॥ ॐ ॥

शिवगीता ।

बालानन्दिनीव्याख्यासंवलिता ।

प्रथमोऽध्यायः
ॐनमः शिवाय
सूत उवाच ।

अथातः संप्रवक्ष्यामि शुद्धकैवल्यमुक्तिदम् ॥
अनुग्रहान्महेशस्य भवदुःखस्य भेषजम् ॥ १ ॥


लक्ष्मीनृसिंहचरणद्वयमादरेण
नत्वा चतुर्विधपुमर्थनिदानभूतम् ।
भट्टोजिदीक्षितकृतिं कृतिभिर्विभाव्या-
मालोक्य बालमतये वितनोमि टीकाम् ॥ १ ॥

 अथेति । नित्यानित्यवस्तुविवेक इहामुत्रार्थफलभोगविरागः शमादिष्टं, मुमुक्षुत्वं चेति साधनसंपन्ना एते मां पृच्छन्तीति निर्णयानन्तरं, यत एतेऽल्पश्रवणमात्रेण कृतार्था भविष्यन्त्येव तथापि गुरुमुखादेतच्छास्त्रस्याध्येतारोऽन्येऽपि मुक्ता भविष्यन्ति । अतः कारणादिदं वक्ष्यमाण-गीताशास्त्रार्थ युष्मान्प्रति वक्ष्यामि । एतच्छास्त्रस्य वक्तृत्व-श्रोतृत्वे महेश्वरानुग्रह एव कारणमित्याह-अनुग्रहादिति । तदुक्तम्—“ईश्वरानुग्रहादेव पुंसामद्वैतवासना । महाभयकृतत्राणपराणामेव जायते ।' इति । कीदृशं गीताशास्त्रमित्यत आह-- भवेति । भवः संसारः स एव दुःखं रोगस्तस्य भेषजं निवृत्तिसाधनमौषधम् । न केवलमेतावदेव। किंतु शुद्धकैवल्यमुक्तिदम्। केवलस्य

न कर्मणामनुष्ठानैर्न दानैस्तपसापि वा ।
कैवल्यं लभते मर्त्यः किंतु ज्ञानेन केवलम् ॥ २ ॥
रामाय दण्डकारण्ये पार्वतीपतिना पुरा ।
या प्रोक्त्ता शिवगीताख्या गुह्यागुह्यतमापि सा ॥ ३ ॥


भावः कैवल्यं ब्रह्म तदेव मुक्तिः शुद्धा चासौ कैवल्यमुक्तिश्च सा तथोक्ता तां ददाति तत्तथा । विशेषणद्वयेन शोकनिवृत्तिरानन्दावाप्तिश्च प्रयोजनमस्य शास्त्रस्येति सूचितम् । शुद्धकैवल्येत्यत्र शुद्धपदेन सारूप्यादिसातिशयमुक्त्तीनां निरासः सूचितः । अनुग्रहान्महेशस्येत्यनेन स्वस्य सूतत्वेऽपि मोक्षशास्त्रोपदेशेऽधिकारः सूचितः । यद्यपि भिषजः कर्मेति तद्धितेऽणि आदिवृद्धया भाव्यं तथापि "केवलमामक" इति सूत्रे निपातनाद्गुणः । तथाच निघण्टुः—"भेषजौषधभैषज्यान्यगदो जायुरित्यपि" इति ॥ १ ॥ कर्मणेति । "न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः" । "ज्ञानादेव तु कैवल्यम्" इतीममर्थं मनसि निधायाह । कर्मणां श्रौतस्मार्तादीनामनुष्ठानैर्मर्त्यः मरणधर्मा देवादिमनुष्यान्तः कश्चिदपि कैवल्यं मोक्षं न लभते । दानैः कल्पोक्त्तैर्गोभूम्यादिवितरणैः । तपसापि वा कृच्छ्रचान्द्रायणादिरूपेण न लभते । कर्मादीनां स्वर्गफलकत्वान्निष्कामतयानुष्ठितानां चित्तशुद्धिद्वारा विविदिषाफलकत्वात् । तर्हि मोक्षः केन साधनेन भवतीत्याशङ्कायामाह-किंत्विति । इतरनिरपेक्षज्ञानेनैव "तमेव विदित्वातिमृत्युमेति नान्यः पन्था अयनाय विद्यते" इत्यादिश्रुतेः ॥ २ ॥। गुरूत्तमशिष्योत्तमसंवादतया प्रवृत्तमिदं गीताशास्रमुपनिषद्वाक्यमेवेति प्रशंसन्नाह—रामायेति । सा गीता मया युष्मभ्यमुपदिश्यते । सा केत्याकाङ्क्षायामाह । पुरा पूर्वं दण्डकारण्ये पार्वतीपतिना शिवेन रामाय या गीता प्रोक्ता सा । गुह्येति । अतिरहस्यभूतापि । अपिना गुरोर्वात्सल्यं सूचितम् । शिवपदेनाख्यापदेन च सर्वासां गीतानां मध्ये अस्याः श्रेष्ठत्वं सूचितम् ॥३॥

 यस्याः स्मरणमात्रेण नृणां मुक्तिर्धुवा हि सा ।
पुरा सनत्कुमाराय स्कन्देनाभिहिता हि सा ॥ ४ ॥
सनत्कुमारः प्रोवाच व्यासाय मुनिसत्तमाः ।
मह्यं कृता(पा)तिरेकेण प्रददौ बादरायणः ॥ ५ ॥
उक्तं च तेन कस्मैचिन्न दातव्यमिदं त्वया ।
सूतपुत्रान्यथा देवाः क्षुभ्यन्ति च शपन्ति च ॥ ६ ॥


तदेव श्रेष्ठत्वं संप्रदायशुद्धिपूर्वकं सूचयितुं स्वगुरुपरम्परामाह-यस्या इति । यस्याः शिवगीतायाः स्मरणमात्रेण तदर्थध्यानमात्रेण । अस्यां शिवगीतायां शुद्धबुद्धमुक्तस्वरूपं ब्रह्मैवाध्यारोपापवादाभ्यां प्रतिपादितमस्तीति ध्यानमात्रेणेत्यर्थः । नृणामिति बहुवचनेन देवादीनामपि सा प्रसिद्धा । ध्रुवा निर्बाधा ब्रह्मस्वरूपभूतेत्यर्थः । हि निश्चयेन मुक्तिर्भवतीति शेषः । सा शिवगीता सनत्कुमाराय स्कंन्देन पुरा अभिहितोपदिष्टा । हिशब्देन सर्वगीताश्रेष्ठत्वं द्योतयति॥ ४ ॥ सनत्कुमार इति । हे मुनिषु सत्तमाः श्रेष्ठाः, इत्यनेन संबोधनेन भवादृशाः सर्वेऽत्राधिकारिण इति ध्वनयति । बादरायणो व्यासः कृपातिरेकेण दयाया अतिशयेन मह्यं प्रददौ । मह्यमिति संप्रदानचतुर्थ्या ब्रह्मविद्याप्रदानस्य सर्वदानोत्तमत्वं सूचितम् । कृपातिरेकेणेत्युक्त्या गुरुशुश्रूषया स्वस्मिन् गुरुप्रसादः सूचितः । "यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥" इति श्रुतेः, "तद्विद्धि प्राणिपातेन परिप्रश्नेन सेवया” इति स्मृतेश्च ॥ ५ ॥। उक्तं चेति । तेन प्रसिद्धेन मद्गुरुणा गीतोपदेशानन्तरमुक्तं च । किमुक्तं तदेवाह-कस्मैचिदिति। इदं शास्त्रं कस्मैचिदनधिकारिणे त्वया न दातव्यम् । अन्यथा मद्वाक्यस्यापरिपालनेनानधिकारिभ्योऽपि दाने क्रियमाणे देवा इन्द्रादयः क्षुभ्यन्ति रुष्टा भवन्ति । शपन्ति च । दातारं वक्तारमिति शेषः ।

अथ पृष्टो मया विप्रो भगवान्बादरायणः ।
भगवन्देवताः सर्वाः किं क्षुभ्यन्ति शपन्ति च ॥
तासामत्रास्ति का हानिर्यया कुप्यन्ति देवताः ॥ ७ ॥
पाराशर्योऽथ मामाह यत्पृष्टं श्रृणु वत्सल ।
नित्याग्निहोत्रिणो विप्राः सन्ति ये गृहमेधिनः ॥ ८ ॥
त एव सर्वफलदाः सुराणां कामधेनवः ॥
भक्ष्यं भोज्यं च पेयं च यद्यदिष्टं सुपर्वणाम् ॥ ९ ॥


तदुक्तं निरुक्ते--"विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवधिस्तेऽहमस्मि । असूयकायानृजवेऽयताय न मा ब्रूया वीर्यवती तथा स्याम्” इति । "इदं ते नातपस्काय नाभक्ताय कदाचन । न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति॥” इति स्मृतेश्च ॥६॥ अथेति । “उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥" इत्युक्तलक्षणो बादरायणो मया पृष्टः । यत्पृष्टं तदाह-भगवन्निति । गुरुं प्रतीदमेव संबोधनमिति सूचयति। ‘‘अधीहि भगवो ब्रहोति" इत्यादिश्रुतेः । किं किमर्थं क्षुभ्यन्ति शपन्ति च । तासां देवतानाम् । यस्मै कस्मैचिद्दत्तायामित्यत्रशब्दस्यार्थः । का हानिरस्ति । यया हान्या ॥ ७ ॥ पाराशर्य इति । अथ मम प्रश्नानन्तरं पाराशर्यो व्यासो मां प्रत्याह । हे वत्सल दयालो, स्वयं त्वं कृतार्थोऽपि लोकानुग्रहार्थं पृच्छसीति संबुद्ध्या सूचितम् । यत्त्वया पृष्टं तासामत्रास्ति का हानिरिति । श्रृणु तस्योत्तरमिति शेषः । तदेवाह-नित्येति । गृहमेधिनो गृहस्थाः ॥ ८ ॥ त इति । त एव सुराणां सर्वफलदाः कामधेनुकल्पाः । कामधेनुकल्पत्वमाह-भक्ष्यमिति । यद्यदिष्टं प्रियं सुपर्वणां देवानां

 

अग्नौ हुतेन हविषा तत्सर्वं लभ्यते दिवि ।
नान्यदस्ति सुरेशानामिष्टसिद्धिप्रदं दिवि ॥ १० ॥
दोग्ध्री धेनुर्यथा नीता दुःखदा गृहमेधिनाम् ।
तथैव ज्ञानवान्विप्रो देवानां दु:खदो भवेत् ॥ ११ ॥
त्रिदशास्तेन विघ्नन्ति प्रविष्टाविषयं नृणाम् ।
ततो न जायते भक्तिः शिवे कस्यापि देहिनः ॥ १२ ॥
तस्मादविदुषां नैव जायते शूलपाणिनः ।
यथाकथंचिज्जातापि मध्ये विच्छिद्यते नृणाम् ॥ १३ ॥


॥ ९ ॥ अग्नाविति | हुतेन प्रक्षिप्तेन हविषा पुरोडाशादिना तत्सर्वं दिवि लभ्यते नान्यदिति देवानामिष्टप्रदं साधनान्तरं नास्तीति भावः । दिवीति द्विर्ग्रहणं स्वर्गभेदविवक्षयेति ज्ञेयम् ॥ १० ॥ ततः किं तत्राह-दोग्ध्रीतेि । दोहनशीला दोग्ध्री धेनुर्गौः। नीता केनचिदपहृता सती यथा गृहमेधिनां दु:खदा भवति तथैवेति । विप्र इत्युपलक्षणं क्षत्रियादेरपि । तेन कारणेन त्रिदशा देवाः विघ्नन्ति ज्ञानप्रतिबन्धं कुर्वन्ति ॥ ११ । नृणां विषयं स्त्रीपुत्रादिरूपं प्रविष्टाः सन्तस्तान्स्त्रीपुत्रादीन्द्दष्ट्वा मनस्येवं दयते । यदि मया ज्ञाननिष्ठेन भवितव्यं तदा ते मरिष्यन्ति । एवं देवाः प्रेरयन्ति । इदमेव विघ्नाचरणमिति भावः । तथाच श्रुतिः-"श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः” इति । तत इति । ततो देवकृतविघ्नात्कस्यापि देहिनः पुराणश्रवणादौ प्रवृत्तस्यापि शिवे भक्तिर्न जायते । अश्रद्दधानत्वादिति भावः ।। १२ ।।॥ तस्मादिति । तस्माद्देवकृतविघ्रादेव । अविदुषां पुराणश्रवणरहितानां तु शूलपाणिनः भक्तिर्नैव जायते । शूलपाणेरिति वक्तव्ये शूलपाणिन इत्यार्षप्रयोगः 'छन्दोवदृषयः कुर्वन्ति' इति महाभाष्यात्। यथेति । यथाकथंचिदतिप्रयत्नाच्छिन्नाभ्रमिव मध्ये विच्छिद्यते । ज्ञानोत्पत्तेः पूर्व

 
जातं वापि शिवज्ञानं विश्वासं न भजत्यलम् ॥ १४ ॥
                       ऋषय ऊचुः ।
यद्येवं देवता विघ्नमाचरन्ति तनूभृताम् ।
पौरुषं तत्र कस्यास्ति येन मुक्तिर्भविष्यति ॥ १५ ॥
सत्यं सूतात्मज ब्रूहि तत्रोपायोऽस्ति वा न वा ॥
                        सूत उवाच ।
कोटिजन्मार्जितैः पुण्यैः शिवे भक्तिः प्रजायते ॥ १६ ॥
इष्टापूर्तानि कर्माणि तेनाचरति मानवः ।
शिवार्पणधिया कामान्परित्यज्य यथाविधि ॥ १७ ॥


मेव नश्यतीत्यर्थः ॥ १३ ॥ जातमिति । अविच्छिन्नया भक्त्या जातमपि शिवज्ञानं विश्वासं न भजति । अप्रामाण्यशङ्कयाभिभूतं भवतीत्यर्थः ॥ १४ ॥ एवं श्रुत्वा ज्ञाने निराशाः सन्त ऋषय ऊचु:-यद्येवमिति । एवं प्रागुक्तरीत्या देवता यदि विघ्नं तनूभृतां देहिनामाचरन्ति तर्हि तत्र विघ्ननिवारणे कस्य पौरुषं सामर्थ्यमस्ति येन मुक्तिर्भविष्यति ॥ १५ ॥ सत्यमिति । तत्र देवकृतविघ्ननिवारणे उपायोऽस्ति वा न वेति संशये उपायोऽस्त्यथवा नास्ति इति सत्यमेकमुत्तरं ब्रूहीत्यर्थः । एवं मुनिभिः पृष्टे सुगमदुर्गमप्रकारभेदेनोपायमाह-कोटीति । कोटिसंख्याकेषु जन्मस्वर्जितपुण्यैरिति दुर्गमप्रकारभेदः । अस्मिन्प्रकृतजन्मनि शिवे भक्तिः प्रजायत इति सुगमप्रकारभेदः । संस्कारबलेन अनायासतः शिवे भक्तेर्जायमानत्वात् । अग्रे भक्तिदृढीकरणादिसाधनेष्वीश्वरप्रेरणा पुंप्रयत्नश्च द्वयमपि कारणम् । पुरुषप्रयत्नानङ्गीकारे विधिवाक्यमनर्थकं स्यात् । "दैवं पुरुषकारश्च सिद्धयतोऽन्योन्यसंश्रयात्” इत्यादित्यपुराणविरोधश्च । येन कारणेन द्वयमप्यपेक्षितं तेन कारणेनेत्यर्थः ॥ १६ ॥ इष्टेति । इष्टानि यागाः । पूर्तानि तडागारामादीनि । इष्टानि च पूर्तानि चेति द्वन्द्वे “अन्येषामपि दृश्यते" इति दीर्घः। इह बहुकृत

 

अनुग्रहात्तेन शंभोर्जायते सुदृढो नरः ।
ततो भीताः पलायन्ते विघ्नं हित्वा सुरेश्वराः ॥ १८ ॥
जायते तेन शुश्रूषा चरिते चन्द्रमौलिनः ।
शृण्वतो जायते ज्ञानं ज्ञानादेव विमुच्यते ॥ १९ ॥
बहुनात्र किमुक्तेन यस्य भक्तिः शिवे दृढा ।
महापापौघपापौघकोटिग्रस्तो विमुच्यते ॥ २० ॥


प्राग्भवीयसुकृतसंपत्त्या शिवे भक्तिः, तत ईश्वरार्पणबुद्ध्या निष्कर्मानुष्ठानं, ततश्चित्तशुद्धिः, ततो नित्यानित्यवस्तुविवेकः, तत इहामुत्रार्थफलभोगविरागः, ततः शमादिसंपत्, ततो मुमुक्षा, ततो जिज्ञासा, ततः संन्यासः, ततो गुरूपसत्तिः, ततः श्रवणमनने, ततो निदिध्यासनं, ततोऽप्रतिबद्धसाक्षात्कारः, ततो यावत्प्रारब्धं जीवन्मुक्तिस्ततः परमा मुक्तिरितिं सिद्धान्तसंमतः पन्थाः । ततः शिवे भक्तिर्जनिष्यमाणां कार्यकारणपरम्परामाह-शिवार्पणेति । कामान्फलवासनाः ‘परित्यज्य शिवार्पणबुद्धा यथाविधि इष्टापूर्तान्याचरतीति पूर्वेणान्वयः । तेन शिवार्पणबुद्ध्या कृतेन कर्मणेत्यर्थः । शंभोरनुग्रहः प्रसादो भवति । १७ ॥ अन्विति । तस्मादनुग्रहात्सुदृढो नरो जायते । विघ्नबाहुल्ये प्राप्तेऽपि शिवभक्तौ निश्चितबुद्धिरित्यर्थः । तत इति । ततो निश्चितबुद्धेः पुरुषाच्छापसंभावनया भीताः सन्तो विघ्नं हित्वा विघ्नाचरणं विहाय पलायन्त इत्यर्थः ॥ १८ ॥ जायत इति । तेन विघ्नपरिहारेण चन्द्रमौलिनश्चन्द्रशेखरस्य चरिते शुश्रूषा श्रवणेच्छा जायते । एवं सगुणनिर्गुणचरितं शृण्वतः क्रमाद्वैराग्यं ततोऽध्यासनिवृत्तिस्ततो ब्रह्मात्मैक्यज्ञानं ततो मुक्तो भवतीत्यर्थः । एवकारेण "तमेव विदित्वातिमृत्युमेति' इत्यादिश्रुतयः संगृहीताः ॥ १९ ॥ बहुनेति । अत्र शिवभक्तौ बहुना उक्तेन भाषणेन किम् । न किमपि प्रयोजनमित्यर्थः । यस्य पुरुषधौरेयस्य शिवे दृढा भक्तिः

 

संसारबन्धनात्तस्मादन्यः को वा विमूढधीः ॥ २१ ॥
नियमाद्यस्तु कुर्वीत भक्तिंं वा द्रोहमेव वा ॥
तस्यापि चेत्प्रसन्नोऽसौ फलं यच्छति वाञ्छितम् ॥ २२॥


जातेति शेषः । स महापापौघः पञ्चमहापापानि अन्यानि पापानि तेषां समुदायश्च तेषां कोटिभिर्ग्रस्तोऽपि विमुच्यते । ‘मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः” । "अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः” इत्यादिस्मृतेः । नन्वेवंविघेषु पापेषु सत्सु कथं भक्तिर्भविष्यतीति कुतर्को न विघेयः । अस्मिन् जन्मनि जातया प्रवर्धमानया शिवभक्त्या प्राग्भवीयं तादृशं किंचित्कारणमर्थापत्त्या कल्प्यते । तत्कारणं तानि सर्वाणि पापानि पराणुद्य स्वकार्यभूतां भक्तिं जनयति । सा भक्तिस्तान्यनारब्धफलानि सर्वपापानि नाशयतीति कल्प्यते । अन्यथा “धर्मेण पापमपनुदति” इत्यादिबहुश्रुतिस्मृतिव्याकोपः प्रसज्येतेति दिक् ॥ २० ॥ तस्मात्कारणादन्यो विमूढधीरपि शिवभक्त्यापि न विमुच्यते एतादृशः को वा । न कोऽपीत्यर्थः । परमपापिष्ठोऽपि शिवभक्तया संसारबन्धनान्मुक्तो भवतीति भावः ।। २१ ॥ कैमुतिकन्यायमुदाहरति--नियमादिति । द्रोहं द्वेषं चेद्यदि नियमात्करोति तस्यापि द्रोग्धुर्वाप्यसौ शिवः प्रसन्नः सन् वाञ्छितं फलं यच्छति । एवं सति भक्तिं कुर्वतस्तु वाञ्छितं यच्छतीति किमु वक्तव्यमिति भावः । अत्र माध्वाः भक्तिरेव भगवत्प्रसादंप्रति कारणं द्वेषादिकं तु नरकसाधनमित्याहुः । तदसत् । भागवते पूतनामुपक्रम्योक्तम्---"पूतना लोकबालघ्नी राक्षसी रुधिराशना । जिघांसयापि हरये स्तनं दत्त्वाऽपि सद्गतिम् ॥" अन्यञ्च "गोप्यः कामाद्भयात्कंसो द्वेषाचैद्यादयो नृपाः । कामं क्रोधं भयं स्न्नेहमैक्यं सौहृदमेव च । नित्र्यं हरौ विदघतो यान्ति मन्मयतां हि ते ॥” इत्यादिविरोधात् ॥२२॥

 
ऋद्धं किंचित्समादाय क्षुल्लकं जलमेव वा ।
यो दत्ते नियमेनासौ तस्मै दत्ते जगत्त्रयम् ॥ २३ ॥
तत्राप्यशक्तो नियमान्नमस्कारं प्रदक्षिणाम् ॥
यः करोति महेशस्य तस्मै तुष्टो भवेच्छिवः ॥ २४ ॥
प्रदक्षिणास्वशक्तोऽपि यः स्वान्ते चिन्तयेच्छिवम् ॥
गच्छन्समुपविष्टो वा तस्याभीष्टं प्रयच्छति ॥ २५ ॥
चन्दनं बिल्वकाष्ठस्य पुष्पाणि वनजान्यपि ।
फलानि तादृशान्येव यस्य प्रीतिकराणि वै ॥
दुष्करं तस्य सेवायां किमस्ति भुवनत्रये ॥ २६ ॥
वन्येषु यादृशी प्रीतिर्वर्तते परमेशितुः ।
उत्तमेष्वपि नास्त्येव ग्रामजेष्वपि तादृशी ॥ २७ ॥
तं त्यक्त्वा तादृशं देवं यः सेवेतान्यदेवताम् ।
स हि भागीरथीं त्यक्त्वा काङ्क्षते मृगतृष्णिकाम् ॥२८॥


नेश्वरभक्तौ कोऽपि प्रयास इत्याशयेनाह-ऋद्धमिति । विभवे सति सर्वोपचारपूर्णं वा भवतु दारिद्र्ये सति क्षुल्लकं स्वल्पं जलमेव वा भवतु । तत्समर्पणमेव मुख्यमिति भावः । उभयोरपि फलसाम्यमाह-जगत्रयमिति । भक्तकृतनियम एवेश्वरस्य प्रीतिर्नतु प्रदेयवस्तुविशेष इति भावः ॥ २३ ॥ २४ ॥ प्रदक्षिणास्विति । स्वान्ते मनसि । आसनादिनियमोऽपि नास्तीत्याह--गच्छन्निति ॥ २५ ॥ अतिसौलभ्यमाह सार्धेन श्लोकेन-चन्दनमिति । दुष्करं दुःसंपादम् ॥ २६ ॥ सहजसरलत्वं शिवस्याह-वन्येष्विति । "यादृगादौ सूत्रमते कर्मकर्तरि कृत्स्मृतः । महाभाष्ये त्विवेत्यर्थे दृग्दृशौ तद्धितौ मतौ ॥” इति ।। २७ । अभक्तं निन्दति-तमिति । इन्द्रादयः सर्वेऽपि जीवा एव पुण्यविशेषेण देवत्वं प्राप्तास्तां यां च कां

 
किंतु यस्यास्ति दुरितं कोटिजन्मसु संचितम् ।
तस्य प्रकाशते नायं त्वर्थो मोहान्धचेतसः ॥ २९ ॥
न कालनियमो यत्र न देशस्य स्थलस्य च ।
यत्रास्य रमते चित्तं तत्र ध्यानेन केवलम् ॥
स्वात्मत्वेन शिवस्यासौ शिवसायुज्यमाप्नुयात् ॥ ३० ॥
अतिस्वल्पतरायुःश्रीर्भूतेशांशाधिपोऽपि यः॥
स तु राजाहमस्मीति वादिनं हन्ति सान्वयम् ॥ ३१ ॥
कर्तापि सर्वलोकानामक्षयैश्वर्यवानपि ।
शिवः शिवोऽहमस्मीति वादिनं यं च कंचन ।
आत्मना सह तादात्म्यभागिनं कुरुते भृशम् ॥ ३२ ॥


चनं देवतामित्यर्थः । मृगतृष्णिकां मृगजलम् । परमार्थतोऽभेदेऽपि व्यावहारिकभेदाभिप्रायेणोक्तमिति भावः ॥ २८ ॥ ननु यदीश्वरस्य पूजादिकमतिसुलभं महाफलं च तर्हि देही तदनादरेण संसारे किमिति भ्राम्यतीत्यत आह--किंत्विति । अयमर्थः । सौलभ्येन महाफलप्राप्तिरूपः मोहेनाज्ञानेन अन्धं विचारशून्यं चेतो यस्य स तथाभूतस्तस्य ॥ २९ ॥ सौकर्यान्तरमाह-नेति । यत्रास्योपासकस्य चित्तं रमते प्रसन्नं भवति तत्र स्वात्मत्वेन शिवस्य केवलं ध्यानेन ध्यानमात्रेणेत्यर्थः । शिवसायुज्यं प्राप्नुयात् । ततः क्रमेण शुद्धमुक्तिमपि ॥ ३० ॥ इदं स्वात्मत्वेनोपासनं प्राकृतप्रभूणां प्रतिकूलं नतु सर्वज्ञस्येश्वरस्येत्याह-अतीति । अतिस्वल्पतरे आयुःश्रियौ यस्य स तथा । भूतेशस्य शिवस्यांशभूतो महाराजः सोऽधिपो यस्य स तथा । माण्डलिक इत्यर्थः । एतादृशः स तु अहं राजेतिवादिनं सान्वयं पुत्रपौत्रादियुक्तं हन्ति ॥ ३१ ॥ एवं क्षुद्रप्रभोः स्थितिं प्रतिपाद्य महाप्रभोः शिवस्य स्थितिमाह सार्धेन-कर्तेति ।। "भुवनस्य कर्ता” इति श्रुतेः । अक्षयेति ।। "एतावानस्य महिमा" इति श्रुतेः।

 
धर्मार्थकाममोक्षाणां परं यास्यन्ति येन वै ॥
मुनयस्तत्प्रवक्ष्यामि व्रतं पाशुपताभिधम् ॥ ३३ ॥
कृत्वा तु विरजां दीक्षां भूतिरुद्राक्षधारिणः ॥
जपन्तो वेदसाराख्यं शिवनामसहस्रकम् ॥ ३४ ॥
संत्यज्य तेन मर्त्यत्वं शैवींं तनुमवाप्य च ।
ततः प्रसन्नो भगवाञ्छंकरो लोकशंकरः ॥
भवतां दृश्यतामेत्य कैवल्यं वः प्रदास्यति ॥ ३५ ॥
रामाय दण्डकारण्ये यत्प्रादात्कुम्भसंभवः ।
तत्सर्वं वः प्रवक्ष्यामि शृणुध्वं भक्तियोगिनः ॥ ३६ ॥

इति श्रीपद्मपुराणे शिवगीतायां प्रथमोऽध्यायः ॥ १ ॥



यं कंचन आपाततः श्रुतवेदान्तमपीत्यर्थः । तादात्म्यभाजं सायुज्यभाजमित्यर्थः । इदमुपासनं क्रममुक्तिपरम् । पञ्चम्या मुक्तेरग्रे वक्ष्यमाणत्वादिति भावः ॥ ३२ ॥ अन्तःकरणशुद्धावुपायान्तरं प्रतिजानीते-धर्मार्थेति । पारं सिद्धिम् ॥ ३३ ॥ यदुपक्रान्तं व्रतं तस्य विधिमाह--कृत्वेति । दीक्षा नाम । विरजामिति । विगतं रजः पापं येषां ते विरजसः निष्पापाः । विरजसः 'तत्करोति' इति ण्यन्तात्पचाद्यच् । “णाविष्ठवत् इति टिलोप इति सर्व स्वकारप्रभृतयः । वस्तुतस्त्वकारान्तोऽपि रजशब्दोऽस्ति । "रजोऽयं रजसा सार्धं स्त्रीपुष्पगुणधूलिषु” इति कोशात् ॥३४॥ ततः किं स्यादित्यत आह - संत्यज्येति । तेन व्रतेन मर्त्यत्वं मरणधर्मत्वं संत्यज्य शैवीं शिवसाक्षात्कारयोग्याम् । दृश्यतां प्रत्यक्षत्वमेत्य प्राप्य वः युष्मभ्यं कैवल्यं परममुक्तिम् ॥३५॥ रामायेति । कुम्भसंभवोऽगस्त्यः यद्दीक्षादिकम् । भक्तियोगो विद्यते येषां ते तथोक्त्ताः सन्तः शूणुध्वं शृणुतेत्यर्थः ॥३६॥ इति श्रीशिवगीताबालानन्दिनीव्याख्यायां प्रथमोऽध्यायः ॥ १ ॥