शब्दकौस्तुभः/अध्यायः ३-पादः १/आह्निकम् १

शब्दकौस्तुभः
आह्निकम् १
[[लेखकः :|]]
आह्निकम् २ →

।। तृतीयस्याध्यायस्य प्रथमे पादे प्रथममान्हिकम् ।।
(पाoसूo3-1-1)
प्रत्ययः(पाoसूo3-1-1)।। प्रत्ययशब्दः संज्ञात्वेनाधिक्रियते आपञ्चमसमाप्तेः। स्यादेतत्, प्रकृत्युपपदोपाधिविकारागमानामपि तर्हि संज्ञा स्यात्। "हरतेर्द्दतिनाथयोः पशौ"(पाoसूo3-2-25)। हरतेरिति प्रकृतिः। दृतिनाथयोरित्युपपदम्। पशावित्युपाधिः। "हनस्त च"(पाoसूo3-1-108)इत्यादिर्विकारः। "त्रपुजतुनोः षुक्"(पाoसूo4-3-138)इत्यागमः। नन्वेषां प्रत्ययत्वे सति किं स्यादिति चेत्? शृणु, प्रकृतिप्रत्यययोः परस्परापेक्षं परत्वं पर्यायेण स्यात्, शब्दान्तरापेक्षं वा प्रकृते उपपदस्यापि परत्वं स्यात्। "उपसर्जनं पूर्वम्"(पाoसूo2-2-30)इति तु राजपुरुषादिषु सावकाशं परत्वात् "परश्च"(पाoसूo3-1-2)इत्यनेन बाध्येत। ननु सुब्विधौ प्रातिपदिकाधिकाराद्राजपुरुषादौ कथं सावकाशतेति चेत्? सत्यम्, एवमपि समाससंज्ञाविरहस्थले उपपदस्य परत्वं स्यादेव। तथा च भोक्तुं व्रजतीत्येव स्यात्, न तु व्रजति भोक्तुमिति। उपाधेस्तु सर्थत्वेन परत्वासम्भवेऽपि तद्वाचकशब्दस्य परत्वं नियतं स्यात्। आद्युदात्तत्वं च स्यात्। अङ्गसंज्ञा तु विधा नायत्ता। न च प्रकृत्यादयः कुतश्चिद्विहिता अतो न प्रकृत्यादिषु परेषु पूर्वस्य तत्प्राप्तिरिति प्रागुक्ता एव दोषाः। विकारागमयोरपि यथायथं परत्वमाद्युदात्तत्वं तयोः परतः पूर्वस्याङ्गत्वं च स्यादिति दुष्टोऽयं प्रत्ययाधिकारः।
अत्राहुः, प्रकृत्यादीनां सनाद्युत्पत्तौ निमित्तत्वेनोपादानात् पारार्थ्यात् स्वसंस्कारं प्रति न प्रयोजकत्वम्। यथा `योऽश्वे स देवदत्तः' इत्युक्ते नाश्वस्य देवदत्तसंज्ञा। किञ्च हरतेर्द्दतिनाथयोः कर्मणोरुपपदयोः पशौ कर्त्तरि इन्प्रत्ययो भवतीति वाक्यार्थपर्यवसाने कथं प्रकृत्यादिनां संज्ञाप्राप्तिः? च आवृत्त्या ते च हरत्यादयः प्रत्ययसंज्ञका इति द्वितीयं वाक्यं कल्प्यम्, मानाभावाद् गौरवपराहतत्वाच्च। यत्तु सनादीनामप्यसतां संज्ञानुपपत्तेः वाक्यभेदेनैव संज्ञा विधेया। ततश्च यथा एकेन सनादीनां विधिरपरेण संज्ञाविधिः, एवं प्रकृत्यादीनामपि स्यादेवेति। तन्न, वृद्धिसूत्रशेषे वर्णितया रीत्या सन्प्रत्ययो भवतीत्यादिक्रमेण संज्ञाविशिष्टस्य संज्ञिन एकवाक्येनैव विधिसम्भवात्। नहि `उद्भिदा यजेत' इत्यादौ नामधेयसम्वन्धलाभाय विध्यावृत्तिं मन्वते न्यायविदः। अभ्युपेत्य ब्रूमः, संज्ञापरे द्वितीयं वाक्यमपि `गुप्तिज्‌किद्‌भ्यः सन् प्रत्ययः' इत्यादिरूपमेव। तथाच विरुद्धविभक्त्यवरुद्धानां प्रकृत्यादीनां प्रथमान्तेन प्रत्यय इत्यनेन सामानाधिकरण्यमसम्भाव्येव। न च द्वितीयवाक्ये प्रकृत्यादीनां विभक्तिविपरिणामेन प्रथमा कल्प्या, योग्यविभक्तिनिर्द्दिष्टेषु सनादिषु संज्ञायाश्चरिर्थत्वात्। अपि च आद्यवाक्ये सनादीनामेव अपूर्वविधानविषयतया प्राधान्यम्। एवञ्च द्वितीयेऽपि संज्ञिनमपेक्षमाणा संज्ञा पूर्वत्र प्रधानतया क्लृप्तमेव गृह्णीयात् न त्वप्रधानमपि। नन्वेवमपि विकारागमानां विधेयतया प्राधान्यात्संज्ञा दुर्वारेति चेत्? मैवम्, अन्वर्थसंज्ञाविज्ञानात्। प्रतियन्त्यनेनार्थमिति हि प्रत्ययः। विकारागमौ त्वनर्थकौ। न चैवम् "अवेः कः"(पाoसूo5-4-28)इत्यादीनां समासान्तानां च प्रत्ययसंज्ञा न स्यात्, अनर्थकत्वादिति वाच्यम्, `स्वार्थिका अपि प्रकॉत्यर्थेनार्थवन्त एव' इति सिद्धान्तात्। यत्तु कल्पनामात्रमेतदिति। तन्न, प्रकृतिप्रत्ययार्थविभागस्य सर्वस्यापि काल्पनिकत्वाविशेषात्। नैषा कल्पना शास्त्रकृत्सम्मतेति चेत्? न, "द्वितीय"(पाoसूo2-2-3)इति सूत्रे पूरणार्थात्स्वार्थे अन्प्रत्ययस्यापि पूरणार्थताया भगवतैवोक्तेः इहापि प्रत्याय्यन्त इति व्युत्पत्त्यन्तरमप्याश्रित्य प्रकृत्य अभिव्यज्यमानार्थत्वं स्वार्थिकानामस्तीति भाष्यकैयटयोः स्वीकाराच्च। न चैवं विकारागमयोः सम्भवति, प्रकृत्यवयवतया तदर्थ एवोपक्षयात्। अपि च प्रयोजनाभावान्नामीषां संज्ञा। न च परत्वमेव प्रयोजनम्, षष्ठ्या विकाराणां स्थानसम्बन्धस्य आगमानामवयवत्वेन सम्बन्धस्य च प्रतिपादनात्। न चाद्युदात्तत्वं प्रयोजनम्, आगमानामनुदातत्वविधानात्। यत्र तु प्रयोजनं लभ्यते तत्रेष्यत एवागमस्यापि प्रत्ययत्वम्। यथा श्नमः शकारस्येत्संज्ञार्थमिति।
इदं त्ववशिष्यते, "हनश्च वधः"(पाoसूo3-3-76)"नाभिनभं च" (गoसूo)"विराग विरङ्गञ्च"(गoसूo)इत्यादावादेशानां संज्ञा स्यात् अर्थवत्त्वाद्विधेत्वेन प्राधान्यात् योग्यविभक्तिक त्वाच्चेति। संज्ञाप्रयोजनं तु स्थानिन आदेशेन निवर्तितत्वेन शब्दान्तरापेक्षया परत्वमस्तीति। तस्मात्कर्त्तव्योऽत्र यत्न इति हरदत्तः।
अत्रेदं वक्तव्यम्, इनश्चेत्यादिचकारो न प्रत्ययसंज्ञामात्रस्यानुकर्षणार्थ-, अधिकारादेव तल्लाभात्। किन्तु संज्ञिविशिष्टस्य। एवञ्च तेनैव निराकाङ्क्षा संज्ञा कथं वदादिभिः सम्बध्येत? "क्षेमप्रियमद्रेऽण्च"(पाoसूo3-2-44)इत्यादौ तु णित्त्वादिसामर्थ्यादावृत्त्या संज्ञालाभः। किञ्च नभं विरङ्गमिति द्वितीयान्तं न तु प्रथमान्तम्, असावमुमादेशे लभते इत्याशयेन प्राचां व्यवहारात्। उक्तञ्च प्रातिशाख्ये-"असावमुमिति तद्भावमुक्तम्" इति।
"समानाक्षरमन्तस्थं समकण्ठ्यं स्वरोदयम्" इति च।
"इकोयणचि"(पाoसूo6-177)इति तदर्थः। एवं स्थिते नभविरङ्गयोः संज्ञया सह विरुद्धविभक्त्यवरोधोऽपि स्पष्ट एवेति दिक्।
अथ सनः सशब्दादारभ्य कपः पकारेम सपिति प्रत्याहारमाश्रित्य सप्प्रत्यय इत्येव कुतो पकारेण सपिति प्रत्याहारमाश्रित्य सिपः पकारेम ग्रहणापत्तेः। व्याप्त्या तु "तप्तनप्तनथनाश्च"(पाoसूo7-1-4)इति तनपः। तस्माद्यथान्यासमेवास्तु। संज्ञाप्रयोजनं तु कर्तव्य इत्यादौ धातोरह्गसंज्ञाप्रवृत्तावाङ्गो गुणः। यत्तु प्रत्ययाद्युदात्तत्वं फलमिति। तदापाततः, "आद्युदात्तश्च"(पाoसूo3-1-3)इत्यधिकारमाश्रित्य तस्य सुसाधत्वात्।
(पाoसूo3-1-2)
परश्च(पाoसूo3-1-2)।। अयमधिकारः परिभाषा वा। लिङ्गवती चेयम्। लिङ्गं तु प्रत्ययसंज्ञा। "गुप्तिज्‌किद्‌भ्यः सन्"(पाoसूo3-1-5)इत्यादौ अपादानत्वासम्भवाद्दिग्योगलक्षणपञ्चमी, तत्र परः पूर्वो वेत्यनियमेनाध्याहारे प्रसक्ते पर एवेति नियमार्थमिदम्। "गापोष्टक्"(पाoसूo3-2-8)इत्यादौ षष्ठीनिर्द्देशेऽपि आनन्तर्यरूपषष्ठ्यर्थस्य पूर्व परयोरविशेषादनियमस्तुल्य एव। स्यादेतत्, "विभाषा सुपोबहुच्पुरस्तात्तु"(पाoसूo5-3-68)इत्येतन्नियमार्थमस्तु बहुजेव पुरस्ताद्भवति नाभ्य इति। ततश्च बहुचि पूर्वत्वस्य नियतत्वादन्यः प्रत्ययः पर एव भविष्यति। न चैवमपि षष्ठीनिर्देशेषु मध्यशब्दाध्याहारेम मध्येऽपि प्रसङ्ग एवेति वाच्यम्, "अव्ययसर्वनाम्नाम्'(पाoसूo5-3-71)इत्यनेन अकजेव प्रकृतिमध्ये नान्य इति नियमात्। न च बहुजेव पुरस्तादकजेव मध्ये इति नियमे बहुजकचोर्नियमो न लभ्येतेति वाच्यम्, देशनियमार्थयोरपि वाक्ययोः बहुजकचोर्द्देशसम्बन्धप्रतीत्या निराकाङ्क्षतया तयोर्देशान्तरसम्बन्धे मानाभावात्, विकल्पस्यानेकदोषदुष्टत्वाच्च। न चा कजेव प्राक् टेरिति नियमे प्रत्ययान्तरं टिप्राग्भागरूपमध्यविशेषे मा भूत्, मध्यान्तरे तु स्यादेवेति वाच्यम्, लभ्यसिद्धये मध्यसामान्यापेक्षनियमाभ्युपगमे बाधकाभावात्। किञ्च "गुप्तिज्‌किद्‌भ्यः"(पाoसूo3-1-5)इत्यादौ भ्यसादीनां परत्वदर्शनेन अङ्गसंज्ञासूत्रे प्रत्यये इति सप्तमीबलेन च "ङ्याप्प्रातिपदिकात्"(पाoसूo4-1-1)इत्यादौ परशब्दाध्याहारे निश्चिते तदैकरूप्याय प्रत्ययविधिपरायामष्टाध्याय्यां न पूर्वादिपदान्तराध्याहारो न्याय्यः, तत्किं परश्चेति सूत्रेण? उच्यते, प्रयोगनियमार्थमिदं, पर एव प्रत्ययो न केवल इति। अन्यथा प्रत्ययार्थमात्रविवक्षायां किमस्य द्वयसमित्याद्यपि प्रयुज्येत। यदि तु प्रकृतिविशेषोद्देशेनैव प्रत्ययस्य विधानात्केवलो न प्रयोक्ष्यत इति ब्रूषे, एवमपि प्रकृत्यर्थमात्रविवक्षायां केवला प्रकृतिः प्रयुज्येतैव। यथा पच् पठ् इति। अतः प्रत्ययः परो भवत्येवेति नियमार्थमिदम्। आपदत्वनिर्वृत्तेश्चायं नियमः तदेतत्तत्रतत्रोच्यते-"न केवला प्रकृतिः प्रयोक्तव्या न केवलः प्रत्ययः" इति "अपदं न प्रयुञ्जीत" इति च। अपरिनिष्ठितं न प्रयुञ्जीतेति तस्यार्थ इत्युक्तम्। यत्त्विह भाष्ये बभ्रुर्मण्डुर्लमक इत्यादीनामपशब्दत्वमुक्तम्, यच्च पदमञ्जर्यां तारतम्यादिशब्दानाम्, तत्सर्वं लाक्षणिसादृश्यशक्तिभ्रमाभ्यां प्रयुक्तस्य साध्वसाधुत्वव्यवस्थ। अत एव "बव्हच इञः"(पाoसूo2-4-66)इति सूत्रे रघुशब्दस्य तदपत्ये लक्षणया साधुत्वं हरदत्तेनोक्तम्। प्रकृतसूत्रेऽपि `नो खल्वारभ्यमाणमप्येतल्लक्षणया प्रयोगं निवारयितुमर्हति' इत्युक्तन्तेनैव। अत एव तारतम्यमित्यस्य शब्दपरस्यार्थे लक्षणया साधुत्वं कैयटेन "साधकतमङ्करणम्"(पाoसूo1-4-42)इति सूत्रे ध्वनितमिति दिक्।
(पाoसूo3-1-3)
आद्युदात्तश्च(पाoसूo3-1-3)।। अयमप्यधिकारः परिभाषा वा प्राग्वत्। तित्तिरिणा प्रोक्तमधीते तैत्तिरीयं ब्राह्मणकुलं, 'तित्तिरिवरतन्तुखण्डिकोखाच्छण्"(पाoसूo4-6-102)"छन्दीब्राह्मणानि च तद्विषयाणि"(पाoसूo3-2-66)"तदधीते तद्वेद"(पाoसूo4-2-59)। "प्रोक्तल्लुक्"(पाoसूo4-2-64)। आयन्नादिषूपदेशिवद्वचनं स्वरसिद्ध्यर्थम्। इह रीशब्द उदात्तः। स्यादेतत्, अस्वरकस्याच उच्चारमासम्भवात् सर्व एव स्वरविधिर्नियमार्थः। तत्र चित एवान्तोदात्तः। रित एव मध्योदात्तः। तिदेव स्वरितः। सुप्पितावेवानुदात्तौ। दूरात्सम्बुद्धावेवैकश्रुत्यमिति स्वरान्तरामामन्यत्र नियमात्पारिशेष्यात्प्रत्य य आद्युदात्त एव भविष्यति नास्वरकः, नाप्यन्यस्वरकः, तात्किमनेन सूत्रेमेति चेत्? मैवम्, उक्तरीत्या आद्युदात्तत्वमपि "ञ्नित्यादिः"(पाoसूo6-1-117)इत्यादौ नियम्यते। किञ्च त्वदुक्तनियमे चिदादीनामनियमः स्यात्, अतश्चितोऽन्त एवेत्यादि व्याख्येयम्। ततश्च छणादीनामनियतस्वरत्वं स्यात्। अपिच रित्येवेति नियमेऽन्यत्रोपोत्तमरूपमध्यविशेष उदात्तो मा भूत्। मध्यान्तरं तु स्यादेव। सामान्यापेक्षनियमे च व्याख्यानमेव शरणीकरणीयं स्यात्। तस्मात्सूत्रारम्भ एवो चितः स्यादेतत्, "ञ्नित्यादिर्नित्यम्"(पाoसूo6-1-197)"प्रत्ययस्य च" "लसार्वधातुकमनुदात्तम्" "सुप्तितौच" इति षष्ठ एव सूत्र्यताम्। एवं स्वरप्रकरणे पाठात्सन्दर्भशुद्धिः, आद्युदात्तानुदात्तशब्दयोस्तत्रत्ययोरेवोपजीवनाल्लाघवं च। नन्वेवं प्रत्ययग्रहणपरिभाषया तदन्तस्य स्वरः स्यात्। इह तु क्रियमाणे "आद्युदात्तश्च"(पाoसूo3-1-3)इत्यस्य प्रतियोगमुपस्थाने सत्युपद्यमान एव तव्यादिरुदात्तः, एवं तिबादिरनुदात्तः। अतः ग्रत्ययसञ्ज्ञासन्नियोगेन स्वरो विधीयत इति चेत्? मैवम्, षाष्ठत्वेऽपि ज्ञापकेन तदन्तविधिनिराससम्भवात्। तथाहि, "प्रत्ययस्य च" इत्यत्र न तदन्तविधिः ञ्नित्यादिः"(पाoसूo6-1-197)इत्यारम्भात्। "सुप्तितौ च" इत्यत्रापि न, "धातोः"(पाoसूo6-1-162)इत्याद्यारम्भात्। यदि हि प्रत्ययान्तस्यानुदात्तत्वं स्यात्तर्हि धातुप्रातिपदिकयोरन्तोदात्तविधिर्नर्विषय एव स्यात्। यत्र हि प्रत्ययोऽनुदात्तो `याति' `वृक्षान्' इत्यादौ, तत्रैव प्रकृतिस्वरः श्रूयते। यातो यान्ति वृक्षत्वं वृक्षतेत्यादौ तु सतिशिष्टेन प्रत्ययस्वरेण बाध्यते। तस्मात् षष्ठे सूत्रकरणमेवोचितामिति चेत्? मैवम्, गोपायति धूपायतीत्यत्र उत्पत्तिसंनियोगेनाद्युदात्तत्वे कृते ततः "सनाद्यन्ताः"(पाoसूo3-1-32)इति धातुत्वे "धातोः"(पाoसूo6-1-162)इत्यन्तोदात्तो भवति। तु "ञ्नित्यादिर्नित्यम्" (पाoसूo6-1-197)"प्रत्ययस्य च" इत्युच्यते। तदा परत्वाद्धातुस्वरं प्रत्ययस्वरो बाधेत। सूत्रस्य सूत्रान्तरेण निमाने फलं वाच्यम्। "सुप्पितौ च" इत्यस्य षष्ठे न्यासोऽप्यनुचितः, तथासति तदन्तविधेर्दुर्वारत्वात्। यत्तूक्तं प्रकृतिस्वरविधानं ज्ञापकमिति। तन्न, `आस्ते शेते' इत्यादौ लसार्वधातुकमात्रस्यानुदात्तत्वे सति धातुस्वरस्य सावकाशत्वात्। प्रातिपदिकान्तोदात्तस्यापि अग्निमान् अग्नीनामित्यादौ "ह्रस्वनुडुभ्यां मतुप्"(पाoसूo6-1-176) "नामन्यतरस्याम्"(पाoसूo6-1-177)इति स्वरसिद्धयर्थत्वात्। तत्र ह्यन्तोदात्तादित्यनुवर्तते `तमश्याममधुमन्तम्' इत्यादौ मा भूदिति। भित्त्वा प्रकरणं सोढ्वा गौरवं चेह सूत्रणे फलं धातुस्वरस्तद्वत्तदन्ताग्रहणं स्थितम्। न चास्तु फलान्तरमपि, तथाहि, भवितव्यमित्यादौ प्रत्ययोत्पत्तिकाल एवाद्युदात्तत्वे कृते पश्चाद्भवन्निट् अनुदात्तः सिध्यति। अन्यथा तु `भू-तव्य' इति स्थिते आद्युदात्तत्वं शब्दान्तरप्राप्त्याऽनित्यम्, इट् तु स्वरभिन्नस्येत्युभयोरनित्ययोः परत्वादिटि कृते तस्यैव प्रत्ययावयवत्वादुदात्तत्वं स्यात्। मैवम्, यासुडुदात्तवचनेन `आगमा अनुदात्ता' इत्यस्यार्थस्य ज्ञापितत्वात्। न च चिनुयादित्यादौ पिद्भक्ते यासुटि चरितार्थमुदात्तवचनं कथं ज्ञापकमिति वाच्यम्, एवं हि उदात्तो ङिच्चेत्यपहाय अपिच्चेत्येव ब्रूयात्। `अपिच्च लिङ्' इत्युक्त्या हि "सार्वधातुकमपित्'(पाoसूo1-2-4)इति ङित्त्वमपि सिध्यत्येव। अवश्यञ्चोक्तज्ञापकं त्वयाऽप्यादर्तव्यम्। अन्यथा प्रत्ययसंज्ञासन्नियोगेनाद्युदात्तविधावपि भविषीयेत्यादौ स्वरो न सिध्येत्। तत्र हि लावस्थायामनच्कत्वात्प्रत्ययस्वरे असति परत्वाद्विशेषविहितत्वाच्च सीयुटि कृते पश्चाल्लदेशे प्रत्ययाद्युदात्तत्वं सीयुट एव स्यात्। ज्ञापकाश्रयणे तु सीयुडनुदात्तः। "इटोऽत्'(पाoसूo3-4-106)इत्यकार उदात्तः। न च तित्त्वात्स्वरितत्वं सङ्क्यम्, तकार उच्चारणार्थो न त्वित्संज्ञकः। इत्संज्ञाऽभ्युपगमपरो वृत्तिग्रन्थस्तु अत्रत्यभाष्यादिविरोधात् `भक्षीयतवराधस' इत्यन्तोदात्तलक्ष्यविरोधाच्च प्रामादिक इति "नविभक्तौ तुस्माः'(पाoसूo1-3-4)इत्यत्रावोचाम। नन्वेवमपि सीयुटि कृते अकारस्यादित्वं विच्छिन्नं तत्कथमुदात्तत्वमिति चेत्? यासुट उदात्तवचनेन प्रत्ययाद्युदात्तत्वे कर्तव्ये आगमा अविद्यमानवद्भवन्तीति ज्ञापितत्वात्। तर्ह्यविद्यमानवद्भावमात्रज्ञापनेनोपक्षीणं लिङ्गमागमानामनुदात्तत्तां न ज्ञापयतीति चेत्? वाचनिकं तर्हि तदस्तु। तथा च भाष्यम्-"यद्येवे वचनादथापि ज्ञापकादागमा अनुदात्त भवन्ति" इति। अवश्यं च त्वयाऽपीदं बाच्यम्, भवितव्यमित्यादौ पूर्वमुदात्तत्वे सत्यपि पश्चाद्भवन्निट् ज्ञापकञ्च वचनं वाचनिकमित्यनुदात्तो भवेत् शेषनिघातेनेति चेत्? नायं शेषनिघातस्य विषयः, स्वरविधिशेषत्वात्तस्य। `यस्मिन्पदे यस्यामवस्थायां यस्याच उदात्तः स्वरितो वा विधीयते तस्मिन्पदे तस्यामवस्थायां सन्निहितमजन्तरं निहन्यते' इत्यर्थः। न चायं प्रकारोऽत्र सम्भवति। तस्मादिटोऽनुदात्तत्वं नात्र सूत्रारम्भस्य फलमिति स्थितम्। इदं तर्हि फलं `स्रुघ्ने भवा स्नौघ्नी' अण उत्पत्तिवेलायामेवोदात्तत्वे सति उदात्तानिवृत्तिस्वरेम ङीबुदात्तः। अन्यथा `स्त्रौघ्न ई' इति स्थिते "प्रत्ययस्य च" इत्याद्युदात्तत्वं बाधित्वा परत्वात् "यस्य"(पाoसूo6-4-148)इति लोपे कृते उदात्तनिवृत्तिस्वरो न लभ्येतेति चेत्? मैवम्, परस्यापि यस्येति लोपस्य ङीबुत्पत्तिमपेक्षमाणस्य अन्तरङ्गेण बाधात्। तवापि हि आत्रेयीशब्दे इयमेव गतिः। तथाहि, अत्रेरपत्यम् "इतश्चानिञः"(पाoसूo4-1-122)इति ढक्। आयन्नादिषु उपदेशिवद्वचनं स्वरसिद्ध्यर्थमिति प्रत्ययस्वरात्पूर्वमेयादेशः। "टिड्ढा"(पाoसूo6-1-15)इति ङीप्। आत्रेय ई इति स्थिते तद्धितस्य "कितः"(पाoसूo6-1-165)इति स्वरं बाधित्वा परत्वात् "यस्य"(पाoसूo6-4-148)इति लोपे कृते उदात्तनिवृत्तिस्वरो न स्यात्। तस्मान्नेदं फलमिति स्थितम्। अस्तु तर्ह्यनुदात्तस्यात्र प्रदेशे करणे फलान्तरम्। तथाहि,
पित्स्वरात्तित्स्वरष्टापि चित्स्वरश्चापि पित्स्वरात्।
कार्यशब्दाट्टापि स्वरितत्वात्प्रागेकादेशे कृते तस्य पूर्वं प्रत्यन्तवद्भावात्तित्स्वरः प्राप्नोति परं प्रत्यादिवद्भावात्पित्स्वरश्च परत्वात्स्वरितो भवति। यदि तु "लसार्वधातुकमनुदात्तम्" "सुप्पितौ च" इत्युच्यते तर्हि परत्वादनुदात्तत्वं स्यात्। एवम् `आम्बष्ठ्या' इत्यत्र यङश्चाप्येकादेशे कृते पित्स्वरात्परत्वाच्चित्स्वरो जायते। तदपि विपरीतं स्यादिति चेत्? मैवम्, `कार्या' इत्यत्र हि टाबुत्पत्तेः प्रागेव स्वरितो भवत्यन्तरङ्गत्वात्सत्यपि वा टापि स्वरितैकादेशयोरुभयोरनित्ययोः परत्वात्स्वरिते कृते आन्तर्यतः स्वरितानुदात्तयोरेकादेशः स्वरित एव भवति। आम्बष्ठ्यायामपि चापश्चित्करणसामर्थ्यादेव चित्स्वरो भविष्यति। सामान्यग्रहणे चित्त्वमुपक्षीणमिति चेत्? न, एवं हि टाप्प्रकरम एव "यङः" इति सूत्रयेत्।
(पाoसूo3-1-4)
अनुदात्तौ सुप्पितौ(पाoसूo3-1-4)।। पूर्वस्यापवादः। सुप्प्रत्याहारः पिच्च अनुदात्तः स्यात्। प्रत्याहारश्च सुपः पकारेम न तु कपः, टाबादीनां पित्करणात्, सुपः पकारस्यानन्यार्थत्वाच्च। दृषदः। पठति, पचति।
(पाoसूo3-1-5)
गुप्तिज्‌किद्‌भ्यः सन्(पाoसूo3-1-5)।। एभ्यः परः सन्प्रत्ययः स्यात्। "धातोः कर्मणः"(पाoसूo3-1-7)इति सूत्रे वाग्रहणं विभज्य त्रिसूत्रीशेषतया सम्बध्यते। सा च व्यवस्थितविभाषा। तेन प्रथमसूत्रद्वये अर्थविशेषोपहितेभ्य एव धातुभ्यः सन्। स च विशेषो मुनित्रयेण साक्षादनुक्तोऽपि वृत्तिकारादिभिरुपनिबद्धः।
तत्र गुपेर्निन्दायाम्(काoवाo)। जुगुप्सते।
तिजेः क्षमायाम्(काoवाo)। तितिक्षते।
कितेर्व्याधिप्रतीकारे अपनयने नाशने निग्रहे च(काoवाo)। चिकित्सति वैद्यः। "क्षेत्रियच्परक्षेत्रे चिकित्स्यः"(पाoसूo5-2-12)इति सूत्रे वृत्तिग्रन्थः। क्षेत्रियाणि तृणानि सस्यार्थं क्षेत्रे जातानि चिकित्स्यानि अपनेयानि विनाशयितव्यानि वा। तथा क्षेत्रियः पारदारिकः। परदाराः परक्षेत्रं तत्र चिकित्स्यो निग्रहीतव्यः। विपूर्वः संशयेऽपि-विचिकित्सति मे मनः। "विचिकित्सा तु संशयः"(अoकोo1-5-4)इत्यमरः। अर्थान्तरे तु गोपयति। हेतुमण्णिच्। तेजयति। संकेतयति। हेतुमण्णिच् चुरादिणिज्वा। भूवादौ चुरादौ चानयोः पाठादेति न्यासकारः। वस्तुतस्तु सर्वत्र चुरादिणिजेव न तु हेतुमण्णिच् इत्यनुपदमेव अवयवे ह्यचरितार्थं लिङ्गं सामर्थ्यात्समुदायस्य विशेषकामिति भाष्ये समर्थितम्। युक्तं चैतत्, भ्वादौ अनुदात्तेत्सु `गुप गोपने'तिज निशाने'(भ्वाoआ995,996)इत्यनयोः पाठात्। मैत्रेयस्तु तत्रैव `गुप गोपनकुत्सनयोः' इति पपाठ। एषां च नित्यं सन्। तथा च भाष्यम्-"नैतेभ्यः प्राक्सन आत्मनेपदं नापि परस्मैपदं पश्यामः" इति। एवं च `गोपते' `तेजते' इति स्वाम्युक्तः केवलात्तङः प्रयोगः प्रत्युक्तः। नन्वेवं गोपयति तेजयतीति णिजन्तेऽपि तङ्प्रसङ्गः। सन्नन्ते तङं प्रवर्त्य अनुदात्तेत्वं चरितार्थमिति चेत्? णिचि प्रवर्त्यतां न तु सनीति विपरीतं कुतो न; इति चेत्?
अत्रोच्यते, भिन्नार्था धातवो भिन्ना एव। एवं च निन्दाक्षमादौ यत्रार्थे सन्निष्यते तदुपहिताः सानुबन्धा भ्वादयो भिन्ना एव, यत्र लिङ्गमिति भाष्यस्यायमेवाशयः। स्पष्टं चेदं "पूर्ववत्सनः"(पाoसूo1-3-62)इति सूत्रे पदमञ्जर्याम्। एवञ्च भ्वादिभ्यो हेतुमण्णिजिति प्रागुक्तन्यासग्रन्थोऽसङ्गत एव।
अत्राभरणकारः-गुपादिसूत्रे गुप्तिज्‌किन्मानित्युपक्रम्य गुपादिष्वनुबन्धकरणमात्मनेपदार्थमिति भाष्ये वार्तिके चोक्तत्वात्कितिः परस्मैपदिषु पठितोऽप्यात्मनेपदी बोध्यः। न च गुपादिष्विति बहुवचनं वक्ष्यमाणमान्‌बधाद्यपेक्षमिति वाच्यम्, भाष्ये विशिष्य कितेरप्युपक्रमादित्याह। एतदनुसारी वर्धमानोऽपि "स्वाश्रयं कश्चिकित्सतु" इति खण्डनस्य व्याख्यावसरे "चिकित्सतामिति तु युक्तम्" इत्याह। माधवस्तु नैतन्मेने, अनेकमहाग्रन्थविरुद्धत्वात्। तथाहि, धातुपाठे तावदयमुदात्तेत्पठितः वृत्तिकारोऽपीह परस्मैपदमुदाजहार। कैयटोऽप्याह-क्रमदर्शनाय कितिः पठितो न त्वयमनुदात्तेदिति। हरदत्तोऽप्याह `कितिस्तु परस्मैपदी' इति। स्वामी काश्यप इन्द्रश्चेत्यादयोऽपीत्थमेव प्रत्यपीपदन्। तस्मात् श्रीहर्षोक्तिरेव युक्ता वर्धमानोक्तिरयुक्तेति दिक्।
तथा च प्रयुज्यते-तस्य चिकित्सतो भ्रम एवं विद्वान्विचिकित्सतीत्यादि। सनो नकारः स्वरार्थः। धातुस्वरस्तु न भवति नित्करणसामर्थ्यात्। यः स्तोतारं जिघांसति सखायम्। न चार्धधातुके अतोलोपेन भाव्यम्, सार्वधातुके तु शापा सहैकादेशेन, तथा च सनोकारो मास्त्विति चेत्? न, दित्सधित्सादिभ्य एकाच्‌त्वे यङ्‌प्रसङ्गात् `दित्स्यम्' `धित्स्यम्' इत्यत्र ण्यत्प्रसङ्गाच्च। "कास्यनेकाज्‌ग्रहणं चुलुम्पाद्यर्थम्" इति वार्तिकस्य प्रत्ययग्रहणमपनीयानेकाज्‌ग्रहणं कर्त्तव्यमित्येवंपरत्वेन `दित्साञ्चक्रे' इत्याद्यसिद्ध्यापत्तेश्च। एतेन सन्यङोरिति सप्तमीं व्याख्याय `प्रतीषिषति'-`अटाट्यते' इत्यादौ तु सन्यङोरकारोच्चारणसामर्थ्याद्‌द्वित्वमिति वदन्तः प्रसादकारादयः परास्ताः, उक्तरीत्या अकारोच्चारणस्य चरितार्थत्वात्। न्यासहरदत्तादिग्रन्थास्तु सन्यङोर्द्वित्वमपि फलमित्येवंपराः। ते च षष्ठीव्यख्यानमेव गृहीत्वा योज्या इति दिक्।
(पाoसूo3-1-6)
मान्‌बधदान्‌शान्‌भ्यो दीर्घश्चाभ्यासस्य(पाoसूo3-1-6)।। एभ्यः सन्स्यात् अभ्यासस्य इकारस्य दीर्घश्च। अत्रापि पूर्ववदर्थविशेषोपहितेभ्यः सानुबन्धेभ्यो नित्यः सन्। अर्थान्तरोपहितानि तु धात्वन्तराणि चुरादौ बोद्धव्यानीति निष्कर्षः। तत्र-
मानेर्विचारे(काoवाo)। मीमांसते। ननु ज्ञानार्थान्मानेरुत्तरसूत्रेणैव सन्नस्तु, मैवम्, दीर्घविधानार्थमिडभावार्थञ्चास्यावश्यकत्वात्। धातोरित्यविधानाद्धि सनोऽत्र नार्धधातुकत्वमतो नेट्। यत्तूत्तरतन्त्रे वाचस्पत्यादौ मीमांसाशब्दो `माङ् माने'(दिoआo36)इत्यस्माद्‌व्युत्पन्न इत्युक्तम्, तस्यायमाशयः-इह सन्प्रकृतिस्तावदात्मनेपदार्हाच्चुरादिकाद्भिन्नैवेति स्थितम्। तत्र "मान पूजायाम्" इत्यादिवृत्तिकारग्रन्थो भङ्क्त्वा व्याख्येय एव। न हि तस्मादयं सन्। एवं स्थिते सन्प्रकृतिरनुदात्तेत्कैवेत्यत्र मानाभावात्, ङीदेव सास्तु, नुक्‌सूत्रे च निपात्यतां मुण्डमिश्रादि (पाoसूo3-1-21)सूत्रे हलिकल्योरदन्तत्ववत्। न च वैयाकरणानामुपायेष्वाग्रहः,
उपेयप्रतिपत्त्यर्था उपाया अव्यवस्थिताः। इत्युक्तेः।
न चैवं "सनिमीमा"(पाoसूo7-4-54)इतीस्‌प्रसङ्गः, घ्वादिसाहचर्येणेच्छासन्येव तद्विधानात् इति।
बधेश्चित्तविकारे(काoवाo)। बीभत्सते।
दानेरार्जवे(काoवाo)। दीदांसते।
शानेर्निशाने।(काoवाo)। निशानं तीक्ष्णीकरणम्। शीशांसति, शीशांसते। चुरादीनां तु-मान पूजायाम्(चुoपo311)मानयति। बधबन्धने(चुoपo74)बाधयति। दान अवगुण्ठने(भ्वाoपo1019)दानयति। शान तेजने(भ्वाoपाo1020)शानयति। अत्र सन्प्रकृतिभूतौ मान्बधी अनुदात्तेतौ, शेषौ स्वरितेतौ। चुरादयस्त्वननुबन्धाः। ननु त्रयाणामर्थभेदाद्भेदोऽस्तु शानेस्तु णिच्सनोरर्थैक्यात्कथं भेद इति चेत्? धुनाति धुनोत्यादीनामिवेति गृहाण। स्यादेतत्, इह दीर्घश्रुत्या अच इत्युपस्थितं तच्चेदभ्यासेन विशेष्यते तदा अभ्यासस्याचो विधीयमानो दीर्घो हलादिशेषात्प्राक् स्यात्। अचा अभ्यासविशेषणे तु अजन्तस्याभ्यासस्य विधीयमानो हलादिशेषं प्रतीक्षतां ततोऽधिकस्य प्रतीक्षायां कारणाभावात् विशेषविहितत्वाच्च समन्तरमेव भवन् बधेरित्वस्य शेषाणां ह्रस्वस्य च बाधकः स्यात्। ततश्चाभ्यासे आकारः श्रूयेत नत्वीकार इति चेत्? सत्यम्। अत एव आभ्यासस्येति च्छेदः कृतः। अभ्यासस्य विकार आभ्यासः, स चेत्वमेव। तथाहि लोपस्तावन्नविकारः, लोपागमवर्णविकारज्ञ इति पस्पशायां द्वौ चापरौ वर्णविकारनाशाविति वार्त्तिके च पृथगुपादानात्। अभावस्यादेशविधानायोगाच्च, अच इत्युपस्थितेश्च। यदि तु ह्रस्वस्य स्यात्तर्हि तद्धितनिर्द्देशो व्यर्थः स्यात्। तस्मादित्वमेव तद्धितेन प्रत्याय्यते। यद्वा, सन्याहत्य विहितस्य विकारस्य ग्रहणमस्तु। तदेतदाभिसन्धाय व्याख्यातं प्राक् `आभ्यासस्य विकारस्य'इति'। अथ वा "दीर्घोऽकितः"(पाoसूo7-4-83)इत्यात्राकिद्ग्रहणेन अभ्यासविकारेषु बाध्यबाधकभावो नास्तीति ज्ञाप्यते। तद्धि `यंयंम्यते' `रंरंम्यते' इत्यादौ नुकि कृते मा भूदिति कृतम्। विशेषविहितेन नुका अनजन्तत्वादेव दीर्घो न भविष्यतीति किंतेन? अत एव `डोढौक्यते' `तोत्रौक्यते' इत्यादौ ह्रस्वे कृते गुणो भवति। अन्यथा `बबाधे' इत्यादौ चरितार्थं ह्रस्वत्वं `पापच्यते' इत्यादौ चरितार्थो दीर्घः परत्वाद् बाधेत।
(पाoसूo3-1-7)
धातोः कर्मणः समानकर्तृकादिच्छायां वा(पाoसूo3-1-7)।। इषेः कर्म तेनैव च समानकर्तृको यो धातुः तस्मादिच्छायामर्थे सन्प्रत्ययो वा स्यात्। धातोः कर्मत्वसमानकर्तृकत्वे अर्थद्वारके बोध्ये। अर्थस्यापि ते इषिनिरूपिते एव न तु क्रियान्तरनिरूपिते, इच्छायामित्यस्य सन्निधानात्। कर्तुमिच्छति चिकीर्षति। धातोः किम्? सन आर्द्धधातुकत्वं यथा स्यात्। तेन यथायथामिड्गुणौ स्तः। अन्वथा `जुगुप्सते' इत्यादाविव न स्याताम्। कर्मणः किम्? गमनेनेच्छतीत्थर्थे `जिगमिषति' इति मा भूत्। समानकर्तृकात्किम्? देवदत्तकर्तृकं भोजनमिच्छति यज्ञदत्तः। इच्छायां किम्? कर्तुं जानाति। वावचनाद्वाक्यमपि। न च "समानकर्तृकेषु तुमुन्"(पाoसूo3-3-158)इति तुमुन्विधानसामर्थ्यादेव वाक्यं सिद्धमिति वाच्यम्, चिकीर्षितुमिच्छतीत्यत्र चरितार्थत्वात्। नह्यत्र सनः प्रसङ्गः, सन्नन्तान्न सन्नितिवक्ष्यमाणत्वात्।
आशङ्कायामुपसंख्यानम्(काoवाo)।। कूलं पिपतिषति। श्वा मुमूर्षति। शङ्के पतिष्यति कूलम्। शङ्के मरिष्यति चेत्यर्थः। आशङ्का सम्भावना तद्विशिष्टक्रियावचनात्स्वार्थे सन्निति कैयटादयः। शङ्काविशिष्टयोः पतनमरणयोर्लडर्थवर्त्तमानत्वान्वये `स्वर्गी ध्वस्त' इत्यादाविव विशेषणीभूतशङ्कायां वर्तमानत्वपर्यवसानं बोध्यम्। प्रत्याख्यानं तु यो यदिच्छति स तस्य पूर्वरूपाणि करोति यथा-देवदत्तः कटं चिकीर्षुः पूलादीन्युपादत्ते। एवं कूलस्यापि लोष्टविशरणादीन्युपलभ्य पतनेच्छाऽध्यारोप्यते। यद्वा, सन्विधायके सूत्रे इच्छाशब्दो गौणमुख्यसाधारणः। गौणमुख्यनयायस्तु लक्ष्यानुरोधात्स्वरितत्वाच्च नाश्रयिते। अत्र भाष्यम्--
शेषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः।
सरूपः प्रत्ययो नेष्टः सन्नन्तान्न सनिष्यते।।
अयं श्लोक इह सूत्रे मतुब्विधौ च भाष्ये पठितः। अस्माभिस्तु चतुर्थे "शेषे"(पाoसूo4-2-12)इति सूत्रे ज्ञापितोयऽमिति तत्रैव व्याख्यास्यते। एतव्द्याख्यानपराः प्रकृतसूत्रस्थकैयटहरदत्तादिग्रन्थाः पाञ्चमिकभाष्यविरुद्धा इति तत्रैव वक्ष्यते। िह सन्प्रसङ्गादन्योऽप्यनिष्टः प्रत्ययो वारितः। प्रकृतोपयुक्तं तु 'सन्नन्तान्न सनिष्यते" इति। सरूप इत्येव। सारूप्यं चात्र सादृश्यम्। स्वार्थसन्नन्त्तात्तु स्यादेव। जुगुप्सिषते। मीमांसिषते। एतच्च न्यायसिद्धम्। तथाहि, लक्ष्यवसादिह जातिः पदार्थः। तत्र च सकृल्लक्षणं प्रवर्त्तते इति सन्प्रवृत्तेः प्राक् तदन्तप्रकृत्यसम्भवात्तदन्तात्प्रत्ययस्य प्रसङ्ग एव नास्तीत्याहुः। एवं तु यङ् सन् ण्यन्तात्सनि बो भूयिषयिषतीत्यादि बहूनां लेखनं विरुध्यते। तस्माद्वाचनिकः सन्नन्तात्तदभाव इत्येव सारम्। इह यो ग्रामं गन्तुमिच्छति तस्य यद्यपि ग्रामो न स्वरूपेणेष्टः ग्रामो मे स्यादिति, तथापि गम्यमानतारूपेणेष्ट एव। अत एव ग्रामो जिगंस्यते जिगमिषितव्यः जिगमिषितः सुजिगमिष इति सन्नन्ताद्ग्रामे कर्मणि लादयो भवन्ति। गमनं प्रति कर्मत्वमप्यस्त्येव। अत एव ग्रामं ग्रामाय वा जिगमिषतीत्यत्र "गत्यर्थकर्मणि"(पाoसूo2-3-12)इति द्वितीयाचतुर्थ्यौ भवत इति भाष्ये स्थितम्। एवं च ग्रामो गमनं चेत्युभयमिषेः कर्म "शक्यं च क्षुदुपहन्तुम्" इति पस्पशायां भाष्यस्य तत्रत्यकैयटस्य च पर्यालोचनया क्षुत् उपहननं चेत्युभयं शकेः कर्मेति स्थितम्। एवं च गन्तुमिष्यते शक्यते चेति प्रयोगे ग्रामो ग्रामं चेत्युभयमपि विवक्षाभेदेन साधु। प्रथमान्तस्य हि इषि शकिभ्यां कर्मत्वेन शाब्दोऽन्वयः, गमिना त्वार्थः। द्वितीयान्तस्य तु गमिं प्रति कर्मत्वं शाब्दम्, इषशकी प्रति तु विशिष्टस्य वैशिष्ट्यं, विशेष्ये विशेषणं तत्र च विशेषणान्तरमिति वा बोध्यम्। एतेन इषिशकी च द्विकर्मकौ भाष्ये स्थिताविति माधवग्रन्थो व्याख्यातः। किन्तु एतदुपष्टम्भेन "अयाचितारं नहि" इति श्लोके देवदेवस्य शकिकर्मत्वं यदुपपादितं तच्चिन्त्यम्। उक्तरीत्या हि सुतां ग्राहयितुमिति द्वयं कर्मास्तु, गृह्णादिकर्तुस्तु शकिकर्मतायां कः प्रसङ्गः?
।। इति श्रीशब्दकौस्तुभे तृतीयस्याध्यायस्य प्रथमे पादे प्रथममान्हिकम् ।।