शब्दकौस्तुभः/अध्यायः २-पादः ३/आह्निकम् १

शब्दकौस्तुभः
आह्निकम् १
[[लेखकः :|]]
आह्निकम् २ →


।। तृतीयपादे प्रथममान्हिकम् ।।
(अष्टाoसूo2-3-1)
अनभिहिते(अष्टाoसूo2-3-1)। अधिकारोऽयम्। तिङ्कृत्तद्धितसमासैरिति वक्तव्यम्(काoवाo)। तेन तिङाद्युक्ते कर्मणि द्वितीया न। तिङ्सेव्यते हरिः। कृत-कृतः कटः। तद्धितं-शतेन क्रीतः-शत्यः, शतिकः। "शताच्च ठन्यतावशते"(अष्टाoसूo5-1-21)समासः-प्राप्तमुदकं वं प्राप्तोदको ग्रामः। परिगणनं किम्? कटं करोति भीष्ममुदारम्। इह विशेष्यात्कटादुत्पन्नया द्वितीयया गतार्थत्वाद्विशेषणात् द्वितीया न स्यात्। परिगणनसामर्थ्यात्तु भवति।
स्यादेतत्। कटोपि कर्म भीष्मादयोऽपीति पक्षे सर्वेभ्यो द्वितीया उचितैव। अरुणैकहायनीन्यायेन हि पार्ष्णिकः परस्परावच्छेदः। अत एव हि `सकृल्लवौ' इत्यादौ कारकपूर्वत्वप्रयुक्तो यण् सिध्यति। "पूरणगुण"(अष्टाoसूo2-2-11)इत्यत्र समानाधिकरणग्रहणाज्ज्ञापकात्। अभेदान्वयस्थले विशेष्यविभक्तिर्विशेषणादपि भवतीति पक्षेऽप्येवम्। सकृल्ल्वाविति तु कारकेणाभेदेनान्वयवतो विशेषणस्यापि कारकत्वानपायात्समाधेयम्। तस्मान्नार्थः परिगणनेन। किञ्चानभिहिताधिकारेणापि नार्थः। नहि `कटः कृतः' इत्यादावतिव्याप्तिः, क्तप्रत्ययेनैव कर्मत्वस्योक्तत्वात् उक्तार्थानामप्रयोगात्। तद्यथा `बहुपटुः' इत्यादौ बहुचोक्तार्थत्वान्न कल्पबादयः। किं च `कटं करोति' इत्यादौ सावकाशा द्वितीया `कृतः कटः' इत्यादिषु प्रथमया बाधिष्यटते, निरवकाशत्वात्। न च `वृक्षः' `प्लक्षः' इत्यादिरवकाशः, तत्रापि प्रतीयमानास्तिक्रियां प्रति कर्तृत्वेन तृतीयाप्रसङ्गात्। अथ नीलमिदं न तु रक्तमित्यादौ विशेषणान्तरनिवृत्तितात्पर्यकेऽप्यस्तिक्रियाया अनावश्यकत्वात् प्रथमाया अवकाशं ब्रूषे; विप्रतिषेधात् प्रथमाऽस्तु। न च ततोऽपि परत्वात् षष्ठीप्रसङ्गः, अशेषत्वात्।
उच्यते, परिगणनं तावत्प्रत्याख्यातमेव भाष्ये। सूत्रं तु `कर्तव्यः कटः' इत्यादिसिद्धये। इह हि प्रथमां बाधित्वा "कर्तृकर्मणोः कृति(अष्टाoसूo2-3-65)इति षष्ठी स्यात्। न च कृत्येनोक्तार्थत्वान्नेह षष्ठीति वाच्यम्, संख्या विभक्त्यर्थ इति पक्षे सूत्रारम्भात्। कर्मणि यदेकत्वं तत्र कृद्योगे षष्ठ्येकवचनमिति हि वाक्यार्थः। तथाच षष्ठीवाच्यस्य कर्मैकत्वादेः कृत्येनानुक्तत्वाद् दुर्वारा षष्ठी। कारकं विभक्त्यर्थ इति पक्षे तु मास्तु सूत्रमिति स्थितम्।
आरब्धे तु सूत्रे पर्युदासोऽयं, न तु प्रसज्यप्रतिषेधः, असमर्थसमासापत्तेः वाक्यभेदापत्तेश्च। `प्रासादे आस्ते' इत्यत्र सदिक्रियाया आसिक्रियायाश्चैकमधिकरणं प्रासादाख्यं, तच्च सदेः परेण घञा अभिहितमिति सप्तमीनिषेधापत्तेश्च। पर्युदासे तु आसिक्रियानिरूपितमधिकरणशक्तिमनभिहिताभाश्रित्य सप्तमीविधिः प्रवर्त्तते। आसने आस्ते शयनेशेते इत्यादौ तु लटः प्रकृतिभ्यां क्रियोपस्थितौ तद्योग्यम् अनुद्‌भूतशक्तिकं प्यक्रियानिरूपितशक्त्युद्भवप्रतिपादनाय सप्तमीति दिक्।
स्यादेतत्। यद्ययं पर्युदासस्तर्हि `पक्त्वौदनो भुज्यते' इति न सिद्ध्येत्। भुजिप्रत्ययेनाभिहितेप्योदने क्त्वाप्रत्ययेनानभिधानमाश्रित्य द्वितीयापत्तेः। भावे हि क्त्वेति वक्ष्यते। प्रसज्यप्रतिषेधे तु भुजिप्रत्ययेनाभिधानमाश्रित्य प3सज्यप्रतिषेधः सुवचः। किन्तु प्रागुऊदोषानिस्तारः।
अत्रोच्यते। प्रधाननिरूपितशक्त्यभिधाने प्रथमैव, अभिहिते नेति प्रसज्यप्रतिषेधात्। `आसने आस्ते' `शयने शेते' इत्यत्र तु न प्रधानशक्तेरभिधानं; येन प्रथमा स्यात्। एतच्च "स्वादुमि णमुल्"(अष्टाoसूo3-4-26)इति सूत्रे कैयटादौ स्पष्टम्। हरिरप्याह-
प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक्।
शक्तिर्गुणाश्रया तत्र प्रधानमनुरुधअयते।।
प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते।
यदा, गुण तदा तद्वदनुक्तापि प्रतीयते।। इति।
पर्युदासेप्यनभिहितां प्रधानशक्तिमाश्रित्यैव विधिः प्रवर्त्तते। एतेन`पक्वं भुङ्क्ते' `दत्तं गृह्णाति' इत्यादि पक्षद्वयेऽपि समर्थितं भवति। वस्तुतस्तु `पक्त्वा भुज्यते' इत्यादौ ओदनस्य पचिभुजिभ्यां न युगपच्छाब्दोऽन्वयबोधः। किन्त्वन्यतरेण शाब्दः, अपरेणार्थः। तत्र च प्रथमाद्वितीययोर्व्यवस्थैव। पक्त्वा भुज्यते ओदनः। अर्थादोदनमेव प्रक्त्वेति। नहीष्टकाः पक्त्वेत्यादि सम्भवति। न चोपस्थितपरित्यागोऽनुपस्थितकल्पना च न्याय्या। ओदनं पक्त्वेति प्रयोगे तु भुज्यते इत्यत्रार्थी ओदनस्य कर्मता। अत एव `घटं कर्तुं शक्यते' इत्यपि भवत्येवेति पस्पशायां कैयटः। तस्मात्पर्युदासे एकवाक्यत्वं समाससौष्ठवं चेत्येव। गुणरूपन्तु पक्षद्वयेऽपि तुल्यामिति स्थितम्। एतेन-
विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम्।
इति व्याख्यातम्। साम्प्रतमिति निपातेनाभिहितत्वात्। युक्तमिति हि तदर्थः। परिगणनं तु प्रत्याख्यातमेव।
इह हरदत्तेन भाट्टमते कारकवशिष्टा संख्या विभक्त्यर्थ इत्युक्तं तत्तु कर्त्रधिकरणस्थयथाश्रुतभाष्यस्वरसमनुसृत्य कथञ्चिन्नेयम्। वस्तुतस्तु भाट्टमते प्रकृत्यर्थेन संख्यया च करणत्वादिशक्तयो विशेष्याः। अत एवैकशक्तिक्रोडीकृतानेकाविधिस्तत्रतत्र स्वीकृत इति दिक्।।
(अष्टाoसूo2-3-2)
कर्मणि द्वितीया(अष्टाoसूo2-3-2)। द्वितीयादयः शब्दाः सुपां त्रिकेषु वर्त्तन्ते "समं स्यादश्रुतत्वात्"(जैoसूo10-3-13-53)इति न्यायात् पूर्वाचार्यव्यवहाराच्च। इह स्वादिसूत्रेणैकवाक्यतया विधिः, भिन्नवाक्यतया नियमो वा। सोऽपि प्रकृतानर्थानपेक्ष्य प्रत्ययनियमो वाऽर्थनियमो वेति सर्वे पक्षाः साधवः उक्तं च--
सुपां कर्मादयोऽप्यर्थाः संख्या चैव तथा तिङाम्।
प्रसिद्धो नियमस्तत्र नियमः प्रकृतेषु च।। इति ।
व्याख्यातं चेदं प्रथमे। इह च तिङामिति स्वरसात्सुप्स्वपि कर्माद्येव वाच्यं न तु कर्मत्वम्। न च तिङ्ष्वपि कर्मत्वमेवार्थ इति वाच्यं, "तयोरेव"(अष्टाoसूo3-4-70)इत्युत्तरसूत्रेऽपि तथात्वापत्तौ `घटः कृतः' इत्यादावभेदान्वयानुपपत्तिप्रसङ्गात्। तथा च "लः कर्मणि"(अष्टाoसूo3-4-69)"कर्माणि द्वितीया"(अष्टाoसूo2-3-2)इति सूत्रस्वरसोऽपि सङ्गच्छते। घटमित्यत्र च घटः कर्मेत्यभेदान्वये आनयनादौ कर्मत्वेन संसर्गेण विशेषणत्वम्। तथाच प्रकारतया संसर्गविधया वेति द्विधा कर्मत्वादिभानमित्येकः पक्षः। "शक्तिः कारकम्" इति भाप्यस्वरसात्सैव वाच्येत्यपरः। अनन्यलभ्यस्य शब्दार्थतया आधार आधेयं वा द्वितीयाऽर्थः। `ओदनं पचति' इत्यत्र हि ओदनरूपो य आधारस्ताद्विशिष्टा विक्लित्तिर्भासते। वैशिष्ट्यं त्वाधेयता। ओदनाधेया वा विक्लित्तिरर्थः, आधेयरूपप्रत्ययार्थस्य प्रकृत्यर्थं प्रति विशेष्यत्वात्। आधेयत्वमेव च संसर्ग इति पक्षान्तरम्। आकृत्यधिकरणन्यायेनाधारत्वाधेयत्वे एवार्थे इति चापरम्। संसर्गा एवैते। तात्पर्यग्राहिका एव परं विभक्तय इति मतान्तरम्। सर्वेप्यमी पक्षा हेलाराजीयादौ तत्रतत्र स्थिता भाष्यादिसम्मताश्चेति दिक्। ओदनं पचतीत्यादौ।
उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु।
द्वितीयाम्रेडितान्तेषु ततोन्यत्रापि दृश्यते।।
अस्यार्थः-उभयशब्दसर्वशब्दयोस्तसिलन्तयोः प्रयोगे द्वितीया कार्या। उभशब्देन ह्युभयशब्दो लक्ष्यते, अन्यथा तसिलसम्भवात्। उभशब्दो हि द्विवचनटाब्विषय इत्युक्तम्। धिगित्यत्र सप्तम्या लुक्, "प्रकृतिवदनुकरणम्"(पाoभाo)इत्यतिदेशात्। न त्वविभक्तिकः। `गवित्ययमाह' इत्यत्र यथा पदान्तत्वाभावात् "लोपः शाकल्यस्य"(पाoसूo8-3-19)इत्यस्याप्रवृत्तिस्तथेह जश्त्वाप्रवृत्तिप्रसङ्गात्। न चायं गान्त एवेति वाच्यम्, "कस्य च दः"(पाoसूo5-3-72)इत्यस्याप्रवृत्तौ `धकित्' इत्यस्यासिद्धिप्रसङ्गात्। आम्रेडितान्तेष्विति। कृतद्विर्वचनोष्वित्यर्थः। उभयतः कृष्णं गोपाः। सर्वतः कृष्णम्। धिक् कृष्णाभक्तम्। उपर्युपरि लोकं हरिः। अध्यधि लोकम्। अधोधो लोकम्।-1--1.कथं बुद्धीनामिति षष्ठी उपपदविभक्तेर्द्वितीयायाः षष्ठ्यपवादत्वादित्यर्थः।-कथं तर्हि-
उच्यते, उपरिबुद्धीनां उत्तानुबुद्धीनामुपरि चरन्तीत्यर्थः। एवं चाम्रोडितान्तत्वाभावान्न द्वितीया। यद्वा, प्रतिपदोक्तस्य "उपर्यध्यधसः सामीप्ये"(पाoसूo8-1-7)इति कृतद्वित्वस्यात्र ग्रहणम्। तेन वीप्साद्विर्वचने सति नास्य प्रवृत्तिः। ततोऽन्यत्रापीत्युक्तम्, तान्परिगणयति वृत्तिकारः-अभितःपरितःसमयानिकषाहाप्रतियोगेपीति। अभितः कृष्णम्। उभयत इत्यर्थः। परितः कृष्णम्। सर्वत इत्यर्थः। "पर्यभिभ्याञ्च"(पाoसूo5-3-9)इति तसिल्। आभिमुख्यवृत्तिरपि विभक्तिप्रतिरूपको निपातोऽभितःशब्दोऽस्ति सोऽपीह गृह्यते। समयानिकषाशब्दौ समीपपर्यायौ। ग्रामं समया निक्रषा वा। हाशब्दः शोकवृत्तिः। हा कृष्णाभक्तम्, तस्य शोच्यते इत्यर्थः। षष्ठ्यपवादो द्वितीया। सम्बोधने त्वन्तरङ्गत्वात्प्रथमैव। हा तातेति यथा। एतेन धिङ्मूर्खेति प्रयोगो व्याख्यातः। बुभुक्षितं न प्रतिभाति किंचित्। एष प्रतिशब्दः क्रियाविशेषकत्वादुपसर्गो न तु कर्मप्रवचनीयः। एवमन्येऽपि दृशिग्रहणात्साधनीयाः। तद्यथा, चैत्रं यावच्छीतमिति। परमपुरुषाराधनमृते इति च। तथा च चान्द्रसूत्रम्--"ऋते द्वितीयाच" इति, चकारात्पञ्चमी। सा चास्मच्छास्त्रे "अन्यारात्"(पाoसूo2-3-29)इत्यनेन विधास्यते।।
(अष्टाoसूo2-3-3)
तृतीया च होश्छन्दसि(पाoसूo2-3-3)। जुहोतेः कर्मणि तृतीया स्याद् द्वितीया च छन्दसि। यवाग्वाग्निहोत्रं जुहोति। अग्निहोत्रशब्दोऽत्र हविषि वर्तते। "यस्याग्निहोत्रमधिश्रितम् अमेध्यमापद्यते" इत्यादिप्रयोगदर्शनात्। अग्नये हूयत इति व्युत्पत्तेश्च। जुहोतिः प्रक्षेपे। अस्मिन्नेव च प्रयोगे यवागूशब्दात्तृतीया, अग्निहोत्रशब्दाच्च द्वितीया। विरुद्धार्थकविभक्त्यनवरुद्धत्वान्नामार्थयोरभेदान्वयः। यवाग्वाख्यं हविरग्नौ देवतोद्देशेन त्यत्क्वा प्रक्षिपतीत्यर्थः। एतत्सूत्रं भाष्ये प्रत्याख्यातम्। अग्निहोत्रशब्दो हि ज्योतिष्यपि वर्तते, अग्निहोत्रं प्रज्वलितमिति दर्शनात्। हूयतेऽस्मिन्निति व्युत्पत्तेश्च। जुहोतिश्च प्रीणने। तद्यदा यवागूशब्दात्तृतीया तदा यवाग्वाग्निं प्रीणयतीत्यर्थः। यदा तु द्वितीया तदा यवाग्वाख्यमग्निहोत्रं हविर्द्रव्यं प्रक्षिपतीत्यर्थ इति।
मामांसकास्त्वाहुः-अग्निहोत्रशब्दः कर्मनामदेयम्, तत्प्रख्यं चान्यशास्त्रमिति न्यायात्। दृश्यते च स एष यज्ञः पञ्चविधोऽग्निहोत्रं दर्शपूर्वमासावित्यादि। एवं स्थिते भावार्थाधिकरणन्यायेन करणकोटिनिक्षिप्ते होमे सामानाधिकरण्यापन्नस्याग्निहोत्रस्य करणत्वात्तृतीयायां प्राप्तायां पक्षे द्वितीयार्थमिदं वचनमिति, तत्तु सूत्रसन्दर्भविरुद्धम्। कर्मणीति ह्यनुवर्तते।।
(अष्टाoसूo2-3-4)
अन्तरान्तरेम युक्ते(अष्टाoसूo2-3-4)। आभ्यां योगे द्वितीया स्यात्। अन्तराशब्दः सप्तम्यन्तस्य मध्य इत्येतस्यार्थे वर्तते। अन्तरेमशब्दस्तु तत्र च विनार्थे च। अन्तरा त्वां मां च हरिः।
मृणालसूत्रामलमन्तरेण स्थितश्चलच्चामरयोर्द्धयं स।
अन्तरेण हरिं न सुखम्। ननु मध्यस्यावध्यपेक्षतया यथावधिभूताभ्यां युष्मदस्मदर्थाभ्यां चामरद्वयेन च योगस्तथा आधेयेनापि सह। तस्मादाधेयादपि द्वितीया स्यात्। मैवम्, तत्रान्तरङ्गतया प्रथमाया एवोत्पत्तेः। तस्माद्विशेषणदियं षष्ठ्यपवादभूता द्वितीया न तु विशेष्यादपीति स्थितम्।
अथ टाबन्तेनान्तराशब्देन तृतीयान्तेनान्तरेणेत्यनेन च योगं कुतो नेति चेत्? प्रतिपदोक्ततया तयोरेवेह ग्रहणात् परस्परसाहचर्याच्च। तद्यथा-गुरुभार्गवावित्युक्ते ग्रहयोरेव प्रतीतिर्नत्वाचार्यपरशुरामयोः। तेन किमनयोरन्तरेण गतेनेति सिद्धम्। क्िमनयोर्विशेषेण ज्ञातेनेत्यर्थः। युक्तग्रह णान्नेह-अन्तरा त्वां मां च कृष्णस्य मूर्तिः। इह कृष्णान्न द्वितीया। अन्तरेत्यनेनानन्वयात्।
(अष्टाoसूo2-3-5)
कालाध्वनोरत्यन्तसंयोग(पाoसूo2-3-5)। इह द्वितीया स्यात्। मासमास्ते। यद्यपीह कर्मत्वादेव सिद्धम्। कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणामित्युक्तेस्तथाप सकर्मकार्थं गुणद्रव्याभ्यां योगार्थं चेदम्। मासमधीते। मासं कल्याणी। मासं गुडधानाः। क्रोशमधीते। क्रोशं कुटिला नदी। क्रोशं पर्वतः। अत्यन्तसंयोगें किम्? मासस्य द्विरधीते। "कृत्वोर्थप्रयोगे कालेधिकरणे" इति षष्ठी।
(पाoसूo2-3-6)
अपवर्गे तृतीया(पाoसूo2-3-6)। अपवर्गः फलप्राप्तिस्तस्यां द्योत्यायं कालाध्वनोरत्यन्तसंयोगे तृतीया स्यात्। अह्‌ना क्रोशेन वाऽनुवाकोऽधीतः। अपवर्गे किम्?मासमधीतो नायातः।
(पाoसूo2-3-7)
सप्तमीपञ्चम्यौ कारकमध्ये(पाoसूo2-3-7)। शक्तिद्वयमध्ये यौ कालाध्वानौ ताभ्यां सप्तमीपञ्चम्यौ स्तः। अद्य भुक्त्वायं द्व्यहे द्व्यहाद्वा भोक्ता। कर्तृशक्त्योर्मध्येयं कालः। इहस्थोयं क्रोशे क्रोशाद्वा लभ्यं विध्येत्। कर्तृकर्मणोर्मध्येयं देशः। कालाध्वभ्यां विभक्त्योर्यथासंङ्खयं न भवति, अस्वरितत्वात्।
(पाoसूo2-3-8)
कर्मप्रवचनीययुक्ते द्वितीया(पाoसाo2-3-8)। स्पष्टोऽर्थः। हरिं प्रति पर्यनु वा।
(पाoसूo2-3-9)
यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी(पाoसूo2-3-9)। कर्मप्रवचनीययुक्ते इत्यनुवर्तते। यस्मादधिकं तदस्मिन्नधिकमिति च निर्द्देशादधिकशब्दयोगे पर्यायेण पञ्चमीसप्तम्यौ स्तः। प्रकृतसूत्रार्थस्तु यस्मादधिकं यस्य चेश्वरवचनं कर्मप्रवचनीययुक्ते तत्र सप्तमी स्यात्। उपपरार्द्धे हरेर्गुणाः, परार्द्धादधिकः इत्यर्थः। ऐश्वर्ये तु स्वस्वामिनोः पर्यायेण सप्तमी। तथाहि, ईश्वर इत्युच्यते येन तदीश्वरवचनं ऐश्वर्यम्। अथवेश्वरशब्दो भावप्रधानः। यस्य स्वामिन ईश्वरत्वमुच्यते इत्यर्थः। अधवा यस्येति स्वं निर्द्दिश्यते यस्य स्वस्य ईश्वर उच्यते ततः स्वादित्यर्थः। पर्यायेण चेयं विभक्तिः शेषविषयकर्मप्रवचनीयविभक्त्यारम्भात् विशेषणोदेवोत्पन्नया सप्तम्या द्विष्ठस्यापि सम्बन्धस्याभिधानात्। प्रत्ययार्थस्य प्रकृत्यर्थं प्रति विशेष्यतया विशेषणादेव प्रत्ययौचित्याच्च। विशेष्यात्तु प्रथमैव। अधिरामे भूः। "सप्तमी शौण्डैः"(पाoसूo2-1-40)इति समासपक्षे तु रामधीनेति भवति। "अषडक्ष"(पाoसूo5-4-7)इत्यादिना खः। विभक्त्यर्थवृत्तित्वं त्वव्ययीभावः। अधिरामम्। स्वद्विभक्तौ अधिभुवि रामः। इह सूत्रे यस्यचेश्वरवचनमित्यंशः प्रत्या ख्यातो भाष्ये। तथाहि, स्वामिन्याधारे भूः स्थिता तस्यां च स्वामी तत्र यदा यदधिकरणत्वेन विवक्ष्यते तदा तत्र सप्तमी भविष्यति। एवं चाधिरीश्वरे इति संज्ञासूत्रमपि न कर्तव्यम्। न चागत्युपसर्गत्वबाधार्थं तत्। ऐश्वर्यविषयस्य अधेः क्रियायोगाभावेनैव तदप्राप्तेः। उत्तरार्थमिति चेत्तर्हि योगविभागो न कार्यः।
(पाoसूo2-3-10)
पञ्चम्यपाङ्परिभिः(पाoसूo2-3-10)एतैः कर्मप्रवचनीयैर्योगे पञ्चमी स्यात्। अपविष्णोः परिविष्णोः संसारः। अपेन साहचर्यात्परेर्वर्जनार्थस्य ग्रहणम्। तेन लक्षमादिषु न भवति। वृक्षं परि विद्योतते विद्‌युत्। आङ्मर्यादावचने। आपाटलिपुत्राद्वृष्टो देवः।
(पाoसूo2-3-11)
प्रतिनिधिप्रतिदाने च यस्मात्(पाoसूo2-3-11)। तत्र कर्मप्रवचनीययुक्ते पञ्चमी स्यात्। प्रद्युम्नः कृष्णात्प्रति। तिलेभ्यः प्रतियच्छति माषान्। इह सूत्रे अनेनैव यस्मादिति पञ्चमी।
(पाoसूo2-3-12)
गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि(पाoसूo2-3-12)अघ्वभिन्ने गत्यर्थानां कर्मणि एते स्तश्चेष्टायां सत्याम्। ग्रामं ग्रामाय वा गच्छति। गत्यर्थेति किम्? ओदनं पचति। कर्मणीति किम्? अश्वेन व्रजति। चेष्टायां किम्? मनसा हरिं व्रजति। अनध्वनीति किम्? पन्थानं गच्छंति। आस्थितप्रतिषेधो वक्तव्यः(काoवाo)। आस्थितः। सम्प्राप्तः। गन्त्रा अधिष्ठित इत्यर्थः। तेन यदा उत्पथात्पन्था एवाक्रमितुमिष्यते तदा भवत्वेव चतुर्थी। उत्पथेन पथे गच्छति। `अजान्नयति ग्रामम्' इत्यत्र तु न चतुर्थी, अगत्यर्थत्वात्। प्रतीयते ह्यत्र गतिः, न त्वसौ नयतेरर्थः, प्रापणवाचित्वात्। एवं स्त्रियं गच्छतीत्यत्रापि न चतुर्थी, असम्प्राप्तप्रेप्साभावात्। अनघ्वनीति ह्यपनीय असम्प्राप्त इति पूर्यते। द्वितीयाग्रहणमपवादविषयेऽपि यथा स्यात्, तेन कृद्योगलक्षणा षष्ठी न भवति। अन्वया चतुर्थीत्येव ब्रूयादिति वदन् वृत्तिकारो ग्रामं गन्तेति तृजन्तयोगे उदाजहार। इदन्तु भाष्यविरुद्धम्। तथाहि, सन्दशनादिभिराप्यमानत्वात्क्रियापि कृत्रिमं कर्मेति क्रिययाभिप्रेयमाणस्य सम्प्रदानत्वं सिद्धम्। सन्दर्शनादीनां गमनस्य च भेदाविवक्षायां तु द्वितीयापि सिद्धेति सूत्रमिदं प्रत्याख्यातं भाष्ये। एवं हि वदता कृद्योगे षष्ठ्येवेष्यते। अत एव "अकेनोः(पाoसूo2-3-70)इति `ग्रामं गामी' इत्युदाहृतं भाष्ये।
(पाoसूo2-3-13)
चतुर्थी सभ्प्रादाने(पाoसूo2-3-13)। स्पष्टम्। विप्राय गां ददाति। तादर्थ्य.े उपसंङ्ख्यानम्(काoवाo)। यूपाय दारु। इह दारुशब्दात् "हेतौ"(पाoसूo2-3-23)इति तृतीया तु न भवति। षष्ठीविषये हि सा। प्रातिपदिकार्थमात्रे प्रथमैव। ननूपसंख्यानस्यावश्यकत्वे सुत्रं व्यर्थमेवेति चेत्? न, हरये रोचते इत्याद्यर्थं तस्याप्यावश्यकत्वात्। क्लृपि सम्पद्यमाने च(काoवाo)। विकारवाचकाच्चुर्थीत्यर्थः। स हि सम्पद्यते प्रादुर्भवति। भक्तिर्ज्ञानाय कल्पते। प्रकृतिविकारयोर्भेदविवक्षायां चतुर्थी। अभेदविवक्षायान्तु प्रथमैव। भक्तिर्ज्ञानं कल्पते इति केचित्। अन्ये त्वभेदविवक्षायामपि चतुर्थीत्याहुः। जनिकर्तुरित्यपादानत्वविवक्षायान्तु पञ्चमी। भक्तेर्ज्ञानं कल्पते इति। केचित्तु तत्रापि चतुर्थीमिच्छन्ति। उत्पातेन ज्ञापिते च(काoवाo)। प्राणिनां शुभाशुभयोः सूचको भूतविकार उत्पातः। वाताय कपिला विद्युत्। हितयोगेच(काoवाo)।चतुर्थीसमासविधानाज्ज्ञाप्यते। ब्राह्मणाय हितम्।
(पाoसूo2-3-14)
क्रियार्थोपपदस्य च कर्मणि स्थानिनः(पाoसाo2-3-14)। उपपदं कृत्रिमन्तच्च क्रियार्थक्रियारूपं तुमुन्‌ण्वुलोरेव सम्भवतीति विशेषणमहिम्ना विशेष्यन्तुमुन् ण्वुलन्तमेव लभ्यते। अप्रयुज्यमानस्य कर्मणि चतुर्थी स्यात्। फलभ्यो याति, फलान्याहर्तुमित्यर्थः। स्थानिशब्दोऽप्रयुज्यमानपरतया वैयाकरणगृहे प्रसिद्धः।
(पाoसूo2-3-15)
तुमर्थाच्च भाववचनात्(पाoसूo2-3-15)। भाववचनाश्चेति सूत्रेण ये विहितास्तदन्ताच्चतुर्थी स्यात्। यागाय याति। पाकाप पचनाय भक्तये। भाववचनेनैव तादर्थ्यस्य द्योतितत्वात्तादर्थ्ये चतुर्थी न स्यादिति सूत्रारम्भः।
(पाoसूo2-3-16)
नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च(पाoसूo2-3-16)। एभिर्योगे चतुर्थी स्यात्। हरये नमः। उपपदविभक्तेः कारकविभक्तिर्बलीयसी, प्रधानभूताक्रियासबन्धस्यान्तरङ्गत्वात्। नमस्करोति देवान्। कथन्तर्हि-"नमश्चकार देवेभ्यः" इति, "रावणाय नमस्कृर्याः" इति च भट्टिः? अत्र माधवः-साक्षात्प्रभृतिषु पाठाद्वैकल्पिकं नमःशब्दस्य गतित्वम्। तत्र गति संज्ञापक्षे उपसर्गवद् द्योतकतया कृञ एव प्रमतिरर्थः। तत्कर्मणि द्वितीया नमस्यति देवानितिवत्। अगतित्वे तु करोतिक्रियाकर्मभावापन्नं विशेष्यभूतं प्रणाममाचष्ट इति देवादावकर्मणि नमः स्वस्तीति चतुर्थ्येवेति।
अत्रेदं वक्तव्यम्-उक्तरीत्या चतुर्थीसमर्थनेऽपि नमसो गतिसंज्ञाभावान्नमस्पुरसोर्गत्योरिति सत्वं न स्यात्। तथा च प्रयोगानिर्वाहस्तदवस्थः। तस्मात् क्रियार्थोपपदस्यचेति चतुर्थी बोध्या, देवान् प्रसादयितुमित्यर्थात्। वर्धमानस्तु-"श्राद्धाय निगल्भत" इतिवत्क्रियाग्रहणं कर्तव्यमिति चतुर्थीत्याह। प्रजाभ्यः स्वस्ति। अग्नये स्वाहा। पितृभ्यो स्वधा। अलं मल्लो मल्लाय। अलमिति पर्याप्त्यर्थग्रहणम्। तेन दैत्येभ्यो हरिरलं प्रभुः समर्थः शक्त इत्यादि। कथन्तर्हि-"प्रभुर्बुभूषुर्भुवनत्रयस्य"(मा.का.1.49)इति माघः। उच्यते, पर्याप्त्यर्थस्यैवालमो ग्रहइणं, न तु `अलं रोदनेन इत्यादौ वारणार्थस्यापीतिव्याख्यानान्तरं भाष्ये स्थितम्। एवञ्च व्याख्याभेदात्प्रभ्वादियोगे षष्ठ्यपि साधुः। अत एव सूत्रकारो द्वेधा निरदिक्षत्। तस्मै प्रभवति सन्तापादिभ्यः(पाoसूo4-1-101)सएषांग्रामणीः(पाoसूo5-2-78)इति च। तथाच भट्टिः-"नाप्रोथीदस्य कश्चन पुप्रोथास्मौ न कश्चन"इति। प्रोथृ पर्याप्तौ(भ्वाoउo867)इत्यस्य रूपम्। `अलंरोदनेन" इत्यत्र तु करणे तृतीया, रोदनेन न किंचित्साध्यमित्यर्थावगमात्। वषडिन्द्राय। चकारः पुनर्विधानार्थः। तेनाशीर्विवक्षायामपि षष्ठीं बाधित्वा चतुर्थ्येव भवति। स्वस्ति गोभ्यो भूयात्। अन्यथा स्वस्तियोगे चतुर्थ्या अवकाशः। स्वस्ति जाल्मायास्तीति। तत्त्वकथने कुशलार्थैराशिषीत्यस्यावकाशः स्वस्तिभिन्नाः कुशलार्थाः। उभयप्रसङ्गे परत्वात् पक्षे षष्ठी स्यात्।
(पाoसूo2-3-17)
मन्यकर्मण्यनादरे विभाषाऽप्राणिषु(पाoसूo2-3-17)। प्राणिवर्जे मन्यतेः कर्मणि चतुर्थी वा स्यात्तिरस्कारे। न त्वां तृणं मन्ये तृणाय वो। मन्यतिग्रहणं किम्? न त्वां तृणं चिन्तयामि। श्यना निर्देशान्नेह-नत्वां तृणं मन्वो मनु अवबोधने(तoआo1470)। तनादेरुः। न च मन्योतयका निर्द्देशः किं नस्यादिति वाच्यम्, अनभिहिते इत्यधिकारात्। न हि यका योगे अनभिहितं कर्म सम्भवति। श्यन्नपि दैवादिकधातूपलक्षममात्रं न तु स्वयं विवक्षितः। तेन-
तृणाय मत्वा रघुनन्दनोऽपि बाणेन रक्षः प्रधनान्निरास्थत्।
इति भट्टिप्रयोगः सङ्गच्छते। अनादरश्चात्र नादराभावमात्रमपि तु तिरस्कारः, कुत्सेति यावत्। अधर्मानृतादिवन्नञः प्रतिपक्षवाचित्वात्। स च द्वेधा-उत्कृष्टस्यापकृष्टेनोपमानात्। यथा तृणाय मत्वेति। तृणमिव मत्वेत्यर्थः। क्वचित्तु निषेधयोगेनोपमानायोग्यत्वप्रतीतेः। यथा-न त्वां तृणं मन्ये इति। तृणतुल्यमपि त्वां न मन्ये इत्यर्थः। इयांस्तु विशेषः अत्रात्यन्तमनादरः पूर्वत्र त्वनादरमात्रम्! उभयत्रापि सूत्रेण सिद्धम्।
वार्त्तिककारस्त्वाह-प्रकृष्य कुत्सितग्रहणं कर्तव्यमिति। यद्वाचिनश्चतुर्थी ततोऽपि यदि कुत्सा न तु साम्यमात्रं तदा चतुर्थीत्यर्थः। एवञ्च प्रतिषेधयुक्तायामेव कुत्सायां चतुर्थीविधानात् प्रागुक्तभट्टिप्रयोगो विरुध्यते सूत्ररीत्या तु सः। तथा चापिशलिरपि मन्यकर्मण्यनादर उपमाने विभाषा, प्राणिष्वित्यसूत्रयत्। अप्राणिष्वित्यपनीय अनावादिष्विति पाठ्यमिति भाष्यम्। नौकाकान्शुकशृगालाः नावादयः।(काoवाo)ते न त्वां शुने मन्ये इत्यत्र तु प्राणित्वेऽपि चतुर्थी भवत्येवेति दिक्। अनादरेति कर्मणो विशेषणम्। अनादरद्योतकं यत्कर्मेति। तेन तृणादेरेव चतुर्थी न तु युष्मदः, व्यवस्थितविभाषाविज्ञानाद्वा।
।। इति श्रीशब्दकौस्तुभे द्वितीयस्याध्यायस्य तृतीयपादे प्रथममान्हिकम् ।।