शब्दकौस्तुभः/अध्यायः १-पादः १/आह्निकम् ६
← आह्निकम् ५ | शब्दकौस्तुभः आह्निकम् ६ [[लेखकः :|]] |
आह्निकम् ७ → |
सर्वादीनि सर्वनामानि (पाoसूo1-1-27)।
एतानि सर्वनामसंज्ञानि स्युः। तद्गुणसंविज्ञानोऽयं बहुव्रीहिः। तस्यान्यपदार्थस्य गुणानां वर्त्तिपदार्थरूपाणां विशेषणानां कार्यान्वयितया संविज्ञानं यत्र स तद्गुणसंविज्ञान। तत्र सर्व आदिर्येषां तानीति विग्रहः। तच्छब्दप्रयोगेणान्यपदार्थप्राधान्यं लभ्यते। एवं चित्रा गावो यस्य स इत्यादावपि। अन्यथा हि यस्य गावश्चित्रा इति गोशब्दार्थप्राधान्यं स्यात्। न चैवंविधेऽर्थे बहुव्रीहिरिष्यते। यत्तु वृत्तिवाक्ययोर्विशेष्यैक्यसम्पत्तये चित्राणां गवामयमित्यादि विग्रहवर्णनं मीमांसावार्त्तिके कृतम्, तत्तु न मुनिवचसामनुकूलम्, अप्रथमाविभक्त्यर्थे बहुव्रीहिरिति वार्त्तिककृता वक्ष्यमाणत्वात्। भाष्यकृता च ``शेषो बहुव्रीहिः (पाoसूo2-2-23) इति सूत्रे त्रिकतः शेषमाश्रित्य सूत्राक्षरैरेवोक्तस्यार्थस्य साधितत्वात्। द्वितीया श्रितातीतादिभिस्तृतीया तत्कृतार्थेनेत्यादि क्रमेण हि षण्णां त्रिकाणां समास उक्तस्तदपेक्षया शेषः प्रथमारूपः त्रिकस्तस्यैव बहुव्रीहिसंज्ञेति `वृष्टे देवे गतः' इत्यादेरिव चित्राणां गवामित्यस्यापि दूरापास्तं बहुव्रीहित्वम्। किञ्च ``मत्वर्थे बहुव्रीहीः (काoवाo) इति कात्यायनवचनात्कयं चित्राणां गवामित्यत्र तत्प्रसक्तिः? ननु `दण्डी' इत्यादावपि दण्डस्यायमिति विग्रहाभ्युपगमादस्मद्रीत्याऽयमेव मत्वर्थ इति चेतर्हि सुतरां मुनिवचनविरोधः ``तदस्यास्त्यस्मिन् (पाoसूo5-2-94) इति सूत्रेण प्रथमान्तादस्त्युपाधिकात्सबन्धिनि मतुब्विधानात् ``समर्थानां प्रथमाद्वा (पाoसूo4-1-82) इति सूत्रेण प्रथमनिर्दिष्टस्यैव प्रकृतित्वावधारणाच्च। नन्वेतान्यपि सूत्रवार्त्तिकभाष्यवचांसि कथञ्चिद्भङ्क्त्वा नेष्याम इति चेत्? ``समर्थः पदविधिः (पाoसूo2-1-1) इत्यादीनि ``व्रीहिभिर्यजत इत्यादिषु पदविधिभिन्नेष्वपि योजयित्वा सामर्थ्य च बाष्यादिसम्मताद्विपरीतमेव वर्णयन् भवादृशो निरङ्कुशः किं किं न कुर्यात्? किन्तु व्याकरणाधिकरणे सिद्धान्तितं व्याकरणप्रामाण्यं कथं स्वेच्छया व्याकुलयसीति परं पर्य्यनुयोगे समाधानं विभावय। तस्माच्चित्रा गावो यस्येत्येव विग्रहः सकलशिष्टसम्प्रदायसिद्धो मुनित्रयवचसामनुकूलश्चेति दिक्।
आदिशब्दस्यावयववाचित्वादुद्भूतावायवभेदःसमुदायः समासार्यस्तस्य च समुदायस्य युगपल्लक्ष्ये प्रयोगाभावादानर्थक्यात्तदङ्गेष्विति न्यायेन तदवयवेषु प्रवर्त्तमाना संज्ञाऽविशेषात्सर्वशब्देऽपि प्रवर्त्तते इति युक्तं तद्गुणसंविज्ञानत्वम्। ``हलि सर्वेषाम् (पाoसूo8-3-22) इत्यादिनिर्देशाश्चेह लिङ्गम्। ``जक्षित्यादयः षट (पाoसूo6-1-1) इति सूत्रे तु जक्षिति योगं विभज्य जक्षेः संज्ञाविधानसामर्थ्यादेव इत्यादय इत्यतद्गुणसंविज्ञानो बहुव्रीहिः। एतेन `कतन्तेभ्यः' `कण्वादिभ्यः' इत्युभयत्रापबि शकलशब्दसङ्ग्रहार्थं यथा तत्पुरुषबहुव्रीह्येरेकशेष इति चतुर्थे वक्ष्यते, तथेहापि ``नपुंसकमनपुंसकेन (पाoसू 1-2-69) इति वा `स्वरभिन्नानां यस्योत्तरः स्वरविधिः सशिष्यते इति वा तत्पुरुषबहुव्रीह्योः सह विवक्षायां बहुव्रहीहेः शेष इति परास्तम्, तद्गुणसंविज्ञानबहुव्रीहिणैव सर्वशब्दस्यापि संग्रहे सिद्धे एकशेषाश्रयमस्य गौरवपराहतत्वात्। महासंज्ञाकरणमन्वर्थसंज्ञानार्थं सर्वेषां नामानीति। तत्सामर्थ्याच्च सर्वार्थाभिधानसामर्थ्यविशिष्टनामेव संज्ञित्वमनुमीयते। तथा च तथाभूतानां गणे पाठस्यावश्यकतया प्रकरान्तरजुषां च पाठे प्रमाणाभावदेव विशेषेऽवस्थितानां संज्ञानामुपसर्जनानां च सर्वादित्वमेव नास्ति। तेन तेषां गणंकार्थं संज्ञाप्रयुक्तकार्य्यं चेत्युभयमपि न भवति। गणकार्यं यथा-- ``त्यदादीनामः (पाoसूo7-2-102) । तद् नाम कश्चित्, अतिक्रान्तस्तमतितत्। यथा -- ``अड्डुतरादिभ्यः (पाoसूo7-1-25)। अन्यमतिक्रान्तमत्यन्यम्। अतिकतरम्। संज्ञाप्रयुक्तं यथा--``सर्वनाम्नः स्मै (पाoसूo7-1-14)। अतिसर्वाय। तदेतदभिप्रेत्योक्तं वार्तिककृता -- ``संज्ञोपसर्जनप्रतिषेधः पाठात्पर्युदासः पठितानां संज्ञाकरणम् इति। तस्मात्प्रसिद्धेन प्रवृत्तिनिमित्तेन प्रयुक्त इतरं प्रत्यनुपसर्जनीभूत एवेह संज्ञीति स्थितम्। यत्तु स्वरूपमात्राश्रयं कार्य्यं न तु गणपाठं संज्ञां वापेक्षते। यथा ``युष्मदस्मद्भयां ङसोऽश् (पाoसूo7-2-27) इत्यादि, तदुपसर्जनत्वेऽपि भवत्येवेत्यवधेयम्। न चैवं ``युष्मद्युपपदे (पाoसूo1-4-105) इत्यादावपि त्वमादिप्रसङ्गः, लोकप्रसिद्धार्थपरतायामेव तत्प्रवृत्तेः। ``अभिव्यक्तपदार्था ये इति न्यायात्। तदन्तग्रहणमत्र बोद्धव्यं ``द्वन्द्वे च (पाoसूo1-1-31) इति ज्ञापकात्। तच्च तत्रैव वक्ष्यते, ``प्रयोजनं सर्वनामाव्ययसंज्ञायाम् इति वार्तिकवचनाच्च। तेन ` परमसर्वतः' `परमसर्वत्र' `परमसर्वकं' इत्यत्र समस्तात्तसिल् त्रल् अकच्च सिद्ध्यति। न च तसिलादिविधौ प्रातिपदिकादित्यनुवृत्तेः सर्वनाम्ना च तद्विशेषणे तदन्तविधिर्भविष्यतीति वाच्यम् ``समासप्रत्ययविधौ न तदन्तविधिः (काoवाo) इति निषेधात्। न चैवम् `अतिसर्वाय' इत्यादावतिप्रसङ्ग उपसर्जनपर्युदासस्योक्तत्वात्। अत एव `परमसर्वस्मै' इत्यादौ स्मायादयो भवन्त्येव। स्यादेतत्, `असः' `अतस्मिन्' `अनेषः' इत्यादावप्यत्वसत्वस्मिन्नादीनि न स्युः `अतिसर्व' इत्यत्रेवोपसर्जनत्वात्। तथा चाब्राह्मण इत्यादेर्ब्राह्मणभिन्न इत्यादिक्रमेण पूर्वपदार्थप्राधान्येन विवरणं कुर्वन्ति। सत्यम्, वैयाकरणमते नञ्समासस्योत्तरपदार्थप्राधान्यमेव। नञ्सूत्रे भाष्यकारेण तथैव सिद्धान्तितत्वात्। तथाहि, आरोपितत्वं नञर्थः। तथाच मायामनुष्यमायामृगव्याजनिशाकरकपटब्राह्मणादिशब्देभ्य इव आरोपितो मित्याभूतोऽयं ब्राह्मण इत्येवं शाब्दबोधपर्यवसाने ब्राह्मणभिन्न इत्यादिकमार्थिकार्थविवरणं न तु शाब्दोऽयमर्थः। अत एव ``एतत्तदोः (पाoसूo6-1-1-132) इति सूत्रेऽनञ्समास इति सार्थकम्। अत एव चौत्सर्गिकी तत्पुरुषस्योत्तरपदार्थप्रधानताऽपि निर्वहतीति दिक्। ननु यदीह तदन्तविधिरिष्टस्तर्हि भाष्ययविरोधः। तत्र हि ``संज्ञोपसर्जनप्रतिषेधः इति वार्तिकस्य प्रत्याख्यानमुपक्रम्यार्थद्वारकं विभक्तिविशेषणमाश्रित्यातिप्रसङ्ग उद्धृतः। सर्वनामार्थसमवेतसंख्याकारकाद्यभिधायिनो ङेः स्मै स्यादित्यादिनोक्तरीत्या तदन्तविदौ सति तु `आतिसर्वाय' इत्यादौ समुदायस्य सर्वनामतयाऽर्थद्वारकविबक्तियागेश्रयणेऽपि स्मायादिप्रसङ्गस्तदवस्थ एव स्यादिति चेत्? सत्यम्, अत एवापरितोषाद्भष्ये ``अथवा महतीयं संज्ञा क्रियते इति पक्षान्तरमुपन्यस्तामिति गृहाण। ननु यदीयमन्वर्थसंज्ञा तर्हि ``पूर्वपदात्संज्ञायामगः (पाoसूo7-4-3) इति णत्वं स्यादिति चेत्? सत्यम्, अत एव निपातनाण्णत्वाभावः। सणत्वं तु रूपमसाध्वेव निपातनेन णत्वशास्त्रस्य बाधितत्वात्। अत एव `शाश्वत्कः' इत्याद्यप्यसाध्वेव। ``येषां च विरोधः शास्वतिकः (पाoसूo2-4-9) इति निपातनेन ``इसुसुक्तान्तात् (पाoसूo7-3-51) इत्यस्य बाधितत्वात्। नन्वेवम् ``अपरस्पराः क्रियासातत्ये (पाoसूo6-1-144) इति निपातनेन सन्ततशब्दो बाध्येतेति चेत्? न, तत्र `सातत्ये' इत्यनेनैकदेशानुमतिद्वारा ``लुम्पेदवक्ष्यमः कृत्ये इति पूर्वाचार्य्यपठितस्य श्लोकस्यैव ज्ञापनात्। नन्वेवमपि ``पुराणप्रोक्तेषु ब्राह्मणकल्पेषु (पाoसूo4-3-105) इति पुराणशब्देन पुरातनशब्दस्य बाधः प्राप्नोति। सत्यम्, पृषोदरादिषु पुरातनशब्दस्य पाठो बोद्धव्यः। आगमशास्त्रस्याव्ययटिलोपस्य चानित्यतामात्रं पुराणेति निर्देशेन ज्ञाप्यते इति तु तत्त्वम्। तदेव बाधकान्येव निपातनानीति भाष्ये स्थितम्। यद्वा, नेदं संज्ञासूत्रम्, किन्तु गणशुद्धिमात्रफलकम्, यानि सर्वनामानि तान्येव सर्वादीनि न त्वितराण्यपीति व्याख्यानात्। यथा ``तिङो गोत्रादीनि कुत्सनाभीक्ष्णययोः (पाoसूo8-1-27) इति सूत्रे कुत्सनाभीक्ष्ण्ययोरिति योगं विभज्य गोत्रादीनीत्यनुवर्त्यैतयोरर्थयोर्यानि वर्त्तन्ते तान्येव गोत्रादीनि इति गणशुद्धिपरतया व्याख्यास्यते तेन ``चनचिदिव गोत्रादितद्धिताम्रेडितेष्वगतेः (पाoसूo8-1-57) ``कुत्सने च सुप्यगोत्रादौ (पाoसूo8-1-69) इति सूत्रयोरपि विशिष्टार्थानामेव गोत्रादीनां ग्रहणं तथेहापि। ननुक्तरीत्या ``त्यदादीनामः (पाoसूo7-2-102) इत्याद्यन्तर्गणकार्यं सिद्ध्यतु ``सर्वनाम्नः स्मै (पाoसूo7-1-14) इत्यादिकं तु कृत्स्नसकलादिशब्देष्वतिव्याप्तं स्यादिति चेत्? न, गणपाठसामर्थ्यात्तत्र पठितानामेव ग्रहणात्। एतावानेव हि भेदः। यत्पूर्वोक्ते पक्षे संज्ञा विधेया गणशुद्धिस्त्वार्थिकी अस्मिंस्तु पक्षे गणशुद्धिःशाब्दी कृत्स्नादिव्यावृत्तिस्त्वर्थादिति। अथवोभयमनेन क्रियते पाठशुद्धिः संज्ञा च, तन्त्रावृत्त्येकशेषाणामन्यतमाश्रयणात्। तत्र सह विवक्षां विनाऽपि वाचनिक एकशेषः। आकृतिपक्षे हि प्रत्याख्यातं सरूपसूत्रम् ``इको गुणवृद्धी (पाoसूo1-1-3) इत्यादि यंच्छास्त्रप्रक्रियार्थं सत्सहविवक्षां विनाऽप्येकशेषं विधत्ते। तदित्थं पञ्चापि पक्षाः स्थिताः। संज्ञाभूतानां व्यावृत्तिस्तु गौणमुख्यन्यायेनापि सिद्ध्यति। न चासौ पदकार्येष्वेवेति वाच्यम्, विशिष्टरूपोपादाने सर्वत्र तत्प्रवृत्तेरित्युपपदितमोत्सूत्रे। वार्त्तिकरीत्या त्वेकसंज्ञाधिकारे सर्वनामसंज्ञानन्तरमेकद्रव्यनिवेशिनि संज्ञेति संज्ञासंज्ञया सर्वनामसंज्ञा बाध्यते इत्यपि समाधानान्तरं बोद्धव्यम्। यद्बा ``पूर्वपरावर इति गणसूत्रेऽसंज्ञायामिति योगं विभज्य पूर्वोत्तरयोः शेषो व्याख्येयः। उक्ताः सर्वादयो वक्ष्यमाणाः स्वादयश्चासंज्ञायामिति। तस्मादुपसर्जनव्यावृत्तिरेवान्वर्थसंज्ञाश्रयणस्य मुख्यं फलम्। ननु ``अनुपसर्जनात् (पाoसूo4-1-14) इति योगं प्रकारान्तरेण व्याख्याय तद्बलेनैवान्तर्गणकार्यं वारितं भाष्ये। तद्यथा-- `अनुपसर्जन' इति लुप्तषष्ठीकं पदम्। अः आदिति च च्छेदः। अश्च अच्च तयोः समाहारः आत्। अकारात्परौ अ अत् इत्यादेशौ यत्र क्रियेते तत्रानुपसर्जनस्य ग्रहणमिति परिभाषार्थः। तेन त्यदाद्यत्वम् ``अड्डतरादिभ्यः (पाoसूo7-1-25) इत्यदड्भावश्च गौणतायां न भवति। अकारात्परत्वेन विशेषणत्वं किम्? ``पञ्चम्या अत् (पाoसूo7-1-32) युष्मानतिक्रान्तेभ्योऽतियुष्मत्। ``एकवचनस्य च (पाoसूo7-1-32) युष्मानतिक्रान्तादतियुष्मत्। न ह्ययमकारात्परो विधीयते इति। तथा चोपसर्जनव्यावृत्तेरप्यन्यथासिद्धौ किं महासंज्ञयेति चेत्? न, `अतिसर्वाय' इत्यादिवार्णस्य तदेकसाध्यत्वात्। न हीदम् ``अनुपसर्जनात् (पाoसूo4-1-14) इत्यनेन साधयितुं शक्यते। एतदपरितोपादेव हि भाष्ये पक्षान्तराश्रयणमिति दिक्। एवञ्च ``अनुपसर्जनात् (पाoसूo4-1-14) इति सूत्रं परिभाषात्वेनापि नोपयुज्यते इत्यर्थात्प्रत्याख्यानमेव भवतीत्यवधेयम्। स्यादेतत्, कौम्भकारेयसिद्धये सूत्रमारम्भणीयम् तत्र हि कुम्भकारीशब्दादेव ढगुत्पादयितव्यः। अन्यथा कुम्भेत्युकारस्य वृद्धिर्न स्यात्। तथाच विशिष्टस्य स्त्रीप्रत्ययान्तताप्येष्टव्या। सा च तदैव निर्वहति। यदि ``टिड्ढाणञ् (पाoसूo4-1-15) इति सूत्रे प्रत्ययग्रहणपरिभाषयाऽणित्यनेनाणन्तग्रहणे तेन च प्रातिपदिकविशेषणादण्णन्तान्तं प्रकृतिः स्यात्। तच्च ``समासप्रत्ययविधौ प्रतिषेधः (काoवाo) इतिक ``ग्रहणवता प्रातिपदिकेन तदन्तविधिर्न (पाoसूo4-1-14) इत्युपसर्जननिषेधसामर्थ्यात्तु प्रधानेन तदन्तविधौ ज्ञापिते कौम्भकारेयः सिद्ध्यतीति स्पष्टमव। नं च ``कृद्ग्रहणे गतिकारकपूर्वस्यापि (पाoभाo28) इति परिभाषया कुम्भकारशब्दादेव स्त्रीप्रत्ययोऽस्त्विति वाच्यम्, अणिति हि तद्धितोऽपि गृह्यते। औपगवीति यथा। ``कृद्ग्रहणे (पाoभाo28) इति परिभाषा तु कृन्मात्रग्रहणे प्रवर्त्तते न तु कृदकृद्ग्रहणेऽपि एवमर्थमेवेदं सूत्रमिति भाष्यकृतैव चतुर्थे स्थापयिष्यते। तत्कथमिहोक्तम् ``अनुपसर्जनात् (पाoसूo4-1-14) इत्ययं योगः प्रत्याख्यायते इति? अत्रोच्यते, चतुर्थे सूत्रकाराभिप्रायवर्णनमात्रं करिष्यते। निष्कर्षे तु क्रियमाणे सूत्रवैयर्थ्यमेवायातीत्याशयेनेह भगवतोक्तं प्रत्याख्यायते इति। तथाहि, कारशब्दान्ङीबुत्पत्तावपि कौम्भकारेयः सिध्यत्येव ``ष्यङः सम्प्रसारणम् ``स्त्रीप्रत्यये चानुपसर्जनेन (पoभाo26) इति परिभाषयाऽनुपसर्जने स्त्रीप्रत्यये तदादिनियमनिषेधेन कुम्भकारीशब्दाद्दगुत्पत्तेः। अत एव हि `परमकारीषगन्धीपुत्रः इत्यत्र ष्यङन्तस्योच्यमानं सम्प्रसारणं परमकारीषगन्ध्याशब्दस्यापि भवत्येव। न चैवम् `अतिकारीषगन्ध्यपुत्रः' इत्त्यादावतिप्रसङ्गः। ``अनुपसर्जन इत्युक्तत्वेनोपसर्जने तदादिनियमसत्त्वात्। न चैवम् `अधीपिप्पली' इत्यादौ हल्ङ्यादिलोपो न स्यादिति वाच्यम्, हल्ङ्यादिसूत्रे दीर्घग्रहणसामर्थ्येन तत्रोपसर्जनेनापि तदादिनियमो नास्तीति ज्ञापितत्वात्। वस्तुतस्तु निष्कौशाम्ब्यादौ समुदायस्याङ्याबन्तत्वेऽप्यवयवस्य ङयाबन्ततया ततः परस्य सोर्लोपप्राप्तेर्नैतज्ज्ञापकम्। अर्द्धपिप्पल्यादावप्यवयवस्य ङ्यन्ततवैव निर्वाहः। न च विहितविशेषणता वक्तुं शक्या `या' `सा' इत्यादावव्याप्तेः। न च तत्र हलन्ताद् विहितत्वेन निर्वाहः `कर्त्ता' `हर्ता' इत्यादावलोपापत्तेः, `यः' `सः' इत्यादौ लोपापत्तेश्च। यद्वा, सुतिसीतिप्रत्ययैः प्रकृतिराक्षिप्यते हलन्त्यसूत्रे कैयटग्रन्थनिर्वाहाय विवरणे तथैव वर्णनात्। एवञ्च ज्ञापकं सुस्थमेकदेशस्याप्रकृतित्वात्। अत एव पञ्चमसमाप्तौ ``गोस्त्रियोरुपसर्जनस्य (पाoसूo1-2-48) इति सूत्रे च कैयटेन ज्ञापकत्वपक्ष एवोक्तः। ननुबयथापि `मा ला हृष्टा' इत्यादौ समुदायादाबन्तत्वप्रयुक्तः सुः स्यात्ततश्चैकपद्यैकस्वर्ययोरापत्तिः। एकवाक्यतया विधिरिति पक्षेऽपि `पचतिकल्पम्' इत्यादिसिद्धये एकवचनमुत्सर्ग इत्यस्यावश्याश्रयणीयत्वादिति चेत् न, ङ्यब्ग्रहणस्यान्यार्थतया यथाकथञ्चित्प्रातिपदिकग्रहणे लिङ्गविशिष्टग्रहणेन ङ्याबन्तत्वात्सुबुत्पत्तेश्च वक्ष्यमाणत्वात्। इह च समुदायस्याप्रातिपदिकत्वात्। अर्थवत्समुदायानां समासग्रहणं नियमार्थमिति हि स्थास्यति। न चैवमपि कदाचित्कारीशब्दाड् ढक् स्यादेवेति वाच्यम् एकाज्द्विर्वचनन्यायेन समुदायादेवोत्पत्तेः, कुम्भेनैकार्थीभूतस्य निष्कृष्यापत्येन योग इति वक्तुमशक्यत्वाच्च। किञ्च सूत्रमारभमाणस्याप्येषैव गतिः। `औपगवी' इत्यादाविव केवलात्कारशब्दादपि कदाचिन्ङीप्प्रसङ्गेन कौम्भकारेये पाक्षिकदोषस्य त्वत्पक्षेऽपि तुल्यत्वात्। स्यादेतत्, अक्रियमाणेऽस्मिन् सूत्रे `कुम्भकारी' इत्यत्र ङीवेव न स्यात्। कुम्भेनैकार्थीभूतस्याण्णन्तस्य स्त्रीत्वेनायोगात्। यस्य च स्त्रीत्वेन योगो विशिष्टस्य, न तदण्णन्तम्। तस्मादमहत्पूर्वादिति निषेधेन ज्ञप्यमानस्तदन्तविधिरुत्तरत्राप्यभ्युपगन्तव्यः। स च यथा पूर्वत्रोपसर्जनेनापि भवति ``न षट्स्वस्त्रादिभ्यः (पाoसूo4-1-10) प्रियपञ्चा द्रौपदी, ``वनो र च (पाoसूo4-1-7) अतिधीवरी इति, तथा टिदादावपि स्यात्। ततश्च `बहकुरुचरा' इत्यादावतिप्रसङ्गः। अतो निषेधसूत्रमिदं सार्थकम्। ननु पूर्वत्रोपात्तं तदन्तं च स्त्रियामित्यनेन विशेष्यते ``टिढ्ढाणञ् (पाoसूo4-1-15) इत्यादौ तूपात्तं टिदादिकमेव तेन `बहुकुरुचरा' इत्यादौ टिदादेरस्त्रीत्वान्न ङीप्। `कुम्भकारी' इत्यादौ त्वण्णन्तस्य स्त्रियां वृत्तेस्तदन्तादपि ङीप् भविष्यतीति चेत्? न, एतद्विषयविभागस्य दुरुहतया तज्ज्ञानार्थमेव सूत्रारम्भस्योचितत्वात्। नैतदेवम्, आरब्धेऽप्यस्मिन्सूत्रे व्याख्यानस्यैव शरणीयत्वात्। अन्यथा `पञ्चाजी' इत्यत्राजानामस्त्रीत्वेऽपि तदन्तस्य स्रियां वृत्त्या टाप्प्रसङ्गात्। अतो विशेषणविशेष्यभावं प्रति कामचाराद् ``अजाद्यतष्टाप् (पाoसूo4-1-4) इत्यत्र ``टिढ्ढाणञ् (पाoसूo4-1-15) इत्यादौ चोपात्तं स्त्रीत्वेन विशेष्यते ``वनो र च (पाoसूo4-1-7) इत्यादौ तूपात्तं तदन्तं चेति सकलेष्टासिद्धेः सूत्रं व्यर्थमेव। स्यादेतत्, तदन्तविधिज्ञापनार्थमेवेदं सूत्रमारम्भणीयम्। न च `अमहत्पूर्वा' (काoवाoएo) इत्यनेनैव तत्सिद्धिरिति वाच्यम्, तस्य ज्ञापकत्वायोगात्। `पञ्चाजी' इत्यादिसिद्ध्यर्थमजादिभिः स्त्रीत्वं विशेष्यते इति हि वक्ष्यते। तथाच `महासूशूद्री' इत्यत्र समुदायस्य स्त्रियां वृत्तावप्यवयवस्यातथात्वेन सत्यपि तदन्तविधौ टाप् न प्राप्नोतीति कथं तदन्तविधिं ज्ञापयित्वा निषेधः पर्यवस्येत्? मैवम्, इतरैरजादिभिः स्त्रीत्वविशेषणेऽपि शूद्रशब्देनाविशेषणात्। एवञ्च स्पष्टमेव ज्ञापकपर्यवसानम्। न चैवं `पञ्चशूद्री' इत्यत्रापि प्रसङ्गः जीतिरित्यनेन शूद्रस्य विशेषणात्। स्यादेतत्, ``पूर्वसूत्रनिर्देशो वापिशलमधीत इति इति कात्यायनोक्तरीत्या सूत्रं सार्थकम्। तथाहि, अप्रधानमुपसर्जनम्, तथैव पूर्वाचार्यसूत्रेषु लोके च व्यवहारात्। ततश्चाऽऽपिशलिना प्रोक्तम् ``इञस्च (पाoसूo4-2-112) इत्यण्। ततोध्येत्र्यां ``तदधीते (पाoसूo 4-1-59) इत्यण्। तस्य ``प्रोक्ताल्लुक् (पाoसूo4-2-64) इति लुक्। आपिशला ब्राह्मणी। अत्र प्रोक्तार्थस्याणोऽप्रधानत्वात्तदन्तान्न ङीप्। अण् यः अः अनुपसर्जनमप्रधानमिति विशेषणात्। न चैवमप्यध्येत्र्यामुत्पन्नस्याणोऽनुपसर्जनतया तदाश्र्यो ङीप् स्यादेवेति वाच्यम्, तस्यलुप्तत्वात्। न च प्रत्ययलक्षणं शङ्क्यम्, वर्णाश्रये तन्निषेधात्। ``टिढ्ढाणञ् (पाoसूo4-1-15) इत्यत्र ह्यत इत्यनुवर्तते। अणा च अकारो विशेष्यते। अण्योऽकार इति न तु विपरीतो विशेषणविशेष्यभावः। वर्णस्याप्राधान्ये प्रत्ययलक्षणापत्तेः `अतृणेड्' इत्यत्र तृणहइम् वत्। ननु स्त्रियामित्यनेनाणो विशेषणान्नोक्तदोष इति चेत्? न, काशकृत्स्निना प्रोक्ता मीमांसा काशकृत्स्नी, तामधीते काशकृत्स्ना ब्राह्मणी। अत्र द्वितीयेऽणि ``प्रोक्ताल्कुक् (पाoसूo4-2-64) इति लुप्ते प्रथमोऽप्यण् स्त्रियामेवोत्पन्न इति तदन्ताद् ब्राह्मण्यां वर्त्तमानात् ङीप् स्यात्। तस्मात्प्रधानाद्यथा स्यादप्रधानान्मा भूदित्येतदर्थमारम्भणीयं सूत्रमिति। अत्रोच्यते, अध्येत्र्यामभिधेयायामण ईकारेण भवितव्यम्। यश्चे हाध्येत्र्यामणुत्पन्नः स लुप्त एव। यश्च श्रूयते तस्मादीकार उत्पन्नो लुप्तश्चेति पुनर्न भवति सकृत्प्रवृत्त्या लक्षणस्य चरितार्थत्वात्। तस्माद् ``अनुपसर्जनात् (पाoसूo4-1-14) इत्ययं योगः प्रत्याख्यात इति भयवदुक्तिर्निर्बाधैवेति दिक्। सर्वादयश्च पञ्चत्रिंशत्---सर्व, विश्व, उभ, उभय, डतर, डतम, अन्य, अन्यतर, इतर, त्वत्, त्व, नेमं, सम, सिम, पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्। स्वमज्ञातिधनाख्यायाम्। अन्तरं बहिर्योगोपसंव्यानयोः। त्यद्, तद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, अस्मद्, भवतु, किम्, इति। तत्र सर्वविश्वशब्दौ कृत्स्नपर्यायौ सर्वशब्दस्य ``स्वाङ्गशिटाम् (फिoसूo2-27) इत्याद्युदात्तत्वे प्राप्तेऽन्तोदात्तत्वं गणे निपात्यते। तेन सर्वेषां विकार इत्यत्र ``अनुदात्तादेरञ् (पाoसूo4-2-44) सिद्धः। स ह्यनुदात्तादिप्रकृतिकाद्विधीयते इति ङ्याप्सूत्रे भाष्ये स्थितम्। प्रयोगे तु ``सर्वस्य सुपि (पाoसूo6-1-191) इत्याद्युदात्त एव। उभशब्दो द्वित्वविशिष्टस्य वाचकः। अत एव नित्यं द्विवचनान्तः। यद्येवं तर्हि किमर्थमसौ सर्वादिषु पठ्यते ? न ह्यत्र स्मायादयः सम्भवन्ति। काकचोस्तु नास्ति रूपे स्वरे वा विशेषः। अवग्रहस्तु कप्रत्ययेऽपि पदकारैर्न क्रियते ``चित्र इद्राजा राजकाः ``इदन्यके इत्यादौ तथैव निर्णीतत्वात्। न च `उभाभ्यां हेतुभ्याम्' `उभयोर्हेत्वोः' इत्यत्र ``सर्वनाम्नस्तृतीया च (पाoसूo2-3-27) इति पाक्षिकतृतीयासिद्ध्यर्थ इह पाठ इति वाच्यम्, ``निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम् (काoवाo) इति वार्तिकेन गतार्थत्वात्। न च वृत्तिकृता ``सर्वनाम्नस्तृतीया च (पाoसूo2-3-27) इति सूत्रे पठितत्वादिदं वार्त्तिकमपि सर्वनामसंज्ञासापेक्षमेवेति वाच्यम्, भाष्ये ``हेतौ (पाoसूo2-3-23) इति सूत्रे तस्य पठितत्वात्। अत एव `अन्नेन कारणेन वसति' `अन्नस्य कारणस्य ' इत्युदाहृतं हरदत्तेन।
अत्रोच्यते, उभशब्दस्तावद् द्विवचनमात्रविषयः। वृत्तौ तु द्विवचनलोपान्नासौ प्रयुज्यते, उभाभ्यां पक्षाभ्यां विनीतनिद्रा इति विग्रहे `उभयपक्ष' (रoवाo5-72) इत्यादिप्रयोगदर्शनात्। कथं तर्हि उभस्थाने उभयशब्दसिद्धिरिति चेत्? इत्थम्, ``उभादुदात्तो नित्यम् (पाoसूo5-2-44) इत्यत्रोभादिति योगे विभज्यते। अवयववृत्तेः संख्यावाचिन उभशब्दादवयविन्यर्थे अयच् स्यात्। उभयो मणि। ततो ``नित्यम् उभशब्दाद् वृत्तिविषये नित्यमयच् स्यात्। अनिर्दिष्टार्थत्वात्स्वार्थे। तदेतदुक्तं वार्त्तिककृता - ``उभयोऽन्यत्र इति। एवं स्थिते `उभयतः' `उभयत्र' इत्यादाविव कप्रत्ययेऽप्युभय एव प्राप्तेः। अकचि तु `उभकौ' इत्यादि सिध्यति। न चेहापि `उभये' इति स्यादेवेति वाख्यम्, अकजर्थं सर्वादिषु पाठेनायचो बाधात्। अन्यथा पाठवैयर्थ्या पत्तेरिति दिक्। ``स्वाङ्गशिटामदन्तानाम् (फिoसूo2-29) इत्याद्युदा त्तार्थं पाठ इति तु न युक्तम्, गणे एवान्तोदात्तस्य निपात्यमानत्वात्। अन्यथा ``उभे भद्रे जोषयेते `उभाउ नूनम्' `उभाभ्यां देव सवितः' `सपत्यत उभयोर्नृम्णमयोः' इत्यादावाद्युदात्तप्रसङ्गात्। उभयशब्दस्त्ववयवद्वयारब्धेऽवयविनि वर्त्तते `उभयो मणिः' इति यथा। श्यामलोहिताभ्यामवयवाभ्यामारब्ध इत्यर्थः। तिरोहितावयवभेदत्वादेकवचनम्। `उभयमेव वदन्ति मनीषिणः' इत्यादौ तु समुदायद्वयघटितः समुदायोऽर्थः। तिरोहितावयवभेदत्वं तु तुल्यमेव। यदा तु वर्गद्वयारब्धे महासमुदाये वर्त्तते तदावर्ग्यभिन्नेन वर्ग्यद्वयेन महाभेदविवक्षयोद्भूतावयवभेदत्वाद्बहुवचनान्त एव, उभये देवमनुष्याः। तस्य मित्राण्यमित्रास्ते ये च ये चोभये नृपाः।
इति यथा। यदा तु प्रागुक्तरीत्या `उभयो मणिः' इति व्युत्पाद्य तादृशमेव मणिद्वयं सह विवक्ष्यते, तदैकशेषेण द्विवचनं प्राप्नोति। भनभिधानात्तु न भवति। तथाच ``तद्धितश्चासर्वविभक्तिः (पाoसूo1-1-37) इति सूत्रे ``कृत्तद्धितानां ग्रहणं च पाठ इति भाष्यमवतारयन्कैयट आह--``उभयशब्दस्य द्विवचनानुत्पादादसर्वविभक्तित्वम् इति हरदत्तस्तु तस्मिन्नेव सूत्रे उभयशब्दाद् द्विवचनमङ्गीकृत्य पाठाश्रयणं तु `पचतिकल्पं' `पचतिरुपम्' इत्यादावतिप्रसङ्गं वारयितुमित्याह। इहायजादेशस्य स्थानिवद्भावेन तयप्प्रत्ययान्ततया ``प्रथमचरम (पाoसूo1-1-33) इति सूत्रेण जसि विभाषा प्राप्नोति व्यवस्थितविभाषाया पूर्वविप्रतिषेधेन वा नित्यमेव जसि सर्वनामतेति केचित्। विभक्तिनिरपेक्षत्वेनान्तरङ्गया नित्यसंज्ञया बहिरङ्गा वैकल्पिकी बाध्यते इति तु सिद्धान्तः। ``न वेति विभाषा (पाoसूo1-1-44) इति सूत्रे भाष्यकारस्त्वाह --अयत् प्रत्ययान्तरमेव न त्वसौ तयस्यादेशः ``उभादुदात्तः (पाoसूo5-2-44) इति सूत्रे तयपोऽननुवृत्तेः। न चैवम् `उभयी' इत्यत्र ``टिड्ढाणञ् (पाoसूo 4-1-15) इति सूत्रेण तयबन्तत्वप्रयुक्तो ङीप् न स्यादिति वाच्यम्, तत्र मात्राजिति मात्रशब्दात्प्रभृत्ययचश्चकारेण प्रत्याहारग्रहणात्। एवञ्च तयब्ग्रहणमपि न तत्र कार्यम्। यद्वा, द्वयसजिति प्रत्याहारः। तथाच दघ्नञ्मात्रचोरपि ग्रहणं न कर्त्तव्यमिति महदेव लाघवम्। वस्तुतस्तु ``प्रमाणे मात्रच्द्वयसच्दघ्नचः इति पाठ्यमिति भाष्याशयः। तथा च ततोऽपि लाघवम्। न चैवं `कति स्त्रियः' इत्यत्रातिप्रसङ्गः। अत इत्यनुवृत्तेः, ``न षट्स्वस्रादिभ्यः (पाoसूo6-4-137) इति निषेधाद्वा। न चैवं `तैलमात्रा' इत्यादावतिप्रसङ्गाः, सदृशस्याप्यस्य प्रत्याहारेऽसन्निविष्टत्वादिति। अत्र कश्चित्, उभयेत्यर्थपरो निर्देशः। तेन ``व्यर्था द्वयेषामपि मेदिनीभृताम् (माoकाo ) इति माघप्रहयोगः समर्थितो भवतीत्याह। तन्न, अर्थपरतायां वृत्तिकाराद्यभियुक्तवचनानुपलम्भात्। महाकविप्रयोगबलादेव कल्प्यते इति चेत्? न, महाकविभिरेव तद्विपरीतस्य बहुशः प्रयोगात्। तथाच माघः ``गुरुद्वयाय गुरुणोः (माoकाo 2-6) इति। कालिदासोऽपि-- ``अस्मिन् द्वये रूपविधानयत्न इति। श्रीहर्षश्च---- अये ममोदास्तमेव जिव्हया द्वयेति तस्मिन्न नतिप्रयोजने। इति। तस्माद् द्वयं द्वैधमिष्यन्ति गछन्तीति द्वयेशस्तेषां द्वयेषामितीषेः क्किबन्तस्य रूपं बोध्यम्। यत्तु कश्चिदाह-चाक्रवर्मणव्याकरणे द्वयशब्दस्यापि सर्वनामताऽभ्युपगमात्तद्रीत्याऽयं प्रयोग इति तदपि न, मुनित्रयमतेनेदानीं साध्वसाधुविबागस्तस्यैवेदानींतनशिष्टैर्वेधाङ्गतया परिगृहीतत्वात्। दृश्यन्ते हि नियतकालाः स्मृतयः। यथा कलौ पाराशरस्मृतिरित्यादीति ``शताच्च ठन्यतावशते (पाoसूo5-1-22) इति सूत्रे सर्वैकवाक्यतया सिद्धान्तितत्वात्। डतरडतौ प्रत्ययौ यद्यपि ``संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति (पoभाo-27) तथापीह ``प्रयोजनं सर्वनामाव्ययसंज्ञायाम् (काoवाo) इति वाचनिकस्तदन्तविधिः, केवलयोः संज्ञायाः प्रयोजनाभावाद्वा। अन्यो भिन्नः। अन्यतरान्यतमशब्दावव्युत्पन्नौ स्वभावाद् द्विबहुविषये निर्धारणे वर्त्तेते इति पस्पशायां कैयटः। तत्रान्यतमशब्दस्य गणे पाठाभावान्न सर्व नामकार्यम्। नापि ``अड्डतरादिभ्यः (पाoसूo7-1-25) इत्याद्यन्तर्गणकार्य्यम्। तथाच प्रयुज्यते ``न तावत्सामान्यादिष्वन्यतमं तमः इति। शाकटायनस्त्वचन्यतरान्यतमौ डतरडतमान्तौ व्युत्पादितवान्। तन्मतेऽप्यन्यतरशब्दपाठस्य नियमार्थत्वादन्यतमश्ब्दोऽन्तर्गणकार्यं सर्वनामसंज्ञाकार्यं च न लभ्यते इति तद्व्यख्यातारः ``इतरस्त्वन्यनीचयोः (अoकोo3-3-200) इत्यमरः। त्वत्व इति द्वावप्यदन्तावन्यपर्यायौ तत्रैक उदात्तः, परोऽनुदात्तः। ``एतं त्वं मन्ये दश पुत्रमुत्सम् इत्युदात्तस्य प्रयोग। ``उतत्वः पश्यन् इत्यादिरनुदात्तस्येति विवेकः। केचित्तु त्वदिति तान्तमेकं पठन्ति। तथाच जयदेवः प्रायुङ्क्त-``त्वदधरमधुरमधूनि पिबन्तम् इति।त्वत्तोऽन्यस्या अधर इति षष्ठीतत्पुरुषो न तु तवाधरस्त्वदधर इति, ``पश्यति दिशिदिशि रहसि भवन्तम् इति पूर्ववाक्येन सहानन्वयापत्तेः। अनुदात्तश्चायम् ``त्वत्वसमसिमेत्यनुच्यानि (फिoसूo4-78) इति फिट्सूत्रात्। तथाच प्रयुज्यते ``स्तरीरुत्वद्भवति सूत उत्वत् इति। त्वदिति सर्वनामसु पठितोऽनुदात्तोऽयमन्यपर्याय इति तद्व्याश्यायां वेदभाष्यकाराः। इह प्रागुक्तरीत्योदात्तानुदात्तयोरकारान्तयोरनुदात्तस्य तकारान्तस्य च प्रामाणिकत्वं निर्विवादमेव। गणपाठे परं विप्रतिपत्तिः। तत्राप्यनुदात्तस्याकारान्तस्य गणपाठे न संशयः ``उतो त्वस्मै तन्वम् इत्यादिप्रयोगात्। अवशिष्टयोर्मध्ये कतरस्य गणे पाठ इति तु संशयोदाहृतप्रयोगाणां तत्रौदासीन्यात्। तस्मात्तान्तस्याकजादिकमुदात्तस्य वा स्मायादिकं क्वचिच्छाखायां प्रयुज्यते नवेति विभाव्य तत्वं निर्णेयं बहुश्रुतैरिति दिक्। वस्तुतस्त्वाद्यस्य तान्तच्छेद एव युक्तः। अन्यथा ऐक्ष्वाकशब्द इव स्वरसर्वनाम्ना एकश्रुत्योभयसङ्ग्रहसम्भवात्त्वशब्दमेकमेवापठिष्यदिति ध्येयम्। `त्वे वसूनि' `त्वे रायः' इत्यादयस्तु शेप्रत्ययान्तस्य यु ष्मदः प्रयोगो न तु त्वशब्दस्य। पदकारैः प्रगृह्यत्वप्रयुक्तस्योतिशब्दस्य प्रयोगादिति स्थितं वेदभाष्ये। नेम इत्यर्द्वे। प्रयोगश्च ``प्रनेमस्मिन्ददृशे सोम इति। समः सर्वपर्यायः। ``नभन्तामन्यके समे। ``मानोवृकाय वृक्ये समस्मै। ``उरुष्याणे अघायतः समस्मात्। ``उतो समास्मिन्। तुल्यपर्यायस्य तु समाशब्दस्य न सर्वनामता ``यथासंख्यमनुदेशः समानाम् (पाoसूo1-3-10) इति ज्ञापकात्। ``कृन्मेजन्तः (पाoसूo1-1-39) इति सूत्रे ``एते दोषाः समा भूयांसो वा इति भाष्यकारप्रयोगाच्च। एतेन ``समे यजेत इति प्रयोगो व्याख्यातः। सिमः कृत्स्ने च शक्ते च स्यान्मर्यादावबद्धयोः। इति निघण्टुः। ``आद्रात्रीवासस्तनुते सिमस्मै। ``उच्छुक्रमत्कमजते सिमस्मात्। यद्यपीह ``त्वत्त्वसमसिमेत्यनुच्चानि (फिoसूo4-78) इति प्राप्तं तथापि ``सिमस्याथर्वणेऽन्त उदात्तः (फिoसूo4-78) इत्यु दात्तता। अथर्ववेदप्रविष्टे मन्त्रे ऋग्वेदादिगतेऽपीत्यभियुक्तैर्व्याख्यातत्वादित्यवधेयम्। पूर्वपरावरोत्तरापराः पञ्च दिक्कालयोस्तदवच्छिन्ने च। पूर्वस्यां दिशि पूर्वस्मिन्काले पूर्वस्यां वाप्याम् पूर्वस्मिन्गुरावित्यादि। दक्षिणाधरशब्दौ दिशि तदवच्छिन्ने च। अर्थनियमश्चायं व्यवस्थायामित्युक्तेर्गम्यते। स्वाभिदेयेनापेक्ष्यमाणस्यावधेर्नियमो हि व्यवस्था। पूर्वादिशब्दानामुक्तोर्थो हि नियमेन कञ्चिदवधिमपेक्षते। ``स्थागापापचो भावे (पाoसूo3-3-25) इति क्तिनि प्राप्ते ऽत एव निपातनादङ्। व्यवस्थायां किम्? इक्षिणा गाथकाः। प्रवीणा इत्यर्थः। `अधरे ताम्बूलरागः' `उत्तरे प्रत्युत्तरे वा शक्तः'। कथं तर्हि ``तथा परेषां युधि च (रoवं 3-21) इति कालिदासः? ``अपरे प्रत्यवतिष्ठन्ते इत्यादि च? अत्राहुः, देशवाचितया व्यवस्थाविषययोरेव परापरशब्दयोरुपचाराच्शत्रौ प्रतिवादिनि च प्रयोगः। न चैवमुपसर्जनता। न हि लाक्षिणिकत्वमुपसर्जनत्वं, किन्तु स्वार्थविशिष्टार्थान्तरसंक्रमः। स तु न वृत्तिप्रविष्टस्यापि प्रधानस्य न वा लाक्षणिसस्यापि वृत्तिमप्रविष्टस्य। अत एव `तस्माद्वह्निमान्' इत्यादौ ज्ञानलक्षणापक्षेऽपि सर्वनामकार्यम्। तद्योऽहं सोऽसौ, योऽसौ सोऽहमित्यत्र भागत्यागलक्षणायामपि सर्व नामकार्यप्रवृत्तिरिति भूवादिसूत्रे `एतान्यपीत्येतत्प्रतिपाद्यानि वस्तूनीत्यर्थः'। इति कैयटश्च। वस्तुतस्त्वत्र शत्रुत्वादिप्रकारकोबोधोऽनश्वादिशब्देभ्यो भिन्नत्वादेरिवार्थिकः शब्दात्तुदेशान्तरनिष्ठत्वादिप्रकारक एवेति तत्त्वम्। असंज्ञायाङ्किम्? उत्तराः कुरवः। सुमेरुमवधिमपेक्ष्य कुरुषूत्तरशब्दो वर्त्तते इत्यस्तीह व्यवस्था। प्रसिद्धत्वात्तु नावधेः प्रयोगः। `मेघो वर्षति' इत्यत्र जलस्य यथा एवं `दिशः सपत्नी भव दक्षिणस्याः' इत्यादावपि वस्तुतो व्यवस्थाऽस्तीति सर्वनामकार्यं सम्भवत्येव। न च सेज्ञात्वान्निषेधः आधुनिकसङ्केतो हि संज्ञा। न च दिक्षु साऽस्तीति पञ्चमेऽस्ताति प्रकरणे कैयटहरदत्तादयः। अत्र दिक्षु चिरन्तनः कुरुषु त्वाधुनिकः सङ्केत इत्यत्र व्याख्यातृवचनमेव प्रमाणम्। स्वशब्दस्य चत्वारोऽर्थाः आत्मा आत्मीयो ज्ञातिर्धनं चेति। स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने। (अoकोo3-3-219) इत्यमरः। यद्यपि ``स्वामिन्नैस्वर्ये (पाoसूo5-2-126) इति सूत्रे ईस्वरत्ववाच्यपि स्वशब्दः स्वीकृतदस्तताप्यसौ मत्त्वर्थीयेमनिच्प्रत्ययमात्रविषयो न तु केवलः-प्रयोगार्हः। तत्र ज्ञातिधनयोर्निषेधादात्त्मात्मीययोरेव संज्ञा। आख्याग्रहणं किम्? आत्मीयत्वं पुरस्कृत्य ज्ञातिधनयोरपि प्रवृत्तौ सर्वनामता यथा स्यात्। आत्मात्मीययोरित्येव तु वक्तुमिहोचितम्। स्वस्मै इत्यादि। जसि विभाषाविधायकेऽष्टाध्यायीस्थे सूत्रेऽप्येवम्। यत्तुं तत्र स्वमात्मीयइत्येव वक्तुमुचितमात्मवाचिनो नपुंसकतया जसि विभाषायामुपयोगाभावादिति केचित्। तच्चिन्त्यम्, सूत्रसामर्थ्यादेवात्मन्यपि पुंस्त्वलाभात्। अत एवामरकोशेऽप्यात्मनीति पूर्वान्वयि, स्वमिति तूत्तरान्वयि। तथा च हेमचन्द्रः-
द्यौः स्वर्गनभसोः स्वो ज्ञात्यात्मनोः स्वं निजे धने। इति। मेदिनीकारोऽपि--
वस्तुतस्तु ``पूर्वपर इत्यादित्रिसूत्र्यामर्थनिर्द्देशः पाठविशेषणम्। तेनेतरेषां पाठादेव पर्य्युदासः। तथाच ``विभाषा जसि (पाoसूo1-1-32) ``इति प्रकरणे ``पूर्वादीनि नव इत्येव लाघवात्कर्त्तव्यम्। त्रिसूत्री तु न पठनीयैवेति निष्कर्षः। अथवा गणपाठ एव पूर्वादिनवकपाठानन्तरं ``विभाषा जसि (पाoसूo1-1-32) इति कर्त्तव्यं, पूर्वादीनि चार्थविशिष्टान्यनुवर्त्तनीयानि। न च सर्वादीनामप्यनुवृत्तिः शङ्क्या, नेमस्य जसि विभाषारम्भात्। यद्वा, `जस्ङसिङीनां शिस्मात्स्मिनः ``पूर्वादिभ्यो नवभ्यो वा ``औङ आपः शी ``नपुंसकाच्च इति सप्तमे न्यासः कर्त्तव्यः। परमार्थस्तु सप्तमे यथान्यासमेवास्तु। ``पूर्वादिभ्यो नवभ्यो वा (पाoसूo7-1-16) इत्येतत्तु ``जसः शी (पाoसूo7-1-17) इत्यत्रानुवर्त्य वाक्यभेदेन सम्भन्त्स्यते ``वा छन्दसि (पाoसूo6-1-203) इत्येतद् ``अमि पूर्वः (पाoसूo 6-1-107) इत्यत्र यथा तथा चेयं त्रिसूत्री अष्टाध्याय्यां न पाठ्येति स्थितम्। असंज्ञायामिति तु न कार्यमन्वर्थसंज्ञया `अभिव्यक्तपदार्था ये' इति न्यायेन वा संज्ञाया व्युदस्तत्वात्। अन्तरशब्दस्तु नानार्थः। तथा चामरः---
अन्तरमवकाशावधिपरिधानान्तर्द्धिभेदतादर्थ्ये। छिद्रात्मीयविनाबहिरवसपरमध्येन्तरात्मनि च ।। (अoकोo3-3-94) इति।
अत्र बहिर्योगोपसंव्यानयोरेवार्थयोः संज्ञा। बहिरित्यनावृत्तो देशो बाह्यं चोच्यते। तत्राद्ये अन्तरे अन्तरा वा गृहाः। नगरबाह्याश्चाण्डालादिगृहा इत्यर्थः। द्वितीये नगराभ्यन्तरगृहा इत्यर्थः। उपसंव्यानशब्दोऽपि करणव्युत्पत्योत्तरीयपरः। कर्मव्युत्पत्त्या त्वन्तरीयपरः। उभयथापि बहिर्योगेण गतार्थत्वात् उपसंव्यानग्रहणं न कर्त्तव्यमिति भाष्ये स्थितम्। केचित्तु शाटकानां त्रये शरीरसंयुक्तस्य तृतीयस्य, चतुष्टये तु चतुर्थस्य तत्संयचुक्तस्व वा, तृतीयस्य बहिर्योगाभावादुपसंव्यानग्रहणं कर्त्तव्यं शाटकयुगद्यर्थमिति पदतो वार्त्तिककारस्याप्ययमेवाश्य आदिशब्दवलादवगम्यते। भाष्यमते तु बहिर्योगग्रहणं स्वर्यते तेन ``शीतोष्णाभ्यां कारिणि (पाoसूo5-2-72) इत्यादाविव गौणग्रहणात्परम्परया बाह्यसम्बद्धस्यापि भविष्यतीत्याहुः। सत्यपि बहिर्योगे पुरीविषयतायां न सर्वनामता ``अपुरीति च वक्तव्यम् इति वार्त्तिकात्। तद्धि गणसूत्रस्य शेषो न तु जसि विभाषाविधायकस्य, अत इत्यधिकृत्य जसः शीविधानादाबन्तात्प्रापत्यभावात्। अन्तरायां पुरि। प्राकाराद्बाह्यायां तदन्तर्वर्त्तिन्यां वेत्यर्थः। लिङ्गविशिष्टपरिभाषयैकादेशस्य पूर्वान्तग्रहणेन ग्रहणाद्वा प्राप्तिर्बोध्या। त्यद्, तद्, एतौ पूर्वोक्तपरामर्शकौ। तत्राद्यश्छान्दसः। `एष स्यभानु' इति गणरत्नकारस्तन्न, तथा सति ``श्यश्छन्दसि बहुलम् (पाoसूo6-1-133) इति सूत्रे छन्दोग्रहणवैयर्थ्यापत्तेः। यद् उद्देश्यसमर्पकः। एतदिदमौ प्रत्यक्षोपस्थित। अदस् व्यवहिते। एकोन्यार्थे प्रधाने च प्रथमे केवले तथा।
साधारणे समाने च संख्यायां च प्रयुज्यते ।।
द्विशब्दो द्वित्वाविशिष्टेऽलिङ्गः। सम्बोधनैकविषयश्च युष्मदर्थः। अस्मच्छब्दस्तूच्चारयित्रर्थः। सलिङ्ग संबोधनव्यभिचारी च भवत्वर्थः। ``भातेर्डवतुः (उoसूo166) इति व्युत्पादितोऽयम्। यद्यप्यस्मात्स्मायादयो न सम्भवन्ति, ``सर्वनाम्नस्तृतीया च (पाoसूo2-3-27) इति ``निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम् (काoवाo) इत्यनेनैव गतार्थ, तथापि
फिञद्रिमयटः पूर्वनिपातष्टक्छसौ तथा। आत्वैकशेषष्यञ्विरहा अकच्च भवतः फलम् ।।
फिञ् - भावतायनिः, त्यदादित्वेन वृद्धत्वाद् ``उदीचं वृद्धाद् (पाoसूo4-1-157) इति फिञ्। भवन्तमञ्चतीति भवद्र्यङ्, ``विष्वग्देवचोश्च (पाoसूo6-3-91) इति चकारेण सर्वनाम्नोनुकर्षणादद्र्यादेशः। भवन्मयः, ``नित्यं वृद्धशरादिभ्यः (पाoसूo4-3-14) इति मयट्। भवन्मित्र, ``सर्वनामसंख्ययोः (काoवाo) इति प्राङ्निपातः। भावत्कः, भवदीयः, ``भवतष्ठक्छसौ (पाoसूo4-2-115) इत्यत्र हि शत्रन्तनिवृत्तये वृद्धादित्यनुवर्त्यते। आत्वम्--भवादृक्, ``आ सर्वनाम्नः (पाoसूo1-2-72) इत्येकशेषः। `भवतो भावो भवत्ता' इत्यत्र सर्वनामसंज्ञया गुणवचनसंज्ञावाधात् ष्यञ्विरहोऽपि फलम्। अन्यथा हि भावत्यमिति स्यात्। अकच्च-भवकान्, ``सर्वनाम्नो वृत्तिमात्रे (भाoइo) इति कपुंवद्भावोऽपि फलम्--भवत्त्याः पुत्रो भवत्पुत्रः। किंशब्दः प्रश्ने आक्षेपे चेति दिक्। वृत् सर्वादिगणो वृत्तः समाप्त इत्यर्थः। ``यदिन्द्राग्नी अवमस्यां पृथिव्यां मध्यमस्यां परमस्यामुतस्थे इत्यत्र त्ववममध्यमपरमशब्देषु छन्दसि सकलविधिव्यत्ययात् स्याडागमः। न त्वेतदनुरोधेन सर्वादेशकृतिगणत्वमिति मन्तव्यम्। अत एव छन्दस्यपि सर्वनामकार्वमेषां न नियतम्। ``ये मध्यमाः पितरः ``विष्णोः पदे परमे इत्यादौ तदभावात्। ``व्यूहावुभौ तावितरेतरस्मात्, ``अन्योन्येषां पुष्करैरामृशन्त इत्यादि तु द्विः- प्रयोगो द्विर्वचनमिति पक्षे तदन्तविधीना सिद्धम्। स्थाने द्विर्वचनपक्षे तु स्थानिवद्भावेनेत्यवधेयम्। ननु वस्नसादाविव प्रकृतिप्रत्ययविभागस्य संमोहात्स्थानिवद्भावेनापि पदत्वमात्रं स्यात्, नतु सर्वनामता, सुब्विशिष्टे स्थानिनि तद्विरहादिति चेत्? न, सन्नियोगशिष्टत्वेनान्तरङ्गमपि द्वित्वं बाधित्वा ``समासवच्च बहुलम् (काoवाoएo) इति समासवद्बावप्रयुक्तस्य लुकः प्रथमं प्रवृत्तेः, ``अन्तरङ्गानपि विधीन् बहिरङ्गो लुग् बाधते (पoभाo52) इति वक्ष्यमाणत्वात्, ततः प्रत्ययलक्षणेन पदत्वमाश्रित्य द्वित्त्वप्रवृत्तेः। एतेन `तत्तत्तामसभूतभीतय' इत्यादि व्याख्यातम्। नन्वस्तूक्तरीत्या `इतरेतरस्मात्' इत्यस्य सिद्धिः, `अन्योन्येषाम्' इति तु कथम्? न ह्यत्र समासवद्भावोऽस्तीति चेत्? तत्र प्रथमैकवचनान्तत्वं पूर्वपदस्य द्वितीयादयस्तु परपद इति वचनबलेनैव प्रकृतिप्रत्ययविभागस्य सिद्धेरिति दिक्। ``वन्येतरा जानपदोपदाभिः (रoवंo41) इति तु वन्या इतरे येभ्य इति बहुव्रीहिणा समाधेयम्। ``तपरः (पाoसूo1-1-70) इति ज्ञापकात्सर्वनाम्नः पूर्वनिपातोऽनित्यः। ``पुत्रोदकात्पराजयः इति तु प्राधान्यादिना आख्यातादित्ययें आख्यातणिजन्ताद् घञ्र्थे कप्रत्यये लाक्षणिकस्य सर्वनामताविरहात्समाधेयम्।
विभाषा दिक्समासे बहुव्रीहौ (पाoसूo1-1-28)। अत्र सर्वनामसंज्ञा वा स्यात्। उत्तरपूर्वस्यै। उत्तरपूर्वायै। ``दिङ्नामान्यन्तराले (पाoसूo2-2-26) इति प्रतिपदोक्तो दिक्स्मासो गृह्यते। तेनेह न-या पूर्वा सैवोत्तरा यस्या भ्रान्तस्य तस्मै पूर्वोत्तराय। एवं च बहुव्रीहिग्रहण न कर्त्तव्यम्, दक्षिणोतेतरपूर्वाणामिति द्वद्वस्य लक्षणप्रतिपदोक्तपरिभाषयैव वारणात्। ननूत्तरार्थं तत्। तथाहि, ``एकं बहुव्रीहिवत् (पाoसूo8-1-9) ``आबाधे च (पाoसूo8-1-10) इति द्विर्भावे `एकैकस्मै देहि' `दक्षिणदक्षिणस्यै' इत्यादीष्यते। तत्रोत्तरसूत्रेण निषेधो मा भूत्। बहुव्रीहिरेव यो बहुव्रीहिर्न त्वतिदिष्टबहुव्रीहिस्तत्रैव यता स्यादिति। मैवम्, समासग्रहणानुवृत्त्याप्युक्तार्थलाभात् उत्तरसुत्रस्य प्रत्याख्यानाच्च।
न बहुव्रीहौ (पाoसूo1-1-29)। बहुव्रीहौ कर्त्तव्ये सति सर्वनामसंज्ञा न स्यात्। त्वकं पिता यस्य त्वत्कपितृकः। अहकं पिता यस्य मत्कपितृकः। द्वकौ पुत्रौ यस्य द्विकपुत्रः। इह हि समासप्रवृत्तेः प्रागन्तरङ्गतयाऽकच् प्रवर्त्तेत, स च समासे सत्यपि श्रूयेत, `अतिक्रान्तो भवकन्तमतिभवकान्' इतिवत्। न हि वृत्तेः प्रागप्युपसर्जनताऽस्ति। ननु यदि प्रागेव प्राप्नुवन्नकच् निवर्त्तितस्तर्हि `त्वकम्पिता' इत्यादि कथं विगृह्यते? त्वत्कः पितेत्यादि कप्रत्ययदर्शनौचित्यादिति चेत्? भ्रान्तोऽसि। न हि यस्मिन्प्रक्रियावाक्ये उत्प्रेक्षामात्रगोचरे बहुव्रीहिसंज्ञाप्रवृत्ता सर्वनामसंज्ञा च निषिद्धा तत्प्रयुज्यते, अपरिनिष्ठितत्वात्; किन्तु तत्सदृशं बहुव्रीहिसंज्ञाशून्यं वाक्यान्तरमेव। यदाह कैयटः। ``अप्रयोगसमवायि यत्प्रक्रियावाक्यं तत्रायं निषेधो न तु लौकिके, तस्य पृथगेव प्रयोगात्तादर्थ्याभावात् इति। अत एव दृष्टाः सर्वे येनेत्येव विग्रहो न तु सर्वा इति। राज्ञः पुरुष इत्यादिविग्रहेपि ह्येषैव गतिः, अलौकिके वाक्ये ``अल्लोपोऽनः (पाoसू 6-4-134) इत्यादेरप्रवृत्तेः ``अन्तरङ्गानपि विधीन् (पoभाo52) इति सिद्धान्तात्। अत एव `गोमत्प्रियः' इत्यादौ सोर्लुगेव न तु इल्ङ्यादिलोपः। तेन नुम्दीर्घादयो न प्रवर्त्तन्ते। भाष्ये `त्वकत्पितृकः' इत्याद्येव रूपं स्वीकृत्येदं सूत्रं प्रत्याख्यातम्। यदाह---- अकच्स्वरौ तु कर्त्तव्यौ प्रत्यङ्गं मुक्तसंशयौ इति।
अङ्गम्प्रतीति प्रत्यङ्गम्। अनकारान्तेषु त्वकत्पितृको द्विकपुत्र इत्यादिष्वकच्। विश्वप्रिय इत्यादिष्वदन्तषु तु ``स्वाङ्गशिटामदनतानाम् (फिoसूo1-29) इत्याद्युदात्ततेति विषयविवेको बोध्य इत्यर्थः। यथोतरं मुनीनां प्रामाण्यात् भाष्योत्त्यैव व्यवस्थेत्यवधेयम्।
तृतीयासमासे (पाoसूo1-1-30)। अत्र सर्वनामता न स्यात्। मासपूर्वाय। लक्षणप्रतिपदोक्तपरिभाषया ``पूर्वसदृश (पाoसूo2-1-31) इति समासो गृह्यते, न तु ``कर्तृकरणेकृता (पाoसूo2-1-32) इत्यादिरपि। तेन `त्वयका कृतं त्वकत्कृतम्' इत्यादौ निषेधो न। समास इत्यनुवर्त्तमाने पुनः समासग्रहणं गौणार्थस्यापि सङ्ग्रहार्थम्। तेन समासार्थवाक्येऽपि निषेधः। मासेन पूर्वाय। अयं च लौकिके वाक्ये निषेधो न तु ``न बहुव्रीहौ (पाoसूo 1-1-29) इतिवदलौकिके, अकारान्ते कालचोरविशेषेणानकारान्तानां प्रतिपदोक्ततृतीयासमासविरहेण चालौकिके नि,ेधस्य वैयर्थ्यापत्तेः।
द्वन्द्वे च (पाoसूo1-1-31)। इहोक्तसंज्ञा न स्यात्। पूर्वापराधराणाम्। समुदायस्यायं निषेधो न त्ववयवानाम्। तथाहि, त्यदादीनां तावद् द्वन्द्व एव नास्ति ``त्यदादीनि सर्वैर्नित्यम् (पाoसूo1-2-72) इत्येकशेषेण बाधितत्वात्। न च द्वन्द्वे कृते एकशेष इति भ्रमितव्यम्, एकवद्भावस्वरसमासान्तप्रसङ्गेन द्वन्द्वापवादत्वपक्षस्यैव स्थापयिष्यमाणत्वात्। अन्यथा `तेषाम्' इत्यादावपि ``द्वन्द्वे च (पाoसूo1-1-31) इति निषेधापत्तेश्च। त्यदादिभ्यः प्राचीनास्त्वदन्ताः तत्र काकचोरविशेषः। ``सर्वनाम्नो वृत्तिमात्रे (भाoइo) इति पुंवद्भावस्त्विष्यते एवदक्षिणोत्तरपूर्वाणामिति। किञ्च सर्वनामसंज्ञानिषेधेनाप्यसौ दुर्वारः। तत्र हि मात्रग्रहणं क्वचित्सर्वनामत्वेन दृष्टानां सम्पत्यसर्वनामत्वेऽपि पुंवद्भावः। नन्ववयवे सञ्ज्ञा चेन्न निषिद्धी तर्हि `अङ्गधिकारे तस्य च तदुत्तरपदस्य च' (पाoभाoएo29) इति वचनाद् `दक्षिणोत्तरपूर्वाणाम्' इत्यादौ सुडागमादिप्रसङ्गः। न च निषेधवैयर्थ्यम् अनाङ्गस्य त्रलादेर्व्यावृत्त्या चरितार्थत्वांदिति चेत्? न, अङ्गकार्येषु सर्वनाम्नो विहितस्यामो ङेर्ङसिङयोरित्यादिक्रमेण व्याख्यानात्। विहितविशेषणत्वस्याश्रयणे प्रमाणं तु `दक्षिणोत्तरपूर्वाणाम्' इति भाष्यप्रयोग एव। तस्मात्समुदायस्यैवायं प्रतिषेधो नावयवानामिति स्थितम्। अत एव सर्वनामसञ्ज्ञायां तदन्तविधिसद्भावे ``द्वन्द्वे च (पाoसूo 1-1-31) इति ज्ञापकमित्युक्तम्।
विभाषा जसि (पाoसूo1-1-32)। जसीति कार्यापेक्षयाऽधिकरणसप्तमी। जसाधारं यत्कार्य्यं शीभावाख्यं तत्र कर्तव्ये द्वन्द्वे उक्ता संज्ञा वा स्यात्। वर्णाश्रमेतरे। वर्णाश्रमेतराः। शीभावं प्रत्येवेयं विभाषेति व्याख्यातम्। तेनाकच् न भवति तस्मिन्कर्त्तव्ये ``द्वन्द्वे च (पाoसूo1-1-31) इति नित्यं निषेधात्। अतस्तत्र कप्रत्यय एव भवति। वर्णाश्रमेतरकाः। केन व्यवधानान्नेह शीभावः अकचि कृते तु तन्मध्यपतितन्यातेन शीभावः स्यादेव।
प्रथमघरमतयाल्पार्द्धकतिपयनेमाश्च (पाoसूo1-1-33)। एते जसः कार्यंप्रति सर्वनामसञ्ज्ञा वा स्युः। प्रथमे, पथमाः, इत्यादि। शेषं रामवत्। नेमे, नेमाः शेषं सर्ववत्। इहापि प्राग्वच्छीभावं प्रत्येव सञ्ज्ञाविकल्पः। तेन `प्रथमकाः' इत्यादावकज् न। अन्यथा `प्रथमके' इति स्यात्। उभयशब्दस्य तु नेयं विभाषा किन्तु नित्या संज्ञेति गणव्याख्याप्रसङ्गेनोपपादितम्।
पूर्वपरावरदक्षिणोत्तरापरधराणि व्यवस्थायामसंज्ञायाम् (पाoसूo1-1-34)।
स्वमज्ञातघनाख्यायाम् (पाoसूo1-1-35)। अन्तरं बहिर्योगोपसंव्यानयोः (पाoसूo1-1-36)। एषा त्रिसूत्री गणमध्येऽपि पठ्यते। सा च व्याख्याता। तया यस्मिन्नेवोपाधौ नित्या संज्ञा प्राप्ता तत्रैव जसि विभाषाऽनया विधीयते। पूर्वे, पूर्वाः, इत्यादि। स्वे, स्वाः, आत्मीया इत्यथेः, आत्मान इति वा। इह त्रिसूत्र्यां यद्वक्तव्यं तत्सर्वं गणव्याख्यावसर एवोक्तम्। ``विभाषाप्रकरणे तीयस्य ङित्सूपसंख्यानम् (काoवाo)। द्वितीयस्मै, द्वितीयाय, इत्यादि। एकादेशस्य पूर्वान्तग्रहणेन ग्रहमाल्लिङ्गविशिष्टपरिभाषया वा द्वितीयस्यै, द्वितीयायै, इत्याद्यपि सिद्धम्। एवञ्च ``विभाषा द्वितीयातृतीयाभ्याम् (पाoसूo7-3-105) इति सूत्रं न कर्त्तव्यं भवति, अर्थवत्वात्, प्रातेपदोक्तत्वाच्चा ``द्वेस्तीयः (पाoसूo5-2-54) ``त्रेः सम्प्रसारणं च (पाoसूo5-2-55) इत्ययमेव गृह्यते। तेनेह न-``प्रकारवचने जातीयर् (पाoसूo5-3-69) पटुजातीयाय। ``जात्यन्ताच्छ बन्धुनि (पाoसूo5-4-9) ब्राह्मणजातीयाय। मुखपार्श्वशब्दाभ्यां तसन्ताभ्यां ``गहादिभ्यस्च (पाoसूo4-2-137) इति छः, मुखतीयाय। पार्श्वतीयाय। तथा `द्वितीयाय भागाय' इत्यत्रापि न भवति ``पूरणाद्भागे तीयादन् (पाoसूo5-3-48) इत्यनि कृते ``यस्येति च (पाoसूo6-4-148) इत्यवाकलोपे च सति तीयस्य लाक्षणिकत्वादिति दिक् ।। इति सर्वनामसंज्ञाप्रकरणम् ।।
स्वरादिनिपातमव्ययम् (पाoसूo 1-1-37)। स्वरादयो निपाताश्चाव्ययसंज्ञाः स्युः। ``प्राग्रीश्वरान्निपाताः (पाoसूo1-4-56) इत्यारभ्य ``अधिरीश्वरे (पाoसूo1-4-97) इत्येतत्पर्यन्तं ये वक्ष्यन्ते ते निपाताः। नन्वेवं चादिष्वेव स्वरादयोऽपि पठ्यन्तां, प्रकृतसूत्रं च त्यज्यताम्, अव्ययप्रदेशेषु निपातशब्देनैव व्यवहियतामिति चेत्? न, चादीनां ह्यसत्त्ववाचिनामेव निपातसंज्ञा। यथा ``लोधं नयन्ति पशु मन्यमानाः इत्यत्र सम्यगरथस्य पशुशब्दस्य, न तु सत्ववाचिनाम् यथा ``पशूस्तांश्चक्रे वायव्यान् (ऋoवेo) इत्यादौ। स्वरादीनां तु सत्त्ववचनानामव्ययसंज्ञेष्यते। ``स्वस्ति वाचयति ``स्वः पश्य इति यथा। अथ ``प्राग्रीश्वरान्निपाताः ``स्वरादिनि ``चादयोऽसत्त्वे इति कुतो न सूत्रितमिति चेत्? न, एवं हि सति ``निपात एकाजनाङ (पाoसूo1-1-14) इति प्रगृह्यसंज्ञा स्वरादीनामप्येकाचां प्रसज्येन। स्तो हि स्वराविषु ``किमोऽत् (पाoसूo5-3-12) ``दक्षिणादाज् (पाoसूo5-3-36)इत्येकाचौ तद्धितौ। केन्प्रभृतयस्तु कृत एकाचः। यदि तु ``चादिरेकाजनाङ् इति क्रियते, तदा चादीनामसत्त्ववचनत्वं विशेषणं न लभ्यते। ततश्चास्यापत्यमिर्मदनस्तस्य सम्बोधनम् ``ए अव इत्यत्र प्रगृह्यत्वं स्यात्। ननु ``चादयोऽसत्त्वे (पाoसूo1-4-57) इत्यत्रासत्वइति पाठविशेषणम्। तथाहि, चादय इति योगो विभज्यते। चादयो निपातसंज्ञाः स्युः। ततो ऽसत्वे। इह शास्त्रे चादयो ऽसत्त्वे ज्ञेयाः। ततश्च चादीनां सत्त्ववाचिनां पाठात्पर्युदासस्तेन `ए अव' इत्यादौ न दोषः। एवं चोबे संज्ञे न? कर्तव्ये अव्ययं, निपाता इति। किन्तु ``प्राग्रीश्वरान्निपाताः इति वा``अव्ययानि इति वा सूत्र्यताम्। ततः स्वरादीनि। ``तद्धितश्चासर्वविभक्तिः (पाoसूo1-1-38) इत्यादि ``अव्ययीभावश्च (पाoसूo1-1-41) इत्यन्तं सूत्र्यताम्। ततः ``चादयोऽसत्त्वे (पाoसूo1-4-57) इत्यारभ्य यावद् ``अधिरीश्वरे (पाoसूo 1-4-97) ``विभाषा कृञि (पाoसूo1-4-98) इति। तत्र यस्मिन्प्रदेशे निपातग्रहणंतत्र चादिग्रहणमस्तु, अव्ययप्रदेशेऽव्ययग्रहणं वेति। उच्यते, अव्ययसंज्ञाविरहेऽन्वर्थसंज्ञाबललभ्यं वक्ष्यमाणप्रयोजनं न सिद्धेत्। निपातसंज्ञाविरहे तु शान्तनवाचार्यप्रणीतस्य ``निपाता आद्युदात्ताः (फिoसूo4-80) इति फिट्सूत्रस्य विषयविभागो न लभ्येत। अथ फिट्शिट्नबादिशब्दानामिव निपातशब्दस्याप्यन्यत एवार्थाध्यवसायः तर्ह्यव्ययसंज्ञामात्रेण निर्वाहः सुकर एवेत्यवधेयम्।
महासंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्तं न व्येति विविधं विकारं न गच्छति, सत्त्वधर्मान् लिङ्गसंख्याकारकादीन्न गृह्णातीति यावत्। तेनो पसर्जनप्रतिषेधः सिद्धः। अत्युच्चैसौ, अत्युच्चैस इति। अतिक्रान्तप्रधानत्वेन सत्त्वधर्मपरिग्रहान्नेहाव्ययसज्ञा। ननु स्वरादिषूच्चैःशब्दः पठ्यते, तत्र कथं तदन्तस्व संज्ञेति चेत् ? न, अन्वर्थसंज्ञयैव तदन्तविदेरपि ज्ञापनात्। अन्यथोपसर्जने प्रसङ्गाभावेन तन्निवृत्त्यर्थायास्तस्या वैयर्थ्यापत्तेः। तेन `परमस्वः, `परमोच्चैः'इत्यादौ स्वरादिप्राधान्येऽप्ययत्वं सिद्धम्। अव्ययसंयज्ञाया अन्वर्थत्वमार्थर्वणे प्रणवविद्यायां श्रुतिरपि दर्शयति--
सहृशं त्रिषु लिह्गेषु सर्वासु च विभक्तिषु। वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ।। इति ।।
एतेषु यन्न व्येति किन्तु सदृशमेकप्रकारं तदव्ययमिति योजना। यद्वा, यस्मान्न व्येति तस्मादव्ययमिति। त्रिषु लिङ्गेषु सदृशं लिङ्गविशेषप्रतिपादने सामर्थ्याबावादिति भावः। विभक्तिषु कारकेषु वचनेषु चैकत्वादिसंख्यास्वव्ययीभावस्य यद्यपि लिङ्गकारकसंख्यायोगोऽस्ति तथापि वचनादव्ययत्वम्।
अथ स्वरादयः--- स्वरिति स्वर्गपरलोकयोः। स्वर्गे-छायैव या स्वर्जलदेर्जलेषु। (माoतृo35)। परलोके- ``स्वर्यातस्य ह्यपुत्रस्य इति। अन्तरिति मध्ये। अन्तर्बाष्पश्चिरमनुचरः। (मेoपूo3) प्रातरिति प्रत्यूषे। प्रातः संध्यामुपासीत। एते त्रयोऽन्तोदात्ता इति काशिका। तच्चिन्त्यं, स्वः शब्दस्य स्वरितत्वात्। तथा च फिट्सूत्रम्--``न्यङ्स्वरौ स्वरिनौ (फिoसूo4-74) इति। प्रयोगश्च--``अन्तरिक्षमथो स्वः। यत्तु प्रातःशब्द आद्युदात्त इति कश्चित्। तन्न, ``प्रातरग्नि प्रागरिन्द्रं हवामहे इत्यादावन्तोदात्तस्यैव प्रसिद्धतरत्वात्।
पुनरित्याद्युदात्तोऽप्रथमे विशेषे च। अप्रथमे पुनरुक्तम्। विशेषे-किं पुनर्बाह्मणाः पुण्याः। सनुतरित्यन्तर्द्धाने। सनुतश्चोरो गच्छति। उच्चैरिति महति। नीचैरित्यल्पे। शनैरिति क्रियामान्द्ये। ऋधगिति सत्ये। वियोगशीघ्रसामीप्यलाघवेष्वित्यन्ये। ऋते इति वर्जने। युगपदित्येककाले। आराद् दूरसमीपयोः। पृथगिति भिन्ने। एते सनुतर्प्रभृतयो नवान्तोदात्ता इति काशिका। ``शनैश्चिद्यन्तो अद्रिवः ``ऋधगित्था समर्त्यः इत्यत्र तु शनैर्ऋधक्शब्दावाद्युदात्तौ प्रयुज्येते। ह्यसिति अतीतेऽह्नि। श्वोऽनागतेऽह्नि। दिवेति दिवसे। रात्राविति निशि। सायमिति निशामुखे। चिरमिति बहुकाले। मनागिति ईषदर्थे। ईषदित्यल्पे। जोषमिति सुखमौनयोः। तूष्णीमिति मौने। बहिस् अवस् इत्येतौ बाह्ये। समयेति समीपे। मध्ये च ग्रामं समया। निकषेत्य्तिके। विलङ्घ्य लङ्कां निकषा इनिष्यति। स्वयमित्यात्मनेत्यर्थे। स्वयं कृतम्। वृथेति व्यर्थे। नक्तमिति रात्रौ। नञिति निषधे। हेताविति निमित्तार्थे। इद्धति प्राकाश्ये। अद्धेति स्फुटावधारणयोः। तत्त्वातिशययोरित्येके। सामीत्यर्द्धजुगुप्सितयोः। एते ह्यस्प्रभृतयः साम्यन्ता द्वाविंशतिरन्तोदात्ता इति काशिका। ``दिवा चित्तमः कृण्वन्ति, ``वृथा सृजत्यर्थिभिः ``नक्तं ददृशे कुह चिद्देवेषु इत्यादौ तु आद्युदात्ताः प्रयुज्यन्ते। वत्। वत्प्रत्ययान्तमव्ययसंज्ञं स्यात्। ब्राह्मणवत् ``तेन तुल्यम् (पाoसूo5-1-115) इत्यादिभिर्विहितो वतिरिह गृह्यते न तु ``उपसर्गाद्धात्वर्थे इति विहितः, अत्त्वार्थकत्वात्। यदुद्वतोनिवतो यासि वप्सत्। सनेति नित्ये। सना तात इन्द्रः, सनातनः। सनत्। इदमपि नित्ये। सनत्कुमारः। तिरसित्यन्तद्धौ तिर्यगर्थे च। तिरोहितः। तिरःकाष्ठं कुरु। परिभूते तु लक्षणा। तिरस्कृतोरिरिते यथा। सनेत्यादयस्तिरोन्ता आद्युदात्ता इति काशिका। ``सनाच्च होता नव्यश्चसत्सि ``तिरः पूरुचिदश्विना इत्यादौ त्वन्तोदात्तं प्रयुज्यते। अन्तरेत्यन्तोदात्तो मध्ये विनार्थे च। त्वां मां चान्तरा कमण्डलुः। त्वामन्तरा तामरसायताक्षि। अन्तरेणेति वर्जने। अन्तरेण हरिं न सुखम्। ज्योगिति कालभूयस्त्वे प्रश्ने शीघ्रार्थे सम्प्रत्यर्थे च। कमिति वारिमूर्द्धनिन्दासुखषु। वारिणि--कञ्जं पद्मम्। मूद्र्ध्निकञ्जः कचाः। निन्दायां-कन्दर्पः। सुके-कंयुः। शमिति सुखे। शंकरः सहसेत्याकस्मिकाविमर्शयोः। ``दिवः प्रसूनं सहसा पपात ``सहसा विदधीन न क्रियाम् (किo2-30) स्वधेति पितृदाने। अलामिति भूषणपर्याप्तिशक्तिवारणानिषेधेषु। भूषणे-अलङ्कारः। पर्याप्तौ-अलमस्य धनम्। बव्हित्यर्थः। शक्तौ-अलं मल्लो मल्लाय, शक्त इत्यर्थः। वारणे-अलमतिप्रसङ्गन। निषेधे--- आलप्यालमिदं बभ्रोर्यत्स दारानपाहरत्। (माoद्विo4o) न वक्तव्यमित्यर्थः। वषडिति हविर्दाने। विनेति वर्जने। नानेत्यनेकविनार्थयोः। नानाभृतं देहभृतां समाजम्। नाना रीतिर्निष्फला लोकयात्रा। स्वस्तीति मङ्गले। अन्यदित्यन्यार्थे। देवदत्त आख्यातोऽन्यच्च पज्ञदत्त इति। अस्तीति सत्तायाम्। अस्तिपरलोक इति मतिरस्यास्तिकः। उपांश्विवति अप्रकाशोच्चारणरहस्ययोः। क्षमेति क्षान्तौ। क्षमा करोतु भवान्। विहायसेति वियदर्थे। विहायसा रम्यमितो विभाति। दोषेति रात्रौ। मृषामिथ्येत्येतौ वितये। मुधेति व्यर्थे। क्त्वातोसुन्कसुनः। कृन्मकारसंध्यक्षरान्ताः। अव्ययीभावश्च। इदं गणसूत्रत्रयम्। अष्टाध्यायीस्थात्रिसूत्र्या समानार्थम्। वैसर्थ्यं तूद्धरिष्यते। पुरेति अविरते चिरातीते भविष्यदासन्ने च। पुराधीते। अविरतमपाठीदित्यर्थः। ``पूरि लुङ् च (पाoसूo3-2-122) इति लट्। चिरातीते--पुरापि नवं पुराणम्। पुरेदमूद्र्ध्वं भवतीति वेधसा। समनन्तरं भविष्यतीत्यर्थः। स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा। (अoकोo3-3-261) इत्यमरः।
मिथो इति रहःसहार्थयोः। मन्त्रयन्ते मिथो।
मिथसित्यपि पूर्ववत्। प्रायसिति बाहुल्ये। मुहुसिति पुनरर्थे। प्रवाहुकमिति समकाले उर्ध्वार्थे च। केचित्तु प्रवाहिकेति पठन्ति। आर्यहलमिति बलात्कारे। शाकटायनस्त्वाह-आर्येति प्रतिबन्धे, हलमिति प्रतिषेधविवादयोरिति। अभीक्ष्णमिति पौनःपुन्ये। साकं सार्द्धमित्येतौ सहार्थे। नप्तासिति नतौ। हिरुगिति वर्जने। धिगिति निन्दाभर्त्सनयोः। तसिलादिस्तद्धित एधाच्पर्यन्तः। शस्तसी, कृत्वसुच्, सुच्, आस्थालौ, च्व्यर्थाश्चेति। तसिलादिरित्यादेरयमर्थः--``पञ्चम्यास्तसिल् (पाoसूo5-3-7) इत्यारभ्य ``एधाच्च (पाoसूo5-3-46) इत्येतदेतैः सूत्रैरुक्तो यस्तद्धितस्तदन्ताः स्वरादिषु बोद्धव्याः। तथाच ``बव्ह*पार्थाच्छस् (पाoसूo5-4-42)। ``प्रतियोगे पञ्चम्यास्तसिः (पाoसूo5-4-44)। ``क्रियाभ्यावृत्तिगणने कृत्वसुच् (पाoसूo5-4-17)। ``द्वित्रिचतुर्भ्यः सुच् (पाoसूo5-2-18)। ``इण आसिः (उoसूo4-671) इत्युणादिसुत्रेण आसिप्रत्ययो विहितः। `अयाः' इत्युदाहरणम्। ``प्रत्नपूर्वविश्वेमात्थाल् छन्दसि (पाoसूo5-3-111)। ``सम्पद्यकर्त्तरि च्विः (पाoसूo5-4-50)। ``विभाषा सातिकार्त्स्न्ये (पाoसूo5-4-52)। ``देये त्रा च (पाoसूo5-4-55)। एतदन्ता अपि ग्राह्याः। अम् इति ``अमु च छन्दसि (पाoसूo5-4-12) इति विहितः। आमित्यङ्गीकारे। आम् कुर्मः। ``किमोत्तिङव्ययधादाम् (पाoसूo5-4-11) ``कास्प्रत्ययादाममन्त्रे लिटि (पाoसूo3-1-35)। इत्यपीति केचित्। प्रतामिति ग्लानौ। प्रशानिति समानार्थे। प्रशान् देवदत्तो यज्ञदत्तेन। प्रतानिति विस्तारे। मा इति निषेधे। मा भवतु मा भविष्यति। माङिति निषेधाशङ्कयोः। मा कार्षीत्। अस्य पापं मा भूदिति। आकृतिगणश्चायम्। तेनान्येऽपि ग्राह्याः। तद्यथा-अमिति शैघ्र्ये अल्पे च। काममिति स्वाच्छन्द्ये। प्रकाममित्यतिशये। भूय इति पुनरर्थे। साम्प्रतमिति न्याय्ये। परमिति किन्त्वर्थे। गुणवानसि परमहंकारी। साक्षादिति प्रत्यक्षे। साचीति तिर्यगर्थे। सत्यमित्यर्द्धाङ्गीकारे। मङ्क्ष्विति शैध्र्ये। आश्विवति च। संवदिति वर्षे। अवश्यमिति निश्च ये। सपदि शैघ्र्ये। बलवदित्यतिशये। बलवदपि शिक्षितानाम्। प्रादुस् आविस् इति प्रकाशे। अनिशं नित्ये। नित्यदा, सदा, अजस्रं, सन्ततम् एते सातत्ये। उषेति रात्रौ। उषातनो वायुः। रोदसी द्यावापृथिव्यर्थे। ओमिति ब्रह्मवाची। भूर्भुवरिति पृथिव्यन्तरिक्षलोकयोः। भूर्लोकः। भुवर्लोकः। झटिति झगिति तरसा शैघ्र्ये। द्राक् द्रुतं शैघ्र्ये, क्षिप्रमिति च। अतिवेत्यतिशये। सुष्टु इति प्रशंसायाम्। कु इति कुत्सितेषदर्थयोः। कापथः, कवोष्णम्। अञ्जसेति तत्त्वशीघ्रार्थयोः। अ इति बहिरर्थे। मिथु इति द्वावित्यर्थे। मिथु मन्त्रयेते। विश्वगिति समन्तात् भावे। भाजगिति शैघ्र्ये। भाजक्पचति। अन्वगित्यानकूल्ये। चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः। (अoकोo3-4-1) आद्यशब्दाच्चिरं चिरेण चिरादिति गृह्यन्ते। अस्तमिति विनाशे। आनुषगित्यानुपूर्व्ये। आनुषक् प्रविशतीह बन्धुता। अनुमानेऽनुषगिति शाकटायनः। आनुषदिति दान्तं केचित्। अम्नस् इति शीघ्रसाम्प्रतिकयोः अम्न एव गच्छति। अम्नरेवेति रेफो वा। स्थाने इति युक्तार्थे। वरमिति हि ईषदुत्कर्षे। दुष्टुनिष्कृष्टार्थे। बलादिति हठार्थे। शु इति पूजायाम्। शूनाशीरः। क्षमेति क्षान्तौ। अर्वागिति प्राचीने। शुदि शुक्लपक्षे। वदि कृष्णपक्षे। इति स्वरादिः।
तद्धितश्चासर्वविभक्तिः (पाoसूo1-1-38)। तद्धितान्तः शब्दोऽव्ययं स्यात्। यस्मात्सर्वा वचनत्रयात्मिका विभक्तिर्नोत्पद्यते कितन्त्वेकवचनम्। ततः, तत्र। तद्धित इति किम्? एकः, द्वौ, बहवः। अस र्वविभक्तिरिति किम्? औपगवः। ननु `गोदौ' `वरणाः' इत्यादावतिव्याप्तिः। न च ``लुब्योगाप्रख्यानात् (पाoसूo1-1-54)। ``कयोगप्रमाणे च तदभावे दर्शनं स्यात् (पाoसूo1-2-55) इति पठतः सूत्रकृतो मते नैते तद्धितान्ता इति वाच्यम्, एवमपि पञ्चैव पञ्चकाः शकुनयः, उभयो मणिः। पचतिकल्पं, पचतिरुपं, इत्यादावतिव्याप्तेर्दुर्वारत्वादिति चेत्? अत्राह वार्त्तिककारः--``सिद्धन्तु पाठात्। तसिलादयः प्राक्पाशपः शस्प्रभृतयः प्राक् समासान्तेब्यः। मान्तः कृत्वोर्थः। तसिवती, नानाञौ इति। न च ``इवे प्रतिकृतौ (पाoसूo5-3-111) इति विधानात्तदन्तस्यासङ्ग्रह इति वाच्यम्, ``प्रकारवचने थाल् (पाoसूo5-3-33) इति प्रकरण एव ``प्रत्नादिभ्य इवे थाल् छन्दसि ``प्रकारवचनैरिदमस्थमुः इति पठितुं शक्यत्वात् स्वरादिगणे आस्थालाविति पाठेन सिद्धत्वाच्च। मान्त इति। आम् अम् चेत्यर्थः। तसि-``प्रतियोगे पञ्चम्यास्तसिः (पाoसूo5-4-44)। ``तेनैकदिक् (पाoसूo4-3-112)``तसिश्च (पाoसूo4-3-113) इति द्वावपि गृह्येते।
स्यादेतत्। सूत्रमते कथमुक्तिसम्भवः यावता ``कर्मणि द्वितीया (पाoसूo2-3-2)। ``द्व्येकयोर्द्विवचनैकवचने (पाoसूo1-4-22) इत्यादीनां स्वादिवाक्येनैकवाक्यतापक्षेऽव्ययेभ्यः स्वादीनां प्राप्तिरेव नास्ति। ``अव्ययादाप्सुपः (पाoसूo2-4-82) इति ज्ञापकेन तु सर्वा विभक्तयः। उच्यन्ते, अव्ययेभ्यः सप्तानामपि विभक्तीनां त्रीण्यपि वचनानि, तथा सप्तानामप्येकवचनान्येव, अथवा प्रथमाया एव वचनत्रयम्, यद्वा प्रथमाया एकवचनमेवेति पक्षचतुष्टयं यद्यपि ग्रन्थेषूपलभ्यते; तथापि प्रथमैकवचनमात्रमेवेति चतुर्थपक्षएव क्षोदक्षमः। तमे व गृहीत्वा सूत्रस्याप्युक्तिसम्भवः स्पष्टः। इतरत्तु पक्षत्रिकमभ्युच्चयवादमात्रेणोपन्यस्यते न तु तात्त्विकम्। तथाहि, यदि कर्मणि द्वितीयैव, अभिहिते प्रथमैव, एकत्वे एकवचनमेवेत्यादिरर्थनियमः। यदि वा द्वितीया कर्मण्येवेत्यादिः प्रकृतार्थापेक्षो विभक्तिनियमः। यदि वा एकवाक्यत्वे सामान्यापेक्षवचनविभक्तिनियमेऽपि वा ``अव्ययादाप्सुपः (पाoसूo2-4-82) इति सामान्यापेक्षज्ञापकाद्विभक्तिसिद्धिस्तदा अविशेषात् सप्तानामपि विभक्तीनां त्रीण्यपि वचनानीति पक्षो लभ्यते। यदा तु द्वित्वे द्विवचनमिति सूत्रयित्वा एकवचनमित्येव पृथक्सूत्र्वते। तदन्यथानुपपत्त्या च कर्मण्येव द्वितीया न करणादौ द्वित्वबहुत्वयोरेव द्विवचनबहुवचने न त्वेकत्वे इत्यादिक्रमेण सजातीयापेक्षो नियमः। ततश्चाव्ययेभ्यः सकलविभक्तिप्राप्तावेकवचनमित्यनेन नियमः क्रियते। यत्रैकवचनं चान्यच्च प्राप्नोति तत्रैकवचनमेवेति। यदि वा सामान्यापेक्षनियमाश्रयणादव्ययादप्राप्तावेकवचनमिति सूत्रं क्रियते तस्य च ``ङयाप्प्रातिपदिकात् (पाoसूo4-1-1) इत्यनेनैकवाक्याता। तता च ङ्याबादिभ्यः कर्मादिष्वेकवचनं सिद्धमेवेति। एतत्सूत्रबलादव्ययेभ्व एव भवती तिङन्तात्तु न भवति। एकवचनमित्यस्याप्राप्तप्रापणार्तत्वेऽपि ङ्याप्सूत्रेणैवाक्यत्वात् प्रदेशान्तरे पाठसामर्थ्याञ्च। स्वातन्त्र्येणापि ङ्याप्सूत्रं विधायकमिति द्वित्वे द्विवचनमित्यादेर्नियामकत्वं सङ्गच्छते। तदाव्ययेभ्यः सर्वाण्येकवचनानीति द्वितीयः पक्षोलभ्यते। यदा तु द्वितीया कर्मण्येवेत्यादिः सामान्यापेक्षः ग्रत्ययनियमोऽव्य,ेब्यस्तु प्रथमैव। प्रथमा प्रातिपदकार्थे एवेति नियमेन हि कर्माद्याधिक्यस्थले एव सा निवार्य्यते। ``द्व्येकयोः (पाoसूo1-4-22) इति तु वथान्यासमेव तत्र चैकत्वे एवैकवचनं न संख्यान्तरे इति सजातीयापेक्षप्रत्ययनियमपक्षस्तदा निः संख्येब्योऽव्ययेभ्यः प्रथमाया वचनत्रवमपि भवतीति तृतीयः पक्षो लभ्यते। त्रिष्वप्यमीषु पक्षेषु `पचतिकल्पं' `पचतिरुपम्' इत्यादौ दोषः। तत्र हि प्रथमैकवचनमात्रमिष्यते। उक्तपक्षत्रयेऽप्यधिकं प्राप्नोति। तस्माद् द्वितीयपक्षरीत्या सकलैकवचनानि प्रापय्यैकवचनमित्येकत्वस्य विवक्षितत्वात् प्रथमातिक्रमे कारणाभावात्प्रथमैकवचनमेव कर्त्तव्यमिति सिद्धान्तः। एवञ्च सत्यपि सूत्रस्योक्तिसम्भवे `पचतिरूपम्' इत्यादावतिव्याप्तिभयात्परिगणनमेव कर्त्तव्यं सूत्रं तु न कर्त्तव्यमिति स्थितम्।
कृन्मेजन्तः (पाoसूo1-1-39)। कृद्यो मान्त एजन्तश्च तदन्तमव्ययसंज्ञे स्यात्। स्वादुङ्कारं भुङ्क्ते। वक्षेरायः। ``तुमर्थेसे (पाoसूo3-4-9) इति वधेः सेप्रत्यये रूपम्। नन्वेवं `कारयांचकार' इत्यामन्तस्य न प्राप्नोति, अत्रातिह्भावितया लिटः कृत्वेपि मान्तत्वाभावात्। सत्यम्, स्वरादिष्वामिति पाठात्सिद्धम्। यदि तु तत्र तद्धितस्यैव ग्रहणं तर्हीहकृदन्तत्वादुत्पन्नानामपि सुपाम् ``आमः (पाoसूo 2-4-81) इति लुग् भविष्यति। तत्र हि लेरिते नानुवर्त्तते। न चैवं तरबादेरपि लुगापात्तिः अपरिसमाप्तार्थतया तरबाद्युत्पत्तेरेवाभावात्। अपरिसमाप्तार्थत्त्वं च संख्याकर्त्रादिविषयकोत्थिताकङ्क्षत्वम्। अत एवानुप्रयोगः प्रार्थ्यते। आमन्तार्थगतप्रकर्षादिप्रतीतिस्तु अनुप्रयोगादुत्पन्नेन तरबादिना भविष्यति। अत एव सूत्रितं ``कृञ्चानुप्रयुज्यते (पाoसूo3-1-40) इति। अनुशब्दो हि व्यवहितस्य विपरीतस्य च प्रयोगनिवृत्तये इति वक्ष्यते। यद्वा, पूर्वसूत्रोक्तनिष्कर्षरीत्या आमन्तात् सोरेवोत्पत्तौ हल्ङ्यादिलोपो भविष्यति। अस्तु वा कृदन्तं यन्मेजन्तमिति वाक्यार्थः। आमन्तं हि प्रत्ययलक्षणेन कृदन्तं, श्रूयते च मान्तम्। न चैवं `प्रतामौ' `प्रतामः' `लवमाचक्षाणेन लौः' इत्यादावतिप्रसङ्ग इति वाच्यम्, स्वरादिषु प्रशान्शब्दस्य पाठेन धातोः प्रत्ययलक्षणेन कृदन्तत्वमुपजीव्याव्ययसंज्ञा न भवतीति ज्ञापितत्वात्। न च ``मोनोधातोः (पाoसूo8-2-64) इति नत्वे कृते नैतन्मान्तमिति कथं ज्ञापकतेति वाच्यम्। नत्वस्यासिद्धत्वात्। न च ``शान तेजने (भ्वाoउo995) इत्यस्यार्थान्तरवृत्तित्वे शानयतीत्यादिप्रयोगसिद्ध्यर्थं चुरादित्वस्वीकारेण नित्यसन्नन्तत्वाभावात्तस्यैवायं स्वरादिषु पाठ इति वाच्यम्, अनभिधानात्, तस्मात्क्विपोनुत्पत्तेः। अत्र च ज्ञापकत्ववर्णनपरं भाष्यमेव प्रमाणम्। अव्ययमित्यन्वर्थसंज्ञाबलादसत्त्वार्थस्य साम्यवाचिन एव प्रशान्शब्दस्य तत्र ग्रहणं न तु शान्तिमद्वाचकस्य। तेन `प्रशामौ' `प्रशामः, इत्युदाहरणं न विरुध्यते। स्वस्त्यादीनां तु सत्त्ववाचिनामपि पाठसामर्थ्यादव्ययत्वमिति विशेषः। अन्तग्रहणसामर्थ्यान्नित्ययोगे बहुव्रीहिराश्रीयते। तेनौपदेशिक एज् गृह्यते। नेह--`आधये' `चिकीर्षवे' `कुम्भकारेभ्यः'। वस्तुतस्त्वन्तग्रहणं व्यर्थम्, लक्षणप्रतिपदोक्तपरिभाषयैवातिप्रसङ्गभङ्गात्। ननु वर्णग्रहणे इयं परिभाषा प्रवर्त्तते। अन्यथा ``एचोऽयवायावः (पाoसूo6-1-78) इत्यादावतिप्रसङ्गादिति चेत्? न, एवमपि बहिरङ्गपरिभाषया ``सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य (पoभाo86) इति परिभाषया वेष्टसिद्धेः। अयमत्रार्थः--सन्निपातः संश्लेषः, तन्निमित्तो यो विधिः स तद्विधातस्यानिमित्तम्। तं सन्निपातं यो विहन्ति स तद्विघातस्तस्येत्यर्थः। एवञ्च सुप्सन्निपातलक्षणस्य ``घेर्ङिति (पाoसूo7-3-111) इति गुणस्य ``बहुवचने झल्येत् (पाoसूo7-3-103) इत्येत्वस्य चाव्ययसंज्ञां प्रति निमित्तत्वं नेत्यवधेयम्। तथा परिभाषायाःक प्रयोजनान्तराण्यपि सन्ति दिङ्भात्रं तूच्यते, श्रीपं कुलं तस्मै श्रीपायेत्यत्रातो लोपो न भवति। तथा आगव्यीत्, अनाव्यीत्, ``यस्य हल (पाoसूo6-4-49) इति लोपो न। तथा अतिजरं कुलम्, अतिजरेण, अतिजरैः, अतिजराद् इत्यत्र अम् इन ऐस् आत् इत्येतेषु अकारमुपजीव्य कृतेषु सत्सु जरसादेशो न भवतीत्यादि। अनित्या चेयं परिभाषा ``कष्टाय क्रमणे (पाoसूo3-1-14) ``न यासयोः (पाoसूo7-3-45) इत्यादि ज्ञापकात्। तेन `अग्निमान्' इत्यत्र ``हस्वनुड्भ्यां मतुबु (पाoसूo6-1-176) इत्यन्तोदात्ताद्ध्रस्वान्तात् परस्य मतुप उदात्तत्वे कृते शेषनिघातेन प्रकृतेरनुदात्तत्वं भवत्येवेति दिक्। `गौः'`ग्लौः'`नौः' इत्यत्र नेदं सूत्रं प्रवर्त्तते उणादीनामव्युत्पन्नत्वात्। व्युत्पत्तिपक्षेऽपि ``च्विरव्ययम् (उoसूo2-233) इत्युणादिसूत्रेण डौडौप्रत्ययान्ताश्च्व्यन्ता एवाव्ययमिति नियमस्य कृतत्वात्।
क्त्वातोसुन्कसुनः (पाoसूo1-1-40)। एतदन्तमव्ययं स्यात्। कृत्वा। पुरासूर्य्यस्योदेतोः। पुरावत्सानामपाकर्त्तोः। ``भावलक्षणेस्थेण् कृत्र्वदिचरिहुतमिजनिभ्यस्तोसुन् (पाoसूo3-4-16)। पुराक्रूरस्य विसृपो विरप्शिन्। पुरा जत्रुभ्य आतृदः। ``सृपितृदोः कसुन् इति कसुन्।
अव्ययीभावश्च (पाoसूo1-1-40)। अथमव्ययसंज्ञः स्यात्। विष्यपरिगणनं कर्त्तव्यम्-लुकि मुखस्वरोपचारयोर्निवृत्तौ चेति। उपाग्नि, प्रत्यग्नि, ``अव्ययादाप्सुपः (पाoसूo2-4-82) इति सुपो लुक् उपाग्नि मुखः, प्रत्यग्नि मुखः। ``मुखं स्वाङ्ग्म् (पाoसूo6-2-167) इत्युत्तरपदान्तोदात्तत्वे प्राप्ते ``नाव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः (पाoसूo6-2-168) इति प्रतिषेधः। तथाच ``बहुव्रीहौ प्रकृत्या (पाoसूo6-2-1) इति पूर्वपदप्रकृतिस्वर एव भवति। पूर्वपदं च समासस्वरेणान्तोदात्तम्। विसर्गस्थानिकस्य सकारस्योपचार इति प्राचां संज्ञा। तन्निवृत्तौ यथाउपपयः कारः, उपपयः कामः। इह ``अतः कृकमि (पाoसूo8-3-46) इति प्राप्तं सत्वम् ``अनव्ययस्य (काoवाo) इति पर्युदस्यते। इह मुखस्वरनिवृत्तिरेव मुख्यं प्रयोजनम्। लुक् तु ``नाव्ययीभावादतः (पाoसूo2-4-83) इतिक विसेषप्रतिषेधात् सिद्धः। उपचारनिवृत्तिरपि न प्रयोजचनम्। ``अतः कृकमि (पाoसूo8-3-46) इत्यत्रानुत्तरपदस्थस्येत्यनुवृत्त्यैव तत्सिद्धे। परिगणनं किम्? उपाग्न्यधीयान। पराङ्गवद्भावेन षाष्ठम् ``आमन्त्रितस्य च (पाoसूo6-1-198) इत्याद्युदात्तत्वं यथा स्यात्। तत्र ह्यव्ययानां प्रतिषेध उपसंख्यात उच्चैरधीयानेत्यादौ मा भूदिति। तथा ``उपाग्निकम् इत्यादौ ``अव्ययसर्वनाम्नाम् (पाoसूo5-3-71) इत्यकज् न। उपकुम्भम्मन्यः, ``खित्यनव्ययस्य (पाoसूo6-3-66) इत्यनुवर्तमाने ``अरुर्द्विष (पाoसूo6-3-67) इति मुम्प्रतिषेधो न। उपकुम्भीभूतः ``अस्य च्वौ (पाoसूo7-4-32) इत्यस्यौपसंक्यानिकः प्रतिषेधो न भवति। वस्तुतस्त्विदं सूत्रं न कर्त्तव्यम्, लुक उपचारनिवृत्तेश्चान्यथोपपत्तेरुक्तत्वात्। मुखस्वरनिवृत्तिः परमवशिष्यते। तत्र केचिदाहुः-मुखस्वरोऽत्रेष्यते एव। यद्येतावत् प्रयोजनं स्यात् तत्रैवायं ब्रूयान्नाव्ययीभावाच्चेतीति भाष्यस्वरसादिति। अन्ये तु क्नव्ययमव्ययं भवतीत्यन्वर्थसंज्ञाविज्ञानादेव मुखस्वरनिवृत्तिर्भविष्यतीति।
स्यादेतत्। स्वरादित्वेनैव सिद्धत्वात् ``तद्धितश्च (पाoसूo1-138) इत्यादिचतुःसूत्री व्यर्था। तत्र हि ``तसिलादिस्तद्धित एधाच्पर्यन्तः इत्यादीना ``च्व्यर्थास्च इत्यन्तेन आसिमौणादिकं वर्जयित्वा ``तद्धितश्चासर्वविभक्तिः (पाoसूo1-1-38) इत्यस्यार्थः सङ्गृह्यते। ``कृन्मकारसन्ध्यक्षरान्तः इत्यनेन ``कृन्मेजन्तः (पाoसूo1-1-39) इत्यस्यार्थः सङ्गृह्यते। क्त्वातोसुन्कसुनः (पाoसूo1-1-40) ``अव्ययीभावश्च (पाoसूo1-1-41) इति सूत्रद्वयं तु स्वरूपेणैव पठ्यते इति। अत्राहुः, पुनर्वचनमनित्यत्वज्ञापनार्थम्। तेन प्रागुक्तं ``लुङ्मुखस्वरोपचाराः इति परिगणनं लभ्यते। ``न लोकाव्यय (पाoसूo2-3-69) इत्यात्राव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेध इति वक्ष्यमाणं च लभ्यते इति। वस्तुतस्तु मास्तु चतुःसूत्री, ``अव्ययीभावश्च (पाoसूo1-1-41) इति तु गणेऽपि मास्तु, उक्तरीत्याऽन्वर्थसंज्ञैव सिद्धेः। ``तोसुन्कसुनोरप्रतिषेदः इत्येव लाघवात् पठ्यतामिति युक्तःक पन्थाः। शि सर्वनामस्थानम् (पाoसूo1-1-42)। शि इत्येतत्सर्वनामस्थान संज्ञं स्यात्। वारीणि; ``सर्वनामस्थाने चासम्बुद्धौ (पाoसूo6-4-8) इति दीर्घः। यदि तु प्रदेशेष्वेव ``शौ च इत्याद्युच्येत तर्हि सुटि न स्यात्। अथ ``शिसुटोः इत्त्युच्येत तर्हि नपुंसकसुटोऽपि ग्रहणं स्यात्। शिग्रहणं तु शसर्थं स्यात्। तस्मात्संज्ञा तावत्प्रणेया। सहासंज्ञाकरणं तु पूर्वाचार्यानुरोधात्।
सुडनपुंसकस्य (पाoसूo1-1-43)। सुडिति प्रत्याहारः। नपुंसकभिन्नस्य स्वादिपञ्चवचनानि उक्तसंज्ञानि स्युः। राजा, राजानौ, राजानः, इत्यादि। प्राग्वद्दीर्घः। अनपुंसकस्येति किम्? सामनी ``विभाषा ङिश्योः (पाoसूo6-4-136) इत्यल्लोपाभावे दीर्घो न भवति। अनपुंसकस्येति पर्युदासस्तेनास्य सूत्रस्य स्त्रीपुंसयोरेव प्रवृत्तिरिति नपुंसके न विधिर्नापि प्रतिषेधः। तेन `वनानि सन्ति' इत्यत्र पूर्वसूत्रेण प्राप्ता संज्ञाभवत्येव। प्रसज्यप्रतिषेधे तु सोऽपि निषिध्येत। यद्यपि ``अनन्तरस्य विधिर्वा भवती प्रतिषेधो वा इति समाधातुं शक्यते तथापि असमर्थ समासो वाक्यभेदश्चेतिक गौरवं स्यादेव। यद्वा सुट्स्त्रीपुंसयोरिति वक्तव्येऽनपुंसकस्येति सूत्रयतः प्रसज्यप्रतिषेध एव सम्मतः। गौरवं च प्रामाणिकम्। ेतेन हि केचिन्नञ्समासा असामर्थ्येऽपि साधव इति ज्ञाप्यते। तेन `अश्राद्धभोजी ब्राह्मणः' इत्यादि सिद्धं भवति।
नवेति विभाषा (पाoसूo1-1-44)। इतिशब्दः काकाक्षिन्यायेनो भाभ्यां सम्बध्यते। स च पदार्थविपर्यासकृत्। तेनार्थ एवेह संज्ञी संज्ञा च। निषेधविकल्पयोर्विकल्पसंज्ञा स्यात्। न च तयोरपदार्थतयाऽनन्वयप्रसङ्गः। एतत्सूत्रारम्भसामर्थ्यादेव विधिवाक्येषु विकल्पवाचिपदस्य लाक्षणिकत्वात्। उभयत्रविभाषार्थं चेदं सूत्रम्। प्राप्तविभाषायामप्राप्तविभाषायां च नास्योपयोगः। तथाहि, ``विभाषोपपदेन प्रतीयमाने (पाoसूo1-3-77)। इति प्राप्तविभाषा। तत्र ``स्वरितञितः (पाoसूo1-3-72)। इत्यादिना नित्यमात्मनेपदे प्राप्ते विभाषाश्रुत्या पक्षे तन्निवृत्तिमात्रं क्रियते, पक्षे भवतीति त्वनुवादः। तथा ``विभाषोर्णोः (पाoसूo1-1-3) इत्यप्राप्तविभाषा। `और्णुवीत्' इत्यत्र परत्वात् ``सार्वधातुकमपित्(पाoसूo1-2-4) इति नित्याङित्वाभ्युपगमात्। तत्र `ऊर्णविता' इत्यादावभावांशस्य स्थितत्वाद्भावांशमात्रपरता ``विभाषा श्वेः (पाoसूo6-1-30) इत्युभयत्रविभाषायां तु यदि विधिमुकेन प्रवृत्तिस्तर्हि पित्स्वेव विकल्पः स्यात्, कित्सु तु यजादित्वान्नित्यभेव स्यात्। अथ प्रतिषेधमुखेन प्रवृत्तिस्तर्हि कित्स्वेव विकल्पः स्यान्न तु पित्सु। न च पित्सु विधिमुखेन, कित्सु निषेधमुखेनेत्युभयथापि प्रवृत्ति रस्त्विति वाच्यम्, वैरूप्यलक्षणवाक्यभेदापत्तेः। सञ्ज्ञाकरणे तु सतिश्रुतक्रमानुरोधेन नेति निषेधः प्रथमं कित्सु प्रवर्त्तते ततः किदकिद्रूपे सर्वस्मिन् लिटि ऐकरूप्यं प्रापिते सति पक्षे भवतीत्यैकरूप्येण विधिमुखेनैव विकल्पः प्रवर्तते। आकृतौ पदार्थे समुदाये सकृल्लक्षणं प्रवर्त्तते इति दर्शने इदं सूत्रमारभ्यते।
यदा तु प्रतिलक्ष्यं ``विभाषा श्वेः (पाoसूo6-1-30) इत्येतद्भिद्यते, तदा क्वचिद्विधिमुखेन क्वचिन्निषेधमुखेन प्रवृत्तेः सम्भवान्नेधं सूत्रमारम्भणीयम्। तथाच वार्तिकम्-अशिष्यो वा विदितत्वादिति। वस्तुतस्त्वाकृतिपक्षेऽपि प्रदेशेष्वेव, नवा श्वेरित्यादि पठित्वेदं सूत्रं प्रत्याख्यातुं शक्यम्। युक्तं चैतत्। अन्यथाऽन्यार्थमप्यारब्धा सञ्ज्ञा ``विभाषोर्णोः (पाoसूo1-2-3) इत्यत्र प्रवर्त्तेत। ``प्रतिषेधाश्च बलीयांसो भवन्ति इति `और्णुवीत्' इत्यत्रापि ``सार्वधातुकमपित् (पाoसूo1-2-4) इत्यस्य निषेधस्ततो विकल्पश्च स्यात्। नन्वारभ्यमाणे सूत्रे नवेत्यखण्डनिपातस्यार्थो निषेध एव सञ्ज्ञीति किं न स्यादिति चेत्? न, तथा सति ``न बहुव्रीहौ (पाoसूo1-1-29) इत्यनेनैव सिद्धौ ``विभाषा दिक्समासे (पाoसूo1-1-29) इत्यस्य वैयर्थ्यापत्तेः। इतीति किम्? घुसंज्ञावत् ``स्वंरूपम् (पाoसूo1-1-68) इति वचनाच्छब्दस्य सत्र्ज्ञा मा भूत्। तथाहि सति ``विभाषा श्वेः (पाoसूo 6-1-30) इत्यस्य नवाशब्दः श्वयतेरादेश इत्यर्थः स्यात्। इतिशब्दे तु सत्यर्थः सञ्ज्ञीति लभ्यते। तथाहि, लोके ह्यर्थप्रधानः शब्दः `गौरित्ययमाह' इत्यादौ तु शब्दस्वरूपपरः सम्पद्यते। व्याकरणे तु ``स्वंरुपम् (पाoसूo1-1-68) इति परिभाषणात् स्वरूपपरत्वमौत्सर्गिकम्। इतिशब्दसमभिव्याहारे त्वर्थपरतेति विशेषः। अर्थस्यैव सञ्ज्ञात्वमपि, न तु विभाषाशब्दस्येत्युक्तम्। तेन ``हृक्रोरन्यतरस्याम् (पाoसूo1-4-53) इत्यादावपि वैरूप्योद्दारो बोध्यः। एतत्प्रसङ्गेन त्रिविधा अपि विभाषाः प्रायेण भाष्ये विवेचिताः। तत्राप्राप्तविभाषामध्ये ``ग्रोयङि (पाoसूo8-2-20) ``अचिविभाषा (पाoसूo8-1-21) इति पठितम्। अत्र वदन्ति--अप्राप्तविभाषेयमिति सत्यं, किन्तु त्रिसंशया इत्युपक्रम्य प्राप्तेऽप्राप्ते उभयत्र वेत्येवंरूपकोटित्रयप्रकारकसंशयविषयीभूतानामेव व्युत्पाद्यमानत्वादत्रापि कोटित्रययस्योक्तिसम्भवो वक्तव्यः। स च दुर्वचः। तथाहि, `निजेगिल्यते' इत्यत्र ``ग्रो यङि (पाoसूo8-2-20) इति नित्यं लत्वं विभाषायास्तु तत्र प्राप्तिरेव नास्ति। `गिलति' `गिरत' इत्यादौ तु विभाषा, ``ग्रोयङि(पाoसूo8-2-20) इत्यस्य तु प्राप्तिरेव नास्ति। तत् कुतः प्राप्तविभाषापक्षः? अतोच्येत--``अचि विभाषा (पाoसूo8-2-21) इत्यत्र यङीत्यनुवर्त्य यङ्निमित्तस्य रेफस्याचि अनन्तरे वा लत्वमिति व्याख्यानादस्त्येवोक्तिसम्भव इति। तन्न, निजेगिर् य अच् इति स्थिते हि ``ग्रो यङि (पाoसूo 8-2-20) इति प्राप्नोति। न चास्यामवस्थायां कविबाषायाः प्राप्तिः, अच्परत्वाभावात् अथ ब्रूयाः विभाषारम्भसामर्थ्याद्यङ्लुकः पूर्वं ``ग्रो यङि (पाoसूo 8-2-20) इति न भवतीति, एवमप्युभयत्रविभाषात्वं दुर्लभमेव। `गिलति' `गिरति' इत्यादौ विभाषायाश्चरितार्थत्वेन यङ्लुकः प्रागेव ``ग्रो यङि (पाoसूo8-2-20) इत्यस्य प्रवृत्तेरुभयोरसमानकालिकत्वात्। न च लत्वस्यासकिद्धतया ततः प्रागेव लुगिति वाच्यम्, अन्तर्भूतयङपेक्षत्वेनान्तरङ्ग लत्वम् प्रति बहिर्भूताच्प्रत्ययापेक्षत्वेन बहिरङ्गस्य लुकोऽसिद्धत्वात् पूर्वा भावेन ``पूर्वत्रासिद्धम् (पाoसूo 8-2-1) इत्यस्याप्रवृत्तेरिति। अत्रोच्यते-प्राप्तविबाषात्वे तावत् समनन्तरोक्तरोक्तरीत्यैवोक्तिसम्भवः। उभयत्रविभाषात्वे त्वित्थम् - ``अन्तरङ्गानपि (पाoभाo52) इति न्यायेन लत्वात् पूर्वं लुक्। न च लुङ्निमित्तमजेव दुर्लभः, तस्यार्थापेक्षत्वेन बहिरङ्गतयाऽसिद्धत्वात् पूर्वाभावेन ``पूर्वत्रासिद्धम् (पाoसूo8-2-1) इत्यस्याप्रवृत्तेः। तथाचाचः पूर्वमेव लत्वं स्यादिति वाच्यम्, कृतितुग्विधिग्रहणेन हि बहिरङ्गपरिभाषाया अनित्यत्वज्ञापनात् धर्मिग्राहकप्रमाणेन लुक इव तदुपजीव्यानां समासादीनामपि प्राबल्यसिद्देश्च। ननु कृतेऽचि तन्निमित्ते लुकि च सति निजेगिर् अच् इति स्थिते ``ग्रो यङि (पाoसूo 8-2-20) इति न प्राप्नोति, यङ्परत्वाभावात्। प्रत्ययलक्षणं तु ``न लुमता (पाoसूo2-3-69) इति निषिद्धम्। तत्र ह्यङ्गस्येत्यनेनाङ्गाधिकारो न निर्दिश्यते इति वक्ष्यते। न च स्थानिवद्भावः लुका लुप्तं न स्थानिवदिति निषेधात् अज्ज्ञलादेशः त्वाच्च। तथा च कथमुभयत्र विभाषेति चेत्? न, नदातुलोपसूत्र प्रत्याख्यानपक्षे पृथगल्लोपाश्रयणेव स्थानिवद्भावसम्भवात्। न च ``पूर्वत्रासिद्धे न स्थानिवत् (भाoइo) इति निषेधः ``तस्य दोषः संयोगादिलोपलत्वणत्वेषु (भाoइo) इति सापवादत्वात्। यद्यपि ``अचिविभाषा (पाoसूo8-2-21) इत्यस्य ``पूर्वत्रासिद्धम् (पाoसूo8-2-1) इति ``ग्रो यङि (पाoसूo8-2-20) इति प्रत्यसिद्धत्वाद्विप्रतिषेधासम्भवः। ततश्च सत्यामपि यङीत्यस्य निवृत्तावुभयत्रविबाषात्वं न सम्भवति। तथापि `अधुना' इत्यादिवल्लाधवार्थं `अमुना' इतेयेव वक्तव्ये ``न मुने (पाoसूo8-2-3) इत्युक्तेर्योगविबागार्थतया न योगे योगोऽसिद्धः किन्तु प्रकरणे प्रकरणमिति चासिद्धत्वं न भवतीत्याशयेनोभयत्रविबाषात्वे उक्तिसम्भवो बोद्धव्यः। सिद्धान्ते तु विभाषाया असिद्धत्वादेव नित्यं लत्वं समुदायलोपवादिनां तु मते अजपेक्षयान्तरङ्गत्वान्नित्यं लत्वमिति व्यवस्थितविभाषेति वा समर्थयितव्यम्।
इति श्रीशब्दकौस्तुभे प्रथमस्याध्यास्य प्रथमे पादे षष्ठमान्हिकम् ।।
----***----