अष्टमोऽध्यायः ८


श्रीराम उवाच ।


पाञ्चभौतिकदेहस्य चोत्पत्तिर्विलयः स्थितिः ।
स्वरूपं च कथं देहे भगवन्वक्तुमर्हसि ॥


॥ ४२ ॥ ४३ ॥ एकाकिनमिति । मृगो हस्ते यस्य तम् । खट्वादेः परा सप्तमीति साधुः ॥ ४४ ॥अथेति । गौतमीतीरस्थं स्वविग्रहादिकमुपसंहृत्य रामं गिरिशिखरस्थं ज्ञात्वेत्यर्थः ॥ ४५ ॥ इति श्रीलक्ष्मीनृसिंहपण्डितसूनुहरिदीक्षितकृतौ शिवगीताटीकायां बालानान्दिन्यां सप्तमोऽध्यायः ॥ ७ ॥

पूर्वाध्यायान्ते शंभुनोक्ते यद्यत्प्रष्टुमभीच्छसि तत्सर्वं पृच्छ राम त्वमिति तदेवोपजीव्य स्वयमधिगततत्त्वोऽपि लोकानुग्रहार्थं विरक्तिसाधनं देहादिनिःसारत्वं शिवमुखेनैव प्रकटयितुं रामः पृच्छति-- पाञ्चभौतिकेति । देहे लिङ्गशरीरे पाञ्चभौतिकदेहस्य स्थूलस्य उत्पत्त्यादिकं कथं केन प्रकारेण इदं वक्तुमर्हसीत्यन्वयः ॥ १ ॥

 

श्रीभगवानुवाच ।

पञ्चभूतैः समारब्धो देहोऽयं पाञ्चभौतिकः ।

तत्र प्रधानं पृथिवी शेषाणां सहकारिता ॥ २ ॥
जरायुजोऽण्डजश्चेव स्वेदजश्चोद्भिदस्तथा ।
एवं चतुर्विधः प्रोक्तो देहोऽयं पाञ्चभौतिकः ॥ ३ ॥
मानसस्तु परः प्रोक्तो देवानामेव स स्मृतः ।
तत्र वक्ष्ये प्रथमतः प्रधानत्वाज्जरायुजम् ॥ ४ ॥
शुक्रशोणितसंभूतवृत्तिरेव जरायुजः ।
स्त्रीणां गर्भाशये शुक्रमृतुकाले विशेद्यदा ।
रजसा योषितो युक्तं तदेव स्याज्जरायुजम् ॥ ५ ॥
बाहुल्याद्रजसः स्त्री स्याच्छुक्राधिक्ये पुमान्भवेत् ।
शुक्रशोणितयोः साम्ये जायतेऽथ नपुंसकः ॥ ६ ॥
 


पञ्चभूतैरिति । अयमपरोक्षः प्राणिनां देहः पाञ्चभौतिकः पञ्चभूतानां परिणामः । यतः पञ्चभूतैरारब्धः तत्र तस्मिन्देहे पृथिवी प्रधानं मुख्येत्यर्थः ।। 'वैशेष्यात्तद्वादः' इति न्यायात् । एवमाप्ये देहादौ द्रष्टव्यम् । शेषा इत्यर्थः । तदंशानामल्पीयस्त्वात्सहकारित्वमुक्तम् ॥ २ ॥ उद्भिनत्ति भूमिमित्युद्भिदः । इगुपधलक्षणः कप्रत्ययः ॥३॥ प्रधानत्वादिति । जरायुजं मनुष्यदेहं पुरुषार्थसाधनत्वेन मुख्यत्वादिति भावः ॥ ४ ॥ शुक्रेति। शुक्रशोणिताभ्यां संभूता जाता वृत्तिरुत्पत्तिर्यस्य स तथा । एर्वभूत एव जरायुजो नतु तन्निरपेक्षोत्पत्तिक इत्यर्थः । पूर्वश्लोकस्यैव शेषभूतमर्धमिदम् । स्त्रीणामिति । गर्भ आशेतेऽस्मिन्निति गर्भाशयः पेशी सैव जरायुशब्दवाच्या । "गर्भाशयो जरायुः स्यात्'इत्यमरः । तस्मिन् गर्भाशये शुक्रं ऋतुकाले विशेत्तदा योषितः स्त्रिया रजसा शोणितेन युक्तं तदेव शुक्रं ज्ञरायुजं स्यात् ॥ ५ ॥ शुक्रशोणितयोरन्यतराधिक्ये, सति ,जाय- ·

 

ऋतुस्नाता भवेन्नारी चतुर्थदिवसे ततः ॥
ऋतुकालस्तु निर्दिष्ट आषोडशदिनावधि ॥ ७ ॥
तत्रायुग्मदिने स्त्री स्यात्पुमान्युग्मदिने भवेत् ॥ ८ ॥
षोडशे दिवसे गर्भों जायते यदि सुभ्रुवः ।
चक्रवर्ती तदा राजा जायते स न संशयः ॥ ९ ॥
ऋतुस्नाता यस्य पुंसः साकाङ्क्षं मुखमीक्षते ॥
तदाकृतिर्भवेद्गर्भस्तत्पश्येत्स्वामिनो मुखम् ॥ १० ॥

 


मानं भेदविशेषमाह-बाहुल्यादिति । ’न भ्राण्नपान्नवेदानासत्या' इति निपातनान्नपुंसकशब्दः साधुः ॥ ६ ॥ ऋतुस्नातेति । षोडशदिनरूपमवधिमभिव्याप्येत्यर्थः । तथाच रजोदर्शनादारभ्याषोडशदिनं ऋतुकाल इति फलितार्थः । एवं स्थिते चतुर्थदिवसे नारी ऋतुस्नाता भवेत् ॥ ७ ॥ ततः पञ्चमदिनमारभ्यायुग्मासु पञ्चमसप्तमादिषु रात्रिषु भर्तृसंयोगे स्त्री स्यात्। युग्मासु रात्रिषु पुमान् स्यात्। अयुग्मासु रात्रिष्वपि शुक्रबाहुल्ये पुमान् स्यात्किन्तु स्त्र्याकृतिः । तथा युग्मासु रात्रिषु शोणितातिरेके स्त्री स्यात्किंतु पुरुषाकृतिरित्यविरोधो द्रष्टव्यः ।। चतुर्थरात्रों गमनं वैकल्पिकम् । अप्रमाणोपन्यासस्तु दीक्षितकृतटीकायां द्रष्टव्य इति दिक् ॥ ८ ॥ षोडश इति । अत्र सर्वत्र दिवसशब्दो रात्र्युपलक्षकः । चक्रवर्ती सार्वभौमः । ब्राह्मणश्चेज्ज्ञानपारगः स्यात् ॥ ९ ॥ ऋतुस्नातेति । तत्तस्मात्कारणात्स्वामिनो भर्तुः । अत्र लिङ्गपुराणसंग्रहः---"चतुर्थ्यां रात्रौविद्याहीनं व्रतभ्रष्टं पतितं पारदारिकम् । दारिद्र्यार्णवमग्नं च तनयं सा प्रसूयते । पञ्चम्यामुत्तमां कन्यां षष्ठ्यां सत्पुत्रं सप्तम्यां कन्यां अष्टम्यां संपन्नं पुत्रं” इत्यादिफलानि वर्णितानि। ‘त्रयोदश्यां व्यभिचारिणीं कन्यां चतुर्दश्यां सत्पुत्रं पञ्चदश्यां धर्मज्ञां कन्यां षोडश्यां ज्ञानपारगं पुत्रं प्रसूयते" इत्यादिफलं ज्ञेयमिति दिक् ॥ १० ॥

 

या स्त्रीचर्मावृतिः सूक्ष्मा जरायुः सा निगद्यते ॥
शुक्रशोणितयोर्योगस्तस्मिन्नेव भवेद्यतः ॥
तत्र गर्भो भवेद्यस्मात्तेन प्रोक्तो जरायुजः ॥ ११ ॥
अण्डजाः पक्षिसपाद्याः, स्वेदजा मशकादयः ॥
उद्भिज्जा वृक्षगुल्माद्या मानसाश्च सुरर्षयः ॥ १२ ॥
जन्मकर्मवशादेव निषिक्तं स्मरमन्दिरे ।
शुक्रं रजःसमायुक्तं प्रथमे मासि तद्द्रवम् ॥ १३ ॥
बुद्बुदं कललं तस्मात्ततः पेशी भवेदिदम् ।
पेशीघनं द्वितीये तु मासि पिण्डः प्रजायते ॥ १४ ॥ ।
कराङ्घ्रिशीर्षकादीनि तृतीये संभवन्ति हि ।
अभिव्यक्तिश्च जीवस्य चतुर्थे मासि जायते ॥ १५ ॥ ।
ततश्चलति गर्भोऽपि जनन्या जठरे स्वतः ॥
पुत्रधेद्दक्षिणे पार्श्चे कन्या वामे च तिष्ठति ॥ १६ ॥

 


या स्त्रीति । स्त्रियाश्चर्मरूपा आवृतिः पेशीतियावत् । सा जरायुरिति गद्यते । जरायुः सेति स्त्रीलिङ्गमार्षम् । यस्मात्कारणात् । तेन कारणेन जरायुजः प्रोक्तः कविभिरिति शेपः ॥ ११ ॥अण्डजा इति । मनसो जाता मानसाः । योगसामर्थ्यमेव तत्र कारणमिति भावः ॥ १२ ॥ अथ पिण्डोत्पत्तिक्रममाह । जन्मकर्मेति भाविजन्मनः कारणं यत्कर्म तद्वशादेवेति संबन्धः । स्त्रीयोनौ निषिक्तं तद्रजसासहितं द्रवरूपं सत्प्रथमे मासि तिष्ठति ॥ १३॥ बुद्बुदमिति । इदं द्रवरूपं शुक्रं बुद्बुदरूपं भवति । तस्मात्कललं द्रप्सरूपं भवति । ततः पेशी भवति ततः पेशीघनं भवतीति प्रथममास एव क्रमाद्भाविन्यश्चतस्रोऽवस्था निर्दिष्टाः । द्वितीयमासे तु पिण्डो जायते ॥ १४ ॥ अभिव्यक्तिरिति । जीवस्य जीवोपाधेर्लिङ्गदेहस्येति यावत् ॥१५॥ तत इति । जनन्या जठरे

 

नपुंसकस्तूदरस्य भागस्तिष्ठति मध्यमे ॥
अतो दक्षिणपार्श्र्वे तु शेते माता पुमान्यदि ॥ १७ ॥
अङ्गप्रत्यङ्गभागाश्च सूक्ष्माः स्युर्युगपत्तदा । .
विहाय श्मश्रुदन्तादीञ्जन्मानन्तरसंभवान् ॥ १८ ॥
चूतुर्थे व्यक्तता तेषां भावानामपि जायते ।
पुंसां स्थैर्यादयो भावा भूतत्वाद्यास्तु योषिताम् ॥१९॥
नपुंसके च ते मिश्रा भवन्ति रघुनन्दन ।
मातृजं चास्य हृदयं विषयानभिकाङ्क्षति ॥ २० ॥
ततो मातुर्मनोऽभीष्टं कुर्याद्गर्भविवृद्धये ॥
तां च द्विहृदयां नारीमाहुर्दौहृदिनीं ततः ॥ २१ ॥
अदानुद्दोहृदानां स्युर्गर्भस्य व्यङ्गतादयः ॥
मातुर्यद्विषये लोभस्तदार्तो जायते सुतः ॥ २२ ॥

 


गर्भः स्वतोऽपि स्वत एवेत्यर्थः ॥ १६ ॥ १७ ॥ अङ्गप्रत्यङ्गेति । तदा चतुर्थमासे अङ्गानि करचरणादीनि प्रत्यङ्गानि अङ्गुल्यादीनि तेषां भागा अंशाः सूक्ष्मा युगपत् स्युः । जन्मन उत्पत्तेरनन्तरं संभव उत्पत्तिर्येषां तान् तथोक्तान् श्मश्रुदन्तादीन्विहाय ॥ १८ ॥ चतुर्थे इति । तेषां भावानां वक्ष्यमाणानामपि अभिव्यक्तिर्जायते । के ते भावा इत्याकाङ्क्षायामाह-पुंसामिति । योषितां भूतत्वाद्याः । भूतत्वं चाञ्चल्यम् ॥ १९ ॥ नपुंसक इति । मातृजमिति गर्भस्य हृदयं मातुर्हृदयाज्जायत इत्यर्थः । अतो मातुराकाङ्क्षितानेव विषयानभिकाङ्क्षति ॥ २० ॥ तत इति । ततः कारणाद्गर्भस्य विवृद्धये मातुर्मनसो यद्यदन्नपानाद्यभीष्टं तत्कुर्यात् । तां चेति । द्वे हृदये यस्यास्तां दौहृदिनीम् । पृषोदरादित्वात्साधुः ॥ २१ ॥ अदानादिति । दोहदानां गर्भिण्यभिलषितार्थानामदानात् गर्भस्य व्यङ्गता अङ्गन्यूनत्वम् । आदिपदेन अशक्तबुद्धिमान्द्यत्वादीनां संग्रहः ॥ २२ ॥

 

प्रबुद्धं पञ्चमे चित्तं मांसशोणितपुष्टता ।
षष्ठेऽस्थिस्नायुनखरकेशलोमविविक्तता ॥ २३ ॥
बलवर्णौ चोपचितो सप्तमे त्वङ्गपूर्णता ।
पादान्तरितहस्ताभ्यां श्रोत्ररन्ध्रे पिधाय सः ॥ २४ ॥
उद्विग्नो गर्भसंवासादस्ति गर्भभयान्वितः ॥ २५ ॥
आविर्भूतप्रबोधोऽसौ गर्भदुःखादिसंयुतः ।
हा कष्टमिति निर्विण्णः स्वात्मानं शोशुचीत्यथ ॥ २६ ॥
अनुभूता महासह्यपुरो मर्मच्छिदोऽसकृत् ।
करम्भवालुकास्तप्ताश्चादह्यन्तासुखाशयाः ॥ २७ ॥

 


प्रबुद्धमिति । पञ्चमे प्रबुद्धं ज्ञानवद्भवति। षष्ठे तु नखराणि नखानि केशाः शिरोरुहा रोमाण्यङ्गरुहाणि ॥ २३ ॥ बलवर्णाविति । सप्तमे बलवर्णौ च उपचितौ भवतः । अङ्गपूर्णता सप्तमे सर्वाङ्गसंपूर्णो भवतीति वचनात्पादाभ्यामन्तरितौ यौ हस्तौ ताभ्यां श्रोत्ररन्ध्रेऽपिधायाच्छाद्य ॥ २४ ॥ स जन्तुः किंविधस्तत्राह-उद्विग्न इति। गर्भसंवासाद्गर्भसंवाससंकटादित्यर्थः । उद्विग्नः संजातत्रासः । तथा गर्भभयेन भाविगर्भप्रतिसंधानजनितेन भयेनान्वितो युक्तः सन्नस्ति तिष्ठति ॥ २५ ॥ आविर्भूत इति । आविर्भूतः प्रबोधो भूतभविष्याद्यनेकजन्मज्ञानं यस्य स तथा निर्विण्णः पश्चात्तापवान् शोशुचीति पुनःपुनः शोचतीत्यर्थः । यङ्लुङन्ताल्लटि रूपमिदम् ॥ २६ ॥ भूतजन्मदुःखान्यनुस्मृत्य शोचति-अनुभूतेति । महासह्याश्च ताः पुरश्च तास्तथोक्ताः । नारकिशरीराणीत्यर्थः । '‘शतं मा पुर आयसीररक्षन्” इति श्रुतेः । कर्मधारये कृते "ऋक्पूरब्धूः” इति समासान्तेऽचि "परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः” इति स्त्रीत्वादाप् । मयानुभूता इति संबन्धः । करम्भवालुकाः यवभर्जनार्थं तप्ताः सिकताः ।

 

जठरानलसंतप्तपित्ताख्यरसविप्रुषः ।
गर्भाशये निमग्नं तु दहन्त्यतिभृशं हि माम् ॥ २८ ॥
उदर्यकृमिवक्त्रणि कूटशाल्मलिकण्टकैः।
तुल्यानि च तुदन्त्यार्तं पार्श्वास्थिक्रकचार्दितम् ॥ २९ ॥
गर्भे दुर्गन्धभूयिष्ठे जठराग्निप्रदीपिते ।
दुःखं मयाप्तं यत्तस्मात्कनीयः कुम्भपाकजम् ॥ ३० ॥
पूयासृक्श्लेष्मपायित्वं वान्ताशित्वं च यद्भवेत्।
अशुचौ क्रिमिभावश्च तत्प्राप्तं गर्भशायिना ॥ ३१ ॥
गर्भशय्यां समारुह्य दुःखं यादृङ्मयापि तत् ।
नातिशेते महादुःखं निःशेषनरकेषु तत् ॥ ३२ ॥


तप्ताः पुनश्च संतापिताः । कीदृश्यः । असुखं आशेते आस्विति असुखाशयाः । एवंभूता मां दहन्तीति संबन्धः ॥ २७ ॥ २८ ॥ उदर्येति । उदरे भवा उदर्याः । ‘शरीरावयवाद्यत्'। उदर्यकृमीणां वक्त्राणि आर्तं मां तुदन्ति व्यथयन्तीत्यन्वयः । कीदृशानि वक्त्राणि । कूटशाल्मलेः कण्टकैः तुल्यानि । कीदृशं माम् । मातुः पार्श्वभागयोर्यान्यस्थीनि तान्येव क्रकचाः करपत्राणि तैरर्दितं पीडितम् ॥२९॥ गर्भे इति-मातुर्गर्भे । कीदृशे । दुर्गन्धभूयिष्ठे पूतिगन्धिबहुले । किंच । जठराग्निना प्रदीपिते यन्मया दुःखमाप्तमनुभूतं तस्माद्दुःखात्कुम्भपाकाख्ये नरके जातं दुःखं कनीयः । अत्यल्पमित्यर्थः॥ ३० ॥ पूयेति । पूयो रक्तविकारः असृग्रक्तं श्लेष्मा कफ: तत्पायित्वं वान्ताशित्वम् । उदरस्थमन्नमेव वान्तत्वेनोपचर्यते तद्भक्षणशीलत्वम् । अशुचौ विण्मूत्रादौ कृमिभावश्च। तत् त्रितयमपि गर्भशायिना मया प्राप्तमिति संबन्धः ॥ ३१ ॥ गर्भशय्यामिति । गर्भ एव शय्या तां समारुह्याश्रित्य मया यादृग्दु:खं आपि प्राप्तं तद्दुःखं कर्म, समस्तेषु नरकेषु दुःखं कर्तृ तन्नातिशेते । आकल्पं भोक्तव्यसर्वनरक

 

एवं स्मरन्पुरा प्राप्ता नानाजातीश्च यातनाः ।
मोक्षोपायमभिध्यायन्वर्ततेऽभ्यासतत्परः ॥ ३३ ॥
अष्टमे त्वक्सृती स्यातामोजस्तेजश्च हृद्भवम्।
शुभ्रमापीतरक्तं च निमित्तं जीविते मतम् ॥ ३४ ॥
मातरं च पुनर्गर्भं चञ्चलं तत्प्रधावति ।
ततो जातोऽष्टमे मासि न जीवत्योजसोज्झितः ॥ ३५ ॥
किंचित्कालमवस्थानं संस्कारात्पीडिताङ्गवत् ।
समयः प्रसवस्य स्यान्मासेषु नवमादिषु ॥ ३६ ॥


दु:खादपि गर्भवासदु:खमसह्यमिति भावः ॥ ३२ ॥ एवमिति । नानाविधा जातीः संकरजातीः पुल्कसत्वाद्याः यातनास्तीव्रवेदनाश्च स्मरन् मोक्षस्य उपायं चाभिध्यायन् केनोपायेन मे मोक्षो भविष्यतीति च चिन्तयन्नित्यर्थः । वर्तते तिष्ठति । कीदृक् । अभ्यासः समस्तदुःखचिन्तनपूर्वकं मोक्षोपायचिन्तनवृत्तिः तत्र तत्परस्तदेकनिष्ठ इत्यर्थः ॥ ३३ ॥ अष्टम इति । त्वक्चर्मसृतिर्गमनरूपं कर्म ते उभे स्याताम् । हृदि भवं हृद्भवं ओजस्तेजश्च स्यात् । तयोः स्वरूपमाह । शुद्धं यदोजःशब्दवाच्यं तच्छु़भ्रं यत्तेजःशब्दवाच्यं तत् आ ईषत्पीतं रक्तं च । तदोजस्तेजश्च धातुपरिणामविशेषात्मकं जीविते निमित्तं तदष्टमे मासि मतं तत्र स्फुटीभवतीत्यर्थः ॥ ३४ ॥ मातरमिति । यत्पूर्वोक्तमोजः गर्भस्यादृष्टवशात् चञ्चल्यते गर्हितं चलतीति चञ्चलम् । अत एव पुनर्मातरं च पुनश्च गर्भं प्रधावति । अनियतावस्थितिर्भवतीत्यर्थः । ततो हेतोः अष्टमे मासि जातो न जीवति । प्रागुक्तेन ओजसा उज्झितस्त्यक्तः ॥ ३५ ॥ किंचित्कालमिति । नवमादिषु मासेषु प्रसवस्य समयः स्यात् । तेषु मासेषु संस्कारात्प्रसवप्रतिबन्धकालदृष्टात्किंचित्कालमवस्थानं भवतीति । तत्र दृष्टान्तः। 
८३
बालानन्दिनीव्याख्यासहिता ।

 

मातुरस्रवहां नाडीमाश्रित्यान्ववतारिता।
नाभिस्थनाडीगर्भस्य मात्राहाररसावहा।
तेन जीवति गर्भोऽपि मात्राहारेण पोषितः ॥ ३७ ॥
अस्थियन्त्रविनिष्पिष्टः पतितः कुक्षिवर्त्मना।
मेदोऽसृग्दिग्धसर्वाङ्गो जरायुपुटसंवृतः ॥ ३८ ॥
निष्क्रामन्भृशदुःखार्तो रुदन्नुच्चैरधोमुखः।
यन्त्रादेवं विनिर्मुक्तः पतत्युत्तानशाय्युत ॥ ३९ ॥
अकिंचित्कस्तदा लोकैर्मांसपेशीवदास्थितः ।
श्वमार्जारादिदंष्ट्रिभ्यो रक्ष्यते दण्डपाणिभिः ॥ ४० ॥


भारादिना श्रान्तस्तूष्णीं तिष्ठति तद्वत् ॥३६ ॥ मातुरिति । अस्रं शोणितं वहत्यनयेत्यस्रवहा तां नाडीमाश्रित्य नाभिस्था नाडी अन्ववतारिता विस्तारितास्ति । सा च नाडी गर्भस्य मातुराहारो मात्राहारस्तत्संबन्धिनं रसं आवहति । अस्रवहनाड्याश्रितनाभिस्थनाडीप्रापितमात्राहाररसेन गर्भो जीवतीति भावः । तदेव स्पष्टमाचष्टे -- नेति । योषितस्तेनान्नरसेन मात्राहारेण स्वल्पाहारभूतेनापि तद्गर्भो जीवतीत्यर्थः ॥ ३७ ॥ प्रसूतिप्रकारमाह --अस्थियन्त्रेति । योनिचक्रे यान्यस्थीनि तदेव यन्त्रं तेन विनिष्पिष्टो व्यथिताङ्गः सन् कुक्षिवर्त्मना कुक्षिर्बस्तिस्ततो योनिरेवंभूतेनेत्यर्थः । बहिः पतितो निःसृतो भवतीति शेषः । किंभूतः | मेदश्च असृक् च ताभ्यां दिग्धमालिप्तं सर्वमङ्गं यस्य स तथा । जरायुरेव पुटमपिधानं तेन संवृतः ॥ ३८ ॥ निष्क्रामन्निति । एवमुक्तप्रकारेण यन्त्राद्विनिर्मुक्तः सन्पतति । एवं गर्भवासदुःखं निरूपितम्। उत्तानशायीत्यादिना शैशवदुःखं निरूपयति । उत अपि च उत्तानशायी डिम्भ इत्यर्थः ॥ ३९ ॥ अकिंचित्कः किंचिदपि कर्तुं असमर्थः । सर्वथा पराधीन इति भावः । अत एव लोकैर्मांसपेशीवव्द्यवस्थितः । दण्डपाणिभिः स्वजनैः ॥४०॥

 

पितृवद्राक्षसं वेत्ति मातृवड्डाकिनीमपि ॥
पूयं पयोवदज्ञानाद्दीर्घकष्टं तु शैशवम् ॥ ४१ ॥
श्लेष्मणा पिहिता नाडी सुषुम्रा यावदेव हि ।
व्यक्तवर्णं च वचनं तावद्वक्तुं न शक्यते ॥ ४२ ॥
अतएव च गर्भेऽपि रोदितुं नैव शक्यते ॥ ४३ ॥
दृप्तोऽथ यौवनं प्राप्य मन्मथज्वरविह्वलः ।
गायत्यकस्मादुच्चैस्तु तथाकस्माच्च वल्गति ॥ ४४ ॥
आरोहति तरून्वेगाच्छान्तानुद्वेजयत्यपि ।
कामक्रोधमदान्धः सन्न कांश्चिदपि वीक्षते ॥ ४५ ॥
अस्थिमांसशिरालाया वामाया मन्मथालये ।
उत्तानपूतिमण्डूकपाटितोदरसंनिभे ।
आसक्तः स्मरबाणार्त अत्मना दह्यते भृशम् ॥ ४६ ॥
अस्थिमांसशिरात्वग्भ्यः किमन्यद्वर्तते वपुः ॥
वामानां मायया मूढो न किंचिद्वीक्षते। जगत् ॥ ४७ ॥


विवेकशून्यत्वं प्रतिपादयति-पितृवदिति । डाकिनीं राक्षसीविशेषम् । दीर्घं कष्टं यस्मिंस्तत्तादृशं शैशवमिति ॥ ४१ ॥ श्लेष्मणेति । सुषुम्ना ब्रह्मनाडीत्युच्यते सा यावच्छ्ल्ऱेष्मणा पिहितास्ति तावत्स्पष्टाक्षरं वचनं वक्तुं न शक्यते ॥ ४२ ॥ ४३ ॥ यौवनं निरूपयति-दृप्तोऽथेति । दृप्तो गर्वितः अकस्मात् निर्निमित्तं वल्गति स्वपराक्रमं विकत्थते ॥ ४४ ॥ ४५ ॥ अस्थि च मांसं च शिरा च अस्थिमांसशिरं तत् आसमन्ताल्लाति गृह्णाति सा तथा तस्या वामायाः स्त्रिया मन्मथालये उपस्थे। उत्तानं पूति दुर्गन्धं ईदृशं यन्मण्डूकस्य पाटितं विशीर्णं उदरं तत्सदृशे । आसक्तः सन्नात्मना मनसा ॥ ४६ ।।॥ अस्थीति । वामानां सुन्दरीणां वपुः शरीरं अस्थि मांसप्रभृतिभ्योऽन्यद्वर्तते किं नास्त्येवेत्यर्थः । यद्यपि अस्थ्यादीनामेकत्वमेवापेक्षितं प्राण्यङ्ग

 

निर्गते प्राणपवने देहो हन्त मृगीदृशः ।
यथाहि जायते नैव वीक्ष्यते पञ्चषैर्दिनैः ॥ ४८ ॥
महापरिभवस्थानं जरां प्राप्यातिदुःखितः।
श्लेष्मणा पिहितोरस्को जग्धमन्नं न जीर्यति ।। ४९ ॥
सन्नदन्तो मन्ददृष्टिः कटुतिक्तकषायभुक् ।
वातभुग्नकटिग्रीवाकरोरुचरणोऽबलः ॥ ५० ॥
गदायुतसमाविष्टः परिभूतः स्वबन्धुभिः ॥
निःशौचो मलदिग्धाङ्ग अालिङ्गेितवरोषितः ॥ ५१ ॥


त्वात्तथाप्यार्षत्वमेव गतिः । यद्यप्येवं तथापि मायया योषिन्मय्या मूढो युवा किमपि जगन्नेक्षते यथावन्न जानाति। किंतु स्त्रीमयमेव पशयतीत्यर्थः ॥ ४७ ॥ निर्गत इति । प्राणपवने निर्गते सति पञ्चभिः षड्भिर्वेति पञ्चषैर्दिनैः । मृगीदृशो देहो यथा हि जायते यामवस्थां प्राप्नोति तन्न वीक्ष्यते न पर्यालोच्यते । मूढेन यूनेति शेषः । उक्तं च “नारीस्तनभरनाभिनिदेशं दृष्ट्वा मायामोहावेशम् । एतत्सर्वं मांसविकारं मनसि विचारय वारंवारम्" इति ॥ ४८ ॥ वार्धकदुर्दशामाह—महापरिभवेति । महांश्चासौ परिभवस्तिरस्कारस्तस्य स्थानम् । अजहल्लिङ्गत्वात्तथैव विशेषणम् । “शैत्यं हि यत्सा प्रकृतिर्जलस्य” इतिवत् । एवंविघां जरां प्राप्यातिदुःखितस्तिष्ठतीति शेषः । जग्धं भक्षितमन्नं न जीर्यति जीर्णं न भवतीत्यर्थः ॥ ४९ ॥ सन्ना विशीर्णा दन्ता यस्य स तथा । कटुतिक्तादीन् रसान् व्याधिनिवृत्तये भुङ्क्त इति तथाभूतः । वातेन भुग्ना नम्राः कट्याद्यवयवा यस्य स तथा । अत एवाबलः बलहीनः ॥ ५० ॥ गदेति । गदानां रोगाणामयुतेन दशसहस्रेण समाविष्टो व्याप्तः । निःशौचः शौचशून्यः । मलेन दिग्धं लिप्तमङ्गं यस्य स तथा । आलिङ्गितं वरं महत्। उषितं दाहो येन स तथा । 'उष दाहे’ अस्माद्धातोर्भावे क्तः । एवमा

 
ध्यायन्नसुलभान्भोगान्केवलं वर्तते चलः ।
सर्वेन्द्रियक्रियालोपाद्धास्यते बालकैरपि ॥ ५२ ॥
ततो मृतिजदुःखस्य दृष्टान्तो नोपलभ्यते ।
यस्माद्बिभ्यति भूतानि प्राप्तान्यपि परां रुजम् ॥ ५३ ॥
नीयते मृत्युना जन्तुः परिष्वक्तोऽपि बन्धुभिः ॥
सागरान्तर्जलगतो गरुडेनेव पन्नगः ॥ ५४ ॥
हा कान्ते हा धनं पुत्राः क्रन्दमानं सुदारुणम् ।
मण्डूक इव सर्पेण मृत्युना नीयते नरः ॥ ५५ ॥
मर्मसून्मथ्यमानेषु मुच्यमूानेषु संधिषु ।
यद्दुःखं म्रियमाणस्य स्मर्यतां तन्मुमुक्षुभिः ॥ ५६ ॥


दिरोगग्रस्तत्वाद्बन्धुभिः स्त्रीपुत्रादिभिः परिभूतोऽनादृत इत्यर्थः ॥५१॥ ध्यायन्निति । असुलभान्स्वाद्वन्नमृदुशय्यादीन्भोगान्केवलं ध्यायंस्तिष्ठति । नतु भगवन्तं ध्यायतीति भावः । चलतीति चलः कम्पमानदेह इल्यर्थः । सर्वेषामिन्द्रियाणा यथायथं व्यापारलोपात् बालकैरपि हास्यते । उपहास्यत इत्यर्थः ॥ ५२ ॥ तत इति । ततो वार्धकानन्तरं मरणं तेन जातस्य दुःखस्य दृष्टान्तो नैवोपलभ्यते । यस्मान्मरणाद्भूतानि बिभ्यति। कीदृशानि। परां महतीं रुजं पीडां रोगरूपां दारिद्र्यादिरूपां वा प्राप्तान्यपि ॥ ५३ ॥ नीयत इति। बन्धुभिः स्त्रीपुत्रादिभिः परिष्वक्तोऽपि आलिङ्गितोऽपि । अत्र दृष्टान्तः-सागरेति । पद्भयां न गच्छतीति पन्नगः सर्पः ॥ ५४ ॥ हा कान्ते इति । यमदूतान्दृष्ट्वा सुतरां दारुणं यथा भवति तथा हा कान्ते इल्यादि क्रन्दमान अक्रोशन्नपि नरः मृत्युना सर्पेण मण्डूक इव नीयते ॥ ५५ ॥ मर्मस्विति । उन्मथ्यमानेषु । प्राणवायुना वियुज्यमानेषु उत्कृष्यमाणेष्विति पाठेऽयमेवार्थः । तथा हस्तपादादीनां च संधिषु मुच्यमानेषु सत्सु म्रियमाणस्य यद्दुःखं तन्मुमुक्षुभिः स्मर्यताम् । तस्माद्देहे

 

दृष्टावाक्षिष्यमाणायां संज्ञया स्त्रियमाणया ।
मृत्युपाशेन बद्धस्य त्राता नैवोपलभ्यते ॥ ५७ ॥
संरुध्यमानस्तमसा महञ्चित्तमिवाविशन् ।
उपाहूतस्तदा ज्ञातीनीक्षते दीनचक्षुषा ॥ ५८ ॥
अयःपाशेन कालेन स्नेहपाशेन बन्धुभिः ।
आत्मानं कृष्यमाणं तमीक्षते परितस्तथा ॥ ५९ ॥
हिक्कया बाध्यमानस्य श्वासेन परिशुष्यतः ॥
मृत्युना कृष्यमाणस्य न खल्वस्ति परायणम् ॥ ६० ॥
संसारयन्त्रमारूढो यमदूतैरधिष्ठितः ।
क्व यास्यामीति दुःखार्तः कालपाशेन योजितः ॥ ६१ ॥


विश्वासो न विधेय इति भावः ॥ ५६ ॥ दृष्टाविति । दृष्टावाक्षिप्यमाणायां यमदूतैरिति शेषः । ह्रियमाणया संज्ञया उपलक्षितस्य तात्कालिक्या यातनया निःसंज्ञस्येत्यर्थः । मृत्युपाशेन - बद्धस्य । एवंविधस्य जन्तोस्त्राता रक्षको नोपलभ्यत एव । तस्मात्तस्मिन्काले यस्त्राता ईश्वरः स चादावेव शरणीकरणीय इति भावः ।। ५७ ॥ संरुध्यमान इति । तमसा अज्ञानेन संरुध्यमानः । तथापि महच्चित्तं विवेकम्। चिती संज्ञाने भावे क्तः । आविशन्निव सावधानतां प्राप्तः सन्निव । ज्ञातिभिरुपाहूतः सन् तदा तस्यामवस्थायामपि ज्ञातीन्दीनचक्षुषा ईक्षते । संभाषणासमर्थत्वादीक्षणमात्रं करोति तदेतन्महतो विवेकस्य कार्यम् । तदभावे ईक्षणमपि दुःसाध्यमिति भावः । तस्मात्तस्मिन्काले ईश्वरध्यानार्थं यावज्जीवं ध्यानाभ्यासो विधेय इति व्यञ्जनम् ॥५८॥l। अयःपाशेनेति । कालेन कर्त्रा अयःपाशेन करणेन तमुक्तावस्थापन्नमात्मानं परितः सर्वतः कृष्यमाणमीक्षते । इदं महतो विवेकस्य फलं किमु वक्तव्यं तदा भगवच्चिन्तनम् ॥ ५९ ॥। हिक्कयेति । प्राणवायुगतिमान्द्यं हिक्का तस्या गतिप्राचुर्यं श्वासस्तेन च । परायणं रक्षकः ।। ६० ॥ संसार एव यन्त्रं भ्रमच्चक्रं तदारूढो यम

 

किं करोमि क्व गच्छामि किं गृह्वामि त्यजामि केिम् ।
इतिकर्तव्यतामूढः कृच्छ्राद्देहात्त्यजत्यसून ॥ ६२ ॥
यातनादेहसंबद्धो यमदूतैरधिष्ठितः ॥
इतो गत्वानुभवति या यास्ता यमयातनाः ।
तासु यल्लभते दुःखं तद्वक्तुं सहते कुतः ॥ ६३ ॥
कपूंरचन्दनाद्यैस्तु लिप्यते सततं हि यत् ।
भूषणैर्भूष्यते चित्रैः सुवस्त्रैः परिवार्यते ।। ६४ ॥
अस्पृश्यं जायतेऽप्रेक्ष्यं जीवत्यक्तं सदा वपुः । ।
निष्कासयन्ति निलयात्क्षणं न स्थापयन्त्यपि ॥ ६५ ॥
दह्यते च ततः काष्ठैस्तद्भस्म क्रियते क्षणात् ।
भक्ष्यते वा सृगालेन गृघ्रकुकुरवायसैः ।
पुनर्न दृश्यते सोऽथ जन्मकोटिशतैरपि ॥ ६६ ॥


दूतैरधिष्ठित आक्रान्तः सन् । अतः परं क्व यास्यामीति दुःखार्तः । कालपाशेन योजित: बद्धः । ६१ । किं करोमीति । किं करोमीत्यादिकं किंचित्कालं चिन्तयित्वा तत इतिकर्तव्यतायां मूढः सन् कष्टाद्देहादसून्प्राणान्त्यजति ॥ ६२ ॥ ततः किमित्यत आह---यातनेति । इतोऽस्माल्लोकाद्वत्वा यमलोकमित्यध्याहारः । यातनायै देहो यातनादेहस्तेन संबद्धः सन् ताः प्रसिद्धाः यमयातनाः । या या । अनुभवति तासां मध्ये एकस्यां यातनायां यदुःखं लभतेऽनुभवति तत्किमपि वक्तुं कुतः सहते। एकयातनादु:खं वक्तुमशक्यं किमु वक्तव्यं सर्वयातनादुःखमिति भावः ॥ ६३ ॥ पूर्वशरीरस्य परिणाममाह-कर्पूरेति । परिवार्यते वेष्ट्यते ॥ ६४ । तदेव वपुर्क्जीवेन लिङ्गशरीरेण त्यक्तं सत्स्पर्शायोग्यं अप्रेक्ष्यं दर्शनायोग्यं च जायते । ज्ञातयो निलयाद्गृहान्निष्कासयन्ति क्षणमपि तु न स्थापयन्ति गृहे ॥ ६५ । दह्मत इति। संस्काराभावे सृगालेन जम्बुकेन गृध्रेण

 

माता पिता गुरुजनः स्वजनो ममेति
मायोपमे जगति कस्य भवेत्प्रतिज्ञा ।
एको यतो व्रजति कर्मपुरःसरोऽयं
विश्रामवृक्षसदृशः खलु जीवलोकः ॥ ६७ ॥
सायंसायं वासवृक्षं समेताः
प्रातःप्रातस्तेन तेन प्रयान्ति ।
त्यक्त्वान्योन्यं तं च वृक्षं विहङ्गा
यद्वत्तद्द्वज्ज्ञातयोऽज्ञातयश्च ॥ ६८ ॥
मृतिबीजं भवेज्जन्म जन्मबीजं भवेन्मृतिः ॥
घटयन्त्रवदश्रान्तो बंभ्रमीत्यनिशं नरः ॥ ६९ ॥
गर्भे पुंसः शुक्रपाताद्यदुक्तं मरणावधि ॥
तदेतस्य महाव्याधेर्मत्तो नान्योऽस्ति भेषजम् ॥ ७० ॥

इति श्रीपद्मपुराणे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशाब्रे शिवराघवसंवादे
विश्वरूपदर्शनं नाम अष्टमोऽध्यायः ॥ ८ ॥}}




कुक्कुरेण वायसेन वा भक्ष्यते । कुक्कुरः सारमेयः । अथ स देहः पुनर्न दृश्यते ॥ ६६ ॥ मातेति । मायोपमे ऐन्द्रजालिकरचितहस्त्यादिसदृशे जगति मम मातेत्यादिप्रतिज्ञा कस्य भवेत् । न कस्यापीत्यर्थः । अयं जीवः स्वकर्मपुरःसरः सन्नेक एव यतो व्रजति नतु मातापित्रादिभिः सह । तथाचानादौ संसारे सर्वेषां परस्परं मातृपितृभावोऽविशिष्ट इति भावः । जीवलोको मनुष्यलोकः विश्रामवृक्षेण सदृशः । विश्राम इत्यार्षः ॥ ६७ ।।॥ वृक्षसाम्यं विवृणोति---सायंसायमिति । तेन तेन पथेति शेषः । तद्वत्स्वस्वकर्मानुरोधेन कंचित्कालमेकत्र स्थित्वा यथायथं प्रयान्तीति भावः ॥ ६८ ॥ मृतिबीजमिति। बभ्रमीति पुनःपुनर्भ्राम्यति। यड्लुकेि रूपम् ॥ ६९ ॥ शुक्रपातादारभ्य मरणावधि यदुक्तं स चासावेष चेति कर्मधारयः ।