शब्दकौस्तुभः/अध्यायः २-पादः ३/आह्निकम् २

← आह्निकम् १ शब्दकौस्तुभः
आह्निकम् २
[[लेखकः :|]]
आह्निकम् ३ →

।। तृतीयपादे द्वितीयमान्हिकम् ।।
(पाoसूo2-3-18)
कर्तृकरणयोस्तृतीया(पाoसूo2-3-18)। रामेण बाणेन हतो वाली। प्रकृत्यादिभ्य उपसङ्ख्यानम्(काoवाo)। प्रकृत्याभिरूपः। क्रियाया अश्रवणात् कर्तृकरणयोरभावात् षष्ठीह प्राप्ता। ननु गम्यमानकरोतिक्रियाकरणत्वात् सिद्धम्। करणान्तरव्युदासाय हि प्रकृतेरेव करणत्वं विवक्षितम्। स्वभावेनायमभिरूपः कृतो न त्वलङ्कारादिनेत्यर्थात्। ननु याज्ञिकशब्दाभिधेयमध्ययनं प्रति बाहुल्यं करणम्। सङ्घीभूय यज्ञमधीयते इत्यर्थात्। यत्रापि विशिष्टवेषं कञ्चिद् दृष्ट्वा प्रायेणायं याज्ञिक इत्यध्यवस्यति। तत्रापि गम्यमानज्ञानक्रियां प्रति करणत्वात् सिद्धम्। आचारादिबाहुल्येन याज्ञिकोऽयमिति जनैर्ज्ञाप्यते इत्यर्थात्। केचित्तु प्रायेणशब्दो विभक्तिप्रतिरूपको निपातो नूनमित्यर्थे वर्त्तते इत्याहुः। दृश्यते च प्रायेण सामग्र्यविधौ गुणानामित। प्रायेण निष्क्रामति चक्रपाणाविति च। इदं तर्हि गोत्रेण गार्ग्यः, प्रथमा षष्ठी वाप्राप्नोति। नन्विहापि अनेनाहं ज्ञाये इत्यर्थात्सिद्धम्। इदन्तर्हि समेन विषमेणैति, अत्र समविषमाभ्यां द्वितीया प्राप्ता। ननु पथोऽपि गमने करणत्वात् समेन पथेत्यर्थोऽस्तु इदं तर्हि द्विद्रोणेन धान्यं क्रीणाति। पञ्चकेन पशून् गृण्हाति। द्वयोर्द्रोणयोः समाहार इति द्विद्रोणं पानादिः। द्वो द्रोणौ कृत्वेत्यर्थः। इह द्वितीया षष्ठी वा प्राप्ता। पञ्चपरिमाणमस्य पञ्चकः सङ्घः। तत्र सङ्घसङ्घिनोरभेदविवक्षायां पशूनित्यनेन सामानाधिकरण्यात् द्वितीया प्राप्ता। एतदपि प्रत्याख्यातं भाष्ये। द्विद्रोणादीनां च यन्मूल्यं तेन द्विद्रोणाद्येव क्रियते इत्यर्थभेदोऽपि नास्तीति।
(पाoसूo2-3-19)
सहयुक्तेऽप्रधाने(पाoसूo2-3-19)। सहार्थेन युक्तेऽप्रधाने तृतीया स्यात्। पुत्रेण सहागतः पिता। पितुरत्र क्रियासम्बन्धः शाब्दः, पुत्रस्य तु आर्थ इति तस्याप्राधान्यम्। सहेऽप्रधाने इत्येव वाच्ये युक्तग्रहणादर्थग्रहणम्। पुत्रेण सार्धम्। विनापि सहशब्देन तदर्थावगतौ स्यादेव, तथा च सौत्रप्रयोगः। "वृद्धोयूना"(पाoसूo1-2-65)इति। प्रधानग्रहणं शक्यमकर्तुम्। न चैवं पितुरपि तृतीयापत्तिः। तत्रप्रातिपदिकमात्रापेक्षत्वादन्तरङ्गत्वेन प्रथमोपपत्तेः।
(पाoसूo2-3-20)
येनाङ्गविकारः(पाoसूo2-3-20)। येन शरीरविकारो लक्ष्यते ततस्तृतीया स्यात्। अर्शआद्यजन्तः सूत्रे अङ्गशब्दः। तद्विकारलक्षकश्च प्रकृत्यर्थभूतोऽवयव एव गृह्यते, सन्निधानात्। स चार्थाद्विकृत एव न ह्यविकृतेनावयवेन शरीरस्य विकारः सम्भवति। तदेतदभिसन्धाय वृत्तावुक्तम्-येनाङ्गेन विकृतेनेत्यादि। अक्ष्णाकाणः। पादेनखञ्जः। पाणिना कुणिः। सामान्योपक्रमे वाक्ये अक्ष्णेत्युक्ते भवत्याकाङ्क्षा, निरूपयति वा काणो वेति। तत्र काम इत्यादिप्रयोगो न विरुध्यते। यद्यप्यक्ष्येव काणं तथापि तद्योगाच्छरीरेऽपि व्यवहारो निरूढः। षष्ठ्यपवादो योगः। अक्षिसम्बन्धिकाणत्ववानित्यर्थात्।
(पाoसूo2-3-21)
इत्थम्भूतलक्षणे(पाoसूo2-3-21)। कञ्चित् प्रकारं प्राप्त इत्थम्भूतस्तल्लक्षणे तृतीया स्यात्। जटाभिस्तापसः। जटाज्ञाप्यतापसत्ववान्।
(पाoसूo2-3-22)
संज्ञोऽन्यतरस्यां कर्मणि(पाoसूo2-3-22)। सम्पूर्वस्य जानातेः कर्मणि तृतीया वा स्यात्। पित्रा पितरं वा सञ्जानीते। "सम्प्रतिब्यामनाध्याने"(पाoसूo1-3-46) इति तङ्। कृद्योगे तु परत्वात्षष्ठी। पितुः सञ्ज्ञाता। यत्तु हरदत्तेनोक्तम्, आध्याने परत्वात् "अधीगर्थ"(पाoसूo2-3-52)इति षष्ठी मातुः सञ्जानातीति। तन्न, तत्र शेषाधिकारात्। कर्मत्वविवक्षायां तृतीयाद्वितीययोरवश्याभ्युपेयत्वात्। भिन्नविषयया षष्ठ्या विप्रतिषेधस्यान्याय्यत्वाच्चेति दिक्।
(पाoसूo2-3-23)
हेतौ(पाoसूo2-3-23)। हेत्वर्थे तृतीया स्यात्। धनेन कुलम्। विद्यया यशः। हेतुरिह लौकिकः फसाधनीभूतः, न तु तत्प्रयोजको हेतुश्चेति कृत्रिमः। तस्य चकारेण कर्तृसंज्ञाविधानात्कर्तृकरणयोरित्येव तृतीयायाः सिद्धत्वात्। न च लौकिकहेतोरपि निर्व्यापारसाधारण्याच्च। करणस्य तु क्रियामात्रविषयत्वात् व्यापारनियत्वाच्च। आह च-
द्रव्यादिविषयो हेतुः कारकं नियतक्रियम्। इति।
अनाश्रिते तु व्यापारे निमित्तं हेतुरुच्यते। इति च।
तथा फलमपीह हेतुशब्देन गृह्यते। अध्ययनेन वसति। इदञ्च "प्रत्ययः"(पाoसूo3-1-1)इति सूत्रे कैयटे स्पष्टम्।
(पाoसूo2-3-24)
अकर्तर्यृणे पञ्चमी(पाoसूo2-3-24)। कर्तृवर्जितं यद्यणं हेतुभूतं ततः पञ्चमी स्यात्। तृतीयापवादः। शताद्बद्धः। अकर्तरीति किम्? शतेन बन्धितः। शतमिह उत्तमणाय धार्यमाणत्वादृणन्तत्प्रयोजको हेतुश्चेति चकारेण कर्तृसंज्ञञ्च। ननु पूर्वसूत्रे लौकिकस्य हेतोर्ग्रहणमित्युक्तम्। अयन्तु शास्त्रीयः। सत्यम्, शास्त्रीयस्यापि लौकिकत्वमस्त्येव। व्यापकं हि लौकिकं न तु विरुद्धम्। अथ वा इहार्थतया पूर्वसूत्रेऽपि सामान्यग्रहणमस्तु।
(पाoसूo2-3-25)
विभाषा गुणेऽस्त्रियाम्(पाoसूo2-3-25)। गुणहेतावस्त्रीलिङ्गे पञ्चमी वा स्यात्। जाड्याजाजाड्येन वा बद्धः। पाण्डित्यात्पाण्डित्येन वा मुक्तः। गुणे इति किम्? धनेन कुलम्। अस्त्रियां किम्? बुद्ध्या मुक्तः। इह सत्त्वे निविशतेऽपैतीति लक्षितो गुणो गृह्यते। तदनुरूपत्वादुदाहरणप्रत्युदाहरणयोः। इह "विभषा" इति योगो विभज्यते। तेनागुणेऽपि क्वचिद्भवति, एवं स्त्रियामपि। एतच्च "हतुमनुष्येभ्यः"(पाoसूo4-3-81)इतिसूत्रे हरदत्तग्रन्थे स्पष्टम्। केचित्तु गुमशब्दोऽत्र परतन्त्रमात्रपरः। यस्य द्विगुणस्य भावादित्यत्र यथा। तेन वन्हिमान्धूमादित्यादावपि पञ्चमी सिद्धेत्याहुः। कथन्तर्हि नास्तीह घटोनुपलब्धेरिति। अत्राहुः, स्त्रियामपि क्वचिद्भवति विभाषागुणे इतियोगविभागात्। बाहुलकं प्रकृतेस्तनुदृष्टेरिति वार्त्तिकप्रयोगश्चेह ज्ञापक इति। (पाoसूo2-3-26)
षष्ठी हेतुप्रयोगे(पाoसूo2-3-26)। हेतौ द्योत्ये षष्ठी स्यात्। अन्नस्य हेतोर्वसति।
(पाoसूo2-3-27)
सर्वनाम्नस्तृतीया च(पाoसूo2-3-27)। सर्वनाम्नो हेतुशब्दस्य च प्रयोगे हेतौ द्योत्ये तृतीया स्यात् षष्ठी च। केन हेतुना वसति। कस्य हेतोः। निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम्(काoवाo)। किन्निमित्तं वसति। केन निमित्तेन। कस्मै निमित्तायेत्यादि। एवं किं कारणम्। को हेतुः। किं प्रयोजनमित्यादि। असर्वनाम्नोप्येतद्भवतिवृत्तिकारेणेऽव पाठेऽपि भाष्यकारेण "हेतौ"(पाoसूo2-3-23)इत्यत्र पटितत्वात्। प्रायग्रहणादसर्वनाम्नः प्रथमद्वितीये नस्तः। अन्नेन कारणेन वसति। अन्नाय कारणायेत्यादि। वार्तिके पर्यायोपादानं प्रपञ्चार्थम्, प्रयोजनादिशब्दानुरोधेनार्थपरत्वस्वीकारात्।
(पाoसूo2-3-28)
अपादाने पञ्चमी(पाoसूo2-3-28)। स्पष्टम्। ग्रामादागच्छति। ल्यब्लोपे कर्मण्यधिकरणे चोपसङ्ख्यानम्(काoवाo)। प्रासादात्प्रेक्षते। आसनात्प्रेक्षते, प्रासादमारुह्य आसने उपविश्य प्रेक्षत इत्यर्थः। गम्यमानापि क्रिया कारकविभक्तिनिमित्तम्, प्रविश पिण्डीतिवत्। तेन कुतोभवान्, पाटलिपुत्रादित्यादि सिद्धम्। इह हि प्रत्यक्षादिसिद्धमागमनमुपजीव्यावधावेव प्रश्नोत्तरे प्रवर्तते। एतेन "प्रश्नाख्यानयोश्च" इति वार्तिकं प्रत्याख्यातम्, अपेक्षितक्रियाया दानत्वेनैव सिद्धत्वात्। अन्यथा कश्चन्द्र इत्यादावतिव्याप्तेश्च। यतश्चाध्वकालनिर्माणं तत्र पञ्चमी।(काoवाo)तद्युक्तादध्वनः प्रथमासप्तम्यौ(काoवाo)। कालात्सप्तमी च वक्तव्य(काoवाo)। वनाद्ग्रामो योजने योजनं वा। कार्त्तिक्या आग्रहायणि मासे। कृत्तिकाभिर्युक्ता पौर्णमासी कार्त्तिकी। पौर्णमास्यां "लुबविशेषे"(पाoसाo4-2-4)इति लुङ् न भवति, "सास्मिन्पौर्णमासीति(पाoसू o4-2-21)इत्यधिकारे "विभाषाफाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः"(पाoसूo4-2-23)इति निर्द्देशात्। अग्रे हायनमस्या इति आग्रहायणी। प्रज्ञादेराकृतिगणत्वात् स्वार्थिकोऽण्, आग्रहायण्यश्वत्थादिनिपातनाण्णत्वम्। तद्युक्तादिति। तेन पञ्चम्यन्तेन अर्थद्वारेण युक्तात्काले वर्त्तमानान्मासादिशब्दादित्यर्थः। अत्र भाष्ये कार्त्तिक्याः प्रभृतीति प्रयोगात्प्रभृतियोगे पञ्चमीति कैयटः। प्रभृतीत्यर्थग्रहणम्, तत आरभ्येत्यर्थ इति कैयटात्। स्कन्धात्प्रभृत्येव सपल्लवानीति कुमारः।
(पाoसूo2-3-29)
अन्यारादितरर्त्तेदिक्‌शब्दाञ्चूत्तरपदाजाहियुक्ते(पाoसूo2-3-29)। एतैर्योगे पञ्चमी स्यात्। अन्य इत्यर्थग्रहणम्। इतरग्रहणन्तु प्रपञ्चार्थम्। न च इतरस्त्वन्यनीचयोः(अoकोo3-3-200)इत्यमरोक्तेर्नीचार्थकस्येदं ग्रहणमिति वाच्यम्, "अस्मात्तारोमन्दो वा" इत्यादाविव "पञ्चमीविभक्ते"(पाoसूo2-3-42)इत्यनेनैव सिद्धत्वात्। देवदत्तादन्यो भिन्नो विलक्षणोऽर्थान्तरं वेत्यादि। न चैवं `घटः पटो न' इत्यत्रातिप्रसङ्गः, नञोऽप्यन्योन्याबावार्थकत्वात्। घटाद्भेद इत्याद्यनुराधेन धर्मिपर्यन्तविवक्षाया अयोगादिति वाच्यम्, नञो द्योतकताया उक्तत्वात्। आरादेवदत्तात्। इह "दूरान्तिकार्थैःषष्ठ्यन्यतरस्याम्"(पाoसूo2-3-34)इति प्राप्तः। "आराद्‌दूरसमीपयोः"(अoकोo3-3-25)"ऋतेकृशानोर्न हि मन्त्रपूतम्"। अत्र ऋतेयोगे पाक्षिकी द्वितीयापीत्यक्तं प्राक्। दिशि दृष्टः शब्दो दिक्शब्दः। तेन सम्प्रति देशकालवृत्तिनाऽपि योगे भवति। ग्रामात्पूर्वो देशः। चैत्रात्पूर्वः फाल्गुनः। कथन्तर्हि पूर्वं कायस्येति? उच्यते, अवयववाचिभिर्योगे न भवति "तस्य परमाम्रेडितम्"(पाoसूo8-1-2)इति निर्द्देशात्। अञ्चूत्तरपदस्य दिक्शब्दत्वेऽपि "षष्ठ्यतसर्थप्रत्ययेन"(पाoसूo2-3-30)इत्येतद्वाधनार्थं पृथग्ग्रहणम्। प्राक् प्रत्यग्वा ग्रामात्। न च तेन सध्य्रङ्‌ङित्यादौ पञ्चम्यर्थं तत्किन्न स्यादिति वाच्यम्, दिक्शब्दसाहचर्येण प्रागादीनामेव ग्रहणात्। आच्-दक्षिणा ग्रामात् उत्तरा वा। आहि-दक्षिणाहि उत्तराहि ग्रामात्। "दक्षिणादाच्"(पाoसूo5-3-36)। "आहि चदूरे(पाoसूo5-3-37)"उत्तराच्च"(पाoसूo5-3-38)इत्याजाही।
(पाoसूo2-3-30)
एनपा द्वितीया(पाoसूo2-3-30)। एनबन्तेन योगे द्वितीया स्यात्। षष्ठ्यपीष्यते। सा तु `एनपा' इति योगं विभज्य साधनीया। दक्षिणेन ग्रामं ग्रामस्य वा। एवमुत्तरेण। "एनबन्यतरस्यामदूरेपञ्चम्याः"(पाoसूo5-3-35)इत्येनप्। कथन्तर्हि-
तत्रागारं धनपतिगृहादुत्तरेणास्मदीयम्।
"स्त्र्यधिकारात्परेम वासरूपविधिर्नावश्यं भवतीत्यादि"। एनबपि परशब्दात्पाक्षिकः। यदा तद्धिधौ "उत्तराधरदक्षिणात्"(पाoसूo5-3-34)इति नानुवर्तते। सत्यम्, अत एव चिन्त्यमेवेदमिति हरदत्तः। उत्तरेणेति तृतीयैकवचनान्तं तोरणेनेत्यनेन समानाधिकरणमित्यन्ये। अपरे तु धनपतिगृहानिति शसन्तं पठन्ति।
(पाoसूo2-3-32)
पृथग्विनानानाभिस्तृतीयान्यतरस्याम्(पाoसूo2-3-32)। अन्य तरस्यांग्रहणं समुच्चयार्थम्, निपातानामनेकार्थत्वात्। मण्डूकप्लुत्या पञ्चम्यनुवर्तते। एभिर्योगे तृतीयापञ्चम्यौ स्तः। वृत्तिकारस्त्वाहः"पृथग्विनानानाभिः" इति योगविभागाद् द्वितीयापीष्यत इति। पृथग्रा मेण रामाद्रामं वा। एवं विना नाना। "हिरुङ् नाना च वर्जने"(अoकोo3-4-3)इत्यमरः। "नानानारीर्निष्फला लोकयात्रो"। इति प्रयोगः।
(पाoसूo2-3-33)
करणे च स्तोकाल्पकृछ्रकतिपयस्यासत्त्ववचनस्य(पाoसूo2-3-33)। अद्रव्यार्थेभ्य एभ्यः करणे तृतीयापञ्चम्यौ स्तः। स्तोकेन स्तोकाद्वा मुक्तः। असत्त्वेति किम्? स्तोकेन विषेण हतः।
(पाoसूo2-3-34)
दूरान्तिकार्यैः षष्ठ्यन्यतरस्याम्(पाoसूo2-3-34)। एतैर्योगे षष्ठी स्यात्पञ्चमी च। "पृथग्विना"(पाoसूo2-3-32)इत्यत्र पञ्चमी समुच्चीयते इत्युक्तम्। इहाप्येकप्रघट्टकत्वात्तथैवेति द्रष्टव्यम्। दूरमन्तिकं वा ग्रामस्य ग्रामाद्वा।
(पाoसूo2-3-35)
दूरान्तिकार्थेभ्यो द्वितीया च(पाoसूo2-3-35)। एभ्यो द्वितीया स्याच्चकारात्पञ्चमीतृतीये। प्रातिपदिकार्थे विधिरयम्। ग्रामस्य दूरं दूराद्‌ दूरेम वा। अन्तिकमन्तिकादन्तिकेन वा। उत्तरत्राप्येतदनुवृत्त्या तत्तद्विषयेऽपि द्वितीयादयः स्युः। तथा चाधिकरणेऽपि प्रयुज्यते-दूरादावसथान्मूत्रमिति। आवसथस्य दूरे इत्यर्थः। असत्त्ववचनग्रहणमनुवर्तते। तेनेह न-दूरः पन्थाः। दूराय पथे देहि। दूरस्य पथः स्वमिति।
(पाoसूo2-3-36)
सप्तम्यधिकरणे च(पाoसूo2-3-36)। चकाराद् दूरान्तिकार्थेभ्यः। कटे आस्ते। दूरान्तिकार्थेभ्यः प्राग्विभक्तित्रयमुक्तम्। अनेन च सप्तमीति तेभ्यश्चतस्रो विभक्तयः फलिताः। क्तस्येन्विषयस्य कर्मण्युपशङ्ख्यानम्(काoवाo)। इनिति इन्नन्तः शब्दः। विषयो वृत्तिभूमिर्यस्य क्तान्तस्य तस्येत्यर्थः। अधीती व्याकरणे। अधीतमनेनेति विग्रहः। "श्राद्धमनेन भुक्तम्'(पाoसूo5-2-85)इत्यतोऽनेनेति वर्त्तमाने "इष्टादिभ्यश्च"(पाoसूo5-2-88)इति सूत्रेण कर्त्तरीनिप्रत्ययः। ततस्तद्धितार्थेन सहैकार्थीभूतस्याधीतस्य निष्कृष्य व्याकरणादिना सम्बन्धाभावात्। क्तप्रत्ययेनानभिहितं व्याकरणम्। तत्र कृतपूर्वी कटमितिवद् द्वितीया प्राप्ता। गुणभूतयाऽपि हि अध्ययनक्रियया कर्मणः सम्बन्धो न विरुद्धः, "सहाधीतवान् व्याकरणम्" इत्यादौ यथा। आह च-
अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः।
क्रिया सम्बध्यते तद्वत् कृतपूर्व्यादिषु स्थिता।। इति।
न विविच्य ग्रहो यस्याः सा अविग्रहा, गुणीभूतेत्यर्थः। ननु कालकर्मणोऽपि सप्तमी प्राप्नोति "मासमधीती व्याकरणे" इत्यादौ। मैवम्, तस्य बहिरङ्गत्वात्। न चैवं तत्र द्वितीयापि न स्यादिति वाच्यम्, तद्विधाने लक्ष्यानुरोधेन व्यक्तिपक्षस्याश्रयणात्। साध्वसाधुप्रयोगे च(काoवाo)। साधुः कृष्णो मातरि। असाधुर्मातुले। अत्र साधुत्वासाधुत्वयोर्मात्रादिविषयत्वेऽपि क्रियाया अभावेनाधिकरणत्वाभावाद्वचनम्। `साधुनिपुणाभ्याम्"(पाoसूo2-3-43)इत्येव सिद्धे अनर्चार्थमत्र साधुग्रहणम्। तेन तत्त्वकथनेऽपि भवति। सूत्रे अर्चाग्रहणन्तु निपुणार्थम्। साधुग्रहणन्तु तत्र वार्त्तिकं दृष्ट्वा सूत्रस्याप्रवृत्तेरिति ध्येयम्। अर्हाणां कर्तृत्वे अनर्हाणामकर्तृत्वे तद्वैपरीत्ये च(काoवाo)। सस्सु तरत्सु असन्त आसते इत्यादि। यद्यपीदं "यस्य च भावेन"(पाoसूo2-3-37)इत्येव सिद्धम्। तथापि लक्ष्यलक्षणभावाविवक्षायामपि यथा स्यादिति वचनमित्याहुः। निमित्तात्कर्मयोगे(काoवाo)। निमित्तमिहफलम्। तद्वाचिनः सप्तमी स्यात्। यदि तस्य कर्मणा सह योगो योगविशेषः संयोगसमवायात्मकः।
चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम्।
केशेषु चमरीं हन्ति सीम्निपुष्कलको हतः।।
चर्मफलकं द्वीपिकर्मकं हननमित्यर्थः। अत्र हेतुततृतीया प्राप्ता। तत्र हि फलमपि हेतुशब्देन गृह्यते। "अध्ययनेन वसति" इत्यादिसिद्धये इति "प्रत्ययः"(पाoसूo3-1-1)इति सूत्रे कैयटे स्थितम्। अत्र द्वीपिचर्मणोः समवायः सम्बन्धः। चमरशब्दाज्जातिलक्षणो ङीष्। पुष्कलकः शङ्कुः। ससींम्नि सीमज्ञानार्थं हतो निहतः निखात इत्यर्थः। निहन्यमानेन शङ्कुना सह सीम्नः संयोगः सम्बन्ध इति हरदत्तादयः। दुर्गवाक्यप्रबोधे तु कुलचन्द्रस्त्वाह-सीमा अण्डकोशः। पुष्कलको गन्धमृगः। उक्तं च मेदिनीकेशे-
सीमा घाटस्थितिक्षेत्रेष्वण्डकाशेषु च स्त्रियाम्। इति।
अथ पुष्कलको गन्धमृगे क्षपणकीलयोः। इति च।
कर्मयोगे किम्? वेतनेन धान्यं लुनाति।
(पाoसूo2-3-37)
यस्य च भावेन भावलक्षणम्(पाoसूo2-3-37)। यस्य क्रिय या क्रियान्तरं लक्ष्यते ततः सप्तमी स्यात्। निर्ज्ञातकाला क्रिया अनिर्ज्ञातकालायाः क्रियायाः कालपरिच्छेदकत्वात् लक्षणमित्युच्यते। मोषु दुह्यमानासु गतः। एवं देशपरिच्छेदिकाऽपि सति गुणे द्रव्यत्वमस्ति।
(पाoसूo2-3-38)
षष्ठीचानादरे(पाoसूo2-3-38)। अनादराधिक्ये भावलक्षणे षष्ठीसमप्तम्यौ स्तः। इह सूत्रे अनादरे इति पूर्वेण सत्सप्तमी। अनादरे सति यो भावं लक्षयतीति। तथाच तदाधिक्यं फलितम्। रुदति रुदतो वा प्रावाजीत्। रुदन्तं पुत्रादिकमनादृत्य सन्यस्तवानित्यर्थः।
(पाoसूo2-3-39)
स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च(पाoसूo2-3-39)। एतैः सप्तभिर्योगे षष्ठीसप्तम्यौ स्तः। षष्ठ्यामेव प्राप्तायां पाक्षिकसप्तम्यर्थं वचनम्। गवां गोषु वा स्वामी, ईश्वरो वेत्यादि। दायमादत्ते इति दायादः, सोपसर्गादप्यत एव निपातनात्कः। गावामित्येतत्तु यद्यपि समुदायस्य विशेषणम्, तथापि दीयते इति दाय इति व्युत्पत्त्या अवयवार्थभूतमंशं स्पृशत्येव। तेन गवात्मकस्यांशस्यादातेति फलितोऽर्थः। गवां प्रसूतः, गा एवानुभवितुं जात इत्यर्थः।
(पाoसूo2-3-40)
आयुक्तकुशलाभ्यां चासेवायाम्(पाoसू2-3-40)। आभ्यां योगे षष्ठीसप्तम्यौ स्त आसेवायां गम्यमानायाम्। आसेवा तात्पर्यम्। आयुक्तो व्यापारितः। कुशलो निपुणः। आयुक्तः कुशलो वा हरिभजनस्य हरिभजने वा। आसेवायां किम्? आयुक्तो गौः शकटे, ईषद्युक्त इत्यर्थः।
(पाoसूo2-3-41)
यतश्च निर्द्धारणम्(पाoसूo2-3-41)। जातिगुणक्रियासञ्ज्ञाभिः समुदायादेकदेशस्य पृथक्करणं निर्द्धारणं, यतो निर्द्धारणं ततः षष्ठीसप्तम्यौ स्तः। नृणां नृषु वा ब्राह्मणः श्रेष्ठः। गवां गोषु वा कृष्णा वहुक्षीरा। गच्छतां गच्छत्सु वा धावन् शीघ्रः। अमीषां छात्राणां देवदत्तः पटुः।
(पाoसूo2-3-42)
पञ्चमी विभक्ते(पाoसूo2-3-42)। विभागे विभक्तम्। निद्धार्यमाणस्य यत्र भेद एव न तु शब्दोपात्तसामान्यरूपाक्रान्तता, तत्र निर्द्धारणाश्रयात्पञ्चमी स्यात्। माथुराः पाटलिपुत्रकेभ्य आढ्यतराः। न ह्यत्र गवां कृष्णा इत्यादिष्विव सामान्यविशेषभावः, किन्तु शब्दोपात्तधर्मयोर्विरोध एव। इदञ्च सूत्रं बुद्धिकल्पितमपायमाश्रित्यापादानप्रकरणे प्रत्याख्यातम्। आह च-
बुद्ध्या समीहतैकत्वात् पञ्चालान् कुरुभिर्यदा।
पुनर्विभजते वक्ता तदापायः प्रतीयते।। इति।
(पाoसूo2-3-43)
साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः(पाoसूo2-3-43)। आभ्यां योगे सप्तमी स्यादर्चायां गम्यमानायां, न तु प्रतेः प्रयोगे। मातरि साधुर्निपुणो वा। "पुण कर्मणिशुभे"(तुoपo1333)अस्मान्निपूर्वादिगुपधलक्षणः कः। "अर्च पूजायाम्"(भ्वाoपo204)अस्माद्भौवादिकाद् "गुरोश्च हलः"(पाoसूo3-3-103)इत्यप्रत्ययः। चौरादिकात्तु "ण्यासश्रन्थ"(पाoसूo3-3-107)इति युच् स्यात्। अर्चायां किम्? निपुणो राज्ञो भृत्यः। इह तत्त्वकथने तात्पर्यम्। साधुशब्दप्रयोगे त्वनर्चायामपि सप्तमी भवत्येव। साध्वसाधुप्रयोगे च(काoवाo)इति वार्त्तिकादिति प्रागेवोक्तम्। अप्रत्यादिभिरिति वक्तव्यम्(काoवाo)। नेह-साधुर्निपुणो वा मातरम्प्रति पर्यनु वा।
(पाoसूo2-3-44)
प्रसितोत्सुकाभ्यां तृतीया च(पाoसूo2-3-44)। आभ्यां योगे तृतीया स्याच्चात्सप्तमी। प्रसित उत्सुको वा हरिमा हरौ वा। "तत्परे प्रसितासक्तौ"(अoकोo3-1-7)इत्यमरः। उत्सुकसाहचर्यात्प्रसितोऽपि तत्पर एवेह गृह्यते। तेन प्रकर्षेण सितः शुक्ल इत्यर्थे न भवति।
(पाoसूo2-3-45)
नक्षत्रे च लुपि(पाoसूo2-3-45)। नक्षत्रे प्रकृत्यर्थे सति यो लुप्संज्ञया लुप्यमानस्य प्रत्ययस्यार्थस्तत्र वर्तमानात्तृतीयासप्तम्यौ स्तोऽधिकरणेऽर्थे।
मूलेनावाहयेद्देवीं श्रवणेन विसर्जयेत्।
मूले श्रवणे इति वा। "नक्षत्रेण युक्तः कालः"(पाoसूo4-2-3)इत्यणो "लुबविशेषे"(पाoसूo4-2-4)इति लुप्। अधिकरणे किम्? पुष्यः। पुष्य प्रतीक्षते। पुष्याय स्पृहयति।
अत्र केचित्-सूत्रे पञ्चम्यर्थे सप्तम्यौ। लुबन्तान्नक्षत्रवाचिन इति व्याचख्युः। तेषां लुबन्तविशेषणान्न स्यात्। "उत्तराभ्यां फाल्गुनीभ्यां नोत्तराभ्यां गच्छेत्" इति यथेति हरदत्तः।
।। इति श्रीशब्दकौस्तुभे द्वितीयस्याध्यायस्य तृतीयपादे द्वितीयमान्हिकम् ।।