शब्दकौस्तुभः/अध्यायः १-पादः १/आह्निकम् ५

← आह्निकम् ४ शब्दकौस्तुभः
आह्निकम् ५
[[लेखकः :|]]
आह्निकम् ६ →


ईदूदेदे द्विवचनं प्रगृह्यम् (पाoसूo1-1-11)
ईदूदेदन्तं द्विवचनं प्रगृह्यसंज्ञं स्यात्। `हरी एतौ' `विष्णू इमौ' `गङ्गे अमू'। ``तपरकरणमसन्देहार्थम्' इति वृत्तिकाराः। अन्यथा हि यणादेशे कृते ह्रस्वस्यायं निर्द्देश इत्यपि सम्भाव्येत। ततश्च `अकुर्वह्यत्र' इत्यादावतिप्रसङ्गः स्यादिति भावः। भाष्ये तु व्यक्तिः पदार्थो, भेदकाश्च गुणा इति पक्षमाश्रित्य गुएणान्तरयुक्तानां दीर्घाणां सङ्ग्रहार्थं तपरकरणमित्युक्तम्। इदञ्च `इद्' इति प्रथमतकारस्यैव फलमित्यवधेयम्,तावतैव ऊकारेऽपि सिद्धेः तात्पर इति पञ्चमीसमासपक्षस्यापि स्थितत्वात्। एकारस्यत्वण्त्वादेवाणुदित्सूत्रेण सवर्णग्राहकतासिद्धेः। ईदूतोः परमनण्त्वाद् गुणान्तरयुक्तसङ्ग्रहाय युक्तो यत्नः। तस्माद्भाष्यमतेऽपि ऊदेतोस्तपरकरणमसन्देहार्थमेव गुणानामभेदकत्वे त्वीदित्यपि तथेत्यभिप्रेत्यैकरुप्यं वृत्तिकृद्भिरुक्तम्। इह ``तपरः (पाoसूo1-1-70) इति सूत्रे पञ्चमीसमासोमाऽस्त्वित्यभिप्रेत्य ऊदिति, तथाऽतपर एवैकारो निर्द्दिष्ट इत्यपि सुवचम्।
स्यादेतत्, असन्देहायापि क्रियमाणं तपरत्वं प्लुतं व्यावर्त्तयेदेव `घटायोन्मीलितं चक्षुः पटं न हि न पश्यति' इति न्यायात्। अथायं दकारः ``ऋदोरप् (पाoसूo3-3-57) इतिवदिति चेत्? एवमप्येकारो गृह्यणात् प्लुतम्, अणत्वात्; न त्वीदूतौ वाक्यापरिसमाप्तिन्यायेनानण्त्वात्। जातिपरो निर्देश इति चेत्? तर्हि ह्रस्वेऽप्यतिप्रसक्तिः. दीर्घव्यक्तिरपि विशेषणीभूता विवक्षितेति चेत्? कथं तर्हि प्लुतसङ्ग्रहः? न च प्लुतव्यावृत्तिरिष्टैवेति वाच्यम् `अग्री 3 इति' इत्यत्र ``अप्लुतवदुपस्थिते (पाoसूo6-1-29) इति सूत्रेण प्लुतत्वप्रयुक्ते प्रकृतिभावे निषिद्धेऽपि प्रगृह्यत्वप्रयुक्तस्यतस्येष्यमाणत्वात्। ``अप्लुतवत् (पाoसूo 6-1-129) इत्यस्यतु `देवदत्तेति' इत्यादौ चरितार्थत्वाद्वैयर्थ्यं न शङ्क्यम्। तथा च षाष्ठ वार्त्तिकम्--``वद्वचनं प्लुतकार्यप्रतिषेधार्थं प्लुतप्रतिषेधे हि प्रगृह्यप्लुतप्रतिषेधप्रसङ्गोऽन्येन विहितत्वात् इति। अत्राह भाष्यकारः--``यथोद्देशं संज्ञापरिभाषम् (पाoभाo2) इत्याश्रयणात् प्रगृह्यसंज्ञां प्रति प्लुतोऽसिद्धः। तथाच द्विमात्रत्वबुद्धेरप्रतिघातात् सिद्धासंज्ञा। कार्यकालपक्षे परं प्रगृह्यसंज्ञाया अपि``अणोऽप्रगृह्यस्य (पाoसूo8-4-57) इत्येतद्देशतया तां प्रति प्लुतस्य सिद्धत्वेनाऽनुनासिकः प्रवर्त्तेतैवेति स्यादेवदोषः। एतेन `अग्नी 3 इति' इत्यादौ प्रकृतिभावोऽपि व्याख्यातः, ``प्लुतप्रगृह्या आचि (पाoसूo6-1-125) इति ज्ञापकात्स्वरसन्धइषु प्लुतस्य सिद्धत्वेऽपि संज्ञां प्रत्यसिद्धत्वानपायात्, यथोद्देशपक्ष एवेहाश्रीयते इत्युक्तत्वात्। वस्तुतस्त्वनुनासिकप्रवृत्तिभयेनैवेह यथोद्देशपक्षाश्रयणम्। प्रकृतिभावस्तु कार्य्यकालपक्षंऽपि सूपपादः। न च प्रगृह्यः प्रकृत्येत्यनेनैकवाक्यतापन्नां संज्ञां प्रति प्लुतस्य सिद्धतया त्रिमात्रस्य संज्ञा दुरुपपादेति वाच्यम्, प्लुतस्य सिद्धतायां बीजाभावात्। यत्तूक्तं प्लुतः प्रकृत्येत्येतदेव ज्ञापकमिति। तन्न, प्लुतशब्देन तत्स्थानिनो लक्षणया सर्वसामञ्जस्यात्। न चैवं लक्षणैव दोष इति वाच्यम्, श्रुतार्थापत्तिमूलकवाक्यान्तरकल्पनापेक्षया लक्षणाया एवाभ्यर्हितत्वात्।अस्तु वा विशेषापेक्षं ज्ञापकम्। सिद्धः प्लुतः प्लुतत्वप्रयुक्तं प्रकृतिभाव इति, न तु प्रगृह्यत्वप्रयुक्तेऽपि। तस्मात्कार्य्यकालपक्षमाश्रित्य प्रकृतिभावस्य समर्थयितु शक्यत्वेऽप्यनुनासिकप्रवृत्तिवारणायैवेह यथोद्देशपक्षाश्रयणमिति स्थितम्।
अत्र हरदत्तः--यद्यपि संज्ञायामसिद्धः प्लुतस्तथाप्यनुनासिकपर्युदासे सिद्धएव। ततश्च यस्यानेन सञ्ज्ञाकृता द्विमात्रस्य न सोऽनुनासिकविधौ स्थानी किन्तु त्रिमात्रः। न च स्थानिवद्भावात्तस्यापि प्रगृह्यत्वम्, अल्विधित्वात्। किञ्चावश्यं ``सिद्धः प्लुतः स्वरसन्धिषु इत्याश्रयणीयम्। `दण्ड आढकम्' इति प्लुतस्य दार्घेण निवृत्तिर्यथा स्यात्। अत एव `सुश्लोका 3 इति, सुश्लोकेति' इत्यत्र गुणो भवन् प्लुतमेव निवर्त्तयति न तु स्थानिनम्। अन्यथा ह्यदेशरूपे प्लुतः श्रूयेत तदिह यथोद्देशेऽपि संज्ञापरिभाषे कथमिवेष्टसिद्धिः, कथं वा ग्रन्थेषु न पूर्वापरविरोध इति विपश्चितः प्रष्टव्या इति?
अत्राहुः---यद्यपि द्विमात्रस्त्रिमात्रेणापहृतस्तथापि ``पूर्वत्रासिद्धम् (पाoसूo8-2-1) इति शास्त्रासिद्धत्वबोधनात्त्रिमात्रेऽपि द्विमात्र एवायमिति बुद्ध्या प्रगृह्यसंज्ञा क्रियते। अत एव `अमुना' इत्यत्र मुत्वे कृते नदुपजीवनेन नाभावे च कृते ``सुपि च (पाoसूo7-3-102) इति दीर्घो मुशब्द एव दशब्दोऽयमिति बुद्ध्या प्राप्नोति तत्परिहाराय तन्त्रावृत्त्याद्याश्रणेन नाभावे कर्त्तव्ये कृते च सति मुभावो नासिद्ध इत्यष्टमे व्याख्यातम्। कृन्मेजन्तसूत्रे च सन्निपातपरिभाषा समाहितम्। न त्विह द्विमात्रे कृतां संज्ञां स्थानिवद्भावेन त्रिमात्रे आनयामः, येन ``अनल्विधौ (पाoसूoएo1-1-56) इति निषेधः शङ्क्येत। नहि रजतभ्रमप्रयुक्ता प्रवृत्तिः शुक्तिं न गोचरयतीति युक्तम्। एतावानेव पर विशेषः--रजतभ्रमोऽनाहार्य्यः प्रवर्त्तकः, इहतु शास्त्राप्रामाण्यादाहार्यारोपोऽपि तत्तच्छास्त्रप्रवृत्तावप्रवृत्तौ च नियामक इति। तदेतत्कैय्यटेनैव स्फुटीकृतम्। यदाह शास्त्रासिद्धत्वाश्रयणाच्च प्लुतबुद्धावसत्यां प्रगृह्यत्वे विधीयमाने द्विमात्रत्वबुद्धिः प्रवर्त्तते। तथा च वक्ष्यति ``असिद्धवचनमुत्सर्गलक्षमभावार्थमादेशलक्षणप्रतिषेधार्थं च इति। ``षत्वतुकोरसिद्धः (पाoसूo6-1-86) इत्येतत्सूत्रस्थं वार्त्तिकमिदम्। उत्सृज्यते निवर्त्यते आदेशेनेत्युत्सर्गः स्थानी, स लक्षणं निमित्तं यस्य कार्यस्य तुगादेस्तस्य प्रवृत्त्यर्थमित्यर्थः। तथा चैकरूप्यार्थँ सर्वत्र शास्त्रासिद्धत्वमेवेति भावः। एतेन यस्यानेन सज्ञा कृता न सोऽनुनासिकविधौ स्थानीति प्रथमदूषणमुद्धृतम्। यदपि `दण्डाढकं' ``सुश्लोकेति इत्यादावादेशः प्लुतः श्रूयेतेति। तदपि न, उक्तरीत्या तत्राप्यादेशेन प्लुतस्यैव निवृत्तेः। प्लुतो मयाऽपह्रियते इति बुद्धिः परं तस्य नास्तीत्यन्यदेतत्।
यत्तु षष्ठे बाष्यकारो वक्ष्यति---``सिद्धः प्लुतःस्वरसन्धिषु इति, तत्त्विहानुनासिकपर्य्युदासानुरोधाद्यथोद्देशपक्ष एवाश्रयणीय इति स्थिते स्वरसन्धिसामान्यापेक्षज्ञापकाश्रयणेऽपि न दोष इत्याशयेन न तु सामान्यापेक्षतायामेव किञ्चिदाग्रहे बीजमस्तीति दिक्।
ननूदाहरणेष्वीदादिकमेव द्विवचनं न तु तदन्तमिति चेत्?, व्यपदेशिवद्भावेन तदन्तत्वात्। नन्वीदूदन्तं द्विवचनान्तमित्येव कथं न व्याख्यातम्? एवं हि सति व्यपदेशिवद्भावो नाश्रयणीय इति चेत्? न, `कुमार्योरगारं कुमार्यगारं' `वध्वोरगारं वध्वोरगारं वध्वगारम्' इत्यत्र प्रत्ययलक्षणेन द्विवचनान्तेऽतिव्याप्तेः``संज्ञाविधौ प्रत्ययग्रहमे तदन्तग्रहणं नास्ति (पाoभाo27) इति ``सुप्तिङ्न्तं पदम् (पाoसूo1-4-14) इत्यत्रान्तग्रहणेन ज्ञापितत्वात्च। एतेनेदाद्यन्तं यद् द्विवचनं तदन्तं प्रगृह्यं, कुमार्य्यगारादौ तु सकारान्तं द्विवचनंन त्वीदाद्यन्तमिति परस्तम्, संज्ञाविधौ प्रत्ययग्रहणे तदन्ताग्रहणात्। यत्त्वस्मिन्पक्षे दूषणान्तरमुक्तम्--`अशुक्ले शुक्ले समापद्येतांशुक्ल्यास्तां वस्रे' इत्यत्र शब्दान्तरप्राप्त्या ऽनित्यं लुकं बाधित्वा परत्वाच्छीभावे कृते तस्यलुकि प्रत्ययलक्षणेन शुक्लीत्यस्य प्रगृह्यता स्यादिति । तन्न, ``अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते (पाoभाo52) इति परिभाषयौकारस्यैव लोपात्, तस्य चेदाद्यन्तत्वविरहात्। अस्तु तर्हि ईदादि विशेष्यं, तथा च द्विवचनसंज्ञं ईदादि गप्रगृह्यमित्यर्थ इति चेत्? न, `गङ्गे' इत्यादेः सिद्धावपि `दृश्येते' इत्याद्यसिद्धेः। द्विवचनावयवो ह्ययमेकारो न तु द्विवचनम्। किञ्च प्रगृह्यमित्यस्य सन्निहितत्वाद् द्विवचनमेव सज्ञिं न त्वीदादिः, विप्रकृष्टत्वात्। तस्माद्यथाव्याख्यानमेव मनोरमम्।
अत्र वृत्तिकाराः--``ममीवादीनां प्रतिषेधो वक्तव्यः इति पठित्वा `मणीव' `रोदसीव' `दम्पतीव' `जम्पतीव' इत्युदाजर्हुः। मुनित्रयानुक्तत्वादप्रमाणमिदमिति कैयटादयः। वदद्भिः समानन्यायतयाऽन्येषां मुनित्रयानुक्तानां वृत्तिकृन्मात्रोक्तानां तुरीयस्येष्टिः, शंसिदुहिगुहिभ्यो वा, क्रमेके छन्दसि, भाषायां च अङ्गगात्रकण्ठेभ्यस्त्विष्यत इत्यादीनामनादर्त्तव्यतोक्ता। मर्णावोष्ट्रस्य लम्बेते इति तु इवार्थकेन वाशब्देन निर्वाह्यमित्याहुः. न्यासकारस्तु ``सम्बुद्धौ शाक्ल्यस्येतौ(पाoसूo1-1-16) इति शाकल्यग्रहमस्य सिंहावलोकितन्यायेनेह सम्बन्धाद्व्यवस्थितविभाषाश्रयणाच्चेदं लभ्यते इत्याह।केचित्त्विवार्थेयं वशब्दः प्रयुक्तो भीमो भीमसेन इतिवत्। `कादम्बखण्डितदलानिव पङ्कजानि' इत्यादिवच्चेत्याहुः। वस्तुतस्तु ``वद्वायतातथेवैवं साम्ये (अoकोo3-4-9) इति कालिदाकसप्रयोगस्य तद्व्याख्यातृभिरुदाहरमात्सर्वं सुस्थम्। युक्तंश्चायमेव पाठः प्रातिपदिकप्रक्रमे तद्धितस्य वतेरननुगुणत्वात्। एतेन---
स्फुटोत्पलाभ्यामलिदम्पतीव
विलोचनाभ्यां कुचकुड्मलाशया।
निपत्य बिन्दू हृदि कज्जलाविलौ
मणीव नीलौ तरलौ विरेजतुः । (नैo)
इति श्रीहर्षप्रयोगोऽपि गतार्थः।

अदसो मात् (पाoसूo1-1-12)
अस्मात्परावीदूतौ प्रगृह्यौ स्तः। अमी ईशाः। रामकृष्णावमू आसाते। न चामू इत्युदाहरमं पूर्वसूत्रेण गतार्थमिति वाच्यम्, तस्मिन् कर्त्तव्ये मुत्वस्यासिद्धत्वात्। ``अदसोमात् (पाoसूo1-1-12) इति सूत्रं प्रति तु नासिद्धत्वम्, आरम्भसामर्थ्यात्। तथा च वार्त्तिकम्--``आश्रयात्सिद्धत्वं च यथा रोरुत्वे इति। पुंवद्वचनमेवोदाहरणं स्त्रीनपुंसकयोर्द्विवचने तु मुत्वस्यासिद्धत्वेऽप्येकारान्तत्वात्पूर्वेणैव सिद्धा संज्ञा। ततश्च प्रकृतिबावोऽनुनासिकपर्य्युदासश्च सिद्ध एवेत्यवधेयम्।
यत्तु हरदत्तेनोक्तम् ``अणोऽप्रगृह्यस्य(पाoसूo8-4-57) इत्यत्रौपस्थितेन पूर्वसूत्रेण संज्ञायां क्रियमाणायां मुत्वस्य सिद्धत्वाल्लिङ्गत्रयेपि द्विवचनेऽनुनासिकपर्युदासः पूर्वेणैव सिद्धः। एतत्सूत्रारम्भस्त्वद्विवचनार्थः, पुंसि द्विवचने प्रकृतिभावार्थश्चेति। तच्चिन्त्यम्, प्लुतसंग्रहानुरोधन पूर्वसूत्रे यथोद्देशपक्षस्यैव स्थापितत्वात्। तस्मात् पुंसि द्विवचनेऽनुनासिकपर्युदासोऽप्येतत्सूत्रस्य फलं न तु प्रकृतिभावमात्रमित्यवधेयम्।
अथापि कथञ्चिद्धरदत्तोक्तिस्समर्थयितव्येत्याग्रहस्तर्हि इत्थं समर्थनीया--पूर्वसूत्रे कार्यकालपक्ष एवास्तु। न चैवं प्लुतस्यानुनासिकपर्य्युदासो न स्यादिति वाच्यम् `ई ई 3 त्' `ऊ ऊ 3 त्' इति दीर्घात्परभागेप्लुतस्यापि प्रश्लिष्टनिर्देशात्। एकारस्त्वण्त्वादेव प्लुतं ग्रहीष्यति। न च तादपि परस्तपर इति तत्कालग्रहणापत्तिः ``ऋदोरप् (पाoसूo3-3-57) इतिवद्दकार एवायमित्याशयात्। युक्तञ्चैतत्,यथोद्देशपक्षे प्लुतात् प्रागेव संज्ञाप्रवृत्तौ सत्यां ततः प्लुते कृते तमेव द्विमात्रत्वेन पश्चन्त्या अपि संज्ञायाः पुनः प्रवृत्तौ बीजाभावात्। नाभावस्तु मुभावात्प्रागप्राप्तस्ततो मुत्वनिमित्तकं नाभावमाश्रित्य मुभावे दशब्दोऽयमिति बुद्ध्या प्राप्नुवन् दीर्घः प्रतिविधीयते इत्युचितम्। नत्द्यसौ प्लुतात् प्राक् प्रगृह्यसंज्ञावन्मुभावात् प्रागेव प्रवृत्तो येन पुनर्न प्रवर्त्तत। एतेन पूर्वसूत्रस्थहरदत्तग्रन्थोऽप्युज्जीवित इति यावद्धाधं साधु। भाष्यकैयटयोस्त्वयं भावः--प्लुतात् प्राक् प्राप्ताऽपि प्रगृह्यसंज्ञा फलाभावान्न क्रियते। न च प्लुतेऽनुनासिकप्रवृत्तिरेव फलमस्त्विति वाच्यम्, संज्ञाया अप्रवृत्तावपि तल्लाभात्, प्रगृह्यत्वप्रयुक्तपर्य्युदासस्यैव विधिस्पृष्टस्य तत्फलत्वौचित्याच्चेति। `सुश्लोकेति' इत्यादावप्यन्तरङ्गत्वात् प्लुतः `अन्तरङ्गम्बलीयः' (पाoभाo38) इति न्यायात्।
प्रकृतमनुसरामः--नन्वारभ्यमाणेऽप्यस्मिन्सूत्रे पूर्वसूत्रेणैकरूप्यार्थं यतोद्देशपक्ष एवाश्रयणीयः। तथाच रुत्वस्योत्वं प्रतीव प्रगृह्यसंज्ञां प्रत्येव मुत्त्वमीत्वयोः सिद्धत्वं स्यात्, न त्वयादीन् प्रत्यपि। ततश्च `अमी आसते' इत्यत्रायादेशप्रसङ्ग, `अमू आसाते' इत्यत्र पुंस्यावादेशः, `अमी अत्र' इत्यत्र ``एङः पदान्तादपि(पाoसूo6-1-109) इत्येकादेशप्रसङ्गश्च। न च संज्ञां प्रत्येव सिद्धत्वे वचनानर्थक्यं स्यादिति वाच्यम्, अनुनासिकपर्युदासेन चरितार्थत्वात्।
अत्रौच्यते--यद्यनुनासिकपर्य्युदासमात्रं प्रयोजनं स्यात्तर्हि संज्ञासूत्रं न प्रणयेत्। ``अणोऽप्रगृह्यस्यानुनासिकः ``अद्सोन इत्येव ब्रूयात्। ``असौ `अमुके' `अमुकाभ्याम्' इत्यादौ तु सिद्धान्तेऽपि न भवत्यनुनासिकः, अनण्त्वादनवसानत्वाच्च। अतस्तत्र माद्ग्रहणमीदूदद्ग्रहणं वा न कर्त्तव्यम्। न चैवं `हे अमुक' इत्यत्रापि निषेधापत्तिः, त्यदादीनां सम्बोधनविभक्तिविरहस्यौत्सर्गिकत्वात्। अतः संज्ञारम्भसामर्थ्यात्प्रकृकतिभावार्थत्वमप्यस्य विज्ञायते। तद्बलाच्चायादिविरहोऽपि सिद्ध्यति, प्रकृतिभावस्यापदादरूपतया ``उपसञ्जातनिमित्तोऽप्युत्सर्ग उपजनिष्यमाणनिमित्तेनाप्यपवादेन बाध्यते(पoभाo65) इति परिभाषावताराच्च। यत्तु संज्ञारम्भसामर्थ्यादयादीन्संज्ञां च प्रति मुत्वमीत्वयोः सिद्धत्वज्ञापनादयादीन् बाधित्वा परत्वान्मुत्वमीत्वे इति तन्न, अयाद्यभावस्य ज्ञापने लाघवात्। अर्थापत्तेर्हि साक्षादुपपादकविशयतौत्सर्गिकी। किञ्च मुत्वमीत्वयोरेकपदाश्रयत्वेन बलीयस्त्वम्, `अन्तरङ्गम्बलीयः' (पाoभाo38) इति न्यायात्। तत्कथं विप्रतिषेदोपन्यासः? ``नाजानन्तर्य्ये(पाoभाo51) इति निषेधस्तु, ``असिद्धं बहिरङ्गम्(पoभाo50) इत्यस्यैव न तूदातदृतपरिभाषायाः। यद्यपि ``असिद्धं बहिरङ्गमन्तरङ्गे(पoभाo50) इत्यनयैव गतार्थत्वादन्तरङ्गम्बलवदिति पृथक् परिभाषा न कर्त्तव्येति ``विप्रतिषेधे परम् (पाoसूo1-4-2) इति सूत्रे भाष्यकृद्वक्ष्यति। `वृक्ष इह' इत्यत्र हि सप्तम्येकवचनेन सह सुणोऽन्तरङ्गः। सवर्णदीर्घत्वं तु बहिरङ्गम्। न चेहासिद्धपरिभाषया गुणो लभ्यते ``नाजानन्तर्य्ये (पoभाo51) इति निषेधात्। अत एव ``अचः परस्मिन् (पाoसूo1-1-57) इति सूत्रे भाष्यकृद्वक्ष्यति--

आरभ्यमाणे नित्योसौ परश्चासौ व्यवस्थया।
युगपत् सम्भवो नास्ति बहिरङ्गेण सिद्ध्यति ।। इति ।।
एतच्च तत्रेव स्फुटीकरष्यते। अत एवोक्तं वार्त्तिककृता,--``शचङन्तस्यान्तरङ्गलक्षणत्वात् इति `धियति' `अदुद्रुवत्' इत्यादि च तत्रोदात्दृतम्। ज्ञापकं चात्र ``ओमाङोस्च (पाoसूo6-1-95) इत्याङ्ग्रहणम्। तद्धि `खट्वा-आ-ऊढा' इत्यत्र परमपि सवर्णदीर्घ बादित्वा धातूपसर्गयोः कार्यमन्तरङ्गमित्यन्तरङ्गत्वाद् गुणे कृते वृद्धिप्राप्तौ सत्यां पररूपं यथा स्यादिति क्रियते। एतच्च ``सम्प्रसारणाच्च(पाoसूo6-1-108) इति सूत्रे भाष्ये स्पष्टम्। कथं तर्हि वार्तिककृतोक्तंविप्रतिषेधाद्वेति? सत्यम्, अत एवापरितोषाद्भाष्यकारेणाथवेति पक्षान्तरमाश्रितमिति दिक्।
मात् किम्? अमुकेऽत्र। नन्विहसूत्रे ईदूतावेवानुवर्त्तितौ न त्वेकारः. सत्यम्, सति माद्ग्रहणे एकारो नानुवर्त्तते अदसो मात् परस्य तस्यासम्भवात्। अन्यथा त्वनुवर्त्तेत। एकदेशानुवृत्तिस्तु दुर्ज्ञाना। तस्मादेकाराननुवृत्तितात्पर्यग्राहकफलकं माद्ग्रहणमिति स्थितम्। अत्रेदं चिन्त्यम्। ``ईदूतौ सप्तम्यर्थे प्रगृह्यौ,उदसः, एच्च द्विवचनम् इत्येव कुतो न सूत्रितम्? एवं हि पूर्वसूत्रस्थामीद्ग्रहणं प्रकृतसूत्रे माद्ग्रहणं च न कर्त्तव्यमिति महल्लाघवम्। एकदेशानुवृत्तिश्च नाश्रयणीया भवतीति ।।

शे (पाoसूo1-1-13)।
अयं प्रगृह्याः स्यात्। अस्मे इन्द्राबृहस्पती। चतुर्थीबहुवचनस्य स्थाने ``सुपां सुलुक् (पाoसूo 7-1-39) इति सूत्रेण शे आदेशः। शित्त्वात् सर्वादेशः। ``शेषे लोपः (पाoसूo7-2-90) न युष्मे वाजबन्धवः। युष्मास्वित्यर्थः। अत्र पदपाठकाले `युष्मे' इत्युदाहरणं बोध्यम्। संहितायान्त्वच्परत्वाभावेन सत्यसति वा प्रगृत्द्यत्वे विशेषालाभात्। एवं `त्वे रायः सुदुघास्ते ह्यश्वाः' इत्यादीनामपि पदपाठकाले उदारहणत्वं बोध्यम्। ``लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् (पाoभाo114)। तेनेह न---`काशे' `कुशे' `वंशे' `हरिशे' `बभ्रुशे'। हरि बभ्रु आभ्यां लोमादित्त्वाच्छप्रत्ययः. ततः सप्तम्येकवचनम् ।।
निपात एकाजनाङ्(पाoसूo1-1-14)। एकोऽज् निपात आङ्भिन्नः प्रगृह्यः स्यात्। अ निषेधाधिक्षेपयोः, `अ अवद्यम्'। इ विस्मये, `इ हन्द्रः' उ जुगुप्सासंतापान्वर्थाप्यर्थेषु `उ उमेशः'। एकाजिति कर्मधारयः वर्तिपदार्थप्रादान्येनान्तरङ्गत्वात् ``व्याहरति मृगः (पाoसूo1-3-83) इत्यादिनिर्देशाच्च। तेनेह--`प्रेदं ब्रह्मवृत्रतूर्ये,्वाविथ' `प्रेद्धः' इत्यादि।
स्यादेतत्, यद्ययं कर्मधारयस्तर्हि एकग्रहणं व्यर्थम्। निपातो योऽच् इत्येतावतैवाभिमतसिद्धेः। न च विपरीतविसेषणविशेष्यभावेनाजन्तो यो निपात इत्यर्थः स्याद्विशेषणेन तदन्तविधेरिति वाच्यम्, तथासति व्यावर्त्यालाबेन विशेषणवैयर्थ्यापत्तेः. न च हलन्तं व्यावर्त्यम्, तस्य सञ्ज्ञायां सत्यामपि बाधकाभावात्। न च हलन्तं व्यावर्त्यम्, तस्य सञ्ज्ञायां सत्यामपि बाधकाभावात्। न च `पुरोऽस्ति' इत्यादौ हलन्तस्य संज्ञायां सत्यां प्रकृतिभावाद्रो रुत्वं न स्यादिति वाच्यम, प्रगृह्यसञ्ज्ञां प्रति रुत्वस्यासिद्धतया दोषाभावात्। न च सान्तस्य कृता प्रगृह्यसञ्ज्ञा एकदेशविकृतस्यानन्यतया रेफान्तस्यापि स्यादेवेति प्रकृतिभावप्रसङ्गस्तदवस्थ एवेति वाचयम्, प्रगृह्यसञ्ज्ञां प्रतीव प्रकृतिभावं प्रत्यपि रुत्वस्यासिद्धत्वात्। सकारान्तस्य तु न किञ्चिदपि सिद्धकाण्कडस्थं प्राप्नोति यत्प्रकृतिभावेन व्यावर्त्येत। तस्मादचा निपातस्य विशेषणे अज्ग्रहणं व्यर्थमेव स्यादिकति सुष्ठूक्तम्। नन्वजन्तस्यैव यथा स्यादज्मात्रस्य मा भूदित्येवमर्थँ विशेषणं किन्न स्यादिति चेत्? न, व्यपदेशिवद्भावेन तस्याप्यजन्तत्वानपायात्। विशेषणसामरर्थ्याद्व्यपदेशिवद्भावो न प्रवर्त्तते इति चेत्? न, तदन्तविधिपरित्यागेनापि तत्सार्थक्यस्य सुवचात्वात्। तथाप्यन्यतरपरित्यागे आवश्यकं विनिगमकं किमिति चेदाङ्ग्रहणमेवेत्यवेहि। तद्धि व्यपदेशिवद्भावमात्रबाधे व्यर्थं स्यात्' तस्मादचो विशेषणत्वेनाङ्ग्रहणाज्ज्ञापकात्तदन्तविधिर्न। अचो विशेष्यत्वे तु सुतरां तदन्तविधिरिति। उभयथाऽप्येकग्रहणं व्यर्थमेवेति स्थितम्। नन्वच्समुदायनिवृत्त्यर्थमेकग्रहणमस्तु। `अइउ अपेहि' इति समुदायस्यैव संज्ञा स्यान्नावयवानाबेकाज्द्विर्वचनन्यायादिति चरमस्यैव प्रकृतिभावः स्यान्न तु पूर्वयोरिति। मैवम्, अजित्येकत्वस्य विवक्षयैव समुदायनिराससम्भवात्। अत्राह भाष्यकारः--अच्समुदायग्रहणशङ्कानिरासार्थमेकर्ग्रहं कुर्वन् ज्ञापयति वर्णग्रहणेषु व्यक्तिसङ्ख्या न विवक्ष्यते किन्तु जातिरेव निर्दिश्यते इति। तेन ``दम्बेर्हल्ग्रहणस्यजातिवाचकत्वात्सिद्धम् इति वार्त्तिककृता वक्ष्यमाणं सूत्रेणैव ज्ञापितं भवति। दम्भेः सिद्धमित्यन्वयः। अत्र हेतुर्हल्ग्रहणस्य जातिवाचकत्वादिति। तेन दम्भेः सनि कृते ``सनीवन्त (पाoसूo7-2-49) इति विकल्पादिडभावे ``दम्भ इच्च (पाoसूo7-4-56) इतीदीतोः कृतयोः ``अत्र लोपोऽभ्यासस्य(पाoसूo7-4-58) इत्यभ्यासलोपे `` हलन्ताच्च (पाoसूo1-2-10) इति सनः कित्त्वान्नलोपे भष्भावे च कृते `धिप्सति' `धीप्सति' इति रूपद्वयं सिद्ध्यति। हल्ग्रहणस्य व्यक्तिपरत्वे तु योऽत्रेकः समीपो हल् नकारो न ततः परः सन्, यस्माच्च परः सन् भकारान्नासाविकः समीप इति कित्वं न स्यात्। तथा ``तृंहू हिंसायां(तुoपo1215) तुदादिः,ऊदित्वादिड् वा तितृंहिषति तितृक्षतीति स्यादिति दिक्।
स्यादेतत्, `अइउ अपेहि' इत्यत्र एकाज्द्विर्वचनन्यायोपन्यासो न युक्तः समुदायसज्ञंयाऽवयवानामननुग्रहात्। अत एव हि `निर्ग्लायात्' `निर्ग्लेयात्' हत्यादौ बहूनां सन्निपाते द्वयोः संज्ञा स्वीकृता। नापि निपातग्रहणेन ग्रहणमेकैकस्मिन्निपाते संज्ञाविधानसम्भवात्। सत्यम् एकाज्समुदायग्रहणशङ्कामात्रं तु स्यादेव। तन्निरासायैव क्रियमाणमेकग्रहणं प्रागुक्तमर्थं ज्ञापयति। वस्तुतस्त्वपृक्तसंज्ञायामेकग्रहणमुक्तार्थे ज्ञापकमित्याश्रित्य प्रकृतसूत्रे एकग्रहणस्य परित्याग एव ज्यायान्। निपात इति किम्? चकारात्र। तचथा अततेर्डः अः, `हे अ आगच्छ' इत्यपि प्रत्युदाहरणम्। आङनाङोर्व्यवस्थामाह भाष्यकारः--
ईषदर्थे क्रियायोगे मर्यादाऽभिविधौ च यः।
एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् ।। इति ।।
इह एतच्छब्देन पूर्वमनिर्दिष्टत्वादेतमित्यस्यैनादेशो न कृत इति कश्चित्। तन्न,---अन्वादेशश्च कथितानुकथनमात्रं न त्विदमेव कथितस्येदमाऽनुकथनमिति भाष्यकृता वक्ष्यमाणत्वात्। तस्माद्यत् किञ्चिद्विधाय वाक्यान्तरेणान्यदुपदिश्यते सोऽन्वादेशः। इह तु ईषदर्थादौ यो वर्त्तते इति वृत्तिर्न विधेया, किन्तु परिचायकतामात्रेणोपात्ताः। अतो नैनादेशः। एतेन---
नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय।
इत्यपि व्याख्यातम्। भीरुत्वस्य विधेयत्वाविवक्षणात् सिद्धस्यैव हेतुत्वेनानुवादादिति दिक्।
ईषदर्थे--आ उष्णम् ओष्णम्। आङीषदर्थे इति ``कुगति(पाoसूo2-2-18) इति सूत्रे वार्त्तिककृता ङिद्व्यवहृतः। क्रियायोगे--आ इतः एतः। प्रादिषु ङित्पठितः। मर्यादाऽभिविधौ चेति समाहारद्वन्द्वे आगमशासानस्यानित्यत्वान्नुमभावः। मर्यादया सहिते अभिविधाविति मध्यमपदलोपी वा समासः। मर्यादायाम्--आ उदकान्तात् ओदकान्तात्। अभिविधौ--अअहिच्छत्रात् आहिच्छत्रात्। विना तेनेति मर्यादा, सह तेनेत्याभिविधिः ``आङ् मर्यादाभिविध्योः(पाoसूo2-1-13) इति च ङिन्निर्दिष्टः पूर्वप्रकान्तस्य वाक्यार्थस्यान्यथात्वद्योतनाय आकारः प्रयुज्यते--`आ एवं नु मन्यसे'। नैवं पूर्वममंस्थाः, संप्रत्येवं मन्यसे इत्यर्थः। वाक्यारम्भसूचनाय आकार इत्यपरे। तथा स्मृतेः सूचक आकारः प्रयुज्यते। ततः स्मृतोऽर्थो निर्दिश्यते--आ एवङ्किल तदिति।
अत्र च वाक्यस्मरमयोरङिदित्यत्रैव तात्पर्यम्। अतो वाक्यस्मरणाभ्यामन्यत्रेषदर्थाद्यभावेऽपि ङित्त्वं बोध्यम्। तेन ``आमेन्यस्य रजसोयदभ्रआँ अपो वृपाना इत्यत्र सप्तम्यर्थवृत्तेरप्याकारस्य ङित्त्वेन ``आङोऽनुनासिकस्छन्दसी (पाoसूo6-1-126) इति प्रवर्त्तते इति षष्ठेहरदत्तादयः।
युक्तञ्चैतत्। ङिदङिदोरन्यतरलक्षणमात्रेणार्थादुभयविवेकलाभे तत्रापि लाघवादङिल्लक्षणे तात्पर्य्यमाश्रित्य भागान्तरस्यावयुत्यानुवादरूपत्वात्।

ओत् (पाoसूo1-1-15)।
ओदन्तो निपातः प्रगृह्यसंज्ञः स्यात्। आहोइति, उताहो इति। निपात इति किम्? देवोऽसि। वषट् ते विष्णवास आ। वायवायाहि। विष्णोव। यत्तु `गवित्ययमाह' इत्येतदेव निपातग्रहणस्य व्यावर्त्यमिति। तन्न, प्रगृह्यसंज्ञायां सत्यामपि क्षत्यभावात्। न चैवं प्रकृतिभावापत्तिः, प्रकृतिभावविधौ पदान्ताधिकारात्। न चायं पदान्तो भवत्येवेति भ्रमितव्यम्, अनुकार्यानुकरणयोरभेदविवक्षयाऽर्थवत्वाभावेनाप्रातिपदिकत्वाद्विभक्तेरनुत्पत्तावेत्रैतदूपाभ्युपगमात्। अन्यथाविभक्तिश्रवणापत्तेः। न चैवमपदस्य प्रयोगासङ्गतिरिति वाच्यम्, ``अपदं न प्रयुञ्जीत इत्युद्घोषस्य अपरिनिष्ठितं न प्रयुञ्जीतेत्येवं परत्वात्, तस्य च सुप्तिङादिविशयकतत्तद्विधिशास्त्र मूलकत्वात्, इह तकरीत्या सुब्विभक्तेरप्यप्राप्त्या गो इति स्वरूपस्यैव परिनिष्ठितत्वात्। अत एवेह ``लोपः शाकल्यस्य(पाoसूo8-3-19) इत्यपि न प्रवर्त्तते। कथं तर्हि पूर्वसूत्रे ``शेऽर्थवत् ग्रहणात् इति वार्त्तिके ``एङः पदान्तात्(पाoसूo6-1-109) इति पूर्वरुपंकृतमिति चेत्? नत्रानुकार्यानुकरणयोर्भेदं विवक्षित्वा विभक्तिं चकृत्वा शेष्वर्थवान् शेऽर्थवानिति समासेन सुपो लुकं कृत्वाव्याख्यानात्। एतेनोत्तरसूत्रे `सम्बुद्दाविति किम्? `गवित्ययमाह' इत्युदाहरन्तो वृत्तिकारा अपि प्रत्युक्ताः। तस्मादिह `देवोऽसि' इत्यादिकमेव प्रत्युदाहरणं बोध्यम्। न च ``एङः पदान्तात् (पाoसूo6-1-109) इत्यारम्भसामर्थ्यादेव तत्सिद्धिः, `हरेऽव गच्छ' इत्यादौ चरितार्थत्वात्। न चैङ्ग्रहणसामर्थ्यम्। ``ङसिङसोश्च (पाoसूo 6-1-110) इत्युत्तरार्थत्वात्। उत्तरसूत्रे तु सम्बुद्धिग्रहणाभावे `आहो इति' इत्यादावपि परत्वाद्विकल्पापत्तिः, पूर्वसूत्रस्य `अहो ईशाः' इत्यादावुत्तरस्य तु `विष्णो इति' इत्यादौ लब्धावकाशतया विप्रतिषेधसम्भवात्। न चेह ओदन्तस्य आर्यितया भिन्नविषयकत्वे कथं विप्रतिषेध इति वाच्यम्। `त्रपूणाम्' इत्यादौ प्रकृतिप्रत्ययावयवयोर्नुम्नुटोरिवेहापि फलविरोधेन विषयभेदेऽपि विप्रतिषेधसम्भवात्, अर्थाधिकारपक्षे उत्तरसूत्रेऽप्योकारान्तस्य संझित्वाच्च, शब्दाधिकारपक्षेऽपि ``इको झल् (पाoसूo1-2-9) इत्यत्र सनाक्षित्वाच्च, शब्दाधिकारपक्षेऽपि ``इको झल् (पाoसुo1-2-9) इत्यत्र सनाक्षिप्तस्य धातोरिका विशेषणवदिहापि सन्बुध्याक्षिप्तायाः प्रकृतेरोकारेण विशेषणे तदन्तविधिसम्भवाच्च। तस्मात्सूत्रद्वयेऽपि `गवित्ययमाह' इति प्रत्युदाहरणं नेति स्थितम्। प्रकृतिभावे पदान्तग्रहणं न सम्बध्यते इत्याशयेन तु वृत्तिग्रन्थो योज्यः अस्मिश्च पक्षे मण्डूकप्लुतिन्यायेन ``इकोऽसवर्णे (पाoसूo6-1-127) इत्यत्र पदान्तग्रहणं सम्बन्धनीयमेव। अन्यथा `गौर्यौ' `गौर्य्यः' इत्यादावतिप्रसक्तेरिति दिक्।
स्यादेतत्, निपातसमुदाया एते। आह उ आहो, उत आहो उताहो इत्यादि। ततश्चादिवद्भावात् ``निपात एकाज्(पाoसूo1-1-14) इत्यनेनैव सिद्धा संज्ञा। न चैवम् `आहो इति' इत्यादिषु ``ऊँ(पाoसूo 1-1-17) इत्यस्य प्रसङ्गः, निरनुबन्धकोऽयमुकारः न तूञ् इति समाधानात्। अत एव ``उञः (पाoसूo1-1-17) इति सूत्रे ञकारोच्चारण मपि सार्थकम्। अत एव च ``उञः (पाoसूo1-1-17) ``ऊँ(पाoसूo1-1-18) इत्यत्र भाष्यकृतोक्तम्---``द्वावुकाराविमौ। एकोऽननुबन्धकः, अपरः सानुबन्धकः इति। चैवमपि आ उ ओ इत्यत्राऽऽङनाङोरेकादेशस्यानाङिति प्रतिषेधे प्राप्ते प्रतिप्रसवायेदमिति वाच्यम्, अनाङित्यस्य पर्य्युदासाश्रयणेनाऽऽङनाङोरेकादेशस्यादिवद्भावादनाङ्ग्रहणेन ग्रहणात्। प्रसज्यप्रतिषेधे ह्यसमर्थसमासो वाक्यभेदश्च स्यात्। भाष्येऽपि प्रतिषिद्धार्थमेतदित्युक्तिरभ्युच्चयमात्रम्। कथमन्यथाऽनुपदमेव `अदोभवत्' इत्यत्रातिप्रसङ्गमाशङ्क्य प्रतिपदोक्तस्यैवौकारस्य ग्रहणमिति समादधीत। तस्मादिदं सूत्रं विनाऽपि सर्वं लक्ष्यं निर्व्यूढमेवेति चेत् ?
अत्रोच्यते---आहो उताहो इत्यादयो न निपातसमुदायाः, किन्त्तवखण्डा एव। एतच्च एतत्सूयत्रबलात्प्रतिपदोक्तस्यौकारस्य ग्रहणमिति भाष्यबलाच्चाध्यवसीयते। तेन `आम् आहो देवदत्त' इत्यत्र ``आम एकान्तरमामन्त्रितम्(पाoसूo8-1-55) इति निघातप्रतिषेधः सिद्धः। अत एव पदकारैरपि ``ओषुवर्त्तमरुत इत्यादौ `ओ' इत्याद्यैकपद्येनैव पठ्यते। तदेवं सूत्रकारभाष्यकारपदकाराणां सम्वाद एवेति स्थिते निपातसमुदाय एवायमित्याश्रित्यैतत्सूत्रं प्रत्याचक्षाणाः परस्ताः।
स्यादेतत्, अनदोऽदः समभवदित्यत्रातिप्रसङ्गः, च्व्यन्तस्य निपातत्वलात् ``ऊर्यादिच्विडाचश्चः(पाoसूo1-4-61) इति गतिसंज्ञाविधानेऽपि ``प्राग्रीश्वरान्निपाताः (पाoसूo1-4-56) इत्यस्याधिकारात्। न च लक्षणप्रतिपदोक्तपरिभाषया लाक्षणिक ओकारो व्यावर्त्यत इति वाच्यम्, वर्णग्रणेषूक्तपरिभाषया अप्रवृत्तेः। अन्यथा ``एचोऽयवायावः (पाoसूo6-1-78) इत्यपि `हरये' इत्यादौ न प्रवर्त्तेत, `चक्रे' `चक्रिरे' इत्यादौ प्रतिपदौक्ते चारितार्थ्यात्। वर्णस्य प्राधान्ये माऽस्तु परिभाषा, विशेषेणत्वे तु स्यादेवेति चेत्! न, अविशेषेणाप्यप्रवृत्तेः सूपपादत्वात्। तथा च षष्ठे वक्षयामः--``अभ्युपेत्यापि ब्रूमः--अगोर्गौः समभवद्गोऽभवदित्यादौ ``गमेर्डो(उoसूo1-2-235) इत्योकारस्य प्रतिपदोक्ततयाऽतिप्रसङ्गः स्यादेव। नन्विह गौणमुखयन्यायेन समाधानमस्तु। तथाहि, `संघीभवन्ति ब्राह्मणाः' `त्वद्भवति देवदत्तः' `मद्भवसि त्वं' `त्वद्भवाम्य हम्' इत्यादौ वचनपुरुषव्यवस्थानुरोधेन च्विप्रत्ययस्थले सर्वत्र प्रकृतेरेव कर्तृत्वमिति सिद्धान्तस्थितिः. तथाच प्रकृतावारोपेण वर्त्तमानांद्विकृतिवाचकाच्छब्दाच्च्वेरुत्पत्तौ च्विप्रत्ययं प्रति प्रकृतिभूतस्य वाहीकादिवृत्तेर्गोशब्दस्य गौणार्थता स्पष्टैव। अत एव `अमहान् महान् भूतो महद्वूतश्चन्द्रमाः' इत्यादौ ``आन्महत(पाoसूo6-3-46) इत्यात्वं न प्रवर्त्तते इति चेत्? न, दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यात्। तथाहि, विशिष्टरुपोपादाने गौणसुख्यन्यायः। तस्य ``अर्थवद्ग्रहणे नानर्थकस्य (पाoभाo14) इत्येतत्पारिभामूलकत्वात्, अर्थोपस्तितेश्च रूपविशेषग्रह सापेक्षत्वात्।?तथा च `` आन्महतः (पाoसूo 6-3-46) इति विशिष्टरूपग्रहणेन विधीयमानमात्वं गौणे न भवतीति युक्तम्। इह तु ``ओत् (पाoसूo1-1-15) इति वर्णपुरस्कारेण विधीयमाना प्रगृह्यसंज्ञा कथं गौणार्थवृत्तेर्न भवेत्। निपातसंज्ञा तु तस्यापि मुख्यैव। अत एव संज्ञाश्वशुरस्यापत्यं--`श्वाशुरिः' इत्यत्र ``राजश्वशुराद्यत् (पाoसूo4-1-136) न प्रवर्त्तते। ``अत इञ् (पाoसूo4-1-95) तु प्रवर्त्तते एव। अन्यथा इञो यतश्च तुल्ययोगक्षेमतैव स्यात्। अत एव `गौर्वाहीको ब्रूते' `गां वाहीकं पाठय' इत्यादौ वृद्ध्यात्वे स्त एव तयोरप वर्णाश्रयत्वात्, ``गोतः (पाoसूo7-1-90) इति तपरत्वभोकारान्तोपलक्षणार्थमिति वक्ष्यमाणत्वात्। तथा च ``औतोऽम् (पाoसूo6-1-93) इति सूत्रे भाष्यकृद्वक्ष्यति--``गामित्यत्र पराऽपि वृद्धिर्निरवकाशेनाऽऽत्वेन बाध्यते इति। तत्रैव कैयटोऽपि वक्ष्यति--ओत इति सूत्रं पाठ्यम्। ओकारान्तोपलक्षणतया वा ``गोत(पाoसूo7-1-90) इत्येतद्व्याख्येयम् इति। वृच्यादिग्रन्थेष्वप्येवमेव स्थितम्।
यत्तु वदन्ति--मुख्यएव स्वार्थे सास्नादिमति गोशब्दो वृद्ध्यात्वे लभते। ततो वाहीकादिशब्दान्तरसन्निधानाद्गौणताप्रतीतिः। `गोभवत्' इत्यत्र तु गौणार्थतां विना च्विरेव दुर्लभ इति वैषम्यम्। तस्मात् पदकार्येष्वयं न्यायो न प्रातिपदिककार्योष्विति स्थितमिति। तच्चिन्त्यम्, वाक्यसंस्कारपक्षे वृद्ध्यात्वप्रवृत्तितः प्रागेव गौणार्थावगतेः। यत्तु कारकाणां क्रिययैव श्रौतःसम्बन्धस्तत एकक्रियावशीकृतानामरुणैकहायनीन्यायेन पार्ष्णिकः परस्परावच्छेदः। तथाच `गामानय' इत्यन्वयवेलायां न गौणार्थता, किन्तु वाहीकेन सह पार्ष्णिकावच्छेदवेलायाम्। न चान्तरङ्गत्वेन प्रवृत्तः पदसंस्कारो बहिरङ्गौणत्वलप्रतीतावपि निवर्त्तते इति। तदपि न, तावताऽपि `ब्रूते' `पाठय' इति क्रियान्वयायैव गौणताया आश्रयणीयत्वात्, कटोपि कर्म, भी,्मादयोऽपीति पक्षे कथञ्चिदुक्तिसम्भवेऽपि सामानाधिकरण्याद्भीष्मादेर्द्वितीयेत्येवं रूपे भाष्योक्त पक्षान्तरे त्वदुक्तन्यानवताराच्च, `श्वाशुरिः' इत्यत्रेञोप्यभावाप त्तेश्च, शब्दप्रयोक्त्रा वाहीकनिष्ठस्यैव कर्मत्वादेर्विवक्षितत्वाच्च। तस्माद्वर्णाश्रयत्वाद् वृद्ध्यात्वे इत्येव तत्त्वं, न तु प्रातिपदिककार्य्यत्वादिति। अत एव च ``एकाच्च प्राचाम् (पाoसूo5-3-94) इत्यादौ प्रातिपदि ककार्यत्वेऽपि न स्मायादयः, विशिष्टरूपपुरस्कारेणैव सर्वनामसंज्ञाविधानात्। ``अभिव्यक्तपदार्था ये इत्यपि गौणमुख्यन्यायसिद्धार्थकथनपरं, प्रसिद्धाप्रसिद्धत्वे एव हि मुख्यत्वगौणत्वे इत्यन्यत्र विस्तरः। अत एव सर्वादिसूत्रे ``संज्ञोपसर्जनप्रतिषेधः इति वार्त्तिकं प्रत्याचक्षाणो हरदत्त आह--``संज्ञाप्रतिषेधस्तावन्न वक्तव्यः अभिव्यक्तपदार्था ये इत्येव सिद्धत्वात् इति। यत्तु तत्र कैयटो वक्ष्यति -- ``प्रसिद्ध्यप्रसिद्धिवशात्सम्भवन्नपि गौणमुख्यन्यायो नेहोक्तः। पदकार्येष्वयं न तु प्रातिपदिककार्येष्वित्योत्सूत्रे उक्तत्वात् इति। तदब्युच्चयमात्रम्, युष्मदस्मदोः स्वरूपमात्राश्रयाणां कार्याणामुपसर्जनतायामिव संज्ञायां प्रवृत्त्यापत्तेः, ``युष्मद्युपपदे (पाoसूo1-4-105) ``अस्मद्युत्तमः (पाoसूo1-4-107) इत्यादावपि तदापत्तेश्चेति दिक्।
तदेवम् `अदोभवत्' `गोभवत्' इत्यादौ ``ओत् (पाoसूo1-1-15) इति प्रगृह्यसंज्ञाऽव्ययत्वादिवद् दुर्वारेति पूर्वपक्षः पर्य्यवसन्नः।
अत्रौच्यते, पूर्वसूत्रेऽनाङिति पर्युदासादाह्सदृशाः प्रतिपदघटिता एव निपाता गृह्यन्ते। इहाप्यर्थाधिकारेणानाङ्ग्रहणानुवृत्त्या वा तथैवेति सर्वं सुस्थम्। तथाच सर्वादिसूत्रे ``अकारात्कारौ अनुपसर्जनत्वे सत्येव भवतः इति प्रघट्टके ``तदोः सः सौ (पाoसूo7-2-103) इति सत्वं तर्ह्यविशेषितत्वाद्गौणतायामपि स्यादित्याशङ्क्य ``त्यदादीनामः (पाoसूo7-2-102) इत्यत्र ``अनुपसर्जनात्(पाoसूo4-1-14) सत्वविधावनुवर्त्तनान्न कश्चिद्दोष इति समाधत्त कैंयटः।

सम्बुद्धौ शाकल्यस्येतावनार्षे (पाoसूo1-1-16)।
ऋषिर्वेदः ``तदुक्तमृषिणा इत्यादौ तथा दर्शनात्। संम्बुद्धिनिमित्तक ओकारोऽवैदिके इतौ परे प्रगृह्यो वा स्यात्। `विष्णो इति' `विष्णविति'। संम्बुद्धाविति किम्? गवित्ययमाहेति वृत्तिकारः। एतन्निष्कर्षश्च पूर्वसूत्रे उक्त एव। अनार्षे किम्? ब्रह्मबन्धवित्यब्रवीत्। इताविति किम्? पटोऽत्र।

अञः (पाoसूo1-1-17)।
उञ इतौ प्रहगृह्यसंज्ञा वा स्यात्। `उइति' `विति'।

ऊँ (पाoसूo1-1-17)। उञ इत्यनुवर्त्तते, शाकल्यस्येति, प्रगृह्यमिति च। प्रगृह्यस्य उत्र इतौ परे ऊँ आदेशो वा स्यात्। दीर्घोऽनुनासिकश्च ऊँ इति। इह यद्येको योगः स्यात् उञ ऊँ इति, तदादेशे विकल्पिते रूपद्वयमेव स्यात्--`उँ इति' `उ इति'। अतो योगं विबज्य प्रगृह्यसंज्ञाऽपि विकल्पिता। एवमपि ``ऊँ (पाoसूo1-1-18) इति द्वितीयसूत्रे यदि प्रगृह्यग्रहणं शाकल्यग्रहणं चेत्युभयमपि नानुवर्त्तेत, तदा उञमात्रस्य नित्यमूँभावविदानात्प्रगृह्यस्येवाप्रगृह्यस्याप्यादेशः स्यात्। तत्र प्रगृह्यस्यादेशे कृते स्थानिवद्भावेन प्रगृह्यात्वात् `ऊँ इति' इति रूपं सिद्धम्। न च `` अनल्विधौ (पाoसूo9-1-56) (पाoसूo7-2-28) इति सूत्रे इट इति समुदायरूपाश्रयणाद् `अग्रहीत्' इत्यत्र च ``ग्रहोऽलिटि [पाo सूo 7-2-37] इति दीर्घस्य स्थानिवद्भावमाश्रित्य सिज्लोपः सिद्ध्तीति स्थानिवत्सूत्रे वक्ष्यते। अप्रगृह्यस्य त्वादेशेऽनुनासिको यण् स्यात्। तथा चेष्टरूपत्रितयमध्ये `ऊँ इति' इत्येकमेव सिद्धं न त्वपरं द्वयमित्यव्याप्तिः। अतिव्याप्तिश्च सानुनासिकवकारयुक्तस्यानिष्टस्यापि प्रसङ्गात्। अथ प्रगृह्यग्रहणमात्रमनुवर्त्तेत तदा प्रगृह्यस्योञो नित्यमादेशः स्यात्ततश्च `विति' `ऊँ इति' इति द्वे एव रूपे स्यातां, न तु `उ इति' इति तृतीयम्। अथ शाकल्यग्रहणमात्रमनुवर्त्तेत तत उञमात्रसयादेशविकल्पानाद् `ऊँ इति' `उ इति' इति द्वयं प्रगृह्यस्य, `विति' `विति ' इति द्वयमप्रगृह्यस्येति संकलनया रूपचतुष्टयं स्यात्। तत्र त्रितयस्येष्टत्वेऽपि सानुनासिकवकारयुक्तमनिष्टमापतति। तस्माच्छाकल्यग्रहणं प्रगृह्यग्रहणं चेत्युभयमनुवर्त्तत इत्युक्तम्। इह विभक्तिविपरिणामेन प्रगृह्यस्योञ चेत्युभयमनुवर्त्तत इत्युक्तम्। इह विभक्तिविपरिणामेन प्रगृह्यस्योञ इति व्याख्यातम्। आदेशसामानाधिकरण्येन प्रगृह्यं ऊँ इत्येतदादेशो भवतीति व्याख्यानेऽपि न कश्चिद्विशेष इत्यवधेयम्।
ननु परिनिष्ठितमेव प्रयोगार्हं, परिनिष्ठितत्वं च अप्रवृत्तनित्यविध्युद्देश्यतावच्छेदकानाक्रान्तत्वम्। निहते तिङन्तादावव्याप्तिवारणायाप्रवृत्तेति। वैकल्पिकेडागमोद्देश्यतावच्छेदकाक्रान्ते `सेद्धा' इत्यादावव्याप्तिवारणायोक्तं नित्येति। अत एव `पच्' `लट्' इत्यादीनामलौकिकतेति सिद्धान्तः। तथाच `उ इति' इत्येतद्रूपं न स्यादेव। अत्र हि शाकल्यमते ऊँओदेशेन भाव्यमेव। इतरेषां मते तु प्रगृह्यत्वमेव नास्तीति चेत्? भवेदेवं यदि शाकल्यग्रहणं यथाश्रुतं स्यात्, तत्तु विकल्पमात्रतात्पर्यकम्। तथाच भाष्यम्--``साकल्यस्य विभाषा यथा स्यात् इति``ऊं वा शाकल्यस्य इति च। तथाच तत्र कैय्यटः- ``शाकल्यश्रुतेरेव फलं वाग्रहणेन प्रतिपादयति इति, ``स्मृत्यन्तरानुसन्धानद्वारेण विभाषा सम्पद्यते इति च। यद्वा, अस्तु शाकल्यग्रहणं यथाश्रुतम्। तथापि ``निपात एकाज् (पाoसूo1-1-14) इत्यनेनैव सिद्धे ``उञः(पाoसूo1-1-17) इति तावन्नियमार्थम्। तथा च शाकल्यबिन्नमते न प्रगृह्यतेति प्रथमसूत्रार्थः। उत्तरसूत्रे च प्रगृह्यस्योञ इत्येतावतैव शाकल्ये लब्धे पुनः शाकल्यानुवृत्त्येतरेषामपि मते पाक्षिकः प्रगृह्योऽस्तीत्यनुमीयते। तेन `उ इति' रूपं सिद्धम्। अथ वोत्तरसूत्रे पुनः शाकल्या नुवृत्तिसामर्थ्याच्छब्दाधिकाराश्रयणेन शकलस्यैव ऋषेरपत्यान्तरं गृह्यते। अस्मिश्चं पक्षे प्रगृह्यस्योञ इत्यनुवादसामर्थ्यादेव प्रगृह्यताऽपि लभ्यते यथा ``ढकि लोपः (पाoसूo4-1-133) इत्यनुवादसामर्थ्याढ्ढगिति दिक्।
आदेशश्चायमनुनासिक इति निर्देशादेव व्यक्तम्। तथा च बव्हृचप्रातिशाख्याम्-``उकारश्चेति करणेन युक्तो रक्तो पृक्तो द्राघितः शाकलेन (ऋoप्राo1-18) इति। रक्तसंज्ञोऽनुनासिक इति च। अत एव `यदेतनूँ इति पदकाराः पठन्ति' इत्यनुकरणे ``यरोऽनुनासिकेऽनुनासिको वा (पाoसूo8-4-45) इत्येष विधिः प्रवर्त्तते।

ईदूतौ च सप्तम्यर्थे (पाoसूo1-1-19)
शाकल्यस्य इताविति निवृत्तम्। ईदन्तमूदन्तं च शब्दरूपं सप्तम्यर्थे वर्तमानं प्रगृह्यं स्यात्। `अध्यस्यां मामकीतन्'। मामक्यां तन्वामिति प्राप्ते ``सुपां सुलुक् (पाoसूo7-1-39) इति लुप्तसप्तमीकावेतौ। मामकी इति, तनू इतीति पदकाले कार्योदाहरणे बोध्ये। `सोमो गौरी अधिश्रितः' इति संहितायामप्युदाहरणम्। ईदूताविति किम्? प्रियः सूर्य्ये प्रियो अग्ना भवाति। अग्निशब्दात्परस्याः सप्तम्या डाआदेशः। पदकारैः प्रगृह्योष्वितिशब्दप्रयोगस्य नियमितत्वेनेहापि पदकाले इतिशब्दप्रयोगप्रसङ्ग िति प्रत्युदारहणमिदम्। सप्तमीग्रहणं किम्। धीती, मती, सुष्टुती। धीत्या, मत्या, सुष्टुत्येति प्राप्ते तृतीयैकवचनस्य पूर्वसवर्ण ईकारः। ततः ``अकः सवर्णे दीर्घः (पाoसूo6-1-109) इत्येकादेशः। न त्विह सुपो लुक् ह्रस्वश्रवणापत्तेः। अर्थग्रहणं किम्? वाप्यामश्वो वाप्यश्वः। नद्यामातिर्नद्यातिः ``संज्ञायाम् (पाoसूo2-1-44) इति सप्तमीसमासः। ननु सप्तम्यर्थोपहिहास्त्येव तत्कथमर्थग्रहणे कृतेऽपीष्टसिद्धिरिति चेत्? इत्थम्, जहत्स्वार्थावृत्तिरिति पक्षे पदे वर्णवट्वृत्तौ वर्त्तिपदानामानर्थक्यादीदन्तमिहानर्थकं, न तु सप्तम्यर्थवृत्तीति स्पष्टमेव। अजहत्स्वार्थावृत्तिरिति पक्षेऽपि उपसर्जनपदं न स्वार्थमात्रे पर्यवस्यति किन्तु तत्संसृष्टे प्रधानार्थे। अर्थग्रहणसामर्थाच्च यावानर्थः सप्तम्याऽभिधीयते आधेयासंसृष्टो निष्कृष्टाधिकरणरुपस्तावन्मात्रस्येह ग्रहणमिति वृत्तिप्रविष्टेन भविष्यति। यद्यपि वाक्यवत्समासेऽपि लुप्तसप्तमीबलेनाधिकरणमात्रबोधः पश्चाद्वाक्यार्थतया संसृष्टबोध इति वक्तुं शक्यते, तथापि सिद्धान्ते तावत् ``समर्थः पदविधिः (पाoसूo2-1-1) इति परिभाषानुरोदात् समासस्थले एकार्थीभाव एव सामर्थ्य, न तु व्यपेक्षा। अत एव ``उपसर्जने विशेषणान्वयो न भवति शक्यैकदेशत्वात् इति द्वितीये वक्ष्येते। मीमांसकादीनामपि निषादस्थपतिन्यायेन पूर्वपदार्थसम्बन्धिनि लक्षणाऽभ्युपगमाद्युक्तैवार्थग्रहणेन वाप्यश्वनद्यातिप्रभृतेर्व्यावृत्तिः। आतिः बलाका।
शरारिरातिराटिश्च बलाका बिसकण्टिका। (अoकोo 2-4-27) इत्यमरः। आद्यास्त्रयोऽपि स्त्रीलिङ्गः बलाकासाहचर्यादिति केचित्। वस्तुतस्तु शरार्यादयस्त्रयः पक्षिविशेषवाचका न तु बलाकापर्यायाः। अतो बलाकासाहचर्यमकिञ्चित्करं स्त्रीत्वं परमस्त्येव। रत्नकोशे स्त्रीलिङ्गकाण्डे---``आटिः शरारिर्वरटी इत्युक्तेः। आतेरपि तत्साहचर्यात्।
तपरकरणमसन्देहार्थमिति वृत्तिः। अत्र वार्त्तिकम्----
ईदूतौ सप्तमीत्येव लुप्तेऽर्थग्रहणाद्भवेत्।
पूर्वस्य चेत्सवर्णोऽसावाडाम्भावः प्रसज्यते ।।
वचनाद्यत्र दीर्घत्वं तत्रापि सरसी यदि।
झापकं स्यात्तदन्तत्वे मा वा पूर्वपदस्य भूत् ।।
     अस्यार्थः---ईदूतौ सप्तमीत्येवास्तु नार्थोऽर्थग्रहणेन। अत्रोत्तरमाह---लुप्त इति। संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेरभावात्। सप्तम्या एव संज्ञा स्यात्। लुप्तेऽपि सुपि प्रकृतिभागस्य संज्ञासिद्धये तु कर्त्तव्यमेवार्थग्रहणमित्यर्थः। ननु `सोमो गौरी' इत्यादौ विभक्तिर्न लुप्यते किन्तु `धीती' `मती' इत्यादाविव पूर्वसवर्णे कृते ``अकः सवर्णे इति दीर्घेकादेशे तस्यादिवद्भावात्सप्तमीग्रहणादस्त्येव सप्तमीत्याशङ्कयाह--पूर्वस्येति। आडाम्भाव इति। एकादेशं वाधित्वा परत्वादाङ्गत्वाच्चाऽऽडामौ स्यातामित्यर्थः। तस्माल्लुगेवेति स्थितेऽर्थग्रहणं कर्त्तव्यमेवेति भावः। नन्वर्थग्रहणं माऽस्तु वचनसामर्थ्याच्च संज्ञाविधावपि तदन्तविधिर्भविष्यतीत्याशङ्क्याह--वचनादिति। यत्र दीर्घत्वं तत्रैव वचनात्स्यात् ``दृतिं न सुष्कं सरसी शयान्म् इति यथा। अत्र हि सरश्शब्दात्परस्य सप्तम्येकवचनस्य ``इयाडियाजीकाराणामुपसंख्यानम् (काoवाo) इतीकारादेशे सप्तमी श्रूयते। तथाच `सोमो गौरी' इत्यादौ न स्यादे वेत्यर्थः। एतद् दूषयति-तत्रापीति। तत्रापि सप्तम्या लुगेव न त्वीकारः। यदि सरसीशब्दोऽपि वर्त्तते। असन्दिग्धे सन्दिग्धवचनमेतच्छास्त्राणि चेत्प्रमाणं स्युरिति यथा। अस्ति हि सरसीशब्दो ``दक्षिणाप्तथे हि महान्ति सरांसि सरस्य इत्युच्चन्ते इति भगवदुक्तेः ``कासारः सरसीसरः (अoकोo 1-10-28) इत्यमरकोशाच्च। तथा च ``सरसीः परिशीलितुं मया इत्यादि प्रयोगोऽपि दृश्यते। एवञ्च सरसीशब्दोऽपि लुप्तविभक्तिक एवेति वचनात्तदन्तविधिरिति स्थितम्। ननूक्तरीत्याऽस्तु सरसीशब्दः, सरस्‌शब्दोऽपि सान्तो निर्विवाद एव। तथाच सान्तादेवेकारादेशोऽयमस्तु। एवं हि सति संज्ञाविधौ ज्ञापकाच्यक्तस्य तदन्तग्रहणस्य पुनराश्रयणं न कर्त्तव्यं भवतीति चेत्? न, तथा सतीकारस्य सुप्त्वेनानुदात्ततया सरः शब्दस्य च सृधातोरसुनि व्युत्पादितस्य नित्स्वरेण सरसीति पदमाद्युदात्तं प्रसज्येत। गौरादिषु ``पिप्पल्यादयश्च (काoवाo) इति पाठात्पिप्पल्याद्यन्तःपातिनः सरः- शब्दान्ङीषा त्वन्तोदात्तमिष्यते। तथैव वेदे पाठात्। एवन्तर्हि प्रगृह्यसंज्ञाप्रकरणे प्रत्ययलक्षणं नास्तीति ज्ञापनायेदमर्थग्रहणमस्तु। एवञ्च ``इदूदेद् द्विवचनम् (पाoसूo1-1-11) इति सूत्रे ईदूदेदन्तं द्विवचनान्तमिति पक्षे ईदूदेदन्तं यद्विवचनं तदन्तमिति पक्षश्च समर्थितो भवति। तत्र हि कुमार्य्योरगारं कुमार्य्यगारम्, अशुक्ले शुक्ले सम्पद्येतां शुक्लयास्तां वस्त्रं इत्यत्रातिव्याप्तिरिति दोषः। स च प्रत्ययलक्षणविरहादेवोद्धूत इत्याह---ज्ञापकमिति। प्रगृह्यसंज्ञाप्रकरणे प्रत्ययलक्षणाभावस्येति शेषः। क्वेदं ज्ञापनमुपयुज्यते, तदाह-तदन्तत्व इति। तदन्तगर्भे पक्षद्वयेऽपीत्यर्थः। ननु संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेरभावादेव तदन्तपक्षस्तत्र श्थित इत्यपरितोषादाह-मा वेति `वाप्यश्वः' इत्यादौ भा भूदित्यर्थः।
अत्रेदमवदेयम्, ``अवितॄस्तृतन्विभ ईः (उoसूo3-446) इति सूत्रादीरित्यनुवर्त्तमाने ``यापोः किद्वे च (उoसूo3-447) ``वातप्रमीः (उoसूo4-449) इति सूत्राभ्यां शब्दत्रयं व्युत्पादितम्। यान्त्यनेनेति ययीर्मुक्तिमार्गः। पिबति रसान्पाति वा लोकमिति पपीः सूर्य्यः वातं प्रमिमीते सम्मुखधावनादिति वातप्रमीः निःशृङ्गो मृगाकृतिर्वातमृगनामा पशुविशेषः। एम्यस्त्रिभ्योऽपि ङौ सवर्णदीर्घात् `पपी' `ययी' `वातप्रमी' इति रूपं निर्विवादम्। तयाचेह श्रूयमाणस्योकारस्य सप्तमीत्वात् `तत्रापि सरसी यदि' इत्यसङ्गतम्, ईकारस्य श्रूयमाणस्येकारस्य सप्तमीत्वात् `तत्रापि सरसी यदि' इत्यसङ्गतम्, ईकारस्य श्रूयमाणस्येकारस्य सप्तमीत्वात् `तत्रापि सरसी यदि' इत्यसङ्गतम्, ईकारस्य श्रूयमाणस्यासम्भवात्। सामर्थ्यात्तदन्तविधिर्भविष्यतीत्यस्यार्थः। तस्मादूकारांशे सामर्थ्यात्तदन्तविधौ लब्धे `सोमो गौरी' इत्यादावपि भावेष्यतीत्याशयः। `ययीआसक्तः' इत्यादौ तु भाव्यमेव प्रकृतिभावेन। न चायं योगश्छान्दसस्तथाविधानामेवोदाहरणानां दत्तत्वादिति वाच्यम्, मुनित्रयोक्तिं विनाऽस्मदिच्छया छान्दसत्वकल्पनेऽतिप्रसङ्गात्, लोके प्रगृह्यत्वं न भवतीत्यस्मिन्नर्थे प्रमाणानुपलम्भाच्च, `अप्रतिषिद्धमनुमनं भवति' इतिन्यायेन लोके `ययी' `वातप्रमी' इत्येतेषां प्रगृह्यत्वरयैव न्याय्यत्वाच्च। अत एव ``दृग्दृश्वतुषु (पाoसूo6-3-79) इति सूत्रे ``दृक्षे च (काoवाo) इति वार्तिकमुपादाय क्सप्रत्ययः सादेशश्च छन्दस्येव, भाष्ये `सदृक्षासः' इत्युदाहृतत्वादिति केचिदिति व्याचक्षाणा हरदत्तादयश्छान्दसत्वं वदतां मते स्वस्यापरितोषमाविश्चक्रुरिति दिक्।

दाधाघ्वदाप (पाoसूo1-1-20)।
दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप्दैपौ वर्जयित्वा। तत्र दारूपाश्चत्वारः--``डुदाञ् (जुoउo1091) प्रणिददाति, ``दाण् (भ्वाoआo3o) प्रणियच्छति, ``दो (दिoपo1148) प्रणिद्यति, ``देङ् (भ्वाoआo962) प्रणिदयते। धारुपौ द्वौ-``डुधाञ् (जुoउo1092) प्रणिदधाति, ``धेट्(भ्वाoपo902) प्रणिधयति वत्सो मातरम्। अदाबिति किम्? ``दाप् लवने (अoपo1059) दातं बर्हिः। लूनमित्यर्थः। घुत्वाभावाद् ``दोदद्धोः (पाoसूo7-4-46) इति न प्रवर्त्तते। ``दैप् शोधने (भ्वाoपo924) अवदातं मुखम्। इह घुत्वाभावाद् ``अच उपसर्गात्तः (पाoसूo7-4-47) इत्येतन्न। घुप्रदेशा ``नेर्गदनद (पाoसूo8-4-17) इत्यादयः। इह दोदेङ्धेटामनुकरणानि व्यवस्थाप्य तत्र ``प्रकृतिवदनुकरणम्(पoभाo) इत्यतिदेशाद् ``आदेचउपदेशेऽशिति (पाoसूo6-1-45) इत्यात्वं क्रियते, अनैमित्तिकमात्वं शिति तु प्रतिषेध इति सिद्धान्तात्। न चैवं विभक्तेरुत्पत्तिर्न स्यादधातुरिति तु प्रतिषेध इति सिद्धान्तात्। न चैवं विभक्तेरुत्पत्तिर्न स्यादधातुरिति प्रातिपदिकसंज्ञानिषेधादिति वाच्यम्, अधातुरिति पर्य्युदासोऽयंन तु प्रसज्यप्रतिषेधः। अस्ति चेह स्वाश्रयमधातुत्वम्। यद्वा, ``यत्तदेतेभ्यः (पाoसूo5-1-39) इत्यादाविवेहापि कार्यविशेषपुरस्कारेणैवातिदेशप्रवृत्त्यप्रवृत्ती भविष्यतः। ततश्चतुर्णां दारूपाणां द्वयोश्च धारूपयोरेकशेषं कृत्वा द्वन्द्वः कर्त्तव्यः। `प्रणिदाता' इत्यादौ कृतात्वनां दोदेङ्धेटां तु स्थानिवद्भावात्सिद्धं घुत्वं लक्षणप्रतिपदोक्तपरिभाषाया ``निरनुबन्धकग्रहणे न सानुबन्धकस्य (पoभाo82) इत्यस्याश्च नेह प्रवृत्तिः, सर्वेषां स्वरूपेणैवानुकृतत्वात्। अत एच दारयतिधारयत्योर्नातिप्रसङ्गः, तयोरनुकरणे आत्वासम्भवेनेह दृ धृ इत्यनयोरनुपात्तत्वात्। ननु कृतात्वस्य सूत्रे निर्देशात् `प्रणिद्यति' `प्रणिधयति' इत्यादौ चात्वविरहात्कयं घुत्वमिति चेत्? भ्रान्तोऽसि। न हि वयं कृतात्वमनुकुर्मो येनोक्तदोषः स्यात्, अपि तु देदोधे इत्येङन्तेष्वेवानुक्रियमाणेषु लक्षणवशनिष्पन्नमात्वमित्युक्तम्। न च लक्षणेन स्वरूपान्यत्वेऽप्यनुकरणता हीयते ``सख्युरसम्बुद्धौ (पाoसूo7-1-92) इत्यत्रापि सखिरुपप्नतीतेः, `गवित्ययमाह' इत्यत्र गोशब्दप्रतीतेश्च। दीङस्तु नेहग्रहणं, तदनुकरणे आत्वासम्भवात्। वार्तिकमते एजन्तानां दीङादीनामात्वविधानात्। भाष्यमते त्वेज्निमित्ते परतस्तद्विधानात्। तेन दीङस्तृजादावात्वे कृतेऽपि घुसंज्ञाविरहात् `प्रनिताता' इत्यत्र ``नेर्गद (पाoसूo8-4-17) इति नित्यं णत्वं न भवति ``शेषे विभाषा (पाoसूo1-2-27) इति वैकल्पिकं तु स्यादेव। तथा `उपादास्तास्य स्वरः शिक्षकस्य' इत्यत्र ``स्थाघ्वोरिच्च (पाoसूo1-2-17) इतीत्वं न भवतीति सूत्रकारस्य मतम्। नन्वास्मिन्पक्षे दाप्दैपावनुकृतौ न वा? आद्येऽनुकरणपर्युदासोभयसामर्थ्यात्तयोर्घुसंज्ञाविकल्पः स्यात्, अन्त्ये अदाबिति व्यर्थं स्यात् अननुकृतत्वादेव दाप्दैपोर्घुसंज्ञाप्राप्तिविरहादिति चेत्? न, अदाबित्यस्मिन्नसति तयोरप्यनुकरणं सम्भाव्येत। न हि लक्षणैकचक्षुषा दोदेङादीनां दाप्दैपोश्च वैलक्षण्यं किञ्चिदनुभूयते यद्बलाद् ग्रहणाग्रहणे व्यवस्थाप्येयाताम्। ``व्याख्यानतो विशेषप्रतिपत्तिः (पाoभाo1) इति परमवशिष्यते। किन्त्वगतिकगतिरेषाऽनभिधानवत्। न च तद्बलेन सिद्धस्य प्रत्याख्यानं शोभते।
वार्तिककारमते तु प्रयोगस्थानामेव दाधारूपाणामिदमनुकरणम्। न चैवं `प्रणिद्यति' `प्रणिदयते' इत्यादौ शिति न स्यात्, आत्वाभावात्। तथा ``देङ् रक्षणे (भ्वाoआo962) आदित ``धेट् (भ्वाoपo 902) व्यत्यधित, `प्रणिदाता' `प्रणिधाता' इत्यादावपि न स्यादात्वस्य लाक्षणिकत्वात् ``लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य ग्रहणम् (पoभाo114) इति न्यायादिति वाच्यम्, वचनबलेनैव तत्समाधानात्। तथाच कात्याचनवार्तिकम्---``घुसंज्ञाथां प्रकृतिग्रहणं शिदर्थम् इति। भारद्वाजीयास्तु पठन्ति ---``शिद्विकृतार्थम् इति। तथाच दाधाप्रकृतयो घु इति पठित्वा दाश्च धाश्च प्रकृतयश्चेति द्वन्द्वं कृत्वा सन्निधानाद्दाधामेव प्रकृतय इति व्याख्येयम्।
भाष्यकारास्तु वार्तिकं प्रत्याचख्युः। तथाहि, ``नेर्गद(पाoसूo8-4-17) इति सूत्रे तावदवश्यं प्रकृतिग्रहणं कर्त्तव्यं `प्रणिमयते' `प्रण्यमयत' इत्यत्रापि णत्वं यथा स्यात्। तदेव पुरस्तादपकृष्य घुप्रकृतिमा इति पठिष्यामः। घुश्च प्रकृतिश्च माश्चेति द्वन्द्व। शन्निधानाच्च पूर्वोत्तरयोः प्रकृतिर्ग्रहष्यिते। न चैवं मीनातिमिनोत्योरपि माप्रकृतित्वाद्ग्रहणापत्तिः, माङो ङकारानुबन्धस्यैव तत्रावश्यं पठनीयत्वात्। अन्यथा `मामानः' इत्यत्रातिप्रसङ्गात्। तस्माद् घुप्रकृतिमाङिति पाठेन `प्रणिद्यति' `प्रणिदयते' इत्यादेः सिद्धत्वाच्छिदर्थं तावद् घुसंज्ञायां प्रकृतिग्रहणं न कर्त्तव्यमिति स्थितम्। भारद्वाजीयोक्तरीत्या `विकृतार्थं कर्त्तव्यम्' इति पुनरवशिष्यते। तदपिन, ``गामादाग्रहणेष्वविशेषः (पo भाo 115) इति परिभाषयैव लाक्षणिकस्यापि दारुपस्य घुसंज्ञासिद्धेः। अस्यां च परिभाषायां दैपः पित्त्वं लिङ्गम्। तद्ध्यदाबिति सामान्यग्रहणार्थं क्रियते लाक्षणिकत्वादेव घुसंज्ञायां देप्रग्रहणाभावे तुकिं निषेधे सामान्यग्रहणार्थेन पित्त्वेन ? न चैवमपि धेटो घुसंज्ञा न स्यादेवेति वाच्यम् ``दो दद् घोः (पाoसूo 7-4-46) इत्यत्र धेटो निवृत्त्यर्थं क्रियमाणेन दइत्यनेन धेटोऽपि घुसंज्ञाज्ञापनात्। न च दधातिनिवृत्त्यर्थं क्रियमाणेन दइत्यनेन धेटोऽपि धुसंज्ञाज्ञापनात्। न च दधातिनिवृत्त्यर्थं द इत्युक्तमिति वाच्यम्, तत्र दधातेर्हिः(पाoसूo7-4-42) इति ह्यादेशविधानादेव दद्भावाप्रसह्गात्। नन्वेवमपि ``गामादाग्रहणेष्वविशेषः (पoभाo82) इति परिभाषायाश्च यथा बाधस्तथार्थवद्ग्रहणपरिभाषाया अपि बाधः स्यात्। तथाच `प्रनिदारयति'`प्रनिधारयति' इत्यत्राप्यतिप्रसङ्ग इति चेत्? न, गदादीनां य उपसर्गस्तत्स्थान्निमित्तादुत्तरस्य तानेव गदादीन् प्रत्युपसर्गस्य नेरिति व्याख्यानात्। दारयतिधारयत्यवयवयोस्तु दाधारुपयोरनर्थकत्वान्न तं प्रत्युपसर्गत्वम्, यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञा इति वक्ष्यमाणत्वात्। न चैवं `प्रणिदापयति' `प्रणिधापयति' इत्यत्रापि णत्वं न स्यादिति वाच्यम्, तत्र पुगागमात्पूर्वं दा धा इत्यवस्थायां घुसंज्ञाप्रवृत्तौ पुग्विशिष्टस्यापि घुग्रहणेन ग्रहणात्। `अनागमकानां सागमका आदेशाः' इति पक्षे तु स्थानिवद्भावेन घुसंज्ञाप्रवृत्तेः। नन्वनान्तर्यमेवैतयोरान्तर्य्यं सम्प्रयोगो वा नष्टाश्वदग्धरथवदिति स्थानेन्तरतमसूत्रस्थभाष्यरीत्या दारयत्यादेरपि दापयत्यादिसाम्यमेव, निष्पन्नस्याणो रपरत्वाभ्युपगमेन रेफपुकोरविशेषादिति चेत्? सत्यम्, ``सिद्धन्तु प्रसङ्गे रपरत्वात् इत्युरण्रपरसूत्रस्थवार्त्तिकरीत्या समाधानं कृतम्। उक्तभाष्यरीत्या तु प्रसक्तो दोषः प्रागुक्तसूत्रकारमतमाश्रित्योद्धर्त्तव्यः। न हि दृधृ इत्यनयोरनुकरणे आत्वं लभ्यते इति दिक्।
इदं त्ववधेयम्, `प्रणिदापयति' इत्यत्राप्युपसर्गयोः प्रकृत्यर्थविशेषणत्वे सत्येव ``नेर्गद (पाoसूo8-4-17) इति नित्यं णत्वं, ण्यर्थविशेषणत्वे सत्येव ``नेर्गद (पाoसूo8-4-17) इति नित्यं णत्वं, ण्यर्थविशेषकत्वे तु घुसंज्ञकं प्रत्यनुपसर्गत्वात् ``शेषे विभाषा इति विकल्प एव न तु नित्यं णत्वमिति।
स्यादेतत्, `उपदिदीषते' इत्यत्र ``सनि मीमा(पाoसूo7-4-54) इतीसूभावः स्यात्, वार्त्तिककृता घुसंज्ञायां प्रकृतिग्रहणात्। सूत्रकारभाष्यकारयोस्तु नासौ दोषः, सूत्रकृता दीङोननुकृतत्वात्, भाष्यमते णत्वे प्रकृतिग्रहणेपि घुसंज्ञायान्तद्विरहादिति चेत् ? सत्यम्, वार्तिक मतेऽपि नेयं दाप्रकृतिः, एजन्तानामात्वविदानाभ्युपगमात्। न चैवमादन्तत्वनिबन्धनयुच्प्रत्ययासिद्धिःस, तत्राकारान्तलक्षणप्रत्ययविधिरिति दच्चनेनैव तत्सिद्धेः। भाष्ये त्वेतद्वचनप्रत्याख्यानायैज्विषये आत्वं सिद्धान्तितमित्यन्यदेतत्।
इदं त्ववशिष्यते, भाष्यवार्त्तिकोभयमतेऽपि ``उपादास्तास्य स्वरः शिक्षकस्य' इत्यत्र ``स्थाघ्वोः (पाoसूo1-2-27) इतीत्वं प्राप्तं, तच्च भाष्ये सन्निपातपरिभाषया परिहृतम्। उप दी स् त इति स्थिते एज्विषये प्रवर्त्तमानमात्वं सिचोऽकिच्च्वमुपजीवति। यदि चात्र घुसंज्ञा स्यात्तर्हि ``स्थाध्वोरिच्च(पाoसूo1-2-27) इति सिचः कित्त्वं स्यादतोऽकित्तवमुपजीव्य प्रवृत्त आकारः कित्वप्रवर्त्तिकां घुसंज्ञां न प्रवर्त्तयत्येवेति।
वार्त्तिककृता तु ``दीङः प्रतिषेधः स्थाघ्वोरित्वे(काoवाo) इति वचनमेव कृतम्। उभयमतेऽपि दीङ्स्तृजादावात्वे कृते `प्रणिदाता' इत्यादौ ``नेर्गद [पाoसूo8-4-17) इति णत्वं भवति। अत एव वार्त्तिककृता ``दीङः प्रतिषेधः इत्येव नोक्तं किन्तु ``स्थाघ्वोरित्वे विषयविशेषो निर्दिष्टः।
सूत्रमते तु न भाव्यं णत्वेनेति स्पष्टमेव। किञ्च भाष्यवार्त्तिकायोर्न केववलं सूत्रकृता सह विरोधः किन्तु परस्परेणापि। तथाहि, भाष्यमते `प्रणिदीयते' `प्रणिदीनः' इत्यादावपि नित्यं णत्वं णत्वविधौ प्रकृतिग्रहणात्। वार्त्तिकमते तु वैकल्पिकम्, एजन्तानामेव प्रकृतित्वाभ्युपगमेनेदन्तस्याप्रकृतित्वात्। अन्यथा `उपदिदीषते' इत्यत्रेस्भावापत्तेः। तदेवं `प्रणिदाता' इत्यादौ सूत्रकृता सह द्वयोर्विरोधः। `प्रणिदीनः' इत्यादौ तु भाष्यकृता सहेतरयोर्विरोधो दुष्परिहर इति।
अत्रेदं वंक्तव्यम्, `यथोत्तरं मुनीनां प्रामाण्यम्' इति सिद्धान्ताद्भाष्योक्तरीत्या सर्वत्र दीङि परे नेर्नित्यं णत्वमिति स्थिते सूत्रवार्त्तिकमतेऽपि ``शेष विभाषा (पाoसूo8-4-18) इति व्यवस्थिताविभाषामाश्रित्य भाष्याविरोधः सम्पादनीयः, एकवाक्यतयैव सर्वनिर्वाहसम्भवे मतभेदकल्पनस्यानाश्रयणयित्वादिति। नन्वदाबिति प्रतिषेधे ``दापलवेने (अoपo1059) इत्यस्यैव ग्रहणं युक्तम्, न तु दैपः। पकारे श्रूयमाणे आत्वायोगादिति चेत्? न, ``अनुबन्धा अनेकान्ताः (पoभाo4) इति पक्षे श्रूयमाणस्यापि पकारस्य काकादिवदनवयवत्वेन धातोरेजन्तत्वानपाये आत्वप्रवृत्तेः। ``एकान्ता अनुबन्धाः (पoभाo4) इति पक्षेऽपि भवत्येवात्वम् ``नानुबन्धकृतमनेजनात्वम् (पoभाo7) इति सिद्धान्तात्। अत्र च ``उदीचां माङो व्यतीक्षरे (पाoसूo3-4-19) इति कृतात्वस्य मेङो निर्देशो ज्ञापकः। न च ``माङ्भाने (जुoआo 1077) इत्यस्यैवायं निर्देशो `व्यतिमिमीते' इत्यादौ तस्यापि कदचिद्व्यतीहारे वृत्तिसम्भवादिति वाच्यम्, अपूर्वकालार्थस्य क्त्वाप्रत्ययस्य ``माङ्माने इत्यस्मादनभिधानात्। अत्र च भाष्योक्तेरेव प्रमाणत्वादित्याहुः। एवञ्च मेङ इत्येव पठनीये ``माङो व्यतीहारे इति गुरुकरणं ``नानुवन्धकृतमनेजन्तत्त्वम् (पoभाo7) इति ज्ञापनार्थमेव।
भाष्यकारास्तु नायं दैप् किन्तु दिवादिषु ``दाप् शोधने इत्येव पठिष्यतइत्याहुः। न च स्वरे भेदः `दायति' इत्यादेरुभयथाप्याद्युदात्तत्वात्। ननु ताच्छीलिके चानशि `दायमानः' इत्यत्र स्वरे भेदः। श्यनिधातोराद्युदात्तत्वं शपि तु चानशोऽन्तोदात्तत्वमिति चेत्? न, उभयथाऽप्यन्तोदात्तत्वानपायात्। न च श्यन्स्वरस्य सतिशिष्टत्वेन प्राबल्यमिति वाच्यम् ``अन्यत्र विकरणेभ्यः (पoभाoएo) इति पर्युदासात्, ``आत्ममाने खश्च (पाoसूo3-2-43) इत्यत्रत्यभाष्यकैयटबलेन खशीवचानश्यप्यन्तोदात्ततया निर्णयात्। स्थानिवत्सूत्रीयः कैयटग्रन्थस्तु शरसूत्रस्थभाष्यस्वोक्तिभ्यां विरोधात्प्रामादिक इति वक्ष्यते। ध्यायत्यादयस्तु दिवादिष्वेवादन्तत्वेन न पठिताः `` न विश्वसेदविश्वस्त ``पथिकवनिताः प्रत्ययादाश्वसन्त्यः' (मेoदूo) इत्यादि सिद्धम्। यत्तु भाष्ये एकान्तत्वपक्षेऽपि न दोष इत्युपक्रम्य पकारलोपे कृते भविष्यति, दाप्त्वं तु भूतपूर्वमनुबन्धमाश्रित्य व्युत्पादनीयमिति सिद्धान्तितम्। तत्रेत्थं प्रत्यवतिष्ठन्ते-सत्यप्येजन्तत्वे उपदेशे एजन्तत्वं कथमिति? अत्रोच्यते--पित्करणसामर्थ्यादुपदेशे एजन्तत्वाभावेऽप्यात्वप्रवृत्तिः। वस्तुतस्तूपदेशग्रहणं भाष्यकारो न मन्यते। तथाच तत्र वक्ष्यति-उपदेशग्रहणं न करिष्यते। यद्युपदेशग्रहणं न क्रियते `चेता' `स्तोता' इत्यत्रापि प्राप्नोति। अत्राप्याचार्यप्रवृत्तिर्ज्ञापयति न परनिमित्तस्यैच आत्वं भवतीति। यदयं क्रीङ्जीनां णावेच आत्वं शास्ति। नैतदस्ति ज्ञापकं नियमार्थमेतत्स्यात् क्रीङ्जीनां णावेवेति। यत्तर्हि ``मीनातिमिनोतिदीङां ल्यपि च (पाoसूo 6-1-50) इत्यत्रैज्ग्रहणमनुवर्त्तयतीति। ननु `प्रणिदापयति' इत्यत्राप्यदाबिति प्रतिषेधः स्यादिति चेत्? न, यथोद्देशपक्षेऽन्तरङ्गत्वाद्दावस्थायामेव घुसंज्ञाया निर्वृतत्वात्। कार्यकालपक्षे तु घुसंज्ञाया णत्वसमानदेशतया पुकं प्रति णत्वघुसंज्ञयोरसिद्धत्वेन प्रागेव पुक् ततो घुसंज्ञा न स्यादिति दोषः प्रसज्जत्येव। अत एव भाष्ये द्वेधा समाहितम्-दाधाग्वपिदिति वक्ष्यामि। यद्वा, बान्तावेतौ धातू सत्रमपि बान्तम्। चर्त्वेन सर्वत्र पकारो निर्दिष्टः। अतो `दापयति' इत्यत्र नासौ निषेधः तस्यापि त्त्वादबान्तत्वाच्चेति।

आद्यन्तवदेकस्मिन् (अष्टाoसूo1-1-21)।
असहाये आदाविवान्त इव कार्याणिस्युः। औपगवः। यथा तव्यादीनां प्रत्ययाद्युदात्तत्वं प्रवर्त्तते, एवमिहाणोपि। आभ्याम्। यथा `वृक्षाभ्याम्' इत्यादौ ``सुपि च (पाoसूo7-3-102) इति दीर्घत्वं भवति एवमिहापि। ``ईङ्गतौ दिवादिः--एयम्। ``अचोयत् (पाoसूo3-3-57) इति अजन्ताद्धातोर्धियिमानो यत्प्रत्यये यथा `चेय' `जेयम्' इत्यादौ भवति तथेहापि। इणस्तु ``एतिस्तु (पाoसूo3-1-109) इति क्यपि `इत्यम्' इत्यादौ भवति तथेहापि। इणस्तु ``एतिस्तु (पाoसूo3-1-109) इति क्यपि `यत्यम्' इत्येवरूपं न तु `एयम्' िति। एकस्मिन्निति किम्? सभासन्नयने भवः साभासन्नयनः। अत्र ह्याकारस्यादित्त्वे सति तमेवाश्रित्य सभासन्नयनशब्दस्य वृद्धत्वं स्यात्। ततश्चाणं बाधित्वा ``वृद्धाच्छः (पाoसूo4-2-114) इति छः प्रसज्येत। ननु ``वृद्धिर्यस्याचामादिः (पाoसूo1-1-73) इति सूत्रे आदिग्रहणस्यापीदमेव व्यावर्त्त्यम्। तत्सामर्थ्यादेव सभासन्नयनशब्दे वृद्धसंज्ञा न भविष्यतीति चेत्? न, यदि हि वृद्धसंज्ञासूत्रे आदिग्रहणसामर्थ्यादनातिदेशकस्य मुख्यस्यैवादेर्ग्रहणं तर्हि जानातीति ज्ञा ब्राह्मणीत्यादिरसहायोऽपि वृद्धो न स्यात्। ततश्च ज्ञाया अयं `ज्ञयः' इत्यादि न सिद्ध्येत्। असति हि प्रकृतसूत्रस्थैकग्रहणे यत्रादिव्यपदेशो मुख्यो नास्ति असहाये मध्ये अन्ते च स सर्वोऽप्यविशेषादतिदेशस्य विषयः स्यात्। यदि वृद्धसंज्ञायामादिग्रहणं तर्हि व्यर्थमेवेति चेत्? हन्तैवमतिदेश स्यादिग्रहणस्य च सामर्थ्यात्सर्वत्र विकल्पापत्तिः। इहैकग्रहणे कृते त्वन्त्यमध्ययोर्व्यावृत्त्या वृद्धसंज्ञायामादिग्रहणं सार्थकमिति दिक्।
यत्तु न्यासकृतोक्तम्---अतिदेशसूत्रे एकग्रहणाभावे वृद्धसंज्ञासूत्रस्थमादिग्रहणमनातिदेशेकप्रतिपत्त्यर्थं सदसहायानां ज्ञादीनामेव वृद्धसज्ञां वारयेन्न तु सभासन्नयनस्य, सन्नयनेत्येतदन्तर्गतांश्चतुरोऽचोऽपेक्ष्यानातिदेशिकस्यादित्वस्य तत्र सत्वादिति। तच्चिन्त्यम्, परस्मिन्सति यस्मात्पूर्वो नास्ति स आदिरिति सिद्दान्तरीयत्या मध्यस्थेऽप्यादित्वविरहात्। इयानेव हि विशेषः-असहाये सत्यन्तविशेषणविरहाद्विशिष्टाभावः, मध्यस्थे तु विशेष्याभावाद्विशिष्टाभाव इति।
वार्तिककारस्तु लाघवादपूर्वत्वमात्रमादिशब्दस्य प्रवृत्तिनिमित्तमनुत्तरत्वमात्रं च्चान्तशब्दस्य न तु सत्यन्यस्मिन्नित्यपि विशेषणं, गौरवात्। तथा चासहायेऽपि मुख्ययोरेवाद्यन्तयोः सम्भव इति मन्वानः सूत्रमेतत्प्रत्याचख्यौ। आह च--``अपूर्वानुत्तरलक्षणत्वादाद्यन्तयोः सिद्धमेकस्मिन् इति।
भाष्यकारस्तु नैतन्मेने, सत्यन्यास्मिन्निति विशेषणप्रक्षेपप्रयुक्तस्यगौरवस्य प्रामाणिकत्वात्। लोके ह्ययमादिरन्तो वेत्युक्तेऽवशिष्टमपि किञ्चिदस्तीति नियमेन प्रतीयन्ति। पदान्नियतोपस्थितिश्च शक्तिसाध्या। अनुभवमपलप्यैकदेशमात्रे शक्तिकल्पने तु श्वसुरादिपदानामपि लाघवाद्भार्यात्वमात्रं पितृत्वमात्रं तद्धटकपुंस्त्वमात्रं वा शक्यतावच्छेदकं स्यादिति विशिष्टविषयकशक्त्युच्छेदेन सकलशिष्टव्यवहारव्याकोपः स्यादिति। नन्वेवमपि व्यपदेशिवद्वचनं कर्त्तव्यमेव, `इयाय' `आर' इत्यादौ धात्ववयवत्वं प्राथम्यमेकाच्त्वं चाश्रित्य द्वित्वं यथा स्यात्। एकाच इति हि बहुव्रीहिरिति वक्ष्यते। न चेणो वृद्ध्यायादेशयोरर्त्तेश्च वृद्धौ रपरत्वे च कृते आयू आर् इत्यनयोरेकाच्त्वं पचादेरिव मुख्यमेवास्तीति वाच्यम्, ``द्विर्वचनेऽचि (पाoसूo1-1-59) इति रूपातिदेशेन इ ऋ अनयोरेव द्विरुक्तेः। किञ्च यजेः पञ्चमलकारे `स देवान् यक्षदिषितो यजीयानि' इत्यादौ ``सिब्बहुलं लेटि (पाoसूo3-2-34) इति सिप्। तस्य षत्त्वं व्यपदेशिवद्भावेनैव साद्यं, प्रत्ययस्य यः सकारस्तस्य षत्वमिति सिद्धान्तात्। तस्माद् ``व्यपदेशिवदेकस्मिन् (पoभाo32) इत्येव सूत्र्यतां किं प्रकृतसूत्रेण? व्यपदेशो नाम विशिष्टो मुख्योऽपदेशो व्यवहार एकाच इत्यादिः सोऽस्यास्तीति व्यपदेशी, पचिप्रभृतिस्तस्मिन्निवासहायेऽपि कार्य्यं स्यादित्यर्थः। अत्राह भाष्यकारः ``अवचनाल्लोकविज्ञानात्सिद्धम् इति। वचननिरपेक्षाल्लोकव्यवहारादेव व्यपदेशिवद्भावसिद्धेराद्यन्तवदिति व्यपदेशिवदिति चोभयमपि न सूत्रयितव्यमित्यर्थः। अस्ति हि लोके निरूढोऽयं व्यवहारोऽयमेव मे ज्येष्ठः पुत्रोऽयमेव मध्यमोऽयमेव कनिष्ठ इति। तथा असूतायामसोष्यमाणायां च प्रथमगर्भेण हतेति व्यवहरन्ति। तथा पूर्वमनागतोऽग्रेऽनाजिगमिषुश्चाहं इदं मे प्रथममागमनामिति। ननु सर्वे इमे गौणा व्यवहारा स्तत्कथं मुख्ये चरितार्थं शास्त्रं गौणे प्रवर्त्तेतेति चेत्? न, निरूढतरतया गौणस्याप्यस्य मुख्यसमकक्षत्वात्, ज्ञापकाच्च। यदयम् ``इटईटि(पाoसूo7-2-27इति) सिचो लोपं शास्ति चज्ज्ञापयति व्यपदेशिवदेकस्मिन्निति। न ह्यन्यथेट् लभ्यते। वल्रूपत्वेऽपि वलादित्वविरहात्। तथा ``दीर्घ इणः किति (पाoसूo7-4-67) इत्यादीन्यपि ज्ञापकानि। न हि व्यपदेशिवद्भावं विना इणोभ्यासो लभ्यते इति दिक्।
यत्तुक्तं कैयटेन-अर्थवता व्यपदोशिवद्भावात्कुरुत इत्यादौ तशब्दाकारस्यानर्थकत्वेन तत्र टिसंज्ञासिद्धये आदिवद्भावो वचनेनैव साधनीय इति। अत्रेदं वक्तव्यम्, अर्थवता व्यपदेशिवद्भाव इति तावन्नेयं परिभाषा तस्या विध्यङ्गत्वात्। व्यपदेशिवद्भावस्तु लौकिक इत्युक्ततया तं प्रत्यङ्गत्वायोगात्। किन्तु शास्त्रे व्यपदेशिवद्भावयोजनाय शब्दार्थसमुदायमाश्रित्य तस्यैकदेशः शब्द इति व्युत्पादयितुमर्थवत्ताऽपेक्षितेति परं तस्याशयः। अत एव षष्ठे ``निजौ चत्वार एकाचः इत्येतेषु व्युत्पादनावसरे बाष्यकैयटयोरनर्थकेनापि व्यपदेशिवद्भावः स्वीकृतो लोक इवं शास्त्रेऽप्यनर्थकस्य व्यपदेशिवद्भावसम्भवत्। तस्मादर्थवतेति प्रायोवादमात्रं, सूत्रप्रत्याख्यानं तु सम्यगेवेति दिक् ।।

तरप्तमपौ घः (पाoसूo1-1-22)।
एतौ घसंज्ञौ स्तः। कुमारितरा। कुमारितमा। ``घरुप (पाoसूo6-3-47) इति ह्रस्वः। निद्यास्तरो नदीतर इत्यत्र तु न भवति, तमपा साहचर्येण प्रत्ययस्यैव तरपो ग्रहणात्। यद्वा, तरबिलि रूपं संज्ञाप्रवृत्तावाश्रितं तच्च परिनिष्ठिते प्रयोगे क्वापि नास्तीत्यौपदोशिकं गृह्यते। तच्च तरप्प्रत्ययस्यैवास्ति। आपिचप्रतिपदोक्तत्वमपीह सुलभम्। तेनावयवशो व्युत्पादिते नदीतरे नातिप्रसङ्गः। किञ्च समानाधिकरणे स्त्रीलिङेगे परे हस्वत्वं विधीयते। अन्यथा `महिषीव रूपं महिषीरूपम्' इत्यत्रापि स्यात्। ``सुप् सुपा िति समासः. रूपमाकृतिः, महीषीवेयमाकृतिरित्यर्थः। सामानाधिकरण्यस्त्रीत्वे च स्वार्थिकत्वादातिशायनिकस्य स्तो न तु नदीतरे, अतो नोक्तदोषः। नन्वातिशायनिकप्रकरण एव तादी घ इति, पितौ घ इति वा क्रियतां लाघवादिति चेत्? न, प्रकरणोत्कर्षेणेह संज्ञाप्रकरणास्यान्योऽपि तरबस्तीति ज्ञापनार्थत्वात्। स चानिर्दिष्टार्थत्वात्स्वार्थे भवति। तेन ``अल्पाच्तरम् ``लोपश्च बलवत्तरः इत्यादि सिद्धम्। केचि त्तु सामान्यापेक्षं ज्ञापकमाश्रित्य ईयसुनोऽपि स्वार्थिकतामाहुः। तेनाहो महीयस्तव साहसिक्यमित्यादि प्रयोगाः समर्थिता भवन्ति।

बहुगणवतुडति सङ्ख्या (पाoसूo1-1-23)।
एते सङ्ख्यासंज्ञाः स्युः। बहुकृत्वः ``संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् (पाoसूo5-4-17)। बहुधा ``संख्याया विधार्थे धा (पाoसूo5-3-42)। बहुभिः क्रीतो बहुकः ``संख्याया अतिशदन्तायाः कन् (पाoसूo5-1-22) बहुशः ``बव्हल्पार्थाच्छस्कारकात् (पाoसूo5-4-42) इत्यनुवर्त्तमाने ``संख्यैकवचनाच्च वीप्सायाम् (पाoसूo5-4-43) इति शस्। गणकृत्वः, गणधा, गणकः, गणशः, तावत्कृत्वः, तावद्धा, तावत्कः, तावच्छः। ``यत्तदेतेभ्यः परिमाणे वतुप् (पाoसूo5-1-32)। ``आ सर्वनाम्नः (पाoसूo6-3-91) सेषं प्राग्वत्। कतिकृत्वः कतिकः, कतिधा कतिशः ``किमः संख्यापरिमाणे डति च (पाoसूo5-2-41) शेषं प्राग्वत्।

 स्यादेतत्, वैपुल्येषऽपि बहुशब्दो वर्त्तते, वहुर्हिमवानिति। सङ्घे च गणशब्दः, भिक्षुकाणां गण हति। ``समवायश्चयो गणः (अoकोo2-5-40) हत्यमरः। तथाच सङ्घवैपुल्यवाचिनोरप्यनयोः संख्या संज्ञा स्यादिति चेत्? न, संख्यायतेऽनयेत्यन्वर्थसंज्ञाविज्ञानात्। तस्मात्संख्यावाचिनोरेव बहुगणशब्दयोरिह ग्रहणम्। तच्च नियमार्थम्--अनियतबहुत्ववाचिनां मध्येऽनयोरेव संख्या संज्ञा न तु भूर्यादीनामिति। तेन बहुवलिषययोर्द्व्येकयोर्नियतबहुत्ववाचिनां त्र्यादीनां च न व्यावृत्तिः। ननु नियमार्थत्वे सिद्धे सजातीयापेक्षत्वान्नियमस्य त्वदुक्तव्यवस्था सिध्द्येत्। नियमार्थत्वमेव तु दुरुपपादम्, विध्यर्थताया एवौचित्यात्। तथाहि, अस्ति तावत् ``कृत्रिमाकृत्रिमयोः कृत्रिमे कार्य्यसम्प्रत्ययः (पoभाoअवo9) इति परिभाषा। सा च न्यायमूला। संज्ञासूत्रेण संज्ञिविशेषे नियम्यमानो हि संज्ञाशब्दः कथं तदितरं बोधयेत्। एवं स्थिते बहुगणयोरिह ग्रहणाभावे संख्याप्रदेशेषु ग्रहणमेव न स्यात्, अकृत्रिमत्वात्। तस्मात्स्वसङ्ग्रहार्थमेव बहुगणग्रहणं न तु भूर्यादिनिवृत्त्यर्थमिति। अत्राहुः--- संज्ञिविशेषे क्रिय्माणः संज्ञानियमो यदि सामान्यापेक्षस्तदा युक्ताऽकृत्रिमस्य व्यावृत्तिः। विशेषपरत्वे तु सजातीयं कृत्रिमान्तरमेव नियमेन व्यावर्त्त्येत न त्वकृत्रिममपि। तदेतदुत्यते--``उभयगतिरिह शास्त्रे भवति (पoभाo9) इति कृत्रिमाकृत्रिमयोरुभयोरपि ग्रहणमित्यर्थः। अस्ति च संख्याप्रदेशेषूभयग्रहणे लिङ्गं ``संख्याया अतिशदन्तायाः कन् (पाoसूo5-1-22) इति सूत्रे शदन्तपर्युदासः। न हि कृत्रिमा संख्या शदन्ताऽस्तीति दिक्। तेन `पञ्चधा' `पञ्चकृत्वः' इत्यादि सिद्धं भवति। यद्यपि संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति, तथापि वतुडत्योः केवलयोः संज्ञायाः प्रयोजनाभावात्सामर्थ्यात्तदन्तग्रहणम्। तद्धितविधौ हि ``ङ्यप्प्रातिपदिकात् (पाoसूo4-1-1) इत्याधिकृतं, न च केवलस्य प्रत्ययस्य प्रातिपदिकत्वमस्तीति बोध्यम्। एतच्च सूत्रं भाष्ये प्रत्याख्यातम्। ``बहुपूगगणसङ्घस्य तिथुक् (पाoसूo5-2-21) ``वतोरिथुक् (पाoसूo5-2-53) ``षट्कतिकतिपयचतुरां थुक् (पाoसूo5-2-21) इति सूत्रैर्डटि परे आगमा विधीयमाना बहुप्रभृतीनां डटो निर्वाहकं संख्यात्वं ज्ञापयन्तीति किमनेन सूत्रेण? ननु ``बहुपूगगणसङ्घ(पाoसूo 5-2-52) इत्वा दौ विशेषाश्रयणात्संघवैपुल्यवाचिनोरपि बहुगणशब्दयोः संख्याकार्यं स्यादिति चेत्? न, अनियतसंख्यावाचिनोरप्येतयोः संख्याकार्यं बवतीत्येतावन्मात्रज्ञापनेन चरितार्थत्वे सति सर्वथा संख्यामप्रतिपादयतोरपि संख्याकार्यकल्पनस्य गौरवपरास्तत्वात्। भूर्यादीनां त्वानियतसंक्यावाचिनां ग्रहणं न भवति, नियतसंख्यावाचिनां पञ्चादीनामेव लोके संख्याशब्दत्वेन प्रसिद्धतरत्वात्; प्रसिद्धाप्रसिद्धयोः प्रसिद्धग्रहणस्य न्याय्यत्वात्। नन्वेवमपि बहुगणयोरिव पूगसंघादीनामपि धाशस्-खृत्वसुजादिसंख्याकार्यप्रसङ्गः। न च बहुगणयोः सामान्यापेक्षं ज्ञापकं पूगादीनां तु डद्विषयममेवेति वाच्यम्, अनुपपत्ते। समानत्वेन एकसूत्रोपात्तत्वेन च वैषम्ये वीजाभावादिति चेत्? मैवम्, लक्ष्यानुरोधेन क्वचित्सामान्यापेक्षं क्वचिद्विशेषापेक्षं ज्ञापकमित्याश्रयणात्तदनुरोधेन वैरुप्यस्य सोढव्यत्वादिति दिक्। इमां कुसृष्टिमसहमानेनैव सूत्रकृता सूत्रामिदं प्रणीतमिति तु परमार्थः।
     अत्र वार्तिकानि--अद्यर्द्धग्रहणं समासकन्विध्यर्थम्। अर्द्धेनाधिकमध्यर्धम्। एकदेशवाचकोऽयमर्द्धशब्दः। तस्याधिशब्देन समासे कृते यौगिकार्थः प्रतीयते न संख्येति वार्त्तिकारम्भः। अद्यर्द्धेन शूर्पेण क्रीतमद्धयर्द्धशूर्प्पं ``दिक्संख्ये (पाoसूo2-1-50) इत्यनुवर्त्तमाने ``तद्धितार्थ (पाoसूo2-1-51) इति समासः, ततः ``सूर्पादञन्यतरस्याम् [पाoसूo 5-2-26] इत्यञष्ठञो वा ``अद्यर्द्धपूर्व (पाoसूo 5-1-27) इति लुक्। अद्यर्द्धेन क्रीतमध्यर्द्धकम् ``संख्याया अतिशदन्तायाः कन् (पाoसूo 5-1-26) इति कन्। इह समासविध्यर्थमिति सम्बन्धसामान्ये षष्ठी। समासे विधीयमाने समासानिमित्ते वाऽन्यस्मिन्कार्ये विधीयमाने इत्यर्थः। तेन द्विगुनिमित्तो लुगपि लभ्यते। तथाच ``अध्यर्द्धपूर्व (पाoसूo5-1-27) इति सूत्रेऽध्यर्द्धग्रहणं न कर्तव्यं भवति। तदुक्तं, लुकि चा ग्रहणमिति। अध्यर्द्धपूर्वपदश्च पूरणप्रत्ययान्तः। संख्येत्यनुवर्त्तते। पूरण प्रत्ययान्त इत्यस्य पूरणप्रत्ययान्तोत्तरपद इत्यर्थः। समासकन्विध्यर्थमित्येव। अर्द्धं पञ्चमं येषामिति बहुव्रीहिः। अर्द्धेपञ्चमैरर्द्धाधिकैश्च तुर्मिः शूर्पैः क्रीतमर्द्धपञ्चमशूर्प्पं, पूर्ववदञष्टञो वा लुक्। अर्द्धपञ्चमेन क्रीतमर्द्धपञ्चमकम्।
     अधिकग्रहणं चालुकि समासोत्तरपदवृद्ध्यर्थम्। अधिकया षष्ठया क्रीतोऽधिकषाष्ठिकः, अधिकसाप्ततिकः, ``तद्धितार्थ (पाoसूo2-1-51) इति समासः। ``प्राग्वतेष्ठञ् (पाoसूo5-1-18) । अलुकीति वचनात् लूकि कर्त्तव्ये संक्यासज्ञा नास्तीति द्विगुत्वमपि न, तेन ``अध्यर्द्धपूर्व द्विगोः (पाoसूo5-1-28) इति लुङ् न। ततः ``संख्यायाः संवत्सरसं ख्यस्य च (पाoसूo7-3-15) इत्युत्तरपदवृद्धिः। नन्वलुकीति व्यर्थम्, उत्तरपदवृद्ध्यर्थमिति वचनादेव लुगभावस्याक्षेप्तुं शक्यत्वादिति चेत्? न, अर्हत्यर्थात्परेत्परेष्वर्थेषु ये प्रत्ययास्तेषां लुगप्राप्त्या तत्रैवोत्तरपदवृद्धेः सावकाशत्वात्।

ष्णान्ता षट् (पाoसूo1-1-24)।
षान्ता नान्ता च संख्या षट्संज्ञा स्यात्। `षट् तिष्ठन्ति' `षट् पश्य' `पञ्च' `सप्त' इत्यादि। संख्येति किम्? विप्रुषः, पामानः। ननु `शतानि' `सहस्राणि' इत्यत्र नुमि कृते तस्य पूर्वभक्ततया नान्ता संख्येति षट्संज्ञा स्यादिति चेत्? अस्तु। न चैवं ``षड्भ्यो लुक् (पाoसूo7-1-22) इति लुक् स्यादिति वाच्यम्, सर्वनामस्थानसन्निपातेन कृतस्य नुमस्तदविघातकत्वात्। नन्वेवमपि `अष्टानाम्' इति न सिद्ध्यति। तथाहि, `अष्टन् आम्' इति स्थिते परत्वान्नित्यत्वाच्च ``अष्टन आ विभक्तौ (पाoसूo7-2-84) इत्यात्वे कृतेऽनान्तत्वात् संज्ञायामसत्यां ``षट्चतुर्भ्यश्च (पाoसूo7-2-55) इति नुण्न प्राप्नोतीति चेत्? न, यथोद्देशपक्षे आत्वात्प्रागेव षट्संज्ञा, अन्तरङ्गत्वात्। ततः कृतेप्यात्वे एकदेशविकृतस्यानन्यतया षट्सेज्ञकत्वेन नुटः सिद्धत्वात्। कार्यकालपक्षे तर्ह्युक्तदोषस्तदवस्थ एव। किञ्च यथोद्देसेऽप्यल्विधित्वादतिदेशो दुर्लभः। अत एव `वव्रश्च' इति ``अचः परस्मिन् (पाoसूo1-1-57) इत्यस्य फलमिति कैयट इति चेत्? न, ``अष्टनो दीर्घात् (पाoसूo7-2-84) इति दीर्घग्रहणेन कृतात्वस्यापि षट्संज्ञाज्ञापनात्। तथाहि, ``न्रः संख्यायाः (पाoसूo7-3-15) इत्याद्युदात्तत्वं बाधेत्वा घृतादिपाठादन्तोदात्तोऽष्टन्शब्दः साधितः। तस्माद्भिसि `अष्टभिः' `अष्टाभिः' इति रूपद्वयम्। तत्रात्वाभावे मध्योदात्तमात्वपक्षे त्वन्तोदात्तमिति सिद्धान्तः। तत्र ``षट्त्रिचतुर्भ्यो हलादिः (पाoसूo6-1-179) इति सूत्रेण `षण्णां' `षट्त्रिचतुर्भ्यो हलादिः (पाoसूo6-1-179) इति सूत्रेण `षण्णां `षड्भिः' इत्यादाविव विभक्तेरुदात्तत्वं प्राप्तं तद्वाधित्वा ``झल्युपोत्तमम् (पाoसूo6-1-180) इति प्राप्तम्। षट्त्रिचतुर्भ्यो या झलादिर्विभक्तिस्तदन्ते पदे उपोत्तममुदात्तं भवतीति हि तस्यार्थः। तद्वाधनाय ``अष्टनो दीर्घात् (पाoसूo6-1-172) इत्यारभ्यते। दीर्घान्तादष्टनः पराऽसर्वनामस्थानविभक्तिरुदात्ता भवतीति सूत्रार्थः। तत्र यद्यात्वपक्षे षट्संज्ञा न स्यात्तर्हि न स्यात्तर्हि सावकाशोष्टनः स्वरः परत्वादात्वाभावपक्षे ``ज्ञल्युपोत्तमम् (पाoसूo6-1-180) इति षट्स्वरेण बाधिष्यते इति किं दीर्धग्रहणेन? कृतात्वस्यापि षट् संज्ञायां सत्यां तु षट्स्वरस्याष्टनः स्वरोऽपवादः सम्पद्यते। न चाष्टनः स्वरः शसि सावकाश इति वाच्यम्, तत्र ``एकादेश उदात्तेनोदात्तः (पाoसूo8-2-5) इति सूत्रेणैव गतार्थत्वात्; `अष्टन्शब्दोऽन्तोदात्तः' इति समनन्तरमेवोक्तत्वात्। तेन दीर्धपक्ष इव तदभावपक्षेऽपि विभक्तेरुदात्तता स्यादिति तद्व्यावृत्त्यर्थं क्रियमाणं दीर्घग्रहणं सार्थकमेव। तस्माद्दीर्घग्रहणेनात्वपक्षेऽपि षट्संज्ञा ज्ञाप्यते इति स्थितम्। न चैवं दीर्घग्रहणस्यात्वविकल्पज्ञापकत्वं न स्यादिति वाच्यम्, उभयज्ञापकत्वसम्भवात्। न ह्येके नैकमेव ज्ञाप्यते इति नियमः, यावता विनाऽनुपपत्तिस्तावतो ज्ञाप्यत्वात्। तच्चैकमनेकं वेत्यन्यदेतत्। प्रकृते चोभयं विना दीर्घग्रहणवैयर्थ्यानुद्धारादिति दिक्।
     यदि तु ष्णाः षकारनकाराकारा अन्ते यस्याः सा ष्णान्तेति प्रकृतसूत्रे एवाकारोऽपि प्रश्लिष्येत तदा ``द्वाब्याम् इत्यत्र ``षट्त्रिचतुर्भ्योहलादिः (पाoसूo6-1-179) इति विभक्तेरुदात्तत्वं स्यात्। ``आ द्वाभ्यां हरिब्यामिन्द्र याहि इत्यादावाद्युदात्तमेव द्वाभ्यामिति पदं पठ्यते तस्मादिहाकारप्रश्लेषो न वर्णनीयः, किन्तूक्तप्रकार एवादर्त्तव्य इति स्थितम्। तथा सप्तमे योगविभागं कृत्वा तद्वलेनापि द्वेधा भाष्ये समाहितम्। तथाहि, ``षड्भ्यो लुक् (पाoसूo7-1-22) इत्यत्र षड्भ्य इति विभज्यते। ``अष्टाब्य औश् (पाoसूo7-1-22) इति सूत्रादष्टाभ्य इत्यनुवर्त्तते। तेन षड्भ्यो यदुक्तं कृताकारादष्टनोऽपि तत्स्यादिति सूत्रार्थः न चैवं जश्शसोर्लुगप्यतिदिश्येतेति वाच्यम्, औश्त्वविधिवैयर्थ्यापत्तेः। अथवा ``अष्टन वा विभक्तौ (पाoसूo7-2-84) इत्यस्मादनन्तरं ``रायः (पाoसूo7-2-85) इति योगं विभज्य हलीत्युभयोर्योगयोः शेषो व्याख्येयः। तेन `अष्टानाम्' इत्यत्र नुटः पश्चादेवात्वं न तु ततः प्राक्। न चैवं जश्शसोरात्वं न स्यादिति वाच्यम्, लाघवार्थमष्टभ्य इति निर्देष्ठव्ये ``अष्टाभ्य औश्' (पाoसूo7-1-21) इति कृतचात्वनिर्देशेन जश्शसोर्विषये आत्वानुमानात्। यत्रात्वं तत्रैवौश्त्वं यथा स्यादित्येतदर्थं हि तत्र दीर्घोच्यारणं कृतमिति।
     स्यादेतत्, हलीति यद्युभयोः शेषस्तर्हि प्रियाष्टन्शब्दे औजसमौट्शस्टाङेङसिङसोसाम्ङ्योस्सु वैकल्पिकतयेष्यमाणमात्वं न सिद्ध्येत्। न च तत्रात्वं नेष्यत एवेति वाच्यम्, इतःप्राचीनपक्षाणामतिः व्याप्तिप्रसङ्गात्। तेषु ह्यात्वं प्राप्यते एव विभक्तिमात्रे तद्विधानात्। न च ``षड्भ्यो लुक् (पाoसूo7-1-22) ``षट्चतुर्भ्यश्च (पाoसूo7-1-55) इति सूत्राभ्यां विधियमानौ लुग्नुटौ यथा गौणतायां न स्तस्तथात्वमपि न स्यादेवेति वाच्यम्, वैषम्यात्। लुग्नुटिर्विधौ हि `षड्भ्यः' इति `षट्चतुर्भ्यः' इति बहुवचननिर्देशात् षडर्थप्राधान्य एव तौ प्रवर्त्तेते। आत्वविधौ तु `अष्टनः' इत्येकवचननिर्देशाद् गौणेऽपिप्रियाष्टाभ्याम्' इत्यात्वं प्रवर्त्तेते एव ``पदाङ्गाधिकारे तस्य तदुत्तपदस्य च (पाoभाo29)इति वक्ष्यमाणत्वात्। न च जश्शसोरष्टाभ्य औशिति कृतात्वनिर्देशनानुमीयमानमात्वेकेवले प्राधान्ये च `अष्टौ' `परमाष्टौ' इत्यत्र यथा भवत्येवं गौणत्वेऽपि भविष्यतीति तदंशे नानुपपत्तिरिति वाच्यम्, औश्त्वं हि लुग्नुटाविव गौणत्वे न भवति `अष्टाभ्यः' इति बहुवचननिर्देशात्। अन्यथा हि कृतात्वानुकरणेऽप्येकवचनेनैव निर्दिशेत्--अष्टा औशिति अष्ट इति वा। स्पष्टे चैतदिहैव सूत्रे भाष्यकैयटयोः। तथा चौश्त्वविधौ कृतात्वनिर्देशबलेनानुमीयमानमात्वमपि प्राधान्ये एव स्यान्न तु गौणतायामिति तदंशेप्यनुपपत्तिसाम्यात्। तस्माद्----
हलीत्युभयशेषश्चेन्न स्यादात्वं प्रियाष्टनः।
टाङेङसिङसोसाम्सु तथैवौजसमौट्छसि ।।
प्रागुक्तेषु तु पक्षेषु भवेदात्वममीष्वपि।
फलभेदे महत्येवं कथं पक्षविकल्पनम् ।।
     अत्रोच्यते, प्रियाष्टन्शब्दस्याजादावात्वमनिष्टमेव, हलीत्युभयोः शेषस्य भाष्ये एव सिद्धान्तितत्वात्। तथा सत्यौजसां: क्रमेण `प्रियाष्टानौ' `प्रियाष्टानः' इत्येव रूपं स्यान्न तु `प्रियाष्टौ' `प्रियाष्टा' इत्यपीत्याशङ्क्य ``यथालक्षणमप्रयुक्ते' इत्यभिहितत्वाच्च। अत एव यथालक्षणमिति प्रतीकमुपादाय न भवत्येवात्रात्वमित्यर्थ इति कैयटो ऽव्यख्यत्। एवं स्थिते प्राचीनाः पक्षा अपरितोषग्रस्ता एव व्यवस्थितविभाषया गौणतायामजादिष्वात्वं न भवतीत्याशयेन वा योज्याः, उदाहृतभाष्यकैयटप्रामाण्यात्। तस्मात्प्रियाष्ट्नः सर्वेषु वचनेषु राजन्शब्दसाधारणं रूपं, हलपादौ तु हाहाशब्दसाधारणमपरं रूपम्। औश्नुटोस्तु प्राप्तिरेव नास्तीति प्रामाणिकः पन्थाः। अ एव ``सर्वादीनि सर्वनामानि (पाoसूo1-1-27) इति सूत्रे हरदत्तेन गौणत्वे औश्न भवतीति स्पष्टमेवलाभिहितम्। अत एव ``अष्टाभ्य औशु (पाoसूo7-1-21) इति सूत्रे ``तदन्तग्रहणमत्रे,्यते परमाष्टौ इत्युक्त्वा ``प्रियाष्टान हत्यत्रात्वस्याभावादौश्न भवति इति काशिका संगच्छते। अत एव च ``अष्टन आ विभक्तौ (पाoसूo7-2-84) इति सूत्रे तदन्तविधिश्चात्रेष्यते। प्रिया अष्टौ यस्य प्रियाष्टावित्यपि यथा स्यादिति काशिकाग्रन्थोऽपि सङ्गच्छते, हलादावात्वस्य निर्बाधत्वात्। हरदत्तस्तु ``अष्टाब्यऔश् (पाoसूo7-1-21) इति सूत्रे प्रियाष्टान हत्वत्रेति वृत्तिग्रन्थमुपादाय यथा पुनर्गौणतायामात्वं न भवति तथा तद्विधावेव वक्ष्यत इति प्रतिज्ञाय ``अष्टन आ विभक्तौ (पाoसूo7-4-84) इति सूत्रे एकवचननिर्देशात्स्वरूपस्य ग्रहणं नार्थस्य, तेनोपसर्जनेऽप्यष्टनि भवति तत्रापि विकल्पितत्वात्। `प्रियाष्टा, `प्रियाष्टानौ, प्रियाष्टानः' इत्यपि भवति। तत्राप्यात्वपक्षे भसंज्ञाविषये आतो लोपमिच्छन्ति `प्रियाष्टः पश्य' इत्याद्यात्वाभावपक्षेऽप्यल्लोपे ष्टुत्वं `प्रियाष्ट' इति भवतीत्यन्तेन ग्रन्थेन पूर्वप्रतिज्ञातार्थविपरीतं भाष्यवृच्यादिविरुद्धं च कथ्मभिहितवानिति तस्याशयं स एव प्रष्टव्यः। अल्लोपे ष्टुत्वमित्यपि तदुक्तिश्चिन्त्यैव, पूर्वस्मादपि न स्थानिवत् (भाoइo) इति निषेधः ``तस्य दोषः संयोगादिलोपलत्वणत्वेषु (भाoइo) इति सापवादत्वात्। ननु ``रषाब्यां नो णः (पाoसूo7-4-1) इति प्रतिपदोक्तं णत्वं तत्र गृह्यते न तु ष्टुत्वविधिन्यः (पाoसूo7-3-55) इति सूत्रं संपूर्णं ``रषाभ्याम् (पाoसूo8-4-1) इति निषेधसूत्रस्य च भाष्ये प्रत्याख्यातत्वात्; यथोत्तरं मुनीनां प्रामाण्यात्। न च मूर्द्धन्यशब्देन ष्टुशब्देन वा निर्वर्त्यमाने णकारे वैषम्यमस्ति सूत्रकाररीत्या कथंचित्संभवन्नपि न्यायोऽत्र बाष्यानुरोधात्त्याज्य एव। तथाच ``शर्पूर्वाः खयः (पाoसूo7-4-61) इति सूत्रे खर्पूर्वग्रहणं कर्त्तव्यमिति वार्त्तिकं प्रत्याचक्षाणो भगवानाह-अभ्यासजश्त्वचर्त्वं सिद्धमित्येव एत्वतुग्ग्रहणं न कर्त्तव्यमिति। तथाच हलादिः शेषे कर्त्तव्ये तुकश्चुत्वेन निष्पन्नस्य चकारस्यापि चर्त्वेन सिद्धतया `उचिच्छिषति' इति रूपं सिद्धमिति तदाशयः कैयटेन वर्णितः। तदेकं `प्रियाष्ट्नः' इत्याद्येव रूपमुचितम्। न `चैवं पूष्णः ' इत्यादावपि नकार एव पठ्येतेति वाच्यम्, तत्र ``अट् कुप्वाङ् (पाoसूo8-4-2) इति सूत्रेण णत्वप्रवृत्तेरिति दिक्।
इति च (पाoसूo 1-1-25)।
डत्यन्ता संख्या षट्संज्ञा स्यात्। कति सन्ति, कत्यद्राक्षीः। षट्त्वाज्जश्शसोर्लुक्। संख्येति किम्? पातेर्डतिः, पतयः। न चास्य संख्यासंज्ञाऽपि स्यादिति वाच्यम्, वतुसाहचर्येण तत्र तद्धितस्यैव ग्रहणात्। इदं सूत्रं प्रत्याख्यातं भाष्ये। वहुगणवतुसंख्यां ``डति संख्येत्यनुवर्त्तते। ततः ``ष्णान्ता षट् संख्या डतीत्युभयमप्यनुवर्त्तते। पूर्वसूत्रेप्यन्वर्थसंज्ञाविज्ञानात् संख्याप्रश्नविष्यस्यैव डतेर्ग्रहणं न त्वौणादिकस्येति।

क्तक्तवतू निष्ठा (पाoसूo1-1-23)।
एतौ निष्ठासंज्ञौ स्तः। कृतः। कृतवान्। ननु विहितयोः प्रत्यययोरनेन संज्ञा। संज्ञया च विधानम्। वक्ष्यति हि तृतीये - निष्ठेति। तथाचान्योन्याश्रय इति चेत्? न, सूत्रशाटकवद्भाविसंज्ञाविज्ञानात्। तौ भूते काले भवतो ययोर्विहितयोर्निष्ठेत्येषा संज्ञा भविष्यतीति।
     स्यादेतत्, अनुबन्धाः कार्यार्थमुपादीयन्ते न तु श्रवणार्थं, तेषां लोपविधानात्। तथाच लुप्तानुबन्धस्य परिनिष्ठितस्य यत्र सारुप्यं तत्र क्कानुबन्धकार्य्यं भवतु क्क वा नेति तु निश्चेतुमशक्यम्। न च काकादिवदुपलक्षणस्यापि व्यावर्त्तकता भविष्यतीति वाच्यम्, काकादिनाऽपि हि वेदिकापुण्डरीकादिकं स्थिरं किञ्चित्परिचाय्यते तद्वलाच्चोड्डीनेऽपि काके व्यवहारो न सङ्कीर्य्यते। न चेह परिचेयान्तरमुपलभ्यते क्तप्रत्ययतन्प्रत्ययोः काकादिकल्पौ हि ककारनकारौ तदपगमे संवृत्ते - `त' इत्यत्र परिचेयस्य परस्परव्यावृत्तस्य दुर्वचत्वादिति।
     अत्राहुः--कालकारकविशेषादयो अर्था एवात्र वेदिकापुण्डरीकादिस्थानापन्नास्तद्दर्शनाच्चानुबन्धस्मृतौ सत्यां तत्तत्प्रयुक्तं कार्य्यं साधुतया ज्ञायते। तथा `लूनः शालिः' इति केनचित्प्रयुक्ते लक्षणज्ञेन कर्मभूतकालबलात्क्तप्रत्ययोऽयमिति निर्णीयते। ``लोतमालभेत इति प्रयुक्ते तु मेषवाची लोचशब्दस्तन्प्रत्ययान्तः प्रयुक्त इति निर्णीयते ``हसिमृग्रिण्वामिदमिलूपूधूर्विब्यस्तन् (उoसूo3-373) इत्युणादिसूत्रात्। ``लोतः स्यादश्वमेषयोः इति तु पञ्चपादीवृत्तौ स्थितम्। तथा `प्राभित्त घटं देवदत्तः' इति प्रयोगे कर्त्रेकत्वाद्यवगमाल्लुङन्तस्यायं प्रयोगे न तु निष्ठान्तस्येति निर्णीयते।
     स्यादेतत्, ``अञ्चिघृसिभ्यः क्तः (उoसूo3.376) इति क्तप्रत्यये `अक्तं' `घृतं' `सितम्' इति व्युत्पादितम्। तत्रापि निष्ठा संज्ञा स्यात्। ततश्च ``निष्ठा च द्व्यजनात् (पाoसूo6-1-205) इति स्वरः स्यात्। निष्ठान्तं द्व्यच्कं संज्ञायामाद्युदात्तं स्यात्स चेदादिराकारो नेति सूत्रार्थः। न चेष्टापत्तिः ``घृतं मिमिक्षे इत्यादावन्तोदात्तस्यैव पठ्यभमानत्वादिति।
     अत्राहुः--``अतः कृकमि (पाoसूo8-6-46) इति सूत्रे कमिग्रहणेनैव सिद्धे कंसग्रहणेन ज्ञापितमुणादयः क्कचिद् व्युत्पत्तिकार्यं न लभन्ते इति। अतो नात्र निष्ठा संज्ञेति। यद्वा ``घृतादीनां च (फिoसूo1-21) इति फिट्सूत्रेण सिद्धम्।
     ।। इति श्रीशब्दकौस्तुभे प्रथमाध्यायस्य प्रथमे पादे पञ्चमान्हिकम् ।।
--- *** ---