पृष्ठ ५/४६५

स्यम, उ ण श ध्वनने । इति कविकल्पद्रुमः ॥

(तुदा०-पर०-सक०-सेट् क्त्वावेट् ।) अन्तः-
स्थादियुक्तः । उ, स्यमित्वा स्यान्त्वा । ण,
स्येमतुः सस्यमतुः । श, स्यमती स्यमन्ती । इति
दुर्गादासः ॥
स्यम, ञ क वितर्के । इति कविकल्पद्रुमः ॥ (चुरा०-
उभ०-सक०-सेट् ।) अन्तःस्थादियुक्तः । अस्य
स्वार्थे ञौ ह्रस्वो न स्यात् प्रेरणे ञौ तु स्यादे-
वेति प्राञ्चः । स्वमते मनीषादित्वात् सिद्धिः ।
ञ क, स्यामयति स्यामयते लोकः पुरुषं स्थाणु-
त्वेन । इति दुर्गादासः ॥

स्यम, त् क ध्वाने । इति कविकल्पद्रुमः ॥ (अदन्त-

चुरा०-पर०-सक०-सेट् ।) अन्तःस्थादियुक्तः ।
स्यमयति । इति दुर्गादासः ॥

स्यमन्तकः, पुं, श्रीकृष्णस्य हस्तमणिः । यथा, --

“मणिः स्यमन्तको हस्ते भुजमध्ये तु कौस्तुभः ।”
इति हेमचन्द्रः ॥ * ॥
अथ स्यमन्तकोपाख्यानम् ।
श्रीशुक उवाच ।
“आसीत् सत्राजितः सूर्य्यो भक्तस्य परमः सखा ।
प्रीतस्तस्मै मणिं प्रादात् स च तुष्टः स्यमन्तकम् ॥
स तं बिभ्रन्मणिं कण्ठे भ्राजमानो यथा रविः ।
प्रविष्टो द्वारकां राजंस्तेजसा नोपलक्षितः ॥
तं विलोक्य जना दूरात्तेजसा मुष्णदृष्टयः ।
दीव्यतेऽक्षैर्भगवते शशंसुः सूर्य्यशङ्किताः ॥
नारायण नमस्तेऽस्तु शङ्खचक्रगदाधर ।
दामोदरारविन्दाक्ष गोविन्द यदुनन्दन ॥
एष आयाति सविता त्वां दिदृक्षुर्जमत्पते ।
मुष्णन् गभस्तिचक्रेण नृणां चक्षुंषि तिग्मगुः ॥
नन्वन्विच्छन्ति ते मार्गं त्रिलोक्यां विबुधर्षभाः ।
ज्ञात्वाद्य गूढं यदुषु द्रष्टुं त्वां यात्यजः प्रभो ॥
श्रीशुक उवाच ।
निशम्य बालवचनं प्रहस्याम्बजलोचनः ।
प्राह नासा रविर्देवः सत्राजिन्मणिना ज्वलन् ॥
सत्राजित् स्वगृहं श्रौमत् कृतकौतुकमङ्गलम् ।
प्रविश्य देवसदने मणिं विप्रैर्न्यवेशयत् ॥
दिने दिने स्वर्णभारानष्टौ स सृजति प्रभो ।
दुर्भिक्षमार्य्यरिष्टानि सर्पाधिव्याधयोऽशुभाः ॥
न सन्ति मायिनस्तत्र यत्रास्तेऽभ्यर्च्चितो मणिः ।
स याचितो मणिं क्वापि यदुराजाय शौरिणा ।
नैवार्थकामुकः प्रादात् याच्ञाभङ्गमतर्कयन् ॥
तमेकदा मणिं कण्ठे प्रतिमुच्य महाप्रभम् ।
प्रसेनो हयमारुह्य मृगयां व्यचरद् वने ॥
प्रसेनं सहयं हत्वा मणिमाच्छिद्य केशरी ।
गिरिं विशन् जाम्बवता निहतो मणिमिच्छता ॥
सोऽपि चक्रे कुमारस्य मणिं क्रीडनकं गले ।
अपश्यन् भ्रातरं भ्राता सत्राजित् पर्य्यतप्यत ॥
प्रायः कृष्णेन निहतो मणिग्रीवो वनं गतः ।
भ्राता ममेति तत् श्रुत्वा कर्णे कर्णेऽजपन् जनाः ॥
भगवांस्तदुपश्रुत्य दुर्यशो लिप्तमात्मनि ।
मार्ष्टुं प्रसेनपदवीमन्वपद्यत नागरैः ॥
हतं प्रसेनमश्वञ्च वीक्ष्य केशरिणा वने ।
तञ्चाद्रिपृष्ठे निहतमृक्षेण ददृशुर्जनाः ॥
ऋक्षराजविलं भीममन्धेन तमसावृतम् ।
एको विवेश भगवानवस्थाप्य बहिः प्रजाः ॥
तत्र दृष्ट्वा मणिश्रेष्ठं बालक्रीडनकं कृतम् ।
हर्त्तुं कृतमतिस्तस्मिन्नवतस्थेऽर्भकान्तिके ॥
तमपूब्ब नरं दृष्ट्वा धात्री चुक्रोश भीतवत् ।
तत् श्रुत्वाभ्यद्रवत् क्रुद्धो जाम्बवान् बलिनां
वरः ॥
स वै भगवता तेन युयुधे स्वामिनात्मनः ।
आसीत्तदष्टविंशाहमितरेतरमुष्टिभिः ॥
क्षीणसत्त्वः स्विन्नगात्रस्तमाहातीवविस्मितः ।
जाने त्वां सर्व्वभूतानां प्राण ओजः सहो बलम् ।
विष्णुं पुराणपुरुषं प्रभविष्णुमधीश्वरम् ॥
इति विज्ञातविज्ञानमृक्षराजानमच्युतः ।
व्याजहार महाराज भगवान् देवकीसुतः ॥
मणिहेतोरिह प्राप्ता वयमृक्षपते विलम् ।
भिथ्याभिशापं प्रमृजन्नात्मनो मणिनामुना ॥
इत्युक्तः स्वां दुहितरं कन्यां जाम्बवतीं मुदा
अर्हणार्थं स मणिना कृष्णायोपजहार सः ॥
सत्राजितं समाहूय सभायां राजसन्निधौ ।
प्राप्तिञ्चाख्याय भगवान् मणिं तस्मैन्यवेदयत् ॥
सोऽनुध्यायंस्तदेवाघं बलवद्विग्रहाकुलः ।
कथं मृजाम्यात्मरजः प्रसीदेद्वाच्युतः कथम् ॥
एवं व्यवसितो बुद्ध्या सत्राजित् स्वसुतां शुभाम् ।
मणिञ्च स्वयमुद्यम्य कृष्णायोपजहार सः ॥
भगवानाह न मणिं प्रतीच्छामो वयं नृप ।
तवास्तु देवभक्तस्य वयञ्च फलभागिनः ॥”
इति भागवते १० स्कन्धे ५६ अध्यायः ॥
सौरभाद्रीयचतुर्थ्यां चन्द्रदर्शने तदुपाख्यानश्रवण-
विधिर्यथा, ब्रह्मपुराणे सिंहार्काधिकारे ।
“नारायणोऽभिशप्तस्तु निशाकरमरीचिषु ।
स्थितश्चतुर्थ्यामद्यापि मनुष्यायापतेच्च सः ॥
अतश्चतुर्थ्यां चन्द्रन्तु प्रमादाद्वीक्ष्य मानवः ।
पठेद्धात्रेयिकावाक्यं प्राङ्मुस्वो वाप्युदङ्मुखः ॥”
अभिशप्तः परीवादविषयीभूतः । सोऽभिशापः ।
धात्रेयिकावाक्यं विष्णुपुराणे ।
“सिंहः प्रसेनमवधीत् सिंहो जाम्बवता हतः ।
सुकुमारक मारोदीस्तव ह्येष स्यमन्तकः ॥”
अनेन मन्त्रेणाभिमन्त्रितं जलं पेयम् । आचारात्
स्यमन्तकोपाख्यानञ्च श्रोतव्यम् । इति तिथ्यादि-
तत्त्वम् ॥

स्यमीकः, पुं, (स्यमतीति । स्यमु शब्दे + “स्यमे-

रीट् च ।” उणा० ३ । ४६ । इति कन् । ईट् च ।)
वल्मीकम् । वृक्षविशेषः । इति मेदिनी ॥
कालः । मेघः । इति केचित् ॥

स्यमीका, स्त्री, नीलिका । इति मेदिनी ॥

स्यालः, पुं, श्यालकः । इत्यमरटोकायां स्वामी ।

२ । ६ । ३२ ॥ (यथा कथासरित्सागरे । ४ । ९६ ।
“अतः स्यालः स ते किञ्चित् त्वद्गुणैः सम-
वाप्यते ॥”)

स्युत्नं, क्ली, आह्लादः । इति केचित् ॥

स्यूतः, त्रि, (षिव्यु तन्तुसन्ताने + क्तः । च्छोरि-

त्यूट् ।) सूत्रितः । तन्तुसन्ततम् । वोना इति
भाषा ॥ तत्पर्य्यायः । ऊतम् २ उतम् ३ । इत्य-
मरः ॥ (यथा, महाभारते । ३ । १५७ । ४२ ।
“वडिशोऽयं त्वया ग्रस्तः कालसूत्रेण लम्बितः ।
मत्स्योऽम्भसीव स्यूतास्यः कथमद्य भविष्यसि ॥”)

स्यूतः, पुं, (सिव + क्तः ।) सूत्ररचितभाण्डम् ।

धोक्डा इति ख्यातम् । तत्पर्य्यायः । प्रसेवः २ ।
इत्यमरः । २ । ९ । २६ । स्यूनः ३ स्योनः ४
धौतकटः ५ स्योतः ६ । इति भरतः ॥

स्यूतिः, स्त्री, (सिव + क्तिन् । ऊट् ।) सूच्यादिना

वस्त्रादिसीवनम् । सीयनी इति सेलाइ इति च
भाषा । तत्पर्य्यायः । सेवनम् २ सीवनम् ३ ।
इत्यमरः । ३ । २ । ५ ॥ ऊतिः ४ व्यूतिः ५ ।
इति शब्दरत्नावली ॥

स्यूनः, पुं, (सीव्यते इव येनेति । सिव + “सिवेष्टे-

र्यूच ।” उणा ० ३ । ९ । इति नः । टेर्यू च ।)
किरणः । सूर्य्यः । इति मेदिनी ॥ स्यूतः ।
धुक्डी इति भाषा । इत्यमरटीकायां भरतः ।
२ । ९ । २६ ॥ शब्दरत्नावली च ॥

स्यूमं, क्ली, (सिव + “अविसिविसिशुषिभ्यः

कित् ।” उणा ० १ । १४३ । इति मन् । ज्वरत्व-
रेत्यूट् ।) जलम् । रश्मिः । इति संक्षिप्तसारो-
णादिवृत्तिः ॥

स्यूमः, पुं, (सिव + मन् । ऊट् ।) किरणः ।

इत्युणादिकोषः ॥

स्योतः, पुं, स्यूतः । इत्यमरटीकायां भरतः । २ ।

९ । २६ ॥

स्योनः, पुं, (सिव + बाहुलकात् केवलोऽपि नः

ऊडादेशो गुणश्च । इत्युणादिवृत्तौ उज्ज्वलः ।
३ । ९ ।) धौतकटः । धुक्डी इति भाषा ॥
इत्यमरटीकायां भरतः । २ । ९ । २६ ॥ सूर्य्यः ।
किरणः । इति मेदिनी ॥ आनन्दे, क्ली । इति
केचित् ॥

स्रंसनं, क्ली, (स्रंस + ल्युट् ।) ऊर्द्ध्वगतदोषस्याधो-

नयनम् । इति सुश्रुतट्टीका ॥ (यथा, सुश्रुते ।
६ । १० ।
“पित्तस्यन्दे पैत्तिके चाधिमन्थे
रक्तास्रावः स्रंसनञ्चापि कार्य्यम् ॥”
अधःपतनम् । भ्रंशः । इति स्रंसधात्वर्थदर्श-
नात् ॥ * ॥ स्रंसयतीति । स्रंस + णिच् + ल्युः ।
अधःपतनकारके, त्रि । यथा, सुश्रुते । १ । ४६ ।
“स्रंसनं कटुकं पाके लघुवातकफापहम् ॥”)

स्रंसिनीफलः, पुं, शिरीषवृक्षः । इति शब्दमाला ॥

स्रंसी, [न्] पुं, (स्रंसते इति । स्रंस + णिनिः ।)

पीलुवृक्षः । इत्यमरः । २ । ४ । २८ ॥ अधः-
पतनशीले, त्रि ॥

स्रक, इ ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) इ, स्रङ्क्यते । ङ, स्रङ्कते ।
इति दुर्गादासः ॥

स्रक्, [ज्] स्त्री, (सृजति शोभामिति सृज्यते

इति वा । सृज + ऋत्विगादिना
कर्त्तरि कर्म्मणि वा क्विन् ।) माल्यम् । मूर्द्ध्नि
न्यस्तपुष्पदाम । इत्यमरः । २ । ६ । १३५ ॥
(यथा, मनुः । ४ । ६६ ।
“उपानहौ च वासश्च धृतमन्यैर्न धारयेत् ।
उपवीतमलङ्कारं स्रजं करकमेव च ॥”)
अस्याः पर्य्यायादि मालाशब्दे द्रष्टव्यम् ॥

स्रग्, [ज्] स्त्री, (सृजति शोभामिति सृज्यते

इति वा । सृज + ऋत्विगादिना
कर्त्तरि कर्म्मणि वा क्विन् ।) माल्यम् । मूर्द्ध्नि
न्यस्तपुष्पदाम । इत्यमरः । २ । ६ । १३५ ॥
(यथा, मनुः । ४ । ६६ ।
“उपानहौ च वासश्च धृतमन्यैर्न धारयेत् ।
उपवीतमलङ्कारं स्रजं करकमेव च ॥”)
अस्याः पर्य्यायादि मालाशब्दे द्रष्टव्यम् ॥
पृष्ठ ५/४६६

स्रग्वान्, [त्] त्रि, (स्रक् विद्यतेऽस्येति । स्रज् +

मतुप् । मस्य वः ।) माल्यविशिष्टः । इति
व्याकरणम् ॥

स्रग्वी, [न्] त्रि, (स्रगस्त्यस्येति । स्रञ् + “अस्-

मायामेधास्रजो विनिः ।” ५ । २ । १२१ । इति
विनिः ।) माल्यविशिष्टः । इति व्याकरणम् ॥
(यथा, रघुः । १७ । २५ ।
“आमुक्ताभरणः स्रग्वी हंसचिह्नदुकूलवान् ।
आसीदतिशयप्रेक्ष्यः स राजश्रीबघूवरः ॥”)

स्रजिष्ठः, त्रि, (अयमेषामतिशयेन स्रग्वी । स्रग्विन्

+ इष्ठ । “विन्मतोर्लुक ।” ५ । ३ । ६५ । इति
विनो लुक् ।) माल्यविशिष्टः ॥

स्रजीयान्, [स्] त्रि, (अयमनयोरतिशयेन स्रग्वी ।

स्रग्विन् + ईयसुन् । “विन्मतोर्लुक् ।” ५ । ३ । ६५ ।
इति विनो लुक् ।) माल्यविशिष्टः ।

स्रज्वा, स्त्री, प्रजापतिः । रज्जुः । तन्तुपटसंघातः ।

इति संक्षिप्तसारोणादिवृत्तिः ॥

स्रद्धूः, स्त्री, वातकर्म्म । इति केचित् ॥ शृधधातो-

रूपत्यये न निष्पन्नः । तालव्यशकारादिः साधु-
पाठः ॥

स्रन्भ, उ ङ प्रमादे । इति कविकल्पद्रुमः ॥ भ्वा०-

आत्म०-अक०-सेट् । क्त्वावेट् ।) प्रमादोऽनव-
धानता । उ, स्रम्भिता स्रब्ध्वा । ङ, स्रम्भते
धर्म्मे नीचः । इति दुर्गादासः ॥

स्रन्भ, ऌ उ ङ विश्वासे । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-अक०-सेट् । क्त्वावेट् ।) विश्वासः
शङ्कारहितीभावः । ऌ, अस्रभत् । उ, स्रम्भित्वा
स्रब्ध्वा । ङ, स्रम्भते पुत्त्रो मातरि । तालव्यादि-
रयमित्येके । इति दुर्गादासः ॥

स्रन्स, ऌ उ ङ भ्रंशे । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-अक०-सेट् । क्त्वावेट् ।) रेफ-
युक्तः दन्त्यादिः । ऌ, अस्रसत् । उ, स्रंसित्वा
स्रस्त्वा । ङ, स्रंसते । भ्रंशः अधःपतनम् । इति
दुर्गादासः ॥

स्रन्स, ङ उ प्रसादे । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-अक०-सेट् । क्त्वावेट् ।) ङ,
स्रंसते । उ, स्रंसित्वा स्रस्त्वा । प्रसादः प्रसन्नी-
भावः । इति दुर्गादासः ॥

स्रवः, पुं, (स्रु + अप् ।) स्रवणम् । तत्पर्य्यायः ।

स्रावः २ । इत्यमरः । ३ । २ । ९ ॥ श्रवः ३ ।
इति तट्टीका ॥ प्रस्रावः ४ स्रुवः ५ । इति
शब्दरत्नावलो ॥ निर्झरः । तत्पर्य्यायः । सरः २
सरिः ३ उत्सः ४ प्रस्रवणम् ५ । इति हेम-
चन्द्रः ॥ (यथा, महाभारते । १ । १५३ । ८ ।
“उपपन्नश्चिरस्याद्य भक्षोऽयं मम सुप्रियः ।
स्नेहस्रवान् प्रस्रवति जिह्वा पर्य्येति मे सुखम् ॥”)

स्रवणं, क्ली, (स्रु + ल्युट् ।) मूत्रम् । इति राज-

निर्घण्टः ॥ घर्म्मः । इति शब्दरत्नावली ॥ क्षर-
णम् । इति स्रुधात्वर्थदर्शनात् ॥

स्रवद्गर्भा, स्त्री, (स्रवन् गर्भो यस्याः ।) दैववशात्

पतितगर्भा गौः । तत्पर्य्यायः । अवतोका २ ।
इत्यमरः । २ । ९ । ६९ ॥ पतितगर्भामात्रञ्च ॥

स्रवद्रङ्गः, पुं, (स्रवन् रङ्गो यत्र ।) पणग्रन्थिः ।

वाजार इति पारस्यभाषा ॥ इति हारावली ॥

स्रवन्ती, स्त्री, (स्रु + शतृ । ङीप् ।) नदी । इत्य-

मरः । १ । १० । ३० ॥ (यथा, मनुः । ११ ।
१३३ ।
“उपस्तृशेत् स्रवन्त्यां वा सूक्तं वाब्दैवतं जपेत् ॥)
गुल्मस्थानम् । ओषधिभेदः । इति मेदिनी ॥
क्षरणविशिष्टे, त्रि । यथा । स्रवन् । स्रवन्ती ।
स्रवत् ॥

स्रवा, स्त्री, (स्रवतीति । स्रु + अच् । टाप् ।)

मूर्व्वा । इत्यमरटीकायां रायमुकुटः । २ । ४ । ८३ ॥

स्रष्टा, [ऋ] पुं, (सृजतीति । सृज + तृच् ।)

ब्रह्मा । इत्यमरः । १ । १ । १७ ॥ (यथा,
महानिर्व्वाणतन्त्रे । ३ । ४० ।
“कारणं सर्व्वभूतानां स एकः परमेश्वरः ।
लोकेषु सृष्टिकरणात् स्रष्टा ब्रह्मेति गीयते ॥”)
शिवः । इति हलायुधः ॥ (विष्णुः । इति
महाभारतम् । १३ । १४९ । ११९ ॥) सृष्टि-
कर्त्तरि, त्रि । इति सृजधात्वर्थदर्शनात् ॥ (यथा,
महाभारते । ७ । ७८ । ४५ ।
“स्रष्टारं वारिधाराणां भुवश्च प्रकृतिं पराम् ।
देवदानवयक्षाणां मानवानाञ्च साधनम् ॥”)

स्रस्तं, त्रि, (स्रन्स + क्तः ।) च्युतम् । इत्यमरः ।

३ । १ । १०४ ॥ (यथा, माघे । ५ । १७ ।
“स्रस्तावगुण्ठनपटाः क्षणलक्ष्यमाण-
वक्तश्रियः सभयकौतुकमीक्षते स्म” ॥)

स्रस्तरः, पुं, आसनम् । यथा । अघस्रस्तरे त्र्यह-

मनश्नन्त आसीरन् इति । अघस्रस्तरे उपवेश-
नादौ पीठादिनिषेधात् अघनिमित्तेन कटादि-
विधानात् अघस्रस्तरः कटादिः । इति शुद्धि-
तत्त्वम् ॥

स्राक्, व्य, द्रुतम् । इत्यमरः । ३ । ४ । २ ॥

स्रावः, पुं, (स्रु + घञ् ।) स्रवः । इत्यमरटीकायां

भरतः । ३ । २ । ९ ॥ (यथा, महाभारते ।
९ । १७ । ७९ ।
“ततो महूर्त्तात् तेऽपश्यन् रजो भौमं समु-
त्थितम् ।
विविधैः शोणितस्रावैः प्रशान्तं पुरुषर्षभ ॥”
नेत्ररोगान्तर्गतसन्धिगतरोगविशेषो यथा, --
“गत्वा सन्धीनस्रुमार्गेण दोषाः
कुर्य्यः स्रावान् रुग्विहीनान् स्वलिङ्गान् ।
तान् वै स्रावान् नेत्रनाडी मथैके
तस्या लिङ्गं कीर्त्तयिष्ये चतुर्धा ॥
पाकः सन्धौ संस्रवेद्यश्च पूयं
पूयास्रावो नैकरूपः प्रदिष्टः ।
श्वेतं सान्द्रं पिच्छिलं यः स्रवेच्च
श्लेष्मास्रावो नीरुजः स प्रदिष्टः ॥
रक्तास्रावः शौणितोत्थः सरक्तं
कोष्णं नाल्पं संस्रवेन्नातिसान्द्रम् ।
पीताभासं नीलमुष्णं जलाभं
पित्तस्रावं संस्रवेत्सन्धिमध्यात् ॥”
इत्युत्तरतन्त्रे द्वितीयेऽध्याये सुश्रुतेनोक्तम् ॥)

स्रावकं, क्ली, (स्रावयतीति । स्रु + णिच् + ण्वुल् ।)

मरीचम् । इति शब्दचन्द्रिका ॥ क्षरके, त्रि ॥

स्रावणी, स्त्री, ऋद्धिवृक्षः । इति केचित् ॥

स्रिन्भ, उ हिंसे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् । क्त्वावेट् ।) रेफयुक्तादिः ।
तृतीयस्वरी । उ, स्रिम्भिता स्रिब्ध्वा । इति
दुर्गादासः ॥

स्रिभ, उ हिंसे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् । क्त्वावेट् ।) रेफयुक्तादिः ।
तृतीयस्वरी । उ, स्रेभित्वा स्रिब्ध्वा । इति
दुर्गादांसः ॥

स्रिव, य उ शोषे । गती । इति कविकल्पद्रुमः ॥

(दिवा०-पर०-सक०-सेट् । क्त्वावेट् ।) रेफ-
युक्तः । सकारादिः । तृतीयस्वरी । य, स्रीव्यति
उ, स्रेवित्वा । स्रित्वा । सिस्रेव । इति दुर्गादासः ॥

स्रु, स्रुतौ । गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-स्रुतौ अक०-गतौ सक०-अनिट् ।)
स्रवति । इति दुर्गादासः ॥

स्रुक् [च्] स्त्री, (स्रवति घृतादिकमस्या

इति । स्रु श्रुतौ + “चिक्च ।”
उणा ० २ । ६२ । इति चिक् ।) यज्ञपात्र-
विशेषः । यथा, --

स्रुग् स्त्री, (स्रवति घृतादिकमस्या

इति । स्रु श्रुतौ + “चिक्च ।”
उणा ० २ । ६२ । इति चिक् ।) यज्ञपात्र-
विशेषः । यथा, --
“ध्रुवोपभृज्जुहूर्ना तु स्रुवो भेदाः स्रुचः स्त्रियः ॥”
इत्यमरः । २ । ७ । २५ ॥
ध्रुवा वटपत्राकृतिः । उपभृच्चक्राकारा । जुहूः
अर्द्धचन्द्राकृतिः ।
“वैकङ्कती ध्रुवा प्रोक्ता आश्वत्थी चोपभृन्मता ।
जुहूः पलाशकाष्ठस्य खदिरस्य स्रुवो मतः ॥”
इति भरतः ॥
“स्रुवादिकन्तु यज्ञादौ पात्रमित्यभिधीयते ।
स्रुवः पुमानेकहस्तो बाहुमात्रा स्रुगीरिता ।
तद्विशेषाः शरावाग्राः स्त्री जुहूरुपभृत् ध्रुवा ॥”
इति शब्दरत्नावली ॥

स्रुग्दारु, क्ली, (स्रुचो द्रारु ।) व्याघ्रपाद्वृक्षः ।

इति जटाधरः ॥

स्रुघ्नी, स्त्री, स्वर्जिकाक्षारः । यथा, हेमचन्द्रः ।

“समास्तु स्वर्जिकाक्षारकापोतसुखवर्च्चिकाः ।
सर्जिस्तु सर्जिका स्रुघ्नी योगवाही सुवर्च्चिका ॥”

स्रुतं, त्रि, (स्रु + क्तः ।) क्षरितजलादि । तत्-

पर्य्यायः । स्यन्नम् २ रीणम् ३ च्युतम् ४ । इत्य-
मरः । ३ । १ । ९२ ॥ (यथा, मनौ । ४ । १२२ ।
“अतिथिञ्चाननुज्ञाप्य मारुते वाति वा भृशम् ।
रुधिरे च स्रुते गात्राच्छस्त्रेण च परिक्षते ॥”)
स्रुतम् । इति जटाधरः ॥

स्रुता, स्त्री, (स्रु + क्तः । टाप् ।) हिङ्गुलीपत्री ।

इति शब्दचन्द्रिका ॥

स्रुवः, पुं, स्त्री, (स्रवति घृतादिकमस्मादिति ।

स्रु + “स्रुवः कः ।” उणा ० २ । ६१ । इति
कः ।) यज्ञपात्रविशेषः । इति मेदिनी ॥ (यथा,
मनुः । ५ । ११७ ।
“चरूणां स्रुक्स्रुवाणाञ्च शुद्धिरुष्णेन वारिणा ॥”)
तद्विवरणं स्रुक्शब्दे द्रष्टव्यम् ॥
पृष्ठ ५/४६७

स्रुवा, स्त्री, (स्रु + कः । टाप् ।) शल्लकी ।

मूर्व्वा । इति मेदिनी ॥ (स्रुक् । इति च
मेदिनी ॥ अस्याः पर्य्यायो यथा, --
“मूर्व्वा मधुरसा देवी मोरटा तेजनी स्रुवा ।
मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

स्रुवावृक्षः, पुं, (स्रु वायाः वृक्षः ।) विकङ्कत-

वृक्षः । इत्यमरः । २ । ४ । ३७ ॥ (अथास्य पर्य्यायाः
यथा, भावप्रकाशस्य पूर्व्वखण्डे प्रथमे मागे ।
“विकङ्कतः स्रुवावृक्षो ग्रन्थिलः स्वादुकण्टकः ।
स एव यज्ञवृक्षश्च कण्टकी व्याघ्रपादपि” ॥)

स्रुः, स्त्री, (स्रु स्रुतौ + “क्विप् वचिप्रच्छीति ।”

उणा० २ । ५७ । इति क्विप् दीर्घश्च ।) यज्ञ-
पात्रविशेषः । स्रवति घृतादिकमस्याः । इत्यमर-
टीकायां भरतः । २ । ७ । २५ ॥ निर्झरः । यथा,
“स्रूः स्रवे निर्झरेऽपि च ।” इति हेमचन्द्रः ॥

स्रै, पचि । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-अनिट् ।) रेफयुक्तः । स्रायति । पचि
पाके । इति दुर्गादासः ॥

स्रोतं, क्ली, स्रोतः । इत्यमरटीकायां भरतः ॥

(यथा, महाभारते । ३ । ६८ । १३ ।
“पतिशोकाकुलां दीनां शुष्कस्रोतां नदीमिव ॥”
पुंलिङ्गान्तोऽयमिति उणादिटीकायां उज्ज्वल-
दत्तः । ४ । २०१ ॥)

स्रोतः, [स्] क्ली, (स्रवतीति । स्रु गतौ + “स्रुरीभ्यां

तुट् च ।” उणा० ४ । २०१ । इति असुन् ।
तुट् च ।) स्वतोऽम्बुसरणम् । इत्यमरः । १ ।
१० । ११ ॥ वेगेन जलवहनं स्रोतः । स्वतः
स्वयमम्बुनः सरणं गमनं स्रोतः इत्यन्वयः । स्वत
इत्यात्महेतुकं न परहेतुकम् । तस् क्तेरिति
तृतीयायास्तस् स्रवति स्रोतः स्रुद्रुवत् त्रासुसिति
अस् निपातनात्तन् स्रोतः सान्तम् । स्रोतः सद्यः
सकलसलिलं सिंहकं सक्वमूलम् । इति दन्त्या-
दावुष्मभेदः । स्रोतमदन्तञ्च । स्रोतः स्रोतं महा-
नदः स्रवः पैञ्चषमस्त्रियाम् । इति हडडचन्द्रः ।
इत्यमरटीकायां भरतः ॥ (यथा, आर्य्या-
सप्तशत्याम् । ४९१ ।
“रुद्धस्वरसप्रसरस्यालिभिरग्रे नतं प्रियं प्रति मे ।
स्रोतस इव निम्नं प्रतिरागस्य द्विगुण आवेगः”)
नदी । यथा, गीतायाम् । १० । ३१ ।
“झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥”
शरीरस्थनवच्छिद्राणि । (मनःप्राणान्नपाणी-
यादिव हशरीरस्थासंख्यमार्गविशेषः । इति भाव-
प्रकाशादयः ॥) यथा, --
“स्रोतांसि खानि छिद्राणि कालखण्डं यकृन्मतम् ॥”
इति राजनिर्घण्टः ॥
(“यावन्तः पुरुषे मूर्त्तिमन्तो भावविशेषास्तावन्त-
एवास्मिन् स्रोतसां प्रकारविशेषा सर्व्वभावा हि
पुरुषेणान्तरेण स्रोतांस्यभिनिर्व्वर्न्तन्ते क्षयं वा
न गच्छन्ति । स्रोतांसि खलु परिणाममापद्य-
मानानां धातूनामभिवाहीनि भवन्ति अयनार्थे-
नांपि चैके स्रोतसामेव समुदायं पुरुषमिच्छन्ति
सर्व्वगतत्वात् सर्व्वसरत्वाच्च दोषप्रकोपप्रशमा-
नानां नत्वेतदेवं यस्य सहि स्रोतांसि यच्च वहन्ति
यच्चावहन्ति यत्र चावस्थितानि सर्व्वं तदन्य-
त्तेभ्यः । अतिबहुत्वात्तु खलु केचिदपरिसङ्ख्ये-
यानि आचक्षन्ते स्रोतांसि परिसङ्ख्येयानि पुन-
रन्ये तेषां स्रोतसां यथास्थलं कतिचित् प्रकारान्
मूलतश्च प्रकोपपरिज्ञानतश्चानुव्याख्यास्यामः
ये भविष्यन्त्यलमनुक्तार्थज्ञानवते विज्ञानाय
चाज्ञानाय तद्यथा प्राणोदकान्नरसरुधिर-
मांसमेदोऽस्थि-मज्जाशुक्र-मूत्रपुरीषस्वेदवहानि
वातपित्तश्लेष्मणां पुनः सर्व्वशरीरचराणां सर्व्व-
स्रोतांसि अयनभूतानि । तद्वदतीन्द्रियाणां
पुनः सत्त्वादीनां केवलं चेतनावत् शरीरमयन-
भूतमधिष्ठावभूतञ्च तदेतत् स्रोतसां प्रकृति-
भूतत्वात् न विकारैरुपसृज्यते शरीरम् ।” इति
चरके विमानस्थाने पञ्चमाध्वाये ॥)

स्रोतईशः, पुं, (स्रोतसामीशः ।) समुद्रः । इति

हेमचन्द्रः ॥

स्रोतस्यः, पुं, शिवः । चौरः । स्रोतःशब्दात् यत्-

प्रत्ययेन निष्पन्नः । इति केचित् ॥ (स्रोतसि भवः ।
स्रोतस् + “स्रोतसो विभाषाड्यड्ड्यौ ।” ४ । ४ ।
११३ । इति ड्यः । स्रोतोभवे, त्रि । इति
काशिका ॥)

स्रोतस्वती, स्त्री, (स्रोतोऽस्त्यस्यामिति । मतुप् ।

मस्य वः । उगितश्चेति ङीप् ।) नदी । इत्य-
मरः । १ । १० । ३० ॥

स्रोतस्विनी, स्त्री, (स्रोतोऽस्त्यस्यामिति । स्रोतस् +

“अस्मायावेधास्रजो विनिः ।” ५ । २ । १२१ ।
इति विनिः ।) नदी । इत्यमरटीकायां भरतः ।
१ । १० । ३० ॥

स्रोतोञ्जनं, क्ली, (स्रोतोभवमञ्जनम्) यमुना-

स्रोतोभवाञ्जनम् । तत्पर्य्यायः । सौवीरम् २
कापोताञ्जनम् ३ यामुनम् ४ इत्यमरः । २ । ९ ।
१०० ॥ अञ्ज्यते नयनमनेन चक्षुष्यत्वादञ्जनं
अनट् । यमुनायाः स्रोतोभवत्वात् स्रोतसो-
ऽञ्जनं स्रोतोञ्जनम् । सुवीरदेशे भवं सौवौरं
ष्णः । स्रोतोञ्जनाद्विलक्षणं सौवीरमिति ख्यातम् ।
अदूरभवत्वाद्भेदेऽपि एकत्वोपनिबन्धनमिति
सुभूतिः । कपोतस्यायं कापोतो वर्णः तद्युक्त-
मञ्जनं कापोताञ्जनम् । कापोतवर्णमञ्जनं
कापोताञ्जनमिति स्वामी । यमुनायां भवं
यामुनं ष्णः । इति तट्टीकायां भरतः ॥ * ॥
अपरञ्च ।
“स्रोतोञ्जनं नदीजञ्च कृष्णं श्वेतञ्च लोहितम् ॥”
इति रत्नमाला ॥
तत्पर्य्यायान्तरं यथा । वारिभवम् ५ स्रोतोभवम् ६
स्रोतनदीभवम् ७ सौवीरसारम् ८ कपोत-
सारम् ९ वल्मीकशीर्षम् १० । अस्य गुणाः ।
शीतत्वम् । कटुत्वम् । कषायत्वम् । क्रमिनाशि-
त्वम् । रसायनत्वम् । रसे योग्यत्वम् । स्तनवृद्धि-
करत्वञ्च । तस्य लक्षणं यथा, --
“बल्मीकशिखराकारं भिन्नं नीलाञ्जनप्रभम् ।
घृष्टे च गैरिकावर्णं श्रेष्ठं स्रोतोञ्जनञ्च तत् ॥”
इति राजनिर्घण्टः ॥
अपि च ।
“स्रोतोञ्जनं मतं श्रेष्ठं विशुद्धं सिन्धुसम्भवम् ।
दृष्टे कण्डूमलहरं दाहक्लेदरुजापहम् ॥
अक्ष्णो रूपावहञ्चैव सहते मारुतातपौ ।
नेत्ररोगा न जायन्ते तस्मादञ्जनमाचरेत् ॥”
स्रोतोऽञ्जनं कृष्ण सुरमा इति । शोधनं विनापि
सिन्धुनामपर्व्वतस्तत्र भवम् । इति ।
अथ सुरमा सौवीर ।
“अञ्जनं यामुनञ्चापि कापोताञ्जनमित्यपि ।
तत्र स्रोतोञ्जनं कृष्णं सौवीरं श्वेतमीरितम् ॥
स्रोतोञ्जनसमं ज्ञेयं सौवीरं तत्तु पाण्डुरम् ।
स्रोतोञ्जनं स्मृतं स्वादु चक्षुष्यं कफपित्तनुत् ॥
कषायं लेखनं स्निग्धं ग्राहि छर्द्दिविषापहम् ।
सिध्मक्षयास्रहृच्छीतं सेवनीयं सदा बुधैः ॥
स्रोतोञ्जनगुणाः सर्व्वे सौवीरेऽपि मता बुधैः ।
किन्तु द्वयोरञ्जनयोः श्रेष्ठं स्रोतोञ्जनं स्मृतम् ॥”
इति च भावप्रकाशः ॥

स्रोतावहा, स्त्री, (वहतीति । वह + अच् । टाप् ।

स्रोतसो वहा ।) नदी । इति जटाधरः ॥ (यथा,
रघुः । ६ । ५२ ।
“नृपं तमावर्त्तमनोज्ञनाभिः
सा व्यत्यगादन्यबधूर्भवित्री ।
महीधरं मार्गवशादुपेतं
स्रोतोवहा सागरगामिनीव ॥”)

स्वं, पुं, क्ली, (स्वन शब्दे + अन्येभ्योपीति डः ।)

धनम् । इत्यमरः । ३ । ३ । २१० ॥ (यथा,
मनुः । ८ । ४१७ ।
“विस्रब्धं ब्राह्मणः शूद्रात् द्रव्योपादनमाचरेत् ।
नहि तस्यास्ति किञ्चित् स्वं भर्त्तृहार्य्यधनो हि
सः ॥”

स्वं, त्रि, आत्मीयम् । इत्यमरः । ३ । २१० ॥

(यथा, कथासरित्सागरे । २६ । १०५ ।
“मया त्वद्य प्रवेष्टव्या स्वा तनुश्च पुरी च सा ॥”)

स्वः, पुं, ज्ञातिः (यथा, मनुः । ५ । १०४ ।

“न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण नाययेत् ।
अस्वर्ग्या ह्याहुतिः सा स्यात् शूद्रसंस्पर्श-
दूषिता ॥”)
आत्मा । इत्यमरः । ३ । ३ । २१० ॥ (यथा,
रघुः । २ । ५५ ।
“सेयं स्वदेहार्पणनिष्क्रयेण
न्याय्या मय मोचयितुं भवत्तः ॥”
विष्णुः । इति महाभारतम् । १३ । १४९ ।
११७ ॥)

स्वकं त्रि, (स्वमेव । कन् ।) स्वीयम् । आत्मीयम् ।

यथा, --
“नार्ष्टिकश्चैव कुरुते तद्धनं ज्ञातृभिः स्वकम् ।
अदत्तत्यक्तविक्रीतं कृत्बा स्वं लभते धनी ॥”
इति प्रायश्चित्ततत्त्वम् ॥

स्वकम्पनः, पुं, (स्वेनैव कम्पते इति । कम्प +

ल्युः) वायुः । इति शब्दरत्नावली ॥
पृष्ठ ५/४६८

स्वकर्म्म, [न्] क्ली, (स्वस्य कर्म्म ।) आत्मकृत-

कार्य्यम् । यथा, --
कुन्त्युवाच ।
“स्वकर्म्मफलनिर्द्दिष्टां यां यां योनिं व्रजाम्यहम् ।
तस्यां तस्यां हृषीकेश त्वयि भक्तिर्दृढास्तु मे ॥”
इति पाण्डवगीता ॥

स्वकर्म्मकृत्, त्रि, निजकार्य्यकारी । इति स्वकर्म्म-

शब्द-पूर्ब्बक-कृधातोः कर्त्तरि क्विप्-प्रत्ययेन
निष्पन्नः ॥

स्वकीयः, त्रि, (स्वस्यायमिति । गहादिषु स्वस्य

वेति छः कुगागमश्च ।) स्वीयः । तत्पर्य्यायः ।
निजः २ आत्मीयः ३ स्वः ४ । इति हेमचन्द्रः ॥

स्वकुलक्षयः, पुं, (स्वकुलस्य क्षयो यस्मात् ।)

मत्स्यः । इति हेमचन्द्रः ॥ निजवंशनाशश्च ।
तत्कर्त्तरि तद्विशिष्टे च त्रि ॥

स्वग, इ सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) वकारमध्यः । इ, स्वङ्ग्यते ।
इति दुर्गादासः ॥

स्वगतं, क्ली, (स्वगतम् ।) मनोगतम् । (तत्तु

नाट्योक्तीनामन्यतमम् । तल्लक्षणःयथा, साहित्य-
दर्पणे । ६ । ४२५ ।
“अश्राव्यं खलु यद्वस्तु तदिह स्वगतं मतम् ॥”)
यथा । अहम् । स्वगतम् । दम्भग्राह्योऽयं देशः ।
भवत्वस्मिन्नासने उपविशामि । इति प्रबोध-
चन्द्रोदयनाटके २ अङ्कः ॥ आत्मप्राप्ते तस्मा-
द्गते च त्रि ॥

स्वगुप्ता, स्त्री, (स्वेन गुप्ता ।) शूकशिम्बी । इति

शब्दरत्नावली ॥ लज्जालुः । इति राजनिर्घण्टः ॥

स्वगृहः, पुं, (स्वकृतं गृहं यस्य ।) कलिकारपक्षी

इति जटाधरः ॥ निजालये, पुं, क्ली ॥

स्वङ्गः, त्रि, (सु शोभनानि अङ्गानि यस्य ।)

सुन्दराङ्गविशिष्टः । तत्पर्य्यायः । सिंहसंहननः २ ।
इति हेमचन्द्रः ॥ (सु शोभनमङ्गमिति ।)
शोभनावयवे, क्ली ॥

स्वच्छं, क्ली, (सुष्ठु अच्छम् ।) विमलोपरसः ।

मुक्ता । इति राजनिर्घण्टः ॥

स्वच्छः, त्रि, (सुष्ठु अच्छः ।) रोगविमुक्तः । इति

शब्दरत्नावली ॥ शुक्लः । निर्म्मलः । इति
केचित् ॥ (यथा, महानिर्व्वाणतन्त्रे । ८ । ९१ ।
“असनं वसनं पात्रं शय्या यानं निकेतनम् ।
गृह्यकं वस्तुजातञ्च स्वच्छात् स्वच्छं प्रशस्यते ॥”
कपटतादिदोषशून्यः । यथा, तत्रैव । ८ । ५२ ।
“स्वच्छो नम्रः शुचिर्द्दक्षो युक्तः स्यात् सर्व्व-
कर्म्मसु ॥”)

स्वच्छः, पुं, (सुष्ठ अच्छः निर्म्मलः ।) स्फटिकः ।

इति राजनिर्घण्टः ॥

स्वच्छन्दः, त्रि, (स्वस्य छन्दोऽभिप्रायो यत्र ।)

स्वाधीनः । स्वतन्त्रः । इत्यमरः । ३ । १ । १५ ॥
(यथा, कथासरित्सागरे । ३३ । १८४ ।
“स्वच्छन्दासौ न ते राजन पाणिस्पर्शमिहा-
र्हति ॥”
खस्य अभिप्रये, पुं । यथा, हरिवंशे । १२२ । २८ ।
“बुभुक्षा वा पिपासा वा ग्लानिर्वाप्यथवा जरा ।
देववद्धारयन्त्यास्ते स्वच्छन्दो न भविष्यति ॥”)

स्वच्छपत्रं, क्ली (स्वच्छं पत्रं यस्य ।) अभ्रकम् ।

इति हेमचन्द्रः ॥

स्वच्छमणिः, पुं, (स्वच्छो मणिः ।) स्फटिकः । इति

राजनिर्घण्टः ॥

स्वच्छवालुकं, क्ली, (स्वच्छं वालुकम् ।) विमलो-

परसः । इति राजनिर्घण्टः ॥

स्वच्छा, स्त्री, (सुष्ठु अच्छा ।) श्वेतदूर्व्वा । इति

राजनिर्घण्टः ॥

स्वजं, क्ली, (स्वस्मात् जायते इति । जन + डः ।)

रक्तम् । इति मेदिनी ॥

स्वजः, पुं, (स्वस्मात् जायते इति । जन + डः ।)

पुत्त्रः । स्वेदः । इति मेदिनी ॥ त्रि, आत्मजातः ॥
(स्वाभाविकः । यथा, रामायणे । २ । ११२ । १६ ।
“आगता त्वामियं बुद्धिः स्वजा वैनयिकी
च या ।
भृशमुत्सहसे तात रक्षितुं पृथिवीमपि ॥”)

स्वजनः, पुं, (स्वस्य जनः ।) ज्ञातिः । इत्यमरः ।

२ । ६ । ३४ ॥ आत्मीयलोकश्च ॥ (यथा,
कुमारे । ४ । २६ ।
“स्वजनस्य हि दुःखमग्रतो
विवृतद्वारमिवोपजायते ॥”)

स्वजा, स्त्री, (स्वस्मात् जायते या । जन + डः ।

टाप् ।) कन्या । इति शब्दरत्नावली ॥

स्वठ, क गत्यसंस्कृतसंस्कृतेषु । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-सक०-सेट्) । क, स्वाठयति ।
इति दुर्गादासः ॥

स्वतः [स्] व्य, (स्व + तसिल् ।) आत्मनः । आपन

हैते इति भाषा । यथा । स्रोतोऽम्बुसरणं
स्वतः । इत्यमरः । १ । १० । ११ ॥ (यथा,
रघुः । ३ । ५८ ।
“अतिप्रबन्धप्रहितास्त्रवृष्टिभि-
स्तमाश्रयं दुष्प्रसहस्य तेजसः ।
शशाक निर्वापयितुं न वासवः
स्वतश्च्युतं वह्निमिवाद्भिरम्बुदः ॥”
धनात् । यथा, मनुः । ८ । १६६ ।
“ग्रहीता यदि नष्टः स्यात् कुटुम्बार्थे कृतोऽव्ययः ।
दातव्यं बान्धवैस्तत् स्यात् प्रविभक्तैरपि स्वतः ॥”)
अस्य अव्ययत्वप्रमाणं यथा । तद्धितश्चासर्व्व-
विभक्तिः । यस्मात् सर्व्वा विभक्तिर्नोत्पद्यते स
तद्धितान्तोऽव्ययं स्यात् । परिगणनं कर्त्तव्यम् ।
तसिलादयः प्राक् पाशपः । इति सिद्धान्त-
कौमुदी ।

स्वतन्त्रः, त्रि, (स्वस्य तन्त्रं प्राधान्यं यत्र ।)

स्वाधीनः । तत्पर्य्यायः । अपावृतः २ स्वैरी ३
स्वच्छन्दः ४ निरवग्रहः ५ । इत्यमरः । ३ ।
१ । १५ ॥ निर्यन्त्रिणः ६ यथाकामी ७ निर-
र्गलः ८ निरङ्कुशः ९ । इति जटाधरः ॥
स्वरुचिः १० । इति हेमचन्द्रः ॥ स्वतन्त्रास्वतन्त्र-
व्यक्तयो यथा, नारदः ।
स्वातन्त्रन्तु स्मृतं ज्येष्ठे ज्यैष्ठं गुणवयःकृतम् ।
अस्वतन्त्राः प्रजाः । सर्व्वाः स्वतन्त्रः पृथिवीपतिः ॥
अस्वतन्त्रः स्मृतः शिष्य आचार्य्यस्य स्वतन्त्रता ।
अस्वतन्त्राः स्त्रियः सर्व्वाः पुत्त्रा दासाः
परिग्रंहाः ॥”
परिग्रहा अनुजीविप्रभृतयः ।
“स्वतन्त्रस्तत्र तु गृही यस्य तत् स्यात् क्रमा-
गतम् ।
गर्भस्यैः सदृशो ज्ञेयो अष्टमाद्वत्सरात् शिशुः ॥
वाल आषोडशाद्वर्षात् पौगण्डोऽपि निगद्यते ।
परतो व्यवहारज्ञः स्वतन्त्रः पितरावृते ॥
जीवतोर्न स्वतन्त्रः स्यात् जरयापि समन्वितः ।
तयोरपि पिता श्रेयान् बीजप्राधान्यदर्शनात् ॥
अभावे बीजिनो माता तदभावे च पूर्व्वजः । * ।
स्वतन्त्रोऽपि हि यत् कार्य्यं कुर्य्यादप्रकृतिं
गतः ।
तदप्यकृतमेव स्यादस्वातन्त्र्यस्य हेतुतः ॥”
इति व्यवहारतत्त्वम् ॥

स्वत्रः, पुं, अन्धः । इति केचित् ॥

स्वत्वं, क्ली, (स्वस्य भावः । स्व + त्व ।) शास्त्र-

सम्मतयथेष्टविनियोगार्हत्वम् । सप्तपदार्थाति-
रिक्तपदार्थः । निरूपकतासम्बन्धेन स्वामित्वम् ।
यथा । स्वत्वञ्च यथेष्टविनियोगार्हत्वेन शास्त्र-
बोधितत्वमिति प्राञ्चः ॥ अतिरिक्तपदार्थ इति
शिरोमणिः ॥ स्वामित्वञ्च तन्निरूपकत्वम् ।
निरूपकतया तदेव वा । तच्च द्रव्यगतं गुण-
गतञ्च द्रव्यस्य दानादिश्रुतेः । नीलं बा वृषमुत्-
सृजेदित्यादौ लौहित्यादिगुणविशिष्टपारिमा-
षिकनीलवृषोत्सर्गश्रुतेश्च । वस्तुतस्तु आत्म-
समवेतं स्वामित्वमेवातिरिक्तपदार्थः । विक्रय-
दानादीनां तन्नाशकत्वे क्रयप्रतिग्रदादीनाञ्च
तद्धेतुत्वे सम्बन्धलाघवसम्भवात् तदेव निरूप-
कतया स्वत्वव्यवहारहेतुः । अतएव निबन्धादौ
भाविन्यपि स्वत्वमिति । अन्यथा प्रतिमासं प्रति-
वर्षंवा देयत्वेन प्रतिश्रुतधाम्यादिरूपस्य भावित्वे
तत्र तदुत्पत्त्यनुपपत्तेरिति चूडामणिसम्मतो
लीलावतीरहस्यपन्थाः सम्नीचीनः । तत्र स्वत्व-
धारावारणाय सजातीयस्वत्वं प्रतिस्वत्वं विरोधि
सजातीयमिति करणात् पराजितनृपतिराज्या-
न्तर्व्वर्त्तितत्तत्पुरुषीयक्र मागतस्थावरादौ जया-
दिना जेतुर्नृपतेः करग्रहणोपयोगिस्वत्वोत्पादे
तथा क्रीते अतिगृहीतराज्यान्तर्व्वर्त्तिनि तादृश-
स्थावरादौ च क्रेत्रादेः क्रयाद्यधीनस्वत्वोत्-
पादेऽपि न व्यभिचार इति संक्षेपः । इति
दायभागटीकायां श्रीकृष्णतर्कालङ्कारः ॥

स्वदनं, क्ली, (स्वद + ल्युट् ।) भक्षणम् । इति

हेमचन्द्रः ॥ लेहः । इति राजनिर्घण्टः ।

स्वदाराः, पुं, (स्वस्य दाराः ।) स्वस्त्री । यथा,

आह्निकतत्त्वधृतविष्णुपुराणवचनम् ।
“मृतो नरकमभ्येति हीयेतात्रापि चायुषः ।
परदाररतिः पुंसामुभयत्रापि भीतिदा ॥
इति मत्वा स्वदारेषु ऋतुमत्सु बुधो व्रजेत् ।
यथोक्तदोषहीनेषु सकामेष्वनृतावपि ॥”
पृष्ठ ५/४६९

स्वधर्म्मः, पुं, क्ली, (स्वस्य धर्म्मः ।) स्वजात्युक्ताचारः ।

यथा, --
“श्रेयान् स्वधर्म्मो विगुणः परधर्म्मात् स्वनुष्ठितात् ।
स्वधर्म्मे निधनं श्रेयः परधर्म्मो भयावहः ॥”
इति श्रीभगवद्गीतायां ३ अध्यायः ॥ * ॥
अपि च ।
“यो यस्य विहितो धर्म्मः स तज्जातिः प्रकी-
र्त्तितः ।
तस्मात् स्वधर्म्मं कुर्व्वीत द्विजो नित्यमनापदि ॥
चत्वारो वर्णा राजेन्द्र चरेयुश्चापि वाश्रमाः ।
ऋते स्वधर्म्मं विपुलं न ते यान्ति परां गतिम् ॥
स्वधर्म्मेण यथा नॄणां नरसिंहः प्रतुष्यति ।
न तुष्यति तथान्येन वेदवाक्येन कर्म्मणा ॥”
इति श्रीनारसिंहपुराणम् ॥ * ॥
स्वधर्म्मत्यागी कृतघ्नः । यथा, --
सनातन उवाच ।
“स्वधर्म्मं हन्ति यो विप्रः सन्ध्यात्रयविवर्ज्जितः ।
अतर्पणञ्च यत् स्नानं विष्णुनैवेद्यवञ्चितः ॥
विष्णुमन्त्रविष्णुपूजाविष्णुभक्तिविहीनकः ।
एकादशीविहीनश्च श्रीकृष्णजन्मवासरे ॥
शिवरात्रौ च यो भुङ्क्ते श्रीरामनवमीदिने ।
पितृकृत्यं देवकृत्यं स कृतघ्न इति स्मृतम् ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे । ५१ । ४५ -- ४७ ॥

स्वधा, व्य, (स्वद्यतेऽनेनेति । स्वद आस्वादने +

आ । “स्वदेर्धश्च ।” इति दस्य धः । इत्युणादि-
वृत्तौ उज्ज्वलदत्तः ।) देवहविर्दानमन्त्रः । यथा,
“स्वाहा देवहविर्दाने श्रौषट् वौषट् वषट्
स्वधा ॥”
इत्यमरः । ३ । ४ । ८ ॥
“स्वाहा श्रीषट् वौषट् वषट् स्वधा एते पञ्च-
शब्दा देवहविर्दाने वह्निमुखहुतौ वर्त्तन्ते
देवाय हविषो दानं देवहविर्दानं तत्र देवा
इन्द्रादयः । अत्र पितरो देवताः इति स्मृतेस्ते-
ऽपि देवाः । हविर्दान इत्यनेन एते मन्त्रा इति
सूचितम् ।
‘अमन्त्रत्वे स्वाहयेव हविर्भुजम् ।’ इति रघुः ।
स्वाहाव्ययं मन्त्रभेदे स्त्रियां स्वाहाग्नियोषि-
तीति कोषान्तरम् । स्वाहा दन्त्यादिः । श्रौषट्
तालव्यादिमूर्द्धन्यमध्यम् । वौषट् वषट्द्वयं
मूर्द्धन्यमध्यम् । स्वधा दन्त्यादि । इन्द्राय
स्वाहा इत्यादिप्रयोगः ।” इति भरतः ॥ * ॥
पितृसम्प्रदानमन्त्रः । यथा, --
“दैत्येभ्योऽलं हरिः पूष्णे वषट् सद्भ्यो हितं
सुखम् ।
स्वाहाग्नये स्वधा पित्रे स्वस्ति धात्रे नमः सते ॥”
इति मुग्धबोधव्याकरणम् ॥
हरिर्दैत्येभ्योऽलं समर्थः पूष्णे वषट् सद्भ्यो हितं
सद्भ्यः सुखं अग्नये स्वाहा पित्रे स्वधा धात्रे
स्वस्ति एतानि स्पष्टानि । नमः सते इति सते
नित्याय विष्णवे नमः इत्यर्थः । सर्व्वत्र भवते-
र्गम्यमानत्वादकर्म्मकाद्वाक्यसमाप्तिः । वषट्-
स्वाहास्वधानमसां त्यागार्थतया सम्प्रदानत्वैनैवेष्ट
सिद्धौ पृथग्ग्रहणं मन्त्रान्तर्गतानामपि प्राप्त्यर्थं
तेन शिखायै वषट् शिरसे स्वाहा पितॄभ्यः
स्वधोच्यताम् । हृदयाय नमः । इत्यादि सिद्धम्
इति तट्टीकायां दुर्गादासः ॥ पितॄणामन्नम् ।
यथा, --
“भुङ्क्ते त्वं यथा वै स्वधाख्या
तद्वत् स्वाहा हव्यभोक्ता स्वयं देवि ।”
इति ऋग्वेदे देवीसूक्तम् ॥
स्वधा वै पितॄणामन्नम् । इति स्मृतिश्च ॥

स्वधा, स्त्री, (स्वान् दधातीति । धा + क्विप् ।)

दक्षकन्या । सा तु पितॄणां पत्नी । तस्या द्वे
कन्ये । यमुना धारिणी च । एतयोस्तपस्विन्योः
सन्ततिर्नास्ति । इति श्रीभागवतमतम् ॥ सा च
ब्रह्मणो मानसी कन्या । यथा, --
श्रीनारायण उवाच ।
“शृणु नारद वक्ष्यामि स्वधोपाख्यानमुत्तमम् ।
पितॄणाञ्च तृप्तिकरं श्राद्धानां फलवर्द्धनम् ॥
सृष्टेरादौ पितृगणान् ससर्ज्ज जगतां विधिः ।
चतुरश्चतुर्म्मूर्त्तिमतस्त्रींश्च तेजःस्वरूपिणः ॥
दृष्ट्वा सप्त पितृगणान् सिद्धरूपान्मनोहरान् ।
आहारं संसृजे तेषां श्राद्धं तर्पणपूर्ब्बकम् ॥
स्नानं तर्पणपर्य्यन्तं श्राद्धान्तं देवपूजनम् ।
आह्निकञ्च त्रिसन्ध्यान्तं विप्राणाञ्च श्रुतौ
श्रुतम् ॥
नित्यं न कुर्य्याद्यो विप्रस्त्रिसन्ध्यं श्राद्धतर्पणम् ।
बलिं वेदध्वनिं सोऽपि विषहीनो यथोरगः ॥
हरिसेवाविहीनश्च श्रीहरेरनैवेद्यभुक् ।
भस्मान्तं सूतकं तस्य न कर्म्मार्हः स नारद ॥
ब्रह्मा श्राद्धादिकं सृष्ट्वा जगाम पितृहेतवे ।
न प्राप्नुवन्ति पितरो ददति ब्राह्मणादयः ॥
सर्व्वे प्रजग्मुः क्षुभिता विषण्णा ब्रह्मणः सभाम् ।
सर्व्वं निवेदनं चक्रुस्तमेव जगतां विधिम् ॥
ब्रह्मा च मानसीं कन्यां ससृजे तां मनोहराम् ।
रूपयौवनसम्पन्नां शतचन्द्रसमप्रभाम् ॥
विद्यावतीं गुणवतीमतिरूपवतीं सतीम् ।
श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् ॥
विशुद्धां प्रकृतेरंशां सम्मितां वरदां शुभाम् ।
स्वधाभिधानां सुदतीं लक्ष्मीलक्षणसंयुताम् ॥
शतपद्मदलन्यस्तपादपद्मञ्च बिभ्रतीम् ।
पत्नीं पितॄणां पद्मास्यां पद्मजां पद्मलोचनाम् ॥
पितृभ्यस्तां ददौ ब्रह्मा तुष्टेभ्यस्तुष्टिरूपिणीम् ।
ब्राह्मणांश्चोपदेशञ्च चकार गोपनीयकम् ॥
स्वधान्तं मन्त्रमुच्चार्य्य पितृभ्यो देहि चेति च ।
क्रमेण तेन विप्राश्च पित्रे दानं ददुः पुरा ॥
स्वाहा शस्ता देवदाने पितृदाने स्वधा परा ।
सर्व्वत्र दक्षिणा शस्ता हतयज्ञमदक्षिणम् ॥
पितरो देवता विप्रा मुनयो मनवस्तथा ।
पूजां चक्रुः स्वधां शान्तां तुष्टाव परमादरम् ॥
देवादयश्च सन्तुष्टाः परिपूर्णमनोरथाः ।
विप्रादयश्च पितरः स्वधादेवीवरेण च ॥
इत्येवं कथितं सर्व्वं स्वधोपाख्यानमुत्तमम् ।
सर्व्वेषाञ्च तुष्टिकरं किं भूयः श्रोतुमिच्छसि ॥ * ॥
नारद उवाच ।
स्वधापूजाविधानञ्च ध्यानं स्तोत्रं तथा मुने ।
श्रोतुमिच्छामि यत्नेन वद वेदविदांवर ॥
श्रीनारायण उवाच ।
तद्ध्यानं स्तवनं ब्रह्मन् वेदोक्तं सर्व्वसम्मतम् ।
सर्व्वं जानासि च कथं ज्ञातुमिच्छसि वृद्धये ॥
शरत्कृष्णत्रयोदश्यां मघायां श्राद्धवासरे ।
स्वधां संपूज्य यत्नेन ततः श्राद्धं समाचरेत् ॥
स्वधां नाभ्यर्च्च्य यो विप्रः श्राद्धं कुर्य्यादहम्मतिः ।
न भवेत् फलभाक् सत्यं श्राद्धस्य तर्पणस्य च ॥
ब्रह्मणो मानसीं कन्यां शश्वत् सुस्थिरयौवनाम् ।
पूज्यां पितॄणां देवानां श्राद्धानां फलदां भजे ॥
इति ध्यात्वा शालग्रामेऽप्यथवा मङ्गले घटे ।
दद्यात् पाद्यादिकं तस्यै मूलेनेति श्रुतौ श्रुतम् ॥
ॐ ह्रीँ श्रीँ क्लीँ स्वधादेव्यै स्वाहेति च महा-
मनुम् ।
ससुच्चार्य्य च संपूज्य स्तुत्वा तां प्रणमेद्द्विजः ॥ * ॥
स्तोत्रं शृणु मुनिश्रेष्ठ ब्रह्मपुत्त्र विशारद ।
सर्व्ववाञ्छाप्रदं नॄणां ब्रह्मणा यत् कृतं पुरा ॥
ब्रह्मोवाच ।
“स्वधोच्चारणमात्रेण तीर्थस्नायी भवेन्नरः ।
मुच्यते सर्व्वपापेभ्यो वाजपेयफलं लभेत् ॥
स्वधा स्वधा स्वधेत्येवं यदि वारत्रयं स्मरेत् ।
श्राद्धस्य फलमाप्नोति वलेश्च तर्पणस्य च ॥
श्राद्धकाले स्वधास्तोत्रं यः शृणोति समाहितः ।
लभेत् श्राद्धशतानाञ्च पुण्यमेव न संशयः ॥
स्वधा स्वधा स्वधेत्येवं त्रिसन्ध्यं यः पठेन्नरः ।
प्रियां विनीतां स लभेत् साध्वीं पुत्त्रं गुणान्वि-
तम् ॥
पितॄणां प्राणतुल्या त्वं द्विजजीवनरूपिणी ।
श्राद्धाधिष्ठातृदेवी च श्राद्धादीनां फलप्रदा ॥
वहिर्गच्छ मन्मनसः पितॄणां तुष्टिहेतवे ।
संप्रीतये द्विजातीनां गृहिणां वृद्धिहेतवे ॥
नित्या त्वं नित्यरूपासि पुण्यरूपासि सुव्रते ।
आविर्भावतिरोभावी सृष्टौ च प्रलये तव ॥
ॐ स्वस्ति च नमः स्वाहा स्वधा त्वं दक्षिणा
तथा ।
निरूपिताश्चतुर्व्वेदे षट् प्रशस्ताश्च कर्म्मणाम् ॥
पुरासीस्त्वं स्वधा गोपी गोलोके राधिकासखी ।
धृतोरसि स्वमात्मानं कृष्णत्वेन स्वधा स्मृता ॥
ध्वस्ता त्वंराधिकाशापात् गोलोकाद्विश्वमागता ।
कृष्णश्लिष्टा तया दृष्टा पुरा वृन्दावने वने ॥
कृष्णालिङ्गनपुण्येन भूता मे मानसी सुता ।
अतृप्ता सुरतौ तेन चतुर्णां स्वामिनां प्रिया ॥
स्वाहा च सुन्दरी गोपी पुरासीद्राधिकासखी ।
स्वं कृष्णमाह रतये तेन स्वाहा प्रकीर्त्तिता ॥
कृष्णेन सार्द्धं सुचिरं रमते रासमण्डले ।
प्रमत्ता सुरतौ श्लिष्टा दृष्टा सा राधया पुरा ॥
तस्याः शापेन प्रध्वस्ता गोलोकाद्बिश्वमागता ।
कृष्णालिङ्गनपुण्येन बभूव वह्निकामिनी ॥
पवित्ररूपा परमा देवानां वन्दिता नृणाम् ।
यन्नामोच्चारणेनैव नरो मुच्येत पातकात् ॥
पृष्ठ ५/४७०
सा सुशीलाभिधागोपी पुरासोद्राधिकासखी ।
उवास दक्षिणे क्रोडे कृष्णस्य राधिकाग्रतः ॥
प्रध्बस्ता सा च तत्शापात् गोलोकाद्विश्वमा-
गता ।
कृष्णालिङ्गनपुण्येन सा बभूव च दक्षिणा ॥
प्रेयसी सुरतौ दक्षा प्रशस्ता सव्वकर्म्मसु ।
उवास दक्षिणे भर्त्तुर्द्दक्षिणा तेन कीर्त्तिता ॥
बभूवुस्तिस्रो गोप्यश्च स्वधा च दक्षिणा तथा ।
कर्म्मिणां कर्म्मपूर्णार्थं पुरा चैवेश्वरेच्छया ॥
इत्येवमुक्त्वा स ब्रह्मा ब्रह्मलोके स्वसंसदि ।
तस्थौ च सहसामात्यः स्वधा साविर्ब्बभूव ह ॥
तदा पितृभ्यः प्रददौ तामेव कमलालयाम् ।
तां संप्राप्य यतस्ते च पितरश्च सहर्षिताः ॥
स्वधास्तोत्रमिदं पुण्यं यः शृणोति समाहितः ।
स स्नातः सर्व्वतोर्थेषु वेदपाठफलं लभेत् ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४१ अध्यायः ॥

स्वधाप्रियः, पुं, (स्वधायाः प्रियः ।) कृष्णतिलः ।

इति शब्दरत्नावली ॥ अग्निश्च ॥

स्वधाभुक्, [ज्] पुं, (स्वधां भुङ्क्ते इति । भुज् +

क्विप् ।) पितृगणः । इति त्रिकाण्डशेषः ॥
(यथा, रघुः । ८ । ३० ।
“ऋषिदेवगणस्वधाभुजां
श्रुतयागप्रसवैः स पार्थिवः ।
अनृतत्वमुपेयिवान् बभौ
परिधेर्म्मुक्त इवोष्णदीधितिः ॥”
देवता । इति हेमचन्द्रः ॥

स्वधितिः, पुं, स्त्री, (स्वं धियति दधातीति । धि +

क्तिच् ।) कुठारः । इत्यमरः । २ । ८ । ९२ ॥
तालव्यशादिश्च ॥ (यथा, भागवते । १० । ५५ ।
५ ।
“सूदा महानसं नीत्वावद्यन् स्वधितिनाद्भुतम् ॥”
वज्रः । इति निघण्टुः । २ । २० ॥)

स्वधितिहेतिकः, पुं, (स्वधितिर्हेतिर्यस्य । कन् ।)

परशुधारियोद्धा । इति केचित् ॥

स्वन, ण शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ।) वकारयुक्तः । स्वेनतुः
सस्वनतुः । अत्र स्वन ण स्वन च इत्युभयपाठो
लेखकप्रमादकृतः । इति दुर्गादासः ॥

स्वन, त् क ध्वाने । इति कविकल्पद्रुमः ॥ (अदन्त

चुरा०-पर०-अक०-सेट् ।) वकारयुक्तः । स्वन-
यति । इति दुर्गादासः ॥

स्वन, मि तंसने । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ।) वकारयुक्तः । शब्दे इत्यनु-
वर्त्तते । तंसने भूषणे कर्त्तरि शब्देऽर्थेऽयमि-
त्यर्थः । स्वेनतुः सस्वनतुर्नूपुरौ । मि, स्वनयति
स्वानयति कङ्कणं बधूः । अन्यत्र स्वानयति
घण्टां जनः । इति दुर्गादासः ॥

स्वनः, पुं, (स्वननमिति । स्वन शब्दे + “स्वनह-

सोर्व्वा ।” ३ । ३ । ६२ । इति अप् ।) शब्दः ।
इत्यमरः । १ । ७ । २२ ॥ (यथा, महाभारते ।
१ । १२३ । ४६ ।
“श्राकाशे दुन्दुभीनाञ्च बभूव तुमुलः स्वनः ॥”)

स्वनचक्रः, पुं, रतिबन्धविशेषः । तस्य लक्षणं

यथा, --
“धृत्वा बाहू तथा कण्ठं पादतोऽपि शिरः
स्थितः ।
पूढञ्च कामयेत् कामी स्वनचक्रः प्रकीर्त्तितः ॥”
इति रतिमञ्जरी ॥

स्वनिः, पुं, (स्वन + इन् ।) शब्दः । इत्नि हेम-

चन्द्रः ॥

स्वनितं, क्ली, (खम + क्तः । गर्ज्जितम् । मेघ-

शब्दः । इति हेमचन्द्रः ॥ ध्वनिते, त्रि । इत्य-
मरः । ३ । १ । ९४ ॥

स्वनिताह्वयः, पुं, (स्वनितम् आह्वयते इति । आ +

ह्वे + अच् ।) तण्डुलीयः । इति राजनिर्घण्टः ॥

स्वनोत्साहः, पुं, (स्वनेन उत्साहो यस्य ।)

गण्डकः । इति रत्नावली ॥ पुस्तकान्तरे शनोत्-
साह इति च पाठः ॥

स्वपनं, क्ली, (स्वप + ल्युट् ।) निद्रा । इति शब्द-

रत्नावली ॥ (यथा, सुश्रुते । ३ । ४ ।
“बालवृद्वस्त्रीकर्षितक्षतक्षीणमद्यनित्ययानवाह-
नाध्वकर्म्मप्रतिश्रान्तानामभुक्तवतां मेदःस्वेदकफ-
रसरक्तक्षीणानामजीर्णिनाञ्च मुहूर्त्तं दिवा-
स्वपनमप्रतिषिद्धम् ॥”)

स्वपिण्डा, स्त्री, पिण्डखर्ज्जरौ । इति राज-

निर्घण्टः ॥

स्वपितिकर्म्मा, [न्] पुं, (स्वपिति इति कर्म्म

यस्य ।) शयनकर्त्ता । तद्वैदिकपर्य्यायौ ।
स्वपिति १ स्वस्ति २ । इति द्वौ स्वपितिकर्म्माणौ
इति वेदनिधण्टौ ३ अध्यायः ॥

स्वप्नः, पुं, (स्वप + “स्वपो नन् ।” ३ । ३ । ९१ ।

इति नन् । यद्वा “कॄवृजॄषिद्रुपनीति ।” उणा०
३ । १० । इति नन् ।) निद्रा । इत्यमरः । १ ।
७ । ३६ ॥ यथा, --
“तस्मान्न जागृयाद्रात्रौ दिवास्वप्नश्च वर्ज्जयेत् ।
ज्ञात्वा दोषकरावेतौ बुधः स्वप्नं मितञ्चरेत् ॥”)
प्रसुप्तस्य विज्ञानम् । यथा, --
“पूर्ब्बदेहानुभूतांस्तु भूतात्मा स्वपतः प्रभुः ।
रजोयुक्तेन मनसा गृह्णात्यर्थान् शुभाशुभान् ॥
करणानान्तु वैकस्ये तमसाभिप्रवर्द्धिते ।
अस्वपन्नपि भूतात्मा प्रसुप्त इव चोच्यते ॥”
इति सुश्रुते शारीरस्थाने चतुर्थेऽध्याये ॥)
दर्शनम् । इति मेदिनी ॥ * ॥ सुस्वप्ना यथा, --
नन्द उवाच ।
“केन स्वप्नेन किं पुण्यं केन पुंसां भवेत् सुखम् ।
कोऽपि कोऽपि च सुस्वप्नस्तत् सर्व्वं कथय
प्रभो ! ॥”
श्रीभगवानुवाच ।
“वेदेषु सामवेदश्च प्रशस्तः सर्व्वकर्म्मसु ।
तत्रैव काण्वशाखायां पुण्यकाण्डे मनोहरे ॥
सुष्यक्तो यश्च सुस्वप्नः शश्वत् पुण्यफलप्रदः ।
तत् सर्व्वं लिखितं तात ! कथयामि निशामय ॥
स्वप्नाध्यायं प्रवक्ष्यामि बहुपुण्यफलप्रदम् ।
स्वप्नाध्यायं नरः श्रुत्वा गङ्गास्नानफलं लभेत् ॥
स्वप्नस्तु प्रथमे यामे संवत्सरफलप्रदः ।
द्वितीये चाष्टभिर्म्मासैस्त्रिभिर्म्मासैस्तृतीयके ॥
चतुर्थे चार्द्धमासेन स्वप्नः स्बात्तु फलप्रदः ।
दशाहे फलदः स्वप्नोऽप्यरुणोदयदर्शने ॥
प्रातः स्वप्नश्च फलदस्तत्क्षणं यदि बोधितः ।
दिने मनसि यद्दृष्टं तत् सर्व्वञ्च लभेद्ध्रुवम् ॥
चिन्ताव्याधिसमायुक्तो नरः स्वप्नञ्च पश्यति ।
तत् सर्व्वं निष्फलं तात प्रयात्येव न संशयः ॥
जडो मूत्रपुरीषेण पीडितश्च भयाकुलः ।
दिगम्बरो मुक्तकेशो न लभेत् स्वप्नजं फलम् ॥
दृष्ट्वा स्वप्नञ्च निद्रालुर्यदि निद्रां प्रयाति च ।
विमूढो वक्ति चेद्रात्रौ न लभेत् स्वप्नजं फलम् ॥
उक्ता काश्यपगोत्रे च विपत्तिं लभते ध्रुवम् ।
दुर्गते दुर्गतिं याति नीचे व्याधिं प्रयाति च ॥
शत्री भयञ्च लभते मूर्खे च कलहो भवेत् ।
कामिन्यां धनहानिः स्याद्रात्रौ चौरभयं भवेत् ॥
निद्रायां लभते शोकं पण्डिते वाञ्छितं फलम् ।
न प्रकाश्यश्च सुस्वप्नः पण्डितैः काश्यपे व्रज ॥ * ॥
गवाञ्च कुञ्जराणाञ्च हयानाञ्च व्रजेश्वर ।
प्रासादानाञ्च शैलानां वृक्षाणाञ्च तथैव च ॥
आरोहणञ्च धनदं भोजनं रोदनं तथा ।
प्रतिगृह्य तथा वीणां शस्याढ्यां भूमिमालभेत् ॥
शस्त्रास्त्रेण यदा विहो व्रणेन कृमिणा तथा ।
विष्ठया रुधिरेणैव संयुक्तोऽप्यर्थमालभेत् ।
स्वप्नेऽप्यगम्यागमनं भार्य्यालाभं करोति च ।
मूत्रसिक्तं पिबेत् शुक्रं नरकञ्च विशत्यपि ॥
नगरं प्रविशेद्रक्तं समुद्रं वा सुधां पिबेत् ।
शुभवार्त्तामवाप्नोति विपुलञ्चार्थमालभेत् ॥”
रक्तं स्थाने नक्तं समुद्रं स्थाने समूत्रं सुधां स्थाने
सुरां इति च पाठः ।
“गजं नृपं सुवर्णञ्च वृषभं धनुमेव च ।
दीपमन्नं फलं पुष्पं कन्यां छत्रं रथं ध्वजम् ॥
कुटुम्बं लभते दृष्ट्वा कीर्त्तिञ्च विपुलां श्रियम् ।
पूर्णकुम्भं द्विजं वह्निं पुष्पं ताम्बूलमन्दिरम् ॥
शुक्लधान्यं नटं वेश्यां दृष्ट्वा श्रियमवाप्नुयात् ।
गोक्षीरञ्च घृतं दृष्ट्वा चार्थं पुण्यं धनं लभेत् ॥
पायसं पद्मपत्रे च दधि दुग्धं घृतं मधु ।
मिष्टान्नं स्वस्तिकं भुक्त्वा ध्रुवं राजा भविष्यति ॥
पक्षिणां मानुषाणाञ्च भुङ्क्ते मांसं नरो यदि ।
बह्वर्थं शुभवार्त्ताञ्च लभते वाञ्छितं फलम् ॥
छत्रं वा पादुकाम्वापि लब्ध्वाध्वानञ्च गच्छति ।
असिञ्च निर्म्मलं तीक्ष्णं तत्तथैव भविष्यति ॥
भेलया सन्तरेद्यो हि स प्रधानं भविष्यति ।
दृष्ट्वा च फलिनं वृक्षं धनमाप्नोति निश्चितम् ॥
यस्य श्वेतेन सर्पेण दश्यते दक्षिणे भुजे ।
सोऽचिराल्लभते भार्य्यां विनीतां प्रियवादिनीम् ॥
सर्पेण भक्षितो यो हि अर्थलाभश्च तद्भवेत् ।
स्वप्ने सूर्य्यं विधुं दृष्ट्वा मुच्यते व्याधिबन्धनात् ॥
वडवां कुक्कुटीं क्रौञ्चीं दृष्ट्वा भार्य्यां लभेद्-
ध्रुतम् ।
स्वप्ने यो निगडैर्बद्धः प्रतिष्ठामुत्तमां लमेत् ॥
उत्तमां स्थाने पुत्त्रमिति वा पाठः ।
पृष्ठ ५/४७१
दध्यन्नं पायसं भुङ्क्ते तडागे वा नदीतटे ।
विशीर्णे पन्नपत्रे च सोऽपि राजा भविष्यति ॥
तडागे वा स्थाने पद्मपत्रे इति वा पाठः ।
जलौकसं वृश्चिकञ्च मर्पञ्च यदि पश्यति ।
धनं पुत्त्रञ्च विजयं प्रतिष्ठाञ्च लभेदिति ॥
शृङ्गिभिर्दंष्ट्रिभिः कौलैर्वानरैः पीडितो यदि ।
निश्चितञ्च भवेद्राजा धनञ्च विपुलं लभेत् ॥
मत्स्यं मांसं मौक्तिकञ्च शङ्खचन्दनहौरकम् ।
यस्तु पश्यति स्वपान्ते विपुलं धनमालभेत् ॥
सुराञ्च रुधिरं स्वर्णं भुक्त्वा विष्ठां धनं लभेत् ।
प्रतिमां शिबलिङ्गञ्च लभेद्दृष्ट्वा जयं धनम् ॥
फलितं पुष्पितं विल्वमाम्रं दृष्ट्वा लभेत् धनम् ।
दृष्ट्वा च ज्वलदग्निञ्च धनं बुद्धिं श्रियं लभेत् ॥
आमलकं धात्रीफलं उत्पलञ्च धनागमम् ।
देवताश्च द्विजा गावः पितरो लिङ्गिनस्तथा ।
उत्पलं स्थाने तत्पत्रमिति वा पाठः ।
यद्ददाति मिथः स्वप्ने तत्तथैव भविष्यति ॥
शुक्लाम्बरधरां नारीं शुक्लमाल्यानुलेपनाम् ।
समाश्लिष्यति यः स्वप्ने तस्य श्रीः सर्व्वतः सुखम् ॥
पोताम्बरधरां नारीं पीतमाल्यानुलेपनाम् ।
उपगृह्णाति यः स्वप्ने कल्याणं तस्य जायते ॥
सर्व्वाणि शुक्लानि प्रशंसितानि
भस्मास्थि कार्पासविवर्ज्जितानि ।
सर्व्वाणि कृष्णानि विनिन्दितानि
गोहस्तिदेवद्विजवर्जितानि ॥
दिव्या स्त्री सस्मिता विप्रा रत्नभूषणभूषिता ।
यस्य मन्दिरमायाति स प्रियं लभते ध्रुवम् ॥
स्वप्ने च ब्राह्मणो देवो ब्राह्मणी देवकन्यका ।
कुमारी चाष्टवर्षीया रत्नभूषणभूषिता ।
यस्य तुष्टा भवेत् स्वप्ने तस्य तुष्टा च पार्व्वती ॥
इत्यत्र स भवेत् कविपण्डितः इति च पाठः ।
ब्राह्मणो ब्राह्मणी वापि सन्तुष्टः सस्मिता सती ।
फल ददाति यस्मै च तस्य पुत्रो भविष्यति ॥
यं स्वप्ने ब्राह्मणो नन्द ! करोति च शुभा-
शिषम् ।
यद्बदति भवेत्तस्य तस्यैश्वर्य्यं भवेद्ध्रुवम् ॥
परितुष्ठो द्विजश्रेष्ठश्चायाति यस्य मन्दिरम् ।
नारायणः शिवो ब्रह्मा प्रविशेत्तु तदाश्रमम् ॥
सम्पत्तिस्तस्य भवति यशश्च विपुलं शुभम् ।
पदे पदे सुखं तस्य सम्मानं गौरवं लभेत् ॥
अकस्मादपि स्वप्ने तु लभते सुरभीं यदि ।
भूमिलाभो भवेत्तस्य भार्य्या चापि पतिव्रता ॥
करेण कृत्वा हस्ती यं मस्तके स्थापयेद्यदि ।
राज्यलाभो भवेत्तस्य निश्चितञ्च श्रुतौ श्रुतम् ॥
स्वप्ने तु ब्राह्मणस्तुष्टः समाश्लिष्यति यं व्रज ।
तीर्थस्नायी भवेत् सोऽपि निश्चितश्च श्रिया-
न्वितः ।
स्वप्ने ददाति पुष्पञ्च यस्मे पुण्यवते द्विजः ।
जययुक्तो भवेत् सोऽपि यशस्वी च धनी सुखी ॥
स्वप्ने दृष्ट्वा च तीर्थानि सौधरत्नगृहाणि च ।
जययुक्तश्च धनवां स्तीर्थस्नायी भवेन्नरः ॥
स्वप्ने तु पूर्णकलसं कश्चित् कस्मै ददाति वा ।
पुत्त्रलाभो भवेत्तस्य सम्पत्तिं वा समालभेत् ॥
हस्ते कृत्वा तु कुडवं आढकं वापि सुन्दरी ।
यस्य मन्दिरमायाति स लक्ष्मीं लभते ध्रुवम् ॥
दिव्या स्त्री यद्गृहं गत्वा पुरीषं विसृजेद्द्विज ।
अर्थलाभो भवेत्तस्य दारिद्रञ्च प्रयाति च ॥
यस्य गेहं समायाति भार्य्यया सह ब्राह्मणः ।
पार्व्वत्या सह शम्भुर्व्वा लक्ष्मोर्नारायणोऽथवा ।
ब्राह्मणो ब्राह्मणो वापि स्वप्ने यस्मे ददाति वा ।
धान्यं पुष्पाञ्जलिं वापि तस्य श्रीः सर्व्वतोमुखी ॥
सर्व्वतोमुखीत्यत्र सर्व्वतः सुखीति च पाठः ।
मुक्ताहारं पुष्पमाल्यं चन्दनञ्च शुभं व्रज ।
शुभं व्रज स्थाने लभेद्द्विज इति वा पाठः ।
स्वप्ने ददाति विप्रश्च तस्य श्रीः सर्व्वतः सुखी ॥
गोरोचनां पताकां वा हरिद्रामिक्षुदण्डकम् ।
स्निग्धान्नञ्च लभेत् स्वप्ने तस्य श्रोः सर्व्वतः सुखी ॥
स्निग्धान्नस्थाने सिद्धान्नमिति वा पाठः ।
ब्राह्मणो ब्राह्मणी वापि ददाति यस्य मस्तके ।
छत्रं वा शुक्लधान्यं वा स च राजा भविष्यति ॥
स्वप्ने रथस्थः पुरुषः शुक्लमाल्यानुलेपनः ।
तत्रस्थो दधि भुङ्क्ते च पायसं वा नृपो भवेत् ॥
स्वप्ने ददाति विप्रश्च ब्राह्मणी वा सुधां दधि ।
प्रशस्तपात्रं तस्मै वा सोऽपि राजा भवेद्ध्रुवम् ॥
ददाति पुस्तकं स्वप्ने यस्मै पुण्यवते द्विजः ।
स भवेद्विश्वविख्यातः कवीन्द्रः पण्डितेश्वरः ॥
यं पाठयति स्वप्ने या मातेव च सुतं यथा ।
सरस्वतीसुतः सोऽपि तत्परो नास्ति पण्डितः ॥
ब्राह्मणः पाठयेद्यञ्च पितेव यत्नपूर्ब्बकम् ।
ददाति पुस्तकं प्रौत्या स च तत्सदृशो भवेत् ॥
प्राप्नोति पुस्तकं स्वप्ने पथि वा यत्र तत्र वा ।
स पण्डिता यशस्वी च विख्यातश्च महीतले ॥
स्बप्ने यस्मै महामन्त्रं विप्रो विप्रा ददाति चेत् ।
स भवेत् पुरुषः प्राज्ञो धनवान् गुणवान् सुधीः ॥
स्वप्ने ददाति मन्त्रं वा प्रतिमां वा शिलामयीम् ।
यस्मै ददाति विप्रश्च मन्त्रसिद्धिश्च तद्भवेत् ॥
विप्रा विप्रसमूहञ्च दृष्ट्वा नत्वाशिषं लभेत् ।
राजेन्द्रः स भवेद्वापि किम्वा च कविपण्डितः ॥
शुक्लधान्ययुतां भूमिं यस्मै विप्रः समुत्सृजेत् ।
स्वप्ने च परितुष्टश्च स भवेत् पृथिवीपतिः ॥
स्वप्ने विप्रो रथे कृत्वा नानास्वर्गं प्रदर्शयेत् ।
चिरजीवी भवेदायुर्धनवृद्विर्भवेद् ध्रुवम् ॥
विप्रा विप्रश्च सन्तुष्टो यस्मै कन्यां ददाति च ।
स्वप्ने च स भवेन्नित्यं धनाढ्यो भूपतिः स्वयम् ॥
स्वप्ने सरोवरं दृष्ट्वा समुद्रं वा नदीं नदम् ।
शुक्लाहिं शुक्लशैलञ्च दृष्ट्वा प्रियमवाप्नुयात् ॥”
प्रियं स्थाने श्रियमिति च पाठः ।
यः पश्यति मृतं स्वप्ने स भवेच्चिरजीवनः ।
अरोगोऽरोगिणं दृष्ट्वा सुखिनञ्च सुखी भवेत् ॥
दिव्या स्त्री यं प्रवदति मम स्वामी भवान् भव ।
स्वप्ने दृष्ट्वा च जागर्त्ति स च राजा भवेद्ध्रुवम् ॥
स्वप्ने च बालिकां धृष्ट्वा लब्ध्वा स्फाटिक-
मालिकाम् ।
इन्द्रचापं शुक्लघनं स प्रतिष्ठां लभेद् ध्रुवम् ॥
स्वप्ने विप्रो वदति यं मम दासो भवेति च ।
हरिदासस्य तद्भक्तिं लब्ध्वा स वैष्णवो भवेत् ॥
स्वप्ने विप्रो हरिः शम्भुर्ब्राह्मणी कमला शिवा ।
शुक्ला स्त्री वेदमाता वा जाह्नवी वा सरस्वती ॥
गोपालिकावेशधरा बालिका राधिका मम ।
बालश्च बालगोपालः स्वप्नविद्भिः प्रकाशितः ॥
एष ते कथितो नन्द सुस्वप्नः पुण्यहेतुकः ।
श्रोतुमिच्छसि किं वा त्वं किं भूयः कथयामि
ते ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे सुस्वप्नदर्शनं
७७ अध्यायः ॥ * ॥
अक्रूरदृष्टसुस्वप्ना यथा, --
“अथाक्रूरः स्वभवनं गत्वा कंसेन प्रेरितः ।
चकार शयनं तल्पे भुक्त्वा मिष्टान्नमुत्तमम् ॥
सकर्पूरश्च ताम्बूलं चखाद वासितं जलम् ।
जगाम निद्रां सुखतः सुखसम्भोगमात्रतः ॥
ततो ददर्श सुस्वप्नं पुराणश्रुतिसम्मतम् ।
निशावशेषसमये वाय्वादिपरिवर्जितः ॥
अरोगो बद्धकेशश्च वस्त्रयुग्मसमन्वितः ।
सुतल्पशायी सुस्निग्धश्विन्ताशोकविवर्जितः ॥
किशोरवयसं श्यामं द्विभुजं मुरलीधरम् ।
पीतवस्त्रपरीधानं वनमालाविभूषितम् ॥
चन्दनोक्षितसर्व्वाङ्गं मालतीमाल्यशोभितम्
भूषितं भूषितार्हञ्च सद्रत्नमणिभूषणैः ॥
मयूरपुच्छचूडञ्च सस्मितं पद्मलोचनम् ।
एवम्भूतं द्विजशिशुं ददर्श प्रथमे मुने ॥
ततो ददर्श रुचिरां पतिपुत्त्रवतीं सतीम् ।
पोतवस्त्रपरीधानां रत्नभूषणभूषिताम् ॥
ज्वलत्प्रदीपहस्ताञ्च शुक्लमाल्यकरां वराम् ।
शरच्चन्द्रनिभास्याञ्च सस्मितां वरदां शुभाम् ॥
ततो ददर्श विप्रञ्च कुर्व्वन्तञ्च शुभाशिषम् ।
श्वेतपद्मगतं हंसं तुरगञ्च सरोवरम् ॥
ददर्श चित्रितं चारु फलितं पुष्पितं शुभम् ।
पाम्रनिम्बनारिकेलगुवाककदलीतरुम् ॥
दशन्तं श्वेतसर्पञ्च स्वात्मानं पर्व्वतस्थितम् ।
वृक्षस्थञ्च गजस्थञ्च तरिस्थं तुरगस्थितम् ॥
वीणां वादितवन्तञ्च भुक्तवन्तञ्च पायसम् ।
दधिक्षीरयुतान्नञ्च पद्मपत्रस्थमीप्सितम् ॥
कृमिविट्सहिताङ्गञ्च रुदन्तं मोहितं तथा ।
शुक्लधान्यपुष्पधरं क्षणं चन्दनचर्च्चितम् ॥
समुद्रस्थं प्रासादस्थमात्मानञ्च सलोहितम् ।
छिन्नभिन्नक्षताङ्गञ्च मेदःपूयसमन्वितम् ॥
ततो ददर्श रजतं मणिशुभ्रञ्च काञ्चनम् ।
मुक्तामाणिक्यरत्नञ्च पूर्णकुम्भं घनं जलम् ॥
सुरभिञ्च सवत्साञ्च वृषभेन्द्रं मयूरकम् ।
शुक्लञ्च सारसं शङ्खं छिन्नं खञ्जनमेव च ॥
ताम्बूलं पुष्पमाल्यञ्च ज्वलदग्निं सुरार्च्चनम् ।
पार्व्वतीप्रतिमां कृष्णप्रतिमां शिवलिङ्गकम् ॥
विप्रबालाश्च बालञ्च सुपक्वफलितं कृषिम् ।
देवस्थलीञ्च राजेन्द्रं सिंह व्याघ्रं गुरुं सुरम् ॥
दृष्ट्वा स्वप्नं समुत्तस्थौ चकाराह्निकमीप्सितम् ।
उद्धवं कथयामास सर्व्ववृत्तान्तमेव च ॥”
पृष्ठ ५/४७२
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ७० । १-१८ ॥
दुःस्वप्ना यथा, --
नन्द उवाच ।
“श्रुतं सर्व्व महाभाग दुःस्वप्नं कथय प्रभो ।
उवाच तञ्च भगवान् श्रूयतामिति तद्वचः ॥”
श्रीभगवानुवाच ।
“स्वप्ने हसति यो हर्षाद्विवाहं यदि पश्यति ।
नर्त्तनं गीतमिष्टञ्च विपत्तिस्तस्य निश्चितम् ॥
दन्ता यस्य विपीड्यन्ते विचरन्तञ्च पश्यति ॥
धनहानिभवेत्तस्य पीडा चापि शरीरजा ॥
अभ्यङ्गितस्तु तैलेन यो गच्छेद्दक्षिणां दिशम् ।
खरोष्ट्रमहिषारूढो मृत्युस्तस्य न संशयः ॥
स्वप्ने चूर्णं जवापुष्पमशोकं करवीरकम् ।
विपत्तिस्तस्य तैलञ्च लवणं यदि पश्यति ॥
नग्नां कृष्णां छिन्ननासां शूद्रस्य विधवां तथा ।
कपर्द्दकं तालफलं दृष्ट्वा शोकमवाप्नुयात् ॥
स्वप्ने रुष्टं ब्राह्मणञ्च ब्राह्मणीं कोपसंयुताम् ।
विपत्तिश्च भवेत्तस्य लक्ष्मीर्याति गृहाद्ध्रुवम् ॥
वनपुष्पं रक्तपुष्पं पलाशञ्च सुपुष्पितम् ।
कार्पासं शुक्लवस्त्रञ्च दृष्ट्वा दुःखमवाप्नुयात् ॥
गायन्तीञ्च हसन्तीञ्च कृष्णाम्बरधरां स्त्रियम् ।
दृष्ट्वा कृष्णाञ्च विधवां नरो मृत्यमवाप्नुयात् ॥
देवता यत्र नृत्यन्ति गायन्ति च हसन्ति च ।
आस्फोटयन्ति धावन्ति तस्य देशो विनश्यति ॥
वान्तं मूत्रं पुरीषं वा वैद्यं रौप्यं सुवर्णकम् ।
प्रत्यक्षमथवा स्वप्ने जीवितं दशमासिकम् ॥
कृर्ष्णाम्बरधरां नारीं कृष्णमाल्यानुलेपनाम् ।
उपगूहति यः स्वप्ने तस्य मृत्युर्भविष्यति ॥
मृतं वत्सञ्च मुण्डञ्च मृगस्य च नरस्य वा ।
यः प्राप्नोत्यस्थिमालाञ्च विपत्तिस्तस्य निश्चितम् ।
अभ्यङ्गितस्तु हविषा क्षीरेण मधुनापि वा ।
तक्रेणापि गुडेनैव पीडा तस्य विनिश्चितम् ॥
रथं खरोष्ट्रसंयुक्तं एकाकी योऽधिरोहयेत् ।
तत्रस्थोऽपि च जागर्त्ति मृत्युरेव न संशयः ॥
रक्ताम्बरधरां नारीं रक्तमाल्यानुलेपनाम् ।
उपगूहति यः स्वप्ने व्याधिस्तस्य विनिश्चितम् ।
पतितं नखकेशञ्च निर्व्वाणाङ्गारमेव च ।
भस्मपूर्णां चितां दृष्ट्वा लभते मृप्युमेव च ॥
श्मशानं शुष्ककाष्ठञ्च तृणानि लौहमेव च ।
मसीञ्च किञ्चित् कृष्णां वा दृष्ट्वा दुःखं लभेत्
ध्रुवम् ॥
पादुकां फलकं रक्तपुष्पमाल्यं भयानकम् ।
माषं मसूरं मुद्गं वा दृष्ट्वा सद्यो व्रणं लभेत् ॥
कण्टकं सरलं काकं भल्लूकं वानरं खरम् ।
पूयं गात्रमलं स्वप्ने केवलं व्याधिकारणम् ॥
भग्नभाण्डं क्षतं शूद्रं गलत्कुष्ठञ्च रोगिणम् ।
रक्ताम्बरञ्च जटिलं शूकरं महिषं खरम् ॥
अन्धकारं महाघोरं सृतजीवं भयानकम् ।
दृष्ट्वा स्वप्ने योनिलिङ्गं विपत्तिं लभते ध्रुवम् ॥
कुवेशरूपं म्लेच्छञ्च यमदूतं भयङ्करम् ।
पाशहस्तं पाशशस्त्रं दृष्ट्वा मृत्यं लभेन्नरः ॥
ब्राह्मणो ब्राह्मणी बाला बालको बा सुतः सुता ।
विदायं कुरुते कोपात् दृष्ट्वा दुःखमवाप्नुयात् ॥
कृष्णपुष्पञ्च तन्माल्यं शल्यशस्त्रास्त्रधारिणम् ।
म्लेच्छाञ्च विकृताकारां दृष्ट्वा सृत्युं लभेत् ध्रुवम् ॥
वाट्याञ्च नर्त्तनं गीतं गायनं रक्तवाससम् ।
मृदङ्गवाद्यमानन्दं दृष्ट्वा दुःखं लभेद्ध्रुवम् ॥
वाट्यां स्थाने वाद्यमिति वा पाठः ।
आनन्दं स्थाने आनद्धमिति बुक्तम् ।
मत्स्यादि धारयेद्यो हि तद्भ्रातुर्म्मरणं ध्रुवम् ॥
छिन्नं वापि कबन्धं वा विकृतं वा मुक्तकेशिनम् ।
क्षिप्तं नृत्यञ्च कुर्व्वन्तं दृष्ट्वा मृत्युं लभेन्नरः ॥
मृतो वापि मृता वापि कृष्णा म्लेच्छा भया-
नका ।
उपगूहति यं स्वप्ने तस्य मृत्युर्व्विनिश्चितः ॥
येषां दन्ताश्च भग्नाश्च केशाश्चापि पतन्ति च ।
धनहानिर्भत्तेषां पीडा वा तच्छरीरजा ॥
उपद्रवन्ति यं स्वप्ने शृङ्गिणो दंष्ट्रिणोऽपि वा ।
बालका मानवाश्चैव तस्य राजकुलाद्भयम् ॥
छिन्नं वृज्ञं पतन्तञ्च शिलावृष्टिं तुषं क्षुरम् ।
रक्ताङ्गारं भस्मवृष्टं दृष्ट्वा दुःखमवाप्नुयात् ॥
गृहं पतन्तं शैलं वा धूमकेतुं भयानकम् ।
भग्नस्कन्धं तरोर्व्वापि दृष्ट्वा दुःखमवाप्नुयात् ॥
रथगेहशैलवृक्षगोहस्तितुरगात् खरात् ।
पतन्ति भूमौ ये स्वप्ने विपत्तिस्तस्य सङ्कुला ॥
उच्चैः पतन्ति गर्त्तेषु भस्माङ्गारचितासु च ।
क्षारकुण्डेषु चूर्णेषु मृत्युस्तेषां न संशयः ॥
बलाद्गृह्णाति दुष्टश्च छत्रञ्च यस्य मस्तकात् ।
पितुर्नाशो भवेत्तस्य गुरोर्व्वापि नृपस्य वा ॥
सुरभी यस्य गेहाच्च याति त्रस्ता सवत्सिका ।
प्रयाति पापिनस्तस्य लक्ष्मीरपि वसुन्धरा ॥
पाशेन कृत्वा बद्धञ्च यं गृहीत्वा प्रयान्ति च ।
यमदूताश्च ये म्लेच्छास्तस्य मृत्युर्न संशयः ॥
गणका ब्राह्मणो वापि ब्राह्मणी वा गुरुस्तथा ।
परिरुष्टः शपति यं विपत्तिस्तस्य निश्चितम् ॥
विरोधिनश्च काकाश्च कुक्कुरा भल्लुकास्तथा ।
पतन्त्यागत्य यद् गात्रे तस्य मृत्युर्न संशयः ॥
महिषा भल्लुका उष्ट्राः शूकरा गर्द्दभास्तथा ।
रुष्टा धावन्ति यं स्वप्ने सरोगी निश्चितं भवेत् ॥”
तेषां शान्तिर्यथा, --
“रक्तचन्दनकाष्ठानि घृताक्तानि च यो जुहेत् ।
गायत्र्याश्च सहस्रेण तेन शान्तिर्व्विधीयते ॥
सहस्रधा जपेद्यो हि भक्त्या तं मधुसूदनम् ।
निष्पापोऽपि भवेत् सोऽपि दुःस्वप्नः सुस्वप्नो
भवेत् ॥
अच्युतं केशव विष्णुं हरिं सत्यं जनार्द्दनम् ।
हंसं नारायणञ्चंव एत्रन्नामाष्टकं शुभम् ॥
शुचिः पूर्व्वमुखः प्राज्ञा दशकृत्वश्चं यो जपेत् ।
निष्पापो हि भवेत् सोऽपि दुःस्वप्नः सुस्वप्नोभवेत् ॥
विष्णुं नारायणं कृष्णं माधवं मधुसूदनम् ।
हरिं नरहरिं रामं गोविन्दं दधिवामनम् ॥
शुचिः पूर्व्वमुखो भूत्वा भक्तिश्रद्वायुतो जपेत् ।
निष्पापो हि भवेत् सोऽपि दुःखप्नः सुस्वप्नो
भवेत् ॥
भक्त्या चतानि भद्राणि दश नामानि यो जपेत् ।
शतकृत्वो भक्तियुक्तो जप्त्वा रोगी च रोगतः ॥
लक्षधा हि जपेद्यो हि बन्धनान्मुच्यते ध्रुवम् ।
जप्त्वा च दशलक्षञ्च महाबन्ध्या प्रसूयते ॥
हविष्याशी यतः शुद्धो दरिद्रो धनवान् भवेत् ।
शतलक्षञ्च जप्त्वा च जीवन्मुक्तो भनेन्नरः ॥
ॐ शिवं दुर्गां गणपतिं कार्त्तिकेयं दिनेश्वरम् ।
धर्म्मं गङ्गाञ्च तुलसीं राधां लक्ष्मीं सरस्वतोम् ॥
नामान्येतानि भद्राणि जले स्नात्वा च योजपेत् ।
वाञ्छितञ्च लभेत् सोऽपि दुस्वप्नः सुस्वप्नो भवेत् ॥
ॐ ह्रीँ श्रीँ क्लीँ पूर्ब्बं दुर्गतिनाशिन्यै महा-
मायायै स्वाहा ।
कल्पवृक्षो हि लोकानां मन्त्रः सप्तदशाक्षरः ।
शुचिश्च दशधा जप्ता दुःस्वप्नः सुस्वप्नो भवेत् ॥
शतलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ।
सिद्धमन्त्रश्च लभते सर्व्वसिद्धिञ्च वाञ्छितम् ॥
ॐनमो मृत्यञ्जयायेति स्वाहान्तं लक्षधा जपेत् ।
दृष्ट्वा च मरणं स्वप्ने शतायुश्च भवेन्नरः ॥
पूर्ब्बोत्तरमुखो भूत्वा स्वप्नं प्राज्ञे प्रकाशयेत् ॥
काश्यपे दुर्गते नोचे देवब्राह्मणनिन्दके ।
मूर्खे चैवानभिज्ञे च न च स्वप्नं प्रकाशयेत् ॥
अश्वत्थे गणके विप्रे पितृदेवार्च्चनेषु च ।
आचार्य्ये वैष्णवे मित्रे दिवास्वप्नं प्रकाशयेत् ॥
इति ते पुण्यमाख्यानं कथितं पापनाशनम् ।
धन्यं यशस्यमायुष्यं किं भूयः श्रोतुमिच्छसि ॥
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे दुःस्वप्नदर्शनम्
८२ अध्यायः ॥ * ॥ कंसदृष्टदुःस्वप्ना यथा, --
नारायण उवाच ।
“अथ कंसो विचिन्त्यैवं दृष्ट्वा दुःस्वप्नमेव च ।
समुद्धिग्नो महाभीतो निराहारो निरुत्सवः ॥
पात्रं मित्रं बुधगणं बान्धवञ्च पुरोहितम् ।
समानीय सभामध्ये तानुववाच सुदुःखितः ॥
कंस उवाच ।
मया दृष्टो निशाशेषे यो दुःस्वप्नो भयप्रदः ।
तं निबोध बुधाः सर्व्वे बान्धवाश्च पुरोहित ॥
बिभ्रती चोड्रपुष्पाणां मालां सरक्तचन्दनाम् ।
रक्ताम्बरं खङ्गतीक्ष्णं खर्परञ्च भयङ्करम् ॥
प्रकृत्याट्टाट्टहासञ्च लोलजिह्वा भयङ्करी ।
अतीववृद्धा कृष्णाङ्गी नगरे मम नृत्यति ॥
मुक्तकेशो छिन्ननासा कृष्णा कृष्णाम्बरापि सा ।
विधवा सा महाशूद्री मामालिङ्गितुमिच्छति ॥
मलिनं चेलखण्डञ्च बिभ्रतो रूक्षमूर्द्धजाम् ।
ददाति चूर्णतिलकं कपाले मम वक्षसि ॥
कृष्णवर्णानि पक्वानि छिन्नभग्नानि सत्यक ।
पतन्ति कृत्वा शब्दांश्च शश्वत्तालफलानि च ॥
कुचेलो बिकृताकारो म्लेच्छो हि रुक्षमूर्द्धजः ।
ददाति मह्यमूषायां छिन्नभग्नकपर्द्दकान् ॥
महारुष्टा च दिव्या स्त्री पतिपुत्त्रवती सती ।
बभञ्ज पूर्णकुम्भञ्च अभिशप्य पुनः पुनः ॥
अम्लानामोडमालाञ्च रक्तचन्दनचर्च्चिताम् ।
ददाति मह्यं विप्रश्च महारुष्टोऽभिशप्य च ॥
क्षणमङ्गारवृष्टिश्च भस्मवृष्टिः क्षणं क्षणम् ।
पृष्ठ ५/४७३
क्षणं क्षणं रक्तवृष्टिर्भवेच्च नगरे मम ॥
वानरं वायसं श्वानं भल्लुकं शूकरं खरम् ।
पश्यामि विकृताकारं शब्दं कुर्व्वन्तमुल्वणम् ॥
पश्यामि शुष्ककाष्ठानां राशिमम्लानकज्जलम् ।
अरुणादयवेलायां कर्पं छिन्ननखानि च ॥
पीतवस्त्रपरीधाना शुक्लचन्दनचर्च्चिता ।
बिभ्रती मालतीमाला रत्नभूषणभूषिता ॥
क्रीडाकमलहस्ता सा सिन्दूरबिन्दुशोभिता ।
कृत्वाभिशापं मां रुष्टा याति मन्मन्दिरात् सती ॥
पाशहस्तांश्च पुरुषान् मुक्तकेशान् भयङ्कर्यन् ।
अतिरूक्षांश्च पश्यामि विशतो नगरं मम ॥
नग्ना नारीर्म्मुक्तकेशीर्नृत्यन्तीश्च गृहे गृहे ।
अतीव विकृताकाराः पश्यामि सस्मिताः सदा ॥
छिन्ननासा च विधवा महाशूद्री दिगम्बरी ।
सा तैलाभ्यङ्गितं माञ्च करोत्यतिभयङ्करी ॥
निर्व्वाणाङ्गारमंयुक्ता भस्मपूर्णा भयङ्कराः ।
अतिप्रभातसमये चिताः पश्यामि सस्मितः ॥
पश्यामि च विवाहञ्च नृत्यगीतमहोत्सवम् ।
रक्तवस्त्रपरीधानान् पुरुषान् मुक्तमूर्द्धजान् ॥
रक्तं वमन्तं पुरुषं नृत्यन्तं नग्नमुल्वणम् ।
धावन्तञ्च शयानञ्च पश्यामि सस्मितं सदा ॥
राहुग्रस्तञ्च गगने मण्डलं चन्द्रसूर्य्ययोः ।
एककाले च पश्यामि सर्व्वग्रासञ्च बान्धवाः ॥
उल्कापातं धूमकेतुं भूकम्पराष्ट्रविप्लवम् ।
झञ्झावातं महोत्पातं पश्यामि च पुरोहित ॥
वायुना घूर्णमानांश्च छिन्नस्कन्धान् महीरुहान् ।
पतितान् पर्व्वतांश्चैव पश्यामि पृथिवीतले ॥
पुरुषं छिन्नशिरसं नृत्यन्तं नग्नमुत्सृतम् ।
मुण्डमालाधरं घोरं पश्यामि च गृहे गृहे ॥
दग्धं सर्व्वाश्रमं भस्मपूर्णमङ्गारसङ्कुलम् ।
हाहाकारञ्च कुर्व्वन्तं सर्व्वं पश्यामि सर्व्वतः ॥
इत्येवमुक्त्वा राजा स विरराम सभातले ।
श्रुत्वा स्वप्नं बान्धवाश्च नतवक्त्रा निशश्वसुः ॥
जहार चेतनं सद्यः सत्यकश्च पुरोहितः ।
मत्वा विनाशं कंसस्यं यजमानस्य नारद ॥
रुरोद नारीवर्गश्च पिता माता च शोकतः ।
मेनिरे नाशकालञ्च सद्यः स्वयमुपस्थितम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ६३ अध्यायः ॥
पंरशुरामदृष्टदुःस्वप्नाः ब्रह्मवैवर्त्ते गणेशखण्डे
३३ अध्याये कार्त्तवोर्य्यार्ज्जुनदृष्टदुःस्वप्नास्तत्रैव
३४ अध्याये घोरासुरदृष्टदुःस्वप्ना देवीपुराणे
२२ अध्याये कालिकापुराणे पुष्याभिषेके ८७
अध्याये मत्स्यपुराणे यात्रानिमित्तस्वप्नाध्याय-
कथने २४२ अध्याये च ते द्रष्टव्याः ॥ (वैद्य-
कोक्तस्वप्नशकुनं यथा, --
“इत्युक्तं दूतशकुनं स्वप्नानृर्द्धं प्रचक्षते ।
स्वप्ने मद्यं सह प्रेतैर्यः पिबन् कष्यते शुना ।
स मर्त्त्यो मृत्युना शीघ्रं ज्वररूपेण नीयते ॥
रक्तमाल्यवपुर्वस्त्रो यो हसन् ह्रियते स्त्रिया ।
सोऽस्रपित्तेन महिषखवराहोष्ट्रगर्द्दभैः ॥
यः प्रयाति दिशं याम्यां मरणं तस्य यक्षणा ।
लताकण्टकिनी वंशस्ताली वा हृदि जायते ॥
यस्य तस्याशु गुल्मेन यस्य बह्निमनर्च्चिषम् ।
जुह्वतो घृतसिक्तस्य नग्नस्योरसि जायते ॥
मद्यं स नश्येत् कुष्ठेन चण्डालैः सह यः पिबेत् ।
स्नेहं बहुविधं स्वप्ने स प्रमेहेन नश्यति ॥
उन्मादेन जले मज्जेद्यो नृत्यन् राक्षमैः सह ।
अपस्मारेण यो मर्त्त्यो नृत्यन् प्रेतेन नीयते ॥
यानं खरोष्ट्रमार्ज्जारकपिशार्दलशूकरैः ।
यस्य प्रेतैः शृगालैर्वा स मृत्वोर्वर्त्तते मुखे ॥
अपूपशष्कुलीर्जग्ध्वा बिबुद्धस्तद्विधं वमन् ।
न जीवत्यक्षिरोगाय सूर्य्येन्दुग्रहणेक्षणम् ॥
सूर्य्याचन्द्रमसोः पातदर्शनं दृग्विनाशनम् ।
मूर्द्ध्नि वंशलतादीनां सम्भवो वयसां तथा ॥
निलयो मुण्डताकाकगृध्राद्यैः परिवारणम् ।
तथा प्रेतपिशाचस्त्रीद्रविडान्ध्रगवाशनैः ॥
सङ्गो वेत्रलतावंशतृणकण्टकसङ्कटे ।
श्वभ्रश्मशानशयनं पतनं पांशुभस्मनोः ॥
मज्जनं जलपङ्कादी शीघ्रेण स्रोतप्ताहृतिः ।
नृत्यवादित्रगीतानि रक्तस्रग्वस्त्रधारणम् ॥
वयोऽङ्गवृद्धिरभ्यङ्गो विवाहः श्मश्रुकर्म्म च ।
पक्वान्नस्नेहमद्याशः प्रच्छर्द्दनविरेचने ॥
हिरण्यलोहयोर्लाभः कलिर्बन्धपराजयौ ।
उपानद्युगनाशश्च प्रपातः पादचर्म्मणोः ॥
हर्षो भृशं प्रकुपितैः पितृभिश्चावभर्त्सनम् ।
प्रदीपग्रहनक्षत्रदन्तदैवतचक्षुषां ॥
पतनं वा विनाशो वा भेदनं पर्व्वतस्य च ।
कानने रक्तकुसुमे पापकर्म्मनिवेशने ॥
चिन्तान्धकारसम्बाधे जनन्याञ्च प्रवेशनम् ।
पातः प्रासादशैलादेर्मत्स्येन ग्रसनन्तथा ॥
काषायिणामसौम्यानां नग्नानां दण्डधारिणाम् ।
रक्ताक्षाणां च कृष्णानां दर्शनं जातु नेष्यते ॥
कृष्णा पापा ह्यनाचारा दीर्घकेशनखस्तनी ।
विरागा चाप्यवसना स्वप्नकालनिशा मता ॥
मनोवहानां पूर्णत्वात् स्रोतमां प्रबलैर्मलैः ।
दृश्यन्ते दारुणाः स्वप्ना रोगो यैर्याति पञ्चताम् ॥
अरोगः संशयं प्राप्य कश्चिदेव विमुच्यते ।
दृष्टः श्रुतोऽनुभूतश्च प्रार्थितः कल्पितस्तथा ॥
भाविको दोषजश्चेति स्वप्नः सप्तविधो मतः ।
तेष्वद्या निष्फलाः पञ्च यथा स्वप्रकृतिर्दिवा ॥
विस्मृतो दीर्घह्रस्वोऽति पूर्ब्बरात्रे चिरात् फलम् ॥
दृष्टः करोति तुच्छञ्च गोसर्गे तदहर्महत् ॥
निद्रया चानुपहतः प्रतीपैर्व्वचनैस्तथा ॥
याति पापोऽल्पफलतां दानहोमजपादिभिः ॥
अकल्याणमपि स्वप्नं दृष्ट्वा तत्रैव यः पुनः ।
पश्येत् सौम्यं शुभं तस्य शुभमेव फलं भवेत् ॥
देवान् द्विजान् गोवृषभान् जीवतः सुहृदो-
नृपान् ।
साधून् यशस्विनो वह्निमिद्धं स्वच्छान् जलाश-
यान् ॥
कन्यां कुमारकान् गौरान् शुक्लवस्त्रान् सुते-
जसः ।
नराशनं दीप्ततनुं समन्ताद्रुधिरोक्षितः ॥
यः पश्येल्लभते यो वा छत्रादर्शविषामिषम् ।
शुक्लाः सुमनसो वस्त्रममेध्यालेपनं फलम् ॥
शैलप्रासादसफलवृक्षसिंहनरद्विपान् ।
आरोहेद्गोऽश्वयानञ्च तरेन्नदह्रदोदधीन् ॥
पूर्ब्बोत्तरेण गमनमगम्यागमनं मृतम् ।
सम्बाधान्निःसृतिर्देवैः पितृभिश्चाभिनन्दनम् ।
रोदनं पतितोत्थानं द्विषताञ्चावमर्द्दनम् ।
यस्य स्यादायुरारोग्यं वित्तं बहु च सोऽश्नुत्रे ॥”
इति वाभटे शारोरस्थाने षष्ठेऽध्याये ॥)

स्वप्नकृत्, क्ली, (स्वप्नं निद्रां करोतीतीति । कृ + क्विप् ।

तुगागमश्च ।) सुनिषण्णकम् । सुषुणी शाक इति
भाषा । इति शब्दचन्द्रिका ॥ स्वप्नकारके, त्रि ॥

स्वस्नक्, [ज्] त्रि, (स्वपिति तच्छोलः इति ।

स्वप + “स्वपितृषार्नजिङ् ।” ३ । २ । १७२ ।
इति नजिङ् ।) निदाशीलः । इत्यमरः । ३ ।
१ । ३३ ॥) यथा, भट्टिः । ७ । २५ ।
“अहं स्वप्नक् पसादेन तव वन्दारुभिः सह ॥”)

स्वप्नदोषः, पुं, (स्वप्नस्य दोषः ।) निद्रावस्थायां

रेतःस्खलनम् । इति लोकप्रसिद्धम् ॥ (अस्यी-
षधं यथा, --
“वटाङ्कुरस्य निर्यामान् माक्षिकेण समन्वितान् ।
सायं प्रयोज्य मतिमान् स्वप्नदोषं निवारयेत् ॥”
इति वैद्यकम् ॥)

स्वप्नविचारी, [न्] त्रि, स्वप्नविचारकर्त्ता । शुभा-

शुभस्वप्नव्याख्याकर्त्ता । स्वप्नं विचारयतीत्यर्थे
णिन्प्रत्ययेन निष्पन्नः ॥

स्वभाजनं, क्ली, (स्वस्य भाजनम् ।) आनन्दनम् ।

इत्यमरटीकायां रायमुकुटः । ३ । २ । ७ ॥

स्वभावः, पुं, (स्वस्य भावः ।) स्वकीयभावः ।

तत्पर्य्यायः । संसिद्धिः २ प्रकृतिः ३ स्वरूपम् ४
निसर्गः ५ । इत्यमरः । १ । ७ । ३८ ॥ भावः ६ ।
इति शब्दरत्नावली ॥ सर्गः ७ । इति जटा-
धरः ॥ स्वत एव आविर्भावः । यथा, --
“बहिर्हेत्वनपेक्षी तु स्वभावोऽथ प्रकीर्त्तितः ।
निसर्गश्च स्वरूपञ्चेत्येषोऽपि भवति द्विधा ॥
निसर्गः सुदृढाभ्यासजन्यः संस्कार उच्यते ।
अजन्यस्तु स्वतः सिद्धः स्वरूपं भाव इष्यते ॥”
इत्युज्ज्वलनीलमणिः ॥
“वचनेषु च बुद्धौ च स्वभावे च चरित्रतः ।
आचारे व्यवहारे च ज्ञायते हृदयं नृणाम् ॥ * ॥
लोकाः कर्म्मवशीभूतास्तत् कर्म्म यत् कृतं पुरा ।
स्वकर्म्मणां फलं भुङ्क्ते जन्तुर्जन्मनि जन्मनि ॥
केचिद्वदन्तीति भवेत् स्वकृतेन च कर्म्मणा ।
केचिद्वदन्ति दैवेन स्वभावेनेति केचन ॥
त्रिविधाश्च मता वेदे वेदवेदाङ्गपारगाः ॥
स्वयञ्च कर्म्मजनकस्तत् कर्म्म दैवकारणम् ।
स्वभावो जायते नॄणामात्मनः पूर्ब्बकर्म्मणा ॥ * ॥
स एवात्मा संर्व्वसेव्यः सर्व्वेषाञ्च फलप्रदः ।
स च सृजति दैवञ्च स्वभावं कर्म्म एव च ॥ * ॥
अहो श्रीकृष्णदासानां कः स्वभावः सुनिर्म्मलः ।
हृतभार्य्यमुच्छितञ्च न शशाप रिपुं गुरुः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे । ५७ । २१ -- २८ ।
२१ । ४१ ॥ अपि च ।
पृष्ठ ५/४७४
“सुदिनं दुर्द्दिनञ्चैव सर्व्वं कर्म्मोद्भवे भव ।
तत् कर्म्म तपसां साध्यं कर्म्मणाञ्च शुभाशुभम् ॥
तपः स्वभावसाध्यञ्च स्वभावोऽभ्यासतो भवेत् ।
संसर्ग साध्योऽभ्यासश्च संसर्गः पुण्यतो भवेत् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ४३ । ५१ -- ५२ ॥
अन्यच्च । चाणक्यवाक्यम् ।
“स्वभावो यादृशो यस्य न यहाति कदाचन ।
अङ्गारः शतधौतेन मलिनत्वं न मुञ्चति ॥”
“सर्व्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः ।
अतीत्य हि गुणान् सर्व्वान् स्वभावो मूर्द्ध्नि
वर्त्तते ॥”
इति हितोपदेशे मित्रलाभनामप्रथमकथा-
संग्रहः ॥

स्वभूः, पुं, (स्वेनैव भवतीति । भू + क्विप् । विष्णुः ।

इत्यमरः । १ । १ । १८ ॥ ब्रह्मा । इति मेदिनी ॥
(यथा, भागवते । ३ । १२ । ५ ।
“तान् बभाषे स्वभूः पुत्त्रान् प्रजाः सृजत
पुत्त्रकाः ॥”)
शिवश्च ॥

स्वमेकः, पुं, संवत्सरः । यथा, --

“स्वमेकमेकं वरदा तृप्ता भवति चण्डिका ।
रुधिरेणोरणस्येह तर्पिता विधिवन्नृप ॥”
स्वमेकं संवत्सरम् । स्वमेकः संवत्सरः यव्यो
मासः । इति श्रुतेः । उरणस्य मेषस्य । इति
तिथ्यादितत्त्वम् ॥

स्वयं, [म्] व्य, आत्मना । आपनि इति भाषा ।

इत्यमरः । ३ । ४ । १६ ॥ आत्मनेत्यर्थे स्वयं
तृतीयान्तम् । यथा । स्वयम्भूः । इति भरतः ॥
(यथा, रघुः । १ । ७० ।
“तया हीनं विधातर्म्मां कथं पश्यन्न दूयसे ।
सिक्तं स्वयमिव स्नेहाद् बन्ध्यमाश्रमपादपम् ॥”)

स्वयंवरा, स्त्री, (स्वय + वृ + अच् । टाप् ।)

स्वयं वृणोते पतिं या । स्वेच्छया पत्यन्वेषिणी ।
तत्पर्य्यायः । पतिंवरा २ वर्य्या ३ । इत्यमरः ।
२ । ६ । ७ ॥ स्वयंवरे वर्णनायानि यथा ।
शचीरक्षा १ मञ्चसज्जता २ मण्डपसज्जता ३
राजपुत्त्राः सन्निधौ राजसौन्दर्य्यादिवंशचेष्टा-
वर्णनन् ४ । इति कविकल्पलतायां १ स्तवके २
कुसुमम् ॥

स्वयंहारिका, स्त्री, स्त्रीविशेषः । सा च ब्रह्म-

मानससृष्टदुःसहस्य निर्माष्ट्यां पत्न्यां जाता ।
यथा, --
“दुःसहस्याभवत् भार्य्या निर्माष्टिर्नाम नामतः ।
जाता कलेस्तु पाप्मायां ऋतौ चाण्डालदर्शनात् ॥
तयोरपत्यान्यभवन् जगद्व्यापीनि षोडश ।
अष्टौ कुमाराः कन्याश्च तथाष्टावतिभोषणाः ॥
नियाजिका वै प्रथमा तथैवान्या विराधिना ।
स्वयंहारकरी चैव भ्रामणी ऋतुहारिका ॥
स्मृतिबीजहरे चान्य तयोः कन्ये सुदारुणे ।
अष्टमी द्वेषणी नाम कन्या चातिभयावहा ॥
एतासां कर्म्म वक्ष्यामि दोषप्रशमनञ्च यत् ।
धान्यम्खलाद्गृहाद्गोष्ठात् पयः सर्पिस्तयापरा ॥
समृद्धिमृद्धिमद्द्रव्यादपहन्ति च कन्यका ।
सा स्वयंहारिकेत्युक्ता सदान्तर्द्धानतत्परा ॥
महानसादर्द्धसिद्धमन्नागारस्थितम् तथा ।
परिवेश्यमानञ्च सदा सार्द्धम् भुङ्क्ते च भुञ्जता ॥
उच्छिष्टानां मनुष्याणां हरत्यन्नञ्च दुर्द्धरा ।
कर्म्मान्ताङ्गारशालाभ्यः सिद्ध्यृद्धिं हरति द्विज ॥
गोस्त्रीस्तनेभ्यश्च पयः क्षोरहारी सदैव सा ।
दध्ना घृतं तिलात्तैलं सुरागारात्तथा सुराम् ॥
रङ्गं कुसुम्भकादिभ्यः कार्पासात् सूत्रमेव च ।
सा स्वयंहारिका नाम हरत्यविरतं द्विज ॥”
तच्छान्तिर्यथा, --
“कुर्य्यात शिखण्डिकोद्बद्धां रक्षार्थं कृत्रिम-
स्त्रियम् ।
रक्षा चैव गृहे लेख्या वर्ज्या चोच्छिष्टता
तथा ॥”
शिखण्डिकोद्वद्धाम् स्थाने शिखण्डिनोद्वन्द्वमिति
च पाठः ।
“होमाग्निदेवताधूपभस्मना च परिक्रिया ।
कार्य्या क्षीरादिभाण्डानामेवं तद्रक्षणं स्मृतम् ॥”
इति मार्कण्डेयपुराणे दुःसहवंशोत्पत्तिनामा-
ध्यायः ॥

स्वयंकृतः, स्त्री, (स्वयमात्नना कृतः ।) आत्मकृतः ।

यथा, --
“ऋत्विक् च त्रिविधो दृष्टः पूर्व्वैर्ज्जुष्टः स्वयंकृतः ।
यदृच्छया च यः कुर्य्यादार्त्विज्यं प्रीति-
पूर्ब्ब कम् ॥”
इति तिथ्यादितत्त्वम् ॥

स्वयंगुप्ता, स्त्री, (स्वयमात्मना गुप्ता) शूकशिम्बिका ।

इति शब्दरत्नावली, (गुणादायोऽस्याः शूकशि-
म्बिकाशब्दे ज्ञातव्याः ॥)

स्वयंदत्तः, पुं, (स्वयमात्मना दत्तः) द्वादशविध-

पुत्रान्तर्गतपुत्रविशेषः । इति जटाधरः ॥
तल्लक्षणम् यथा । दत्तात्मा तु स्वयंदत्तः ।
इति याज्ञवल्क्यवचनम् ॥ दत्तात्मा तु पुत्रो
मातापितृविहीनस्ताभ्यां मुक्तो वा तवाहं पुत्रो
भवामीति स्वयंदत्त उपनतः । इति मिता-
क्षरा ॥

स्वयमुपस्थितः, त्रि, (स्वयमात्मना उपस्थितः ।)

स्वयमागतः । यथा, --
“यदि त्यजसि मां मूढ कामात् स्वयमुप-
स्थिताम् ।
युवयोश्च विपत्तिश्च भविष्यति न संशयः ॥
कामातुरां यौवनास्थां भार्य्यां स्वयमुपस्थिताम् ।
न त्यजेद्वर्म्मभीरूश्च श्रुतं मध्यन्दिने पुरा ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ६२ । ४० ।
४५ । अध्यायः ॥ (तथा च भागवते । १ । १३ । १० ॥
“नन्वप्रियं दुर्विसहं नृणां स्वयमुपस्थितम् ।
नावेदयत् सकरुणो दुःखितान् द्रष्टुमक्षमः ॥”)

स्वयंप्रभः, पुं, (स्वयं प्रभा यस्य ।) चतुर्व्विंशतिभा-

ष्यर्हदन्तर्गतचतुर्थार्हन् । इति हेमचन्द्रः ॥
(स्वयंप्रकाशे, त्रि । यथा, भागवते । ३ । १६ । २७ ॥
“अथ ये मुनयो दृष्ट्वा नयनानन्दभाजनम् ।
वैकुण्ठं तदधिष्टान विकुण्ठञ्च स्वयंप्रभम् ॥”
रसायनाधिकारोक्तसोमसंज्ञकौषधिविशेषः ।
स्वयंप्रभो महासोमो यश्चापि गरुडाहृतः ॥”
इति सुश्रुते चिकित्सितस्थाने १९ अध्याये ॥
स्त्री, अप्सरोविशेषः । यथा, महाभारते । ३ ।
४३ । २९ ॥
“घृताची मेनका रम्भा पूर्ब्बचित्तिः स्वयंप्रभा ॥”)

स्वयम्भुः, पुं, (स्वयम्भवतीति । स्वयं + भू + डुः ।)

ब्रह्मा । इति रूपकोषः ॥

स्वयम्भुवः, पुं, (स्वयम्भवतीति । भू + कः ।) आदि-

मनुः । ब्रह्मा । इति केचित् ॥ स्वयमुत्पन्न,
त्रि । यथा, महाभारते । १२ । ३३४ । ८ ।
“कृते युगे महाराज पुरा स्वायम्भुवेऽन्तरे ।
नरो नारायणश्चैव हरिः कृष्णः स्वयम्भुवः ॥”)

स्वयंभुवा, स्त्री, (स्वयम्भवतीति । भू + कः ।

टाप् ।) धूम्रपत्रा । इति राजनिर्घण्टः ॥

स्वयंभूः, पुं, (स्वयम्भवतीति । भू + क्विप् ।)

ब्रह्मा । इत्यमरः । १ । १ । १६ ॥ जिनचक्र-
वर्त्तिविशेषः । तत्पर्य्यायः । रुद्रतनयः २
इति हेमचन्द्रः ॥ कालः । इति शब्दरत्ना-
बली ॥ कामदेवः । विष्णुः । शिवः । इति
केचित् ॥ माषपर्णी । लिङ्गिनी । इति
राजनिर्घण्टः ॥ (स्वयमुत्पन्ने, अपौरषेये च
त्रि ॥ यथा मनुः । १ । ३ ।
“त्वमेकोऽह्यस्य सर्व्वस्य विधानस्य स्वयंभुवः ।
अचिन्तस्याप्रमेयस्य कार्य्यतत्त्वार्थवित् प्रभो ॥”)

स्वर, त् क आक्षेपे । इति कविकल्पद्रुमः ॥

(अदन्त-चुरा०-पर०-सक०-सेट् ।) वकारयुक्तः
रेफोपधः । स्वरयत्यतिरुष्टोऽपि न कञ्चन परि-
ग्रहम् । इति हलायुधः । पञ्चमस्वरयुक्तः । इति
चतुर्भुजः । स्वरयति । इति दुर्गादासः ॥

स्वर्, व्य, स्वर्गः । (यथा, रामायणे । २ । ७६ । ८ ।

“त्वयि प्रयाते स्वस्तात रामे च वनमाश्रिते ।
विधवा पृथिवी राजंस्त्वया हीना न राजते ॥”)
परलोकः । इत्यमरः । १ । १ । ५ । ३ । ४ । २५३ ॥
आकाशम् । शोभनम् । इति शब्दरत्नावली ॥
(व्याहृतिविशेषः । यथा, मनुः । २ । ७६ ।
“अकारञ्चाप्युकारञ्च मकारञ्च प्रजापतिः ।
वेदत्रयान्निरदुहद्भूर्भुवःस्वरितीति च ॥”)

स्वरः, पुं, (स्वर + अच्) उदात्तादित्रयः । इत्य-

मरः । १ । ६ । ४ ॥ उदात्तानुदात्तस्वरितास्त्रयः
स्वरशब्दवाच्याः । स्वरन्ति शब्दायन्ते स्वराः स्वृ
ऊ शब्दोपतापयोः अन् उच्चैरादीयते उच्चा-
र्य्यते उदात्तः उदाङ्पूर्व्वाद्दाञः कर्म्मणि क्तः ।
तद्विपरीतोऽनुदात्तः । समाहृतः स्वरितः स्वरः
सञ्जातोऽत्रेति इतोऽस्य जाते इति इतः ।
यदाहुः । उच्चैरुच्चारणादुदात्तः । नीचैरनुदात्तः ।
समाहारः स्वरितः । इति । छान्दसत्वात्
नोक्तः । तदुक्तं उदात्तश्चानुदात्तश्च स्वरितश्च
प्रचितस्वरो त्रयः स्वराः । चतुर्थः प्रचितो
नोक्तो यतोऽसौ छान्दसः स्मृतः ॥ इति
भरतः ॥ (यथा, माघे । २ । ९५ ।
पृष्ठ ५/४७५
“तदोशितारं चेदीनां भवांस्तमवमंस्त मा ।
निहन्त्यरीनेकपदे य उदात्तः स्वरानिव ॥”)
तन्त्रोकण्ठोत्थितनिषादादिसप्तध्वनिः । सुर इति
भाषा । यथा, --
“निषादर्षभगान्धारषड्जमध्यमधैवताः ।
पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः ॥”
इत्यमरः । १ । ७ । १ ॥
निषादादयः सप्त तन्त्रोसमुत्थाः कण्ठसमुत्थाश्च
स्वराः स्वरशब्दवाच्याः । निषादादिकदम्बादि
यथाक्रममिति स्थितमिति । नारदोऽप्याह ।
“षड्जं रौति मयूरो हि गावो नर्द्दन्ति चर्षभम् ।
अजा विरौति गान्धारं क्रौञ्चो नदति मध्यमम् ।
पुष्पसाधारणे काले कोकिलो रौति पञ्चमम् ।
अश्वश्च धैवतं रौति निषादं रौति कुञ्जरः ॥”
इति ।
अन्योऽप्याह ।
“स स्वरो यः श्रुतिस्थाने स्वनन् हृदयरञ्लकः ॥”
“षड्जर्षभगान्धारो मध्यमः पञ्चमस्तथा ।
धैवतश्च निषादश्च स्वराः सप्त प्रकीर्त्तिताः ॥
मयूरवृषभश्छागक्रौञ्चकोकिलवाजिनः ।
मातङ्गश्च क्रमेणाहुः स्वरानेतान् सुदुर्गमान् ॥”
इति ॥
एते च समदाः पञ्चमं गायन्ती । तथा च
विशाखिनः ।
“अश्वस्तु धैवतं सोऽपि मत्तः पञ्चमसंज्ञकम् ।
निषादन्तु गजो गर्ज्जत्युन्मदोऽसौ सपञ्चम-
मिति ॥”
भरतोऽप्याह ।
“षड्जञ्च पञ्चमञ्चेति मयूरो नदति द्विधा ।
अश्वाद्या धैव तादींश्च प्राहुर्म्मत्ताश्च पञ्चम-
मिति ॥”
निषीदन्ति स्वरा अस्मिन्निति निषादः सदेरा-
धारे घञ् गीक इति षत्वम् । तथा च ।
“निषीदन्ति स्वरा अस्मिन्निषादस्तेन हेतुना ।
अशेषसन्धिविषयं स हि व्याप्यावतिष्ठते ॥
ऋषति ऋतुं ऋषभः ऋषी श गतौ नाम्नीति
कभः ।
“वायुः समुद्गतो नामः कण्ठशीर्षसमुद्गतः ।
नदत्यृषभवद्यस्मात्तेनैष ऋषभः स्मृतः ॥” इति ।
गन्धानां समूहो गान्धं ष्णः स्वरान्तस्य गान्धं
इयर्त्ति गान्धारः ऋर्लि गत्यां ढात् षणिति
षण् ।
“वायुः समुद्गतो नाभेः कण्ठशीर्षसमाहतः ।
नानागन्धवहः पुण्यो गान्धारस्तेन हेतुना ॥”
इति ।
नान्धारोऽभिजनोऽस्येति गान्धार इत्यन्ये ।
षड्भ्यो जायते षड्जः हनजनादिति डः ।
“नासां कण्ठमुरस्तालु जिह्वां दन्तांञ्च संश्रितः ।
षड्भ्यः संजायते यस्मात्तस्मात् षड्ज इति
स्मृतः ॥” इति ।
मध्ये नाभिदेशे भवो मध्यमः । तत्राद्यचिर-
दक्षिणेत्यादिना मः ।
“तद्वदेवोत्थितो वायुरुरःकण्ठसमाहृतः ।
नाभिप्राप्तो महानादो मध्यमस्तेन स स्मृतः ॥”
इति ।
धीमद्भिर्गीयतें इति धैवतः ढघेकादिति ष्णः
मनीषादित्वात् मस्य वः । धीयतेऽयमिति
विकारसंघेति ष्णो वा । स्वरान् धयतीति वा ।
धेट पाने नाम्नीति धैवतः ।
“अभिसन्धयते यस्मात् स्वरांस्तेनैष धैवतः ।
स तु तावत्प्रधानत्वात् ललाटे व्यवतिष्ठते ॥”
इति पञ्चानां स्वराणां पूरणः पञ्चम् । नो
सङ्ख्यादेर्म्मडिति मट् ।
वायुः समुद्गतो नाभेरूरौ हृत्कण्ठमूर्द्ध्वसु ।
विचरन् पञ्चमस्थानप्राप्त्या पञ्चम उच्यते ॥”
इति ।
स्वरन्ति शब्दायन्ते स्वराः स्वृ ऊ शब्दोप-
तापयोः पचादित्वादन् । इति भरतः ॥ * ॥
अपि च ।
“स स्वरो यः श्रुतिस्थाने स्वरन् हृदयरञ्जकः ॥
षड्जऋषभगान्धारा मध्यमः पञ्चमस्तथा ।
धैवतश्च निषादश्च स्वराः सप्त प्रकीर्त्तिताः ॥
मयूरवृषभच्छागीक्रोष्टुकोकिलवाजिनः ।
मतङ्गाश्च क्रमेणाहुः स्वरानेतान् सुदुर्गमान् ॥
ऋषभं चातको वक्ति धैवतञ्चापि दर्द्दरः ।”
इति केचित् ॥
“वायुः संमूर्च्छितो नाभेर्नाड्याश्च हृदयस्य च ।
पार्श्वयोर्म्मस्तकस्यापि षण्णां षड्जः प्रजायते ।
नाभिभूलाद्यदा वर्ण उत्थितः कुरुते ध्वनिम् ।
वृषभस्येव निर्याति हेलया ऋषभः स्मृतः ॥
नाभेः समुद्गतो वायुर्गन्धं श्रोत्रे च चालयन् ।
सशब्दस्तेन निर्याति गान्धारस्तेन कथ्यते ॥
मध्यमो मध्यमस्थानात् शरीरस्योपजायते ।
नाभिमूलाच्च गम्भीरः किञ्चित्तारः स्वभावतः ॥
प्राणोऽपानः समानश्च उदानो व्यान एव च ।
एतेषां समवायेन जायते पञ्चमः स्वरः ॥
गत्वा नाभेरधोभागं वस्ति प्राप्योर्द्ध्वगः पुनः ।
धावन्निव च यो याति कण्ठदेशं स धैवतः ॥
षड्जादयः षडेतेऽत्र स्वराः सर्व्वे मनोहराः ।
निषीदन्ति यतो लोके निषादस्तेन कथ्यते ॥ * ॥
चतस्रः पञ्चमे षडजे मध्यमे श्रतयो मताः ।
ऋषभे धैवते तिस्रो द्वे गान्धारनिषादके ॥” * ॥
संपूर्णस्वराः । ष ऋ ग म प ध नि । षाडवाः
निषादोज्झिताः । ष ऋ ग म प ध । ओडव-
स्वराः ऋ-प-वर्ज्जिताः । ष ग म ध नि ।
संपूर्णरागाः सप्तभिः स्वरैर्यथा नाटवसन्तादयः ।
षाडवरागाः षड्भिः स्वरैर्यथा मल्लारादयः ।
अधुना स्वरप्रस्तारः ।
“क्रमेणैव स्वराः स्थाप्याः पूर्ब्बपूर्ब्बपरादधः ।
मूलक्रमः क्रमात् पृष्ठे पुरस्थपरिवर्त्तिनः ॥
स चेदुपरि तत्पूर्ब्ब इत्थं प्रस्तारणक्रमः ॥” * ॥
अथ स्वरप्रस्तारे पिङ्गलवन्नष्टोद्दिष्टमेरुपताका-
सूचीसप्तसागरप्रभृतयः सन्ति ग्रन्थविस्तार-
भयान्नोक्ताः ।
“कंसारेर्व्वंशिकावाद्ये स्वराः सप्त चकाशिरे ।”
इति शुभङ्करकृतसङ्गीतदामोदरः ॥” * ॥ * ॥
अकारादिवर्णाः । इति मेदिनी ॥ तस्य नामा-
न्तरं अच् २ । इति वोपदेवः ॥ मात्रा ३ ।
इति स्वरोदयः ॥ ते च ह्रस्वदीर्घप्लुता भवन्ति
यथा, --
“एकमात्रो भवेत् ह्रस्वो द्विमात्रो दीर्घ उच्यते ।
त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं चार्द्धमात्रकम् ॥”
इति मुग्धबोधटीकायां दुर्गादासः ॥
स्वरवर्णा यथा । अ आ इ ई उ ऊ ऋ ॠ
ऌ ॡ ए ऐ ओ औ अं अः । एतेषां उत्पत्ति-
स्थानानि यथा । अत्रयं ए-ह-क-ख-ग-घ-ङाः
कण्ठ्याः । इत्रयं च-छ-ज-झ-ञ-शा ए-ऐ
यास्तालव्याः । ऋत्रयं ट-ठ-ड-ढ-ण-र षा
मूर्द्धन्याः । ऌत्रयं त-थ-द-ध-न-ल-सा वो
दन्त्याः । उत्रयं प-फ-ब-भ-म-वा ओ-औ
ओष्ठ्याः । इति मुग्धबोधव्याकरणम् ॥ ए-ह-
क-ख-ग-घ-ङा इत्येकपदोक्त्या एषां उत्पत्ति-
स्थानं कण्ठमुक्त्वा पश्चात् ए ऐ इत्युभयं तालव्य-
कार्य्यार्थंतालव्यमध्येऽपि ए-ऐ-या इति भिन्नपदे
पठितवान् । ओ औ इत्युभयमोष्ठकार्य्यार्थ-
मोष्ठ्यमध्येऽपि ओ औ ओष्ठ्या इति भिन्नपदे
पठितवान् । तालव्यकार्य्यञ्च इवर्णस्य समत्वात्
गुण एकारः वृद्धिरैकारः । उकारस्य गुण
ओकारः वृद्धिरौकारः । ननु ए ऐ ओ औ
चतुर्णां स्वभावात् कण्ठजातानामपि ताल-
व्यौष्ठ्यकार्य्यकारित्वं कथमिति चेन्न यतः कुन्त्या
प्रसूतस्य कर्णस्य राधाप्रतिपालनात् राधेयत्वं
संगच्छते । इति तट्टीकायां दुर्गादासः ॥ * ॥
अन्यच्च ।
“मातृकायां स्वराः प्रोक्ताः स्वराः षोडश-
सङ्ख्यया ।
तेषां द्वावन्तिमौ त्याज्यौ चत्वारश्च नपुंसकाः ॥
शेषा दश स्वरास्तेषु स्थादेकैको द्विके द्विके ।
ज्ञेया अतोऽस्वराद्याश्च ह्रस्वाः पञ्च स्वरोदये ॥
स्वरा हि मातृकोच्चारा मात्राव्याप्तं जगत्त्रयम् ।
तस्मात् स्वरोद्भवं सर्व्वं त्रैलोक्यं सचराचरम् ॥
अकारादिस्वराः पञ्च ब्रह्माद्याः पञ्चदेवताः ।
निवृत्त्याद्याः कलाः पञ्च इच्छाद्यं शक्तिपञ्चकम् ॥
मयाद्याश्चक्रभेदाश्च धराद्यं भूतपञ्चकम् ।
गन्धाद्या विषयास्ते च कामबाणा इतीरिताः ।
पिण्डं पदं तथा रूपं रूपातीतं निरञ्जनम् ।
स्वरभेदे स्थितं ज्ञानं ज्ञायते गुरुतः सदा ॥
अकारादिस्वराः पञ्च तेषामष्टौ भिदास्त्वमूः ।
मात्रावर्णो ग्रहो जीवो राशिर्भं पिण्डयोगकौ
प्रसुप्तो भाषते येन येनागच्छति शब्दितः ।
तत्र नाम्न्याद्यवर्णे या मात्रा मात्रास्वरः सहि ॥”
इति मात्रास्वरचक्रम् ॥ *
“कादिहान्तान् लिखेद्वर्णान् स्वराधो ङ ञ-
णोज्झितान् ।
तिर्य्यक् पड्क्तिकमेणैव पञ्चत्रिंशत् प्रकोष्ठके ॥
नरनामादिमो वर्णो यस्मात् स्वरादधः स्थितः ।
पृष्ठ ५/४७६
स स्वरस्तस्य वर्णस्य वर्णस्वर इहोच्यते ॥
स प्रोक्ता ङ-ञ-णा वर्णा नामादौ सन्ति ते न
हि ।
वेद्भवन्ति तदा ज्ञेया ग-ज डास्ते यथाक्रमम् ॥
यदि नाम्नि भवेद्वर्णः संयुक्ताक्षरलक्षणः ।
ग्राह्यस्तस्यादिमो वर्ण इत्युक्तं ब्रह्मयामले ॥”
इति वर्णस्वरचक्रम् ॥ * ॥
अस्वरे मेषसिंहालिः कन्यायुग्मककर्क्कटाः ।
उस्वरे च धनुर्म्मीनौ एस्वरे च तुलावृषौ ॥
ओस्वरे मृगकुम्भौ च राशिसम्भूग्रहस्वराः ।
स्वराधः स्थापयेत् खेटं राशेर्यो यस्य नायकः ॥
मेषवृश्चिकयोर्भौमः शुक्रा वृषतुलाभृतोः ।
बुधः कन्याभियुनयोः कर्क्कटस्य च चन्द्रमाः ॥
स्यान्मीनधनुषोर्जीवः शनिर्मकरकुम्भयोः ।
सिंहास्याधिपतिः सूर्य्यः कथितो गणकोत्तमैः ॥”
इति ग्रहस्वरचक्रम् ॥ * ॥
“षोडशाक्षरोऽवर्गः स्यात् कादिवर्गास्तु पञ्चकाः ।
चतुरर्णौ य{??} वर्गौ सङ्ख्या वर्गेषु कीर्त्तिताः ॥
नाम्नो वर्णाः स्वरा ग्राह्या वर्गाणां वर्णसंख्यया ।
पिण्डिताः पञ्चभिर्भक्ताः शेषं जीवस्वरं विदुः ॥”
इति जीवस्वरचक्रम् ॥ * ॥
“मेषवृषावकारे च मिथुनाद्याः षडंशकाः ।
मिथुनांशास्त्रयश्चैव इकारे सिंहकर्क्कटौ ।
कन्या तुला उकारे च वृश्चिकस्य त्रयोऽंशकाः ।
एकारे वृष्टिकस्यान्त्याः कार्म्मुकः षड्मृगा-
दिमाः ॥
अंशास्त्रयो मृगास्यान्त्याः कुम्भमीनौ तथा
स्वरे ।
एवं राशिस्वरः प्रोक्तो नवांशप्रक्रमोदयः ॥”
इति राशिस्वरचक्रम् ॥ * ॥
“अकारे सप्त ऋक्षाणि रेवत्यादिक्रमेण च ।
पञ्च पञ्च इकारादावेवमृक्षस्वरोदयः ॥”
इति नक्षत्रस्वरचक्रम् ॥ * ॥
“मात्रा वर्णस्वरात् सङ्क्या सङ्ख्या जीवस्वरा-
त्तथा ।
पिण्डीकृते स्वरैः शेषः पिण्डस्वर इहोच्यते ॥”
इति पिण्डस्वरचक्रम् ॥ * ॥
“मात्रादिवर्णभेदेन स्वरानुत्पाद्य नामतः ।
योगे शरहृते तत्र शेषो दोगस्वरो मतः ॥”
इति योगस्वरचक्रम् ॥
“प्रोक्ता नैसर्गिकाश्चाष्टौ मात्राद्या नामजाः
स्वरा ॥” * ॥
मात्रादिस्वरचक्रबलेन कर्त्तव्यकर्म्माणि यथा, --
“साधनं मन्त्रयन्त्रस्य यन्त्रयोगञ्च सर्व्वदा ।
अधोमुखानि कर्म्माणि मात्रास्वरबले कुरु ॥ * ॥
वर्णस्वरबले सर्व्वं कर्त्तव्यञ्च शुभाशुभम् ।
सिद्धिदः सर्व्वकार्य्येषु युद्धकाले विशेषतः ॥ * ॥
मारणं मोहनं स्तम्भं विद्वेषोच्चाटने वशम् ।
विवादं विग्रहं वातं कुर्य्याद्ग्रहस्वरोदये ॥ * ॥
यानपानादिकं सर्व्वं वस्त्रालङ्कारभूषणम् ।
विद्यारम्भांविवाहञ्च कुर्य्यात् जीवस्वरोदये ॥ * ॥
प्रासादारामहर्म्म्याणि देवतास्थापनानि च ।
राजाभिषेचनं दीक्षा कर्त्तव्यं राशिके स्वरे ॥ * ॥
शान्तिकं पीष्टिकञ्चैव प्रवेशो वीजवापनम् ।
स्त्रीविवाहस्तथा यात्रा कर्त्तव्या भस्वरोदये ॥ * ॥
शत्रूणां देशभङ्गश्च कौटयुद्धञ्च वेष्टनम् ।
सेनाध्यक्षस्तथा मन्त्रो कर्त्तव्यः पिण्डकोदये ॥ * ॥
योगेन साधयेद् योगं देहस्थं ज्ञानसम्भवम् ।
आणवं शाम्भवञ्चैव शाक्तेयञ्च तृतीयकम् ॥ * ॥
तिथिवारौ च नक्षत्रं पृथक् पृथक् प्रभाषि-
तम् ।
यत् तदेकत्र सन्मिल्य कुर्य्याद्वर्णस्वरोदये ।
यस्य नामादिको वर्णस्तिथिवारर्क्षजं मृतम् ।
तद्दिनं वर्जयेत्तस्य हानिमृत्युकरं यतः ॥
अनेन स्वरयोगेन शत्रूणां मारणादिकम् ।
मन्त्रयन्त्रक्रियां मोहं साधयेत्तद्दिने बुधः ॥”
इत्यादि नरपतिजयचर्य्यास्वरोदयधृतब्रह्मयाम-
लम् ॥ * ॥ नासावायुः । इति मेदिनी ॥ तत्र
अजपाजप्रमाणं यथा, --
“हंस हंसेति यन्मन्त्रं जीवो जपति सर्व्वदा ।
शतैः षड्भिश्च युक्तानि सहस्राण्येकविंशतिः ॥
अजपा नाम गायत्त्री योगिनां मोक्षसाधनम् ।
अस्याः सङ्कल्पमात्रेण सर्व्वपापैः प्रमुच्यते ॥”
इति महाभारते आश्वमेधिकपर्व्वणि उत्तर-
गीता ॥ * ॥ अपि च ।
“इडा च पिङ्गला चैव नासिकाद्वारगामिनी ।
आमूलाद्ब्रह्मद्वारान्तं सुषुम्ना मध्यगामिनी ॥
वहत्यूर्द्ध्वमुखेनैव प्राणवायुश्च सर्व्वदा ।
पानं करोत्यपानश्च अधोवक्त्रेण चैव हि ॥
शक्तिरूपः स्थितश्चन्द्रो वामनासाप्रवाहकः ।
शिवरूपधरः सूर्य्यो दक्षनासापुटे तथा ॥
हकारे निःसरेद्वायुः सकारश्च प्रवेशने ।
अजपानामगायत्त्रीं जीवो जपत्यहर्निशम् ॥ * ॥
मुक्तिमोपानेऽप्युक्तम् ।
षट्शतानि दिवारात्रौ सहस्राण्येकविंशतिः ।
एतत्सङ्ख्यं महामन्त्र जीवो जपति सर्व्वदा ॥
ब्राह्म्ये मुहूर्त्ते योगीन्द्रो जपमेवं समर्पयेत् ।
समर्पणक्रमश्चैव उच्यते गुरुतस्ततः ॥
मूलाधारे गणेशाय षट्शतञ्च समर्पयेत् ।
तत्रैवःब्रह्मणे नित्यं षट्सहस्रं निवेदयेत् ॥
स्वाधिष्ठाने च हरये षट्सहस्रं निवेदयेत् ।
षट्सहस्रं मणिपूरे हराय च समर्पयेत् ॥
जीवात्मने सहस्रञ्च तत्रैव परिकल्पयेत् ।
परमात्मने सहस्रन्तु अनाहते निवेदयेत् ॥
सहस्रन्तु परमशिवे सहस्रारे समर्पयेत् ।
एवं समर्पयेद्यस्तु पापैः पुण्यैर्न लिप्यते ॥”
इति श्रोपूर्णानन्दतिरचितश्रीतत्त्वचिन्तामणौ
तत्त्वसारपरिच्छेदे षट्चक्रकथनम् ॥ * ॥ अन्यत्
स्वरोदयशब्दे द्रष्टव्यम् ॥ * ॥ * ॥
अथ पक्षिस्वरज्ञानम् ।
“पोतकीरुतविचारमिदानीं
कूर्म्महे यमधिगम्य मनुष्यः ।
भाविकर्म्मफलपाकपरीक्षा-
स्ततक्षमो भवति योगिसदृक्षः ॥
लाभदश्चिलि चिलीति निनादः
शूकि शूलि निनदोऽपि तथैव ।
कुचि कुचि निनदोऽपि जलार्थे
व्याहतः कूचि कूचि स्वरयुक्तैः ॥
कीरु कीरु इति यो मधुरोऽसौ
कामतस्तु निनदाः स्खलिताख्याः ।
स्याद्भयाय नियमेन च ची चि-
र्निस्वनो ह्यसुकुनाद इहार्थः ॥
कष्टदश्चिरि चिरीति तिराव-
श्चीकुचीकुरिति चान्यविरावी ।
एवमीदृशफला दश नादाः
प्रस्फुटा निगदिता भगवत्या ॥
प्रत्येकमाख्यातफलं नराणां
यस्मिन् दशानां शकुनस्वराणाम् ।
जानात्यवश्यं पुरुषो विशेषं
प्रयोजनं भावि स वेत्त्यशेषम् ॥ * ॥
वामो निनादः फलदः प्रवासे
स्याद्दक्षिणेऽनर्थफलाप्तिहेतुः ।
पृष्ठस्थितानां फलकृच्च पृष्ठे
निषेधकारी पुनरग्रभागे ॥
युद्धप्रवेशेऽथ गृहप्रवेशे
श्रेयः प्रदद्यान्निनदोऽपसव्यः ।
वामः पुनः पाण्डवयुद्धवत्या
भवत्यभीष्टप्रतिकूलवर्त्ती ॥ * ॥
पार्थिवञ्चिलिचिलिस्वर उक्तः
शूलि शूलिरिति यः स तथैव ।
कूचि कूचि कुचि कुचीति च शब्दं
द्वाविमौ निगदितौ पुनराप्यौ ॥
कीरु कौरुरिति तैजससंज्ञ-
स्तैजसाश्च निनदाः स्खलिताख्याः ।
मारुतावपि चिलिस्वनवीचि-
निस्वनौ निगदितौ मुनिमुख्यैः ॥
अम्बरश्चिरि चिरीति निनाद-
श्चीकु चोकुरिति तादृश एव ।
पञ्च चैव निनदा दश नादा
भूतपञ्चकनिवासभवेन ॥
क्रमादमी पार्थिवनादपूर्ब्बाः
पञ्चापि शब्दाः शकुनैकदेव्याः ।
भवन्ति चैतन्नियतं भवन्ति
फलानि पूर्णान्यचिरेण पुंसाम् ॥
क्रमेण पृथ्वीजलपावकानां
भवन्ति शब्दा यदि कृष्णिकायाः ।
मनोरथेभ्योऽभ्यधिकानि तूर्णं
तदा फलानि ध्रुवमुद्वहन्ति ॥
अनन्तरं पार्थिवनादतश्चेद्-
वह्निस्बरस्तत्फलमक्षतं स्यात् ।
वायव्यशब्दौ यदि नाभसौ वा
भूत्वा फलं नश्यति तत् समस्तम् ॥
शान्तौ निनादौ पृथिवीजलाख्यौ
दीप्तौ समीराम्बरनामधेयौ ।
तेजःप्रधानो विजयावलम्बी
भवेत् समं येन फलेन तादृक्
पृष्ठ ५/४७७
शुभेषु कार्य्येष्वशुभाय शान्तौ
दीप्तौ भयादौ भयनाशनाय ।
विपर्य्यये द्वावपि न प्रशस्ता-
वस्तित्वना स्तित्वफलौ यतस्तौ ॥”
इति वसन्तराजशाकुने स्वरप्रकरणम् ॥

स्वरपत्तनं, क्ली, (स्वराणां षड्जादीनां पत्तन-

माश्रयस्थानम् ।) सामवेदः । इति त्रिकाण्ड-
शेषः ॥

स्वरभङ्गः, पुं, (स्वरस्य भङ्गो यस्मात् ।) गल-

रोगविशेषः । अस्य विवरणं स्वरभेदशब्दे
द्रष्टव्यम् ॥

स्वरभङ्गी, [न्] पुं, (स्वरस्य भङ्कोऽस्यास्तीति ।

इनिः ।) पक्षिविशेषः । यथा, --
“स्वरभङ्गी नवो दृङ्क्षुविरुट्शकुनभेदकाः ॥”
इति शब्दचन्द्रिका ॥

स्वरभेदः, पुं, (स्वरस्य भेदो यस्मात् ।) स्वरभङ्ग-

रोगः । यथा । अथ स्वरभेदाधिकारः । तत्र
स्वरभेदस्य निदानसम्प्राप्तिपूर्ब्बकं लक्षणमाह ।
“अत्युच्चभाषणविषाध्ययनाभिघातैः
सन्दूषणैः प्रकुपिताः पवनादयस्तु ।
स्रोतःसु ते स्वरवहेषु नताः प्रतिष्ठां
हन्युः स्वरं भवति चापि हि षड्विधः सः ॥
अध्ययनमुच्चैर्व्वेदादिपाठः । अभिघातः कण्ठादि-
देशे लगुडादिभिः । एतैरत्युच्चभाषणादिभिः-
श्चतुर्भिः संदूषणैरन्यैरपि । निजैर्दुष्टहेतुभिः ।
स्रोतःसु सुश्रुतोक्तेषु चतुर्षु । प्रतिष्ठाम् स्थितिम् ।
हन्युः स्वरमिति लक्षणम् । स्वरभेदः षड्विधः ।
वातपित्तकफसन्निपातक्षयमेदोभवभेदैः ॥ * ॥
तत्र वातिकस्वरभेदिनो लक्षणमाह ।
“वातेन कृष्णनयनाननमूत्रवर्च्चा
भिन्नं शनैर्वदति गर्द्दभवत् स्वरञ्च ।” * ।
पित्तेनाह ।
“पित्तेन पीतनयनाननमूत्रवर्च्चा
ब्रूयाद्गलेन स च दाहसमन्वितेन ॥”
नलदाहोऽत्र वचनसमय एव बोद्धव्यः ॥ * ॥
कफेनाह ।
“ब्रूयात् कफेन सततं कफरुद्धकण्ठः ।
खल्पं शनैर्व्वदति चापि दिवाविशेषात् ॥”
दिवा सूर्य्यरश्मिभिः कफस्याल्पीभावात् ॥ * ॥
सन्निपातेनाहः
सर्व्वात्मके भवति सर्व्वविकारसम्प-
त्तच्चाप्यसाध्यमृषयः स्वरभेदमाहुः ॥” * ॥
अयजमाह ।
“धूप्येत बाक्क्षयकृते क्षयमाप्नुयाच्च
स्वादेषु चापि हतवाक् परिवर्ज्जनीयः ॥”
न्नाक् धूप्येत सधूमेव निःसरति क्षयञ्चाप्नुयात्
वागेव ॥ * ॥ मेदोभवमाह ।
“अन्तर्गलं स्वरमलक्ष्यपदं चिरेण
मेदोऽन्वयाद्वदति दिग्धगलस्तृषार्त्तः ॥”
अन्तर्गलं गलमध्ये एव स्वरं वदति । दिग्धगलः
मेदसा श्लेष्मणाबलिप्तगलः । तृषार्त्तः मेदसोष्म-
मार्गावरोधात् ॥ * ॥ असाध्यमाह ।
“क्षीणस्य वृद्धस्य कृशस्य चापि
चिरोत्थितो यश्च सहोपजातः ।
मेदस्विनः सर्व्वसमुद्भवश्च
स्वरामयो यो न स सिद्धिमेति ॥”
क्षीणस्य क्षयरोगिणः । कृशस्य अपुष्टस्य ॥ * ॥
अथ स्वरभेदस्य चिकित्सा ।
“वातादिजनितश्वासकासघ्ना ये प्रकीर्त्तिताः ।
योगास्तानत्र युञ्जीत यथादोषं चिकित्सकः ॥
वाते सलवणं तैलं पित्ते सर्पिः समाक्षिकम् ।
कफे सक्षारकटुकक्षौद्रः कवल इष्यते ॥
गले तालुनि जिह्वायां दन्तमूलेषु चाश्रितः ।
तेन निष्कृष्यते श्लेष्मा स्वरश्चाशु प्रसीदति ॥
आद्ये कोष्णं जलं पेयं भुक्त्वा घृतगुडौदनम् ।
क्षीरानुपानं पित्तोत्थे पिबेत् सर्पिरतन्द्रितः ।
पिप्पलीं पिप्पलीमूलं मरिचं विश्वभेषजम् ।
पिबेन्मूत्रेण मतिमान् कफजे स्वरसंक्षये ॥
निदिग्धिका तुला ग्राह्या तदर्द्धं ग्रन्थिकस्य तु ।
तदर्द्धं चित्रकस्यापि दशमूलञ्च तत्समम् ॥
जलद्रोणद्वये क्वाथ्यं गृह्णीयादाढकं ततः ।
पूते पिबेत्तदर्द्धन्तु पुराणस्य गुडस्य च ॥
सर्व्वमेकत्र कृत्वा तु लेहवत् साधु साधयेत् ।
अष्टीपलानि पिप्यलास्त्रिजातकपलं तथा ॥
मरिचस्य पलं चैकं सर्व्वमेकत्र चूर्णितम् ।
मधुनः कुडवं दत्त्वा तदश्नीयाद्यथानलम् ॥
निदिग्धिकावलेहोऽयं भिषग्भिर्मुनिभिर्म्मतः ।
स्वरभेदहरो मुख्यः प्रतिश्याय हरस्तथा ॥
काशश्वामाग्निमान्द्यादीन् गुल्ममेहगलामयान् ।
आनाहं मूत्रकृच्छ्रानि हन्याद्ग्रन्थ्यर्व्वुदानि
च ॥”
इति निदिग्धिकावलेहः ॥ * ॥
“मृगनाभिः सुसूक्ष्मैलालवङ्गकुसुमान्वितैः ।
त्वक्क्षीरी चेति लेहोऽयं मर्पिर्मधुसमायुतः ॥
ब्राह्मी वचाभया वासा पिप्पली मधुसंयुता ।
अस्य प्रयोगात् सप्ताहात् किन्नरैः सह
गायति ॥”
इति स्वरभेदाधिकारः ॥ इति भावप्रकाशः ॥ * ॥
अन्यच्च ।
“विभीतकस्य वै चूर्णं पिप्पलीमैन्धवस्य च ।
पीतं सकाञ्जिकं हन्ति स्वरभेदं महेश्वर ॥”
इति गारुडे । १९४ । २८ ॥
(तथास्य चिकित्सान्तरं यथा, --
“भृङ्गराजामृतावल्ली वासकदशमूलकासमर्द्द-
रसैः ।
सर्पिः सपिप्पलीकं सिद्धं स्वरभेदकासजिन्म-
धुना ॥”
इति भृङ्गराजाद्यं घृतम् ॥
इति वैद्यकचक्रपाणिसंग्रहे स्वरभेदाधिकारे ॥
तथात्र पथ्यापथ्यनियमो यथा, --
“स्वेदो वस्तिर्धूमपानं विरेकः कवलग्रहः ।
नस्यं भाले सिरावेधो यवा लोहितशालयः ॥
हंसाटवीताम्रचूडकेकिमांसरसाः सुरा ।
गोकण्टकः काकमाची जीवन्ती वालमूलकम् ।
द्राक्षा पथ्या मातुलुङ्गं लशुनं लवणार्द्रकम् ।
ताम्बूलं मरिचं सर्पिः पथ्यानि स्वरभेदिनाम् ॥”
अपथ्यानि यथा, --
“आमं कपित्थं वकुलं शालूकं जम्बवानि च ।
तिन्दुकानि कषायाणि वमिं स्वप्नं प्रजल्पनम् ॥
अनुपानञ्च यत्नेन स्वरभेदी विवर्ज्जयेत् ॥”
इति वैद्यकपथ्यापथ्यविधिः ॥)

स्वरमण्डलिका, स्त्री, (स्वराणां मण्डलमस्त्यत्रेति ।

स्वरमण्डल + ठन् ।) वीणाविशेषः । इति
शब्दरत्नावली ॥ क्वचित् पुस्तके सुरखण्डलिका
इति पाठः ॥

स्वरलासिका, स्त्री, (स्वरैर्लसतीति । लस + ण्वल् ।

टापि अत इत्वम् ।) वंशी इति शब्दरत्नावली ॥

स्वरसः, पुं, (स्वस्य रसः । स्व आत्मीयो रसो वा ।)

शिलापिष्टकल्कः । यथा, --
“स्वो रसः स्वरसः प्रोक्तः कल्को दृशदि
पेषितः ॥”
इति शब्दचन्द्रिका ॥ * ॥
कषायविशेषः । यथा, --
“सद्यः क्षुण्णादार्द्रद्रव्याद्वस्त्रयन्त्रादिपीडनात् ।
यो रसस्त्वभिनिर्याति स्वरसः सः प्रकीर्त्तितः ॥”
इति वैद्यकम् ॥
अन्यच्च ।
“पिष्टः कल्को विनीयश्च स्वरसः पीडितो रसः ।
क्वाथः कषायो निर्यूहो निर्यासो वेष्ठकस्तथा ॥”
इति रत्नमाला ॥
(“यन्त्रप्रपीडनाद्रव्याद्रसः स्वास उच्यते ॥”
इति चरके सूत्रस्थाने चतुर्थेऽध्याये ॥
“शुष्कद्रव्यमुपादाय स्वरसानामसम्भवे ।
वारिण्यष्टगुणे साध्यं ग्राह्यं पादावशेषितम् ॥”
इति वैद्यकचक्रपाणिसंग्रहे स्वरभेदाधिकारे ॥)

स्वरा, स्त्री, ब्रह्मणो ज्येष्ठपत्नी । गायत्रीसपत्नी ।

यथा, --
“चाक्षुषस्यान्तरे पूर्ब्बं मनोर्देवः पितामहः ।
सह्याद्रिशिखरे रम्ये यजनायोद्यतोऽभवत् ॥
स कृत्वा यज्ञसम्भारान् सर्व्वदेवगणैर्व्वृतः ।
युक्तो हरिहराभ्यां हि तद्गिरेः शिखरं ययौ ॥
भृग्वादयो मुनिगणा मुहूर्त्ते ब्रह्मदैवते ।
तस्य दीक्षाविधानाय समाजं चक्रुरादृताः ॥
अथ ज्येष्ठां स्त्ररां पत्नीमाह्वयाञ्चक्रुरीश्वराः ।
सा शनैराययौ तावत् भृगुर्व्विष्णुमुवाच ह ॥ * ॥
भृगुरुवाच ।
विष्णो स्वरा त्वयाहूता साप्यायाति नहि
त्वरम् ।
मुहूर्त्तातिक्रमे चैव कार्य्यो दीक्षाविधिः कथम् ॥
विष्णुरुवाच ।
नायाति चेत् स्वरा शीघ्रं गायत्र्यत्र विधौ-
यताम् ।
एषापि न भेवेदस्य भार्य्या किं पुण्यकर्म्मणि ॥
नारद उवाचः
एवमेव हि रुद्रोऽपि विष्णुवाक्यममन्यत ।
तच्छ्रुत्वा स भृगुर्व्वाक्यं गायत्रीं ब्रह्मणस्तदा ॥
पृष्ठ ५/४७८
निवेश्य दक्षिणे भागे दीक्षाविधिमथाकरोत् ॥
यावद्दीक्षाविधिं तस्य विधेश्चक्रुर्मुनीश्वराः ।
तावदभ्याययौ तत्र स्वरा यज्ञस्थले नृप ॥
ततस्तां दीक्षितां दृष्ट्वा गायत्त्रीं ब्रह्मणा सह ।
सपत्नीर्षापरा क्रोधात् स्वधा वचनमब्रवीत् ॥
स्वरोवाच ।
अपूज्या यत्र पूज्यन्ते पूज्यानाञ्च व्यतिक्रमः ।
त्रीणि तत्र भविष्यन्ति दुर्भिक्षं मरणं भयम् ॥
मदासने कनिष्ठेयं भवद्भिः सन्निवेशिता ।
तस्मात् सर्व्वे जडीभूता नदीरूपा हि निश्चितम् ॥
इयञ्च दक्षिणे भागे ह्युपविष्टा मदासने ।
तस्माल्लोके सदादृश्या तनुरूपास्तु निम्नगा ॥
नारद उवाच ।
अतस्तत् शापमाकर्ण्य गायत्री कम्पिताधरा ।
समुत्थायाशपद्देवैर्वार्य्यमाणापि तां स्वराम् ॥
गायत्र्युवाच ।
तव भर्त्ता यथा ब्रह्मा ममाप्येष तथा खलु ।
वृथा शपसि यस्मान्मां भव त्वमपि निम्नगा ॥”
इति पाद्मोत्तरखण्डे कार्त्तिकमाहात्म्ये १५६
अध्यायः ॥

स्वरांशः, पुं, (स्वरस्य अंशः ।) संगीते स्वरस्यार्द्धं

पादं वा । इति केचित् ॥

स्वराट्, [ज्] पुं, (स्वेन राजते इति । राज +

“सत्सूद्धिषेति ।” ३ । २ । ६१ । इति क्विप् ।)
वेदस्य छन्दोविशेषः । यस्य प्रत्येकद्विपादे
अष्टाक्षरः एकपादे दशाक्षरः । इति केचित् ॥
(स्वतो भासमाने, त्रि । यथा, महाभारते ।
१२ । ४३ । १११ ।
“सभ्राट् विराट् स्वराट् चैव सुरराजो
भवोद्भवः ॥”
ब्रह्मा । इति विष्णुपुराणटीकायां श्रीधरस्वामी ।
१ । १२ । ५९ ॥)

स्वरापगा, स्त्री, (स्वः स्वर्गस्य आपगा ।) स्वर्गङ्गा ।

इति हेमचन्द्रः ॥

स्वरालुः, पुं, वचा । इति शब्दचन्द्रिका ॥

स्वरितः, पुं, (स्वर + जातार्थे इतच् ।) स्वर-

विशेषः । यथा, --
“उदात्तश्चानुदात्तश्च स्वरितोऽमी त्रयः स्वराः ॥”
इति जटाधरः ॥
स्वरः संजातोऽत्रेति इतोऽस्य जाते इति इतः ।
यदाहुः । उश्चैरुच्चारणादुदात्तः नीचैरनुदात्तः
समाहारः स्वरितः इति । छान्दसत्वात् प्रचित-
स्यरो नोक्तः । तदुक्तम् ।
“उदात्तश्चानुदात्तश्च स्वरितश्च त्रयः स्वराः ।
चतुर्थः प्रचितो नोक्तो यतोऽसौ छान्दसः
स्मृतः ॥”
इति भरतः ॥
स्वरयुक्ते, त्रि ॥

स्वरुः, [म्] पुं, वज्रम् । इत्यमरटीकायां नील-

कण्ठः ॥

स्वरुः, पुं, (स्वर्य्यन्ते प्राणिनोऽनेनेति । स्वृशब्दोप-

तापयाः + “शॄस्वृस्रिहित्रपीति ।” उणा० १ ।
११ । इति उः । स च नित् ।) वज्रम् । इत्य-
मरः । १ । १ । ५० ॥ यूपखण्डम् । (यथा,
ऋग्वेदे । ७ । ३५ । ७ ।
“शं नः स्वरूणां मितयो भवन्तु ॥”)
यज्ञः । शरः । इति मेदिनी ॥ सूर्य्यरश्मिः ।
वृश्चिकभेदः । इति केचित् ॥

स्वरुचिः, त्रि, (स्वस्य रुचिर्यस्य ।) स्वतन्त्रः ।

इति हेमचन्द्रः ॥ (स्वस्य रुचिः ।) स्वेच्छायां,
स्त्री । यथा, --
“स्वरुच्या क्रियमाणे तु यत्रावश्यं क्रिया क्वचित् ।
चोद्यते नियमः सोऽत्र ऋतावभिगमो यथा ॥”
इति प्रायश्चित्ततत्त्वम् ॥

स्वरूपं, क्ली, (स्वस्य रूपं यस्मात् ।) स्वभावः ।

इत्यमरः । १ । ७ । ३८ ॥ निजरूपञ्च ॥ (यथा,
महाभारते । ३ । ६६ । १३ ।
“स दृष्ट्वा विस्मितस्तस्थावात्मानं विकृतं नलः ।
स्वरूपधारिणं नागं ददर्श स महीपतिः ॥”)

स्वरूपः, त्रि, (स्वेनैव रूपं यस्य ।) पण्डितः ।

मनोज्ञः । तयोः पर्य्यायः । प्राप्तरूपः २ अभि-
रूपः ३ । इत्यमरः । ३ । ३ । १३१ ॥

स्वरेणुः, स्त्रीं, सूर्य्यपत्नीविशेषः । सा तु संज्ञा ।

इति त्रिकाण्डशेषः ॥

स्वरोदयः, पुं, (स्वराणामुदयो यत्र । स्वरज्ञापक-

ग्रन्थविशेषः । यथा, --
सूत उवाच ।
“हरेः श्रुत्वा हरो गौरीं देहस्थं ज्ञानमब्रवीत् ।
कुजो वह्नी रविः पृथ्वी सौरिरापः प्रकीर्त्तितः ॥
वायुसंस्थः स्थितो राहुर्दक्षरन्ध्रावभासकः ।
गुरुः शुक्रस्तथा सौम्यश्चन्द्रश्चैव चतुर्थकः ॥
वामनाड्यान्तु मध्यस्थान् कारयेदात्मनस्तथा ।
यदा चार इडायुक्तस्तदा कर्म्म समाचरेत् ॥
स्थानसेवां तथा ध्यानं बाणिज्यं राजदर्शनम् ।
अन्यानि शुभकर्म्माणि कारयेत प्रयत्नतः ॥
दक्षनाडीप्रवाहे तु शनिर्भौमश्च सैंहिकः ।
इनश्चैव तथाप्येव पापानामुदयो भवेत् ॥
शुभाशुभविवेको हि ज्ञायते तु स्वरोदयात् ।
देहमध्ये स्थिता नाड्यौ बहुरूपाः सुविस्तराः ॥
नाभेरधस्ताद् यः कन्दो अङ्कुरास्तत्र निर्गताः ।
द्वासप्ततिसहस्राणि नाभिमध्ये व्यवस्थिताः ॥
चक्रवच्च स्थितास्तास्तु सर्व्वाः प्राणहराः स्मृताः ।
तासां मध्ये त्रयः श्रेष्ठा वामदक्षिणमध्यमाः ॥
वामा सोमात्मिका प्रोक्ता दक्षिणा रविसन्निभा ।
मध्यमा च भवेदग्निः फलतां कालरूपिणी ॥
वामा ह्यमृतरूपा च जगदाप्यायने स्थिता ।
दक्षिणा रौद्रभागेन जगच्छोषयते सदा ॥
द्वयोर्ब्बाहे तु मृत्युः स्यात् सर्व्वकार्य्यविनाशिनी ।
निगमे च भवेद्वामा प्रवेशे दक्षिणा स्मृता ॥
कारयेत् क्रूरकर्म्माणि प्राणे पिङ्गलसंस्थिते ।
इडाचारे तथा सौम्यं चन्द्रसूर्य्यगतस्तथा ॥
यात्रायां सर्व्व कार्य्येषु विषापहरणे इडा ।
भोजने मैथुने युद्धे पिङ्गला सिद्धिदायिका ॥
उच्चाटमारणाद्येषु कर्म्मस्वेतेषु पिङ्गला ।
मैथुने चैव संग्रामे भोजने सिद्धिदायिका ॥
शोभनेषु च कार्य्येषु यात्रायां विषकर्म्मणि ।
शान्तिमुक्त्यर्थमिद्ध्यै च इडा योज्या नराधिपैः ॥
द्वाभ्याञ्चैव प्रवाहे च क्रूरसौम्यविवर्ज्जने ।
विषुवं तन्तु जानीयात् संस्मरेत्तु विचक्षणः ॥
सौम्यादि शुभकार्य्येषु लाभादिजयजीविते ।
गमनागमने चैव वामा सर्व्वत्र पूजिता ॥
युद्धादिभोजने घाते स्त्रीणाञ्चैव तु सङ्गमे ।
प्रशस्ता दक्षिणा नाडी प्रवेशे क्षुद्रकर्म्मणि ॥
शुभाशुभानि कार्य्याणि लाभालाभौ जयाजयी ।
जीवो जीवाय यत्पृच्छेत् न सिध्यति च मध्यमा ॥
वामाचारेऽथवा दक्षे प्रत्यये यत्र नायकः ।
तनुस्थः पृच्छते यस्तु तत्र सिद्धिर्न संशयः ।
वैच्छन्दो वामदेवस्तु यदा वहति चात्मनि ।
तत्र भागे स्थितः पृच्छेत् सिद्धिर्भवति निष्फला ॥
वामे वा दक्षिणे वापि यत्र संक्रमते शिवा ।
घोरे घोराणि कार्य्याणि सौम्येवै मध्यमानि च ॥
प्रस्थिते भागतो हंसे द्वाभ्यां वै सर्व्ववाहिनि ।
तदा मृत्युं विजानीयाद्योगी योगविशारदः ॥
यत्र यत्र स्थितः पृच्छेद्वामदक्षिणसंमुखः ।
तत्र तत्र समं दिश्याद्वातस्थोदयनं सदा ॥
अग्रतो वामिका श्रेष्ठा पृष्ठतो दक्षिणा शुभा ।
वामेन वामिका प्रोक्ता दक्षिणे दक्षिणा शुभा ॥
जीवी जीवति जीवेन यच्छून्यं तत् स्वरो भवेत् ॥
यत्किञ्चित् कार्य्यमुद्दिष्टं जयादिशुभलक्षणम् ।
तत् सर्वं पूर्णनाड्यान्तु जायते निर्व्विकल्पतः ॥
अन्यनाड्यादिपर्य्यन्तपक्षत्रयमुदाहृतम् ।
यावत् पष्ठीन्तु पृच्छायां पूर्णायां प्रथमो जयेत् ॥
रिक्तायान्तु द्वितीयान्तु कथयेत्तदशङ्कितः ।
वामाचारसमा वायुर्जायते कर्म्मसिद्धिदः ॥
प्रवृत्ते दक्षिणे मार्गे विषमे विषमाक्षरम् ।
अन्यत्र वामवाहे तु नाम वै विषमाक्षरम् ॥
तदासौ जयमाप्नोति योधः संग्राममध्यतः ।
दक्षवातप्रवाहे तु यदि नाम समाक्षरम् ॥
जायते नात्र सन्देहो नाडीमध्ये तु लक्षयेत् ।
पिङ्गलान्तर्गते प्राणे शमनीयाहवञ्जयेत् ॥
यावन्नाड्योदयं चारस्तां दिशं यावदापयेत् ।
न दातुं जायते सोऽपि नात्र कार्य्या विचा-
रणा ॥
अथ संग्राममध्ये तु यत्र नाडी सदा वहेत् ।
सा दिशा जयमाप्नोति शून्ये भङ्गं विनिर्द्दिशेत् ॥
जातचारे जयं विद्यान्मृतके मृतमादिशेत् ।
जयं पराजयं चैव यो जानाति स पण्डितः ॥
वामे वा दक्षिणे वापि यत्र सञ्चरते शिवम् ।
कृत्वा तत्पदमाप्नोति यात्रा सन्ततिशोमना ॥
शशिसूर्य्यप्रवाहे तु सति युद्धं समाचरेत् ।
तत्रस्थः पृच्छते यस्तु स साधु जायते ध्रुवम् ॥
यां दिशं वहते वायुस्तां दिशं यावदाजयेत् ।
जयते नात्र सन्देह इन्द्रो यद्यग्रतः स्थितः ॥
मेषाद्या दश या नाड्यो दक्षिणा वामसंस्थिता ।
चरस्थिरद्विमार्गे तास्तादृशे तादृशः क्रमात् ॥
निगमे निर्गमं याति संग्रहे संग्रहं विदुः ।
पृष्ठ ५/४७९
पृच्छकस्य वचः श्रुत्वा घण्टाकारेण लक्षयेत् ॥
वामे वा दक्षिणे वापि पञ्चतत्त्वस्थितः शिवे ।
ऊर्द्ध्वेऽग्निरध आपश्च तिर्य्यक्संस्थः प्रभञ्जनः ॥
मध्ये तु पृथिवी ज्ञेया लाभः सर्व्वत्र सर्व्वदा ।
ऊर्द्ध्वे मृत्युरधः शान्तिस्तिर्य्यक् चोच्चाटयेत्
सधीः ।
मध्ये स्तम्भं विजानीयान्मोक्षः सर्व्वत्र सर्व्वगे ॥”
इति गारुडे पवनविजयादिः ६७ अध्यायः ॥ * ॥
अन्यच्च ।
श्रीपार्व्वत्युवाच ।
“देवदेव महादेव तत्त्वज्ञ परमेश्वर ।
कथयस्व प्रभो ज्ञानं कृपां कृत्वा ममोपरि ॥
कथं ब्रह्माण्डमुत्पन्नं कथं वा परिवर्त्तते ।
कथं विलीयते देव वद ब्रह्माण्डनिर्णयम् ॥
श्रीमहादेव उवाच ।
तत्त्वाद्ब्रह्माण्डमुत्पन्नं तत्त्वेन परिवर्त्तते ।
तत्त्वेन लीयते देवि तत्त्वाद्ब्रह्माण्डनिर्णयः ॥
देव्युवाच ।
तत्त्वमेव परं मूलं निश्चितं तत्त्ववेदिभिः ।
तत्त्वस्वरूपं किं देव तत्त्वमेव प्रकाशय ॥
ईश्वर उवाच ।
निरञ्जनो निराकार एकदेवो महेश्वरः ।
तस्मादाकाशमुत्पन्नं आकाशाद्वायुमम्भवः ॥
वायोस्तेजस्ततश्चापस्ततः पृथ्वीसमुद्भवः ।
एतानि पञ्चतत्त्वानि विस्तीर्णानि च पञ्चधा ॥
तेभ्यो ब्रह्माण्डमुत्पन्नं तैरेव परिवर्त्तते ।
विलीयते च तत्रैव तत्रैव रमते पुनः ॥ * ॥
पञ्चतत्त्वमये देहे पञ्चतत्त्वानि सुन्दरि ।
सूक्ष्मरूपेण वर्त्तन्ते ज्ञायते तत्त्वयोगिभिः ॥
अत एव प्रवक्ष्यामि शरीरस्थं स्वरोदयम् ।
हंसचारस्वरूपेण भवेद् ज्ञानं त्रिकालगम् ॥
गुह्याद्गुह्यतरं सारमुपकारप्रकाशकम् ।
इदं स्वरोदयं ज्ञानं ज्ञानिनां मस्तके मणिः ॥
सूक्ष्मात् सूक्ष्मतरं ज्ञानं सुबोधं सत्यप्रत्ययम् ।
आश्चर्य्यं नास्तिके लोके आधारस्त्वास्तिके जने ॥
शान्ते शुद्धे सदाचारे गुरुभक्तैकमानसे ।
दृढचित्ते कृतज्ञे च देयञ्चैव स्वरोदयम् ॥
शठे च दुर्ज्जने शूद्रे अशान्ते गुरुलोपके ।
हीनसत्त्वे दुराचारे स्वरज्ञानं न दीयते ॥ * ॥
शृणु त्वं कथितं देवि देहस्य ज्ञानमुत्तमम् ।
येन विज्ञानमात्रेण सर्व्वज्ञत्वं प्रजायते ॥
स्वरे वेदाश्च शास्त्राणि स्वरे गान्धर्व्वमुत्तमम् ।
स्वरे सर्व्वञ्च त्रैलोक्यं स्वरे आत्मस्वरूपकः ॥
स्वरहीनोऽथ दैवज्ञो नाथहीनं यथा गृहम् ।
शास्त्रहीनो यथा वक्ता शिरोहीनञ्च यद्वपुः ॥
नाडीभेदं यथा प्राणं तत्त्वभेदं तथैव च ।
सुषुम्रामिश्रभेदञ्च यो जानाति स मुक्तिगः ॥
साकारे वा निराकारे शुभवायुबले कृते ।
कथयन्ति शुभं केचित् स्वरज्ञानं वरानने ॥
ब्रह्माण्डखण्डपिण्डाद्यं स्वरेणैव हि निर्म्मितम् ।
सृष्टिसंहारकर्त्ता च स्वरः साक्षान्महेश्वरः ॥
स्वरज्ञानात् परं मित्र स्वरज्ञानात् परं धनम् ।
स्वरज्ञानात् परं गुह्यं न वा दृष्टं न वा श्रुतम् ॥
शत्रुं हन्यात् स्वरबलैस्तथा मित्रसमागमः ।
लक्ष्मीप्राप्तिः स्वरबलैः कीर्त्तिः स्वरबलैस्तथा ॥
कन्याप्राप्तिः स्वरबलैः स्वरबलै राजदर्शनन् ।
स्वरबलैर्देवतासिद्धिः स्वरबलैः क्षितिपो वशः ॥
स्वरबलैर्गम्यते देशे भोज्यं स्वरबलैस्तथा ।
लघु दीर्घं स्वरबलैर्मलञ्चैव निवारयेत् ॥
सर्व्वशास्त्रपुराणादिस्मृतिवेदाङ्गपूर्ब्बकम् ।
स्वरज्ञानात् परं मित्रं नास्ति किञ्चिद्वरानने ॥
नामरूपादिकाः सर्व्वे मिथ्या सर्व्वे कविभ्रमाः ।
अज्ञानमोहिता मूढा यावत्तत्त्वं न विद्यते ॥
इदं स्वरोदयं शास्त्रं सर्व्वशास्त्रोत्तमोत्तमम् ।
आत्मघटप्रकाशार्थं प्रदीपकलिकोपमम् ॥
यस्मै कस्मै परस्मै वा न प्रोक्तं प्रश्नहेतवे ।
तस्मादेतत् स्वयं ज्ञेयमात्मनैवात्मनात्मनि ॥
न तिथिर्न च नक्षत्रं न वारग्रहदेवताः ।
न विष्टिर्न व्यतीपातो विरुद्धाद्यास्तथैव च ॥
कुयोगा नैव देवेशि प्रभवन्ति कदाचन ।
प्राप्ते स्वरबले सिद्धिं सर्व्वमेव फलं शुभम् ॥ * ॥
देहमध्ये स्थिता नाङ्यो बहुरूपाः सविस्तराः ।
ज्ञातव्याश्च बुधैनित्यं स्वदेहे ज्ञानहेतवे ॥
नाभिस्थानककन्दोर्द्ध्वमङ्कुरादेव निर्म्मिताः ।
द्विसप्ततिसहस्राणि देहमध्ये व्यवस्थिताः ।
नाडीस्था कुण्डली शक्तिर्भुजङ्गाकारशायिनी ।
ततो दशोर्द्ध्वगा नाड्यो दशैवाधः प्रतिष्ठिताः ॥
देहे तिर्य्यग्गता नाड्यश्चतुर्विंशतिसंख्यया ।
प्रधाना दश नाड्यस्तु दश वायुप्रवाहकाः ॥
तिर्य्यगूर्द्ध्वमधस्ताद्वा वायुर्देहे समन्वितः ।
चक्रवत्तु स्थिता देहे सर्व्वाः प्राणसमाश्रिताः ॥
तासां मध्ये दश श्रेष्ठा दशानां तिस्र उत्तमाः ।
इडा च पिङ्गला चैव सुषुम्रा च तृतीयिका ॥
गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी ।
अलम्बुषा कुहूश्चैव शङ्खिनी दशमी तथा ॥
इडा वासे स्थिता भागे दक्षिणे पिङ्गला तथा ।
सुषुम्ना मध्यदेशे तु गान्धारी वामचक्षुषि ॥
दक्षिणे हस्तिजिह्वा च पूषा कर्णे च दक्षिणे ।
यशस्विनी वामकर्णे आनने चाप्यलम्बुषा ॥
कुहूश्च लिङ्गदेशे तु मूलस्थाने च शङ्खिनी ।
एवं द्वारं समाश्रित्य तिष्ठन्ति दशनाडिकाः ॥
इडा पिङ्गला सुषुम्ना च प्राणमार्गे समा-
श्रिताः ।
एता हि दश नाड्यस्तु देहमध्ये व्यवस्थिताः ।
नामानि नाडिकानान्तु वातानां प्रवदाम्यहम् ।
प्राणोऽपानः समानश्चोदानो व्यानस्तथैव च ॥
नागः कूर्म्मश्च कृकरो देवदत्तो धनञ्जयः ।
हृदि प्राणो वहेन्नित्यमपानो गुदमण्डले ॥
समानो नाभिदेशे तु उदानः कण्ठमध्यगः ।
व्यानो व्यापो शरीरेषु प्रधानाः पञ्च वायवः ॥
प्राणाद्याः पञ्च विख्याता नागाद्याः पञ्च
वायवः ।
तेषामपि च पञ्चानां स्थानानि च वदाम्यहम् ॥
उद्गारे नाग आख्यातः कूर्म्म उन्मीलने स्मृतः ।
कृकरः क्षुत्कृतो ज्ञेयो देवदत्तो विजृम्भणे ।
न जहाति मृते क्वापि सर्व्वव्यापी धनञ्जयः ।
एते नाडीषु सर्व्वासु भ्रमन्ते जीवरूपिणः ॥
प्रकटप्राणसञ्चारं लक्षयेत् देहमध्यतः ।
इडापिङ्गलासुषुम्नाभिर्नाडीभिस्तिसृभिर्बुधः ॥
इडा वामे च विज्ञेया पिङ्गला दक्षिणे स्मृता ।
इडानाडीस्थिता वामा ततो व्यस्ता च
पिङ्गला ॥
इडायां संस्थितश्चन्द्रः पिङ्गलायाञ्च भास्करः ।
सुषुम्ना शम्भुरूपेण शम्भुर्हंसस्वरूपकः ॥
हंकारो निर्गमे प्रोक्तः सकारस्तु प्रवेशने ।
हंकारः शिवरूपेण सकारः शक्तिरुच्यते ॥
शक्तिरूपः स्थितश्चन्द्रो वामनाडीप्रवाहकः ।
दक्षनाडीप्रवाहश्च शुम्भुरूपी दिवाकरः ॥
श्वासे सकारसंस्थे तु यद्दानं दीयते बुधैः ।
तद्दानं जीवलोकेऽस्मिन् कोटिकोटिगुणं भवेत् ॥
अनेन लक्षयेद् योगी चैकचित्तः समाहितः ।
सर्व्वमेव विजानीयान्मार्गं तच्चन्द्रसूर्य्ययोः ॥
ध्यायेत्तत्त्वं स्थिरे जीवे अस्थिरे न कदाचन ।
इष्टसिद्धिर्भवेत्तस्य महालाभो जयस्तथा ॥
चन्द्रसूर्य्यौ यदाभ्यासौ ये कुर्व्वन्ति सदा नराः ।
अतीतानागतज्ञानं तेषां हस्तगतं सदा ॥
वामे चामृतरूपस्था जगदाप्यायिनी परा ।
दक्षिणा चरमे भागे जगदुत्पादयेत् सदा ॥
मध्यमा भवति क्रूरा दुष्टा सर्व्वत्र कर्म्मसु ।
सर्व्वत्र शुभकाय्येषु वामा भवति पुष्टिदा ॥
निर्गमे च शुभा वामा प्रवेशे दक्षिणा शुभा ।
शुभकार्य्ये शुभा वामा दक्षिणा क्रूरकर्म्मसु ।
चन्द्रः समस्तु विज्ञेयो रविस्तु विपमः सदा ।
चन्द्रः स्त्री पुरुषः सूर्य्यश्चन्द्रो गौरो रविः
सितः ॥
इडा पिङ्गला सुषुम्रा च तिस्रो नाड्यः प्रकी-
र्त्तिताः ।
इडायाश्च प्रवाहेण सौम्यकर्म्माणि कारयेत् ॥
पिङ्गलायाः प्रवाहेण रौद्रकर्म्माणि कारयेत् ।
सुषुम्नाया प्रवाहेण सिद्धिमुक्तिफलानि च ॥ * ॥
आदौ चन्द्रः सिते पक्षे भास्करस्तु सितेतरे ।
प्रतिपत्तो दिनान्याहुः त्रीणि त्रीणि क्रमोदये ॥
सार्द्धद्विघटिका ज्ञेया शुक्ले कृष्णे शशी रविः ।
वहत्येकदिनेनैव यथाषष्टिघटीक्रमात् ॥
वहेत्तावद्घटीमध्ये पञ्चतत्त्वानि निर्द्दिशेत् ।
प्रतिपत्तो दिनान्याहुर्विपरीते विपर्य्ययः ॥
शुक्लपक्षे वहेद्वामा कृष्णपक्षे च दक्षिणा ।
जानीयात् प्रतिपत्पूर्ब्बं योगी तद्गतमानसः ॥
उदयश्चन्द्रमार्गेण सूर्य्येणास्तं गतो यदि ।
ददाति गुणसंघातं विपरीते विपर्य्ययम् ॥
शशाङ्कं वारयेद्रात्रौ दिवा कार्य्यो दिवाकरः ।
इत्यभ्यासरतो योगी स योगी नात्र संशयः ॥
सूर्य्येण बध्यते सूर्य्यश्चन्द्रश्चन्द्रेण बध्यते ।
यो जानाति क्रियामेतां त्रैलोक्यं वशयेत्
क्षणात् ॥ * ॥
गुरुशुक्रबुधेन्दूनां वासरे वामनाडिका ।
पृष्ठ ५/४८०
सिद्धिदा सर्व्वकार्य्येषु शुक्लपक्षे विशेषतः ।
अर्काङ्गारकसौरीणां वासरे दक्षनाडिका ।
स्मर्त्तव्या चरकार्य्येषु कृष्णपक्षे विशेषतः ॥
एकैकस्य घटीपञ्चक्रमेणैवोदयन्ति च ।
क्रमादेकैकनाड्यान्तु तत्त्वानां पृथगुद्भवः ॥
अहोरात्रस्य मध्ये तु ज्ञेया द्वादश संक्रमाः ।
वृषकर्क्कटकन्यालिमृगमीने निशाकरः ॥
मेषे सिंहे च धनुषि तुलायां मिथुने घटे ।
उदयो दक्षिणे ज्ञेयः शुभाशुभविनिर्णयः ॥ * ॥
तिष्ठेत् पूर्व्वोत्तरे चन्द्रः सूर्य्यो दक्षिणपश्चिमे ।
वामाचारप्रवाहेण न गच्छेत् पूर्ब्ब उत्तरे ॥
दक्षनाडीप्रवाहे तु न गच्छेत् याम्यपश्चिमे ।
परिपन्थिभयं यस्य गतोऽसौ न निवर्त्तते ॥
तस्मात्तत्र न गन्तव्यं बुधैः सर्व्वहितेप्सुभिः ।
तदा तत्र तु संघातमृत्युरेव न संशयः ॥
सूर्य्योदये यदा सूर्य्यश्चन्द्रश्चन्द्रोदये यदा ।
सिध्यन्ति सर्व्वकार्य्याणि दिवारात्रिगतान्यपि ॥
शुक्लपक्षे द्वितीयायामर्के वहति चन्द्रमाः ।
दृश्यते लाभदः पुंसां सोमे सौख्यं प्रजायये ॥
चन्द्रकाले यदा सूर्य्यः सूर्य्यश्चन्द्रोदये भवेत् ।
उद्वेगः कलहो हानिः शुभं सर्व्वं निवारयेत् ॥ * ॥
विपरीतलक्षणम् ।
यदा प्रत्यूषकाले तु विपरीतोदयो भवेत् ।
चन्द्रस्थाने वहत्वर्को रविस्थाने च चन्द्रमाः ॥
प्रथमे मानसीद्वेगं धनहानिं द्वितीयके ॥
तृतीये गमनं प्रोक्तमिष्टनाशं चतुर्थके ॥
पञ्चमे राज्यविध्वंसं षष्ठे सर्व्वार्थनाशनम् ।
सप्तये न्याधिदुःखानि अष्टमे मृत्युमादिशेत् ॥
कालत्रये दिनान्यष्टौ विपरीतं यदा भवेत् ।
तदा दुष्टफलं प्रोक्तं किञ्चिन्न्यूने तु शोभनम् ॥
प्रातर्म्मध्याह्नयोश्चन्द्रः सायंकाले दिवाकरः ।
तदा नित्यं जयं लाभं विपरीतन्तु दुःखदम् ॥
दक्षिणे यदि वा वामे यत्र संक्रमते शिवः ।
तत्पादमग्रतः कृत्वा निःसरेत् निजमन्दिरे ॥
चन्द्रः समपदः कार्य्यो रविस्तु विषमः सदा ।
पूर्णपादं पुरस्कृत्य यात्रा भवति सिद्धिदा ॥
चन्द्रचारे चतुष्पादं पञ्चपादाश्च भास्करे ।
पवन्तु गमनं श्रेष्ठं साधयेद्भुवनत्रयम् ॥
यत्राङ्गे चरते वायुस्तदङ्गस्य करस्थलम् ।
सुप्तोत्थितो मुखं स्पृष्ट्वा लभते वाच्छितं फलम् ॥
परदत्ते तथा ग्राह्ये गृहान्निर्गमनेऽपि च ।
यदङ्गे बहते नाडी ग्राह्यं गतिकराङ्घ्रिणा ॥
न हानिः कलहो नैव कण्टकैर्नापि भिद्यते ।
निवर्त्तते सुस्त्रेनैव सर्व्वापद्भिर्व्विवर्जितः ॥
गुरुबन्धुनृपामात्या अन्यैऽपीप्सितदायिनः ।
पूर्णाङ्गे खलु कर्त्तव्या कार्य्यमिद्धिमभीप्सता ।
आमने शयने वापि पूर्णाङ्गविनिवेशिताः ।
वशीभवन्ति कामिन्यो न कर्म्म नियमान्तरम् ॥
अरिचौराधमाद्याश्च अन्ये उत्पातविग्रहाः ।
कर्त्तव्याः खलु रिक्ताङ्गे जयलाभसुखार्थिभिः ॥
दूरदेशे विधातव्यं गमनं तुहिनव्युतौ ।
अभ्यर्णदेशे दीप्ते तु तरणाविदति केचन ॥
यत्किञ्चित् पूर्ब्बमुद्दिष्टं लाभादिसमरागमः ।
तत् सर्व्वं पूर्णनाडीषु जायते निर्व्विकल्पकम् ॥
शून्यनाड्यां रिपुं जेतुं यत् पूर्ब्बं प्रतिपादितम् ।
जायते नान्यथा चैव यथा सर्व्वज्ञभाषितम् ॥
रिपुं जेतुमित्यत्र विपर्य्यस्तमिति च पाठः ।
व्यवहारे खलोच्चाटे द्वेषिविद्यादिवञ्चकाः ।
कुपितस्वामिचौराद्याः पूर्णस्था स्युर्भयङ्काराः ॥
दूराध्वनि शुभश्चन्द्रो निर्व्विघ्नमिष्टसिद्धिदः ।
प्रवेशकार्य्यहेतुः स्यात् सूर्य्यः शीघ्रं प्रशस्यते ॥
अग्रतो वामिका श्रेष्ठा पृष्ठतो दक्षिणा शुभा ।
वामे च वामिका प्रोक्ता दक्षिणे दक्षिणा
स्मृता ॥
चन्द्रचारे विषं हन्ति सूर्य्यो बालावशं नयेत् ।
सुषुम्नायां भवेन्मोक्ष एक एव त्रिधा स्मृतः ॥
अयोग्ये योग्यता नाडी योग्यस्थानेऽप्ययोग्यता ।
कार्य्यानुबन्धतो जीवः कथं रुद्र समाचरेत् ॥
शुभाशुभानि कार्य्याणि क्रियन्तेऽहर्निशं यदा ।
तदा कार्य्यानुबन्धेन कार्य्यं नाडीप्रचालनम् ॥ * ॥
अथ इडा ।
स्थिरकर्म्मण्यलङ्कारे दूराध्यगमने तथा ।
आश्रमे हर्म्म्यप्रासादे वस्तूनां संग्रहेपि च ॥
वापीकूपतडागादिप्रतिष्ठा स्तम्भदेवयोः ।
यात्रादाने विवाहे च वस्त्रालङ्कारभूषणे ॥
शान्तिकं पौष्टिकं चैव दिव्यौषधिरसायने ।
स्वस्वामिदर्शने मैत्रे बाणिज्ये धनसंग्रहे ॥
गृहप्रवेशे सेवायां कृष्यां बीजादिवापने ।
शुभकर्म्मणि सन्धी च निर्गमे च शुभः शशी ॥
विद्यारम्भादिकार्य्येषु बान्धवानाञ्च दर्शने ।
जलमोक्षेषु धर्म्मेषु दीक्षायां मन्त्रसाधने ॥
कालविज्ञानमूत्रेण चतुष्पादगृहागमे
कलाव्याधिचिकित्सायां स्वामिसम्बोधने तथा ॥
गजाश्वारोहणे धन्वी गजाश्वानाञ्च बन्धने ।
परोपकरणे चैव निधीनां स्थापने तथा ॥
गीतवाद्येऽपि नृत्ये च गीतशास्त्रविचारणे ।
पुरग्रामप्रवेशे च तिलके सूत्रधारणे ॥
पुत्त्रशोके विषादे च ज्वरिते मूर्च्छितेऽपि वा ।
स्वजनस्वामिसम्बन्धे धान्यादिदारुसंग्रहे ॥
स्त्रीणां दन्तादिभूषायां कृषेरागमने तथा ।
गुरुपूजा विषादीनां चाननञ्च वरानने ॥
इडायां सिद्धिदं प्रोक्तं योगाभ्यासादिकर्म्म च ।
तत्रापि वर्ज्जयेद्वायुं स्तेज आकाशमेव च ॥
सर्व्वमार्य्याणि सिध्यन्ति दिवारात्रिगतान्यपि ।
सर्व्वेषु शुभकार्य्येषु चन्द्रचारः प्रशस्थते ॥ * ॥
अथ पिङ्गला ।
कटिनक्रूरविद्यानां पठने पाठने तथा ।
स्त्रीसङ्गवेश्यागमने महानौकाधिरोहणे ॥
नष्टकार्य्ये सुरापाने वीरमन्त्राद्युपासने ।
बहलध्यंसदेशादिविषदानादिवैरिणि ॥
शस्त्राभ्यासे च गमने मृगयापशुविक्रये ।
इष्टकाकाष्ठपाषाणरबधर्षणदारणे ॥
गत्यभ्यामे यन्त्रतन्त्रे दुर्गपर्व्वतरोहणे ।
द्यते चौर्य्ये गजाश्वादिरथसाधनवाहने ॥
व्यायामे मारणोच्चाटे षट्कर्म्मादिकसाधने ।
नदीजलौघतरणे भेषजे लिपिलेखने ॥
मारणं मोहनं स्तम्भं विद्वेषोच्चाटनं वशम् ।
प्रेरणाकर्षणे क्षोभे दाने च क्रयविक्रये ॥
खड्गहस्ते वैरियुद्धे भोगे वा राजदर्शने ।
भोज्ये स्राने व्यवहारे क्रूरे दीप्ते रविः शुभः ॥
भुक्तमात्रेण मन्दाम्नौ स्त्रीणां वश्यादिकर्म्मणि ।
शयनं सूर्य्यवाहेन कर्त्तव्यन्तु सदा बुधैः ॥
क्रूराणि यानि कर्म्माणि चराणि विविधानि च ।
तानि सिध्यन्ति सूर्य्येण नात्र कार्य्या विचा-
रणा ॥ * ॥
अथ सुषुम्ना ।
क्षणं वामे क्षण दक्षे यदा वहति मारुतः ।
सुषुम्ना सा च विज्ञेया सर्व्वकार्य्यहरा स्मृता ॥
तस्यां नाड्यां स्थितो वह्निर्ज्वलन्तं कालरूपि-
णम् ।
विषुवन्तं विजानीयात् सर्व्वकार्य्यविनाशनम् ॥
यदानुक्रममुल्लङ्घ्य यस्य नाडीद्वयं वहेत् ।
तदा तस्य विजानीयादशुभं समुपस्थितम् ॥
क्षणं वामे क्षणं दक्षे विषमं भावमादिशेत् ।
विपरीतफलं ज्ञेयं ज्ञातव्यञ्च वरानने ॥
उभयोरेव सञ्चारे विषुवन्तं समादिशेत् ।
न कुर्य्यात् क्रूरसौम्यानि तत्सर्व्वं निष्फलं भवेत् ॥
जीविते मरणे प्रश्ने लाभालाभौ जयाजयौ ।
विषुवे वैपरीत्यं स्यात् संस्मरेज्जगदीश्वरम् ॥
ईश्वरस्मरणं कार्य्यं योगाभ्यासादिकर्म्मसु ।
अन्यत्तत्र न कर्त्तव्यं जयलाभसुखार्थिभिः ॥
सूर्य्येण वहमानायां सुषुम्नायां मुहुर्म्महुः
शापं दद्यात् वरं दद्यात् सर्व्वथा च तदन्यथा ॥
नाडीसंक्रमणे काले तत्त्वसंक्रमणे तथा ।
शुभं किञ्चिन्न कर्त्तव्यं पुण्यदानादि कोटिधा ॥
विषमस्योदये यात्रां मनसापि न चिन्तयेत् ।
यात्रा हानिकरी तस्य मृत्युः क्लेशो न संशयः ॥
पुरो वामोर्द्ध्वतश्चन्द्रो दक्षाधः पृष्ठतो रविः ।
पूर्णरिक्तविवेकोऽयं ज्ञातव्यो देशिकैः सदा ॥
ऊर्द्ध्ववामाग्रतो दूतो ज्ञेयो वामपथि स्थितः ।
पृष्ठे दक्षे तथाधस्तात् सूर्य्यवाहगतः शुभः ॥
अनादिविषमं सन्धिं निराधारं निराकुलम् ।
परे सूक्ष्मे विलीयेत सा सन्ध्या सन्धिरुच्यते ॥
न सन्ध्यां सन्धिमित्याहुः सन्ध्या सन्धिर्निगद्यते ।
विषुवत् सन्धिगः प्राणः सा सन्ध्या सन्धिरुच्यत्रे ॥
न वेदं वेदमित्याहुर्व्वेदे वेदो न विद्यते ।
परात्मा विद्यते येन स वेदो वेद उच्यते ॥”
इति नाडीभेदः समाप्तः ॥ * ॥
अथ तत्त्वनिर्णयः ।
देव्युवाच ।
“देवदेव महादेव संसारार्णवतारक ।
स्थितं त्वदीयहृदये रहस्यं वद मे प्रभो ॥
ईश्वर उवाच ।
स्वरज्ञानं रहस्यं तु न किञ्चिदिष्टदेवता ।
स्वरज्ञानरतो योगी स योगी परमो मतः ॥
एञ्चतत्त्वात भवेत् सृष्टिस्तत्त्वे तत्त्वं विलीयते ।
पृष्ठ ५/४८१
पञ्चतत्त्वं परं तत्त्वं तत्त्वातीतं निरञ्जनम् ॥
तत्त्वानां नाम विज्ञेयं सिद्धियोगेन योगिनाम् ।
भूतानां दुष्टचिह्नानि जानन्ति हि स्वरोत्तमाः ॥
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।
पञ्चभूतात्मकं सर्व्वं यो जानाति स पूजितः ॥
सर्व्वलोकेषु जीवानां न देहे भिन्नतत्त्वकम् ।
भूर्लोकात् सत्यपर्य्यन्तं नाडीभेदः पृथक् पृथक् ॥
वामे वा दक्षिणे वापि उदयाः पञ्च कीर्त्तिताः ।
अष्टधा तत्त्वविज्ञानं शृणु वक्ष्यामि सुन्दरि ।
प्रथमे तत्त्वसंख्यायां द्वितीये श्वाससन्धिषु ।
तृतीये स्वरचिह्णानि चतुर्थे स्थानमेव च ॥
पञ्चमे तस्य वर्णश्च षष्ठे तु प्राणमेव च ।
सप्तमे स्वादुसंयुक्तमष्टमे गतिलक्षणम् ॥
एवमष्टविधं प्राणं विषुवन्तं चराचरम् ।
स्वरात् परतरं देवि नान्यथा त्वम्वुजासने ।
निरीक्षितव्यं यत्नेन यदा प्रत्यूषकालतः ।
कालस्य वञ्चनार्थाय कर्म्म कुर्व्वन्ति योगिनः ॥
श्रुत्योरङ्गुष्ठकौ मध्याङ्गुल्यौ नासापुष्टद्वये ।
वदनप्रान्तयोरन्ते तर्ज्जन्यौ तु दृगन्तयोः ॥
अस्यान्तरं पार्थिवादितत्त्वज्ञानं भरेत् क्रमात् ।
पीतश्वेतारुणश्यामैर्बिन्दूभिर्निरुंपाधि खन् ॥
दर्पणेन ममालोक्य श्वामं तत्र विनिक्षिपेत् ।
आकारैस्तु विजानीयात् तत्त्वभेदं विचक्षणः ॥
चतुरस्रं चार्द्धचन्द्रं त्रिकोणं वर्त्तुलं स्मृतम् ।
बिन्दूभिस्तु नभो ज्ञेयमाकारैस्तत्त्वलक्षणम् ॥
मध्ये पृथ्वी ह्यवश्चापश्चार्धं वहति चानलः ।
तिर्य्यग् वाय्प्रचारश्च नभा वहति संकमे ॥ * ॥
माहेयं मधुरं स्वादु कपायं जलमेव च ।
तिक्तं तेजश्च वायुम्लं आकाश कटुकं तथा ॥
अष्टाङ्गुलं वहेद्वायुरनलश्चतुरङ्गुलम् ।
द्वादशाङ्गुलमाहेयं षोडशाङ्गुलवारुणम् ॥
आपः श्वेताः क्षितिः पीता रक्तवर्णो हुताशनः ॥
मारुतो नीलजीमूत आकाशं भूमिवर्णकम् ॥ * ॥
स्कन्धदेशे स्थितो वह्निः नाभिमूले प्रभञ्चनः ।
जानुदेशे महीतोयं पादान्ते मस्तके नभः ॥
ऊर्द्ध्वं मृत्युरधः शान्तिस्तिर्य्यगुच्चाटनं तथा ।
मध्ये स्तम्भं विजानीयात् नभः सर्व्वत्र मध्यगम् ॥
पृथिव्यां स्थिरकर्म्माणि चरकर्म्माणि वारुणे ।
तेजसा समकार्य्याणि मारणोच्चाटनेऽनिले ॥
ष्योम्नि किञ्चिन्न कर्त्तव्यमभ्यसेत् योगसेवया ।
शून्यता सर्व्वकार्य्येषु नात्र कार्य्या विचारणा ॥ *
पृथ्वीजलाभ्यां सिद्धिः स्यात् मृत्युर्व्वह्नौ क्षयो-
ऽनिले ।
नभसि निप्फलं सर्व्वं ज्ञातव्यं तत्त्ववेदिभिः ॥
चिरलाभः क्षितौ ज्ञेयस्तत्क्षणात्तोयतत्त्वतः ।
हानिः स्याद्वह्निवाताभ्यां नभसो निष्फलं
भवेत् ॥
पीतः शनैर्मध्यवाही शृणुयाच्च गुरुध्वनिम् ।
कवीष्णः पार्थिवो वायुः स्थिरकार्य्यप्रसाधकः ॥
अधोवाहो गुरुध्वानः शीघ्रगः शीतलः शितः ।
वः षोडशाङ्गुलो वायुः स प्रायः शुभकर्म्मकृत् ॥
आवर्त्तगश्चात्युष्णश्च शोणाभश्चतुरङ्गुलः ।
ऊर्द्ध्ववाही तु यः क्रूरः कर्म्मकारी स तैजसः ॥
उष्णशीतः कृष्णवर्णस्तिर्य्यग्गामी षडङ्गुलः ।
वायुः पवनसंज्ञो यः चरकर्म्मसु सिद्धिदः ॥
यः समीरः समरसः सर्व्वतत्त्वगुणावहः ।
अम्वरं तं विजानीयात् योगिनां योगदायकम् ।
षीतञ्चैव चतुष्कोणं मधुरं मध्यमाश्रयम् ।
भोगदं पार्थिवं तत्त्वं प्रवाहे द्वादशाङ्गुलम् ॥
श्वेतमर्द्धेन्दुसङ्काशं स्वादु काषायमादकम् ।
लाभकृद्वारुणं तत्त्वं प्रवाहे षोडशाङ्गुलम् ॥
रक्तं त्रिकोणं तिक्तं स्यात् ऊर्द्ध्वमार्गप्रवाहकम् ।
दीप्तञ्च तैजसं तत्त्वं प्रवाहे चतुरङ्गुलम् ॥
नीलवत्तलसङ्काशं स्वाद्वम्लं तिर्य्यगाश्रितम् ।
चपलं मारुतं तत्त्वं प्रवाहेऽष्टाङ्गुलं स्मृतम् ॥
वर्णाकारं स्वादुवाहं अव्यक्तं मर्व्वगामि च ।
मोक्षदं व्योमतत्त्वं हि सर्व्वकार्य्येषु निष्फलम् ॥
पृथ्वीजले शुभे तत्त्वे तेजोमिश्रफलोदये ।
हानिमृत्युकरौ पुंसामशुभौ व्योममारुतौ ॥
अप्पूर्ब्बा पश्चिसे पृथ्वी तेजश्च दक्षिणे तथा ।
वायुरुत्तरदिग्भागे मध्यकोणे गतं नभः ॥
चिरलाभः क्षितौ ज्ञेयस्तत्क्षणात्तोयतत्त्वतः ।
हानिः स्याद्वह्निवाताभ्यां नभस्यालिङ्गनंलभेत् ।
चन्द्रे पृथ्वीजले स्यातां सूर्य्येचाग्निर्यदा भवेत् ।
तदा सिद्दिर्न मन्देहः सौम्यामौम्यपु कर्म्मसु ॥
लाभः पृथ्वीकृतो वह्निर्निशायां लाभकृज्जलम् ।
वह्नौ मृत्युः क्षतिर्यायौ नभःस्थानं दहेत् क्वचित् ॥
जावितष्ये जये लाभे कृप्याञ्च धनकर्पणे ।
मन्त्रार्थे युद्धपश्ने च गमनागमने तथा ॥
आयाति वारुणे तत्त्वे तत्रस्थोऽपि शुभं क्षितौ ।
प्रयाति वायुतोऽन्यत्र हानिर्म्मृत्युर्नभेऽनले ॥ * ॥
पृथिव्यां मूलचिन्ता स्यात् जीवस्य जलवातयोः ।
तेजमा धातुचिन्तां स्यात् शून्यमाकाशतो वदेत् ॥
पृथिव्यां बहुपादाः स्युर्द्विपदास्तोयवायुतः ।
तेजमा च चतुष्पादा नभमा पादवर्ज्जिताः ॥
कुजो वह्नी रविः पृथ्वी मौरिरापः प्रकीर्त्तिताः ।
वायुस्थानस्थितो राहुर्दक्षरन्ध्रप्रवाहकः ॥
जलं चन्द्री वुधः पृथ्वी गुरुर्वातः सितोऽनलः ।
वामनाड्यां स्थिताः सर्व्वे सर्व्वकार्य्येषु निश्चिताः ॥
प्रवासिपश्रः ।
“चन्द्रादित्यौ परित्यज्य यदा राहुगतोऽनिलः ।
तदासौ चलितो ज्ञेयः स्थानान्तरमपेक्षते ॥
आयाति वारुणे तत्त्वे तत्रैवास्ति शुभं क्षितौ ।
प्रवामी पवनेऽन्यत्र मृत्युरेवानले वदेत् ॥
पृथ्वोतो मूलविज्ञानं जीवज्ञानं जले तथा ।
आग्नेय्यां धातुविज्ञानं व्योम्निशून्यं विनिर्द्दिशेत् ।
तुष्टिपुष्टिरतिक्रोडा जयो हास्यं धरातले ।
तेजो बायुश्च सुप्ताक्षः ज्वरकम्पप्रवासिनः ॥
गतायुर्म्मृत्युराकाशे चन्द्रावस्थाः प्रकीर्त्तिताः ।
द्वादशैता प्रयत्नेन ज्ञातव्या देशिकोत्तमैः ॥
पूर्ब्बायां पश्चिमे याम्ये उत्तरायां यथाक्रमम् ।
पृथिव्यादीनि भूतानि बलिष्ठानि विनिर्द्दिशेत् ॥ *
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।
पञ्चभूतात्मकं देहं ज्ञातव्यञ्च वरानने ॥
अस्थि मांसं त्वचा नाडी रोम चैव तु पञ्च-
मम् ।
पृथ्वी पञ्चगुणोपेता ब्रह्मज्ञानेन भाषितम् ॥
शुक्रशोणितमज्जा च लालामूत्रञ्च पञ्चमम् ।
आपः पञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम् ॥
क्षुधा तृष्णा तथा निद्रा श्रान्तिरालस्यमेव च ।
तेजःपञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम् ॥
धारणं चालनं गन्धं सङ्कोचनप्रसारणे ।
वायोः पञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषिताः ॥
रागद्वेषौ तथा लज्जा भयं मोहश्च पञ्चमः ।
नभःपञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भाषितम् ॥ * ॥
पृथिवीपलपञ्चाशत् चत्वारिशदपस्तथा ।
तेजस्त्रिंशद्विजानीयाद्वायोर्विंशतिर्द्विर्नभः ॥
पार्थिवे चिरकालेन लाभश्चापे क्षणात् भवेत् ।
जायते पवनात् स्वल्पः सिद्धोऽप्यग्नौ विनश्यति ॥
वह्निवायुकृते प्रश्न लाभालाभं वदेद्बुधः ।
परतो वारुणे लाभः स्थिरेण च पुरन्दरे ॥
ज्ञातव्यं जीवने शून्यं सिद्धो व्योम्नि विनश्यति ॥
वृथ्वी पञ्च अपां वेदाः गुणास्तेजो द्विवायुतः ।
नभ एकगुणञ्चैव तत्त्वज्ञानमिदं भवेत् ॥
फुत्कारकृत् प्रस्फुटिता विदीर्णा पतिता
धरा ।
ददाति सर्व्वकार्य्येषु अवस्थासदृशं फलम् ॥ * ॥
भरणी कृत्तिका पुष्या मघा पूर्ब्बा च फल्गुनी ।
पूर्ब्बभाद्रपदः स्वातिः तेजस्तत्त्वमिति प्रिये ॥
विशाखोत्तरफल्गुन्यौ हस्ता चित्रा पुनर्व्वसः ।
अश्विनी मृनशीर्षा च वायुतत्त्वमुदाहृतम् ॥
पूर्व्वाषाढा तथाश्लेषा मूलमार्द्रा च रोहिणी ।
उत्तरभाद्रप्रदा तोयतत्त्वं शतभिषा प्रिये ॥
धनिष्ठा रोहिणी ज्येष्ठानुराधा श्रवणा तथा ।
अभिजि{??}त्तरापाढा पृथ्वीतत्त्वमुदाहृतम् ॥
वहन्नाडीस्यितो दूती यत् पृच्छति शुभाशुभम् ।
तत् सर्व्वं मद्धिमायाति शून्ये शून्यं न संशयः ॥
तत्त्व रामो अयं प्राप्तः मुतत्त्वे च धनञ्जयः ।
कौरवा निहताः सर्व्वे युद्धे तत्त्वविपर्य्यये ॥
जन्मान्तरीयसंस्कारात् प्रसादादथवा गुरोः ।
केपाञ्चिज्जायते तत्त्वे वासना विमलात्मनाम् ॥”
अथ पञ्चतत्त्वध्यानम् ।
“लं वीजं धरणीं ध्यायत् चतुरस्रा सुपीतभाम् ।
सुगन्धं स्वर्णवर्णत्वमारोग्यं देहलाघवम् ॥
व बीज वारुणं ध्यायेदर्द्धचन्द्रं शशिप्रभम् ।
क्षुत्पिपामासहिष्णुत्वं जलमध्येषु मज्जनम् ॥
रं बीजं शिखिनं ध्यायेत् त्रिकोणमहणप्रभम् ।
वह्वन्नपानभोक्तृत्वमातपाग्निसहिष्णुता ॥
यं बीज पवनं ध्यायेद्वर्त्तुलं श्यागलप्रभम् ।
आकाशगमनाद्यञ्च पक्षिवद्गमनं तथा ॥
हं बीजं गगनं ध्यायेत् निराकारं बहुप्रभम् ।
ज्ञानं त्रिकालविषयमैश्वर्य्यमणिमादिकम् ॥
स्वरज्ञानी नरो यत्र धनं नास्ति ततः परम् ।
स्वरज्ञानेन गमयेत् अनायासफलं भवेत् ॥
सर्व्वञ्च घनमधनं सर्व्वाधिकारसंयुतम् ।
लक्षैकेन न सिध्यन्ति तत्त्वहीना यदा नराः ॥
पृष्ठ ५/४८२
स्नातं तेन समस्ततोर्थसलिलैः स्वर्व्यापिशक्रावनि-
र्यज्ञानाञ्च कृतं हि कार्य्यमखिलं देवाश्च
सन्तर्पिताः ।
संसाराच्च समुद्धृताः स्वपितरः त्रैलक्यः
पूज्योऽप्यसौ
यस्य ब्रह्मविचारणे क्षणमपि स्थैर्य्यं मनः
प्राप्नुयात्”
इति तत्त्वज्ञानं संपूर्णम् ॥
अथ युद्धप्रकरणम् ।
देव्युवाच ।
“देवदेव महादेव महाज्ञानं स्वरोदयम् ।
त्रिकालविषयज्ञानं कथं भवति शङ्करः ॥
ईश्वर उवाच ।
अर्थकाण्डं जयप्रश्नं शुभाशुभमिति त्रिधा ।
पतत् त्रिकालविज्ञानं नान्यद्भवति सुन्दरि ॥
तत्त्वे शुभाशुभं कार्य्यं तत्त्वे जयपराजयौ ।
तत्त्वे समर्घमाहार्घ्यं तत्त्वे त्रिपदमुच्यते ॥
श्रीदेव्युवाच ।
देवदेव महादेव मर्व्वसंमारतारक ।
किं नराणां परं मित्रं सर्व्व कार्य्यार्थसाधकम् ॥
शिव उवाच ।
पाण एव परं मित्रं प्राण एव परः सखा ।
प्राणतुल्यः परो बन्धुर्नास्त्रि नास्ति वरानने ॥
देव्युवाच ।
कथं प्राणस्थितो वायुर्देहे किं प्राणरूपकम् ।
तत्त्वेषु सञ्चरेत् प्राणा ज्ञायते योगिभिः कथम् ॥
शिव उवाच ।
कायानगरमध्ये तु मारुतः क्षितिपालकः ।
भोजने वञ्चने चैव गतिरष्टादशाङ्गुला ॥
प्रवेशे दशभिः प्रोक्तो निर्गभे द्वादशाङ्गलः ।
प्राणस्थे तु गतिर्देवि स्वभावाद्द्वादशाङ्गुला ॥
गमने च चतुर्व्विंशा नेत्रवेदास्तु धावने ।
मैथुने पञ्चषष्टिश्च शयने च शताङ्गुला ॥
एकाङ्गुलकृते न्यूने प्राणे निष्कामता मता ।
आनन्दस्तु द्वितीये स्यात् कविशक्तिस्तृती-
यके ॥
वाचासिद्धिश्चतुर्थे तु दूरदृष्टिस्तु पञ्चमे ।
षष्ठे त्वाकाशगमनं चण्डवेगश्च सप्तमे ॥
अष्टमे सिद्धयश्चाष्टी नवमे निधयो नव ।
दशमे दशमूर्त्तिश्च क्षयनाशो दशैकके ॥
द्वादशे हंसचारश्च गङ्गामृतरमं पिबेत् ।
आनखाग्रे प्राणपूर्णे कस्य भक्ष्यञ्च भोजनम् ॥
एवं प्राणविधिः प्रोक्तः सर्व्वकार्य्यफलप्रदः ।
ज्ञायते गुरुवाक्येन न विद्याशास्त्रकोटिभिः ॥ * ॥
प्रातश्चन्द्रो रविः सायं यदि दैवान्न लभ्यते ।
मध्याह्नान्मध्यरात्राद्वा परतस्तु प्रवर्त्तते ॥
दरयुद्धे जयी चन्द्रः समीपे च दिवाकरः ।
वहन्नाड्यां गतः पादे सर्व्वसिद्धिः प्रजायते ॥
यात्रारम्भे विवाहे च प्रयेशे नगरादिके ।
शुभकार्य्येषु सर्व्वेषु चन्द्रचारः प्रशस्यते ॥
अयनतिथिदिनेशः स्वोयतत्त्वेन युक्तो
यदि वहति कथञ्चित् दैवयोगेन पुंसाम् ।
स जयति रिपुसैन्यं स्तम्भमात्रस्वरेण
प्रभवति न च विघ्नः केशवस्यापि लोके ॥
जीवलक्षं जीवरक्षां जीवाङ्गे परिधाय च ।
जीवो व्रजति यो युद्धे जीवो जयति मेदिनीम् ॥
भूमौ जले च कर्त्तव्यं गमनं शान्तिकर्म्मसु ।
वह्नौ वायौ प्रदीप्ते तु खे पुनर्न भवत्यपि ॥
जीवेन शस्त्रं बध्नीयात् जीवेनैव विकाशयेत् ।
जीवेन प्रक्षिपेत् शस्त्रं युद्धे जयति सर्व्वथा ॥
आक्रम्य प्राणपवनं समारोहेत वाहनम् ।
समुत्तरेत् पदं दत्त्वा सर्व्वकार्य्याणि साधयेत् ।
अपूर्णशत्रुमामग्रीं पूर्णं वा स्ववलं यदा ।
कुरुते पूर्णतत्त्वस्थो जयत्येको वसुन्धराम् ॥
यन्नाडो वहते चाङ्गे तस्यामेवाधिदेवता ।
सम्मुखापि दिशा तेषां सर्व्वकार्व्यफलप्रदा ॥
आदौ तु क्रियते मुद्रा पश्चाद्युद्धं समाचरेत् ।
सर्व्वा मुद्रा कृता येन तेषां मिर्द्धिर्न संशयः ॥
चन्द्रप्रवाहेऽप्यथ सूर्य्यवाहे
भटाः समायान्ति च युद्धकामाः ।
समोरणस्तत्त्वविदा प्रयातो
या शून्यता सा प्रतिकूलदृष्टा ॥
यद्दिशं वहते वायुर्युद्धं तद्दिशि दापयेत् ।
जयत्येव न सन्देहः शक्रोऽपि यदि वाग्रतः ॥
यत्र नाड्यां वहेद्वायुस्तदन्तः प्राणमेव च ।
आकृष्य गच्छेत् कर्णान्त जयत्येव पुरन्दरम् ॥
प्रतिपक्षप्रहारेभ्यः पूर्णाङ्गं योऽभिरक्षति ।
न तस्य रिपुभिः शक्तिर्बलिष्ठैरपि हन्यते ॥
अङ्गुष्ठतर्ज्जनीवश्ये पादाङ्गुष्ठस्तथाध्वनि ।
युद्धकाले च कर्त्तव्यं लक्षयोद्धा जयी भवेत् ॥
निशाकरे रवौ चारे मध्ये यस्य समीरणः ।
स्थितो रक्षेत् दिगन्तानि जयाकाङ्क्षी नरः
सदा ॥
श्वासप्रवेशकालेषु दूतो जल्पति वाञ्छितम् ।
तस्यार्थाः सिद्धिमायान्ति निर्गमे नैव सुन्दरि ॥
लाभादीन्यपि कार्य्याणि पृष्टानि कीर्त्तितानि च
जीवे विशति सिध्यन्ति हानिर्निःसरणे भवेत् ॥
नरि दक्षा स्वकीया च स्त्रियां वामा प्रशस्यते ।
कुम्भकं युद्धकाले च तिस्रो नाड्यश्च या गतिः ॥
हकारस्य सकारस्य विना भेदं स्वरः कथम् ।
सोऽहं हंसपदेनैब जीवो जपति सर्व्वदा ॥
शून्याङ्गं पूरितं कृत्वा जीवाङ्गं गोपयेद् यदि ।
जीवाङ्गे घातमाप्नोति शून्याङ्गं रक्षते सदा ॥
वामे वाप्यथवा दक्षे यदि पृच्छति पृच्छकः ।
तत्र घातो न जायेत शून्ये घातं विनिर्द्दिशेत् ॥
भूतत्त्वेनोदरे घातः पादस्थानेऽम्बुना भवेत् ।
उरःस्थानेऽग्नितत्त्वेन करस्थाने च वायुना ॥
शिरसि व्योमतत्त्वेन कृत आघातनिर्णयः ।
एवं पञ्चविधो घातः स्वरशास्त्रे प्रकाशितः ॥
युद्धकाले यदा चन्द्रः स्थायी जयति निश्चितम् ।
यदा सूर्य्यप्रवाहस्तु वादी विजयते तथा ॥
जयमध्ये तु सन्देहो नाडीमध्ये तु लक्षयेत् ।
सषुम्नायां गतः प्राणं समरे शत्रुसङ्कटे ॥
यस्यां नाड्यां भवेच्चारस्तादृशं युडमाश्नयेत् ।
तेनासौ जयमाप्नोति नात्र कार्य्या विचारणा ॥
यदि संग्रामकाले तु वामनाड्यां सदा वहेत् ।
स्थायिनो विजयं बिन्द्यात् रिपुवश्यादयोऽपि च ॥
यदि संग्रामकाले तु सूर्य्यस्तु व्यावृतो वसेत् ।
तदा जयी जयं बिन्द्यात् स देवासुरमानवात् ॥
रणे हरति शक्रस्थं वामायां प्रविशेन्नरः ।
स्थानं द्विधावचाराभ्यां जयं सूर्य्येण धावति ॥
योधद्वयकृते प्रश्ने पूर्णस्य प्रथमो जयः ।
रिक्ते चैव द्वितीयस्तु जयी भवात नान्यथा ॥
पूर्णनाडोगतः पृष्ठ शून्याङ्गञ्च तदग्रतः ।
शून्यस्थाने कृतः शत्रुर्म्रियते नात्र संशयः ॥
वामचारे समं नाम यस्य तस्य जयो भवेत् ।
पृच्छको दक्षिणे भागे विजयी विषमाक्षरः ॥
यदा पृच्छति चन्द्रस्थस्तदा सन्धानमादिशेत् ।
पृच्छेद्यदा च सूर्य्यस्थस्तदा जानीहि विग्रहम् ॥
पार्थिवे च समं युद्धं सिद्धिर्भवति वारुणे ।
वह्नौ युद्धे जयस्तस्य मृत्युर्वायौ च नाभसे ॥
नैमित्तिकप्रमादाद्वा यदा न ज्ञायतेऽनिलः ।
प्रश्नकाले तदा कुर्य्यात् द्वन्द्वं यत्नेन बुद्धिमान् ॥
निश्चलां धारणां कृत्वा पुष्पं हस्तात् निपातयेत् ।
पूर्णाङ्गे पुष्पपतनं शून्ये वा तत्फलं वदेत् ॥
तिष्ठन्नुपविशन् वापि प्राणमाकर्षयेन्निजम् ।
मनीभङ्गमकुर्व्वाणः सर्व्वकार्य्येषु पूजितः ॥
न कालो विविधं घोरं न शस्त्रं न च पन्नगाः ।
न शत्रुव्याधिचौराद्याः शून्यस्थं नाशितुं क्षमाः ॥
जीवेन स्थापयेद्वायुं जीवेनारम्भयेत् पुनः ।
जीवेन क्रीडते नित्यं द्यूतं जयति सर्व्वदा ॥
कथञ्चिद्विजयी युद्धे स्वरज्ञानं विना नृपः ।
स्वरज्ञानवलादग्रे निष्फलं कोटिधा भवेत् ।
इह लाके परत्रैव स्वरज्ञानी बली सदा ॥
दशशतायुतं लक्षं देशाधिपबलं क्वचित् ।
शतक्रतुसुरन्द्राणां बलं कोटिगुणं भवेत् ॥
ॐकारः सर्व्ववर्णानां ब्रह्माण्डे भास्करो यथा ।
मर्त्यलोके तया पूज्यः स्वरज्ञानी पुमानपि ॥
एकाक्षरप्रदातारं नाडीभेदनिवेदकम् ।
पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा चानृणी भवेत् ॥
देव्युवाच ।
परस्परं मनुष्याणां युद्धे प्रोक्तो जयस्तथा ।
यमयुद्धे समुत्पन्ने मनुष्याणां कथं जयः ॥
ईश्वर उवाच ।
ध्यायेद्देवं स्थिरे जीवे जुहुयात् जीवसङ्गमे ।
इष्टसिद्धिर्भवेत्तस्य महालाभो जयो भवेत् ॥
निराकारात् समुत्पन्नं साकारं सकलं जगत् ।
तत् साकारं निराकारे ज्ञाने भवति तन्मयम् ॥”
इति युद्धप्रकरणम् ॥
श्रीदेव्युवाच ।
“नरयुद्धं यमयुद्धं द्वयं प्रोक्तं महेश्वर ।
इदानीं देवदेवीनां वशीकरणकं वद ॥
ईश्वर उवाच ।
चन्द्रं सूर्य्येण चाकृष्य स्थापयेज्जीवमण्डले ।
आजन्मवशगा वामा कथितोऽयं तपोधनैः ॥
जीवेन गृह्यते जीवो जीवो जीवस्य दीयते ॥
पृष्ठ ५/४८३
जीवस्थाने गतो जीवो वालाजीवान्तवश्यकृत् ।
चन्द्रं पिबति सूर्य्येण सूर्य्यं पिबति चन्द्रतः ।
अन्योन्यकालभावेन जीवेदाचन्द्रतारकम् ॥
पतज्जानाति यो योगी एतत् पठति नित्यशः ।
सर्व्वदुःखविनिर्म्मुक्तो लभते वाञ्छितं फलम् ॥
सेफोऽङ्गे वहते नाडी तन्नाडीबोधनं कुरु ।
करे बद्धा स्वमुष्कञ्च जरणं जयते युवा ॥
उभयोः कुम्भकं कत्वा मुखे श्वामं निपीयते ।
निश्चला च यदा नाडी देवकन्यावशं कुरु ॥
रात्रौ च यामवेलायां प्रसुप्ते कामिनीजने ।
ब्रह्मबीजं पिबेद् यस्तु बालाजीवहरो नरः ॥
इति देवीवश्यप्रकरणम् ॥ * ॥
अष्टाक्षरं जपित्वा तु तस्मिन् काले ऋतौ सति ।
तत्क्षणं दीयते चन्द्रो मोहमायाति कामिनी ॥
शयने वा प्रसङ्गे वा चुम्बनालिङ्गनेऽपि वा ।
यः सूर्य्येण पिबेच्चन्द्रं स भवेन्मकरध्वजः ॥
शिवमालिङ्गते शक्त्या प्रमङ्गे दक्षिणेऽपि वा ।
तत्क्षणाद्दापयेद्यस्तु मोहयेत् कामिनीशतम् ॥
सप्तनवत्रयपञ्चवारान् सङ्गांस्तु सूर्य्यगे ।
चन्द्रे द्वितूर्यषट् कृत्वा वश्या भवति कामिनी ॥
मूर्य्यचन्द्रौ समाकृष्य सर्पाक्रान्त्याधरोष्ठयोः ।
महापद्मे मकं स्पृष्टा वारं वारमिदं चरेत् ।
आघाणपेति पद्मस्य यादन्निदावशं गता ।
पश्चाज्जाग्रनि वेलायां चोष्यते गलचक्षुषो ॥
अनेन विधिना कामी वगयेत् मर्व्वकामिनीम् ।
इदं न वाच्यमन्यस्मिन्नि आज्ञा परमेश्वरि ॥
इति रतिस्त्रीवश्यप्रकरणम् ॥ * ॥
अथ गर्भप्रकरणम् ।
ऋतुकालभवा नारी पञ्चमेऽह्नि यदा भवेत् ।
सूर्य्याचन्द्रमसोर्योगे सेवनात् पुत्त्रसम्भवः ॥
शङ्खवल्ली गवां दुग्धं पृथ्व्यापी वहते यदा ।
भर्त्ताग्रे वदेद्वाक्यं अर्घ्यं देहि त्रिभिर्व्वचः ॥
ऋतुस्नाता पिबेन्नारी ऋतुदानञ्च योजयेत् ।
रूपनावण्यसम्पन्नो नरसिंहः प्रसूयते ॥
सुषुम्ना सूर्य्यगन्धेन ऋतुदानञ्च योजयेत् ।
अङ्गहीनः पुमान् यस्तु जायते कृशविग्रहः ॥
विषमाङ्के दिवा रात्री विषमाङ्के दिनाधिपः ।
चन्द्रनेत्राग्नितत्त्वेषु बन्ध्या पुत्त्रमवाप्नुयात् ॥
रतारम्भे रविः पुंसां सुरतान्ते सुधाकरः ।
अनेन क्रमयोगेन नादत्ते दैवदण्डकः ।
रतारम्भे रविः पुंसां स्त्रियाञ्चैव सुधाकरः ।
उभयोः सङ्गमे प्राप्ते बन्ध्या पुत्त्रमवाप्नुयात् ॥
चन्द्रनाडी वहेत् प्रश्ने गर्भे कन्या तदा भवेत् ।
सूर्य्ये भवेत्तदा पुत्त्रो शून्ये गर्भो निहन्यते ॥
चन्द्रे स्त्री पुरुषः सूर्य्ये मध्यमार्गे नपुंसकः ।
गर्भप्रश्ने यदा दूतः तदा पुत्त्रः प्रजायते ॥
पृथ्व्यां पुत्त्री जले पुत्त्रः कन्यका तु प्रभञ्जने ।
तेजसा गर्भपातः स्यात् नभस्यपि नपुंसकम् ॥
शून्ये शून्यं युगे युग्मं गर्भपातस्तु संक्रमे ।
सूर्य्यभागे कृते पुत्त्रश्चन्द्रचारे तु कन्यका ॥
विषुवे गर्भपातः स्यात् भावी वाथ नपुंसकः ।
तत्त्वे वित्तं विजानाति कथितं तत्र सुन्दरि ॥
गर्भाधानं मारुते स्याच्च दुःखी
दिशाख्यातो वारुणे सौख्ययुक्तः ।
गर्भस्रावी स्वल्पजीवो च वह्नौ
भोगी भव्यः पार्थिवेनार्थयुक्तः ॥
धनवान् मौख्यसंयुक्तो भोगवान् गर्भसंस्थितः ।
स्यान्नित्यं वारुणे तत्त्वे व्योम्नि गर्भं निहन्यते ॥
माहेयेषु सुतोत्पत्तिर्व्वारुणे दुहिता भवेत् ।
शेषेषु गर्भहानिः स्यात् जातमात्रस्य वा मृतिः ।
रविमध्यगतश्चन्द्रश्चन्द्रमध्यगतो रविः ।
ज्ञातव्यं गुरुतः शोघ्रं न विद्याशास्त्रकोटिभिः ॥
इति गर्भप्रकरणम् ॥ * ॥
अथ संवत्सरप्रकरणम् ।
चैत्रशुक्लप्रतिपदि प्रातस्तत्त्वविभेदतः ।
पश्येद्विचक्षणो योगी दक्षिणे चोत्तरायणे ॥
चन्द्रस्योदयवेलायां वहमानोऽथ तत्त्वतः ।
पृथिव्यापस्तथा वायुः सुभिक्षं सर्व्वशस्यजम् ॥
तेजो व्योम्नि भय घोरं दुर्भिक्षं कालतत्त्वतः ।
एवं तत्त्वफलं ज्ञेयं वर्षे मासे दिने तथा ॥
पृथिव्यादिकतत्त्वेन दिनमासाब्दजं फलम् ।
शोभनञ्च तथा दुष्टं व्योममारुतवह्निभिः ॥
मध्यमा भवति क्रूरा दुष्टा च सर्व्वकर्म्मसु ।
देशभङ्गमहारागक्लेशकष्टादिदुःखदा ॥
मेषमंक्रान्तिदिवमे स्वग्भेदं विचारयेत् ।
सम्बत्सरफलं ब्रूयात् लोकानां तत्त्वचिन्तकः ॥
सुभिक्षं राष्ट्रवृद्धिः स्यात् बहुशस्या वसुन्धरा ।
बहुवृष्टिस्तथा सौख्यं पृथ्वीतत्त्वं बहेद्यदि ॥
अतिवृष्टिः सुभिक्षं स्यादाबोग्यं सौख्यमेव च ।
बहुशस्या तथा पृथ्वी जलतत्त्वं बहेद्यदि ॥
दुर्भिक्षं राष्ट्रभङ्गः स्याद्रोगोत्पत्तिस्तु दारुणा ।
अल्पादल्पतरा वृष्टिरग्नितत्त्वं वहेद्यदि ॥
उत्पातोपद्रवा भीतिरल्पवृष्टिः स्युरीतयः ।
मेषसंक्रान्तिवेलायां वायुतत्त्वं वहेद्यदि ॥
उद्गारतापज्वरा भीतिरल्पा वृष्ठिः क्षितौ
भवेत् ।
मेषसंक्रान्तिवेलायां व्योमतत्त्वं वहेद्यदि ॥
तत्रापि शून्यता ज्ञेया शस्यादीनां सुखस्य च ।
पूर्णे प्रवेशने श्वासे स्वस्वतत्त्वेन सिद्धिदः ॥
सूर्य्ये चन्द्रेऽन्यथाभूते संग्रहः सर्व्वसिद्धिदः ।
विषमे वह्नितत्त्वस्य ज्ञायते केवलं नभः ॥
तत् कुर्य्याद्वस्तु संग्राह्यं द्विमासे च महार्घता ।
स्वरज्ञानं शिवः पश्येल्लक्ष्मीपतिस्तथा भवेत् ॥
एकत्र शरीरं यस्य सुखं तस्य सदा भवेत् ।
नाडीत्रयं विजानाति तत्त्वज्ञानं तथैव च ॥
नैव तेन भवेत्तुल्यं लक्षकोटिरसायनम् ।
रवौ संक्रमणे नाडी गलान्ते च प्रवर्त्तते ॥
सलिले वह्नियोगेऽपि रौरवं जगतीतले ।
इति संवत्ररफलम् ॥ * ॥
अथ रोगप्रकरणम् ।
महीतत्त्वे स्वरोगञ्च जले च जलमातरः ।
रवौ चारे तेजस्तत्त्वे वायुतत्त्वे च शाकिनी ॥
शून्यतत्त्वेन रोगश्च पित्तदोषसमुद्भवः ।
दानपुण्यं द्विजातीनां पिण्डश्राद्धं विधीयते ॥
आदौ शून्यगतं पृच्छेत् पश्चात् पूर्णो विशेद्
यदि ।
मूर्च्छितोऽपि ध्रुवं जीवेत् यदर्थं परिपृच्छति ॥
चन्द्रस्थाने स्थितो जीवः सूर्य्यस्थाने च पृच्छति ।
तदा प्राणविनिर्म्मक्तो यदि वैद्यशतैर्वृतः ॥
पिङ्गलायां स्थितो जीवो वामे दूतश्च पृच्छति ।
तदापि म्रियते रोगी यदि त्राता महेश्वरः ॥
दक्षिणेन यदा वायुर्द्दखं रौद्राक्षरं वदेत् ।
तदा जीवति जीवोऽसौ चन्द्रे समफलं भवेत् ॥
जीवाकारञ्च वा धृत्वा जीवाकारं विलोकयन् ॥
जीवस्थो जीवितं पृच्छेत्तस्माज्जीवन्ति ते
ध्रुवम् ॥
प्रश्ने वाधः स्थितो जीवस्तदा जीवो हि जीवति ।
ऊर्द्ध्वचारगतो जीवो याति जीवो यमालयम् ॥
विपरीताक्षरं प्रश्ने रिक्तायां पृच्छको यदि ।
विपर्य्ययञ्च विज्ञेयं विषमस्थोदये सति ॥
यस्मिन् भागे चरेत् जीवस्तत्रस्थः परिपृच्छति ।
तदा जीवति जीवोऽसौ यदि रोगैः प्रपीडितः ॥
वातोदये वातकरञ्च भक्ष्यं
पित्तोदये पित्तकरञ्च भक्ष्यम् ।
श्लेष्मोदये श्लेष्मकरञ्च भक्ष्यं
पुंसि प्रभुक्ते प्रभवन्ति रोगाः ॥
एकस्य भूतस्य विपर्य्ययेण
रोगाभिभूतिर्भवतीह पुंसाम् ।
तयार्द्वयार्बन्धुसुहृद्विपत्तिः
पक्षत्रये व्यत्ययतो मृतिः स्यात् ॥
इति रोगज्ञानम् ॥ * ॥
अथ कालज्ञानम् ।
मासादौ वत्सरादौ च पक्षादौ च यथाक्रमम् ।
क्षयं कालं परीक्षेत वायुचारवशात् सुधीः ॥
पञ्चभूतात्मकं देह शशी स्नेहेन सिञ्चति ।
रक्षयेत् सूर्य्यवातेन तेन जीवः स्थिरो भवेत् ॥
मारुतं बन्धयित्वा तु सूर्य्यं बन्धयते यदि ।
अभ्यासाज्जीवते जीवः सूर्य्यकालेऽपि वञ्चते ॥
गगनादवते चन्द्रः कायापद्मानि सिञ्चति ।
कर्म्मयागः सदाभ्यासात् रमते शशिनः प्लवात् ॥
शशाङ्कं वारयेद्रात्रौ दिवा वार्य्यो दिवाकरः ।
इत्यभ्यासरतो योगी स योगी नात्र संशयः ॥
दिवा न पूजयेत् लिङ्गं रात्रौ देवीं न पूजयेत् ।
रहसि ज्ञानजनकं पञ्चसूत्रे समन्वितम् ॥
अहोरात्रं यदैकत्र वहते यस्य मारुतः ।
तदा तस्य भवेदायुः संपूर्णं वत्सरद्वयम् ॥
अहोरात्रद्वयं यस्य पिङ्गलायां सदागतेः ।
तस्य वर्षद्वयं ज्ञेयं जीवितं तत्त्ववेदिभिः ॥
त्रिरात्रं वहते यस्य वायुरेकपुटे स्थितः ।
वत्सरं यावदायुः स्यात् प्रवदन्ति मनीषिणः ॥
रातौ चन्द्रो दिवा सूर्य्यो वहेद्यस्य निरन्तरम् ।
विजानीयात्तस्य मृत्युः षण्मासाभ्यन्तरे सुधीः ॥
एकादिषोडशाहानि यदि भानुर्निरन्तरम् ।
वहेद्यस्य च वै मृत्युः शेषाहेन च मासिकैः ॥
सम्पूर्णं वहते सूर्य्यश्चन्द्रमा नैव दृश्यते ।
पक्षेण जायते मृत्युः कालज्ञानेन भाषितम् ॥
पृष्ठ ५/४८४
सम्पूर्णं वहते चन्द्रः सूर्य्यो नैव च दृश्यते ।
मासेन दृश्यते मृत्युः कालज्ञानेन भाषितम् ॥
मूत्रं पुरीषं वायुश्च समकालं प्रजायते ।
तदासौ चलितो ज्ञेयो दशाहे म्रियते ध्रुवम् ॥
एवं चन्द्रप्रवाहञ्च सुखलाभजयस्तथा ।
सूर्य्यचन्द्रप्रणाशे तु सद्यो मृत्युर्न संशयः ॥
अरुन्धती ध्रुवश्चैव विष्णोस्त्रीणि पदानि च ।
आयुर्हीना न पश्यन्ति चतुर्थं मातृमण्डलम् ॥
अरुन्धती भवेज्जिह्वा ध्रुवो नामाग्रमुच्यते ।
भ्रुवोर्म्मध्ये विष्णुपदं तारकं मातृमण्डलम् ॥
नवध्रुवः सप्तमो वा पञ्चतारा त्रिनासिका ।
जिह्वामेकदिनं प्रोक्तं म्रियते मानवो ध्रुवम् ।
कोणमष्णोऽङ्गुलीभ्यान्तु किञ्चित् पीड्य निरी-
क्षयेत् ।
यदा न दृश्यते बिन्दुर्द्दशाहेन जनो मृतः ॥
इति कालज्ञानम् ॥ * ॥
इडा गङ्गेति विज्ञेया पिङ्गला यमुना नदी ।
मध्ये सरस्वती विद्यात् प्रयागादि समन्ततः ॥
आदौ साधनमाख्यातं सद्यःप्रत्ययकारकम् ।
बद्धपद्मासनो योगी बन्धयेदुड्डियानकम् ॥
पूरकः कुम्भकश्चैव रेचकश्च तृतीयकः ।
ज्ञातव्यो योगिभिर्नित्यं देहसंसिद्धिहेतवे ॥
पूरकः कुरुते पुष्टीर्धातुमाम्यं तथैव च ।
कुम्भकः स्तम्भनं कुर्य्यात् जीवरक्षाविवर्द्धनम् ॥
रेचको हरते पापं कुर्य्याद्योगपदं व्रजेत् ।
पश्चात् संग्रामवत्तिष्ठेत् पद्मे बन्धे च कारयेत् ॥
कुम्भयेत् सहजं वायुं यथाशक्त्या प्रयत्नतः ।
रेचयेच्चन्द्रमार्गेण सूर्य्येण पूरयेत् सुधीः ॥
चन्द्रं पिबति सूर्य्यश्च सूर्य्यं पिबति चन्द्रमाः ।
अन्योन्यकालभावेन जीवेदाचन्द्रतारकम् ॥
स्वीयाङ्गे वहते नाडी तन्नाडीरोधनं कुरु ।
मुखबन्धममुञ्चन् वै पवनं जायते युवा ॥
मुखनासाक्षिकर्णानामङ्गुलीभिर्निरोधयेत् ।
तत्त्वोदयमिति ज्ञेयं सम्मुखीकरणं प्रिये ॥
तस्य रूपं गतिः स्वादो मण्डलं लक्षणन्त्विदम् ।
यो वेत्ति वा नरो लोके स तु शूद्रोऽपि योग-
वित् ॥
निराशीर्निर्म्मली योगी न किञ्चिदपि चिन्तयेत् ।
वासनामुन्मनां कृत्वा काणं जयति लीलया ॥
विश्वस्य वेशिका शक्तिर्नेत्राभ्यां परिदृश्यते ।
तत्रस्थं तु मनो यस्य याममात्रं भवेदिह ॥
तस्यायुर्व्वर्द्धते नित्यं घटिका त्रिप्रमाणतः ।
शिवेनोक्तं पुरा तन्त्रं सिद्धस्य गुणगह्वरम् ॥
बद्ध्वा पद्मासनस्थो गुदपवनलयं संनिरुध्योर्द्ध्व-
मुच्चैः
प्राणं रन्ध्रेण कुम्भत्रयजितमनिलं प्राणशक्त्या
निरुध्य ।
एकीभूतं सुषुम्नाविबरमुखगतं ब्रह्मरन्ध्रे च
नीत्वा
निःक्षिप्याकाशमार्गे शिवचरणरता यान्ति ते
केऽपि धन्याः ॥ * ॥
एतज्जानाति यो योगी एतत् पठति नित्यशः ।
सर्व्वदुःखैर्व्विनिर्मक्तो लभते वाञ्छितं फलम् ॥
स्वरज्ञानं गिरो यस्य लक्ष्मीः करतले भवेत् ।
एतत्तु शरीरे यस्य सुखं तस्य सदा भवेत् ॥
प्रणवः सर्व्ववेदानां ब्रह्माण्डे भास्करो यथा ।
मर्त्यलोके तथा पूज्यः स्वरज्ञानी पुमानपि ॥
नाडीत्रयं विजानाति तत्त्वज्ञानं तथैव च ।
नैव तेन भवेत्तुल्यं लक्षकोटिरसायनम् ॥
एकाक्षरप्रदातारं नाडीभेदनिवेदकम् ।
पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा चानृणी भवेत् ॥
स्वरस्तत्त्वं तथा युद्धं देववश्यं स्त्रियस्तथा ।
गर्भाब्दरोगकालाख्यं नवप्रकरणान्वितम् ॥
एवं प्रवर्त्तितं लोके सिद्धिदं सिद्धयोगिभिः ।
आचन्द्रार्कं गृही जीयात् पठनात् सिद्धि-
दायकम् ॥
सुस्थासने समासीनं निद्रामाहारमल्पकम् ।
चिन्तयेत् परमात्मानं यद्वदेत्तद्भविष्यति ॥”
इति शिवगौरीसंवादे नवप्रकरणान्वितपवन-
विजयं नाम स्वरोदयं ममाप्तम् ॥

स्वर्गः, पुं, (स्वरिति गीयते इति । मै + कः ।

यद्वा, सुष्टु अर्ज्यते इति । अर्ज अर्जने + घञ् ।
शङ्कादित्वात् कुत्वम् ।) देवतानामालयः । तत्-
पर्य्यायः । स्वः २ नाकः ३ त्रिदिवः ४ त्रिदशा-
अयः ५ सुरलोकः ६ द्योः ७ द्यौ ८ त्रिपि-
ष्टपम् ९ । इत्यमरः । १ । १ । ६ ॥ मन्दरः १०
अवरीहः ११ गौः १२ रमतिः १३ फलो-
दयः १४ । इति जटाधरः ॥ देवलोकः १५
स्वर्लोकः १६ ऊर्द्ध्वलोकः १७ सुखाधारः १८
सौरिकः १९ शक्रभुवनम् २० दिवानम् २१ ।
इति शब्दरत्नावली ॥ * ॥ तस्य गुणदोषा
यथा, --
सुबाहरुवाच ।
“स्वर्गस्य मे गुणान् ब्रूहि साम्प्रतं द्विजमत्तम ।
एतत् सर्व्वं द्विजश्रेष्ठ करिष्यामि न संशयः ॥
जैमिनिरुवाच ॥
नन्दनादीनि दिव्यानि रम्याणि विविधानि च ।
तत्रोद्यानानि पुण्यानि सर्व्वकामशुभानि च ॥
सर्व्वकामफलैर्वृक्षैः शोभितानि ममन्ततः ।
विमानानि सुदिव्यानि परितान्यप्सरोगणैः ॥
सर्व्वत्रैष विघित्राणि कामगानि रसानि च ।
तरुणादित्यवर्णानि मुक्ताजालान्तराणि च ॥
चन्द्रमण्डलशुभ्राणि हेमशय्यासनानि च ।
सर्व्वकामसमृद्धाश्च सुखदुःखविवर्जिताः ॥
नराः सुकृतिनस्ते तु विचरन्ति यथासुखम् ।
न तत्र नास्तिका यान्ति न स्तेया नाजितेन्द्रियाः ॥
न नृशंसा न पिशुनाः कतघ्ना न च मानिन ।
मत्यास्तपःस्थिताः शूरा दयावन्तः क्षमापराः ॥
यन्वानो दानशीलाश्च तत्र गच्छन्ति ते नराः ।
न रोगो न जरा मृत्युर्न शोको न हिमादयः ॥
न तत्र क्षुत्पिपासा च कस्य ग्लानिर्न दृश्यते ।
एते चान्ये च वहवो गुणाः सन्ति च भूपते ॥
दोषास्तत्रैव ये सन्ति तान् शृणुष्व च साम्प्रतम् ।
शुभस्य कर्म्मणः कृतुस्नं फलं तत्रैव भुज्यते ।
न चात्र क्रियते भूयः सोऽत्र दोषो महान् श्रुतः ॥
असन्तोषश्च भवति दृष्ट्वा दीप्तां परश्रियम् ।
संप्राप्ते कर्म्मणामन्त सहसा पतनं तथा ॥
इह यत् क्रियते कर्म्म फलं तत्रैव भुञ्जते ।
कर्म्मभूमिरियं राजन् फलभूमिस्त्वसौ स्मृता ॥”
इति पाद्मे भूखण्डे ९० अध्यायः ॥
अन्यत् वह्निपुराणे शिवेरुपाख्याननामाध्याये
मात्स्ये १०३ । १०४ अध्याययोरपि द्रष्टव्यम् ॥
अपि च ।
सुनन्द उवाच ।
शृणु राजन् प्रवक्ष्यामि विष्णोरद्भुतकर्म्मणः ।
विराडरूपस्य सस्थानमाख्यान महदद्भुतम् ॥
यावती भू समुद्दिष्टा ससमुद्राद्रिकानना ।
प्रतिभाता महाराज किरणैश्चन्द्रसूर्य्ययोः ॥
वियच्च तावदुपरि विस्तारपरिमण्डलम् ।
पञ्चविंशतिकोट्यस्तु योजनानान्तु तत्स्मृतम् ॥
नवतीनां महस्राणि योजनानि महीपते ।
भूमेरूर्द्धञ्च लोकानां सिद्धचारणरक्षमाम् ॥
ये च विद्याधरा यक्षरक्षोगन्धर्व्वकिन्नराः ।
भूतप्रेतपिशाचाश्च तेषां तत् स्थानमीरितम् ॥
ततो राहुर्न्महाबाहो त्रयोदशसहस्रकम् ।
योजनानां पविस्तारं मण्डलं तस्य कथ्यते ॥
स्मरन् वैरं पुरा प्राप्तं यः पर्व्वणि महाग्रहः ।
ग्रामाय धावति कोधात् पुप्पवन्तौ महीपते ॥
तदैव भगवच्चक्रं सहस्नार्कोपमद्युति ।
उपतिष्ठति तद्भीत्या पुनरेव निवर्त्तते ॥
उपरागं वदन्त्येवं पुण्यकालश्च कथ्यते ।
लक्षयोजनतो भानुर्भूमेरेष व्यवस्थितः ॥
तानोः सकाशादुपरि लक्षे लक्ष्यः क्षपाकरः
नक्षत्रमण्डलं चन्द्राल्लक्षयोजनमुच्छ्रितम् ॥
नक्षत्रमण्डलात् सौम्य उपरिष्टाद्विलक्षतः ।
बुधात् शुक्रो द्विलक्षे तु शुक्राद्भौमो द्विलक्षके ॥
मङ्गलादुपरिष्टाच्च गीष्पतिर्लक्षकद्वये ।
द्विलक्षयोजनोत्मेधः सौरिर्द्देवपुरोहितात् ॥
शतायुतसमुच्छ्रायं सौरेः सप्तर्षिमण्डलम् ।
सप्तषिंभ्यः सहस्राणां शतादूर्द्ध्वं धुवस्थितिः ॥
पाडगम्यं हि यत्किञ्चिद्वस्त्वस्ति धरणीतले ।
तद्भूर्णोक इति ख्यातं शाकद्वीपादिकाननम् ॥
भूर्लोकाच्च भुवर्लोकः सूर्य्यावधिरुदीरितः ।
आदित्यादाध्रुवं राजन् स्वर्लोकः कथ्यते बुधैः ॥
महर्लोकः क्षितेरूर्द्ध्वमेककोटिप्रमाणतः ।
कोटिद्वये वर्त्तमानो जनो भूर्लोकतो नृप ॥
उपरिष्टात् जितेरष्टौ कोटवः सत्यमीरितम् ।
सत्यादुपरि वैकुण्ठो योजनानां प्रमाणतः ॥
भूर्णोकात् परिसंख्यातः कोटिरष्टादश प्रभो ।
यत्नास्ते श्रीपतिः साक्षात् सर्व्वेषामभयप्रदः ॥
बैकुण्ठादुत्तरे शैवो लोकः षोडशकोटयः ।
तिर्य्यगेव महाराज कैलासाख्यस्तु पर्व्वतः ॥
पार्व्वत्या सहितः शम्भुर्यत्रास्ते स्वगणैर्वृतः ॥”
इति पाद्मे स्वगखण्डेभूरादिलोकवर्णनं ६ अः ॥
स्वर्गस्वरूपं कर्म्मविशेषेण स्वर्गविशेषगमनञ्च
यथा, --
पृष्ठ ५/४८५
सूत उवाच ।
“स्वर्गस्थानं महापुण्यं प्रोच्यमानं निबोध मे ।
भारते कृतपुण्यानां देवानामपि चालयम् ॥
मध्ये पृथिव्यामद्रीन्द्रो भास्वाम् मेरुर्हिरण्मयः ।
योजनानां सहस्राणि चतुरशीतिः समुच्छ्रितः ॥
प्रविष्टः षोडशाधस्ताद्धरण्यां धरणीधरः ।
तावत्प्रमाणा पृथिवी पर्व्वतश्च समन्ततः ॥
तस्य शृङ्गत्रयं मूर्द्ध्नि स्वर्गो यत्र प्रतिष्ठितः
नानाद्रुमलताकीर्णं नानारत्नोपशोभितम् ॥
मध्यगं पश्चिमं पूर्ब्बं मेरोः शृङ्गाणि त्रीणि वै ।
प्रयुतोच्छ्रितमात्राणि द्वे शृङ्गे तस्य मध्यतः ॥
मध्यस्थं स्फाटिकं शृङ्गं वैदूर्य्यकरकामयम् ।
इन्द्रनीलमयं पूर्ब्बं माणिक्यं पश्चिमं स्मृतम् ॥
योजनानां सहस्राणि नियुतानि चतुर्दश ।
उच्छ्रितं मध्यगं शृङ्गं स्वर्गो यत्र प्रतिष्ठितः ॥
प्रयुतान्तरितं शृङ्गं मूर्द्ध्नि च्छत्राकृति स्थितम् ।
पूर्ब्बपश्चिमशृङ्गाणां सकलं मध्यमस्य च ॥
त्रिपिष्टपो नाकपृष्ठो अप्सरःशान्तिनिर्व्वृती ।
आनन्दोऽथ प्रमोदश्च स्वर्गाः शृङ्गे च मध्यमे ॥
श्वेतश्च पौष्टिकश्चैव उपशोभनमन्मथौ ।
आह्नादः स्वर्गराजश्च स्वर्गाः शृङ्गे तु पश्चिमे ॥
निर्म्मलो निरहङ्कारः सौभाग्यश्चातिनिर्मलः ।
सौख्यश्च निर्व्वृतिश्चैव पुण्याहश्च तथा द्विज ॥
स्वर्गाश्चैते द्विजश्रेष्ठ पूर्ब्बशृङ्गे समर्थिताः ।
एकविंशति ये स्वर्गा निविष्टा मेरुमूर्द्धनि ॥
अहिंसादानकर्त्तारो यज्ञानां तपसां तथा ।
तेषु तेषु वसन्ति स्म जनाः क्रोधविवर्जिताः ॥
जलप्रवेशी चानन्दं प्रमोदं वह्निसाहसः ।
भृगुप्रपाते सौख्यस्तु रणे चैवास्य निर्म्मलः ॥
अनशने तु सम्बासे मृतो गच्छेत्त्रिविष्टपम् ।
क्रतुयाजी नाकपृष्ठमग्निहोत्री च निर्व्वृतिम् ॥
तडागकूपकर्त्ता च लभते पौष्टिकं द्विज ।
सौवर्णदायी सौभाग्यं लभेत् स्वर्गं महातपाः ॥
शीतकाले महावह्निं प्रज्वालयति यो नरः ।
सर्व्वसत्त्वहितार्थाय स्वर्गं चाप्सरसं लभेत् ॥
हिरण्यगोप्रदानेन निरहङ्कारमवाप्नुयात् ।
भूमिदानेन शुद्धेन लभते शान्तिकं पदम् ॥
रौप्यदानेन शुद्धेन स्वर्गं गच्छति निर्म्मलम् ।
अश्वदानेन पुण्याहं कन्यादानेन मङ्गलम् ॥
द्विजेभ्यस्तर्पणं कृत्वा दत्त्वा वस्त्राणि भक्तितः ।
श्वेतन्तु लभते स्वर्गं यत्र गत्वा न शोचति ॥
कपिलागोप्रदानेन परार्द्धे चानुभूयते ।
गोवृषस्य प्रदानेन स्वर्गं मन्मथमश्नुते ॥
माघमासे सरित्स्नायी तिलधेनुप्रदस्तथा ।
छत्रोपानहदाता च स्वर्गं यात्युपशोभनम् ॥
देवायतनकर्त्ता वै श्रुश्रूषणपरस्तथा ।
तीर्थयात्रापरश्चैव स्वर्गराज्ये महीयते ॥
एकान्नभोजी यो मर्त्यो नक्तभोजी च नित्यशः ।
उपवासी त्रिरात्राद्यैः शान्तिस्वर्गं शुभं लभेत् ॥
सरित्स्नायी जितक्रोधो ब्रह्मचारी दृढब्रतः ।
निर्म्मलं स्वर्गमाप्नोति तथा भूतहिते रतः ॥
विद्यादानेन मेध्रावो निरहङ्कारमाप्नुयात् ।
येन येन हि भावेन यद्यद्दानं प्रयच्छति ।
तत्तत् स्वर्गभवाप्नोति यद्यदिच्छति मानवः ॥
यस्तु सर्व्वाणि दानानि ब्राह्मणेभ्यः प्रयच्छति ।
स प्राप्य न निवर्त्तेत दिवं शान्तमनामयम् ॥
शृङ्गन्तु पश्चिमं यच्च ब्रह्मा तत्र स्थितः स्वयम् ।
पूर्ब्बशृङ्गे स्वयं विष्णुर्भध्ये चैव शिवः स्थितः ॥ * ॥
अतः परन्तु विप्रेन्द्र स्वर्गाध्वानमिमं शृणु ॥
विमलं विपुलं शुद्धमुपर्य्युपरिसंस्थितम् ।
प्रथमे तु कुमारस्तु द्वितीये मातरः स्थिताः ॥
तृतीये सिद्धगन्धर्व्वास्तुर्य्ये विद्याधरा द्विज ।
पञ्चमे नागराजश्च षष्ठे तु विनतासुतः ॥
सप्तमे दिव्यपितरो धर्म्मराजस्तथाष्टमे ।
नवमे तु तथा दक्ष आदित्या दशमे पथि ॥ * ॥
भूर्लोकाच्छतसाहस्रमूर्द्ध्वं चरति भास्करः ।
योजनानां सहस्रे द्वे विष्कम्भेन समन्वितः ॥
त्रिगुणः परिणाहेन सूर्य्यविम्बप्रमाणतः ॥
सोमपुर्य्यां विभावर्य्यां मध्याह्ने चार्य्यमा यदा ।
महेन्द्रस्यामरावत्यां ततस्तिष्ठति भास्करः ॥
मध्याह्ने त्वमरावत्यां यदा भवति भास्करः ।
तदा संयमने याम्ये तदोद्यंस्तु प्रदृश्यते ॥
मेरुं प्रदक्षिणं कुर्व्वन् भात्येवं सविता सदा ।
ध्रुवाधाररथे तिष्ठन् वालिखिल्यादिभिः स्तुतः ॥
सूर्य्यमण्डलमानात्तु द्विगुणं सोममण्डलम् ।
पूर्णे शतसहस्रे तु तस्मान्नक्षत्रमण्डलम् ॥
द्विलक्षे तु बुधस्यापि स्थानं नक्षत्रमण्डलात् ।
तावत्प्रमाणभागे तु बुधस्याप्युशना स्थितः ॥
अङ्गारकोऽपि शुक्रस्य तावन्माने व्यवस्थितः ।
लक्षद्वये तु भौमस्य स्थितो देवपुरोहितः ॥
शौरिर्बृहस्पतेश्चोर्द्ध्वं द्विलक्षे तु व्यवस्थितः ।
तस्मात् शनैश्चरादूर्द्ध्वं लक्षे सप्तर्षिमण्डलम् ॥
सप्तर्षिमण्डलादूर्द्ध्वमेकलक्षे ध्रुवः स्थितः ।
मेधीभूतः समस्तस्य ज्योतिश्चक्रस्य सत्तम ॥
भास्वांस्तपति विप्रेन्द्र ऊर्द्ध्वं किरणरश्मिभिः ।
कालसंख्यां त्रिलोकस्य स करोति युगे युगे ॥
जनस्तपस्तथा सत्यमेताल्लोँकान् द्विजाज्ञया ।
ब्रह्मणो मुनिशार्दूल विष्णुशक्तिविदीपितः ॥
ऊर्द्ध्वं गतैर्द्विजश्रेष्ठ रश्मिभिस्तपते रविः ।
अधोगतैस्तु भूर्लोकं द्योतते दीप्तदीधितिः ॥
तमःपापहरः सूर्य्यः कर्त्ता त्रिभुवनस्य च ।
छत्रवत् परिदृश्येत मण्डलान्मण्डलं चरन् ॥
द्विगुणेन च विस्तीर्णं भूतलात्तत् प्रतिष्ठितम् ।
आदित्यमण्डलाधस्तात् भुवो लोकः प्रतिष्ठितः ॥
तदधस्तात्तु विप्रेन्द्र भूर्लोकः संप्रतिष्ठितः ।
एवमेतत्त्रिभुवनं विष्णुकाये व्यवस्थितम् ॥
त्रैलोक्यस्येश्वरत्वञ्च विष्णुदत्तं शतक्रोतोः ।
लोकपालैश्च सहितो लोकान् रक्षति धर्म्मतः ।
वसन् स्वर्गे महाभाग देवेन्द्रः स तु कीर्त्तितः ॥
अतोऽधस्ताद्द्विजश्रेष्ठ पातालन्तु स्वयंप्रभम् ।
न तत्र तपते सूर्य्यो न रात्रिर्न निशाकरः ॥
दिव्यं रूपं समास्थाय तपन्ते सततं जनाः ।
पातालस्थाः द्विजश्रेष्ठ दीप्यामानाः स्वतेजसा ॥
स्वर्लोकात्तु महर्लोकः कोटिमाने व्यवस्थितः ।
ततो योजनमानेन द्विगुणो मण्डलेन तु ॥
जनलोकस्थितो विप्र पञ्चमो मुनिसेवितः ।
तस्योपरि तपोलोकश्चतुर्भिः कोटिभिः स्मृतः ॥
सत्यलोकोऽष्टकोटीभिः सर्व्वेषामुपरिस्थितः ।
सर्व्वे छत्राकृतिर्ज्ञेया भुवना भुवनोपरि ॥
ब्रह्मलोकाद्विष्णुलोको द्विगुणेन व्यवस्थितः ।
वाराहे तस्य माहात्म्यं कथितं लोकचिन्तकैः ॥
ततः परं द्विजश्रेष्ठ ततो ह्यण्डकपालकम् ।
ब्रह्माण्डात् परतः साक्षात् निर्लेपः पुरुषः
स्थितः ॥
यमुपास्य विमुच्येत तपोज्ञानसमन्विताः ।
इति ते संस्थितिः प्रोक्ता भूगोलस्य मयानघ ॥
यस्तु सम्यगिमां वेत्ति स याति परमां गतिम् ।”
इति नृसिंहपुराणे ३० अध्यायः ॥
पारिभाषिकस्वर्गो यथा, --
“मनोऽनुकूलाः प्रमदा रूपवत्यः स्वलङ्कृताः ।
वासः प्रासादषष्ठेषु स्वर्गः स्याच्छुभकर्म्मणः ॥”
इति गारुडे । १०९ । ४४ ॥
न्यायमते स्वर्गलक्षणं यथा । दुःखासम्भिन्न-
त्वादिविशिष्टसुखत्वं स्वर्गत्वं तदेव स्वर्गपदशक्य-
तावच्छेदकमिति सिद्धान्तः । आदिपदेन अन-
न्तरदुःखग्रस्तभिन्नत्वाभिलाषोपनीतत्वयोःपरि-
ग्रहः । अतएव ।
“यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम् ।
अभिलाषोपनीतं यत् तत् सुखं स्वःपदास्पदम् ॥”
इति स्वरादिपदशक्तिग्राहकार्थवादोऽपि संग-
च्छते । इति गदाधरभट्टाचार्य्यकृतवादार्थः ॥ * ॥
किञ्च ।
“मनःप्रीतिकरः स्वर्गो नरकस्तद्विपर्य्ययः ।
नरकस्वर्गसंज्ञेवै पापपुण्ये द्विजोत्तमाः ॥”
इति ब्रह्मपुराणे १९ अध्यायः ॥

स्वर्गगामी, [न्] त्रि, (स्वर्गं गच्छत्तीति । गम +

णिनिः ।) स्वर्गगमनकर्त्ता । यथा, --
“सर्व्ववृत्तौ विहिंसा ये ये च सर्व्वंसहा नराः ।
सर्व्वस्य प्रियभूताश्च ते नराः स्वर्गगामिनः ॥”
इति कर्म्मलोचनः ॥

स्वर्गङ्गा, स्त्री, (स्वर्गस्य गङ्गा ।) मन्दाकिनी ।

इति शब्दरत्नावली ॥

स्वर्गजित्, त्रि, (स्वर्गं जयतीति । जि + क्विप् तुगा-

गमश्च ।) स्वर्गजेता । (यथा, महाभारते ।
१२ । ७५ । ३४ ।
“यस्मिन् भयार्द्दितः सम्यक् क्षेमं विन्दत्यपि-
क्षणम् ।
स स्वर्गजित्तमोऽस्माकं सत्यमेतत् ब्रवीमि ते ॥”)

स्वर्गपतिः, पुं, (स्वर्गस्य पतिः ।) इन्द्रः । इति

हेमचन्द्रः ॥

स्वर्गबधूः, स्त्री, (स्वर्गस्य स्वर्गस्थितलोकस्य बधूः ।)

अप्सरसः । इति हेमचन्द्रः ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/स्यम&oldid=44112" इत्यस्माद् प्रतिप्राप्तम्