पृष्ठ ५/५३४

हि, न वर्द्धने । गतौ इति कविकल्पद्रुमः । (भ्वा०-

पर०-सक०-अनिट् ।) गतिरिह अन्तर्भूत-
ञ्यर्थत्वात् गतिप्रेरणम् । न, प्रहिणु स्वसूनु-
मिति भट्टिः । वर्द्धने विरलप्रयोगः । इति दुर्गा-
दासः ॥

हि, व्य, हेतुः । (यथा, शाकुन्तले । १ अङ्के ।

“अशंसयं क्षत्त्रपरिग्रहक्षमा
यदार्य्यमस्यामभिलाषि मे मनः ।
सतां हि सन्देहपदेषु वस्तुषु
प्रमाणमन्तःकरणप्रवृत्तयः ॥”)
अवधारणम् । इत्यमरः । ३ । ४ । २५६ ; ३ । ४ । ५ ॥
पादपूरणम् । विशेषः । प्रश्नः । (यथा, रामा-
यणे । २ । ६४ । ३० ।
“नाभिवादयसे माद्य न च मामभिभाषसे ।
किञ्च शेषे तु भूमौ त्वं वत्स ! किं कुपितो
ह्यसि ॥”)
हेत्वपदेशः । सम्भ्रमः । असूया । इति मेदिनी ॥
शोकः इति शब्दरत्नावली ॥

हिंसकः, पुं, (हिनस्ति तच्छीलः । हिंस + ण्वुल् ।)

हिंस्रपशुः । अथर्व्वविद्ब्राह्मणः । शत्रुः । इति
शब्दरत्नावली ॥

हिंसकः, त्रि, (हिंस + ण्वुल् ।) हिंसाकर्त्ता ।

तत्प्रर्य्यायः । घातुकः २ हिंस्रः ३ शरारुः ४
हन्ता ५ । इति शब्दरत्नावली ॥ स चाष्टविधः ।
यथा, --
“भोक्तानुमन्ता संस्कर्त्ता क्रयिविक्रयिहिंसकाः ।
उपहर्त्ता घातयिता हिंसकाश्चाष्टधाधमाः ॥”
इति काशीखण्डम् ॥ * ॥
साध्वीभार्य्यादिहिंसने दोषो यथा, --
“भार्य्यां प्रियसखीं यस्तु साध्वीं हिंसति निर्घृणः ।
न तेऽमृतं प्राप्नुवन्ति हिंसका दुष्टयोनिजाः ॥”
इति वाराहे ब्राह्मणदीक्षासूत्रनामाध्यायः ॥ * ॥
शरणागतादिहिंसकस्य अव्यवहार्य्यत्वं यथा, --
“शरणागतबालस्त्रीहिंसकान् संवसेन्न तु ।
चीर्णव्रतानपि सदा कृतघ्नसहितानिमान् ॥”
इति प्रायश्चित्ततत्त्वधृतयाज्ञवल्क्यवचनम् ॥

हिंसा, स्त्री, (हिंसनमिति । हिंस + अः । टाप् ।)

घातः । इति मेदिनी ॥ चौर्य्यादिकर्म्म । यथा ।
हिंसा चौर्य्यादिकर्म्म च । इत्यमरः । ३ । ३ । २१८ ॥
चौरस्य कर्म्म चौर्य्यं आदिना बन्धनताडनवृत्ति-
नाशत्रासादि च चकाराद्वधोऽपि हिंसा । इति
तट्टीकायां भरतः ॥ * ॥ हिंसिते प्रतिहिंसायां
दोषाभावो यथा, --
“कृते प्रतिकृतं कुर्य्यात् हिंसिते प्रतिहिंसितम् ।
न तत्र दोषं पश्यामि दुष्टे दोषं समाचरेत् ॥”
इति गारुडे । ११५ । ४७ ॥
विष्णुभक्तानां ब्राह्मणादीनाञ्च हिंसाकर्त्तुरचि-
रान्नाशो यथा, --
“दुष्टा यदा मे भक्तानां ब्राह्मणानां गवामपि ।
क्रतूनां देवतानाञ्च हिंसां कुर्व्वन्ति निश्चितम् ।
तदाचिरन्ते नश्यन्ति यथा वह्नौ तृणानि च ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । ६ । ६१-६२ ॥
पशुहिसानिषेधो बलिशब्दे द्रष्टव्यः ॥ * ॥ अथ
वेधहिंसाविचारः । मा हिंस्यात् सर्व्वा भूतानि
इत्यत्र मर्व्वशब्दस्य व्यापकार्थपरतया एतद्विधि-
मनुल्लङ्घ्य । वायव्यं श्वेतमालमेत । इत्यादिविधे-
र्विपयाप्राप्तेरगत्या वैधातिरिक्तविषयत्वम् ।
सर्व्वाः सर्व्वाणि छन्दसि वेत्यनेन तत् पदं सिद्धम् ।
यदपि नानादर्शनटीकाकृद्भिर्वाचस्पतिमिश्रै-
स्तत्त्वकौमुद्यां अभिहितम् । न च मा हिंस्यात्
सर्व्वा भूतानि इति सामान्यशास्त्रं विशेषशास्त्रे-
णाग्नीसोमीयंपशुमालभेत् इत्यनेन बाध्येत इति
वाच्यंविरोधाभावात् विरोधे हि बलीवसा दुब्बलं
वाध्यते । न चास्ति विरोधः भिन्नविषयत्वात् ।
तथा हि मा हिंस्यादिति निषेधेन हिंसाया
अनर्थहेतुभावो ज्ञाप्यतेन पुनरक्रत्वर्थमपि ।
न चानर्थहेतुत्वक्रतूपकारकत्वयोः कश्चिदस्ति
विरोधः । हिंसा हि पुरुषस्य दोषमावक्ष्यति
क्रतोश्च उपकरिष्यतीत्यन्तेन । तदपि सांख्य-
नये । मीमांसकमते तु विरोध एव । तथा हि ।
गुरुनये न खलु सर्व्वभूतहिंसाभावविषयकं
कार्य्यं इति निषेधविध्यर्थस्य वाघं विना अग्नी-
सोमीयपश्वालम्भनविषयकं कार्य्यं इति भाव-
विध्यर्थ उपपद्यते । भट्टनये तु अङ्गे यथा
तथास्तु । न च मुख्यपशुयागे पुरुषार्थे पशु-
हिंसनस्यार्थसाधनत्वमनर्थसाधनत्वञ्चोपपद्यते
विरोधात् वस्तुतस्तु अङ्गेऽपि विरोधोऽस्त्येव
कुतो विधेरेष स्वभावो यः स्वविषयस्य साक्षात्
परम्परया वा पुरुषार्थसाधनत्वमवगमयति
अन्यथा अङ्गानां प्रधानोपकारकत्वमपि नाङ्गी-
क्रियते । अर्थसाधनत्वं बलवदनिष्टाननुबन्धीष्ट-
साधनत्वम् । अनर्थसाधनत्वं वलवदनिष्टासाधन-
त्वम् । न चानयोरेकत्र समावेश इति । अत-
एवोक्तं तस्मात् यज्ञे वधोऽवध इति । नन्वेवं
श्येनेनाभिचरन् यजेत इत्यत्र श्येनस्य शत्रुवध-
रूपेष्टसाधनत्वमवगतं अभिचारो मूलकर्म्म चेति
मनुना उपपातकगणनमध्ये पाठात् अनिष्ट-
साधनत्वमवगतं तदेतत् कथमुपपद्यतामिति
चेन्मैवम् । आततायिनमयान्तं हन्यादेवाविचा-
रयन् इत्येकवाक्यतया आततायिस्थले इष्टसाध-
नत्वम् । अनाततायिस्थले तूपपातकत्वेन बल-
वदनिष्टसाधनत्वम् । इत्यविरोध इति । गुरु-
चरणा अप्येवम् । इति तिथ्यादितत्त्वम् ॥ * ॥
ब्राह्मणस्य हिंसानिषेधो यथा, --
“हिंसा चैव न कर्त्तव्या वैधहिंसा तु राजसी ।
ब्राह्मणैः सा न कर्त्तव्या यतस्ते सात्विका
मताः ॥”
इति श्राद्धविवेकटीकायां गोविन्दानन्दधृत-
बृहन्मनुवचनम् ॥

हिंसाकर्म्म, [न्] क्ली, (हिंसाप्रधानं कर्म्म ।)

अथर्व्ववेदोक्तमन्त्रयन्त्रादिनिष्पादितमारणोच्चा-
टनादि । तत्पर्य्यायः । अभिचारः २ । इत्य-
मरः । ३ । २ । १९ ॥

हिंसारुः, पुं, (हिनस्तीति । हिंस + आरुः ।)

व्याघ्रः । इति त्रिकाण्डशेषः ॥

हिंसालुः, त्रि, वधशीलः । घातुकः । हिसधातो-

रालुप्रत्ययेन निष्पन्नः ॥

हिंसालुकः, पुं, (हिंसालु + स्वार्थे संज्ञायां वा

कन् ।) हिंसाशीलकुक्क रः । यथा, --
“हिंसालुकः खादुकः श्वा योगितोऽलर्क
इष्यते ।”
इति हारावली ॥
हननशीले, त्रि ॥

हिंसितः, त्रि, (हिंस + क्तः ।) हिंसाप्राप्तः ।

यथा, --
“यस्तु भागवतान् दृष्ट्वा भूत्वा भागवतः शुचिः ।
अभ्युत्थानं न कुर्व्वोत अहं तेनापि हिंसितः ॥
यस्तु कन्यां पिता दत्त्वा न प्रयच्छति तां पुनः ।
अष्टी पितृगणास्तेन हिंसिता नात्र संशयः ॥”
इति वाराहे ब्राह्मणदाक्षासूत्रनामाध्यायः ॥

हिंसीरः, पुं, (हिनस्तीति । हिन्स + “हिंसेरी-

रनीरचौ ।” उणा० ५ । १८ । इति ईरन् ।)
व्याघ्रः । खले, त्रि । इति उणादिवृत्तिः ॥

हिंस्रः, त्रि, (हिनस्तीति । हिंस + “नमि-

कम्पीति ।” ३ । २ । १६७ । इति रः ।)
हिंसाशीलः । तत्पर्य्यायः । शरारुः २ घातुकः
३ । इत्यमरः । ३ । १ । २८ ॥ हिंसकः ४
हन्ता ५ । इति शब्दरत्नावली ॥ शार्व्वरः ६ ।
इति जटाधरः ॥ * ॥ हिंस्राणां हिंसने दोषा-
भावो यथा, --
“कृपा कार्य्या सतां शश्वदहिंस्रेषु च जन्तुषु ।
हिंसायां न हि दोषश्च हिंस्राणाञ्च व्रजेश्वर ! ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८५ अध्यायः ।

हिंस्रः, पुं, (हिनस्तीति । हिंस + रः ।) घारः ।

भीमसेनः । हरः । इत्युणादिकोषः ॥

हिंस्रकः, पुं, (हिंस्र एव । कन् ।) हिंस्रपशुः ।

इति शब्दरत्नावली ॥

हिंस्रपशुः, पुं, (हिंस्रः) पशुः ।) हिंसकजन्तुः ।

तत्पर्य्यायः । व्याडः २ हिंस्रकः ३ हिंसकः ४
शिविः ५ । इति शब्दरत्नावली ॥ श्वापदः ६ ।
इति त्रिकाण्डशेषः ॥

हिंस्रा, स्त्री, (हिनस्तीति । हिंस + रः । टाप् ।)

एलावली । काकादनी । मांसी । जटामांसी ।
इति मेदिनीकरहेमचन्द्रौ ॥ गवेडुका । गवे-
धुका । नाडी । शिरा । इति शब्दचन्द्रिका ॥

हिक्क, ञ कूजे । इति कविकल्पद्रुमः ॥ (भ्वा०-

उभ०-अक०-सेट् ।) कोपधः । ञ, हिक्कति
हिक्कते । कूजोऽव्यक्तशब्दः । हिक्वायामेवाय-
मिति भट्टमल्लः । हिक्वति लोकः । इति दुर्गा-
दासः ॥

हिक्क, क ङ हिंसे । इति कविकल्पद्रुमः ॥ (चुरा०-

आत्म०-सक०-सेट् ।) कोपधः । क ङ, हिक्क-
यते । इति दुर्गादासः ॥

हिक्का, स्त्री, (हिक्क कूजे + गुरोश्चेत्यः । टाप् ।

यद्वा, हिक्क्यतेऽनयेति । हिक्क + करणे घञ् ।)
रोगोपसर्गविशेषः । हिँच्की इति भाषा ।
इत्यमरः । ३ । ५ । ८ ॥ हेँकटी इति ख्यातो
व्याधिविशेषः । हिक्वति कूजत्यनया हिक्का ।
हिक्क ञ कूजे सेमक्तात् सरोरिति अः । हिक्क-
यते हिनस्तीति वा । हिक्व क ङ हिंसे पचा-
हित्यादन् । हिगिति कृत्वा कायति शब्दायते
पृष्ठ ५/५३५
इति वा हिक्का कै शब्दे हनजनादिति डः ।
इति भरतः ॥ * ॥ अथ हिक्कारोगनिदानम् ।
धन्वन्तरिरुवाच ।
“हिक्कारोगनिदानञ्च वक्ष्ये सुश्रुत ! तच्छृणु ।
श्वासैकहेतुप्राग्रूपसंख्याप्रकृतिसंश्रया ।
हिक्का भक्तोद्भवा क्षुद्रा यमला महतीति च ।
गम्भीरा च मरुत्तत्र त्वरया भुक्तिसेवितैः ॥
रूक्षतीक्ष्णखराशान्तैरन्नपानैरपीडितः ।
करोति हिक्कामरुजां मन्दशब्दां क्षुधानुगाम् ॥
समं मत्स्यान्नपानेन या प्रायाति च सान्नजा ।
आयासात् पवनः क्रुद्धः क्षुद्रां हिक्कां प्रवर्त्तयेत् ॥
जत्रुमूलप्रविसृतामल्पवेगयुताञ्च सा ।
वृद्धिमायासतो याति भुक्तमात्रे च मार्द्दवम् ॥
चिरेण यमलैर्व्वेगैराहारेऽप्यनुवर्त्तते ।
परिणाममुखे वृद्धिं परिणामे च गच्छति ॥
कम्पयन्ती शिरो ग्रीवामाध्मातस्यातितृप्यतः ।
प्रलापच्छर्द्द्यतीसारनेत्रविप्लुतजृम्भिता ॥
यमलावेगिनी हिक्वा परिणामवती च सा ।
ध्वस्तभ्रूशङ्खयुग्मस्य श्रुतिविप्लुतचक्षुषः ॥
स्तम्भयन्ती तनुं वाचं स्मृतिं संज्ञाञ्च मुञ्चती ।
तुदन्ती मार्गमन्यस्य कुर्व्वती मर्म्मघट्टनम् ॥
पृष्ठतो नमनं सार्य्य महाहिक्का प्रवर्त्तते ।
महामूला महाशब्दा महावेगा महाबला ॥
पक्काशयाधो नाभेर्व्वा पूर्ब्बवत् सा प्रवर्त्तते ।
तद्रूपा सा महत् कुर्य्याज्जृम्भमङ्गप्रसारणम् ॥
गम्भीरेण निनादेन गम्भीरां तु सुसाधयेत् ।
आद्ये द्वे वर्ज्जयेदन्त्ये सर्व्वलिङ्गाञ्च वेगिनीम् ॥
सर्व्वस्य सञ्चितामस्य स्थविरस्य व्यवायिनः ।
व्याधिभिः क्षीणदेहस्य भक्तच्छेदकृशस्य च ॥
सर्व्वेऽपि रोगा नाशाय मत्वैवं शीघ्रकारिणः ।
हिक्काश्वासौ तथा तौ हि मृत्युकाले कृता-
लयौ ॥”
इति गारुडे १५५ अध्यायः ॥ * ॥
तदौषधं यथा, --
“कुलत्थः श्वासहिक्कानुत् कफगुल्मानिलापहः ॥
त्रिदोषघ्नं मधु प्रोक्तं वातलञ्च प्रकीर्त्तितम् ।
हिक्काश्वासकृमिच्छर्दिमेहतृष्णाविषापहम् ॥”
इति च गारुडे । १७३ । ६ ; ५० अध्यायः ॥
“तथा हिक्कां हरेत् पीता सौवर्च्चलयुता
मुरा ॥”
इत्यपि गारुडे १९० अध्यायः ॥ * ॥
अन्यच्च ।
अथ हिक्काधिकारः ।
तत्र हिक्काया विप्रकृष्टनिदानमाह ।
“विदाहिगुरुविष्टम्भिरूक्षातिष्यन्दिभोजनैः ।
शीतपानाशनस्थानरजोधूमैस्तथानिलैः ॥
व्यायामकर्म्मभाराध्ववेगाघातापतर्पणैः ।
हिक्काश्वासश्च कासश्च नॄणां समुपजायते ॥”
अपतर्पणमनशादि ॥ * ॥
सम्प्राप्तिमाह ।
“वायु कफेनानुगतः पञ्चहिक्कां करोति हि ।
अन्नजां यमलां क्षुद्रां गम्भीरां महतीं तथा ॥”
सामान्यलक्षणमाह ।
“मुहुर्म्मुहुर्व्वायुरुदेति सस्वनो
यकृत्प्लिहान्त्राणि मुखादिवाक्षिपन् ।
स दोषवानाशु हिनस्त्यसून् यत-
स्ततस्तु हिक्केत्यभिधीयते बुधैः ॥”
वायुरत्र सोदानः प्राणो बोद्धव्यः । उदेति ऊर्द्ध्वं
याति । सस्वनो हिगिति शब्दवान् । ऊर्द्ध्व-
गमनं विशिनष्टि यकृदित्यादि । प्लिहन्शब्दो-
ऽप्यस्ति दीर्घत्वविकल्पात् । मुखादिति ल्यब्लोपे
पञ्चमी । तेन यकृत्प्लीहान्त्राणि मुखमानीय
आक्षिपन् निःसारयन्निवेत्यर्थः । स वायुः ।
दोषवान् दोषोऽत्र कफः तद्वान् । वायुः कफे-
नानुगतः इति संप्राप्तेः । हिनस्तीति हिक्का
पृषोदरादित्वात् रूपसिद्धिः । हिगिति कायति
शब्दं करोतीति वा ॥ * ॥ पूर्ब्बरूपमाह ।
“कण्ठोरसोर्गुरुत्वञ्च वदनस्य कषायता ।
हिक्कानां पूर्ब्बरूपाणि कुक्षेराटोप एव च ॥”
वदनस्य कषायता वातात् । न तु कफात् माधुर्य्यं
व्याधिप्रभावात् ॥ * ॥ अन्नजाया लक्षणमाह ।
“पानान्नैरतिसंयुक्तैः सहसा पीडितोऽनिलः ।
हिक्कायत्यूर्द्ध्वगो भूत्वा तां विद्यादन्नजां भिषक् ॥”
अनिलः प्राणो वायुः ॥ * ॥ यमलालिङ्गमाह ।
“चिरेण यमलैर्व्वेगैर्या हिक्का संप्रवर्त्तते ।
कम्पयन्ती शिरोग्रीवं यमलां तां विनिर्द्दिशेत् ॥”
क्षुद्रामाह ।
“विकृष्टकालैर्या वेगैर्म्मन्दैः समभिवर्त्तते ।
क्षुद्रिका नाम सा हिक्का जत्रुमूलात् प्रधा-
वति ॥”
विकृष्टकालैः चिरेण । जत्रु कक्षोरसोः सन्धिः ॥
गम्भीरामाह ।
“नाभिप्रवृत्ता या हिक्का घोरा गम्भीरनादिनी ।
अनेकोपद्रववती गम्भीरा नाम सा स्मृता ॥”
अनेकोपद्रववती तृष्णाज्ज्वरादियुक्ता ॥ * ॥
महतीमाह ।
“मर्म्माण्यापीडयन्तीव सततं या प्रवर्त्तते ।
महाहिक्केति सा ज्ञेया सर्व्वगात्रप्रकम्पनी ॥”
मर्म्माणि वस्तिहृदयशिरःप्रभृतीनि ॥ * ॥ असा-
ध्यत्वमाह ।
“आयम्यते हिक्कते यस्य देहो
दृष्टिश्चोर्द्ध्वं भ्राम्यते नित्यमेव ।
क्षीणोऽन्नद्विट् क्षौति यश्चातिमात्रं
तौ द्वौ चान्त्यौ वर्ज्जयेद्विक्कमानौ ॥”
आयम्यते विस्तार्य्यत इव । तौ द्वाविति आय-
म्यत इत्यादिना मित्यमेवेत्यन्तेनैको हिक्कमानः ।
क्षीण इत्यादिनातिमात्रमित्यन्तेनापरः । तौ
द्वौ । अन्त्यौ च गम्भीरया महत्या च हिक्क
मानौ वर्ज्जयेत् । अपरञ्च ।
“अतिसञ्चितदोषस्य भक्तच्छेदकृशस्य च ।
व्याधिभिः क्षीणदेहस्य वृद्धस्यातिव्यवायिनः ॥
आयासाच्च समुत्पन्ना हिक्का हन्त्याशु जीवि-
तम् ।
यमिका च प्रलापार्त्तिमोहतृष्णाससन्विता ॥”
साध्यत्वमाह ।
“अक्षीणश्चाप्यदीनश्च स्थिरधात्विन्द्रियश्च यः
तस्य साधयितुं शक्या यमिका हन्त्यतो-
ऽन्यथा ॥” * ॥ * ॥
अथ हिक्कायाश्चिकित्सा ।
“यत्किञ्चित् कफवातघ्नमुष्णं वातानुलोमनम् ।
भेषजं पानमन्नं वा हिक्वाश्वासेषु तद्धितम् ॥
हिक्काश्वामान्तरे पूर्ब्बं तैलाक्ते स्वेद उच्यते ।
ऊर्द्ध्वाधः शोधनं शक्ते दुर्ब्बले शमनं मतम् ॥
प्राणावरोधतर्ज्जनविस्मापनशीतवारिपरिषेकैः ।
चित्रैः कथाप्रयोगैः शमयेद्धिक्कां मनोऽभि-
घातैश्च ॥
हिक्कार्त्तस्य पयश्छागं हितं नागरसाधितम् ।
मधु सौवर्च्चलोपेतं मातुलुङ्गरसं पिबेत् ॥
मधुकं मघुसंयुक्तं पिप्पली शर्क्करान्विता ।
नागरं गुडसंयुक्तं हिक्काघ्नं लावणत्रयम् ॥
कृष्णामलकशुण्डीनां चूर्णं मधु सितायुतम् ।
मुहुर्मुहुः प्रयोक्तव्यं हिक्काश्वासेषु तद्धितम् ॥
चूर्णं कणागैरिकयोः सक्षौद्रं चावलेहयेत् ॥
प्रबालशङ्खत्रिफलाचूर्णं मधुघृतप्लुतम् ।
पिप्पली गैरिकञ्चेति लेहो हिक्कानिवारणः ॥
नैपाल्या गोविषाणाद्वा कुष्ठात् सर्ज्जरसस्य वा ।
धूपं कुशस्य वा साज्यं पिबेद्धिक्कोपशान्तये ॥”
नैपाली मनःशिला ।
“निर्धूमाङ्गारनिःक्षिप्तहिङ्गुमाषं बलोद्भवः ।
हिक्कापञ्चापि हन्त्याशु धूमः पीतो न संशयः ॥
हरेणूनां कणानाञ्च क्वाथो हिङ्गुसमन्वितः ।
हिक्काप्रशमनः श्रेष्ठो धन्वन्तरिवचो यथा ॥
चन्द्रशूरस्य वीजानि क्षिपेदष्टगुणे जले ।
यदा मृदूनि गृह्णीयात्ततो वाससि गालयेत् ॥
हिक्कातिवेगविकलस्तज्जलं पलमात्रया ।
पिबेत् पुनः पुनश्चापि हिक्कावश्यं प्रशाम्यति ॥”
चन्द्रशूररसः ॥ * ॥ इति हिक्वाधिकारः । इति
भावप्रकाशः ॥

हिङ्कारः, पुं, (हिं इत्यव्यक्तशब्दं करोतीति । कृ +

अण् ।) व्याघ्रः । इति केचित् ॥ (हिं इत्यस्य
कारः । करणम् । यथा, वाजसनेयसंहितायाम् ।
२२ । ७ ।
“हिङ्काराय स्वाहा हिङ्कृताय स्वाहेति ॥”)

हिङ्गु, क्ली, मूलविशेषनिर्यासः । स तु पारस्य-

खोरासानमूलतानादिदेशे भवति । हिं इति
भाषा । तत्पर्य्यायः । सहस्रवेधि २ जतुकम् ३
वाह्लोकम् ४ रामठम् ५ । इत्यमरः । २९ । ४० ॥
वाह्लिकम् ६ रामठम् ७ । इति भरतः ॥ जन्तु-
घ्नम् ८ । इति रत्नमाला ॥ पिण्याकम् ९ वाह्ली
१० सहस्रवेधी ११ गृहिणो १२ मधुरा १३
सूपधूपनम् १४ जतु १५ । इति शब्दरत्नावलो ॥
केशरम् १६ । इति जटाधरः ॥ उग्रगन्धम् १७
भूतारि १८ जन्तुनाशनम् १९ सूपाङ्गम् २०
रक्षोघ्नम् २१ उग्रवीर्य्यम् २२ अगूढगन्धम् २३
जरणम् २४ भेदनम् २५ दीप्तम् २६ । अस्य
गुणाः । हृद्यत्वम् । कटत्वम् । उष्णत्वम् ।
पृष्ठ ५/५३६
कृमिवातकफविबन्धाध्मानशूलगुल्मनाशित्वम् ।
चक्षुष्यत्वञ्च । इति राजनिर्घण्टः ॥ अपि च ॥
“हिङ्गूष्णं पाचनं रुच्यं तीक्ष्णं वातवलासहृत् ।
रसे पाके च कटुकं स्निग्धञ्च वह्निदीपनम् ।
शूलगुल्मोदरानाहकृमिघ्नं पित्तवर्द्धनम् ॥”
इति भावप्रकाशः ॥ * ॥
अन्यच्च ।
“हिङ्गु तीक्ष्णं कटुरसं शूलाजीर्णविबन्धनुत् ।
लघूष्णं पाचनं स्निग्धं दीपनं कफवातजित् ॥”
इति राजवल्लभः ॥
वंशपत्री । इति भावप्रकाशः ॥ (काकादनी ।
तदर्थे पर्य्यायो यथा, --
“हिङ्गु काकादनी मता ।”
इति गारुडे २०८ अध्याये ॥
क्वचिद्रामठार्थे, पुं । तत्पर्य्यायो यथा, --
“रामठं हिङ्गुरुच्यते ॥”
इति च तत्रैव २०८ अध्याये ॥)

हिङ्गुनाडिका, स्त्री, (हिङ्गुनः नाडिरिव नाडि-

र्यस्याः । कप् ।) नाडीहिङ्ग । इति राज-
निर्घण्टः ॥

हिङ्गुनिर्यासः, पुं, (हिङ्गुन इव निर्य्यासोऽस्य ।)

निम्बवृक्षः । इत्यमरः । २ । ४ । ६२ ॥
(पर्य्यायो यथा, --
“निम्बः स्यात् पिचुमर्द्दश्च पिचुमदश्च तिक्तकः ।
अरिष्टः पारिभद्रश्च हिङ्गुनिर्यास इत्यपि ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
हिङ्गुरसः । इति मेदिनी ॥

हिङ्गुपत्रः, पुं, (हिङ्गुन इव पत्रमस्य ।) इङ्गुदी-

वृक्षः । इति राजनिर्घण्टः ॥ (विवरणमस्ये
ङ्गुदीशब्दे ज्ञातव्यम् ॥)

हिङ्गुपत्री, स्त्री, हिङ्गुनः पत्रम् । हिङ्गुपत्रमिव

पत्रमस्याः । इत्यमरटीकायां भरतः ॥ तत्-
पर्य्यायः । कारवी २ पृथुला ३ पृथुः ४
बाष्पीका ५ कवरी ६ पृथ्वी ७ त्वक्पत्री ८
कर्व्वरी ९ । इति जटाधरः ॥ पृथ्वीका १०
वाष्पिका ११ वाष्पका १२ वाष्पा १३ पत्री १४ ।
इति शब्दरत्नावली ॥ दीर्घिका १५ तज्वी १६
दारुपत्री १७ विल्वी १८ वाष्पी १९ । अस्या
गुणाः । कटुत्वम् । तीक्ष्णत्वम् । तिक्तत्वम् ।
उष्णत्वम् । कफवातामकृमिहरत्वम् । रुच्यत्वम्
पथ्यत्वम् । दीपनत्वम् । पाचनत्वञ्च । इति
राजनिर्घण्टः ॥ अपि च ।
“हिङ्गुपत्री भवेद्रुच्या तीक्ष्णोष्णा पाचनी कटुः ।
हृद्वस्तिरुग्विबन्धार्शःश्लेष्मगुल्मानिलापहा ॥”
इति भावप्रकाशः ॥

हिङ्गुपर्णी, स्त्री, (हिङ्गुन इव पर्णमस्याः । ङीष् ।)

वंशपत्री । इति रत्नमाला ॥

हिङ्गुलः, पुं, क्ली, (हिङ्गु तद्वर्णं लातीति । ला +

कः ।) रागद्रष्यविशेषः । तत्पर्य्यायः । हिङ्गुलुः २ ।
इत्यमरभरतौ । ३ । ५ । २० ॥ हिङ्गुलम् ३
रक्तम् ४ मर्क्कटशीर्षम् ५ दरदः ६ रसः ७ ।
इति रत्नमाला ॥ हंसपादम् ८ कुरुविन्दः ९ ।
इति हेमचन्द्रः ॥ हिङ्गुलिः १० रक्तपारदः ११ ।
इति जटाधरः ॥ वर्व्वरम् १२ सुरङ्गम् १३
सुपरम् १४ रञ्जनम् १५ दरदम् १६ म्लेच्छम् १७
चित्राङ्गम् १८ चूर्णपारदम् १९ चर्म्मारकम् २०
मणिरागम् २१ रसोद्भवम् २२ रञ्जकम् २३
रसगर्भम् २४ । अस्य गुणाः । मधुरत्वम् ।
तिक्तत्वम् । उष्णत्वम् । वातकफत्रिदोषद्वन्द्वदोष-
ज्वरनाशित्वञ्च । इति राजनिर्घण्टः ॥ * ॥
अपि च ।
अथ हिङ्गुलस्य नामानि लक्षणानि गुणाश्च ।
“हिङ्गुलं दरदं म्लेच्छं वित्रास चूर्णपारदम् ।
दरदस्त्रिविधः प्रोक्तश्चर्म्मारः शुक्रतुण्डकः ।
हंसपादस्तृतीयः स्याद्गुणवानुत्तरोत्तरः ॥
चर्म्मारः शुक्लवर्णः स्यात् सपीतः शुकतुण्डकः ।
जवाकुसुमसङ्काशो हंसपादो महोत्तमः ॥
तिक्तं कषायं कटु हिङ्गुलं स्या-
न्नेत्रामयघ्नं कफपित्तहारि ।
हृल्लासकुष्ठज्वरकामलांश्च
प्लीहामवातौ च गरं निहन्ति ॥
ऊर्द्ध्वपातनयुक्त्या तु डमरुयन्त्रपाचितम् ।
हिङ्गुलं तस्य सूतं तु शुद्धमेव न शोधयेत् ॥”
इति ॥ * ॥
तत्र हिङ्गुलस्य शोधनविधिः ।
“मेषीक्षीरेण दरदमम्लवर्गैश्च भावितम् ।
सप्तवारान् प्रयत्नेन शुद्धिमायाति निश्चितम् ॥”
एवं शोधितस्य हिङ्गुलस्य गुणाः ।
“तिक्तं कषायं कटु हिङ्गुलं स्या-
न्नेत्रामयघ्नं कफपित्तहारि ।
हृल्लासकुष्ठज्वरकामलांश्च
प्लीहामवातौ च परं निहन्ति ॥” इति ॥ * ॥
(पर्य्यायः शोधनप्रकारान्तरञ्च यथा, --
“हिङ्गले हिङ्गुलुर्याति दरदः शुकतुण्डकः ।
रसगन्धकसम्भूतो हिङ्गुलो दैत्यरक्तकः ॥
अम्लवर्णद्रवैः पिष्ट्वा दरदो माहिषेण च ।
दुग्धेन सप्तधा पिष्टः शुष्कीभूतो विशुध्यति ॥”
तथाच प्रकारान्तरम् ।
“आद्रकैर्लकुचद्रावैः सप्तधा भावितो यदि ।
हिङ्गुलः शुद्धतां याति निर्द्दोषो जायते खलु ॥
विम्ब्याभं हिङ्गुलं दिव्यं रसगन्धकसम्भवम् ॥
मेहकुष्ठहरं रुच्यं बल्यं मेधाग्निवर्द्धनम् ॥”
इति हिङ्गुलशुद्धिः ॥ * ॥
इति वैद्यकरसेन्द्रसारसंग्रहे जारणमरणाधि-
कारे ।) अथ हिङ्गुलाद्रसाकर्षणाविधिः ।
“निम्बरसैर्निम्बपत्ररसैर्वा याममात्रकम् ।
घृष्ट्वा दरदमूर्द्धं तु पातयेत् सूतयुक्तिवत् ॥
तत्रोर्द्ध्वपिठरीलग्नं गृह्णीयाद्रममुत्तमम् ।
शुद्धमेव हि तत् सूतं सर्व्वकर्म्मसु योजयेत् ॥”
इति च भावप्रकाशः ॥

हिङ्गुला, स्त्री, देशविशेषः । यथा, --

“ब्रह्मरन्ध्रं हिङ्गुलायां भैरवो भीमलोचनः ।
कोट्टरी सा महामाया त्रिगुणा या दिगम्बरी ॥”
इति तन्त्रचूडामणौ पीठमाला ॥ * ॥
अन्यच्च ।
“कन्या चोत्स्वेदसंजाता सासृग्विलिलिहे-
ऽद्भुता ।
ततस्तामाह बालार्कप्रभां भैरवमूर्त्तिमान् ॥
शङ्करो वरदो लोकश्रेयार्थाय वचो महत् ।
त्वां पूजयिष्यन्ति सुरा ऋषयः पितरस्तथा ॥
यक्षविद्याधराश्चैव मानवाश्च शुभङ्करि ! ।
त्वां स्तोष्यन्ति सदा देवि बलिपुष्पात्करैः करैः ॥
चर्च्चिकेति शुभं नाम यस्माद्रुधिरचर्च्चिता ॥
इत्येवमुक्ता वरदेन चर्च्चिका
भूतानुयाता हरिचर्म्मवासिनी ।
महीं समन्ताद्विचचार सुन्दरी
स्थलं गता हैङ्गुलमाद्यमुत्तमम् ॥”
इति वामनपुराणे ६७ अध्यायः ॥

हिङ्गुलिः, पुं, (हिङ्गु इव वर्णं लातीति । ला +

किः ।) हिङ्गुलः । इति जटाधरः ॥

हिङ्गुलिका, स्त्री, (हिङ्गुल इव वर्णोऽस्या अस्तीति ।

हिङ्गुल + ठन् ।) कण्टकारी । इति शब्द-
चन्द्रिका ॥ (कण्टकारीशब्देऽस्या विषयो
ज्ञातव्यः ॥)

हिङ्गुली, स्त्री, वार्त्ताकी । इत्यमरः । २ । ४ । ११४ ॥

वृहती । इति भावप्रकाशः ॥

हिङ्गुलुः, पुं, क्ली, हिङ्गुलः । इत्यमरः । ३ । ५ । २० ॥

(पर्य्यायोऽस्य यथा, --
“हिङ्गुले हिङ्गुलुर्याति दरदः शुकतुण्डकः ।
रसगन्धकसम्भूतो हिङ्गुलो दैत्यरक्तकः ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि-
कारे ॥)

हिङ्गुशिराटिका, स्त्री, (हिङ्गुल इव शिरां अट-

तीति । अट् + ण्वुल् । टापि अत इत्वम् ।)
वंशपत्री । इति रत्नमाला ॥

हिङ्गूलं क्ली, मधुमूलम् । इति शब्दचन्द्रिका ॥

आलु इति ख्यातम् ॥

हिज्जः, पुं, हिज्जलवृक्षः । इति शब्दचन्द्रिका ॥

हिज्जलः, पुं, (हिज्ज इति नाम लातीति ।

ला + कः ।) वृक्षविशेषः । हिजल इति वङ्ग-
भाषा । इजर इति हिन्दी भाषा । तत्पर्य्यायः ।
निचुलः २ इज्जलः ३ । इति हेमचन्द्रः ॥
पिचुलः ४ नदीकान्तः ५ अम्बुजः ६ । इति
जटाधरः ॥ धनदः ७ कान्तः ८ जलजः ९
दीर्घपत्रकः १० नदीलः ११ रक्तः १२
कार्म्मुकः १३ । अस्य गुणाः । कटुत्वम् ।
उष्णत्वम् । पवित्रत्वम् । भूतवातामयनानाग्रह-
चारादिदोषनाशित्वञ्च । इति राजनिर्घण्टः ॥
अपि च ।
“इज्जलो हिज्जलश्चापि निचुलश्चाम्बुजस्तथा ।
जलवेतसवद्वेद्यो हिज्जलोऽयं विषापहः ॥”
इति भावप्रकाशः ॥

हिञ्जीरः, पुं, हस्तिपादबन्धः । यथा,

“बिन्दूजालं पुनः पद्मं शृङ्खलो निगडोऽन्दूकः ।
हिञ्जीरश्च पादपाशो वारिस्तु गजबन्धभूः ॥”
इति हेमचन्द्रः ॥
पृष्ठ ५/५३७

हिडं, इ ङ गतौ अनादरे । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-सक०-सेट् ।) इ, हिण्ड्यते ।
ङ, हिण्डते । इति दुर्गादासः ॥

हिडिम्बः, पुं, राक्षसविशेषः । स भीमसेनेन हतः ।

इति महाभारतम् ॥ (एतद्विवरणन्तु तत्रैव
आदिपर्व्वणि १५३ अध्यायादारभ्य द्रष्टव्यम् ॥)
हिडम्ब इति च पाठः ॥

हिडिम्बजित्, पुं, (हिडिम्बं जितवानिति । जि +

क्विप् ।) भीमसेनः । इति त्रिकाण्डशेषः ॥

हिडिम्बनिसूदनः, पुं, (हिडिम्बं निसूदयतीति ।

नि + सूद + णिच् + ल्युः ।) भीमसेनः । इति
भूरिप्रयोगः ॥

हिडिम्बभित्, [द्] पुं, (हिडिम्बं भिनत्तीति ।

भिद् + क्विप् ।) भामसेनः । इति भूरिप्रयोगः ॥

हिडिम्बा, स्त्री, हिडिम्बराक्षसभमिनी । यथा, --

“हृष्ठो मानुषमांसस्य महाकायो महाबलः ।
आघ्राय मानुषं गन्धं भगिनीमिदमब्रवीत् ॥
उपपन्नश्चिरस्याद्य भक्ष्योऽयं मम सुप्रियः ।
स्नेहस्रवान् प्रस्रवति जिह्वा पर्य्येति मे मुखम् ॥
एवमुक्ता हिडिम्बा तु हिडिम्बेन तदा वने ।
भ्रातुर्व्वचनमाज्ञाय त्वरमाणेव राक्षसी ॥”
इति महाभारते आदिपर्व्वणि १५३ अध्यायः ॥
तद्गर्भे भीमसेनौरसेन घटोत्कचो जातः । यथा,
“प्रजज्ञे राक्षसी पुत्त्र भीमसेनान्महाबलम् ।
विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम् ॥
प्रणम्य विकचः पादावगृह्णात् स पितुस्तदा ।
मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः ॥
घटो हास्वोत्कच इति माता तं प्रत्यभाषत ।
अब्रवीत्तेन नामास्य घटोत्कच इति स्म ह ॥”
इति महाभारते आदिपर्व्वणि १५६ अः ॥

हिडिम्बापतिः, पुं, (हिडिम्बायाः पतिः ।) हनू-

मान् । इति शब्दरत्नावली ॥

हिडिम्बारमणः, पुं, (हिडिम्बाया रमणः ।) हनू-

मान् । इति त्रिकाण्डशेषः ॥

हिण्डनं, क्ली, (हिण्ड + ल्युट् ।) भ्रमणम् । रतम् ।

इति मेदिनी ॥ लेखनम् इति विश्वः ॥

हिण्डिकः, पुं, लग्नाचार्य्यः । इति हारावली ॥

हिण्डिरः, पुं, हिण्डीरः । इति शब्दरत्नावली ॥

हिण्डी, स्त्री, दुर्गा । इति त्रिकाण्डशेषः ॥

हिण्डीप्रियतमः, पुं, (हिण्ड्याः दुर्गायाः प्रिय-

तमः ।) शिवः । इति शब्दरत्नावली ॥

हिण्डीरः, पुं, (हिण्डते इतस्ततो गच्छतीति ।

हिण्ड + ईरन् । इत्युणादिवृत्तौ उज्ज्वलदत्तः ।
४ । ३० ।) समुद्रफेनः । इत्यमरः । २ । ९ ।
१०५ ॥ (यथा, साहित्यदर्पणे । १० । ६८३ ।
“एतद्विभाति चरमाचलचूडचूम्बि
हिण्डीरपिण्डरुचिशीतमरीचिविम्बम् ।
उज्ज्वालितस्य रजनीं मदनानलस्य
धूमं दधत्प्रकटलाच्छनकैतवेन ॥”)
वार्त्ताकुः । पुरुषः । इति मेदिनी ॥ रुचकम् ।
इत्युणादिकोषः ॥ (क्ली, दाडिमम् । इत्युज्ज्वल-
धृतहारावली । ४ । ३० ॥)

हितं, त्रि, (हि गतिप्रेरणे धा धारणे पुष्टौ वा +

क्तः ।) पथ्यम् । गतम् । धृतम् । इति मेदिनी ॥
इष्टसाधनम् । इति मुग्धबोधटीकायां दुर्गा-
दासः ॥ मङ्गलम् । यथा, --
“गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतो न यत् ।
सर्व्वसत्त्वहितार्थाय तत् पशोरिव चेष्टितम् ॥
अहितहितविचारशून्यबुद्धेः
श्रुतिसमयैर्बहुभिर्विवर्जितस्य ।
उदरभरणमात्रतुष्टबुद्धेः
पुरुष्लपशोः पशोश्च को विशेषः ॥”
इति गारुडे ११५ अध्यायः ॥
मित्रम् । यथा, --
“हितसमरिपुसंज्ञा ये निसर्गे निरुक्ता
अधिहितहितमध्यास्तेऽपि तत्कालमित्रैः ।”
इति ज्योतिस्तत्त्वम् ॥

हितकः, पुं, (हितमर्हतीति । हि + संज्ञायां

कन् ।) शिशुः । इति राजनिर्घण्टः ॥

हितकारी, [न्] त्रि, (हितं करोतीति । कृ +

णिनिः ।) मङ्गलकारकः । शुभकारकः ।
यथा, --
“लक्ष्मणेन च धर्म्मात्मन् ! भ्रात्रा तद्धितकारिणा ।
मातृभिर्भ्रातृसहितं पश्यामोऽद्य वयं नृप ! ॥”
इति श्रीरामायणे उत्तरकाण्डे १ सर्गः ॥

हितप्रणीः, पुं, (हितं प्रणयतीति । प्र + नी +

क्विप् ।) चारः । इति शब्दरत्नावली ॥

हितवादी, [न्] त्रि, हितकथनशीलः । सत्परा-

मर्शी । हितशब्दपूर्व्वकवदधातोर्णिन्प्रत्ययेन
निष्पन्नः ॥

हिताबली, स्त्री, (हितानां आवली यत्र ।)

औषधविशेषः । हियावली इति हिन्दी भाषा ।
तत्पर्य्यायः । हृद्गात्री २ कुष्ठघ्नः ३ अङ्गार-
कुष्ठकः ४ अङ्गारग्रन्थिः ५ ग्रन्थिः ६ ग्रन्थिलः
७ । अस्या गुणाः । सारकत्वम् । तिक्तत्वम् ।
प्लीहगुल्मोदरकृमिकुष्ठगदात्युग्रखर्ज्जुकण्डूतिना-
शित्वञ्च । इति राजनिर्घण्टः ॥

हितैषी, [न्] त्रि, (हितमिच्छतीति । इष +

णिनिः ।) हितेच्छाकारी । यथा, बृहद्राज-
मार्त्तण्डे ।
“यात्राविवाहब्रतबन्धवेश्म-
प्रासादचूडाकरणं हितैषी ।
नष्टे भृगौ नोपदिशेन्नराणां
देवप्रतिष्ठामपि कर्णवेधम् ॥”
इति मलमासतत्त्वम् ॥

हितोक्तिः, स्त्री, (हितस्य उक्तिः ।) पथ्यवच-

नम् । इति धनञ्जयः ॥

हितोपदेशः, पुं, (हितानामुपदेशः ।) सत्परा-

मर्शदानम् । यथा, महाभारते । १ । २ । १०१ ।
“हितोपदेशश्च पथि धर्म्मराजस्य धीमतः ।
विदुरेण कृतो यत्र हितार्थं म्लेच्छभाषया ॥”
हितानामुपदेशो यत्र ।) विष्णुशर्म्मकृतमित्र-
लाभसुहृद्भेदविग्रहसन्धिनामकथाचतुष्टयात्मक-
नीतिशास्तम् । यथा, --
“सिद्धिः साध्ये सतामस्तु प्रसादात्तस्य धूर्जटेः ।
जाह्नवीफेनरेखेव यन्मूर्द्ध्नि शशिनः कला ॥
श्रुतो हितोपदेशोऽयं पाटवं संस्कृतोक्तिषु ।
वाचां सर्व्वत्र वैचित्र्यं नीतिविद्यां ददाति च ॥”
इति हितोपदेशप्रथमश्लोकद्वयम् ॥

हिन्तालः, पुं, वृक्षविशेषः । हेँताल इति भाषा ।

तस्य फलं उद्वेगम् । इत्यमरः । २ । ४ । १६९ ॥
तत्पर्य्यायः । पूगरोटः २ । तत्फलम् किरिटि ।
इति त्रिकाण्डशेषः ॥ * ॥ तस्य पर्य्यायान्तरं
गुणाञ्च ।
“हिन्तालः स्थूलतालश्च बन्धपत्रो बृहद्दलः ।
स्थिरपत्रो द्विधालेख्यः शिरापत्रोऽस्थिराङ्घ्रिकः ॥
गर्भस्रावी नीलतालो भीषणो बहुकण्टकः ।
अम्लसारो बृहत्तालः स्याच्चतुर्द्दशधाभिधः ॥
हिन्तालो मधुराम्लश्च कफकृत् पित्तदाहनुत् ।
श्रमतृष्णापहारी च शिशिरो वातदोषकृत् ॥”
इति राजनिर्घण्टः ॥
(व्यवहारोऽस्य यथा, --
“गुडूचीबालहिन्तालवानरीनीलझिण्टिकाः ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे कुष्ठाधिकारे
माणिक्यरसे ॥) स तु तृणराजविशेषः । यथा,
क्रियाकौमुद्यां वशिष्ठः ।
“गुवाकतालहिन्तालास्तथा ताडी च केतकी ।
खर्ज्जूरनारिकेलौ च सप्तैते तृणराजकाः ॥
तृणराजशिरापत्रैर्यः कुर्य्याद्दन्तधावनम् ।
तावद्भवति चण्डालो यावद्गां नैव पश्यति ॥”
इत्याह्निकाचारतत्त्वम् ॥

हिन्दुः, पुं, (हीनं दूषयतीति । दुष + डुः ।

पृषोदरादित्वात् साधुः ।) जातिविशेषः । हिँदु
इति भाषा । यथा, --
“पश्चिमाम्नायमन्त्रास्तु प्रोक्तः पारस्यभाषया ।
अष्टोत्तरशताशीतिर्येषां संसाधनात् कलौ ॥
पञ्च खानाः सप्त मौरा नव शाहा महाबलाः ।
हिन्दुधर्म्मप्रलोप्तारो जायन्ते चक्रवर्त्तिनः ॥
हीनञ्च दूषयत्येव हिन्दुरित्युच्यते प्रिये ! ॥
पूर्ब्बाम्नाये नवशतं षडशीतिः प्रकीर्त्तिताः ।
फिरङ्गभाषया मन्त्रास्तेषां संसाधनात् कलौ ॥
अधिपा मण्डलानाञ्च संग्रामेष्वपराजिताः ।
इंरेजा नव षट् पञ्च लण्ड्रजाश्चापि भाविनः ॥”
इति मेरुतन्त्रे ३३ प्रकाशः ॥

हिन्दोलः, पुं, (हिन्दोल + घञ् ।) श्रावणशुक्ल-

पक्षविहितभगवद्यात्राविशेषः । झुलनयात्रा
इति यस्य प्रसिद्धिः । षड्रागान्तर्गतराग-
विशेषः । हिँडोल इति हिन्दी भाषा । यथा,
“भैरवः कौशिकश्चैव हिन्दोलो दीपकस्तथा ।
श्रीरागो मेघरागश्च षडेते पुरुषाह्वयाः ॥”
अस्य स्त्रियः ।
“वेलावती रामकली देशाख्या पटमञ्जरी ।
ललिता सहिता एता हिन्दोलस्य वराङ्गनाः ॥”
अथ हिन्दोलध्यानम् ।
“नितम्बनीमन्दतरङ्गितासु
दोलासु खेलासुखमादधानः ।
पृष्ठ ५/५३८
खर्व्वः कपोलद्युतिकामयुक्तो
हिन्दोलरागः कथितो मुनीन्द्रैः ॥”
तत्पुत्त्रा यथा, सङ्गीतदर्पणे ।
“आभीरः शुभ्रधवलौ चन्द्रकासविमोहकाः ।
चन्द्रकान्तः स्नेहवेदः हिन्दोलात्मजकीर्त्तितः ॥”
तस्य गानसमयो यथा, --
“हिन्दोलः पञ्चमः सिन्धुर्ललितश्च वसन्तकः ।
भखारी भटीयारो च आद्ययामे प्रगीयते ॥”
इति बृहत्सङ्गीतरत्नाकरः ॥ * ॥
हनूमन्मते षड्रागाणां मध्ये द्वितीयरागः ।
ब्रह्मणः शरीरान्निर्गतः । केचिन्मते नाभितः ।
अस्य जातिः औडवः । अर्थात् ष ग म प नि
इति पञ्चस्वरमिलितः । अस्य गृहं षड्जस्वरः ।
वसन्तर्त्तौ दिवाप्रथमभागे गानसमयः । राग-
मालायामस्य रूपम् । अल्पवयःसुन्दरः पीत-
वर्णः उत्तमाङ्गः स्वर्णमयहिन्दोलारूढः सुस-
ज्जितसुन्दरीस्त्रोभिः गीतं गायन्तीभिः हिन्दो-
लाद्योलयन्तीभिश्च सह परमानन्देन हास्य-
कौतुककारी । अस्य पञ्च रागिण्यः । यथा ।
रामकरी १ देशाखी २ ललिता ३ विलावली ४
पटमञ्जरी ५ । अस्य पुत्त्रा अष्टौ यथा । चन्द्र-
विम्बः १ मङ्गलः २ शुभः ३ आनन्दः ४
विनोदः ५ प्रधनः ६ गौरः ७ विभासः ८ ॥ * ॥
भरतमते अस्य रागिण्यो यथा । रामकली १
मालावती २ आशावरी ३ देवारी ४ गुण-
कली ५ । तन्मते पुत्त्रा यथा । वसन्तः १
मालवः २ मारुः ३ कुशलः ४ शखारवन्दः ५
लङ्कादाहनः ६ नागधुनः ७ धवलः ८ । एषां
भार्य्या यथा । लीलावती १ केरवी २ चयती ३
पूरवी ४ पारावती ५ तिरवणी ६ देवगिरी ७
सुरसती ८ । इति सङ्गीतशास्त्रम् ॥

हिन्दोलकः, पुं, (हिन्दोल एव । कन् ।) यान-

विशेषः । तत्पर्य्यायः । प्रेङ्खा २ दोला ३ । इति
जटाधरः ॥ दोलिका ४ हिन्दोला ५ । इति
हारावली ॥

हिन्दोला, स्त्री, (हिन्दोल + घञ् + टाप् ।)

दोलिका । हेँदला इति भाषा । इति हारा-
वली ॥

हिमं, त्रि, (हन्ति उष्माणमिति । हन + “हने-

र्हि च ।” उणा० १ । १४६ । इति मक् हि च ।)
शीतगुणविशिष्टः । शीतलवस्तु । तत्पर्य्यायः ।
सुषीमः २ शिशिरः ३ जडः ४ तुषारः ५
शीतलः ६ शीतः ७ । इत्यमरः । १ । ३ । १९ ॥
(यथा, सुश्रुते । ४ । २८ । “अपराह्णे हिमाभि-
रद्भिः परिषिक्तगात्रः शालीनां षष्टीकानाञ्च
पयसा शर्करामधुरेणौदनमश्नीयात् ॥”)

हिमं, क्ली, (हन + मक् । हन्तेर्हि च ।) अकाश-

वाष्पः । तत्पर्य्यायः । अवश्यायः २ नीहारः ३
तुषारः ४ तुहिनम् ५ प्रालेयम् ६ महिमा ७ ।
इत्यमरः । १ । ३ । १८ ॥ इन्द्राग्निधूमः ८
खवाष्पः ९ रजनीजलम् १० । इति हारावली ॥
यथा, रघुः । ८ । ४५ ।
“अथवा मृदुवस्तु हिंमितुं
मृदुनैवारभते प्रजान्तकः ।
हिमसेकविपत्तिरत्र मे
नलिनी पूर्ब्बनिदर्शनं मता ॥”)
अस्य गुणः । कफवायुवद्धकत्वम् । इति राज-
वल्लभः ॥ चन्दनम् । इति मेदिना ॥ पद्मकाष्ठम् ।
रङ्गम् । मौक्तिकम् । इति राजनिर्घण्टः ॥
नवनीतम् । इति शब्दचन्द्रिका ॥ शीतम् । इति
हेमचन्द्रः ॥ (कर्पूरः । पर्य्यायो यथा, --
“पुंसि क्लीवे च कर्पूरः सिताभ्रो हिमबालुकः ।
घनसारश्चन्द्रसंज्ञः हिमनामापि स स्मृतः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

हिमः, पुं, (हन + मक् हन्तेर्हि च ।) चन्दनवृक्षः ।

इति हेमचन्द्रः । चन्द्रः । इति शब्दचन्द्रिका ॥
कर्पूरः । इति राजनिर्घण्टः ॥ हेमन्तर्त्तुः ।
स तु अग्रहायणपौषमासात्मकः । यथा, --
“हिमशिशिरवसन्तग्रीष्मवर्षाशरत्सु
स्तनतपनवनाम्भोहर्म्यगोक्षीरपानैः ।
सुखमनुभव राजंस्तद्द्विषो यान्तु नाशं
दिवसकमललज्जाशर्व्वरीरेणुपङ्काः ॥”
इति ऋतुसंहारः ॥
हिमालयपर्व्वतः । इति हिमजादिशब्ददर्श-
नात् ॥

हिमकः, पुं, (हिमेन कायतीति । कै + क ।)

विकङ्कतवृक्षः । इति राजनिर्घण्टः ॥

हिमकरः, पुं, (हिमः शीतलः करः किरणो यस्य ।)

चन्द्रः । यथा, --
“दृशा द्राघीयस्या दरदरितनीलोत्पलरुचा
दवीयांसं दीनं स्नपय कृपया मामपि शिवे ! ।
अनेनायं धन्यो भवति न च ते हानिरियता
वने वा हर्म्म्ये वा समकरनिपातो हिमकरः ॥”
इत्यानन्दलहरी ॥
कर्पूरः । इति राजनिर्घण्टः ॥

हिमकूटः, पुं, (हिमस्य कूटो यत्र ।) शिशरर्त्तुः ।

इति राजनिर्घण्टः ॥ (हिमस्य कूट इति ।
हिमालयशृङ्गे, पुं, क्ली ॥ यथा, भागवते । ५ ।
१७ । ९ । “तथैवालकनन्दा दक्षिणेन ब्रह्म-
सदनाद् बहूनि परिकूटान्यतिक्रम्य हेमकूट-
हिमकूटान्यतिरभसतररंहा लुण्ठतीति ॥”)

हिमगिरिः, पुं, (हिमप्रधानो गिरिः ।) हिमा-

लयपर्व्वतः । यथा, --
“धनुः पीष्पं मौर्व्वी मधुकरमयी पञ्च विशिखा
वसन्तः सामन्तो मलयमरुदायोधनरथः ।
तथाप्येकः सर्व्वं हिमगिरिसुते ! कामपि कृपा-
मपाङ्गात्ते लब्ध्वा जगदिदमनङ्गो विजयते ॥”
इत्यानन्दलहरी ॥
(यथा च ।
“आग्नेया बिन्ध्यशैलाद्याः सौम्यो हिमगिरि-
मतः ॥”
इति पूर्ब्बखण्डे द्वितीयेऽध्याये शार्ङ्गधरेणोक्तम् ॥)

हिमजः, पुं, (हिमात् हिमालयात् जायते इति ।

जन + डः ।) मैनाकगिरिः । इति मेदिनी ॥

हिमजा, स्त्री, (हिमात् हिमालयात् जायते

इति । जन + डः । टाप् ।) पार्व्वत्नी । शटी ।
इति मेदिनी ॥ क्षीरिणी । इति राजनिर्घण्टः ॥

हिमज्झटिः, पुं, (हिमानां कुज्झटिः । पृषो-

दरादित्वात् साधुः ।) कुज्झटिः । इति हारा-
वली ॥ क्वचित् पुस्तके हिमझण्टिरिति पाठः ॥

हिमतैलं, क्ली, (हिमजातं तैलमिति ।) कर्पूर-

तैलम् । इति राजनिर्घण्टः ॥

हिमदुग्धा, स्त्री, (हिमवत् शुभ्रं दुग्धमस्याः ।)

क्षीरिणी । इति राजनिर्घण्टः ॥

हिमदुर्दिनं, क्ली, (हिमेन दुर्द्दिनम् ।) हिम-

समूहपातेन दुःखदायकदिनम् । तत्पर्य्यायः ।
पत्रहिमम् २ । इति त्रिकाण्डशेषः

हिमद्युतिः, पुं, (हिमा द्युतिर्यस्य ।) चन्द्रः ।

इति शब्दमाला ॥ (यथा, माघे । ९ । १२ ।
“अविभाव्यतारकमदृष्टहिम-
द्युतिविम्बमस्तमितभानुनभः ॥”)

हिमद्रुमः, पुं, (हिमो द्रुमः ।) महानिम्बः ।

इति राजनिर्घण्टः ॥

हिमधातुः, पुं, (हिमो धातुरिव यत्र ।) हिमा-

लयपर्व्वतः । इति केचित् ॥

हिमप्रस्थः, पुं, (हिमप्रधानः प्रस्थो यत्र ।) हिमा-

लयः । इति हेमचन्द्रः ॥

हिमवत्सुतः, पुं, (हिमवतः सुतः ।) मैनाक-

पर्व्वतः । इति त्रिकाण्डशेषः ॥

हिमवत्सुता, स्त्री, (हिमवतः सुता ।) गङ्गा ।

इति धनञ्जयः ॥ (यथा, महाभारते । ३ । १० । ९ । ८ ।
“ततः पपात गगनाद गङ्गा सा हिमवत्सुता ॥”)
उमा च ।

हिमवान्, [त्] पुं, (हिममस्यास्तीति । हिम +

मतुप् । मस्य वः ।) हिमालयपर्व्वतः । इत्य-
मरः । २ । ३ । ३ ॥ तत्कन्या गङ्गा । यथा, --
“मङ्गा हिमवतो जज्ञे सर्व्वलोकैकपावनी ।
स्वयोगाग्निबलाद्देवी लेभे पुत्त्रीं महेश्वरीम् ॥”
इति देवीपुराणे १२ अध्यायः ॥
हिमविशिष्टे, त्रि ॥

हिमवालुकः, पुं, (हिमस्य वालुका इव ।)

कर्पूरः । इति राजनिर्घण्टः ॥ (पर्य्यायोऽस्य-
यथा भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।
“पुंसि क्लीवेच कर्पूरः सिताभ्रो हिमवालुकः ।
घनसारश्चन्द्रसंज्ञः हिमनामापि सः स्मृतः ॥”)

हिमवालुका, स्त्री, (हिमस्य वालुकेव ।) कर्पूरः ।

इत्यमरः । २ । ६ । १३० ॥ (यथा, --
“प्रनीरनीरं हिमवालुका च
मित्रं नृणां स्यात् सति मूत्रकृच्छ्रे ॥”
इति वैद्यकपथ्यविधौ मूत्रकृच्छ्राधिकारे ॥)

हिमशर्करा, स्त्री, (हिमस्य शर्करेव ।) याव-

नाली । इति राजनिर्घण्टः ॥

हिमशैलजा, स्त्री, (हिमशैलात् जायते इति ।

जन + डः ।) दुर्गा । इति शब्दरत्नावली ॥
(हिमालयोद्भवे, त्रि । यथा, याज्ञवल्क्ये । २ । १११
“एवमुक्त्रा विषं शार्ङ्गं भक्षयेत् हिमशैलजम् ॥”)
पृष्ठ ५/५३९

हिमसंहतिः, स्त्री, (हिमानां संहतिः ।) हिम-

समूहः । वरफ् इति पारस्यमाषा । तत्पर्य्यायः ।
हिमानी २ । इत्यमरः । १ । ३ । १८ ॥ मह-
द्धिमम् ३ । इति जटाधरः ॥

हिमहासकः, पुं, (हिममपि हसति शीलतत्वात् ।

हस + ण्वुल् । हिन्तालवृक्षः । इति शब्द-
रत्नावली ॥

हिमा, स्त्री, (हिम + अर्श आद्यच् । टाप् ।)

सूक्ष्मैला । रेणुका । भद्रमुस्ता । नागरमुस्ता ।
पृक्का । चणिका । इति राजनिर्घण्टः ॥

हिमांशुः, पुं, (हिमा अंशवो यस्य ।) चन्द्रः ।

इत्यमरः । १ । ३ । १३ ॥ (यथा, रघु । ५ । १६ ।
“पर्य्यायपीतस्य सुरैर्हिमांशोः
कलाक्षयः श्लाघ्यतरो हि वृद्धेः ॥”)
कर्पूरः । इति राजनिर्घण्टः ॥

हिमांश्वभिख्यं, क्ली, (हिमांशोरिव अभिख्या

शोभा यस्य ।) रौप्यम् । इति हेमचन्द्रः ॥

हिमागमः, पुं, (हिमस्य आगमो यत्र ।)

हेमन्तः । इति राजनिर्घण्टः ॥ (यथा, महा-
भारते । ५ । ८३ । ७ ।
“कौमुदे मासि रेवत्यां शरदन्ते हिमागमे ।
स्फीतशस्यसुखे काले कल्यः सत्यवतां वरः ॥”)

हिमाद्रिः, पुं, (हिमप्रधानोऽद्रिः ।) हिमालय-

पर्व्वतः । इति भूरिप्रयोगः ॥ (यथा, रघुः ।
४ । ७९ ।
“परस्परेण विज्ञातस्तेषूपायनपाणिषु ।
राज्ञा हिमवतः सारो राज्ञः सारो हिमा-
द्रिणा ॥”)

हिमाद्रिजा, स्त्री, (हिमाद्रौ जायते इति । जन +

डः ।) क्षीरिणी । इति राजनिर्घण्टः ॥
पार्व्वती च ॥ (यथा, वक्रोक्तिपञ्चाशिका-
याम् । १ ।
“मैवं वक्ष्यसि किं वनं ननु जलं मूर्द्ध्ना मयै-
वोह्यते
वक्रोक्त्येति हिमाद्रिजामवचसं कुर्व्वन् हरः
पातु वः ॥”)

हिमाद्रितनया, स्त्री, (हिमाद्रेस्तनया ।) दुर्गा ।

इति वक्ष्यमाणशब्ददर्शनात् ॥

हिमाद्रितनयापतिः, स्त्री, (हिमाद्रितनयाया

दुर्गायाः पतिः) शिवः । इति कविकल्पलता ॥

हिमानी, स्त्री, (महद्धिममिति । “हिमारण्ययो-

र्महत्त्वे ।” ४ । १ । ४९ । इत्यस्य वार्त्तिकोक्त्या
ङीष् आनुक् च ।) हिमसंहतिः । इत्यमरः ।
१३ । १८ ॥ (यथा, राजतरङ्गिण्याम् । १ । १८० ।
“हिमान्यां बौद्धवाधाय पतन्त्यां प्रतिवत्सरम् ।
शीते दार्व्वाभिमारादो षण्मासान् पार्थिवो
ऽवसत् ॥”)
यावनालशर्करा । इति राजनिर्घण्टः ॥

हिमाब्जं, क्ली, (हिमे हेगन्ते जातं अब्जम् ।)

उत्पलम् । इति राजनिर्घण्टः ॥

हिमारातिः, पुं, (हिमस्य अरातिः ।) अग्निः ।

मूर्य्यः । इति मेदिनी ॥ चित्रकवृक्षः । अर्क-
वृक्षः । इत्यमरे वह्निसंज्ञकार्काह्वशब्दयोर्दर्श-
नात् ॥

हिमालयः, पुं, (हिमस्य आलय इव शुक्लत्वात् ।)

शुक्लखदिरः । इति शब्दचन्द्रिका ॥ (हिमा-
नामालयः ।) स्वनामख्यातपर्व्वतः । तत्पर्य्यायः ।
नगपतिः २ मेनाधवः ३ उमागुरुः ४ । इति
त्रिकाण्डशेषः ॥ हिमाद्रिः ५ नगाधिपः ६ ।
इति जटाधरः ॥ उदगद्रिः ७ अद्रिराट् ८
मेनकाप्राणेशः ९ हिमवान् १० हिमप्रस्थः ११
भवानीगुरुः १२ । इति हेमचन्द्रः ॥ (यथा,
कुमारे । १ । १ ।
“अस्त्युत्तरस्यां दिशि देवतात्मा
हिमालयो नाम नगाधिराजः ।
पूर्व्वापरौ तोयनिधी वगाह्य
स्थितः पृथिव्या इव मानदण्डः ॥”)
स तु लङ्काया उत्तरे वर्त्तते । भारतवर्षस्य
सीमापर्व्वतोऽयम् । अस्य दीर्घे दशसहस्रयोज-
नानि । प्रस्थे द्विसहस्रयोजनानि । यथा, --
“एवं दक्षिनेनेलावृतं निषधो हेमकूटो हिमा-
लयः इति प्रागायता यथा नीलादयः । अयुत-
योजनोत्सेधा हरिवर्षकिंपुरुषभारतानां यथा-
संख्यम् ।” इति श्रीभागवते ५ स्कन्धे १६ अः ॥

हिमालयसुता, स्त्री, (हिमालयस्य सुता ।)

उमा । इति कविकल्पलता ॥

हिमालया, स्त्री, (हिमस्य शीतस्य आलयो

यत्र ।) भूम्यामली । इति राजनिर्घण्टः ॥

हिमावती, स्त्री, स्वर्णक्षीरी । इत्यमरः । २ । ४ ।

१३८ ॥ (पर्य्यायो यथा, --
“कटुपर्णी हैमवती हेमक्षीरी हिमावती ।
हेमाह्वा पीतदुग्धा च तन्मूलञ्चोकमुच्यते ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

हिमाह्वः, पुं, (हिममपि आह्वयते स्पर्द्धते वर्णे-

नेति । ह्वे + कः ।) कर्पूरः । इति केचित् ॥
(वर्षविशेषः । यथा, मार्कण्डेये । ५३ । ४० ।
“हिमाह्वं दक्षिणं वर्षं तस्य नाम्ना महात्मनः ॥”

हिमाह्वयः, पुं, (हिममाह्वयते स्पर्द्धते वर्णेनेति ।

आ + ह्वे + अच् । हिमस्य आह्वा आह्वा
यस्येति वा ।) कर्पूरः । इति त्रिकाण्डशेषः ॥
(वर्षविशेषः । यथा, मार्कण्डेये । ५३ । ३६ ।
“यानि किं पुरुषाख्यानि वर्ज्जयित्वा हिमह्वा
यम् ।
तेषां स्वभावतः सिद्धिः सुखप्राया ह्ययत्नतः ॥”)

हिमाश्रया, स्त्री, (हिमस्य शीतलस्य आश्रयो

यस्याः ।) स्वर्णजीवन्ती । इति राजनिर्घण्टः ॥

हिमिका, स्त्री, तृणोपरि पतितहिमम् । इति

केचित् ॥

हिमेलुः, त्रि, (हिमं न सहते इति । हिम +

“तन्न सहते इति हिमाच्चेलुः ।” ५ । २ । १२२ ।
इत्यस्य वार्त्तिकोक्त्या इलुः ।) हिमक्लेशितः ।
हिमार्त्तः । इति केचित् ॥

हिमोत्तरा, स्त्री, (हिमः उत्तरो यस्याः ।)

कपिलद्राक्षा । इति राजनिर्घण्टः ॥

हिमोत्पन्ना, स्त्री, (हिमे हिमप्रधाने उत्पन्ना ।)

यावनाली । इति राजनिर्घण्टः ॥

हिमोद्भवा, स्त्री, (हिमे हेमन्ते उद्भवो यस्याः ।)

शटी । इति राजनिर्घण्टः ॥

हिम्यः, त्रि, हिमभवः । हिमशब्दात् यत्प्रत्ययेन

निष्पन्नः । इति सिद्धान्तकौमुदी । ५ । २ । १२० ॥

हिरङ्गुः, पुं, राहुः । इति केचित् ॥

हिरणं, क्ली, रेतः । स्वर्णम् । वराटकः । इति

मेदिनी ॥

हिरण्मयं क्ली, (हिरण्यस्य विकारः । हिरण्य +

मयट् । “दाण्डिनायनहास्तिनायनेति ।” ६ । ४ ।
१७४ । इति निपातितः ।) भारतवर्षादिनव-
वर्षान्तर्गतवर्षविशेषः । इति त्रिकाण्डशेषः ॥
तद्धिवरण यथा । उत्तरोत्तरेणेलावृतं नीलः
श्वेतः शृङ्गवान् इति त्रयो रम्यकहिरण्मय-
कुरूणां वर्षाणां मर्य्यादागिरयः प्रागायता
उभयतः क्षारोदावधयो द्विसहस्रयोजनपृथव
एकैकशः पूर्ब्बस्मात् पूर्ब्बस्मात्तदुत्तरोत्तरो दशां-
शाधिकांशेन दैर्घ्य एव ह्रसन्ति । इति श्रीभाग-
वते ५ स्कन्धे १६ अध्यायः ॥

हिरण्मयः, पुं, (हिरण्य + मयट् ।) ब्रह्मा ।

सुवर्णमये, त्रि । इति मेदिनी ॥ (यथा, भट्टिः ।
२ । ४७ ।
“हिरण्मयी शाललतेव जङ्गमा
च्युता दिवः स्थास्नुविराचिरप्रभा ॥”)

हिरण्यं, क्ली, (हर्य्यति दीप्यते इति । हर्य्य गति-

कान्त्योः + “हर्य्यतेः कन्यन् हिर च ।” उणा ०
५ । ४४ । इति कन्यन् । हिरादेशश्च धातोः ।)
सुवर्णम् । (यथा, मनुः । २ । २४६ ।
“क्षेत्रं हिरण्यं गामश्वं छत्रोपानहमासनम् ।
धान्यं शाकञ्च वासांसि गुरवे प्रीतिमावहेत् ॥”)
तद्वैदिकपर्य्यायाः । हेम १ चन्द्रम् २ रुक्मम् ३
अयः ४ हिरण्यम् ५ पेशः ६ कृशनम् ७
लोहम् ८ कनकम् ९ काञ्चनम् १० भर्म्म ११
अमृतम् १२ मरुत् १३ दत्रम् १४ जातरूपम्
१५ । इति पञ्चदश हिरण्यनामानि । इति
वेदनिर्घण्टौ १ अध्यायः ॥ धुस्तूरम् । इत्य-
मरः । २ । ९ । ९४ ॥ रेतः । द्रव्यम् । वराटः ।
अक्षयम् । मानभेदः । अकुप्यम् । इति मेदिनी ॥
रजतम् । धनम् । इति शब्दरत्नावली ॥ (पुं,
गुग्गुलुविशेषः । तत्प्रकारो यथा, --
“महिषाक्षो महानीलः कुमुदः पद्म इत्यपि ।
हिरण्यः पञ्चमो ज्ञेयो गुग्गुलोः पञ्च जातयः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

हिरण्यकशिपुः, पुं, दैत्यविशेषः । स तु कश्यपस्य

दित्यां पत्न्यां जातः । तस्य सहोदरः हिर-
ण्याक्षः । तस्य भार्य्या कयाधुः । तस्य पुत्त्राः
संह्रादः १ अनुह्रादः २ ह्रादः ३ प्रह्रादः ४ ।
कन्या सिंहिका । इति श्रीभागवतम् ॥ अपि च ।
“त्वया यौ निहतौ देव ! दानवौ मधुकैटभौ ।
अवतीर्णौ पुनर्दैत्यौ भूत्वा कश्यपनन्दनी ।
हिरण्यकशिपुश्चैव हिरण्याक्षो महासुरः ॥
पृष्ठ ५/५४०
सुदुर्जयोद्धतौ तौ तु पुनर्जातौ महाबलौ ।
पुलस्त्यस्य कुले देव ! राक्षसेन्द्रावरौ च तौ ॥
तयोलु पादविन्यासमसहन्ती जनार्दन ! ।
तवान्तिकमनुप्राप्ता दशास्यकुम्भकर्णयोः ॥”
इति वह्निपुराणे वैश्रवणवरप्रदाननामाध्यायः ॥
तदुत्पत्त्यादि यथा, --
“दित्याः पुत्त्रद्वथं जज्ञे कश्यपादिति नः श्रुतम् ।
हिरण्याक्षश्च दुर्द्धर्षो हिरण्यकशिपुस्तथा ॥
कश्यपस्याश्रमोऽप्यासीत् पुण्ये वै पुष्करे पुरा ।
ऋषिभिर्देवताभिश्च गन्धर्व्वैरुपशोभितः ॥
आसनान्युपकॢप्तानि काञ्चनानि तु पञ्च वै ।
ऋषीणामृत्विजां ते वै उपविष्टा यथाक्रमात् ॥
होतुस्तत्रासनं यत्तु हविस्तत्राथ जुह्वतः ।
अन्तर्व्वत्नी दितिश्चैव पत्नी च समुपागता ॥
दशवर्षसहस्राणि गर्भस्तस्यामवर्त्तत ।
स तु गर्भो विनिःसृत्य मातुर्वै उदरात्तदा ॥
निषसादासने गर्भः कश्यपस्यापि सन्निधौ ।
तं दृष्ट्वा मुनयस्तस्य नामाकुर्व्वन्त तद्धितम् ।
हिरण्यकशिपुस्तस्मात् कर्म्मणानेन स स्मृतः ।
हिरण्याक्षोऽनुजस्तस्य सिंहिका च तथानुजा ।
राहोः सा जननी देवी विपचित्तेः परिग्रहः ।
हिरण्यकशिपुर्दैत्यश्चकार परमं तपः ।
ततो वर्षसहस्राणि निराहारो ह्यधःशिराः ॥
तं ब्रह्मा छन्दयामास दैत्यं तुष्टो वरेण तु ।
सर्व्वामरत्वं वव्रे स शस्त्रास्त्रैर्न दिवा निशि ॥
अहं सर्व्वं विनिर्जित्य सर्व्वदेवत्वमास्थितः ।
अणिमादिगुणैश्वर्य्यमेष मे दीयतां वरः ॥
तेनैवमुक्तो ब्रह्मा तु तस्मै दत्त्वा यथेप्सितम् ।
दत्त्वा चास्य सभां दिव्यां तत्रैवान्तरधीयत ॥
हिरण्यकशिपुर्दैत्यः श्लोकैर्गौतः पुरातनः ॥
राजा हिरण्यकशिपुर्दैत्यो यां यां निषेवते ।
तस्यां तस्यां नमश्चक्रुर्देवता ऋषिभिः सह ॥
एवं प्रभावो दैत्योऽभूत् हिरण्यकशिपुः पुरा ॥
स्वयमग्निश्च सूर्य्यश्च वायुरिन्द्रो जलं स्वयम् ।
भूत्वा चकार राज्यं स मन्वन्तरचतुर्दश ॥
तस्यासीत् नरसिंहस्तु गृत्युर्विष्णुः पुरा किल ।
नखैस्तेन विनिर्भिन्नो नार्द्रशुष्का नखाः
स्मृताः ॥
हिरण्याक्षसुताः पञ्च विक्रान्ताः सुमहाबलाः ।
हिरण्यकशिपोः पुत्त्राश्चत्वारः सुमहाबलाः ॥
प्रह्रादः पूर्ब्बजस्तेषामनुह्रादस्तथैव च ।
संह्रादश्चैव ह्रादश्च ह्रादपुत्त्रान् शृणुष्व तान् ॥”
इति वह्निपुराणे कश्यपीयप्रजामर्गनामाध्यायः ॥

हिरण्यकशिपुहा, [न्] पुं, (हिरण्यकशिषुं हत-

वानिति । हन् + क्विप् ।) विष्णुः । इति हेम-
चन्द्रः ॥

हिरण्यकामधेनुः, स्त्री, (हिरण्यनिर्म्मिता काम-

धेनुर्यत्र ।) षाडशमहादानान्तर्गतमहादान-
विशेषः । यथा, --
मत्स्य उवाच ।
“अथातः संप्रवक्ष्यामि कामधेनुविधिं परम् ।
सर्व्वकामप्रदं नॄणां महापातकनाशनम् ॥
लोकेशावाहनं तद्वद्धोमकार्य्याधिवासनम् ।
तुलापुरुषवत् कार्य्यं कुण्डमण्डपवेदिकम् ॥
स्वल्पेष्वेकाग्निवत् कुर्य्याद्गुरुरेकः समाहिताः ।
काञ्चनस्यातिशुद्धस्य धेनुं वत्सञ्च कारयेत् ॥
उत्तमा पलसाहस्रा तदर्द्धेन तु मध्यमा ।
कनोयसो तदर्द्धेन कामधेनुः प्रकीर्त्तिता ।
शक्तितस्त्रिपलादूर्द्ध्वं अशक्तोऽपीह कारयेत् ॥
वेद्यां कृष्णाजिन न्यस्य गुडपस्थसमन्वितम् ।
न्यसेदुपरि तां धेनुं महारत्नैरलङ्कताम् ॥
कुम्भाष्टकसमोपेतां नानाफलसमन्विताम् ।
तथाष्टादशधान्यानि समन्तात् परिकल्पयेत् ॥
इक्षुदण्डाष्टक तद्वत् नासाफलविभूषितम् ।
भाजनञ्चासनं तद्वत्ताम्रदोहनकं तथा ॥
कौषेयवस्त्रद्वयमंप्रयुक्तां
दीपातपत्राभरणाभिरामाम् ।
सचामरां कुण्डलिनीं सघण्टां
मणित्रिकां चन्द्रकरौप्यपादाम् ॥
सरैश्च सर्व्वैः पुरतोऽभिजुष्टां
हरिद्रया पुष्पफलैरनेकैः ।
अजाजिकुस्तुम्बुरुशर्कराभि-
र्व्वितानकञ्जोपरि पञ्चवर्णम् ॥
स्नानं ततो मङ्गलवेदघोषैः
प्रदक्षिणीकृत्य स पुष्पहस्तः ।
आवाहयेत् तां गुडधेनुमन्त्रै-
र्द्विजाय दद्यादथ दर्भपाणिः ॥
त्वं सर्व्वदेवगणमन्दिरमङ्गभूता
विश्वेश्वरत्रिपथगोदधिपर्व्वतानाम् ।
त्वद्दानशस्त्रशकलीकृतपातकौघः
प्राप्तोऽस्मि निर्व्वृतिमतीव परां नमामि ॥
लोके यथेप्सितफलार्थविधायिनीं त्वा-
मासाद्य को हि भवदुःखमुपैति मर्त्यः ।
संसारदुःखशमनाय यतस्व कामं
त्वां कामधेनुमिति वेदविदो वदन्ति ॥
आमन्त्र्य शीलकलरूपगुणान्विताय
विप्राय यः कनकधेनुमिमां प्रदद्यात् ।
प्राप्नोति धाम स पुरन्दरदेहजुष्टं
कन्यागणैः परिवृतः पदमिन्दुमौलेः ॥”
इति मात्स्ये हिरण्यकामधेनुप्रदानिको नाम
२५३ अध्यायः ॥

हिरण्यकोषः, पुं, (हिरण्यस्य कोष इव ।) कृता-

कृतस्वर्णरूप्यम् । इति हेमचन्द्रः ॥

हिरण्यगर्भः, (हिरण्यं हेममयाण्डं गर्भ उत्-

पत्तिस्थानमस्य ।) ब्रह्मा । इत्यमरः । १ । १ । १६ ॥
हिरण्यं गर्भ उत्पत्तिस्थानमस्य हिरण्यस्य गर्भो
भ्रूण इति वा हिरण्यगर्भः । एतस्याण्डं हिरण्य-
वर्णमभवत् । तथा च स्मृतिः ।
“हिरण्यवर्ण्यवर्णमभवत्तदण्डमुदकेशयम् ।
तत्र जज्ञे स्वयं ब्रह्मा स्वयम्भुरिति विश्रुतः ॥”
इति ।
उपचारात् हिरण्यवर्णमण्डं हिरण्यम् । इति
भरतः ॥ अन्यच्च ।
“हिरण्यगर्भोऽभूद्वद्ध्या तेन बुद्धिर्म्मता असौ ।”
इति देवीपुराणे देवीनिरुक्ते ४५ अध्यायः ॥ * ॥
षोडशमहादानान्तगतद्वितीयमहादानम् । यथा,
मत्स्य उवाच ।
“अथातः संप्रवक्ष्यामि महादानमनुत्तमम् ।
नाम्ना हिरण्यगर्भाख्यं महापातकनाशनम् ॥
पुण्यां तिथिं समासाद्य तुलापुरुषदानवत् ।
ऋत्विङ्मण्डपसम्भारभूषणाच्छादेनादिकम् ॥
कुर्य्यादुपाषितस्तद्वल्लोकेशावाहनं बुधः ।
पुण्याहवाचनं कृत्वा तद्वत् कृत्वा धिवासनम् ।
ब्राह्मणैरानयेत् कुण्डं तपनीयमयं शुभम् ॥
द्वासप्तत्यङ्गुलोच्छ्रायं हेमपङ्कजगर्भवत् ।
त्रिभागहीनं विस्तारमाज्यक्षीराभिपूरितम् ॥
दशास्त्राणि सरत्नानि दात्रं सूची तथैव च ।
हेमनालं सपिटकं बहिरादित्यसंयुतम् ॥
तथैवावरणं नाभेरुपवीतञ्च काञ्चनम् ।
पार्श्वतः स्थापयेत्तद्वद्धेमदण्डं कमण्डलुम् ॥
पद्माकारं पिधानं स्यात् समन्तादङ्गुलाधिकम्
मुक्तावलीसमोपेतं पद्मरागदलान्वितम् ॥
तिलद्रोणोपरिगतं वेदमध्ये ततोऽर्च्चयेत् ।
ततो मङ्गलशब्देन ब्रह्मघोषरवेण च ॥
सर्व्वोषध्युदकं स्नानं स्नापितो वेदपुङ्गवैः ।
शुक्लमाल्याम्बरधरः सर्व्वाभरणभूषितः ।
इममुच्चारयेन्मन्त्रं गृहीतकुसुमाञ्जलिः ॥
नमो हिरण्यगर्भाय हिरण्यकवचाय च ।
सप्तलोकसुराध्यक्ष जगद्धात्रे नमो नमः ॥
भूर्लोकप्रमुखा लोकास्तव गर्भे व्यवस्थिताः ।
ब्रह्मादयस्तथा देवा नमस्ते विश्वधारिणे ॥
नमस्ते भुवनाधार ! नमस्ते भुतनाश्रय ! ।
नमो हिरण्यगर्भाय गर्भो यस्य पितामहः ॥
यतस्त्वमेव भूतात्मा भूते भूते व्यवस्थितः ।
तस्मान्मामुद्धराशेषदुःखसंसारसागरात् ॥
एवमामन्त्र्य तन्मध्यमाविश्याम्भ उदङ्मुखः ।
मुष्टिभ्यां परिसंगृह्य धर्म्मराजचतुर्मुखौ ।
जानुमध्ये शिरः कृत्वा तिष्ठेत श्वासपञ्चकम् ॥
गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा ।
कुर्य्युर्हिरण्यगर्भस्य ततस्ते द्विजपुङ्गवः ॥
गीतमङ्गलघोषेण गुरुरुत्थापयेत्ततः ।
जातकर्म्मादिकाः कुर्य्यात् क्रियाः षोडश
चापराः
सूच्यादिकञ्च गुरवे दत्त्वा मन्त्रमिमं जपेत् ॥
नमो हिरण्यगर्भाय विश्वगर्भाय वै नमः ।
चराचरस्य जगतो गृहभूताय वै नमः ॥
मात्राहं जनितः पूर्व्वं मर्त्यधर्म्मा सुरोत्तम ।
त्वद्गर्भसम्भवादेष दिव्यदेहो भवाम्यहम् ॥
चतुर्भिः कलसैर्भूयस्ततस्ते द्विजपुङ्गवाः ।
स्नानं कुर्य्युः प्रसन्नाङ्गाः सर्व्वाभरणभूषिताः ॥
देवस्यत्वेति मन्त्रेण स्थितस्य कनकासने ।
अद्य जातस्य तेऽङ्गानि आभिषेक्ष्यामहे वयम् ॥
दिव्येनानेन वपुषा चिरं जीव सुखी भव ।
ततो हिरण्यगर्भस्तु तेभ्यो दद्याद्विचक्षणः ॥
ते पूज्याः सर्व्वभावेन बहुभ्यो वा तदाज्ञया ।
तत्रोपकरणं सर्व्वं गुरवे विनिवेदयेत ॥
पृष्ठ ५/५४१
पादुकोपानहं छत्रं चामरासनभोजनम् ।
ग्रामं वा विषयं वापि यदन्यद्दयितं भवेत् ॥
अनेन विधिना यस्तु पुण्येऽह्नि विनिवेदयेत् ।
हिरण्यगर्भदानं स ब्रह्मलोके महीयते ॥
पुरेषु लोकपालानां प्रतिमन्वन्तरं वसेत् ।
कल्पकोटिशतं यावत् ब्रह्मलोके महीयते ॥
कलिकलुषविमुक्तः सेवितः सिद्धसंघै-
रमरचमरमालावीज्यमानोऽप्सरोभिः ।
पितृशतमथ बन्धून् पुत्त्रपौत्त्रप्रपौत्त्रा-
नपि नरकनिमग्नांस्तारयेदेक एव ॥
इति पठति य इत्थं यः शृणोतीह सम्यक्
मधुमुररिपुलोके पूज्यते सोऽपि सिद्धैः ।
मतिमपि च जनानां यो ददाति प्रियार्थं
विबुधपतिजनानां नायकः स्यादमोघम् ॥”
इति मात्स्ये २७५ अध्यायः ॥ * ॥
विष्णुः । इति तस्य सहस्रनामस्तोत्रम् ॥ सूक्ष्म-
शरीरसमष्ट्युपहितचैतन्यम् । तत्पर्य्यायः ।
प्राणात्मा २ सूत्रात्मा ३ । इति वेदान्तसारः ॥

हिरण्यदः, पुं, (हिरण्यं ददातीति । दा + कः ।)

समुद्रः । इति केचित् । हिरण्यदातरि, त्रि ॥
(यथा, मनुः । ४ । २३० ।
“भूमिदो भूमिमाप्नोति दीर्घमायुर्हिरण्यदः ।
गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्त-
मम् ॥)

हिरण्यदा, स्त्री, हिरण्यं ददातीति । दा +

कः । टाप् ।) पृथिवी । इति केचित् ॥

हिरण्यनाभः, पुं, (हिरण्यं नाभौ यस्य ।)

मैनाकपर्व्वतः । इति हेमचन्द्रः ॥ (मुनिविशेषः ।
यथा, भागवते । ६ । १५ । १५ ।
“हिरण्यनाभः कौशल्यः श्रुतदेव ऋतध्वजः ।
एते परे च सिद्धेशाश्चरन्ति ज्ञानहेतवः ॥”)

हिरण्यबाहुः, पुं, (हिरण्यवत् बाहुर्यस्य ।)

शोणनदः । इत्यमरः । १ । १० । ३४ ॥ शिवः ।
इति केचित् ॥ (यथा, महाभारते । १४ । ८ । १९ ।
“हिरण्यबाहवे राजन्नुग्राय पतये दिशाम् ॥”)

हिरण्यरेताः, [स्] पुं, (हिरण्यं रेतो यस्य ।)

अग्निः । (यथा, महाभारते । १ । ५५ । १० ।
“विभावसुश्चित्रभानुर्महात्मा
हिरण्यरेता हुतभुक् कृष्णवर्त्मा ॥”)
चित्रकवृक्षः । इत्यमरः । १ । १ । ५८ ॥ सूर्य्यः ।
इति मेदिनी ॥ शिवः । इति शब्दरत्नावली ॥ * ॥
अग्नेस्तन्नामकारणं यथा, --
“यत् पीतं वीतिहोत्रेण वीर्य्यं त्यक्तं पिना-
किनः ।
तेनाक्रान्तोऽभवद्ब्रह्मन् ! मन्दतेजा हुताशनः ॥
ततो जगाम देवानां सकाशममितद्युतिः ।
दैवतैः प्रहितस्तूर्णं ब्रह्मलोकं जगाम ह ॥
स गच्छन् कुटिलां देवीं ददर्श पथि पावकः ।
तां दृष्ट्वा प्राह चाधत्स्व तेजो यन्मम दुर्द्धरम् ॥
महेश्वरेण संत्युक्तं निर्द्दहेद्भुवनान्यपि ।
तद्धारणाच्च कुटिले ! पुत्त्रो धन्यो भविष्यति ॥
इत्यग्निना सा कुटिला श्रुत्वा सुतमनुत्तमम् ।
प्रक्षिप्तमात्रं जग्राह तेज ऐशं महापगा ।
ततस्त्वधारयद्देवी शार्व्वं तेजः स्वपूपुषत् ।
हुताशनोऽपि च भयाद्यत्र तत्र परिभ्रमन् ॥
पञ्चवर्षसहस्राणि ह्यध्यास्ते हव्यभुक् ततः ।
मांसमस्थीनि रक्तानि मेदोमज्जत्वचस्तथा ॥
रोमाणि चाक्षिकेशाद्याः सर्व्वे जाता हिर-
ण्मयाः ।
हिरण्यरेता लोकेऽस्मिन् विख्यातः पावक-
स्तदा ॥”
इति वामने ५४ अध्यायः ॥

हिरण्यवः, पुं, (हिरण्यानि सन्त्यत्रेति । हिरण्य

+ “वप्रकरणेऽन्येभ्योऽपि दृश्यते इति वक्तव्यम् ।”
५ । २ । १०९ । इत्यस्य वार्त्तिकोक्त्या वः ।)
दैवधनम् । देवस्वम् । इति केचित् ॥

हिरण्यवर्णा, स्त्री, (हिरण्यवत् वर्णो यस्याः ।)

नदी । इति हेमचन्द्रः ॥

हिरण्यवाहः, पुं, (हिरण्यं वहतीति । वह +

अण् ।) शोणनदः । इति शब्दरत्नावली भर-
तश्च ॥

हिरण्याक्षः, पुं, (हिरण्यवत् पीते अक्षिणी

यस्य । अच् समासे ।) आद्यदैत्यविशेषः । स
च दितिगर्भे कश्यपाज्जातः वराहरूपिविष्णुना
हतः । यथा, --
“दितिस्तु भर्त्तुरादेशादपत्यपरिशङ्किनी ।
पूर्णे वर्षशते साध्वी पुत्त्रौ प्रसुषुवे यमौ ॥
प्रजापतिर्नाम तयोरकार्षीत्
यः प्राक् स्वदेहात् यमयोरजायत ।
तं वै हिरण्यकशिपुं विदुः प्रजा
यं तं हिरण्याक्षमसूत साग्रतः ॥”
इति श्रीभागवते ३ स्कन्धे १७ । २ ; १८ ॥
“हतो हिरण्यकशिपुर्हरिणा सिंहरूपिणा ।
हिरण्याक्षो धरोद्धारे बिभ्रता शौकरं वपुः ॥”
इति तत्रैव ७ स्कन्धे १ अध्याये ४० श्लोकः ॥
अपिच ।
“तेजस्वी नाम वै शक्रो हिरण्याक्षो रिपुः
स्मृतः ।
हतो वराहरूपेण हिरण्याक्षोऽथ विष्णुना ॥”
इति गारुडे । ८७ । ३० ॥
(पीठस्थानविशेषः । यथा, देवीभागवते । ७ ।
३० । ६४ ।
“उत्पलाक्षी सहस्राक्षे हिरण्याक्षे महोत्-
पला ॥”)

हिरण्याश्वः, पुं, (हिरण्यस्य अश्वो यत्र ।)

तुलापुरुषादि-षोडशमहादानान्तर्गतमहादान-
विशेषः । यथा, --
मत्स्य उवाच ।
“अथातः संप्रवक्ष्यामि हिरण्याश्वविधिं परम् ।
यस्य प्रदानाद्भुवने आनन्त्यफलमश्नुते ॥
पुण्यां तिथिं समासाद्य कृत्वा ब्राह्मणवाचनम् ।
लोकेशावाहनं कुर्य्यात्तुलापुरुषदानवत् ॥
ऋत्विङ्मण्डपसम्भारभूषणाच्छादनादिकम् ।
स्वल्पेष्वेकाग्निवत् कुर्य्याद्धेमवाजिमखं बुधः ॥
स्थापयेद्वेदिमध्ये तु कृष्णाजिनतिलोपरि ।
कौशेयवस्त्रसंवीतं कारयेद्धेमवाजिनम् ॥
शक्तितस्त्रिपलादूर्द्धमासहस्रपलाद्बुधः ।
पादुकोपानहच्छत्रचामरासनभाजनैः ॥
पूर्णकुम्भाष्टकोपेतं माल्येक्षुफलसंयुतम् ।
शय्यां सोपस्करां तद्वद्धेममार्त्तण्डसंयुताम् ॥
ततः सर्व्वौषधीस्नातः स्नापितो वेदपुङ्गवैः ।
इममुच्चारयेन्मन्त्रं गृहीतकुसुमाञ्जलिः ॥
नमस्ते सर्व्वदेवेश ! वेदाहरणलम्पट ! ।
वाजिरूपेण मामस्मात् पाहि संसारसागरात् ॥
त्वमेव सप्तधा भूत्वा छायारूपेण भास्करम् ।
यत्नाद्भ्रमयसे लोकानतः पाहि सनातन ! ॥
एवमुच्चार्य्य गुरवे तमश्वं विनिवेदयेत् ।
दत्त्वा पापक्षयाद्भानोर्लोकमभ्येति श्वाश्वतम् ॥
गोभिर्विभवतः सर्व्वानृत्विजश्चापि पूजयेत् ।
सर्व्वधान्योपकरणं गुरवे विनिवेदयेत् ॥
सर्व्वशय्यादिकं दत्त्वा भुञ्जीतातैलमेव हि ।
पुराणश्रवणं तद्वत् कारयेद्भोजनादनु ॥
इमं हिरण्याश्वविधिं करोति यः
पुण्यं समासाद्य दिनं नरेन्द्र ! ।
विमुक्तपापः स पुरं मुरारेः
प्राप्नोति सिद्धैरभिपूजितः सन् ॥
इति पठति य इत्थं हेमवाजिप्रदानं
सकलकलुषमुक्तः सोऽश्वयुक्तेन भूयः ।
कनकमयविमानेनार्कलोकं प्रयाति
त्रिदशपतिबधूभिः पूज्यते योऽथ पश्येत् ॥
यो वा शृणोति पुरुषोऽल्पधनः स्मरेद्वा
हेमाश्वदानमभिनन्दयतीह लोके ।
सोऽपि प्रयाति हतकल्मषशुद्धदेहः
स्थानं पुरन्दरमहेश्वरलोकजुष्टम् ॥”
इति मात्स्ये हिरण्याश्वप्रदानिको नाम २८०
अध्यायः ॥

हिरण्याश्वरथः, पुं, (हिरण्याश्वः सुवर्णघोटकयुक्तः

रथो यत्र ।) षोडशमहादानान्तर्गतमहादान-
विशेषः । यथा, मात्स्ये ।
“आद्यन्तु सर्व्वदानानां तुलापुरुषसंज्ञितम् ।
हिरण्यगर्भदानञ्च ब्रह्माण्डं तदनन्तरम् ॥
कल्पपादपदानञ्च गोसहस्रञ्च पञ्चमम् ।
हिरण्यकामधेनुश्च हिरण्याश्वस्तथैव च ॥
पञ्चलाङ्गलकञ्चैव धरादानं तथैव च ।
हिरण्याश्वरथस्तद्वत् हेमहस्तिरथस्तथा ॥
द्वादशं विष्णुचक्रञ्च ततः कल्पलतात्मकम् ।
सप्तसागरदानञ्च रत्नधेनुस्तथैव च ।
महाभूतघटस्तद्वत् षोडशः परिकीर्त्तितः ॥”
इति मलमासतत्त्वम् ॥ * ॥
तद्विधिर्यथा, --
मत्स्य उवाच ।
“अथातः संप्रवक्ष्यामि महादानमनुत्तमम् ।
हिरण्याश्वरथं नाम महापातकनाशनम् ॥
पुण्यन्दिनमथासाद्य कृत्वा ब्राह्मणवाचनम् ।
लोकेशावाहनं कुर्य्यात्तुलापुरुषदानवत् ॥
ऋत्विङ्मण्डपसम्भारभूषणाच्छादनादिकम् ।
पृष्ठ ५/५४२
कृष्णाजिने तिलान् कृत्वा काञ्चनं कारयेद्रथम् ।
सप्ताश्वं चतुरश्वं वा चतुश्चक्रं सकूवरम् ।
ऐन्द्रनीलेन कुम्भेन ध्वजरूपेण संयुतम् ।
लोकपालाष्टकोपेतं पद्मरागदलान्वितम् ॥
चतुरः पूर्णकलसान् धान्यान्यष्टादशैव तु ।
कौषेयवस्त्रसंयुक्तमुपरिष्टाद्वितानकम् ॥
माल्येक्षुफलसंयुक्तं पुरुषेण समन्वितम् ।
यो यद्भक्तः पुनः कुर्य्यात् स तन्नाम्नाधिवासनम् ॥
छत्रचामरकौषेयवस्त्रोपानहपादुकाः ।
गोभिर्विभवतः सार्द्धं दद्याच्च शयनादिकम् ॥
अभावात् त्रिपलादूर्द्धं शक्तितः कारयेच्छुभम् ॥
अश्वाष्टकेन संयुक्तं चतुर्भिरथ वाजिभिः ।
द्वाभ्यामथ युतं दद्यादिम मन्त्रमुदीरयेत् ॥
नमो नमः पापविनाशनाय
विश्वात्मने वेदतुरङ्गमाय ।
धाम्नामधीशाय भवाभवाय
पापौघदावानल देहि शान्तिम् ॥
वस्वष्टकादित्यमरुद्गणानां
त्वमेव धाता परमं विधानम् ।
यतस्ततो मे हृदयं प्रयातु
धर्म्मैकनाम त्वमघौघनाशात् ॥
इति तुरगरथप्रदानमेतत्
भवभयसूदनमत्र यः करोति ।
स कलुषपटलैर्व्विमुक्तदेहः
परममुपैति पदं पिनाकपाणेः ॥
देदीप्यमानवपुषा विजितप्रभाव-
माक्रम्य मण्डलमखण्डलचण्डभानोः ।
सिद्धाङ्गनानयनषट्पदपीयमान-
वक्त्राम्बुजोऽम्बुजभवेन चिरं सहास्ते ॥
इति पठति शृणोति वा य इत्थं
कनकरथतुरगप्रदानमस्मिन् ।
न स नरकपुरं व्रजेत् कदाचित्
नरकरिपोर्भवनं प्रयाति भूप ! ॥”
इति मात्स्ये हिरण्याश्वरथप्रदातिको नाम २५५
अध्यायः ॥

हिरुक्, व्य, विनार्थः । मध्यार्थः । सामीप्यार्थः ।

इत्यमरभरतौ ॥ अधमार्थः । इति शब्दरत्ना-
वली ॥

हिल, श हावकृतौ । इति कविकल्पद्रुमः ॥ (तुदा०-

पर०-अक०-सेट् ।) एकोऽर्थः । श, हिलति
तरुण्या तरुणः । इति दुर्गादासः ॥

हिलमोचिः, स्त्री, हिलमोचिका । इति शब्द-

रत्नावली ॥

हिलमोचिका, स्त्री, शाकविशेषः । इत्यमरः ।

२ । ४ । १५७ ॥ हिंचा इति हिलञ्चा इति च
वङ्गभाषा । हरहुच् इति हिन्दीभाषा । तत्-
पर्य्यायः । हिलमोचिः २ हिलमोची ३
रोची ४ । इति शब्दरत्रावली ॥ मन्वी ५
विषघ्नी ६ मत्स्याक्षी ७ चक्राङ्गी ८ । इति
रत्नमाला ॥ ब्राह्मी ९ शङ्खधरा १० आचारी ११ ।
तस्या गुणाः । यथा, भावप्रकाशे ।
“शोथं कुष्ठं कफं पित्तं हरते हिलमोचिका ॥”
अपि च ।
“हिलमोची सरा तिक्ता कुष्ठघ्नी कफवातजित् ॥”
श्लेष्मपित्तजित् इति वा पाठः । इति राज-
वल्लभः ॥

हिलमोची, स्त्री, (हिलमोचि + कृदिकारादिति

ङीष् ।) हिलमोचिका । इति शब्दरत्नावली ॥
(तथास्या गुणाः ।
“हिलमोची सरा तिक्ता कुष्ठघ्नी कफपित्तजित् ॥”
इति वैद्यकराजवल्लभे चतुर्थपरिच्छेदे ॥)

हिल्लः, पुं, शरारिपक्षी । इति शब्दचन्द्रिका ॥

हिल्लोल, त् क दोलने । इति कविकल्पद्रुमः ॥

(अदन्तचुरा०-पर०-अक०-सेट् ।) अन्तःस्थ-
तृतीयद्वयमध्यस्तदेकोपधश्चायम् । अजिहि-
ल्लोलद्वायुर्लताम् । इति दुर्गादासः ॥

हिल्लोलः, पुं, (हिल्लोलयति दोलयतीति । हिल्लोलत्

क दोलने + अच् ।) तरङ्गः । ढेउ इति भाषा ।
यथा, --
“श्लाघ्यं नीरसकाष्ठताडनशतं श्लाघ्यः प्रचण्डातपः
क्लेशः श्लाघ्यतरः सुपङ्कनिचयः श्लाघ्योऽति-
दाहानलः ।
यत्कान्ताकुंचकुम्भबाहुलतिकाहिल्लोललीलासुखं
लब्धं कुम्भवर ! त्वया न हि सुखं दुःखैर्व्विना
लभ्यते ॥”
इति कालिदासकृतशृङ्गारतिलकः ॥ * ॥
रतिबन्धविशेषः । स च षोडशबन्धान्तर्गताष्टम-
बन्धः । तस्य लक्षणं यथा, --
‘हृदि कृत्वा स्त्रियाः पादौ कराभ्यां धारयेत्करौ ।
यथेष्टं ताडयेद्योनिं बन्धो हिल्लोलसंज्ञकः ॥”
इति रतिमञ्जरी ॥

हिल्वला, स्त्री, मृगशिरोनक्षत्रशिरोदेशस्थाः पञ्च

स्वल्पातारकाः । यथा, --
“मृगशीर्षशिरोदेशे तारका या वसन्ति हि ।
हिल्वला इल्वकास्ताः स्युरिल्वला इति
कुत्रचित् ॥”
इति शब्दरत्नावली ॥

हिव, इ प्रीतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) इ, हिम्बते । प्रीतिरिह
प्रीतिकरणम् । हिम्बति लोकः पितरम् । इति
दुर्गादासः ॥

हिवुकं, क्ली, एकस्माल्लग्नाच्चतुर्थलग्नम् । तत्पर्य्यायः ।

“पातालं हिवुकञ्चैव सुहृदम्भश्चतुर्थकम् ।”
अपि च ।
“सपापात् भार्गवात् पापो हिवुके मातृनाश-
कृत् ॥”
इति ज्योतिस्तत्त्वम् ॥

हिस, इ ध कि हिंसे । इति कविकल्पद्रुमः ॥

(रुधा०-चुरा०-पक्षे भ्वा०-पर०-सक०-सेट् ।)
इ, हिंस्यते । ध, हिनस्ति । कि, हिंसयति
हिंसति । हन्त्यर्थेनैव पाक्षिकचुरादित्वे सिद्धे
किकरणं भ्वादित्वार्थनम । इति दुर्गादासः ॥

हिहि, व्य, आह्लादजनकानुकरणशब्दः । इति

केचित् ॥ दीर्घान्तद्वयमिति साधुपाठः ॥

ही, व्य, विस्मयः । इत्यमरः । ३ । ४ । ९ ॥ दुःखम् ।

हेतुः । विषादः । इति मेदिनी ॥ शोकः । इति
शब्दरत्नावली ॥ (यथा, वक्रोक्तिपञ्चाशि-
कायाम् । ३१ ।
“ही नाहं भवतोऽतिवक्रवचसा दातुं
प्रवीणोत्तरं
का ते सुन्दरि । हीनता ननु नता सर्व्वा
त्रिलोक्येव ते ॥”)

हीनः, त्रि, (ओ हा क लि त्यागे + क्तः । “ओदि-

तश्च ।” ८ । २ । ४५ । इति नत्त्वम् । “घुमा-
स्थागापाजहातीति ।” ६ । ४ । ६६ । इति
ईत्वम् ।) ऊनः । (यथा, रघुः । १ । ७०
“तया हीनं विधातर्मां कथं पश्यन्न दूयसे ।
सिक्तं स्वयमिव स्नेहाद् बन्ध्यमाश्रमपादपम् ॥”)
गर्ह्यः । इत्यमरः । ३ । ३ । १२७ ॥ अधमः ।
इति जटाधरः ॥ (यथा, मनौ । ३ । १०७ ।
“आसनावसथौ शय्यामनुव्रज्यामुपासनम् ।
उत्तमेषूत्तमं कुर्य्यात् हीने हीनं समे समम् ॥”)
प्रतिवादिविशेषः । स च पञ्चविधः । यथा,
नारदः ।
“अन्यवादी क्रियाद्वेषी नोपस्थायी निरुत्तरः ।
आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः ॥”
इति व्यवहारतत्त्वम् ॥

हीनजातिः, त्रि, (हीना जातिर्यस्य ।) नीच-

वर्णः । इति केचित् ॥ (यथा, मनुः । ३ । १५ ।
“हीनजातिस्त्रियं मोहादुद्वहन्तो द्विजातयः ।
कुलान्येव नयन्त्याशु ससन्तानानि शूद्रताम् ॥”)

हीनवर्णः, त्रि, (हीनो वर्णो यस्य ।) नीच-

जातिः यथा, --
“हीनवर्णोपभुक्ता या त्याज्या वध्यापि वा
भवेत् ।”
इति प्रायश्चित्ततत्त्वम् ॥

हीनवादी, [न्] त्रि, (हीनं वदतीति । वद +

णिनिः ।) वाक्यवर्जितः । वोवा इति भाषा ।
तत्पर्य्यायः । अधरः २ । इति हेमचन्द्रः ॥ विरु-
द्धार्थवादी । यथा, नारदः ।
“पूर्ब्बवादं परित्यज्य योऽन्यमालम्बते पुनः ।
वादसंक्रमणाज्ज्ञेयो हीनवादी स वै नरः ॥”
इति ।
हीनवादी दण्ड्यो भवति न प्रकृतादर्थाद्धीयते ।
इति च मिताक्षरा ॥

हीनसख्यं, क्ली, (हीनेन सह सख्यम् ।) नीचेन

सह मित्रता । इति केचित् ॥

हीनाङ्गः, त्रि, (हीनमङ्गं यस्य ।) स्वभावतो

न्यूनावयवविशिष्टः । तत्पर्य्यायः । पोगण्डः २
विकलाङ्गकः ३ व्यङ्गः ४ अपाङ्गः ५ अपो-
गण्डः ६ । इति जटाधरः । तेन सह परी-
हासनिषेधो यथा, --
“जातिहीनं वित्तहीनं रूपहीनमदक्षिणम् ।
हीनाङ्गमतिरिक्ताङ्गं तेन दोषेण नाक्षिपेत् ॥
पृष्ठ ५/५४३
इति ब्रह्मा पुरा प्राह वेदौघार्थविनिश्चयम् ।
तञ्चावमन्य भवता परीहासोऽप्यभाष्यत ॥”
इति कालिकापुराणे ४४ अध्यायः ॥

हीनाङ्गी, स्त्री, (हीनं क्षुद्रत्वात् अधमं अङ्गं

यस्याः । ङीष् ।) क्षद्रपिपीलिका । इति हेम-
चन्द्रः ॥

हीन्तालः, पुं, हिन्तालवृक्षः । इत्यमरटीका ॥

हीरं, क्ली, (हरति मार्द्दवमिति । हृ + अच् ।

पृषोदरादित्वात् सुआधुः । यद्वा, ही विस्मयं
रातीति । रा + कः ।) वज्जम् । इति राज-
निर्घण्टः ॥ (यथा, रसेन्द्रसारसंग्रहे ।
“हीरं सुवर्णं सुमृतञ्च तार-
मेषां समं तीक्ष्णरजश्चतुर्णाम् ॥”)

हीरः, पुं, (हरति सर्व्वं प्रलये इति । हृ +

अच् । पृषोदरादित्वात् ईत्वम् ।) शिवः ।
वज्रम् । इति मेदिनी ॥ सर्पः । इति हेम-
चन्द्रः ॥ हारः । इति जटाधरः ॥ सिंहः ।
इति केचित् ॥ श्रीहर्षपिता । यथा, --
“श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं
श्रीहोरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च
यम् ।
द्वैतीयीकतया मितोऽयमगमत् तस्य प्रबन्धे महा-
काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गो-
ज्ज्वलः ॥”
इति नैषधे २ सर्गः ॥

हीरकः, पुं, (हीर एव । स्वार्थे कन् ।) रत्न-

विशेषः । अयं श्वेतवर्णः बहुमूल्यः शुक्र-
देवताकश्च । तत्पर्य्यायः । वज्रः २ हीरः ३
दधीच्यस्थि ४ वज्रकम् ५ । इति शब्दरत्नावली ॥
सूचीमुखम् ६ वरारकम् ७ रत्नमुख्यम् ८
वज्रपर्य्यायनाम ९ । विराटदेशजहीरकपर्य्यायः ॥
विराटजः १० राजपट्टः ११ राजावर्त्तः १२ ।
इति हेमचन्द्रः ॥ अस्य गुणाः । सारकत्वम् ।
शीतत्वम् । कषायत्वम् । स्वादुत्वम् । वान्ति-
कारित्वम् । चक्षुर्हितकारित्वम् । धारणे पापा-
लक्ष्मीनाशित्वञ्च । इति राजवल्लभः ॥ अन्यत्
वज्रशब्दे द्रष्टव्यम् ॥ (यथास्य पर्य्यायादि ।
“हीरकः पुंसि वज्रोऽस्त्री चन्द्रो मणिवरश्च सः ।
स तु श्वेतः स्मृतो विप्रो लोहितः क्षत्त्रियः
स्मृतः ॥
पीतो वैश्योऽसितः शूद्रश्चतुर्वर्णात्मकश्च सः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

हीरा, स्त्री, लक्ष्मीः । तैलाम्बुकः इति मेदिनी ॥

पिपीलिका । इति हेमचन्द्रः ॥ काश्मरी ।
इति राजनिर्घण्टः ॥ (पर्य्यायो यथा, --
“गम्भारी भद्रपर्णी च श्रीपर्णी मधुपर्णिका ।
काश्मोरी काश्मरी हीरा कश्मर्य्यः पीत-
रोहिणी ।
कृष्णवृन्ता मधुरसा महाकुसुमिकापि च ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

हीराङ्गः, पुं, (हीरस्येव कठिनं अङ्गं यस्य ।)

इन्द्रस्य वज्जम् । इति शब्दमाला ॥

हीलं, क्ली, (ही विस्मयं लातीति । ला + कः ।)

रेतः । इति केचित् ॥

हीलुकं, क्ली, गौडीमद्यम् । इति शब्दचन्द्रिका ॥

हीही, व्य, विस्मयः । हास्यम् । इति मेदिनी ॥

हु, लि होमे । अदने । इति कविकल्पद्रुमः ॥

(जु०-पर०-सक०-अनिट् ।) होमो देवता-
सम्प्रदानकवह्न्यधिकरणकवस्तुत्यागः । लि,
जुहोति घृतमग्नौ कृष्णाय होता । प्रक्षेपे-
ऽप्ययम् ।
“चिराय सन्तर्प्य समिद्भिरग्निं
यो मन्त्रपूतां तनुमप्यहौषीत् ।”
इति रघुः ।
“जटाधरः सन् जुहुधीह पावकम् ।”
इति किराते प्रीणनार्थोऽपि । इति दुर्गादासः ॥

हुंकृतं क्ली, (हुं इत्यव्यक्तशब्दस्य कृतं करणम् ।)

हुङ्कारः । इति धरणिः ॥ (यथा, भागवते ।
४ । १४ । ३४ ।
निजघ्नुर्हुंङ्कृतैर्वेणं हतमच्युतनिन्दया ॥”)
वन्यवराहशब्दः । इति केचित् ॥ हुँ इति मन्त्रो-
च्चरिते, त्रि ॥ (हुँ इत्यनेन तिरस्कृतः । यथा,
महाभारते । १२ । ११८ । १ ।
“स श्वा प्रकृतिमापन्नः परं दैन्यमुपागतः ।
ऋषिणा हुंकृतः पापस्तपोवनबहिस्कृतः ॥”
हुङ्कृतमस्यास्तीति । अच् । हुङ्कारविशिष्टः ।
यथा बृहत्संहितायां । ४८ । ११ ।
“अचिरप्रसूतहुङ्कृतवल्गितवत्सोत्सवे गोष्ठे ॥”)

हुड, इ ङ संहे । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) इ, हुण्ड्यते । ङ, हुण्डते
धनं लोकः । राशीकरोतीत्यर्थः । इति दुर्गा-
दासः ॥

हुड, ऋ ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) ऋ, अजुहोडत् । ङ,
होडते । इति दुर्गादासः ॥

हुड, शि मग्ने । संहे । इति कविकल्पद्रुमः ॥ (तुदा०-

पर०-मग्ने अक०-संहे सक०-सेट् ।) शि,
हुडति अहुडीत् जुहोड । मग्नमिह मज्जनम् ।
इति दुर्गादासः ॥

हुडः, पुं, (हुडतीति । हुड + कः ।) मेषः । इति

हेमचन्द्रः राजनिर्घण्टश्च ॥ चौरादिनिवार-
णार्थभूमिनिहितलौहमयतीक्ष्णशङ्कुविशेषः ॥
तस्य नामान्तरं गुडः । पाँजिकाटा इति
भाषा । लगुडः । इति महाभारतम् ॥ सैन्या-
श्रयस्थानम् । वुरुज् इति भाषा । रथोपरि
विण्मूत्रत्यागशृङ्गम् । यथा, --
“पुरी समन्ताद्विहिता सपताका सतोरणा ।
सचक्रा सहुडा चैव सयन्त्रखनका तथा ॥”
इति महाभारते वनपर्ब्बणि सौभवघे १५
अध्यायः ॥ पताका ध्वजाञ्चलः । तोरणानि
बहिर्द्वाराणि । चक्राणि योधगणाः । हुडा-
स्तदाश्रयस्थानानि । भाषायां वरुज्संज्ञानि ।
अन्ये तु विण्मूत्रोत्सर्ज्जनशृङ्गाणि हुडा
इत्याहुः । उदाहरन्ति च ।
“कल्प्यन्ते हुडशृङ्गाणि रथस्योपरि सूरिभिः ।
विण्मूत्रस्पर्शशुद्ध्यर्थकरादिस्पर्श उद्यते ॥”
इति ॥
यन्त्राणि आग्नेयौषधबलेन दृषत्पिण्डोत्क्षेपणानि ।
महान्ति कामानसंज्ञानि क्षुद्राणि सीसगुलि-
कोत्क्षेपणानि बन्दुकसंज्ञानि । खनकाः सुरङ्ग-
द्वारा गुप्तमार्गकर्त्तारः । इति तट्टीकायां नील-
कण्ठः ॥

हुडुक्कः, पुं, (हुडुक् इति शब्देन कायति शब्दा-

यते इति । कै + कः ।) वाद्यभेदः । दात्यूह-
पक्षी । मदमत्तः । इति मेदिनी ॥ दण्डकः ।
हुड्का इति भाषा । इति शब्दरत्नावली ॥
तत्र हड्ड क इति च पाठः ॥

हुडत्, क्ली, वृषशब्दः । इति काशीखण्डमिति

केचित् ॥

हुडुम्बः, पुं, भ्रष्टचिपिटः । हुडम् इति भाषा ।

इति शब्दमाला ॥

हुण्डः, पुं, व्याघ्रः । ग्राम्यशूकरः । मूर्खः । राक्षसः ।

इति केचित् ॥

हुतं, त्रि, (हु + क्तः ।) अग्नौ प्रक्षिप्तं घृतादि ।

तत्पर्य्यायः । वषट्कृतम् २ । इत्यमरः ॥ (यथा,
गीतायाम् । ९ । १६ ।
“अहमग्निरहं हुतम् ॥”
तर्पितम् । यथा, रघुः । २ । ७१ ।
“प्रदक्षिणीकृत्य हुतं हुताश-
मंनन्तरं भर्तुररुन्धतीञ्च ॥”)
होमे, क्ली ॥

हुतभुक्, [ज्] पुं, (हुतं भुङ्क्ते इति । भुज् +

क्विप् ।) अग्निः । (यथा, भागवते । ३ । १६ । ८ ।
“नाहं तथाद्मि यजमानहविर्विताने
श्चोतद्घृतप्लुतमदन् हुतभुङ्मुखेन ॥”)
चित्रकवृक्षः । इत्यमरः । १ । १ । ५८ ॥ (यथा,
सुश्रुते । ६ । ५३ ।
“पाठाविडव्योषविडङ्गसिन्धु-
त्रिकण्टरास्नाहुतभुग्बलाभिः ॥”
महादेवः । इति महाभारतम् । १३ । १७ ।
८१ ॥ विष्णुः । इति च तत्रैव । १३ । १४९ । १०८ ॥)

हुतभुक्प्रिया, स्त्री, (हुतभुजो वह्नेः प्रिया ।)

अग्निभार्य्या । स्वाहा इत्यमरः । २ । ७ । २१ ॥

हुतवहः, पुं, (वहतीति । वह + अच् । हुतस्य

वहः ।) अग्निः । इति हेमचन्द्रः ॥ (यथा,
महाभारते । १ । २२४ । ५८ ।
“एतच्छ्रुत्त्वा हुतवहात् भगवान् सर्व्वलोककृत् ।
हव्यवाहमिदं वाक्यमुवाच प्रहसन्निव ॥”)

हुताशः, पुं, (हुतं अश्नाति इति । अश + अण् ।)

अग्निः । इति शब्दरत्नावली ॥ (यथा, भाग-
वते । १ । १२ । २१ ।
“धन्विनामग्रणीरेषः तुल्यश्चार्ज्जुनयोर्द्धयोः ।
हुताशः इव दुर्द्धषः समुद्र इव दुस्तरः ॥”)
भयम् । इति व्यवहारसिद्धम् ॥ (मुनिविशेषः ।
स चायुर्व्वेदसंहिताकारः । अग्निवेशमुनिः ।
तद्यथा, --
पृष्ठ ५/५४४
“भग्नं समासाद्विविधं हुताश !
काण्डे च सन्धौ च हि तत्र सन्धौ ॥”
इति वैद्यकरुग्विनिश्चयसंग्रहे भग्नाधिकारे ॥
हुताश इति अग्निवेशसम्बोधनं चरके हुताश-
शब्देनाग्निवेशोऽभिधीयते पदैकदेशे पदप्रवृत्तेः ।
इति तट्टीकायां श्रीकण्ठदत्तः ॥)

हुताशनः, पुं, (हुतं आहुतद्रव्यं अशनमस्य ।)

अग्निः । यथा, गोभिलपुत्त्रकृतगृह्यासंग्रहे ।
“लक्षहोमे तु वह्निः स्यात् कोटिहोमे हुताशनः ।
पूर्णाहुत्यां मृडो नाम शान्तिके वरदः सदा ॥”
इति तिथ्यादितत्त्वम् ॥
अपि च ।
“आरोग्यं भास्करादिच्छेद्धनमिच्छेद्धुताशनात् ।
ज्ञानन्तु शङ्करादिच्छेन्मुक्तिमिच्छेज्जनार्द्दनात् ॥”
इति गुणविष्णुधृतमत्स्यपुराणम् ।
शिवः । इति केचित् ॥ (वटिकौषधविशेषः ।)
तद्यथा, --
“एकद्विकद्वादशभागयुक्तं
योज्यं विषं टङ्गणमूषणञ्च ।
हुताशनो नाम हुताशनस्य
करोति वृद्धिं कफजिन्नराणाम् ॥”
इति हुताशनो रसः ॥ * ॥
इति वैद्यकरसेन्द्रसारसंग्रहेऽजीर्णाद्यधिकारे ॥)

हुतिः, स्त्री, हवनम् । हुधातोः क्तिप्रत्ययेन

निष्पन्ना ॥

हुम्, व्य, (हूयते इति । हु + बाहुलकात् मः ।)

स्मृतिः । अपाकृतिः । अर्थप्रश्नः । अभ्यनुज्ञा ।
इति मेदिनी ॥ तर्के वितर्के हूँ शब्दो दीर्घादि-
ह्रखादिरपीति केचित् । इत्यमरटीकायां
भरतः ॥

हुर्च्छ, आ कौटिल्यके । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-अक०-सेट् ।) ह्रस्वी । क्विपि
राछ्वोर्लोपे हूः हुरो हुरः । आ हुर्च्छितं हूर्णं
तेन । हुर्च्छिति खलः कुटिलः स्यादित्यर्थः ।
हुर्च्छति चौरः अपसरतीत्यर्थः । इति धातु-
प्रदीपः । इति दुर्गादासः ॥

हुल, ज, हतिसम्बरणयोः । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-सक०-सेट् ।) ज, होलः हुलः ।
इति दुर्गादासः ॥

हुलहुली, स्त्री, (हुल + क । आभीक्ष्ण्ये द्वित्वं

गौरादित्वात् ङीष् ।) स्त्रीणां मङ्गलजनक-
मुखशब्दः । उलु उलु इति भाषा । तत्पर्य्यायः ।
मुखघण्टा २ । इति त्रिकाण्डशेषः ॥

हुहुः, पुं, (आह्वयतीति । ह्वे + निपातनात्

डुः डूश्च ।) गन्धर्व्वविशेषः । यथा, --

हुहूः, पुं, (आह्वयतीति । ह्वे + निपातनात्

डुः डूश्च ।) गन्धर्व्वविशेषः । यथा, --
“हूहूर्हुहुश्च द्विविधो हुहुर्हूहुश्च कुत्रचित् ।”
इति शब्दरत्नावली ॥
(यथा, महाभारते । १३ । ८३ । ९ ।
“पर्य्युपासन्त कौरव्य ! कदाचिद वै पितामहम् ।
नारदः पर्व्वतश्चैव विस्वावसुर्हहा हुहुः ॥”)

हू, व्य, (ह्वे + डूः । निपातनम् ।) आह्वानम् ।

अवज्ञा । अहङ्व्यरः । शोकः । इति केचित् ॥

हूँ, व्य, मन्त्रविशेषः । तदुद्धारपर्य्यायौ यथा, --

“हकारो वामकर्णाठ्यो नादबिन्दुविभूषितः ।
कूर्च्चं क्रोध उग्रदर्पो दीर्घहूङ्कार उच्यते ।
शब्दश्च दीर्घकवचं ताराप्रणव इत्यपि ॥”
किञ्च ।
“शिखावषट् च कवचं क्रोधो वर्म्म हमित्यपि ।
क्रोधाख्यो हूं तनुत्रञ्च शस्त्रादौ रिपुसंज्ञकः ॥”
अपि च ।
“व्योमस्थं तालजङ्घास्थं नादाबन्दुविभूषितम् ।
कूर्च्चं कालो महाकालः क्रोधबीजं निरञ्जनम् ॥”
इति नानातन्त्रम् ॥

हूङ्कारः, पुं, (हूम् + कृ + भावे घञ् ।) हूमिति

भयानकध्वनिः । यथा, --
“इत्युक्तः सोऽभ्यधावत्ताममुरो धूम्रलोचनः ।
हूङ्कारेणैव तं भस्म सा चकाराम्बिका ततः ॥”
इति मार्कण्डेये देवीमाहात्म्यम् ॥

हूड, ऋ ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) ॠ, अजुहूडत् । ङ,
हूडते । इति दुर्गादासः ॥

हूतं, त्रि, (ह्वे + क्त ।) आहूतम् । आह्वानी-

कृतम् । ह्वे ञ धातोः क्तप्रत्ययेन निष्पन्नम् ॥

हूतिः, स्त्री, (ह्वे + क्तिन् + सम्प्रसारणम् ।)

आह्वानम् । इत्यमरः १ । ६ । ८ ।

हूनः, पुं, (ह्वे + नक् सम्प्रसारणञ्च ।) म्लेच्छ-

जातिविशेषः । यथा, --
“स्वपाकश्च तुरुष्कस्तु हूनो यवन इत्यपि ।
लोकवाह्यस्तु यो वाजिगवाश्याचारवर्ज्जितः ।
म्लेच्छः किरातशवरपुलिन्दाद्यास्तु तद्भिदा ॥”
इति जटाधरः ॥
मादराजदेशीयस्वर्णमुद्राविशेषश्च ॥

हूम्, व्य, हूयते इति । बाहुलकात् मः । प्रश्नः ।

वितर्कः । इत्यमरः । ३ । ४ । १८ ॥ सन्मतिः ।
क्रोधः । भयम् । निन्दा । अवज्ञा । इत्यमर-
टीकायां नारायणचक्रवर्त्ती ॥ वितर्के हूं
चैत्रोऽपि पण्डितः । प्रश्ने हूं को लङ्काधिपतिः ।
अनुमतौ च हूं कृतं हूम् । भये च हूं न
गन्तव्यम् । इत्यमरटीकायां भरतः ॥ अन्यत्
हुँशब्दे द्रष्टव्यम् ॥

हूरवः, पुं, (हू इति रवोऽस्य ।] शृगालः । इति

हेमचन्द्रः ॥

हूर्च्छनं, क्ली, (हूर्च्छ + भावे ल्युट् ।) कौटिल्यम् ।

इति केचित् ॥

हूहुः, पुं, (आह्वयतीति । ह्वे स्पर्द्धायाम् ।

क्विप् । सम्प्रसारणम् । आभीक्ष्ण्ये द्वित्वं
निपातनात् ह्रस्वः । पक्षे तु न ।) गन्धर्व्वविशेषः ।
इति शब्दरत्नावली ॥ (यथा, भागवते । ८ । ४ । ३ ।
“योऽसौ ग्राहः स वै सद्यः परमाश्चर्य्यरूपधृक् ।
मुक्तो देवलशापेन हूहूर्गन्धर्व्वसत्तमः ॥”)

हूहूः, पुं, (आह्वयतीति । ह्वे स्पर्द्धायाम् ।

क्विप् । सम्प्रसारणम् । आभीक्ष्ण्ये द्वित्वं
निपातनात् ह्रस्वः । पक्षे तु न ।) गन्धर्व्वविशेषः ।
इति शब्दरत्नावली ॥ (यथा, भागवते । ८ । ४ । ३ ।
“योऽसौ ग्राहः स वै सद्यः परमाश्चर्य्यरूपधृक् ।
मुक्तो देवलशापेन हूहूर्गन्धर्व्वसत्तमः ॥”)

हृ, ञ हृत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-

उभ०-द्विक०-अनिट् ।) हृतिर्देशाद्देशान्तर-
प्रापणा । ञ, हरति हरते गां वनं गोपः ।
इति दुर्गादासः ॥

हृ, लि र प्रसह्यकृत्याम् । इति कविकल्पद्रुमः ॥

(जु०-पर०-सक०-अनिट् ।) प्रसह्यकृतिर्बलात्-
कारः । लि, जहर्त्ति धनं दस्युः । र वैदिकः ।
इति दुर्गादासः ॥

हृच्छयः, पुं, (हृदि शेते इति । शी + “अधि-

करणे शेतेः ।” ३ । २ । १५ । इति अच् ।)
कामदेवः । इति हलायुधः ॥ (यथा, महा-
भारते । ३ । ४६ । ४२ ।
“तत् प्रसीद न मामार्त्तां विसर्ज्जयितुमर्हसि ।
हृच्छयेन च सन्तप्तां भक्ताञ्च भज मानद ! ॥”)
हृदयशायिनि, त्रि ॥ (यथा, महाभारते । १३ ।
८५ । १७ ।
“जगत्पतिरनिर्द्देश्यः सर्व्वगः सर्व्वभावनः ।
हृच्छयः सर्व्वभूतानां ज्येष्ठो रुद्रादपि प्रभुः ॥”
पुं, कामः । यथा, भागवते । १ । ६ । ७ ।
“सकृद्यद्दर्शितं रूपमेतत् कामाय तेऽनघ ! ।
मत्कामः शनकैः साधुः सर्व्वान् मुञ्चति
हृच्छयान् ॥”
“हृच्छयान् कामान् ।” इति तट्टीकायां श्रीधरः ॥)

हृच्छूलं, क्ली, (हृदयजातं शूलमिति मध्यलोपी

समासः ।) हृदयजातशूलरोगः । तदौषधं
यथा, गारुडे १८९ अध्याये ।
“क्वथितोदकपानन्तु शम्बूका क्षारकं तथा ।
मृगशृङ्गं ह्यग्निदग्धं गव्याज्येन समन्वितम् ।
पीतं हृत्पृष्ठशूलानां भवेन्नाशकरं शिव ! ॥”
अपि च ।
“विल्लाग्निमन्थश्योनाकपाटलापारिभद्रकम् ।
प्रसारण्यश्वगन्धा च बृहती कण्टकारिका ॥
बलाचातिवला रास्ना श्वदंष्ट्रा च पुनर्नवा ।
एरण्डशारिवा पर्णी गुडूची कपिकच्छुरा ॥
एषां दश पलिकान् भागान् क्वाथयेत् सलिले-
ऽमले ।
तेन पादावशेषेण तैलं पात्रे विपाचयेत् ॥
आजं वा यदि वा गव्यं क्षीरं दत्त्वा चतुर्गुणम् ।
शतावरीरसञ्चैव तैलतुल्यं प्रदापयेत् ॥
द्रव्याणि यानि पेष्याणि तानि वक्ष्यामि तत्
शृणु ॥
शतपुष्पा देवदारु शालपर्णी वचागुरु ।
कुष्ठं मांसी सैन्धवञ्च पलमेकं पुनर्नवा ।
पाने नस्ये तथाभ्यङ्गे तैलमेतत् प्रदापयेत् ॥
हृच्छूलं पार्श्वशूलञ्च गण्डमालाञ्च नाशयेत् ।
अपस्मारं वातरक्तमायुष्मांश्च पुमान् भवेत् ॥”
इति च गारुडे १९८ अध्यायः ॥

हृणिया, स्त्री, (हृणीयते इति । हृणीङ् +

कण्ड्वादित्वात् यक् । ततः अः । निपातनात्
ह्रस्वः ।) हृणीया । इत्यमरटीकायां राय-
मुकुटः । ३ । २ । ३२ ॥

हृणीया, स्त्री, (हृणीङ् + कण्ड्वादित्वात् यक् ।

अः ।) निन्दा । इत्यमरः । ३ । २ । ३२ ॥

हृत्, [द्] क्ली, (हरति ह्रियते वेति । हृ + “वृह्रोः

षुक् दुक् चेति ।” उणा ०४ । १०० । इतिबाहुल-
कात् केवलादपि दुक ।) हृदयम् । तत्पर्य्यायः ।
पृष्ठ ५/५४५
“चित्तन्तुं चेतो हृदयं स्वान्तं हृन्मानसं मनः ।”
इत्यमरः । १ । ४ । ३१ ॥
(यथा, भावप्रकाशस्य मध्यखण्डे द्बितीये भागे ।
“स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च ।
हृदुन्दूकः फुस्फुसश्च कोष्ठ इत्यभिधीयते ॥”)

हृत्कम्पः, पुं, (हृदयस्य कम्पः । हृदादेशः ।)

हृदयकम्पनम् ॥ यथा, --
“हृत्कम्पो जायते तावत् यावत् तस्य कृपा
न चेत् ॥”
इति समयाचारतन्त्रोक्तं भद्रकालीकवचम् ॥

हृतं, त्रि, (हृ + क्तः ।) अपहृतवस्तु । यथा, --

“पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः ।
त्रैलोक्यं यज्ञभागाश्च हृता मदबलाश्रायात् ॥”
इति देवीमाहात्म्ये ५ अध्यायः ॥

हृद्, क्ली, (हृ + बाहुलकात् दुक् ।) हृदयम् ।

मनः । इत्यमरः । २ । ६ । ६४ ॥

हृदयं, क्ली, (ह्रियते विषयैरिति । हृ + “वृह्रोः

षुग्दुकौ च । उणा० ४ । १०० । इति कयन्
दुक् च ।) बुक्कम् । वक्षः । मनः । यथा, --
“उरस्यपि च वुक्वायां हृदयं मानसेऽपि च ॥”
इति त्रिकाण्डशेषः ॥
वुक्काग्रमासं हृदयं हृदिति । चत्वारि हृदये ।
केचित्तु वुक्कात् पृथगेव हृदयान्तर्गते मांस-
विशेषे पद्माकारे हृदयादिद्वयमाहुः । धातो-
रनेकार्थत्वात् । इत्यमरटीकायां भरतः । २ । ६ । ६४ ॥
अत्र अनाहतनामकद्वादशदलपद्ममस्ति । यथा,
“आधारे लिङ्गनाभौ हृदयसरसिजे तालुमूले
ललाटे
द्वे पत्रे षोडशारे द्विदशदशदले द्वादशार्द्धे
चतुष्के ।
वासान्ते वादिलान्ते ड-फ-क-ठसहिते कण्ठदेशे
स्वराणां
हक्षौ कोदण्डमध्ये सकलदलगतं वर्णरूपं
नमामि ॥”
इति षट्चक्रभेदः ॥
किञ्च ।
“तस्योर्द्ध्वे हृदि पङ्कजं सुललितं वन्धूककान्त्यु-
ज्ज्वलं
काद्यैर्द्वादशवर्णकैरुपकृतं सिन्दूररागाञ्चितैः ॥
नामानाहतसंज्ञकं सुरतरुं वाञ्छातिरिक्तप्रदं
वायोर्मण्डलमत्र धूमसदृशं षट्कोणशोभान्वि-
तम् ॥”
इति षट्चक्रक्रमः ॥ * ॥
तस्य शुभाशुभलक्षणं यथा, --
“समोन्नतञ्च हृदयमकल्प्यं मांसलं पृथु ।
नृपाणामधमानाञ्ज खरलोमशिरालकम् ॥”
इति गारुडे ६६ अध्यायः ॥
(तथास्य विवृतिः ।
“अर्थे दश महामूलः समासक्ता महाफलाः ।
महच्चार्थश्च हृदयं पर्य्यायैरुच्यते बुधैः ॥
षडङ्गमङ्गविज्ञानमिन्द्रियाण्यर्थपञ्चकम् ।
आत्सा च सगुणश्चेतः चिन्त्यञ्च हृदि संश्रितम् ॥
प्रतिष्ठार्थं हि भावानामेषां हृदयमिष्यते ।
गोपानसीनामागारकर्णिके वार्थचिन्तकैः ।
तस्यापघातान्मूर्च्छायं भेदान्मरणमिच्छति ॥
यद्धि तत् स्पर्शविज्ञानन्धारितन्तत्र संश्रितम् ।
तत्परस्यौजसः स्थानन्तत्र चैतन्यसंग्रहः ॥
हृदयं महदर्यश्च तस्मादुक्ताश्चिकित्सकैः ।
तेन मूलेन महता महामूला मता दश ॥”
इति चरके सूत्रस्थाने त्रिंशेऽध्याये ॥
“हृदयमिति कृतवीर्य्यो बुद्धेर्मनसश्च स्थानत्वात् ॥”
इति सुश्रुते शारीरस्थाने तृतीयेऽध्याये ॥
“शोणितकफप्रसादजं हृदयं तदाश्रया हि
धमन्यः प्राणवहाः । तस्याधो वामतः प्लीहा
फुस्फुसश्च दक्षिणतो यकृत् क्लोम च ॥
तद्धृदयं विशेषेण चेतानास्थानमतस्तस्मिंस्तमसा-
वृते सर्व्वप्राणिनः स्वपन्ति । भवति चात्र ।
पुण्डरीकेण सदृशं हृदयं स्यादधोमुखम् ।
जाग्रतस्तद्विकशति स्वपतश्च निमीलति ॥”
इति च सुश्रुते शारीरस्थाने चतुर्थेऽध्याये ॥)

हृदयग्रन्थिः, पुं, (हृदयस्य ग्रन्थिरिव अविद्या-

सम्बन्धेन दुर्म्मोच्यत्वात् ।) हृद्वन्धः । यथा, --
“भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्व्वसंशयाः ।
क्षीयन्ते चास्य कर्म्माणि दृष्ट एवात्मनीश्वरे ॥”
इति श्रीभागवते । १ । ३ । २१ ॥

हृदयङ्गमं, क्ली, (हृदयं गच्छतीति । गम + खच् ।

मुम् च ।) युक्तियुक्तवाक्यम् । इति भरतः ॥
तत्पर्य्यायः । सङ्गतम् २ । इत्यमरः । १ । ६ । १८ ॥
(मनोहरे, त्रि । यथा, कुमारे । २ । १६ ।
“इति तेभ्यः स्तुस्तीः श्रुत्वा यथार्था हृदयङ्गमाः ।
प्रसादाभिमुखो वेधाः प्रत्युवाच दिवौकसः ॥”
“हृदयङ्गमाः मनोहराः ।” इति तट्टीकायां
मल्लिनाथः ॥)

हृदयवान्, [न्] त्रि, (हृदयमस्यास्तीति मतुप् ।

मस्य वः ।) हृदयालुः । इत्यमरटीकासार-
सुन्दरी ॥

हृदयस्थानं, क्ली, (हृदयस्य स्थानम् ।) वक्षः-

स्थलम् । तत्पर्य्यायः । क्रोडम् २ उरः ३ वक्षः ४
वत्सम् ५ भुजान्तरम् ६ । इति हेमचन्द्रः ॥

हृदयात्मा, [न्] पुं, हृदयमेव आत्मा प्रधान-

देहभागो यस्य ।) कङ्कपक्षी । इति शब्द-
चन्द्रिका ॥

हृदयालुः, त्रि, (प्रशस्तहृदयमस्यास्तीति । हृदय +

५ । २ । १२२ । इत्यत्र “हृदयाच्चालुरन्यतर-
स्याम् ।” इति काशिकोक्तेः आलुः ।) प्रशस्त-
मनाः । तत्पर्य्यायः । सुहृदयः २ । इत्यमरः ।
३ । १ । ३ ॥ सहृदयः ३ । इति भरतः ॥ हृदयी ४
हृदयिकः ५ हृदयवान् ६ । इति टीकान्तरम् ॥
चिद्रूपः ७ । इति जटाधरः ॥

हृदयिकः, त्रि, (प्रशस्तं हृदयमस्यास्तीति ।

हृदय + ठन् ।) हृदयालुः । इत्यमरटीकासार-
सुन्दरी ॥

हृदयी, [न्] त्रि, (प्रशस्तं हृदयमस्यातीति ।

इनिः ।) हृदयालुः । इति जटाधरः ॥

हृदयेशः, पुं, (हृदयस्य ईशः ।) भर्त्ता । इति

त्रिकाण्डशेषः ॥ तत्पर्य्यायः ।
“प्रेयस्याद्याः पुंसि पत्यौ भर्त्ता सेक्ता पतिर्व्वरः ।
विवोढा रमणो भोक्ता रूच्यो वरयिता धवः ॥”
इति हेमचन्द्रः ॥

हृदयेशा, स्त्री, (हृदयस्य ईशा ।) भार्य्या । यथा,

“प्रेयसी दयिता कान्ता प्राणेशा वल्लभा
प्रिया ।
हृदयेशा प्राणसमा प्रेष्ठा प्रणयिनी च सा ॥”
इति हेमचन्द्रः ॥

हृदावर्त्तः, पुं, (हृदयस्थितः आवर्त्तः ।) अश्व-

हृदयावर्त्तः । तत्पर्य्यायः । श्रीवृक्षकंः २ । इति
त्रिकाण्डशेषः ॥

हृदिस्पृक्, [श्] त्रि, (हृदि हृदये स्पृशतीति ।

स्पृश् + क्विन् । “हृद्द्युभ्यां ङेः ॥” ६ । ३ ।
९ । इत्यस्य वार्त्तिकात् अलुक्समासः ।)
हृद्यः । इति केचित् ॥ (यथा, भागवते । ६ ।
१४ । ४३ ।
“यो दुस्त्यजान् दारसुतान् सुहृद्राज्यं हृदि-
स्पृशः ।
जहौ युवैव मलवदुत्तमश्लोकलालसः ॥”)
हृदयस्पर्शकर्त्ता च ॥

हृद्गोलः, पुं, पर्व्वतविशेषः । इति केचित् ॥

हृद्गोलीयः, त्रिः, (हृद्भोलोऽभिजनीऽस्येति । छः ।)

हृद्गोलपर्व्वतोद्भवः । इति केचित्

हृद्ग्रन्थः, पुं, (हृत् हृदयं ग्रथ्नातीति । ग्रन्थ +

अच् ।) हृद्ब्रणः । इति राजनिर्घण्टः ॥

हृद्यं, क्ली, (हृदयस्य प्रियं मनोज्ञत्वात् । हृदय

+ “हृदयस्य हृल्लेखयदण् लासेषु ।” ६ । ३ । ५० ।
इति यत् हृदादेशश्च ।) गुडत्वक् । इति शब्द-
रत्नावली ॥

हृद्यः, पुं, (हृदय + यत् । हृदादेशः ।) वशकृद्-

वेदमन्त्रः । इति मेदिनी ॥

हृद्यः, त्रि, (हृदयस्य प्रियमिति । हृदय + “हृद-

यस्य हृल्लेखयदण्लासेषु ।” ६ । ३ । ५० ।
इति यत् हृदादेशश्च ।) मनोहरः । इत्यमरः ।
३ । १ । ५३ ॥ अस्य पर्य्यायः मनोज्ञशब्दे द्रष्टव्यः ॥
हृज्जः । हृद्धितः । हृत्प्रियः । इति मेदिनी ॥
(यथा, मनौ । ३ । २२७ ।
“भक्ष्यं भोज्यञ्च विविधं मूलानि च फलानि च ॥
हृद्यानि चैव मांसानि पानानि सुरभीणि च ॥”)

हृद्यगन्धं, क्ली, (हृद्यो गन्धोऽस्य ।) क्षुद्रजीरकम् ।

इति शब्दचन्द्रिका ॥ सौवर्च्चलम् । इति राज-
निर्घण्टः ॥

हृद्यगन्धः, पुं, (हृद्यो मनोहरो गन्धोऽस्य । विल्व-

वृक्षः । इति जटाधरः ।

हृद्यगन्धा, स्त्री, (हृद्यो गन्धोऽस्याः ।) जाती ।

इति राजनिर्घण्टः ॥

हृद्यगन्धि, क्ली, (हृद्यो गन्धोऽस्य । इत् समा-

सान्तः ।) क्षुद्रजीरकम् । इति रत्नमाला ॥

हृद्या, स्त्री, (हृद् + यत् । टाप् ।) वृद्विनामौषधिः ।

इति मेदिनी ॥
पृष्ठ ५/५४६

हृद्रोगः, पुं, कुम्भराशिः । इति शुद्धिदीपिका ॥

(हृदयस्य रोग इव ।) कामः । यथा, --
“हृद्रोगमाश्वपहिनोत्यचिरेण धीरः ।”
इति श्रीभागवतम् ॥
हृदयस्य रोगः ।) हृदयपीडा । तत्र हृद्रो-
गस्य विप्रकृष्टं निदानमाह ।
“अत्युष्णगुर्व्वम्लकषायतिक्त-
श्रमाभिघाताध्ययनप्रसङ्गैः ।
सञ्चिन्तनैर्व्वेगविधारणैश्च
हृदामयः पञ्चविधः प्रदिष्टः ॥”
प्रसङ्गः सततं सेवा । सञ्चिन्तनमतिचिन्ता राज-
भयादिकमिति यावत् । पञ्चविधः वातिकः
पैत्तिकः श्लैष्मिकः सान्निपातिकः क्रिमिज-
श्चेति ॥ * ॥ तस्य संप्राप्तिपूर्व्वकं लक्षणमाह ।
“दूषयित्वा रसं दोषा विगुणा हृदयङ्गताः ।
हृदि वाधां प्रकुर्व्वन्ति हृद्रोगं तं प्रचक्षते ॥”
विगुणाः दुष्टाः । वाधां दोषभेदे नानाविधां
व्यथाम् । भङ्गवत् पीडामिति गयदासः ॥ * ॥
वातिकं हृद्रोगमाह ।
“आयम्यते मारुतजे हृदयं तुद्यते तथा ।
निर्मथ्यते दीर्य्यते च स्फोट्यते पाट्यतेऽपि च ॥”
मारुतजे हृद्रोगे इति शेषः । आयम्यते व्यथया
विस्तार्य्यत इव । तुद्यते सूचीभिरिव । निर्म-
थ्यते मन्थानेनेव । दीर्य्यते करपत्रेण द्विधा
क्रियत इव । स्फोट्यते आरयेव । पाट्यते कुठा-
रेण बहुधा क्रियत इव ॥ * ॥ पैत्तिकमाह ।
“तृष्णोष्मदाहचोषाः स्युः पैत्तिके हृदये क्लमः ।
धूमायनञ्च मूर्च्छाच र्क्लदः शोषो मुखस्य च ॥”
उष्मा शीतगात्रस्यैव शीतवाताभिलाषहेतु
किञ्चिदन्तरौष्णम् । दाहः पार्श्वस्थेन वह्रिनेव
दुःखहेतुर्गात्रसन्तापः । चोषः चूषणेनेव पीडा ।
हृदये क्लमः हृदयाकुलत्वं ग्लानिरित्यर्थः । धूमा-
यनं कण्ठाद्धूमनिर्गम इव । क्लेदः किञ्चिद्दर्गन्धः
सटित इव ॥ * ॥ श्लैष्मिकमाह ।
“गौरवं कफसंस्रावोऽरुचिस्तम्भोऽग्निमार्द्दवम् ।
माधुर्य्यमपि चास्यस्य वलासा वर्त्तते हृदि ॥”
वलासा वर्त्तते हृदि कुपितकफव्याप्तेः । गौरवं
हृदयस्य । स्तम्भो जडता । मार्दवं जलप्लुत-
मिव । माधुर्य्यं मुखे ॥ * ॥ त्रिदोषजमाह ।
“विद्यात् त्रिदोषमप्येवं सर्व्वलिङ्गं हृदामयम् ॥”
कृमिजमाह । कृमयो जायन्ते अस्मिन्निति
कृमिज इति निरुक्तिः ॥ * ॥ तस्य निदान-
पुर्व्विकां संप्राप्तिमाह ।
“त्रिदोषहेतुहृद्रोगे यो दुरात्मा निषेवते ।
तिलक्षीरगुडादींश्च ग्रन्थिस्तस्योपजायते ॥
मर्म्मैकदेशसंक्लेदं रसश्चाप्युपगच्छति ।
सक्लेदात् कृमयश्चास्य भवन्त्युपहतात्मनः ॥”
मर्म्मैकदेशे हृदयैकदेशे संक्लेदं सटितत्वं रस
उपगच्छति संक्लेदात् । रसस्य सटितत्वात् ।
उपहतात्मनः तिलाद्यहिताहारेण ॥ * ॥ तस्य
लक्षणमाह ।
“उत्क्लेदः ष्ठोवनं तोदः शूलं हृल्लासकस्तमः ।
अरुचिः श्यावनेत्रत्वं शोषञ्च कृमिजे भवेत् ॥”
उत्क्लेदः वमनमिवोपस्थितम् । शोषो यक्ष्मा ॥
हृद्रोगस्योपद्रवानाह ।
“क्लोमसादो भ्रमः शोषो ज्ञेयास्तेषामुपद्रवाः ।
कृमिजे तु कृमीणां ये श्लैष्मिकाणां हि ते
मताः ॥”
क्लोम्नः पिपासास्थानस्य सादः शोषः । शोषो
मुखस्य । तेषां हृद्रोगाणाम् । कृमिजे तु हृद्रोगे
श्लैष्मिकाणां कृमीणां ये उपद्रवा हृल्लासात्
प्रस्रवणान्ता विपाकादयस्ते मताः ॥ * ॥ अथ
हृद्रोगस्य विकित्सा ।
“घृतेन दुग्धेन गुडाम्भसा वा
पिबन्ति चूर्णं ककुभत्वचो ये ।
हृद्रोगजीर्णज्वररक्तपित्तं
हत्वा भवेयुश्चिरजीनिनस्ते ॥ १ ॥
हरीतकी वचा रास्ना पिप्पली नागरोद्भवम् ।
षटी पुष्करमूलोत्थं चूर्णं हृद्रोगनाशनम् ॥ २ ॥
पुटदग्धहरिणशृङ्कपिष्टं गव्येन सर्पिषा पिबतः ।
हृत्पृष्ठशूलमचिरादुपैति शान्तिं सुकष्टमपि ॥ ३ ॥
तैलाज्यगुडविपक्वंचूर्णं गोधूमपार्थोत्थम् ।
पिबति पयोमुक् स भवति गतसकलहृदामयः
पुरुषः ॥
पार्थः कौह इति लोके ॥ ४ ॥
गोधूमककुभचूर्णं पक्वमजाक्षीरगव्यसर्पिर्भ्याम् ।
मधुशर्करासमेतं शमयति हृद्रोगमुल्वणं
पुंसाम् ॥ ५ ॥
पार्थेन कल्केन रसेन सिद्धं
शस्तं घृतं सर्व्वहृदामयेषु ॥
अर्ज्जुनघृतम् ॥ ६ ॥
घृतं वला नागवलार्ज्जुनानां
क्वाथेन कल्केन च षष्टिकायाः ।
सिद्धं निहन्याद्धृदयामयं हि
सवातरक्तक्षतरक्तपित्तम् ॥”
वलादिघृतम् ॥ ७ ॥ इति हृद्रोगाधिकारः ।
इति भावप्रकाशः ॥ * ॥ अपि च ।
धन्वन्तरिरुवाच ।
“हद्रोगादिनिदानं ते वक्ष्येऽहं सुश्रुताधुना ।
कृमिहृद्रोगलिङ्गैश्च स्मृताः पञ्च तु हृद्गदाः ॥
वातेन शूल्यतेऽत्यर्थं तुद्यता रुदतीति च ।
भिद्यते शुष्यते स्तब्धं हृदयं शून्यताद्रवः ॥
अकस्माद्दीनता शोको भयं शब्दोऽसहिष्णुता ।
वेपथुर्वेपनं मोहः श्वासरोधोऽल्पनिद्रता ॥
पित्तातृष्णा श्रमो दाहः स्वेदोऽम्लः कफजः
क्रमः ।
छर्दनञ्चाम्लपित्तस्य धूमकम्पितता ज्वरः ॥
श्लेष्मणा हृदयस्तब्धं भावितं चाश्मगर्भवत् ।
कासास्थिसादनिष्ठेव निद्रालस्यारुचिर्ज्वरः ॥
सर्व्वलिङ्गं त्रिभिर्दोषैः क्रिमिभिः श्यामनेत्रता ।
तमःप्रवेशौ हृल्लासः शोफः कण्डुः कफस्रुतिः ॥
हृदयं प्रततञ्चात्र क्रकचेनेव दार्य्यते ।
चिकित्सेदामयं घोरं तच्छ्रीघ्रं शीघ्रकारणम् ॥”
इति गारुडे । १५८ । १ -- ७ ॥ * ॥
“शुण्ठी सौवर्च्चलं हिङ्गु पीत्वा हृदयरोगनुत् ।”
इति च गारुडे । १८८ । ४३ ॥

हृद्रोगवैरी, [न्] पुं, (हृद्रोगस्य वैरी ।) अर्ज्जुन-

वृक्षः । इति शब्दचन्द्रिका ॥

हृद्वण्टकः, पुं, (हृदो वण्टकः ।) जठरम् । इति

शब्दचन्द्रिका ॥

हृल्लासः, पुं, (हृदयस्य लासोऽत्र । “हृदयस्य

हृल्लेखयदण्लासेषु । ६ । ३ । ५ । इति
हृदादेशः ।) हिक्का । यथा, --
“हिक्का हेक्का च हृल्लासः प्रतिस्यायस्तु पीनसः ॥”
इति हेमचन्द्रः ॥
(यथा, सुश्रुते सूत्रस्थाने २६ अध्याये ।
“धमनीस्थे सफेनं रक्तमीरयन्ननिलः सशब्दो
निर्गच्छत्यङ्गमर्द्दः पिपासा हृल्लासश्च ॥”) अस्य
निदानादि हिक्काशब्दे द्रष्टव्यम् ॥

हृल्लेखः, पुं, (हृदयं लिखतीति अण् । “हृदयस्य

हृल्लेखेति ।” ६ । ३ । ५० । इति हृदादेशः ।)
ज्ञानम् । इति राजनिर्घण्टः ॥ तर्कः । इति
त्रिकाण्डशेषः ॥

हृल्लेखा, स्त्री, (हृल्लेख + अजादित्वात् टाप् ।)

औत्सुक्यम् । इति हलायुधः ॥

हृष, उ हृष्टौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् । क्वावेट् ।) हृष्टिश्चित्तोत्साहः ।
उ, हर्षित्वा हृष्ट्वा । क्त्वा इमो वेटत्वान्नेम डी-
श्वीत्वादिना इमे निषेधे निष्ठायां हृष्टः
अस्मात् पुषादित्वान्नित्यं ङ इत्यन्ये । इति
दुर्गादासः ॥

हृष, उ ञि अलीके । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-सक०-सेट् । क्वावेट् ।) उ, हर्षित्वा
हृष्ट्वा । ञि, हृष्टोऽस्ति । अलीकं मिथ्याकरणम् ।
हर्षति कथां नीचः मिथ्या करोति इत्यर्थः ।
इति दुर्गादासः ॥

हृष, य ञि इर् हृष्टौ । इति कविकल्पद्रुमः ॥

(दिवा०-पर०-अक०-सेट् ।) य, हृष्यति लोकः
सुखात् । ञि, हृष्टोऽस्ति । इर अहृषत् अह-
र्षीत् । अस्मात् पुषादित्वा न्नित्यं ङ, इत्यन्ये ।
इति दुर्गादासः ॥

हृषितं, त्रि, (हृष् + क्त । वा इट् ।) विस्मृतम् ।

प्रीतम् । प्रहतम् । हृष्टरोम । इति मेदिनी ॥
प्रणतम् । वर्म्मितम् । इति धरणिः ॥

हृषी, पुं, अग्निसोमौ । इति महाभारते मोक्ष-

धर्म्मः ॥

हृषीकं, क्ली, (हृष्यत्यनेनेति । हृष + “अनिहृषिभ्यां

किच्च ।” उणा ० । ४ । १७ । इति ईकन् ।
स कित् ।) इन्द्रियम् । इत्यमरः । १ । ५ । ८ ॥
(यथा भागवते । २ । ६ । ३२ ।
“न भारती मेऽङ्गमृषोपलक्ष्यते
न वै क्वचिन्मे मनसो मृषा गतिः ।
न मे हृषिकाणि पतन्त्यसत्पथे
यन्मे हृदोत्कण्ठ्यवता धृतो हरिः ॥”)

हृषीकेशः, पुं, (हृषीकाणां ईशः ।) विष्णुः ।

इत्यमरः । १ । १ । १८ ॥ हृषीकाणामिन्द्रियाणा-
पृष्ठ ५/५४७
मीशो हृषीकेशः क्षेत्रज्ञरूपकत्वात् परमात्म-
त्वाद्वा । इन्द्रियाणि यद्वशे वर्त्तन्ते स पर-
मात्मा । इति शङ्कराचार्य्यः । पौराणिका-
स्त्वाहुः । हृष्टा जगत् प्रीतकराः केशा रश्मयो-
ऽस्य हृषीकेशः । पृषोदरादिः । अयं हि
सूर्य्यरूपश्चन्द्ररूपश्च । तथा च मोक्षधर्म्मे ।
“सूर्य्याचन्द्रमसोः शश्वत् अशुभिः केशसंज्ञितैः ।
बोधयत् खापयच्चैव जगदुद्भिद्यते पृथक् ।
बोधनात् स्वापनाच्चैव जगतो हर्षणं भवेत् ॥
अग्नीसोमकृतैरेव कर्म्मभिः पाण्डुनन्दन ! ।
हृषीकेशोऽहमीशानो वरदो लोकभावनः ॥”
इति भरतः ॥
अपि च ।
“हृषीकाणि नियम्याहं यतः प्रत्यक्षतां गतः ।
हृषीकेश इति ख्यातो नाम्नां तत्रैव संस्थितः ॥”
इति वाराहे रुरुक्षेत्रहृषीकेशमहिमानामा-
ध्यायः ॥ * ॥
“वृथा धर्म्मञ्चरिष्यन्ति कलौ तस्मिन् युगान्तिमे ॥
ये चान्यशापनिर्द्दग्धा गौतमस्य महात्मनः ।
सर्व्वे ते ह भविष्यन्ति ब्राह्मणद्यासु जातिषु ॥
विनिन्दन्ति हृषीकेशं ब्राह्मणान् ब्रह्मवादिनः ।
वेदवाह्या व्रताचारा दुराचारा वृथाश्रमाः ॥
मोहयन्ति जनान् सर्व्वान् दर्शयित्वा फलानि च ।
तमसाविष्टमनसो वैडालव्रतिकाधमाः ॥
कलौ रुद्रो महादेवो लोकानामीश्वरः परः ॥
न देवता भवो नृणां देवतानाञ्च दैवतम् ।
करिष्यत्यवताराणि शङ्करो नीललोहितः ॥
श्रौतस्मार्त्तप्रतिष्ठार्थं भक्तानां हितकाम्यया ।
उपदेक्ष्यन्ति तज्ज्ञानंशिष्याणां ब्रह्मसंहितम् ॥”
इति कौर्म्मे २७ अध्यायः ॥

हृष्टः, त्रि, (हृष् + क्त । वा इट् ।) प्रीतः । जात-

हर्षः । इत्यमरः । ३ । १ । १०३ ॥ अस्य
पर्य्यायः प्रोतशब्दे द्रष्टव्यः । रोमाञ्चितः ।
प्रहसितः । विस्मितः । इति विश्वमेदिन्यौ ॥
प्रतिहतः । इति हेमचन्द्रः ॥

हृष्टमानसः, त्रि, (हृष्टं मानसं यस्य । हृष्ट-

चित्तः । तत्पर्य्यायः । हर्षमाणः २ । विकु-
र्व्वाणः ३ प्रमनाः ४ । इत्यमरः । ३ । १ । ७ ॥
प्रीतमानसः ५ । इति शब्दरत्नावली ॥

हृष्टरोमा, [न्] त्रि, (हृष्टानि रोमाण्यस्य ।)

रोमाञ्चितः । इति त्रिकाण्डशेषः ॥ (यथा,
रुग्विनिश्चये ज्वराधिकारे ॥
“यो हृष्टरोमा रक्ताक्षो हृदि सङ्घातशूलवान् ।
वक्त्रेण चैवाच्छसिति तं ज्वरो हन्ति मानवम् ॥”)

हृष्टिः, स्त्री, (हृष् + क्तिन् ।) आनन्दः । मानः ।

इति धरणिः ॥

हे, व्य, (हिनोतीति । हि + बाहुलकात् डे ।)

सम्बोधनम् । (यथा, बृहत्संहितायाम् । ७४ । ११ ।
“जाया वा स्याज्जनित्री वा सम्भवः स्त्रीकृतो
नृणाम् ।
हे कृतघ्नास्तयोर्निन्दां कुर्व्वतां वः कुतः
सुखम् ॥”)
आह्वानम् । असूयादि । इति मेदिनी ॥ आद्यस्य
पर्य्यायः । प्याट् २ पाट् ३ अङ्ग ४ है ५ भोः ६ ।
इत्यमरः । ३ । ४ । ७ ॥ हंहो ७ हुंहो ८
अरे ९ अये १० अयि ११ । इति भरतः ॥

हेक्का, स्त्री, (हेक् इति अव्यक्तं शब्दं कायतीति ।

कै + कः । टाप् ।) हिक्का । इति हेमचन्द्रः ॥

हेठ, वाधे । इति कविकल्पद्रुमः ॥ भ्वा०-पर०-

सक०-सेट् । हेठति । वाधो विहतिः । इति
दुर्गादासः ॥

हेठ, ॠ ङ वाधे । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) ॠ, अजिहेठत् । ङ,
हेठते मत्सरः साधुम् । इति दुर्गादासः ॥

हेठ, श खचे । इति कविकल्पद्रुमः ॥ (तुदा०-

पर०-उत्पत्तौ अक०-पवित्रीकरणे सक०-सेट् ।)
खचो भूतिपूत्योरुत्पत्तिः । श, हेठती हेठन्ती ।
इति दुर्गादासः ॥

हेठ, पुं, (हेठ + घञ् ।) वाधा । विहेठः । इति

मेदिनी ॥

हेड, ङ ऋ अनादरे । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-सक०-सेट् ।) ङ, हेडते
जिहेडे । ऋ, अजिहेडत् । इति दुर्गादासः ॥

हेड, म वेष्टे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) म, हेडयति अहिडि अहीडि
हिडं हिडं हीडं हीडम् । एकारस्य ह्रस्व-
विधाने कण्ठ्यत्वेन समानोऽप्यकारो न स्यात्
एचो युत्स्वमित्युक्तेरिकार एव स्यात् । इका-
रस्य दीर्घविधौ ईकार एव एकारस्य आंशिक-
कण्ठ्यत्वेन विरुद्धत्वात् । केचित्तु दीर्घत्वे गुणं
विधाय अहिडि अहेडीत्यादि मन्यन्ते । इति
दुर्गादासः ॥

हेडजः, पुं, (हेडादनारदाराज्जायत इति । जन +

डः ।) क्रीधः । इति केचित् ॥

हेडावुक्कः, पुं, अश्वविक्रयकारी । इति त्रिकाण्ड-

शेषः ॥

हेतिः, स्त्री, (हन्यतेऽनयेति । हन + “ऊतियूति-

जूतिसातिहेतिकीर्त्तयश्च ।” ३ । ३ । ९७ ।
इति क्तिन् । निपातितश्च ।) अस्त्रम् । (यथा,
रघुः । १० । १२ ।
“दैत्यस्त्रीगण्डलेखानां मदरागविलोपिभिः ।
हेतिभिश्चेतनावद्भिरुदीरितजयस्वनम् ॥”
हिनोति इति । हि + क्तिन् । निपातितश्च ।)
सूर्य्यकिरणः । अग्निशिखा । इत्यमरः । ३ ।
३ । ७० ॥ शिखा । तत्रैव । १ । १ । ६० ॥
तेजोमात्रम् । इति भरतः ॥ साधनम् । यथा, --
“सध्रुङ्नियम्य यतयो यमकर्त्तहेतिं
जह्युः स्वराडिव निपानखनित्रमिन्द्रः ॥”
इति श्रीभागवते । २ । ७ । ४७ ॥
कर्त्तो भेदः तन्निरासोऽकर्त्तः तत्र हेतिं साधनं
जह्युः । इति श्रीधरस्वामी ॥ पुं, असुरविशेषः ।
यथा, भागवते । ६ । १० । २० ।
“पुनोमा वृषपर्व्वा च प्रहेतिर्हेतिरुत्कलः ।
दैत्येया दानवा यक्षा रक्षांसि च सहस्रशः ॥”)

हेतुः, पुं, (हिनोति व्याप्नोति कार्य्यमिति । हि +

“कमिमनिजनिगाभायाहिभ्यश्च ।” उणा ०१ ।
७३ । इति तुः ।) कारणम् । इत्यमरः । १ । ४ । २९ ॥
यथा, मनुः । ८ । ३ ।
“प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्च हेतुभिः ।
अष्टादशसु मार्गेषु निबद्धानि पृथक् पृथक् ॥”)
न्यायमते व्यापकज्ञापकः । व्याप्य इति यावत् ।
तमेव लिङ्गमामनन्ति । तस्य लहणं यथा ।
हेतुत्वञ्च अनुमितिकारणीभूतलिङ्गपरामर्श-
प्रयोजकशाब्दाज्ञानकारणसाध्याविषयकशाब्द-
धीजनकहेतुविभक्तिमच्छब्दत्वम् । हेतुत्वप्रति-
पादकविभक्तिमन्न्यायावयवत्वं वा । उदाहरण-
प्रयोजकाकाङ्क्षाजनकशाब्दज्ञानजनकन्यायाव-
यवत्वं वा । साध्याविषयकज्ञानजनकहेतुपञ्चम्य-
न्तानुमितिपरशब्दत्वं वा । प्रतिज्ञावाक्यधीजन्य-
कारणाकाङ्क्षानिवर्त्तकज्ञानजनकहेतुविभक्तिम-
द्वाक्यत्वं वा । पञ्चम्यन्तलाक्षणिकपदवदनुमिति-
परवाक्यत्वं वा । इति गङ्गेशोपाध्यायकृतावयत-
चिन्तामणिः ॥ (तथास्य लक्षणम् । “अथ हेतुः ।
हेतुर्नामोपलब्धिकारणम् तत्प्रत्यक्षमनुमान-
मैतिह्यमौपम्यमेभिर्हेतुभिर्यदुपलभ्यते तत्तत्त्वम् ।”
इति चरके विमानस्थाने अष्टमेऽध्याये ॥
तथास्य पर्य्यायः । “इह खलु हेतुर्निमित्तमाय-
तनं कर्त्ता कारणं प्रत्ययः समुत्थानं निदान-
मित्यनर्थान्तरम् ।” इति च चरके निदानस्थाने
प्रथमेऽध्याये ॥ तैजसधातुविशेषः । तत्पर्य्यायो
यथा, --
“यसदं रङ्गसदृशं रीति हेतुश्च तन्मतम् ।”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

हेतुकः, पुं, कारणम् । हेतुरेव स्वार्थे कः । तत्-

सम्बन्धिनि, त्रि । अत्र बहुव्रीह्यर्थे कप्रत्ययः ।
यथा प्रकृतसाध्यहेतुकानुमितिपरत्वमावश्य-
कम् । इति सामान्यनिरक्तिगादाधरी ॥

हेतुता, स्त्री, (हेतोर्भावः । हेतु + तल् ।) कार-

णता । हेतुत्वम् । यथा, --
“सप्रसङ्ग उपोद्घातो हेतुतावसरस्तथा ।
निर्ब्बाहकैककार्य्यत्वे षोढा सङ्गतिरिष्यते ॥”
इत्यनुमितिजागदीशी ॥

हेतुमान्, [त्] त्रि, (हेतुरस्यास्तीति । हेतु +

मतुप् ।) कारणवान् । यथा । हेतुहेतुमतो-
र्लिङ् । इति पाणिनिसूत्रम् ॥

हेतौ, व्य, हेतुना । हेतोर्द्वारा । इति केचित् ॥

हेत्वाभासः, पुं, (हेतुरिव आभासते । आ + भास

+ अच् । हेतोरामासो वेति । आ + भास +
घञ् ।) हेतुदोषः । स तु पञ्चविधः । व्यभि-
चारः १ विरुद्धः २ असिद्धः ३ सत्प्रतिपक्षः ४
वाधः ५ । यथा, --
“अनैकान्तो विरुद्धश्चाप्यसिद्धः प्रतिपक्षितः ।
कालात्ययापदिष्टश्च हेत्वाभासास्तु पञ्चधा ॥
आद्यः साधारणस्तु स्यात् स्यादसाधारणो-
ऽपरः ।
तथैवानुपसंहारी त्रिधानैकान्तिको भवेत् ॥
पृष्ठ ५/५४८
यः सपक्षे विपक्षे च स तु साधारणो मतः ।
यस्तूभयस्माद्व्यावृत्तः स त्वसाधारणो मतः ॥
तथैवानुपसंहारी केवलान्वयिपक्षकः ।
यः साध्यवति नैवास्ति स विरुद्ध उदाहृतः ॥
आश्रयासिद्धिराद्या स्यात् स्वरूपासिद्धिरप्यथ ।
व्याप्यत्वासिद्धिरपरा स्यादसिद्धिरतस्त्रिधा ॥
पक्षासिद्धिर्यत्र पक्षो भवेन्मणिमयो गिरिः ।
ह्रदो द्रव्यं धूमवत्त्वादत्रासिद्धिरथापरा ॥
व्याप्यत्वासिद्धिरपरा नीलधूमादिके भवेत् ।
विरुद्धयोः परामर्शो हेत्वोः सत्प्रतिपक्षता ॥
साध्यशून्यो यत्र पक्षस्त्वसौ वाध उदाहृतः ।
उत्पत्तिकालीनघटे गन्धादिर्यत्र साध्यते ॥”
इति भाषापरिच्छेदः ॥ * ॥
तस्य सामान्यलक्षणानि यथा । अनुमिति-
कारणीभूताभावप्रतियोगि यथार्थज्ञानविष-
यत्वम् । यद्विषयत्वेन लिङ्गज्ञानस्यानुमितिप्रति-
बन्धकत्वम् । ज्ञायमानं सत् यदनुमितिप्रति-
बन्धकं तत्त्वं वा हेत्वाभासत्वम् ॥ * ॥ तस्य
विशेषलक्षणानि यथा । उभयकोट्युपस्थापक-
तावच्छेदकरूपवत्त्वं तत्त्वम् । विरुद्धान्यपक्ष-
वृत्तित्वे सति अनुमितिविरोधिसम्बन्धाव्या-
वृत्तिर्व्वा अनैकान्तिकः । विपक्षवृत्तित्वं साधा-
रणत्वम् । सर्व्वसपक्षव्यावृत्तो हेतुरसाधारणः ।
व्याप्तिग्रहानुकूलैकधर्म्युपसंहाराभावो यत्र स
हेत्वभिमतोऽनुपसंहार्य्यः ॥ * ॥ साध्यव्यापका-
भावप्रतियोगित्वं विरुद्धत्वम् ॥ * ॥ साध्यविरो-
ध्युपस्थापनसमर्थसमानबलोपस्थित्या प्रतिरुद्व-
कार्य्यलिङ्गंत्वंतत्वं सत्प्रतिपक्षितत्वम् ॥ * ॥ व्याप्ति-
पक्षधर्म्मतानिश्चयविरोधिरूपवत्त्वं असिद्धिः ।
पक्षनिष्ठ-प्रमाविषयत्व-प्रकारामाव-प्रतियोगि-
साध्यकत्वं वाधः । इति चिन्तामणिः ॥

हेम, [न्] क्ली, (हिनोति वर्द्धते स्फुटति वेति ।

हि + मनिन् ।) स्वर्णम् । यथा, रघौ । १ । १० ।
“हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि-
वा ॥”)
धुस्तूरम् । इत्यमरः । १ । ९ । ९४ ; ३ । ५ । २३ ॥
केशरम् । इति राजनिर्घण्टः ॥ हिमः । इति
हेमन्तशब्दटीकायां भरतधृतमाधवी ॥

हेमं, क्ली, (हि + मन् ।) सुवर्णम् । इति केचित् ॥

हेमः, पुं, (हि + मन् ।) माषकपरिमाणम् । इति

वैद्यकपरिभाषा ॥ कृष्णवर्णाश्वः । बुधः । इति
केचित् ॥ (ययातिवंशजरुषद्रथपुत्त्रः । यथा,
विष्णुपुराणे । ४ । १८ । १ । “तितिक्षोरुषद्रथः
पुत्त्रोऽभूत ततो हेमः हेमात् सुतपाः ॥”)

हेमकन्दलः, पुं, (हेमवर्णं कन्दलं नवाङ्कुरोऽस्य ।

यद्वा, हेमवर्णं कन्दं लातीति । ला + कः ।)
प्रबालः । इति हेमचन्द्रः ॥

हेमकान्तिः, स्त्री, (हेमवत् कान्तिरस्याः ।) दारु-

हरिद्रा । इति राजनिर्घण्टः ॥ स्वर्णद्युतिमति,
त्रि ॥ (यथा, बृहत्महितायाम् । ७ । २० ।
“हेमकान्तिरथवा शुकवर्णः
सस्यकेन मणिना सदृशो वा ।
स्निग्धमूर्त्तिरलघुश्च हिताय
व्यत्ययेन शुभकृच्छशिपुत्त्रः ॥”)

हेमकारः, पुं, (हेम हेममयं भूषणं करोतीति ।

कृ + अण् ।) हेमकर्त्ता । स्वर्णकारः । यथा,
“सर्व्वसङ्करपापिष्ठं हेमकारं नराधिपः ।
अन्याये वर्त्तमानञ्च छेदयेत्त्वरसा क्षुरैः ॥”
इति मत्स्यपुराणे । २२७ । १८५ ॥

हेमकिञ्जल्कं, क्ली, (हेमवर्णं किञ्जल्कमस्य ।)

नागकेशरम् । इति राजनिर्घण्टः ॥ (नागकेशर-
शब्देऽस्य विषयो ज्ञातव्यः ॥)

हेमकूटः, पुं, (हेममयः कूटो यस्य ।) पर्व्वत-

विशेषः । इत्यमरः । २ । ३ । ३ ॥ स तु किंपुरुष-
वर्षस्य सीमापर्व्वतः । नवतिसहस्रयोजनदीर्घः ।
द्विसहस्रयोजनप्रस्थः । द्विसहस्रयोजनविस्तारः ।
हिमालयादुत्तरेस्थितः । इति श्रीभागवतमतम् ॥
(यथा, महाभारते । ३ । ११० । २ ।
“पर्व्वतं स समासाद्य हेमकूटमनामयम् ।
अचिन्त्यानद्भुतान् भावान् ददर्श सुबहू-
न्नृपः ॥”)

हेमकेतकी, स्त्री, (हेमवर्णा केतकी ।) स्वर्ण-

केतकी । इति राजनिर्घण्टः ॥

हेमकेलिः, पुं, (हेमवर्णः केलिः कम्पनादिः

यस्य ।) अग्निः । इति शब्दमाला ॥

हेमकेशः, पुं, (हेमवर्णः केशोऽस्य । जटाया पीत-

त्वात् तथात्वम् ।) शिवः । इति केचित् ॥

हेमक्षीरी, स्त्री, (हेमेव पीतवर्णं क्षीरं निर्य्यासो

यस्याः । ङीष् ।) स्वर्णक्षीरी । इति राज-
निर्घण्टः ॥ पर्य्यायोऽस्या यथा, --
“हेमक्षीरी स्मृता प्रीता गौरी च काल-
दुग्धिका ।”
इति गारुडे २०८ अध्यायः ॥
“कटुपर्णी हैमवती हेमक्षीरी हिमावती ।
हेमाह्वा पीतदुग्धा च तन्मूलञ्चोकमुच्यते ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

हेमगन्धिनी, स्त्री, (हेम्नः नागकेशरस्येव गन्धो-

ऽस्ति अस्याः । इनिः ।) रेणुकाख्यगन्धद्रव्यम् ।
इति रत्नमाला ॥

हेमगौरः, पुं, (हेमवत् गौरः ।) किङ्किरातवृक्षः ।

इति राजनिर्घण्टः ॥ (यथास्य पर्य्यायः ।
“किङ्किरातो हेमगौरः पीतकः पीतभद्रकः ॥”
इति मावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
स्वर्णवद्गौरवर्णयुक्ते, त्रि ॥

हेमगौराङ्गः, त्रि, (हेमानीव गौराणि अङ्गा-

न्यस्य ।) स्वर्णतुल्यगौरवर्णाङ्गविशिष्टः । यथा,
“विषेणोत्तिष्ठमानेन कालानलसमत्विषा ।
निर्द्दग्धहेमगौराङ्गः कृतः कृष्णो जनार्द्दनः ॥
तं दृष्ट्वा हेमगोराङ्गं कृतं कृष्णं जनार्द्दनम् ।
ततः सर्व्वे वयं भीतास्त्वामेव शरणं गताः ॥”
इति स्कान्दे नीलकण्ठस्तोत्रम् ॥

हेमचन्द्रः, पुं, अभिधानचिन्तामणिनामकोष-

कर्त्ता । यथा, --
“सानेकार्थनाममालात्मकः कोषवरः शुभः ।
हेमचन्द्रप्रणीताभिधानचिन्तामणिर्म्मणिः ॥”
इति तस्य सूचीकारश्लोकः ॥
स्वर्णमयशशी च । सोणार चाद इति भाषा ॥

हेमज्वालः, पुं, (हेमवर्णा ज्वालास्य ।) अग्निः ।

इति शब्दमाला ॥

हेमतारं, क्ली, (हेम तारयति उत्कर्षं नयति ।

तॄ + णिच् + अच् ।) तुत्थम् । इति हेमचन्द्रः ॥
(तुत्थशब्देऽस्य विवृतिर्ज्ञातव्या ॥)

हेमदुग्धः, पुं, (हेमवर्णं दुग्धं निर्य्यासोऽस्य ।)

उडुम्बरवृक्षः । इति शब्दरत्नावली ॥

हेमदुग्धकः, पुं, (हेमवर्णं दुग्धं निर्य्यासोऽस्य ।

कप् ।) उडुम्बरवृक्षः । इत्यमरः । १ । ४ । १२ ॥
(पर्य्यायो यथा, --
“उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः ।”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
पीतवर्णक्षीरयुक्ते, त्रि ॥

हेमदुग्धा, स्त्री, (हेमवर्णं दुग्धं निर्य्यासोऽस्याः ।)

स्वर्णक्षीरी । इति जटाधरः ॥ (गुणादयोऽस्या
स्वर्णक्षीरीशब्दे बोद्धव्याः ॥)

हेमदुग्धी, [न्] पुं, (हेमवर्णं दुग्धं निर्य्यासोऽस्या-

स्तीति । इनिः ।) यज्ञोडुम्बरवृक्षः । इति शब्द-
रत्नावली ॥

हेमदुग्धी, स्त्री, (हेमवर्णं दुग्धं निर्य्यासोऽस्याः ।

ङीष् ।) स्वर्णक्षीरी । इति राजनिर्घण्टः ॥

हेमन्तः, पुं, क्ली, (हन्ति लोकान् शैत्येनेति । हन् +

“हन्ते र्मुठि च ।” उणा ०३ । १२९ । इति
झच् हन्तेर्हि चेति हिरादेशः मुडागमो
गुणश्च ।) ऋतुविशेषः । स तु अग्रहायणपौष-
मासात्मकः । यथा । षडमी ऋतवः पुंसि
मार्गादीनां युगैः क्रमादिति वक्ष्यमाणेनान्वयः ।
ते के इत्याह हेमन्त इत्यादि मार्गपौषाभ्यां
ऋतुर्हेमन्तः । हन्ति सन्तापमिति । हिमो-
ऽन्तोऽस्येति वा मनीषादित्वात् हेमन्तः । अर्द्ध-
र्च्चादिरयमिति केचित् । तेन अस्त्रियामित्य-
स्यानेनापि सम्बन्धः । हेमन्शब्दोऽप्यस्तीति
माधवी । इति भरतः ॥ तत्पर्य्यायः । हैमनः २ ।
इति शब्दरत्नावली ॥ उष्मासहः ३ शरदन्तः ४
हिमागमः ५ । तत्कालोद्भवजलगुणाः ।
“हैमन्तिकं जलं स्निग्धं वृष्यं बल्यं हितं गुरु ।”
इति राजनिर्घण्टः ॥ * ॥
तत्र लोकप्रतपनार्थमग्निप्रदानफलं यथा, --
“हेमन्ते शिशिरे चैव पुण्याग्निं यः प्रयच्छति ।
सर्व्वलोकप्रतापार्थं स पुण्यां गतिमाप्नुयात् ॥”
इति वह्निपुराणे कन्यादाननामाध्यायः ॥
तत्र भगवत्समीपे अग्निप्रज्वालनविधिः सेवा-
शब्दे द्रष्टव्यः ॥ * ॥ तत्र वर्णनीयानि ।
“हेमन्ते दिनलघुता शीतयवस्तम्बमरुवक-
हिमानि ।”
इति कविकल्पलता ॥

हेमन्तनाथः, पुं, (हेमन्ते नाथ्यते याच्यते इति ।

नाथ + कर्म्मणि घञ् ।) कपित्थः । इति शब्द-
चन्द्रिका ॥ (कपित्थशब्देऽस्य विषयो ज्ञातव्यः ॥)
पृष्ठ ५/५४९

हेमपर्व्वतः, पुं, (हेममयः पर्व्वतः ।) मुमेरुगिरिः ।

इति हलायुधः ॥

हेमपुष्पं, क्ली, (हेमवर्णं पुष्पम् ।) अशोकपुष्पम् ।

जवापुष्पम् । इति मेदिनी ॥

हेमपुष्पः, पुं, हेमवर्णं पुष्पं यस्य ।) चम्पकवृक्षः ।

इति शब्दचन्द्रिका ॥ (अस्य पर्य्यायो यथा, --
“चाम्पेयश्चम्पकः प्रोक्तो हेमपुष्पश्च स स्मृतः ॥”
अशोकः । अस्य पर्य्यायो यथा, --
अशोको हेमपुष्पश्च बञ्जुलस्तास्रपल्लवः ।
कङ्केलिः पिण्डपुष्पश्च गन्धपुष्पो नटस्तथा ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

हेमपुष्पकः, पुं, (हेमवर्णं पुष्पं यस्य । कप् ।)

चम्पकवृक्षः । इत्यमरः । २ । ४ । ६३ ॥ लोध्रः ।
इति राजनिर्घण्टः ॥

हेमपुष्पिका, स्त्री, हेमवर्णं पुष्पं यस्याः । कन्

+ टाप् । अत इत्त्वम् ।) स्वर्णयूथिका । इत्य-
मरः । २ । ४ । ७१ ॥ (तथास्याः पर्य्यायः ।
“यूथिका गणिकाम्बष्ठा सा पीता हेमपुष्पिका ।”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

हेमपुष्पी, स्त्री, (हेमवर्णं पुष्पमस्याः । गौरा-

दित्वात् ङीष् ।) मञ्जिष्ठा । इति शब्दमाला ॥
स्वर्णजीवन्ती । इन्द्रवारुणी । स्वर्णुली । मुषली ।
कण्टकारी । इति राजनिर्घण्टः ॥

हेमफला, स्त्री, हेमवर्णानि फलान्यस्याः ।)

स्वर्णकदली । इति राजनिर्घण्टः ॥

हेममाला, स्त्री, यमपत्नी । इति केचित् । हेम-

निर्म्मिता माला ।) स्वर्णस्रक् ॥

हेममाली, [न्] पुं, (हेमेव किरणानां माला-

स्त्यस्य । इनिः ।) सूर्य्यः । यथा भविष्ये ।
“या शुक्ला कुरुशार्दूल ! वैशाखे मासि वै
तिथिः ।
तृतीया साक्षया लोके गीर्व्वाणैरभिवन्दिता ॥
योऽस्यां ददाति करकान् वारिवाजसमन्वि-
तान् ।
स याति पुरुषो वीर ! लोकान् वै हेम-
मालिनः ॥”
हेममालिनः सूर्य्यस्य । इति तिष्यादितत्त्वम् ॥
(स्वर्णमालाविशिष्टे, त्रि ॥)

हेमयूथिका, स्त्री, (हेमवर्णा यूथिका ।) स्वर्ण-

यूथिका । इति राजनिर्घण्टः ॥

हेमरागिणी, स्त्री, (हेम्न इव रागोऽस्या

अस्तीति । इनिः । ङीप् ।) हरिद्रा । इति
त्रिकाण्डशेषः ॥

हेमलः, पुं, (हेमतदंशं लाति गृह्नातीति । ला +

कः ।) स्वर्णकारः । कृकलासः । प्रस्तरभेदः ।
स तु कषपाषाणः । इति मेदिनी ॥

हेमलता, स्त्री, (हेमवर्णा लता ।) स्वर्णजीवन्ती ।

इति राजनिर्घण्टः ॥ (स्वर्णजीवन्तोशब्देऽस्या
विषयो ज्ञातव्यः ॥)

हेमवलं, क्ली, (हेम्ना वलते शोभते इति ।

वल् + अच् ।) मौक्तिकम् । इति राजनिर्घण्टः ॥
हिमवलमिति साधुपाठः ॥

हेमशङ्खः, पुं, (हेमवर्णः शङ्खोऽस्य ।) विष्णुः ।

इति त्रिकाण्डशेषः ॥

हेमशिखा, स्त्री, (हेमवर्णा शिखास्याः ।) स्वर्ण

क्षीरी । इति शब्दरत्नावली ॥

हेमसार, क्ली, (हेम सारयति निर्म्मलीकरो-

तीति । सृ + णिच् + अण् ।) तुत्थम् । यथा --
“तत्थके तु शिखिग्रीवं हेमसारं मयूरकम् ।”
इति रसचन्द्रिका ॥

हेमसूत्रकं, क्ली, (हेम्नः सूत्रमत्र । कप् ।)

हारविशेषः । इति धरणिः ॥

हेमहस्तिरथः, पुं, (हेमनिर्म्मतहस्तिविशिष्टो

रथो यत्र । स तु दानार्थं कल्पितः ।) महा-
दानविशेषः । तद्विवरणं यथा, --
“अथातः संप्रवक्ष्यामि हेमहस्तिरथं शुभम् ।
यस्य प्रदानात् भवनं वैष्णवं याति मानवः ॥
पुण्यां तिथिं समासाद्य तुलापुरुषदान-
वत् ।
विप्रवाचनकं कुर्य्यात् लोकेशावाहन बुधः ॥
ऋत्विङ्मण्डपसम्भारभूषणाच्छादनादिकम् ।
अत्राप्युपोषितस्तद्वत् ब्राह्मणैः सह भोजनम् ॥
कुर्य्यात् पुष्परथाकारं काञ्चनं मणिमण्डि-
तम् ।
वलभीभिर्विचित्राभिश्चतश्चक्रसमन्वितम् ॥
लोकपालाष्टकोपेतं ब्रह्मार्कशिवसंयुतम् ।
मध्ये नारायणोपेतं लक्ष्म्या चैव समन्वितम् ॥
कृष्णाजिनतिलद्रोणं कृत्वा संस्थापयेद्रथम् ।
तथाष्टादश धान्यानि भाजनामनचन्दनैः ॥
दीपकोपानहच्छत्रदर्पणं पादुकान्वितम् ।
ध्वजे तु गरुडं कुर्य्यात् कूवराग्रे विनायकम् ॥
नानाफलसमायुक्तमुपरिष्टाद्वितानकम् ।
कौषेयपञ्चवस्त्रञ्च अम्लानकुसुमान्वितम् ॥
चतुर्भिः कलसैः मार्द्धं गोभिरष्टाभिरन्वितम् ।
चतुर्भिर्हेममातङ्गैर्मुक्तादामविभूषितम् ॥
स्वरूपतः करिभ्यान्तु युक्तं कृत्वा निवेदयेत् ।
कुर्य्यात् पञ्चपलादूर्द्ध्वमभावादपि शक्तितः ॥
ततो मङ्गलशब्देन स्नापितो वेदपुङ्गवैः ।
त्रिः प्रदक्षिणमावृत्य गृहीतकुसुमाञ्जलिः ॥
इममुच्चारयन्मन्त्रं ब्राह्मणेभ्यो निवेदयेत् ॥
नमो नमः शङ्करपद्मजार्क-
लोकेशविद्याधरवासुदेवैः ।
त्वं मन्यसे वेद पुराण यज्ञ
तेजोमयस्यन्दन पाहि तस्मात् ॥
यत्तत् पदं परमगुह्यतमं मुरारे-
रानन्दहेतु गुणरूपविमुक्तमन्तः ।
योगैकमानसदृशो मुनयः समाधौ
पश्यन्ति तत्त्वमसि नाथ रथेऽधिरूढः ॥
यस्मात्त्वमेव भवसागरसंप्लुताना-
मानन्दभाण्डभृतमध्वरपानपात्रम् ।
तस्मादघौघशमनेन कुरुप्रसादं
चामीकरेभरथमाधवसंप्रदानात् ॥
इत्थं प्रणम्य कनकेभरथप्रदानं
यः कारयेत् सकलपापविमुक्तदेहः ।
विद्याधरामरमुनीन्द्रगणाभिजुष्टं
प्राप्नोत्यसौ पदमतीन्द्रियमिन्दुमीलेः ॥
कृतदुरितवितानादुल्लसद्वह्निजाल-
व्यतिकरकृतदाहोद्वेगभाजोऽपि बन्धून् ।
नयति च पितृपुत्त्रान् बान्धवानप्यशेषान्
कृतगजरथदान शाश्वतं सद्म विष्णोः ॥”
इति मत्स्यपुराणे महादानानुकीर्त्तने हेम-
हस्तिरथप्रदानिको नाम २९२ अध्यायः ॥

हेमा, [न्] पुं, बुधग्रहः । इति त्रिकाण्डशेषः ॥

हेमा, स्त्री, (हेम हेमवर्णमत्स्यस्या इति अच् ।

टाप् ।) अप्सरसः । सुन्दरी स्त्री । इति
केचित् ॥

हेमाङ्गः, पुं, (हेमेव पीतवर्णमङ्गं यस्य ।) गरुडः ।

सिंहः । सुमेरुः । ब्रह्मा । इति मेविनी ॥ चम्पक-
वृक्षः । इति शब्दरत्नावली ॥ विष्णुः । इति
तस्य सहस्रनामस्तोत्रम् ॥ हेमवर्णशरीरे, क्ली ।
तद्युक्ते, त्रि ॥

हेमाद्रिः, पुं, (हेममयोऽद्रिः ।) सुमेरुपर्व्वतः ।

इत्यमरः । १ । १ । ५२ ॥ क्षत्त्रियराजविशेषः ॥
स च चिन्तामणिकामधेनुकल्पद्रुमनामक-
स्मृतिसंग्रहकारकः । यथा, --
“तस्यास्ति नाम हेमाद्रिः सर्व्वश्रीकरण-
प्रभु
निजोदारतया यश्च सर्व्वश्रीकरणप्रभुः ॥
अनेन चिन्तामणिकामधेनु-
कल्पद्रुमानर्थिजनाय दत्तान् ।
विलोक्य शङ्के किममुष्य सर्व्व-
गीर्व्वाणनाथोऽपि करप्रदोऽभूत् ॥
अथामुना धर्म्मकथादरिद्रं
त्रैलोक्यमालोक्य कलेर्बलेन ।
तस्योपकारे दधतानुचिन्तां
चिन्तामणिः प्रादुरकारि चारुः ॥
पञ्चखण्डात्मके शास्त्रे व्रतखण्डादनन्तरम् ।
दानखण्डमिदं तत्र द्वितीयमथ कथ्यते ॥”
इति तत्कृतचतुर्व्वर्गचिन्तामणौ दानखण्डीय-
श्लोकाः ॥

हेमाद्रिजगणः, पुं, (हेमाद्रौ जोर्य्यतीति । जॄ +

ल्युः ।) स्वर्णक्षीरी । इति रत्नमाला ॥ (अस्य
पर्य्यायविवरणादिकं स्वर्णक्षीरीशब्दे ज्ञात-
व्यम् ॥)

हेमाह्वः, पुं, (हेम हमवर्णमाह्वयते स्ववर्णेन

स्पर्द्धते इति । आ + ह्वे + कः ।) वनचम्पकः ।
इति राजनिर्घण्टः ॥ (हेम्न आह्वा आह्वा
यस्य ।) धुस्तूरः । कनकाह्वयशब्ददर्शनात् ॥

हेमाह्वा, स्त्री, (हेम्न आह्वा आह्वा आख्या

यस्याः ।) स्वर्णजीवन्ती । इति राजनिर्घण्टः ॥

हेम्ना, पुं, बुधग्रहः । यथा, --

“हेलिः सूर्य्यश्चन्द्रमाः शीतरश्मि-
र्हेम्ना विज्ज्ञो बोधनश्चेन्द्रपुत्त्रः ।”
इति ज्योतिस्तत्त्वम् ॥

हेयः, त्रि, (हा + “अचो यत् ।” ३ । १ । ९७

इति यत् । “ईद्यति ।” । ६ । ४ । ६५ । इति
पृष्ठ ५/५५०
आत ईत् । गुणः ।) त्याज्यः । यथा, --
“ऊषरा वालुकाक्लिन्ना” इत्यादुपक्रम्य ।
“वास्तुखण्डे महादोषा हेयास्तस्माद्विचक्षणैः ॥”
इति युक्तिकल्पतरुः ॥

हेरं, त्रि, (हि + रन् ।) मुकुटभेदः । हरिद्रा ।

आसुरी माया । इति केचित् ॥

हेरम्बः, पुं, (हे रणे शिवसमीपे वा रम्बते इति ।

रवि शब्दे + पचाद्यच् ।) गणेशः । इत्यमरः । १ ।
१ । ४१ ॥ महिषः । शौर्य्यगर्व्वितः । इति मेदिनी ॥
बुद्धविशेषः । तत्पर्य्यायः । हेरुकः २ चक्रसम्बरः
३ देवः ४ वज्रकपाली ५ निशुम्भो ६ शशि-
शेखरः ७ वज्रटीकः ८ । इति त्रिकाण्ड-
शेषः ॥ * ॥ अथ हेरम्बमन्त्रः । स च ऊकार-
युक्तो गकारः सबिन्दुः प्रणवादिनमोऽन्तश्चतु-
रक्षरः । निबन्धे ।
“पञ्चान्तको बिन्दुयुक्तो वामकर्णविभूषितः ।
तारादिहृदयान्तोऽयं हेरम्बमनुरीरितः ।
चतुर्वर्णात्मको नॄणां चतुर्वर्गफलप्रदः ॥”
अस्य पूजाप्रयोगः । प्रातःकृत्यादिपीठन्यासान्तं
विधाय गणेशोक्तपीठशक्तीः पीठमनुञ्च विन्यस्य
ऋष्यादिन्यासं कुर्य्यात् । अस्य गणक ऋषि-
र्गायत्त्री च्छन्दो हेरम्बा देवता गकारो बीजं
विन्दुः शक्तिश्चतुर्व्वर्गसिद्ध्यर्ये विनियोगः । शिरसि
गणकऋषये नमः । इत्यादि । ततः कराङ्ग-
न्यासौ । गां गीं गूं गं गौं गः इत्येतैः षडङ्गानि
कुर्य्यात् । तथा च ।
“षड्दीर्घभाजा बीजेन षडङ्गानि प्रकल्पयेत् ॥”
ततो ध्यानम् ।
“मुक्ताकाञ्चननीलकुन्दघुसृणच्छायैस्त्रिनेत्रा-
न्वितै-
र्नागास्यैर्हरिवाहनं शशिधरं हेरम्बमर्क-
प्रभम् ।
दृप्तं दानमभीतिमोदकरदान् टङ्कं शिरोऽक्षा-
त्मिकां
मालां मुद्गरमङ्कुशं त्रिशिखकं दोर्भिर्दधानं
भजे ॥”
एवं ध्यात्वा मानसैः संपूज्य शङ्खस्थापनं कुर्य्यात् ।
ततो गणेशोक्तपीठपूजान्तं कृत्वा ॐ हुँ हुँ
महासिंहाय गां हेरम्बासनाय नम इत्यासनं
पूजयेत् । तथा च निबन्धे ।
“प्रणवं कवचद्वन्द्वं महासिंहाय गां ततः ।
हेरम्बेति पदं पश्चात् आसनाय हृदन्ततः ॥
अयमासनमन्त्रः स्यात् प्रदद्यदिमुनासनम् ॥”
इति ॥
पीठन्यासोऽप्येवं मन्त्रः । तत ॐ मं मन्त्रेण
मूर्त्तिं संकल्पयेत् । तथा च निबन्धे ।
“तारादिविघ्नबीजेन मूर्त्तिं तस्य प्रकल्पयेत् ।”
पुनर्ध्यात्वावाहनादिपञ्चपुष्पाञ्जलिदानपर्य्यन्तं
विधाय आवरणपूजामारभेत् । यथा अग्न्यादि-
कोणे मध्ये दिक्षु च गां हृदयाय नम इत्या-
दिना पूजयेत् । तद्वहिरिन्द्रादीन् वज्रादोंश्च
सपूज्य धपादिविसर्जनान्तं कर्म्म समापयेत् ।
अस्य पुरश्चरणं त्रिलक्षजपः । तथा च ।
“त्रिलक्षञ्च जपेन्मन्त्रं दशांशं जुहुयात्ततः ।”
होमद्रव्यं यथा,
“लक्षत्रयं जपेन्मन्त्रमिक्षुदण्डैर्दशांशतः ।
अपूपैराज्ययुक्तैर्व्वा जुहुयान्मन्त्रसिद्धये ॥” * ॥
मन्त्रान्तरम् । गं क्षिप्रप्रसादनःय हृत् । तथा च
निबन्धे ।
“सम्बर्त्तको नेत्रयुतः पार्श्वो वह्न्यासने स्थितः ।
प्रसादनाय हृन्मन्त्रं स्वबीजाद्यो दशाक्षरः ॥”
अस्य पूजा प्रातःकृत्यादिपीठन्यासान्तं कर्म्म
विधाय ऋष्यादिन्यासं कुर्य्यात् । शिरसि गणक-
ऋषये नमः । मुखे विराट्छन्दसे नमः । हृदि
क्षिप्रप्रसादनाय देवतायै नमः । तथा च निबन्धे ।
“गणको मुनिराख्यातो विराट् छन्द उदी-
रितम् ।
क्षिपप्रसादनो विघ्नो देवतास्य प्रकीर्त्तिता ।
दीर्घयुक्तेन बीजेन षडङ्गानि प्रकल्पयेत् ॥”
एकाक्षरवत् कराङ्गन्यासौ कृत्वा ध्यायेत् ।
“पाशाङ्कुशौ कल्पलतां विषाणं
दधत्स्वशुण्डाहितबीजपूरः ।
रक्तस्त्रिनेत्रस्तरुणेन्द्रमौलि-
र्हारोज्ज्वलो हस्तिमुखोऽवताद्वः ॥”
इति धात्वा मानसैः संपूज्य शङ्खस्थापनं कृत्वा
पीठपूजां विधाय पुनर्ध्यात्वावाहनादिपञ्चषुष्पा-
ञ्जलिदानपर्य्यन्तं विधाय आवरणपूजामारभेत् ।
अग्न्यादिषु गां हृदयाय नम इत्यादिना पूजयेत् ।
तथा च निबन्धे ।
“अङ्गानि पूर्व्वमभ्यर्च्च्य विघ्नानष्टौ यजेत्ततः ।
पत्राग्रे पूजयेदेता ब्राह्म्याद्यास्तदनन्तरम् ॥”
पत्रेषु ।
“विघ्नं विनायकं शूरं वीरं वरदसंज्ञकम् ।
इभवक्त्रं चैकरदं लम्बोदरं प्रपूजयेत् ॥”
पत्राग्रेषु ब्राह्म्याद्यास्तद्वहिरिन्द्रादीन् वज्रा-
दींश्च पूजयेत् । ततो धूपादिविसर्जनान्तं कर्म्म
समापयेत् । अस्य पुरश्चरणं लक्षजपः ।
तथा च ।
“लक्षं जपेज्जपस्यान्ते जुहुयादयुतं तिलैः ।
मधुरत्रितयैव्वापि द्रव्यैरष्टाभिरीरितैः ॥”
इति कृष्णानन्दकृततन्त्रसारः ॥

हेरम्बजननी, स्त्री, हेरम्बस्य जननी ।) दुर्गा ।

इति शब्दरत्नावली ॥

हेरम्बहट्टः, पुं, देशविशेषः । स च दक्षिणप्रदेशे

वर्त्तते । इति शब्दरत्नावली ॥

हेरिकः, पुं, (हि + इक । रुट् च ।) चरः ।

इति हेमचन्द्रः ॥

हेरुकः, पुं, (हि + उक । रुट् च ।) बुद्धभेदः ।

महाकालगणः । इति मेदिनी ॥ शिवलिङ्ग-
विशेषः । यथा, --
“शिवलिङ्गञ्च तत्रास्ति शिलायां हेरुकाह्वयम् ।
नदीदक्षिणपूर्व्वस्यां नायकं तन्तु पूजयेत् ॥”
इति कालिकापुराणे कामाख्यारूपनिर्णये ८१
अध्यायः ॥ गणेशः । इति तत्रैव ॥

हेलञ्ची, स्त्री, (हेलं चिनोतीति । चि + ड ।

ङीष् । पृषोदरात् साधुः ।) हिलमोचिका ।
हेलञ्चा इति भाषा । इति शब्दचन्द्रिका ॥
(हिलमोचिकाशब्देऽस्या गुणादयो ज्ञेयाः ॥

हेलनं, क्ली, (हेड + ल्युट् । डलयोरैक्यम् ।)

अवहेला । इति शब्दरत्नावली ॥ (यथा, भाग-
वंते । ६ । २ । १४ ।
“साङ्केत्यं पारिहास्यं वा स्तोभ्यं हेलनमेव च ।
वैकुण्ठनामग्रहणमशेषाघहरं विदुः ॥”)

हेलाः, स्त्री, (हिल् + घञ् । टाप् ।) स्त्रीणां

शृङ्गारभावजक्रियाविशेषः । इत्यमरः । १ । ७ । ३२ ॥
सुरते प्रौढेच्छा हेला । यदाह ।
“प्रौढेच्छा याति रूढानां नारीणां सुरतोत्सवे ।
शृङ्गारशास्त्रतत्त्वज्ञैर्हेला सा परिकीर्त्तिता ॥”
इति ।
अन्ये तु ।
“स एव हेला सुव्यक्तः शृङ्गाररससूचकः ।”
इत्याहुः । अस्यार्थः । हाव एव स्फुटशृङ्गा-
रानुभावो हेलेति । अन्ये त्वाहुः विलासादयो
दश स्वाभाविकाः भावहावहेलास्त्रयोऽङ्गजाः
शोभादयः सप्त प्रयत्नजाः । इति विंशतिरल-
ङ्काराः । तेषु ।
“देहात्मकं मवेत् सत्त्वं सत्त्वाद्भावः समुत्थितः ।
भावात् समुत्थितो हावो हावाद्धेला समु-
त्थिता ॥”
इति ॥
हिल श हावकृतौ घञ् स्त्रीत्त्वं लोकाश्रयात् ।
हेलिरपि ।
“हेलिः पुंसि रवौ हेलिर्हेलायामपि योषिति ।”
इति हड्डः । इति भरतः ॥
अपि च ।
“हाव एव भवेद्धेला व्यक्तः शृङ्गारसूचकः ।”
इत्युज्ज्वलनीलमणिः ॥ * ॥
अवज्ञा । इति मेदिनी ॥ (यथा, मार्कण्डेय-
पुराणे । १४ । २९ ।
“स्वल्पं पुण्यं शुभं गन्धं हेलया सम्प्रयच्छति ।
स्पर्शं वाप्यथवा शब्द रसं रूपमथापि वा ॥”)
ज्योत्स्ना इति केचित् ॥

हेलावुकः, पुं, अश्वविक्रयी । इति हारावली ॥

हेलिः, पुं, (हिलति । हिल + “सर्व्वधातुभ्य इन् ।”

उणा ०४ । ११७ । इति इन् ।) सूर्य्यः । इति
त्रिकाण्डशेषः ॥ आलिङ्गनम् । इति केचित् ॥

हेलिः, स्त्री, (हिल श हावकृतौ + इन् ।) हेला ।

इति हड्डः । इत्यमरटीकायां भरतः ॥

हेष, ऋ ङ अश्वानां स्वने । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म० अक०-सेट् ।) ङ, हेषते घोटकः ।
जिहेषे । ऋ, अजिहेषत् । इति दुर्गा-
दासः ॥

हेषा, स्त्री, (हेष + भावे अः ।) अश्वानां निस्वनः ।

(यथा, मार्कण्डेयपुराणे । २२ । २० ।
“कृतार्त्तहेषाशब्दो वै त्रस्तः साश्रुविलोचनः ।
नीतः सोऽश्वश्च तेनैव दानवेन दुरात्मना ॥”)
पृष्ठ ५/५५१
तत्पर्य्यायः । ह्रेषा २ । इत्यमरः । २ । ७ । ४७ ॥
ह्लेषा ३ । इति तट्टीका ॥

हेषी, [न्] पुं (हेषा इति शब्दोऽस्त्यस्य । इनिः ।)

अश्वः । इति त्रिकाण्डशेषः ॥

हेहै, व्य, (हे च है च ।) सम्बोधनम् । हूतिः ।

इति मेदिनी ॥

है, व्य, (हिनोतोति । हि गतौ बाहुलकात् डै ।)

सम्बोधनम् । आह्वानम् । इति मेदिनी ॥

हैतुकः, पुं, (हेतुना चरतीति । हेतु + ठक् ।

सद्युक्तिव्यवंहारी । यथा, मनुः ।
“त्रैविद्यो हैतुकस्तर्की निरुक्तो धर्म्मपाठकः ।
त्रयश्चाश्रमिणः पूर्ब्बे परिषत् स्याद्दशावरा ॥”
त्रैविद्यः त्रिवेदपारगः । हैतुकः सद्युक्तिव्यव-
हारी । इति व्यवहारतत्त्वम् ॥ हेतुद्वारा सत्-
कर्म्मसु सन्देहकर्त्ता । यथा, --
“पाषण्डिनो विकर्म्मस्थान् वैडालव्रतिकान्
शठान् ।
हैतुकान् वकवृत्तींश्च वाङ्मात्रेणापि नार्च्चयेत् ॥”
इति विष्णुपुराणे । ३ । १८ । ९९ ॥
पाषण्डादीनां लक्षणम्
“भ्रष्टः स्वधर्म्मात् पाषण्डो विकर्म्मस्थो निषिद्ध-
कृत् ।
यस्य धर्म्मध्वजो नित्यं सुरध्वज इवोच्छ्रितः ।
प्रच्छन्नानि च पापानि वैडालं नाम तद्व्रतम् ॥”
तद्वान् वैडालव्रतिकः ।
“प्रियं वक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशम् ।
व्यक्तापराधचेष्टश्च शठोऽयं कथितो बुधैः ॥
सन्देहकृत् हेतुभिर्यः सत्कर्म्मसु स हैतुकः ।
अर्व्वाग्दृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः ।
शठो मिथ्याविनीतश्च वकवृत्तिरुदाहृतः ॥”
इति तट्टीका ॥
(फलाभिसन्धानयुक्ते, त्रि ॥)

हैमं, क्ली, (हिमे भवम् । अण् ।) प्रातर्हिमोद-

भवजलम् । इति राजनिर्घण्टः ॥ हिमभवे,
त्रि ॥ (यथा, रघौ । १६ । ७ ।
“लब्धान्तरा सावरणेऽपि गेहे
योगप्रभावो न च लक्ष्यते ते ।
बिभर्षि चाकारमनिर्वृतानां
मृणालिनी हैममिवोपरागम् ॥”)
हेमजाते च त्रि ॥ इत्यमरः । २ । ८ । ३२ ॥
(यथा, रघौ । ६ । १५ ।
“आकुञ्चिताग्राङ्गुलिना ततोऽन्यः
किञ्चित् समावर्ज्जितनेत्रशोभः ।
तिर्य्यग् विसंसपिनखप्रभेण
पादेन हैमं विलिलेख पीठम् ॥”)

हैमः, पुं, भूनिम्बः । इति राजनिर्घण्टः ॥ (हेम्नो

विकारः । हेम + अण् ।) हेम्नो विकारः ।
इति मुग्धबोधव्याकरणम् ॥ (शिवः । यथा,
महाभारते । १३ । १७ । ६३ ।
“हैमो हेमकरो यज्ञः सर्व्वधारी धरोत्तमः ॥”
पर्व्वतविशेषः । यथा, महाभारते । १३ ।
१९ । ५४ ।
“कैलासं मन्दरं हैमं सर्व्वाननुचचार ह ।
तानतीत्य महाशैलान् कैरातं स्थानमुत्तमम् ॥”)

हैमनं, क्ली, पुं, (हेमन्त एव इति । “सर्व्वत्राण् च

तलोपश्च ।” ४ । ३ । २२ । इति स्वार्थे अण्
तलोपश्च ।) हेमन्त ऋतुः । यथा । हेमन्त-
हैमनावस्त्री । इति शब्दरत्नावली ॥ (हेम्न
इदमित्यण् । न टिलोपः ।) स्वर्णजाते हिम-
जाते च त्रि ॥ (हेमन्तभवे च त्रि । यथा,
किरातार्ज्जुनीये । १७ । १२ ।
“उमापतिं पाण्डुसुतप्रणुन्नाः
शिंलीमुखानव्यथयाम्बभूवुः ।
अभ्युत्थितस्याद्रिपतेर्नितम्ब-
मर्कस्य पादा इव हैमनस्य ॥” ॥)

हैमनः, पुं, (हेमन्त एव अण् । तलोपश्च ।)

मार्गशीर्षमासः । इति राजनिर्घण्टः ॥ (हेमन्ते
जातः अण् तलोपश्च ।) हिमकालोद्भवषष्टिक-
धान्यम् । अस्य गुणाः ।
“हैमनास्तु हिमा वृष्या मधुरा बद्धवर्च्चसः ।”
इति राजवल्लभः ॥

हैमन्तं, क्ली, पुं, (हेमन्त + “सन्धिवेलाद्यृतुनक्षत्रे-

भ्योऽण् ।” ४ । ३ । १६ । इति अण् ।) हेमन्त ऋतुः ।
हेमन्तसम्बन्धिनि, त्रि । इति हेमन्तशब्दात्
स्वार्थे ष्णप्रत्ययेन निष्पन्नम् ॥

हैमन्तिकं, क्ली, (हेमन्ते भवः । ठञ् ।) शालि-

धान्यम् । आमन धान इति भाषा । यथा, --
“हैमन्तिकं सितास्विन्नं धान्यं मुद्गास्तिला
यवाः ॥”
इति हविष्यान्नप्रकरणे तिथ्यादितत्त्वम् ॥
हेमन्तकालजाते, त्रि ॥ (यथा आश्वलायनीय-
श्रौतसूत्रे । ४ । १२ । १ ।
“बृहस्पतिः पांक्तस्त्रिणवः शाक्वरो हैमन्तिकः ॥”)

हैममुद्रिकः, त्रि, स्वर्णमुद्रिकाविशिष्टः । हैमी

मुद्रिका यस्य इति बहुव्रीहिसमासनिष्पन्नः ॥
इति मुग्धबोधव्याकरणम् ॥

हैमलः, पुं, क्ली, (हिमल + अण् ।) हेमन्त ऋतुः ।

हिमलशब्दात् ष्णप्रत्ययेन निष्पन्नः । इति
काचित् शब्दरत्नावली ॥ हैमन इति साधु-
पाठः ॥

हैमवतं, क्ली, (हिमवतोऽदूरभवो देशः हिमवत

इदं वा । अण् ।) भारतवर्षम् । इति त्रिकाण्ड-
शेषः ॥

हैमवतः, पुं, विषभेदः । इति हेमचन्द्रः ॥ (हिमा-

लयसम्बन्धिनि, तज्जाते च त्रि ॥ देशविशेषः ।
यथा, महाभारते । २ । ५० । २० ।
“निषदान् पारसीकांश्च कृष्णान् हैमवतां-
स्तथा ॥”)

हैमवतवर्षं, क्ली, भारतवर्षम् । यथा, --

“एतद्धैमवतं वर्षं भारती यत्र सन्ततिः ।
हेमकूटं परं यत्र नम्ना किंपुरुषोत्तमः ॥”
इति वाराहे रुद्रगीता ॥

हैमषती, स्त्री, (हिमवतोऽपत्यं स्त्री । अण् । ङीप् ।)

पाव्वती । (यथा, देवीभागवते । १२ । ८ । ५७ ।
“उमाभिधानां पुरतो देवीं हैमवतीं शिवाम् ॥”)
हरीतकी । इत्यमरः । १ । १ । ३८ ; २ । ४ । ५९ ॥
स्वर्णक्षीरी । (अस्याः पर्य्यायो यथा, --
“कटुपर्णी हैमवती हेमक्षीरी हिमावती ।
हेमाह्वा पीतदुग्धा च तन्मलञ्चोकमुच्यते ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
श्वेतवचा । इति मेदिनी ॥ (अस्याः पर्य्यायो यथा,
“षड्ग्रन्थ्योग्रा वचा ज्ञेया श्वेता हैमवतीति च ।”
इति गारुडे २०८ अध्याये ॥
हिमवतः प्रभवति प्रकाशते प्रथमं दृश्यते
इति । “प्रभवति ।” ४ । ३ । ८३ । इत्यण् ।)
गङ्गा । इति धरणिः ॥ (यथा, महाभारते ।
३ । १०८ । १६ ।
“एवमुक्तः प्रत्युवाच राजा हैमवतीं तदा ।
पितामहा मे वरदे ! कपिलेन महानदि !
अन्वेषमाणास्तुरगं नीता वैवस्वतक्षयम् ॥”
हिमवति भवा इति । अण् ।) रेणुका ।
कपिलद्राक्षा । अतसी । इति राजनिर्घण्टः ॥

हैमा, स्त्री, (हेम तद्वर्णोऽस्त्यस्याः इति अण् ।

वा ङीप् ।) पीतयूथिका । इति शब्द-
रत्नावली ॥ (यूथिकाशब्दे अस्या विषयो
ज्ञातव्यः ॥

हैमी, स्त्री, (हेम तद्वर्णोऽस्त्यस्याः इति अण् ।

वा ङीप् ।) पीतयूथिका । इति शब्द-
रत्नावली ॥ (यूथिकाशब्दे अस्या विषयो
ज्ञातव्यः ॥

हैयङ्गवीनं, क्ली, (ह्यो गोदोहस्य विकारः इति ।

“हैयङ्गवीनं संज्ञायाम् ।” ५ । २ । २३ । इति
खञ् हियङ्ग्वादेशश्च ।) सद्योगोदोहोद्भवं घृतम् ।
इत्यमरः । २ । ९ । ५२ ॥ नवनीतम् । इति
रत्नमाला राजनिर्घण्टश्च ॥ (यथा, हरिवंशे ।
भविष्यपर्व्वणि । ५८ । १० ।
“हैयङ्गवीनं क्षीराणि दधि वा किमजीजनन् ।
गोधनं सर्व्वमेवेदं नीरोगं प्रतिपद्यते ॥”)
तत्पर्य्यायः । सरजम् २ मन्थजम् ३ कल
म्वुटम् ४ । इति हारावली ॥

हैरिकः, पुं, (हिनोतीति । रक् । हेरं आसुरी माया ।

तज्जानाति । ठक् ।) चौरः । इति धरणिः ॥

हैहयः, पुं, (हय्या अपत्यम् । “स्त्रीभ्यो ढक् ।”

४ । १ । १२० । इति ढक् । पृषोदरादित्वात् साधुः ।
यद्वा हेशब्देन नामैकदेषग्रहणेन नामग्रहणात्
हेषाशब्देन हेषाशब्दं कुर्व्वन् हयति गच्छ-
तीति हेहयोऽश्वः तस्यायं “शिवादिभ्योऽण् ।”
४ । १ । ११२ । इत्यण् । यद्वा, हे भक्त हे भक्त
इति वदन् हयति गच्छतीति हेहयो विष्णुः ।
तस्यायं हैहयः ।) कार्त्तवीर्य्यः । इति हेम-
चन्द्रः ॥ देशविशेषः । यथा, --
“पश्चिमे हैहयास्ताद्रिम्लेच्छवासशकादयः ॥”
इति ज्योतिस्तत्त्वे कूर्म्मचक्रम् ॥

हैहयः, पुं, (हैहयाः तद्देशवासिनः तेषां राजा

अण् ।) कार्त्तवीर्य्यराजः । इति शब्दरत्नावली ॥
(यथा, रघौ । ११ । ७४ ।
“बिभ्रतोऽस्त्रमचलेऽप्यकुण्ठितं
द्वौ रिपू मम मतौ समागसौ ।
धेनुवत्सहरणाच्च हैययः
त्वञ्च कीर्त्तिमपहर्त्तुमुद्यतः ॥”)
पृष्ठ ५/५५२

हो, व्य, (ह्वयते अनेनेति । ह्वे + डो । निपा-

तनात् साधुः ।) सम्बोधनम् । आह्वानम् ।
इति मेदिनी ॥ (यथा, किरातार्ज्जुनीये ।
१५ । २० ।
“ननु हो मथनाराघो घोरानाथ महोनु न ।
तयदा तवदा भीमा माभीदावत दायत ॥”)
विस्मयः । इत्यमरः ॥

होड, ऋ ङ गतौ । अनादरे । इति कविकल्प-

द्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।) ऋ, अजु-
होडत् । ङ, होडते । इति दुर्गादासः ॥

होडः, पुं, (होडते गच्छतीति । होड गतौ +

अच् ।) नौकाविशेषः । हुडी इति भाषा । तत्प-
र्य्यायः । तरान्धुः २ वहनम् ३ वहित्रम् ४ वार्व्वटः
५ । इति त्रिकाण्डशेषः (होड्यते इति । होड्
अनादरे + कर्म्मणि घञ् ।) दक्षिणराढीय-
मौलिककायस्थानां द्विसप्ततिपद्धत्यन्तर्गतपद्धति-
विशेषः । इति कुलाचार्य्यग्रन्थः ॥ गौड-
देशीयश्रोत्रियब्राह्मणविशेषाणामुपाधिश्च । अस्य
प्रमाणं अन्नदामङ्गलग्रन्थे ध्रुवानन्दमिश्रग्रन्थे च
द्रष्टव्यम् ॥

होडा, [ऋ] पुं, चोरः । इति केचित् ॥

होता, [ऋ] पुं, (जुहोतीति । हु + “नप्तृनेष्टृ

त्वष्टहोत्रिति ।” उणा ०२ । ९६ । इति तृन्
निपातितश्च । यद्वा, हु + तृच् ।) ऋग्वेद-
वेत्ता । इत्यमरः । २ । ७ । १७ ॥ होमकर्त्ता ।
यथा । विशिष्टदेशावच्छिन्नप्रक्षेपोपहितहवि-
स्त्यागस्य होमत्वात् प्रक्षेपस्य तदभिधाननिमि-
त्तमित्यर्थः । तेन हुधात्वर्थव्यवच्छेदकप्रक्षेपानु-
कूलव्यापारवति ऋत्विजि होता इत्यादिव्यप-
देशः । इति दायभागटीकायां श्रीकृष्णतर्का-
लङ्कारः ॥

होतॄकारः, पुं, होतुरॢकारः । होतुर्माता । इति

मुग्धबोधव्याकरणम् ॥

होत्रं, क्ली, (हूयते इति । हु + “हुयामाश्रुभसि-

भ्यस्त्रन् ।” उणा ०४ । १६७ । इति त्रन् ।)
हविः । इति त्रिकाण्डशेषः ॥ होमः । इति
हेमचन्द्रः ॥

होत्रा, स्त्री, (हु + त्रन् + टाप् ।) स्तुतिः ।

इति केचित् ॥ (आहूयमाना देवता । यथा,
ऋग्वेदे । १ । १८ । ८ ।
“आदृध्नोति हविष्कृतिं प्राञ्चं कृणोत्यध्वरम् ।
होत्रा देवेषु गच्छति -- ”
‘होत्रा हूयमाना देवता ।’ इति तद्भाष्ये
सायनः ॥)

होत्री, [न्] पुं, होता । होत्रं विद्यतेऽस्य इति

होत्रशब्दात् इन्प्रत्ययेन निष्पन्नः ॥

होत्री, स्त्री, (हु + तृच् + ङीप् ।) यजमानरूपा

शिवस्य मूर्त्तिः । यथा, --
“या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या
हविर्या च होत्री
ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता
व्याप्य विश्वम् ।
यामाहुः सर्व्वबीजप्रकृतिरिति यया प्राणिनः
प्राणवन्तः
प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभि-
रोशः ॥”
इत्यभिज्ञानशकुन्तलाप्रथमश्लोकः ॥

होत्रीयं, क्ली, (होत्राय हितम् होतुरिदं वेति । छः ।)

हविर्गेहम् । इति हेमचन्द्रः ॥ होत्रसम्बन्धिनि,
त्रि ॥ (यथा, शतपथब्राह्मणे । ९ । ४ । ३ । ७ ।
“एकविंशतिं होत्रीय उपदधाति ॥”)

होमः, पुं, (हवनमिति । हु + “अर्त्तिस्तुमुहु-

स्रिति ।” उणा ०१ । १३९ । इति मन् ।)
पञ्चमहायज्ञान्तर्गतयज्ञविशेषः । इत्यमरः । २ ।
७ । १४ ॥ स तु देवयज्ञः । यथा, --
“अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।
होमो दैवो वलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥”
इति मनुः ॥
तल्लक्षणं यथा, --
“विशिष्टदेशावच्छिन्नप्रक्षेपोपहितत्यागः ॥”
इति श्रीकृष्णतर्कालङ्कारः ॥ * ॥
अथ नित्यहोमः । तदुक्तं सोमभुजगावल्याम् ।
“नाजप्तः सिद्ध्यते मन्त्रो नाहुतश्च फलप्रदः ।
नानिष्टो यच्छते कामान् तस्मात्त्रितयमर्च्चयेत् ॥
पूजया लभते पूजां जपात् सिद्धिर्न संशयः ।
विभूतिं चाग्निकार्य्येण सर्व्वसिद्धिञ्च विन्दति ॥”
नीलतन्त्रेऽपि ।
“नित्यहोमं प्रवक्ष्यामि सर्व्वार्थं येन बिन्दति ॥
सपर्य्यां सम्यगापाद्म वलिपूर्व्वं चरेद्विधिम् ॥
ततो होमं तर्पणञ्च चरेत् साधकसत्तमः ।
वलिवैश्वादिकं चैव ब्राह्मणः समुपाचरेत् ॥
अर्घोदकेन संप्रोक्ष्य तिस्रो रेखाः समालिखेत् ।
विधिवदग्निमानीय क्रव्यादेभ्यो नमस्तथा ॥
मूलमन्त्रं समुच्चार्य्य कुण्डे वा स्थण्डिलेऽपि वा ।
भूमौ वा संस्तरेद्वह्निं व्याहृतित्रितयेन च ।
स्वाहान्तेन त्रिधा हुत्वा षडङ्गहवनं चरेत् ॥”
तथा ।
“ततो देवीं समावाह्य मूलेन षोडशाहुतिम् ।
हुत्वा स्तुत्वा नमस्कृत्य विसृजेदिम्दुमण्डले ॥”
श्यामादौ विशेषः ।
“भैरवांश्च हुनेदष्टौ आज्यान्वितैस्तिलैः शुभैः ।
पूर्ब्बादिदिक्क्रमेणैव ततो होमं समाचरेत् ॥” *
अथ संक्षेपहोमप्रयोगः ।
“कुण्डेवास्थण्डिले वापि वीक्षणादिभिः संस्कृते ।
प्रागग्रा उदगग्राश्च तिस्रो रेखाः समालिखेत् ॥”
तथा च ।
“वीक्षणं मूलमन्त्रेण शरेण ताडनं मतम् ।
तेनैव प्रोक्षणं प्रोक्तं वर्म्मणाभ्युक्षणं मतम् ॥”
ततो मूलमुच्चार्य्य कुण्डाय नमः इति संपूज्य
प्रागग्रा उदगग्रास्तिस्रो रेखाः कर्त्तव्याः ।
प्रागग्रेषु मुकुन्देशपुरन्दरान् प्रादक्षिण्येन
संपूज्य उदगग्रासु ब्रह्मवैवस्वतेन्दून् पूजयेत् ।
सुन्दरीपक्षे तु सर्व्वत्र षट्तारी प्रयोगः
षट्तारी च ऐँ ह्रीँ श्रीं ऐं क्लीं सौः ब्रह्मणे
नमः एवं क्रमेण पूजयेत् । तथा ब्रह्मसंहि-
तायां होमकुण्डे ।
“ऐशान्यां वेदिकां हस्तविस्तारोन्नतिशालि-
नीम् ।
कृत्वास्मिन् स्थापयेत् कुम्भं यथोक्तक्रमयोगतः ॥
तत्र संपूजयेद्देवं यथाविध्युपचारकैः ।
ततो होमं प्रकुर्व्वीत देवतासन्निधानतः ॥”
ततः कुण्डमध्ये षट्कोणवृत्तत्रिकोणं तद्वहि-
रष्टदलपद्मं तद्वहिश्चतुरस्रं चतुर्द्वारसमेतं
लिखित्वा तदुपरि मूलेन पुष्पाञ्जलीन् दद्यात् ।
सुन्दरीपक्षे तु बालया । ततः सर्व्वाणि प्रणवे-
णाभ्युक्ष्य वह्नेर्योगपीठमर्च्चयेत् । तद् यथा ।
कर्णिकोपर्य्याधारशक्यादोन् संपूज्य अग्न्यादि-
कोणचतुष्केषु ॐ धर्म्माय नमः ॐ ज्ञानाय
वैराग्याय ऐश्वर्य्याय पूर्ब्बादिदिक्षु अधर्म्माय
अज्ञानाय अवैराग्याय अनैश्वर्य्याय मध्ये ॐ
अनन्ताय नमः । एवं पद्माय अं अर्कमण्डलाय
द्वादशकलात्मने नमः । उं सोममण्डलाय
षोडशकलात्मने नमः । मं वह्निमण्डलाय दश-
कलात्मने नमः । ततः केशरेषु पूर्ब्बादिमध्ये च
ॐ पीताय नमः । एवं श्वेतायै नमः अरुणायै
नमः । कृष्णायै धूम्रायै तीब्रायै स्फुलिङ्गिन्यै
रुचिरायै ज्वालिन्यै ततो रं वह्न्यासनाय नमः ।
ततः ।
“वागीश्वरीमृतुस्नातां नीलेन्दीवरलोचनाम् ।
वागीश्वरेण संयुक्तां क्रीडाभावसमन्विताम् ॥”
इति ध्यात्वा ॐ ह्रीँ वागीश्वराय नमः ॐ
वागीश्वर्य्यै नमः । इति मन्त्रेण पञ्चोपचारैः
संपूज्य सूर्य्यकान्तादिसम्भूतं श्रोत्रियगेहजं वा
वह्निमानयेत् । सन्दरीपक्षे तु कामेश्वरं कामे-
श्वरीं पूजयेत् । गौतमीये ।
“पाषाणभववह्निञ्च यदि वारणिसम्भवम् ।
श्रोत्रियाणां गेहजञ्च वनस्थं वाथवा हरेत् ॥
यदृच्छालाभसंयुक्तो अयोग्यो यागकर्म्मणि ।
निरग्निब्राह्मणाल्लब्धो ह्यर्द्धलाभकरो भवेत् ॥
क्षत्रबन्धोश्चतुर्थांशफलं दद्याद्धुताशनः ।
वैश्यात् शूद्राच्च विफलं जायते होमकर्म्मणि ।
तस्मात् सर्व्वप्रयत्नेन वह्निमुक्तं समाहरेत् ॥”
तन्त्रान्तरे ।
“द्विजातिभवनाद्वापि वह्निमानीय साधकः ।
वौषडन्तेन मूलेन मन्त्रितं तं विलोकयेत् ॥
अग्निमावाहयेदस्त्रमन्त्रेण तदनन्तरम् ।
हूँ फडन्तेन मूलेन क्रव्यादांशं परित्यजेत् ॥”
ततः ॐ वह्नेर्योगपीठाय नमः चतुर्दिक्षु ॐ
वामायै नमः एवं ज्येष्ठायै रौद्र्यै अम्बिकायै ।
ततो मूलमुच्चार्य्य अमुकदेवताकुण्डाय नमः ।
इति कुण्डं संपूज्य तदधो वागीश्वरीं तत्तद्देवता-
रूपां ऋतुमतीं ध्यात्वा यथोक्तवह्निमानीय
वीक्षणादिभिः संस्कृत्य रमिति तस्मात् वह्नि-
मुद्धृत्य मूलमुच्चार्य्य हूं फट् क्रव्यादेभ्यः स्वाहा
इत्येनेन क्रव्यादाशं परित्यज्य वह्निमन्त्रेन संरक्ष्यं
हूं इत्यवगुण्ठ्य धेनुमुद्रया अमृतीकृत्य बाहुभ्यां
पृष्ठ ५/५५३
समुद्धृत्यं कुण्डोपरि त्रिः परिभ्राम्य जानुस्पृष्ट-
महीतलः शिवबीजबुद्ध्या आत्मनोऽभिमुखं
देव्या योनी एन क्षिपेत् । ततो ह्रीं वह्निमूर्त्तये
नमः इत्यभ्यर्च्च्य रं वह्निचैतन्याय नमः इति
चैतन्यं तत्र संयोज्य ॐ चित् पिङ्गल हन हन
दह दह पच पच सर्व्वं ज्ञापय ज्ञापय स्वाहा
इति ज्वालयेत् । ततः ।
“अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् ।
सुवर्णवर्णममलं समिद्धं विश्वतोमुखम् ॥”
इत्युपतिष्ठेत् ॥
ततो अग्ने त्वममुकनामासीति नाम कृत्वा ॐ
वेखानरं जातवेद इहावह लोहिताक्ष सर्व्व-
कर्म्माणि साधय स्वाहा । अनेनार्घ्यादिभिः
संपूज्य ॐ अग्नेर्हिरण्यादिसप्तजिह्वाभ्यो नमः ।
ॐ सहस्रार्च्चिषे हृदयाय नमः इत्यादि अग्नि-
षडङ्गेभ्यो नमः । ॐ अग्नये जातवेदसे इत्या-
द्यष्टमूर्त्तिभ्यो नमः । तद्वाह्ये ॐ ब्राह्म्याद्यष्ट-
शक्तिभ्यो नमः । तद्बहिः ॐ पद्माद्यष्टनिधिभ्यो
नमः । तद्वाह्ये ॐ इन्द्रादिलोकपालेभ्यो नमः ।
तद्वाह्ये ॐ वज्राद्यस्त्रेभ्यो नमः । ततः प्रादेश-
मात्रं कुशपत्रद्वयं घृतमध्ये निक्षिप्य सव्यासव्य-
मध्याभागेषु इडां पिङ्गलां सुषुम्नां ध्यात्वा होमं
कुर्य्यात् । स्रुवेण दक्षिणभागादाज्यं गृहीत्वा
ॐ अग्नये स्वाहा इति अग्नेर्दक्षिणनेत्रे जुहु-
यात् । तथा वामभागादाज्यं गृहीत्वा ॐ
सोमाय खाहा इति वामनेत्रे जुहुयात् । ततो
मध्यभागादाज्यं गृहीत्वा ॐ अग्निसोमाभ्यां
स्वाहा इत्यग्नेर्ललाटनेत्रे जुहुयात् । पुनर्दक्षि-
णतः नम इति घृतं गृहीत्वा ॐ अग्नये
स्विष्टिकृते स्वाहा इत्यग्निमुखे । ततो महा-
व्याहृतिहोमः । ॐ भूः स्वाहा ॐ भुवः स्वाहा
ॐ स्वः स्वाहा ॐ वैस्वानर जातवेद इहावह
लोहिताक्ष सर्व्वकर्म्माणि साधय स्वाहा इत्यनेन
त्रिवारं जुहुयात् । ततः अग्नौ मूलेन पीठ-
पूर्ब्बकं देवतां संपूज्य तन्मुखे घृतेन मूलमन्त्रेण
पञ्चविंशतिवारं जुहुयात् । वह्निदेवतयोरा-
त्मना सह ऐक्यं विभाव्य मूलमन्त्रेण एकादशा-
हुतीर्ज्जुहुयात् । ततो मूलमन्त्रस्य अङ्गदेव-
ताभ्यः स्वाहा शक्तश्चेत् प्रत्येकमेकैकाहुतिं
जुहुयात् । ततः सङ्कल्पं विधाय तत्तत्कल्पोक्त-
द्रव्येण होमं कुर्य्यात् । ततो मूलमन्त्रेण पूर्णाहुतिं
दत्त्वा संहारमुद्रया स्वेष्टदेवता हृदये समांनीय
क्षमस्वेति विसृज्य दक्षिणां दत्त्वा अच्छिद्राव-
धारणं कुर्य्यात् । इति तन्त्रसारः ॥ बृहद्धोम-
प्रयोगस्तु तत्रैव द्रष्टव्यः ॥

होमकः, पुं, (होम + संज्ञायां कन् ।) होता ।

यथा, मात्स्ये ९३ । १२८ -- १२९ श्लोकौ ।
“पूर्ब्बद्वारे च संस्थाप्य बह्वृचं वेदपारगम् ।
यजुर्व्विदं तथा याम्ये पश्चिमे सामवेदिनम् ॥
अथर्व्ववेदिनं तद्वदुत्तरे स्थापयेद्वुधः ॥
अष्टौ तु होमकाः कार्य्या वेदवेदाङ्गवेदिनः ॥”

होमकुण्डं, क्ली, (होमार्थं कुण्डम् ।) होमार्थ-

कुण्डम् । तत्पर्य्यायः । हवनी २ । इति त्रिकाण्ड-
शेषः ॥ अस्य विवरणं कुण्डशब्दे द्रष्टव्यम् ॥

होमधान्यं, क्ली, (होमोपयुक्तं धान्यम् ।) तिलः ।

इति राजनिर्घण्टः ॥

होमधूमः, पुं, (होमजातः धूमः ।) होमीयाग्नि-

धूमः । तत्पर्य्यायः । निगणः २ । इति हेमचन्द्रः ॥

होमभस्म, [न्] क्ली, होमजातं भस्म । तत्-

पर्य्यायः । वैष्टुतम् २ । इति हेमचन्द्रः ॥

होमाग्निः, पुं, (होमस्य अग्निः ।) यज्ञवह्निः ।

तत्पर्य्यायः । महाज्वालः २ महावीरः ३
प्रवर्गः ४ । इति हेमचन्द्रः ॥

होमिः, पुं, (हूयते अस्मिन्निति । हु + इन् ।

मुट् च ।) अग्निः । (हूयते अनेनेति । इन्
मुट् च ।) घृतम् । इति मेदिनी ॥ जलम् ।
इति शब्दरत्नावली ॥

होमी, [न्] पुं, (होमः अस्यातीति । इन् ।)

होमकर्त्ता । यथा, तिथ्यादितत्त्वे ।
“तिलोद्वर्त्ती तिलस्नायी तिलहोमी तिलप्रदः ।
तिलभुक् तिलवापी च षट्तिली नावसीदति ॥”
(जुहोतीति । हु + “उल्मुकदर्विहोमिनः ।”
उणा ०३ । ८४ । इति मिनिः । निपातितश्च ।
यजमानः । इत्युणादिवृतौ उज्ज्वलदत्तः ॥)

होम्यं, क्ली, (होमाय हितम् । यत् ।) घृतम् ।

इति राजनिर्घण्टः ॥ होमीयद्रव्यमात्रे, त्रि ॥
(यथा, हरिवंशे भविष्यपर्व्वणि २५१ अध्याये ।
“होता पोता हन्ता नेता मन्ता होम्यहोता-
परात्परस्त्वम् ॥”)

होरा, स्त्री, (होलति हुल्यते वेति । हुल हिंसा-

सम्बरणयोः + अच् । घञ् वा । रलयोरैक्यम्
टाप् ।) लग्नम् । राश्यर्द्धम् । रेखा । शास्त्र-
भेदः । इति मेदिनी ॥ द्धितीयार्थस्य विशेषो
यथा, ज्योतिस्तत्त्वे ।
“विषमर्क्षेषु प्रथमहोराः स्युश्चण्डरोचिषः ।
द्वितीयाः शशिनो युक्षु व्यत्ययाद्गणयेत् सदा ॥”
सार्द्धदण्डद्वयात्मककालः । स तु इंरेजानां आउ-
यार इति ख्यातः । यथा, वह्निपुराणे गणभेदाध्याये ।
“चतुर्विंशतिवेलाभिरहोरात्रं प्रचक्षते ।
पश्चिमादर्द्धरात्रादिहोराणां विद्यते क्रमः ॥”

होलकः, पुं, (हु + विच् । लक्यते आस्वाद्यते इति ।

लक् + अप् ।) तृणाग्निभृष्टार्द्धपक्वशमीधान्यम् ।
होरा इति हिन्दी भाषा । यथा, भावप्रकाशे ।
“अर्द्धपक्वैः शमीधान्यैस्तृणभृष्टैश्च होलकः ।
होलकोऽल्पानिलो मेदःकफदोषश्रमापहः ॥
भवेद्यो होलको यस्य स च तत्तद्गुणो भवेत् ॥”

होलाकः, पुं, स्वेदविशेषः । यथा, चरकसूत्रस्थाने ।

“धीतीकान्तु करीषाणां यथोक्तानां प्रदीपयेत् ।
शयनान्तःप्रमाणेन शय्यामुपरि तत्र च ।
सुदग्धायां विधूमायां यथोक्तामुपकल्पयेत् ॥
स्ववच्छिन्नः मुखं तत्राभ्यक्तः स्विद्यति ना सुखम् ।
होलाकस्वेद इत्येष सुखप्रोक्तो महर्षिणा ॥”
धीतीका शुष्कगोमयकृतोऽग्निविशेषः ॥

होलाका, स्त्री, (हु + विच् । तं लाति । ला +

संज्ञायां कन् टाप् ।) वसन्तोत्सवः । होली
इति भाषा । इति दायभागंटीका ॥ तदधि-
करणन्यायो यथा । अथ होलाकाधिकरणम् ।
प्रतीच्यानां होलाकाचारदर्शनेन तदर्था होलाका
आचरणीया इति सामान्यविधिः कल्प्यते ।
न तु प्राच्यानामनाचरणात् प्रतीच्यैरिति तत्र
पदं देयं सामान्यविधिनैव प्रतीच्याचारोपपत्तेः ।
प्राच्यानामनाचारस्य इच्छाविरहेणैव उपपत्तेः ।
इच्छाविरहश्च तद्देशीयपूर्ब्बपूर्ब्बनाचारदर्शनात् ।
प्रतीच्यानामुल्कादानाद्याचारविरहवत् । न
ह्यनाचारार्थं वेदः कल्प्यते । तथा च यत्र
सामान्यश्रुत्या उपपत्तिस्तत्र विशेषविधिर्न
कल्प्यते गुरुरनुगन्तव्यः सदेतिवत् । न हि
कर्म्मकाले तदसम्भवात् तदन्यकाले इति विशेष-
णीयम् । इति अधिकरणकौमुदी ॥ * ॥ अन्यच्च ।
यथा होलाकाधिकरणे प्राच्यकर्त्तृकहोलाकानु
ष्ठानोपपत्तये होलाका कर्त्तव्येत्येव श्रुतिः
कल्पिता । तावतैव तदुपपत्तेः न तु प्राच्यादिः
पदवती कल्पनागौरवात् तद्वदत्रापि अर्ज्जको
अंशद्वयं गृह्णीयादिति श्रुतिः कल्पनीया न तु
पित्रादिपदवती तदयुक्तं तत्र प्राच्यकर्त्तृकानु-
ष्ठानस्यावश्यकल्पनीयसामान्यश्रुत्यैवोपपत्तेः । न
चाप्राच्यानामननुष्ठानार्थं प्राच्यपदवती कल्प्यता-
मिति वाच्यम् । तेषामननुष्ठानस्यानाचाररूपस्य
श्रुतिकल्पनानिमित्तत्वानुपपत्तेः । इति दाय-
भागः ॥

हौ, व्य, (हूयते अनेनेति । ह्वे + डौ ।) सम्बो

धनम् । आह्वानम् । इति मेदिनी ॥

हौड, ऋ ङ गतौ, अनादरे । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-सक०-सेट् ।) चतुर्द्दशस्वरी ।
ऋ, अजुहौडत् । ङ, हौडते । इति दुर्गादासः ॥

हौतृकः, त्रि, (होतुरागतम् । “ऋतष्ठञ् ।” ४ ॥

३ । ७८ । इति ठञ्) होतृसम्बन्धीयः । इति
होतृशब्दात् कण्प्रत्ययेन निष्पन्नः ॥

हौम्यं, क्ली, (होमाय अर्हं । यत् ।) घृतम् । इति

राजनिर्घण्टः ॥ होमीयद्रव्ये, त्रि ॥

हौम्यधान्यं, क्ली, (हौम्यञ्च तत् धान्यञ्च ।)

तिलः । इति राजनिर्घण्टः ॥ इति केचित् ॥

ह्नु, ङ लु चौर्य्ये । इति कविकल्पद्रुमः ॥ (अदा०-

आत्म०-सक०-अनिट् ।) ङ लु, ह्नुते । इति
दुर्गादासः ॥

ह्मल, म चाले । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

अक०-सेट् ।) म, प्रह्मलयति । मित्वेऽप्यस्य ञौ
ज्वलह्वलह्मल इत्यादिना केवलस्य ह्रस्वविकल्व-
नात् सोपसर्गस्यैव नित्यं ह्रस्वः । ह्मालयति
ह्मलयति । चालश्चलनम् । इति दुर्गादासः ॥

ह्यः, [स्] व्य, (गतमहः । ह्यो निपातितः ।) गत-

दिनम् । इत्यमरः । ३ । ४ । २२ ॥ यथा,
राजतरङ्गिण्याम् । ६ । ४६ ।
“त्वयि राजनि निश्चौरैरध्वभिर्विशतः सुखम् ।
ह्योऽभवल्लवणोत्से मे दिनान्तेश्राम्यतः स्थितिः ॥”)

ह्यस्तनं, त्रि, (ह्यो भवम् । ह्यस् + “ऐषमोह्यः-

पृष्ठ ५/५५४
असोऽन्यतरस्याम् ।” ४ । २ । १०५ । इति पक्षे
ट्युट्यूलौ ।) ह्योभवम् । गतदिवसीयम् । इति
शब्दमाला ॥ (यथा, महाभारते । ५ । १८६ । ४ ।
“ह्यस्तनेन च कोपेन शक्तिं वै प्राहिणोन्मयि ॥”)

ह्यस्त्यः त्रि, (ह्यो भव इति । ह्यस् + “ऐषमोह्यः-

श्वसोऽन्यतरस्याम् ।” ४ । २ । १०५ । इति त्यप् ।
ह्यस्तनम् । इति शब्दमाला ॥

ह्रग, म ए संवरणे । इति कविदल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) रेफमध्यः । म, ह्रमयति ।
ए, अह्रगीत् । इति दुर्गादासः ॥

ह्रणिया, स्त्री, (ह्रिणीया । पृषोदरादित्वात्

साधुः ।) ह्रिणीया । इत्यमरटीकायां भरतः ॥

ह्रदः, पुं, (ह्रादते इति ह्राद अव्यक्तशब्दे + अच् ।

पृषोदरादित्वात् ह्रस्वः) अगाधजलाशयः ।
इत्यमरः । १ । १० । २५ ॥ तज्जलगुणाः ।
ह्रदवारि वह्निजननं मधुरं कफवातहारि
पथ्यञ्च । इति राजनिर्घण्टः ॥ किरणः ।
इत्यमरटीकायां रामाश्रमः ॥

ह्रदग्रहः, पुं, (ह्रदस्य ग्रहः ।) कुम्भीरः ॥ इति

त्रिकाण्डशेषः ॥

ह्रदिनी, स्त्री, (ह्रदोऽस्यामस्तीति । इनि । ङीप् ।)

नदी । इत्यमरः । १ । १९ । २५ । (यथा,
भागवते । २ । ७ । २८ ।
“तच्छुद्धयेति विषवीर्य्यविलोलजिह्व-
मुच्चाटयिष्यदुरगं विहरन् ह्रदिन्याम् ॥”)

ह्रप, क भाषणे । (चुरा०-पर०-सक०-सेट् ।)

रेफयुक्तादिरित्येके । क, ह्रापयति । भाषणं
कथनम् । इति कविकल्पद्रुमटीकायां ह्लपधातु-
कथने दुर्गादासः ॥

ह्रस, रवे । इति कविकल्पद्रुमः । (भ्वा०-पर०-अक०-

सेट् ।) रेफयुक्तः । ह्रसति । इति दुर्सादासः ॥

ह्रसिमा, [न्] पुं, (ह्रस्वस्य भावः । “पृथ्वादिभ्य-

इमनिज् वा ।” ५ । १ । १२१ । इति इमनिज् ।
“स्थूलदूरयुवह्रस्वक्षिप्रेति ।” ६ । ४ । १५६ ।
इति ह्रसादेशः ।) ह्रस्वता । ह्रस्वब्दशात्
इमन्प्रत्ययेन निष्पन्नः ॥

ह्रसिष्ठः, त्रि, (अतिशयेन ह्रस्वः । इष्ठन् । “स्थूल-

दूरयुवह्रस्वेति ।” ६ । ४ । १५६ । इति ह्रसा-
देशः ।) अतिशयह्रस्वः । इत्यमरः । ३ । १ ।
११२ ॥ ह्रस्वशब्दात् इष्ठप्रत्ययेन निष्पन्नः ॥

ह्रसीयान्, [स्] त्रि, (ह्रस्व + ईयसुन् । ह्रसा-

देशश्च ।) अतिशयह्रस्वः ॥

ह्रस्वं, क्ली, (“सर्व्वनिघृष्वरिष्वेति ।” उणा ०१ । १५३

इत्यत्र “ह्रमशब्दे बाहुलकात् ततोऽपि वन् ।”
इत्युज्ज्वलदत्तोक्तेर्वन् ।) परिमाणविशेषः । यथा,
“अनु दौर्घं महध्रस्वमिति तद्भेद ईरतिः ।”
इति भाषापरिच्छेदः ॥
गीरसुवर्णशाकम् । पुष्पकासीसम् इति राज-
निर्घण्टः ॥

ह्रस्वः, पुं, स्त्री, (ह्रस + वन् ।) प्रकृतपुरुषप्रमा-

णात्न्यूनमनुष्यः । वाउने इति भाषा । तत्-
पर्य्यायः । खर्व्वः २ वामनः ३ वामनी ४ ।
इत्यमरभरतौ । २ । ६ । ४६ ॥ नोचकः ५ नीचः
६ । इति शब्दरत्नावली ॥ अकर्त्तनः ७ । इति
जटाधरः ॥ एकमात्रवर्णे, पुं, । यथा, --
“एकमात्रो भवेद्ध्रस्वो द्विमात्रो दीर्घ उच्यते ।
त्रिमात्रस्तु प्लूतो ज्ञेयो व्यञ्जनं चार्द्धमात्रकम् ॥”
इति मुग्धबोधटीकायां दुर्गादासः ॥
मुग्धबोधमते अस्य स्व-संज्ञा । यथा । आवत्-
स्वर्घप्लु । अ-आ-अ इति वर्णत्रयं क्रमेण स्व-
र्घप्लू-संज्ञं-स्यात् । वच्छब्दाद इ-ई-इ इत्या-
दिषु च । तन्मते अस्य घुसंज्ञापि । यथा ।
स्वर्घौ घुरू । स्वर्घुसंज्ञो र्घोरुसंज्ञः स्यात् । इति
वोपदेवः ॥ मेषवृषकुम्भमीनराशयः । यथा ।
अस्वास्तिमिगोऽविघटाः । इति ज्योतिस्तत्त्वम् ॥

अस्वः, त्रि, (अस + वन्) क्षुद्रवस्तुमात्रम् ।

तत्पर्य्यायः । वामनः २ न्यङ् ३ नीचः ४ खर्व्वः
५ । इत्यमरः । ३ । १ । ७० । नीचैः ६ ।
इति शब्दरत्नावली ॥ अनुच्चः ७ । इति जटा-
धर ॥ तद्वैदिकपर्य्यायः । ऋहन् १ ह्रस्वः २
निघृष्वः ३ माषुकः ४ प्रतिष्ठा ५ कृधु ६
वम्रकः ७ दभ्रम् ८ अर्भकः ९ क्षुल्लकः १०
अल्पः ११ । इत्येकादश ह्रस्वनामानि । इति
वेदनिर्घण्टौ ३ अध्यायः ॥

ह्रस्वकुशः, पुं, (ह्रस्वश्चासौ कुशश्चेति । नित्यकर्म्म-

धारयः ।) श्वेतकुशः । इति राजनिर्घण्टः ॥

ह्रस्वगर्भः, पुं, (ह्रस्वो गर्भोऽस्य ।) कुशः । इति

रत्नमाला ॥

ह्रस्वगवेधुका, स्त्री, (ह्रस्वा गवेधुका । नित्यकर्म्म-

धारयः ।) गाङ्गेरुकी । इत्यमरः । ३ । ४ । ११७ ॥
अस्याः पर्य्यायगुणा नागवलाशब्दे द्रष्टव्याः ॥

ह्रस्वजम्बुः, पुं, (ह्रस्वो जम्बुः ।) क्षुद्रजम्बुः । इति

रत्नमाला ॥

ह्रस्वतण्डुलः, पुं, (ह्रस्वः तण्डुलः ।) राजान्नम् ।

इति राजनिर्घण्टः ॥

ह्रस्वदर्भः, पुं, (ह्रस्वो दर्भः ।) श्वेतकुशः । इति

राजनिर्घण्टे ह्रस्वकुशशब्ददर्शनात् ॥

ह्रस्वदा, स्त्री, (ह्रस्वैरपि दीयते छिद्यते इति ।

दो + कः ।) शल्लकी । इति राजनिर्घण्टः ॥

ह्रस्वपत्रकः, पुं, (ह्रस्वानि पत्राणि यस्य । कप् ।)

गिरिजमधूकवृक्षः । इति जटाधरः ॥

ह्रस्वपत्रिका, स्त्री, (ह्रस्वानि पत्राण्यस्याः । कप् ।

टाप् अत इत्वम् ।) अश्वत्थी । इति राजनिर्घण्टः ॥

ह्रस्वप्लक्षः, पुं, (ह्रस्वश्चासौ प्लक्षश्चेति ।) क्षुद्रप्लक्ष-

वृक्षः । तत्पर्य्यायः । सुशीतः २ शीतवीर्य्यकः ३
पुण्ड्रः ४ महावरोहः ५ ह्रस्वपर्णः ६ पीपरिः ७
भिदुरः ८ मङ्गलच्छायः ९ । अस्य गुणाः ।
“प्लक्षः कटुः कषायश्च शिशिरो रक्तदोषजित् ।
मूर्च्छाभ्रमप्रलापघ्नो ह्रस्वप्लक्षो विशेषतः ॥”
इति राजनिर्घण्टः ॥

ह्रस्वफला, स्त्री, (ह्रस्वं फलं यस्याः ।) भूमिजम्बु ।

इति राजनिर्घण्टः ॥

ह्रस्वमूलः, पुं, (ह्रस्वं मूलं यस्य ।) रक्तेक्षुः । इति ।

राजनिर्घण्टः ॥

ह्रस्वशाखाशिफः, पुं, (शाखा च शिफा शाखाशिफे ।

ह्रस्वे शाखाशिफे यस्य ।) क्षुपः । इत्यमरः ॥

ह्रस्वा, स्त्री, मुद्गपर्णी । नागवला । भूमिजम्बूः ।

इति राजनिर्घण्टः ॥ वामनी च ॥

ह्रस्वाग्निः, पुं, (ह्रस्वोऽग्निरस्मात् ।) अर्कवृक्षः ।

इति शब्दचन्द्रिका ॥

ह्रस्वाङ्गः, पुं, (ह्रस्वमङ्गमस्य ।) जीवकौषधम् ।

इत्यमरः । २ । ४ । १४२ ॥ वामनश्च ॥

ह्राद, ङ स्वने । इति कविकल्पदुमः ॥ (भ्वा०-

आत्म०-अक०-सेट् ।) रेफयुक्तो द्वितीयस्वरी ।
ङ, ह्रादते । इति दुर्गादासः ॥

ह्रादः, पुं, (ह्राद + घञ् ।) शब्दः । इति हेम-

चन्द्रः ॥ (यथा, महाभारते । ७ । ८० । २९ ।
“ह्रादेन गजघण्टानां शङ्खानां निनदेन च ॥”)
हिरण्यकशिपुपुत्त्रः । यथा, --
“हिरण्यकशिपोः पुत्त्राश्चत्वारः सुमहाबलाः ।
प्रह्लादः पूर्ब्बजस्तेषामनुह्रादस्तथैव च ॥
संह्रादश्चैव ह्रादश्च ह्रादपुत्त्रान् शृशुष्व तान् ।
ह्रादस्य पुत्त्रौ द्वावास्तां हिण्डिभो मूक एव च ॥”
इति वह्निपुराणे कश्यपीयप्रजासर्गः ॥

ह्रादिनी, स्त्री, (ह्रादते शब्दायते इति । ह्राद +

णिनिः । ङीप् ।) विद्युत् । (यथा, महाभारते ।
९ । ११ । २६ ।
“ह्रादिन्य इव मेघेभ्यः शल्यस्य न्यपतन् शराः ॥”)
वज्रम् । इत्यमरः । १ । ३ । ९ ; १ । १ । ५१ ॥ नदी ।
इति भरतः राजनिर्घण्टश्च ॥ शल्लकी । इति
शब्दरत्नावली ॥

ह्रादी, [न्] त्रि, (ह्रदोऽस्यास्तीति । ह्राद + इनि ।)

शब्दविशिष्टः । (यथा, महाभारते । ८ । ५१ । ५१ ।
“रथाः पञ्चशताश्चान्ये ह्रादिनश्च सुवर्म्मिणः ॥”)

ह्रासः, पुं, (ह्रस रवे + घञ् ।) शब्दः । इति

त्रिकाण्डशेषः ॥ क्षयः । यथा, तिथ्यादितत्त्वे ।
“ह्रासवृद्धो च सततं दिनरात्र्योर्यथाक्रमम् ।
सन्ध्या मुहूर्त्तमाख्याता ह्रासे वृद्धौ समा स्मृता ॥”

ह्रिणाया, स्त्री, लज्जा । इत्यमरटीकायां भरतः ॥

अस्य रूपान्तरम् । हृणिया हृणीया च ॥

ह्रितः, त्रि, (ह्रीतः । पृषोदरादित्वात् साधुः ।)

लज्जितः । विभक्तः । नीतः । इति केचित् ॥
अंशे, क्ली ॥

ह्रितिः, स्त्री, (हृतिः । पृषोदरादित्वात् साधुः ।)

हृतिः । हरणम् । इति केचित् ॥

ह्रिवेरं, क्ली, (ह्रिये लज्जायै वेरमङ्गमस्य । पृषो-

दरादित्वात् ह्रस्वः ।) ह्रीवेरम् । इति भरत-
द्विरूपकोषः शब्दरत्नावली च ॥

ह्री, लि लज्जे । इति कविकल्पद्रुमः ॥ (ह्वा०-

पर०-अक०-अनिट् ।) लि, जिह्रेति नीच-
सङ्गत्या यः । इति दुर्गादासः ॥

ह्री, स्त्री, (ह्री लज्जायां + सम्पदादित्वात् क्विप्)

लज्जा । इत्यमरः । १ । ७ । २३ ॥ (यथा,
मार्कण्डेयपुराणे । १२९ । २२ ।
“नाहं तात ! करिष्यामि पृथिव्याः परिपालनम् ।
नापैति ह्रीर्मे मनसो राज्येऽन्यं त्वं नियोजय ॥”)
पृष्ठ ५/५५५

ह्रीका, स्त्री, (ह्री + “ह्रियो रश्च लो वा ।” उणा ०

१ । ४८ । इति कन् । टाप् ।) त्रासः । इत्यु-
णादिकोषः ॥ लज्जा । इति सिद्धान्तकौमुद्या-
मुणादिवृत्तिः ॥

ह्रीकुः, त्रि, (ह्री + “ह्रियः कुक् रश्च लो वा ।”

उणा० ३ । ८५ । इति कुक् ।) लज्जितः ।
सलज्जः । इत्युणादिकोषः ॥

ह्रीकुः, पुं, (ह्री + कुक् ।) जतुकः । त्रपुः । इत्यु-

णादिकोषः ॥

ह्रीच्छ, लज्जे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

अक०-सेट् ।) रेफयुक्तादिचतुर्थस्वरी । ह्रीच्छति
बधूः । इति दुर्गादासः ॥

ह्रीजितः, त्रि, (हिया जितः ।) लज्जाशीलः ।

इति जटाधरः ॥

ह्रीणः, त्रि, (ह्री + क्तः । तस्य वा न ।)

लज्जितः । इत्यमरः । ३ । १ । ९१ ॥

ह्रीतः त्रि, (ह्री + क्तः । तस्य वा न ।)

लज्जितः । इत्यमरः । ३ । १ । ९१ ॥
(यथा, महाभारते । ३ । २३ । ८ ।
“हा नाथ ! हा धर्म्म इति ब्रुवाणा
ह्रीताश्च सर्व्वेऽश्रुमुखाश्च राजन् ! ॥”
यथा च नैषधे । ३ । ६७ ।
“इतीरिता पत्ररथेन तेन
ह्रीणा च हृष्टा च बभाण भैमी ॥”)

ह्रीवेरं, क्ली, (ह्रिये लज्जायै वेरमङ्गमस्य ।

क्षुद्रत्वात् ।) बालकम् । इत्यमरः । २ । ४ । १२२ ॥
वाला इति भाषा । अस्य गुणाः राजवल्लभे ।
“ह्रीवेरं छर्द्दिहृल्लासतृष्णातीसारनाशनम् ।”
अन्यत् हृवेरशब्दे द्रष्टव्यम् ॥

ह्रीवेलं, क्ली, (ह्रीवेर + पृषोदरादित्वात् रस्य

लः । पक्षे ह्रीवेल + स्वार्थे कन् ।)
ह्रीवेरम् । इत्यमरटीकायां भरतः ॥

ह्रीवेलकं, क्ली, (ह्रीवेर + पृषोदरादित्वात् रस्य

लः । पक्षे ह्रीवेल + स्वार्थे कन् ।)
ह्रीवेरम् । इत्यमरटीकायां भरतः ॥

ह्रड, ऋ ङ गतौ । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-सक०-सेट् ।) ऋ, अज-
ह्रूडत् । अजुह्रोडत् । ङ, ह्रूडते । ह्रोडते ।
इति दुर्गादासः ॥

ह्रूड, ऋ ङ गतौ । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-सक०-सेट् ।) ऋ, अज-
ह्रूडत् । अजुह्रोडत् । ङ, ह्रूडते । ह्रोडते ।
इति दुर्गादासः ॥

ह्रेप, ऋ ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सफ०-सेट् ।) ऋ, अजिह्रेपत् । ङ,
ह्रेपते जिह्रेपे । इति दुर्गादासः ॥

ह्रेष, ऋ ङ सर्पणे । अश्वस्वने । इति कविकल्प-

द्रुमः ॥ (भ्वा०-आत्म०-अश्वशब्दे अक०-सर्पणे
सक०-सेट् ।) रेफयुक्ताद्यः । ऋ, अजिह्रेषत् ।
ङ, ह्रेषतेजिह्रेषे । ङ, हेषृ च स्वनेऽश्वानाम् । ङ,
हेषते घोटकः जिहेषे । ऋ, अजिहेषत् ।
चकारात् ह्रेषृ ङ च । मधुरमधुपं ह्रेषन्त्येते ।
इति गणकृतानित्यत्वात् । वस्तुतस्तु पचादित्वा-
दनि ह्रेषा इवाचरन्तीति क्वौ साध्यम् । इति
दुर्गादासः ॥

ह्रेषा, स्त्री, (ह्रष + भावे अः ।) अश्वानां कण्ठा-

द्विनिर्गतशब्दः । इत्यमरः । २ । ८ । ४७ ॥

ह्रौड, ऋ ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) ऋ, अजुह्रौडत् । ह्रौडते ।
इति दुर्गादासः ॥

ह्लग, म ए संवरणे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) म, ह्लगयति अह्वगीत् ।
इति दुर्गादासः ॥

ह्लप, क भाषणे । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् ।) क, ह्लापयति । रेफयुक्तादि-
रित्येके । ह्रापयति । अन्तःस्थतृतीययुक्तः कण्ठ्य-
वर्गाद्यादिरिति दुर्गसिंहादयः । क्लापयति अचि-
क्लपत् । भाषणं कथनम् । इति दुर्गादासः ॥

ह्लस, रवे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

अक०-सेट् ।) ह्लसति । इति दुर्गादासः ॥

ह्लाद, ई ङ मोदने । स्वने । इति कविकल्पद्रुःम ॥

(भ्वा०-आत्म०-अक०-मोदने सक०-सेट् । निष्ठा-
यामनिट् ।) मोदनं हृष्टीकरणं हृष्टीभावश्च ।
ई, ह्लन्नः । ङ, ह्लादते चन्दनो गात्रम् । बलात्
प्रह्लादते मनः । इति किराते । इति दुर्गादासः

ह्लादः, पुं, (ह्लाद + घञ् ।) आह्लादः । इति

हेमचन्द्रः ॥ (यथा, मार्कण्डेये । १५ । ५३ ।
“ततस्तद्गात्रसंसर्गी पवनो ह्लाददायकः ।
पापकर्म्मकृतो राजन् ! यातना न प्रवाधते ॥”
हिरण्यकशिपोः पुत्त्रभेदः । यथा, विष्णुपुराणे ।
१ । १५ । १४२ ।
“अनुह्लादश्च ह्लादश्च प्रह्लादश्चैव बुद्धिमान् ।
संह्लादश्च महावीर्य्या दैत्यवंशविवर्द्धनाः ॥”)

ह्लादिनी, स्त्री, (ह्रादिनी रलयोरैख्यात् रस्य लः ।)

विद्युत् । वज्रम् । इत्यमरः । २ । ४ । १२४ ॥
(ह्लादयते इति । ह्लादि + णिनि । ङीप् ।)
शक्तिविशेषः । यथा, --
“ह्लादिन्या सम्बिदाश्लिष्टः सच्चिदानन्द ईश्वरः ।
स्वाविद्यासंवृतो जीवः संक्लेशनिकराकरः ॥”
इति श्रीभागवते ७ । १ । ७ टीकायां श्रीधरस्वामी ॥

ह्लीका, स्त्री, (ह्री लज्जायाम् + “ह्रियोरश्च लो

वा ।” उणा० ३ । ४८ । इति कन् । पक्षे रस्य लः ।)
लज्जा । इति सिद्धान्तकौमुद्यासुणादिवृत्तिः ॥

ह्लीकुः, स्त्री, (ह्री + “ह्रियःः कुक् रश्च लो वा ।” इति

कुक् पक्षे रस्य लः ।) ह्रीकुः । इत्युणादिकोषः ॥

ह्लीकुः, पुं, (ह्री + कुक् । रस्य लः ।) जतु त्रपु ।

इत्युणादिकोषः ॥

ह्लेषा, स्त्री, (ह्रेषा । रस्य लः ।) ह्रेषा । इत्य-

मरटीकायां नीलकण्ठः ॥

ह्वल, म चाले । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) म, प्रह्वलयति । मित्वेऽप्यस्य ञौ
ज्वलह्वल इत्यादिना केवलस्य ह्रस्वविकल्पनात्
सोपसर्गस्य नित्यं ह्रस्वः । ह्ललयति ह्लालयति ।
चालश्चलनम् । इति दुर्गादासः ॥

ह्वृ, कौटिल्ये । लति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-अनिट् ।) ह्वरति लतां वायुः । इति
दुर्गादासः ॥

ह्वे, ञ ऐ स्पर्द्धे । शब्दे । इति कविकल्पद्रुमः ॥

(भ्वा०-उभ०-शब्दे अक०-स्तर्द्धे-सक०-अनिट् ।)
स्पर्द्धः पराभिभवेच्छा । इति वोपदेवः ॥ ञ,
ह्रयति ह्रयते मल्लो मल्लमभिभवितुमिच्छति ॥
ह्वयति जनं लोकः । आह्वयतीत्यर्थः । ऐ हूयात् ।
गोविन्दभटुस्तु स्पर्द्धाविषये व्यक्तवाक्येऽयमि-
त्याह । इति दुर्गादासः ॥

, शेषलकारः । गौडदेशे अस्याकारोच्चारणयो-

र्भेदो नास्ति । किन्त्वस्याध एकबिन्दुमात्रचिह्नं
क्रियते । वेदे अस्य उच्चारणस्थाणं जिह्वामूलम् ।
देवनागरवर्णमालायां अस्याकारः एवं प्रकारः
ळ । अस्य प्रयगः । अग्निमीले । हे इन्द्र
वोलु चित् । इत्यादि ऋग्वेदः ॥ * ॥ तन्त्रे वर्ण-
मालाजपे अस्य प्रयोजनम् । यथा, --
“अनुलोमविलोमेन कॢप्तया वर्णमालया ।
आदिलान्त लादि आन्तक्रमेण परमेश्वरि ! ।
क्षकारं मेरुरूपञ्च लङ्घयेन्न कदाचन ॥”
इति मुण्डमालातन्त्रम् ॥
मातृकान्यासेऽपि अस्य प्रयोजनम् । तत्प्रमाणं
मातृकाशब्दे द्रष्टव्यम् ॥ * ॥ तस्य नामानि यथा,
“लः पृथ्वी विमला मेघो अनन्तोऽव्यवहासिता ।
व्यापिनी शिवदा केतुर्ज्जगत्सारतरं हठः ॥
ग्लौर्मृडानी च वेदार्थसारो नारायणः स्वयम् ।
जठरो नकुलिः पीता शिवेशोऽनङ्गमालिनी ॥”
इति श्रीनन्दनभट्टाचार्य्यविरचितवर्णाभिधानम् ॥
अपि च ।
“लकारो विमलो जीवः शिवमूमिर्व्वरानने ! ॥”
इति श्रीरुद्रयामले ८ पटले मन्त्राभिधानम् ॥
कोषः श्रीवरदाप्रसादवसुना श्रीशब्दकल्पद्रुमो यश्च श्रीहरिपूर्ब्बकेण चरणेनाकल्पितो यत्नतः ।
सोऽयं कोविदवारिदैर्बहुगुणैः संसेचितः सन्ततं सन्तोषं नयतु क्षितौ बुधगणान् पेयूषगर्भैः फलैः ॥
रसेन्दुनागोडुपतिप्रमाणे शाके शुभेऽस्मिन् भगवत्प्रसादात् ।
नीतः समप्तिं बहुलप्रयासैः स शब्दकल्पद्रुम एष कोषः ॥
समाप्तोऽयं शब्दकल्पद्रुमः ।
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/हि&oldid=44119" इत्यस्माद् प्रतिप्राप्तम्