द्वितीयोऽध्यायः २
ऋषय ऊचुः ।


किमर्थमागतोऽगस्त्यो रामचन्द्रस्य संनिधिम् ।
कथं वा विरजां दीक्षां कारयामास राघवम् ॥ १ ॥
ततः किमाप्तवान्-रामः फलं तद्वक्त्तुमर्हसि ।

   सूत उवाच ।
रावणेन यदा सीतापहृता जनकात्मजा ।।
तदा वियोगदु:खेन विलपन्नास राघवः ॥ २ ॥
निर्निद्रो निरहंकारो निराहारो दिवानिशम् ।
मोक्तुमैच्छत्ततः प्राणान्सानुजो रघुनन्दनः ॥ ३ ॥
लोपामुद्रापतिर्ज्ञात्वा तस्य संनिधिमागमत् ॥
अथ तं बोधयामास संसारासारतां मुनिः ॥ ४ ॥


पूर्वाध्यायान्ते “रामाय दण्डकारण्ये यत्प्रादात्कुम्भसंभवः ॥ तत्सर्वं वः प्रवक्ष्यामि” इत्युक्तं तच्छ्रोतुकामा उपोद्धातं रचयन्त ऋषय ऊचुः-किमर्थमिति सार्धश्लोकेन । अगं पर्वतं स्त्यायति खर्वीकरोति स तथा । महासमर्थो मुनिः । किमर्थं कस्मै प्रयोजनाय रामचन्द्रस्य संनिधिमागतः । कर्थ केन प्रकारेण रामं विरजां दीक्षां कारयामास । किमर्थमित्यत्र “निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम्' इति द्वितीया । राममित्यत्र “हृक्रोरन्यतरस्याम्' इति द्वितीया ॥१॥ तत इति । दीक्षान्ते एवं पृष्टः सूतो रामसंनिधावगस्त्यागमने हेतुमाह-रावणेनेति । विलपन्परिदेवनं कुर्वन्नास । तस्थावित्यर्थः ॥ २ ॥ तामवस्थामाह-निर्निद्र इति। आसेति पूवेण संबन्धः । ततः सानुजो लक्ष्मणसहितः । प्राणान्मोक्तुं त्यक्तुमैच्छत् ॥ ३ ॥ लोपामुद्रापतिरगस्त्यः संसारस्य असारताम् ॥ ४ ॥

 
किं विषीदसि राजेन्द्र कान्ता कस्य विचार्यताम्।
जडः किं नु विजानाति देहोऽयं पाञ्चभौतिकः ॥ ५ ॥
निर्लेपः परिपूर्णश्च सच्चिदानन्दविग्रहः ।
आत्मा न जायते नैव म्रियते न च दुःखभाक् ॥ ६ ॥
सूर्योऽसौ सर्वलोकस्य चक्षुष्ट्वेन व्यवस्थितः ।
तथापि चाक्षुषैर्दोषैर्न कदाचिद्विलिप्यते ॥ ७ ॥


योगजधर्मप्रत्यासत्त्या रामवृत्तान्तं ज्ञात्वा स्वयमेवागत्य लोकानुसारेण विलपन्तं रामं प्रत्यगस्त्य उवाच । हे राम, त्वं किं विषीदसि किंनिमित्तं शोचसि । ननु कान्तार्थं विषीदामीति चेत्तत्राह--कान्तेति । कस्य कान्तेति त्वया विचार्यताम् । भार्याविरहजं दु:खं किं देहस्याहोस्विदात्मन इति विकल्प्य प्रथमं पक्षं दूषयति--जडः किंन्विति । अयं पाञ्चभौतिकः पञ्चभूतकार्यं देहः । अतएव जडः किंनु विजानातीत्याक्षेपः । न जानातीत्यर्थः । प्रयोगश्च-देहो न ज्ञानाश्रयः भूतत्वाद्धटवत्, यदि ज्ञानाश्रयः स्यात्तर्ह्यभूतोऽपि स्यादिति पक्षे विबाधकतर्कसत्त्वात् ॥ ५ ॥ ननु तर्हि आत्मन एव दु:खादिकमित्याशङ्कायामाह-निर्लेप इति । आत्मा न जायते नापि म्रियते नापि दुःखभाक् । तत्र दुःखाभावे हेतुः-निर्लेप इति । अतएव सच्चिदानन्दविग्रहः । जन्माभावे नाशाभावे च हेतुः-परिपूर्ण इति । "असङ्गो ह्ययं पुरुषः” "अविनाशी वा अरेऽयमात्मा” इत्यादिश्रुतेः ॥ ६ ॥ निर्लेपतां दृष्टान्तेनोपपादयति सार्धेन । ननु देहयोगेनात्मनोऽपि दुःखादि प्रसज्येतेत्याशङ्क्याह-सूर्य इति । अत्र तथाशब्दाद्यथेत्याक्षिप्यते । यथा यद्यापीत्यर्थः । सूर्यः सर्वलोकस्य चक्षुष्ट्वेन चक्षुरधिष्ठातृत्वेन । तथाच श्रुतिः--"आदित्यश्चक्षुर्भूत्वाक्षिणी प्राविशत्” इति । व्यवस्थितः तथापि चाक्षुषैश्चक्षुर्जन्यैर्दोषैर्न लिप्यते ॥७॥

 

सर्वभूतान्तरात्मापि तद्वद्दु:खैर्न लिप्यते ।
देहोऽपि मलपिण्डोऽयमुक्तजीवो जडात्मकः ॥ ८ ॥
दह्यते वह्निना काष्ठैः शवाद्यैर्भक्ष्यतेऽपि वा ॥
तथापि नैव जानाति विरहे तस्य का व्यथा ॥ ९ ॥
सुवर्णगौरी दूर्वाया दर्लंवच्छ्यामलापि वा ।
पीनोत्तुङ्गस्तनाभोगभुग्नसूक्ष्मावलग्नका ॥ १० ॥
बृहन्नितम्बजघना रक्तपादसरोरुहा ।
राकाचन्द्रमुखी बिम्बप्रतिबिम्बरदच्छदा ॥ ११ ॥


तद्वदु:खैर्न लिप्यते न संबध्यते। अस्मिन्नर्थे ‘सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषै” रिति। एवमात्मनो निर्लेपत्वमनाद्यनन्तत्वं परिपूर्णत्वं प्रतिपाद्य वैराग्यार्थं पुनर्देहस्य जडत्वं विवृणोति---देहोऽपीति सार्धेन । अयं प्रत्यक्षो देहोऽपि । अपिशब्देन समीचीनतया भासमानोऽपि मलपिण्डः अमेध्यस्वरूपः । जीवो नाम जीवोपाधिर्लिङ्गदेहः । तथाच मुक्तो जीवो येन स तथा लिङ्गदेहविरहितः सन् । मृतः सन्नित्यर्थः ॥ ८ ॥ वह्निना कर्त्रा काष्ठैः करणभूतैर्दह्यते शिवा सृगालस्तदाद्यैर्भक्ष्यते । तथापि दग्धोऽपि शिवाद्यैर्भक्षितोऽपि नैव जानाति सुखदु:खादिकमिति शेषः । एवंभूतस्य जडस्य वियोगे का व्यथा ॥ ९ ॥। विरहे तस्य का व्यथेत्युक्तं तत्र तच्छब्दवाच्यस्य देहस्य दुर्निरूपत्वं प्रतिजानीते । सुवर्णगौरीत्यादिभिः सार्धैश्चतुर्भिः श्लोकैः-सुवर्णेति । आभोगो विस्तारः । तेन भुग्नं नम्रं सूक्ष्मं कृशमवलग्नं मध्यं यस्याः सा तथा ॥ १० ॥ बृहदिति ।। 'पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः” इत्यमरः । बृहती नितम्बजघने यस्यास्तथोक्ता । रक्ते लोहिते पादावेव सरोरुहे यस्याः सा राका पूर्णिमा बिम्बं बिम्बफलं तस्य प्रतिबिम्बः सदृशः रदच्छद ओष्ठो

 

नीलेन्दीवरनीकाशनयनद्वयशोभिता ।
मत्तकोकिलसंल्लापा मत्तद्विरदगामिनी ॥ १२ ॥
कटाक्षैरनुगृह्णाति मां पञ्चेषुशरोत्तमैः ।
इति यां मन्यते मूर्खः स च पञ्चेषुशासितः ॥ १३ ॥
तस्या विवेकं वक्ष्यामि श्रृणुष्वावहितो नृप ।
नच स्त्री न पुमानेष न चैवायं नपुंसकः ॥
अमूर्तः पुरुषः पूर्णो द्रष्टा साक्षी सजीवनः ॥ १४ ॥
या तन्वङ्गी मृदुर्बाला मलपिण्डात्मिका जडा ।
सा न पश्यति यत्किंचिन्न शृणोति न जिघ्रति ॥ १५ ॥


यस्याः सा । ११ ॥ नीलेति। नीलेन्दीवरस्य सदृशं नीलेन्दीवरनीकाशमित्यस्वपदविग्रहः । मयूरव्यंसकादित्वात्समासः । तथाविधनयनद्वयेन शोभिता । संलापो भाषणम् ॥ १२ ॥ कटाक्षैरिति । कटाक्षैरपाङ्गवीक्षणैः पञ्चेषुर्मदनंस्तस्य शरेभ्योऽप्युत्तमैः । अनुगृह्वाति स्वकीयत्वेनाङ्गीकरोति । स पञ्चेषुणा शासितो वशीकृत: अतएव मूर्खः ॥ १३ ॥। तस्याः स्त्रिया विचारम् । अवहितो दत्तचित्तः । तस्या विवेकं वक्ष्यामीत्युक्तं तदेवाह-नचेति । तस्यास्तस्य च शरीरे चेतनत्वेनावस्थित एष परमात्मैव । स च न स्त्री न च पुमान् न वायं नपुंसकः । इमाः संज्ञा अवयविनामेव । अयममूर्तः परिच्छेदरहितः । अतएव पूर्णः द्रष्टा । ननु सर्वस्य द्रष्टृत्वे सुखदुःखादिप्रसङ्गः स्यादितिचेन्न । साक्षी निर्लेपः । जीवनं प्राणधारणं तस्य निर्वहितृत्वात् सजीवनः । यत्सत्तानुविद्धतया प्राणेन्द्रियादयः प्रवर्तन्त इति भावः । एतादृशः परमात्मा न शोकार्ह इति भावः ॥ १४ ॥ ननु जीवः परमात्मैव चेत्तं न शोचामि किंतु तदुपाधिं देहं शोचामीति चेन्मैवमित्याह-या तन्वङ्गीति । मलपिण्ड एव आत्मा स्वरूपं यस्याः सा या तवाभिमता सा न प्रश्यति । यत्किंचिन्न शृणोति न जिघ्रति ।

 

चर्ममात्रा तनुस्तस्या बुद्ध्या वीक्षस्व राधव ॥
या प्राणादधिका सैव हन्त ते स्याद्धृणास्पदम् ॥ १६ ॥
जायन्ते यदि भूतेभ्यो देहिनः पाञ्चभौतिकाः ।
आत्मा यदेकलस्तेषु परिपूर्णः सनातनः ॥ १७ ॥
का कान्ता तत्र कः कान्तः सर्व एव सहोदराः ॥ १८ ॥
निर्मितायां गृहावल्यां तदवच्छिन्नतां गतम् ।
नभस्तस्यां तु दग्धायां न कांचित्क्षतिमृच्छति ॥ १९ ॥


अतः काष्ठवज्जडेति भावः ॥ १५ ॥ चर्मेति । हे राघव, तस्यास्तनुर्देहः चर्ममात्रा तदन्तर्मांसरक्तादिकास्ति । न तत्र स्पृहणीयं किमप्यस्तीति बुद्ध्या वीक्षस्व आलोचय । आलोचनस्य फलमाह-येति। या प्राणादप्यधिका सा तवैव घृणास्पदं जुगुप्साविषयः स्यात् । तस्मात्स्त्र्यादिदेहमविचाररमणीयमिति भावः । जुगुप्सिते शोको न कार्य इति भावः ॥१६॥ शोकपरिहारे युक्त्यन्तरमाह--जायन्त इति सार्धेन । असंदिग्धेऽपि यदीति प्रयोगः यदि वेदाः प्रमाणमितिवत् । देहिनो नित्यस्यात्मनः पाञ्चभौतिकाः पञ्चमहाभूतविकारा देहा इत्यर्थः । भूतेभ्यो जायन्ते नत्वात्मनः सकाशात् । आत्मनो निर्विकारत्वात्। देहानां भूतकार्यत्वादचेतनत्वम् । तेषु परिपूर्ण आत्मा तु सनातन एकलश्च । औपाधिकनानात्वेऽपि वस्तुत एक एवेत्यर्थः ।। "आत्मा वा इदमेक एवाग्र आसीत्” । "एको देवः सर्वभूतेषु गूढः” इत्यादिश्रुतेः । यद्यस्मात्कारणादेकस्यात्मनो देहात्मनोः संबन्ध आविद्यक एवेति भावः ॥१७॥ केति । तत्र तथासति का कान्ता स्त्री । कान्तश्च पुमान् कः। न कोऽप्येवंविधो भेद इत्यर्थः। उपादानाद्ब्रह्मण औपाधिकानां जीवानामुपाधीनां देहानां च जातत्वात् सर्वे सहोदरा एव एकरूपा एवेत्यर्थः ॥ १८ ॥ ननु देहदृष्ट्या तु शोचामीति चेत्तत्राह-निर्मितायामिति । गृहावल्यां गृहपङ्क्तौ निर्मितायां सत्यां तद्वच्छिन्नतां

 

तद्वदात्मापि देहेषु परिपूर्णः सनातनः ॥
हन्यमानेषु तेष्वेव स्वयं नैव विहन्यते ॥ २० ॥
हन्ता चेन्मन्यते हन्तुर्हतश्चेन्मन्यते हतम् ।
तावुभौ न विजानीतो नायं हन्ति न हन्यते ॥ २१ ॥
अस्मान्नृपातिदुःखेन किं खेदस्यास्ति कारणम् ।
'स्वस्वरूपं विदित्वेदं दुःखं त्यक्त्वा सुखी भव । २२ ॥
  श्रीराम उवाच ।
मुने देहस्य नो दुःखं नैव चेत्परमात्मनः ।
सीतावियोगदुःखाग्निर्मां भस्मीकुरुते कथम् ॥ २३ ॥


तत्तद्गृहपरिच्छेद्यतां गतं नभः तस्यां गृहावल्यां दुग्धायामपि कांचिदपि क्षतिं हानिं नर्च्छति न प्राप्नोति ॥ १९ ॥ तद्वदात्मापि देहेषु हन्यमानेष्वपि न विहन्यत इति। एवं वस्तुजन्यत्वात्सर्वसहोदरदृष्ट्या वा अमेध्यदेहादिभङ्गेष्वधिष्ठानस्याभङ्गाद्वा न शोकस्यावसर इति भावः॥२०॥ ननु कोऽप्येवं न बुध्यते सर्वलोकोऽपि वध्यघातकपाल्यपालकादिव्यवहारेणैव प्रवर्तत इत्याशङ्क्याह--हन्तेति । हन्ता चेद्यद्यहं हन्तेति मन्यते । तु पुनः हतः पुरुषश्चेद्धन्तुः सकाशाद्धतमात्मानं मन्यते तर्हि तावुभावपि न विजानीतः । यतोऽयमात्मा न हन्ति न हन्यते च असङ्गत्वान्नित्यत्वाच्चेति भावः । एवं लौकिकः सर्वोऽपि व्यवहारो `मिथ्यैव ॥ २१ ॥ अस्मादिति । अस्मादुक्तहेतोरित्यर्थः । हे नृप राजन्, अतिदुःखेन यः खेदः दैन्यं तस्य किं कारणमस्ति । न किमप्यस्तीत्यर्थः । इदं सच्चिदानन्दात्मकं स्वस्वरूपं विदित्वा सुखी भव। ॥ २२ ॥ एवमगस्त्यस्योपदेशमाकर्ण्यासंभावनया पराभूतः श्रीराम उवाच-मुने इति त्रिभिः । हे मुने मननशील, देहस्य दुःखसंबन्धो नास्ति जडत्वाद्घटवत् । परमात्मनोऽप्यसङ्गत्वान्नैव चेत्तर्हि सीतावि

 

सदानुभूयते योऽर्थः स नास्तीति त्वयेरितः ।
जायतां तत्र विश्वासः कथं मे मुनिपुंगव ॥ २४ ॥
अन्योऽस्ति नास्ति को भोक्ता येन जन्तुः प्रतप्यते ॥
सुखस्य वापि दुःखस्य तद्ब्रूहि मुनिसत्तम ॥ २५ ॥
  अगस्त्य उवाच ।
दुर्ज्ञेया शांभवी माया तया संमोह्यते जगत् ।
मायां तु प्रकृतिं विद्धि मायिनं तु महेश्वरम् ॥
तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥ २६ ॥


योगदु:खमेवाग्निः । स्पष्टमन्यत् ॥ २३॥ सदेति। यथा दु:खादिरर्थः सर्वैः सदानुभूयते स नास्तीति त्वयोक्तः तत्र त्वदुक्तौ मे विश्वासः कथं जायताम् । अग्निस्पर्शाद्दग्धहस्तस्य अग्निरनुष्ण इति वाक्ये कथं विश्वासो जायतामिति भावः ॥ २४ । अन्य इति । शरीरस्य जडत्वे परमात्मनश्चाभोक्त्तृत्वे ताभ्यामन्येन भोक्ता भवितव्यम् । ताभ्यामन्यः कश्चिद्भोक्तास्ति नास्ति वेति विकल्प्य द्वितीयं पक्षं दूषयति । यद्यन्योऽपि नास्ति तर्हि सुखादेर्भोक्ता कस्तद्ब्रूहि । येन भोक्त्त्तुत्वेन जन्तुः शरीरी प्रतप्यते तापं प्राप्नोति । तथाच भोक्तुरपलापे प्रत्यक्षविरोध इति मोक्षशास्त्रानर्थक्यं च प्रसज्येतेति भावः ॥ २५ ॥ एवं पृष्ठोऽगस्त्यो मायाया दुर्ज्ञेयत्वप्रतिपादनेन संशयं निराचिकीर्षुरगस्त्य उवाच-दुर्ज्ञेयेत्यादिना । शांभवीति शं सुखं तद्रूपो भवतीति शंभुस्तस्येयं शांभवीति विषयत्वमाधारत्वं वा षष्ठ्यर्थः । तथा न चिन्मात्रविषयं चिन्मात्राधारं वा त्रिगुणात्मकं सदसद्विलक्षणं भावरूपमज्ञानं सैव मायेत्युच्यते । चिन्मात्राधारत्वे प्रमाणभूतां श्रुतिमाह-मायां त्विति । तया मायया जगत् संमोह्यते । मोहस्वरूपमित्थम् । मायोपाधिकं चैतन्यमीश्वरः । मायाकार्येऽहंकारे प्रतिबिम्बितं

 

सत्यज्ञानात्मकोऽनन्तो विभुरात्मा महेश्वरः ॥
तस्यैवांशो जीवलोके हृदये प्राणिनां स्थितः ॥ २७ ॥


चैतन्यं जीवः । स चौपाधिककर्तृत्वभोक्त्तृत्वप्रमातृत्वादिधर्मवान् । अतो नानुभवविरोधः नवा शास्त्रानर्थक्यं च । यत्तु आत्मा न मोक्त्तेति प्रागुक्तं तत्तु ईश्वरो न भोक्तेत्याशयेन । प्रतिबिम्बस्यापि भोक्तृत्वादिकं संनियोगशिष्टम् । अहंकारस्यापगमे कर्तृत्वादेरप्यपगमात्। तदुक्तम् “आत्मा कर्त्रादिरूपश्चेन्माकाङ्क्षीस्तर्हि मुक्तताम् । नहि स्वभावो भावानां व्यावर्तेतौष्ण्यवद्रवेः ॥” इति अहंकारतादात्म्येनाहं सुखी दुःखी चेत्याद्यविवेकेन सर्वजगत्क्लिश्यतीति भावः ॥ २६ ॥ श्रुत्युक्तमहेश्वरपदस्यार्थमाह-सत्येति । सत्यं कालत्रयाबाध्यं ज्ञानं नाम प्रकाश आत्मस्वरूपं यस्य स तथा अनन्तस्त्रिविधपरिच्छेदशून्यः॥ अतएव विभुर्व्यापकः । अतएवात्मा सर्वत्रानुभूत एवंविधो महेश्वर इत्युच्यते । मायावच्छिन्नत्वेऽपि महेश्वरत्वादनावृतज्ञान इत्यर्थः । श्रुत्युक्तोत्तरार्धस्यार्थमाह--तस्येति । लोक्यत इति लोकः जीवानां लोकः स तथा तस्मिन् जीवलोके प्राणिनां हृदये स्थितः । तस्यैव महेश्वरस्यांशः । प्रतिबिम्ब इत्यर्थः । जीव इत्युच्यते ।

"यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा ।" "एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत्"। “रूपंरूपं प्रतिरूपो बभूव"। “जीवेशावाभासेन करोति माया विद्या च स्वयमेव भवति" इत्याद्याः श्रुतयः ।। "ममैवांशो जीवलोके जीवभूतः सनातनः” इत्याद्याः स्मृतयश्च प्रमाणम् ॥ ननु "तस्यावयवभूतेन व्याप्तं सर्वमिदं जगत्" इत्युक्तत्वाज्जीवस्य व्यापकत्वं प्राप्तं तर्हि घटाद्यवच्छेदेनापि सुखादिभोगः स्यादित्याशङ्क्याह-हृदये स्थित इति । हृदयावच्छेदेनैव तस्य भोगः ।। २७ ॥

 

विस्फुलिङ्गा यथा वह्नेर्जायन्ते काष्ठयोगतः ।
अनादिकर्मसंबद्धास्तद्वदंशा महेशितुः ।
अनादिवासनायुक्ताः क्षेत्रज्ञा इति ते स्मृताः ॥ २८ ॥
मनोबुद्धिरहंकारश्चित्तं चेति चतुष्टयम् ॥
अन्तःकरणमित्याहुस्तत्र ते प्रतिबिम्बिताः ॥ २९ ॥
जीवत्वं प्राप्नुयुः कर्मफलभोक्तार एव ते ॥
ततो वैषयिकं तेषां सुखं वा दुःखमेव वा ॥ ३० ॥


नन्वहंकारस्यादित्वात्तदवच्छिन्नो जीवोऽपि सादिः स्यादित्याशङ्क्याह-विस्फुलिङ्गा इति । यथा विस्फुलिङ्गाः प्राक् सूक्ष्मरूपेणावस्थिताः सन्त एव काष्ठयोगतो जायन्ते व्यक्ता भवन्ति, तद्वदनादिकर्मभिर्वासनाभिश्च संबद्धास्तादात्म्यमापन्ना महेशितुरंशा जीवा अइंकारयोगतः प्राक् स्थिताः सन्त एवाभिव्यज्यन्ते । तथाच सूत्रम् "पुंस्त्वादिवत्तस्य सतोऽभिव्यक्तियोगात्" इति ॥ अयमर्थः संपन्नः । सृष्टेः प्रागनादिकर्मसंस्कारयुक्ता जीवा मायायां लीनाः सन्तः सृष्टिकालेऽहंकारावच्छिन्नाः सन्त एवाभिव्यज्यन्ते तेषां जीवानां तत्तदहंकारावच्छेदेनैव सुखदु:खादिभोगो नान्यावच्छेदेन” इति। २८ ॥ हृदये प्राणिनां स्थित इत्युतं तदेव हृदयशब्दस्य विवरणमाह-मनो ब्रुद्धिरिति । मन इति बुद्धिरिति अहंकार इति चित्तमिति चतुष्टयमन्तःकरणस्यैव वृत्तिभेदा इत्याहुः । तत्रान्तःकरणे प्रतिबिम्बिता जीवा इत्युच्यन्ते । वृत्तिवृत्तिमतोरभेदविवक्षया मनोऽवच्छिन्ना बुद्ध्यवच्छिन्ना अहंकारावच्छिन्ना इति तत्रतत्रोच्यन्ते । अतो नानुपपत्तिः । अतएव "मन एव मनुष्याणां कारणं बन्धमोक्षयोः” । "बुद्वेर्गुणेनात्मगुणेन चैवम्" इति, तथा “शोकहर्षभयक्रोधलोभमोहस्पृहादयः । अहंकारस्य दृश्यन्ते जन्म मृत्युश्च नात्मनः । सर्वश्चित्तविलासोऽयम्" इत्यादिवाक्यानामेकवाक्यत्वं द्रष्टव्यम् ॥ २९ ॥ अन्तःकरणे प्रतिबिम्बिता जीवाः कर्मभोक्तारस्त एव वैषयिकं सुखं

 

त एव भुञ्जते भोगायतनेऽस्मिञ्छरीरके ॥ ३१ ॥
स्थावरं जंगमं चेति द्विविधं वपुरुच्यते ।
स्थावरास्तत्र देहाः स्युः सूक्ष्मा गुल्मलतादयः ॥ ३२ ॥
अण्डजाः स्वेदजास्तद्वदुद्भिज्जा इति जंगमाः ॥ ३३ ॥
योनिमन्ये प्रपद्यन्ते शरीरत्वात्र्य देहिनः ।
स्थाणुमन्ये प्रपद्यन्ते यथाकर्म यथाश्रुतम् ॥ ३४ ॥
सुख्यहं दुःख्यहं चेति जीव एवाभिमन्यते ।
निर्लेपोऽपि परं ज्योतिर्मोहितः शंभुमायया ॥ ३५ ॥


दुःखं वा तेषामेव ॥ ३० ॥। त एवेति । तेषां व्यापकत्वेऽपि अस्मिन्भोगायतने शरीर एवान्तःकरणावच्छेदेन त एव सुखदु:खादि भुञ्जत इत्यर्थः ॥ ३१ । प्रसङ्गाद्भोगायतनभूतानां शरीराणामवान्तरविभागमाह-स्थावरं जंगमं चेति। स्थातुं शीलमस्य स्थावरम् । गमनहीनमित्यर्थः । जंगम्यत इति जंगमम् । इत्थं वपुः शरीरं द्विविधम्। तत्र तयोर्भेदयोर्मध्ये ये स्थावरा देहास्ते सूक्ष्मा अतिमन्दा इत्यर्थः । के ते । गुल्मलतादयः ॥३२॥ जंगमानाह--अण्डजा इति । अण्डेभ्यो जाता अण्डजाः पक्षिसर्पादयश्च । स्वेदजा मशकादयः । उद्भिदन्ति भूमिमित्युद्भिदः तादृशाः सन्तो ये जायन्ते त उद्भिज्जाः पिपीलिकादयः । यद्वा जरायुमुद्भिद्य जायन्त इत्युद्भिज्जाः जरायुजा इत्यर्थः । अयमेवार्थः साधुः । "उद्भिदा यजेत पशुकामः” इत्यत्र लक्षणादोषप्रसक्तौ उद्भिच्छब्दो यागनामधेयमित्युक्तम्, तद्वज्जरायुजनामघेयमिति ज्ञेयम् ॥ ३३ ॥ एवं नानाविधदेहप्राप्तौ नियामकमाह--योनिमिति । देहिनः केनचित्पुण्येन शरीरत्वाय शरीरसंबन्धार्थं योनिं स्त्रीगर्भं प्रपद्यन्ते । अन्ये तु पापविशेषेण स्थाणुं स्थाणुप्रभृतिदेहं प्रपद्यन्त इति । तत्र नियामकमाह । यथाकर्म पुण्यापुण्यरूपं तदनतिक्रम्य । यथाश्रुतं वेदुशास्त्राध्ययनसंस्कारमनतिक्रम्येत्यर्थः ॥ ३४ ॥ ननु शरीरत्वाविशेषबिम्बीभूतेश्वरस्यापि भोगः

 

कामः क्रोधस्तथा लोभो मदो मात्सर्यमेव च ।
मोहश्चेत्यरिषड्वर्गमहंकारगतं विदुः ॥ ३६ ॥
स एव बध्यते जीवः स्वप्नजाग्रदवस्थयोः ।
सुषुप्तौ तदभावाच्च जीवः शंकरतां गतः ॥ ३७ ॥
स एव मायया स्पृष्टः कारणं सुखदुःखयोः ।
शुक्तौ रजतवद्विश्वं मायया दृश्यते शिवे ॥ ३८ ॥


स्यात् । शरीरस्य भोगायतनत्वात् । कारणे सति कार्यस्यावश्यकत्वादित्यत आह-सुख्यहमिति । यद्यपि जीवो निर्लेपः सुखदु:खादिसङ्गरहितः परंज्योतिः स्वप्रकाशस्तथापि शंभुमायया मोहितः सन् सुख्यहं दु:ख्यहमिति स एवाभिमन्यते । अहंकारसमसत्ताकं सुखादिकमहंकारावच्छिन्नस्य प्रतिबिम्बस्यैव नेश्वरस्य । तथाच श्रुतिः "परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च" इत्यादि। नहि यस्य माया तमेव वशीकरोतीति लोके ऐन्द्रजालिकादौ दृष्टमिति भावः ॥ ३५ ॥ कामक्रोधादयस्त्वहंकारनिबन्धना इत्याह-- कामेति । कामोऽभिलाषः, क्रोधो द्वेषः, लोभः प्राप्तेऽपि नालंबुद्धिः, मदः स्तम्भः, मात्सर्यं परगुणासहनम् । मोहश्चाविवेकः ।

इममरिषड्वर्गमहंकारनिष्ठं विदुः ।। "कामः संकल्पः” इति श्रुत्यान्तःकरणस्यैते वृतिविशेषास्तथापि अहंकारस्य प्राधान्येनोक्त्तमहंकारगतमिति ॥३६॥ स इति । स एव जीवः स्वप्नजाग्रदवस्थयोरहंकारावच्छिन्न एव बध्यते । सुषुप्तौ तदभावादहंकाराभावात् । सूक्ष्मरूपेणावस्थानादित्यर्थः । अन्यथाहंकारनाशे जीवो ब्रह्मैव स्यात् । शंकरतां बिम्बसाम्यं गतः प्राप्तो भवतीत्यर्थः । "सता सौम्य तदा संपन्नो भवति" इत्यादिश्रुतेः ॥३७॥ ननु जीवस्याहंकाराद्युपादानतया ब्रह्मणश्च वियदाद्युपादानतया तयोः सविकारतापत्तिरित्याशङ्क्य परिणामित्वे ह्येवं स्यात्। इह तु विवर्ताधिष्ठाने नायं दोष इत्याह-स एवेति । जीवो मायया परिणामिन्यास्पृष्टः । कोऽर्थः। मायापरिणामोऽन्तःकरणं तेन विशिष्टः सन् सुख

 

ततो विवेकज्ञानेन न कोऽप्यत्रास्ति दु:खभाक् ।
ततो विरम दुःखात्त्वं किं मुधा परितप्यसे ॥ ३९ ॥
  श्रीराम उवाच ।
मुने सर्वमिदं सत्यं यन्मदग्रे त्वयेरितम् ॥
तथापि न जहात्येतत्प्रारब्धादृष्टमुल्बणम् ॥ ४० ॥
मत्तं कुर्याद्यथा मद्यं नष्टाविद्यमपि द्विजम् ।
तद्वत्प्रारब्धभोगोऽपि न जहाति विवेकिनम् ॥ ४१ ॥
ततः किं बहुनोक्तेन प्रारब्धः स शिवः स्मरः ॥
बाधते मां दिवारात्रमहंकारोऽपि तादृशः ॥ ४२ ॥


दुःखभाग्भवति। तेनान्तःकरणेनोपहितः सन् सुखदु:खयोः कारणमधिष्ठानं भवतीति भेदः । शिवे तु विशेषः । शिवे ब्रह्मणि विश्वं मायया दृश्यते शुक्तौ रजतवत् । तथा जीवस्य सुखदुःखाधिष्ठानत्वमहंकारावच्छिन्नत्वाद्भोक्तृत्वं चोपपद्यते । ईश्वरे तु विवर्ताधिष्ठानत्वेन न कोऽपि सुखदुःखादिसंबन्ध इति भावः ॥३८॥ तत इति । तत आत्मनोऽसङ्गत्वादहंकारादेरध्यस्तत्वाच्च मम सुखदुःखादिसंबन्धो नास्तीत्येवंरूपेण विवेकपूर्वकज्ञानेन कोऽप्यत्र संसारे दु:खभाङ्नास्ति। तस्मात्त्वं मुधा व्यर्थं किं परितप्यसे । दु:खं त्यजेत्यर्थः ।॥ ३९ ॥ भवदुक्तरीत्या जडस्य सर्वस्य मिथ्यात्वेऽपि आत्मनोऽसङ्गत्वेऽपि निश्चिते तथापि शोको नापसर्पति तत्किमित्याशयेन श्रीराम उवाच-मुने इति । स्पष्टम् । तथाप्येतद्भुज्यमानफलं प्रारब्धं च तददृष्टं च तत् । उल्बणमपरिहार्यत्वात्प्रबलम् । मां न जहाति ॥ ४० ॥ मत्तमिति । नष्टा अविद्याऽज्ञानं यस्य स तं तादृशमपि । दार्ष्टान्तिकमाह-तद्वदिति ॥ ४१ ॥ तत इति । बहुना युक्तायुक्तविचारेण किं । न किंचित्फलमिल्यर्थः । प्रारब्धस्य जडत्वात्प्रारब्धप्रेरकः शिव एव । "फलमत्त उपपत्त्तेः” इत्यधिकरणे तु तथैव प्रति

 

अत्यन्तपीडितो जीवः स्थूलदेहं विमुञ्चति ।
तस्माज्जीवाप्तये मह्यमुपायः क्रियतां द्विज ॥ ४३ ॥

इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
अगस्त्यराघवसंवादे वैराग्योपदेशो नाम द्वितीयोऽध्यायः ॥ २ ॥



पादनात् । तथाच शिव एव मां दिवारात्रमहंकारानुप्रविष्टः सन् बाधते। ‘‘दु:खिते मनसि सर्वमसह्यम्" इति न्यायेन दु:खितमनस्के मयि त्वदुपदेशो न स्थेमानं धत्त इति भावः ॥ ४२॥ ननु निरन्तरं श्रवणमननादिभिर्ब्रह्मानुसंधाने कृते संसारानर्थनिवृत्त्यावाप्तब्रह्मानन्दो भविष्यतीति चेत् । "बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते” इति बहुजन्मसाध्येन साक्षात्कारेण परिहरणीये संसारे कथं झटिति परोक्षज्ञानमात्रेण समस्तदुःखनिवृत्तिः स्यादित्याशयमाविष्कुर्वन्नाह--अत्यन्तेति । कुलजातिगुणक्रियाजन्यैरहंकारममकारादिभिरत्यन्तपीडितो जीवो लिङ्गशरीरं स्थूलदेहं विमुञ्चति त्यक्ष्यतीत्यर्थः । “वर्तमानसामीप्ये वर्तमानवद्वा” इति भविष्यत्यपि वर्तमानसामीप्ये लृट् । तस्माद्धेतोः जीवाप्तये लिङ्गशरीरस्थैर्याय । मह्यं मदर्थं उपायो यत्नः क्रियतां भवतेति शेषः । अत्रेदमाकूतम् । ब्रह्मविष्णुशिवानामभेदेऽपि कदाचिच्छिवो विष्णुं विष्णुः शिवं तावुभौ कदाचिद्ब्रह्माणं कदाचिद्ब्रह्मा च तावुपदिशति। इदं तेषां लीलामात्रम् । अनावृतज्ञानस्येश्वरस्य मोहानुपपत्तेः । अतएव "हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आासीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम” ।"नारायण एवाग्र आसीन्न ब्रह्मा न च शंकरः" । "जनितेन्द्रस्य जनितोत विष्णोः" इत्यादिश्रुतीनां नहिनिन्दान्यायेन लीलाविग्रहविशेषप्रशंसापरत्वमेव तात्पर्यं ज्ञातव्यम् । रामस्य शोकादिकं तदप्यज्ञजनानुकरणमात्रमभियुक्तान्प्रत्युपदेशमाहात्म्यंच गुरोः प्रकथितुमिति दिक्॥४३॥ इति श्रीशिवगीताबालानन्दिनीव्याख्यायां द्वितीयोऽध्यायः ॥ २ ॥