स्थलम् । यथा, --
“स्थली दैवकर्त्तृकेऽन्यत् स्थलं क्लीवे स्थ इत्यपि ।”
इति शब्दरत्नावली ॥
(सुबन्तोपपदे तु “सुपि स्थः ।” ३ । २ । ४ ।
इति कप्रत्ययः । स्थितिशीलः । यथा, रघुः ।
१२ । १५ ।
“चित्रकूटवनस्थञ्च कथितस्वर्गतिर्गुरोः ।
लक्ष्म्या निमन्त्रयाञ्चक्रे तमनुच्छिष्टसम्पदा ॥”

स्थग, म ए संवृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) दन्त्यादिस्थमध्यः । म,
सिस्थगयिषति । ए, अस्थगीत् । इति दुर्गादासः ।

स्थगः, त्रि, (स्थगति संवृणोति आत्मानमिति ।

स्थग + अच् ।) धूर्त्तः । यथा, --
“धूर्त्ते स्थगश्च निर्लज्जः पटुः पाटविकोऽपि च ॥”
इति शब्दरत्नावली त्रिकाण्डशेषश्च ॥

स्थगनं, क्ली, (स्थग + ल्युट् ।) अपवारणम् ।

यथा, --
“व्यवधानं तिरोधानमन्तर्द्धि स्त्वपवारणम् ।
छदनं व्यवधान्तर्द्धापिधानस्थगनानि च ॥”
इति हेमचन्द्रः ॥

स्थगितं, त्रि, (स्थग + क्तः ।) तिरोहितम् ।

तत्पर्य्यायः । संवीतम् २ रुद्धम् ३ आवृतम् ४
संवृतम् ५ पिहितम् ६ छन्नम् ७ अपवारितम् ८
अन्तर्हितम् ९ तिरोधानम् १० । इति हेम-
चन्द्रः ॥ (यथा, किराते । १४ । ३१ ।
“उदूढवक्षः स्थगितैकदिङ्मुखो
विकृष्टविस्फारितचापमण्डलः ॥”)

स्थगी, स्त्री, (स्थग्यतेऽनयेति । स्थग + घञर्थे कः ।

गौरादित्वात् ङीष । ताम्बूलपात्रम् । पानेर
वाटा इति भाषा । तत्पर्य्यायः । ताम्बूलकरङ्क
२ । इति हेमचन्द्रः ॥

स्थगु, क्ली, गडुः । कुज् इति भाषा । यथा, --

“हृदये ते निविष्टास्ता भूयश्चान्याः सहस्रशः ।
तदेव स्थगु यद्दीर्घं रथघोणमिवायतम् ॥
लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु ।
मुखे च तिलकं चित्रं जातरूपमयं शुभम् ॥”
इति रामायणे अयोध्याकाण्डे ९ सर्गः ॥

स्थण्डिलं, क्ली, (तिष्ठत्यस्मिन्निति । स्था + मिथिला-

दयश्चेति इलच्प्रत्ययेन निपातनात् साधु ।)
चत्वरम् । इत्यमरः । २ । ७ । १८ ॥ द्वे वेदी-
रभितोऽन्यत्र वा यज्ञार्थं परिष्कृतायामनिम्नो-
न्नतायां विस्तृतायां भूमौ । असंवाधेन तिष्ठ-
न्त्यत्र स्थण्डिलं नाम्नीति डण्डिलः चत्यते निवा-
साय याच्यते चत्वरं चते ञ याचे पूर्व्वेण वरः ।
इति भरतः ॥ यथा च ।
“यज्ञे परिष्कृतस्थाने स्यातां स्थण्डिलचत्वरे ।”
इति शब्दरत्नावली ॥ * ॥
होमनिमित्ताग्निस्थापनार्थं स्थण्डिलविधिर्यथा,
वशिष्ठसंहितायाम् ।
“तस्मात् सम्यक् परीक्ष्यैवं कर्त्तव्यं शुभवेदिकम् ।
हस्तमात्रं स्थण्डिलं वा संक्षिप्ते होमकर्म्मणि ॥”
पृष्ठ ५/४४४
क्रियासारेऽपि ।
“कुण्डमेवंविधं न स्यात् स्थण्डिलं वा समा-
श्रयेत् ॥”
शारदातिलकेऽपि ।
“नित्यं नैमित्तिकं काम्यं स्थण्डिले वा समाचरेत्
हस्तमात्रन्तु तत् कुर्य्यात् चतुरस्रं समन्ततः ॥”
इति तिथ्यादितत्त्वम् ॥ * ॥
अपि च । गोभिलः । अनुगुप्ता अप आहृत्य
प्रागुदक्प्लवनं देशं समं वा परिसमूह्य उप-
लिप्य मध्यतः प्राचीं रेखामुल्लिख्य उदीचीञ्च
संहतां पश्चान्मध्ये प्राचीस्तिस्र उल्लिख्याभ्यु-
क्षयेत् लक्षणावृदेशा सर्व्वत्रेति । अनुगुप्ता
आच्छादिताः । पतितादिभिरदृष्टा इति यावत् ॥
प्राङ्नीचादिफलमाह गुह्यासंग्रहे गोभिल-
पुत्त्रः ।
“प्राङ्नीचं ब्रह्मवर्च्चस्यमुदङ्नीचं यशोत्तमम् ।
पित्त्र्यं दक्षिणतो नीचं प्रतिष्ठालम्भकं समम् ॥”
यशोत्तममित्यत्र सान्ता अप्यदन्ता इत्यक्तेर-
दन्तोऽपि यशशब्दः गयाशिरः इतिवत् । परि-
समूह्य सर्व्वतः कुशैः पांश्वादिकमपसार्य्य उत्त-
रस्यां दिशि सार्द्धहस्तोपरि क्षिपेत् । परि-
ससूह्य वितस्तित्रये उत्तरत उत्करं करोतीति
हरिशर्म्मधृतवचनात् । तत उपलेपनम् ॥ * ॥
तत्र कारणमाह गृह्यासंग्रहः ।
“इन्द्रेण वज्राभिहतः पुरा वृत्रो महासुरः ।
मेदसा तस्य संक्लिन्नातदर्थमुपलेपयेत् ॥” इति ।
मध्यतः स्थण्डिलाभ्यन्तरे दक्षिणांशे न तु
मध्यांशे उदग्गतैकविंशत्यङ्गुलरेखानुरोधात् ।
अन्यथा ॥
“कुशैः संमार्ज्जयेद्भूमिं शुद्धामादौ शुचिस्ततः ।
हस्तमात्रां चतुरस्रां गोमयेनोपलेपयेत् ॥”
इति भारद्वाजीयहस्तप्रमाणस्थण्डिले तदनुप-
पत्तेः । प्राचीं प्राग्गताम् । उदीचीञ्च संहतां
पश्चादिति । प्राग्गतायाः पश्चिमे भागे संलग्ना-
मुदगग्राम् । मध्ये उदन्गतायाः प्राचीः प्राग-
ग्रास्तिस्रो रेखा उल्लिख्याभ्युक्षयेदिति । रेखाभ्य
उद्धृतमृत्तिकोद्धरणपूर्व्वकमभ्युक्षयेत् । उल्लिख्य
उद्धृत्याभ्युक्षयेदिति कात्यायनसूत्रात् ॥ * ॥
उत्करप्रक्षेपदेशमाह गृह्यासंग्रहः ।
“उत्करं गृह्य रेखाभ्योऽरत्निमात्रे निधापयेत् ।
द्वारमेतत् पदार्थानां प्रागुदीच्यां दिशि स्मृतम्
इति ॥
परिममूहनादिपरिषेकान्तं कर्म्म लक्षणसंज्ञकं
तस्य लुक्षणस्यावृत प्रक्रिया सर्व्वत्र यत्र यत्राग्नि-
प्रणयनं तत्र बोध्या ॥ * ॥ रेखाप्रमाणमाह
छन्दोगपरिशिष्ठे कात्यायनः ।
“दक्षिणे प्राग्गतायास्तु प्रमाणं द्वादशाङ्गुलम्
तन्मूललग्ना योदीची तस्या एवं नवोत्तरम् ॥
उदग्गतायाः संलग्नाः शेषाः प्रादेशमात्रिकाः ।
सप्तसप्ताङ्ग लांस्त्यक्त्वा कुशेनैव समल्लिखेत् ॥”
नवोत्तरं नवाधिकं द्वदिशाङ्गु लमेकविंशत्यङ्गुल-
मित्यर्थः । शेषाः उक्तरेखयोरवशिष्टास्तिस्रः ।
कुशेन इति सर्व्वत्राभिसम्बध्यते । एवकारेण
शाखान्तरोक्तस्य व्यावृत्तिः ॥ * ॥ रेखाणां
देवता वर्णांश्चाह स्मृतिः ।
“प्राग्गता पार्थिवी ज्ञेया चाग्नेयी चाप्युद-
ग्गता ।
प्राजापत्या तथा चैन्द्री सौमी च प्राक्कृता
स्मृता ॥
पार्थिवी पीतवर्णा स्यादाग्नेयी लोहिता भवेत्
प्राजापत्या भवेत् कृष्णा नीला चैन्द्री प्रकी-
र्त्तिता ॥
श्वेतवर्णेन सौमी स्यात् रेखाणां वर्णलक्षणम् ॥”
अग्निस्थापनपर्य्यन्तं सव्यहस्तप्रादेशस्य विधान
माह । गृह्यासंग्रहः ।
“सव्यं भूमौ प्रतिष्ठाप्य प्रोल्लिखेद्दक्षिणेन तु ।
तावन्नोत्थापयेत् पाणिं यावदग्निं निधापयेत् ॥”
मानकर्त्तारमाह छन्दोगपरिशिष्टे कात्यायनः ।
“मानक्रियायामुक्तायामनुक्त्वे मानकर्त्तरि ।
मानकृद्यजमानः स्याद्विदुषामेष निश्चयः ॥”
अङ्गुष्ठाङ्गुलिमानमाह स एव ।
“अङ्गुष्ठाङ्गुलिमानन्तु यत्र यत्रोपदिश्यते ।
तत्र तत्र बृहत्पर्व्वग्रन्थिभिर्म्मिनुयात् सदा ॥”
यजमानासन्निधौ होमे तु साधारणाङ्गुलि-
मानम् । यथा कपिलपञ्चरात्रम् ।
“अष्टभिस्तैर्भवेज्ज्यैष्ठं मध्यमं सप्तभिर्यवैः ।
कन्यसं षड्भिरुद्दिष्टमङ्गुलं मुनिसत्तमैः ॥”
तैः प्रक्रम्यमाणयवैः । कन्यसं कनिष्ठम् । मानन्तु
पार्श्वेन । षड्यवाः पार्श्वसंमिताः । इति कात्य-
यनवचनात् । इति संस्कारतत्त्वम् ॥

स्थण्डिलशायी, [न्] पुं, (स्थण्डिले शेते इति ।

शी + “व्रते ।” ३ । २ । ८० । इति इनिः ।)
यो व्रतवशात् स्थण्डिले शेते सः । तत्पर्य्यायः ।
स्थाण्डिलः २ । इत्यमरः । २ । ७ । ४४ ॥ स्थण्डि-
लेशयः ३ । इति शब्दरत्नावली ॥ (वाच्यलिङ्गे-
ऽपि वर्त्तते । यथा, भट्टिः । ३ । ४१ ।
“वाचंयमान् स्थण्डिलशायिनञ्च
युयुक्षमाणाननिशं मुमुक्षून् ।
अध्यापयन्तं विनयात् प्रणेमुः
पद्गा भरद्वाजमुनिं सशिष्यम् ॥”)

स्थण्डिलसितकं, क्ली, (स्थण्डिले सिकता यत्र ।)

वेदिः । इति हारावली ॥

स्थण्डिलेशयः, पुं, (स्थण्डिले शेते इति । शी

+ अच् । अलुक्समासः ।) स्थण्डिलशायी ।
इति शब्दरत्नावली ॥ (वाच्यलिङ्गोऽप्ययमिति
केचित् ॥ यथा, भागवते । ४ । २३ । ६ ।
“आकण्ठमग्नः शिशिरे उदके स्थण्डिलेशयः ॥”)

स्थपतिः, पुं, (तिष्ठन्त्यस्मिन्निति । स्था + कः । स्थः

स्थानम् । तं पातीति । पा + बाहुलकात् अतिः
इत्युणादिवृत्तौ उज्ज्वलः । ४ । ५९ ।) गीष्पतीष्टिय-
ज्वा । बृहस्पतिसवननामकयागकर्त्ता । कारु-
भेदः । राज् इति भाषा । इत्यमरः । ३ । ३ । ६० ॥
कारुः शिल्पी तद्भेदे थै इति ख्याते । स्थपतिः
कारुभेदो मुख्यतक्षेति स्वामी । बृहस्पतियाग-
याजिनि कुञ्चुकिनि च । इति भरतः ॥ * ॥ तस्य
लक्षणं यथा, --
“वास्तुविद्याविधानज्ञो लघुहस्तो जितश्रमः
दीर्घदर्शी च शूरश्च स्थपतिः परिकीर्त्तितः ॥”
इति मात्स्ये । २१५ । ३९ ॥
कञ्चुकी । इति मेदिनी ॥ कुबेरः । इत्यजय-
पालः ॥ अधीशः । इति हेमचन्द्रः ॥ (यथा,
रामायणे । २ । ५२ । ५ ।
“स तु रामस्य वचनं निशम्य प्रतिगृह्य च ।
स्थपतिस्तूर्णमाहूय सचिवानिदमब्रवीत् ॥”)

स्थपतिः, त्रि, (तिष्ठन्ति स्वधर्म्मे इति स्थाः सन्त-

स्तेषां पतिः ।) सत्तमः । इति मेदिनी ॥

स्थपुटः, त्रि, विषमसञ्चारजीवी । इति त्रिकाण्ड-

शेषः ॥ विषमोन्नतम् । इति हेमचन्द्रः ॥

स्थल, जस्थाने । इति कविकल्पद्रुमः ॥ (भ्वा० पर०

अक०-सेट् ।) ज, स्थालः स्थलः । तिस्थाल-
यिषति । अयं नास्तीति केचित् । इति दुर्गा-
दासः ॥

स्थलं, क्ली, स्त्री, (स्थल + अच् ।) जलशून्या-

कृत्रिमभूभागः । तत्पर्य्यायः । स्थली २ । इत्य-
मरः । २ । १ । ५ । स्थल्यते स्थीयतेऽत्र स्थलं
स्थलज स्थाने अल् । एवं स्थली नारी सखी
इत्यादिना अकृत्रिमत्वे ईपि स्थली निपात्यते
कृत्रिमत्वे तु आबेव स्थला । कृत्रिमाकृत्रिम-
सामान्ये तु स्थलं प्रयुज्यते । इति वृद्धाः । स्थल-
शब्दः स्त्रीनपुंसकलिङ्गः । इति भरतः ॥ (यथा,
मनुः । ७ । १९२ ।
“स्यन्दनाश्वैः समे युध्येदनूपे नौद्विपैस्तथा ।
वृक्षगुल्मावृते चापैरसिचर्म्मायुधैः स्थले ॥”
यथा च तैत्तिरीयसंहितायाम् । १ । ६ । १० । ५ ।
“यज्ञो यजमानाय वर्षति स्थलयोदकं परि-
गृह्णन्ति ॥”)

स्थलं, क्ली, (स्थल + अच् ।) जलशून्यकृत्रिमा

कृचिमभूभागः । इत्यमरटीकायां भरतः । २ ।
१ । ५ । (स्थानमात्रम् । यथा, रघुः । ५ । ५२ ।
उवाच वाग्मी दशनप्रभाभिः
सवर्द्ध्वितोरःस्थलतारहारः ॥”)
वस्त्रगृहम् । यथा, --
“पटवासः पटमयं दूष्यं बस्त्रगृहं स्थलम् ॥”
इति त्रिकाण्डशेषः ॥

स्थलकन्दः, पुं, (स्थलजातकन्दः ।) अग्राम्य

कन्दः । इति रत्नमाला ॥ वनओल इति
भाषा ॥

स्थलकमलं, क्ली, (स्थलस्य कमलम् ।) स्थल-

पद्मम् । (यथा, गीतगोविन्दे । १० । ७ ।
“स्थलकमलगञ्जनं मम हृदयरञ्जनं
जनितरतिरङ्गपरभागम् ॥”)
तत्पर्य्यायः । पद्मचारिणी २ अतिचरा ३
व्यथा ४ पद्मा ५ चारटी ६ । अस्य गुणाः ।
अनुष्णत्वम् । कटुत्वंम् । तिक्तत्वम् । कषायत्वम् ।
कफवातमूत्रकृच्छ्राश्मशूलश्वासकासविषापह-
त्वम् । इति भावप्रकाशः ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/सौधः&oldid=44110" इत्यस्माद् प्रतिप्राप्तम्