शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ४ (कुमारखण्डः)/अध्यायः १२

← अध्यायः ११ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ४ (कुमारखण्डः)
अध्यायः १२
[[लेखकः :|]]
अध्यायः १३ →

ब्रह्मोवाच ।।
निहतं तारकं दृष्ट्वा देवा विष्णुपुरोगमाः ।।
तुष्टुवुश्शांकरिं भक्त्या सर्वेऽन्ये मुदिताननाः ।।१।।
देवा ऊचुः ।।
नमः कल्याणरूपाय नमस्ते विश्वमंगल।।
विश्वबंधो नमस्तेऽस्तु नमस्ते विश्वभावन ।।२।।
नमोस्तु ते दानववर्यहंत्रे बाणासुरप्राणहराय देव ।।
प्रलंबनाशाय पवित्ररूपिणे नमोनमश्शंकरतात तुभ्यम् ।।३।।
त्वमेव कर्त्ता जगतां च भर्त्ता त्वमेव हर्त्ता शुचिज प्रसीद ।।
प्रपञ्चभूतस्तव लोकबिंबः प्रसीद शम्भ्वात्मज दीनबंधो।।४।।
देवरक्षाकर स्वामिन्रक्ष नस्सर्वदा प्रभो।।
देवप्राणावन कर प्रसीद करुणाकर ।।५।।
हत्वा ते तारकं दैत्यं परिवारयुतं विभो ।।
मोचितास्सकला देवा विपद्भ्यः परमेश्वर।।६।।
ब्रह्मोवाच।।
एवं स्तुतः कुमारोऽसौ देवैर्विष्णुमुखैः प्रभुः ।।
वरान्ददावभिनवान्सर्वेभ्यः क्रमशो मुने ।।७।।
शैलान्निरीक्ष्य स्तुवतस्ततस्स गिरिशात्मजः ।।
सुप्रसन्नतरो भूत्वा प्रोवाच प्रददद्वरान् ।।८।।
स्कन्द उवाच ।।
यूयं सर्वे पर्वता हि पूजनीयास्तपस्विभिः ।।
कर्मिभिर्ज्ञानिभिश्चैव सेव्यमाना भविष्यथ ।।९।।
शंभोर्विशिष्टरूपाणि लिंगरूपाणि चैव हि ।।
भविष्यथ न संदेहः पर्वता वचनान्मम ।। 2.4.12.१० ।।
योऽयं मातामहो मेऽद्य हिमवान्पर्वतोत्तमः ।।
तपस्विनां महाभागः फलदो हि भविष्यति ।।११।।
देवा ऊचुः ।।
एवं दत्त्वा वरान्हत्वा तारकं चासुराधिपम् ।।
त्वया कृताश्च सुखिनो वयं सर्वे चराचराः ।।१२।।
इदानीं खलु सुप्रीत्या कैलासं गिरिशालयम् ।।
जननी जनकौ द्रष्टुं शिवाशंभू त्वमर्हसि ।। १३ ।।
ब्रह्मोवाच।।
इत्युक्त्वा निखिला देवा विष्ण्वाद्या प्राप्तशासनाः ।।
कृत्वा महोत्सवं भूरि सकुमारा ययुर्गिरिम् ।।१४।।
कुमारे गच्छति विभौ कैलासं शंकरालयम् ।।
महामंगलमुत्तस्थौ जयशब्दो बभूव ह ।।१५।।
आरुरोह कुमारोऽसौ विमानं परमर्द्धिमत् ।।
सर्वतोलंकृतं रम्यं सर्वोपरि विराजितम् ।। १६ ।।
अहं विष्णुश्च समुदौ तदा चामरधारिणौ।।
गुह मूर्ध्नि महाप्रीत्या मुनेऽभूव ह्यतंद्रितौ ।। १७।।
इन्द्राद्या अमरास्सर्वे कुर्वंतो गुहसेवनम् ।।
यथोचितं चतुर्दिक्षु जग्मुश्च प्रमुदास्तदा ।।१८।।
शंभोर्जयं प्रभाषंतः प्रापुस्ते शंभुपर्वतम् ।।
सानंदा विविशुस्तत्रोच्चरितो मंगलध्वनिः ।। १९ ।।
दृष्ट्वा शिवं शिवां चैव सर्वे विष्ण्वादयो द्रुतम् ।।
प्रणम्य शंकरं भक्त्या करौ बद्ध्वा विनम्रकाः ।।2.4.12.२०।।
कुमारोऽपि विनीतात्मा विमानादवतीर्य च ।।
प्रणनाम मुदा शंभुं शिवां सिंहासनस्थिताम् ।।२१।।
अथ दृष्ट्वा कुमारं तं तनयं प्राणवल्लभम् ।।
तौ दंपती शिवौ देवौ मुमुदातेऽति नारद ।।२२।।
महाप्रभुस्समुत्थाप्य तमुत्संगे न्यवेशयत् ।।
मूर्ध्नि जघ्रौ मुदा स्नेहात्तं पस्पर्श करेण ह ।। २३।।
महानंदभरः शंभुश्चकार मुखचुंबनम् ।।
कुमारस्य महास्नेहात् तारकारेर्महाप्रभोः ।। २४ ।।
शिवापि तं समुत्थाप्य स्वोत्संगे संन्यवेशयत् ।।
कृत्वा मूर्ध्नि महास्नेहात् तन्मुखाब्जं चुचुम्ब हि ।।२५।।
तयोस्तदा महामोदो ववृधेऽतीव नारद।।
दंपत्योः शिवयोस्तात भवाचारं प्रकुर्वतोः।।२६।।
तदोत्सवो महानासीन्नानाविधिः शिवालये ।।
जयशब्दो नमश्शब्दो बभूवातीव सर्वतः ।। २७ ।।
ततस्सुरगणास्सर्वे विष्ण्वाद्या मुनयस्तथा ।।
सुप्रणम्य मुदा शंभुं तुष्टुवुस्सशिवं मुने ।। २८ ।।
देवा ऊचुः ।।
देवदेव महादेव भक्तानामभयप्रद ।।
नमो नमस्ते बहुशः कृपाकर महेश्वर ।। २९ ।।
अद्भुता ते महादेव महालीला सुखप्रदा ।।
सर्वेषां शंकर सतां दीनबंधो महाप्रभो ।। 2.4.12.३० ।।
एवं मूढधियश्चाज्ञाः पूजायां ते सनातनम् ।।
आवाहनं न जानीमो गतिं नैव प्रभोद्भुताम् ।। ३१ ।।
गंगासलिलधाराय ह्याधाराय गुणात्मने ।।
नमस्ते त्रिदशेशाय शंकराय नमोनमः ।३२।।
वृषांकाय महेशाय गणानां पतये नमः ।।
सर्वेश्वराय देवाय त्रिलोकपतये नमः ।।३३।।
संहर्त्रे जगतां नाथ सर्वेषां ते नमो नमः ।।
भर्त्रे कर्त्रे च देवेश त्रिगुणेशाय शाश्वते ।।३४।।
विसंगाय परेशाय शिवाय परमात्मने ।।
निष्प्रपंचाय शुद्धाय परमायाव्ययाय च ।।३५।।
दण्डहस्ताय कालाय पाशहस्ताय ते नमः ।।
वेदमंत्रप्रधानाय शतजिह्वाय ते नमः ।।३६।।
भूतं भव्यं भविष्यच्च स्थावरं जंगमं च यत् ।।
तव देहात्समुत्पन्नं सर्वथा परमेश्वर ।।३७।।
पाहि नस्सर्वदा स्वामिन्प्रसीद भगवन्प्रभो ।।
वयं ते शरणापन्नाः सर्वथा परमेश्वर ।।३८।।
शितिकण्ठाय रुद्राय स्वाहाकाराय ते नमः ।।
अरूपाय सरूपाय विश्वरूपाय ते नमः ।। ३९ ।।
शिवाय नीलकंठाय चिताभस्मांगधारिणे ।।
नित्यं नीलशिखंडाय श्रीकण्ठाय नमोनमः ।। 2.4.12.४० ।।
सर्वप्रणतदेहाय संयमप्रणताय च ।।
महादेवाय शर्वाय सर्वार्चितपदाय च ।। ४१ ।।
त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः ।।
आत्मा च सर्वभूतानां सांख्यैः पुरुष उच्यसे ।।४२।।
पर्वतानां सुमेरुस्त्वं नक्षत्राणां च चन्द्रमा ।।
ऋषीणां च वशिष्ठस्त्वं देवानां वासवस्तथा ।। ४३ ।।
अकारस्सर्ववेदानां त्राता भव महेश्वर ।।
त्वं च लोकहितार्थाय भूतानि परिषिंचसि ।।४४।।
महेश्वर महाभाग शुभाशुभनिरीक्षक ।।
आप्यायास्मान्हि देवेश कर्तॄन्वै वचनं तव ।।४५।।
रूपकोटिसहस्रेषु रूपकोटिशतेषु ते ।।
अंतं गंतुं न शक्ताः स्म देवदेव नमोस्तु ते ।। ४६ ।।
।। ब्रह्मोवाच ।।
इति स्तुत्वाखिला देवा विष्ण्वाद्या प्रमुखस्थिताः ।।
मुहुर्मुहुस्सुप्रणम्य स्कंदं कृत्वा पुरस्सरम् ।।४७।।
देवस्तुतिं समाकर्ण्य शिवस्सर्वेश्वरस्स्वराट् ।।
सुप्रसन्नो बभूवाथ विजहास दयापरः ।। ४८ ।।
उवाच सुप्रसन्नात्मा विष्ण्वादीन्सुरसत्तमान् ।।
शंकरः परमेशानो दीनबंधुस्सतां गतिः ।।४९।।
शिव उवाच ।।
हे हरे हे विधे देवा वाक्यं मे शृणुतादरात् ।।
सर्वथाहं सतां त्राता देवानां वः कृपानिधिः ।।2.4.12.५० ।।
दुष्टहंता त्रिलोकेशश्शंकरो भक्तवत्सलः ।।
कर्ता भर्ता च हर्ता च सर्वेषां निर्विकारवान् ।।५१ ।।
यदा यदा भवेद्दुःखं युष्माकं देवसत्तमाः ।।
तदा तदा मां यूयं वै भजंतु सुखहेतवे ।। ५२ ।।
ब्रह्मोवाच ।।
इत्याज्ञप्तस्तदा देवा विष्ण्वाद्यास्समुनीश्वराः ।।
शिवं प्रणम्य सशिवं कुमारं च मुदान्विताः ।।५३।।
कथयंतो यशो रम्यं शिवयोश्शांकरेश्च तत् ।।
आनन्दं परमं प्राप्य स्वधामानि ययु र्मुने ।।५४।।
शिवोपि शिवया सार्द्धं सगणः परमेश्वरः ।।
कुमारेणयुतः प्रीत्योवास तस्मिन्गिरौ मुदा ।।५५।।
इत्येवं कथितं सर्वं कौमारं चरितं मुने ।।
शैवं च सुखदं दिव्यं किमन्यच्छ्रोतुमिच्छसि ।।५६।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे स्वामिकार्तिकचरितगर्भितशिवाशिवचरितवर्णनं नाम द्वादशोऽध्यायः ।। १२ ।।