शब्दकौस्तुभः/अध्यायः ३-पादः १/आह्निकम् २
← आह्निकम् १ | शब्दकौस्तुभः आह्निकम् २ [[लेखकः :|]] |
आह्निकम् ३ → |
।। तृतीयस्याध्यायस्य प्रधमपादे द्वितीयमान्हिकम् ।।
(पाoसूo3-1-8)
सुप आत्मनः क्यच्(पाoसूo3-1-8)।। कर्मण इच्छायां वेति वर्तते। इषिकर्मण एषितृसम्बन्धिनः सुबन्तादिच्छायामर्थे क्यच् प्रत्ययो वा स्यात्। आत्मनः पुत्रमिच्छति पुत्रीयति। आत्मशब्दोऽत्र परव्यावृत्तिपरः स्वशब्दपर्यायो गृह्यते न तु चेतनमात्रवचनः। तथात्वे हि स इच्छां विशेषयेत् सुबन्ते वा? आद्येऽपि आत्मन इति कर्तरि षष्ठी चेत्? आत्मा चेदिच्छतीति तर्हि पर्यवत्स्येत्। तथा च व्यर्थविशेषणता, नह्य नात्मा इच्छति। कर्मष्ठ्यां तु "अश्वक्षीर"(पाoसूo7-1-51)इति सूत्रं न सङ्गच्छते, क्षीरादिभ्यः क्यचो दुर्लभत्वात्। द्वितीयेऽपि व्यर्थविशेषणतैव। परस्यापि हि इष्यमामः चेतनसम्बन्धी भवत्येव। तस्माद्य थोक्तमेव साधु। स्वस्य यत्सुबन्तमित्यत्र तु कस्य स्वस्येत्यपेक्षायां इच्छया एषितुः संनिधापितत्वात् तस्यैवेति लभ्यते। न चैवमपि आत्मनः पुत्रं परस्य स्वामिनमिच्छतीत्यत्र प्रसङ्गः, सुबन्तस्यात्मसन्वन्धित्वादिति वाच्यम्, नह्यत्र यथाकथंचिदात्मसम्बन्धित्वं विवक्षितम्, किं तर्हीष्यमाणं रूपमात्मसम्बन्धित्वेन यदेष्यतेतदा प्रत्ययः। इह त्वात्मीयत्वेन नेच्छा किन्तु परस्वामित्वेनेति न दोषः। सुष्ग्रहणं पदविधित्वार्थम्। तेन समर्थपरिभाषोपस्थानान्महान्तं पुत्रमिच्छतीत्यादौ सापेक्षान्न भवति। अन्यथा महान्तं पुत्रीयतीतिस्यात्। न च सुब्ग्रहणं विनाऽपि कर्मण इत्यनेनैव पदविधित्वं लभ्यतामिति वाच्यम्, यत्र हि पदस्यासा धारणं रूपमाश्रीयते स पदविधिः कर्मत्वं तु अपदेऽपि दृश्यते धातोः कर्मण इति यथा। कथं तर्हि "कर्मण्यण्"(पाoसूo6-2-1)इत्यादौ पदविधित्वमिति चेत्? उपपदसञ्ज्ञाया अन्वर्थत्वबलादिति गृहाण। महापुत्रीयतीति तु महापुत्रीमिच्छतीति विग्रहे बोध्यम्। आत्मनः किम्? राज्ञः पुत्रमिच्छति पुरोहितः। नन्वसामर्थ्यादेवात्र न भविष्यतीति चेत्? तर्ह्यात्मनः पुत्रमिच्छतीत्यत्रापि न स्यात्। ननु लौकिकविग्रहे आत्मन इति प्रयोगेऽपि अलौकिके प्रक्रियावाक्ये केवलात्पुत्रशब्दात् क्यजिति चेत्? तर्हि तथैव परकीयपुत्रेच्छायामपि स्यादिति गृहाण। किञ्च पुत्रशब्दस्य नित्यसापेक्षत्वान्नासामर्त्यम्। अपिच यत्रार्थादेव परकीयत्वे गम्यते तत्र परस्येति प्रयोगाभावात्स्पष्टैवातिव्याप्तिः। अघमिच्छतीति यथा। न हि कश्चिदात्मनोऽघमिच्छति। क्यचः ककारो "नः क्ये"(पाoसूo1-4-15)इति सामान्यग्रहणार्थः। `ये' इत्युक्ते हि `सामसु साधुः सामन्यः' अत्रापि स्यात्। चकारस्तदविघातार्थः। स्वरस्तु प्रत्ययस्वरेम धातुस्वरेणा वा सिद्धः। अकारस्तु यद्यपि न श्रवणार्थः, आर्द्धनिषेधार्थः सः। तथाहि, समिधं दृषदं वेच्छति समिध्यति, दृषद्यति। ततो ण्वुल् "अतो लोपः"(पाoसूo6-4-48)। " यस्य हलः"(पाoसूo6-4-41)। "क्यस्य विभाषा"(पाoसूo6-4-50)। समिधकः। दृषदकः। अत्राल्लोपस्य स्थानिवद्भावात् "पुगन्त"(पाoसूo7-3-86)इति गुणः "अत उपधायाः"(पाoसूo7-2-116)इति वृद्धिश्च न भवति। किञ्च मृदमिच्छति मृद्यति। मृद्यतेः "अचो यत्"(पाoसूo3-1-97)अतोलोपादि पूर्वत्-मृद्यम्। "यतोऽनावः"(पाoसूo6-1-213)इत्याद्युदात्तत्वम्। अपिच `पुत्रीयति' इत्यादौ शपोऽनुदात्तता स्यात्। शपा सहैकादेशे तु स उदात्तो भवति। अपिच मृद्यतेरनेकाच्त्वाद्य ङोनुत्पत्तिराम्प्रत्ययश्च फलमिति दिक्।
क्यचि मान्तीव्ययाचां प्रतिषेधः(काoवाo)।। मान्तश्चाव्ययं चेति द्वन्द्वः, तेन तत्प्रकृतिक लक्ष्यते। मान्तप्रकृतिकादव्ययप्रकृतिकाच्च सुबन्तान्न क्यजित्यर्थ-। यथाश्रुते तु पुत्रमिच्छतीत्यादौ क्यज् न स्यात् काविच्छति कानिच्छतीत्यादौच स्यात्। इदमिच्छति स्वरिच्छति। गोसमानाक्षरनान्तादित्येके। गोमिच्छति गव्यति-"वान्तो यि प्रत्यये"(पाoसूo6-1-79)। दधीयति, मधूयति-"अकृत्सार्व"(पाoसूo7-4-25)इति दीर्घः। कर्त्रीयति-"रीङ्ऋत-"(पाoसूo7-4-27)। राजीयति, तक्षीयति-"नः क्ये"(पाoसूo1-4-15)पदत्वान्नलोपे "क्यचि च"(पाoसूo7-4-33)इतीत्वम्। "नलोपः सुप्स्वर"(पाoसूo8-2-2)इति नियमान्नासिद्धत्वम्। अस्मिन्पक्षे `वाच्यति' `मृद्यति' इत्यादि न सिद्ध्येदिति नायं स्थितः पक्ष इत्याहुः।
छन्दसि परेच्छायामपि(काoवाo)। जहि यो नो अघायति। मा त्वा वृका अघायवो विदन्। ज्ञापकात्सिद्धम्। यदयं क्यचि प्रकृतेरीत्वबाधनार्थम् `अश्वाघस्याऽऽत्"(पाoसूo7-4-37)इत्याकारं शास्ति। न हि कश्चिदात्मनोऽघमिच्छति। न चाचारक्यजर्थं तत्, छन्दसि अघशब्दादाचारे क्यचोऽदर्शनात्, उदाहृतस्थले इच्छार्थस्यैव प्रतीतेरित्याहुः। क्यजन्तेषु प्रकृत्यर्थो यद्यपि कर्म तथापि तस्य दात्वर्थान्तर्भावात् जीवतिनृत्यती त्यादिवदकर्मक एवेच्छाक्यजन्तः। अतोऽस्माद्भावे कर्तरि च लादयः। आचारक्यजन्ते तु पुत्रादेरुपमानकर्मणो धात्वर्थान्तर्भावेऽपि छात्रादेरुपमेयकर्मणोऽनन्तर्भावात्तस्मिन्कर्मणि लादयो भवन्त्येव। `पुत्रय्यिते छात्रः' `पुत्रीयितव्यः' इत्यादि यथा, `श्येनायते काकः' इत्यत्र उपमानकर्तुरन्तर्भावेऽपि उपमेयकर्तरि लो भवति तद्वत्। ननूक्तरीत्या मुण्डं करोति मुण्डयति माणवकमिति न सिध्येत्, णिजन्ते मौण्ड्यगुणविशिष्टत्वेनैव कर्मान्तर्भूतं न तु माणवकत्वादिना विशेषेणेति यदि, तर्हि तथैव मुण्डमिच्छति मुण्डीयति माणवकमित्यपि स्यात्। तस्मात् णिच्क्यचोर्विशेषो वक्तव्य इति चेत्? उच्यते, "तत्करोति'(गoसूo)इति णिचि सिद्धे "मुण्डमिश्र"(पाoसूo3-1-21)इति पुनर्विधानं सापेक्षेभ्योऽपि यथा स्यादित्येवमर्थमेव। क्यच् तु निरपेक्षेषु चरितार्थ इति स्पष्ट एव विशेषः। यद्वा, कण्ड्वादिवत् मुण्डादयो द्विविधाः। धातवः प्रातिपदिकानि च। तत्र सौत्रा एते विशिष्टक्रियावचना धातवः। तेभ्यश्चुरादिवत्स्वार्थे णिच्। प्रातिपदिकानां तु विग्रह एव। माणवकं मुण्डं करोतीति। अथवा मुण्डयतीत्यत्र कमिति विशेषाकाङ्क्षा अनुभवसिद्धा। मुण्स्यैव वा शुद्धेन करोतिनाऽन्वयः। मौण्ड्यविशिष्टेन तु माणवकस्य। यथा `गां दोग्धि पय' इतिशुद्धस्य दुहेः पूर्व गवा सम्बन्धः, पश्चात्तु गोदुहिना पयसः। क्यच्प्रत्ययस्तु अनभिधानान्न भवति। मामवकं मुण्डीयतीत्युक्ते मुण्डमिवाचरतीत्यर्थान्तरमेव गम्यते। तदुक्तं हरिणा--
सदपीच्छाक्यचः कर्म तदाचारक्यचाहृतम्।
वाक्यवाच्यमतो व्यक्तेर्यथाऽभ्यासः क्रमादिषु।। इति।
अस्यार्थः-सदपि न्यायतः सम्भवदपीच्छाक्यचः कर्म वाक्यवाच्यं माणवकं मुण्डमिच्छतीत्येवं रूपेण बोधनीयम्, न तु क्यजन्तेन, यत आचारक्यचा हृतं निरवकाशीकृतम्, तदर्थस्यैव निरूढेः। आचारक्यचा हरणे वाक्यवाच्यत्वे वा हेतुमाह-अतो व्यक्तेरिति। अतोऽस्मात् क्यचो व्यक्तेराचारार्थस्यैव प्रतीतेः। अतो वाक्यादिच्छाकर्मणः प्रतीतेरिति वा। यथा क्रमादिषु गत्यर्थेषु अभ्यासः पौनःपुन्यं वाक्येनैव गम्यते न तु यङा, कौटिल्ये निरूढेः। उक्तं च प्रकीर्णकाण्डे-
सदपीच्छाक्यचः कर्म्म एव प्रयुज्यते।
प्रसिद्धेन हृतः शब्दो भावगर्हाभिधायिना।।
अभ्यासे तुल्यरूपत्वान्न यङन्तः प्रवर्तते। इति।।
एतेन यथेति क्रमादिषु यथा वेदादिविषयोऽभ्यासो व्यज्यते तथा वाक्ये इच्छाक्यचः कर्मेत्यर्थः। अथवाऽभ्यासक्रमादिष्वित्येकं पदम्, अभ्यासेन वर्मक्रमादिविषयाभिव्यक्तिर्भवति तथा वाक्येन कर्मत्वविषयाभिव्यक्तिरित्यर्थ इति विवरणं प्रत्युक्तम्। अत्र भाष्ये क्यजन्तस्य `इष्टः पुत्रः' `इष्यते पुत्रः' इत्यादयो विग्रहा निराकृताः। तस्यायमाशयः-यद्यपि वृत्तिवाक्ययोरत्यन्तसमानार्थकता नास्तीत्यदूरविप्रकर्षेणैव सर्वत्र विग्रहः, तथापि सुसदृशसम्भवे मन्दसदृशोपादानमन्याय्यम्। इच्छाक्यजन्तस्य चाकर्मकतया कर्मप्रत्ययान्तैर्विग्रहोऽनुचितः, निरर्थकाधिकावापत्तेरिति। अत एव बाहुलकात्कर्मणि क्विबन्तस्य श्रीशब्दस्य `श्रीयते' इत्येव विग्रहो न्याय्यो न तु श्रयन्त्येतामिति कर्त्रर्थतिङन्तेनेति मान्याः। यदि तु कर्तरि क्विप् तर्हि श्रयतीत्येव विग्रह इत्यन्यदेतत्। एवं च श्रयन्त्येतामित्यत्र किं शब्दाशुद्धिरर्थाशुद्धिर्वेत्यादिवल्गनमत्रत्यभाष्यापर्यालोचनमूल कत्वादुपेक्ष्यम्।
अथ नामधातुषु प्रतिसूत्रं लेशतः प्रक्रिया व्युत्पाद्यते। पुत्रीयतीत्यादौ अलौकिके प्रक्रियावाक्ये सन्धिकार्यरहितात्पुत्र अमित्यस्यात्क्यचि सुपो लुक् "अन्तरङ्गानपि"(पoभाo53)इति न्यायात्। ततः "क्यचि च"(पाoसूo7-4-33)इतीत्वम्, अश्वस्यति। वृषस्यति। क्षीरस्यति। लवणस्यति। "अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि"(पाoसूo7-1-51)इत्यसुगागमः। अत्रात्मप्रतावित्यपनीय "अश्ववृषयौर्मैथुनेच्छायाम्" "क्षीरलवणयोर्लालसायाम्" इति वक्ष्यते। तेनाद्ययोरुदाहरणयोरश्ववृषयोर्मैथुनायेच्छतीत्यर्थः। अन्ये तु परित्यक्तप्रकृत्यर्था मैथुनेच्छैवार्थ इत्याहुः। तथा च कालिदासः--
इति रामो वृषस्यन्तीं वृषस्कन्धः शशास ताम्। इति।
निघण्टुश्च-`वृषस्यन्ती तु कामुकी' इति। इतरयोरपि तृष्णातिरेकोऽभ्यवजिहीर्षातिरेको लालसा, तेन क्षीरलवणेच्छायां लालसारूपायामित्यर्थलाभात् क्षीरलवणे अतिशयेन अब्यवहर्तुमिच्छतीत्यर्थः। अत्र प्रकृत्यसुगकारयोः सवर्मदीर्घं बाधित्वा "अतो गुणे"(पाoसूo6-1-97)इति पररूपम्। अकारोच्चारणं तु पूर्वसूत्रोदाहरणे `ब्राह्मणासः' इत्यादौ कृतार्थम्। तथ "सर्वप्रातिपदिकेभ्यो लालसायमसुग् वक्तव्यः" इत्यनकारान्तादसकि दध्यस्यतीत्यादौ च सुगसुकौ च दघिमधुभ्यामेव स्तः, भाष्ये "दधिस्यति मधुस्ततीत्येवमर्थम्" इत्युक्तेरित्येके। अन्ये तु सर्वप्रातिपदिकेभ्य इत्येके इति सर्वग्रहणाद्बहुवचननिर्देशाच्च सर्वत्रस्तः। एवमर्थमिति तूदाहरणान्तराणामप्युपलक्षणमिति वदन्ति।
अशनोदकधनेभ्यः क्यचि "अशनायोदन्यधनाया बुभुक्षापिपासागर्धेषु"(पाoसूo7-4-34)इत्यशनधनयोरीत्वापवाद आत्वम् उदकस्योदन्नादेशश्च। अशनायति। सद्यो भोक्तुमशनमिच्छतीत्यर्थः। बुभुक्षायां किम्? अशनीयति। औत्तरकालिकमशनमिच्छतीत्यर्थः। उदन्यति। पातुमुदकमिच्छतीत्यर्थः। उदकीयति। स्नानाद्यर्थमुदकमिच्छतीत्यर्थः। धनायति, सत्यपि धने भूयोऽपीच्छतीत्यर्थः। धनीयति। दरिद्रः सन् धनमिच्छतीत्यर्थः। केचित्तु अशनादिप्रकृत्यर्थमनपेक्ष्य केवलं बुभुक्षादीनेव क्यजन्तस्यार्थान् मन्यन्ते। तथाच निघण्टुः-"उदन्या तु पिपासा तृट्" इति। भारविश्च-"किमु धनं धनायितुम्" इति। गार्ग्यमिच्छति गार्गीयति। अत्र "क्यच्व्योश्च"(पाoसूo6-4-152)इति हल उत्तरस्य आपत्ययकारस्य लोपः। उपार्षभीयति, उपर्षभीयति। उपाल्कारीयति, उपल्कारीयति। अत्र "वा सुप्यापिशलेः"(पाoसूo6-1-92)इति वृद्धिविकल्पः। पक्षे गुणः। न च पक्षे गुणः। न च पक्षे "ऋत्यकः"(पाoसूo6-1-128)इति प्रकृतिभावः शङ्कनीयः। वा सुपीत्यत्र हि "उपसर्गादृति धातौ"(पाoसूo6-1-91)इति सम्पूर्णमनुवर्त्तते। तत्र "यत्क्रियायुक्ता" इति न्यायेनोपसर्गग्रहणादेव धाताविति लब्धे पुनर्धातु ग्रहणं योगविभागेनाधिकविधानार्थं सत्प्रकृतिभावं बाधत इति षष्ठे वक्ष्यमाणत्वात्।
उपगता ऋषभीयका अमुं देशम् उपर्षभीयको देशः। इह गुणप्रकृतिभावौ न तु वृद्धिः, गमिम्प्रत्युपसर्गत्वेऽपि सुब्धातुं प्रत्यतथात्वात्। न च "उपसर्गादध्वनः"(पाoसूo5-4-54)इत्यादाविव प्राद्युपलक्षकत्वम्, तत्रेवात्र मुख्ये बाधकाभावात्। ऋषभस्य समीपमुपर्षभं तदिच्छति उपर्षभीयति। अत्रापि गुणप्रकृतिभावौ न तु वृद्धिः, पूर्ववत्। स्यादेतत् "धातुसंज्ञानिमित्ते प्रत्यये चिकीर्षिते उपसर्गाः पृथक् क्रियन्ते" इति तावद्वक्ष्यते `उदमनायत' `उन्मनाय्य गतः' `उन्मिमनायिषते' इति अट्ल्यप्द्विर्वचनानि यथा स्युरिति। एवं चेहापि ऋषभशब्दादेव क्यच्। तेन-उपार्षभीयत्, उपर्षभीय्य, उपेन प्रादिसमासः। उपर्षिषभीयिषति इत्यादि सिध्यतु, वृद्धिस्तु कुतो नेति चेत्,? ऋषभीयतेरिह सुब्धातुत्वाभावात्। "प्रत्ययग्रहण"(पoभाo23)परिभाषया हि उपर्षभशब्दोऽत्र सुबन्तः, न तु केवल ऋषभशब्दः। तदिह यः सुबन्तो नासौ धात्ववयवः, यश्च धात्ववयवः नासौ सुबन्तः, किञ्चोपसर्गत्वाभावादपि न वृद्धिः। अत एव "ल्यबर्थं प्रादिसमासः" इत्युक्तं न तु `गतिसमासः' इति। न च सोऽपि क्त्वान्तेनासामर्थ्यात्कथमिति वाच्यम्, प्रकृत्येकदेशद्वारकस्य विशिष्टेन सामर्थ्यस्य कृत्सु सर्वत्र वाच्यत्वात्। न चोक्तरीत्या सुब्धातुत्वाभावे यथेष्टद्विर्वचनं न सिध्येदिति वाच्यम्, नामदातुत्वस्यैव तत्र प्रयोजकत्वात्। ऋकारमिच्छति ऋकारीयति उपर्कारीयतीत्यत्र "वासुपि"(पाoसूo6-1-92)इति वृद्धिः श कलप्रकृतिभावस्चेत्यभयं न भवति, ऋतीति तपरकरणात्। उस्रामैच्छत् औस्रीयत्। औंकारीयत्। आ ऊढः ओढः, औढीयत्। अत्र "उस्यपदान्तात्"(पाoसूo6-1-96)"आमाङोश्च"(पाoसूo6-1-95)इति पररूपं प्राप्तम् "आटश्च"(पाoसूo6-1-90)इति पुनर्वृद्धिविधानार्थेन चशब्देन बाध्यते। तथा च षष्ठे वार्तिकम्-"उत्सोमाङ्क्ष्वाटः प्रतिषेधः" इति। उसि ओमाङोश्च परयोराटः पररूपं नेत्यर्थः।
स्यादेतत्, उक्तवार्तिके आङ्ग्रहणम् औढीयदिति तद्भाष्यं चासङ्गतम्, उपसर्गाणां पृथक्करणस्य ज्ञापितत्वात्। न च सन्ध्यभावविषयकमेव तदिति वाच्यम्, उपर्षभीयतीत्यत्र तदभावापत्तेः। न चेष्टापत्तिः, माधवादि ग्रन्थविरोधात्।
अत्राहुः-यत्रोपसर्गस्वरूपमविकलं पृथक् प्रतीयते सं ज्ञापकस्य विषयः। इह तुं आङ् उकारेण सहैकादेशे न तथेति औकारात्पूर्वमाट्। तस्य अन्तवद्भावलब्धाङ्व्यपदेशेन ओकारेम सह प्राप्तं पररूपं वृद्धि मा बाधिष्टेति वार्तिके आङ्खहणम्। उक्तवार्तिकभाष्यग्रन्थ एव च ज्ञापकस्य विशेषविषयत्वे प्रमाणमिति। एवं स्थिते आ इतः एतः, ऐतीयत्, एतीयित्वा, एतितीयिषतीत्यादि द्रष्टव्यम्। प्रएतीयतीति स्थिते "एङि पररूपम्"(पाoसूo6-1-94)बाधित्वा प्राप्ताम् "एत्येधति"(पाoसूo6-1-89)इति वृद्धिम् "ओमाङोश्च(पाoसूo6-1-95)इति पररूपं परत्वाद्बाधते। प्रेतीयति। आगत ऋश्यः आ ईषदृश्यो वा अर्श्यः, प्रादिसमासः, अर् गुणः, अर्श्यमिच्छति अर्श्यीयति, आर्श्यीयत्। अत्र गुमस्य अन्तवद्भावेन आङ्त्वाद् "ओमाङोश्च" इति पररूपं प्राप्तं परत्वात्तद्बाधित्वा सवर्णदीर्घः प्राप्तः सोऽपि "आटश्च"(पाoसूo6-1-90)इति पुनर्वृद्धिविधानार्थेन चकारेण बाध्यत इति केचित्। तन्न, रूपे विशेषाभावात्, पुनर्विधानस्य पररूपबाधेनोपक्षीणत्वाच्च। अत एव "उस्योमाङ्क्षु" इति वार्तिकेन पररूपेमेव निषिद्धमिति दिक्।
अर्श्यीयतीत्यस्य प्रादिपूर्वत्वे प्रर्श्यीयति। अत्र "ओमाङोश्च'(पाoसूo601-9-7)इति बाधित्वा परत्वात्प्राप्तः सवर्मदीर्घः चकारेम पुनः पररूपविधानान्नेति माधवः। अरमिच्छति अरीयति, "रीङ् ऋतः"(पाoसूo7-4-27)अलमिच्छतीत्यत्रापि इदमेव रूपं, सावर्ण्यात्। तपरकरणाद्दीर्घस्य न रीङ् नापि ऋत इत्वम्, अधातुत्वात्। ऋयति। हेशब्दमिच्छति हेयति। गामिच्छति गव्यति। गव्यिता। अतो लोपे "क्यस्य विभाषा"(पाoसूo6-4-50)इति हल उत्तरस्य क्यप्रत्ययकारस्य प्राप्तो लोपः "सन्निपात"(पoभाo87)परिभाषया न भवति। अगव्यीत्। "वदव्रज"(पाoसूo7-2-3)इत्यत्र हल्ग्रहणस्य हल्समुदायस्य प्रतिपत्त्यर्थत्वेऽपि अल्लोपस्य स्थानिवत्त्वेनाङ्गस्य हलन्तत्वाभावान्न वृद्धिः। रैयति। ग्लाव्यति ग्लाव्यिता। श्वलिह्यति। श्वलिह्यिता, श्वलिहिता। अश्वलिहीत्। अत्र हलन्तलक्षणा वृद्धिर्न, अल्लोपस्य स्थानिवत्त्वात् "नेटि"(पाoसूo7-2-4)इति निषेधाच्च। अत्र "हो ढः"(पाoसूo882--9)इति ढत्वं न, "नः क्ये" इति नियमेनापदान्तत्वात्। अत एव `गोदुह्यति' इत्यत्र "दादेः"(पाoसूo842-32)इति घत्वं `मित्रद्रुह्यति' इत्यादौ "वा द्रुह"(पाoसूo8-2-33)इति तद्विकल्पः `उपानह्यति' इत्यादौ "नहो धः"(पाoसूo2-34)इति धत्वम् `अनडुह्यति' इत्यादौ "वसुस्रं"(पाoसूo8-2-72)इति दत्वं च न। पुरमिच्छति पूर्यति। "हलि च"(पाoसूo8-2-77)इति दीर्घः। यत्तु अधातुत्वान्न दीर्घ इति माधवेनोक्तम्। तन्न, पिपर्त्तेः क्विपि "उदोष्ठ्यपूर्वस्य"(पाoसूo7-9-92)इत्युत्वे रपरत्वे च निष्पन्नस्य पुर्शब्दस्य धातुत्वानपायात्। कथमन्यथा पूः पूर्भ्यामित्यादौ दीर्घः। कथं च "ऋक्पूरब्धूः"(पाoसूo5-4-78)"पूः सर्वयोः"(पाoसूo3-2-41)इत्यादिनिर्द्देशा इति दिक्।
एवं गिरमिच्छति गीर्यति। अत्रापि गिरतेः क्विपि ऋत इत्वे रपरत्वे प्राग्वद्दीर्घः। गीर्यिता, गिरिता। "क्यस्य विभाषा"(पाoसूo6-4-50)इति यलोपपक्षे हल्परत्वाभावान्न दीर्घः। "र्वोः"(पाoसूo802-76)इति पदस्य विधीयमानोऽपिन, "नः क्ये" इति नियमेनापदत्वात्। स्वरिच्छतीति तु वाक्यमेव न तु क्यत्, मान्ताव्ययेभ्यः प्रतिषेधात्। यतुर्यति। दिव्यति। अनयोरधातुत्वात् "हलि च"(पाoसूo7-2-77)इति दीर्घो न। चतुर्दिव्शब्दौ हि "चतेरुरन्"(उoसूo747)इति सूत्रेम "दिवेर्डिविः" इति न्यासोहितसूत्रेण च व्युत्पन्नौ अव्युत्पन्नावेव वा। उभयथाऽपि धातुत्वाभावः स्पष्ट एव। यत्तु प्रक्रियायां "हलिच"(पाoसूo8-2-77)इति दीर्घः दिवमिच्छति दीव्यतीत्युक्तम्, तदप्रामाणिकमेव। तथाच हलि चेति सूत्रे काशिका-"धातोरित्येव दिवमिच्छति दिव्यति' इति। यत्तु दिवेरौणादिके क्वपि दिवशब्दो दातुरेवेति। व्युत्पत्तिपक्षमाश्रित्य प्राक्रियाग्रन्थः, अव्युत्पत्तिपक्षमाश्रित्य तु काशिकेत्यविरोध इति प्रसादकृतोक्त; तत्तुच्छम्, क्विबन्तत्वे ऊठः प्रसङ्गाद् भाष्यविरोधाच्च। "दिव औत्"(पाoसूo7-1-70)इति सूत्रादधातुग्रहणानुवृत्त्या वेति द्वेधा समाहितम्। उभयथाऽपि त्वत्पक्षे असङ्गतिः स्पष्टैवेति दिक्।
तमिच्छति तद्यति। यद्यति। प्राणितीति प्राण्, प्राण्यति। अहर्यति। "रोऽसुपि"(पाoसूo8-2-69)इति रुत्वापवादो रेफः। स च नलोपे कर्तव्ये असिद्धो नेति वक्ष्यते।
उज्झेः क्विप् उत्, तमिच्छति उज्झ्यति। ककुभ्यति। मृडं परिव़ढं वाऽऽ
चक्षाणामिच्छति मृड्यति, परिव्रढ्यति। णाविष्ठवदित्यतिदेशात्परिवृढेर्ऋकारस्य रेफः। बुधेः क्विप्, भुत्, तमिच्छति बुध्यति। त्वां मामिच्छति त्वद्यति मद्यति। अतित्वामतिमामिच्छति अतित्वद्यति, अतिमद्यति। "प्रत्ययोत्तरपदयोश्च"(पाoसूo7-2-98)इति त्वम ौ। युवामावां वेत्यादिविग्रहे युष्मद्यति, अस्मद्यति। अतियुष्मध्यति, अत्यस्मद्यति। उखां पन्थानं च आचक्षणमिच्छति उख्यति, पथ्यति। मरुत्यति। अदस्यति। पयस्यतीत्यादि।
(पाoसूo3-1-9)
काम्यच्च(पाoसूo3-1-9)। उक्तविषये काम्यच् स्यात्। पुत्रमात्मन इच्छति पुत्रकाम्यति। "सुप आत्मनः क्यच्काम्यचौ" इति वक्तव्ये उत्तरत्र द्वयोरनुवृत्तिर्मा भूदित्येवमर्थो योगविभागः। न चैवमपि सन्निहितत्वात्काम्यजेवोत्तरत्र सम्बध्येतेति वाच्यम्, इह चकारेणानुकृष्टस्य क्यच उत्तरार्थत्वात्। सुप आत्मनः काम्यच् क्यच्चेति तु सूत्रयितुं युक्तम्। काम्यचः ककारस्य इत्संज्ञा न, फलाभावात्। न च "किति च"(पाoसूo7-2-118)इति निषेधः फलम्, अधातुविहितत्वेन आर्द्धदातुकत्वाभावादेव गुणाप्राप्तेः। `वाक्काम्यति' इत्यत्र सम्प3सारणं फलं स्यादिति चेत्? न, षष्ठान्ते भ्रौणहत्ये तत्त्वनिपातनेन "धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम्" इति ज्ञापयिष्यमाणत्वात्। तत्प्रत्ययो धातुसंशब्दनेन विहितः प्रत्यय इति प्राञ्चः।
स्वरूपग्रहणं च नेह शृङ्गग्राहिकयोपादानम्, तथा सति `घृतस्पृग्भ्याम्' इत्यादौ "अनुदात्तस्य र्चदुपधस्य"(पाoसूo6-1-59)इत्यमागमप्रसङ्गात्। किन्तु यत्कार्यं धातुं न व्यभिचरति तत्रेयं परिभाषोपतिष्ठते। तथाच स्वरूपग्रहणं नाम धातोरेवाश्रयणम्। तच्च यथाकथञ्चिदित्यास्तां तावत्।
चकारस्तु भाष्यवार्तिकयोः प्रत्याख्यातः। न्यासकारहरदत्तमाधवास्तु 'पुत्रकाम्यिष्यति' इत्यादौ सतिशिष्टमपि स्यस्वरं बाधित्वा धातुस्वरो यथा स्यादित्येतदर्थं चित्करणमित्याहुः। तत्तु प्रौढिवाद मात्रं मुनिवचनविरोधेन स्वोत्प्रेक्षितस्वारस्यानादर्त्तव्यत्वादिति सुहृदयैर्विभाव्यताम्।
पुत्रकाम्यिता। पुत्रकाम्यिष्यति। इह "यस्य हलः"(पाoसूo6-4-49)इति न भवति, अनर्थकत्वात्। यस्येति हि सङ्घातग्रहणात् "अर्थवद्ग्रहणे नानर्थकस्य"(पoभाo14)इति वभ्यते। अत एव प्रयतौ पुत्रकाम्ययेति सिध्यति। इहान्तर्वर्तिन्या विभक्त्या पदत्वाद्यथायोगं पदकार्याणि। यशस्काम्यति, रुत्वं विसर्गः, सोपदादाविति सत्वम्। स्वःकाम्यति, सोपदादावनव्ययस्येति वचनात्सत्वाभावः, अधिकरणशक्तिप्रधानस्याप्यस्य वृत्तिविषये शक्तिमत्प्रधानत्वाद् इषिणा कर्मत्वेन योगः। गीःकाम्यतीत्यादौ `रोः काम्ये' इति रोरेव विसर्जनीयस्य काम्ये सत्वनियमात्सत्वाभावः। सर्पिष्काम्यति, सत्वं बाधित्वा "इणः षः"(पाoसूo8-3-39)इति षः। अयं च सत्वापवादतया यत्र तत्प्रसङ्गस्तत्रैव। तेनोच्चैःकाम्यति गीःकाम्यतीत्यादौ न भवति। पुंस्काम्यति। अत्र पुंसः संयोगान्तलोपे "पुमः खय्यम्परे"(पाoसूo8-3-6)इति रुत्वं निर्वर्त्य "सम्पुम्कानां सो वक्तव्यः"(काoवाo)इति सत्ववचनान्नास्ति विसर्जनीय इति न षत्वम्। मान्ताव्ययेभ्योऽप्ययं भवत्येव-किंकाम्यति। अनुस्वारपरसवरणमविकल्पौ।
(पाoसूo3-1-10)
उपमानादाचारे(पाoसूo3-1-10)।। उपमानात्कर्मणः सुबन्तादाचारेऽर्थे क्यच् स्यात्। पुत्रमिवाचरति पुत्रीयति च्छात्रम्। विष्णूयति द्विजम्।
अधिकरणाच्चेति वक्तव्यम्(काoवाo)। प्रासादीयति कुट्याम्। कुटीयति प्रासादे। इहोपमेये सप्तमीश्रवणादुपमानमपि सप्तम्यन्तमेवेति कर्मत्वाविवक्षया सूत्रेणासिद्धे वार्तिकारम्भः। सूत्रवार्तिकयोरुभयोरप्युदाहरणे क्यच्प्रत्ययस्य आचारमात्रमर्थः। प्रकृतेस्तु वृत्तिविषये एकत्र स्वार्थकर्मकाचरणसदृशमर्थः, अपरत्र स्वार्थाधिकरणकाचरणसदृशम्। तच्च प्रत्ययार्थेऽभेदेन संसर्गेण विशेषणम्। प्रत्ययार्थे भूताचरणक्रिया तु उपमेया। सा च बाह्याभ्यां कर्माधिकरणाभ्यां सम्बध्यते।
(पाoसूo3-1-11)
कर्त्तुः क्यङ स लोपश्च(पाoसूo3-1-11)।। उपमानात्कर्तुः सुबन्तादाचारे क्यङ् वा स्यात्, सान्तस्य तु कर्तुरलोन्त्यस्येति लोपो वा स्यात्। प्रत्ययविकल्पनात्पक्षे वाक्यम्। सान्तस्य लोपविकल्पस्तु व्यवस्थितः ओजोऽप्सरसोर्नित्यमन्येषां तु विकल्प एवेति। कृष्ण इवाचरति कृष्मायते। कथं तर्हि--
क्षीरोदीयन्ति सद्यः सकलजलधयो वासुकीयन्ति नागाः। इति?
क्षीरोदमिव आत्मानमाचरन्तीत्यर्थ "उपमानादाचारे'(पाoसूo3-1-10)इति क्यच्। ओजायते। ओजःशब्दोऽत्र वृत्तिविषये तद्वति वर्तते। अप्सरस इवाचरति अप्सरायते। यशायते, यशस्यते। विद्वायते,विद्वस्यते। इह सूत्रे चकारोऽन्वाचये। तेन कर्तुः क्यङ् सर्वत्र भवति, यत्र तु सकारः सम्भवति तत्र लोपोऽपि। सेति च पृथक्पदं लुप्तषष्ठीकम्। तेन कर्त्तुर्विशेषणात्तदन्तविधिः। अतो `हंसायते' इत्यादौ सलोपो न। नान्तेष्वपि लोपो व्यवस्थितः। तथाच वार्तिकम्--
"ओजोऽप्सरसोर्नित्यम्" इति। एवं स्थिते।
"ओजसोऽप्सरसो नित्यं पयसस्तु विभाषया"
इति काशिकायां पयोग्रहमं ओजोऽप्सरोभिन्नसकारान्तस्योपलक्षणार्थम्। एतेन यशःप्रभृर्नैव भवतीति भ्राम्यन्तः परास्तः। यत्तु प्रक्रियायां सुपूर्वस्य मनसो नित्यमिति, तदपाणिनीयम्। यत्तु "विद्वस्यमानः शास्त्रेऽधिकारी" इति वाचस्पतिग्रन्थव्याख्यावसरे कल्पतरुकारैरुक्तम्-विद्वस्यमान इति "लोहितादिडाज्भ्यः क्यष्"(पाoसूo3-1-13)इति, तल्लोहितादेराकृतिगणत्वेन प्रौढिवादमात्रम्। वस्तुतस्तु क्यङेवायं न तु क्यष्, लोहितादिसूत्रे "नायं हलन्ताद्विधीयते" इति वदद्भिर्भाष्यकारैर्हलन्तात्क्यषोऽनङ्गीकृतत्वात्। कथमन्यथा "क्यस्य विभाषा"(पाoसूo6-4-50)इत्यत्र सामान्यग्रहणार्थं ककारं प्रत्याचक्षीरन्नित्यवधेयम्। अर्चिरिवाचरति अर्चिष्यते। "नः क्ये"(पाoसूo1-4-15)इति नियमेन पदान्तत्वाभावात्षत्वम्। त्वद्यते, मद्यते। अनेकार्थत्वे तु युष्मद्यते, अस्मद्यते। कुमारीवाचरति कुमारायते। हरिमीव गौरीव गुर्वीवाचरति हरिणायते, गौरायते, गुरूयते। "क्यङ्मानिनोश्च"(पाoसूo6-3-36)इति पुंवत्। सपत्नीवाचरति सपत्नीयते। अत्र पुंवद्भावो नेति न्यासकारः। यदाह-"नित्यं सपत्न्यादिषु"(पाoसूo4-1-35)इत्यत्र समुदायोच्चारणं पुंवद्भावबाधनार्थमिति, तदेतद्युक्तिविरुद्धं भाष्यविरुद्धं च। तथाहि, समुदायनिपातनं रूढ्यर्थं समानस्य सभावार्थं चेति न त्वदुक्तार्थज्ञापकम्। तथा 'तसिलादिषु"(पाoसूo6-3-35)इति सूत्रे भाष्यकारः--सपत्नीशब्दाच्छिवाद्यणि "भस्याढे"(काoवाo)इति पुंवद्भावे `सापतः' इति प्रापय्य अढग्रहणमपनीय अनपत्य इति विवक्षया परिहृत्य गार्ग्यायण्या अपत्ये तु कुत्सिते "गोत्रस्त्रियाः कुत्सने ण च"(पाoसूo4-1-140)इति णप्रत्यये गार्ग्यायण इति स्यात्, गार्ग्य इति चेष्यत इति दोषमुद्भाव्य "भस्याढे"(काoवाo)इति यथान्यासं स्थापयित्वा "नित्यं सपत्न्यादिषु"(पाoसूo4-1-35)इति समुदायनिपातनं परिहारत्वेनानभिधाय शत्रुपर्यायात्सपत्नशब्दात् "शार्ङ्गरवादि"(पाoसूo4-1-73)ङीनन्तात् शिवाद्यण् इति सापत्नशब्दं साधितवान्। शिवादिषु समानः पतिर्यस्या इति व्युत्पादितस्य समानस्वामिकाभिधायिनो भाषितपुंस्कस्य केवलयौगिकत्वाद्ग्रहणं नेष्टमिति तदाशयः। एवं स्थिते तस्मात् "लिङ्गविशिष्ट"(पoभाo73)परिभाषाया पत्युत्तरपदलक्षणे ण्ये सापत्य इति भवति, भावकर्मणोः पत्यन्तलक्षणे यकि सापत्यमिति सुब्धातुवृत्तौ माधवः। तस्मात्क्यङ्यपि प्रकृतिभेदेन `सपत्नायते' `सपतीयते' इति द्वयमपि साधु। यत्तु पा रक्षणे(अoपo46)इति धातौ माधवेनोक्तम्-भावकर्मणोः पत्यन्तलक्षणे यकि सापत्न्यम्, अभाषितपुंस्कत्वात्पुंवद्भावो नेत्यादि, इतरत्तु स्वामित्वमात्रपरमित्यविरोधः। एवं च शिवादौ नित्यस्त्रीलिङ्गस्यापि योगरूढस्य ग्रहणात्सापत्नशबादो द्व्यर्थः, `सपत्नीयते इति च तृतीयमपि रूपं माध्वित्यवधेयम्। युवतिरिवाचरति युवायते। यत्तु "ङ्याप्'(पाoसूo4-1-1)सूत्रभाष्ये `युवतितरा' इत्युदाहरणात् यौवनं जातिः, अन्यथा "जातेश्च' इति निषेधाभावात्तसिलादिष्वितिं पुंवद्भावः क्रियेतेति। तन्न, वयसोऽनित्यत्वेन अजातित्वात्। कथमन्यथा "अचः परस्मिन्"(पाoसूo1-1-57)इति सूत्रे युवजानिरिति भाष्यं सङ्गच्छेत। युवतितरेति तु भाष्यनिर्द्देशादेव न पुंवदिति कैयटे स्पष्टम्।
पट्वी च मृद्वी च पट्वीमृद्व्यौ। ते इवाचरति पट्वीमृदूयते। पूर्वपदस्य क्यङ्परत्वाभावान्न पुंवत्। पाचिकायते, "न कोपधायाः"(पाoसूo6-3-37)। चतुर्थीयते, पाचिकायते, "न कोपधायाः"(पाoसूo6-3-38)। स्रौघ्नीयते, "वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे"(पाoसूo6-3-39)। काषायीयते कन्था। रक्तार्थत्वान्नेह पुंवद्भावनिषेधः। खदिरस्य विकारः खादिरी। "पलाशादिभ्यो वा"(पाoसूo4-3-141)इति विकारे अणञोरन्यतरस्मिन् ङीप्। खादिरायते इत्यादि।
"आचारेऽवगल्भ्क्लीबहोडेभ्यः क्विब्वा"(काoवाo)।। क्य्ड्पवादोऽयम्। पक्षे वाग्रहणात्क्यङपि। गल्भ धाष्टर्ये(भ्वाoआo392)। क्लीवृ अधाष्ट्ये(भ्वाoपाo381)। होडृ अनादरे(भ्वाoअo286)। एते पचाद्यजन्ताः। अचोऽकारस्य इहैव वार्तिके अनुदात्तत्वानुनासिकत्वे प्रतिज्ञायेते। तेन क्विबन्तादात्मनेपदं सिध्यति। क्विप्सन्नियोगेनानुनासिकत्वप्रतिज्ञानात्क्यङ्पक्षे इत्सञ्ज्ञ। न भवति। स्यादेतत्, उक्तधातूनामनुदात्तेत्त्वादवगल्भते, क्लीबते, होडते, इति सिद्धम्। तेभ्य एव पचाद्यजन्तेभ्यः क्यङि अवगल्बायत इत्यादि। न च अवगल्भते इत्यादीनां धार्ष्ट्यादिकमेवार्थः स्यान्न त्वाचार इति वाच्यम्, धातूनामनेकार्थत्वेनाचारार्थताया अपि लाभात्। तत्किमनेन वार्तिकेनेति चेत्? सत्यम्। `अवगल्भाञ्चक्रे' `क्लीबाञ्चक्रे' `होडाञ्चक्रे' इत्यत्र प्रत्ययान्तत्वादाम् यथा स्यादित्येवमर्थमिदं वार्तिकम्। अवगल्भेति किम्? अनुपसर्गादुपसर्गान्तरविशिष्टाच्च क्पङेव यथा स्यात् `गल्बायाञ्चक्रे' इति माधवादयः। प्रक्रियायां तु अवेत्यपहाय केवलस्य पाठः। तदनुगामिप्रसादादिग्रन्थश्च प्रामादिक एव। धातुश्य एव लिटि तु-जगल्भे, चिक्लीबे, जुहोडे।
"सर्वप्रातिपदिकेभ्यः"(काoवाo)।। न केवलमवगल्भादिभ्य एव किन्तु सर्वेभ्य एव आचारे क्विब्वक्तव्य इत्यर्थः। पूर्ववार्तिकन्तु अनुबन्दासंगार्थं स्थितमेव। प्रातिपदिकग्रहणादिह सुप इति न सम्बध्यते।तेन पदत्वाभावादुदाहरणेषु पदकार्याणि न। कृष्ण इवाचरति कृष्णति। "अतो गुणे"(पाoसूo6-1-97)इति शपा सह पररूपम्। एतेन `चर्मेवाचरति चर्मति' इति प्रक्रियाग्रन्थः परास्तः, अपदान्तत्वेन नलोपायोगात्। कथमन्वथा। इहैव शामा सह पररूप स्यादिति यत्किञ्चिदेतत्। इह द्वितीयवार्तिके वाग्रहणं नानुवर्त्यम्, प्रातिपदिकविषयकेणानेन क्विपा सुवन्तविषयस्य क्यङो भिन्नविषयत्वादेव बाधस्याप्रसङ्गाद्वचनद्वयप्राणाण्याद्विकल्पोपपत्तेश्च। पूर्ववार्तिकेऽपि एत्सिद्धक्विबनुवादेनानुबन्धासङ्गमात्रे तात्पर्यस्य भाष्ये स्थितत्वेन प्रातिपदिकविषयता वाशब्दवैयर्थ्यं चेति तत्त्वम्। तस्य सुबन्तविषयत्वे हि अन्तर्वर्त्तिविभक्त्या पदत्वात् गल्भतेः संयोगान्तलोपो दुर्वारः।
अथ क्विबन्तेषु रूपाणि लेशत उदाह्रियन्ते। अइवाचरति अति, अतः, अन्ति। णलि "अचोऽञ्णिति"(पाoसूo7-2-115)इति वृद्धौ "आत औ णलः"(पाoसूo7-1-34), औ। तथाच कशब्दस्य चकाविति हरदत्तः। माधवस्तु "ण्यल्लोपौ" इति वचनाण्णलि वृद्धिम्बाधित्वा अतोलोद्विर्वचने अतोलोपादन्तरङ्गत्वादतोगुणे पररूपत्वे तस्याङ्गग्रहणेन प्राप्तादतोलोपात्परत्वादभ्यासग्रहणेन ग्रहणाद् "अत आदेः"(पाoसूo7-4-70)इति दीर्घः। "आतो लोप इटि च"(पाoसूo6-4-64)इत्यालोपः किति, णलस्तु औ वृद्धिः। स्यादेतत्, इह प्रत्ययान्तत्वादामा भाव्यम्। न च "कास्यनेकाज्ग्रहणम्" इति वार्तिकेन प्रत्ययग्रहणस्थानेऽनेकाज्ग्रहणस्य कृत्वात्प्रत्ययान्तेभ्योऽप्येकाज्भ्य आम्नेति वाच्यम्, चुलुम्पादीनामप्रत्ययान्तानां संग्रहार्थमनेकाज्ग्रहणमधिकं कर्तव्यमित्येतावन्मात्रपरतयाऽपि वार्तिकस्य कृतार्थत्वे सौत्रस्य प्रत्ययग्रहमस्यापनयने कारणाभावात्। अत एव "अवगल्भाञ्चक्रे" इत्यादि भाष्याद्युदाहृतं सङ्गच्छते। न हि तत्रानेकाच्त्वमस्ति, आत्मनेपदार्थमनुबन्धासङ्गस्य निर्विवादत्वात्। अत एव स्वामास स्वाञ्चकारेति प्रक्रियाकारोदाहृतं निर्बाधमिति चेत्? मैवम्, हरदत्तादिग्रन्थेषु कशब्दाद् अशब्दाद्वागादिभ्यश्चाचारक्विबन्तेभ्य एकाज्भ्योऽपि प्रत्ययान्तत्वादाम् स्यात्, चुलुम्पादिभ्यश्च न स्यात्, अतोऽव्याप्त्यतिव्याप्तिपरिहाराय प्रत्ययग्रहणमपनीय तत्स्थाने अनेकाज्ग्रहणं कर्त्तव्यमित्यर्थकतया वार्तिकस्य व्याख्यातत्वात् माधवादिभिरपि तदनुसारेणैव रूपाणामुदाहृतत्वाच्च। युक्तं चैतत्, कास्यनेकाज्ग्रहणमिति वार्तिकाक्षरस्वरसात्। अन्यथा हि अनेकाच उपसंख्यानमित्येव ब्रूयात्, न तु प्रत्ययशब्दावरुद्धकास्युत्तरबागमनेकाचं निवेशयेत्, आगन्तूनामन्ते निवेशस्य न्याय्यत्वात्। चुलुम्पाद्यर्थमिति वार्तिकशेषस्वरसो ममाप्यनुकूलोऽस्तीति चेत्? न, तदपेक्षया उपक्रमस्य प्राबल्यात्। न चैव गल्भादावाम् न स्यादिति वाच्यम्, तेषां क्विप्सन्नियोगेन एकाच्त्वेऽपि पर्वमनेकाच्त्वात्। कास्यनेकाच इत्यत्र भूतपूर्वगतेराश्रयणात्। आचारेऽवगल्भेत्यादिवार्तिकस्यैव च भूतपूर्वगत्याश्रयणे प्रमाणत्वात्। तद्धि आम्प्रत्ययो यथा स्यादित्येवमर्थमिति भाष्यादौ स्पष्टम्। इह ज्ञापकस्य सामान्यविषयत्वे घटपटप्रभृतिभ्यस्तत्करोतिण्यन्तेभ्यः "क्विप् च"(पाoसूo3-2-76)इति क्वौ तत आचारक्वौ लिटि आमा बाव्यम्। गल्भादिविशेषमात्रविषयत्वे तु नेत्यन्यदेतत्।
इदं त्ववशिष्यते--"सर्वप्रातिपदिकेभ्यः"(काoवाo)इति क्विपि परस्मैपदे प्राप्ते आत्मनेपदप्रवृत्त्या चरितार्थं वचनं कथमाम्प्रवृत्तिं साधयेदिति।
अत्रोत्तरम्, वाक्याब्यनुज्ञानार्थं कृतस्यापि इच्छासनि वाग्रहणस्य पूर्वसूत्रद्वये व्यवस्थापकत्वमाश्रित्य गुपादेर्निन्दाक्षमादिष्वेव सन्नान्यत्रेति यथा सिद्धान्तितं,तथेहापि तद्वलेनैव "सर्पप्रातिपदिकेभ्यः"(काoवाo)इति क्विप् गल्बादेर्न करिष्यते इति परस्मैपदनिवृत्तिस्तावत्सिद्धा आत्मनेपदमपि स्वतन्त्रधातुभ्योऽस्त्येव। आचारार्थताऽप्यनेकार्थत्वात्सुलभा। तथाच वचनस्य नान्यत्र चरितार्थतेति ज्ञापकत्वं सुस्थमेव। एवं च सकलमहाग्रन्थविरुद्धं `स्वामास' इति प्रक्रियोदाहरणं न श्रद्धेयमिति स्थितम्। इणः अयतेर्वा णिजन्तात् "क्विप् च"(पाoसूo3-2-76)इति क्विप् आययतीतिः आः, आयमाचक्षाण आः, स इवाचरति आति। "यमरम"(पाoसूo7-2-73)इतीट्सकौ, आसीत्, आसिष्टाम्। एकादेशस्य पूर्वान्तत्वात् "लिङ्गविशिष्ट"(पाoसूo73)परिभाषया च मालेवाचरति मालाति। अमालासीत्। अमालासिष्टाम्। अस्माल्लङि-अमालात्, अमालाः। अत्र हल्ङ्यादिलोपस्तु न भवति, ङीसाहचर्यादापोऽपि सोरेव लोपविधानात्। कविरिव कवयति। कवयाञ्चकार। आशीर्लिङि कवीयात्। "सिचि वृद्धिः"(पाoसूo7-2-1)इत्यत्र "ऋत इद्धातोः"(पाoसूo7-1-100)इत्यतो धातोरित्यनुवृत्तेर्धातुरेव यो धातुरिति विज्ञानान्नामधातोर्न वृद्धिरिति कैयटहरदत्तौ। तन्मते गुणे अकवयीत्। वर्धमानोऽप्येवम्। माधवस्तु इक्परिभाषारम्भपक्षे धात्वनुवृत्तेः कैयटेन प्रदर्शितत्वादिगन्ते नामधातावपि वृद्धिमिच्छति। तन्मते अकवायीत्। विरिव वयति। विवाय, विव्यतुः। अवयीत्, अवायीत्। इरिव अयति। इयाय, इयतुः, इयुः। इययिथ, इयथुः। इय। इयाय, इयमि। अत्र कित्सु सवर्मदीर्घे कृते इयङ्। यद्वादीर्घात्परत्वेनोत्तरखण्डे "एरनेकाचः"(पाoसूo6-4-82)इति यण्। गुणवृद्धिविषये तु अयायोः "द्विर्वचनेऽचि"(पाoसूo1-1-59)इति स्थानिवत्त्वाद् एदैतोर्द्वित्वम्, अभ्यासह्नस्वः। "अभ्यासस्यासवर्मे"(पाoसूo6-4-78)इतीयङ्। एदैतोरपि स्थानिवत्त्वादिकारस्य द्वित्वमिति पक्षे तु सवर्णदीर्घात्परत्वादुत्तरखण्डस्य पुनर्गुणवृद्धी, ततोऽभ्यासस्येयङ्। लक्ष्मीरिव लक्ष्मयति। लक्ष्मयाञ्चकार। श्रीरिव श्रयति। शिश्राय, शिश्रियतुः, सिश्रियुः। उरिव अवति। अवाञ्चकार। "इजादेश्च"(पाoसूo3-1-26)इत्याम्। कुरिव कवति। चुकाव। भ्रूरिव भ्रवति। बुभ्राव, बुभ्रुवतुः। "अचि श्नुधा"(पाoसूo6-4-77)इत्युवङ्। गुणवृद्धिविषये तु ताभ्यां बाध्यते। पितेव पितरति। पितराञ्चकार। आर्शीलिङि "रिङ्शयग्लिङ्क्षु"(पाoसूo7-4-28)इति रिङादेशः। पित्रियात्। नेव नरति। ननार। एवाचरति अरति। "पाघ्रा "(पाoसूo7-3-78)इत्यादौ नायं गृह्यते। "अभिव्यक्तपदार्था ये" इति न्यायेन धातुपाठस्थस्यैव ग्रहात्। एवञ्चास्मादृशब्दाल्लिटि "ऋच्छत्यॄताम्"(पाoसूo7-4-11)इति न प्रवर्तते। तत्र धात्वभ्यासयोः सवर्मदीर्घे धातुग्रहणेन ग्रहणाद्दृकारान्तलक्षणे गुणे `अरतुः' इत्यादीत्येके। अन्ये तु अभ्यासग्रहणेन ग्रहणात् "उरत्"(पाoसूo7-4-66)अत्वं "हलादिः शेषः"(पाoसूo7-4-6ऽ6)। "अत आदेः"(पाoसूo7-4-70)इति दीर्घः। "आतो लोप इटि च"(पाoसूo3-1-48)इति चङोऽभावात्सिचि-अद्रावीत्। भूरिवाचरति भवति। अत्र "गातिस्था"(पाoसूo7-3-78)इति "गातिस्था"(पाoसूo2-4-77)इति च न प्रवर्त्तते। पाति। अपासीत्। एवं प्रतिपदोक्तानामन्येषामपि इहाप्रवृतिरुन्नेया। कथं तर्हि बुभ्रुवतुरिति प्रागुवङुदाहृत इति चेत्? धातुत्वप्रयुक्तोऽसौ न तु भ्रुत्वप्रयुक्त इत्यवधेहि। पॄरिवाचरति परति। पपार, पपरतुरित्यादि। अयं पॄशब्दानुकरणं न पुनः क्र्यदौ जुहोत्यादौ वा पठ्यमान इति श्ना श्लुश्च न भवति। किति लिटि "ऋच्छत्यॄताम्"(पाoसूo7-4-11)इति ऋकारान्तलक्षणो गुणः। "शॄदॄप्राम्"(पाoसूo7-4-12)इति ह्रस्वविकल्पस्तु न भवति, अनभिव्यक्तपदार्थत्वात्। ऋरिवाचरति अरति। अराञ्चकार। "इजादेश्च"(पाoसूo3-1-36)इत्याम्। लृ इवाचरति। अलति। लिटि द्विर्वचनम्। लृर्वणस्य दीर्घाभावात्सवर्णदीर्घाभावः। उत्तरखण्डस्य यणि अभ्यासस्योरदत्वादेव आल, आलतुरित्यादीति माधवः। तत्र यणीति किद्विषयं, पित्सु तु गुणवृद्धी बोध्यो सवर्णदीर्घाभाव इति तु गुमवृद्धिस्थले भवतु नाम, अवर्मस्य लृकारं प्रत्यसवर्मत्वात्। गुणवृद्ध्योः स्थानिवद्भावेन लृकारद्विर्वचनेऽपि सवर्णदीर्घात्परत्वेन पुनरुत्तरखण्डे गुणादिप्रवृत्तेः। न चान्तरङ्गत्वात्सवर्णदीर्घः, "अभ्यासस्यासवर्णे"(पाoसूo6-4-78)इत्यस्य निर्विषयतापत्तेः। न च `इयर्ति' `इयृतः' इत्यादिरवकाशः, एवं हि "अभ्यासस्यर्त्तौ" त्येव ब्रूयात्। न च एषेः इयेष, ओणेःउवोणेत्यवकाशः, बाषायाम् "इजादेः"(पाoसूo3-1-36)इत्याम्प्रत्ययस्योचितत्वात्। छन्दसि तु तन्वादीनामुपसंख्यानात् `त्रियम्बकं सुवर्ग' इत्यादिवदियङुवङोरुपपत्तेस्तथापि लृवर्णस्य दीर्घाभावादिति माधवोपन्यस्तो हेतुरसङ्गत एव, `होतॄकारः' इत्यादिविव ऋकारस्य दुर्वारत्वात्। तथा च ऋशब्दात्क्विपीव एकादेशस्य धातुग्रहणेनाभ्यासग्रहणेन वा ग्रहणमिति मतभेदेन--अरतुः, अरुः, अतुः, उः, इति रूपद्वयमेवोचितम्। "लृति लृ वां" इति षाष्ठवार्तिकविधेयस्य वर्णान्तरस्य प्रवृत्तौ तु लृअतुः लृउरित्युचितम्। सर्वथाऽपि `अलतुः' अलुरिति माधवोदाहृतं दुरुपपादमेवेति विभाव्यतां भाष्यज्ञैः।
हेरिवाचरति हयति। जिहाय। अहयीत्। यान्तत्वान्न वृद्धिः'। एरिवाचरति अयति। "इजादेः(पाoसूo3-1-36)इत्याम्। अयाञ्चकार। "नेटि"(पाoसूo7-2-4)इति वृद्धिनिषेधान्मा भवानयीत्। गौरिवाचरति गवति। अपदान्तत्वादवङ्पूर्वरूपे न स्तः। जुगाव। `अगवीत्' अगावीत्। "अतो हलादेः"(पाoसूo7-2-7)इति वा वृद्धिः। ओकारात्-अवति। अवाञ्चकार। मा बवानवीत्। रै-रायति। रिराय। नौ-नावति। नुनाव। औ-आवति। आवाञ्चकार। गोधुगिवाचरति गोदोहति। पय इवाचरति पयति। पपाय। लुङि यान्तत्वाद्वृद्ध्यभावात् अपयीदिति माधवः।
अत्रेदं वक्तव्यम्। अयपयहयधातुषु "क्विप् च"(पाoसूo3-2-76)इति क्विपि अत् पत् हत् इति तावत्त्वयैवोदाहृतम्। आचारक्विपि तु अकृत्त्वात्तुगागमो मा भूत्। यकारस्तु कथं न लुप्येत? तस्मात्कशब्दवदेवात्र रूपमुचितम्। द्यौरिवाचरति `देवति' इति-माधवः। अत्र ऊठि `द्यवति' इत्युचितम्। फलेर्णौ "क्विप् च"(पाoसूo3-2-76)इति क्विप्। तत आचारक्विप्। फलति। यङ्लुकि पम्फल्यते। अपम्फालीत्। एकदेशविकृतस्यानन्यत्वात् अभ्यासस्य नुक् इति "चरफलोश्च" (पाoसूo7-4-87)इति सूत्रे न्यासविस्तरौ। यद्यपि प्रतिपदोपात्तेष्वभिव्यक्तपदार्थानामेव ग्रहणं, तथापि "उत्परस्यातः"(पाoसूo7-4-88)इति सूत्रे अत इति तपरनिर्देशेन दीर्घनिवृत्त्यर्थं क्रियमाणेन इहास्यापि ग्रहणं ज्ञाप्यत इति तदाशयः। इदमिवाचरति इदामति। यङिव याङति। अणिव आणति। राजेव राजानाति। "अनुनासिकस्य क्वि"(पाoसूo6-4-15)इति दीर्घः। यत्तु कश्चिज्झलादिः क्ङित् धातोरेव सम्भवतीति तत्साहचर्याद्धातुविहत एव क्पिप् गृह्यत इति आचारक्वौ नानेन दीर्घ इत्याह। तन्न, अस्य क्विपः ककारस्यात्रैव सामान्यग्रहणार्थत्वात्। पकारस्य च तदविघातार्थत्वात्साहचर्यस्य च सर्वत्रानियामकतायाः द्विस्त्रिश्चतुरितिकृत्वोऽर्थग्रहणेन ज्ञापितत्वात्। एतेन इह क्विपि अनुबन्धयोः फलं चिन्त्यमिति वदन्न्यासकारः प्रत्युक्त इति दिक्।
एवं च पथिमथ्यृभुतक्षां परमप्युपदागुणं बाधित्वाऽन्तरङ्गत्वाद्दीर्घे सति पथीनति मथीनति ऋभुक्षीमतीत्यादि बोध्यम्। इदं च माधवादिमतमनुसृत्यानुनासिकान्तानां दीर्घः प्रपञ्चितः। अपरं मतं कृत्येव दीर्घो न त्वाचाराक्विपि साहचर्यस्य नियामकत्वेनापि क्वचिदाश्रयणात्। न चैवमनुबन्धवैयर्थ्यम्, "वेरपृक्तस्य"(पाoसूo6-1-67)इत्यत्रास्यैव ग्रहणं मा भूदिति ककारासङ्गात्। पित्त्वसामर्थ्यात्तु प्रकृतिः सर्वानुदात्तेति केषाञ्चिन्मतस्य न्यासग्रन्थे स्पष्टत्वात्। युक्तं चैतत्, कौमारव्याकरणसंवादात्। तत्र हि क्यङ एव वैकल्पिको लोपो विहितो न तु क्विपः, तत्र च क्विबाश्रयस्य दीर्घस्याप्रसङ्गात्। गुणे सति `पथेनति' मथेनतीत्याद्युदाहृदतम्। न्यायसाम्येन "च्छ्वोःशूठ्"(पाoसूo1-4-19)इत्यत्रापि अस्य निर्वहति, वलोपस्य भाष्ये प्रत्याख्यानात्। अत एव च "न पदान्त"(पाoसूo1-1-58)सूत्रे `प्रतिदीव्नः' इत्यत्र "उपधायां च"(पाoसूo8-2-78)इति दीर्घ इति काशिकाऽपि सङ्गच्छते, आचारक्विबन्ताद्विच् प्रत्यय इति तदाशयात्। चर्मेवाचरति चर्मतीति प्रक्रिया तु अत्रापि पक्षे अशुद्धैव। नलोपपररूपयोः पदान्तापदान्तत्व प्रयुक्तयोः समावेशस्य दुर्घटत्वादिति दिक्।
अप्रसिद्धा ये हलन्तास्तेषां कारिताणौ कृते टिलोपे च णिलोप च तद्धलन्तत्वमुह्यताम्। मठं मखं कफं रथं चाचक्षाणः कुर्वन् वा मट्, मक्, कप्, रत्। स इवाचरति मठति। मखति। कफति। रथति इत्यादिक्रमेण यथालक्षणमप्रयुक्तेऽप्यूह्यमित्यर्थः।
प्रकृतमनुसरामः-
(पाoसूo3-1-12)
भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः(पाoसूo3-1-12)।। अत्राच्वेरित्येकवचनं भृशाद्यवयवापेक्षं, सौत्रो वा वचनव्यत्ययः। पर्युदासात्सदृशग्रहः। अभूततद्भावविषयेभ्यो भृशादिभ्यो भवत्यर्थे क्यङ् स्यात्, हलन्तानां त्वेषां लोपोऽपि स्यात्। अभृशो भृशो भवति भृशायते। चशब्दोऽन्वाचये न तु सन्नियोगे, अजन्तानां गणे पाठस्य वैयर्थ्यापत्ते-। अच्वेरिति यदि प्रसज्प्रतिषेधः स्यात्तर्हि असमर्थसमासो वाक्यभेदश्च स्पष्ट एव। किंच भवतियोगे च्वेर्विधानादनुप्रयुज्यमानेन भवतिनैव उक्तार्थत्वात्क्यङोऽप्रसक्तौ निषेधवैयर्थ्यम्। अतः पर्युदास एवोचितः। तथा नञिवयुक्तन्यायेन सादृश्यलाभादभूततद्भावविषयेभ्य इत्युक्त्म्। तेनेह न-क्व दिवा भृशा भवन्ति। ये रात्रौ भृशा नक्षत्रादयः ते दिवा क्व प्रदेशे भवन्तीत्यर्थः। इह सुमनस् उन्मनस् दुर्मनस् अभिमनस् इति पठ्यते। तत्र शङ्क्यते-समासात्क्यङि विशिष्टस्य धातुत्वादट्ल्यब्द्विर्वचनेषु दोषः। तथाहि, स्वमनायत, उदमानयत इत्यादीष्यते। असुमनायत, औन्मनायत इत्यादि प्राप्नोति। तथा `सुमनायित्वा' इत्यादौ ल्यविष्टः। सु उद् इत्यादीनं क्त्वान्तशरीरप्रवेशे तु तद्व्यतिरिक्तपदाभावादसति समासे ल्यपोऽभावात् `सुमनायित्वा' इत्यादि प्राप्नोति। तथा क्यङन्तात्सनि सन्नन्तस्य प्रथमस्यैकाचो द्वित्वे सुसुमनायिषते इत्यादि प्राप्नोति। सुमिमनायिषते इत्यादीष्यते।
अत्राहुः-चुरादिषु "संग्राम युद्धे" इति पठ्यते सन न पाठ्यः। संग्रामशब्दाद्युद्धवाचिनः "तत्करोति'(गoसूo)इत्येव णिचः सिद्धेरिति तत्पाठो नियमार्थः-धातुसंज्ञानिमित्तः प्रत्ययः सोपसर्गाच्चेद्भवति संग्रामयतेरेव नान्यस्मादिति, ज्ञापनार्थो वाःसोपसर्गात्संघाताद्धातुसंज्ञानिमित्ते प्रत्यये विधित्सिते उपसर्गाः पृथक् क्रियन्ते परिशिष्टादेव तु प्रत्य इति। संग्रामशब्दो हि चुरादौ पठ्यमानः सोपसर्गः संघात एव न तूपसर्गसदृशावयवम् `आप्लृ' व्याप्तावितिवच्छब्दान्तरम्। तथाच "वा पदान्तस्य"(पाoसूo84-4-59)इति परसवर्मविकल्पो भवति। संघातपाठफलं तु असंग्रामयत शूरः, संग्रामयित्वा, सिसंग्रामयिषते इत्यादि। ततश्चोक्तरीत्या नियमो ज्ञापनं वा निष्कृष्टं फलमिति।
अत्र हरदत्तः-अनुदात्तेदयं संग्रामयतिरिष्यते। ततश्च आत्मनेपदार्थ गल्भत्यादीनामिवानुबन्धासङ्गार्थः पाठः स्यादिति कथं नियमो ज्ञापकं वा भवेदिति। न चानुबन्धासञ्जनार्थे पाठे `ग्राम युद्धे' इत्येव पठ्येन। संशब्दस्तु द्योतकः प्रयोगदर्शनवशादेव लब्यते। यथा इङिकोरधिः। तस्माद्विशिष्टपाठः प्रागुक्तफलक एवेति वाच्यम्, एवं हि यथा इङिकोरधेः पूर्वमाड् न भवति तथाऽस्यापि न स्यादिति।
अत्र माधवः-अस्यानुदात्तेत्त्वमपाणिनीयमिति पाठस्यैतदर्थतया न ज्ञापकभङ्ग इति। एतत्तु "संग्रामयतिरनुदात्तेद्वोद्धव्यः" इति कैयटेन विरुध्यते। यदपि हरदत्तेन सिद्धान्तितं-मनःशब्दस्य स्वादिभिर्न समासः, किन्त्वसमस्ता एवैते प्रत्ययार्थाविशेषणम्, मनःशब्दस्च वृत्तिविषये तद्वति वर्त्तते, मनस्वी सुष्ठु भवतीत्यादिरर्थ इति; तदपि "प्रभौ परिवृढः"(पाoसूo7-2-21)इत्यत्र परिवृढमाचष्टे इति णिचि क्त्वाप्रत्यये कॉते `परिव्रढय्य' इति ल्यव् भवतीति भाष्यकारादिभिर्वक्ष्यमाणेन विरोधात्पराहतमेव। नह्यत्रेव तत्रापि प्रत्ययार्थविशेषणत्वं सम्भवति। कथं तर्हीह इष्टार्थसिद्धिरिति चेत्?
अत्रोच्यते--चुरादौ पठ्यमानं `सङ्ग्राम' इत्येतत्प्रातिपदिकम्, "अर्तिस्तुसु"(उoसूo145)इति मन्नधिकारे "ग्रसेरा च"(उoसूo148)इति व्युत्पादनात्; न तु धातुः तस्य च "तत्करोति"(गoसूo)इति पूर्वप्रक्रान्तेन गणसूत्रेण णिचि सिद्धे तत्सन्नियोगे अनुबन्धासङ्ग एव फलं गल्भादिवत्। एवं स्थिते "युद्धे योऽयं ग्रामशब्द" इत्युक्तेऽपि क्वलस्य ग्रामशब्दस्य युद्धे वृत्त्यभावात्सामर्थ्यात्सङ्ग्रामशब्दो लभ्यत एव। तत्र च `सङ्ग्रामि इति विसिष्टस्य धातुत्वमपि सुलभम्, "सनाद्यन्ताः"(पाoसूo3-1-32)इति सूत्रेण विधीयमानायाः सञ्ज्ञायाः प्रकृतिप्रत्ययसङ्घाते विश्रान्तेः। एतेन इङिकोः प्रतिबन्दिः परास्तः, तत्र हि पाठापेक्षा धातुसञ्ज्ञा विसिष्टं न स्पृशतीति वैषम्यात्। एवं च "सङ्ग्राम" इति विशिष्टपाठो ज्ञापयति "उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजकीभूते प्रत्यये चकीर्षिते पृथक् क्रियते" इति। तच्चाजहत्स्वार्थायां वृत्तौ स्वोत्तरभागेन धातुसंज्ञानिमित्तप्रत्ययप्रकृतिभूतेन सामानार्थकमिति तद्घटितविसिष्टार्थेनापि क्त्वान्तेन सह समर्थत्वात् "कुगिति"(पाoसूo2-2-18)इति सूत्रेण प्रादिग्रहणात्समस्यत इति `परिव्रढय्य'इत्यादिसिद्धिः। अवजिगल्भिषते, अवागल्भत, अवगल्भ्य इत्यादावपीयमेव गतिः। न चैवम् "उस्योमाङ्क्ष्वाटः"(काoवाo) इति षाष्ठवार्तिकेन `औढीयत्' इति तद्भाष्येण च सह विरोधः, ज्ञापकस्य सजातीयविषयतया श्रूयमाणे पूर्वपदे प्रवृत्तिः, न त्वादेशेनापहृते इति स्वीकारात्। अत्र च भाष्यवार्तिकधातुवृत्त्यादिग्रन्था अनुकूला इति गुणगृह्यैर्विभाव्यताम्। एवंच `प्रमाणयित्वा' `विचारयित्वा' इत्यादयः केषांचित्प्रयोगाः प्रामादिका एव। अत एव प्रशस्यमाचष्टे `श्रापयति' `ज्यापयति' इति श्रज्यावुदाहरन्तः सुधाकरादयः `श्रपयति' `ज्यपयति' इत्युदाहरन्तः शाकटायनादयश्च प्रक्रिथारन्ते निराकृताः, प्रशब्दस्य पृथक्करणेन शस्यशब्दादेव णिजुत्पत्त्या श्रज्ययोरप्राप्तेः। अत एव माधवादिभिः `प्रशस्ययति' इत्येव स्वीकृतम्। एतेन `प्रावृषमाख्यत् अपप्रावत्' `वीरुधमाख्यत् अविवीरत्' इत्याद्युदाहरन्तो धातुचन्द्रोदयकारादयः परास्ताः। सङ्ग्रामयतेः पाठेन ज्ञापितस्यार्थस्य "उस्योमाङ्क्ष्वाटः"(काoवाo)इति षाष्ठभाष्यवार्तिकबलेन अनित्यताज्ञापनमाश्रित्य कथंचिद्वा समर्थनीया इति दिक्।
भृशादयस्तु श्लोकगणपाठानुरोधेन माधवीये उदाहृताः। तद्यथा-भृशायते। चपलायते। मन्दायते। पण्डितायते। रेहायते। रेहशब्दो रहसि निर्घृणत्वे भिक्षाभिलाषस्य च निवृत्तौ वर्त्तत इति गणवृत्तिः। तृपायते, तृपश्चन्द्रः समुद्रश्च। वेहायते, वेहद् गर्भोपघातिनी। अधरायते, `अधरो मूर्खः पुष्करश्च'इति गणवृत्तिः। ओजायते, वर्चायते, ओजोवर्चःशब्दौ वृत्तिविषये तद्वति वर्त्तते। रेफायते, रेफः सरोष इति गणवृत्तौ। दुर्मनायते। सुमनायते। उन्मनायते। उत्सुकायते। शश्वायते, बृहायते, तान्तावेतौ। "सुबामन्त्रिते"(पाoसूo2-1-2)इत्यत्र मनस्युपसर्गस्य पराङ्गवद्भाव उपसंख्येयः। तेन `सुमनायते' इत्यादौ "तिङ्ङतिङः"(पाoसूo8-1-28)इति निघातो न भवति, `देवदत्तः सुमनायते' इत्यादौ सोपसर्गस्य निघातश्च भवतीति प्रकृतसूत्रस्थभाष्यपर्यालोचनया लभ्यते। अमी श्लोका गणपाठस्था भृशादयः। गणवृत्तौ तु बृहच्छब्दो न पठ्यते। भद्रशब्दस्तु पठ्यते। कन्धरशब्दश्च त्वचोऽभ्यन्तरे स्थूललन्त्वाभा असंयुक्ता स्नायुः कन्धरा, तद्वान् कन्धरः। मत्वर्थे अर्शआदिभ्योऽच्(पाoसूo5-2-127)।
(पाoसूo3-1-13)
लोदितादिडाज्भयः क्यष्(पाoसूo3-1-13)षष लोहितादिभ्यो डाजन्ताच्च भवत्यर्थे क्यष् स्यात्। "वा क्यषः"(पाoसूo1-3-90)लोहितायति, लोहितायते। अत्र `अच्वेः' इत्यनुवृत्त्या अभूततद्भावविषयत्वं लभ्यते। तच्च डाचो न विशेषणम्, असम्भवात्। अलोहितो लोहितो भवतीति विग्रहः। पटपटायति, पटपटायते। कृभ्वस्तियोगं विनाऽपि क्यषो डाजन्ताद्विधानसामर्थ्यादेवेह डाच्। भवत्यर्थे विधीयमानेन क्यषा उक्तार्थस्य भवतेरिह प्रयोगायोगात्। अत्र वार्तिकम्-
लोहितडाज्भ्यः क्यष्वचनं भृशादिष्वितराणीति।। आदिशब्दप्रत्याख्यानपरमेतत्। लोहितशब्दात्परत्र पठ्यमानानि नीलहरितमन्द्रफेनदासमन्द इत्येतानि षट् भृशादिषु द्रष्टव्यानीत्यर्थः। क्यषः ककारषकारावपि प्रत्याख्वातौ। तथाहि, ककारो गुमवृद्धिनिषेधार्थो नेति स्पष्टमेव, अप्रसक्तस्य प्रतिषेधायोगात्। नापि "नः क्ये"(पाoसूo1-4-15)इति सामान्यग्रहणार्थः,नान्तादाविधानात्। नापि "आपत्यस्य च तद्धितेनाति" "क्यच्व्योश्च"(पाoसूo6-4-151,152)इति, `याच्छन्दसि' इत्येव सुवचत्वात्। युक्तं चैतत् `शकुनम्भुरण्युम्' इति, कण्ड्वादियगन्तादपि दर्शनात्। नापि लोहितायते इत्यत्र "अकृत्सार्व"(पाoसूo7-4-25)इति दीर्घप्रवृत्त्यर्थः, तत्र क्ङितीत्यस्याननुवृत्तेः। नन्वनुवृत्तिरावश्यकी `उरुया' `धृष्णुया' इत्येवमर्थमिति चेत्? न, इह हि तृतीयास्थाने "सुपां सुलुक्"(पाoसूo7-1-39)इति यादेशः। स च छान्दसः। तत्र च ह्रस्वोऽपि छान्दस एव भविष्यति उपगायन्तु सापत्नयो गर्भिणय इतिवत्। नापि "क्यस्य विभाषा"(पाoसूo6-4-50)इत्यत्र सामान्यग्रहणार्थः, हल इत्यनुवृत्तेः। नह्ययं हलन्तादस्ति, न च "वा क्यषः"(पाoसूo1-3-90)इति विशेषणार्थः, "वा स्यात्" इत्येव सूत्रणात्। न चैवं "पाशादिभ्यो यः"(पाoसूo4-2-49)पाश्या, अत्र प्रसङ्गः, सामान्यविहितानां तिङां नियमार्थं हि तत्प्रकरणम्। न च पाशादियान्तात्तिङः सन्ति। नन्वाचारक्विबन्तात्सन्तीति चेत्? न, टापा व्यवधानात्, पूर्वस्मादपि विधौ एकादेशस्य स्थानिवद्भावात्। न च दण्ड्यवध्यादिशब्देभ्य आचारक्विबन्तेभ्योऽतिप्रसङ्गः शङ्क्यः तत्र "दण्डादिभ्य"(पाoसूo5-1-65)इति पूर्वसूत्राद्यदनुवृत्तेः न तु यप्रत्यय इति पञ्चमे वक्ष्यमाणत्वात्। अत एव षकारोऽपि व्यर्थः। स हि "वा क्यषः"(पाoसूo3-2-170)"क्यस्य विभाषा"(पाoसूo6-4-50)इत्यादौ सामान्यग्रहणाविधातार्थो वेति फलं सम्भाव्यते। तच्च सर्वं दूषितमेव। तस्मादादिशब्दं कषौ च हित्वा "लोहितडाज्भ्यो यः" इति भाष्ये स्थापितम्। यदि तु "सभायायः"(पाoसूo4-4-150)-सभ्यः, स इवाचरतीत्यादेराचारक्विबन्तस्याभिधानमस्ति, तर्हि "वा यषः" इति सूत्र्यताम्। षकारमात्रं वाऽस्तु, अवशिष्टं तु व्यर्थमेव। वृत्तिकारस्तु वार्तिकस्यार्थमन्यता मन्यते। तद्यथा-न किलानेनादिग्रहणं प्रत्याख्यायते, किन्तु यानि पठितानि नीलादीनिषट् तेषामेव इतोऽपकृष्य भृशादिषु निवेश उच्यते। अपठितानां तु क्यषेव। तानि चाकृतिगणत्वाल्लभ्यन्ते। आकृतिगणत्वे ज्ञापकं तु "नः क्ये"(पाoसूo1-4-15)इति सामान्यग्रहणार्थः क्यषः ककारः तदविवातार्थः षकारश्च, न हि पठ्यमानेषु लोहितादिषु नान्तः कश्चिदस्ति। तानि चाकृतिगणसिद्धानि गणवृत्तिकारः सञ्जग्राह।
लोहितश्यामदुःखानि हर्षगर्वसुखानि च।
मूर्छानिद्राकृपाधूमाः करुमान्तियचर्मणीति।।
निद्राकरुमादयो वृत्तिविषये तद्विति वर्तन्ते।। निद्रायति निद्रायते इत्यादि। तदेतत्सर्वं भाष्यविरुद्धत्वादुपेक्ष्वम्। किञ्च `लोहितडाज्भयः' इति वदतो वार्तिककारस्यापि आदिशब्दप्रत्याख्यानमभिप्रेतमिति स्पष्टं लभ्यते। अन्यथा हि `लोहितात्' इत्येव ब्रूयात्। अत एव "विद्वस्यमान इत्यत्र लोहितादिडाज्भ्यः क्यष्" इति कल्पतरुग्रन्थो वृत्तिकाररीत्या सम्भवन्नपि भाष्यविरुद्धत्वात्प्रौढिवादमात्रमिति क्यङ्विधाववोचाम।
स्यादेतत्, "क्यष् च" इति सूत्रमस्तु, चात्क्यङ्। तत्र क्यष्पक्षे परस्मैपदम्, क्यङ्पक्षे त्वात्मनेपदमिति "वा क्वषः"(पाoसूo1-3-90)इति सूत्रं मास्त्विति चेत्? मैवम्, "प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्"(पoभाo73)इति लोहिनीशब्दात् क्यषि `लोहिनीयति' `लोहिनीयते' इति रूपद्वयमिष्यते। क्यङि तु "क्यङ्मानिनोश्च"(पाoसूo6-3-36)इति पुंवद्भावे सति `लोहितायते' इति स्यादिति फले भेदात्।
(पाoसूo3-1-14)
कष्टाय क्रमणे(पाoसूo3-2-14)।। कष्टे कृच्छ्रम्। "कृच्छ्रगहनयोः कषः" (पाoसूo7-2-22)इति कृच्छ्रे इडभावः। तेन च तत्करणं पापं कर्म लक्ष्यते। क्रमणमुत्साहः, "वृत्तिसर्गतायनेषु'(पाoसूo1-3-38)इति सूत्रे हि `सर्ग उत्साह' इत्युक्तम्। तदयमर्थः-चतुर्थ्यन्तात्कष्टशब्दादुत्साहेऽर्थे क्यङ् स्यात्। कष्टाय क्रमते कष्ठायते। पापं कर्म कर्तुमुत्सहत इत्यर्थः।
सत्रकक्षकष्टच्छ्रगहनेभ्यः कण्वचिकीर्षायामिति वक्तव्यम(काoवाo)।। कण्वं पापम्। सत्रादयो वृत्तिविषये पापपर्यायाः। तेभ्यो द्वितीयान्तेभ्यः चिकीर्षायां क्यङ्। पापं चिकीर्षतीत्यस्वपदेन विग्रहः। सत्रायते। कक्षायते। कष्टायते। कृच्छ्रायते। गहनायते।
कर्मणो रोमन्थतपोभ्यां वर्तिचरोः(पाoसूo3-1-15)।। कर्मण इति पञ्चमी, रोमन्थतपोभ्यामित्यनेन सामानाधिकरण्यात्। प्रत्येक सम्बधात्त्वेकवचनम्। वर्तीति ण्यन्ताद्वृतेः "ण्यासश्रन्थोयुच्"(पाoसूo3-3-107)इति युचि प्राप्ते अत एव निपातनात् क्तिन्। चरतेः सम्पदादित्वाद्भावे क्विप्। रोमन्थतपोभ्यां कर्मभ्यां यतासङ्ख्यं वर्तिचरोरर्थयोः क्यङ् स्यात्। रोमन्थं वर्तयति रोमन्थायते।
हनुचलन इति वक्तव्यम्(काoवाo)।। हनुचलनेनात्र चर्वितस्य मुखप्रदेशे आकृष्य चर्वणं लक्ष्यते। नेह-कीटो रोमन्थं वर्तयति। अपानप्रदेशान्निःसृतं द्रव्यं कीटो वर्तुलं करोतीत्यर्थ इति न्यासकारहरदत्तौ। अपानप्रदेशान्निःसृतमश्नातीत्यर्थ इति तु कैयटो व्याख्यत्। तपस्यति, इह तङ् प्राप्तः। तस्मात्--
तपसः परस्मैपदं च(काoवाo)। इति वक्तव्यम्। एवं च "नमोवरिव"(पाoसूo3-1-19)इत्यादिसूत्र एव तपःशब्दः पठितुमुचितः। तथा तु न कृतमित्येव।
(पाoसूo3-1-16)
बाष्पोष्मभ्यामुद्वमने(पाoसूo3-1-16)कर्मणः।। क्यङिति वर्तते। बाष्पमुद्वमति बाष्पायते। ऊष्माणमुद्वमति ऊष्मायते।
(पाoसूo3-1-17)
शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे(पाoसूo3-1-17)।। एभ्यः कर्मभ्यः करोत्यर्थे क्यङ् स्यात्। शब्दं करोति शब्दायते। एवं वैरायते। कलहायते। अभ्रायते। कण्वायते। मेघायते। "तत्करोति"(गoसूo)इति णिचि प्राप्तेऽयमारभ्यः। पक्षे णिजपीष्यते-`शब्दयति' इति। तदर्थं मण्डूकप्लुत्या "भृशादिभ्यो भुवि"(पाoसूo3-1-12)इति सूत्राच्चकारोऽत्रानुवर्तत इति न्यासकारः। अत्र वार्तिकम्-
सुदुनदुर्द्दिनाभ्याञ्च(काoवाo)।। सुदिनायते। दुर्दिनायते।
नीहाराच्च(काoवाo)।। नीहारायते।
अट्ट्टाशीकाकोटापोटसोटाप्रुष्टाप्लुष्टाग्रहणं कर्तव्यम्(काoवाo)।। पोटा स्त्रीपुंसलक्षणा। अतोऽन्ये क्रियावचना इति सुब्धातुवृत्तौ माधवः। अट गतौ(भ्वाoपo296)। अटतीत्यटा अचि टाप्, तां करोति अटायते। अट्ट अतिक्रमहिंसयोः(चुoउo28)"गुरोश्च हलः"(पाoसूo3-3-103)इत्यकारः-अट्टा, तां करोति अट्टायते। शीकृ सेचने(भ्वाoआo75)तालव्यादिः। दन्त्यादिरिति तु धनपालकाश्यपौ। गुरोश्चेत्यकारः-शीका, तां करोति शीकायते इति तद्धातुव्याख्यायां माधवः। कुट कौटिल्ये(तुoपo86) तुदादिः, हेतुमण्णिच्। कुट छेदने(चुoआo165)आकुस्मीयः। कोटयति कोटयते वा कोटा, तां करोति कोटायते। पोटोक्ता, पोटायते। `सोटा' इति पाठे धात्वर्थोऽन्वेषणीयः। `मोटा' इति पाठे तु मुट सञ्चूर्णने(चुoपo81)चुरादिः, प्रदर्शने भ्वादिः। प्रदर्शनाक्षेपयोस्तुदादौ(तुoपo94)। मोटयतीति मोटा, मोटायते। प्रुष प्लुष दाहे(भ्याoपo55,56)। कर्मणि क्तः, प्रुष्टा प्लुष्टातां करोति प्रुष्टायते। उज्ज्वलदत्तस्तु "अशूप्रूषिलटिकणिखटिविशिभ्यः क्वन्"(उoसूo157)इति सूत्रे `प्रुष्वःस्यादृतुसूर्ययोः' `प्रुष्वा जलकणिका' इति रत्नमतिः। प्लुष स्नेहनादाविति धातुः `प्रुष्वायते' इत्युदाहरन् इह वार्तिके 'प्रुष्वा' इति पाठमुपन्यस्तवान्।
(पाoसूo3-1-18)
सुखादिभ्यः कर्तृवेदनयाम्(पाoसूo3-1-18)।। कर्तृ इति पृथक्पदं लुप्तषष्ठीकम्। वेदना ज्ञानम्। "विद चेतनाख्यानविवासेषु"(चुoआo175)इत्यस्माच्चुरादिण्यन्ताद्भावे "ण्यासश्रन्थो युच्"(पाoसूo3-3-107)। "घट्टिवन्दिविदिभ्यश्च'(काoवाo)इति औपसङ्ख्यानिको वा। कर्तृत्वं च श्रुतवेदनक्रियापेक्षम्। तदयमर्थः-वेदनक्रियायाः कर्तुराधेयभावेन सम्बन्धिभ्यः सुखादिभ्यः कर्मभ्यो वेदनायामर्थे क्यङ्स्यात्। सुखं वेदयते सुखायते। कर्तृग्रहणं किम्? सुखं वेदयते प्रसाधको राज्ञः। अयं वेदिः आकुस्मीयः। एवं च `वेदयति' इति केषांचित्परस्मैपदपाठः प्रामादिकः। अत्र श्लोकगणकारः-
सुखदुःखगहनकृछ्रास्तृप्रालीकप्रतीपकरुणाश्च।
कृपणः सोढ इतीमे सुखादयो दश गणे पठिताः।।
सोढं सहनमभिभवो वा। गमरत्नमहोदधौ तु आस्रशब्दोऽपीह पठ्यते।
(पाoसूo3-1-19)
नमोवरिवश्चित्रङः क्यच्(पाoसूo3-1-19)।। करणग्रहममनुवृत्तमभिधानशक्तिस्वाभाव्यादिह क्रियाविशेषपरम्। तेन नमसः पूजायां, वरिवसः परिचर्यायां, चित्रङ आश्चर्ये, क्यच् स्यात्। नमस्यति देवान्, नमस्कारेण पूजयतीत्यर्थ-। वरिवस्यति गुरून्। शुश्रूषत इत्यर्थः। चित्रीयते। `विस्मयते इत्यर्थः, `विश्माययते' इत्यन्ते। तथा च मायामृगं प्रकृत्य भट्टिराह-"ततश्चित्रीयमाणोऽसौ" इति। अत्र चित्रङो ङित्करणादवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवतीति वाच्यम्। तथा सति क्यजन्तादात्मनेपदम्। न चैवं शब्दवैरादिसूत्रे चित्रशब्दोऽपि पठ्यतां क्यङैव तङ् भविष्यतीति वाच्यम्, तथा सति हि "क्यचि य"(पाoसूo7-4-33) इति ईत्वं न स्यात्। तस्मात्क्यजेव कार्यो ङित्त्वं च।
(पाoसूo3-1-20)
पुच्छभाण्डचीवराण्णिङ्(पाoसूo3-1-20)।। करण इत्यनुवृत्तेः क्रियाविशेषे पुच्छादुदसने व्यसने पर्यसने च। उदसनमुत्क्षेपणम्। व्यसनं-विविधं विरुद्धं वाउत्क्षेपणम्। पर्यसनं-परितः क्षेपणम्। उत्पुच्छयते। विपुच्छयते। परिपुच्छयते।
भाण्डात्समाचयने(काoवाo)।। समाचयनं राशीकरणम्। सम्भाण्डयते। भाण्डानि समाचिनोतीत्यर्थः।
चीवरादर्जने परिधाने वा(काoवाo)।। संचीवरयते भिक्षुः। चीवराण्यर्जयति परिधत्ते वेत्यर्थः। णिङो णकारः सामान्यग्रहणार्थो न तु वृद्ध्यर्थः। असम्भवात्। ङकारस्तदविघातार्थः आत्मनेपदार्थश्च। अत एव पुच्छादय उत्तरसूत्रे न निवेशिताः।
मुण्डमिश्रश्लक्ष्णलवणव3तवस्त्रहलकलकृततूस्तेभ्यो णिच्(पाoसूo3-1-21)।। एभ्यो दशभ्यः कृञर्थे णिच् स्यात्। मुण्डं करोति मुण्डयति। मिश्रयति। श्लक्ष्णयति। लवमयति।
व्रताद्भोजने तन्निवृत्तौ च(काoवाo)।। पयः शूद्रान्नं वा व्ररतयति।
वस्त्रात्समाच्छादने(काoवा)।। संवस्त्रयति। इह भोजनतन्निवृत्तिव्रतशब्दस्यार्थौ। समाच्छादनं तु वस्त्रशब्दस्य। प्रत्ययस्तु कृञर्थे। श्रूयते च भोजने व्रतशब्दः-"यदस्य पयो व्रतं भवति। आत्मानमेव तद्वर्धयति। त्रिव्रतो वै मनुरासीत्। द्विव्रता असुराः। एकव्रता देवाः" इति। पस्पशायां च-"शक्यञ्चानेन श्वमांसादीन्यपि व्रतयितुम्" इति। अयमेव व्रतशब्दो दर्शादिवद्विपरीतलक्षमया तन्निवृत्तौ वर्तते। `संवस्त्रयति प्रावारम्' इत्यत्र प्रावारमाच्छादयतीत्यर्थ इति माधवः।
हलादिभ्यस्त्रिभ्यो ग्रहणे प्रत्ययः। हलिं गृह्णाति हलयति। कलिं गृह्णाति कलयति। कृतं गृह्णाति कृतयति।
तूस्तानि विहन्ति वितूस्तयति। `तूस्तं केशः' इति श्रीभद्रः। जटीभूताः केशा इति न्यासः। पापमिति वैजयन्ती।
स्यादेतत्, "प्रतिपदिकाद्धात्वर्थे"(गoसूo)इत्येव सर्वमिदं सिद्धम्। न च "तत्करोति"(गoसूo)इत्यादिना तत्र धात्वर्थनियमः, राजानमतिक्रान्तवान् अत्यरराजदित्यादेरपीष्टत्वात्। तत्किं मुण्डादिसूत्रेमेति चेत्?
अत्राहुः, मुण्डयति माणवकं, मिश्रयत्यन्नं, श्लक्ष्णयति वस्त्रं, लवणयति व्यञ्जनमिति सापेक्षेभ्योऽपि णिजर्थमिदम्। हलिक्रल्वोस्त्वत्वनिपातार्थम्। तथा च वार्तिकम्-
हलिकल्योरदन्तत्वनिपातनं सन्वद्भावप्रतिषेधार्थमिति। तथाहि, `हलिइ' `कलिइ' इति स्थिते "अचो ञ्णिति"(पाoसूo7-2-115)इति वृद्धिः प्राप्नोति, णाविष्ठवदिति टिलोपश्च। तत्र लोपः शब्दान्तरप्राप्त्या अनित्यः, वृद्धिस्तु टिलोपे सत्यप्राप्तेः। उभयोरनित्ययोः परत्वाद् वृद्धौ कृतायां ऐकारस्य आयादेशात्पूर्वमेव परत्वात् वार्णादाङ्गस्य बलीयस्त्वाच्च लोपेऽनग्लोप्ययम्भवतीति "सन्वल्लघुनि"(पाoसूo7-4-93)इति सन्वद्भावः स्याद् "दीर्घो'(पाoसूo7-4-94)इतिस्थानिवद्भावात्तेन व्यवधानान्न दोष इति वाच्यम्, चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपरः तस्य सन्वत् लघोर्दीर्घश्चेति हरदत्तादिभिः पुरस्कृते कैयटेनैकीयमततयोपन्यस्ते व्याख्याने स्थानिवद्भावस्याकिञ्चित्करत्वात्। चङ्परे णौ यल्लघु तत्र परतो योऽभ्यासः तस्येति भाष्यकैयटतेऽपि अभ्यासस्य टिलोपाद्यनन्तरं जातत्वेन-1--1.आदिष्टादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये विहितस्य स्थानिवत्त्वस्याप्रसङ्गादित्यर्थः।-आदिष्टादचः पूर्वत्वेन स्थानिवत्त्वाप्रसङ्गात्। अत्वनिपातने तु यद्यपि परत्वाद् वृद्धिस्तथापि अगेव लुप्यत इति सन्वद्भावदीर्घौ न भवतः। एवं च बलिपटुप्रभृतिभ्यो णिचि अबीबलत् अपीपटत् इति भवति न तु अबबलत् अपपटत् इति।
स्यादेतत्, "णौ चङि"(पाoसूo7-4-1)इत्यत्रत्यभाष्येण सहैतद्विरुध्यते। तत्र हि वृद्धेर्लोपो बलीयानिति स्थितम्। युक्तं चैतत, शब्दान्तरप्राप्तौ सत्यामपि कृताकृतप्रसङ्गित्वमात्रेण क्वचिन्नित्यत्वाभ्युपगमात्। यदाह-भुवोवुकोनित्यत्वादित्यादीति, ज्ञापकं चात्र "नाग्लोपिशास्"(पाoसूo7-4-2)इति सूत्रे अगिति प्रत्याहारग्रहणम्। तथाहि, अवर्णान्तेष्ववर्णोपधेषु ऋवर्णान्तेषु च वृद्धावप्यवर्ण एव लुप्यते। तत्र अलोपिनां नेत्येव वाच्यम्। इवर्णोवर्णान्तयोस्तु वृद्धौ कृतायामौकारो लुप्यते न त्वक्। न च स्वामिनमाख्यत् असस्वामत्, गोमिनमाख्यत् अजुगोमत्, प्रादुराख्यत् अपप्रादत्, यादृशमाख्यत् अययादत्, तादृशमाख्यत् अततादत् इत्यादौ यत्र वृद्धेरप्रसङ्गादिको लोपस्तत्र ह्रस्वनिवृत्तये अग्ग्रहणमिति वाच्यम्, अनभिधानात्तत्र णिच एवानुत्पत्तेः। एतच्च भाष्यकारेम ज्ञापकत्वस्य समर्थनादवसीयते। न चैवमपि स्रग्विणमाख्यद् असस्रजत् इत्यत्र विन्मतोर्लुकि उपधाया वृद्धौ ह्रस्वनिवृत्त्यर्थं अग्लोपग्रहणं स्यात्, अस्ति ह्यत्राभिदानम् "टेः" इत्यत्र भाष्ये `स्रजयति' इत्युदाहणादिति वाच्यम्, एवमपि स्रजयतीत्यत्र वृद्ध्यभावस्य सिद्धान्तसम्मतत्वेनं टेरित्यत्र भाष्यकारेण स्रजयतीति निर्द्देशात् "आङ्गवृत्ते"(पoभाo94)इति परिभाषया वा वृद्धेरप्रसङ्गेन ह्रस्वभाविन्या उपधाया एव अभावात्। अतः प्रत्याहारग्रहणं ज्ञापकं वृद्धेः पूर्वं टिलोप इति। तत्कथमिहोच्यते वृद्धौ सत्यां टिलोप इतीति चेत्?
अत्र माधवः-परत्वाद् वृद्धिरिति मुख्यः पक्षः, वृद्धेर्लोपो बलीयानिति तु प्रौढिवादमात्रमित्येकं मतम्। तद्विपरीतं मतान्तरम्। भाष्यद्वयप्रामाण्याद् वृद्धेः पूर्वं पश्चाद्वा कामचारेण टिलोप इति अपपटत् अपीपटदिति रूपद्वयमपि साध्विति चापरं मतमिति मतत्रयमपि सुब्धातुवृत्तावुपनिबद्धवान्। तत्राद्यं मतं हरदत्तस्य, द्वितीयं कैयटस्य, तृतीयं त्वन्येषामिति विवेकः। एतद्वलाबलचिन्ता तु करित्यते। अयं च भेदो णिभिन्नविषयः, णेर्णिचि तु ण्यल्लोपाविति विप्रतिषेधात् निष्कर्षरीत्याऽपवादत्वाद्वा प्रागेव णिलोपः। उपधाह्रस्वत्वे सन्वद्भावदीर्घयोश्च णेर्णिचीत्युपसंख्यानाण्ण्याकृतिर्द्देशाद्वा अवीवददित्येव रूपमिति सप्तमे वक्ष्यामः।
प्रकृतमनुसरामः। मुण्डादिसूत्रे केषांचिद्ग्रहणं प्रपञ्चार्थम्। मुण्डादयः सर्वेऽपि "सत्यापपाश"(पाoसूद3-1-25)इत्यत्रैव पठितुं युक्ताः। एवं हि एकवाक्यता लभ्यते। द्विर्णिज्ग्रहणं च न कर्तव्यमिति लाघवम्। तथा तु न कृतमित्येव।
(पाoसूo3-1-22)
धातोरेकाचो हलादेः क्रियासमभिहारे यङ्(पाoसूo3-1-22)।। एकाच् हलादिः समभिह्रियमाणक्रियावृत्तिर्यो धातुः तस्मात्स्वार्थे यङ् स्यात्। समभिहारोऽत्र पौनःपुन्यं भृसार्थो वा। यद्यपि विप्रकीर्णानामेकत्र राशीकरणं सभभिहारशब्दस्य मुख्योऽर्थः, तथाप्यसौ धान्यादीनामेव सम्भवति, न तु धातुवाच्यायाः क्रियायाः, अमूर्तत्त्वात्। अतो गौणोऽर्थो गृह्यते। स च न प्रत्ययस्य वाच्यः, प्रकृत्यर्थं प्रति विशेष्यतापत्तेः, किन्तु द्योत्योऽर्थः। अत एव टाबादयस्तरबादयश्च स्वार्थिका एवेति निरूढः पन्थाः। यदा तु प्रकृत्यर्थप्राधान्यमौत्सर्गिकम् आख्यात इव टाबादिष्वपि त्यज्यते तदा टाबादयो वाचका इत्यपि पक्षः सम्भवत्येव। स्वीकृतश्चायं लिङ्गादिविधौ भाष्येऽपीति तत्रतत्र स्फुटम्। पुनः पुनरतिशयेन वा पचति पापच्यते। "दीर्घोऽकितः"(पाoसूo7-4-83)इति दीर्घः। देदीप्यते। "गुणो यङ्लुकोः'(पाoसूo7-4-82)इति गुणः। ननु "क्रियासमाभिहारे च'(काoवाo)इति वार्तिकेन "नित्यवीप्सयोः"(पाoसूo8-1-4)इति वा पदद्विर्वचनमिह कुतो नेति चेत्? यङैव क्रियासमभिहारस्य द्योतितत्वात्। न चैवं लुनीहिलुनीहीत्यत्रापि न स्यादिति वाच्यम्, केवलेन लोटा तुल्यरूपो हिः क्रियासमभिहारं द्योतयितुं सहायतया द्वित्वमपेक्षते, अन्यथा संशयापत्तेः; यङ् तु न तथेतिवैषम्यात्। धातोरिति किम्? आर्धदातुकत्वं यथा स्यात्। तेन "ब्रुवो वचिः" इत्यादि सिध्यति। एकाचः किम्? पुनःपुनर्जागर्ति। हलादेः किम्? भृशमीक्षते। यङो ङित्त्वं बोभूयते मरीमृज्यते इत्यादौ गुणवृद्धिनि,ेधार्थम्। न चैवमवयवे चरितार्थस्य समुदायं प्रत्यविशेषकत्वात् यङन्तादात्मनेपदं न स्यादिति वाच्यम्, ङिदन्ताद्धातोस्तदिति "अनुदात्तङित"(पाoसूo1-3-12)इति सूत्र एव प्रपञ्चितत्वात्। `भृशं शोभते' `भृशं रोचते' इत्यत्रानभिधानाद्यङ् नेति भाष्यम्। कथं तर्हि "रुच दीप्तौ"(भ्वाoआo746)"शुभ शोभयाम्"।(तुoपo41)इति धातू व्याचक्षाणैः धातुवृत्तिकारैः `रोरुच्यते' `शोशुभ्यते' इत्युदाहृतमिति चेत्? भाष्ये भृशार्थोपादानात् पौनः पुन्ये भवत्येवेत्याशयेनेत्याहुः। शोभत इति शब्विकरणस्योदाहरणात्तौदादिकस्य यङ् भवत्येवेति धातुचन्द्रोदये। "सूचिसूत्रिमूत्र्यट्यर्त्यशूर्णुग्रहणम्'(काoवाo)। सूच पैशून्ये(चूoपo341)सूत्र अवमोचने(चुoपo376)मूत्र प्रस्रवणे'(चुoपo161)। अश भोजने(क्र्याoप051)अशू व्याप्तौ(स्वाआo18)द्वयोरपि ग्रहणम्। अत्र आद्यानां त्रयाणामनेकाल्त्वात् ततोऽन्येषां अहलादित्त्वात्, ऊर्णोतस्तु अनेकाल्त्वादहलादित्वाच्चाप्राप्तौ वचनम्। अत्र ऊर्णोतेर्वक्ष्यमाणेन णुवद्भावेनापि सिद्धम्। सोसूच्यते। सोसूत्र्यते। सूचिसूत्री अदन्तौ, चुरादिणिच्, अतोलोपः, यङ्, णिलोपः, द्वित्वं, "हलादिः शेषः'(पाoसूo7-4-60), अभ्यासस्य गुणः। अभ्यासात्परस्य षत्वं तु न भवति, अनादेशत्वात्। न चेमौ षोपदेशौ, अदन्तत्वेनानेकाच्त्वात्। षोपदेशलक्षणे हि सेक्सृबादिपर्युदासात् तत्सादृश्यमेकाच्त्वं विवक्षितामिति निष्कर्ष-। `सोसूच्यते' `सोसूत्र्यते' इति भाष्योदाहरणं चात्र प्रमाणम्। षोपदेशलक्षणे एकाच्त्वं विशेषणं देयमिति वदतो माधवस्याप्ययमेवाशय-। सोसूत्र्यते। अटाट्यते। "अजादेर्द्वितीयस्य"(पाoसूo6-1-9)इति षष्ठीति वक्ष्यमामत्वात्। अरार्यते। "गुणोऽर्तिसंयगाद्योः" "यङि च"(पाoसूo7-4-129,130)इति गुणः, र्यशब्दस्य द्वित्वम्। न च "नन्द्राः संयोगादयः"(पाoसूo6-1-3)इति रेफस्य द्वित्वनिषेधः, "यकारपरस्य नायं निषेधः" इति षष्ठे वृत्तिकारोक्तेः।न चैतदप्रामाणिकम्, प्रकृतसूत्रस्थस्य अरार्थत इति भाष्यस्यैव तत्र प्रमाणत्वात्। अशाश्यते। ऊर्णोनूयते। ऊर्मुञ् आच्छादने(अoउo29)। नोपधोयम्। तस्याष्टमिकं णत्वम्। तस्यासिद्धत्वान्नुशब्दस्य दिवत्वम्। "पूर्वत्रासिद्धीयमद्विर्वचने'(पoभाo128)इत्यनित्यम् "उभौ साभ्यासस्य"(पाoसूo8-4-29)इति लिङ्गात्। स्यादेतत्, लुनीहिलुनीहीत्येवायं लुनाति। अत्र यङा लोट् बाध्येत। अन्तरङ्गो हि यङ् क्रियासमभिहारमात्रापेक्षत्वात्। लोट् तु बहिरङ्गः, क्रियाभेदाश्रये धातुसम्बन्धे भावकर्मकर्तृषु विधानात्। तथा लोट् सावकाशोऽपि क्व? अनेकाचि अजादौ च-जागृहिजागृहीत्येवायं जागर्ति, ईक्षस्वेक्षस्वेत्येवायमीक्षते।
अत्राहुः, वेत्यनुवर्तते। यदा न यङ् तदा लोट् भविष्यति।
(पाoसूo3-1-23)
नित्यं कौटिल्ये गतौ(पाoसूo3-1-23)।। गतौ वर्तमानाद्धातोः कौटिल्ये एव द्योत्ये यङ् स्यात् न तु क्रियासमभिहारे। क्रमु पादविक्षेपे(भ्वाoपo474)द्रम गतौ(भ्वाoपo467)चङ्क्रम्यते। दन्द्रम्यते। अवधारणार्थान्नित्यग्रहणान्नेह-भृशं क्रामति। ननु यथा "वडवाया वृषे वाच्ये" इत्यनेन अपत्ये प्राप्तस्ततोऽपकृषअय विधीयते, यथा वा ञीतः क्तो भूत प्राप्तः ततोऽपकृष्य वर्त्तमाने विधीयते, एवमत्रापि धातुमात्रात् क्रियासमभिहारे यङ् विहितो गतिवचनात्तु कौटिल्य इति तक्रकौण्डिन्यन्यायेनैव बाधः सिद्धः। सत्यम्, अत एव नित्यग्रहणं भाष्यवार्तिकयोः प्रत्याख्यातम्।
(पाoसूo3-1-24)
लुपसदचरजयजभदहदशगॄभ्यो भावगर्हायाम्(पाoसूo3-1-24)।। एभ्यो यङ् स्यात् धात्वर्थगर्हायां द्योत्यायाम्। लुप्लृ च्छेदने(तुoउo151)। षद विशरणादौ(भ्याoपo879)। यस्तु "आङः सदिः पद्यर्थे"(चुoपo299)इति चौरादिको ण्यन्तः स इह न गृह्यते `एकाच' इत्यनुवृत्तेरिति हरदत्तः, तच्चिन्त्यम्, प्रकृतिग्रहणे ण्यधिकस्याप्राप्तेः। अन्यथा लुपादेरपि हेतुमण्ण्यन्तस्य वारणीयतया सदेरेवोपन्यासे बीजाभावाच्च। चर गतौ(भ्वाoपo560)जप व्यक्तायां वाचि(भ्वाoपo396)जभी गात्रविनामे(भ्वाoआo388)दह भस्मीकरणे(भ्वाoपo1016)। अत एव दशेति निपातनात् यङ्लुकि नलोपः-दन्दशीति। गॄ निगरणे(तुoपo130)तुदादिः। गॄ शब्दे(क्र्याoपo26)क्रयादिः। तत्र अदन्तविकरणसाहचर्यात्तुदादेरेव ग्रहणमित्येके। द्वयोरपीत्यन्ये। गर्हितं लुम्पति लोलुप्यते। सासद्यते। चञ्चूर्यते। "चरफलोश्च'(पाoसूo7-4-87)इति नुक् "उत्परस्यातः"(पाoसूo8-4-88)"हलि च"(पाoसूo9-2-77)इति दीर्घः। जञ्जप्यते। जञ्जभ्यते। दन्दह्यते। दन्दश्यते। जपादीनां चतुर्णामभ्यासस्य "जपजभदहदशभञ्जपशाञ्च'(पाoसूo7-4-86)इति नुक्। निजेगिल्यते। "ऋत इद्धातोः"(पाoसूo7-1-100),रपरत्वं, द्विर्वचनम्, अभ्यासस्य गुणः, जेगिर् य इति स्थिते "ग्रो यङि"(पाoसूo8-3-20)इति लत्वम्। न च परत्वात् "हलि च" इति दीर्घः, तस्यासिद्धत्वात्। लत्वे कृते तु न विहतनिमित्तत्वाद्दीर्घः। भावेति किम्? साधनगर्हायां मा भूत्-मन्त्रं जपति वृषलः। अत्र स्वरवर्णादिभ्रंशाभावाद् गर्हा नास्ति। कर्त्राख्यसाधनं तु गर्हितं शूद्रस्य वेदे अनधिकृतत्वात्। नित्यग्रहणमवधारणार्थमिहानुवर्तते। तस्य व्याख्यानं च पूर्ववत्।
सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णँचूर्णचुरादिभ्यो णिच्(पाoसूद3-1-25)।। एभ्यो णिच् स्यात्। सत्यादिभ्यस्चूर्णान्तेभ्यः प्रातिपदिकाद्धात्वर्थे इत्येव सिद्धे सत्यस्यापुगर्थं वचनम्, अन्येषां प्रपञ्चार्थम्, मालिन्या उपश्लोकयतीत्यादौ सापेक्षादुत्पत्त्यर्थं च। धात्वर्थे इत्यविशेषोक्तावपि स्वभावलभ्योऽर्थविशेषो वृत्तिकारादिभिर्निर्द्दिश्यते। तद्यथा-सत्यमाचष्टे सत्यापयति। सत्यं करोतीति तु भाष्यम्।
अर्थवेदसत्यानामापुग्वक्तव्यः(काoवाo)।। आपुग्वचनसामर्थ्याट्टिलोपो न अर्थापयति। पुकैव सिद्धे आकारोच्चारणमन्यतो विधानार्थं तेन लिखापयतीत्यादि सिद्धमिति कश्चित्। तन्न, `पुगेव करिष्यते' इति भाष्यविरोधात्। तस्माल्लिखापयतीत्यपप्रयोग एवेत्याहुः।
पादौ प्रक्षालापयतीति गृह्यप्रयोगस्तु छन्दोवदृषयः कुर्वन्तीति समाधेय इति हरदत्तादयः। पाशं विमुञ्चति विपाशयति। रूपं पश्यति रूपयति। वीणयोपगायति उपवीणयति। तूलेनुकुष्णाति अनुतूलयति तृणाग्रम्। अनुकुष्णाति अनुघट्टयतीत्यर्थ इति हरदत्तः। श्लोकैरुपस्तौति उपश्लोकयति। सेनया अभियाति अभिषेणयति, "उपसर्गात्सुनोति"(पाoसूo8-3-65)इति षत्वम्। अभ्यषेणयत्, "प्राक् सितादड्व्यवायेऽपि"(पाoसूo8-2-63)इति षत्वम्। त्वच संवरणे(तुoपo21)"पुंसि सञ्ज्ञायाम्"(पाoसूo3-3-118)इति घः। त्वचं गृह्णाति त्वचयति। टिलोपस्य स्थानिवत्त्वादुपधावृद्धिर्न। उक्तादेव धातोः हलन्तात् "तत्करोति"(गoसूo)इति णै `त्वाचयति' इत्युपधावृद्धिर्भवत्येव। "प्रकृत्यैकाच्"(पाoसूo6-4-163)इति टिलोपाभावः। तस्मात्सूत्रे त्वचोत्यकारो विवक्षितो न तु सत्यापेतिवदुच्चारणार्थ इत्यवधेयम्। वर्मणा सन्नह्यति संवर्मयति। वर्णं गृह्णाति संवर्मयति। चूर्णैरवध्वंसयति अवचूर्णयति। चुरादिभ्यः स्वार्थे, चोरयति। चिन्तयति।
(पाoसूo3-1-26)
हेतुमति च(पाoसूo3-1-26)।। हेतुः कर्तुः प्रयोजकः, तद्वयापारः प्रवर्तनारूपो हेतुमान्, तस्मिन्वाच्ये धातोर्णिच् स्यात्। पाचयति देवदत्तो यज्ञदत्तेन। यज्ञदत्तनिष्ठक्लित्त्वनुकूलव्यापारविषयिणी प्रवर्तना देवदत्ताश्रयेत्यर्थः। प्रवर्तनाऽनेकधा-प्रेषणमध्येषणं तत्समर्थाचरणं चेति। भृत्यादेर्निकृष्टस्य प्रवर्तना प्रेषणम्, आज्ञेत्यर्थः। गुर्वादेराराध्यस्य प्रवर्तना अध्येषणम्, प्रार्थनेत्यर्थः। तत्समर्थाचरणमपि बहुधा अनुमतिरुपदेशोऽनुग्रह इति। तत्र यस्यानुमतिं विना क्रिया न निष्पद्यते सोऽनुमतिमात्रे प्रयोजकः। यथा राजादिः। वैद्यादिस्तु ज्वरितः कषायं पिबेदिति उपदेशमात्रेम प्रवर्तकः। यस्तु केनचिद् जिघांसितं पलायमानं रुणाद्धि सोऽपि हन्तुरनुग्राहकत्वात् प्रयोजक एव। तदिह अर्थप्रकरणादिगम्या अमी विशेषाः। सर्वानुगतं प्रवर्तनासामान्यं तु णिचोऽर्थः। स च णिचः शक्य इति मुख्यः पक्षः। द्योत्य इति पक्षान्तरमप्याकरे स्थितम्। यद्यपि हेतुशब्दस्य ससम्बन्धिकत्वात् हेतुमा नित्युक्ते यं प्रति प्रयोजकत्वं स एव लभ्यते, यथा पितृमानित्युक्ते पुत्रः, तादृशश्चेह कर्ता कारकाधिकारे हेतुसंज्ञोक्तः क्रिया च, तथाच पक्तुः पाकस्य वा हेतुमत्त्वं युक्तम्, तथापि करणे इत्यधिकारात् नेह कर्तागृह्यते, प्रकृत्यैवोक्तत्वाच्च न पाकः, किन्तु पाकपक्त्रपेक्षया यो हेतुस्तदीयव्यापार एव स्वभावतो लोके णिजर्थतया प्रसिद्धो हेतुमच्छब्देनोच्यते इति सिद्धान्तः। एवं च हेतोरित्येव सूत्रं युक्तम्। हेतोः करणे व्यापारे णिजित्यर्थः। तथा तु न कृतमित्येव। इह यद्यपि फलव्यापारयोर्धातुवाच्यत्वाद्विक्लित्त्यनुकूलव्यापारत्वस्य च प्रेषणादावपि सुलभत्वात्तस्यापि पच्यर्थतामाश्रित्य णिचो द्योतकतेति वर्णितं भाष्यादौ, तथापि प्रौढिवादमात्रमेतत्। तथाहि, अधिश्रयणादिरेव व्यापारविशेषः पचेरर्थः। न तु ततः प्राचीनोऽपि क्रयणाद्यवस्थायां पचतीत्यप्रयोगात्, अन्यथाऽतिप्रसङ्गात्, क्वाचित्कप्रयोगस्य भाक्तत्वेनाप्युपपत्तेश्च, पचतिपाचयत्योरर्थवैलक्षण्यस्य अनुभवसिद्धत्वाच्च, अणौ कर्तुर्णौ कर्मत्वमित्यादिव्यवस्थाभ्युपगमाच्च, प्रणाययति' `अभिषावयति' इत्यादौ उपसर्गस्य प्रकृत्यर्थगतविशेषद्योतकत्वे णत्वषत्वे स्तः, णिचा सम्बन्धे तु नेत्यष्टमे स्फुटत्वाच्च। अतोऽत्र पक्षे नातीवाभिनिवेष्टव्यम्। स्यादेतत्, प्रवर्त्तनामात्रस्य णिजर्थत्वे णिचो लोडादीनाञ
्च पर्यायप्रसङ्गः। ततश्च पृच्छतु मां भवानिति वक्तव्ये णिजपि प्रयुज्येतेति चेत्? कर्त्तुः प्रयोजको हि हेतु; प्रैषविषयस्तु नाद्यापि कर्तृत्वेनावधारितः। तथाच प्रयोज्यप्रवृत्त्युपहिता प्रवृत्तिर्णिजर्थः। केवला तु लोडर्थ इति विवेकः। उक्तं च-
द्रव्यमात्रस्य तु प्रैषे पृच्छादेर्लोङ् विधीयते।
सक्रियस्य प्रयोगस्तु यदा, स विषयो णिचः।। इति।
किञ्च प्रयोक्तृधर्मः प्रयुक्तिर्लोडर्थः। अनियतकर्तृका तु णिजर्थः। पचेति हि वक्तुरेव प्रेरणा गम्यते। पाचयतीत्यत्र तु वक्तृभिन्नस्य।
तत्करोतीत्युपसंख्यानं सूत्रयत्याद्यर्थे(काoवाo)।। गणपाठसिद्ध एवायमर्थ उपसंख्यानेनापि प्रदर्शितः। इह करोतीत्यत्र प्रकृत्यर्थमात्रं विवक्षितं न प्रत्ययार्थः, तेन ण्यन्तात् भावकर्मणोः भूतभविष्यतोः द्वित्वबहुत्वयोश्च लः सिध्यति। अयं णिच् प्रातिपदिकादेव न तु सुबन्तादिति माधवः। युक्तञ्चैतत्, सुप इत्यधिकारस्येह विच्छिन्नत्वात्। किञअच चुरादिषु ह्येवं पठ्यते-"प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च" (गoसूo) "तत्करोति तदाचष्टे"(गoसूo) "तेनातिक्रामति"(गoसूo) "कर्तृकरणाद्धात्वर्थे"(गoसूo)इति। अस्यार्थः प्रातिपदिकाद्धातोरर्थविशेषरूपे वाच्ये णिच् स्यात् इष्ठनीव चास्मिन् बहुलं कार्यं स्यादिति। कूलमुल्लङ्घयति उत्कूलयति। अस्यैव प्रपञ्चः-तत्करोतीत्यादिः। एवञ्च प्रातिपदिकादित्युपक्रमान्नेदं सुबन्ताद्विधायकम्। तथा च प्रकृतवार्त्तिकमपि तत्समानार्थकत्वात्तथैव। "तेनातिक्रामति"(काoवाo)इत्येतत्तु कर्तृकरणादित्यस्यैव प्रपञ्चः। कर्तृग्रहणञ्च करणस्यैव विशेषणं करणत्वेन लोके प्रसिद्धानां चक्षुरादीनामेव ग्रहणमितिशङ्काव्युदसनाय। अन्यथा चक्षुषा पश्यति चक्षयतीत्यादावेव स्यान्न तु करिभिरवबध्नाति अवकरयतीत्यादौ। एवञ्च, तत्तेनेतिशब्दौ कर्मकरणयोरुपलक्षकौ। करणस्य कर्मणश्च समर्पकात्प्रातिपदिकादित्यर्थः। सुबन्तादुत्पत्तौ तु हस्तिनाऽतिक्रामति अतिहस्तयतीत्यादौ णौ सुपो लोपे टिलोपे च कृते अन्तर्वर्त्तिविभक्त्या पदत्वाज्जश्त्वं स्यात्। न च टिलोपस्य स्थानिवत्त्वम्, अज्झलादेशत्वात्। हरदत्तस्तु सुबन्ताण्णिचमभिप्रैति। यदाह-तदिति द्वितीयान्तोपलक्षणमिति। न चास्मिन्पक्षे पदकार्यप्रसङ्गः, इष्ठवदित्यतिदिष्टया भसंज्ञया पदत्वस्य बाधात्। अत एव हि पटिष्ठ इत्यादौ सुबन्तादिष्ठनि जश्त्वादिपदकार्याप्रवृत्तिः। किञ्च स्रग्विणमाचष्टे स्रजयतीत्यादौ माधवमतेऽप्येषैव गतिः। सुबन्तादुत्पन्नयोर्विन्मतोर्लुकि तत्प्रकृतेः सुबन्तत्वात्प्रत्ययलक्षणेन पदकार्यप्रसङ्गस्य स्पष्टत्वात्। तदिह मतभेदेन प्रातिपदिकात्सुबन्ताद्वा णिजिति स्थितम्। आद्यपक्षेऽपि यताकथञ्चित् प्रातिपदिकग्रहणे लिङ्गविशिष्टग्रहणाद् ङ्याबन्तादपि भवति। अत एव णाविष्ठवदित्यत्र भाष्ये इष्ठवदित्यतिदेशस्य "पुंवद्भावटिलोपयणादिलोपविन्मतोर्लुगर्थम्" इति पुंवद्भावोऽपि प्रयोजनतयोक्तः। इदञ्च दिड्मात्रं न तु परिगणनमिति षष्ठ एवाकरे स्पष्टम्। उदाहरणानि तु प्रपञ्चयामः-एनीमाचष्टे एतयति। हरिणीमाचष्टे हरितयति। न चात्र पुंवद्भावस्य इष्ठनि विशिष्याविधानात्कथमतिदेश इति वाच्यम्, विशेषातिदेशे सामान्यस्याप्यतिदेशात्। वसिष्ठवदत्र वर्त्तितव्यमित्युक्ते हि ब्राह्मणत्वं सामान्यनिबन्धनमप्यतिदिश्यत एव। तथेह भसंज्ञानिमित्ततद्धितत्वप्रयुक्तं पुंवद्भावोऽपीत्यदोषः। नन्वेतयतीत्यादौ टिलोपेन ङीपि निवृत्ते तत्सन्नियोगशिष्टत्वान्नकारोऽपि निवर्त्यताम्। तथा च टिलोपेनैव गतार्थत्वे किमर्थं पुंवद्भावोऽपि पृथक् प्रयोजनतया भाष्ये गणित इति चेत्?
अत्र कैयटः, "सन्नियोगशिष्ट"(पoभाo88)परिभाषाया अनित्यत्वज्ञापनायेदम्। तेन `ऐनेयः' `श्यैनेयः' इत्यत्र "यस्य"(पाoसूo6-4-49)इति लोपे कृतेऽपि नकारो न निवर्तते इत्याह। हरदत्तस्तु फलान्तरमपि मतान्तरत्वेनाह-इडबिडमाचष्टे ऐडबिडयति। दरदं दारदयति। इडबिडशब्दो जनपदस्य क्षत्रियजातेश्च वाचकः। तस्मात् "जनपदशब्दात् क्षत्रियादञ्"(पाoसूo4-1-168)दरच्छब्दात् "द्व्यञ्म गध"(पाoसूo4-1-174)इति सूत्रेण। अञादीनामापादपरिसमाप्तेस्तद्विधानात् "अतश्च"(पाoसूo4-1-177)इति लुक्। अकाररूपस्य तद्राजप3त्ययस्य स्त्रियां लुगिति हि सूत्रार्थः। ततश्च इडबिट्, दरत् स्त्री। ऐडविडो दारदश्च पुमान्। पुंवद्वचनेन च स्त्रीशब्दस्य पुंशब्देऽतिदिष्टे सिद्धमिष्टम्। न चैवं गोत्रत्वेन जातित्वात् "जातेश्च'(पाoसूo6-3-41)इति पुंवद्भावनिषेधः शङ्क्यः, औपसंख्यानिकस्य नायं निषेध इति वक्ष्यमाणत्वात्। न चैवमप्यजादी गुणवचनादेवेत्यक्तेरिष्ठन एवाभ्यामसम्भवेन कथं तद्वदित्यतिदेश इति वाच्यम्, नहीष्ठनि दृष्टस्यैवातिदेशः किन्तु सम्भावितस्य। अन्यथा अतिराजयतीत्यादौ टिलोपो न स्यात्।
नन्वस्मिन्पक्षे `ऐनेयः' `श्यैनेयः' इति कथं सिद्ध्येदिति चेत्?
अत्र माधवः-अनन्यथासिद्धमपि ऐडबिडयतीत्याद्युदाहृत्य एतयति श्येतयतीत्युदाहरन् भाष्यकारः "सन्नियोगशिष्ट"(पoभाo88)परिभाषाया अनित्यत्वं ज्ञापयतीत्याह। वस्तुतस्तु पुंवद्भावस्यैकाक्षु टिलोपस्याभाषितपुंस्केषु च चारितार्थ्येऽपि एतयतीत्यादावन्तरङ्गत्वेन पुंवद्भाव एव ज्ञाप्यः "सिद्धश्च प्रत्ययविधौ" इत्युक्तत्वेन प्रत्ययोत्पत्तेः पूर्वमेव प्रवृत्तत्वात्। अत एव नकाररहितप्रयोगसिद्धिः। न चात्र टिलोपेऽपि सन्नियोगशिष्ट न्यायेन नकारनिवृत्तिः सुलभेति वाच्यम्, उक्तन्यायेन नकारनिवृत्तौ कर्त्तव्यायाम् "अचः परस्मिन्"(पाoसूo1-1-57)इति स्थानिवद्भावस्य दुर्वारत्वात्। अत ेव `पञ्चेन्द्राण्यो देवता अस्येति पञ्चेन्द्रः' इत्यादौ स्थानिवद्भावेनानुगादिश्रवणे ग्राप्ते स्थानिवद्भावनिषेधार्थे "क्विलुगुपधा" इतिवार्त्तिके लुग्ग्रहणमिति भाष्यवार्त्तिकादौ स्पष्टम्। अत एवाभ्यासेकारसहितमैतदिति रूपं सिद्धम्। टिलोपे तु प्रक्रियादशायां परिनिष्ठिते रूपे वाऽवर्णपरत्वाभावेन स्थानिवद्भावानतिपत्तावुक्तरूपासिद्धिः। नचाल्लोपस्यापि स्थानिवद्भावः, तस्य ङीनिमित्तत्वेऽपि णिजनिमित्तत्वादिति ध्येयम्।
पृथुमाचष्टे प्रथयति। चङि वृद्धेः पूर्वं टिलोप इति पक्षे अग्लोपित्वात्। "सन्वल्लघुनि"(पाoसुo7-4-93)इत्यस्याप्रवृत्तेः-अपप्रथत्। परत्वाद् वृद्धौ आवादेशात्पूर्वं टिलोपे अनग्लोपित्वात्--अपिप्रथत्। पक्षद्वयपीदं "मुण्डमिश्र"(पाoसूo3-121)इति सूत्रे प्रपञ्चितम्। एवं मृदुमाचष्टे म्रदयति। अमम्रदत्, अमिम्रद्त। भ्रशयति, क्रशयति, द्रढयति। एषां चङि सर्वथाऽप्यग्लोपित्वात्--अबभ्रशत्, अचक्रशत्, अदद्रढत् इत्येकमेव रूपम्। परिव्रढियति। अत्रोपसर्गस्य पृथक्करणात्पर्यव्रढयत, पर्यवव्रढत्।
पृथुं मृदुं भृशं चैव कृशं च दृढमेव च।
परिपूर्वे वृढञ्चैव षडेतान् रविधौ स्मरेत्।।
कविं पटुं वा आचष्टे कवयति, पटयति। अचकवत्, अचीकवत्। अपपठत्, अपपिठत्। कुमारीमाख्यात् अचुकुमारत्। अत्र एकमेव रूपम्, "सन्वल्लघुनि"(पाoसूo7-4-93)इति "दीर्घो लघोः"(पाoसूo7-4-94)इति च सूत्रे चङ्परे णौ परे अचा अव्यवहितं यल्लघु तस्मिन्परे योऽभ्यासः तस्येति कैयटादिसम्मते सूत्रार्थे यदत्राभ्यासात्परं लघु न तच्चङ्परणिपरमिति दीर्घत्वस्याप्रसङ्गात्, चङ्परे णौ यदङ्गन्तस्य योऽभ्यासो लघुपरः तस्येति हरदत्तादिपक्षेऽपि कुमारीशब्दस्य पुंवद्भावेन वृद्धावप्यग्लोपित्वात्। नदीमाख्यत् अननददित्यादि। ननु कैयटमते "येननाव्यवधानम्" इतिन्यायेन एकव्यञ्जनव्यवहिते अजीहरदित्यादौ सन्वद्भावोऽस्तु नाम, अचिक्षणदित्यादौ तु कथमिति चेत्? असस्मरदित्यादावित्वाभावार्थम् "अत्स्मृदृत्वर"(पाoसूo7-4-95)इति अत्वविधानेन संयोगव्यवधानेऽपि भवतीति ज्ञापनात्। ऊढमाख्यत् औजढत्। ऊढिमाख्यत् औजिढ्त्। कर्तारमाच्ष्टे करयति। भर्तारं भरयति। दोग्धारन्दोहयति। "तुश्छन्दसि"(पाoसूo5-3-59)इति तृशब्दलोपोऽपि णावतिदिश्यत इत्येके। अन्ये तु छन्दस्युपदिष्टोऽसौ णावपि छन्दस्येवातिदिश्यतां नाम। भाषायान्तु कथं भवेत्? तस्माट्टिलोपे कर्त्तयतीत्याद्येव रूपमित्याहुः। त्वां मां वा आचष्टे त्वापयति, मापयति। इह "प्रत्ययोत्तरपदयोश्च"(पाoसूo7-2-98)इति एकार्थयोर्युष्मदस्मदोर्मपर्यन्तस्य त्वमौ। "अतो गुणे"(पाoसूo6-1-97)इति पररूपात्पूर्वं नित्यत्वाट्टिलोपे वृद्धौ पुगित्येकं मतम्। वस्तुतस्तु परादप्यन्तरङ्गस्य बलीयस्त्वात्पररूपत्वे "प्रकृत्यैकाच्"(पाoसूo6-4-163)इति चिलोपाभावादुपधावृद्धौ त्वादयति मदायतीत्येव रूपमिति बहवः। "प्रकृत्यैकाच्"(पाoसूo6-4-163)इत्येतत्प्रत्याख्यानबाष्यन्तूदाहरणविशेषेऽन्यथासिद्धिरित्येतावन्मात्रपरम्। तद्यथा-वृत्तिकारोदाहृतेषु मध्ये प्रेष्ठादय आभात्सूत्रेण सिद्धाः। तस्यागेऽपि ज्येष्ठवदकारोच्चारणसामर्थ्यात्।
इष्ठेमेयःस्वनेकाचोऽप्यवसिष्टस्य नेष्यति।
टिलोपो भाष्यकारेण प्रवृत्ते विन्मतोर्लुकि।।
लुकोऽपवादभूतस्य तस्मिन्पक्षे प्रवर्तनात्।
कनिष्ठादाविदं तुल्यं तृलोपस्य प्रवर्तनात्।।
कैयटमाधवादिग्रन्थाश्चेहानुकूला इति वक्ष्यामः। "अङ्गवृत्त"(पाoभाo94)परिभाषया वृद्धिमकृत्वा त्वदयति मदयतीत्यन्ये प्रतिपन्नाः। युवामावां वा आचष्टे युष्मयति अस्मयति। "युवावौ द्विवचने"(पाoसुo7-2-92)इत्यत्र यद्यपि द्विवचने इत्यर्थग्रहणं तथाऽपीह युवावौ न स्तः, विभक्तिपरत्वाभावात्। प्रातिपदिकादेव हि णिजिति माधवादयः। सुबन्तादिति हरदत्तपक्षेऽपि "अन्तरङ्गानपि"(पoभाo52)इति न्यायेन विभक्तेर्लुकापहारात्। त्वामतिक्रान्तमतिक्रान्तौ वा अतित्वाम्। अतिक्रान्तान् अतित्वान्। आचष्टे अतित्वयति, अतिमयति। युष्मदस्मदोरेकार्थत्वेन "प्रत्ययोत्तरपदयोश्च"(पाoसूo7-2-98)इति त्वमौ। अन्तरङ्गत्वात्पूर्वरूपं, ततष्टिलोप इति माधवः। तच्चिन्त्यम्, उपसर्गस्य पृथक्करणेन "प्रकृत्यैकाच्"(पाoसूo6-4-163)इति प्रकृतिभावात्। तस्मादतित्वादयति अतिमादयतीत्येव बोध्यम्। अत्रापि पररूपात्पूर्वं नित्यत्वाट्टिलोपे इति मते अतित्वापयति अतिमापयति। युवामावां युष्मानस्मान्वा अतिक्रान्तमतिक्रान्तावतिक्रान्तान्वा आचष्टे अतियुष्मयति अत्यस्मयति।
इदानीं ण्यन्तात्क्विपि कश्चिद्विशेष उच्यते। तत्र त्वां मां आचष्ट इति आख्येयैक्ये त्वाप् माप्, त्वाद् माद्, त्वद् मद् इति प्रागुक्तमतभेदेन त्रिधा प्रातिपदिकानि। युवामावां युष्मानस्मान् वा आचष्ट इति आख्येयस्यानेकत्वे त्वमयोरभावाण्णौ टिलोपे, क्वौ, णिलोपे, केश्चापृक्तलोपे युष्म अस्य इति मान्ते प्रातिपदिके भवतः। ततः स्वादयः। तत्र प्रातिपदिकाष्टकादपि विभक्तीनां यथायथं "ङेप्रथमयोरम्"(पाoसूo7-1-28)"शसो न"(पाoसूo7-1-29)"भ्यसोऽभ्यम्"(पाoसूo7-1-30)"पञ्चम्या अत्"(पाoसूo7-1-31)"एकवचनस्य च"(पाoसूo7-1-32)"युष्मदस्मद्भ्यां ङसोऽश्"(पाoसूo7-1-27)"साम आकम्"(पाoसूo7-1-33)इति सूत्रसप्तकेन विहिता आदेशा भवन्ति। एवं "युष्मदस्मदोरनादेशे"(पाoसूo7-2-86)"द्वितीयायाञ्च"(पाoसूo7-2-87)"प्रतमायाश्च द्विवचने भाषायाम्"(पाoसूo7-2-88)इति त्रिसूत्र्या विहितमात्वं "योऽचि"(पाoसूo7-2-98)इति यत्वं च भवत्येव। "शेषे लोपः"(पाoसूoi7-2-90)तु आत्वयत्वनिमित्तेतरविभक्तौ परतोऽन्त्यलोप इति व्याख्याने भवत्येव। शेषशब्दस्य मान्ताच्छेषपरत्वमाश्रित्य टिलोप इति व्याख्याने तु न भवत्येवाख्येयस्यानेकत्वे। तत्र हि शेषेलोपेनापहार्यं मान्तात्परं णाविष्ठवदित्यतितिष्टेन टिलोपेनैवापहृतम्। आख्येयैक्ये तु भवत्येव, प्राक् टिलोपाभावात्। `टिलोपं स्वीकृत्य पुका पान्तत्वम्' इति मते तु न भवत्येव। अजादौ यत्वविधानादात्वं हलादावेव पर्यवस्यति। "त्वाहौ सौ"(पाoसूo7-2-94)"युयवयौ जसि"(पाoसूo7-2-93)"तुभ्यमह्यौ ङयि"(पाoसूo7-2-95)"तवममौ ङसि"(पाoसूo7-2-96)इति चतुःसूत्रीविहिताः प्रकृत्यादेशास्तु आख्येयैक्ये न भवन्त्येव, मपर्यन्ताभावात्। आख्येयद्वित्वबहुत्वयोस्तु वैकल्पिकाः। तथाहि-"मपर्यन्तस्य"(पाoसूo7-2-19)इत्यत्र मान्तस्येत्येव सिद्धे परिग्रहणसामर्थ्याद्युष्मदस्मदोर्मान्तत्वावस्थायां नादेशाः इत्येकं मतम्। परिग्रहणाभावे मान्तस्यैव स्यात्, सति तु तस्मिन् मान्ते ततोधिके च भवति इति मतान्तरम्। उभयमिदं तस्मिन्नेव सूत्रे व्युत्पादयिष्यते। मतभेदाच्चेह फलितो विकल्पः। तत्र आख्येयद्वित्वे सृजस्ङेङस्सु परत्वात् त्वाहादिप्रवृत्तावपि `औ' `अम्' इत्यादिषु वचनान्तरेषु विभक्तिपरत्वाद्युवावौ एकस्मिन्मते स्त एव, मतान्तरे तु न त्वाहादयो नापि युवौ इति विवेकः।
अथ रूपाणि-आख्येयैक्ये सौ त्वां, माम्। `वृद्धिर्न' इतिवादिनान्तु शेषे लोपे त्वम्, मम्। शेषेलोपष्टिलोपः, स चाचक्षाणे न प्रवर्त्तत इति पक्षेऽप्याख्येयैक्येऽस्त्येव दान्तयोरित्युक्तम्। पान्तयोस्तु पक्षे त्वापम्, मापम्,। इत्थं सङ्कलनया त्रीणि। औङि `त्वां, माम्' इत्येकमेव। "प्रथमायाश्च द्विवचने"(पाoसूo7-2-88)इत्यावम्। जसि साविव त्रीणि, शेषे लोपस्य पान्तयोः पाक्षिकत्वात्। अम्औटोः-त्वां, माम्। शसित्वान्, मान्। "द्वितीयायाञ्च'(पाoसूo7-2-77)इत्यात्वम्। आङिःत्वाया, माया। अवृद्धौ तु-त्वाया, मया। त्वाभ्यां, माभ्याम्। त्वाभिः, माभिः। ङयि अम्, शेषे लोपः(पाoसूo7-2-90)। वृद्धिपक्षे "आतो धातोः"(पाoसूo6-4-140)इत्यालोपः त्वम्, मम्। पक्षे त्वापम्, मापम्। त्वाभ्याम्, माभ्याम्। त्वाभ्यम्, माभ्यम्। भ्यमि शेषे लोपः। अभ्यमादेशपक्षे तु शेषे लोपे आल्लोपे च त्वभ्यम्। मभ्यम्। अवृद्धिपक्षेऽप्येवम्। पान्तपक्षे त्वापभ्यम्, मापभ्यम्। तत्र भ्यमि "अङ्गवृत्त"(पoभाo94)परिभाषाया "बहुवचने झल्येत्"(पाoसूo7-3-103)इत्येत्वं न। त्वत्, मत्। शेषे लोपे वृद्धिपक्षे आल्लोपः। त्वापत्, मापत्। त्वाभ्याम्, माभ्याम्। त्वत्, मत्। त्वापत्, मापत्। त्व, म। त्वाप, माप। त्वायोः, मायोः। अवृद्धौ तु-त्वयोः, मयोः। त्वाकम्, माकम्। त्वापाकम्, मापाकम्, त्वायि, मायि। त्वायोः, मायोः। अवृद्धौ तु-त्वयि मयि। त्वयोः, मयोः। त्वासु, मासु। एवञ्च-
आख्येयैक्येऽत्र सुजसोश्चतुर्थ्या भ्यसि च त्रयम्।
टौस्ङिदाम्भ्यस्सु रूपे द्वे निश्चिनुष्वैकमत्यतः।।
इदं त्ववधेयम्। कृतः कर्त्तर्यसंज्ञायामितिविशेष्यनिघ्नतोक्तेराचक्षाणस्य क्लीबत्वे सुजसोरसर्वनामस्थानत्वेन भत्वात "आतो धातोः"(पाoसूo6-4-140)इत्यालोपे त्वम्, मम् इत्येव रूपम्। अवृद्धिवादिनां सम्बोधने "एङ्ह्रस्वात्"(पाoसूo6-1-69)इति हल्मात्रलोपे हे त्वा, हे म। स्त्रीत्वे तु टाप् प्राप्तः "सन्निपात"(पoभाo87)परिभाषया समाधेयः यत्तु केवले समाधानद्वयम् "अलिङ्गत्वादट्टिलोपाद्वा" इति तदिह न भवतीति दिक्।
अथाख्येयद्वित्वे रूपाणि-सौ त्म्, अहम्; प्रकृत्यादेशाभावे युषम्, असम्; शेषे लोपस्याप्यभावे युष्मम्, अस्मम्। इत्थं त्रीणि। युवाम्, आवाम्; युषाम्, असाम्। जसि-यूयं, वयम्; युषम्, असम्; युष्मम्, अस्मम्। अम्औटोः-युवाम्, आवाम्; युषाम्, असाम्; युवान्, आवान्; युषान्, असान्। युवया, आवया; युष्या, अस्या। युवाभ्याम्, आवाभ्यां; युषाभ्याम्, असाभ्याम्। युवाभिः, अस्मम्। युवाभ्याम्, आवाभ्याम्; युषाभ्याम्, असाब्याम्--युवभ्यम्, आवभ्यम्; युष्मभ्यम्, अस्मभ्यम्। भ्यमादेशपक्षे तु-युष्म्भ्यम्। अत्र संयोगान्तलोपो न, भाष्ये "झल" इत्यनुवर्त्तनात्। अननुवृत्तिपक्षे तुयुङ्भ्यम्। अस्मदस्तु "स्कोः"(पाoसूo8-2-29)इति सलोपे अम्भ्यम्। शेषे लोपे तु-ओभ्यम्। युवत्, आवत्; युषत्, असत्; युष्मत्, अस्मत्। युवाभ्याम्, आवाभ्याम्। युषाभ्याम्, असाभ्याम्। भ्यसि ङसिवत् त्रीणि। तव मम; युष, अस; युष्म, अस्म। युवयोः, आवयोः; युष्योः, अस्योः। युवाकम्, आवाकम्; युषाकम्, असाकम्; युष्याकम्, अस्माकम्। युवयि, आवयि; युष्यि, अस्यि। युवयोः, आवयोः; युष्योः, अस्योः। युवासु, आवासु; युषासु, असासु। एवञ्च-
चतुर्थ्या भ्यसि चत्वारि व्याख्याने द्वे तथाऽन्यतः।
सुजस्ङेङस्ङसिभ्यस्सु आमि च त्रीणि निश्चिनु।।
अथाख्येयबहुत्वे रूपाणि-त्वम्, अहम्; युषम् असम्; युष्मम्, अस्मम्। युषाम्, ्साम्। यूयं, वयम्। युषम्, असम्, युष्मम्, अस्मम्; युषाम्, असाम्। युषान्, असान्, युष्या, अस्या। युषाभ्याम्। असाभ्याम्। युषाभिः, असाभिः। तुभ्यं, मह्यम; युषम्, असम्; युष्मम्, अस्मम्। युषाभ्याम्, असाभ्याम्। युषभ्यम्, असभ्यं युष्म्भ्यम्, युभ्यम्, अम्भ्यम्, ओभ्यम्। युषत्, असत्; युष्मत्ष अस्मत्। युषाभ्याम्, असाभ्याम्। युषत्, असत्;युष्मत्, अस्म्त्। तव, मम; युष, अस; युष्म, अस्म। युष्योः, अस्योः। युषाकम्, असाकम्; युष्माकम्, अस्माकम्। युष्यि, अस्यि। युष्योः, अस्योः। युषासु, असासु। एवञ्च-
ङसिभ्यसाम्सु द्वे रूपे चतुर्थ्या भ्यसि तु त्रयम्।
सुजस्ङेङस्सु च तथाऽऽख्येयभूम्न्येकमन्यतः।।
इह सर्वत्र प्रकृत्यादेशयत्वात्वशेषेलोपेषु कर्तव्येषु णिलोपो न स्थानिवत्, क्वौ लुप्तत्वादिति दिक्।।
श्वानमाचष्टे शावयति। `श्वन् इ' इति स्थिते णाविष्ठवदित्यतिदेशेन द्वौ टिलोपौ प्राप्तौ "टेः"(पाoसूo6-4-143)इत्येकः, "नस्तद्धिते"(पाoसूo6-4-144)इत्यपरः। तत्र "प्रकृत्यैकाच्'(पाoसूo6-4-163)इति प्रकृतिभावो येननाप्राप्तिन्यायेन "टेः"(पाoसूo6-4-143)इत्यस्यैवेति तस्मान्निवृत्तेऽपि "नस्ताद्धिते"(पाoसूo 6-4-144)इति भवत्येव। तत इष्ठवदित्यतिदिष्टया भसंज्ञयैव वकारस्य सम्प्रसारणे वृद्वावावादेशः। न च `दविष्ठः' इत्यादौ इष्ठनि "ओर्गुणः"(पाoसूo6-4-146)पूर्वस्य दृष्ट इति इहाप्यतिदिश्येतेति वाच्यम्, तस्मिन्कर्तव्ये सम्प्रसारणटिलोपयोः "असिद्धवदत्र"(पाoसूo6-4-22)इत्यसिद्धत्वात्। अन्ये तु `ब्रह्मिष्ठः' इत्यादौ नान्तलक्षणाट्टिलोपात्परत्वात् "टेः"(पाoसूo6-4-155)इत्येव प्रवर्त्तते। तच्चेह प्रकॉतिभावेन निवृत्तम्। "नस्तद्धिते'(पाoसूo6-4-144)इति तु इष्ठनि क्वापि न दृष्टमिति तस्येहानतिदेशात् सम्प्रसारणपूर्वत्वयोः `शुनयति' इति रूपमाहुः। न च टिलोपयोराभीयत्वेन अन्योन्यस्यासिद्धत्वात्कथं विप्रतिषेध इति वाच्यम्, विप्रतिषेधे अन्योन्यस्यासिद्धत्वात्कथं विप्रतिषेध इति वाच्यम्, विप्रतिषेधे आभीयप्रसिद्धत्वं नास्तीति वक्ष्यमामत्वात्। विद्वांसमाचष्ट इत्यत्र णौ टिलोपे विद्वयतीति दौर्गाः। अत्र संप्रसारणाभावश्चिन्त्य इत्यात्रेयः। "अङ्गवृत्त"(पoभाo94)परिभाषया चिन्त्योद्धारो बोध्यः। संप्रसारणे वृद्धावावादेशे च `विदावयति' इत्येके। अन्ये तु `विदयति' इत्याहुः। तथाहि, नित्यत्वाट्टिलोपात्प्राक् संप्रसारणं ततोऽन्तरङ्गत्वात्पूर्वरूपे पश्चाट्टिलोपः। न च टिलोपस्यापि नित्यत्वम्, शब्दान्तरप्राप्त्या अनित्यत्वात्। ननु सम्प्रसारणमात्रेण न शब्दान्तरप्राप्तिः किन्तु पूर्वरूपेण, "यस्य च लक्षमान्तरेम निमित्तं विहन्यते न तदनित्यम्"(पoभाo48)इति चेत्? न, यस्य चेत्यस्य असार्वत्रिकतावा हरदत्तादिभिरुक्तत्वात्। उदञ्चमाचष्टे उदीचयति। अत्र उपसर्गस्य पृथक्करणात् लुप्तनकारादच्छब्दाण्णिच्। "प्रकृत्यैकाच्"(पाoसूo6-4-163)इति टिलोपाभावे इष्ठवदित्यतिदेशेन भत्वे "अचः"(पाoसूo6-4-138) इत्यल्लोपे प्राप्ते तदपवाद "उद ईत्"(पाoसूo6-4-139)इतीत्वम्। चङि तु उदैचिचत्। अत्र णिलोपस्य "द्विर्वचनेऽचि"(पाoसूo1-1-59)इति स्थानिवत्त्वात् "अजादेर्द्वितीयस्य"(पाoसूo6-1-2)इति चिशब्दस्य द्वित्वम्। अङ्गस्याऽऽट् वृद्धिः। ल्यपि लघुपूर्वत्वाभावेन अयादेशाभावाण्णिलोपे उदीच्य। प्रत्यञ्चमाचष्टे प्रतीचयति। अत्र "अचः"(पाoसूo6-4-138)इत्यल्लोपः। "चौ"(पाoसूo6-3-138)इति पूर्वपदस्य दीर्घः। चङि चिशब्दात्पूर्वमटि यणादेशे प्रत्यचिचत्। "इकोऽसवर्णे"(पाoसूo6-1-127)इति प्रकृतिभावपक्षे प्रति अचिचत्। ल्यपि प्रतीच्य। सम्यञ्चमाचष्टे समीचयति। चङि-सम्यचिचत्, समि अचिचत्। समीच्य। तिरोऽञ्चतीति तर्यङ्। "तितसितर्यलोपे"(पाoसूo6-3-94)इति तिर्यादेशः। तमाचष्टे तिराययति। इष्ठवद्भावेन टिलोपेनाञ्चतेरपहीरे वृद्ध्यायौ। न चात्र अञ्चेर्लोपात् तिरसस्तिरिः कथमिति वाच्यम्, अलोपे इति हि "अचः"(पाoसूo6-4-138)इति विधीयमाने लोपे तिर्यादेशो वार्यते, तस्यैवानन्तरत्वात्। इह तिरेरिकारस्य वृद्ध्यायोः कृतयोरकृतयोर्वा लोपः प्राप्तः "अङ्गवृत्त"(पoभाo94)परिभाषया न भवति। यद्वा चिणोलुङ्न्यायेन प्रथमप्रवृत्तटिलोपस्य "असिद्धवदत्र"(पाoसूo6-4-22)इत्यसिद्धत्वात् पुनष्टिलोपो न। अत एव तिरेः स्थानिवत्त्वेनाव्ययत्वात् "अव्ययानां भमात्रे"(काoवाo)इति प्राप्तोऽपि टिलोपो न भवति। एवं "यस्य"(पाoसूo6-4-148)इति लोपोऽपि न भवति, परया वृद्ध्या बाधाद्वा। चङि अग्लो पित्वेन उपधाड्रस्वो न, अतितिरायत्। सह अञ्चतीति सध्रङ्, "स हस्य सध्रिः"(पाoसूo6-3-95)। सध्र्यञ्चमाचष्टे सध्राययति। अससध्रायत्। पूर्ववत्पुनष्टिलोपो न।
स्यादेतत्, यदि तिरिसध्र्योरिकारे टिलोपस्याप3वृत्तौ चिणोलुङ्न्यायेनासिद्धत्वं मूलम्, तर्हि कुमारीमाचष्टे `कुमारयति' इति न सिध्येत्, तत्रापि इष्ठवद्भावेन प्रवृत्तस्य पुंवत्त्वस्य तैनैव कुमाराकारलोपे असिद्धत्वापत्तेरिति चेत्? मैवम्, "अतिदिश्यमानानाङ्कार्याणामुत्पत्तिदेश एव देशः" इत्यभ्युपगमात् पुंवत्त्वस्य च "भस्याढे तद्धिते"(काoवाo)इति आभीयेभ्यः प्रागेवोत्पत्तेः। अत एव भाष्यकारेण `लोहिनीमाचष्टे लोहितयति' इत्युदाहृतम्। विष्वद्र्यञ्चमाचष्टे विष्वद्राययति। देवद्र्यञ्चमाचष्टे देवद्राययति। "विष्वग्देवयोश्च"(पाoसूo6-3-92)इति चकारात् सर्वनाम्नऽद्र्यादेशे सर्वद्राययति। अदसोऽद्र्यादेशे अमुमुआ यति, अदमुआययति, अदद्राययति। चङि अजादित्वात् द्वितीयस्य द्वित्त्वम्। अग्लोपित्वान्नोपधाह्रस्वः। आमुमुमुआयत्, आददमुआयत्, आददद्रायत्। आद्ये "पूर्वत्रासिद्धीयमद्विर्वचने"इति मुत्वस्यासिद्धत्वा भावः। इमाचष्टे आययति, "प्रकृत्यैकाच्"(पाoसूo6-4-163)इति प्रकृतिभावाट्टिलोपाभावे वृद्धौ आयादेश-। चङि उपधाह्रस्वे द्विती यस्य द्वित्वे माभवान् अयियत्। न च द्वित्वे कर्तव्ये"णौकृतं स्थानिवत्" इति वृद्ध्यादेः स्थानिवत्त्वं शङ्क्यम्, स्थानिरूपस्य यत्र द्विर्वचनं लभ्यते तत्र हि, तत्, इह तु णेरेव द्विर्वचनमिति माधवः।
वस्तुतस्तु अचिकीर्त्तदित्यत्र अतिव्याप्तिं वारयितुम् "ओः पुयण्जि"(पाoसूo7-4-80)इति ज्ञापकस्य सजातीयविषयतामाश्रित्य अवर्मवदुत्तरखण्ड एव स्थानिवद्भावप्रवृत्तिरिति "द्विर्वचनेऽचि"(पाoसूo1-1-59)इतिसूत्र एवावोचाम। स्पष्टञ्चैतदेवम् "उरत्"(पाoसूo7-4-66)इति सूत्रे रक्षितपदमञ्जर्यादिष्वपि। उत्तरखण्डस्यावर्णवत्तापि न प्रयोगपर्यवसायिन्येवेत्याग्रहः किन्तु प्रक्रियावस्थागताऽपि। तेन `औजिढत्" `अपीत्यत्' इत्यत्र द्विर्वचनोत्तरकालं टिलोपेन "लोपः पिवतेः"(पाoसूo7-4-4)इत्यनेन च उत्तरखण्डे अवर्णापहारेऽपि न क्षतिः। भुवमाचष्टे भावयति। चङि-अबीभवत्। णौ कृतस्य स्थानिवत्त्वात् भूशब्दस्य द्वित्वम्। पुनरुत्तरखण्डे वृद्ध्यावौ, ह्रस्वः। ततः सन्वद्भावे "ओः पुयण्जि"(पाoसूo7-4-80)इतीत्वम्। "दीर्घो लघोः"(पाoसूo7-4-94)इति दीर्घः। नन्विह भू इत्यस्य द्वित्वे सत्युत्तरखण्डे वृद्ध्यावह्रस्वत्वानि प्रवृत्तानि, एवञ्च अभ्यासस्यानादिष्टादचः पूर्वत्वात् तस्य सन्वद्भावेन पुयण्लक्षणे इत्वे कर्त्तव्ये "णौ चङि'(पाoसूo7-4-1)इति ह्रस्वस्य "अचः परस्मिन्"(पाoसूo1-1-57)इति स्थानिवत्त्वे अलघुपरत्वात्कथमित्वमिति चेत्? उच्यते, "ओः पुयण्जि'(पाoसूo7-4-80)इतीत्वस्य सन्वदतिदेशस्य च आरम्भसामर्थ्यात् स्थानिवद्भावस्येहाप्रवृत्तेः। भ्रुवमाख्यत् अबुभ्रवत्। अत्र यः अवर्मपरो यण्, नासावभ्यासात्परः। यश्च परः पर्वगः, नासाववर्मपर इति इत्वाभावः। अशिश्रयत्। णौ कृतस्य स्थानिवत्त्वेन श्रिशब्दस्य द्वित्वम्। हेशब्दमाख्यत् अजीहयत्। गाम् अजूगवत्। रायम् अरीरयत्। नावम् अनूनवत्। स्वश्वम् स्वाशश्वत्। स्वराच,्टेस्वयति। "अव्ययानां भमात्रे"(काoवाo)इति टिलोपः। "प्रकृत्यैकाच्"(पाoसूo6-4-163)इति प्रकृतिभावस्तु "येननाप्राप्ति"(पाoभाo59)न्यायेन आनन्तर्याच्च "टेः"(पाoसूo6-4-155)इत्यस्यैव टिलोपस्य नान्यस्येत्युक्तम्। णौ कृतत्वेन टिलोपस्य स्थानिवत्त्वात् स्वर्शब्दस्य द्वित्वे असस्वदित्येके। अजादेशस्यैव स्थानिवत्त्वम्, अयं त्वज्झलादेश इति स्थानिवत्त्वाभावात् स्विशब्दस्य द्विर्वचने असिस्वदित्यन्ये। बहूनाचष्टे भावयति। अत्र "इष्ठस्य यिट् च"(पाoसूo6-4-159)इति इष्ठनिविहितावाद् बहोर्भूभावः। यिडागमस्तु न भवति `णौ' इत्युपमेये सप्तमीश्रीवणेन "इष्ठवत्" इति उपमानादपि सप्तम्यन्ताद्वतिः। तेन इष्ठनि परे पूर्वस्य यत्कार्यं तस्यैवातिदेशो न त्विष्ठनः कार्यस्यापीति सिद्धान्तात् `प्रातिपदिकस्य' इति वचनस्य प्रत्ययकार्यानतिदेशार्थत्वाच्च। "टेः"(पाoसूo6-4-155)इति सूत्रे कैयटेन `भावयति' इत्युदाहृत्य यिट्सन्नियागशिष्टष्ठत्वाद् भूभावस्य यिडभावे अस्याप्यभावात् `बहयति' इत्येकीयमतत्वेनोपन्यस्तम्। ----- तु सोपपत्तिकत्वात्तत्रैव प्राबल्यमिति मन्यमानेन `बहयति' इति स्वपक्षत्वेनोक्त्वा भावयतीस्येकीयमतेनोक्तम्। अत एव पुरुषकायेऽपि भावयतीति चिन्त्यमित्युक्तम्।
वस्तुतस्तु कैयटपक्ष एव प्रकलः। तथा च इष्ठवदिति कार्यातिदेशः, कार्यस्यैव प्राधान्यात्। तथा च इष्ठवद्वचनमेव प्रकृतौ दृष्टानामिह विधायकमिति तदेव भूभावं विधत्ते। तथा च सन्नियोगाभावः स्पष्ट एव। चान्द्रकौमारशाकटायनेषु तु इष्ठनि युग्वेति बहोरेव युकं विधाय `भूययति' इति स्वीकृतम्। स्थूलमाचष्टे स्थवयति। दूरं दवयति। युवानं यवयति। ह्रस्वयति। क्षेपयति। क्षोदयति। अत्राद्येषु गुणस्य "अचो ञ्णिति"(पाoसूo7-2-115)इति वृद्धिः प्राप्ता "अङ्गवृत्त"(पoभाo94)इति वा "प्रातिपदिकाद्धात्वर्थे बहुलम्"(गoसूo)इति बहुलग्रहणाद्वा न भवति। युवतिशब्दादपि इष्ठनि "लिङ्गविशिष्ट"(पoभाo73)परिभाषया "स्थूलदूर"(पाoसूo6-4-116)इति यणादिपरलोपादेः सत्त्वाण्णावपितदतिदेशात् यवयतीत्येव रूपम्। यद्वा पुंवद्भावे कृते यणादिपरलोपात्तदेव रूपम्।
शीकरव्यतिकरमरीचिभिर्दूरयत्यवनेन विवस्वति।
इति कालिदासप्रयोगस्तु चिन्त्य इति सुधाकरादयः। वस्तुतस्तु दूरमयते दूरात् तं करोतीति समाधेयम्। स्रग्विणमाचष्टे स्रजयति। अत्रातिदेशाद्विनो लुक्। "प्रक्यैकाच्'(पाoसूo6-4-163)इति टिलोपो न। "अत उपधायाः"(पाoसूo7-2-116)इति वृद्धिस्तु "अङ्गवृत्तः"(पoभाo94)इति न भवतीति भाष्ये स्थितम्। गोमन्तमाचष्टे गावयति, मतुब्लुकि "अचो ञ्णिति"(पाoसूo7-2-115)इति वृद्धिः। चङि अग्लोपित्वासन्वदित्वदीर्घत्वयोरभावे-असस्रजत्, अजुगवत् इत्यादि। युवानमल्पं वाऽऽचष्टे कनयति, "युवाल्पयोः कनन्यतरस्याम्"(पाoसूo5-3-64)। पक्षे यवयति। युवतिमल्पां वेति विग्रहेऽप्येवम्। अन्तिकमाचष्टे नेदयति। बाढमाचष्टे साधयति। "अन्तिकबाढयोर्नेदसाधौ"(पाoसूo5-3-63)। प्रशस्यमाचष्टे प्रशस्ययति। इह "प्रशस्यस्य श्रः" "ज्य च"(पाoसूo5-3-60,61)इति श्रज्यौ न भवतः, उपसर्गस्य पृथक्करणादिति माधवः। यत्त सुधाकरेण `श्रापयति' इत्युदात्दृतम्, यच्च शाकटायनेन `श्रयति' `ज्ययति' इति, तत्सर्वं भाष्यविरोधादुपेक्ष्यम्। वृद्धमाचष्ठे ज्यापयति। अयञ्च ज्वादेशः वर्षादेशेन सह विकल्पते। "प्रियस्थिर"(पाoसूo6-4-157)इति प्रादयः। प्रियमाचष्टे प्रापयति, स्थिरं स्थापयति, स्फिरं स्फापयति, उरुम् वरयति इति सुब्दातौ माधवः। ऊर्णुधातौ तु वृद्धिं स एवोदाजहार। बहुलं बहयति। गुरुं गरयति। वृद्धं वर्षयति। तृप्रं दुःखं, तदाचष्टे त्रषयति। दीर्घं द्राघयति। वृन्दारकं वृन्दयति।
।। इति इष्ठवद्भावोदाहरणप्रपञ्चः ।।
प्रकृतमनुसरामः-सुत्रङ्करोति सूत्रयति। इह व्याकरणस्य सूत्रङ्करोतीति वाक्ये द्रव्यरूपं सूत्रं सूत्रशब्देनोच्यते। लक्ष्यलक्षणसमुदायश्च व्याकरणशब्दार्थः। तयोरंशांशिभावात् षष्ठी। वृत्तोतु "सूत्रशब्दोऽनर्थकः करोत्यर्थपरो वा" इति पक्षद्वयेऽपि सूत्रस्य पदार्थैकदेशत्वात् न तेन व्याकरणं सम्बध्यते, किन्तु करोत्यर्थेनैव, इति `व्याकरणं सूत्रवति' इति द्वितीयैव भवति। तत्रापि सम्बन्धसामान्यविवक्षायां `मातुः स्मरति' इतिवत् षष्ठी भवत्येवेति दिक्।
"आख्यानात्कृतस्तदाचष्टे इति णिच् कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकम्"(काoवाo)।। आख्यायत इत्याख्यानम्, बाहुलकात्कर्मणि ल्युट्। आख्यानशब्देन च तदभिधायी शब्दो गृह्यते, अर्थे कृदन्तत्वासम्भवादिति प्राञ्चः।
वस्तुतस्तु करणे ल्युट्। कंसवधमाचष्टे कंसं धातयति। इह कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणात्(पoभाo28)`कसवध' इति कृदन्त आख्यानशब्दः। ततो द्वितीयान्तात्प्रातिपदिकाद्वा णिच्। कृतोऽप्प्रत्ययस्य लुक्। तस्यैव या प्रकृतिः `हन्' इति, तस्याः विकारपरित्यागेन स्वेनैव रूपेणावस्थानम्। यद्यपि कृतो लुकि कृते तत्सन्नियोगशिष्टस्य वधादेशस्य निवृत्तिः सिद्धैव, "हनश्च वधः"(पाoसूo3-3-76)इति सूत्रेण हि अप्रत्ययवधादेशौ सन्नियोगशिष्टौ। तथापि `सीतायोगमाचष्टे सीतया योजयति" इत्यत्र कुत्वस्यासन्नियोगशिष्टत्वेन तन्निवृत्त्यर्थं प्रकृतिप्रत्यापत्तिवचनमिति कैयटहरदत्तमाधवादय-।
वस्तुतस्तु "निमित्तापाय"(पoभाo57)न्यायेनैव तत्सिद्धेस्तस्यानित्यत्वज्ञापनार्थमिदम्। "नहीदं वचनं, नापि न्यायः" इति वदद्भिरपि "अकृतव्यूह"(पoभाo57)परिभाषायाः तत्स्थानापन्नायाः पुरस्कृतत्वात्तस्या एवानित्यत्वमनेन ज्ञाप्यत इति निष्कर्षः। इदञ्च "अचः परस्मिन्"(पाoसूo1-1-57)इति सूत्र एव प्रपञ्चितमस्माभिः। एवञ्च `कंसहन्-इ' इति स्थिते अङ्गसंज्ञा धातुसंज्ञा च कंसविशिष्टस्यैव प्राप्ता, ततश्चाड्द्विर्वचनयोर्दोषः स्यात्, अत उक्तं "प्रकृतिवच्चकारकम्' इति। अस्यार्थः-प्रकृतिर्हेतुमण्णिचः प्रकृतिः, षष्ठ्यन्ताद्वतिः, बधादेः कृदन्तस्य यत्कारकं कंसादिकं तस्य कृत्प्रकृतेर्हन्यादेः हेतुमण्णौ धातावनन्तर्भूतं द्वितीयान्तं यद्रूपं तदेव भवतीति। अत एव `राजागमनमाचष्टे राजानमागमयति' इत्यत्र नकारश्रवणमप्युपपन्नम्। अनेन चातिदेशेन कारकस्य धातावनन्तर्भावे लब्धे तद्व्यतिरिक्ताद्वधादेरेव णिच्। एतेन `कंसमजीघतत्' इत्य.ड्द्वर्वचने यथाभिमतं सिध्यतः नन्वेवमपि "हो हन्तेः"(पाoसूo7-3-54)इति "हनस्तोऽचिण्णलोः"(पाoसूo7-3-32)इति च कुत्वतत्वे न प्राप्नुतः, "घातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात्"(पoभाo90)इति चेत्?
अत्र हरदत्तमाधवादयः-"प्रकृतिवच्च" इति चकारो भिन्नक्रमः, `कारकम्' इत्यस्यानन्तरं द्रष्टव्यः। कार्यशब्दश्चाध्याहार्यः। हेतुमण्णिच्प्तंकृतौ यादृशङ्कारकं तथेहापि, यादृशञ्च तत्र कार्यं अड्द्विर्वचनतत्वकुत्वादि तदपीह तथैवेत्यर्थः। इह च अड्द्विर्वचने अतिदेशद्वयेनापि सिध्यतः। असङ्कीर्णोदाहरणन्तु द्वितीयादिकं कुत्वतत्वादिकञ्चेति विवेकः। इह कंसवधसुभद्राहरणादिनिरुढोपाख्यान एव णिजिति नाग्रहः, किन्तु प्रतिपादनमात्रे। तेन राजागमनमाचष्टे राजानमागमयति। यद्यपीह कृत्प्रकृतौ `राजा' कर्तासीत्, तथापि गमेर्हेतुमण्णौ "गतिबुद्धि"(पाoसूo1-4-52)इति कर्मीभूतः; तद्वच्चेहापि। `राजानम्' इत्यस्य प्रकृतिभागो यद्यपि अन्तर्वर्त्तिन्या षष्ठ्या प्रत्यवलक्षणेन पदम्, तथापि नकारश्रवणं भवत्येव, रूपातिदेशबलात्। `देवदत्तपाकमाचष्टे देवदत्तेन पाचयति' इति तृतीयैव भवति। "गतिबुद्धि"(पाoसूo1-4-52)इति नियमेन कर्मत्वापहारे कर्तृत्वस्यैव स्थितेरिति दिक्।
दृश्यर्थायां च प्रवृत्तौ(काoवाo)।। मृगाणां रमणं मृगरमणम्। कर्तृषष्ठ्या समासः। तदाचष्टे गृगान् रमयति। यदा प्रतिपाद्यकर्तृकदर्शनार्थमाक्यातं तदैव णिजिष्यते नान्यदेत्येतदर्थं वचनम्। येयमाख्यातरूपा वृत्तिः सा यदि दृश्यर्थः। तेन `स्वयं मृगरमणमनुभवन् अन्यस्मै दर्शयितुमाचष्टे' इत्यस्मिन्विषये `मृगान् रमयति' इतकि प्रवोगः। यदा तु अरण्ये दृष्टं मृगरमणं ग्राममेत्याऽन्यस्मा आचष्टे-`एवं तत्र मृगा रमन्ते' इति, तस्मिन्नाख्याते बोधनीये `मृगरमणमाचष्टे' इति वाक्यमेव भवति।
अत्र कैयटादयः-दृश्यर्थायामेव' इति नियमो मृगरमणदिविषयक एव, न तु सार्वत्रिकः। तेन राजागमनादौ दृश्यर्थप्रवृत्त्यभावेऽपि णिज् भवत्वेवेत्याहुः।
लोपश्च कालात्यन्तसंयोगे मर्यादायाम्(काoवाo)। इह आख्यानादिति न सम्बध्यते। शेषं पूर्ववत्। सन्निहितया आख्यानक्रियया सह कालस्य साकल्येन सम्बन्धे बोधनीये णिच्, मर्यादावचनस्याङो लोपश्चेत्यर्थः। उदाहरणन्तु विवसनं विवासः अतिक्रमणं, घञ्, रात्रेर्विवास इति कर्तृषष्ठ्या समासः। ततः "आङ् मर्यादाभिविध्योः"(पाoसूo2-1-13)इत्याङा सहाव्ययीभावः। आरात्रिविवासमाचष्टे रात्रिं विवासयति। यावद्रात्रेरतिक्रमणं तावत्कथाः कथयतीत्यर्थः। वसिक्रियायां कर्तृभूताया रात्रेर्हेतुमण्णौ तावत्कर्मत्वं वसेरकर्मकत्वात्तद्वदत्रापि णौ कर्मत्वं `रात्रिम्' इत्यस्य लुप्तषष्ठ्यन्तत्वेन प्रकृतिभागस्य पदत्वे "इकोऽसवर्णे"(पाoसूo6-1-127)इति पाक्षिकः प्रकृतिभावः प्राप्तः पूर्ववद्रूपातिदेसान्निवर्त्तते। इहाख्येयं णिच्प्रकृत्या अनुपात्तमपि अर्थाद्गम्यते। तद्वाचकस्तु `भारककथाम्' इत्यादिः शब्दो नेह प्रयोक्तव्यः। तत्समभिव्याहारे हि सति णिजेव नोत्पद्यते, अनभिधानात्। अत्र च प्रमाणं वक्ष्यमाणं भाष्यकारीयं प्रत्याख्यानमेव। नहि फलभेदे प्रत्याख्यानं प्रत्याख्यानावसर एव स्फुटीभविष्यति। तथा `प्रकृतिवच्च कारकम्' इत्यस्य पूर्वोक्ते विपरीतक्रमाध्याहारव्याख्यानेऽपि भाष्यकारीयप्रत्याख्यानं प्रमाणमिति दिक्।
चित्रीकरणे प्रापि(काoवाo)।। आख्यानादिति विहाय शिष्टं सम्बध्यते। कृदन्तापाश्चर्यकरणे गम्यमाने प्राप्नोत्यर्थे णिच् स्यात्, कृल्लुगादि पूर्ववत्। उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्योद्गमनं प्राप्नोति सूर्यमुद्गमयति। इह उज्जयिन्या माहिष्मती दूरदेशस्थेति तावतो देशस्य प्रागुदयादतिक्रमणमाश्चर्यकरणम्। "प्रकृतिवच्च कारकम्" इति सूर्यस्य पृथग्भावः। सङ्ग्रामयतेरेव सोपसर्गादित्युक्तेरुच्छब्दस्यातिप पृथक्करणम्। सूर्यस्य हेतुमण्णौ कर्मत्वात् इहापि कर्मत्वे सूर्यमुदगमयदित्यादि।
नक्षत्रयोगे ज्ञि(काoवाo)।। नक्षत्रयोगवाचिनः कृदनताज्जानात्यर्थे णिच्, शेषं प्राग्वत्। पुष्पेण योगः कर्तृकर्मकः योग इत्यर्थः। पुष्योहि चन्द्रमसं युनक्ति सम्बध्नाति। इह कर्मणोऽपि गम्यमानत्वात् "उभयप्राप्तौ"(पाoसूo2-3-66)इति नियमात्कर्तरि षष्ठ्यभावे तृतीया "अन्तर्द्धौ येनादर्शनमिच्छति"(पाoसूo1-4-28)इतिवत्। पुष्ययोगं जानाति पुष्येण योजयति। युजेः कर्तुः पुष्यस्य गत्यादिकर्तृष्वनन्तर्भावेण हेतुमण्णौ न कर्मता किन्तु कर्तृत्वमेवेति इहापि तथा, तेन तृतीयैयव। इदञ्च "आख्यानात्कृतः"(काoवाo)इत्यादि वार्त्तिकजातं भाष्यवार्त्तिकयोरेव प्रत्याख्यातम्, तदीयलक्ष्यजातस्य आरोपेणापि सूपपादत्वात्। तथाहि, कंसं घातयतीति तावदारोपः। ये हि कंसाद्यनुकारिणां नटानां व्याख्यानोपाध्यायाः ते कंसानुकारिणं नटं सामाजिकैः कंसबुद्ध्या गृहीतं तादृशेनैव वासुदेवेन घातयन्तीव। येऽपि चित्रं व्याचक्षते इयं मथुरा, अयं प्रासादः, अयं भगवान् वासुदेवः प्रविष्टः इत्यादिक्रमेण, तेपि तथैव। येऽपि ग्रन्थं वाचयन्तः कंसवधमाचक्षते ग्रन्थिका नाम तेऽपि तत्तत्पदार्थविषयकनिश्चयोत्पादनात्तास्ताः क्रिया निर्वर्तयन्तीव। तथाच स्पष्ट आरोपः। किञ्च `गच्छ हन्यते कंसः' `गच्छ घानिष्यते' किं गतेनेह तेन हतः कंसः' इत्यादिषु निरूढेषु व्यवहारेषु तवाप्येषैव गतिः। नह्यत्र णिज्विधिः किञ्चिदुपकरोति, उक्तोदाहरणेषु णिच्प्रवेशाभावात्। उक्तञ्च-
शब्दोपहितरूपांश्च बुद्धेर्विषयताह्गतान्।
प्रत्यक्षमिव कंसादिन् साधनत्वेन मन्यते।। इति।
एवं `राजानमागमयति' इत्यादावपि बोध्यम्। `राजानमानयति' इत्यादौ हि णिजभावात्तवाप्येषैव गतिः। `रात्रिं विवासयति' इत्यत्रापि विचित्रकथाऽऽख्यानेन रात्रिरनेनैव गमितेति आरोपः। `निशान्निनाय' इत्यादौ च तवाप्येषैव गतिः। `सूर्यमुद्गमयति' इत्यत्रापि प्रयोज्यप्रयोजकभावाध्यारोपः, तदालम्बनन्तु `माहिष्मत्यां सूर्योद्गमनं लभेय' इत्येवंरूपस्य देवदत्ताभिप्रेतार्थस्य निर्वृत्तिरेव। यो हि यस्य प्रवर्त्यः स तस्याभिप्रेतं निर्वर्त्तयति। तत्र स्वभूत्यर्थं प्रवर्तमाना अपि शिष्यादयो गुर्वभिप्रेतमपि उद्दिशन्त्येव। सूर्यस्तु न देवदत्ताभिप्रेतोद्देशेन प्रवर्तत इति वैषम्यम्। तथापि अभिप्रेतार्थसम्पत्तिमात्रेण आरोपे न काचित् क्षतिः। एवं "पुष्येण योजयति" इत्यत्रापि ज्योतिः शास्त्रपरिशीलनेन पुष्ययोगस्य सर्वान्प्रत्याविष्करणात् योजयतीवेत्यारोपः।
।। इति शब्दकौस्तुभे तृतीयस्याध्यायस्य प्रथमपादे द्वितीयमान्हिकम् ।।