चतुर्थोऽध्यायः ४


श्रीसूत उवाच ।


एवमुक्त्वा मुनिश्रेष्ठे गते तस्मिन्निजाश्रमम् ।
अथ रामगिरौ रामः पुण्ये गोदावरीतटे ॥ १ ॥
शिवलिङ्गं प्रतिष्ठाप्य कृत्वा दीक्षां यथाविधि ।
भूतिभूषितसर्वाङ्गो रुद्राक्षाभरणैर्युतः ॥ २ ॥
अभिषिच्य जलैः पुण्यैर्गौतमीसिन्धुसंभवैः ॥
अर्चयित्वा वन्यपुष्पैस्तद्वद्वन्यफलैरपि ॥ ३ ॥
भस्मच्छन्नो भस्मशायी व्याघ्रचर्मासने स्थितः ।
नाम्नां सहस्रं प्रजपन्नक्तंदिवमनन्यधीः ॥ ४ ॥
मासमेकं फलाहारो मासं पर्णाशनः स्थितः ।
मासमेकं जलाहारो मासं च पवनाशनः ॥ ५ ॥
शान्तो दान्तः प्रसन्नात्मा ध्यायन्नेवं महेश्वरम् ।
हृत्पङ्कजे समासीनमुमादेहार्धधारिणम् ॥ ६ ॥


ततः किं वृत्तमिति शुश्रूषून्मुनीन्प्रति सूत उवाच-एवमिति । तस्मिन्नगस्त्ये । अथानन्तरम् ॥ १ ॥ शिवलिङ्गमिति । यथाविधि पूर्वाध्यायोक्तविधिमनतिक्रम्य दीक्षां कृत्वा स्थित इति पञ्चमश्लोकस्थेन सहान्वयः । कीदृशः स इत्याकाङ्क्षायां विशेषणानि भूतिभूषितेत्यादीनि ॥ २ ॥ अभिषिच्येति । स्वयं प्रतिष्ठापितं लिङ्गं गौतमीगोदावरी सा सिन्धुर्नदी तत्प्रभवैर्जलैरभिषिच्य । वन्यानि वने जातानि तैः । स्पष्टमन्यत् ॥३॥ भस्मच्छन्न इति । भस्मना छन्नो दिग्धः । नक्तंदिवमहोरात्रम् ।। 'अचतुर-' इति निपातनात्साधुः । अनन्यधीः न विद्यतेऽन्यस्मिन्धीर्यस्य स तथा शिवैकनिष्ठ इत्यर्थः ॥४॥ ॥५॥ शान्त इति । शान्तो मनोनिग्रहवान् । दान्तो बहिरिन्द्रियनि

चतुर्भुजं त्रिनयनं विद्युत्पिङ्गजटाधरम् ।
कोटिसूर्यप्रतीकाशं चन्द्रकोटिसुशीतलम् ॥ ७ ॥
सर्वाभरणसंयुक्तं नागयज्ञोपवीतिनम् ॥
व्याघ्रचर्माम्बरधरं वरदाभयधारिणम् ॥ ८ ॥
व्याघ्रचर्मोत्तरीयं च सुरासुरनमस्कृतम् ।
पञ्चवक्त्रं चन्द्रमौलिं त्रिशूलडमरूधरम् ॥ ९ ॥
नित्यं च शाश्वतं शुद्धं ध्रुवमक्षरमव्ययम् ॥
एवं नित्यं प्रजपतो गतं मासचतुष्टयम् ॥ १० ॥
अथ जातो महानादः प्रलयाम्बुधिभीषणः ।
समुद्रमथनोद्भूतमन्दरावनिभृद्ध्वनिः ॥ ११ ॥


ग्रहवान् । एवं नियमाविष्टः सन्महेश्वरं ध्यायन् । कीदृशम् । हृत्पङ्कज इत्यादिभिर्विशिनष्टि ॥ ६ ॥ चतुर्भुजमिति । विद्युत्तडित्तद्वत्पिङ्गानां जटानां धरम् । कोटिसंख्याकाः सूर्यास्तैः सदृशमित्यर्थः ॥७॥ सर्वाभरणमिति । नाग एव यज्ञोपवीतं तदस्यास्तीति तम् । व्याघ्रचर्मैवाम्बरं तद्धरतीति तम् । वरदाभयमुद्राङ्कितौ हस्तौ धर्तुं शीलमस्येति तम् ॥ ८ ॥ व्याघ्रेति । त्रिशूलं च डमरुश्च त्रिशूलडमरू तौ धरं धारयन्तम् ।। "कर्तृकर्मणोः कृति-” इति सूत्रेण कर्मणि षष्ठी तु न भवति । आर्षत्वाद्वा ॥९॥ नित्यमिति । शाश्वतं शश्वदेकस्वभावम् । शुद्धं कल्पितधर्मरहितं ध्रुवं परिणामशून्यम् । अक्षरं अपक्षयरहितं अव्ययं ध्वंसाप्रतियोगिनं नित्यं प्रागभावाप्रतियोगिनं तथाच षड्भावविकारहीनमिति भावः । एवं ध्यायतः प्रजपतो रामस्य मासचतुष्टयं गतं अत्यगादित्यर्थः ॥ १० ॥ अथ मासचतुष्टयानन्तरम् । अम्बुधिशब्देन तच्छब्दो लक्ष्यते । तद्वद्भीषणः । समुद्रमथने उद्भूतः परिवर्तितो यो मन्दरावनिभृन्मन्दरगिरिस्तद्ध्वनिसदृशः ॥ ११ ॥

 
रुद्रबाणाग्निसंदीप्तभृशत्रिपुरविभ्रमः ।
तमाकर्ण्याथ संभ्रान्तो यावत्पश्यति पुष्करम्।
तावदेव महातेजो रामस्यासीत्पुरो द्विजाः ॥ १२ ॥
तेजसा तेन संभ्रान्तो नापश्यत्स दिशो दश।
अन्धीकृतेक्षणस्तूर्णं मोहं यातो नृपात्मजः ॥ १३ ॥
विचिन्त्य तर्कयामास दैत्यमायां द्विजेश्वराः ॥
अथोत्थाय महावीरः सज्यं कृत्वा धनुः स्वकम् ॥ १४ ॥
अविध्यन्निशितैर्बाणैर्दिव्यास्त्रैरभिमन्त्रितैः ॥
आग्नेयं वारुणं सौम्यं मोहनं सौरपार्वतम् ॥ १५ ॥
विष्णुचक्रं महाचक्रं कालचक्रं च वैष्णवम् ॥
रौद्रं पाशुपतं ब्राह्मं कौबेरं कुलिशानिलम् ॥ १६ ॥
भार्गवादिबहून्यस्त्राण्ययं प्रायुङ्क्त राघवः ॥ १७ ॥


रुद्रेति । रुद्रस्य बाणाग्निना संदीप्तं भृशं संदीप्तबहुलं त्रिपुरं तस्य यो विभ्रमः महासंरम्भः तं करोतीति तथाभूतो नादो जात इति पूर्वेणान्वयः ।। 'तत्करोति’ इति ण्यन्तात्पचाद्यच् । तमिति । अथ महानादोत्पत्त्यनन्तरं तं नादमाकर्ण्य श्रुत्वा संभ्रान्तो जातः "समौ संवेगसंभ्रमौ" इत्यमरः । भयादिना कर्मस्वपाटवं संवेग इति क्षीरस्वामी । यावत्पुष्करं गोदावरीजलं तत्रैव प्रक्रान्तत्वात् ।। "पुष्करं सर्वतोमुखम्" इत्यमरः । तज्जलं लक्षीकरोति तावत् ॥ २१ ॥ तेजसेति । संभ्रान्तो व्याकुलः। अन्धीकृते ईक्षणे नेत्रे यस्य स तथा । एवंभूतः सन् तूर्णं शीघ्रं मोहं यातः प्राप्तः ॥ १३ ॥ विचिन्त्येति । हे द्विजेश्वराः, रामो विचिन्त्य मनसि विचार्य । एषा दैत्यमायेत्यूहितवान् । अथ महावीरो रामः स्वकमात्मीयं धनुः सज्यं सगुणं कृत्वा ॥१४॥ अविध्यदिति । दिव्यास्त्राणि । तान्येवाह-आग्नेयमिति । तत्तद्देवताकान्यस्त्राणीत्यर्थः ॥१५॥ प्रायुङ्क्त प्रयुक्तवानित्यर्थः ॥१६॥१७॥

 
तस्मिंस्तेजसि शस्त्राणि चास्त्राण्यस्य महीपतेः ।
विलीनानि महाभ्रस्य करका इव नीरधौ ॥ १८ ॥
ततः क्षणेन जज्वाल धनुस्तस्य कराच्च्युतम् ।
तूणीरं चाङ्गुलित्राणं गोधिकापि महीपतेः ॥ १९ ॥
तद्दृष्ट्वा लक्ष्मणो भीतः पपात भुवि मूर्च्छितः ।
अथाकिंचित्करो रामो जानुभ्यामवनिं गतः ॥ २० ॥
मीलिताक्षो भयाविष्टः शंकरं शरणं गतः ।
स्वरेणाप्युच्चरन्नुच्चैः शंभोर्नामसहस्रकम् ॥ २१ ॥
शिवं च दण्डवद्भूमौ प्रणनाम पुनः पुनः ।
पुनश्च पूर्ववञ्चासीच्छब्दो दिङ्मण्डलं स्वनन् ।
चचाल वसुधा घोरं पर्वताश्व चकम्पिरे ॥ २२ ॥
अथ क्षणेन शीतांशुशीतलं तेज आदधत् ॥
उन्मीलिताक्षो रामस्तु यावद्यावत्प्रपश्यति ॥ २३ ॥


तस्मिन्निति । महाभ्रस्य महामेघस्य संबधिन्यः करका वर्षोपला नीरधाविवेति दृष्टान्तः ॥ १८ ॥ तत इति । तस्य रामस्य कराञ्च्युतं सज्जज्वाल । तथा तूणीरं निषङ्गः । अङ्गुलित्राणं च गोधिकापि ज्याघातवारणार्थं कृतं चर्ममयं तलं च जज्वालेत्यनुषज्यते ॥ १९ ॥ तदिति । तत्तेजसा धनुरादिज्वलनम्। अथानन्तरं न किंचित्करोतीत्यकिंचित्करः सन् ॥ २० ॥ मीलिताक्ष इति । शरणं रक्षितारं गतः प्राप्तः । किं कुर्वन्। उच्चैःखरेणापि शंभोर्नामसहस्रकं उच्चरन्नुच्चारयन्नित्यर्थः ॥ २१ ॥ शिवं चेति । पुनश्चेति । दिशां मण्डलं स्वनन्स्वानयन्नित्यर्थः । अन्तर्भावितण्यर्थाच्छतृप्रत्ययः । घोरं भयंकरं यथा तथा ॥ २२ ॥ अथेति । राम उन्मीलिताक्षः सन् शीतांशुश्चन्द्रस्तद्वच्छीतलं तेज आदयदासमन्ताद्बिभ्रत्। तथापि यावत्स्वचक्षुर्ग्राह्मपरिमाणकं यथा स्यात्तथा । सर्वस्य ग्रहीतुमशक्यत्वात् । यावत्प्र

 
 तावद्ददर्श वृषभं सर्वालंकारसंयुतम् ॥
पीयूषमथनोद्भूतनवनीतस्य पिण्डवत् ॥ २४ ॥
प्रोतस्वर्णं मरकतच्छायाश्रृङ्गद्वयाञ्चितम् ॥
नीलरत्नेक्षणं ह्रस्वकण्ठकम्बलभूषितम् ॥ २५ ॥
रत्नपल्याणसंयुक्तं निबद्धश्वेतश्चामरैः ।
घण्टिकाघर्घरीशब्दैः पूरयन्तं दिशो दश ॥ २६ ॥
तत्रासीनं महादेवं शुद्धस्फटिकविग्रहम् ।
कोटिसूर्यप्रतीकाशं कोटिशीतांशुशीतलम् ॥ २७ ॥
व्याघ्रचर्माम्बरधरं नागयज्ञोपवीतिनम् ॥
सर्वालंकारसंयुक्तं विद्युत्पिङ्गजटाधरम् ॥ २८ ॥
नीलकण्ठं व्याघ्रचर्मोत्तरीयं चन्द्रशेखरम् ।
नानाविधायुधोद्भासिदशबाहुं त्रिलोचनम् ॥ २९ ॥


पश्यति । यद्वा । पूर्वोक्तं तेज आदधत् अपिबत् । सादरमद्राक्षीदित्यर्थः । धेट् पाने “विभाषा धेट्श्व्योः' इति चङ्। पुनश्च यावत्प्रपशयतीति ॥ २३ ॥ तावदिति । तावद्वृषभं ददर्श । पीयूषस्यामृतस्य मथनेनोद्भूतं यन्नवनीतं तस्य पिण्डवत्स्थितम् । अतिशुद्धत्वसूचनायेदमुक्तम् ॥ २४ ॥ प्रोतेति । प्रोतं शुङ्गाग्रे खचितं स्वर्णं सुवर्णं यस्य तं तथोक्तं मरकतस्य छाया कान्तिः तद्वत्कान्तिर्यस्य तादृशेन शूङ्गद्वयेनाञ्चितं रमणीयमित्यर्थः । नीलरत्नमिन्द्रनीलमणिस्तद्वदीक्षणे यस्य तं । ह्रस्वेन गलकम्बलेन सास्नया भूषितम् ॥ २५ ॥ रत्नेति । पल्याणं पृष्ठास्तरणं तेन संयुक्तम् । घण्टिकाः क्षुद्रघण्टाः घर्घर्यस्तदवान्तरभेदास्तासां शब्दैः दिशः पूरयन्तम् ॥ २६ ॥ तत्रेति । तत्र तस्मिन्पूर्वोक्ते वृषभे समासीनं महादेवं ददर्श रघुनन्दन इति वक्ष्यमाणेनान्वयः ॥ २७ ॥ २८ ॥ नीलकण्ठमिति । नानाविधान्यायुधानि तैरुद्भासितुं शीलं येषां ते तथोक्ताः तादृशा दशसंख्याका बाहवो यस्य तं तथोत्तम् । सुप्यजातौ” इति सुब्ग्रहणं प्रादिषु प्रवृ

 

युवानं पुरुषश्रेष्ठं सच्चिदानन्दविग्रहम् ॥ ३० ॥
तत्रैव च सुखासीनां पूर्णचन्द्रनिभाननाम् ॥
नीलेन्दीवरदामाभामुद्यन्मरकतप्रभाम् ॥ ३१ ॥
मुक्ताभरणसंयुक्तां रात्रिं ताराचितामिव ।
विन्ध्यक्षितिधरोत्तुङ्गकुचभारभरालसाम् ॥ ३२ ॥
सदसत्संशयाविष्टमध्यदेशान्तरां वराम् ।
दिव्याभरणसंयुक्तां दिव्यगन्धानुलेपनाम् ॥ ३३ ॥
दिव्यमाल्याम्बरधरां नीलेन्दीवरलोचनाम् ।
अलकोद्भासिवदनां ताम्बूलग्रासशोभिताम् ॥ ३४ ॥
शिवालिङ्गनसंजातपुलकोद्भासिविग्रहाम् ।
सच्चिदानन्दरूपाढ्यां जगन्मातरमम्बिकाम् ॥ ३५ ॥


त्त्यर्थं तस्मात्प्राद्युपपदेऽपि णिनिरिति कैयटः ॥ २९ ॥ युवानमिति । पुरुषश्रेष्ठम् । 'ईश्वरः सर्वभूतानाम्' इति श्रुतेः । वास्तवस्वरूपमाह सच्चिदानन्दविग्रहमिति ॥ ३० ॥ तत्रैवेति । पूर्ववद्वक्ष्यमाणेनान्वयः । नीलेन्दीवराणां यद्दाम माला तदाभां तत्सदृशीम् । अनेन पार्वत्याः कृष्णरूपत्वं सूचितम्। तदुक्तं मार्कण्डेये ‘कालिकेति समाख्याता हिमाचलकृताश्रया' इति । उद्यन्ती मरकतप्रमेव प्रभा यस्यास्ताम् ॥ ३१ ॥

मुक्तेति । मुक्ता एवाभरणानि तैः संयुक्तां ताराभिराचितां व्याप्तां रात्रिमिव स्थिताम् । विन्ध्यक्षितिधरवदुत्तुङ्गयोरुन्नतयोः कुचयोर्यो भारस्तस्य यो भरोऽतिशयस्तेनालसां मन्दगतिमित्यर्थः ।। "अथातिशयो भरः" इत्यमरः ॥ ३२ ॥ सदसदिति । अस्ति न वेत्येवं रूपे संदेह आविष्टं विषयभूतं मध्यदेशस्यान्तरमवकाशो यस्यास्तां वरां सर्वोत्तमाम् ॥ ३३ ॥ दिव्येति । दिव्यानां माल्यानामम्बराणां च धरां धारयन्तीम् । ताम्बूलस्य ग्रासेन भक्षणेन शोभिताम् । ग्रसु अदने घञ् । अलकैः कुन्तलैरुद्भासितुं शीलमस्य तत्तथा वदनं यस्यास्ताम् ॥ ३४ ॥ शिवेति । शिवस्यालिङ्गनेन संजातैः पुलकैरुद्भा

 

सौन्दर्यसारसंदोहां ददर्श रघुनन्दनः।
स्वस्ववाहनसंबद्धान्नानायुधलसत्करान् ॥ ३६ ॥
बृहद्रथन्तरादीनि सामानि परिगायतः ॥
स्वस्वकान्तासमायुक्तान्दिक्पालान्परितः स्थितान् ॥ ३७ ॥
अग्रगं गरुडारूढं शङ्कचक्रगदाधरम् ।
कालाम्बुदप्रतीकाशं विद्युत्कान्तश्रिया युतम् ॥ ३८ ॥
जपन्तमेकमनसा रुद्राध्यायं जनार्दनम् ।
पश्चाच्चतुर्मुखं देवं ब्रह्माणं हंसवाहनम् ॥ ३९ ॥
चतुर्वक्त्रैश्चतुर्वेदरुद्रसूक्तैर्महेश्वरम् ।
स्तुवन्तं भारतीयुक्तं दीर्घकूर्चं जटाधरम् ॥ ४० ॥


सितुं शीलं यस्य स तथाभूतो विग्रहो देहो यस्यास्तां सच्चिदानन्दरूपाढ्यां तत्स्वरूपामित्यर्थ: । सच्चिदानन्दस्वरूपलक्षणेन शिवशक्त्योरभेदः सूचितः । जगन्मातरं विवतोंपादानभूतामित्यर्थः । अतएवाम्बिकां जगज्जननीम् ॥ ३५ ॥ सौन्दर्येति । सौन्दर्यसारस्य संदोहो मेलनं यस्यास्ताम् । बहुव्रीहेर्विशेष्यनिघ्नत्वात्स्त्रीत्वम् । षष्ठीतत्पुरुषे तुं परवल्लिङ्गतया पुंस्त्वं स्यात् । स्वस्ववाहनैरैरावतादिभिः संबद्धान् संयुक्तान् । नानायुधैर्वज्रादिभिर्लसन्तः करा येषां तान् ॥ ३६ ॥ बृहदिति । बृहद्रथन्तरादिसामानि तद्भेदानित्यर्थः । स्वस्वकान्ताभिः स्त्रीभिः संयुक्तान्परितः समन्तात्स्थितान् ॥ ३७ ॥ अग्रगमिति । कालाम्बुजं नीलोत्पलम् , कालाम्बुद इति वा तत्सदृशम् । “कालशयामलमेचकाः” इत्यमरः । विद्युत्तङित्तद्वत्कान्ता स्फुरन्ती या श्रीः तया युतं युक्तम् । अनेन विशेषणेन कालाम्बुदसादृश्यमेवोचितमिति प्रतीयते ॥ ३८ ॥ जपन्तमिति । रुद्राध्यायं "नमस्ते रुद्रमन्यव" इति प्रसिद्धम् ॥ ३९ ॥ चतुर्वत्क्त्रैरिति । चतुर्भिर्वक्रैः चतुर्षु वेदेषु यानि रुद्रसूक्तानि तैः भारती सरस्वती तया युक्तं तथोक्तम्

 
अथर्वशिरसा देवं स्तुवन्तं मुनिमण्डलम् ।
गङ्गादितटिनीयुक्तमम्बुधिं नीलविग्रहम् ॥ ४१ ॥
श्वेताश्वतरमन्त्रेण स्तुवन्तं गिरिजापतिम् ।
अनन्तादिमहानागान्कैलासगिरिसंनिभान् ॥ ४२ ॥
कैवल्योपनिषत्पाठान्मणिरत्नविभूषितान्।
सुवर्णवेत्रहस्ताढ्यं नन्दिनं पुरतः स्थितम् ॥ ४३ ॥
दक्षिणे मूषकारूढं गणेशं पर्वतोपमम् ।
मयूरवाहनारूढमुत्तरे षण्मुखं तथा ॥ ४४ ॥
महाकालं च चण्डेशं पार्श्वयोर्भीषणाकृतिम् ।
कालाग्निरुद्रं दूरस्थं ज्वलद्दावाग्निसंनिभम् ॥ ४५ ॥
त्रिपादं कुटिलाकारं नटद्भृङ्गिरिटिं पुरः ।
नानाविकारवदनान्कोटिशः प्रमथाधिपान् ॥ ४६ ॥


दीर्घाः कूर्चाः श्मश्रूणि यस्य तम् । ‘कूर्चो विकथने मध्ये भ्रुवोः श्मश्रुणि कैरवे” इति विश्वः । जटानां धरम् ॥ ४० ॥ अथर्वेति । अथर्वशिरसा उपनिषद्विशेषेणेत्यर्थः। देवं महादेवं मुनीनां मण्डलम् । मण्डलशब्दस्त्रिलिङ्गयाम् । गङ्गादितटिन्यः नद्यः ताभिर्युक्तं अम्बुधिं समुद्रं नीलविग्रहं श्यामलदेहम् ॥ ४१ ॥ श्वेताश्वतरशाखिनां मन्त्रेण स्तुवन्तम् ॥ ४२ ॥ कैवल्येति । कैवल्योपनिषदं पठन्ति ते तथोक्तास्तान्। सुवर्णवेत्रसहितेन हस्तेनाढ्यम् ॥ ४३ ॥ दक्षिण इति । मूषक इति धातुवृत्तौ स्फुटम् । मूषिक इति प्रामादिकः । ददर्शेति सर्वत्र संबन्धो ज्ञेयः ॥ ४४ ॥ महाकालमिति । महाकालं चण्डेशं च द्वौ प्रथमविशेषौ कालाग्निरुद्रं अवतारम् । ज्वलन् यो दावाग्निर्वनाग्निस्तेन सदृशमिति नित्यसमासत्वादस्वपदविग्रह

इति ज्ञेयम् ॥४५॥ त्रिपादमिति । नटंश्चासौ भृङ्गिरिटिश्च तं तथोक्तं,

 
नानावाहनसंयुक्तं परितो मातृमण्डलम् ।
पञ्चाक्षरीजपासक्तान्सिद्धविद्याधरादिकान् ॥ ४७ ॥
दिव्यरुद्रकगीतानि गायत्किन्नरवृन्दकम् ।
तत्र त्रैयम्बकं मन्त्रं जपद्द्विजकदम्बकम् ॥ ४८ ॥
गायन्तं वीणया गीतं नृत्यन्तं नारदं दिवि ॥
नृत्यतो नाट्यनृत्येन रम्भादीनप्सरोगणान् ॥ ४९ ॥
गायच्चित्ररथादीनां गन्धर्वाणां कदम्बकम् ॥
कम्बलाश्वतरौ शंभुकर्णकुण्डलतां गतौ ॥ ५० ॥
गायन्तौ पन्नगौ गीतं कपालं कम्बलं तथा ।
एवं देवसभां दृष्ट्वा कृतार्थो रघुनन्दनः ॥ ५१ ॥
हर्षगद्गदया वाचा स्तुवन्देवं महेश्वरम् ।
दिव्यनामसहस्रेण प्रणनाम पुनःपुनः ॥ ५२ ॥

इति श्रीपद्मपुराणे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे शिवप्रादुर्भावो नाम चतुर्थोऽध्यायः ॥ ४ ॥



अयमपि प्रमथविशेषः ॥४६॥ नानेति । मातॄणां मण्डलम् । "ब्राह्मीत्याद्यास्तु मातरः" इत्यमरः ॥४७॥ दिव्येति । रुद्राः कायन्ते उच्चार्यन्त इति रुद्रकाणि दिव्यानि च तानि तथोक्तानि तान्येव गीतानि तद्गायतीति तद्गायत्किंनरवृन्दकम् द्विजानां ब्राह्मणानां कदम्बकम् ॥४८॥ गायन्तमिति । अङ्गविक्षेपमात्रं नृत्तं, पदार्थाभिनयो नृत्यं, वाक्याभिनयो नाट्यमिति भेदः ॥ ४९ ॥ गायदिति । शंभोः कर्णौ तत्र कुण्डलतां गतौ ॥ ५० ॥ गायन्ताविति । कपालं कम्बलं च एतन्नामानौ पन्नगौ ददर्श । एवमुक्तप्रकारेण ॥ ५१ ॥ ५२ ॥ इति श्रीशिवगीताबालानन्दिनीव्याख्यायां चतुर्थीऽध्यायः ॥ ४ ॥