पञ्चमोऽध्यायः ५
श्रीसूत उवाच ।


अथ प्रादुरभूत्तत्र हिरण्मयरथो महान् ॥
अनेकदिव्यरत्नांशुकिर्मीरितदिगन्तरः ॥ १ ॥
नद्युपान्तिकपङ्काढ्यमहीचक्रचतुष्टयः ।
मुक्तातोरणसंयुक्तः श्वेतच्छत्रशतावृतः ॥ २ ॥
शुद्धहेमखुरैराढ्यतुरंगगणसंयुतः ।
मुक्तावितानविलसदूर्ध्वदिव्यवृषध्वजः ॥ ३ ॥
मत्तवारणिकायुक्तः पञ्चतत्त्वोपशोभितः ॥
पारिजाततरूद्भूतपुष्पमालाभिरञ्जितः ॥ ४ ॥
मृगनाभिसमुद्भूतकस्तूरीमदपङ्किलः ।
कर्पूरागरुधूपोत्थगन्धाकृष्टमधुव्रतः ॥ ५ ॥
संवर्तघनघोषाढ्यो नानावाद्यसमन्वितः ।
वीणावेणुस्वनासक्तकिन्नरीगणसंकुलः ॥ ६ ॥


सूत उवाच-अथेति । अथ सहस्रनामपाठानन्तरम् । हिरण्यप्रचुरो हिरण्मयः स चासौ रथश्च तथा । किर्मीरितं चित्रवर्णं कृतम् ॥ १ ॥ नदीति । नद्या गौतम्या उपान्तिकेन उपान्ते भवेन पङ्केन कर्दमेन आढ्यं लिप्तं महाचक्राणां चतुष्टयं यस्य स तथोक्तः मुक्तामयेन तोरणेन संयुक्तः ॥ २ ॥ शुद्धेति । शुद्धं यद्धेम तत्प्रचुराः खुराः तैराढ्या ये तुरंगगणास्तैः संयुक्तः । मुक्तावितानं मुक्ताफलनिर्मितं वितानमुल्लोचस्तेन विलसन्नूर्ध्वस्थः दिव्यो वृषो यस्य स तथा एवंभूतो ध्वजो यस्य स तथा ॥ ३ ॥ मत्तेति वारणिकाः करिण्यः पञ्चतत्त्वैस्तदधिष्ठातृदेवैरुपशोभितः अभिरञ्जितो भूषितः ॥ ४ ॥ मृगेति। पङ्किलः संजातपङ्कः । आकृष्टा बलादानीता मधुव्रता भ्रमरा यस्मिन्स तथा।५।। संवर्त्तेति। संवर्ते प्रलये ये घनास्तेषां घोष इव घो

 
एवं कृत्वा रथश्रेष्ठं वृषादुत्तीर्य शंकरः ।
अम्बया सहितस्तत्र पटतल्पेऽविशत्तदा ॥ ७ ॥
सुरनीरजनेत्रीणां श्वेतचामरचालनैः ।
दिव्यव्यजनवातैश्च प्रहृष्टो नीललोहितः ॥ ८ ॥
क्वणत्कङ्कणनिध्वानैर्मञ्जुमञ्जीरसिंजितैः ॥
वीणावेणुस्वनैर्गीतैः पूर्णमासीज्जगत्रयम् ॥ ९ ॥
शुकवाक्यकलारावैः श्वेतपारावतस्वनैः ॥
उन्निद्रभूषाफणिनां दर्शनादेव बर्हिणः ॥
ननृतुर्दर्शयन्तः स्वांश्चन्द्रकान्कोटिसंख्यया ॥ १० ॥
प्रणमन्तं यतो राममुत्थाप्य वृषभध्वजः ॥
आनिनाय रथं दिव्यं प्रहृष्टेनान्तरात्मना ॥ ११ ॥


षस्तेनाढ्यः वीणादिस्वनासक्तेन किन्नरीगणेन संकुलः ॥६॥ एवमिति । पटतल्पे पटास्तरणे ॥ ७ ॥ सुरेति । सुराणां नीरजनेत्र्यः पद्मदृशस्तासां कण्ठे नीलः केशेषु लोहित इति नीललोहित इत्यर्थः ॥ ८ ॥ क्वणदिति । क्वणतां शब्दं कुर्वतां कङ्कणानां निध्वानैः शब्दैः । "मञ्जीरो नूपुरोऽस्त्रियाम्" इत्यमरः । सिंजितं भूषणध्वनिः । "भूषणानां तु सिंजितम्" इति च कोशः ॥ ९ ॥ शुकवाक्येति । शुकानां कीराणां वाक्यरूपा ये कलारावाः अव्यक्तमधुरशब्दास्तैर्जगत्रयं पूर्णमासेति प्राक्तनेनान्वयः । उन्निद्राणां हषादुल्लसतां भूषाफणिनां दर्शनादेव हेतोः बर्हिणो मयूराः कोटिसंख्ययोपलक्षितान्स्वानात्मीयान् चन्द्रकान् चन्द्र इव चन्द्रकास्तान् मेचकापरपर्यायान् “इवे प्रतिकृतौ इति कन् । दर्शयन्तो ननृतुरित्यन्वयः ॥ १० ॥ प्रणमन्तमिति । रथचक्रोपरि मस्तकं निधाय प्रणमन्तं रामं वृषध्वजः शिव उपरिस्थत्वान्नतो नम्रः सन्नुत्थाप्य प्रहृप्टेनान्तरात्मना मनसा । इदं लीलाविग्रहत्वाद्युक्तम् । अन्यथा "अप्राणो ह्यमनाः शुभ्रः” इति श्रुतिवि

 
कमण्डलुजलैः स्वच्छैः स्वयमाचम्य यत्नतः ।
समाचाम्याथ पुरतः स्वाङ्के राममुपानयत् ॥ १२ ॥
अथ दिव्यं धनुस्तस्मै ददौ तूणीरमक्षयम् ॥
महापाशुपतं नाम दिव्यमस्त्रं ददौ ततः ॥ १३ ॥
उक्तश्च तेन रामोऽपि सादरं चन्द्रमौलिना ॥
जगन्नाशकरं रौद्रमुग्रमस्त्रमिदं नृप ॥ १४ ॥
अतो नेदं प्रयोक्तव्यं सामान्यसमरादिके ।
अन्यो नास्ति प्रतीघात एतस्य भुवनत्रये ॥ १५ ॥
तस्मात्प्राणात्यये राम प्रयोक्तव्यमुपस्थिते ॥
अन्यदैतत्प्रयुक्तं चेज्जगत्संक्षयकृद्भवेत् ॥ १६ ॥
अथाहूय सुरश्रेष्ठान्लोकपालान्महेश्वरः ।
उवाच परमप्रीतः स्वंस्वमस्त्रं प्रयच्छत ॥ १७ ॥
राघवोऽयं च तैरस्त्रै रावणं निहनिष्यति ।
तस्मै देवैरवध्यत्वमिति दत्तो वरो मया ॥ १८ ॥


रोधः स्यात् । दिव्यं रथं आनिनाय प्रापयामासेत्यन्वयः ॥ ११ ॥ कमण्डल्विति । स्वयं कमण्डलुजलैराचम्य राममाचाम्याचमनं कारयित्वा स्वस्याङ्के उत्सङ्गे "उत्सङ्गचिह्नयोरङ्कः" इत्यमरः । उपानयद्गृहीतवानित्यर्थः ॥ १२॥ अथेति । स्वाङ्क उपवेशानन्तरं तस्मै रामाय ॥ १३ ॥ उक्त इति । इदं सूतवाक्यं मुनीन्प्रति । किमुक्तस्तदेवाह-जगदिति । रौद्रं रुद्रदेवताकम् ॥ १४ ॥ अत इति । प्रतीघातः प्रतीकारः ॥ १५ ॥ तस्मादिति । प्राणात्यये उपस्थिते प्राप्ते सति एतत्प्रयोक्तव्यम् । विपक्षे बाधकमाह-अन्यदेति । पूर्वोक्तसंकटाभावकाले ॥ १६ ॥ अथेति । स्वास्त्रोपदेशानन्तरम् । यूयं स्वंस्वमस्त्रं रामायेति शेषः ॥ १७ ॥ एतेन युष्माकमेवेष्टं भविष्यती-

 
तस्माद्वानरतामेत्य भवन्तो युद्धदुर्मदाः ॥
साहाय्यमस्य कुर्वन्तु तेन सुस्था भविष्यथ ॥ १९ ॥
तदाज्ञां शिरसा गृह्य सुराः प्राञ्जलयस्तदा ।
प्रणम्य चरणौ शंभोः स्वंस्वमस्त्रं ददुर्मुदा ॥ २० ॥
नारायणास्त्रं दैत्यारिरैन्द्रमस्त्रं पुरंदरः ॥
ब्रह्मापि ब्रह्मदण्डास्त्रमाग्नेयास्त्रं धनंजयः ॥ २१ ॥
याम्यं यमोऽपि मोहास्त्रं रक्षोराजस्तथा ददौ ॥
वरुणो वारुणं प्रादाद्वायव्यास्त्रं प्रभञ्जनः ॥ २२ ॥
कौबेरं च कुबेरोऽपि रौद्रमीशान एव च ।
सौरमस्त्रं ददौ सूरः सौम्यं सोमश्च पावकम् ॥
विश्वेदेवा ददुस्तस्मै वसवो वासवाभिधम् ॥ २३ ॥
अथ तुष्टः प्रणम्येशं रामो दशरथात्मजः ॥
प्राञ्जलिः प्रणतो भूत्वा भक्तियुक्तो व्यजिज्ञपत् ॥ २४ ॥


त्याह--राघव इति । वयमेव तं हनिष्याम इतिचेत्तत्राह । तस्मै रावणाय देवैरवध्यत्वमित्येवंरूपो वरो मया दत्तः । अतोऽयं राघव एव तस्य हन्तेति भावः ॥ १८ ॥ तस्मादिति । यस्मात्पूर्वमेव मया चोदिताः संतो यूयं वानरतामेत्य तत्रतत्र तिष्ठन्ताम् । तस्मात्कारणाद्भवन्तः सर्वे युद्धदुर्मदा युद्धे सोत्कण्ठाः अस्य साहाय्यं कुर्वन्तु । फलमाह--तेनेति ॥ १९ ॥ तदाज्ञामिति । गृह्य गृहीत्वेत्यर्थः । छान्दसोऽयं ल्यप् ॥ २० ॥ तान्येवास्त्राणि नामतो निर्दिशति-नारायणेति । धनंजयोऽग्निः ॥ २१ ॥ याम्यमिति । रक्षोराजो नाम निर्ऋतिः । प्रभञ्जनो वायुः ॥२२॥ कौबेरमिति । ईशानो लोकपालः । सूरः सूर्येः । पावकं विश्वेदेवा ददुः ॥ २३ ॥ अथेति । व्यजिज्ञपद्वि

 

श्रीराम उवाच ।


भगवन्मानुषैरेव नोल्लङ्घ्यो लवणाम्बुधिः ॥
तत्र लङ्काभिधं दुर्गं दुर्जयं देवदानवैः ॥ २५ ॥
अनेककोटयस्तत्र राक्षसा बलवत्तराः ।
सर्वे स्वाध्यायनिरताः शिवभक्ता जितेन्द्रियाः ॥ २६ ॥
अनेकमायासंयुक्ता बुद्धिमन्तोऽग्निहोत्रिणः ॥
कथमेकाकिना जेया मया भ्रात्रा च संयुगे ॥ २७ ॥

ईश्वर उवाच ।


रावणस्य वधे राम रक्षसामपि मारणे ।
विचारो न त्वया कार्यस्तस्य कालोऽयमागतः ॥ २८ ॥
अधर्मे तु प्रवृत्तास्ते देवब्राह्मणपीडने।
तस्मादायुः क्षयं यातं तेषां श्रीरपि सुव्रत ॥ २९ ॥
राजस्त्रीलङ्घनासक्तं रावणं निहनिष्यसि ॥
पानासक्तो रिपुर्जेतुं सुकरः समराङ्गणे ॥ ३० ॥


ज्ञापितवान् ॥ २४ ॥ भगवन्निति । एवकारः कार्त्स्न्ये । सर्वैरपि मनुष्यैरित्यर्थः । किंच तत्र दुर्गमस्ति । तदपि न साधारणमित्याह-दुर्जयमिति ॥ २५ ॥ रक्षका अपि दुर्जया इत्याह-अनेकेति । शिवभक्ता इत्यनेन शिवभक्तानां द्रोहो न कल्याणाय कल्पत इंति ध्वनितम् । ननु एकशब्दस्य नित्यैकवचनान्ततया नञ्समासस्योत्तरप्राधान्यतया अनेकशब्दोऽपि नित्यैकवचनान्त एव । किंच कोटिशब्दस्यापि बहुवचनान्तत्वमनुपपन्नम् "विंशत्याद्याः सदैकत्वे" इत्यमरात् । तथाच अनेकाश्च ताः कोटयश्चेति कथं संभवतीति चेत्सत्यम् । अनेकशब्दानां बहूनामेकशेषे तदुपपत्तेः संख्याव्यक्तिबहुत्वे च बहुवचनोपपत्तेश्ध ॥ २६ ॥ २७ ॥ २८ ॥ २९ ॥ राजस्त्री सीता तस्या लङ्घनमवज्ञा तस्यामासक्तम् । पानासक्तो मद्यपः सु

 
अधर्मनिरतः शत्रुर्भाग्येनैव हि लभ्यते ।
अधीतवेदशास्त्रोऽपि सदा धर्मरतोऽपि वा । ।
विनाशकाले संप्राप्ते धर्ममार्गाच्च्युतो भवेत् ॥ ३१ ॥
पीड्यन्ते देवताः सर्वाः सततं येन पापिना ।
ब्राह्मणा ऋषयश्चैव तस्य नाशः स्वयं स्थितः ॥ ३२ ॥
किष्किन्धानगरे राम देवानामंशसंभवाः ।
वानरा बहवो जाता दुर्जया बलवत्तराः ॥ ३३ ॥
साहाय्यं ते करिष्यन्ति तैर्बधान पयोनिधिम् ।
अनेकशैलसंबद्धे सेतौ यान्तु बलीमुखाः ।
रावणं सगणं हत्वा तामानय निजप्रियाम् ॥ ३४ ॥
शस्त्रैर्युद्धे जयो यत्र तत्रास्त्राणि न योजयेत् ।
निरस्त्रेष्वल्पशस्त्रेषु पलायनपरेषु च ।
अस्त्राणि मुञ्चन्दिव्यानि स्वयमेव विनश्यति ॥ ३५ ॥
अथवा किं बहूक्तेन मयैवोत्पादितं जगत् ॥
मयैव पाल्यते नित्यं मया संह्रियतेऽपि च ॥ ३६ ।।


शक्यः ॥ ३० ॥ धर्मिष्ठः शत्रुरेव जेतुमशक्यः । अयं तु न तथेत्यन्यापदेशेनाह-अधर्मेति । अधर्म एव विनाशहेतुरित्याह-अधीतेति ॥ ३१॥ पीड्यन्त इति । तस्य नाशः स्वयमेवोपस्थितः । त्वं निमित्तमात्रं भवेति भावः ॥ ३२ ॥ सहायानाह--किष्किन्धेति ॥ ३३ ॥ साहाय्यमिति । बधान समुद्रबन्धनं कुर्वित्यर्थः । बलीमुखाः कपयः । आनयेत्याशिषि लोट् ॥ ३४ ॥ महाशस्त्रप्रयोगार्हानर्हशत्रुविचारमाह-शस्त्रैरिति ॥ ३५ ॥ चिन्ता न कार्येति स

 
अहमेको जगन्मृत्युर्मृत्योरपि महीपते ।
ग्रसेऽहमेव सकलं जगदेतच्चराचरम् ॥ ३७ ॥
मम वक्रगताः सर्वे राक्षसा युद्धदुर्मदाः ॥
निमित्तमात्रस्त्वं भूयाः कीर्तिमाप्स्यसि संगरे ॥ ३८ ॥

इति श्रीपद्मपुराणे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
  रामाय वरप्रदानं नाम पञ्चमोऽध्यायः ॥ ५ ॥