शब्दकौस्तुभः/अध्यायः ३-पादः १/आह्निकम् ३

← आह्निकम् २ शब्दकौस्तुभः
आह्निकम् ३
[[लेखकः :|]]
आह्निकम् ४ →

।। तृतीयाध्यायस्य प्रथमे पादे तृतीयमान्हिकम् ।।
(पाoसूo3-1-27)
कण्ड्वादिभ्यो यक्(पाoसूo3-1-27)।। एभ्यो धातुभ्यो यक् स्यात्स्वार्थे। कण्डूञ्(काoउo1)कण्डूयति। कण्डूयते। न च कण्ड्‌वादीनि प्रातिपदिकान्येवेति वाच्यम्, गुणनिषेधार्थेन यकः कित्त्वेन तेषां धातुत्वसिद्धेः। न चैवं धातोरित्यनुवृत्तेर्वैयर्थ्यमिति वाच्यम्, प्रातिपदिकानां वारणीयत्वात्। न चैते धातव एवेति वाच्यम्, कण्ड्वादिषु केषांचिद्दीर्घपाठेन प्रातिपदिकत्वसिद्धेः। यदि हि धातव एव ते स्युस्तर्हि वाग्रहणं निवर्त्य नित्यो यगिति तावदास्थेयम्, अन्यथा शबादौ `कण्डवति' इत्याद्यनिष्टरूपप्रसङ्गात्। एवं स्थिते ह्रस्वान्तादपि यकि `मन्तूयति' इत्यादिवत् "अकृत्सार्व"(पाoसूo7-4-25)इति दीर्घत्वे `कण्डूयति' इत्यादिसिद्धेः किं दीर्घपाठेन? तस्मात् कित्त्वदीर्घाभ्यां ज्ञापकाभ्यां धातवः प्रातिपदिकानि चेति द्विविधाः कण्ड्वादय इति स्थितम्। उक्तञ्च भाष्ये-
धातुप्रकरणाद्धातुः कस्य चासञ्जनादपि।
आह चायामिमं दीर्घं मन्ये धातुर्विभाषितः।। इति।
तत्र धात्वधिकारात् धातुभ्य एव प्रत्ययः। स च नित्य इति सिद्धान्तः।
स्यादेतत्, एषां प्रातिपदिकत्वमेवास्तु, त्यज्यतां दीर्घपाठः प्रत्ययस्य कित्त्वञ्च। नचैवम्, "अकृत्सार्व"(पाoसूo7-4-25)इति दीर्घः ङ्किति विधीयमान इह न स्यादिति वाच्यम्, तत्र "ङ्किति" इत्यस्य निवृत्तेः। न चैवम् `उरुया' `धृष्णुया' इत्यादावतिप्रसङ्गः, तस्य छान्दसत्वात्। न च यको नित्यत्वे `कण्डूः' इति न सिद्ध्येदिति वाच्यम्, कण्डूयशब्दात्सम्पदादित्वाद्भावे क्वौ अल्लोपे 'लोपो व्योः"(पाoसूo6-1-66)इति यलोपे च तत्सिद्धेः। न च यलोपेऽल्लोपस्य स्थानिवत्त्वं शङ्क्यम्, " न पदान्त"(पाoसूo1-1-58)इति निषेधात्। न चैवमल्लोपस्य स्थानिवत्त्वादुवङ् स्यादिति वाच्यम्, सति स्थानिवत्त्वे अकारान्तस्यैव धातुतेति पूर्वदले उवङोऽप्राप्तेः। तर्हि यण् स्यादिति चेत्? अस्तु, तस्य ऊठ् करिष्यते। न च ऊठि कर्तव्ये अल्लोपस्य स्थानिवत्त्वेन क्विप्परत्वं नास्तीति वाच्यम्, वकारस्य आदिष्टादचः पूर्वत्वात्। ननु स्थानिद्वारकमनादिष्टादचः पूर्वत्वमस्त्येव। न च तस्यासास्त्रीयत्वान्नातिदेश इति माधवोक्तं युक्तम्, अनादिष्टादचः पूर्वत्वमाश्रित्य कर्तव्यस्य "अतः परिस्मिन्"(पाoसूo1-1-57)इत्यतिदेशस्य शास्त्रीयतया "स्थानिवत्'(पाoसूo1-1-56)सूत्रेण अतिदेशातिदेशस्य दुर्वारत्वात्। अन्यथा "न पदान्त"(पाoसूo58)इति सूत्रे सवर्णमग्रहणस्य वैयर्थ्यापत्तेरिति चेत्?न, स्थानिद्वारकस्य अनादिष्टादचः पूर्वत्वस्य असार्वत्रिकतायाः प्रागेव निर्णीतत्वात्। अत एव ऊठि कृते पुनरुवङ् न। यद्वा, "क्वौ लुप्तं न स्थानिवत्'(काoवाo)इति निषेधाद्यणेव मास्तु। नन्वेवमपि `कण्ड्वौ' इत्यादौ सयोगपूर्वकत्वेन "ओः सुपि"(पाoसूo6-4-83)इत्यस्याप्रवृत्तौ उवङ् स्यादिति चैत्? अस्तु, क्विपः प्रत्ययलक्षणेनोठं करिष्यामः। तस्मात् प्रातिपदिकान्येवैतानि दीर्घकित्त्वे च निष्फले इति चेत्? मैवम्, उवङो बहिरङ्गत्वेनासिद्धतया। ऊठो दुर्बलत्वात्। किञ्चोक्तरीत्या हि `कण्डूः' इतिवत् `मन्तूः' इत्यादि स्यात्, `मन्तुः' इत्यादि च न सिध्येत्। अथ "धातोः कर्मणः"(पाoसूo3-1-7)इत्यतो वाग्रहणमनुवर्तेत, तर्हि यद्यपि `मन्तुः' इत्यादि ह्रस्वं सिद्धं, तथापि `कण्डूः' इतिवदल्लोपयलोपाभ्यां `मन्तूः' इत्यपि स्वात्। तथा यगनुत्पत्तिपक्षे `मन्तुः' इत्यादिवत् `कण्डुः' इत्यपि स्यात्। किञ्च सुखादिभ्यो यप्रत्यये तस्य अनार्द्धधातुकत्वादतोलोपाभावे "अकृत्सार्व"(पाoसूo7-4-25)इति दीर्घे `सुखावति' इत्यादि स्यात्। `सुख्यति' इत्वादि चेष्यते। अथ हलन्तमेव पठ्येत, तर्हि `सुखं' `दुःखम्' इत्यकारान्तं न सिध्वेत्। तस्माद्यथावासमेव मनोरमम्।
नन्वेवमपि प्रातिपदिकैः `कण्ड्वौ' `मन्तुः' इत्यादि यद्यपि सिद्धं, तथापि यगन्तेभ्यः क्वौ अनिष्ठं स्यादेव। तद्यथा-कण्डूयतेः कण्डुवौ, कण्डुवः। मन्तूयतेः मन्तूः। सुखादेः सुक् इत्यादि हलन्तम्। नैष दोषः, यगन्तेभ्यः क्विप एवानुत्पत्तेः। उक्तं हि भाष्ये-"नैतेभ्यः क्विप् द्रक्ष्यते" इति। कथन्तर्हि कण्डूयतेरप्रत्वयः? `कण्डूः' इति "नपदान्त"(पाoसूo1-1-58)सूत्रे उक्तमिति चेत्? क्यजन्तात्किवपीत्यवेहि। तत्र च `कण्डुवौ' इत्युवङिष्ट एव। एवं प्रातिपदिकादाचारक्विबन्तात्क्यङन्तादद्वा क्विप्वपि बोध्यम्।
स्यादेतत्, कण्ड्वादयः प्रातिपदिकान्येव, यथान्यासं दीर्घश्च सन्तु, ककारस्तु त्यज्यतां, वाग्रहणञ्चानुवर्त्यताम्, यगन्तात्क्विपोऽनभिधानञ्च आवयोस्तुल्यं, तत्किं कण्ड्वादीनां धातुत्वेनेति चेत्? उक्तरीत्या `सुख्यति' इत्याद्यसिद्धेः। प्रातिपदिकात्प्रत्यये तस्यानार्द्धधातुकत्वेन `सुखायति' इति स्यादिति हि स्पष्ट एव दोषः। यत्तु कौमुद्याम्-कृञर्थे यक् स्यात्, धातवः प्रातिपदिकानि चेति कण्ड्वादयो द्विविधाः, कण्डूं करोति कण्डूयते, नामधातुत्वाद्यतेष्टं द्वित्वे प्राप्ते कण्ड्वादेस्तृतीयस्य इत्युक्तं; तदेतत्सर्वमाकरविरुद्धमनेकदोषग्रस्तञ्च। तथाहि, कृञर्थ इतिव्यख्यानेन `करणे' इत्यस्यानुवृत्तिर्लभ्यते। तच्च व्यर्थम्, धात्वर्थमात्रस्यानुवृत्तिं विनाऽपि लाभात्। ततोऽतिरिक्तस्य चानन्वयात्। एवञ्च `कण्डूं करोति' इति विग्रहप्रदर्शनमप्ययुक्तम्। नामधातु त्वादिति च सुतरामशुद्धम्, धात्वधिकाराद्धातुभ्य एव यगिति सिद्धान्तात्। अथ प्रातिपदिकादेव यकमभ्युपैषि, तर्हि लडादौ `कण्डवति' इत्यादि स्यात्। अथ प्रातिपदिकान्येव कण्ड्वादीनीत्यभिप्रैषि, तर्हि `सुख्यति' इत्यादि न सिध्येत् "द्विविधाः कण्ड्वादयः" इति स्वोक्तिविरोधश्च। आकरविरोधस्तु स्पष्ट एवेत्यास्तां तावत्।
मान्यास्तु अनेकदोषदुष्टमपीमं प्रक्रियाप्रघट्टकं कथञ्चित् समरथयन्ते। तद्यथा-प्रातिपदिका कण्ड्वादयः, तेभ्यश्च वैकल्पिको यक् इति पक्षेणायं ग्रन्थः। अत एवोक्तं `कृञर्थे' इति। विगृहीतञ्च `कण्डूं करोति' इति च। नहि धातुभ्यो यकि प्रातिपदिकेभ्यो वा नित्ये यकि अयं विग्रहः सम्भवति। एवञ्च नामधातुत्वादित्याद्यपि सम्यगेव। कथन्त र्हि द्वैविध्यमुक्तमिति चेत्? यगन्ताः सन्तो धातवः। केवलास्तु प्रातिपदिकानीत्याशयात्। यद्वा, यगन्तधात्ववयवेषु तेषु धातुशब्दो गौणः। प्रत्ययसदसद्भावाभ्याम् अवस्थाभेदाद् द्वैविध्यम्। न चैवं `सुख्यति' इत्यादौ "अतो लोपः"(पाoसूo6-4-64)न स्यादिति वाच्यम्, यकः कित्त्वेन आवश्यकत्वाल्लाघवाच्चार्द्धधातुकत्वस्यैव ज्ञापनात्। अत एव `द्विविधा' इत्येवोक्तं न तु धातुभ्य एव यगिति। तदिदं भाष्यादिविरुद्धमपि लक्ष्ये विसंवादाभावादस्तु कथञ्चित्।
अथोदाहरणानि-1-कण्डूञ् गात्रविघर्षणे। अवयवे कृतं लिङ्गं समुदायं विशिनष्टि। एवमग्रेऽपि। कण्डूयति, कण्डूयते। 2-मन्तु अपराधे रोष इत्येके। मन्तूयति। चन्द्रस्तु ञितं पठित्वा मन्तूयते इत्यप्याह। 3-वल्गु पूजापाधुर्ययोः। वल्गूयति। तद्वल्गुना युगपदुन्मिषितेन। 4-असु उपतापे। असूयति। असूयुः। "मृगय्वादयश्च"(उoसूo39)इत्युप्रत्यय इति माधवः। एतेन-
सन्तः प्रणयिवाक्यानि गृह्‌णन्ति ह्यनसूयवः।
इति भट्टिप्रयोगो व्याख्यातः। केचित्तु `अस्' 5-`असूञ्' इति पठित्वा आद्यस्य सान्तस्य `अस्यति' द्वितीयस्य दीर्घान्तस्य `असूयति' `असूयते' इत्याहुः। 6-लेट् 7-लोट् धौर्त्त्ये, पूर्वभावे, स्वप्ने च। लेट्यति, लोट्यति। लटिता, लोटिता। अल्लोपयलोपौ। केचित् लेट्लोटौ दीप्त्यर्थावाहुग्ति माधवः पूर्वभावः पूर्वत्वम्।
अत्र केचित् पूर्वशब्दं प्रकृतिनिर्द्देशार्थमाश्रित्य `पूर्व्यति' इत्युदाहरन्ति। तथा चान्तःकरणवृत्तिवर्गे भट्टमल्लेनोक्तम्-
शेते द्रायति निद्राति सस्ति स्वपिति पूर्व्यति।
निद्रायते संविशति निद्रायां संस्ति मन्दते।। इति।
अस्यार्थो धातुचन्द्रोदये उक्तः। शेतप्रभृतीनि दशाख्यातानि निद्रायाम्। पस स्वप्ने(अoपo68)अदादिः। `षसि शयने' इत्येके पेठुरिति तत्रैव क्षीरस्वामी। पूर्व्यतीति कण्ड्वादियगन्त इत्यादि। तथा देवेनाप्युक्तम्-
पूर्व्यतीति तु यत्स्वप्ने तत् कण्डवादिषु दर्शनात् इति।
एतच्च अमोघायां साकटायनधातुवृत्तौ अर्थनिर्द्देशरहिते गणपाठे पूर्वस्व पाठाभावादयुक्तमिति पुरुषकारैरेव दूषितम्। युक्तञ्चैतत्, जवादित्येनापि `लेट्' `लोट्' इत्येव पाठात्, हरदत्तेन च घौर्त्ये पूर्वभावे स्वप्‌ने चेति तद्विवरणात्। एतेन बुद्धिवर्गे-
मनसागोचरीकारे नमस्वित्वे मनस्यति।
इति भट्टमल्लोक्तिरपि प्रत्युक्ता, न्यायसाम्यात्। जयादित्येन हि `असु' इत्येव निर्द्दिष्टम्। हरदत्तेन तु अथ कण्ड्वादीनामर्थनिर्द्देश इत्युपक्रम्य कण्ड्वादीन् विवृण्वता `असु' इति प्रतीकमुपादाय `मानस उपतापे' इति विवृतम्। अत एव `असु मनस उताप' इति पठतामपि `मनस' इति षष्ठ्यन्तमुपतापविशेषणम्, न तु प्रकृतिनिर्द्देशः वृत्तिपदमञ्जर्यादिविरोधात्। धातुचन्द्रोदयकारस्य तु `मनस्यति इति कण्ड्वादियगन्तम्' इति भूयसा ग्रन्थसन्दर्भेण व्याचक्षाणस्यापि तत्रापरितोषोऽस्त्येव। अत एच `मनस्यते' इति पाठमाश्रित्य मनःशब्दाद्वृत्तिविषये तद्विति वर्त्तमानात् क्यङञ्चोक्त्वा `इदं शोभतेतराम्' इत्युपसञ्जहार।
8-लेला दीप्तौ। "ध्यायतीव लेलायतीव" इति श्रुतिः। 9-इरस् 10-इरज्11-इरञ् ईर्ष्यायाम्। इरस्यति। इरज्यति। ईर्यति, ईर्यते। "हलि च"(पाoसूo8-2-77)इति दीर्घः। एषां त्रयाणां यथायथमन्येऽप्यर्थाः सन्ति। तथाहि-"इरज्यन्नग्ने प्रथयस्व जन्तुभिः" इति मन्त्रे दीप्त्यर्थोऽयमिति भट्टभास्करादयः। "इरज्यन्तावसव्यस्य भूरेः" इति मन्त्रे ऐश्वर्यार्थ इति। ईर्यतिर्मार्गावस्थानेऽपि उक्तञ्चामरेण-"चर्या त्वीर्या पथिस्थितिः"(अoकोo2-7-38)इति। 12-`इयस् एश्वर्ये' इति गणरत्नमहोदधौ। इयस्यति। 13-उषस् प्रभातीभावे। उषस्यति रात्रिः। 14-वेदधौर्त्ये स्वप्ने च। वेद्यति। 15-मेधा आशुग्रहणे। मेधायति। 16-कुषुभ क्षेपे। कुषुभ्यति। 17-मगध परिवेष्टने। नीचदास्य इत्यन्ये। मगध्यति। 18-तन्तस् 19-पम्पस् दुःखे। तन्तस्यति। पम्पस्यति। 20-सुख 21-दुःख तत्क्रियायाम्। तच्छब्देन सुखदुःखार्थौ। सुखदुःखरूपायां क्रियायामित्यर्थः। सुख्यति। दुःख्यति। सुखं दुःखं चानुभवतीत्यर्थः। 22-सपर पूजायाम्। अकारान्तोऽयं महोदधौ। सपर्यति। 23-अरर आराकर्मणि। आरा प्रतोदः। अरर्यति। 24-भिषज चिकित्सायाम्। भिषज्यति। 25-भिष्णज उपसेवायाम्। भिष्णज्यति। "सरस्वती त्वा मघवन्न भिष्णक्"। छान्दसो लुक्। 26-इषुध शरधारणे। इषुध्यति। 27-रचण 28-वरण गतौ। चरण्यति। वरण्यति। 29-चुरण चौर्ये। चुरण्यति। 30-तुरण त्वारायाम्। तुरण्यति। 31-भुरण धारणपोषणयोः। रणधारणयोरित्यन्ये। भुरण्यति। 32-गद्गद वाक्स्खलने। गद्गद्यति। 33-एला 34-केला 35-खेला विलासे। एलायति। केलायति। खेलायति। 36-एला स्थाने। 37-इलेत्यपरे। इलायति। 38-लेखा स्खलने च। लेखायति। अकारान्तोऽयमित्यन्ये। तत्रातोलोपः, लेख्यति। 39-लिट अल्पकुत्सनयोः लिट्यति। 40-लाच जीवने। लाट्यति। 41-हृणीङ् रोषणे लज्जायाञ्च। "कथं नपत्या धरणी हृणीयते" इति श्रीहर्षः। 42-महीङ् पूजायाम्। अत्र पूजा पूज्यमानकर्तृता तेनायमकर्मकः। महीयते। पूजामधिगच्छतीत्यर्थः। "मातापितरौ चास्य स्वर्गे लोके महीयेते" इति भाष्यम्। 43-रेखा श्लाघासादनयोः। आसादनं प्राप्तिः प्रापणं वा। रेखायति। श्लाघामनुभवत्यनुभावयति वेत्यर्थः।। 44-द्रवस् परितापपरिचरण योः। द्रवस्यति। 45-तिरस् अन्तर्धो। तिरस्यति। 46-द्रवस् परितापपरिचरणयोः द्रवस्यति। 47-उपस् बलार्थः। उरस्यति, बलवान् भवीत्यर्थः। 48-तरण गतौ। तरम्यति। 49-पयस्‌प्रसृतौ। पयस्यति। 50-सम्भूयस् प्रभूतभावे। सम्भूयस्यति। 51-अम्बर 52-संवर संभरणे। अम्बर्यति। संवर्यति। गणरत्नमहोदधौ आकृतिगणत्वात् रैधवलादिभ्यो यकि रायति धवल्यतीत्याद्युक्तम्। कण्ड्वादीनां तृतीयस्य द्वे इति वक्ष्यते। तेन सनि `कण्डूयियिषति' इत्यादि।
(पाoसूo3-1-28)
पगुपूधूपविच्छिपणिपनिभ्य आयः(पाoसूo3-1-28)।। एभ्य आयप्रत्ययः स्यात् स्वार्थे। गुपू रक्षणे(भ्वाoपo395)। गोपायति। धूपसन्तापे(भ्वाoपo396)। धूपायति। विच्छ गतौ।(तुoपo143)विच्छायति। विच्छेस्तुदादिपाठसामर्थ्यादायप्रत्ययान्तादपि शो न तुशप्। तेन `विच्छायनती' विच्छायती इति। "आच्छी"(पाoसू-7-1-80)इति नुम्‌विकल्पः। अन्ये तु तुदापाठसामर्थ्यात्सार्वधातुकेऽप्यस्य आयप्रत्ययो वैकल्पिक इत्याहुः।
पण व्यणहारे स्तुतौ च, पन च(भ्वाoआo440,441)। `पणपन' इति पठनीये `पन च' इति पृथक्‌पाठसामर्थ्यात् स्तुतावेवायम्, तत्साहचर्यात्पणेरपि स्तुतावेवायप्रत्ययः। अनुबन्धस्य केवले चरितार्थत्वादायप्रत्ययान्तान्नात्मनेपदम्। पणायति। पनायति। स्तौतीत्यर्थः। व्यवहारे तु-`शतस्य पणते' इति जयादित्यादयः। अन्ये तु व्यवहारार्थादप्यायमिच्छन्ति। तथा च भट्टिः-"न चोपलेभे वणिजां पणायाम्" इति। अस्मिन्नपि पक्षे `पणिष्यते' `पणायिष्यति' इत्यादौ अनुबन्धः केवले चरितार्थ एव। अत एव पनेरपि आयप्रत्यये परस्मैपदमेव।
(पाoसूo3-1-29)
ऋतेरीयङ्(पाoसूo3-1-29)।। ऋतिः सौत्रः तस्मादीयङ् स्यात्। ऋतीयते। ईयङो ङित्त्वस्य गुणनिषेधेन चरितार्थत्वेऽपि दातोर्ङिदन्तत्वाद्यङन्तादिवात्मनेपदम्। यथा चैतत्तथा "अनुदात्तङितः"(पाoसूo1-3-12)इति सूत्र एवावोचाम्।
ऋतेश्छङिति सिद्धे ईयङ्वचनं धातुप्रत्ययानामायन्नादयो नेति ज्ञापनार्थम्। तेन शमेः खः `शङ्खः' इत्यादि सिध्यतीति वृत्तिकारादयः। हरदत्तस्तु "द्विचवनविभज्योपपदे तरप्‌छसुनौ" इति वक्तव्ये ईयसुन्‌वचनमधातुप्रत्ययेष्वपि आयन्नाद्यभावं ज्ञापयेदिति प्रतिबन्दिनमाह। तत्र ईयसुन्वचनं प्रक्रियालाघवार्थमेव न तु ज्ञापनार्थम्, आयन्नादीनां निर्विषयतापत्तेः। न च विनिगमनाविरहः, "ण्यक्षत्रिय"(पाoसूo2-4-58)इत्यादिसौत्रनिर्देशानामेव विनिगमकत्वादिति समाधानं बोध्यम्। ऋतिः सौत्रो घृणायां वर्त्तते इति वृत्तिः। यद्यपि घृणाशब्दो नानार्थः "घृणा जुगुप्साकृपयोः" इतिवचनात्, तथापीह जुगुप्सार्थ एव, ऋतीयाशब्दस्य बीभत्सापर्यायतया निघण्टुषु पाठादिति हरदत्तादयः। भट्टमल्लस्तु आख्यातचन्द्रिक्रायां तृतीयकाण्डे नानार्थवर्गे "ऋतीयते धिग्‌घृणयोः" इति पठन् नानार्थतामियेष।
इति वदन्नमरोऽप्यत्रानुकूलः। यदि हि जुगुप्सामात्रार्थत्वमिच्छेत्तर्हि "हणीया च जुगुप्सने" इत्येव स्पष्टं पटेत्। नानार्थे घृणाशब्दं प्रयुञ्जानस्तु ऋतेरपि तथात्वमभिप्रैतीति पदचन्द्रिकाव्याख्याने धातुचन्द्रोदये कृष्णप्रबोधः। आर्धधातुकविवक्षायान्तु ईयडभावपक्षे शेषत्वात्परस्मैपदमेव। आनर्त। अर्तितासि। अर्तिष्यति। आर्तीत्। आर्तिष्यत्। अत्रात्मनेपदं समुदाहरन् प्रसादकारस्तु भ्रान्त एव।
(पाoसूo3-1-30)
कमेर्णिङ(पाoसूo3-1-30)।। स्वार्थे। कामयते। नन्विह "अत उपधायाः"(पाoसूo7-2-116)इति वृद्धेः "ङ्किति च"(पाoसूo1-1-5)इति निषेधः प्राप्नोति। न च णित्त्वसामर्थ्याद्वृद्धिः, "णेरनिटि"(पाoसूo6-4-71)इति विशेषणेन चरितार्थत्वात्। न च ङकारोऽण्यात्मनेपदेन चरितार्थ इति वाच्यम्, तावता प्रतिषेधस्य बलीयस्त्वानपायात्। न च कमेर्मित्संज्ञाप्रतिषेधार्थं "न कम्यमिचमाम्"(गoसूo)इतिवचनं वृद्ध्यभावे व्यर्थं सत् वृद्धिमिह ज्ञापयतीति वाच्यम्, णिडन्ताच्चिण्णमुलोः कृतयोः "चिण्णमुलोर्दीर्घोऽन्यतरस्याम्"(पाoसूo6-4-93)इति वैकल्पिके दीर्घे प्राप्ते तन्निवृत्त्या मित्त्वप्रतिषेधस्य सार्थक्यात्। न च तत्र दीर्घग्रहणं परित्यज्य प्रकृतो ह्रस्व एव विकल्प्यताम्, तथाच कमेर्मित्संज्ञाप्रतिषेधोऽपि मास्त्विति वाच्यम्, णिजन्ताद्यङताद्वा णिचि सति ततश्चिण्णमुलोः-अशमि, अशामि; शमं शमम्, शामम शामम्; अशंशमि, अशंशामि; शंशमं शंशमम्, शंशामं शंशामम् इति रूपद्वयस्य दीर्घग्रहणं विना अनिर्वाहात्। दीर्घविधिस्प्रति हि णियङोर्लोपस्य न स्थानिवत्त्वं, "न पदान्त"(पाoसूo1-1-58)इति निषेधात्। ह्रस्वविधिम्प्रति तु स्थानिवत्त्वे सति। चिण्णमुल्परस्य णिचः णियङ्भ्यां व्यवधाने ह्रस्वविकल्पो न प्रवर्त्तेत। यथाश्रुतसूत्ररीत्या चेदम्। पूर्वत्रासिद्धीयेनेत्युक्त्वा सवर्णानुस्वारादिग्रहणं न कर्तव्यमिति पक्षे तु णिजन्ताण्णिचि ण्याकृतेरैक्यात् सिद्धम्। `शंशामं शंशामम्' इति तु यङ्लुगन्ताण्णमुलिति "न पदान्त'(पाoसूo1-1-58)सूत्र एवावोचाम्। अस्मिन्निष्कृष्टपक्षेऽपि "चिण्णमुलोः"(पाoसूद6-4-93)इति सूत्रे दीर्घग्रहणं कर्तव्यमेव। तथाहि, `हेडृ अनादरे' घटादिः।-1--1."मिता ह्रस्वः" इत्यनेन।-एच इक्, हिडयति। अत्र चिण्णमुलोः कृतयोः ह्रस्वे विकल्प्यमाने `अहिडि, अहेडि' इति स्यात्। दीर्घे तु `अहिडि, अहीडि'इति भवति। एवञ्च कमेरपि चिण्णमुलोः दीर्घविकल्पे प्राप्ते तद्व्यावृत्त्या कृतार्थो मित्त्वनिषेधो वृद्धिं ज्ञापयितुं नालम्। किञ्च-"आयादय आर्द्धधातुके वा'(पाoसूo3-1-31)इति णिङभावे णिचि कृते वृद्धौ सत्यां "मितां ह्रस्वः"(पाoसूo6-4-92)इति ह्रस्वे वारयितुं मित्संज्ञाप्रतिषेधः सर्वथाऽपि नायं वृद्धेर्ज्ञापकः। तस्मात् "ङ्किति च"(पाoसूo1-1-5)इति निषेधं वारयितुं कश्चिदुपायो वक्तव्य इति चेत्? सत्यम्, उक्त एवासौ तद्धितकाम्योरिक्प्रकरणादिति।
(पाoसूo3-1-31)
आयादय आर्धदातुके वा(पाoसूo3-1-31)।। आर्द्धधातुकविवक्षायामायादयो वा स्युः। जुगोप, गोपायाञ्चकार। आनर्त, ऋतीयाञ्चक्रे। कामयाञ्चक्रे, चकमे। इह `आर्द्धधातुक' इति यदि परसप्तमी स्यात् तदा प्रवृत्ता आयादय आर्द्धधातुके परे पक्षे निवर्तन्त इत्यर्थः स्यात्। तत्र बहवो दोषाः। तथाहि-आयप्रत्ययान्तान् स्त्रीभावविवक्षायाम् "अ प्रत्ययात्"(पाoसूo3-3-102)इत्यकारप्रत्यये कृते आयनिवृत्तिपक्षे `गोपा'इत्यनिष्टे स्यात् `गुप्तिः'इति चेष्टं न सिध्येत्। तथा ऋतीयशब्दाल्लिटि प्रत्ययान्तत्वेनामि ईयप्रत्ययस्य निवृत्तौ `ऋताञ्चकार' इति स्यात्, `आनर्त' इति च न स्यात्। तथा अर्तितासि, अर्तिष्यति, ऋत्यात्, आर्तीत् इत्यादौ परस्मैपदं न स्यात्। तथा तास्यादेरार्द्धेधातुकस्य ईयङ्‌निवृत्तिं प्रति निमित्तत्वेन "न धातुलोप"(पाoसूo1-1-4)इति निषेधात् तन्निमित्तो गुणो न स्यात्।
अथोच्येत-`नानेन निवृत्तिर्विकल्प्यते किन्तु प्रवृत्तिरेव' इति। तत्रापि आयादिविधिभिः सहास्यैकवाक्यता भिन्नवाक्यता वा? आद्ये गुपादिभ्य आर्द्धधातुके परे आयो वेत्यर्थः स्यात्। एवमुत्तरत्रापि। ततश्च आर्द्धदातुक एव विकल्पेनायादयः, सार्वधातुके तु नैव स्युः।
अथोच्येत-गुपादिसूत्र एव आर्धधातुके वेति वक्तव्ये आयादय इति न कर्तव्यमिति लाघवे स्पष्टे सति गौरवं सोढवा "आयादय आर्धधातुकेवा" इति पृथक्सूत्रकरणसामर्थ्याद् व्यापारभेदेनैकवाक्यता। ततश्चायमर्थः-गुपादिभ्य आयादयो नित्यं भवन्तीत्युत्सर्गः, आर्द्धधातुके परे तु वा भवन्तीति। एवञ्च विकरणवत् प्रत्यये परे आयादयः प्रवर्तेर्न्। ततश्च गुपेः क्तिनि आयपक्षे अल्लोपयलोपयोः `गोपातिः' इत्यनिष्टं स्यात् `गोपाया' इति चेष्टं न सिध्येत्। तस्माद् दुष्ट एवात्र परसप्तमीपक्षः।
(पाoसूo3-1-32)
सनाद्यन्ता धातवः(पाoसूo3-1-32)।। सनादयो णिङन्ताः प्रत्यया अन्ताश्चरमावयवा योषान्ते संघाता धातुसंज्ञाः स्युः। जुगुप्सते। कामयते। "सिप्तिङन्तम्"(पाoसूo1-4-14)इत्यत्र अन्तग्रहणेन "संज्ञाविधौ प्रत्ययग्रहणे प्रत्ययग्रहणपरिभाषा न प्रवर्त्तते"(पoभाo27)इति तत्प्रतिप्रसवार्थमिहान्तग्रहणं न त्वयमपूर्वविधिः, गौरवात् `देवदत्तश्चिकीर्षति' इत्यादौ देवदत्तादेः समुदायस्य संज्ञाप्रसङ्गाच्च। प्रतिप्रसवे तु लाघवमुक्तदोषाभावश्चेति स्पष्टमेव। "भूवादयः"(पाoसूo1-3-1)इत्यस्यातन्तरमेव "सनाद्यन्ताश्च" इति न सूत्रितं, सनादीनामियत्तानवगमात्। णिङो ङकारेम प्रत्याहारमाश्रित्य "सङन्ताश्च" इति कुतो न सूत्रितमिति चेत्? चङादिष्वपि ङकारसत्त्वेन सन्देहापत्तेः। इहैव "सनाद्यन्ताः" इत्यस्यानन्तरं "भूवादयश्च" इति सूत्रयितुमुचितं, तथा न कृतमित्येव।
एतत्सूत्रं भाष्ये प्रत्याख्यातम्। तथाहि-जहत्‌स्वार्थायां वृत्तौ चिकीर्ष जिहीर्ष इत्यादिसङ्घाता एवार्थवन्तः तदवयवा अनर्थकाः, "सर्वे सर्वपदादेशाः" इत्यत्र च अर्थवत्येव स्थान्यादेशभावविश्रान्तेः। "एरुः"(पाoसूo3-4-86)इत्यादौ तेस्तुरिति पर्यवस्यतीत्युक्तम्। एवञ्चेहापि करणविशिष्टेष्यर्थस्येषेः प्रसङ्गे चिकीर्षशब्दः, तथा हरणविशिष्टेष्यर्थवृत्तेः प्रसङ्गे जिहीर्षशब्दः, गुपेः प्रसङ्गे गोपायशब्दः, पुत्रविशिष्टेच्छावृत्तेरिषेः प्रसङ्गे पुवीयशब्द इत्यादिपर्यवसाने स्थानिवद्भावेनसिद्ध घातुत्वम्, जग्‌ध्यादिवत् `पचतु' इत्यत्र तोस्तिङ्त्ववच्च।
स्यादेतत्, स्थानिवत्‌सूत्रे आदेशशब्देन चिकीर्षदयो ग्रहीतुं न शक्यन्ते, आदेशशब्दस्य षष्ठीनिर्द्दिष्टस्थानिनिवर्त्तकेष्वेव रूढत्वादिति चेत्? न, स्थानिवदित्युक्तयैव आदेशस्य लाभे पुनस्तद्ग्रहणसामर्थ्येन अनुमीयमानस्य तेस्तुरित्यादेरिव `आदिश्यते' इति यौगिकार्थपुरस्कारेण चिकीर्षादेरपि सुग्रहत्वात्। न च पुत्रीयादिरादेशः सुबन्तस्यैव न त्विषेरिति वाच्यम्, "अणुरपि विशेषः"(पाoसूo1-3-90)इत्यादिलिङ्गैरपि धातुत्वस्यावश्यकत्वे स्थिते तन्निर्वाहाय इच्छायामाचारेभुवीत्यादिक्रियासमर्पकाणामेव स्थानित्वनिर्णयाच्चेति दिक्।
(पाoसूo3-1-33)
स्यतासी लृलुटोः(पाoसूo3-1-33)।। लृ इति लृङ्लृटोः सामान्यग्रहणम्। धातोः लृ इत्यस्मिन् लुटि च परे यथासङ्ख्यं स्यतासी प्रत्ययौ स्तः। अकरिष्यत्, करिष्यति। श्वः कर्त्ता। तासेरिकार इत्संज्ञक इति जयादित्यः। तथाहि, `मन्ताहन्ता' इत्यत्र `मन् तास् आ' `हन् तास् आ' इति स्थिते टिलोपे कृते डाप्रत्ययम्प्रति तान्तमङ्गं तस्य उपधानकारः, तस्य "अनिदिताम्"(पाoसूo6-4-24)इति लोपः प्राप्तः, तं वारयितुं तासेरिदित्त्वमेषितव्यम्। न चाभीयत्वेन टिलोपस्यासिद्धत्वात् नकार उपधा नेति वाच्यम्, "आभात्"(पाoसूo6-4-22)सूत्रस्य भाष्ये प्रत्याख्यानात्। सूत्रमतेऽपि आभीयस्य असिद्धत्वस्य अनित्यत्वाच्च। तत्र च "श्नसोरल्लोपः"(पाoसूo6-4-111)इति तपरकरणं लिङ्गम्। तद्धि `आस्ताम्' `आसन्' इत्यादौ मा भूदित्येवमर्थम्। तत्राटोऽसिद्धत्वादेव लोपाप्रसक्तौ तपरत्वं व्यर्थं सद्‌ असिद्धत्वस्यानित्यतां ज्ञापयति। तेन `देभतुः `देभुः' इत्यत्र श्रन्थिग्रन्थिदम्भिस्वञ्जीनां लिटः कित्त्वान्नलोपे तस्यासिद्धत्वाभावाद् एत्वाभ्यासलोपौ स्तः। एवञ्चेहापि टिलोपस्यासिद्धताविरहे प्राप्तो नलोप इदित्त्वन वार्यते। न चैवं नुम्‌विधौ धातुग्रहणस्य तासिव्यावृत्त्या कृतार्थत्वेन धातूपदेशावस्थायामेव नुम् भवतीत्ययमर्थो न साधितः स्यादिति वाच्यम्, "नुम्‌विधावुपदेशिवद्वचनं प्रत्ययसिध्यर्थम्" इति वचनस्यैव शरणीकरणात्, "धिन्विकृण्व्योः"(पाoसूo3-1-80)इति सनुम्‌कनिर्द्देशाज् ज्ञापकाद्वा। वामनस्तु `तासेरिकार उच्चारणार्थ' इत्याशयेन "इदितो नुम् धातोः"। (पाoसूo7-1-58)इति धातुग्रहणं धातृपदेशावस्थायामेव नुम् यथा स्यादित्येवमर्थं मन्यते। तन्मते `मन्ता' `हन्ता' इत्यत्र टिलोपस्यासिद्धत्वान्नलोपो नेति बोध्यम्।
इदमिदानीं विचार्यते-लकारं निमित्तत्वेनाश्रित्य विधीयमानाः स्यादयो विकरणाः किं लावस्थायामेव, स्युः, उत लादेशेषु कृतेष्विति। आद्ये पक्षे लावस्थायां तासौ कृते तस्य प्रत्ययाद्युदात्तत्वे कृते लादेशाः स्युः, ततश्च तेषां स्वरः सतिशिष्टः। ततश्च तासेः परस्य लसार्वधातुकस्यानुदात्तवचनमप्राप्तविधिरेव स्यात्। एवञ्च `सतिशिष्ठोऽपि विकरणस्वरो लसार्वधातुकस्वरं न बाधते' इत्यस्यार्थस्य ज्ञापकमेतदिति षाष्ठः सिद्धान्तो भज्येत। ततश्च-"या दम्पती समनसा सुनुते" इत्यत्र सतिशिष्टस्य विकरणस्वरस्य बलीयस्त्वापत्तौ मध्योदात्तं तिङन्तं स्यात्। इष्यते त्वन्तोदात्तम्। एवं "प्रीणीताश्वान्" "हिन्वन्ति सूरम्" इत्यादिष्वपि स्पष्टो दोषः।
द्वितीये तु पक्षे तासिस्वरः सतिशिष्ट इति शेषनिघातेनैव लसार्वधातुकानुदात्त्त्वे सिद्धे तासिग्रहणं ज्ञापकमिति सिध्यति। किन्तु गमिष्यति' `पठिष्यति' इत्यादि न सिद्ध्यति। तथा हि, " सार्वधातुके यक्"(पाoसूo3-1-67)उत्सर्गः, तस्यापवादाः शबादयः स्यादयश्च। तत्र शबादीनामवकाशः-`गच्छति' `पठति'। स्यादीनान्तु `गंस्यते' `पठिष्यते' इति। `गमिष्यति' `पठिष्यति' इत्यत्रोभयप्रसङ्गे परत्वाच्छप् प्राप्नोति।
अथोच्येत-यकः शबादीनाञ्च नोत्सर्गापवादभावः, विविक्तविषयत्वात्। यग्विधौ हि भावकर्मग्रहणमनुवर्त्तते। तच्चावश्यमनुवर्त्यम्, `पचति' `पठति' इत्यादौ शपि परे यङ् मा भूदिति। एवमपि `गमिष्यति' `पठिष्यति' इत्यादि सिद्यतु नाम, यक्‌शपोरुत्सर्गयोः स्यादिभिरपवादौर्बाधसम्भवात्। किन्तु `देविष्यति' `सेविष्यति' इत्यादि न सिध्येदेव। तथाहि, विकरणानां यक्‌शपावुत्सर्गौ, तदपवादाः श्यनादयः स्यादयश्च। श्यनादीनामवकाशः-`दीव्यति' `सीव्यति'। स्यादीनान्तु `पक्ष्यते'। `देविष्यति' `सेविष्यति' इत्यत्रोभयप्रसङ्गे परत्वात् श्यनादयः स्युरिति।
अत्र बहुधा समाहितं भाष्ये। तथाहि, शबादेशाः श्यनादयः करिष्यन्ते, "दिवादिभ्यः"(पाoसूo3-1-69)इति पंञ्चम्या अनुवृत्तायाः कर्त्तरि शबिति प्रथमायाः षष्ठीप्रकल्पनात्। एवञ्च दिवादिभ्यः स्यादिविषये शबेव नास्ति, स्यादिभिरपवादैर्बाधात्। तदादेशाः स्यान्नादयस्तु दूरापास्ता एव। अथवा "दिवादिभ्यः श्यन्"(पाoसूo3-1-69)इत्यादिषु स्यादयोऽनुवर्तिष्यन्ते। दिवादिभ्यः श्यन् भवति लृलुटोस्तु स्यतासी भवतः। दिवादिभ्य इत्येव। एवमग्रेऽपि एतेन लावस्थायामेव प्राप्नुवन्तः स्यादयः सार्वधातुकोत्पर्त्त्ति किमर्थं प्रतीक्षन्ताम्; ततश्च कथं तासेर्लसार्वधातुकानुदात्तवचनस्य उक्तार्थज्ञापकत्वं सङ्गच्छतामिति दूषणं प्रत्युक्तम्, 'सार्वधातुके यक्"(पाoसूo3-1-67)इत्यादौ अनुवृत्तिबलादेव सार्चधातुकोत्पत्तेः प्रतीक्षणीयत्वात्। अथवा श्यनादयः शबादेशा मा भूवन् मा चानुवर्तन्तामुतरत्र स्यादयः। किन्तु `देविष्यति' इत्यादौ स्यादीन् बाधित्वा परत्वात्तावल्लादेशाः। न चानित्यास्ते, आतृतीयाध्यायसमाप्तेर्धात्वधिकारात् स्यादिभिर्व्यवधाने धातोः परस्य लस्याभावेन आदेशाप्राप्तेरिति वाच्यम्, धातोर्विहितस्य लस्येति विहितविशेषणाश्रयणेन लादेशानां नित्यत्वात्। एवञ्च कृतेषु लादेशेषु उभये प्रसक्ताः, स्यादयः श्यनादयश्च। तत्रान्तरङ्गत्वात्स्यादय एव भविष्यन्ति न तु स्यन्नादयः, सार्वधातुकत्वं कर्त्तरीत्यर्थविशेषञ्च अपेक्षमाणान्तेषां बहिरङ्गत्वात्।
(पाoसूo3-1-34)
सिब्बहुलं लेटि(पाoसूo3-1-34)।। धातोः सिप्प्रत्ययो बहुलं स्यात् लेटि परे। जोषिषत्। जुषी प्रीतिसेवनथोः (तुवoआo8)। अनुदात्तेत्। व्यत्ययेन परस्मैपदम्। सिप् इट्। "लेटोऽडाटौ"(पoसूo3-4-94)इति तिपोऽट्। 'इतश्च लोपः"(पाoसूo3-4-97)इतीकारलोपः। बहुलग्रहणान्नेह-पताति दिद्युत्।
सिब्बहुलञ्छन्दसि णिद्वक्तव्यः(काoवाo)।। "प्रण आयूंषि तारिषत्" "अयामिवां सविता साविषत्" णित्त्वाद्द्वद्धिः। "देवस्य हेडोऽवयासिसीष्ठाः" इह यातेरवपूर्वाल्लिङ्ग। बहुलवचनात् सिप् थास् सीयुट् सुट् इट्। "एकाच उपदेशेऽनुदात्तात्"(पाoसूo7-2-10)इति निषेधस्तु न भवति, सिपा व्यवधानात्। सीयुटः सस्य षत्वाभावश्छान्दसः। "तिङ्ङतिङः"(पाoसूo8-1-28)इति निघातः। यच्छब्दयोगे तु `यासिसीष्ठाः' इति पदमाद्युदात्तमेवेष्यते। यद्यपि प्रत्ययस्वरेण थास उदात्तत्वादन्तोदात्तं पदम्प्राप्तं, तथापि सूत्रभङ्गेन सिपन्त्यक्त्वा सबयं कर्तव्य इति भाष्योक्तेः सपि कृते अदुपदेशात् परत्वेन "छन्दस्युभयथा"(पाoसूo3-4-117)इति सार्वधातुकत्वेन च लसार्वधातुकानुदात्तत्वादिष्टसिद्धिः। सपः पित्त्वाभावे उदात्तनिवृत्तिस्वरेण इट उदात्तत्वं स्यात्। तस्मादिह सपः पित्त्वादन्तत्वे स्वरार्थे इति स्थितम्। यथाश्रुतसूत्ररीत्या तु पित्वं व्यर्थमेव। तथाच वार्तिकं-"कित्करणानर्थक्यं चानच्कत्वात्। इटोऽनुदात्तार्थमिति चेत्? आगमानुदात्तत्वात्सिद्धम्" इति।
(पाoसूo3-1-35)
"कास्प्रत्ययादाममन्त्रे लिटि"(पाoसूo3-1-35)कास्‌धातोः प्रत्ययान्तेम्यश्च आम् स्याल्लिटि न तु मन्त्रे। कासृ शब्दकुत्सायाम्(भ्वाoआo624)। कासाञ्चके। लोलूपाञ्चक्रे। अमन्त्रे किम्? कृष्णो नोनाव। अच्छन्दसीति तु नोक्तम्, ब्राह्मणे इष्टत्वात्। "पुत्रमामन्त्रयामास"। "अथ ह शुनः शेष ईक्षाञ्चके"(ऐoब्रा7-3)इत्यादि।
कास्यनेकाच इति वक्तव्यं चुलुम्पाद्यर्थम्(काoवाo)। चुलुम्पाञ्चकार। चुलुम्पतिर्थार्त्तिककारवचनबलात्साधुः। इहाव्याप्त्यतिव्याप्तिपरिहाराय प्रत्ययग्रहणमपनीय तत्स्थाने अनेकाज्‌ग्रहणं कर्तव्यमिति प्रागेव व्याख्यातम्। चकासाञ्चकार। दरिद्राञ्चकार। "आत औ णलः"(पाoसूo7-1-34)इत्यत्र ओकारे विधातव्ये औकारविधानं "दरिद्रातेरार्धधातुके लोपः"(काoवाo)इत्याकारस्य लोपेऽपि औकारस्य श्रवणार्थम्। तेन `दादरिद्रौ' इत्यपि भवतीत्याहुः।
ऊर्णोतेस्तु न भवति, नुवद्भावातिदेशात्। न चैवमपि "इजादिः"(पाoसूo3-1-36)इत्युत्तरसूत्रेणानेकाच्‌त्वनिरपेक्ष आम् स्यादेवेति वाच्यम्, "आमश्च प्रतिषेधार्थम्" इति नुवद्भावफलेषु पाठसामर्थ्यात्तस्या अप्यप्रवृत्तेः भाष्यकारेण संहितया सूत्रपाठमाश्रित्य `अनृच्छोदयायासः' इत्यत्र अनृच्छ उ इत्युकारप्रश्लोषेण उकारान्तस्याम्‌निषेदाच्च। नन्वेवमुशब्दादाचारक्विपि "इजादेः" इत्याम् पूर्वोदाहृतो माधवादिसम्मतश्चानेन भाष्येण विरुध्येतेति चेत्? न, प्रथमपक्षेण तत्सम्भवात्। द्वितीयपक्षे तु मा भूदाम्, यथालक्षममप्रयुक्त इत्यभ्युपगमात्।
यद्वा-उश्चासौ उश्चेति प्रश्लिष्टनिर्देशेन उदन्तस्यैव गुरूमतः पर्युदासः। स च "इजादेः"ति सूत्रस्यैव शेषः। तेन वल्गुफल्गुप्रभृतिभ्यः क्विबन्तेभ्योऽनेकाच्‌त्वप्रयुक्त आम् भवत्येवेति सर्वं सुस्थम्। अत्र काशिका-
आमोऽमित्त्वमदन्तत्वादगुणत्वं विदेस्तथा।
आस्कासोराम्‌विधानाच्च पररूपं कतन्तवत्।।
अस्यार्थः-मित्त्वाभावोऽमित्त्वम्। आमो मकारस्य "हलन्त्यम्"(पाoसूo1-3-3)इतीत्संज्ञा न भवति कुतः? अत् अन्ते समीपे यस्य तथात्वात्। सूत्रे विधानवेलायां समीपे अकारवत्त्वादिति यावत्।
प्रसङ्गादाह-विदेरामि गुणाभावोऽपि तथा। अदन्तत्वादेवेत्यर्थः। "उषविदजागृभ्यः"(पाoसूo3-1-38)इति सूत्रे हि आम्‌प्रत्ययसन्नियोगेन विदेरदन्तत्वं निपात्यते। तत्रालोपस्य स्थानिवत्त्वात् गुणो न भवति। यदि तु `विद ज्ञाने' इति धातुपाठ एव अकारो विवक्ष्यते तदा `वेत्ति' इत्यादि न सिध्येत्, अकारश्रवणप्रसङ्गात्। इदानीमाम्प्रत्ययस्य मान्तत्वमङ्गीकृत्यापि मित्त्वाभावे ज्ञापकमाह-आस्कासोराम्विधानाच्चेति। आमः अमित्त्वमित्यनुषङ्गः। "दयायासश्च"(पाoसूo3-1-37)"कास्प्रत्ययात्"(पाoसूo3-1-35)इति सूत्राभ्यामास्कासोराम्विधानादमित्त्वमामोऽनुमीयते। सति हि मित्त्वे आस्कासोराम् भवन् अचामन्त्यादाकारात्परः स्यात्। तथा च सवर्णदीर्घत्वे सति अकिञ्चित्करः स्यादिति भावः। नन्वदन्तत्वपक्षे आमामन्त्र इति निर्द्देश्यं स्यादत आह-पररूपमिति। यथा "सर्वत्र लोहितादिकतन्तेभ्यः"(पाoसूo4-1-18)इति सूत्रे पररूपं निपातनात्, शकन्ध्वादित्वाद्वाद, एवमिहापीति भावः।
(पाoसूo3-1-36)
इजादेश्च गुरुमतोऽनृच्छः(पाoसूo3-1-36)।। इजादिर्यो धातुर्गुरुमान् ऋच्छतिभिन्नस्तस्मादाम् स्याल्लिटि नतु मन्त्रे। ईहाञ्चक्रे। ऊहाञ्चक्रे। इजादेरिति किम्? ततक्ष। गुरुमतः किम्? इयेषिथ। नन्विह गुणे कृते गुरुमत्ताऽप्यस्त्येवेति चेत्? सत्यम्। गुरुमद्ग्रहणे सति "सन्निपात'(पoभाo87)परिभाषया इहाम्न, लिडानन्तर्यहेतुकत्वाद् गुरुमत्तायाः। यद्वा, `लिटि' इति विहितविशेषणम्। इजादेर्गुरुमतो विहितो यो लिट् तस्मिन्निति। तेन लिण्‌निमित्ता या गुरुमत्ता तस्मान्न भविष्यति। अनृच्छः किम्? आनर्च्छ, आनर्च्छतुः, आनर्च्छुः। `अनृच्छ'इति शक्यमकर्तुम्, "ऋच्छत्यॄताम्"(पाoसूo7-4-11)इति लिटि परे गुणविधानाल्लिङ्गादेव आमोऽप्रवृत्तेः। न च तत्र `ऋच्छति' इत्यनेन अर्तेरेव शितपा निर्द्देश इति वाच्यम्, "ऋच्छत्यॄताम्"(पाoसूo7-4-11)इति सवर्णदीर्घेण स्वरूपेणैवार्त्तेः प्रश्लेषात्। प्रश्लेषे च बहुवचनं प्रमाणम्। अत्र श्लोकवार्त्तिकम्-
वाच्यमूर्णोर्णुवद्भावो यङ्‌प्रसिद्धिः प्रयोजनम्।
आमश्च प्रतिषेधार्थमेकाचश्चेहुपग्रहात्।।
अत्र यङि भावातिदेशः। आमिटोस्त्वभावातिदेशः, नो तयोरभावात्। इडुपग्रह इट्‌प्रतिषेधः। 'विभाषाऽगुणे"(पाoसूo2-3-25)इति पञ्चमी। फलस्य चात्र हेतुत्वम् `अध्ययनेन वसति' इतिवत्। `एकाच' इति वर्त्तमाने "श्र्युकः किति(पाoसूo7-2-11)इति थ इट्‌प्रतिषेधः ततोऽपि हेतोर्णुवद्भावो वाच्य इत्यर्थः। प्रोर्णोनूयते। प्रोर्णुनाव। प्रोर्णुतः। प्रोर्णुतवान्।
(पाoसूo3-1-37)
दयायासश्च(पाoसूo3-1-37)।। एभ्य आम् स्याल्लिटि। दय दानगतिरक्षणेषु(भ्वाoआo482)अय गतौ(भ्वाoआo475)। आस उपवेशने(अoआo11)त्रयोऽप्यनुदात्तेतः। दयाञ्चके। पलायाञ्चक्रे। "उपसर्गस्यायतौ"(पाoसूo8-2-19)इति लत्वम्। आसाञ्चक्रे।
(पाoसूo3-1-38)
उषविदजागृभ्योऽन्यतरस्याम्(पाoसूo3-1-38)।। एभ्य आम् वा स्याल्लिटि। उष दाहे(भ्वाoपo698)विद ज्ञाने(अoपo54)। सत्ताविचारणार्थयोस्तु आत्मनेपदिनोर्लाभार्थस्य चोभयपदिनो नेह ग्रहणम्, परस्मैपदिभ्यामुषजागृभ्यां साहचर्यात्। ओषाञ्चकार, उवोष। विदेरिह आम्‌सन्नियोगेनादन्तत्वनिपातनाद् गुणो न, विदाञ्चकार, विवेद। जागराञ्चकार, जजागार।
(पाoसूo3-1-39)
भीर्हीभृहुवां श्लुवच्च(पाoसूo3-1-39)।। एभ्यो लिट्याम्वा एषां श्लाविव कार्यं च। किं पुनस्तत्? द्वित्वमित्वञ्च। बिभयाञ्चकार, बिभाय। जिर्हयाञ्चकार, जिह्राय। विभराञ्चकार, बभार। जुहवाञ्चकार, जुहाव। इह द्वित्वम् सर्वेषाम्, इत्त्वन्तु बिभर्त्तेः, "भृञामित्"(पाoसूo7-4-76)इति श्लौ विधानात्।
(पाoसूo3-1-40)
कृञ् चानुप्रयुज्यते लिटि(पाoसूo3-1-40)।। आमः पश्चात् लिट् परः कृञ् प्रयुज्यते। कृञिति प्रत्याहारः "कृभ्वस्ति"(पाoसूo5-4-50)इत्यतः "कृञो द्वितीय"(पाoसूo5-4-58)इति ञकारेण। तेन कृभ्वस्तयो ग्राह्याः।
अत्र च प्रमाणम्-"आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य'(पाoसूo1-3-63)इति सूत्रे कृञ्ग्रहणम्। अनुप्रयोगसामर्थ्यादस्तेर्भूभावो न। अन्यथा हि "कृभ्वनुप्रयुज्यते" इत्येव ब्रूयात्। याचयांचकार। याचयाम्बभूव। याचयामास। इहानुप्रयुक्तस्यास्तेर्भावकर्मणोस्तङ। तत्र एशि इटि च रूपे विप्रतिपद्यन्ते। तथाहि-उभयत्रापि "ह एति"(पाoसूo7-4-52)इति हादेशे कृते `ईक्षामाहे' इति केचित्। तासिसाहचर्यादिट्येव हत्वमित्यन्ये। तत्साहचर्यादेव सार्वधातुक एव एति हत्वम्। तेनोभयत्रापि `ईक्षामासे' इति रूपमित्यपरे।

स्यादेतत्, आमन्तमेतदनभिव्यक्तपदार्थकं, नह्यस्मात् कारकविशेषः सङ्ख्याविशेषो वाऽवगम्यते। तत्र विशेषसमर्पणाय न्यायत एवानुप्रवोगलाभात्किमनेन सूत्रेणेति चेत्?
अत्रोच्यते-क्रियामात्रविवक्षायां कारकतत्सङ्ख्ययोश्चाविवक्षायां पाकप्रेरणा जातेत्यादिप्रयोगास्तावत्सर्वसम्मताः। तत्र तथैव `पाचयाम्' इत्येतावन्मात्रप्रयोगे प्रसक्ते तं वारयितुमिदम्। किञ्चस्तिभवत्योरिव विद्यतेरपि प्रयोगे न्यायतः प्रसक्ते तमपि वारयितुमेतत्। किञ्च निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिचि सामान्यवाचकानुप्रयोगार्थं सूत्रमेतम्। अपिच पश्चादेव प्रयोगो यथा स्यात् न तु पूर्वमिति। तेन`चक्रे' `ईक्षाम्' इत्यादि न भवति। अपिच अव्यवहित एव पश्चाद्भावो मुख्यः। तथा च व्यवहितनिवृत्त्यर्थमपीदम्। तेन `ईक्षां राजा चक्रे' इत्यादि न भवति। कथन्तर्हि बव्हृचब्राह्मणे-"तान् ह राजा मदयामेव चकार"(ऐoब्राo6)इति? छान्दसत्वादित्यवेहि। कथन्तर्हि भट्टिकाव्ये-"उक्षाम्प्रचक्रुर्नगरस्य मार्गान्" "बिभयाम्प्रचकारासौ" इति, कथञ्च रघुकाव्ये-"तं पातयां प्रथममास पपात पश्चात्" "प्रभ्रंशयां यो नहुषञ्चकार"इति? प्रमाद एवायम्, "विपर्यासनिवृत्त्यर्थं, व्यवहितनिवृत्त्यर्थञ्च" इति वार्तिकविरोधादित्याहुः।
इहाम्‌प्रकृतेः कृभ्वस्तीनाञ्च सामान्यविशेषवचनतया तदर्थयोरभेदान्वयो बोध्यः। अत एव प्रत्याहारेऽन्तर्भूतस्यापि सम्पदोऽनुप्रयोगो न भवति, अनन्वितार्थकत्वात्। यत्तु "सनाद्यन्ता"(पाoसूo3-1-32)इत्यतो धात्वधिकारात् धातूपसर्गसमुदायस्य नानुप्रयोग इति। तन्न, एवमपि योऽत्र धातुः पदिः तन्मात्रस्य उक्तरीत्यैव वारणीयत्वात्। एवञ्च सामान्यस्य सन्निहिते विशेषे पर्यवसानात् तद्गतसाघनादिविशेषाभिधानम् आमन्तगतविशेषाभिधानमेवेति सम्पद्यते। अत एव अनुप्रयुज्यमानयोर्भ्वस्त्योरामन्तवशेन सकर्मकत्वात् ताभ्यां कर्मणि लिट्। तथाच माघः-"तस्यातपत्रं बिभरांबभूवे" इति। श्रीहर्षश्च-
तपर्तुपूर्तावपि नेदसाम्भरा विभावरीभिर्बिभराम्बभूविरे। इति।
(पाoसूo3-1-41)
विदाङ्कुर्वन्त्वित्यन्यतरस्याम्(पाoसूo3-1-41)।। वेत्तेर्लोट्याम्, गुणाभावः, लोटो लुक्, लोट्‌परस्य कृञोऽनुप्रयोगश्च वा निपात्यते। इतिशब्दः सर्वेषां लाड्‌वचनानामुपलक्षणार्थः। सूत्रे प्रथमपुरुषबहुवचनप्रयोगस्तु प्रचुरप्रयोगत्वमात्रेण। विदाङ्‌करोतु। विदाङ्कुरुताम्। विदाङ्कुर्वन्तु।
(पाoसूo3-1-42)
अभ्युत्सादयाम्प्रजनयाञ्चिकयांरमयामकः पावयाङ्क्रियाद्विदामक्रन्निति च्छन्दसि(पाoसूo3-1-42)।। एते छन्दसि वा निपात्यन्ते। सदिजनिरमीणां ण्यन्तानां लुङ्याम्प्रत्ययः। चिनोतेरपि शुद्धस्य लुङ्याम्, द्विर्वचनं, कुत्वञ्च। `अकः' इत्यनुप्रयोगः प्रत्येकं चतुर्भिः सम्बध्यते। पवतेः पुनातेर्वा ण्यन्तस्य आशीर्लिङि आम्, `क्रियात्' इत्यनुप्रयोगश्च। विदेर्लुङ्याम्, गुणाभावः, `अक्रन्' इत्यस्यानुप्रयोगश्च। `अकः' इति कृञो लुङि तिप्। "मन्त्रे घस"(पाoसूo2-4-81)इति च्लेर्लुकि तिपो "हल्‌ङ्यादि"(पाoसूo6-1-68)लोपः। `अक्रन्' इति तत्रैव बहुवचनम्। अभ्युत्सादयामकः। `अभ्युदसीषदत्' इति पक्षे भाषायां च। प्रजनयामकः, प्राजीजनत्। चिकयामकः, अचैषीत्। रामयामकः, अरीरमत्। पावयांक्रियात्, पाव्यात्। विदामक्रन्, अवेदिषुः।
।। इति श्रीशब्दकौस्तुभे तृतीयाध्यायस्य प्रथमे पादे तृतीयमान्हिकम् ।।