← पञ्चमः भागः शान्तिकमलाकरः
षष्ठः भागः
[[लेखकः :|]]
सप्तमः भागः →

अ थ ग्र ह ण शां तिः
मात्स्ये :----
होरायांग्र नतेयस्य नक्षत्रेवा निशाकरं ।
प्राण संदेह माप्नोति मरणांवा समृच्छति ।।
यस्यात्र जन्मनक्षत्रे ग्रस्येते शशि भास्करौ ।
तज्जातानां भवेत्पीडाये जनाः शांति वर्जिताः ।
यस्य राजत् समासाद्य भवेत् ग्रहण संभवः ।
तस्यस्नानं प्रवक्ष्यामि मंत्रौषधि समन्वितं ।।
चंद्रोपरागं संप्राप्य कृत्वा ब्राह्मण वाचनं ।
संपूज्य चतुरो विप्रान् शुक्लमाल्यानु लेपनैः ।।
पूर्वमेवोपरागस्य समानीयौषधादिकं ।
स्थापयेच्चतुरः कुंभाने अग्रतस्सागरादिषु ।।
गजाश्वरत्थ्या वल्मीक संगमा हृदगोकुलात् ।
राजद्वार प्रवेशाच्च मृदमानीय निक्षिपेत् ।।
पंचगय्यं पंचरत्नं पंचत्व कृंच पल्लवं ।
रोचनं पद्मकं शंखं कुंकुमं रक्त चंदनं ।।
मुक्तास्फटिक तीर्थंबुसित सर्षप गुग्गुलून् ।
मधुकंदेव दारुंच विष्णुक्रांतां शतावरीं ।।
बलांच सहदेवींच निशा दशा द्वितीय मेवच ।
एतत्सर्वं विनिक्षिप्य कुंभेष्या वाहयोत्युरान् ।।
सर्वे समुद्र स्सरित स्तीर्थानि जलदानदाः ।
आयांतु यजमानस् दुरितक्षय कारकाः ।।
गंगेच = धिं कुरु ।।
योसौ वज्रभरोदेवो आदित्यानां प्रभूर्मतः ।
सहस्र नयनश्चंद्र ग्रहपीडां व्यपोहतु ।।
मुखं यस्सर्वं देवानां सप्तार्चिर मितद्युतिः ।
चंद्रोपराग संभूता मग्निः पीडां व्यपोहतु ।।
यः कर्मसाक्षि लोकानां दर्मो महीषवाहनः ।
मम चंद्रोपरागोत्थां गहपीडां व्यपोहतु ।
नागपाश धरोदेवः सदा मकरवाहनः ।।
चंद्रोपराग कलुषं वरुणोमे व्यपोहतु ।
प्राणरूपो हिलोकानां सदाकृष मृगप्रियः ।।
वायुश्चंद्रोप रागोत्थां ग्रहपीडां व्यपोहतु ।
योसौनिधिपतिः खड्गशूल चक्र गदाधरः ।
चॆद्रोपराग दुरितं धनदोमे व्यपोहतु ।
योसाविंदु धरो देवः पिनाकी वृषवाहनः ।।
चंद्रोपराग पापानि निवारयतु शंकरः ।
त्रैलोक्ये यानिभूतानि स्थावराणि चराणिच ।।
ब्रह्मा विष्ण्वर्क रुच्राश्च दहंतु ममपातकं ।
एवमावाहयेद्देवान् मंत्रै रेभिश्च वारुणैः ।।
एतानेव तथा मंत्रान् स्वर्णपट्टे विलेखयेत् ।
ताम्रपट्टे थवालिख्य नववस्तॆ तथैवच ।।
मस्तके यजमानस्य निदध्युस्तेद्विजो त्तमाः ।
कलशान् द्रव्य संयुक्तान् नानातीर्थ नमन्वितान् ।।
गृहीत्वा स्थापयेद्गूढं भद्रपीठो परिस्थितं ।
पूर्वोक्तेरेव मंत्रेश्च त्स्वर्णपट्टं निवेदयेत् ।
आचार्ये दक्षिणां दद्याद्गोदानंच स्वशक्तितः ।।
गंदमाल्यैर्दूपदीपैः पूजये द्देवतुष्टये ।
होमश्चापि प्रकर्त व्यः तिलैर्व्याहृतिभिस्तधा ।।
समाप्य होमंविधि वद्भ्राह्मणेभ्यो विशेषतः ।
दानंन शक्तितो दद्याद्य दीच्छेदात्मनो हितं ।
सूर्यग्रहे सूर्य नाम युक्तान्मंत्राश्च कीर्तयेत् ।।
अनेन विधिनायस्तु ग्रहणे स्नान माचरेत् ।
नतस्य ग्रहणो दोषः कदाचिदपि जायते ।।
इतिमात्स्योक्त ग्रहम शांतिः ।।
मदनरत्ने ग्रंधांतरे ।।

दूर्वांकुरोशीर शमीशिलजिच्च रत्न सर्वार्थ सर्वौषधि पंचमृद्धिः ।
स्नानं विदद्याद्ग्रहणे रवींद्वोः पीडा भवं शांति मुपैति दोषं ।।
ज्योतषे ।।
त्रिषट् दशायोपगतं नराणां शुभप्रगं स्याद्ग्रहणं रवींद्रोः ।। 1 ।।
आयुः एकादश । नंदनव । इषनः पंच ।।

मदनरत्ने गर्गः :---
जन्म सप्तारिष्ट रिप्सांक दशमस्थे निशाकरे ।। दृष्टोरिष्ट प्रदो राहु जन्मर्त्रे निधनेपिच ।। रिप्फं द्वादशं ।। अंकाव निधनं सप्त मतारा । पृथ्वि चंद्रोदये विष्णुधर्मे ।। यं नक्षत्रं गतो राहुर्ग्रसते शशि भास्करौ ।। तज्जातानां भवेत्पीडाये सराः शांति वर्डिताः ।।
तधैव पुराणांतरे :-----
सूर्यस्य संक्रमेवापि ग्रहणे चंद्र सूर्ययोः । यस्वत्रि जन्मनक्षत्रे तस्य रोगोथवा मृतिः ।। तस्य दानंच होमंच देवार्चन जपस्थथा ।। उपरागाभिषेकंच कुर्वाच्छांतिं भविष्यति । स्वर्णेन वाधपिष्टेन कृत्वा सर्पस्यचा कृतिं ।। ब्राह्मणाय ददेत्तस्य नरोगादिश्च तत् कृतः । जन्मदश मैकेन विंशति ताराः ।। त्रिजन्म ताराः ।। सर्वप्य तदाकारस्य राहोः ।।
अद्भुत सागरे भार्गवः :-----
यस्यराजस्य नक्षत्रे स्वर्भानुरुपजायते ।
राज्य भंगंसुहृन्नाशं मरणं चात्रनिर्दिशेत् ।।
राज्यस्य राज्याभिषेक नक्षत्रनस्येत्यर्थ बार्गवार्चचन दीपिकायां ।।
ज्योतिस्सागरे ।।
सौवर्णं कारयोन्नागं पलेनार्ध पलार्दतः ।
तदर्देनत दर्धेन तदरधेन पणायां मौक्तिकं न्यसेत् ।।
ताम्रपात्रे निधायाथ घृत पूर्णे विशेषतः ।
कांस्येवा कांतिलोहेवान्यस्य दब्यात्पदक्षिणं ।
चंद्र ग्रहेतु रूप्यस्य बिंबदद्यात्सदक्षिणँ ।।
नागं रुक्ममयं सूर्यग्रहे बिंबंचहेमजं ।
तुरंग रध गो भूमि तिल सर्पिश्च कांचनं ।।
।।कालविलेके ।।
सुवर्ण निर्मितं नागं सतिलं कांस्य भाजनं ।
सदक्षिणं नवस्त्रंच ब्राह्मणा निवेदयेत् ।।
सौवर्णं राजितंवासि बिंबं कृत्वा स्वशक्तितः ।
उपराग भतक्लेश च्छिदेवि प्रायकल्पयेत् ।।

मंत्रस्तु ।।
नमो यम महभीम सोम सूर्य विमर्दन ।
होमतारा प्रदानेन मम शांति प्रदोभव ।।
विधुंतु दनमस्तुभ्यं सिंहिकानंदनाच्युत ।
दानेनानेन नागस्य रक्षमां वेधडाद्भयादिति ।।
विशेषस्तु मत्कृत निर्णय सिंधौ ज्ञेयः ।।
ज्योतिषे ।।
जन्मांत्य पंच चतुरष्ट नवद्विसप्त राहु ग्रहोयदि तुचारवशेन गच्चेत् ।
आलोडनं नृपभयं भय मर्धनाशं रोग प्रवास मरणाग्नि भयं करोति ।।
अवर्वणि ग्रहणेत्वद्भुत सागरे मयूरचित्रे ।
अपर्वणि शशांका र्कौत्विष्टोनाम महाग्रहः ।।
आवृणोति तमः श्यामः सर्वलोक विपत्तये ।
जादुंबर सहस्राणि अष्टौच ताहुयाद्बुधः ।।
मध्वक्तानिच तान्यत्र जातवेदस इत्यृचा ।
विप्राय दक्षिणां दद्याद्धेनुंच वृषभं तधा ।।
इति हहु शांतिः ।।

अ थ के तु शा ं ति ः

तत्फल माहाज्योति र्विशिष्ट संहितायां ।
केतोरुदयास्तमयं ज्ञातुं गणितान्न शक्यते यस्मात् ।।
दिव्यातरिक्षभौमास्ते त्रिविधाः केतुवो जगति ।। 1 ।।
एकोत्तर शतभेदा दृश्यंतेवा सहस्रभेदस्ते ।
औत्पातिक रूपत्वाद्भवंति बहवस्तथैकोवा ।। 2 ।।
दिवि ऋक्षग्रहजास्ते दिव्याख्याः केतवो महीफलदाः ।
वरिपेषणेंद्रवर धनुरुल्क गंधर्व नगर विख्याताः ।। 3 ।।
गगनविकारजमेत न्मध्यम फलदं तथांतरिक्षंच ।
भूमिभवा भौमास्स्युश्चरास्थ्सिरावस्तु संभवा येच ।। 4 ।।
तेधम फलदास्तेषां कथयामि फलानि रूपाणि ।
वर्षे मासे पक्षे क्रमशः परिपाक मुपयांति ।। 5 ।।
स्निग्धप्रसन्नरूपः शुक्लनिभो हृत्स्वदंडवत्सौम्यः ।
उदयास्तमये त्वेवं सुभिक्ष सौख्यावहः केतुः ।। 6 ।।
धूमनिभो धूमाख्य केतुर्दोषप्रदो भवति ।
इंद्रशरासन रूपः स्थूपनिभो वर्षभीतिदः सम्यके ।। 7 ।।
बहुभिश्शिखा भिरतुला विद्युन्मणिहार हेमनिभाः ।
अपरेंद्र दिशोदृश्या महा हवंतद्दिगेशानां ।। 8 ।।
शुकमुख बंधूकनिभा वह्निसुताः क्षतजनन्निभारूक्षाः ।
दृश्यांते नलदिशियदितावंतस्तेपि विशिखिनो भयदाः ।। 9 ।।
मृत्युसुता वक्रशिखाः कृष्णारूक्षौः प्रहर्षकराः ।
दृश्यंते याम्यं येजनमारक भयप्रदास्तेपि ।। 10 ।।
क्षितिनयन द्वात्रिंसददर्पण सदृसास्स रश्मयो विशिखाः ।
क्षुद्भयदाः सशिरस्काय तनया मृत्यु दाश्च शैलनिभाः ।। 11 ।।
शशितनयाः कुसुमनिभाः कुंदेंदु क्षिर रजतनिभाः ।
उत्तरभागे शिखोनो जंतूनांते सुभिक्षकराः ।। 12 ।।
त्रिशिख स्त्रिवर्णयुक्तो ब्रह्मसुतो ब्रह्मदंडनिभ ।
अनियतदिक्प्रभनोसौ शांतिकरो ब्रह्यदंडख्यः ।। 13 ।।
शनितनयास्ताराख्याः शुक्लाऋजवश्चषट्संख्याः ।
दृश्यंते द्वित्रदिनै श्शुभदामानै र्महाभयदाः ।। 14 ।।
जीवसुता विकचाख्या श्शुक्लस्ताराः श्रिताः स्निग्धाः ।
याम्यायां दिशि संस्था बहवस्तेतापदा स्सततं ।। 15 ।।
बुधतनयाश्चोराख्याः शुक्लाः सूक्ष्मायथेष्टदिक् प्रभवाः ।
आमयभयदास्सततं जंतूनां पंचपंचाशत् ।। 16 ।।
कुजतनयाः क्षतजानलसंनिभास्त्रि शूलधराः ।
याम्यायां दिशिसंस्थाक्षुद्भयदा ष्षष्टिसंख्याकाः ।। 17 ।।
तामसकालक संज्ञा राहुसुता सूर्यमंडले दृष्टाः ।
तेषां तन्निखिलफलं सम्यक्तथितंच सूर्यवारेपि ।। 18 ।।
अग्निसुता स्त्वाग्नेयां विंशत्यधिकाश्च शतसंख्याः ।
प्रळयानल लदृशाः स्वर्भनव आवह्निभी पदास्तेप ।। 19 ।।
अरुणाख्याः श्यामलनिभाः शुक्रसुता विविधरूप संकीर्णाः ।
शस्त्रक्षुद्भय दास्ते सप्तोत्तर सप्ततिश्च संख्याकाः ।। 20 ।।
दंडकसंज्ञाश्चष्टौ तारा सदृशाः प्रजापतेस्तनयाः ।
द्वाचत्वारिंशत्तोर शताधिकाः पापदा विधातृसुताः ।। 21 ।।
वरुणभावाः कर्काख्या द्वात्रिंश द्वंशगुल्मयष्टिनिभाः ।
शशिवत्प्रभासमे ताराजन्यत्वं प्रकुर्वंति ।। 22 ।।
कालभवाष्टण्णवतिक संख्या स्तेषां कबंधनिभाः ।
तन्नामानः शिखिनं पौंड्रामय भितिदा जगतः ।। 23 ।।
विमलास्ताराकार दशदिक्षु समुद्भवाः श्शिखिनः ।
एवं सहस्रबेदाः पापैश्चैषां विशेषमबिधास्ये ।। 24 ।।
पश्चिमदिशि संभूतश्चोत्तर नम्रश्च सौम्य केतुयुतः ।
कुरुते सुभुक्षमतुलं सितवर्णो सौमहास्निग्धः ।। 25 ।।
दक्षिणनम्रःपाच्यां तधा विधोमाम्य केतुश्च ।
रूक्षं क्षुद्भयकारी नरकभयंवा करोत्येव ।। 26 ।।
धूमनिभो याम्यायां कपाल केतुर्पुहत्तमः स्निग्धः ।
विक्षुविदिक्षुप्रभवः क्षुद्भयदो दृष्टिरोगकरः ।। 27 ।।
प्राच्यां दिशिनंभूतः प्रदक्षिणं भ्रमति चक्रवद्रूक्षः ।
तच्चक्र केतुरनिशं कपाल केतोश्च तुल्यफलः ।। 28 ।।
पश्चिमतस्संभूतो याम्यदिशं भ्रमति च प्रदक्षिण्यं ।
धूमनिभो विषमाख्यः केतु र्भूभारमपि नयति ।। 29 ।।
कतिपयदिवसं गत्वा गमननिवृत्तिं करोति धूमनिभः ।
नरपति कलहाज्जगतः करोति विलयं सचक्राख्यः ।। 30 ।।
गगनत्रिभागदीर्घः श्यामनिभो सौमहभयकरश्च ।
ऋज वक्रगतिं कुरुते क्रमशो जगतास्त्रिभागहरः ।। 31 ।।
उपकरणेषु च राज्ञां सुरगृह तरु पर्व तेषु सदनेषु ।
दर्शनमुपैति पतितं विनाशिनामेव नियमेन ।। 33 ।।
कुमुदनिभः कुमुदाख्यो दिवसैः षड्भिर्विप पश्चिमे दृष्टः ।
प्रागुत्तरदिशिये शुभदोसौ क्षीरधारेव ।। 34 ।।
तारोपरिमणि केतुर्याम्यायां दिशि सकृद्दृष्टः ।
उदयास्तमान समये शुभदोसौ क्षीरदारेव ।। 35 ।।
जलधारेवहि ऋज्विनतया शिखया परेणदृष्टस्सः ।
जलकेतुर्जलसदृशः सुभिक्षकरः सर्व जंतूनां ।। 36 ।।
हरिलांगूलनिभ भवः केतुस्तुक्र कचसन्निभोवापि ।
बहुरोग भयं कुरुते सर्पाकारस्तु सर्वदा भवति ।। 37 ।।
अपरोपिपद्म केतुः पद्मनिभः पद्मगर्भ संकाशः ।
क्षेमकरो नृपतीनां सुभुक्षद सर्वजंतूनां ।। 38 ।।
आवर्त केतुकपरः प्रादक्षिण्येन दीप्तिमान् शुक्लः ।
शुभदोव्यत्यय केतुस्त्वतुलामय भीति रीतिकरः ।। 39 ।।
आक्राम्य गगनमखिलं संवर्ताख्या सधूमनिभा ।
शूलप्रस्त्व तरोवास केतुरसकृद्भयप्रदो जगतः ।। 40 ।।

शुभदा शुक्लनिभाये कृष्णास्त्व शुभप्रदा जगतः ।
केतूनां फलमुक्त्वा वक्ष्ये यद्वक्रभेषु जातानां ।। 1 ।।
अश्विन्यांयदि केतुर्जातस्तदश्व जीवनं हन्यात् ।
याम्येम्लेच्चाधिपतिं शिखितारायां कळिंग काधिपतिं ।। 2 ।।
रोहिण्यामतुलबलं निहंति केतुश्च शूरनेनेशं ।
औशी नरमुख्यपतिं सौम्ये रौद्रेच जलजंतून् ।। 3 ।।
अश्मकदेशाधि पतिं त्वादित्ये पुष्यभेच मगधपतिं ।
आर्याधिपतिं सर्पे पांड्याधि पतिं च पितृधिष्ण्ये ।। 4 ।।
भाग्यर्क्षेतु ऋषीणांचोत्तरभे दंडनायकांस्त्वखिलान् ।
हस्तर्क्षे धनिकवरं चित्रायां कुरुभवां स्त्वखिलान् ।। 5 ।।
कांभोज नृपति मुख्यं प्रभंजनेजात केतुरपि ।
इक्ष्वाकुवंश नाशं द्विदैवभे मित्रभेच गौडेशं ।। 6 ।।
ज्येष्ठायां यदिजातस्सगन्यते सर्वमंगळाधीशं ।
मूले भद्रादिपतिं जलपति दैवे कळिंग देळपतिं ।। 7 ।।
घूर्घरिका देवस्थान् हन्याद्वैश्वाधि दिष्ण्यजस्सोपि ।
केकयनाधं हन्याच्छ्रवणक्ष्ये वसुभवोखिलान् द्रविडान् ।। 8 ।।
नौ मिळ नृपतिं हन्याच्छतिभिषजस्त्वजांघ्रिजश्च पांचालान् ।
अहिर्बुध्न्यर्क्षभवः संकरिकान् किरातकोणभवान् ।। 9 ।।
पौष्णर्क्ष भवः केतु र्द्विजनज्जन धर्ममार्गश्तान् ।
अभिजिन्नक्षत्र भवः कोंकणदेशे निशाचरांश्चापि ।। 10 ।।
येकेतवश्चाश्वि मुखर्क्षजातास्ता राग्रहन् दिक्ष्वपिसंभवाश्च ।
कुर्वंतिते तीक्ष्णफलजं नानामन्वेसि सामान्य फलप्रदास्स्युः ।। 11 ।।
आदिशब्दोद्ध्रुव सप्तर्ष्यादिषु ।
अन्येपिचल केतु गद केत्वादयोद्बुतसागरे उक्ताः ।।
।। प्रश्नवेलवे ।।
भूकंपविर्घात रजोनिपातादा सप्तरात्राद्ग्रहणं रवींद्वोः ।
उल्कानिपाताः परिवेषचापाः स्युर्यत्रतर्देश नृपस्यनाशः ।। 12 ।।
यस्याश्शिखास्या शिखिधूमकेतोः प्रयातिमाम्या मुदितोथकेतुः ।
रौद्रस्य शेषानिच यानियानितेषां सदेशे नृपतिं निहन्यात् ।। 13 ।।
ज्येष्ठास्थितार्केण कुडेनयुक्तो राहुश्चनिर्वाप्युदि तश्च केतुः ।
तदातदानीं भुविसार्वभौमो रोगाद्रणाद्वा लभते प्रणाशं ।। 14 ।।
अत्रप्रागुक्त कोटिहोमोवा कार्यः ।।
इति केतु शांतिः ।।
अ थो ल्का दि ल क्ष ण ं
दारदः :-----
स्वर्गच्युतानां रूपाणि यान्युल्कास्तानि वै भुवि ।
दिष्ण्योल्का विद्युद शनिताराः पंचविधाः स्मृताः ।। 1 ।।
पीडाचोष्ट्रोहि गोमायु खर गो गज दंष्ट्रकाः ।
कपि गोधा धूम निभावि विधाः पापदा नृणां ।। 2 ।।
उदया स्तमये र्केंद्वोः पतितोल्का शुभप्रदा ।
सितारक्ता पीता सिता सोल्काहंति द्विजातिनः ।। 3 ।।
राज राष्ट्र विनाशाय प्रसाद प्रति मासुच ।
गृहेषु स्वामिनां पीडा नृपाणां पर्वतेषुच ।। 4 ।।
दिक्षु तत्तद्दिगीशानां कर्षकाणां खलेषुच ।
गोष्ठे गो स्वामिनां पीडा शिल्पकानां जलेषुच ।। 5 ।।
वर्तु लोल्कापुरं हंति छत्राकारा पुरोहितं ।
वंश गुल्म लताकारा राष्ट्र विद्रा विणीतथा ।। 6 ।।
अत्र प्रागुप्तागर्गोक्त तारा विकार शांतिः कार्या ।।

अथ प्रति सूर्यः मयूर चित्रोक्ति :----

उदीय मानस्सूर्यो वेदृश्यते प्रति रूपकं ।
त्रीण्यब्दा निभवेन्नाशो मासार्धेन संशयः ।।
अथ परिवेषः :----
किरणावायु निहता उच्छ्रितो मंडलीकृतः ।
नाना वर्णाकृती भूतः परिवेषश्शशीनयोः ।।
मुहुर्मुहुः प्रलीयंते सचपूर्ण फल प्रदाः ।
अनेक वृत्त् वर्णश्च परिवेषो नृपांतकृत् ।।
ध्विमंडलच्च मूनाधं नृपघ्नोथ त्रिमंडलः ।
द्वौग्रहो परिवेषस्थौक्षितीश कलहप्रदौ ।।
कुर्वंति कलहा नर्थं परिवेष गतास्त्रयः ।
चत्वारः पंरिवेषस्थानृपस्य मरण प्रदाः ।
परिवेष गताः पंच जगत्प्रशयदा ग्रहः ।
नृवहाविः कुजादीनां परिवेषः पृथक् प्पृधक् ।।
प्रावृड्डृतौचशरदि परिवेषो जलप्रदः ।
प्रायेणान्येषु ऋतुषुतदुक्त फलदायिनः ।।
अन्यत्रापि ।। रवि शशि परिवेषे पूर्वयामेच पीडा रवि शशि परिवेषे मध्यमेचाति वृष्टिः । रवि शशि परिवेषे धान्यनाश स्तृतीये । रवि शशि परिवेषे राज्य नाशश्च तुर्थे ।।

अथ ग्रह युद्धं - अद्भुत सागरे गर्गः :---
छादनं रोधनंचैव रश्मिरोधन तथैवच ।
अपनव्यं ग्रहणांच चतुर्था युद्धमुच्यते ।
एतन्नेंदु सूर्ययोः ।
किंत्वन्येषां ।।
ताराग्रहणां पंचानां युद्दान्युक्तानि योगत इत्युक्तेः ।।
तथा ।।
ग्राहो ग्रहं समागम्य श्यामोभवतियो भृशं ।
हानिं प्राप्नोतिच व्यक्तं स्यंदतेच मुहुर्मुहुः ।।
तत्फलं निस्तरभयान्नोच्यते ।।

अ थे ं द्र थ नु ः

नारदः :---
नानावर्णांशवोभासो साभ्रवायु विघट्टितः ।
तद्व्योम्निचैव संस्थान मिंद्रचापं प्रदृश्यते ।।
अथवाशेष नागेंद्र दीर्घविश्वास संभवं ।।
विदिक्षुजं दिशि वृष्ट्याम वृष्टिदं ।
अपनीगाढ मच्छिन्नं प्रतिकूलं धनुर्द्वयं ।।
नृपांतकृद्यदिभ वेदानुकूल्येतु तच्चुभं ।
अत्र शांत्यनिक्तौ गर्गक्त शांतिर्वक्ष्यते ।।

अथ षड्ग्रहादियोग तत्पल शांतिः
मदनरत्ने ब्रह्मयामळे :----
अधातस्संप्रवक्ष्यामि ग्रहयोगस्य शांतिकं ।
अमावास्यादि तथिम ग्रह योगोभवेद्यदि ।
एकर्क्षेभिन्नराळौवाप्येक राश्यर्क्ष भेदने ।।
शशि सूर्य समायुक्ते ग्रहत्रय समन्विते ।
दुर्भिक्षौदि भयंचैव चतुर्ग्रह समन्विते ।।
महारोग भयं राष्ट्रक्षयो वृष्टि विनाशनं ।
पंचग्रह समायोगे दुर्भिक्षं संकरादिकं ।।
नृसवेरं गर्भनाशो जायते जननाशनं ।
ग्रह षट्क समायोगे मंत्रिणां मरणं भवेत् ।।
पश्वश्वादि भयं सर्वं संकरादि जन क्षयः ।
पट्टराज्ञो वानाशो वामह भय मधापिवा ।।
सप्तग्रह समायोगेक्षितीश मरणं द्ऋवं ।
जगत्प्रळय मेवापि तदा निर्मानुषं जगत् ।।
अत ऊर्थ्वं महोत्पातो नानादुःख मनाकुलं ।
सूर्यस्तद्व्यतिरिक्तश्चे त्तदायोगो महद्भुतं ।।
विना चंद्रेणयोगोपि जगत्प्रणयकारणं ।
तदृक्षजात जंतूनां महारोगो महाभयं ।
अर्थनाशः स्थाननाशो मानहनिर्मुपीडनं ।
वातपि त्तादि संभूत महापीडा महाभयं ।।
समयोगो गृहान्न्रूणां दोषान् कुर्वंति सर्वदा ।।
षड्वासाभ्यंतरे वापि अयुर्हविः श्रियस्तधा ।
जन्माष्टद्वादशेराशौ चतुर्धे पंचमेपिवा ।।
पूर्वोक्तफलमेवा त्रतस्या श्शांतिं प्रयत्नतः ।
कुर्याद्दोषानुसारेण वित्तशाठ्यं नकारयेत् ।।
तत्तद्ग्रहकृतिं कृत्वा सौवर्णेन प्रयत्नतः ।
पलैकेन तदर्थेन पादेनापि कनीयसा ।।
वित्तशाठ्यं नकर्तव्यं शक्तितोनरैः ।
पूर्वोक्तलक्षणं नैव गृहीमूर्तिं च कारयेत् ।
ग्रहस्यैकैक कलशं ग्रहयोगप्रमाणतः ।
कारयेत्कुंभमेकंवा निर्वणं सुदृडंनवं ।।
ग्रहस्येशान दिग्भागे शुद्धदेशे समस्थळे ।
कुंडेवा स्थंडिलेवापि होमं कुर्याद्विधानतः ।।
तस्य पूर्वोत्तरेदेशे पर्वास्थानं प्रकल्पयेत् ।।
चतुरश्रं हस्तमात्रं स्थंडिलं तंजुलेनतु ।।
लिखेद्ग्रहाकृतिं तत्र स्थापये त्प्रतिमां थथः ।
अधिप्रत्याधिदेवोच दक्षिणोत्तरतः क्षिपेत् ।।
उक्तगंधै स्तदा पुष्पै सतत्तन्मंत्रैः प्रकल्पयोत् ।
तत्तद्ग्रहो क्तमंत्रेण पूर्वोक्तैनैवपूजयेत् ।।
स्वस्ति वाचन पूर्वेण आचार्यान् दृत्विजै स्सह ।
ग्रहपूजादिकं कृत्वा नै वेद्यंतु समर्पयेत् ।।
ततो होमं प्रकुर्वीत स्वगृह्योक्तविधानतः ।
चतुर्ध्यंतं प्रकुर्वीत कलशस्थापनं ततः ।।
पूर्वोक्तविधानेन शुद्धतोयेन पूरयेत् ।
पंचामृतं पंच गव्यं पंचत्व क्पंचपल्लवान् ।।
तत्तन्मंत्रेण विन्यस्यजौषधानि विनिक्षिपेत् ।
तत्तद्ग्रहो क्तविदिना मूलान्यादाय निक्षिपेत् ।।
अब्लिंगैर्वागुणैर्वासि कलशं पूरयोद्गुरुः ।
तत्तद्ग्रहो क्तविधिना तत्तन्मंत्रैर्हुनेदथ ।।
चत्वाज्यै र्जुहुयात्पश्चा तिलाहुति यथाचरेत् ।
अथ स्विष्टकृतं हुत्वा होमशेषं नमापयेत् ।।
भद्रासनोपविष्टस्य यजमानस्य ऋत्विजः ।
कलशस्थोदकेनैव मभिषेकं समाचरेत् ।।
योगग्रहो क्तमंत्रैश्च आधिप्रत्यधिमंत्रतः ।
नवग्रहो क्तमंत्रैश्च जातवेदादि पंचकैः ।।
त्रियंबकेनेति मंत्रेण क्षेत्रस्यपतिनस्तधा ।
यत इंद्र भयेनैव लोकपालाष्टतकैरपि ।।
सूरास्त्वा मिति मंत्रेण येन देवादयः क्रमात् ।
अन्यैश्च पुण्यमाक्तैश्च अभिषेकं समाचरेत् ।।
अभि षेकंप्लुतं वस्त्र माचार्याय निवेदयेत् ।
तत शुक्लां बरधरः कुर्यादाज्यावलोकनं ।
ऋत्विक्‌भ्यो दक्षिणं दद्याद्धेनुशंखादि कानपि ।
तदभासे यधाशक्ति हिरण्यमपिदापयेत् ।।
ब्रह्मणान्भोजये द्पश्चा द्यधाविभव सारतः ।
एवं यः कुरुतेभक्त्या ग्रहदोष विवर्जितः ।
पूर्वोक्त सर्दोषैश्च विमुक्तः पुत्रवान् सुखी ।
आयुरैश्वर्य संपन्नो जीवेद्वर्ष शतं वरः ।
इहलोके सुखीभूत्वा पश्चाच्चिवपुरं व्रजेत् ।।
इति मदनरत्ने षड्ग्रहयोग शांतिः ।।

अथ भूमिकंप फल, तच्छान्तिश्च
भूभारखिन्ननागेंद्र शेषविश्राम संभवः । भूकंपस्सोपिजग ताम शुभाय भवेत्सदा ।।
नारदः :---
यामक्रमेण भूकंपो द्विजातीना मनिष्टदः ।
रात्रौ विशांक्षिती शानां शूद्राणां संध्ययोरपि ।
अर्यमाद्यानि चत्वारिचस्रेंद्व दितिभानिच ।
वायव्यमंडलंत्वे दतस्मिन्कंपो भवेद्यदि ।
नृपश्च पणिजश्चैव शिल्फिवृष्टि विनाशदः ।
पुष्यद्विदैव भरणी पिकृभाग्याडपाग्निभं ।
आग्नेयं ंडलंत्वे तदस्मिन्कंपोभवेद्यदि ।
राजनाशाय रोगाय हंतिमार्जार उंदुरान् ।
मूलाहि र्बुध्न्य वरुण पौष्णींद्राण्यहिभानितु ।।
वारुणं मंडलंत्वे तदस्मिन्कंपोभवेद्यदि ।
राज नाशकराहंति पौंड्रचीन पुलिंदकान् ।।
नृपवृष्ट्यर्थनाशाय हंति स्रावक संकरान् ।
अभिजिद्धादृ वैश्वंद्र मसु वैष्णवमित्रभं ।।
वासवं मंडलंत्वे तदस्मिन्कंपोभवेद्यदि ।
प्रायेण निखिलोत्फातात् क्षितीशाना मनिष्टदः ।।
षड्भिर्मानैश्च भुकंपोद्वाभ्यांदाह फलप्रदः ।
अनुक्ताः पंचभिर्मानै स्तदानीं फलदंरज ।।

निदानं मामकश्लोकं :----
केचिदिक्कदि कुंभ चानलभवं वाताभिघातोद्भवं ।
केचिन्नीरधिवीचि दोलनभवं तन्मीनजातं वरे ।
भूकंपं ब्रुवतेवयं हरिगुणश्रेणि ।
समाकर्षण प्रोद्यद्वर्ष फणीद्रकंपित शिरश्र्शेणीभवं ब्रूमहे ।।
मूलंतु वाराह्यं ज्ञेयं ।
तत्रैव ।
प्रधितनरेश्वर मरणं व्यसनान्याग्नेय वायुमंडलयोः ।
क्षुद्भयकरकावृष्टि भिरुपतप्यंते जनाश्चैव ।।
वारुण पौरंदर्यो स्सुबिक्ष शिववृष्टिहार्दयो लोके ।
गावोति भूरिपयसो निवृत्तवैराश्छ भूपालाः ।।
पक्षेश्च श्चतुर्बिंरविल स्त्री भिरग्निर्देवराटे च सप्ताहान् ।
सद्यः फलतिच वरुणोयेषु नकालोद्भूते षूक्तः ।।
त्रिचतुर्थे प्तदिने मासे पक्षे तथा त्रिपक्षेवा ।
यदि भवति च भूकंपः प्रधान नृपनाशको भवति ।।
अत्र पूर्वोक्त लक्षहोमः कोटि होमेवा कार्यः ।।
इति भूकंपः ।।

अरथजः - नारदः :-----
सिते नरजसाच्छन्नादि ग्राम वन पर्वताः ।
यदातदा भवंत्ये तेनि धनं यांति भूमिपाः ।।
भूमोद्भवस्तु यस्यां वैतस्यां दिशि विनाशनं ।
ऋतावस्यत्र शिशिरासत्सं पूर्ण फलदं रजः ।।
इति रजः ।।

अथ दिग्दाहः --- बृहस्पतिः :----
यदास्तमित आदत्ये वह्निज्वाला प्रदृश्यते ।
दिशां दाहंतुतं विद्यादिति भार्गवभाषितं ।।

अद्भुतसागरे नारदः :-----
दिग्दाहः पीतवर्णश्चे त्क्षितीशानां भयप्रदः ।।
अद्भुतसागरे मयूरजित्रे ।
तिलैर्दूर्वादिभिश्चैव जौदुंदरयवैस्तथा ।।
धान्यैरौदुंबरीभिश्च श्रीफलै राहुतिक्रिया ।
समाप्तौ भोजनं कृत्वा नर प्रेक्षणमा दिशेत् ।।
व्योम मध्यगतंपश्येद्यदि सूर्यभयं नरः ।
दधि क्षार घृताक्तानां जुहुयादयुतं शुचिः ।।
उषोष्यार्कसमिद्धोमं धेनुं दद्याद्ध्विजातये ।।

अथाद्भुत फलकालः अद्भुतसागरे पराशरः :---
तत्रोत्पात फलं दिव्यं पूर्णे वर्षे विपच्चते ।
अंतरिक्षं तथा भौमं मासैष्टड्भिश्चत नृभिः ।।
निर्घातस्तु त्रिभिर्मासै र्गंधर्व नगराणिच ।
अग्निश्चसप्तरात्रेण मासे नोल्कावि पच्चते ।।
पुरचैत्यादि भंगेषु पुरसंक्रमणेषुच ।
पुरध्वजादि भंगेषु फलं मासा द्विपच्यते ।।
अरिष्टं परिच्यते षट्सुमासेषु फलहेतुषु ।
अतिहर्ोषति शोकश्च सद्य एवविपच्यते ।।
कीटमूषक सर्पाणां माक्षिकादिषु यत्फलं ।
पच्यते तद्द्विमासेन मधु सप्त सुपच्यते ।।
हयानां हस्तिनां चैव शकुनंच शुनस्तथा ।
सदृस्त्र्यहाद्वनियत मुलूकस्यत थैवचः ।।
विदेहवाके संश्रवणं दर्शनं यक्ष रक्षसां ।
पशूनां विकृतं यच्च ष्ठषेमासि विपच्यते ।।
मांसं तैल विकारेषु देहंग स्यंद नेषुच।
वस्त्रजाति विकारेषु फलं स्यात्सप्तमेहनि ।।
चित्र कर्मणि मासाभ्यां शयने षष्ठ मासिकं ।
वल्मीके षट्सुमासेषु क्षयोवृद्दौ तथात्रिषु ।।
जयो छ्रयेषु भग्नेषु यज्ञ कर्णणि वैकृते ।
सोमध्वज विकारेच विकार स्सप्तमासिकः ।।
तंतुबीजे विकारेषु राज्ञः शस्त्रेषु जृंभणे ।।
पद्मोत्पल फलादीनां पलिषाण्माषिकं भवेत् ।।
विनाशे विफलंतेषां पाककालेनि वर्तते ।।

गर्गः :---
पक्षाद्वापाक सूर्यस्य पाकस्पोमस्य मासिकः ।
मासद्वयेस्मृतोराहो स्त्रीभिर्मानैस्तु कै तवः ।
संवत्सर विपाकौतु ज्ञेयौ बुधबृहस्पती ।।
षाण्मासिकश्चौशस सस्सूर्यजस्यतु पंचभिः ।
त्रिभिर्मासैस्तु भौमस्य उल्कापातस्तु मासिकः ।
अष्टभिर्भूमिकंपस्तु निर्घातः पच्यते त्रिभिः ।
अनार्तवं पुष्पफलं ष़्भिर्मासैर्विपच्यते ।।
पक्षिकीट पतंगानां दशाहात्फल मादिशेत् ।
घृततैल वसावर्षे सद्यः फल मुदाहृतं ।।
रात्रा विंद्र धनु धृष्ट्वा राज्ञश्शील विपर्ययः ।।
वानराणां नराणांच तधैव गजवाजिनां ।
नानावादि त्रशब्दानां फलं मासाद्विपच्यते ।
गृध्र गोमायु सिंहानां फलं मासा द्विपच्यते ।।
बिडालन कुलानां च वराह व्याघ्रयोस्तदा ।
श्रुत्वा तरिंक्षे शब्दंतु फलं मासाद्विपच्यते ।।
अद्भुत सागरे पराशरः ।।
राज्ञश्शरीरे लोकेच पुरदार पुरोहिते ।
पाक माया तितत्रेषु तथाकोशेच वाहने ।।

मात्सॆ :----
अद्भुतेतुसमुतपन्नेय दिवृष्टिश्शिवा भवेत् ।
सप्ताहाभ्यंतरेज्ञेय मद्भुतं निष्फलंतुतत् ।।
तत्रसाम्यानेन शांतिरुक्ता वशिष्ठ संहितायां ।
बौमं शांत्या शमंयाति मार्दवंत्वंतरितरिक्षजं ।।
दिव्यं होमान्नगो भूमिदानै स्तत्कोटि होमतः ।
महोपहारा रुद्रस्य गोदोतत्पुरस्सरं ।।
आलंकृते क्षितितले यावत्तीर प्लवं भवेत् ।
अपिदिव्यंशमंयातिकिं पुस्तस्र्वितर द्वयं ।।

तत्रैव :---
हस्तैष्षोडशभिः कार्य श्चतुरश्रत्पमंतत ।
मंटपोयाज्ञियै वृक्षै रथवाहन दारुभि ।।
हस्तै श्चतुर्बिस्त न्मध्ये कुंडंकार्यं समं ततः ।।
खातंहस्तैश्च र्बिश्चव प्रत्यय समन्वितं ।।
षडंगु लोन्नततस्त्वाद्योद्वा दशांगुळ विस्तृतः ।

अद्या अथामेखला :----
अंगुलंच योथाशृ तमेवनतु कुंडं ।
दशांगुलानतुमध्ये अष्टांगुलसुविस्तृतः ।।
चतुर्दशांगुलोत्सेदा चतुरंगु लविस्तृतः ।।
तृतीयवप्र्वःकर्तव्यो नियोर्वक्रातुपश्चिमे ।।
चतुर्दशांगुलै दीन्‌र्घाचोन्नता षोडसांगुलैः ।
हीनाधिकानकर्तव्या विस्तारष्टड्भिरंगुलैः ।।
कुं़डस्य लक्षणं त्वेवं कोटिहोमेतु सर्वदा ।
ईशान्यां वेदिकाकार्या सार्धहस्तप्रमाणतः ।ऽ
सर्व देवमयत्वाद्धिशि शिवपूजा पुरस्सरं ।
ग्रहंस्तानर्चये तत्रपूर्वोक्त विधिना ततः ।
पलाशसमिदाज्यान्नैर्मुंखांतेष्ट शतं पृथक् ।।
अघोरमंत्रेण जुहुयात् ।
ग्रह होमंचकारयेत् ।
तिलहोमं व्वाहृतिभिः घृताक्तैर्जुहुयात्ततः ।।
द्वार्वेषु जापकैः स्वस्ववेद पारायणं क्रमात् ।
चमकं नमकं सूक्तं पौरुषंचांग जापकैः ।।
होमे नवभिचारार्यैः कार्यस्तु ब्राह्मणैस्सह ।
नै वेद्यं च ततः पश्चाच्छांति वाचन पूर्वकं ।।
ब्राह्मणा न्भोजयेत्पश्चा त्स्वयंभुं जीतबंधुभिः ।।
शिव विष्णोः कथालपैर्दिनशेषं नयेत्ततः ।।
एवं यावत्कोटिहोमस्तावत्कार्य मतंद्रितः ।
तदर्दंवा लक्षहोम मथापिवा ।।
कार्यं दोषानु सारेण सारेणवित्तशाठ्य विवर्जितः ।
होमांते दक्षिणां दद्या च्चतुर्विं शति ऋत्विजः ।।
प्रतिद्विज मलंकारं सार्थनिष्क शतद्वायं ।
तदर्धंवा तदर्धंवा दोष वित्तानु सारतः ।
उक्ता साधारणाशांति रुत्पाता नामतः परं ।
उत्पाताश्चैव तच्छांतिर्वक्ष्यतेत्र पृथक् तृथक् ।।

अद्भुतसागरे गर्गः :----
सावित्र्या लक्षहोमंतु कुरयाच्चांति विशारदः ।।
गां भूमिंच हिरण्यं च धान्यं वस्त्रं ततैवच ।।
दद्याश्च गुरुवे ग्रामं धेनुं वासोयुगं ।
अनेन विधिनाभौम मुत्पातं शमयोद्बुदः ।।
इति भौमोत्पात शांतिः ।।

अ था ं त रि क्ष शा ं ति ः

एषएव विधिर्जेय अंतरिक्षाद्भुतेषुच । विशेषोत्रय सावित्र्या दशलक्षंतु होमयेत् । होमं समाहितमनाः कुर्याच्चधृत कंबळं ।।
धृतकंबळोग्रेवक्ष्यते :----
धेनूनां द्वादशें देयं शतनिष्क समायुतं । गुरुवेदीय मानेतु शमयोदंबराद्भुतं ।। इत्यतरिक्ष शांतिः ।।

अ थ दि व्या द्भु त शा ं ति ः

श्लो ।। दिव्याद्भुतेषु कर्तव्य कोटिहोम समागतै ।
गो सहस्रंच दातव्यं गुरवे दक्षिणा विधौ ।।
एष प्रोक्तोविधि स्सम्याग्दि व्यारिष्ट निवृत्तये ।
इति दिव्याद्भुत शांतिः ।।

अ श क्तौ स ए व :---
श्लो ।। प्रयतस्तेषु सर्वेषु दिव्याद्भुत केष्वपि ।
महाशांतिं बुधः कुर्या दमृतां विश्वबेषजां ।।
श्लो ।। अमृता धर्ववेदेषु प्रसिद्धा ।
केचित्तु भविष्योक्तां महशांतिं महहुः ।।
सानक्ष्येते :---
श्लो ।। अथर्य मूर्तिश्च विष्णु धर्मो ।
अद्भुतेष्वपि सर्वेषु अमृता संस्मृता बुधैः ।

निष्णुदर्मे :---
श्लो ।। सर्वोत्पात प्रसमने अमृताख्याsभयास्मृता ।

नारद संहितायां :---
श्लो ।। देवालये स्वगृहे ईशान्यां पूर्वतोपिवा ।
कुंडं लक्षण संयुक्तं कल्पये न्मेखलावृतं ।।
श्लो ।। गुह्योक्त विधिना तत्र स्थापयेच्च हुताशनं ।
जुहुयदाज्य भागांते पृथगष्टोत्तरं शतं ।।
श्लो ।। यत इंद्र भयामहे स्वस्तिदाsघोर मंत्रकै ।
समिदाज्य चरुं व्रीहि तिलै र्व्याहृति भिस्तदा ।।
श्लो ।। कोटि होमं तदर्धंवा लक्षहोम मधापिवा ।
अथ वित्ताम सारेण तन्युनादि कमल्पता ।।
श्लो ।। एकविंशति रात्रंवा पक्षं पक्षार्थ मेवच ।
पंचरात्रं त्रिरात्रंवा होमकर्म समाचरेत् ।।
श्लो ।। दक्षिणांच ततोदद्या दाचार्याय कुटिंबिसे ।
गणेश क्षेत्र पालार्क दुर्गाक्षोण्यश्च देवताः ।।
श्लो ।। तासां प्रीत्यै जपः कायः शेषं पूर्व वदाचरेत् ।
ऋत्विग्भ्यो दक्षिणां दद्या त्षोडशभ्यः स्वशक्तितः ।।
इति कमलाकरभट्ट कृते प्रयोग रत्ने सामान्य शांतिः .

अथ नानोत्पात शांतयः
वराहमीहिरः ।। यानत्रे रुत्पातान् गर्गः प्रोवाचतानहं वक्ष्ये :-----
तेषां संक्षेपोयं प्रकृते रन्यत्व मुत्पातः ।
अपचारेण नराणामुप सर्गः पाप संचयाद्भवति ।। 1
संसूच यंति दिव्यांतरिक्ष बौमास्त दुत्पाताः ।। 2
मनिजानामपचाराद परक्तादेवताः सृजंत्येतान् ।
तत्र्पति घाताय नृपः शातिं राष्ट्रे प्रयुं जीत ।। 3
दिव्यं ग्रहर्क्ष वैकृत मुल्का निर्घात पवन परिवेषाः ।
गंधर्व पुर पुरंदर चापादि यदांत रिक्षं तत् ।। 4
भौमं चरस्थिर भवं तच्छांति भिराहतं शममुपैति ।
नाभ समुपैति मृदुतां शाम्यतिनो दिव्यमित्येके ।। 5
दिव्यमपि शममुपैति प्रभूत कनकान्न गोमहीदनैः ।
रुद्राय तनॆ भूमौ गोदोहात्कोटि होमाच्चः ।। 6
आत्म सुतकोश वाहन पुरदार पुरोहितेषु लोकेषु ।
पाकमुपयाति दैवं परकल्पित मष्टधानृपतेः ।। 7
अनिमित्त भंगचलस स्वेदाश्र निपात जल्पनाद्यानि ।
लिंगार्चायत नानां नाशाय सरेश देशानां ।। 8
दैवत यात्राश कटाक्ष चक्रयुगकेतु भंग पतनानि ।
संपर्यासन साधन संगश्चन देश नृज शुभदाः ।। 9
ऋषि धर्म पितृ ब्रह्म प्रोद्भूतं वैकृतं द्विजातीनां ।
यदुद्रलोक लोक पालोद्भुवं पशूना मनिष्टं तत् ।। 10
गुरुसित शनैरोत्थं पुरोधसां विष्णुजंच लोकानां ।
स्कंद विशाख समुत्थं मांडलिकानां सरेंद्राणां ।। 11
वेदव्यासे मंत्रिणि विनायके वैकृतंचमूनाथे ।
धातरि सविश्वकर्मणि लोका भावाय निर्थिष्टं ।। 12
देवकुमार कुमारी वनिता प्रेक्ष्येषु वेकृतं यत्स्यात् ।
तन्नरपतेः कुमारक कुमारिका स्त्री परिज नानां ।। 13
रक्षः पिशाच गुह्यक नागानामेत देव निर्देश्यं ।
मासैश्चाप्यष्टाभि स्सर्वेषामेव फल पाकं ।। 14
बुद्ध्वादेव विकारं शुचिः पुरोधास्त्र्य होषित स्स्नातः ।
स्नान कुसुमानुलेपन वस्त्रै रभ्यर्चये त्प्रतिमां ।। 15
मधुपर्केण पुरोधा भक्ष्यैर्बलि भिश्चविधि वदुपतिष्ठेत् ।
स्थाली पाकं जुहुयाद्विधि वन्मंत्रैश्च तल्लिंगैः ।। 16
इति विबुध विकारे शांत यस्सप्त रात्रं ।
द्विज विबुधगणाचान् गीत नृत्योत्सवाश्च ।
विधिपद वनिपालैर्यैः प्रयुकतान् तेषां ।
भवति दुरित पाको दक्षिणाभिश्च रुद्धः ।। 17
इति लिंगादि वैकृतं ।।
राष्ट्रे यस्या नग्निः प्रदीप्यते दीप्यतेच नॆंदनवान् ।
मनुजेश्वरस्य पीडा तस्य सराष्ट्रस्य विज्ञेया ।। 18
जलमांसा र्द्रज्वलनॆ नृपतिवधः प्रहरणे रणोरौद्रः ।
नैन्यग्रम पुरेषुच नाशोवहॆ र्भयं कुरुते ।। 19
प्रासाद भवनतोरणकेत्वा दिष्वननलेनदग्देषु ।
तटितावा षण्मासा त्परचक्र स्यागमोनियमात् ।। 20
दूमोचग्नि समुत्थोरजस्तम श्चान्हिजं महाभयदं ।
व्यभ्रॆनिश्युडु नाशोदर्शन मपिचाह्नी दोषकरं ।। 21
नगर चतुष्पदांडज मनिजानां भयंकलं ज्वलनमाहुः ।
धूमाग्नि विस्फुलिंगैः शय्यांबर कोशगै र्मुत्युः ।। 22
आयुध ज्वलनसर्पण स्वनाःकोश निर्गमनपेपनानिवा ।
वैकृतानियदि वायुधे पराण्याशु रौद्ररणसंकुलंवदेत् ।। 23
मंत्रैर्वाह्नैः क्षीरवृक्षा त्समिद्भिर्होतव्योग्निः नर्षपै सर्पिषैच ।
अग्न्यादीनां वै कृतेशांति रेवं देयंचास्मिन् कांचनं
ब्राह्मणेभ्यः ।। 24
इत्यग्निवैकृतं ।।
शाखांगॆ कस्माद्वृक्षाणां निर्दिशेद्रणोद्योगं ।
हसने देशभ्रंशं रुदितेच व्याधिबाहुळ्यं ।। 25
राष्ठ्रनिभेद स्त्वनृतौ बालवधोतीव कुसुमितेबालॆ ।
वृक्षीत्क्षी रस्रावॆ सर्वदव्य क्षयोभवति ।। 26
मध्ये वाहननाशः संग्रमश्शोणिते मिधुनिरोगः ।
स्नेहे दुर्भिक्षभयं महद्भयं निस्सृतेसलिले ।। 27
शुष्कविरोहॆवीर्या यान्न संक्षयः शोषणेच विरुजानां ।
पतिताना मुत्थानॆस्वयं भयं दैवजनितंच ।। 28
पूजितवृक्षैह्यनृतौ कुसुमफलं नृपवधायनिर्दिष्टं ।
धूमस्तस्मिन् ज्वाला तथा वाभवेन्नृपवधायैव ।। 29
सर्पत्युतरुषुजल्पत्सु वापि जनसंक्षयो विनिर्दिष्टः ।
वृक्षाणां वैकृत्यॆ दशर्बिमासैः फलिविपाकः ।। 29
सर्पत्युतरुषुजल्पत्सु वापि जनसंक्षयो विनिर्दष्टः ।
वृक्षाणां वै कृत्यॆ दशर्बिमासैः फलिविपाकः ।। 30
स्रग्गंधधूपांबर पूजितस्य छत्रंनिधयो परिपादपस्य ।
कृत्वा शिवं रुद्रजपोत्रकार्यो रुद्रेभ्य इत्यत्र षडंगहोमाः ।। 31
पायसेन मधुनाजपि भोजये द्ब्राब्माणान् घृतमयुतेन भुपतिः ।
मॆदिनीनिगदिता त्रदक्षिणा वैकृते तरुकृते हितर्धिभिः ।। 32
इति वृक्षवै कृतं ।।

नालेब्जयवादीनामॆ कस्मिन् द्वित्रिसंभवो मरणं ।
कथयति तदथिपतीनां यमलं जातं च कुसुमफलं ।। 33
अतिवृद्धि न्सस्स्यानां नानाफल कुसुम संभवो वृक्षे ।
भवतिहयद्येकस्मि न्परचक्रस्यागमो नियमात् ।। 34
अर्देनयदातैलं भवति तिलानाम तैलतावास्यात् ।
अन्यस्यच वै रप्यं तदामितुविंद्याद्भयं सुमहत् ।। 35
विकृत कुसुमफलंवा ग्रामाथथवा पुराद्बहिः कार्यं ।
सौम्योत्र चतुःकार्यो निर्वाप्योवा पशुं शांत्यै ।। 36
नस्येच दृष्ट्वा विकृतिं प्रदेयं तत्क्षेत्रमेव प्रथमं द्विजेभ्यः ।
तस्यैव मध्ये चरुम्चत्रभौमं कृत्वानदोषं समुपैतितज्ञं ।। 37
इति सस्यवैकृतं ।।

दुर्भिक्षमनवृष्ट्या प्यतिवृ,्टा क्षुद्भयं परभयं ।
रोगाह्य सृतुभयां न्भपतिपधो सभ्रजातायां ।। 38
श्रीतोष्ण विपर्यासोनो सम्यग्भषुच संप्रवृत्तेषु ।
षाण्मासाद्राष्टभयं लोकभयं दैवजनितंच ।। 39
अन्यर्तौसप्ताहं प्रबंधवर्षे प्रधान नृपमरणं ।
रक्तेशस्त्रोद्योगोमां सास्थिवसादि भिर्मरकः ।। 40
धान्यं हिरण्यत्वक्फल कुसुमाद्वै र्वर्षितै र्भयंविद्यात् ।
अंगारपांसु वर्षेविनाश मायति तन्नगरम् ।। 41
उपलाविना जलझरैर्वि कृतावा प्राणिनो यदावृष्टाः ।
छिद्रंवाप्यति वृष्टासस्यानां भीतिसंजननं ।। 42
क्षिर घृतक्षौद्राणां दध्नोरुथिरोष्ण वारिणांवर्षे ।
देशविनाशोज्ञेयाsसृग्वर्षेचापि नृपयुद्धं ।। 43
यद्यमलेर्केच्छाया नदृस्यते दृश्यते प्रतीपावा ।
देवस्यतदासु महद्भय मायातं विनिर्देश्यं ।। 44
व्यभ्रेनभसींद्र धनुर्दिवायदा दृश्यते थवारात्रौ ।
प्राच्या मपरस्यांवा तदाभवेत् क्षुद्भयं सुमहत् ।। 45
सूर्येंदु पर्जस्य समीरणानां योगः स्मृतोवृष्टि विकारकाले ।
धान्यान्न गो कांचन दक्षिणाश्चदेया स्ततशांति मुपैतिपापं ।। 46
इति वृष्टिः ।।

अपसर्पणं सदीनां नगराद चिरेण शून्यतां कुरुते ।
शोषश्चा शोष्योणा मन्येषांवाह्रदा दीनां ।। 47
स्नेहा सृज्मां सवहास्पंकुल कलुषाः प्रतीप गाश्चापि ।
परचक्रस्या गमनं नद्यः कथयंतिषाण्मासात् ।। 48
ज्वाला धूमक्वाथा रुदितोत्कृष्टानिचैव कूपानां ।
गीत प्रजल्पितानिच जन मरकाय प्रदिष्टानि ।। 49
तोयोत्पत्तिरखाते गंध रस विपर्ययोचतोयानां
सलिलाश विकृतौवा महच्भयं तत्र शांति रियं ।। 50
सलिल विकारे कुर्यात्पूजां वरुणस्य वारुणैर्मंत्रैः ।
तैरेवच जपहोमं शममेपं पापमुपयाति ।। 51
इति जलवैकृतं ।।

प्रसव विकारे स्त्रीणां द्वित्रिचतुः प्रभृदि संप्रसूतौवा ।
पीनाति रिक्तकालेच देशकुल संभवो भवति ।। 52
बडबोष्ट्र महिष गोहस्तिनीषु यमलोद्भवे मरणमेषां ।
षण्मासा त्सूति फलं शांतौ श्लोकौच गगोSक्त ।।
नार्याः परस्य विषयेत्यक्त व्यास्ताहि तार्धिना ।
तर्पयेच्च द्विजान् कामैः शांतिंचै वात्र कारयेत् ।। 54
चतुष्पदाः स्वयूदेभ्यस्त्यक्तव्याः परभूमिषु ।
नगरं स्वामिनंयूथ मन्यथाहि विनाशयेत् ।। 55
इति प्रस्रव वैकृतम् ।।

वरयोनाव भिगमनं भवति तिरश्चाम सादु धेनूनां ।
उक्षाणो वान्योस्यंपिबति श्वावासुरभि पुत्रं ।। 56
मासत्रयेण विंद्यात्तस्मि न्निस्संशयं परागमनं ।
तत्र्पति घातायैतौ श्लोकौ गर्देन निर्दिष्टा ।। 57
त्यागो विवासनं दानं तत्तस्याशु शुभं भवेत् ।
तर्पये द्ब्राह्मणां श्चात्र जप होमांश्च कारयेत् ।। 58
स्थाली पाकेन धातारं पशुनाच पुरोहितः ।
प्राजापत्येन मंत्रेण यजेद्बह्वन्न दक्षिणं ।। 59
इति चतुष्पद वै कृतं ।।

यानं वाहवियुक्तं यदिगच्चेन्न व्रजेच्च वाहयुतं ।
राष्ट्र भयं भवति तदा चक्राणां सादभंगेच ।। 60
अनभिहत तूर्यनादश्शब्दो वाताडितेषु यदिनस्यात् ।
व्युत्पत्तौ वातेषां परागमोनृपति मरणंवा ।। 61
गीतरव तूर्य शब्दानभसिय दावाचर स्थिरान्यत्वं ।
मृत्युस्तदा गदावावि स्वरतूर्ये पराभिभवः ।। 62
गोलांगलयो स्संगेदर्वी शूर्पाद्युपस्कर विकारे ।
क्रोष्टुकनादेच तथा शस्त्रभयं मुनिवच श्चेदं ।। 63
वायव्येष्वेषु नृपतिर्वायं सक्तुभिरर्चयेत् ।
आवहयॆरिति पंचर्चो जप्तव्याः प्रयतैर्द्विजैः ।। 64
ब्राह्मणान् परमान्नेन दक्षिणाभिश्च तर्पयेत् ।
बह्वन्न दक्षिणाहोमाः कर्तव्यश्च प्रयत्नतः ।। 65
इति वायु वै कृतं ।।

पुरपक्षिणो वनचरा वन्यावानिर्बयं विंशंति पूरं ।
नक्तंवादिवस चराःक्षपाचरावाचरंत्यहानि ।। 66
संध्यद्वयेपि मंडल माबध्नंतो मृगा विहंगावा ।
दीप्तायांदिश्यथ वाक्रो शंतः संहता भयदाः ।। 67
श्वानः प्ररुदंत इवद्वारे क्रोशंति जंबुका दीप्ताः ।
प्रविशेन्नरेंद्र भवनेकपोतकः कौशिको यदिवा ।। 68
कुक्कुट रुतं प्रधोषे गेमंतादौ चकोकिला लापाः ।
प्रतिलोम मंडल चराः श्योनाद्या श्चांबरे भयदाः ।। 69
गृहचैत्यतो रणेषुद्वारेषुच पक्षिसंघ संपातः ।
मधवल्मी कांभोरुह समुद्भवश्चापि नाशाय ।। 70
श्वभिरस्थिशवावयव प्रवेशनं मंदिरेषु मरणाय ।
पशुशस्त्र व्याहारेनृप मृत्युर्मुनि वचश्चेदं ।। 71
मृगपक्षि विकारेषु कुर्याद्धोमा न्सदक्षिणान् ।
देवाः कपोत इतिच जप्तव्याः पंचभिर्द्विजै ।। 72
सदेवा इति चैकेनदे यागवाश्च दक्षिणाः ।
जपेच्चाकुनसूक्तं वामनॊवेदि शिरांसिच ।। 73
इति मृग पक्षि वैकृतं ।।

शुक्रध्वजेंद्र कील स्तंभद्वार प्रपात भंगेषु ।
तद्वत्कवाट तोरणकेतुनां नरपते र्मरणं ।। 74
संध्याद्वयस्य दीप्तिर्धूमोत्पत्तिश्च काननेनSग्नौ ।
चिद्राभावे भूमेर्दरणं कंपश्च भयकारी ।। 75
पाषंडानां ना स्तिकानांच भक्तप्साध्वाचार प्रोज्घितः क्रोधशीलः ।
ईर्ष्युकः क्रूरो विग्रहासक्तचेता यस्मिन्‌राजा तस्य देशस्यनाशः ।। 76
प्रहरहरछिंदिभिंदी त्यायुध काष्ठाश्मपाणयोबालाः ।
निगदंतः प्रहरंतस्तत्रापि भयं भवत्याशु ।। 77
अंगार गौरिकाद्यै र्विकृतप्रेताभि लेखनं यस्मिन् ।
नायक चित्रित मथवाक्षयोक्षयंयाति नचिरेण ।। 78
लूतापटांगशबलं नसंध्ययोः पूजित कलहयुक्तं ।
नित्योच्छिष्ट स्त्री कंचयद्गृहं तत्क्षयं याति ।। 79
दृष्टेषु यातुदानेषु निर्दिशेन्मरकमाशु संप्राप्तं ।
प्रतिघातायैतेषां गर्गशांतिंच कारॆमां ।। 80
महशांत्योथ बलयोभ्योज्यानि सुमहांतिच ।
कारयेत्तु महेंद्रंच माहेंद्रींच समर्चयेत् ।। 81
इति शक्रध्वजेंद्र कीलकादि वैकृतं ।।

नरपति देशविनाशे केतो रुदयोथवा ग्रहेर्केद्वोः ।
उत्पातानां प्रभवःस्वर्तुः भवश्चाप्य दोषाय ।। 82
योचनदोषान् जनयत्युत्पातासा नृतुस्वभावकृतान् ।
ऋषिः पुत्रकृतैः श्लोकैर्विंद्यादेतैः समासोक्तैः ।। 83
व्रजाशनि महीकंप संध्या निर्घातनिः स्वनाः ।
परिवेष रजोधूम रक्तार्का स्तमयोदयाः ।। 84
द्रुमोभ्यो न्नरसस्नेवा बहुपुष्प फलोद्गमाः ।
गो पक्षि मदवृद्धिश्च शिवाय मधुमाधवे ।। 85
तारोल्कापातकलुषं कंपिलार्केंदु मंडलं ।
अनग्निज्वलनस्पोट धूमरेण्य निलाहतं ।। 86
रक्तं पद्मारुणं संध्या नभः क्षुब्धार्णवोपमं ।
सरितां चांबुसंशोषंदृष्ट्वाग्रीष्मे शुभंवदेत् ।। 87
शक्रायुदपरीवेषा विद्युच्छुष्क विरोहणं ।
कंपोद्वर्तनवैकृत्यं रसनंदरणंक्षितेः ।। 88
सरोनद्युदपानानां वृद्ध्यूर्ध्वतरणंप्लवाः ।
सरणंचाद्रिग्रेहानां वर्षासुन भयावहं ।। 89
दिव्यस्त्री भूतगंधर्व विमानाद्भुत दर्शनं ।
ग्रहनक्षत्र ताराणां दर्शनं च दिवांबरे ।। 90
गीतावादित्रनिर्घोषा वनपर्वत सनुषु ।
सस्यवृद्धिरपांहनि रपापाःशर दिस्मृताः ।। 91
शीतानिलतुषारत्वं नर्दनं मृगपक्षिणां ।
रक्षो यक्षोदिसत्वानां दर्शनं वागमानुषी ।। 92
दिशो धूमांधकारश्च सनभोवनपर्वताः ।
उच्चैः सूर्योदयास्तौच हेमंते शोभनाः स्मृताः ।। 93
हिमवातानिलोत्पाता विरूपाद्भुतदर्शनं ।
कृष्णांजनाभ माकाशं तारोल्कापातपिजरं ।। 94
चित्रगर्बोद्भवाःस्त्रीषु गोजाश्व मृगपक्षिषु ।
पत्रां कुरलतानाः च विकाराः शिशिरेशुभाः ।। 95
ऋतुस्वभावजाह्येते दृ,्टाःस्वर्तौ शुभप्रदाः ।
ऋतोरनयत्रचोत्पाता दृष्टासैचाति दारुणाः ।। 96
उन्मत्तानां च यगाथाः शिशूनांभाषितंचयेत् ।
स्रियोयच्च प्रभाषंते तस्यनास्ति व्यतिक्रमः ।। 97
पूर्वंच रतिदेषु पश्चाद्गच्छति मानुषान् ।
नाचोदितावाग्वदति सत्याह्येषा सरस्वती ।। 98
उत्पातान् गणितवर्जितोपि बुध्वा विख्यातो भवति नरेंद्रवल्लभश्च ।
एतत्तन्मुनिवचनं रहस्यमुक्तं यत्ज्ञात्वा भवति नरस्त्रिकालदर्शी ।। 93
इति वाराह्यानानोत्पात शांतयः ।।

मदनरत्ने गर्ग उवाच :----
पुरुषापचारा नियत मपरज्यंति देवताः ।
अपरागाच्चदेवाना मुपसर्गः प्रवर्तते ।
दिव्यांतरिक्ष भौमंच त्रिविधं परिकीर्तितं ।। 1
ग्रहर्क्ष वैकृतं दिव्यमांतरिक्षे निबोधमे ।
उल्कापोतो दिशां दाहः परिवेषस्तधैवच ।। 2
गंधर्व नगरंचैव वृष्टिश्च विकृताचया ।
ऎवमादितुलेके स्मिन्नांत रिक्षं विनिर्दिशेत् ।। 3
चरस्थिर भवं भौमं भूकंपाश्चैव भूमिजं ।
जलाशयानां वैकृत्यंच भौमंच परिकीर्तितं ।। 4
भौमे बहु फलं ज्ञयं चिरेणच विपच्यते ।
अभ्रजं मध्य फलदं मध्यकाल फल प्रदं ।। 5
आभ्रजमांत रिक्षं :----
अद्भुतेतु समुत्पन्ने यदि वृष्टिश्शिवा भवेत् ।
सप्ताहाभ्यंतरे ज्ञेयं मद्भुतं नष्पलंहितत् ।। 6
अद्भुतश्च विपकश्च विनाशाद्यान दृश्यते ।
त्रिभिर्वर्षै स्तधाज्ञेयं सुमहद्भय कारकं ।। 7
राज्ञां शरीरे लोकेचपुरे दारगृहे तथा ।
पाकमायाति पुत्रेषु तथा वैकोशे वाहने ।। 8
ऋतु स्वभावा राजेंद्र भवं त्यद्भुत संज्ञिताः ।
शुभाव हस्ते विज्ञेयास्तां श्चमेवदतः श्रुणुः ।
वज्रा शनि महीकं पसंध्या निर्घात निस्वनाः ।। 9
परिवेषो रजो धूम रक्तार्क सुमनादयः ।
द्रुमेभिन्नर सस्स्नेहो बहु सस्य फलोद्गमः ।। 10
गो पक्षि मंद वृद्धिश्छ शुभानि मधु माधवे ।
तारोल्कापात कलुषं कपिलार्केंदु मंडलं ।। 11
अनग्नि ज्वल नास्फोट धूम एवनि लाहतः ।
रक्त पद्मारुणं सांध्यां नभः क्षुब्दार्णवोपमः ।। 12
सरितामंबु संशोषं दृष्ट्वा ग्रीष्मॆ शुभं वदेत् ।
शक्रायुधं परीवेषो गुरु शुक्र विरोहणं ।
कंपोद्वर्तन वै कृत्यं ह्रसनंदरणं क्षितेः ।। 13
नवोद पान सरसां वृद्ध्वार्ध्व तरुण प्लवः ।
शीर्णानिचा विरोहीणां वर्षा सुशुभ मुष्यते ।
शीतानले तुषारत्वं नर्दनं मृगपक्षिणां ।
रक्षो यक्ष पिशाचानां दर्शनं वागमानुषी ।। 14
दिशो धूमां धकारश्च सनभोवन पर्वतः ।
उच्चैः सूर्योदयास्तौच हेमंते शोभनाः स्मृताः ।। 15
दिव्य स्त्रीरूप गंधर्व विमानाद्भुत दर्शनं ।
ग्रह नक्षत्र ताराणां दर्शनंवाग मानुषी ।। 16
गीतवादित्र निर्घोषो वन पर्वत सानुषु ।
नव्यवृद्धि रसोत्पाते शरत्काले रसास्स्मृताः ।। 17
हिमोत्पाता निलोत्पाता विरूपाद्भुत दर्शनं ।
कृष्णांजनाभ माकाशं तारोल्का पाता पिंजरे ।। 18
चित्र गभोद्भवः स्थ्रीषु गोजाश्व मृग पक्षिषु ।
पत्रां कुरलतानांच विकाराश्शिशिरे शुभाः ।। 19
ऋतुस्वभावे सविनाद्भुतस्य जातस्य दुष्टनस्यतु शीघ्रमेव ।
श्रुत्वागमंशांति रनंतरंतु कार्त्याय धोक्ता वसुधादिपेन ।। 20

गर्ग उवाच :---
देवतार्चाः प्रनृत्यंति वेपंतॆ प्रज्वलंतिवा ।
आरोहंतिच रोहंति प्रस्विदंतिह संतिच ।
उत्तिष्टंति निषीदंति प्रथावंतिव मंतिच ।
भजंति विकृता चेष्टा मानुषाणां भयापहाः ।। 21
अाङ्मुखावातिष्ठंति स्थानात्थ्सानं भ्रमंतिच ।
वमत्यग्निं तथा धूमं स्नेहं रक्तं तथावसां ।। 22
एवमादीनि दृश्यंते विकारा स्सहजोत्थितः ।
लिंगायतन चित्रषु तत्रवासं नरोचयेत् ।। 23
राज्ञोवा व्यसनं तत्र सचदेशो विनश्यति ।
देवयात्रा सुचोत्पातान् दृष्ट्वावश्यं भयंवदेत् ।। 24
यात्रा संबंदिनः शकटाक्ष ध्वजबंगादय इत्यर्दः ।
पशूनां रुद्रजंज्ञेयं नृपाां लोकपालजं ।
रुद्रजं त्प्रतिमाभंगो पशुभयद मित्यर्ध्यं ।। 25

एवं सर्वत्र ज्ञेयः :----
सेनापतीनां नाशंस्या त्क्संदजं च विशाखजं ।
लोकानां विष्णु वस्विंद्र विश्वकर्म समुद्भवं ।। 26
विनायकोद्भवं ज्ञेयं गणानां सेवकायवा ।
देवदूतेचयाः प्रेष्या देवाः स्त्रीषुनृपस्त्रियः ।। 27
वासुदेवेषु विज्ञेयं गृहाणामेवनान्यधा ।
देवतार्च विकारेषु शुचिस्नातः पुरोहितः ।। 28
देवतार्चांतुगत्वावै स्नातामाच्छाद्य पूजयेत् ।
मधुपर्केण विधिव दुपष्ठे दनंतरं ।। 29
तल्लिंगेन च मंत्रेण स्थालीपाक यथाविधि ।
पूरोधा जुहुयाद्वहौ सप्तरात्र मतंद्रितः ।। 30
विप्राश्च पूज्या मधुरान्न पानैः सदक्षिणैः सप्तदिनं नरेंद्रैः ।
प्रापैष्टमॆह्निक्षिति गोप्रदानै स्संकाचनैः शांतिमुपैति पापं ।। 31
इति देव प्रतिमावैकृति शांतिः ।।

अ था ग्नि वै कृ त शा ं ति ः
गर्ग उवाच :---
अग्निः प्रदीप्यते यत्रराष्ट्रै भृशमनिं धनः ।
नदीप्यते चेंधनवां स्तद्राष्टं पीड्यते नृप ।। 1
जलेदार्द्रश्च वह्निर्वा तधाद्रानं मृधासुवा ।
प्रासादं तोरणं द्वारं नृपवेश्मसुरालयं ।। 2
एतानि यत्र दह्यंते तत्र राजभयं वदेत् ।
विद्युतावा प्रदह्यंते तत्रापि नृपतेभयं ।। 3
अनै शानितमां स्यर्छिर्विनापां सुरजांसिच ।
धूमश्चाग्निजो यत्र तत्र विद्यान्महाभयं ।। 4
तटिद्वानाभ्रं गगनेभयं स्याद्वृष्टि वर्जिते ।
देवास तारे गगने तदैव भयमादिशेत् ।। 5
लोहायुध विकारस्स्या त्तत्रसंग्राम मादिशेत् ।
त्रिरात्रो पोषित स्तत्र पुरोधास्सु समाहितः ।। 6
समद्भिः क्षीरवृक्षाणां सर्षपैश्च घृतेनच ।
होमं कुर्यादिग्नि मंत्रै र्ब्राह्मणांश्चैव भोजयेत् ।। 7
दद्यात्सु वर्णंच तथा द्विजेभ्योगांश्चैव वस्त्राणि तथाभवंति ।
एवं कृते तत्समुपैति नाशं यदग्निवैकृत्वा भवं द्विजेंद्र ।। 8
इत्यग्निवैकृत शांतिः ।।

अ थ वृ क्षो त्पा त शा ं ति ः
गर्ग उवाच :----
पुरेषुयेच दृश्यंते पादपादैव चोदिताः ।
रुदंतो वाहा नंतोवा वमंतो वारसाभुवि ।। 1
रुदंतो व्याधिरभ्योति वसंतो देश विभ्रमः ।
शाखाभ्रपताने कुर्यात् संग्रमे योधपातनं ।। 2
बालानां मरणं कुर्याद्बालानां फल पुष्पतः ।
स्वराष्ट्रभेदं कुरुते फलं पुष्प मनार्तवं ।। 3
क्षिरं सर्वत्र गंभीरं स्नेहं दुर्भिक्ष लक्षणं ।
वाहना पचयंमध्ये रक्तो संग्राम मानिशेत् ।। 4
मधुप्रावे द्व्याधिर्जल प्रावेच वर्षति ।
आरोग शोषणं ज्ञेयं ब्रह्म दुर्भिक्ष लक्षणं ।। 5
शुष्केषु संप्ररोहत्यु वीर्य मन्नंच ह्रीयते ।
उत्थाने पतितानांच भयंभेद करंभवेत् ।। 6
स्थानात्थ्सानेषु गमने देश भंगं तथादिशेत् ।
जल्पत्स्वपिच वृक्षेषु स्वनत्स्वपि धनक्षयः ।। 7
एतत्पूजित वृक्षेषु सर्वराज्ञो विपच्यते ।
पुष्पैः फलै र्वाविकृते राज्ञां मृत्युं तथादिशेत् ।। 8
आन्येषु चैव वृक्षेषु वृक्षोत्पातेष्व तंद्रितः ।
आच्चादयित्वातं वृक्षं गंधमाल्यैर्वि भूषयेत् ।। 9
वृक्षोपरितथा छत्रं कुर्यात्पाप प्रशांतये ।
केचित्तु वृक्षोत्पाते वृक्षच्छेदन महुस्तदेतद्विरो धाच्छिंत्यं ।। 10
शिवमभ्यर्चये द्धेवं पशुं चास्मै निवेदयेत् ।
एभ्य इति रुद्रेभ्यः हत्वा रुद्रं जपेत्ततः ।। 11
मद्वाट्य युक्तेनतु पायसेन संपूज्य विप्रांश्च भवंच दद्यात् ।
गीते ननृत्येन तथार्चयेत्तं देवं हरं पाप विनाशहेतो ।। 12
इति वृक्ष वैकृत शांतिः ।।

अथ कदली दुष्टप्रसव शांतिः
उ मो वा च  :---
प्रथम प्रसवे देवरंभाया दृश्यतेयदा ।
दक्षिणाभिमुखो विद्वान् विविदानि फलंनहि ।। 1
भूपाले कर्षकेचापि फलं कस्मिं स्तुजायते ।
श्री महादेव उवाच :---
यदा याम्यमुखा देवी कदलीतु प्रसूयते ।
तदा ग्रमपते र्नाशं विदधाति नसंशयः ।। 2
एवं विफ्रसमुत्पन्ने विधानं तत्रकारयेत् ।। 3
सूतकीचोप सर्पासा कदलीहीन मिच्छत ।
तर्शेतु जागरं कृत्वा होमःकार्यस्ततः परं ।। 4
ऋङ्मंत्रैर्हवनं कार्यं वैष्णवै स्समुदाहृतैः ।
सहस्रं जपतोवाग्मी जपं शांति रनेकशः ।। 5
विष्णुस्तु देवता तत्र तल्लिंगो मंत्र उच्यते ।
विप्रेभ्य स्सप्तधान्यानि देयानि विविदानिच ।। 6
दद्यात्तां कदलीं राजा विप्रवर्याय धीमते ।। 7
एवं कृतविधाने च विप्रशांति स्तुजायेत् ।
पूजिते विप्रवर्येच कर्ता सुखमवाप्नुयात् ।। 8
इति कदली दुष्टप्रसव शांतिः ।।

अथ वृष्टिवैकृत शांतिः

गर्ग उवाच :----
अतिवृष्टि रनावृष्टि र्दुर्भिक्षादौ भयं ततः ।
अनृतौ तुदिवानंता वृष्टिर्वयाधि भयायतु ।।
अनभ्रवैकश्चैव विज्ञेया राजहिंसकाः ।।
वैकृतागर्जितादयः ।। शीतोष्णानां विपर्यासे ऋतूनां रिपुजं भयं ----
शोणितं वर्षतेयत्र तत्र शस्त्र भयं भवेत् ।
फलं पुष्पं तधाध्यान परिणाति भयायतु ।
पांसु जंतु फलानांच वर्षणे रोगजं भयं ।। 2
छिद्रंवान्न प्रवर्षेण सस्यानमतिवर्दनं ।
विरजस्कर वैव्यभ्रेयदाच्छायान दृश्यते ।। 3
दृश्यतेतु प्रतीपावा तत्रदेश भयं भवेत् ।
प्रतीपा प्रतिकूलच्छाया विवरीतच्छायोत्यर्धः ।। 4
सततं वर्षेते यत्र तत्र शतृ भयं भवेत् ।
निरभ्रेव तथा रात्रौ श्वेतं याम्योत्तरेणतु ।। 5
इंद्रायुधं तथा धृष्ट्वा उल्कोत्पातं तथैवच ।
दिग्दाह परिपेषौच गंधर्व नगरं तथा ।। 6
परचक्र भयं विंद्याद्डेशोपद्रव मेवच ।
दिग्दाह परिवेषौच गंधर्व नगरं तथा ।। 7
धान्यानि गो कांचन दक्षिणाश्च देयाद्द्विजा नाम धनाशहेतो ।। 8
इति वृष्ट्यगि वैकत शांतिः ।।

अथ जलाशय वैकृत शांतिः
गर्ग उवाच :---
नगरादप सर्पंते समीप उवयांतिच।
नद्योनद प्रस्रवणा निरस्रावै भवंतिवा ।। 1
विवर्णं कलुषं तप्तं षेनावर्ताति संकुलं ।
क्षीरस्नेह सुरारक्तं वहंति व्याकुलोदकं ।। 2
क्षाण्मासाभ्यंतरे तत्र परचक्र भयं विदुः ।
जलाशयानितेनैव प्रज्वलंति कतंचन ।। 3
विमुंचति तधा ब्रह्मना ज्वाला धूमं रजांसिच ।
अखातेवा जलोत्पत्ति स्ससत्वावा जलाशयाः ।। 4
संगीत शब्दा डृश्यंते जनमृत्यु भयं विदुः ।
दिव्यं महाभयं विद्धि मधु मात्रावसेचनं ।। 5
जप्तव्या वारुणा मंत्रास्तैश्च होमे जले भवेत् ।
मध्वाज्य युक्तं परमान्न मत्र देयं द्विजाना मध भोजनार्थं ।
गावश्छ देयासित वस्त्र युक्तास्तथोच कुंभाः सकलाघशांत्यै ।। 6
इति जलाशय वैकृत शांतिः ।।

अथ यानाद्युपस्कर वैकृत शांतिः
गर्गः उवाच :---
यांतिया नान्य युक्तानि युक्तान्यं विसयातिचेत् ।
चोद्यमानानि तत्रस्या न्मद्भय मुपस्धितं ।। 1
वाद्यमानान वाद्यंते वाद्यंते वाप्य नाहताः ।
अचलाश्च चलंतेवाच लाळ्चैव चलंतिन ।। 2
आकाशे तूर्य नादश्च गीत गंधर्व निस्वनः ।
काष्टदर्वी कुठारादि विकारं कुरुतेयदि ।। 3
लांगलं शूल संघाश्च स्त्रियः स्त्रीवापि घातयोत् ।
उपस्करादि विकृतो घोरं शस्त्रं भयं भवेत् ।। 4
वायोश्चपूजां द्विज सक्तुभिश्च कृत्वानि युक्तांश्च जपेच्च मंत्रान् ।
दद्यात्र्पभूतं परमान्न मत्र सदक्षिणंते नशमोस्य भूयत् ।। 5
इति उपस्कर वै कृत शांतिः ।।

अथ मृगपक्षिवैकृत शांतिः
गर्ग उवाच :---
प्रतिविंशति यधा ग्रामानारण्या मृगपक्षिणः ।
अरण्यं यांतिवा ग्राम्याः स्थलंयांति जलोद्भवाः ।। 1
स्थलजावा जलं यांति घोरा वासंतिनिर्भयाः ।
राजद्वारे पुरद्वारे शिवाश्चाप्य शिवप्रदाः ।। 2
दिवा रात्रिंचरावापि रात्रौवापि दिवाचराः ।
ग्राम्यास्त्यजंति ग्रमंवा शून्यतां तस्यनिर्दिशेत् ।। 3
दीप्तं वासंति संध्या समंडलानिच कुर्यते ।
वाद्यंतेनि सर्वं यत्र तदाप्ये तत्पलं लभेत् ।। 4
प्रदोषे कुक्कुटोवासे हेमंते वापि कोकिलः ।
अर्कोदयोर्काभिमुखी शिवारौति भयं दिशेत् ।। 5
ग्रहे कपोतः प्रविशेत्क्र व्याधो मूर्ध्निचापतेत् ।
मधुवामक्षिका कुर्यात् मृत्युर्गेहपते र्भवेत् ।। 6
प्राकारद्वारगेहेषु तोरणापण वीधिषु ।
केचिच्छत्रायुधाद्येषु क्रव्याद स्संश्रयेद्यदि ।। 7
जायते नाथ वल्मीकी मधुवास्यंदतेयदि ।
सदेशो नाशमायाति राजा चम्रियते तदा ।। 8
मूषकान् शलभान् दृष्ट्वा प्रभूतं क्षुद्भयं भवेत् ।
काष्ठोल्मुकास्थि शृंगाढ्याः श्वानमर्कट वेदनाः ।। 9
दुर्भिक्ष वेदनाज्ञेयाः काकाध्यानमुखायदि ।
जनानभि भवंतश्च निर्भयारण्य वेदिनः ।। 10
काको मैधुनयुक्तश्च श्वेतस्तु परिदृश्यते ।
राजानाम्रियते तत्र सदेशोवा विनश्याति ।। 11
उलूकोवास्यते यत्र नृपद्वारे तथा गृहे ।
ज्ञेया गृहपतेर्मुत्युः धननाश स्तधैवच ।
मृगपिक्षि विकारेषु कुर्याद्धोमं सदक्षिणं ।। 12
देवाः कपोत इतिच जप्तव्याः पंचभिर्द्विजैः ।
सुदेव इतिचैकेन देयागावश्च दक्षिणाः ।। 13
जपेच्छ कुंतसूक्तंच समो वेदशिरांसिच ।
मंत्रा ऋग्वेदे प्रसिद्धाः नमो ब्रह्मण इति ।। 14
वेदशिरांसि उपनिषदः गावश्चदेयाविधिव ।
द्द्विजानां सकांचना वस्त्रयुतो त्तरीयाः ।। 15
एवं कृते शांति मुपैति पापं मृगैर्द्विजौवान् पि निवेदितंयत् ।।
इति मृगपक्षिवैकृत शांतिः ।।

अथ मात्स्योक्ताद्भुत शांतिः

गर्ग उवाच :----
प्रासादतोरणद्वार द्वार प्राकारवेश्मसु ।
अनिमित्तकंतु पतनं दृढनां राडमृत्यवे ।। 1
राजसावाथथूमेन दिशो यत्र समाकुलः ।
आदित्यश्चंद्रताराश्च विवर्णाभयवृद्धये ।। 2
राक्षसा यत्र दृश्यंते ब्राह्मणाश्चविधर्मिणः ।
ऋतवश्च विपर्यस्ता अपूज्य पूज्यतेजनैः ।। 3
नक्षत्राणि वियोगीनि तन्महद्भयलक्षणं ।
केतुदयो परागौच छिद्रंवा शशि सूर्ययोः ।। 4
ग्रहर्क्ष विकृतिर्यत्र तत्रापि भयमादिशेत् ।
स्त्रीयश्च कलहंयंते बालानिघ्नंति बालकान् ।। 5
क्रियाणा मुचितानांच विच्चित्तिर्यत्र दृश्यते ।
हूय मानस्तु यत्राग्नि र्दीप्यतेनच शांतिषु ।। 6
क्रव्यादा वाय सायत्र यांति चोत्तर तस्तथा ।
पूर्ण कुंभाः स्रवंते वाहविर्वा विप्रलुप्यते ।। 7
मांगल्य ध्वनयोर्यत्रन श्रूयंते समंततः ।
क्षवथुर्बाधते वाथ प्रोत्साहॆ सतिनर्दतः ।। 8
नचदॆवेषु वर्तेत यथावा ब्राह्मणेषुच ।
वेदघोषाणि वाद्यानि वाद्यंते विस्तराणिवा ।। 9
गुरुमित्र द्विषोयत्र शत्रुपूजा रता सदा ।
ब्राह्मणश्छ सुहृन्मान्नयो जनोयत्राव मन्यते ।। 10
शांति मंगळ होमेषु नास्तिक्यं यत्रमन्यते ।
राजानाम्रियते तत्राsथवादेशो विनश्यति ।। 11
राज्ञे विनाशे संप्रास्ते निमित्तानि निजोथमे ।
ब्राह्मणान् प्रथमेद्वेष्टि ब्राह्मणांश्च विनिंदति ।। 12
ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति ।
?B नैतान् स्मरति कृत्येषु यानितश्च प्रकुप्यति ।। 13
रमते निंदयातेषां प्रशंसानाभि नंदति ।
आपूर्वं दुष्करं लोभं तथा सात यतिद्विजे ।। 15
गावश्चदेया द्विजपंग वेभ्यो भुवं तथा कांचन मंबराणि ।
होमश्चकार्यो द्विजयज्ञये तदेवं कृते शांति मुपैति पापं।। 16
अद्भुतेतु समुत्पन्ने यदिवृष्टि श्शिवा भवत् ।
सप्ताहभ्यंतरे ज्ञेय मद्भुतं निष्पलं हितत् ।। 17
इति मत्स्योक्ताद्भुत शांतिः ।।

अथ नानोत्पात शांतिः

मदनरत्ने गर्गः :----
औत्पातिकां महाशांतिं तत्वतः शृणुमेधुना ।
यत्रव्याधि रनावृ,्टिः परचक्र मुपस्थितं ।। 1
दुर्भिक्षं जनमृत्युवान् रूज्ञो मरणमेवच ।
तत्र शांति क्रमः प्रोक्तो महाक्रतुमिहारभेत् ।
पुनर्होमश्चकर्तव्योबृहस्पतिमतं यधा ।। 2
गावस्तधैवदातव्यास्तधै वायुर्विवर्दिनी ।
राज्ञोभिषेकं कुर्वीत तधैवचस ऋत्विजः ।। 3
त्रिरात्रं सप्तरात्रंवा उपोष्टच पुरोहितः ।
औदंबरीणां विधिवत्समिधांच शतं दहेत् ।। 4
ब्राह्मणा न्बोजयेत्तत्र हुतां ते भूरिदक्षिणा ।
यवानां होमयेद्रोणान् घृताक्तानां तथैवच ।। 5
द्विजैः घृतादृडंदद्या द्यावच्छांतिर्भविष्यति ।
राज्ञः कुलेप्रधानेवा घृतद्रोणां विधीयते ।। 6
वृषभै कादशागाश्च विप्रेभ्यः प्रतिपादयेत् ।
कुलेयस्य सरोहंति पुत्रा दुहितरस्तथा ।। 7
सर्वजीवोप सर्गश्च तत्र कर्म प्रयोजयेत् ।
सावित्र्या कारयोत्कर्म ततः पापं प्रशाम्यति ।। 8
अत्युष्टमतिशीतंच अतिवर्षमं मनादकं ।
अनार्तवं पुष्प फल मतिमात्रंच मारुतः ।। 9
वाहनानां मृतिशैव अतिमात्रंच मूषकः ।
अरण्ये मृगसंघात मथवायु रनुत्तमः ।। 10
भेरवंचाति मात्रंच रुदंति मृगपक्षिणः ।
विद्युत्त्सनितनिर्घोष मनभ्रेवाति वर्षणं ।। 12
सिंह व्याघ्र तरक्षूणां दर्शनं च चतुष्पथे ।
ईदृशै र्लक्षणोत्पातै र्विनाश मखिलक्षयेत् ।
अन्यत्र जायते राजा तथा चान्यः पुरोहितः ।। 13
तत्र शांतिं प्रवक्ष्यामि पाप प्रशमनीं शुभां ।
औदुंबराणां समिधां शत मष्टोत्तरं हरेत् ।। 14
सहक्षीर घृताक्तानां महामस्त्र गणैश्शुभैः ।
हुत्वा शतसहस्रंतु परां शान्ति मवाप्नुयात् ।। 15
यत्रंतु मुसलंवा विस्फुटते वाप्युलूखं ।
भूताविचैव बिभ्यन्ति गृहे देवकुले तथाः ।। 16
आकस्मात्स्फुरते यत्रकंपतेवा वसुंधरा ।
तथा युक्तम युक्तं वायानयुक्तं प्रधावति ।। 17
आचलं चलते यत्र विवादश्चैव मंत्रिणां ।
आयुक्तं ब्राह्मणै स्सार्थ विवदंदि तथाभृशं ।। 18
ईदृशेषु निमित्तेषु महाभय मुदाहरेत् ।
श्रेष्ठीनां सार्थ वाहानाम मात्यानां भयं वदेत् ।। 19
महाजन विवादांश्च मंत्रीणांच विनिर्दिशेत् ।
तत्र शांतिं प्रवक्ष्यामि प्राजापत्येति विशृतः ।। 20
अश्वत्थ समिधो हुत्वा घृताक्ता मधु संयुताः ।
सावित्र्याष्ट सहस्रेण प्राजा वत्यांस्तु मंत्रयेत् ।। 21
पायसैर्भोजये द्विप्रान् भुक्त्यंते भूरि दक्षिणां ।
ततः प्रशाम्यते पापं प्रजापति मतं यथा ।। 22
यमलानिच जांयेतsशुभानि निजवाहने ।
मुंडवक्त्र मुखाश्चैव क्रूराश्चकुणपास्तथा ।। 23
अनूनुषा मानुषाणां गजानां मृग पक्षिणां ।
जायते उपरिदंता अश्वाश्च विकृताननाः ।। 24
बहुशीर्ष मशीर्षंवा बहुवर्णा अवर्णाकाः ।
एकशृंग मशृंगंवा चतुर्भुज मथाभुजं ।। 25
दीर्घकर्णमकर्णंवा अजकर्णमुखं तथा ।
व्याशव्याघ्र मुखाकारं बिडाल मुखमुन्नतं ।। 26
ईदृशानि विरूपाणि दृश्यंते यत्र गौतम ।
तत्र संग्रमतो ब्रूयाद्भयं क्षयकरं महत् ।। 27
जनक्षयं च पौराणां रात्रां श्रेणीवधं तथा ।
तत्र शांतिं प्रवक्ष्यामि सर्वपाप प्रणाशनं ।। 28
खादिराश्वद्ध समिधस्सह स्राष्टोत्तरंदहेत् ।
निरूपाक्षेण मंत्रेण विधिवत्सु समाहितः ।। 29
विरूपाक्षो अग्निमूर्धेत्यादि तत्र विरूपाक्ष ऋषिः ।।
दद्याच्य कपिलंधेनुं होमंते शांतिमिच्चता ।
ततस्तच्छाम्यते पापं जातवेदोपचो यदा ।। 30
याधाकार्याणि जायंते अदंड्यं दंडयेन्नपः ।
अपूज्याश्चैव पूजंते मान्यश्यैवाव मन्ते ।। 31
अनड्वाश्च पिबेद्धेनं धेनुश्चानड्वहं पिबेत् ।
विधुनेति च गौर्वत्सं प्रजातं नाभिनंदति ।। 32
प्रजातं वत्सगौरीति शेषः मेधुनं विपरीतंच अकाले मृगपक्षिणां ।
ब्राह्मणाभिन्नमर्यादा नतिष्ठंति सर्वकर्मसु ।। 33
ईदृशैर्लक्षणोत्पातै र्विद्याद्देशस्य विभ्रमं ।
कलहं जायतेघोरं दुर्भिक्षं जनमारकं ।। 34
राजामात्यविनाशंच पौराणां च महद्भयं ।
तत्र शांतिं प्रवक्ष्यामि सर्वपाप प्रणाशनीं ।। 35
प्रज्वाल्याश्वत्थ समिदाः कृत्वा संस्तरणं महत् ।
औदुंबराणां समिधा सहस्राष्टोत्तरं बुधः ।। 36
जुहुयाद्विथिवद्वह्नौ परांशांति मवाप्नुयात् ।
दासी दास समायुक्तं गृहंदद्या द्द्विजातये ।। 37
ततः प्रशाम्यते पापं गौतमस्य वचोयथा ।
कृष्णापिपीलिकायत्र ग्रामेषु नगरेषु च ।। 38
दृश्यंते ह्यति मात्रंचॆ दुर्ध्वंवंश कृतालयाः ।
शांतिंगृहे देवगृहे तथाच नृपतेर्गृहे ।। 39
उपर्यु परिमात्रंच दृश्यंते वेश्मवत्तदा ।
मक्षिका मशिकादंशा अति मात्रं भयावहः ।। 40
ईदृशैर्लक्षणोत्पातै र्महच्चोर भयं भवेत् ।
द्रव्याणां हरणं ब्रूयात्पर चक्रस्य चागमं ।। 41
तत्र शांतिल प्रवक्ष्यामि विश्वामित्रोप दर्शितां ।
अश्वथ्थ समिधांचैव हुत्वा चाष्टोत्तरं शतं ।। 42
पूर्णपात्राणिपै दद्याद्धोमांतॆ भूरि दक्षिणां ।
सर्वोपस्कर संयुक्तं गृहं दद्या द्द्विजातये ।। 43
तिलपात्रं प्रदातव्यं तिलान् जुह्वति संपदः ।
अनग्निर्ज्वलतॆ यत्र अधूमॆ धूम दर्शनं ।। 44
बलै स्सह कुमाराश्च कलहं यत्र कुर्वते ।
गवाद्यानां भवेन्नित्यं तथा घोष निवासिनां ।। 45
चलतां सार्थवाहानां कलहोयत्र जायते ।
राजा मात्य विनाशंच पौराणांच महद्भयं ।। 46
तत्र शांतिं प्रवक्ष्यामि पिता महा वचोयथा ।
पालाश समिधाग्नौ सहस्राष्टोत्तरं हुवेत् ।। 47
ब्राह्मणा न्भोजयोत्तत्र परमान्नं घृतप्लुतं ।
ततस्तु शमयेत्पापं पितामह वचोयथा ।। 48
प्राकारे नगरे रम्येगो पुराट्टाल केषुवा ।
रध्यां चतुष्पथे चैव देवता यतनेषुच ।। 49
निवासं यत्र कुर्वंति बकाः काकाश्च कौशिकाः ।
गृध्राः परभृत श्चैव आरण्या मृग पक्षिणाः ।। 50
निरूपेत्कलहं घोरं सिद्धानां वचनं तथा ।
निरूपेतर्कयोत् ।। 51
तत्र शांतिं प्रवक्ष्यामि नारडॆनोप लक्षिणं ।
अश्वत्थ समिथानांतु घृताक्तानां विभावसोः ।। 52
वायव्यॆनॆह मंत्रेण निवेद्यंच सुशोणितं ।
ततस्तु शाम्यते पापं नारदस्य वचोयधा ।। 53
मृतः श्मशानंयो नीतः पुनर्जीवति मानवः ।
गृहेयस्य प्रविष्टो सौतिष्टेद्यदि कदाचन ।। 54
अचिरास्मृत्युतांयाति हृतदार परिग्रहः ।
तत्र शांतिं प्रवक्ष्यामि धर्मराज मतंयथा ।। 55
सक्षिराणां घृताक्ताना मग्नेर्हुत्वा मुखे बुधः ।
औदुबंरीणां विधिवत्ततः शांतिः कृता भवेत् ।। 56
सावित्र्याष्ट नहस्रेण क्षीरशांतिं तुकारयत् ।
क्षीरशांतिश्च रक्तानामेकवर्णाना मित्यादीनां वक्ष्यमाणानां ।। 57
कपिला तिल कांस्यानि होमांते भूरिदक्षिणां ।
ततस्तच्छाम्यते पापं धर्मराज मतं यथा ।। 58
श्वासृगालोथवा गृद्द्रः काकोवायदि मानुषः ।
श्मशानान्मांसमादाय पुरमध्ये प्रवेशयेत् ।। 59
नगरं पट्टणंवापि ग्रामंवा यदिवा गृहं ।
अचिरेणैव कातेन श्मशानं तद्भविष्यति ।। 60
चोरमंडल संप्राप्तिः परचक्रस्य चागमः ।
अनारोग्य मनावृष्टिर्द भिक्षं जनमारकं ।। 61
संग्रामं शस्त्र संघातं क्षिप्रमेव विनिर्दिशेत् ।
तत्र शांतिं प्रवक्ष्यमि तस्य पापस्य शांतिदां ।। 62
अश्वद्थ समिधो गृह्य तिलांश्च मधुसंयुतान् ।
विरूपाक्षेण मंत्रेण विरूपाक्षं सुशोणितां ।। 63
तिलपात्रोप हारंच क्षीरं शांतिंच कारयेत् ।
ततस्तच्छाम्यते पापं प्रजापति मतं यदा ।। 64
सौत्रा मणिः पाकयज्ञः पशुबंध स्तथैवच ।
क्रतवश्चा प्रवर्तंते अनधीत्य कृतोदयः ।। 65
यस्मिं स्तधा प्रवर्तंते क्रोध लोभ भयादपि ।
अदत्वा दक्षिण्या सम्यङ्मह दुत्पात लक्षणं ।। 66
अनारोग्य मनावृष्टि दुर्भिक्षं जनमारकं ।
ज्वरः कासस्तथा श्वासः कुष्ट दद्रु विषूचिकाः ।। 67
शिरोरोगार्श रोगाश्च पांडु रोगो गळग्रहः ।
आदयश्च प्रवर्तंते दुर्दृष्टे स्वप्न लक्षणैः ।। 68
तत्र शांतिं प्रपक्ष्यामि बृहस्पति मंतयधा ।
त्रिरात्रो पोषितो भूत्वा हविष्याशी पुरोहितः ।। 69
सक्षिराणां घृताक्तानां समिदांश्च शतं दहेत् ।
वज्र मिंद्राश निर्वापि ज्वलन्यै निपतेद्यदि ।। 70
पुरोजनपदेवापि तत्र विद्यान्महद्भयं ।
संवत्सरे ततोघेरे विद्याद्भहु जनक्षयं ।। 71
राजा मात्य विनाशंच निर्दिशेन्नात्र संशयः ।
तत्र शांतिं प्रवक्ष्यमि इंद्राग्नि वचनं यथा ।। 72
अपामार्गस्य समिधां सहस्राष्टोत्तरं दहेत् ।
पायसं भोजिये द्विप्रान् क्षीरं शांतिंच कारयेत् ।। 73
रक्तानां मोघवर्णानां गवां क्षीरं समादिशेत् ।
हुत्वाहुति शतं विप्र माहेंद्रेणैव मंत्रवित् ।। 74
सुवर्ण मणिवर्णानां गवां क्षीरं समादिशेत् ।
हुत्वाहुति शतं विप्र माहेंद्रेणैव मंत्रवित् ।। 74
सुवर्ण मणिसंघातां होमांते भूरिदक्षिणां ।
ततस्तच्चाम्यते पाप मिंद्राग्निवचनं तथा ।। 75
प्रतसोतो महनद्यः प्रवहंति जलाशयाः ।
उन्मार्गपथगामानि जलान्युपहरंति च ।। 76
उद्गिरंति जलंभूमौ पुष्करिण्यो जलाशयाः ।
कुमुदोत्पल पुष्फाणां नद्यस्स्रोतसि संभवः ।। 77
दर्शनं सप्तऋषीणां नागानां जलशायिनां ।
चैत्यवृक्षा महोल्काश्च पुष्पवंति फलंतिच ।। 78
पूयशोणित गंधाश्च कृपापाणां सुगंधिता ।
क्रिमिशोणित वर्षंच छिन्नाभिन्नः पुरोहितः ।। 79
ईदृशानि निमित्तानि संतियत्रैव गौतम ।
परचक्रागमं विंद्या त्सर्वलोक भयावहं ।। 80
राजामात्य भयंब्रूया त्पौराणांच महद्भयं ।
औदुंबरीणां विधिवत्समिधांवै समाहितः ।। 81
सहस्त्राष्टोत्तरंहुत्वा त्विंद्राग्नेयेन मंत्रवित् ।
रुद्रजापश्चकर्तव्यो वायव्यश्चसमंततः ।। 82
देवलयोषु सर्वेषु नानावादित्र निस्वनैः ।
मोदकाक्षत पत्रैश्च ब्राह्मणै स्स्वस्तिवाचयेत् ।। 83
द्विजातनां गोसहस्रं होमांते भूरिदक्षिणा ।
उत्पातादि निमुत्तास्तु येकेचिद्भय दारुणाः ।। 84
गोप्रदानेन शाम्यंति प्रजापतिमतं यधा ।
व्रतोपवासै र्नियमैर्होमै ब्राह्मणतर्पणैः ।। 85
दिव्योत्पाते समुत्पन्नै माहेंद्रं साथयेच्चरुं ।
वारुणंचांतरिक्षे च आग्नेयं पार्थिवेतथा ।। 86
तथा संग्रामकालेपि प्रहाराणां निवृत्तये ।
एवमित्यादिकंलोके दिव्य भोमांतरिक्षजं ।। 87
नियमैर्व्रतो पवासैश्च शांतिभिश्च प्रशाम्याति ।
देवतायत्रपूज्यंते सांवत्सर पुरोहिता ।। 88
गुरवो ग्रहनक्षत्रं तदाहुः शुभलक्षणं ।
इति मदनरत्ने गर्गोक्तानानोत्पात शांतयः ।।