शान्तिकमलाकरः/अष्ठमः भागः
← सप्तमः भागः | शान्तिकमलाकरः अष्ठमः भागः [[लेखकः :|]] |
नवमः भागः → |
आ यु ष्य हो म प्र यो गः
मासि मासि प्रत्यब्दंवा जन्मर्त्रे कुहू शनिवार संक्रमण चंद्रसूर्य ग्रहणादिषु जन्मनक्षत्र योगे ज्वारादि महाव्याधि पीडायांवा अपमृत्यु परिहारार्थं आयुष्य होमं कुर्यात् ।। 1 ।।
विघ्नेश्वर पूजा पुरस्सरं ममायुकदोष निवृत्यर्थमायुष्य होमं करिष्य इति संकल्पः ।। आचार्य पक्षे ममामुक पीडा परिहरार्था आयुष्य होमाख्यं कर्म कर्तुं आचार्यंत्वां वृणी महा इतित्याचार्यं वृत्वा । आचार्यः आमुक नक्षत्रे राशौ जातस्यामुक शर्मणः आमुकदोष निवृत्यर्थं कर्म कर्तुं आचार्यंत्यां वृणी महा इतितयाचार्यं वृत्वा । आचार्यः आमुक नक्षत्रे राशौ जाचस्यामुक शर्मणः आयुकदोष निवृत्यर्थं मायुष्य होमाख्यं कर्म करिष्य इति संकल्प्य देव यजनोल्लेख नाद्यग्निं प्रतिष्ठप्य प्रणीता प्रणयनान्तं कृत्वाग्नेरीशान्यभागे तंडुलै श्चतुरश्रं स्थंडिलं कृत्वाष्चदळ पद्मं निलिख्य तदुपरि कस्तूरी कुंकुमादि वासित पुण्य तीर्थपूरितं पंचत्व क्पंच पल्लवादि शोभितं नारिकेळ वस्त्रमुग्म सहितं कुंभं निधाय तस्मिन् कर्षमात्र सुवर्ण निर्मितां मृत्युंजय देवता प्रतिमां पंचगव्यादिना संशुद्धां निधाय त्र्यंबकमिति मंत्रेण मृत्युंजय देवता मावाह्य सर्वोपचारै स्संपूज्य प्राण चरुमायुष्मच्चरुंच प्रत्येकं निर्वापण धर्मेण श्रपयिपुत्वाभिघार्य प्रचीन मूदी चीनंवोद्वास्य प्रतिष्ठत मभिघाब्रह्मज्य संस्काराद्यग्नि मुखान्तं कृत्वा आयुष्मच्चरोरवदान धर्मेणावदा यामुष्टे विशअवतो दधतिति पूरोनुवाक्या मनूच्यायुर्दा अग्निइति याज्यया हुत्वा स्विष्टकृत मवदायान्नतः परिधि सादयित्वाष्टौ षट्चतुरोवा ब्राह्मणान्वृत्वातैर्यो ब्रह्मेत्याद्यष्ट भिर्घृत सूक्तेर्या वदष्टोत्तर सहस्र माज्या हुती रुपजुहोत्यंतिमे पर्याये विष्टोत्वन्नो अन्तम इतिचहुत्वातैर्यो ब्राह्मत्याद्यष्ट भिर्घृत सूक्तेर्य वदष्टोत्तर सहस्र माज्याहुती रुपजूहोत्यंतिमे पर्याये विष्टोत्वन्नो अन्तम इतिचहुत्वा प्रतिस्वाहकारंहुत शेषमाज्यं प्राणचरौ संपातं निनयॆद मुक स्याप मृत्युर्नश्यत्वा युर्वर्धता मितिव्यन्नो अन्तम इतिहुत्वा प्रतिस्वाहकारंहुत शेषमाज्यं प्राणचरौ संपातं निनयॆद मुक स्याप मृत्युर्नश्यत्वा युर्वर्धिता मितिव्यस्ताभि स्समस्ता भिर्व्याहृतिभिः प्रति मंत्रं जुहुया दथस्विष्टकृतं हव्यवाहमिति हुत्वा जयादि तंत्रशेषं समाप्य कुंभे पुनः पूजांकृत्वा देवमुद्वास्य वारुणै रब्लिंगैर्मार्जयित्वा हुतशेषान्ने नाग्नॆः पुरस्ताद्बहिः परिस्तराद्दूर्वा नृक्षतोदकंनिनीय नमो अस्तु नीलग्रीवायेति रुद्राय बलिंदत्वा तदुपरि पूर्व वदक्षतोदकं निनीय संपातित प्राण चरोर वदाया युरसीति सकुटुंबः प्राश्या चम्ययत इन्द्र स्वस्तिदेति द्वाभ्यां जठरमभि मृश्याचार्याय कलश वस्त्र प्रतिमादि दत्वा दक्षिणामृत्विग्भ्योदत्वा दोष तारतम्यानुसार मपमृत्यु निवारणार्धं तिल कूष्णाण्डायः
पिण कृष्ण कंबळादि दानं कत्वा भूरितानंकृत्वा ब्राह्मणान् भोजयेदित्याह भगवान् बोधायनः - केचिदायुष्मच्चरोः प्रदानाहुतिं हुत्वायोब्रह्मेत्याद्युपहोमं तदन्न समिदाज्यैः कुर्वन्ति शेषं समानं ।।
इति आयुष्य होम प्रयोगः ।।
अथ अपमृत्यु निवारक शांतिविधानं
ई मृत्युंजय विधानंबु अपमृत्यु प्रास्तमैनप्पुडुनु, रोगोपोद्रवमुलचे बहुकालमु पीडिंपबडुनप्पुडुनु अत्यावश्यक मुगा चेयुट श्रेयस्साधकंबु.
अथप मृत्युनिवारणं - मदनरत्ने बोधायनः ---
अथ मृत्युंजयकल्पं व्याख्यास्यामो जन्मनक्षत्रे पुण्यनक्षत्रे त्रिजन्म निवार ब्राह्मनन्नेन परितुष्य पुण्याहं स्वस्तिऋद्धिरितिवाच यित्वा देवयजनोल्लेखना द्यग्निमुखांतं कृत्वा सावित्र्यायवान् पक्वान् जुहोति प्रादेशमात्रास्ति स्रोदूर्वा समिद्धोष्ट सहस्र मष्ट शतंवा दधि मदु घृत पयांसिसंमेळ्या भ्यज्या दधाति ।। 1 ।।
अपैतु परंमृत्यो मानोमहंतं मानस्तोके त्रियंबकं ।। 2 ।।
एते सहस्र मित्यथाज्याहुतीरु जुहोति । मृत्युर्नश्य त्वायुर्वर्थ तांभू स्वाहा ।। 3 ।।
मृत्युर्नश्य त्वायुर्वर्थतां भुव स्वाहा । मृत्युर्वश्य त्वायुर्वर्थतांस्वं स्वाहा । मृत्युर्नश्य त्वायु वर्थतां बूर्भुवस्स्वु स्वाहा ।। इति स्विष्टक त्प्रभृति सिद्धमाधेनु वरप्रदाना दथाग्नेणाग्निं दूर्वास्तंभे हुत शेषं बलिं दधाति तच्चं योरावृणी मह इत्यथ दक्षिणां ददाति धेनुं वृषभमनड्वाहं हयं हिरण्यं कांस्यंवा सोवेत्याहा भोदायनः ।।
अथक्रमः :---
कर्ताष्टा चतुरोवा विप्रान् संपूज्य पुण्याहं वाचयित्वा संकल्पाग्निं प्रतिष्टाप्य निर्वापणादिना सावित्र्याचरुं श्रपयित्वाज्य भागांतेचरु मवदाय सावित्री मानूच्य तदैवहुत्वाति स्वस्तिस्रो दूर्वा गव्यं दध्याद्यक्ता अपैतुमृत्युरिति षड्भिः षड्गृहीतानि हुत्वा ब्रह्म विसर्जनांतेग्ने रग्रेणदूर्वा स्तंभेsक्षतो दकं निनीय हुतशेषेण तच्छंयोरिति बलिं दत्वाक्षतोदकं निनीयाग्नं संपूज्य सूर्यं नमस्कृत्य विप्रान् भोजयेत् ।।
एवं स्वकर्तृत्वे :-----
आचार्यपक्षे ग्रहयज्ञं दिनत्रयं रोगिणां कार्यः ।
?Bप्रजलरोगो यावद्रोग निवृत्तिस्तावत् प्रत्यहं कार्यः ।।
अथ महा मृत्युंजयादुर्वा गुडूची होमाः
अथ महा मृत्युंजय होमं व्याख्यास्मामः :---
कुर्याद्रोगेभिचारे दीर्घरोगे ग्रहपीडायां मृत्युं प्राप्तो महाव्याधौ महापदि चंद्र सूर्य ग्रहमदोषे जन्मनक्षत्रे विषनाढ्यां कुहूयोगे वान्येषु महामयेषु परिहारार्थं मासि मासि जन्मनक्षत्रे प्रोकैप्रोकैकाले वत्सरेवा आचार्येणावा स्वयंवा आयुष्कामः कुर्यात् ।। स्नात्वा पुण्याहं वाचयित्वा प्राणानायम्यमुकशर्मण आयुष्कामो महा मृत्युंजय होमं करिष्य इति संकल्पाग्ने रुपसमानाधि पात्र प्रयोगकाले दूर्वात्रिकन्यषट्त्रंिश दधिकं शतपत्र मासादयेत् ।। गुडाची खंडानि चतुरंगुल प्रमाणानि ब्राह्मणं दक्षिणतो दर्भेषु निषाद्य व्रीहि तुंडुलान्निर्वपामीति तूष्णीमवहतान् कृत्वा प्रक्षाळ्याज्यं संस्कृत्य चरुणा सह पर्यग्निकरणं कृत्वा स्रुवस्रुचमार्जनं संस्कृत्य चरुणा सह पर्वग्निकरणं कृत्वा स्रुवस्रुचमार्जनं पंचावत्तिनोभि घार्यः ।। अपेतु मृत्युं शचीपतिरितस्तं पुरोनुवाक्या मनूच्य परंमृत्यो अमपरेहिवीरा नित्यन्तयाज्यया जुहोति - मृत्युवदमितित्यागः ।। पूर्वादुपस्तीर्यावदाय हरिग्ं हरन्तं विक्रमस्वेति पुरोनुवाक्या मनूच्य माछिदोमृ - विथेमेति याज्यया जुहोति स्वाहाकारेणो भयोर्गोमः पूर्ववद्देदुशः । आज्येन महाव्याहृतिभिश्च जुहोति ।। भूरग्नर्होमः पृथिव्यैच महातेच स्वाहात्यादैः पंचभिः पंचाहुतीन् हुत्वा ।। अथ दूर्वात्रिकं अपैतु मृत्युरमृतन्न आगान् । परंमृत्यो अनुपरेहि पंथां वीरान् स्वाहा ।। वातं प्राणं जरामशी महि स्वाहा । अमुत्रभूयादथयद्यु - शचीभि स्वाहा ।। शलैरग्नि - मह्यग् स्वाहा ।। हरिग्ं हरंत विक्रमस्व स्वाहा । देवेभ्य इदं ।। माछिदो मृत्योमावधीः निधेनु स्वाहा ।। रुद्रायेदं ।। प्रजापतेनत्वं - रयीणां स्वाहा । यत इंद्रभयामहे - जहि स्वाहा । स्वस्तिदा - अभयंकरः स्वाहा ।। त्रियंबकं - मामरीतात् स्वाहा ।। अपमृत्यु - सहस्रिणग्ं स्वाहा । अमु - मवस्स्वाहा । अमु - भूर्भुवस्सुवस्वाहा । इत्ये तैरेकविंशति मंत्रै षोडशपर्यायं जुहुयात् ।। षट्त्रिंश दधिकशथत्रयाहुतिर्भवति ।। अथाज्येनाष्टपर्यायं एकविंशति मंत्र प्रतिमंत्रं जुहुयात् । अष्टाधिकषष्टि शताहुतिर्भवति ।। पुनरनेन गुडाच्या षोडसपर्याय मेकविंशति मंत्रर्जुहोति । षट्त्रंशदधिकशत त्रयाहुतिर्भवति । पुनरनेनचाष्चपर्यायेण एकविंशति मंत्रैः प्रत्यृचं गुडूच्या जुहुयात् ।। पुनर्महाव्याहृति भिर्हुत्वा ततः स्विष्टकृत मवदाय हव्यवाह मभिमातिषाहं - हुवेमों स्विष्टमग्ने आयुस्स्वाहेति स्विष्टकृद्धोमं जुहोति ।। ततो जयादीन् हुत्वा अनंतरं परिध्यंजनं कृत्वा जपादिपरिषेचनांतं कृत्वाग्नेणाग्निंदार्वा स्तंबेषु हुतशेषं निदधाति ।। सर्वोवैरुद्रस्तस्मै रुद्राय समो अस्तु ।। विश्वं भूतं - अस्तु इतिद्वाभ्यां निवेदयेत् ।। आयुर्दा अग्ने रक्षतामिमं स्वाहा ।। इत्यग्नौ समिधमादधाति
।। जातवेदाय दिवावृत्स्व इत्युपस्थाय हुतशेषं हविर्हवि राज्यशेषं चाग्निरायुष्मानिति पंचबिर्निवेदयत् ।। अग्निरायुष्मानिति पंचभिः पुनरेकविंशथि ऋग्भिश्चतुवान् रमभिमंत्र्यायुरसि विश्वायु रसि - गेषमिति सर्वचरुशेषं प्राश्याचम्य जठकमभिमृशति पंचभिः पुनरेकविंशति ऋग्भिश्चतुवान् रमभिमंत्र्यामुरसि विशअवायु रसि - गेषमिति सर्वचरुशेषं प्राश्याचम्य जठरमभिमृशति ।। यत इंद्रस्वस्तिदा इत्येताभ्यां गुरवे वरंदत्वा आज्ये रूपग् रूपमिति आवेक्ष्याज्यं दत्वा ।। ऋत्विग्भ्यो ब्राह्मणेभ्यश्च दक्षिणां दत्वा ब्राह्मणान्बोजयेत् ।। अपूपै र्घृतपायसैः एवं कृत्वा आयुषान् भवति आयुत होमाद्दीर्घायु र्भवति ।। लक्षहोमा त्सहस्रायुर्भवति ।। इति बोधायनोक्त मृत्युंजय शांतिः ।। अस्मिन्नन्वाहितेग्नौ जातवेद समिद्यादि चक्षुषि अज्येनेत्यंते अत्रप्रधानं मृत्युंद्विवारं च रुद्रव्येण अग्निं पृथिवीमहतः ।। वायंतरिक्षे महतः । आदत्यद्युमहतः ।। चंद्रमाद्युर्नक्षत्रा द्युमहतः देवाः पितृभूरादयः आज्येन पुनरत्र प्रधानं ।। वैवस्वतं शचीपतिं ।। अश्विनौ अग्निं हरिं मृत्युं रुद्रं द्विवारं प्रजापतिं । इंद्रमघवंतं । इंद्र मभयकरं त्र्यिंबकं अग्निं मृत्युं ।। जातवेद समग्निं जातवेदस पावकवैश्वानर वैदुत्यं अग्निं वायुं सूर्यं प्रजापतिं प्रत्यृचं षोडश पर्यैयैः दूर्वात्रिक युक्त गुडूचीखंडैः । पनस्ता एवं प्रत्युच मष्ट पर्याय माज्येन पुनस्तां पुनस्ता एव प्रत्यृचं षोडश पर्वायं गुडूची खंडैः पुनस्ता एवेत्यृच मष्टपर्याय माज्येन पुनरत्र प्रधानं अग्निं पृथिवी महतः । वायुव्यंतरिक्षे महतः । आदित्य द्युमहतः । चंद्रमा नक्षत्राद्यु महतः देवाः पितृ भूरादयः आज्येन शेषेण स्विष्टकृत मिध्मसन्नहनेनच रुद्रं जयादींश्च ।।
इत्यायुष्य होमे गुडूची शांतिः ।।
ऋग्विदाने :----
व्याधिनायोभि भूतस्याद्घोरेण प्राणहारिणा । चुतर्दशी मुपोष्यैकां कृष्णस्य जुहुयाच्चरुं ।। अते सूक्तेन रौद्रेण प्रत्यृचेवाग्यतः शुचिः । पूर्वमाज्याहुतीर्हुत्वा तधोप स्थाप्य शंकर । हविश्शेषेण वर्तेतस एकांत मतंद्रितः । पूर्णे मासे जयेन्मृत्युंरोगेभ्यश्च प्रमुच्यते ।। तत्रैव - उपतिष्ठेत राजानं यमं सूक्तेन वैद्विजः । स्थाली पाकंच कुर्वीत पक्षयोर्य मदैवतं । अष्टम्यांच चतुर्दश्यां यजेतह विषावयं । परेयुवां संप्रसमिति सूक्तमंत्रं प्रयोजयेत् ।।
अथ सुलभोपाये नायुष्याभि वृद्धिः
पुरायुषिभयं तस्य नजानामि प्रति क्रियां । तथापि शास्त्र मालोच्य वच्मिशांतिं
सुखावहं । धर्मराज प्रियस्तोत्र मन्त्रास्ते जुहुयाद्धविः । वैशाख्यां पौर्णिमायांतु कर्म नित्यं प्रयोजयेत् ।। 1 ।।
तत्रैव - मृत्युमेव प्रवद्येत परंमृत्यो जपन्द्विजः । सक्तभोजी मिताहरस्पं स्रयन्सं स्तरंसदा ।। 2 ।।
नैतं पुरायुषो मृतयुर्नयतेन सुत प्रजं । फलाहारो जयेन्मृत्युं त्रिभिर्वश्यो मिताशनः ।। यद्वातत्रैव ।। क्षीणायुरिति मन्येत कंचिद्यस्सुहृदं प्रियं । युत्तेय मिति सुस्नातः तस्यमूर्ध्नान सूलभेत् ।। सहस्र कृत्वः पंचाहं जपेदायुर्लभेतसः ।। घृतेन सिंदु द्वीपस्य सूक्तेनैनंच लेपयेत् । संविशेच्छ यनेनित्यमे तन्मंत्रं जपेतलै ।। जीवामीति प्रयुंजीत नित्यमेतां गृहेवसन् । स्रोतांभस्य भ्यज्यगात्राणि सुखी भवति विज्वरः ।। अन्येच लक्षपार्थिप पूजादयो मत्कृते पूर्व कमलाकरे ज्ञेयाः ।। तथा ।। रुद्रेण तिल तैलेन रुद्राभिषेकोप्यप मृत्यु परिहारः । रुद्र विधानंच वक्ष्यामः ।।
इति अपमृत्यु निवारणं ।।
अ ना वृष्टि प रि हा र ः
अथानावृष्टि शांतिः ।। ऋग्विधाने :---
अथावहेति सूक्तांतु वृष्टिकामः प्रयोजयेत् । निवाहारः क्लिन्नवासा अभिरेण प्रवर्षति ।। हुत्वायुतं वैतसीसां क्षीराक्त्नानांहुताशने । महद्वर्ष मवाप्नोति सूक्तेनाब्दैतेनहि ।। तत्रैव - नाभिदघ्नं विगाह्यंभः प्राङ्मुखः प्रयतश्शुचिः । सूक्ताभ्यां त्रिवृदेताख्या मुपतिष्ठे द्दिवाकरं । त्रिस्रोवाचः पर्जस्य एहित्यादय इत्यर्थः ।। अनश्नतातु जप्तव्यं वृष्टिकामेन यत्नतः । पंचरात्रे व्यतीतेतु महद्वार्ष मवाप्नुयात् ।। ताद्वा तत्रैव ।। वृष्टिकामो यताहारः प्रपद्येत बृहस्पतिं । पायसेनोप हरेण होमेनच नमन्वितः । बृहस्पते अतीत्येत द्वृष्टिकमः प्रयोजयेत् । पर्जन्यंच नमस्कृत्य वृष्टिं विंदति शोभनां ।।
इत्यानावृ,्टिः वैखायनः :----
अदातः पर्जन्यः वृष्टिं व्याख्यास्यामो ब्राह्मणान् वेदपारगान् पूर्व मभ्यर्च्य वरुण प्रतिघां पूजयित्वोदके स्थित्वा वरुणंध्यात्वा तत्सवितुरिति पच्चोर्दर्चशोsनवानं वेदादीन् जपती मंम्मे वरुणेति पंचर्च मुदुत्तम मितिषडृचं यदंति यच्छेति उदायुषामहग्ं इंद्रोय ओजसावाच मिंद्रियोणयोवैनस्तदश मैत्रा वरुणी मसौसारीं वरुणं प्रजापतिं वरुणाय
वायुवेता द्वेहिरण्य वर्णाः ।। पवमानो वृषासो आग्ंशुः सिंधेयो सौयोपसूदि सर्वानुवाकान् सुवर्णं सहस्रशीर्षाद्भ्यश्च आदित्योवै पृथिवी समित्यनुवाकान् पठित्वा जलाद्भहिर्गत्वा प्रत्युङ्मखो भूत्वा पीवोन्नामित्यनुवाके मेकादश वारं जपित्वा । पुनर्मारुत मसीति चतुरोनुवाकान् जपित्वा एहिपर्जन्य । एहिवरुण - एह्यपांपते - पुरोवातं जनय जनय - पश्चाद्वातं शमय शमय - सद्य स्सुवृष्टिं धेहिपर्जन्यो मित्युचैस्त्रं वारं जपेत् । निभण्डकसुत श्रीमान् - ऋष्य शृंगाय - यस्मकेशेषु - मैत्रावरुणीं द्विरूपा मालिभेत - मारुत मसीति चतुरोनुवाकान् - पर्जन्याय प्रगायेतेति - वर्षप्रदं - अपोहिष्ठेति - हिरण्य शृंगमिति जहित्वा शुक्ल वस्त्राणि धारयन्ततः पर्जन्य होमं करिष्ये इति संकल्प्य विधि वदग्निं प्रतिष्ठाविंशतिवान् पुरोवातो वर्षन्निति जुहुयादृषान् यपुरो वातायेत्युद्देश त्यागः ।। ततो जयादीन् पूर्णाहुतिं हुत्वा शांतिपाठं कुर्यादाचार्याय वरुण प्रतिमामृत्विग्भ्यो दक्षिणामिति सामान्य पर्जन्य विधिः ।।
इति पर्जन्य शांतिः ।।
अथ ऋग्विधाने विनियुक्त मंत्राणआं सामान्य विधिः
तत्रैव :----
पुनश्चरण मादौतु कर्मणां सिद्धिकारकं ।
केशश्मशृलोम नखान्वापयित्वा प्लुतश्शुचिः ।। 1
तिष्ठे दहनिरात्रौतु शुचिरा शीतवाग्यतः ।
सत्यवादी पवित्राणि जपेच्च व्याहृती स्तदा ।। 2
ओंकाराद्यां स्तुतीन् जप्त्वा सावित्रीं चतदित्यृचं ।
अपोहिष्ठेति सूक्तंतु शुद्धवत्योघमर्षणी ।। 3
शंवत्यः स्वस्तिमंत्र्यश्च पापमानस्तधैवच ।
सर्वत्रै तत्प्रयो क्तव्य मादावंते च कर्मणां ।। 4
आसहस्रादाशता द्वातद्दंशां शमथोजपेत् ।
ओंकार व्याहृतिः स्तिस्रः सावित्री मथवायुतं ।
तर्पयेदद्भिस्तथाचार्य ऋषीं श्छंदांसिदैवतान् ।
प्रपद्येति विरूपाक्ष रौद्र मंत्रगणं जपेत् ।। 5
आनार्यैर्नचभाषेत नशूद्रैर्नापिगर्हित्ैः ।
नरस्वलयानार्या पतितै र्नांत्यजैर्नृभिः ।। 6
मंगशाचार्ययुक्तस्या त्रिरह्नोभ्यपयन्नृपः ।
अंते द्वादशरात्रस्या त्सलीपाकं प्रकल्पयेत् ।। 7
अग्नेये चाधसोमाय तृतीयाच तयोस्सह ।
वैश्वदेवी च रौद्री च जुहुयादुत्तरे तथा ।। 8
अवसानस्य पतये तथा ममतयेपिच ।
धन्वंतराय इत्यन्या गंधर्वाप्सरसामपि ।। 9
(दशमी ब्राह्मणस्पत्या वरातु ब्रह्मणेस्मृता ।
सरस्वती तधेष्टोरों त्यासौषिष्टकृत्तथा ।।) 10
आज्याहुतयएवादौ स्थालीपाकेहुते पुनः ।
हुत्वाग्निं तर्पयोद्विप्रान् पितृभ्यश्च प्रकल्पयेत् ।। 11
हुतंशेषं विधानेन शुचिर्भुंजीत वाग्यतः ।
तथा प्राजापत्यकृछ्रं कृत्वा चांद्रायणाद्यपि ।। 12
एभिर्व्रतैर्विपूतात्मा कुर्या त्कर्माण्यतंद्रितः ।
इष्टान्कामां स्ततः सर्वा नवाप्नोति नसंशयः ।। 13
कणपिंण्याकतक्राणा मेकैकं शोधनं भवेत् ।
एवं शुद्धप्यकर्माणि मंत्रैर्यक्ष्युंतु तद्यधा ।
त्रिरात्र मेवोपवसे दादितः सर्वकर्मणां ।
त्रीणिन क्तानि वाकुर्या त्ततः कर्मसमारभेत् ।। 14
तथा :----
सर्वत्र दक्षिणांदद्या द्दानंवा सिद्धिकामदं ।
नत्वेवा दक्षिणं कर्म किंचिद स्तीति शौनकः ।। 15
शक्त्याथपूर्णपात्रेण संमितायत बोधवेत् ।
वृषभैदश दद्या द्येनवातुष्यते गुरुः ।। 16
इति ऋग्विधानोक्त मंत्रसाथनं.
अ थ श्री सू क्त वि धि ः
ऋग्विधाने :----
यइच्छेद्वरदां देवीं श्रियं नित्यंकुलैस्थितां ।
सशुचिः त्रयतोभूत्वा जुहुयादाज्यमन्वहं ।
श्रीयः पंचदशर्मंच श्रीकामस्सततं जपेत् ।
आवाहये छ्रियंपद्मे पंचभिः कनकेपिवा ।। 1
उपहरानुपहारच्छुक्लान् भक्ष्यान्पयोदधि ।
स्थालीपाकं च शालीनां पयसा संप्रकल्पयेत् ।। 2
चांद्रायण विपाकस्स्या त्प्रपद्ये त्प्रयतः शिय्रं ।
सर्वौषधीभिः साराभि स्स्नात्वाद्भिः पावनैरपि ।। 3
उपैंतुमां देवसख इति राज्ञोभिषेचनं ।
मनसः कामित्येव पशुकामाभिषेचनं ।। 4
कर्दमेनेतियःस्नायान् प्रजाकामः शुचिव्रतः ।
अश्वपूर्वामितिस्नाया द्राज्यकाम शुचिर्व्रती ।। 5
रोहिते चर्मणिस्नायात् ब्राह्मणस्तु यथाविधि ।
राजा चर्मणिवे याघ्रे क्षत्रियस्त्वथ रौरवे ।। 6
बस्तचर्मणिवैशस्तु होमःकार्य स्त्वनंतरं ।
चंद्रामितितु पद्मानि जुहुयात्सार्पिषाद्विजः ।। 7
आदित्यवर्ण इत्यनया बिल्वहोमे विधीयते ।
बिल्वस्थ एववाग्निस्यात् स्थालीपाकंहुने द्विजः ।। 8
दशसहस्त्रीकोहोमः श्रीकामः प्रथमोविधिः ।
हुत्वातु प्रयुतं सम्यगनंतां विंदेत श्रियं ।। 9
अयुतं शतकृत्वस्तु जप्वा श्रियमुपाश्नुते ।
अनंता मव्यचिच्चिन्नां शाश्वतीं विंदतेश्रियं ।। 10
असक्तौजप एवै कोदश साहस्त्रीको परः ।
जप्त्वातु प्रयुतं सम्यगनंतां विंद्यते श्रियं ।। 11
अयुतं शतकृत्वास्तु जप्त्वा श्रियमुपाश्नुते ।
जुहुयान्नित्यं पद्मान्ययुतकेशिनि ।। 12
दृष्ट्वा श्रियंतूपरमे त्किलासत्वाद्द्विजस्तुवै ।
बिल्वाशी बिल्वनिलयः शुद्धबिल्वानि सर्पिषौ ।। 13
एकविंशति रात्रेण परां सिद्धिं विन्ददि ।
पद्मान्यथापी बिल्वानि सत्यकामस्समृच्छति ।। 14
अत्र विष्णुधर्मेषु पुष्कर उवाच :---
हिरण्यवर्णां हरणीं मृचः पंचदश द्विज ।
श्रीसूक्तं कथितं पुण्यं ऋग्वेदे पुष्टिवर्दनं ।। 15
रथे अश्वेषु वाजेषु चतुस्रश्च तथा ऋचः ।
सूक्तमेतद्वजुर्वेदे कथितं पुष्टिवर्दनं ।। 16
श्रियंतियं तथा साम सामवेदे प्रकीर्तितं ।
श्रियंदी दातुमयिदेहि प्रोक्तमाधर्वणे तथा ।। 17
श्रीसूक्तंयो जपेत् भक्त्या तस्याsलक्ष्मीर्विनश्यति ।
जुहुयाथ्यश्च धर्मज्ञो हविष्येण विशेषतः ।। 18
श्रीसूक्तेनतु पद्मानां घृताक्तानां भृगूत्तम ।
अयुतं होमयेद्यस्तु वह्नौ भक्ति युतो नरः ।। 19
पद्महस्तद्वयालक्ष्मी र्भजंत मुपतिष्ठति ।
दशैयुतंतु पद्मानां जुहुयाद्यस्तथाजले ।। 20
नापैतितत्कुलाल्लक्ष्मिर्विष्णोर्वक्षगता यथा ।
घृताक्तानांतु बिल्वानां हुत्वा रामायुतं तथा ।
जहुवित्तमवाप्नोति सयावन्मसेच्चति ।। 21
बिल्वानां लक्षहोमेन कुललक्ष्मि मुपाश्नुते ।
पद्माना मथबिल्वानां कोटिहोमं समाचरेत् ।। 22
सत्यलोक मवाप्नोति देवेंद्रत्व मपिधृवं ।
संपूज्य देवीं वरदां यथा वत्पद्मैः सितैर्वा कुसुमैस्थथान्यैः ।। 23
क्षीरेण धूपैः परमान्न भक्ष्यैर्लक्ष्मी मवाप्नोति विथान तश्च ।।
इति विष्णु धर्मोत्तरे श्रीसूक्त विधिः ।।
अ थ नी रा ज न ं
तत्रैव पुष्कर उवाच :----
पूर्वोत्तरेच दिग्भागे नगरात्सु मनोहके ।
विस्तीर्णंकार योद्राजासु मनोहर मंटपं ।। 1
कटैर्गप्तं कुशान्तीर्णं पताकाध्वज शोभितं ।
तोरण त्रितयं शस्त्रं पाङ्मखंकार योच्छुभं ।। 2
कार्यं षोडश कन्तेतु तत्र कार्यं भृगूत्तम ।
तोरणाद्दक्षिणेभागे तत्र कार्यं यथाश्रयं ।। 3
देवतार्चाभवे तत्र तथाग्नि हवनि क्रिया ।
पंचरंगक सूत्रेण शतग्रंधि मनोरमां ।। 4
मधमे तोरणे कुर्याच्छत पाशितु मध्यमां ।
छादयित्वा कुशैस्तांतु मुदा संछाधयेत्पुनः ।। 5
तस्साश्च लंघनंवर्ज्यं प्रयत्ना त्सर्वजंतुभिः ।
नलंघिता सायावत्स्या त्प्रथमं राजहस्तिनां ।। 6
चित्रंत्यक्त्वा यदास्वातीं सवित्रा प्रतिपद्यते ।
ततः प्रभृतिकर्तव्या यावत्स्वातौ रविस्थितः ।। 7
मंटपे प्रत्यहरिदेवाः पूजनीया द्विजोत्तम ।
ब्रह्मनिष्णुश्च शंभुश्च शक्रसैवानिला नलौः ।। 8
विनायकः कुमारश्च वरुणो धनदो यमः ।
विश्वान् देवान्महाभाग उच्छैश्रव समेवच ।। 9
अष्टौ महगजाः पूज्य स्तेषां नामानिमेशृणु ।
कुमुदैरावतौ पद्मः पुष्पदंतोथ वामनः ।। 10
सुप्रतीकों जनोनील एतोष्ट्वौ देवयोनयः ।
पूजाकार्या गृहर्क्षाणां तधैवच पुरोधन ।। 11
ततश्च जुहुयाद्वह्नौ पुरोधास्सु समाहितः ।
यथा विमतदेवानां मत्रैस्तल्लिग संज्ञकैः ।। 12
तथाच मंत्रहीनानां प्रणवेन महाभुज ।
समिधः क्षीर वृक्षाणां तथा सिद्धार्डकानिच ।। 13
घृतंतिलानि धर्यज्ञ तथा चैवाक्षतानिच ।
हुतवाच कलशान् कुर्यात्सोदकान् धान्य संयुतान् ।। 14
भल्लाच कलि सिद्धार्थवचा कुष्ट प्रियंगुकः ।
तोरणान् पश्चिमेभागे कलशैः पूर्व कल्भितैः ।। 15
ततः स्संस्नाप नीयास्तु मंत्रपूतैर्गजोत्तमः ।
तुरंगांश्च महाभागा नलंकृत्य ततः स्तुतान् ।। 16
ततोभिषेकोनांगस्य तथा तत्तुरगस्यच ।
पिंडान्नंतु ततोदेय मभिमन्यु पुरोधसा ।
तस्याभिनंदने राज्ञो विजयः परिकीर्तितः ।। 17
प्रागेवतस्य विज्ञेयं महद्भयमु पत्थितं ।
निष्कासयोत्तोरणा थस्ततोहि प्रथमंगर्जा ।। 18
तत्रापि प्रथमं रामं अभिषेकं गजोत्तमं ।
तस्याग्रे गज आनेष्यो नरः पंचनकोपिवा ।। 19
लंघन्यो लंघयेत्तांतु राज्ञो मरण मादिशेत् ।
लंघयेद्वा मपादेन यदितां नृपकुंजरः ।। 20
राज्ञीपुरोहिता मात्यराज पुत्राहितं भवेत् ।
राज्ञ सुमरणं ब्रूयादा क्रमेत्तु यदा तदा ।। 21
राज्ञ विजय माचष्टे लंघयोद्दक्षिणेनतां ।
निष्कमेयुस्त तप्सर्वे प्राङ्मखास्तो रणैर्गजाः ।। 22
ततोश्वास्तु महाभागततस्तु नरसत्तमः ।
ततश्छत्रं ध्वजश्चैव राजलिंगानियानिच ।। 23
मंटपेत्यानि संस्थाप्य पूजयेदा यधानिच ।
पंचरंगक सूत्रेण यास्ताः पतिसराः कृताः ।। 24
धूप्या धूरसि मंत्रेण निबध्नी यात्पुरोहितः ।
सर्वेषां नृपनागानां तुरंगाणांच भार्गव ।। 25
स्वगृहेषु ततोनेयाः कुंजरास्तुरगै स्सह ।
स्वातिस्थ स्सवितायावत्ता वच्छायासु संस्थितान् ।। 26
पूजये त्सततं रामनक्रोशेन्नच ताडयेत् ।
राजचिह्ननि सर्वाणि पुजये न्मंट पेसदा ।। 27
वरुणोज्याच भूतेज्या रात्रौ बलिभिरुत्तमैः ।
वसेता माश्रमे नित्यं सांवत्सर पुरोहितौ ।। 28
अश्ववैद्य प्रधानश्च तधा नागभिषग्वरः ।
दीक्षितैस्तै स्तथा भाव्यं ब्रह्मचारिभि रेवच ।। 29
स्वातिंत्रक्त्वा यदासूर्यो विशाखां प्रतिपद्यते ।
अलंकुर्याद्वने तस्मिन्वाहनां स्तविशेषतः ।। 30
हस्तीनां तुरगं छत्रं खड्गं यानंचदुंदुभिः ।
ध्वजं पताकां धर्मज्ञकालज्ञ स्तभिमंत्रयेत् ।। 31
अत्र छत्रादि मंत्राज्ञेयाः :----
अभिमंत्र्य ततः सर्वास्कुर्यात् कुंजर धूर्तगः ।
उल्मुकानांतु निचय मादी पितमनंतरं ।। 32
राजा प्रदक्षिणं कुर्या त्त्रिरात्रं सुसमाहितः ।
चतुरंगबलोपेतः सर्वसैस्य समन्वितः ।। 33
एकंगत्वा गृहंगच्चे द्राजा सैन्य पुरस्सरः ।
जन्वासंपूज्य च ततः सर्वमेव विवर्जयेत् ।।
शांतिर्नीराजनाभ्योयं क्षेमवृद्धिकरी तथा ।।
इ ति नी रा ज न ं ।।
अ थ घृ त क ं ब ळ ः
विष्णुधर्मोत्तरे । राजोवाच शांतिमाचक्ष्वमे देवघृतकंबशळंसंज्ञिकां ।।
पुष्कर उवाच :----
पूर्वोत्तरेतु दिग्भागे शात्यगारंतु कारयेत् ।
अभिषेच निकामंत्राये मयाभि हिताः पुरा ।। 1
देवादयस्तु येतेषां स्थानं त्रत प्रकल्पयेत् ।
आवाहनं ततः कुर्यात्स्नानं तत्र उपोषितः ।। 2
अाहितानां सर्वेषां गंधमाल्यादि संपदा ।
देवत्पूजनं कुर्या त्तथा मंत्रिपुरोहितौ ।। 3
एवं संपूजनं कृत्वा सोपवास्ताते त्रयः ।
कुर्या त्रिभागशेषायां रात्रावुत्थायशंतिकं ।। 4
कृत्वा दशगुणां स्तत्र स्नापयेत्तं नरादिपं ।
पूर्वमेव तथास्नानं सिद्धार्थै स्पाधितं तथा ।। 5
पूर्णेन घृतकुंभेन मंत्रेणान कालवित् ।
आज्यं तेजस्समुद्धिष्टं सर्वपापहरं परं ।। 6
आज्यं सुराणामाहार माज्ये लोकाः प्रतिष्टिताः ।
बौमांतरिक्षं दिव्यां वायत्तेकिल्बिषमागतं ।। 7
सर्वं तदाज्य संस्पर्शा त्प्रणाश मुपगच्छतु ।
ततो विरूपाक्ष तंतं चाप्यग्रान्वेदिं सराथिप ।
गच्चेतांतु पुरस्कृत्य सांवत्सर पुरोहितौ ।। 8
स्नानवेदिस्तु कर्तव्या राज्ञाकुसुममंजिता ।
चतुर्भिः पूर्णकुंबैश्च विदिक्षुच सुशोभितां ।। 9
चत्वारि तस्यचर्माणि प्राग्रीवाणि समान्यपेत् ।
वृक्षस्य द्वीपिनश्चैव सिंह शार्दूलयोस्तथा ।। 10
भद्रासनं न्यसेद्राम तेषा मुपरिचारिणां ।
स्वास्तीर्णे नृपतिं तत्रवस्त्रैराच्छादयोन्नवैः ।
कार्पासकै स्ततः पश्चा दाविकैः क्रिमिजैस्ततः ।। 11
ततस्तु सर्विजःकुंभैः पूर्णेस्त मभिषेचयेत् ।
कुंभाष्टकंतु कर्तव्य मष्टाविंशति रेवच ।। 12
अथवाष्टशतंराम वृद्धिरेषां गणोत्तरा ।
ततोपवीयवस्त्राणि तस्यां वेद्यां पुरोहितः ।। 13
शूलेनमृण्मयंभिंद्या च्छत्रं क्रोधसमन्वितः ।
राज्ञस्तु कलशंदद्या त्स्वयांसां वत्सरस्ततः ।
राजाभिषेकं मंत्रेण स्वर्चितं कल्पितंदृढं ।। 14
ज्योतिष्मतीं त्रायमाणां अभया मपराजितां ।
जीवां विश्वेशरींपारां नमंगा मभयां ततः ।। 15
सहांच सहादेवीं च पूर्णकोशं वशतांवरीं ।
अरिष्टिकां शिवां भद्रां कलशे तत्रविन्यसेत् ।। 16
ब्राह्मिं त्रेमावचांचैव सर्वबीजानि कांचनं ।
मंगल्याश्च यथालाभं सर्वौद्द्योरसां स्तथा ।
रत्नानि सर्वगंधांश्च बिल्वंच सविकंकतं ।। 17
एवं स्वातोघृते दृष्वावदनं दर्पणे तथा ।
मंगळालंभनंकृत्वा थौतवासाः समाहितः ।। 18
अभ्यर्चनं ततः कृत्वा देवादीनां पृधक् पृथक् ।
तेषामेव ततोवह्नौ चतुर्धंतैस्तु नामः ।। 19
ओंकारपूर्वं जुहुयात् घृतं हितपुरोहितः ।
आयुथाभ्यर्चनं कार्यं वाहनाभ्यर्चनं ततः ।। 20
राजिह्नार्चनं कृत्वा अलंकृत्य स्वकांतनुं ।
अनुलेप समादद्याद्गंतु द्वारेति मंत्रितं ।। 21
श्रियं धातुमयीं देहि मंत्रस्सुमनसां भवेत् ।
रायस्पोषेति च तथा मंत्रोलंकरणे स्मृतः ।। 22
केशनाभ्यर्चनं कृत्वा वह्निस्थानं ततो वज्रेत् ।
वह्नौ रुत्तरभागेतु प्राग्रीवे प्रोक्तचर्मणि ।। 23
सिंहासनं न्यसेत्प्रष्टे परार्थ्या स्तरणान्वितं ।
वृषस्य चर्मचास्तीर्य करेणोश्च तधोपधि ।। 24
तयोरुपरिसिंहस्य व्याघ्रस्य च ततः परं ।। 25
एषांतु रामचर्माणि प्रागीवाणितु विन्यसेत् ।
ध्रुवाद्यौ रितिमंत्रेण नृपं तत्र प्रशयेत् ।। 26
ततः पुरोथा जुहुयाद्ब्रह्ममंत्रैर्घृतं शुचिः ।
रौद्र वैष्णववायव्य शाक्तै स्सौम्यैस्सवारुणैः ।। 27
बार्हस्पत्यै स्ततः कुर्या त्तंत्रमु त्तरसंज्ञितं ।
दैवज्ञः प्रयतःकुर्या द्देवतानां विसर्जनं ।
अन्नेन ब्राह्मणान्भोज्य ततो दद्याच्च दक्षिणां ।। 28
इति विष्णुधर्मोत्तरेधृत कंबळ विधिः ।।
अ थ ग्नि पु रा णे स र्वा र्थ सा ध न शा ं ति ः
सर्वीर्थ साधनं स्नानं वक्ष्येशांतिकरं शृणु ।
स्नापयेच्च सरित्तीरे गृह विष्टं विचक्षणः ।। 1
देवालये ज्वरोत्पाते विनायक गृहार्दिते ।
विद्यातीर्थे हृदेगेहे जपकामस्य तीर्दके ।। 2
पद्मिन्यास्नापयेत्क्षीरैर्ग भेयस्याभवेत्वथ ।
अशोक सन्निधौ प्राप्य जातोयस्य विनिश्यति ।। 3
पुण्य तीर्दाश्च पुण्यद्यैः पुत्रिणां चैवसागरे ।
गेहे सौभाग्य रूपायां सर्वेषां विष्णु सन्निथौ ।। 4
विष्ण्वुक्षे रेवती पुष्ये सर्वेषां स्नान मुत्तमं।।
स्नान कामस्य सप्ताहं पूर्व मप्यादनं शृणु ।। 5
पुनर्ववारोचनाच शतह्वा मरुणांत्वचं ।
मधूकं रजनीद्वेच तगरं नाग केसरं ।। 6
असुरा चैव मंजिष्टा मांसीयव समर्दकैः ।
प्रियंगु सर्षपा पुण्यं वचाब्राह्मीच कुंकुमं ।। 7
पंचगव्यं सक्तुमिश्रं उद्वर्त्य स्नानमाचरेत् ।। 8
मंडले कर्णिकायांच विष्णुं ब्रह्मण मर्चयेत् ।
मध्ये कामहरं पूर्वं मंत्रैः पूर्वादि दिक्क्रमात् ।। 9
लिभे दिंद्रादि कान्देवान् सायुधान् सहवाहानान् ।
स्नान मंडल कान्दिक्षु कुर्याच्चैव विदिक्षुच ।। 10
विष्णु ब्रह्मेश शक्रादि सहस्राण्यपि होमयेत् ।। 11
एकैकस्य त्वष्ट शतं समिधस्तु तिलैस्सह ।
भद्रः सुभद्रः सिद्दार्धः कलहा पुष्टिवर्धनः ।। 12
अमोदाश्चित्र भानुश्च पर्जन्योथ सुदर्शनः ।
स्थापयेत्तु घटानेता न्साश्विभ्यांच मरुद्गणान् ।। 13
विश्वेदेवा स्तथादित्या वसवो मुनयस्तधा ।
श्राद्धेशाः संतु सुप्रीता स्तथान्याअपि देवताः ।। 14
औषदीः प्रक्षिपेत्कुंभे जयंतीं विजयां जयां ।
शतावरीं शंख पुष्टां विष्णुक्रांतां पराजितां ।। 15
ज्योतिष्मतीं बलां चैव चंदनो शीरकेसरं ।
कस्तूरि कांचर्पूरं वालुकं पत्रकेत्वचं ।। 16
जातीफलं सुगंधंच मृत्तिकाः पलंच गव्यकं ।
भद्रपीठेस्थिते मध्ये स्थापये युर्द्विजो त्तमाः ।। 17
राजाभिषेकं मंत्त्रोक्त देवानां हवनं पृथक् ।
पूर्णाहुतिं ततोदत्वा गुरवे दक्षिणां ददेत् ।। 18
इंद्रोभिषिक्तो गुरुणा पुरादैत्यान् जघानह ।
दिक्पालस्य्नानतः प्रोक्ता स्संग्रमे विजितापून् ।। 19
इति अग्निपुराणे सर्वार्ध साधन शांतिः ।।
अ थै क व स्त्र स्ना न ं
वीर सिंहावलोके रुद्रयामळे :---
शुक्रेण प्रार्थितः शंभुः प्रणिपत्य जगद्गुरुं ।। 1
एकवासो विधिंब्रूहि स्वामि न्विस्तरतो ममः ।। 2
शृणुभार्गव यत्नेन दुःख वैधव्य नाशनं ।
वंध्यात्वं विलयंयाति यस्मिन्वस्त्र विधौकृते ।। 3
शिवोनामेति मंत्रेण भानावनुदिते सति ।
अष्ट वत्रं लिखेत्पदं क्रमतः शुक्ल तंडुलैः ।। 4
वेदोक्तविधिना मंत्रै न्सूक्तै र्वेद विधानतः ।
पंचवक्त्रं दशभूजं त्रिणेत्रं पार्वती पतिं ।। 5
पद्म मिध्येन्नसे द्देवं शिवो नामेति मंत्रतः ।
इंद्रं विश्वेति मंत्रेण इंद्रमाग्नेय कोणके ।। 6
येचे हेतिच मंत्रेण दक्षिणे यमपूजनं ।
येदेवा इति मंत्रेण न्तैऋत्ये सनकादयः ।
तत्त्वायामीति मंत्रेण पश्चिमे परुणंन्यसेत् ।। 7
गणानांत्वेति मंत्रेण वायुव्येति गणेश्वरं ।
अभिगोत्रेण मंत्रेण उत्तरे गर्भमातरः ।। 8
ईशान्यांच ग्रहान् सर्वान् स्थापयेत्स्वन्व मंत्रतः ।
ऋतवस्थ ऋतान् मंत्रान् पूर्वस्यां वन्यसेत्स्मरं ।। 9
तस्मध्ये विन्यसेत्कुंभं पूरयॆत्तीर्थ वारिणा ।
पूर्णपात्रयुतं मध्ये सर्वौषधि ससुन्वितं ।। 10
सहिरण्यं सवस्त्रंच नारिकेळेन संयुतं ।
प्रतिष्टांच विधायादौ मंत्रैः पूजन माचरेत् ।। 11
श्रीरुद्रंच जपेत्तत्र षडंगं विधि पूर्वकं ।
सीपुंसाभ्यां विधातव्यं पूजनं निधिवत्ततः ।। 12
अभ्यच्यन् विधिनासम्यक्कृत्वा स्नानं त्ततः ।। 13
नांदी मुखाभिदं श्राद्धं विधेयं विधिवत्पुनः ।
प्राश्नीयान्मध्यमं पिंडं गर्बोसीतिच मंत्रतः ।। 14
जपप्रार्थना :----
प्रत्यगाशा पते राजन् जलनामधिप प्रभो ।
नष्टगर्भ प्रसृष्टात्वं गर्भं देहि ममेप्सितं ।। 15
नदीनद तटाकानि तथैवान्य जलाशयाः ।
त्वांविनानैव शोभंते गर्भंदेहि जलेश्वर ।। 16
पूर्वजन्म नियत्पापं कुसं सर्वात्स्वयं कृतं ।
इहापि सलिले स्थित्वा गर्भदेहि प्रसीदये ।। 17
षट्टष्टिकोटि तीर्धानां नद्यादिनां प्रभुर्भवान् ।
सप्तानामपिसिन्धूना मीळगर्भंद थस्वमे ।। 18
त्वमेव पाशपाणिस्तुत्व मेवह्यंभसां पतिः ।
आपस्तु प्राणिनांजीवा गर्भं धेहि प्रसीदये ।। 19
तवहस्ते जलिंवामे दक्षिणे जीव जीवनं ।
मस्तकेच जटापिंगा गरभं धेहिदयां कुरु ।। 20
अंतिरायं प्रभोच्छित्वा गर्भं धेहि दयां कुरु ।। 21
इति जल प्रार्धना - औषधि प्रार्थना :----
सर्वेषां जगतो भानां ग्रहाणां निधिपस्सदा ।
तवस्वामि न्नहंदासो धेहि गर्भ महौषधे ।। 22
औदुंबरी फलवत शाखाया सर्वमंत्रवित् ।
ओषधः सोमराजीति कामिन्या मर्पयोद्भुदः ।। 23
शाखाया लंबनं कार्यं हृदिचेतसि नर्मलः ।
समालंभ्यकरे दूर्वा नारिकेळाक्षतापि ।
वरुणोपासनं कुर्यात्सूक्त पाठपरायणः ।। 24
ब्रह्म विष्णुश्च सोमश्च कंदर्भो वृषवाहनः ।
पार्वती सुभगाभद्रा सावित्री वास्तु देवता ।। 25
एतेहिवाससी श्शुभ्रे अव्यंगे गुरु दैवते ।
सर्वभूषण रम्येच बंधनेन शिपं भवेत् ।। 26
मुद्ग तंडुल गोधूम यवकंगुसुशालिभिः ।
राजमाषोदिबिर्विद्वा स्वंपात्रं प्रपूजयेत् ।। 27
विन्यस्य दीपकं तत्र फलानां सप्तकं तथा ।
धानावंतेति मंत्रेण ध्यानस्नानंतु कारयेत् ।। 28
नारिकेळंच नारंगं दाडिमं बीजपूर्वकं ।
उचत्थ्यंचै वपूगंच सप्तमं दमनंस्मृतं ।। 29
कूर्मपृष्ठनिबं पृष्ठं क्षिरनीरप्रपूरितं ।
त्रिणेत्रं शंभुदैवत्वं नारिकेळं सुतप्रदं ।। 30
वृत्तं कनकवर्णाभं सुबिजं सुमनोहरं ।
तुहिनेन समं शीतं नारंगं गर्भदंमम ।। 31
चंद्रबिंब समानंतु बहुबीज सुपीरितं ।
सुगंधं सोमदैवत्यं गर्भदं बिजपूरकं ।। 32
उद्यदर्कसमं पुष्पं फलं सिंधूरसन्निभं ।
बीजपूरोदरोयस्माग्गर्भदं डाडिमं मम ।। 33
फलंत च्चक्रदेवत्यं सूत्रं वैसदृशोपमं ।
ज्ञानयोनि प्रपूर्णंतु देहित्वं गर्भमुत्तमं ।। 34
पूगस्तु सूर्यदेवत्यो लाक्षारस समप्रभः ।
आर्द्रः फलानां प्रवरोगर्भं दद्यात्सदा मम ।। 35
उत्सवेषुच सर्वेषु शुभदं सर्वदैवतं ।
गोरोचन समाभासं गर्भदं मदनं फलं ।। 36
इति फलै श्शुभं -- आधौषधिस्नानं :---
वर्दावरश्चरास्नाच एकाकीवचकी तथा ।
धान्यानिशा बहुलाच सर्वौषध्य इमास्मृता ।। 37
या ओषध इति मंत्रेण सर्वौषद्यभिषेचनं ।
करेणमूर्ध्निविन्यस्य वंशपात्रंतु भार्गव ।। 38
ऋग्वेदोक्तान् सर्वमंत्रान् तत्यायामीतिपूर्विकान् ।
धीमान् प्रत्येकमुच्चार्य दंपतीस्स्नापयेत्ततः ।। 39
वारुरुःपावितामंत्रा वरुणो त्तभनं ततः ।
एते शतमिमंचैव इदमापः पुनंतुमां ।। 40
इमान्वै याजुषान्मंत्रान् शिरोमेत्य निरुक्तया ।
घृतवती भुननाना पावमानीः पुनः पुनः ।। 41
साम्नो वरुणसाम्नाथ पावकान् सरस्वती ।। 42
शन्नो देव्याधाथर्वमंत्रै स्स्नान मुदाहृतं ।। 43
ततो रुद्रजपस्नानं कर्तव्यं सुतमिच्चता ।। 44
अथ भार्गव संस्थाप्य स्धंडिले पावकं शुभे ।। 45
गृह्यो क्तेनविधिनानेन पायसं श्रवयेच्यरुं ।। 46
आघारावाज्यभागौच देयौ तत्र घृताहुतीः ।। 47
अपां पृष्ठं निहोताच पुनस्त्वेति तथा समित् ।। 48
वाजः पुरस्तादग्नेत्व मदात्यं गर्भमेवच ।। 49
ततः सरस्वतीयोन्यां तं पत्नीं भिरतः परं ।। 50
आदित्यै रास्नासीति मंत्रयोनर्ष योपिच ।। 51
गर्भोअस्योषधीनां च मंत्रां ताहुतयः क्रमात् ।। 52
एभिर्मंत्रैश्च रुंहुत्वा ततः स्विष्टकृतं हुनेत् ।। 53
ऋषभं ब्रहाणेदद्या दाचार्ये सुरभिं तथा ।
इतरेभ्योपि विप्रेभ्यो रक्षणे स्वेच्छया पुनः ।। 54
अभिषेकं ततः कुर्या त्पवित्रैः कुंभवारिभि ।। 55
सुरास्त्वामिति मंत्राद्यैः पवित्रै र्भ्राह्मणैस्सह ।। 56
आशास्यकामदै र्मंत्रै र्गुह्णीयात् फलसप्तकं ।। 57
सदीपं वंगपात्रंच नीत्वायायाच्चिवालयं ।। 58
शिवस्य पुरतोन्यस्य वंशपात्रं प्रणम्यच ।। 59
देवदेव जन्नाध गौरीनाध महेश्वर ।। 60
भवेशान महादेव नमोस्तु सुतदोभव ।। 61
अष्टौ दोषाश्चयोस्त्रीणां नवमः पुरुषस्यच ।। 62
तत्तदोष विनाशाय सस्त्रीकः स्नानमाचरेत् ।। 63
विकृतं यचचमेदेहे संतानपरिपीडनं ।। 64
तत्सर्वं भस्मतांयातु निर्दोषास्यां सुपुत्रिणि ।। 65
वरुणत्वं च भूतानां पापशुद्धिकरः प्रभु ।। 66
तव तीर्थप्रभावेन संतानं देहिमेबहु ।। 67
ततश्च पुरोडाश माधत्रैत्यादि नाशयेत् । 68
ब्राह्मणानन् बोजयित्वाच वरंदद्वा विसर्जयेत् ।। 69
इदं निर्मूलमपि गुर्जरेषु प्रचारादुक्तं ।। 70
इति वीरसिंहावलोके रुद्रयामळोक्तमेवस्त्र स्नानं ।।
अरुण उवाच :----
ई येकवस्त्र स्नानविधि यनु शांतिकर्ममु संतोषमु लेक वंशमु निलिचिपोयिनवारलु भक्तिश्रद्धलतो दीनि नाचरिंचिनवारलैते तप्पक वारु सत्संतानमु गलिगि वंशाभिवृद्धिगा नुंदुरु, दीनि विधानमु कॊंचमु कष्टमुगा तोचिननु कष्टी फली यनुनट्लु दानिकि तगिनंत सुफलमु गलदनि यॆऱुगसगुनु.
यत्वाया कधितं स्वामि न्नेक वस्त्राभिषेचनं ।। दंपत्योरन पद्यादि दौर्भाग्य शमनं परं ।। विथिं तस्या खीलं ब्रूहियथाश्रुति निरूपितं ।। देवता कात्रके मंत्रा विधिः तस्या खीलं ब्रूहियाथाश्रूति निरूपितं ।। देवता कात्रके मंत्रा विधिः तावा फलं ततः ।। कदृग्वस्त्रं कथं धार्य मुभाभ्या मेव तत्पुनः ।। कथं तस्मिन् कृतेsपत्य सिद्धिस्स्यान्नर योषितोः ।।
श्रीसूर्य उवाच :----
पूराकल्पाश सानेतु कल्पस्यास्य समुद्भवे ।। आरिरिप्प्सुर्यधा सृष्टिं श्रुति स्मृति विधिर्विधिः ।। सस्मारत नयासप्त मनसान् प्रजा पतिः । तेयदा तपसाक्लिश्यन्न शेकुस्सृष्टि साधने ।। शिवमाराध्य तपसा प्रसन्नं समायाचिरे ।। प्रजामेव प्रजाकामाः प्रजापति सुतास्तुते ।। भगवं स्तप साखिन्नाः प्रजापेतो प्रजापतेः ।। आकर्म पचनान्मोहाद्वारा निष्पललक्षणात् ।। ततोहिन प्रजासिद्धि रस्माकं शिव जायाते ।। प्रजार्धंत्वां प्रपन्नास्म्स बूहित त्सिद्धिकृद्विधं ।। प्रार्दितस्तु तदा शंभुः क्षणं द्यात्वा ब्रवीच्चतान् ।। शृणुध्वंमुनय स्सर्वे प्रजा यायद संभवे ।। कारणंमुनय स्सर्वे युद्दृष्टं ज्ञान चक्षुषा । अनपत्यकरं कर्मचक्रेय त्पूर्व संप्लवे ।। काले भुक्ताव शेषेयत् दौर्बाग्य तद्दुवं तनौ ।। विलुप्तमनु मंत्रादि भेदभिन्नं द्वयोरपि ।। वालसैकेनत द्देहायुगलं परिधायच । कुरुध्वं विधि वत्स्नानं तथा दौर्भाग्य नाशनं ।। आनखा ग्राच्छके शांतं यावदंगं विशुक्रवत् ।। एव मायति दौर्भाग्यं पंचधायत्प्रकीर्तितं ।। तस्य शय्यासन विधिः सहप्रत्यैक वाससा ।। स्नात्वा सम्यके विदेः पुत्राः संततेः श्रेय अप्स्यथ ।। इत्युक्त्वान्तर्हिते शंभाव कुर्वन्मुनयश्चह ।। यथैक वसनस्नान मादितः सुमहद्विधिं ।। यधा शतृंयथादृष्टं श्रुतिभ्यो ज्ञान चक्षुषा ।। शुभमासेसिते पक्षे सानुकूले ग्रहेदिने ।।
नदनद्योः समायोग महानद्योर्ध्व योदपि प्रत्युषे सिद्धि मास्थाय शरीरस्य यथाविधि ।। विधिं विविध मास्थाय पत्न्या सह मर्हणां ।। विधाय श्रद्दया युक्तो मंत्रयेतमुदीरयेत् ।। कर्मसार्त्रि जगन्नाध यन्मया पूर्व जन्मनि ।। पंचथा पत्यदःखाख्य दौर्भाग्यमतुलं भवेत् ।। प्राप्तस्तस्य विनाशाय विधिकल्प मनुत्तमं ।। सहपत्न्या दिनावाध तत्र सिद्धिं प्रयच्छमे ।। एवमुच्यार्य तद्वास्त्र महतं द्विदशात्मकं ।। सार्दहस्त द्वया यामं पंचविंश करोन्नतं ।। वितत्म तंतुभिः श्लक्ष्णेस्तन्मध्येन्यूत मद्भुतं । यूवासुवासा मंत्रेण मंत्रितं दैव वेदिसा ।। सम्यद्दत्तं तदादाय परिध ध्यात्सवस्त्रकं ।। दृढानी विरभिन्नाचदे हेत्रि हिगुणीकृतं ।। तच्छैषा द्दक्षिणांगस्थास पत्नीकं सुपुत्रिका ।। परिदध्यात्प्रयत्नेन संवृत्त वममस्तका ।। कुशान्संमृज्य संगोप्य यातिपृष्ठानुगामिनी उपविश्व जलस्थानेतावृभौवपिदं पती ।। प्रक्षाळ्य पाणिपादौच स्वाचांतौ ममसन्मखौ ।। वैदिकान् लौकिकांश्चापि सावदानौजितेंद्रियौ ।। तीर्थत्वमपि सर्नेषां देवनामिग्रणीः प्रभुः । जीवनं सर्व जंतूनां गर्भं देहि ममप्रभो ।। यानियानीह पापानि अनपत्य कराणिनौ । हत्वातान्यखिलानीश गर्भं देहि ममप्रभो ।। यदावाभ्यां महत्पापं पुराजन्मनि दुःखतः ।। कृतंतन्मे विनिर्भूय गर्भं देहि ममप्रभो ।। त्ववैवाधिष्टिता स्सर्वेनदीनद जलाश्रयाः ।। पुनंति पापिनः वर्वान् गर्भं देहि ममप्रभो ।। आशास्महे महाभागे संततिं लोकपावनीं ।। पसन्नाद्भवतः स्वामिन् गर्भदेहि ममप्रभो ।। भूतप्रेत पिशाचाद्यायो नौसंतति विघ्निदाः ।। पाशेनाहृत्यतान् सर्वान् गर्भंदेहि ममप्रभो ।। एवं संप्रार्थ्याता आपः दंपतीतौ बलाद्बहिः ।। सुस्नाय प्राज्ञ्मुखः स्तिष्ठेन्मंत्रं सुश्रावयेदिति ।।
इमा मंगीरस :---
आदत्योभ्योद्वय मिमं शुभं ।। श्रावयान्भुवि विन्यपात्रंत त्प्रण मेच्छमां ।। ततोन्येवाससी शुभ्रे शुचिनी परिथायतौ ।। उप विश्वासने शुभ्रे पुण्य स्रक्च्रंद नार्चिता ।। ततस्स कनकं सर्पिस्प्रशेत मरभींद्विजन् ।। प्रणीपत्य ततः शेषं कर्म सर्वं समापयेत् ।। आचार्यस्तु विधानेन दैवज्ञेनानु मोदितः ।। हस्तमात्रे ततस्तत्र स्थिंडिले कलशंन्यसेत् ।। अव्रणं पयसा पूर्णं स्वर्ण पुष्पक्षतैर्युतं ।। पूर्ण पात्रंन्यसे तत्र पूर्णं पुष्पफलाक्षतैः । स्वस्व मंत्रैः प्रतिष्ठाव्य माहेश मुमयानह ।। तस्याग्रे प्रजपेयुस्ते ब्रह्मणां मंत्रकेविदः । पंचांगाद्विधि वन्मंभत्रान् रुद्रसूक्तैश्च याजषैः उद्वास्याथचरुं सम्यगाचार्यः स्वविधानतः । आघारावाज्य भागौच हुत्वा वाह्यनिभावसुं ।। दिक्पतीन्परितः पूज्य सस्व मंत्रैस्समा हितः । प्रजापते रथाग्नेयां गर्भंधेहि तिचापरां । अपां पृष्ठां तथा होता इमंमे सप्तवारुणं ।। ततः स्विष्ट कृतं हुत्वा कर्म शेषं समाचरेत् ।। होमांते शिव मभ्यर्च सशिवं विधिपूर्वकं । जपं होमं निवेद्यास्मै विधिवत्विज कोविदः ।। ततो विप्राय विदुषे नुशांताय पयस्विनीं । सवस्त्र दक्षिणोपेतां सवत्सां धेनुमुत्तमां । तथालंकृत सर्वागं
वृषभं शुभ लक्षणं ।। दत्वादौ दंपती पश्चाद्दैवज्ञेनानप मोदितौ ।। मंत्र मुच्चारयोद्तां वैविधिपद्वि हितार्वाणैः ।। देवदेव जगन्नाध सर्वपापौघनाशन ।। कर्मणानेन दानेन तथा गोयुगळस्यतु ।। संतुष्टः सततं भूत्वा संततिं धेहिमेप्रभो ।। ततस्तु वैणपं पात्रं शिवस्याग्रे निवेदयेत् ।। आचार्याय प्रदेया निदानानि निजशक्तितः । गुरवेवाससीदत्वा कर्मशेषं समापयेत् । प्रणम्य देवताभ्यश्च विसृज्यिच विधानतः । ततः कुंभांभसा विप्रा अभ्यषिंचेयुरादृताः ।। मंत्रैश्च वारुणै स्सौरैः शांति स्वस्त्ययनादिभि ।। पौराणैराग मोक्तैस्तु नानाफल विदायिनः ।। नंदीमुखेन विधिनाततः श्राद्दं समारभेत् ।। नमोव इति मंत्रेण समस्कार मुदीरयेत् ।। सप्ततेतांत्रिका मंत्राः छांदसाः पंचवारुणाः ।। त्वं नः प्रभृतयो मन्त्रा वारुणौ चावरावपि । त्वन्नो अग्ने सत्वन्नो अग्ने द्वेइमे तत्वायामि चेत्याद्यैर्वारुण सूक्तकैः एतं तज्जलमा मंत्र्यस्तुत्वा मंत्रैः प्रणम्यच ।। निमज्योन्मज्यच पुनस्तंत्र स्नानं समाचरेत् ।। प्रयोगं विधिव वत्कृत्वा पुत्रकाम समृद्धये । स्नास्यामहे सभगवान् प्रजेतानौ प्रसीदतु ।। स्नायी यातां ततः स्नानं द्रव्यैर्मंत्राभि मंत्रितैः ।। मृत्स्नागोमय गोमूत्रेर्द्र व्यैर्दधिपयो घृतैः ।। तिलामलक पिष्टैश्च सर्वौषधि कुशोदकैः ।। निवृत्य विधिवत्स्नानंदं पतीता वुभौवपि ।। स्नापितैव ततः पत्नी एकैक द्यव्य संचयैः ।। औदुंबरं बहु फलिंबिभ्रती निजमूर्धनि ।। मंत्रपूर्वं न्वपतिना दत्तां शाखां प्रजान्वितां । सप्तौषिधि सुसं पूर्णैः कलशै रथसप्तभिः ।। मंत्रपूतैः सदैवज्ञः स्नापयेतां विधानतः ।। वर्दा करश्चरास्नाच सहादेवीशतावरी ।। पंचैला लक्ष्मणाचेत् सप्तौषद्योभिषेचने । याजाता अनुवाकस्तु सप्तौषद्यभिषेचने ।। ततस्तु वैणवं पात्रं सप्तधान्योप संभृतं ।। मुद्ग तंडुल गोधूम यव शालि समन्वितैः ।। सकंगु सहमाषैश्च धान्यैरितिच सप्तभिः ।। पलानि विन्यसे त्तत्रयाः पलिनीरिति मंत्रतः ।। नारिकेळंच नारुंगंदाडि मंबीज पूरकं उत्तथी मथ पूगंच जंबीरं तात्र सप्तमं । लौकिकैस्तुत मंत्रैश्च पूर्वोक्तै रेव सप्तभिः शिरोमेत्यम वाकेन स्नानं दौर्भाग्यं प्रागुव स्थितं । पौदागुष्ठा दानखाग्रादाके शांतं समुत्पृजेत् ।। सनाने नानेनमे देवतां त्सर्वानपसारय ।। इति विज्ञप्य वरुणं मांच कर्मादि साक्षिणं ।। एकचित्त स्स्मरेद्देव मुमया सहितं शिवं ।। ततस्त्वेतानेव देवान् मनुष्यान् सहपूर्वजैः ।। नांदी मुखेन विधिना संतर्प्य पितृदेवताः । विभ्राडित्यनुवाकेन फल पुष्पांक्ष तांजलिः ।। उपस्थाय ततः पश्चात्कर्म शेषं समापयेत् ।। ततस्तद्द्वैष्णं पात्रं शिरस्याधाय योषितः । कुशाग्रेण समालभ्य वठेन्मंत्रान् सुशांतिकान् । ततः स्वस्त्ययनायैव शांतयेच मुहुर्मुहुः ।। मध्यममं पिंडमश्नाति पत्नी दैवज्ञ चोदिता । अधत्त पितरो गर्भमिति मंत्रेण मत्रितं । आचम्य निधिवत्पश्चात्कर्मशेषं समापयेत् ।। शतंचभोजनयेदन्यान् द्विजान् संतोष्य शक्तितः ।। कृतकृत्यौच तौस्यातां पुत्र पौत्र सुखान्वितौ ।।
इति सूर्यारुण संवादे एकवस्त्र स्नानविधिः ।।
अ था का ले ग ज म दे शा ं ति ः ।।
अद्ङुतसागरे धर्मशास्त्र निबंधने गर्गः । ऊर्ध्वंविंशति वर्षात्तु मधो भवतिवारणे । तदर्वाग्य दिमाद्येत स्वामिनो मरणंदिशेत् । कारयेत्तत्रशांतिंच ब्राह्मणांश्चापि तर्पयत् । एकरात्रोक्षित स्स्नात्वा प्रियः प्रयतमानसः । अष्टोत्तर सहस्रंतु मंत्रंचापि जपेच्चुचिः । ततः प्रज्यप्य मंत्रेस्तु सलिलंचाभि मत्रंयेत् । गजानां गजतत्वज्ञः सर्वदोषावहरं शुभं । गजस्नानं प्रकुर्वीत तद्दिनेतूर्यनिस्वनैः पूर्वाह्णेचागानिकार्यं च कृत्वा कुंभशतेनहि । ततोहोमं प्रकुर्वीत विधिदृष्टेन होमवित् ।। अग्नये स्वाहा रुद्राय स्वाहा गमपतये स्वाहा वरुणाय स्वाहा बृहस्पतये स्वाहा शुक्राय स्वाहा ।। स्नानं कुंभशतेनेह सर्वोपद्रवनाशनं । द्विजपूजन पूर्वंस्यात्सलिलं गुडमिश्रितं यवयावक संयुक्तं पिंडं मधुनाथ धूपयेद्बहुशः । कृतपूजा संस्कारं गणाधिपं वंदयेत्तूर्णं । ईश्वरस्य महासंपदुमा ललाटसंभव । इदं कृत्वोपनीतंतुं नै वेद्यं भक्षयस्वनः । इति नै वेद्यमंत्रः ।।
इत्यकाले गजमदि शांतिः ।।
अ थ गो र क र णी म द शा ं ति ः
मदं यदातुसुरभि र्विसृजेत्सूतिमेवच । पुरेराष्टे वनेवापि गृहेवाहस्तिनीयदा । मत्तामूत्र पुरीषाणि यदासंह्रायतिष्ठति । मत्तयाभुज्यतेयुद्धे हस्तिन्यायदिवारणः । महाद्भयं तत्र भवेद्देशस्य नगरस्यच । उपोष्यबांधवैस्तत्र सामात्यस्स पुरोहितः । हस्ति वत्कल्पितांधेनुं विषाणाभ्यां च योजितां । अथैनां हस्तिनीं नीत्वा शतृराष्ट्रे वियोक्षयेत् । इत्येवमेवत्कुर्वीत रात्रौ वनवासिनी । अथवा पूर्ववत्कृत्वा शांतिं कृत्वावनेद्वयं । सुवर्णन सुतप्तेन वनमेव विदारयेदिति ।। गोकरिणां मद शांतिः ।।
अथ धनिष्ठा त्रिपुष्करादि शांतिः
ई शांतिकर्त आत्यंतावश्यकंबु - संसारिकुलकु इंड्ललो धनिष्ठा पंचकादि मृत प्रक्रिय गल्गिनप्पुडु पिल्ललु स्त्रीलु वीरलकु भयादुलु लेक गृह रक्षण मुख्यमु कावुन दीनिनि आंदरुनु याजकुल मूलमुगा नेऱिंगियुंडगिनदि.
मदनरत्ने गारुडे :---
आधौ कृत्वा धनिष्टर्क्षमेतन्न क्षत्रपंचकं । रेवत्यं तं सदादूष्य मशुभं दाहकर्मणि । शवस्यतु समीपेतु क्षेप्तव्याः पुत्तलास्तदा । दर्भैः कृतास्तु चत्वारो ऋक्षमंत्राभि मंत्रिताः । ततो दाहश्चकर्तव्य स्तैश्च पुत्तलकैस्सह । सूतकांते ततः पत्रैः कार्याशांतिश्च
पौष्टिकी । पंचकेषु मृतोयावै नगतिं लभते नरः । तिलाश्चैव हिरण्यंच तमुद्दिश्य घृतं ददेत् ।।
क्रियानिबंधे :---
भाजनो पानहौछत्रं हेममुद्रांचवावसी । विप्रेभ्यो दक्षिणा देया सर्वपातक मोचनी ।।
मदनरत्ने गार्ग्यः :-----
यदि भद्रातिथीनांस्या द्भानु भौम शनैश्चरैः । त्रिपादृक्षैश्चंसयोगोद्वयो र्योगोद्यि पुष्करः । द्वित्रिपुष्करस्ययोगेतु मृतिर्मुत्यंत रावहं दहसे मरणेचैव त्रिगुणंस्यात्त्रि पुष्करे । खननेप्येवमेवस्या देतद्दोपशांतये । तिलपिष्ठेर्यवैर्वापि शरीरं कारयेतत्तः । शूर्पेनिधायालंकृत्य दाहयेत्पैतृकोपरि ।।
बोधायनः :---
अस्मात्त्व मितिमंत्रेण तिलपिष्टं प्रदाहयेत् । द्वित्रिपुष्कर योर्वोगं त्रिभिः कृच्रैः व्यपोहति । वासवे मरणंचैत्स्याद्गृहेवासि पुनर्मृतिः । सुवर्णं दक्षिणांदद्या त्कृष्णवस्त्र मधापिवा ।।
वासवं धनिष्ठा -- ब्राह्मे :----
कुंभमीनस्थिते चंद्रे मरणं यस्यजायते । नतस्योर्थ्वगतिः दृष्टा संततौचा शुभंभवेत् । नतस्यदाहः कर्तव्यो विनाशात्स्वेषु जंतुषु । अथ वातिद्दिनेकार्यो दाहस्तु विधिपूर्वकं । धनिष्ठा पंचके जीवो मृतोयदिकथंचन - त्रिपुष्करेयाम्यभेवा कुलजान्मारयेद्द्रुवं । तत्रानिष्टविनाशार्थं विधानं समुदीर्यते । दर्भाणां प्रतिमाः कार्याः पंचोर्णासूत्रवेष्टिताः । यवपिष्टेनानुलिप्ता स्ताभिस्सहशवं दहेत् । प्रेतवाहः प्रेतसखः प्रेतपः प्रेतभूमिपः । प्रेतहर्ता पंचमस्तु पंचनामान्यनुक्रमात् । अत्र प्रतिमाः संपूज्य शिरोनेत्र वामकुक्षि नाभिपादेषु क्रमेण न्यस्यतन्यामभिर्घृतं हुत्वाय मायसोमं त्र्यंबक मितिमंत्राभ्यां प्रत्येकंता स्वाज्यंहुनेदितिभट्टाः ।। सूतकांते ततः पुत्रः कुर्याच्छांतिं च पौष्टिकीं । कांस्यपात्र स्थितं तैलं वीक्ष्यदद्या द्द्विजन्मने । ब्रह्म विष्णु महेशेंद्र वरुणप्रीतये ततः । माषमुद्गयव्रीहि प्रियंगु प्रतिपादनं । स्वर्णदानं रुद्रजाप्यं लक्षहोमो द्विजार्चनं । गो भूदानं षडंशेन कुर्याद्दोषोपशांतये ।।
अपरार्के स्मृत्यंतरे :---
धनिष्ठा पंचक मृते पंचरत्नानि तन्मुखे । प्रास्याहुति त्रयं तत्र हुनेद्वह वपामिति । ततो निर्वरणं कुर्यादेष साग्नेर्विधिस्म्यृतः । इतरं निखनेदेव जलेवा प्रति पादयेत् । त्रिपादृक्षे मृते तद्वद्धिरण्य शकलं मुखे । तस्यपिष्ट मयंकुर्या त्पुरुष त्रिवयं ततः । होमं प्रति मुखं कुर्यात्तथा वहवपामिति । कार्ष्णाय संच कर्पासं कुसुमं प्रतिपाद्यच । निर्यात्यसाग्निं संस्कुर्याद्भुव्यग्नौ वास्य मुत्सृजेत् । तत्रैव - कनकं हीरकं नीलं पुष्परागंच मौक्तितं । पंचरत्न मिदंदेय मृषिभिः परिकीर्तितं । रत्नानां चाप्यभावेतु स्वर्णं कर्षार्थंमेववा । सुवर्ण स्याप्यभावेतु आज्यं ज्ञेयं विचक्षणैः ।।
मदनरत्ने प्येवं :----
तथै - एकाशीति फलं कांश्यं तदर्थं वातदर्थकं । नवषट्त्रि फलंवापि दद्या द्विप्राय शक्तितः ।।
अन्यत्रापि :---
स्वगृह्योक्त विधानेन कृत्वाग्नेः स्तापनं ततः । अन्याधानं निर्वपणं देवतानां तथा हुतुः । यमाय धर्मराजाय मृत्यवे चांतकायच । वैवस्यताय कालाय सर्वभात क्षयायच । औदुंबराय दध्नाय नीलाय परमेष्टिने । वृकोदराय चित्राय चित्रगुप्ताय वैक्रमात् । विधिना श्रवणं कृत्वा एकैका माहुतिं हुनेति । कृष्णांगं कृष्ण वस्त्रंच हेमनिष्क समन्वितं । दद्याद्वि प्राय शांताय प्रीतो भवतुमे यमः ।। त्रिपादृक्ष्ये प्येवमेव ।।
अपरार्के :--
पुनर्वसूत्तराषाढा कृत्तिको त्तर फल्गुनी । पूर्वाभाद्रा विशाखाच ज्ञेयमे तत्त्रि पादबं । ब्रह्मचारि मरणे कुष्ठी मरणे गर्भिणीरजस्वला सूतिका मरणेपि दानास्यस्यश्च विशेषो मत्कृते निर्णय सिंधौ ज्ञेयः ।
इति धनिष्ठा पंचक त्रिपुष्करादि मृतौ शांतिः ।।
अथ वसिष्ठल्पोक्तं त्रिपुष्करादि मृतौ विधानं ।।
ई मृत्युंजय विधानंबु तत्तत्समयोचितंबुगा संभविंदुनट्टि युपमृत्युवुलनु निवारिंचुटकै चॆप्पंबडिनदि यनि स्पष्टमैयुन्नदि. बुद्धिशालुरैन आस्तिकशिखामणुलु तत्वाविचारपरुलै याज्ञिकुलतो नालोचिंचि होमादिकंबुलनु जरुपवलसियुंडुनु. अपमृत्यु प्रयुक्तंबुलगु रोगंबुललो नायारोगनिवारणोपायंबुलु रक्षा विधानादुलु मिक्किलि चक्कगनुन्निवि.
वसिष्ठकल्पोक्तं संगृह्योच्यते मृत्युंजय विधानं तद्यादा ----
त्रियंबकस्य विदानंतु कीर्तयिष्ये मुनीश्वराः ।। 1
यधो क्तविथिनायुक्तं संस्यृतं ब्रह्मणापुरा ।
मृत्युंजयस्त्रिधाप्रोक्त आद्यो मृत्युंजय स्मृतः ।
मृतसंजीविनीचैन महामृत्युंजय स्ततः ।
मृत्युंजये केवलेस्या द्घटितो मृतजीवनी ।
तार त्रिबीजव्याहृत्वा घटितस्तु त्रियंबकः ।
महामृत्युं जयः प्रोक्ता स्सर्वमंत्र विशारदैः ।
मृसंजीविनी तारं प्रणवव्याहृतिः पुरा ।
ततस्त्रिंबकोमंत्रः पुनरंते तधोच्चरेत् ।
मृत्युंजयो यमोवात्र कधितो मंत्रवित्तमैः ।
मायातारादिकाचैव व्याहृतित्रयं ततः ।
घटतस्त्र्यंबकमनु र्मुतसंजीविनी मता ।
सबीजोयस्तु मंत्रो वै महामृत्युं जयः स्मृतः ।
प्रणवोव्याहृतीश्चैव प्रणवाद्यः पठेत्पुरा ।
तत स्त्रियंबकमनुरंते व्याहृतय स्तथा ।
त्रिबीज प्रणवांतेच वह्निजाया मतोच्चरेत् ।
प्रणवांते प्रसादश्च मृतिहारक एवच ।
भूरादि व्याहृतयश्च त्र्यंबकेतिचऋक्ततः ।
विपर्येण त्रिबीजं तद्वाक्त्वं व्याहृतित्रयं ।
स्वाहंते मनुरेषोत्र शुक्रेणाराधितः पुरा ।
महामृत्यंजय इति विळृतो भुवनत्रये ।
ओंकारैः संहितःषड्भिः चतुर्दशभिरेवच ।
मृत्युंबयंतं विधिवदुपास्येप्सित माप्नुयात् ।।
तथा विभक्तमं त्रवर्णैर्वा षडंगानां प्रकल्पना ।
हृदयं त्रिभिराख्यात चतुर्भिः शिरउच्यते ।
शिखाष्टभिः समुद्दिष्टा नवभिः कवचं मतं ।
पंचबिर्णेत्रमाख्यात मस्त्र त्रिभुरदाहृतं ।
पूर्वपश्चिमयाम्येंदु वक्तैषु तदनंतरं ।
पुर्णमंत्रंस्य सेदूर्ध्व मुख्ये त्र्यंबकसंज्ञकं ।
शिरोगशास्याक्षि युगनाभि हृत्प्रष्टकुक्षिषु ।
लिंगपैयूरुमूलांत र्जानुयुग्मे ततः परं ।
तद्वृत्तयुग्मे तत्तनयोः पार्शयोः पादयोःपुनः ।
पाण्योर्नासिक योश्शीष्ण्रि मंत्रर्णौन्यसेत्क्रमात् ।
पदान्येकादशन्यस्य शिरोभ्रूयुगळाक्षिषु ।
वक्तैगंडयुगेभूयो हृदये जठरेपुनः ।
गुह्योरुजानुपादेषु न्यासमेवं समाचरेत् ।।
एतत्प्रयोगे व्यक्तिर्बविष्यति :----
आदौप्रासादबीजं तदनुमृति हरंतारं व्वाहृतीच प्रोच्चार्य त्रंबकं योजपति मृतिहरं भूय एवैतदाद्यं ।।
कृत्वान्यासं ष़डगंस्रवद मृतकरं मंडलांतः प्रविष्टं ।
ध्यात्वा योगीरुद्रं सजयंति मरणं शुक्रमिद्या प्रसादात् ।।
वेदादिभूराद पदत्रयं च मध्येजपेस्मृत्युहरं त्र्यंबकं ।
जपेत्फलार्धी विधिवत्प्रयुक्तं प्रासाद मृत्युंजय संपूटेन ।।
ओंकार त्रितयाद्यश्च ओंकार त्रितयांतकः ।
व्याहृति त्रितयंचैव प्रासाद त्रितयंतथा ।
ओज्कारैर्मनुसंख्याकै र्जानीयात्सर्विसिद्धये ।।
महामृत्युंजयश्चैव मृत्युंजय स्त्रियंबकः ।
त्रिंबकमनुर्युक्तः पूर्वेचांतेद्वयेनच ।
महामृत्यंजयोलेके शुक्रसयाराधनाद्ध्रुवं ।
बीजंविनाच शुद्धस्तु मृत्युंजय समाख्यकः ।।
अन्ये महामृत्युंजय इति विद्या त्रिदाह्यमुं मनुंवदस्ति ।।
तथा अन्यत्र :----
चतुर्दशस्वरै र्युक्तो हकारेणच बिंदुना ।
प्रासादाख्यं भवेद्बीजं जकारेणच बिंदुना ।
मृत्युंजयं समाख्यातं बीजं मृत्युहरं परं ।
सविसर्ग स्पकारश्च तारकं परिकीर्तितं ।
सारं स्थिरं सकर्णेंदु भृगुसर्ग समन्वितं ।
अक्षरात्मानि गदितो मंत्रो मृत्युं जयात्मकः ।।
इति मृत्युंजय विधिः -- वसिष्ठ प्रोक्ते :---
कुंडस्य पूर्वदिग्भागे काळीजिह्व प्रकीर्तिता ।
?Bआग्नेयांतु कराळीस्या द्दक्षीणेतु सुलोहिता ।
मनोजयातु नै ऋत्वां धूम्रवर्णीच वारुणी ।।
विसस्पुलंगीतु वायुव्यां सोम्ये विश्वरुचिस्तदा ।
काळ्यां कराळ्यांवा कुर्याच्चांति कंपौष्टिकं तधा ।
भूतप्रेत पिशाचादि शांतौ लोहित जिह्विका ।
मनोजयायां जिह्वाया मभिचारो विधीयते ।
जुहुया द्धूम्र वर्णायां वृष्टिकामो यधाभवेत् ।
स्पुलिंगिनीतु याजिह्व तस्या मुच्चाचनं विदुः ।
यातु विश्वरुचिर्जिह्व कुंडस्योत्तर भागतः ।
सर्वार्थ साधकासेति प्रोच्यते मंत्र वित्तमैः ।
अपरेव सुधारेति जिह्वं पूर्वोत्तर विदुः ।
कुंडस्य मध्यमं भागमग्ने रास्यं प्रचक्षते ।
तस्मिन् सर्वाणि कार्याणि कारयोन्मारणं विना ।
औपासनाग्नि मानीय तस्मिन् कुंडे विनिक्षिपेत् ।
अथवाश्रोत्रि यागारान्मधितंवास मासयेत् ।
अर्चये लोकपाश्च प्रागारभ्य प्रदक्षिणं ।
कुंदे कृत्वाज्य भागांतं सर्वमुल्लेख नादिकं ।
स्वगृह्योक्तविधानेन पायसे नैवहोमयेत् ।
अयुः कामोघृते नाग्नौ जुहुयाल्लक्ष संख्यया ।।
आयुतंवा सहस्रंवा शत मष्टोत्तरंतुवा ।
दूर्वात्रिकैर्वा जुहुयान्मधु रत्रय नंयुतैः ।।
गुडूची खण्डकैर्वापि चतुरंगुळ मायतैः ।
अधवा जुहुयाद्विद्वान् मिक्षितैस्तिल तंजुलैः ।
प्रक्षाळितै स्तिलैर्वापि जुहुयाद्गोघृत प्लतैः ।
पलाश समिधोहुत्वा सर्वमायु रवप्नुयात् ।
अधवा तर्पयेद्देव मुदकेन समाहितः ।
आरोग्यकामो जुहुयादर्क काष्ठे घृतप्लुतैः ।
पयसावापि जुहुयाद्द्रव्ये नाज्येनावा पुनः ।
फलाश समिधोवापि सर्वरोग प्रशांतये ।
आच्चिद्द्रै राम्रपर्णैस्तुपयोक्तै जुहुयाज्ज्वरे ।
गुडुची खण्डकैर्वापि जुहुयाद्गोघृत प्लतैः ।
प्रमेहे मधुनाहोमः पयसावा घृतेनवा ।
औदुंबर समिद्भिर्वा होम आमलकेनवा ।
गुल्मेशाल्मलि होमस्यात्तिलैः कृष्णैघृतेनवा ।
वर्दमान समिद्धोमः सद्यः शूल हरोभवेत् ।
करंज समिधोवापि निर्गुंडी समिधोपिवा ।
तैले नाभ्यज्य जुहुयाद्वातरोग प्रशांतये ।
शमी समिद्भिर्जुहुयादति सारप्रशांतये ।
शांत्यर्थ मक्षिरोगस्य पलाश समिधः स्मृताः ।
उस्मत्त समिधोहुत्वा अपस्यारात्प्र मुच्यते ।
कुबेराक्षी न्द्रवल्लीभ्यां नेत्र शूलेषु होमयेत् ।
तैलेनाभ्यज्य जुहुयाद्वज्र खण्डैस्त दैवच ।
मातलिंग गुडूचीनां होमः कामल नाशनः ।
मधुरत्रय होमेन शांतिः स्याद्रास यक्ष्मणां ।
होमाच्च फलमूलानां गर्भरोगः प्रशाम्यति ।
कुष्ठे मसूरिकै र्षोहॆ मधुत्रितय संयुतैः ।
छिन्नोत्पलैस्तु जुहुयात्सला शैर्वा घृतप्लुतैः ।
अथवा तैल संयुक्तै र्जुहुयाद्गौर सर्षपैः ।
योचान्ये मुखरोगाः स्युः शिरो रोगास्तधैवच ।
तेसर्वे प्रशमंयांति तिलै र्षोमाद्घृत प्लुतैः ।
औदराणां तुरोगाणां सर्वेषां शांति मिच्छता ।
बिल्ववृक्ष समिद्दोमः कर्तव्यो द्विजनत्तम ।
अथ स्रावेतु जुहुया त्सर्मवत्रै घृतप्लुतैः ।
दूर्वाभिर्वापयोक्ताभि र्जुहुया च्चंदनेनवा ।
अश्वद्धस्य समिद्भिश्चरक्त स्रावेतु होमयेत् ।
अथवा गोघृतेनैव रक्तातिसारशांतये ।
अन्यरोगेषु सर्वेषु कण्ठरोगे महोदरे ।
त्रिभिः फलैस्तु जुहुयान्मदु क्षीरघतप्लुतैः ।
मधुररत्रय होमस्तु सर्वरोग प्रशांतये ।
आयुर्वेदेषु यत्प्रोक्तं यस्य रोगस्य भेषणं ।
तस्यरोगस्य शांतर्धं तेन तेनच होमयेत् ।
अथवाते नमंत्रेण पावमानाभिरेववा ।
तीर्थतोयेनदेवेशी मभिषिंचे त्समाहितः ।
भूत ज्वरे ग्रहदीनां सर्वेषा मपिशांतये ।
अथवा तर्पणंकुर्या न्मंत्रैः पूर्वोक्तसंख्यया ।
अथवा नियताहारो जपेन्मंत्रं समाहितः ।
एवं होमं जपं कुर्या त्तर्पणं जपमेववा ।।
आयुरारोग्यसिद्ध्यर्थ मात्मनोवा परस्यच ।
एकाहं वात्र्यहंवापि दशाहं द्वादशाहकं ।
पक्षं मासं द्विमासंवा मासत्रय मथापिव ।
अथवा चतुरोमासान् षण्मासाने कहायनं ।
भमेमहाति संजाते दीर्घकालं समाहितः ।
अल्पेल्पकालंकुर्वीत जुपहोमादिकं त्रयं ।
रोगकालोपयुक्तं यद्द्रव्य शय्यासनादिक ।
रोगमुक्तस्तु तत्सर्वं नोपयुंज्यात्कदाचन ।
अपमृत्यु जयोपाय महं वक्ष्याम्यतः परं ।
मधुरत्रय युक्ताभिः दूर्वाभिर्जुहुयाद्भुधः ।
सहस्रमयुतंवापि शतमष्टोत्तरंतुवा ।
श्वेतार्ककुसुमैर्वापि जुहुयाद्गोघृतेनावा ।
अपमार्गसमिद्भिश्चतिलैः कृष्णैर्यवैरपि ।
मधुरत्रय युक्ताभिः दूर्वाभिर्जुहुयाद्भुधः ।
सहस्रमयुतंवापि शतमष्टोत्तरंतुवा ।
श्वेतार्ककुसुमैर्वापि जुहुयाद्गोघृतेनवा ।
अपमार्गसमिद्भिश्च तिलैः कृष्णैर्यवैरपि ।
अथवा गोघृतेनैव पयसावापि होमयेत् ।
कपिला गोघृतं क्षीरं प्रशंसंति मनीषिणः ।
शनैश्चरधिनेश्वर्धं स्पृशन्मंत्र मिमंजपेत् ।
साक्षान्मृतो द्विजः कुर्या त्किंपुनः स्वयमुत्सृजेत् ।
अथवापय सादेव मभिषिच्य घृतेनवा ।
पलाश खदिराश्वत्थ समिद्भि र्जुहुयात्तुवा ।
बिल्ववृक्षो द्भवैर्वापि सोपिमृत्योर्वि मुच्यते ।
अथवाश्र पयित्वातु चरुं रौद्रं द्विजोत्तम ।
अष्टोत्तर शतं हुत्वा मृत्युंजयति मानवः ।
अथोपायांतरं वक्ष्ये साक्षानमृत्यु निवर्तनं ।
हस्तमात्र प्रमाणेन वेदिं कुर्या द्विचक्षणः ।
तन्मध्ये स्थापयेत्कुंभं पीत सूत्रेण वेष्टितं ।
तंडुलैर्व्रीहिभिश्चैव चतुरस्रं समंततः ।
वासो युग्मैन संवैष्ट्य तीर्दतोयेन पूरितं ।
पल्लवान् क्षीरवृक्षाणा मथवा चूत पल्लवान् ।
प्रक्षप्य तत्रा लंकृत् गंध माल्याक्षतादिभिः ।
तत्रा वाह्य महादेवं देवं त्र्यंबक मीश्वरं ।
पूजये द्गंध पुष्पैद्यैः त्र्यंबकेत्य नयाऋचा ।।
ततोभि मंत्रमेत्कुंभं मंत्रेणानेन मंत्रवित् ।
अष्टोत्तर सहस्रंतु अभिषिंचेततोनरं ।।
स्रोक्षये द्वाथकूर्चेन राजनंतु निशेषतः ।
नाप मृत्यु भयं तस्य पचव्याधि कृतं भयं ।।
परार्थे धनलोभेन मोहादज्ञानतोपिवा ।
मृत्युंजय जपं कुर्यात्स्वयं मृत्यु मवाप्नुयात् ।।
मातरं पितरं पुत्रं राजाचार्यौ विना सदा ।।
महा मृत्युंजय विधाने रत्राविधिः
अथ रक्षाविधिं वक्ष्ये सर्वभूत भयासहं ।
औपानसाग्नि होत्रोत्थं गृहीत्वा जन्मवैसितं ।। 1
मृत्युंजये नायातंवा सहस्र मपिवाशतं ।
ततोभि मंत्र्यतद्भन्मते नांगानिच संस्पृशेत् ।। 2
आधारं प्रवक्ष्यमामि रोगमृत्यु भयापहं ।
ग्रहप्रेतोर गादिभ्यो भयंचैव नजायते ।। 3
यदैष्टेन सुवर्णेन कारयेदंगुळीयकं ।
पंचलोहे नवाकुर्या त्रिलोहेनैवापुनः ।। 4
थतः संपूज्यदेवेशं गंध पुष्पाक्षतादिभिः ।
त्रियंबकेति मंत्रेण मनस्तेन समाहितः ।। 5
कुंडेवा स्थंडिलेवापि विधिवन्मंत्रकोविदः ।
गोघृते नैव जुहुयाद्द्यात्वा देवं जनार्दनं ।। 6
शतं सहस्रमयुतं नियुतंवापि तत्त्वतः ।
होतुश्च दक्षिणेपार्श्वे हैमेवा राजतेपिवा ।। 7
कांस्येवा मृण्मयेवापि पात्रेन्य स्यांगुळीयकं ।
सर्वाहुतिषु संपातः तस्मिन्नर्पयते बुधः ।। 8
अंगुळीयं स्पृशन्मंत्रं शतमष्टोत्तरं जपेत् ।
अंगळ्यां सर्वरक्षार्थं धारयेदंगुळीयकं ।। 9
अनेनैव विधानेन सर्वाण्याभरणानिच ।
नवानिधारयोन्नित्यं जीवेद्वर्षशतं सुखी ।। 10
उ त्पा त दु स्स्व प्ना दि शा न्ति ः -----
--- त त्रै व म हा मृ त्युं ज ये ----
अथ शांति प्रवक्ष्यामि सर्वोपद्रवनाशिनी ।
अद्भुतेषु च सर्वषु दुस्स्वप्नेषु द्विजोत्तम ।। 1
दिव्यांतरिक्षभौमाना मद्भुतानां च दर्शने ।
प्रत्यक्षं प्रतिभातेषु नानारूपेषु सर्वशः ।। 2
?Bभूत प्रेत पिशाचाना मावेशंकिते तथा ।
ग्रह मध्येग्नि माधाय श्रपयेत्पाय संचरुं ।। 3
तेनाव बाहुयादग्नौ मंत्रेणानेन संयतः ।
तिलोदनंवा जुहुया च्चुद्दोदन मधापिवा ।। 4
अष्टोत्तर शतं मंत्रै र्जुहुयाद्गो घृतेनवा ।
पलाश खदिराश्वत्थ बिल्वान्य ग्रोद संभवैः ।। 5
अपामार्ग समिद्भिर्वा जुहुयादथ वातिलै ।
अथवानेन मंत्रेण कोचिहोमंतु कारयेत् ।। 6
गव्येन सर्पिषा विद्यान् यवव्रीहि तिलै स्तुवा ।
अग्निमादाय जुहुयात्समिच्चुरु घृतादिकं ।। 7
भूतप्रेत पिशाचाश्चये चाप्यन्ये ग्रहादयः ।
तेसर्वे होमगंधेन धूप संन्पर्शनेनच ।
मंत्रस्यास्य प्रभावेन विर्गच्चंति गृहात्ततः ।। 8
आथवानेन मंत्रेण पूर्ण कुंभं समीहीतः ।
अभिमंत्र्यगृहं सर्वं प्रोक्षयेत्तेन वारिणा ।। 9
अथन्यास विधंवक्ष्ये मंत्रस्यास्य महामुने ।
त्रयस्त्रिंश दस्मिन् मंत्रेतु देवताः ।। 10
आदा वष्टौ वसून् विद्यात् रुद्रानेकादशोत्तरे ।। 11
ततश्च द्वादशादित्यः प्रजापति रनंतरं ।
वषट्कारस्तु भूतेषु सर्वरक्षा करश्शिवः ।। 12
एवमेतानि रूपाणि देवानां कधितानिवै ।
अक्षराणिन्यसेन्मंत्री सर्वांगेषु समाहितः ।। 13
मूर्धादि पंचस्थानेषु प्रदमं पंचकं न्यसेत् ।
दक्षिणस्य करस्यापि संदिस्थानेषु पंचसु ।। 14
ततः पराणि पंचैव वामहस्तेन्य सेत्ततः ।
ततस्तु दक्षिणेपादे संदिस्थानेषु पंचसु ।। 15
पराणि पंचविन्यस्य वामपादे तथान्यसेत् ।। 16
ततश्च दक्षिणेपार्श्वे वामपार्श्वेन्य सेत्क्रमात् ।
पृष्ठेनाबौच गुह्येच कुक्षौच त्रितयं न्यनेत् ।। 17
भ्रूमध्ये शिरसिगळे हृदये मातृकान्यसेत् ।
एवं विन्यस्यसर्वाणि ततोंत्रे प्रणपं जपेत् ।। 18
स्वस्यांगेषु न्यसेदेव देवमंत्रं समाहितः ।
एवं कर्तुमशक्तस्तु कुर्याद्रक्षां द्विजोत्तमैः ।। 19
अ थ का म्य क र्मा णि
अथ काम्यानि कर्माणि प्रवक्ष्यामि समासतः ।
श्रीकामो बिल्ववृक्षस्य समिद्भिरधवाफलैः ।। 1
पत्रैर्वाप्यस्य जुहुया न्महतींश्रिय माप्नुयात् ।
गोकामः पयसा होमाल्लभतेगां पयस्वीनीं ।। 2
विद्यार्थी जुहुयाद्यस्तु रुद्राक्षै र्गोषृतप्लुतैः ।
विद्यांचायुस्ततोवित्तं लक्षतेनात्रसंशयः ।। 3
अन्याद्यकामो जुहुयादन्न मेवं घृतप्लुतं ।
पलाशसमिधोहुत्वा ब्रह्मवर्च स्समाप्नुयात् ।। 4
वृष्टिकामस्तुसंपूज्य देवदेव त्रियंबकं ।
अर्घ्यपाद्यादिभिर्देव मब्लिंगै रभिषेचयेत् ।। 5
आपोहिष्ठेतितिसृभिः हिरण्यवर्णादिभिस्तधा ।
पवमानुवाकेन त्र्यंबकेत्य नयाऋचा ।। 6
वैतसीभिः समिद्भिस्तु जुहुयात्पयसाप्लुतैः ।
आयुतंवा सहस्रंवा जुहुयत्पयसापिवा ।। 7
पुण्याहंवा चयेच्चैव ब्राह्मणान् भोजयेत्ततः ।
दशाहाभ्यंतरेवृष्टि र्बवत्येव नसंशयः ।। 8
वृष्टिकामाश्चर्द्रवासा वटवृक्ष समुद्भवैः ।
समिद्भिर्जुहुयान्मंत्रा स्सद्योवृष्टि मवाप्नुयात् ।। 9
नाभिमात्रे जलेस्थित्वा ध्यायन्वै पुष्टिमाप्नुयात् ।
जपेत्रियबकं मंत्रं महातीं पुष्टिमाप्नुयात् ।। 10
अग्नोहोत्रा त्समादाय सितंभसितमुत्तमं ।
अनयातुऋचाहुत्वा जलेवृष्टिं निवारयेत् ।। 11
जलेत्वेत्यर्थः :---
पुत्रकामस्तु जुहुयात्पायसं घृतसंयुतं ।
चुरुशेषं स्वयंभुक्त्वा पुत्रमाप्नोति मानवः ।। 12
पार्ण मास्यां तिलान्हुत्वा घृताक्तान् विदंतेसुखं ।
गोचर्ममात्रमालिप्य गोमयेनाधभूतले ।। 13
धान्यराशिं विनिक्षिप्य तन्मध्ये स्थापयेद्बुधः ।
विंशतिं कलशांस्तत्त्रसितसूत्रेण वेष्टितान् ।। 14
तीर्धतोयेनपूर्णा न्भूषितान् पल्लवादिभिः ।
त्रियंबकेति च मंत्रेण कलशान्पूजयेत्सुधीः ।। 15
कलशानभिमंत्र्याध सूक्तानि प्रजपे द्बुधः ।
अथ वंध्यास्त्रियंतैस्तु अक्षिभ्यामादि मंत्रकान् ।। 16
त्रियंबकं च जपित्वाथ तीर्धैः प्रत्यंगमार्जनं ।
कृत्वातां प्राङ्मखीं कृत्वा कलशै रभिषिंचयेत् ।। 17
अचिराल्लभतेपुत्र मायुष्मंतं यशस्विनं ।। 18
वस्त्रकामस्तु जुहुयात्कुसुमैः कालसंभवैः ।। 19
यद्वर्णं जुहुयात्पुष्पं तद्वर्णं वस्त्रमाप्नुयात् ।
धान्यं तिलाज्यसंयुक्तं हुत्वा कन्यामवाप्नुयात् ।। 20
देवतावश्यकामस्तु कृसरं घृतसंयुतं ।
अष्टोत्तर सहस्रंतु जुहुयात्पायसेनवा ।। 21
हविश्शेषं स्वयंभुक्त्वा जपेन्मंत्रमिमं पुनः ।
देवतायां समिद्दिश्य करोत्येव मतंद्रियः ।। 22
प्रत्यत्र भूतासा देवी वरमीष्टं प्रयच्चति ।
इत्थं लोकंवंशे कुर्यानक्षत्रे रुद्रदैवते ।। 23
करवीरसमिद्भिस्तु तैलैनाक्तैः घृतेनवा ।
अष्टोत्तर सहस्रंतु हुत्वैवोच्चाटयेद्रिपून् ।
निर्कुंडिका समुद्भिश्चश्वेतार्क क्षीसंमितैः ।। 24
कारयेत्तत्र होमंतु कुर्वतो भ्रमते रिपुः ।
उन्मत्त समिधो होसूत्पुरस्योच्चाटनं भवेत् ।। 25
अदान्यपि यात्क्रूरं कल्पोक्तं मारणादिकं ।
तत्सर्वं नैवकर्तव्यं ब्राह्मणेन नृपेणवा ।। 26
लैंगे उत्तरार्थे त्रिपंचादश ध्याये ।
सूत उवाच :----
त्र्यिंबकेन मंत्रेण देव देवं त्रियंबकं ।
पूजयेद्बाण लिंगेवा स्वयं भूतेपिवा पुनः ।। 27
ऋषितीर्थे देवतीर्थे यधाव दनुपूर्वशः ।
अष्टोत्तर :----
सहस्रेण पुंडरीकेण शंकरं ।। 28
रक्तोत्पलसहस्रेण तथा नीलोत्पलेनच ।
संपूज्य पायसं दत्वा घृतमौदनिकं पुनः ।। 29
मुद्गान्नां मधु संयुक्तं भक्ष्यमाणि सुरभीणिच ।
अग्नौहोमश्च विपुलो यधावदुनु पूर्वशः ।। 30
पूर्वोक्तैरपि पुष्पैश्च चरुणाच विशेषतः ।
जपेद्वैनियुतं सम्यक्काल मृत्यूप शांतये ।। 31
जातीपुष्पेण वश्यार्थी जुहुया दयुत त्रयं ।
घृतेन करवीरेण कुर्या दाकर्षणं त्विजः ।। 32
विद्वेषणं विषेणैव कुर्याद्दालाहलस्यच ।
तैले नोच्चाटनं प्रोक्तं न्तंभनं मधुनास्मृतं ।। 33
तिलेन मोहनं प्रोक्तं ताडनं रुधिरेणच।
खरस्यच गजस्याथ उष्ट्रन्यच यधा क्रमं ।
स्तंभनं सर्षपैश्चापि पाटनं लशुनेनच ।। 34
मारणोच्चाटनं चैव द्रोहबीजेन सुव्रताः ।
बंधनं स्नुहि पत्रेण सेनास्तंबोयतः परं ।
घृतेन सर्वसिद्धिः स्यात्पायसादृधि रुच्यते ।
तिलेन रोग नाशश्च कमलेन धनं भवेत् ।। 35
कांतिं मधूक पुष्पेण सावित्र्या चायुत त्रयं ।
जपादि प्रभृतिं कुर्यात् स्विष्टांतं पूर्व वत्स्मतं ।। 36
रुद्राध्यये प्येपं - इति वसिष्ठ कल्पः ।।
दा न हे मा द्रौ शौ न क ः
त्रियंबकं याजमह इति शिखायं न्यसेत् ।। 1
सुगंधिं पुष्टिवर्धन मिति हृदये ।
उर्वारुक मिव बंधनादिति बाह्वोः ।। 2
मृत्योरिति गुह्ये मुक्षीय मामृतादिति नाबौ ।
पादगुल्पेच जिंहोरुजघने कटिमेढ्रयोः ।। 3
नाभौ कुक्षिद्वये पार्श्वेक क्षयोः कुचयोः हृदि ।
स्कंदेच कुक्षिकायांच कूर्परे मणिबंधके ।। 4
कनिष्टिनामिका मथ्या तर्जन्यांगुष्ट पाणिषु ।
कंठेच चुबुके वक्त्रे नासिकाकर्णच कुषी ।। 5
ललाटे मूर्ध्नि चूडायां वर्णास्मंत्रस्य विन्यसेत् ।। 6
देवीपुराणे :--- ओं --- जूं --- सः
इति मंत्रोयंख्यातो मृत्युंजयः पुरः ।। 7
मृत्युं जयस्तु देवोयं चतुर्बाहु स्त्री णेत्रकः ।
अक्षमालाधरोदेवो दक्षिणेनतु पाणिना ।। 8
वामेनामृत कुंडीच धारयेद मृतान्वितां ।
वरदा भयपाणिश्च दिव्याभरण भूषितः ।। 9
शुक्लः सुनील वासाश्च पद्मस्योपरि संस्थितः ।
तारं तस्य शिरोज्ञेयं हौं जुं सश्च शिवार्चने ।। 10
अष्टौतु शक्तयः पूज्याः पंचाक्षर समन्विताः ।
जयाच विजयाचैव अजिताचा पराजिता ।। 11
ओं जूं सः इति मंत्रेण पूज्यो मृत्यु जयः शिव इति ।।
अ थ प्र यो ग ः
कर्तादेश कालौ न्मृत्वा मम जीवच्चरीरा विरोधेना मुक रोगस्य समूल नाशेनापमत्यु निहरण द्वारा क्षिप्रारोग्यार्दममुश संख्यया महमृत्युंजय जपमहं करिष्ये ।
विप्रद्वारा कारयिष्ये इतिवा संकल्प्य ।। गणेश पूजा पुण्याहवाचन मातृका पूर्वक वृद्धि श्राद्धानि कृत्वाचार्यं वस्त्राद्यैः वृणयात् ।।
अथ आचार्यः :---
आचम्य प्राणानायम्य देशकालौस्त्मत्वा अयुकस्य क्षिप्रा रोगार्धममुकाज्ञया त्रिंबक पूजन जपादिकं करिष्ये ।।
इत्युक्त्वा :---
पृथ्वीति मंत्रेणसनंकृत्ाप सर्पन्त्विति भूतान्युत्सार्य ।। ताशत्रयंकृत्वा मूले नलमिति द्वादशावृत्या 12 -- वामनासापूर्य ।। मूलं यमिति षोडशावृत्या 16-- कुंभंकृत्वा ।। मूलेन रमिति द्वात्रिंशदावृत्या 32 --- रेचयेते । यमिति द्वादशावृत्या 12 -- देहं संशोष्यरमित्यग्नि बीजेन दग्घ्वावमित्य मृतबीजेन आप्लाव्यात्मन आकाशः आकाशाद्वायुः वायोरग्नि रग्नेरापः अद्भ्यः पृथिवीति तस्य देहोत्पत्तिं विभाव्यवमित्य मृतं श्रावयित्वा प्रामप्रतिष्ठां कृत्वा शिवोह मितिविभाव्येष्ट देवंनत्वा वामे गुहु परमगुरु परापरगुरु परमेष्टिगुरान् स्वबीजनामभिर्नत्वा मूलेन प्राणानायम् ।। इन्य श्रीमृत्युंजय महामंत्रस्य वसिष्ठऋषिः अनुष्ठुप् छंदः ।। मृत्युंजय मंत्रजपे विनियोगः ।। शुद्ध त्र्यंबकेत्र्यं बीजं । अं शक्ति । वं कीलकमिति मंत्रकोशे अक्षि शिरोमुख हृदय गुह्यपादेषु ऋष्यादी न्विन्यस्यमूलेन करशुद्धिं कृत्वा प्रणवं करतल योः स्यसेत् । ओं अग्नये हृदयाय नमः । त्रिंबकाय शिरसे स्वाहा । त्रिनेत्राय शिखायै ।। वसिष्ठाय कवचाय हुं । अनुष्टुप् छंदसे नेत्रत्रयाय वौषट् रुद्रो देवता अस्त्रायफट् ।।
अथ षडंगः :----
त्र्यंबकं हृदयाय । यजामहे शिरसे । सुगंधं पुष्टिवर्थनं शिखायै । उर्वारुक मिवबंधना त्कवचायहुं ।। मृत्यो र्मुक्षीय नेत्रत्रयाय वौषट् । मामृतादस्त्राय फट् ।।
अथ पादन्यासः :---
ओं त्र्यियंबकं यजामहे पूर्ववक्त्रय नमः । ओं सुगंधिं पुष्टिवर्धनं पश्चिम वक्त्राय नमः । ओं उरुवारुक मिव बंधनात् दक्षिण वक्त्राय नामः । ओं मृत्यो र्मुक्षीय मामृतादित्युत्तर वक्त्राय नमः । ओमिति सर्वर्छा ऊर्ध्वा वक्त्राय नमः ।।
अधाक्षर न्यासः :---
सर्वत्र प्रणवादि नमों तत्वं । त्र्यं दक्षिणपादमूले । बंद दक्षिणजानुनि । कं दक्षिणगुल्फे । यं दक्षिण पादांगुळि मुलेषु । जां तदग्रेषु । मं वामपामूले । हॆं
वामजानुनि । सुं वामगुल्भे । गं वामपादांगूळि मूलेषु । दिं तवग्रेषु पुंगुह्ये । ष्टिं आधारे । वं उदरे । र्धं हृदये नं कंठे ।। उर्वारुक मित्ये तानि दक्षिण बाहु संधिषु । वबंधनान्मृं वाम बाहु संधिषु ।। त्यों मुखे र्मुं क्षिं दक्षिण वामनासयोः ।। यं नेत्रयोः । मां कर्णयोः ।। मृं भृवोर्मध्ये । तात् शिरसि ।। अध वदन्यानः । त्र्यंबकं शिरसे ।। यजामहे भृवोर्मध्याय सुगंधिं नेत्राभ्याः । पुष्टिवर्दनं मुखाय । उर्वारुकं गंडाभ्यां । इव हृदयाय । बंधनात् उदराय । मृत्योर्गुल्फाय । मुक्षिय मूरुभ्यां । अमृतात्पादाभ्यां ।। अधाक्षरादिन्यासं ओं त्रिं अधर्वाय शिरसे नमः । यं धृवय नेत्राभ्यां बंसौमाय कर्णाभ्यां । कं अद्फ्योनापा पुटाय । यं अनिलाय मुखे । जां आनलाय दक्षिण बाहुमूलाय । कुं प्रत्यूषाय कूर्पराय । हें प्रभासाय दक्षिण मणि बंधाय । सुं वीरभद्राय दक्षिंगुळि मूलेभ्यो । गं शंभवे ततग्राय । धिं गिरिशाय वाम बाहु मूलाय । पुं अचैक पादाय वाम कूर्पराय । ष्टिं अहिर्बुध्न्याय वाममणि बंधाय । वं पिनाकिने वासूंगुळि मूलेभ्यो नमः । र्धं अपराजिताय तदग्राय । नं भुवनाधीश्वराय दक्षिण पादमूलाय । उं कपालिने दक्षिजानवे नमः । र्वां स्थाणेवे दक्षगुल्भाय । रुं भर्गाय दक्ष पादांगुळि मूलेभ्यो । कं थात्रे तदग्रेभ्यो नमः । मिं अर्यम्णेवामोरु मूलाय । वं मि6ाय वाम जानवे नमः । बं वरुणाय वामगुल्फाय । धं धर्माय वामपादाय । नात् भगाय तदिरेषु । मृं इंद्राय दक्ष पार्श्वाय । र्त्यों यमाय वाम पार्श्वां । मुं पृष्ठे पृष्वा । क्षीं पर्जन्याय भृवोर्मद्याय । यं त्वष्ट्रे ललाटाय । मां विष्णवे शिरसे नमः मृं प्रजापतये कंठाय । ताद्वषट्काराय हृदयाय प्रणवं जपेत् ।।
अथा परः :---
त्रिंबकं यं - एतान्मुखस्य पूर्व पश्चिम दक्षिणोत्तरेषु न्यसेत् । जां उरसिमंगळे । हें मुखे । सुगंनेत्रयोः । धिंनाभौ । पुं हृदये । ष्टिं पृष्ठे । र्थं कृक्ष्योः । नं लिंगे । उं पायौ । र्वां ऊर्वोः । रुधकं जान्योः । मिं वंजंघयोः । बंधंस्तनयोः । नांस्मृं पार्श्वयोः । त्योंर्मुं पादयोः । क्षीं यं पाण्योः । मां मृं नासिकयोः । तात् शिरसि । अधहेमाद्रौ शौनकोक्तन्यासः । त्रंबकं यजामहे शिखायां । सुगंधिं पुष्टिवर्धनं हृदये । उर्वारुक मिवबंधान द्बाहोः । मृत्योर्मुक्षीय मामृतात् नाभौ । त्यं पादयोः बंगुल्भयोः । कंजंघयोः । यं ऊर्वोः । जां जघने । मं कटौ । हॆं मेढ्रे । सुं नाभौ । गं कुक्षौः धिं पार्श्वयोः । पुं वक्षसि । ष्टिं स्तनयोः ।। वं हृदिर्धं स्कंधयोः । नं कंठे । उं कूर्परयोः । र्वां मणिबंधयोः । रुं कनिष्ठयोः । कं अनामिकयोः । मिं मध्यमयोः । वं तर्जन्योः । बं अंगुष्ठयोः । धं पाण्योः । नां कपोलयोः । मृं चुबुके । त्यों मुखे । र्मुं नासयोः । क्षिं कर्णयोः । यं नेत्रयोः । मां ललाटे । मृं मूर्धनि । तात् शिखायां । एते केवलं मृत्युं जयन्यापाः । महा मृत्युंजयेप्येत देव किंतु प्रत्यक्षरं व्याहृति त्रयं प्रणव पूर्वंवदेत् ।।
ओं भूः - ओं भूवः - ओं सुवः - ओं त्र्यं दक्षिण पाद मूले - हौं - ओं - जुं - ओं सः इतिवा प्रतिवर्णं प्रतिपद मादौ वदेत् । अथनाम षडंगः । ओं हौं ओं जुं ओं सः ओं नमो भगवठे रुद्राय शूलपाणये स्वाह हृदयाय नमः । ओं हौं ओं जुं ओं सः ओं नमो भगवते रुद्राय अमृत मूर्तये मांजीव य शिरसे । ओं हौं ओं जुं ओं सः ओं नमो भगवते रुद्राय चंद्र शिरसे जटिसे शिखायै । ओं हौं ओं जुं ओं सः ओं नमो भगवते रुद्राय त्रिपुरांतकाय ह्रीं ह्रीं कवचाय । ओं हौं ओं जुं ओं सः ओं नमो भगवते रुद्राय भिलोचनाय ऋग्यजुस्साम मंत्राय स्वाहा नेत्रत्रयाय वौषचे । ओं हौं ओं जुं ओं सः ओं नमो भगवते रुद्राय प्रळयाग्नि रुद्राय नेत्रत्रयाय ज्वल ज्वल मां रक्ष रक्ष अघोरमूर्तये अस्त्राय फट् । अथ तृतीय षडंगः - ओं हौं ओं जुं ओं सः ओं नमो भगवते रुद्राय त्रियंबकाय त्रिनेत्राय त्रिपुरांतकाय त्र्यिंबकं हृदयाय । ओं हौं ओं जुं ओं सः ओं नमो भगवते रुद्राय नीलग्रीवाय शशांक धृतशेखरायामृत वर्षिणे यजा महे शिरसे । ओं हौं ओं जुं ओं सः ओं नमो भगवते रुद्राय व्याघ्र चर्म परिधानाय कपर्दिने सुगंधिं पु,्टि वर्धनं शिखायै । ओं हौं ओं जुं ओं सः ओं नमो भगवते रुद्राय पिनाकधारिणे नागाभरणाय दंडमाला धराय उर्वारुक मिवबंधना त्कवचाय हुं । ओं हौं ओं जुं ओं सः ओं नमो भगवते रुद्राय ऋग्य जुस्साम मंत्राय ज्योति रूपाय ज्ञानात्मने मृत्योर्मुक्षीय नेत्रत्रयाय । ओं हौं ओं जुं ओं सः ओं नमो भगवते रुद्राय अग्निजीजाय दुष्टग्रह निवारणाय दूर्जटिने अघोरमूर्तये ज्वल ज्वल रुद्र शक्ति त्रिशूलधर मां रक्ष रक्ष सर्वतोs भयं दिश अघोराय मामृता चस्त्राय फट् । ततः पीठा दौमध्ये वृत्तं । द्बहिश्चतु रस्रंतद्बहिः षड्रसं - तद्बहि रष्टदळ द्वयं ततश्चतुष्कोण मिति यंत्रं विलिख्य । धर्माय ज्ञानाय । वैराग्याय । ऐश्वर्याय । अधर्माय । अज्ञानाय । अवैराग्वाय । अनैश्वर्याय । कृताय । त्रेताय । द्वापराय । कलये । सत्वाय । रजसे । तमसे । सूर्य मंडलाय । सोम मंडलाय । वह्निमंडलाय । वह्नये । इति संपूज्य ।।
श्लो ।। मृत्यं जयस्तु देवोयं चतुर्बाहु स्त्रीणेत्रकः ।
अक्षमालाधरो देवो दक्षिणेनतु पाणिना ।
वामेन घृत कुंडीच धारयन्न मृतान्वितं ।। 1
श्लो ।। वरदा रुद्रदा भय पाणिंच दिव्या भरण भूषितं ।
शुक्लं सुनील वासाश्च पद्मस्यो परि संस्थितः ।। 2
इति हेमादौ ।।
श्लो ।। अच्चस्वच्चारविंदस्थिति रुभय करांक स्थितौ पूर्णकुंभौ द्वाभ्यां ।
वेगाक्षमाले निज करकमालाख्यां घटौ नित्य पुर्णौ ।। 3
श्लो ।। ताभ्यामित्थं स्रवंतं शिरसि शिशकला बंधुरेप्लाव यंतः ।
स्सोयं देवो दधानः प्रविशतु निशदकल्पजाल श्श्रियं नः ।। 2
इति प्रपंच सार मंत्र कोश रीत्या ।।
श्लो ।। बद्दपिंग जटाजूटं नागभूषण भूषितं ।
द्वादशाक्षं पंचपक्त्र मष्टादश भूजं विभु मितिवा ।। 1
हस्ताभ्यां कलशद्वयामृत रसै राप्लाव यंतं शिरोद्वाभ्यांतौ दधतं मृगाक्ष वलयं द्वाभ्यां वहस्तं परं । आंकन्यस्त करद्वयामृत घटं कैलास संस्थं शिवं न्वस्थां भोजगतं नवेंदु मकुटं देवं त्रिनेत्रं भजे ।।
इति द्यात्वामूले ननासाग्र मार्गेण मध्ये देवता मावाह्य स्थापनी सन्निधापनी सन्निरोधिनी ।।
मुद्राः प्रदर्श्य :---
मूलेनासन पाद्याघ्यातचमन मधुवर्क स्नान वस्त्र यज्ञोपवीत गंध पुष्पाणि समर्प्य ।।
आवरण पूजा कुर्यात् :----
मध्ये ईशानं । पूर्ववक्त्रे तत्पुरुषं । दक्षिणे वामदेवं । पश्चिमे अघोरं । उत्तरे वक्त्रे सद्योजातं । ततः षट्कोणेषु । ह्रां हृदयाय । ह्रीं शिरसे । ह्रूं शिखायै । ह्रैं कपचाय । ह्रौं नेत्रत्रयाय । ह्रः हस्त्रा फट् ।। पुरतः ।। नै ऋते प्रतिष्ठायै - विद्यायै शांत्यै - इतिचतुष्कोणे । गं गणपतये नमः । मं मृत्यवे नमः ।मं दुर्गायै नमः । क्षं क्षेत्रपालाय नमः । इति चतुः पत्रे । अष्टदळे ब्राह्म्यै - महेश्वर्यै । कौमार्यै । वैष्णव्यै । वाराह्यै । इंद्राण्यै चामुंडायै । तद्बहिश्चंज भैरवाय । क्रोध बैरवाय । उन्मत्त भैरवाय । कपाल भैरवाय । संहर भैरवाय । आपदुद्धार भैरवाय । काल भैरवाय । गौर भैरवाय । तद्बहिः । लं इंद्राय । रं अग्नये । यं यमाय । नं निऋतये । पं वरुणाय । वां वायवे । सं सोमाय । ईं ईशानाय । ईशानेंद्र मध्ये आं ब्रह्मणे नमः । नै ऋति पश्छम योर्मध्ये ह्रीं विष्णवे नमः । इति संपूज्य धुप दीप नैवेद्य तांबूल दक्षिणौ नीराजन प्रदक्षिम नमस्कारा न्कृत्वा ।।
श्लो ।। मृत्युलजय महारुद्र त्राहिमां शरणागतं ।
जन्ममृत्यु जरा रोगैः पीडितं कर्मबंधनैः ।
तावकस्त्वद्गतप्राम स्त्वचित्तोहं सदामृड ।।
इति विज्ञप्य देवेश जपेन्मृत्युं जयं परं ततो जपं कृत्वा पुनः षडंगं कृत्वा ।।
जपं निवेदयेत् :---
आयुतं वुनश्चरणं । ततः प्रयोगः । अथ मंत्रोद्धारः । ओं भूः । ओं भूवः । ओं सुवः । ओं त्रियंबकं यजामहे बुक् । ओं सुवः ओं भुवः ओं भूः ओं । इति मृत्युं जयः । केवलया ऋचा । ओं जूं सः िति पूर्वा । ओं हौं जूं सः इति ओं भूर्भुवस्स्वः इति पूर्वा - अंते प्रतिलोमं सर्वत्र इतिवा महा मृत्युं जयस्तु यथा । ओं हौं जूं सः ओं भूः ओं भुवः । ओं स्वः ओं त्रियंबकं ऋक् । ओं स्वः । ओं भूवः ओं भूः ओं सः ओं जूं ओं हौं ओं स्वाहा । चतुर्धश प्रणवः । ऋग्विधाने । त्रिरात्रं नियतोनश्नन् श्रपयेत्पायसं चरुं । तेनाहुति शतं पूर्णां जुहुयात्सर्पिषाद्विजः । समुद्दिश्य महादेवं त्र्यंबकं त्र्यंबकेत्यृचा - एतत्सर्वं शतं कृत्वा जीवेद्वर्ष शतं सुखी ।।
इति मृत्युंबय विधिः ।।
अ थ पु रु ष सू क्त पु न श्च र ण ं
अथ पुरुषसूक्त विधिः विष्णुधर्मोत्तरे -- पुष्कर उवाच :---
प्रतिदेवं महाभाग यत्सूक्तं पौरुषंस्मृतं ।।
सर्वकामकरंज्ञेयं पवित्र मधुसूदनं ।
एकैक ऋचाराम स्नातोदत्वा जलांजलीं ।। 1
पौरुषेणतु सूक्तेन मुच्यते सर्वकिल्बिषैः ।
अंतर्जलगतोजप्त्वा सूक्तमेतत्तुपौरुषं ।। 2
सर्वकल्मष निर्मुक्तो यथेष्टां लभतेगतिं ।
एकैकया ऋटास्नातः पंसेपुण्यं निवेदयेत् ।। 3
पुरुषार्थंजलेराम सर्वपापैः प्रमुच्यते ।
एकैकया ऋचास्नातो दत्वोराम फलंलभेत् ।
सर्वकामनवाप्नोति यान्कांश्चि स्मनसेच्छति ।। 4
पौरुषेणतु सूक्तेन प्राणायायो महाफलः ।
जपहोमौ तथाराम सर्वकल्मषनाशनौ ।। 5
सुरापो ब्रह्महनेन तधैव गुरुतल्पगः ।
पापेभ्यो विप्रमुच्येत जप्त्वा सूक्तंतु पौरुषं ।। 6
कृच्चैः विशोधितं पूर्वं मध्याह्ने सलिलंगतः ।
स्नानस्तु पौरुषंसूक्तं जपेन्नित्य मतंद्रितः ।। 7
संवत्सरेण देवेश वासुदेवं प्रविश्यति ।
स्वयंचैव महाभाग शाकमूल फलाशनः ।। 8
तंतु काममवाप्नोति यं राममनसेच्छति ।
श्रियमाग्र्यां तथा रूपं जीवितं दीर्घमेवच ।
अणिमां लघिमांप्राप्तिं महिमां च भृगूत्तम ।। 9
दुःखापगममन्यद्वा यत्किंचि न्मससेच्चति ।
्कामः पौरुषंजप्त्वा यातिविष्णो परंपदं ।। 10
मांगळ्यमेतत्परमं पवित्रं संसार दुःखौग विनाशकारी ।
सुखप्रदं दर्मविदां नराणां मनोरथावाप्तिकरं प्रदष्टं ।। 11
महर्णवे ऋग्विधाने :---
वक्ष्ये पुरुषसूक्तस्य विधासंत्वर्चनं प्रति ।
अग्निकार्यं जपविधिं स्तोत्रंचैव तधात्मकं ।। 12
स्नात्वा यधोक्तविधिना प्राज्ञ्मखः शुद्धमानसः ।
प्रथमां विन्यसेद्वामे द्वितीयां दक्षिणेकरे ।। 13
तृतीयां वामपादेतु चतर्थीं दक्षिणेन्यसेत् ।
पंचमीं वामजानौतु षष्ठींवै दक्षिणेतथा ।। 14
सप्तमीं वामकट्यांतु अष्टमीं दक्षिणेतथा ।
नवमीं नाभिमध्येतु दशमीं हृदयेतथा ।। 15
एकादशीं कंठदे द्वादशीं वामबूहुके ।
त्रयोदशीं दक्षिणेच अस्यदेशे चतुर्दशीं ।। 16
अष्णोः पंचदशींचैव षोडशीं मूर्ध्निविन्यसेत् ।
एवं न्यासं विधिंकृत्वा पंचागानि समाचरेत् ।
ब्राह्मणोस्येत्यादिकाभिः ऋग्भिः पंचांगकल्पना ।। 17
हृदयं शिरः शिखा कवच मस्त्रंचेति पंचांगानि ।
यधादेहे तथादेवे न्यासंकृत्वा विधानतः ।। 18
तदादौ संकल्पंकृत्वा न्यासद्वयं कुर्यात् ।
अस्य सूक्तस्य नारायणऋषिः । पुरुषोदेवता ।
अनुष्टुप् छंदोंत्रात्रिष्ठुप् । जपे विनियोगः ---
तत्र जपहोमेच ऋज्मन्त्रमेव नियतमितित देवह ।
अद्ययावाहायेद्देवमृ चातु पुरुषोत्तमं ।
द्वितीययासनं दत्यात्पाद्यंचैव तृतीयया ।। 19
चतुर्थार्घ्यं प्रदातव्यं पंचम्या च मनंतथा ।
षष्ठ्यास्नानं प्रकुर्वीत सप्तम्या वस्त्रमेवच ।। 20
यज्ञोपवीतमष्टम्या नवम्याभरणं तथा ।
दशम्यां गंधदानंस्या देकादश्याच माल्यकं ।। 21
द्वादश्या दूपनंदत्वा त्त्रयोदश्यातु दीपकं ।
चतुर्दश्यातु नैवेद्यं पंचदश्या नमस्क्रिया ।। 22
उद्वासनंतु षोडश्या उपचारस्तु षोडश ।
स्नाने वस्त्रेच नै वेद्ये दद्यादाचमनीयकं ।। 23
दद्या त्पुरुषसूक्तेन यः पुष्पंजलि मेववा ।। 24
अर्चितं तेनवै सर्वं त्रैलोक्यं सचराचरं ।
तक्षिणांतु यधाशक्त्या षोडशर्चा प्रदापयेत् ।। 25
ततः प्रदक्षिणंकुर्या जपंकुर्या त्समाहितः ।
यथाशक्ति जपित्वातु सूक्तंचैस्तमै निवेदयेत् ।। 26
देवश्य दक्षिणेपार्श्वे कुंडस्थंडिलमेववा ।
कारयेत्प्रधमर्चातु प्रोक्षणं तृतीयया ।। 27
तृतीय याग्नि माचथ्या च्च तुर्थ्वातु समिंधनं ।
पंचम्या त्वाज्यसंस्कारश्च रोश्च श्रवणं तधा ।। 28
षष्ट्वा नलस्य मध्येत कल्पये त्पद्ममानसं ।
चिंतये तत्रदेवेशं कालनल समप्रभं ।। 29
विवृत्तास्यां वाहिशीर्षं रक्तास्यं रक्तलोचनं ।
ततो गंधं च पुष्पंच धूपं दीपं निवेदयेत् ।। 30
पंचबिश्च ततः कुर्या त्सप्तम्यादि यथाक्रमं ।
वहौ पूजये दित्यर्थः ।। 31
समिद्भिः प्रत्यृचंपूर्वं जुहुयादभिघारिभिः ।
ततो घृतेनजुहुयच्चरुणा ततः पुनः ।। 32
एवं हुत्वा ततश्चैव अनुज्ञाप्य यधाक्रमं ।
अग्नेर्भगवत्तस्त्य समीपेस्तोत्रमुच्चरेत् ।। 33
जितंते पुंडरीकाक्ष नमस्ते विश्वभावन ।
नमस्तेस्तु हृषीकेश महापुरुष पूर्वज ।। 34
नमो हिरण्यगर्भाय प्रधानाव्य क्तरूपिणे ।
ओं नमो वासुदेवाय शुद्धज्ञानस्वरूपिणे ।। 35
देवानां दानवानांच सामान्य मधिदैवतं ।
सर्वादा चरणं द्वंद्वं व्रजामि शरणं तव ।। 36
एकमस्त्वमसिलोकस्य सृष्टिसंहारकारकः ।
अद्यक्षौचानुमंताच गुणमाया समावृतः ।। 37
संसारसागरं घोरं अनन्तां क्लेशनाशनं ।
त्वामेव शरणंप्राप्य निस्तरन्ति मनीषिणः ।। 38
नतेरूपं नचाकारो नायुधानि नचास्पद ।
तथापि पुरुषाकारो भक्तानां त्वं प्रकाशने ।। 39
नैव किंचित्परोक्षोवा प्रत्यक्षोवा नकस्यचित् ।
नैव किंचिदपिद्वैतेन च सिद्धोसिकस्यचित् ।। 40
कार्याणां कारणं पूर्वं वचसां वाक्यामुत्तमं ।
योगिनां परमंसिद्धं त्वां वदन्तिमनीषिणः ।। 41
अहं भीतोस्मिदेवेश संसारेस्मिन् भयावहे ।
पापिमां पुण्डरीकाक्ष नाजाने शरणं परं ।। 42
कालेष्वपि च सर्वेषु दिक्षुसर्वासु चाच्युत ।
शरीरे विगतेचापि वर्थतेमे महाद्भयं ।। 43
त्वत्पादकमला दन्यन्नास्ति जन्मांतरेष्वपि ।
निमित्तं कुशलस्यापि योनगच्चामि सद्गतिं ।। 44
विज्ञानं यदिदंप्राप्तं यदिदं ज्ञानवर्जितं ।
जन्मांत रेपिमेदेव माभूदस्य परिक्षयः ।। 45
दर्गता वपिजातस्यत्वं गतिस्त्वं मतिर्मम ।
यदिनाधं च विंदेयं तावतास्मिकृती सदा ।। 46
अमुंकलुषितं नत्तं ममते पादयोः स्थितं ।
कामयोद्वैष्णवं तत्वं सर्वजन्मसु केवलं ।। 47
इत्येव मनयास्तुत्या स्तुत्वा देवं दिनेदिने ।
किं करोमीतिचात्मानं देवायैव निवेदयेत् ।। 48
पुरुषस्य हरेः सूक्तं स्वर्ग्यंधन्यं यशस्करं ।
फलाहरो जपेन्नित्यं पश्यन्नात्मा नमात्मनि ।। 49
फलानि भूक्तोपवसेन्मा समद्भिश्च वर्तयेत् ।
अरण्ये निवसेनित्यं जपन्नि ममृषिं मुनिः ।। 50
ऋषिं मंत्रं ऋग्निस्त्रिषवणंकाले यादप्सु समाहितः ।
स्नाने एताभिर्मार्जन मघमर्षणंचेत्यर्थः ।। 51
आदत्यमुपितष्ठेत सूक्तेनानेन नित्यशः ।
आज्याहुतीरनेनैव हुत्वेवं चिंतयेदृषिं ।। 52
ऋषिः सूक्तं द्रष्टो नारायणः ।
उर्ध्वं मासात्फलाहरस्त्रि भिर्वषै र्जपेदिदं ।। 53
तद्भक्त स्तन्मनोयुक्तो दशवर्षाण्य नन्यभाक् ।
साक्षात्पस्यतितं देवं नारायण मनामयं ।। 54
अनासा दयमानोपि भक्तं सपरिहसयेत् ।
भक्तानुकंपी भगवान् जायते पुरुषोत्तमः ।। 55
येनयेनच कामेन जपेत प्रयतस्सदा ।
प्राप्तकाम समृद्दस्या च्छ्रद्दध्यानस्य कुर्वतः ।। 56
होमं वाप्यथवाजप्य मुपहार मधोचरुं ।
कुर्वीतयेनकामेन तत्सिद्धि मुपधारयेत् ।। 57
ज्ञातिश्रष्ठ्यं महाद्वित्तं यशोलोके परांगतिं ।
पापेन विप्रमोक्षश्च भवेत्सर्वं ससंशयः ।। 58
अथाभिधीयतेकर्म पुत्रकामस्य वेष्णवं ।
शुक्लपक्षे शुक्रवारे सुनक्षत्रे सुगोचरे ।। 59
द्वादश्यां पुत्रकामस्तु चरुंकुर्वीत वैष्णवं ।
दंपत्यो रुपवासस्या देकादश्यां सुरालये ।। 60
ऋग्भिः षोडशभिः सम्यकर्चयित्वा जनार्दनं ।
चरुं पुरुषसूक्तेन श्रपयेत्पुत्रका मनः ।
प्राप्नुयाद्वैष्णवं पुत्र मचिरात्संतति क्षमं ।। 61
द्वादश द्वादशी स्पम्यक्पयसानिर्वपेच्चरुं ।
यः करोति सहस्रंतु याति विष्णोः परं पदं ।
हुत्वाग्निंविधि वत्सम्यक् ऋग्भि ष्षोडश भिर्बुधः ।
कृत्वांजलिपुटो भूत्वा स्तवंताभिः प्रयोजयेत् ।। 62
केशमं मार्गशीर्षेतु पौषे नारायणं विदुः ।
माधवं माघ मासेतु गोविंदं फाल्गुने तधा ।। 63
चैत्रे चैव तधा विष्णुं वैशाखे मधुसूदनं ।
ज्येष्ठे त्रिविक्रमं विद्या दाषाडे वामनं विदुः ।। 64
श्रावणे श्रीधरं विंद्याद्दृषिकेश मतः परं ।
अश्विने पद्मनाभंच दामोदर मतः परं ।
द्वादशैतानि नामानि प्रति मासंतु हावयेत् ।। 65
स्वगृह्योक्त विधानॆन पयसि चरुः कार्यः श्रवण समयेस्तूक्त मावर्तयत् - सकल सूक्तेन एकाहुति रेवं सहस्र होमः ।।
नच आयुत जपोत्तरं कार्यः :----
कृष्णैकादश्या मुपक्रम्य आयुतं जप्त्वा ।
शुक्लैकादश्यां दंपती उपोष्य द्वादश्यां ।
चुरं सहस्रं जुहुयादिति महार्णवः ।
अथापरः प्रकारोय मेकादश्याम भोजनं ।। 66
दंपत्योः पौरुष सूक्तं नित्य कर्मा विरोधिच ।
काले जपेदिदं सूक्त नित्य कर्मा विरोधिच ।
काले जपेदिदं सूक्त मेकादश्यां निरंतरं ।। 67
द्वादश द्वादशीष्वेवं पयसा निर्वपेच्चरुं ।
एव मेकादश्युपवासादि नाहुत्वाज्यं विधि ।। 68
वच्छात्रः ऋग्भिः षोषश भिद्भुधः ।
कृतांज लिपुटो भूत्वान्तुवन् ताभिः प्रयोजयेत् ।। 69
समिधोश्वत्थ वृक्षस्य हुत्वाज्यं जुहुयात्बुनः ----
उपस्थानं हुताशस्य ध्यात्वातु मधुसूदनं ----
अग्नेनय मंत्त्रॆरुपस्थानमिति महर्णवः ।
युक्तंतु पुरुषसूक्तेनैव ।। 70
हविर्षो मंततः कुर्या त्प्रत्सृचं वग्यतः शुचिः ।। 71
सूक्तेन जुहुयादज्य मादावंतेच पूर्ववत् ।। 72
हविश्शेषं नमस्कृत्य नारी नारायणं पतिं ।
भक्षयित्वा हविश्शेषं भक्त्वावामशायीस्यादित्यर्धः ।
ततः कृत्वाद्विदं कर्म कर्तव्यं द्विज तर्पणं ।
द्वितीयां स्त्रियं निवर्तेत यावग्गर्भं नविंदति ।। 73
यया सहेदं कर्म कृतंतां विहायान्यामृता वपिनोपेयात् । सर्वाभिस्सह व्रताचरणेतु नदोषः ।
ऋतावप्यन्यस्त्रिया अगमने आतिक्रम दोषानास्त्वेव - किंत्पल्पः - तत्रैकः शक्तौ प्राजा पत्याः - अशक्तौ त्रिरात्र द्विरात्रादि - अपुत्रा मृत पुत्राच याचकन्यां प्रसूयते ।
क्षिप्रं साजन येत्पुत्र मृष्यशृंगो यधा ब्रवीत् ।। 74
बृहत्पराशरो प्येवं विधिमुक्तवान् ।
होमांते दक्षिणां दद्याद्देनुंवास स्तथा तिलान् ।। 75
भूमिं हिरण्यं भक्ष्याणि यथा संभवमेवच ।।
इति पुरुषस्तूक्त विधिः।