शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ४ (कुमारखण्डः)/अध्यायः १३

← अध्यायः १२ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ४ (कुमारखण्डः)
अध्यायः १३
[[लेखकः :|]]
अध्यायः १४ →

सूत उवाच ।।
तारकारेरिति श्रुत्वा वृत्तमद्भुतमुत्तमम् ।।
नारदस्सुप्रसन्नोथ पप्रच्छ प्रीतितो विधिम् ।। १ ।।
।। नारद उवाच ।।
देवदेव प्रजानाथ शिवज्ञाननिधे मया ।।
श्रुतं कार्तिकसद्वृत्तममृतादपि चोत्तमम् ।। २ ।
अधुना श्रोतुमिच्छामि गाणेशं वृत्तमुत्तमम् ।।
तज्जन्मचरितं दिव्यं सर्वमंगलमंगलम् ।।३।।
सूत उवाच ।।
इत्याकर्ण्य वचस्तस्य नारदस्य महामुने ।।
प्रसन्नमानसो ब्रह्मा प्रत्युवाच शिवं स्मरन् ।। ४ ।।
ब्रह्मोवाच ।।
कल्पभेदाद्गणेशस्य जनिः प्रोक्ता विधेः परात्।।
शनिदृष्टं शिरश्छिन्नं संचितं गजमाननम्।।५।।
इदानीं श्वेतकल्पोक्ता गणेशोत्पत्तिरुच्यते ।।
यत्र च्छिन्नं शिरस्तस्य शिवेन च कृपालुना ।।६।।
संदेहो नात्र कर्तव्यः शंकरस्सूतिकृन्मुने ।।
स हि सर्वाधिपः शंभुर्निर्गुणस्सगुणो ऽपि हि ।।७।।
तल्लीलयाखिलं विश्वं सृज्यते पाल्यते तथा ।।
विनाश्यते मुनिश्रेष्ठ प्रस्तुतं शृणु चादरात् ।।८।।
उद्वाहिते शिवे चात्र कैलासं च गते सति ।।
कियता चैव कालेन जातो गणपतेर्भवः ।। ९ ।।
एकस्मिन्नेव काले च जया च विजया सखी ।।
पार्वत्या च मिलित्वा वै विचारे तत्पराभवत् ।। 2.4.13.१० ।।
रुद्रस्य च गणास्सर्वे शिवस्याज्ञापरायणाः ।।
ते सर्वेप्यस्मदीयाश्च नन्दिभृंगिपुरस्सराः ।।११।।
प्रमथास्ते ह्यसंख्याता अस्मदीयो न कश्चन ।।
द्वारि तिष्ठन्ति ते सर्वे शंकराज्ञापरायणाः ।। १२ ।।
ते सर्वेप्यस्मदीयांश्च तथापि न मिलेन्मनः ।।
एकश्चैवास्मदीयो हि रचनीयस्त्वयानघे ।। १३ ।।
ब्रह्मोवाच ।।
इत्युक्त्वा पार्वती देवी सखीभ्यां सुन्दरं वचः ।।
हितं मेने तदा तच्च कर्तुं स्माप्यध्यवस्यति।। १४ ।।
ततः कदाचिन्मज्जत्यां पार्वत्यां वै सदाशिवः ।।
नंदिनं परिभर्त्स्याथ ह्याजगाम गृहांतरम् ।।१५।।
आयांतं शंकरं दृष्ट्वाऽसमये जगदंबिका ।।
उत्तस्थौ मज्जती सा वै लज्जिता सुन्दरी तदा ।।१६।।
तस्मिन्नवसरे देवी कौतुकेनातिसंयुता ।।
तदीयं तद्वचश्चैव हितं मेने सुखावहम् ।। १७ ।।
एवं जाते सदा काले कदाचित्पार्वती शिवा ।।
विचिंत्य मनसा चेति परमाया परेश्वरी ।। १८ ।।
मदीयस्सेवकः कश्चिद्भवेच्छुभतरः कृती ।।
मदाज्ञया परं नान्यद्रेखामात्रं चलेदिह ।। १९ ।।
विचार्येति च सा देवी वपुषो मलसंभवम् ।।
पुरुषं निर्ममौ सा तु सर्वलक्षणसंयुतम् ।। 2.4.13.२० ।।
सर्वावयवनिर्द्दोषं सर्वावयव सुन्दरम् ।।
विशालं सर्वशोभाढ्यं महाबलपराक्रमम् ।।२१।।
वस्त्राणि च तदा तस्मै दत्त्वा सा विविधानि हि ।।
नानालंकरणं चैव बह्वाशिषमनुत्तमाम् ।1२२।।
मत्पुत्रस्त्वं मदीयोसि नान्यः कश्चिदिहास्ति मे ।।
एवमुक्तस्य पुरुषो नमस्कृत्य शिवां जगौ ।। २३ ।।
।। गणेश उवाच ।।
किं कार्यं विद्यते तेद्य करवाणि तवोदितम्।।
इत्युक्ता सा तदा तेन प्रत्युवाच सुतं शिवा ।।२४।।
शिवोवाच।।
हे तात शृणु मद्वाक्यं द्वारपालो भवाद्य मे ।।
मत्पुत्रस्त्वं मदीयोऽसि नान्यथा कश्चिदस्ति मे ।।२५।।
विना मदाज्ञां मत्पुत्र नैवायान्म द्गृहान्तरम् ।।
कोऽपि क्वापि हठात्तात सत्यमेतन्मयोदितम् ।। २६ ।।
ब्रह्मोवाच ।।
इत्युक्त्वा च ददौ तस्मै यष्टिं चातिदृढां मुने ।।
तदीयं रूपमालोक्य सुन्दरं हर्षमागता ।। २७ ।।
मुखमाचुंब्य सुप्रीत्यालिंग्य तं कृपया सुतम् ।।
स्वद्वारि स्थापयामास यष्टिपाणिं गणाधिपम् ।।२८।।
अथ देवीसुतस्तात गृहद्वारि स्थितो गणः ।।
यष्टिपाणिर्महावीरः पार्वतीहितकाम्यया ।। २९ ।।
स्वद्वारि स्थापयित्वा तं गणेशं स्वसुतं शिवा ।।
स्वयं च मज्जती सा वै संस्थितासीत्सखीयुता ।।2.4.13.३० ।।
एतस्मिन्नेव काले तु शिवो द्वारि समागतः ।।
कौतुकी मुनिर्शादूल नानालीलाविशारदः ।।३१।।
उवाच च शिवेशं तमविज्ञाय गणाधिपः ।।
मातुराज्ञां विना देव गम्यतां न त्वया धुना ।। ३२ ।।
मज्जनार्थं स्थिता माता क्व यासीतो व्रजाधुना ।।
इत्युक्त्वा यष्टिकां तस्य रोधनाय तदाग्रहीत् ।। ३३ ।।
तं दृष्ट्वा तु शिवः प्राह कं निषेधसि मूढधीः ।।
मां न जानास्यसद्बुद्धे शिवोहमिति नान्यथा ।। ३४ ।।
ताडितस्तेन यष्ट्या हि गणेशेन महेश्वरः ।।
प्रत्युवाच स तं पुत्रं बहुलीलश्च कोपितः ।। ३५।।
शिव उवाच ।।
मुर्खोसि त्वं न जानासि शिवोहं गिरिजापतिः ।।
स्वगृहं यामि रे बाल निषेधसि कथं हि माम् ।। ३६ ।।
इत्युक्त्वा प्रविशंतं तं महेशं गणनायकः ।।
क्रोधं कृत्वा ततो विप्र दंडेनाताडयत्पुनः ।। ३७ ।।
ततश्शिवश्च संक्रुद्धो गणानाज्ञापयन्निजान् ।।
को वायं वर्तते किंच क्रियते पश्यतां गणाः ।। ३८ ।।
इत्युक्त्वा तु शिवस्तत्र स्थितः क्रुद्धो गृहाद्बहिः ।।
भवाचाररतस्स्वामी बह्वद्भुतसुलीलकः।। ३९ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशोत्पत्तिवर्णनं नाम त्रयोदशोऽध्यायः ।। १३ ।।