शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)/एकादशः सर्गः(प्रत्यूषवर्णनम्)

← दशमः सर्गः(सुरतवर्णनम्) शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)
एकादशः सर्गः(प्रत्यूषवर्णनम्)
माघः
द्वादशः सर्गः(प्रयाणवर्णनम्) →


अथोत्तरार्धम् ।


एकादशः सर्गः।

 अथ प्रस्तुतं प्रभातवर्णनं प्रारभते-

  श्रुतिसमधिकमुच्चैः पञ्चमं पीडयन्तः
   सततमृषभहीनं भिन्नकीकृत्य षड्जम् ।
  प्रणिजगदुरकाकुश्रावकस्निग्धकण्ठाः
   परिणतिमिति रात्रेर्मागधा माधवाय ॥१॥

 श्रुतीति ॥ नास्ति कार्यस्येत्यकाकुः अविकृतध्वनिः । 'काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः' इत्यमरः । श्रावयतीति श्रावको दूरध्वनिः । स्निग्धो मधुरः कण्ठः स्वरो येषां ते अकाकुश्रावकस्निग्धकण्ठाः । रक्तकण्ठा इत्यर्थः । मागधा वैतालिकाः । श्रुतयो नाम षड्जादिस्वरारम्भकावयवाः शब्दविशेषाः। तदुक्तम्-'प्रथमश्रवणाच्छब्दः श्रूयते ह्रस्वमात्रिकः । सा श्रुतिः संपरिज्ञेया स्वरावयवलक्षणा ॥' इति । ताभिः श्रुतिभिः समधिकं बहुलं षड्जविशेषणं, पञ्चमविशेषणं वा, उभयोरपि तथात्वात् । तदुक्तम्- 'चतुश्चतुश्चतुश्चैव षड्जमध्यमपञ्चमाः । द्वे द्वे निषादगान्धारौ त्रीस्त्रीनृषभधैवतौ ॥' इति षड्जो मयूरस्य कूजितानुकारी स्वरविशेषः । 'षड्जं मयूरो वदति' इति लक्षणात् । तं षड्जं भिन्न एव भिन्नकस्तं कृत्वा भिन्नकीकृत्य । तत्कालनिषिद्धस्वरासंकीर्णं कृत्वेत्यर्थः । पञ्चमो नाम कोकिलकूजितानुकारी स्वरविशेषः । 'पिकः कूजति पञ्चमम्' इति लक्षणात् । तं पञ्चमं पीडयन्तः । तत्कालनिषेधात्परित्यजन्त इत्यर्थः । सततं वीणादिवाद्ययुक्तम् । 'ततं वीणादिकं वाद्यम्' इत्यमरः । ऋषभोऽपि वृषभनर्दितानुकारी स्वरभेद एव । 'गावस्त्वृषभभाषिणः' इति लक्षणात् । तेन हीनम् । तस्यापि तत्कालनिषिद्धत्वादित्यर्थः । सततं ऋषभहीनं च यथा तथा रात्रेः परिणतिम् । परिवृत्तिमित्यर्थः । इति वक्ष्यमाणप्रकारेणोच्चैर्यथा तथा माधवाय कृष्णाय । क्रियाग्रहणात्संप्रदानत्वम् । प्रणिजगदुः । गानेनाचख्युरित्यर्थः । नेर्गदनद-' (८।४।१७) इत्यादिना णत्वम् । पञ्चमादिनिषेधे भरतः । 'प्रभाते सुतरां निन्द्य ऋषभः पञ्चमोऽपि च । जनयेत्प्रधनं ह्युक्षा पञ्चत्वं पञ्चमोऽपि च ॥ पञ्चमस्य विशेषोऽयं कथितः पूर्वसूरिभिः । प्रगे प्रगीतो जनयेद्दशनस्य विपर्ययम् ॥' इति । वृत्त्यनुप्रासोऽलंकारः । अस्मिन्सर्गे मालिनी वृत्तम् । 'ननमयययुतेयं मालिनी भोगिलोकैः' इति लक्षणात् ॥१॥  अथ पूर्वश्लोके इतिशब्दपरामृष्टानपररात्रप्रभृत्युत्तरोत्तरक्रमभाविनः प्रभातवृत्तान्तानासर्गसमाप्ति वर्णयन्नाह-

  रतिरभसविलासाभ्यासतान्तं न याव-
   न्नयनयुगममीलत्तावदेवाहतोऽसौ ।
  रजनिविरतिशंसी कामिनीनां भविष्य-
   द्विरह विहितनिद्राभङ्गमुच्चैर्मृदङ्गः ॥२॥

 रतीति ॥ रतिरभसविलासानां सुरतसंभ्रमलीलानामभ्यासेनावर्तनेन तान्तं क्लान्तं नयनयुगं कर्तृ । कामिनामिति शेषः । यावन्नामीलन्न मुकुलीभवति तावदेवासौ रजनिविरतिशंसी निशावसानसूचक उच्चैर्मृदङ्गः कामिनीनां भविष्यता उत्तरक्षणभाविना विरहेण विहितः कृतो निद्राभङ्गो यस्मिन्कर्मणि तद्यथा तथा आहतस्ताडितः । अत्र विरहशब्देन सामर्थ्यात्तच्चिन्ता लक्ष्यते । अन्यथा असतः सांप्रतिकनिद्राभङ्गहेतुत्वायोगादिति । अत्र रतितान्तत्वरजनिविरतिशंसनयोर्विशेषणगत्या नेत्रनिमीलननिद्राभङ्गहेतुत्वात्पदार्थहेतुके काव्यलिङ्गे ॥ २ ॥

  स्फुटतरमुपरिष्टादल्पमूर्तेर्ध्रुवस्य
   स्फुरति सुरमुनीनां मण्डलं व्यस्तमेतत् ।
  शकटमिव महीयः शैशवे शार्ङ्गपाणे-
   श्चपलचरणकाब्जप्रेरणोत्तुङ्गिताग्रम् ॥ ३॥

 स्फुटेति ॥ अल्पमूर्तेर्दूरत्वात्सूक्ष्मबिम्बस्य ध्रुवस्यौत्तानपादेः । 'ध्रुव औत्तानपादिः स्यात्' इत्यमरः । उपरिष्टात्स्फुटतरमुज्ज्वलतरं व्यस्तं पर्यस्तमेतत्सुरमुनीनां सप्तर्षीणां मण्डलं शार्ङ्गपाणेः केशवस्य । कृष्णस्य तवेत्यर्थः । शैशवे प्रचलितस्य चपलस्य चरणकाब्जस्याल्पचरणारविन्दस्य । 'अल्पे' (५।३।८५) इत्यल्पार्थे कन्प्रत्ययः । प्रेरणया नोदनेनोत्तुङ्गीकृतमग्रं यस्य तत् । विपर्यासिताग्रमित्यर्थः । महीयो महत्तरं शकटमिव शकटाकारं शकटासुरशरीरमिव स्फुरति दीप्यते । उपमालंकारः । पुरा किल बाल्ये कृष्णः शकटरूपधारिणं शकटासुरं पादघातेन पातयामासेति पौराणिकी कथाऽत्रानुसंधेया ॥३॥

  प्रहरकमपनीय स्वं निदिद्रासतोच्चैः
   प्रतिपदमुपहूतः केनचिज्जागृहीति ।
  मुहुरविशदवर्णां निद्रया शून्यशून्यां
   दददपि गिरमन्तर्बुध्यते नो मनुष्यः॥४॥

 प्रहरकमिति ॥ स्वं स्वकीयम् । स्वपाल्यमित्यर्थः । प्रहर एव प्रहरको यामः । 'द्वौ यामप्रहरौ समौ' इत्यमरः । तमपनीय नीत्वा निदिद्रासता निद्रातुमिच्छता । निद्रातेः सन्नन्ताल्लटः शत्रादेशः । केनचिदतीतप्रहरपालेनेत्यर्थः । जागृहि प्रबुध्यस्वेति प्रतिपदं पदे पदे उच्चैरुपहूतो मनुष्योऽनन्तरयामिको मुहुर्निद्रया अविशदवर्णामस्पष्टाक्षरामत एव शून्यशून्यां शून्यप्रकाराम् । अनर्थप्रायामित्यर्थः । 'प्रकारे गुणवचनस्य' (८।१।१२) इति द्विर्भावः 'कर्मधारयवदुत्तरेषु' (८।१।११) इति कर्मधारयवद्भावादवयवसुपो लुक् गिरमयमहं जागर्मीति प्रतिवाचं दददपि प्रयच्छन्नपि । 'नाभ्यस्ताच्छतुः' (७।११७८) इति नुमागमप्रतिषेधः । अन्त: अन्तःकरणे नो बुध्यते न जागर्ति । बुध्यतेर्दैवादिकात्कर्तरि लट् । अत्राप्रबोधप्रतिवचनदानयोर्विरोधे अपिशब्दः । निद्राह्वानाभ्यां तत्समाधानाद्विरोधाभासोऽलंकारः ॥४॥

  विपुलतरनितम्बाभोगरुद्धे रमण्या:
   शयितुमनधिगच्छञ्जीवितेशोऽवकाशम् ।
  रतिपरिचयनश्यन्नैद्रतन्द्रः कथंचि-
   द्गमयति शयनीये शर्वरी किं करोतु ॥५॥

 विपुलेति ॥ रमण्या विपुलतरस्य नितम्बस्याभोगेन विस्तारेण रुद्धे आक्रान्ते शयनीये शयितुमवकाशमनधिगच्छन्नलभमानो जीवितेशः प्रेयान् रतिपरिचयेन पुनःपुनः सुरतावृत्त्या नश्यन्ती निवर्तमाना निद्राया इयं नैद्री निद्राप्रयुक्ता तन्द्रा आलस्यं यस्य स तथाभूतः सन् शर्वरी कथंचिद्गमयति कृच्छ्रेण नयति । किं करोतु किमन्यत्कुर्यात् । शयनानवकाशे सुरतमेव कालयापनोपाय इति तत्रैव प्रवृत्त इति भावः । अत्र शयनीयस्येदृग्रोधासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिरलंकारः। तादृग्रोधस्य विशेषणगत्या शयनावकाशानधिगमहेतुत्वात्काव्यलिङ्गभेद इति संकरः ॥ ५॥

  क्षणशयितविबुद्धाः कल्पयन्तः प्रयोगा-
   नुदधिमहति राज्ये काव्यवद्दुर्विगाहे ।
  गहनमपररात्रप्राप्तबुद्धिप्रसादाः
   कवय इव महीपाश्चिन्तयन्त्यर्थजातम् ॥ ६॥

 क्षणेति ॥ क्षणं शयिताः सुरतश्रमापनोदाय विसुप्ता विबुद्धाः तदैव प्रबुद्धाः । यथाकालं प्रबुद्धत्वादिति भावः । क्षणशयितविबुद्धाः । स्नातानुलिप्तवत् 'पूर्वकाल -' (२।१।४९) इति समासः । महीपाः कवय इव अपररात्रे । रात्रेः पश्चिमयाम इत्यर्थः । 'पूर्वापर-' (२।२।१) इत्यादिना एकदेशिसमासे समासान्तोऽच् । 'रात्राह्नाहाः पुंसि' (२।४।२९) इति पुंस्त्वम् । तत्र प्राप्तबुद्धिप्रसादा लब्धबुद्धिप्रकाशाः सन्तः उदधिमहति समुद्रगम्भीरे । एकत्र तुरगादिभिरपरत्र रसभावादिभिश्चेति भावः । अत एव दुर्विगाहे दुष्प्रवेशे राज्ये काव्ये इव काव्यवत् । 'तत्र तस्येव' (५।१।११६) इति वतिप्रत्ययः । प्रयोगान् सामाद्युपायानुष्ठानानि, अन्यत्रार्थगुणसाधुशब्दगुम्फान् कल्पयन्तस्तर्कयन्तः 'ब्राह्मे मुहूर्त उत्थाय चिन्तयेदात्मनो हितम्' (याज्ञ० आचा०-अ० ११५) इति स्मरणादिति भावः । गहनं दुष्प्रापमन्यत्र दुर्दर्शमर्थजातं पुरुषार्थजातम् । त्रिवर्गमित्यर्थः । अन्यत्र वाच्यलक्ष्यव्यङ्ग्यरूपमभिधेयजातं चिन्तयन्ति विचारयन्ति । इवशब्दस्योपलक्षणत्वात् काव्यवदिति वतिप्रत्ययेऽप्यनेकशब्दार्थगता श्रौती पूर्णा वाक्यार्थोपमा काव्यवदिति तद्धितगता, कवय इति समासगता चेति संकीर्णा ॥ ६॥

  क्षितितटशयनान्तादुत्थितं दानपङ्क-
   प्लुतबहुलशरीरं शाययत्येष भूयः ।
  मृदुचलदपरान्तोदीरितान्दूनिनादं
   गजपतिमधिरोहः पक्षकव्यत्ययेन ॥७॥

 क्षितीति ॥ क्षितितटं भूतलमेव शयनान्तः शयनस्थानं तस्मादुत्थितम् । सुप्तोत्थितमित्यर्थः । अत एव दानपङ्कप्लुतबहुलशरीरं मदकर्दमोक्षितमहाकायं गजपतिमेषोऽधिरोहतीत्यधिरोह आरोहणः । पचाद्यच् । मृदु मन्दं चलता अपरान्तेन पश्चिमपादेनोदीरित उत्पादितोऽन्दूनिनादः शृङ्खलारवो यस्मिन्कर्मणि तद्यथा तथा । पक्ष एव पक्षकः पार्श्वः । 'पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु' इति वैजयन्ती । तस्य व्यत्ययेन । पार्श्वान्तरेणेत्यर्थः। भूयः शाययति शयनं कारयति । 'गतिबुद्धि-' (१।४।५२) इत्यादिना अणि कर्तुः कर्मत्वम् । स्वभावोक्तिरलंकारः ॥ ७॥

  द्रुततरकरदक्षाः क्षिप्तवैशाखशैले
   दधति दधनि धीरानारवान्वारिणीव ।
  शशिनमिव सुरौघाः सारमुद्धर्तुमेते
   कलशिमुदधिगुर्वीं बल्लवा लोडयन्ति ॥८॥

 द्रुतेति ॥ द्रुततरकरा अतिलघुहस्तास्ते च ते दक्षाश्च बल्लवा गोपालाः । 'आभीरः स्यान्महाशूद्रो गोपालो बल्लवस्तथा' इति वैजयन्ती । विशाखा प्रयोजनमस्येति वैशाखो मन्थनदण्डः । 'वैशाखमन्थमन्थानमन्थानो मन्थदण्डके' इत्यमरः । 'विशाखाषाढादण्मन्थदण्डयोः (५।१।११०) इत्यण्प्रत्ययः । वैशाखः शैल इवेत्युपमितसमासः । साहचर्याक्षिप्तो वैशाखशैलो यस्मिन् । धीरान् गम्भीरानारवान् दधति दधनि दध्नि । 'विभाषा ङिश्योः' (६।४।१३६) इति विकल्पादल्लोपाभावः । वारिणीव सुरौघाः शशिनमिव सारं नवनीतमुद्धर्तुमुत्क्रष्टुमुदधिरिव गुर्वीम् । 'उपमानानि सामान्यवचनैः' (२।१।५५) इति समासः । तां कलशिं कुम्भीमेते लोडयन्ति मथ्नन्ति । एषापि पूर्वतरवत्पूर्णा वाक्यार्थोपमा वाक्यसमाससंकीर्णा च ॥ ८॥

  अनुनयमगृहीत्वा व्याजसुप्ता पराची
   रुतमथ कुकवाकोस्तारमाकर्ण्य कल्ये ।
  कथमपि परिवृत्ता निद्रयान्धा किल स्त्री
   मुकुलितनयनैवाश्लिष्यति प्राणनाथम् ॥९॥

 अनुनयमिति ॥ अनुनयं प्रियप्रार्थनामगृहीत्वा नाङ्गीकृत्य पराची पराङ्मुखी व्याजेन कपटेन सुप्ता स्त्री । अथ कल्ये प्रभाते । 'प्रत्यूषोऽहर्मुखं कल्यम्' इत्यमरः । कृकवाकोः कुक्कुटस्य । 'कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः' इत्यमरः । 'कृके वचः कश्च' (उ० ६) इत्युण्प्रत्ययः । तारमुच्चै रुतं कूजितमाकर्ण्य कथमपि गात्रजृम्भणादिव्याजेन परिवृत्ता संमुखीभूता निद्रयान्धा किल अजानतीव मुकुलितनयनैव मीलिताक्षी सत्येव प्राणनाथमाश्लिष्यति । एषा कलहान्तरिता ॥ ९॥

  गतमनुगतवीणैरेकतां वेणुनादैः
   कलमविकलतालं गायकैर्बोधहेतोः ।
  असकृदनवगीतं गीतमाकर्णयन्तः
   सुखमुकुलितनेत्रा यान्ति निद्रां नरेन्द्राः ॥१०॥

 गतमिति ॥ अनुगतवीणैरनुसृतवीणैर्वीणासंवादिभिर्वेणुनादैर्वंशस्वरैः एकतामेकरूपतां गतं कलमव्यक्तमधुरं अविकलोऽविसंवादी तालः कांस्यादितालो यस्य तत् बोध एव हेतुस्तस्य बोधहेतोः बोधकारणेन । बोधनार्थमित्यर्थः । फलस्यापि कारणत्वमिच्छाद्वारा स्वर्गादिवत्फलरागस्य तत्साधनप्रवृत्तिहेतुत्वात्षष्ठी । गायकैर्वैतालिकैरनवगीतमगर्हितम् । 'अवगीतं तु निर्वादे मुहुर्दुष्टेऽपि गर्हिते' इति विश्वः । गीतं गीयमानं वस्तु आवृत्तिर्वा । गीतशब्दस्य गीतं गानं समाकर्णयन्तो नरेन्द्राः सुखेन गानसुखेन मुकुलितनेत्रा निमीलिताक्षाः सन्तो निद्रां यान्ति भजन्ति । वृत्त्यनुप्रासोऽलंकारः॥ १० ॥

  परिशिथिलितकर्णग्रीवमामीलिताक्षः
   क्षणमयमनुभूय स्वप्नमूर्ध्वज्ञुरेव ।
  रिरसयिषति भूयः शष्पमग्रे विकीर्णं
   पटुतरचपलौष्ठः प्रस्फुरत्प्रोथमश्वः ॥११॥

 परीति ॥ अयमश्वः परिशिथिलितं त्रस्तमुक्तं कर्णग्रीवं कर्णौ च ग्रीवा च यस्मिन्कर्मणि तद्यथा तथा आमीलिताक्षः ऊर्ध्वे जानुनी यस्य स ऊर्ध्वज्ञुः । ऊर्ध्वजानुस्तिष्ठन्नित्यर्थः । 'ऊर्ध्वज्ञुरूर्ध्वजानुः स्यात्' इत्यमरः । 'ऊर्ध्वाद्विभाषा' (५।४।१३०) इति जानुशब्दस्य ज्ञुरादेशः । क्षणं स्वप्नं निद्रामनुभूय । उत्तमाश्वलक्षणमेतत् । भूयः पुनरपि पटुतरौ ग्रासग्रहणसमर्थौ चपलौ चञ्चलौ चोष्ठौ यस्य स सन् प्रस्फुरत्प्रोथं प्रस्फुरमाणघोणं यथा तथा । 'घोणा तु प्रोथमस्त्रियाम्' इत्यमरः । अग्रे विकीर्णं क्षिप्तं शष्पं घासम् । 'शष्पं बालतृणं घासः' इत्यमरः । रिरसयिषति रसयितुमास्वादयितुमिच्छति । रसयतेः सन्नन्ताल्लट् । स्वभावोक्तिरलंकारः । 'स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम्' इति ॥ ११ ॥

  उदयमुदितदीप्तिर्याति यः संगतौ मे
   पतति न वरमिन्दुः सोऽपरामेष गत्वा ।

  स्मितरुचिरिव सद्यः साभ्यसूयं प्रभेति
   स्फुरति विशदमेषा पूर्वकाष्ठाङ्गनायाः ॥ १२ ॥

 उदयमिति ॥ य इन्दुः मे मम संगतावुदितदीप्तिः प्रवृद्धद्युतिः सन् उदयमुदयाद्रिम् , अभ्युदयं च याति स इन्दुरेषोऽपरां पश्चिमाशां, पराङ्गनां च गत्वा पतत्यस्तमेति, पातित्यं च गच्छति । न वरम् । अनर्हमित्यर्थः । इति सद्यः साभ्यसूयं यथा तथा पूर्वकाष्ठा प्राची सैवाङ्गना, पूर्वनायिका च गम्यते । तस्याः स्मितरुचिर्मन्दहासकान्तिरिवैषा प्रभा विशदं निर्मलं स्फुरति प्रकाशते । प्राच्यामीषद्विशदा प्रभा प्रादुरभूदित्यर्थः । अत्र प्राचीगतप्राभातिकप्रभायामिन्दोः पराङ्गनासङ्गपातित्यनिमित्ता चेतनधर्मस्मितरुचित्वोत्प्रेक्षा पूर्वकाष्ठाङ्गनाया इति रूढिव्यूढेत्यनयोरङ्गाङ्गिभावेन संकरः ॥ १२ ॥

  चिररतिपरिखेदप्राप्तनिद्रासुखानां
   चरममपि शयित्वा पूर्वमेव प्रबुद्धाः ।
  अपरिचलितगात्राः कुर्वते न प्रियाणा-
   मशिथिलभुजचक्राश्लेषभेदं तरुण्यः ॥१३॥

 चिरेति ॥ चरममपि शयित्वा पश्चात्सुप्त्वापि पूर्वमेव प्रबुद्धाः । 'सुप्ते पश्वाच्च या शेते पूर्वमेव प्रबुध्यते । नान्यं कामयते चित्ते सा स्त्री ज्ञेया पतिव्रता ॥' इति स्मरणादिति भावः । तथापि तरुण्योऽपरिचलितगात्रा अस्पन्दवपुष्काः सत्यः चिररतिपरिखेदेन प्राप्तनिद्रासुखानां प्रियाणामशिथिलो गाढो यो भुजचक्रेण परस्परभुजवलयेनाश्लेषस्तस्य भेदं विश्लेषं विस्रंसनं न कुर्वते किंत्वाश्लिष्यैव स्थिताः, अन्यथा तन्निद्राभङ्गः स्यात् । 'शयानं न प्रबोधयेत्' (याज्ञ० आचा०-अ० १३८) इति निषेधास्कन्दभयादिति भावः । रतिश्रमोऽत्र संचारी तदनुभावो निद्गा ॥१३॥

  कृतधवलिमभेदैः कुङ्कुमेनेव किंचि-
   न्मलयरुहरजोभिर्भूषयन्पश्चिमाशाम् ।
  हिमरुचिररुणिम्ना राजते रज्यमानै-
   र्जरठकमलकन्दच्छेदगौरैर्मयूखैः ॥ १४ ॥

 कृतेति ॥ हिमरुचिश्चन्द्रः अरुणिम्नाऽस्तमयरागेण हेतुना रज्यमानैर्लोहितायमानैः। रञ्जेर्दैवादिकात्कर्तरि शानच् । 'अनिदिताम्-' (६।४।२४) इति नलोपः । 'त्रीणि रज्यति राजति लोहितायति चात्मन' इति भट्टमल्लः । जरठस्य परिणतस्य कमलकन्दस्य छेदा इव गौराः शुभ्राः । छेदग्रहणं धावल्यार्थम् । 'गौरः पीते सितेऽरुणः' इति विश्वः । तैर्मयूखैः कुङ्कुमेन किंचित्कृतो धवलिमभेदो धावल्यभङ्गो येषां तैरीषद्भग्नस्वधावल्यैः मलयरुहरजोभिश्चन्दनरेणुभिरिव पश्चिमाशां

प्रेयसीमिवेति भावः । भूषयन् राजते । उपमालंकारः ॥ १४ ॥

  दधदसकलमेकं खण्डितामानमद्भिः
   श्रियमपरमपूर्णामुच्छ्वसद्भिः पलाशैः ।
  कलरवमुपगीते षट्पदौघेन धत्तः
   कुमुदकमलषण्डे तुल्यरूपामवस्थाम् ॥ १५ ॥

 दधदिति ॥ एकं कुमुदषण्डमानमद्भिर्मुकुलीभवद्भिः पलाशैर्दलैरसकलमधू खण्डिताम् । क्षीयमाणामित्यर्थः । श्रियं दधत् । अपरं कमलषण्डमुच्छ्वसद्भिर्विकसद्भिः पलाशैरपूर्णां वर्धमानां श्रियं दधत् । षट्पदौघेन कलरवं यथा तथा उपगीते । उभे अपीत्यर्थः । कुमुदकमलषण्डे कुमुदानां कमलानां च षण्डे कदम्बे । 'कदम्बे षण्डमस्त्रियाम्' इत्यमरः । तुल्यरूपामवस्थां धत्तः दधाते । अत्र क्षयवृद्ध्योरर्थप्रवृत्तेरैकरूप्ये कस्य क्षयः कस्य वा वृद्धिरिति दुर्ग्रहमिति भावः । अत्रोभयविशेषणानां तुल्यावस्थाधारणहेतुकत्वात्काव्यलिङ्गम् । तेन द्वयोः क्रमेणोपमानोपमेयभावरूपोपमेयोपमा व्यज्यते ॥ १५॥

  मदरुचिमरुणेनोद्गच्छता लम्भितस्य
   त्यजत इव चिराय स्थायिनीमाशु लज्जाम् ।
  वसनमिव मुखस्य स्रंसते संप्रतीदं
   सितकरकरजालं वासवाशायुवत्याः ॥ ६१ ॥

 मदेति ॥ संप्रति सितकरस्येन्दोरिदं करजालं कर्तृ उद्गच्छता उद्यता अरुणेनानूरुणा मदरुचिं तत्तुल्यां रुचिम् । अरुणिमानमित्यर्थः । अत एव निदर्शनालंकारः । लम्भितस्य प्रापितस्य । लभेर्ण्यन्तात्कर्मणि क्तः । 'रभेरशब्लिटोः' (७।१।६३) इति नुमागमः । अत एव चिराय स्थायिनी लज्जामाशु त्यजत इव । मुखप्रकाशनादियमुत्प्रेक्षा । वासवाशा प्राची तस्या एव युवत्या मुखस्य प्राग्भागस्याननस्य च वसनमिवावगुण्ठनपट इव स्रंसते गलति । रक्ताः स्त्रियः पाटलमुखा निर्लज्जाः स्रस्तवस्त्राश्च भवन्तीति भावः । अत्र मुखस्येति प्राग्भागवदनयोरभेदाध्यवसायाच्छ्लेषमूलातिशयोक्तिः तया पूर्वोक्तनिदर्शनोत्प्रेक्षाभ्यां चानुगृहीता वसनमिवेत्युत्प्रेक्षेति संकरः ॥ १६ ॥

  अविरतरतलीलायासजातश्रमाणा-
   मुपशममुपयान्तं निःसहेऽङ्गेऽङ्गनानाम् ।
  पुनरुषसि विविक्तैर्मातरिश्वावचूर्ण्य
   ज्वलयति मदनाग्निं मालतीनां रजोभिः॥१७॥

 अविरतेति ॥ अविरतरतलीलायासेन अविच्छिन्नसुरतक्रीडाप्रयासेन जातश्रमाणामङ्गनानां संबन्धिनि निःसहत इति निःसहेऽक्षमे । पचाद्यच् । अङ्गे उपशममुपयान्तं शाम्यन्तं मदन एवाग्निस्तं पुनरुषसि मातर्यन्तरिक्षे श्वयति वर्धत इति मातरिश्वा । 'श्वन्नुक्षन्-' (उ० १५७) इत्यादिना औणादिको निपातः । विविक्तैरमलैरनार्द्रैश्च मालतीनां जातीकुसुमानाम् । 'सुमना मालती जातिः' इत्यमरः । रजोभिः परागैः । करीषैरिवेति भावः । अवचूर्ण्यावध्वस्य । संयुज्येति भावः । ज्यलयत्युद्दीपयति । प्राभातिकमालतीवातस्पर्शात्पुनरुद्बुद्धो मदन इत्यर्थः ॥ १७ ॥

  अनिमिषमविरामा रागिणां सर्वरात्रं
   नवनिधुवनलीलाः कौतुकेनातिवीक्ष्य ।
  इदमुदवसितानामस्फुटालोकसंप-
   न्नयनमिव सनिद्रं घूर्णते दैपमर्चिः ॥ १८ ॥

 अनिमिषमिति ॥ इदं पुरोवर्ति अस्फुटा सूर्यतेजोभिभवान्मन्दायमाना आलोकसंपत् प्रकाशसंपत्तिर्यस्य तत् , अन्यत्र निद्राभिभवादनुद्बुद्धविषयावधानशक्तिकं दीपस्येदं दैपमर्चिज्वाला । 'ज्वालाभासोनपुंस्यर्चिः' इत्यमरः । सर्वस्यां रात्राविति सर्वरात्रम् । 'पूर्वकाल-' (२।१।१४९) इत्यादिना समासः । 'अहःसर्व-' (५।४८७) इत्यादिना समासान्तः 'रात्राह्नाहाः पुंसि' (२।४।२९) इति पुंलिङ्गता । अत्यन्तसंयोगे द्वितीया । अविरामा अविच्छिन्नाः रागिणां कामिनां, कामिनीनां च । 'पुमान्स्त्रिया' (१।२।६७) इत्येकशेषः । नवा निधुवनलीलाः सुरतविलासान् । 'व्यवायो ग्राम्यधर्मश्च रतं निधुवनं च सः' इति कोशः । कौतुकेन न निमिषतीत्यनिमिषं यथा तथा । पचाद्यच् । कुटादित्वान्न गुणः । अतिवीक्ष्य अत एव सनिद्रमुदवसितानां गृहाणां संबन्धि । 'गृहं गेहोदवसितं वेश्म सद्म निकेतनम्' इत्यमरः । नयनमिवेत्युत्प्रेक्षा । घूर्णते भ्रमति ॥ १८ ॥

  विकचकमलगन्धैरन्धयन्भृङ्गमालाः
   सुरभितमकरन्दं मन्दमावाति वातः।
  प्रमदमदनमाद्यद्यौवनोद्दामरामा-
   रमणरभसखेदस्वेदविच्छेददक्षः॥ १९ ॥

 विकचेति ॥ प्रमदमदनाभ्यां हर्षमन्मथाभ्यां माद्यन्तीनां यौवनेनोद्दामानां च रामाणां स्त्रीणां रमणरभसखेदेन सुरतसंरम्भश्रमेण यः स्वेदस्तस्य छेदे हरणे दक्षो वातः प्रभातमारुतः विकचकमलगन्धैर्भृङ्गमाला अन्धयन्नन्धाः कुर्वन् मोहयन् । अन्धयतेः 'तत्करोति-' (ग०) इति ण्यन्ताल्लटः शत्रादेशः। सुरभितः सुरभीकृतो मकरन्दो यस्मिन्कर्मणि तद्यथा तथा मन्दमावाति प्रचलति । अत्र वृत्यनुप्रासोऽलंकारः । 'श्लेषः प्रसादः समता माधुर्यं सुकुमारता । अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः ॥' इति आचार्योक्ता दश गुणाः प्रायेणात्र संभवन्तीति निपुणैरुन्नेयाः ॥ १९॥

  लुलितनयनताराः क्षामवक्रेन्दुबिम्बा
   रजनय इव निद्राक्लान्तनीलोत्पलाक्ष्यः ।

  तिमिरमिव दधानाः स्रंसिनः केशपाशा-
   नवनिपतिगृहेभ्यो यान्त्यमूर्वारवध्वः ॥ २० ॥

 लुलितेति ॥ लुलितनयनताराः निद्राकलुषिताक्षिकनीनिकाः, अन्यत्राप्रसन्ननक्षत्राः । 'ऋक्षाक्षिमध्ययोस्तारा' इति विश्वः । वाणीन्दुबिम्बानीवेत्युपमितसमासः । तिमिरमिवेत्यादिलिङ्गात् , अन्यत्र वाणीवेन्दुबिम्बानि तानि क्षामाणि सुरतप्रभाताभ्यां म्लानानि यासां ताः निद्रया स्वप्न मुकुलीभावेन क्लान्तानि नीलोत्पलानि अक्षीणीव नीलोत्पलानीवाक्षीणि यासां ताः स्रंसिनः केशपाशांस्तिमिरमिवान्यत्र तु तानिव तिमिरं दधानाः अत एव रजनय इव स्थिताः । अमूर्वारवध्वो वेश्याः । 'वारस्त्री गणिका वेश्या' इत्यमरः । अवनिपतिगृहेभ्यो यान्ति निर्यान्ति । श्लिष्टविशेषणेयमुपमेत्येके । श्लेष एवायमुभयविषयः । उपमा तु प्रतिभामात्रसारा इत्यन्ये ॥ २० ॥

  शिशिरकिरणकान्तं वासरान्तेऽभिसार्य
   श्वसनसुरभिगन्धिः सांप्रतं सत्वरेव ।
  व्रजति रजनिरेषा तन्मयूखाङ्गरागैः
   परिमलितमनिन्द्यैरम्बरान्तं वहन्ती ॥ २१ ॥

 शिशिरेति ॥ एषा रजनिर्वासरान्ते रात्रौ शिशिरकिरणश्चन्द्रस्तमेव कान्तमभिसार्याभिसृत्य । स्वार्थे णिच् । सांप्रतं श्वसनैस्तत्कालवातैर्निश्वासैश्च सुरभिगन्धिः सुगन्धिः अनिन्द्यैर्मनोहरैर्मयूखैरेवाङ्गरागैः परिमलितं व्याप्तं वासितं चाम्बरान्तं नभःप्रान्तं वस्त्रान्तं च वहन्ती भजन्ती सत्वरेव व्रजति । अत्रेन्दुतन्मयूखादीनां कान्तत्वाङ्गरागत्वादिरूपणावगमादेकदेशविवर्ति रूपकम् ॥ २१ ॥

  नवकुमुदवनश्रीहासकेलिप्रसङ्गा-
   दधिकरुचिरशेषामप्युषां जागरित्वा ।
  अयमपरदिशोऽङ्के मुञ्चति स्रस्तहस्तः
   शिशयिषुरिव पाण्डुं म्लानमात्मानमिन्दुः ॥ २२ ॥

 नवेति ॥ अधिकरुचिरयमिन्दुर्नवकुमुदवनश्रियो विकासः परिहासश्च स एव केलिस्तस्यां प्रसङ्गादासङ्गादशेषामप्युषां सकलामपि रात्रिम् । 'विभावरी नक्तमुषा शर्वरी' इति विश्वः । अत्यन्तसंयोगे द्वितीया । जागरित्वा जागरणं कृत्वा शिशयिषुः शयितुमिच्छुरिव । शेतेः सन्नन्तादुप्रत्ययः । स्रस्तो हस्तो नक्षत्रविशेषः, करश्च यस्य स सन् अपरदिशः पश्चिमदिशोऽङ्के समीपे, उत्सङ्गे च पाण्डुं पाण्डुवर्णं म्लानं लान्तमात्मानं स्वशरीरं मुञ्चति । दक्षिणनायकः कयाचित्सह विहृत्य श्रान्तः कस्याश्चिदङ्के शेते तद्वदिति भावः । अत्र प्रहासकेल्यङ्ककरस्रसनादिव्यवहारादिन्दुकुमुदवनश्रीपश्चिमानां नायकत्वप्रतीतेः समासोक्तिरलंकारः ।

विशेषणसाम्यं तूपलक्षणमित्यलंकारसर्वस्वकारः । सा चोत्प्रेक्षासंकीर्णा ॥ २२ ॥

  सरभसपरिरम्भारम्भसंरम्भभाजा
   यदधिनिशमपास्तं वल्लभेनाङ्गनायाः ।
  वसनमपि निशान्ते नेष्यते तत्प्रदातुं
   रथचरणविशालश्रोणिलोलेक्षणेन ॥ २३ ॥

 सरभसेति ॥ अधिनिशं निशायाम् । विभक्त्यर्थेऽव्ययीभावः । सरभसः सत्वरः परिरम्भ एवारम्भो व्यापारस्तत्र संरम्भस्तद्भाजा वल्लभेनाङ्गनायाः संबन्धि यद्वसनमपास्तं तद्वसनं निशान्ते प्रभातेऽपि रथचरणं चक्रं तद्वद्विशालायां श्रोणौ लोलं सतृष्णमीक्षणं यस्य तेन वल्लभेन प्रदातुं नेष्यते । अत्र वसनाप्रतिदानस्य श्रोणीक्षणलौल्यहेतुकत्वात्काव्यलिङ्गम् ॥ २३ ॥

  सपदि कुमुदिनीभिर्मीलितं हा क्षपापि
   क्षयमगमदपेतास्तारकास्ताः समस्ताः ।
  इति दयितकलत्रश्चिन्तयन्नङ्गमिन्दु-
   र्वहति कृशमशेषं भ्रष्टशोभं शुचेव ॥ २४ ॥

 सपदीति ॥ सपदि सद्यः कुमुदिनीभिर्मीलितम् । भावे क्तः । हा हन्त क्षपा रात्रिरपि क्षयमगमत् । ताः समस्तास्तारका अपेता इति शुचा शोकेन चिन्तयन्दयितकलत्रः प्रियभार्य इन्दुः कृशमशेषं निःशेषं यथा तथा भ्रष्टशोभं नष्टप्रभमङ्गं वहति । कलत्रप्रियस्य युगपत्सकलकलत्रनाशे महान् शोको भवतीति भावः । अत्रेन्दोः प्रभातप्रयुक्ताङ्गकार्यशोभाभ्रंशयोर्युगपत्कुमुदिन्यादिसकलकलत्रनाशनिमित्तहेतुकत्वमुत्प्रेक्ष्यते ॥ २४ ॥

  व्रजति विषयमक्ष्णामंशुमाली न याव-
   त्तिमिरमखिलमस्तं तावदेवारुणेन
  परपरिभवि तेजस्तन्वतामाशु कर्तुं
   प्रभवति हि विपक्षोच्छेदमग्रेसरोऽपि ॥ २५ ॥

 व्रजतीति ॥ अंशुमाली सूर्यः । व्रीह्यादित्वादिनिप्रत्ययः । यावदक्ष्णां विषयं भूमिं न व्रजति । न दृश्यत इत्यर्थः । तावदेवारुणेनानूरुणाखिलं तिमिरमस्तमपास्तं परेषां परिभवि तिरस्कारकम् । 'जिदृक्षि-' (३।२।१५७) इत्यादिना इनिप्रत्ययः । तेजः प्रतापं तन्वतां प्रथयतामग्रे सरतीत्यग्रेसरः पुरःसरोऽपि । 'पुरोऽग्रतोऽग्रेषु सर्तेः' (३।२।१८) इति टप्रत्ययः । विपक्षस्य शत्रोरुच्छेदं कर्तुमाशु प्रभवति शक्नोति हि । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ २५ ॥

  विगततिमिरपङ्कं पश्यति व्योम याव-
   द्धुवति विरहखिन्नः पक्षती यावदेव ।

  रथचरणसमाह्वस्तावदौत्सुक्यनुन्ना
   सरिदपरतटान्तादागता चक्रवाकी ॥ २६ ॥

 विगतेति ॥ विरहेण खिन्नः रथचरणेन चक्रेण समाह्वस्तुल्याख्यः, तस्यैव समाह्वा समाख्या यस्येति वा रथचरणसमाह्वः । चक्रवाक इत्यर्थः । 'कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः' इत्यमरः । तिमिरं पङ्कमिवेत्युपमितसमासः । तद्विगतं यस्मात्तद्व्योम यावत्पश्यति, यावदेव पक्षती पक्षमूले । 'स्त्री पक्षतिः पक्षमूलम्' इत्यमरः । 'पक्षात्तिः' (५।२।२५) इति तिप्रत्ययः । धुवति उत्पतितुं धुनोति । 'धू विधूनने' इति धातोस्तौदादिकत्वादुवङादेशः । तावदेवोत्पतनात्प्रागेव चक्रवाकी चक्रवाकस्य स्त्री । 'जातेरस्त्रीविषयादयोपधात्' (४।५।६३) इति ङीष् । औत्सुक्येनोत्कण्ठया नुन्ना प्रेरिता सती सरितोऽपरतटान्तात्परभूमेः सकाशादागता । एतेनानयोरुन्मनस्कता समश्चानुराग इत्युक्तम् । अत्र रागौत्सुक्ययो रसभावयोस्तिर्यग्गतत्वेनाभासयोर्निबन्धनादूर्जस्वी नामालंकारः । 'रसभावतदाभासप्रशमानां निबन्धने । रसवत्प्रेय ऊर्जस्विसमाहितानि' इति लक्षणात् ॥ २६ ॥

  मुदितयुवमनस्कास्तुल्यमेव प्रदोषे
   रुचमदधुरुभय्यः कल्पिता भूषिताश्च ।
  परिमलरुचिराभिर्न्यक्कृतास्तु प्रभाते
   युवतिभिरुपभोगान्नीरुचः पुष्पमालाः ॥ २७ ॥

 मुदितेति ॥ प्रदोषे रात्रौ मुदितानि यूनां मनांसि याभिस्ताः मुदितयुवमनस्काः । 'उरःप्रभृतिभ्यः कप्' (५।४।१५१)। कल्पिता उपभोगाय संपादिता भूषिता वलयवसनादिभिरुपस्कृताश्च उभय्य उभयविधा युवतयः पुष्पमालाश्च । 'उभादुदात्तो नित्यम्' (५।२।४४) इति उभस्यायजादेशः 'टिड्ढाणञ्-' (४।१। १५) इत्यादिना ङीप् । तुल्यमेवाविशेषं यथा तथा रुचं शोभामदधुर्धृतवत्यः । धाञो लिट् । प्रभाते तूपभोगान्नीरुचो निष्प्रभाः पुष्पमालाः परिमलेन विमर्दगन्धेन रुचिराभिरुपभोगादधिसुरभिभिर्युवतिभिर्न्यक्कृतास्त्यक्ता अवधीरिताश्च । अत्र पुष्पमालाभ्यो युवतीनां साम्योक्तिपूर्वकविमर्दसहत्वेनाधिक्योक्तेर्व्यतिरेकः ॥ २७ ॥

  विलुलितकमलौघः कीर्णवल्लीवितानः
   प्रतिवनमवधूताशेषशाखिप्रसूनः ।
  क्वचिदयमनवस्थः स्थास्नुतामेति वायु-
   र्वधुकुसुमविमर्दोद्गन्धिवेश्मान्तरेषु ॥ २८ ॥

 विलुलितेति ॥ वने वने प्रतिवनम् । याथार्थ्येऽव्ययीभावः। विलुलिता व्यालोलिताः कमलौघा येन सः। कीर्णा विक्षिप्ता वल्लीनां मालत्यादीनां विताना विस्तारा येन सः । अवधूतान्यशेषशाखिनां बकुलचम्पकादीनां प्रसूनानि येन सः । तथापि क्वचित्पूर्वोक्तकमलवनादौ कुत्रापि नास्त्यवस्था स्थितिरस्येत्यनवस्थः स्थितिमप्राप्तोऽयं वायुर्वधूनां कुसुमानां च विमर्देन संघर्षेणोद्गन्धिषूद्गतगन्धेषु । गन्धस्येत्वम् । वेश्मान्तरेषु गृहान्तरेषु स्थास्नुतां स्थायित्वमेति । पूर्वोक्तसर्वोत्कृष्टसौरभलोभादिति भावः । 'ग्लाजिस्थश्च-' (३।२।१३९) इति ग्स्नुप्रत्ययः । वधुशब्दो ह्रस्वोकारान्तोऽप्यस्ति । यद्वा 'मधुकुसुम' इति पाठः । मधुयुक्तानि कुसुमानि तेषां विमर्देनेत्यर्थः । अत्र वायोरस्थायित्वेऽपि स्थायित्वसंबन्धोक्तेरतिशयोक्तिः । तथा विमर्दगन्धस्य कमलादिगन्धादाधिक्यरूपव्यतिरेकप्रतीतेरलंकारेणालंकारध्वनिः ॥ २८॥

  नखपदवलिनाभीसंधिभागेषु लक्ष्यः
   क्षतिषु च दशनानामङ्गनायाः सशेषः ।
  अपि रहसि कृतानां वाग्विहीनोऽपि जातः
   सुरतविलसितानां वर्णको वर्णकोऽसौ ॥ २९॥

 नखपदेति ॥ नखपदेषु नखक्षतेषु वलिषु त्रिवलिषु नाभ्यां संधिभागेषु कूर्परादिदेहसंधिस्थानेषु तथा दशनानां क्षतिषु दन्तव्रणेषु च सशेषः सावशेषः किंचिद्वेद्यमानः अत एव लक्ष्यो दृश्योऽङ्गनायाः संबन्धी असौ वर्णयति वर्णं करोति रञ्जयतीति वर्णकोऽङ्गरागो वाग्विहीनो वागिन्द्रियरहितोऽपि सन् रहसि कृतानामपि सुरतविलसितानां सुरतचेष्टितानां वर्णयति वक्तीति वर्णको वक्ता । व्यञ्जक इत्यर्थः । वर्णयतेर्ण्वुल्प्रत्ययः । 'वर्णक्रियायां विस्तारे गुणोक्तौ वर्णनेऽप्यदः' इति भट्टमल्लः । जातः नखक्षतादिष्वेव लक्ष्यमाणोऽङ्गरागोऽन्यत्र स्वविलोपाच्चेष्टाविशेषानुमापको जात इत्यर्थः । अत्र वाग्विहीनोऽपि रहस्यकृतानामपि वर्णको वक्तेति विरोधस्य व्यञ्जकत्वलक्षणया परिहाराद्विरोधाभासोऽलंकारः ॥२९॥

  प्रकटमलिनलक्ष्मा मृष्टपत्रावलीकै-
   रधिगतरतिशोभैः प्रत्युषः प्रोषितश्रीः।
  उपहसित इवासौ चन्द्रमाः कामिनीनां
   परिणतशरकाण्डापाण्डुभिर्गण्डभागैः ॥३०॥

 प्रकटेति ॥ उषसि प्रत्युषः। विभक्त्यर्थेऽव्ययीभावः । यद्वा प्रत्युषः प्रभातम् । 'उषः प्रत्युषसी अपि' इत्यमरः । तत्र प्रोषितश्रीर्भ्रष्टशोभः अत एव प्रकटमलिनलक्ष्मा स्पष्टदृष्टकलङ्कोऽसौ चन्द्रमाः मृष्टाः प्रमृष्टाः पत्रावल्यः पत्रभङ्गाः येषां तैः । 'नद्यृतश्च' (५।४।१५३) इति कप् । तथाप्यधिगता रतिशोभा संभोगश्रीर्येषां तैः । परिणताः परिपक्वाः शरकाण्डा बाणाख्यतृणकाण्डिकाः । 'शरो बाणे बालतृणे' इति शब्दार्णवे । तद्वदापाण्डुभिः कामिनीनां गण्डभागैर्गण्डस्थलैरुपहसित इवेत्युत्प्रेक्षा। पाण्डिमगुणनिमित्ता निष्कलङ्काः सकलङ्कं समानमानिनमुपहसन्तीति भावः ॥ ३० ॥

 अथ काचित्खण्डिता नायिका सागसं प्रेयांसं प्रातरागतं पञ्चभिरुपालभते-

  सकलमपि निकामं कामलोलान्यनारी-
   रतिरभसविमर्दैर्भिन्नवत्यङ्गरागे ।

  इदमतिमहदेवाश्चर्यमाश्चर्यधाम्न-
   स्तव खलु मुखरागो यन्न भेदं प्रयातः ॥३१॥

 सकलमित्यादि ॥ कामेन लोलाया अन्यनार्याः सपत्न्या रतिरभसेषु सुरतसंभ्रमेषु विमर्दैः पीडनैः। रज्यतेऽनेनेति रागः अङ्गस्य रागोऽङ्गरागः विलेपनं, अङ्गविकासश्च तस्मिन्नङ्गरागे सकलमपि निःशेषं यथा तथा निकामं भिन्नवति विश्लिष्टवति सति आश्चर्यधाम्नः सर्वाद्भुतनिधानस्य तव मुखरागो मुखविकासो भेदं विश्लेषं न प्रयात इति यत् । इदमेवातिमहदाश्चर्यं खलु । मुखस्याप्यङ्गत्वेन तद्रागस्याप्यङ्गरागत्वादिति भावः । अत्र विलेपनविकासाख्ययोरङ्गरागयोरेवानाध्यवसायेन विरोधः । भेदाननुसंधानत्वेनाविरोध इति श्लेषमूलातिशयोक्त्युत्थापितो विरोधाभासोऽलंकारः ॥ ३१ ॥

  प्रकटतरमिमं मा द्राक्षुरन्या रमण्यः
   स्फुटमिति सविशङ्कं कान्तया तुल्यवर्णः।
  चरणतलसरोजाक्रान्तिसंक्रान्तयासौ
   वपुषि नखविलेखो लाक्षया रक्षितस्ते ॥ ३२ ॥

 प्रकटेति ॥ किंच प्रकटतरमतिस्फुटमिममेनं नखविलेखम् । अन्या रमण्यो निजसपत्न्यः स्फुटं मा द्राक्षुः न पश्यन्तु । दृशेर्लुङ् 'न दृशः' (३।१।४७) इति क्साभावपक्षे सिचि वृद्धिः । इति बुद्ध्या कान्तया सविशङ्कं यथा तथा तुल्यवर्णो लाक्षासमानवर्णः । विवर्णस्य दुरपह्नवत्वादिति भावः । असौ ते तव वपुषि नखविलेखो नखव्रणश्चरणतलं सरोजमिवेत्युपमितसमासः । आक्रान्तिलिङ्गात्तस्याक्रान्त्या आघातेन संक्रान्तया लाक्षया रक्षितो गुप्तः । आच्छादित इत्यर्थः । हन्त सा तु पापीयसी लाक्षा स्वयमेव सर्वदुर्वृत्तपिशुनेति भावः । अत्र नखविलेखस्य लाक्षासावर्ण्यात्तदेकतापत्तेः सामान्यालंकारः । 'सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता' इति लक्षणात् ॥ ३२ ॥

  तदवितथमवादीर्यन्मम त्वं प्रियेति
   प्रियजनपरिभुक्तं यद्दुकूलं दधानः ।
  मदधिवसतिमागाः कामिनां मण्डनश्री-
   र्व्रजति हि सफलत्वं वल्लभालोकनेन ॥ ३३ ॥

 तदिति ॥ किंच मम त्वमेव प्रियेति यदवादीरवोचः । वदेर्लुङि 'वदव्रज-' (७।२।३) इत्यादिना वृद्धिः । तदवितथं सत्यम् । कुतः । यद्यस्मात् प्रियजनेन परिभुक्तं दुकूलम् । तदीयमित्यर्थः । दधानः धारयन्नित्यर्थः । 'दधान' इत्यत्र 'वसानः' इति पाठे वसान आच्छादयन् । वस आच्छादनार्थाल्लटः शानजादेशः । स त्वं मदधिवसतिं मम निवासमागाः प्राप्तः । 'इणो गा लुङि' (२।४।४५) । युक्तं चैतदित्याह-कामिनां मण्डनश्रीर्वल्लभानां प्रेयसीनामालोकनेन सफलत्वं व्रजति हि । अप्रिया चेत्कथमीदृशी मे संभावनेति भावः । अर्थान्तरन्यासः ॥ ३३ ॥

  नवनखपदमङ्गं गोपयस्यंशुकेन
   स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम् ।
  प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्प-
   न्नवपरिमलगन्धः केन शक्यो वरीतुम् ॥ ३४ ॥

 नवेति ॥ किंच नवानि नखपदानि यस्मिंस्तदङ्गं वपुरंशुकेन गोपयसि छादयसि । गुपेश्चौरादिकात्स्वार्थे णिच् । दन्तेन दष्टमोष्ठं पुनरोष्ठं तु पाणिना स्थगयसि छादयसि । स्थगिरपि चौरादिकः । दिशि दिशि प्रतिदिशम् । विभक्त्यर्थेऽव्ययीभावः । 'अव्ययीभावे शरत्प्रभृतिभ्यः' (५।४।१०७) इति समासान्तष्टच्प्रत्ययः । विसर्पन् प्रसर्पन् अपरस्त्रीसङ्गशंसी स्त्र्यन्तरसङ्गसूचकः । अन्यप्रभवत्वात्तस्येति भावः । नवः परिमलाख्यो गन्धः परिमलगन्धः । 'विमर्दोत्थे परिमलः' इत्यमरः । केन केनोपायेन वरीतुमाच्छादयितुम् । 'वॄतो वा' (७।२।३०) इतीटो दीर्घः । शक्यः । न केनापि शक्य इत्यर्थः । अत्र नखदन्तक्षतयोरगौष्ठाच्छादने विसर्पणस्य गन्धानाच्छाद्यत्वे च विशेषणगत्या हेतुकत्वात्काव्यलिङ्गद्वये सजातीयसंकरः॥३४॥

  इति कृतवचनायाः कश्चिदभ्येत्य बिभ्य-
   द्गलितनयनवारेर्याति पादावनामम् ।
  करुणमपि समर्थं मानिनां मानभेदे
   रुदितमुदितमस्त्रं योषितां विग्रहेषु ॥ ३५ ॥
         (कुलकम् ।)

 इतीति ॥ इति पूर्वोक्तश्लोकचतुष्टयरीत्या कृतवचनायाः कृतोपालम्भायाः गलितनयनवारेरधैर्यान्मुक्ताश्रोः । प्रेयस्या इति शेषः । कश्चिन्नायको बिभ्यत् त्रस्यन् । 'नाभ्यस्ताच्छतुः' (७।१।७८) इति नुमभावः। अभ्येत्यागत्य पादयोरवनाममवनतिं याति । प्रणामेन प्रसादयतीत्यर्थः । ननु कथमीदृङ्मार्दवं तथाहंकारिणस्तस्य रोदनमात्रेण तत्राह-करुणमिति । तथा हि-विग्रहेषु प्रणयकलहेषु योषितां करुणं दीनमपि रुदितमश्रुमोचनं मानिनामहंकारिणां पुंसां मानभेदेऽहंकारनिरासे समर्थं शतमस्त्रं साधनमुदितमुक्तम् । वदेः कर्मणि क्तः 'वचिस्वपि-'।(६।१।१५) इत्यादिना संप्रसारणम् । दीने प्रणयिजने पुंसां कोऽहंकार इति भावः। अर्थान्तरन्यासः । एषा च खण्डिता नायिका । 'नीत्वान्यत्र निशां प्रातरागते प्राणवल्लभे । अन्यासंभोगचिह्नैस्तु खण्डितेर्ष्याकषायिता ॥' इति लक्षणात् । नायकस्तु पृष्टः । 'व्यक्ताङ्गो निर्भयो पृष्टः' इति लक्षणात् । न चेह बिभ्यद्विशेषणविरोधः । आगमनकालेऽनिर्भीकताया एव लक्षणोपयोगात् । अन्यथा वैरं स्यादिति

भावः । अयं च सहृदयः, अन्यथा रसाभास इत्याहुः ॥ ३५ ॥

  मदमदनविकासस्पष्टधार्ष्ट्योदयानां
   रतिकलहविकीर्णैर्भूषणैरर्चितेषु ।
  विधदति न गृहेषूत्फुल्लपुष्पोपहारं
   विफलविनययत्नाः कामिनीनां वयस्याः ॥ ३६॥

 मदेति ॥ मदमदनयोर्विकासेन विजृम्भणेन स्पष्टो धार्ष्ट्यस्योदय आविर्भावो यासां तासां कामिनीनां रतिरेव कलहः तस्मिन्विकीर्णैरितस्ततो विक्षिप्तैर्भूषणैरर्चितेषु गृहेषु वयस्याः स्निग्धपरिचारिकाः विनीयन्तेऽस्मिन्निति विनयोऽधिकारः तत्र यत्नो विफलो यासां ता विफलविनययत्नाः निष्फलस्वाधिकारोद्योगाः सत्यः उत्फुल्लैः पुष्पैरुपहारं पूजां न विदधति न कुर्वन्ति । अत्र समृद्धवस्तुवर्णनादुदात्तालंकारः । तदुदात्तं भवेद्यत्र समृद्धं वस्तु वर्ण्यते' इति लक्षणात् । तेन तासां तेष्वाभरणेषु भुक्तवस्त्रमाल्यादिवन्निर्माल्यबुद्धिर्ध्वन्यते ॥ ३६ ॥

  करजदशनचिह्नं नैशमङ्गेऽन्यनारी-
   जनितमिति सरोषामीर्ष्यया शङ्कमानाम् ।
  स्मरसि न खलु दत्तं मत्तयैतत्त्वयैव
   स्त्रियमनुनयतीत्थं व्रीडमानां विलासी ॥३७॥

 करजेति ॥ विलसनशीलो विलासी । 'वौ कषलस-' (३।२।१४३) इत्यादिना घिनुण्प्रत्ययः । अङ्गे निजाङ्गे निशायां भवं नैशम् । 'निशाप्रदोषाभ्यां च' (४।३।१४) इत्यण्प्रत्ययः । करजदशनचिह्नं नखदन्तक्षतमन्यनारीजनितं सपत्नीकृतमिति शङ्कमानां विश्वसतीमत एवेर्ष्यया अक्षमया सरोषां स्त्रियं निजवधूं मत्तया मदमूढया त्वयैवैतद्दत्तमेवं कृतं खलु न सरसि नाभिजानासि किमिति काकुः । इत्थमनेन प्रकारेण व्रीडमानां स्वकृतत्वप्रत्यभिज्ञानाल्लज्जितां सतीमनुनयत्यङ्गीकारयति । स्वमौग्ध्यव्याघातो निर्वेदश्च लज्जया व्यज्यते ॥ ३७ ॥

  कृतगुरुतरहारच्छेदमालिङ्ग्य पत्यौ
   परिशिथिलितगात्रे गन्तुमापृच्छमाने ।
  विगलितनवमुक्तास्थूलबाष्पाम्बुबिन्दु-
   स्तनयुगमबलायास्तत्क्षणं रोदितीव ॥ ३८ ॥

 कृतेति ॥ कृतो गुरुतरस्य हारस्य छेदो यस्मिंस्तत्तथा आलिङ्ग्य परिशिथिलितगात्रे शिथिलीकृताङ्गे पत्यौ भर्तरि गन्तुमापृच्छमाने आमन्त्रयमाणे सति । 'आङि नुप्रच्छ्योः' (वा०) इत्युपसंख्यानादात्मनेपदम् । कर्तरि लटः शानजादेशः । तत्क्षणं तस्मिन्क्षणे । अत्यन्तसंयोगे द्वितीया । अबलायाः स्तनयुगं कर्तृ । विगलिता निःसृता नवमुक्ता नूतनमौक्तिकान्येव स्थूलबाष्पाम्बुबिन्दवो यस्मिन्कर्मणि पाठा०-१ . ‘०नामविश्वसन्तीं'. २ 'इत्थं'. तद्यथा तथा रोदितीव विरहासहिष्णुतया रोदनं करोतीवेत्युत्प्रेक्षा रूपकसंकीर्णा । 'रुदादिभ्यः सार्वधातुके' इतीडागमः ॥ ३८॥

  बहु जगद पुरस्तात्तस्य मत्ता किलाहं
   चकर च किल चाटु प्रौढयोषिद्वदस्य ।
  विदितमिति सखीभ्यो रात्रिवृत्तं विचिन्त्य
   व्यपगतमदयाह्नि व्रीडितं मुग्धवध्वा ॥ ३९ ॥

 बह्विति ॥ अह्नि दिवसे व्यपगतमदया मुग्धवध्वा सखीभ्यो विदितम् । रात्रौ त्वयेत्थं कृतमिति सखीभिराख्यातमित्यर्थः । रात्रिवृत्तम् । रात्रौ कृतं स्वचेष्टितमित्यर्थः । मत्ता मदमूढा अहं तस्य प्रियस्य पुरस्तादग्रे बहु अनेकं जगद किल गदानि स्म । किलेति ऐतिह्ये । अत एव 'परोक्षे लिट्' (३।२।११५) 'णलुत्तमो वा' (७।१।९१) इति पक्षे णित्त्वाभावाद्वृद्ध्यभावः । च पुनः प्रौढयोषिता तुल्यं प्रौढयोषिद्वदित्युपमा । 'तेन तुल्यम्-' (५।१।११५) इति वतिप्रत्ययः । अस्य प्रियस्य चाटु प्रियवचनं चकर किल अकार्षं किल । लिडादिपूर्ववद्गुणो विशेषः । इति विचिन्त्य विमृश्य व्रीडितं लज्जितम् । भावे क्तः । निजकार्यप्रकाशेन लज्जात्र संचारी भावः । भावनिबन्धनात्प्रेयोऽलंकारः ॥ ३९॥

  अरुणजलजराजीमुग्धहस्तानपादा
   बहुलमधुपमालाकज्जलेन्दीवराक्षी ।
  अनुपतति विरावैः पत्रिणां व्याहरन्ती
   रजनिमचिरजाता पूर्वसंध्या सुतेव ॥ ४० ॥

 अरुणेति ॥ अरुणजलजराज्येव रक्तकमलश्रेण्येव मुग्धं सुन्दरं हस्ताग्रपादं हस्तौ च अग्रपादौ च यस्याः सा बहुलं मधुपमालाकज्जलं कज्जलमिव मधुपमाला ययोस्ते अक्षिणी इन्दीवरे इव यस्याः सा बहुलमधुपमालाकज्जलेन्दीवराक्षी पत्रिणां पक्षिणां विरावैः व्याहरन्ती आलपन्ती । 'व्याहार उक्तिर्लपितम्' इत्यमरः । अचिरजाता सद्योभवा बाला च पूर्वसंध्या प्रातःसंध्या सुतेव पुत्रीव रजनिमनुपतत्यनुधावति । जननीमिवेत्यर्थः । इह विरावैर्व्याहरन्तीति व्यधिकरणपरिणामः तत्संकीर्णेयमुपमा ॥ ४० ॥

  प्रतिशरणमशीर्णज्योतिरग्न्याहितानां
   विधिविहितविरिब्धैः सामिधेनीरधीत्य ।
  कृतगुरुदुरितौघध्वंसमध्वर्युवर्यै-
   र्हुतमयमुपलीढे साधु सांनाय्यमग्निः॥४१॥

 प्रतीति ॥ अग्निराहितो यैस्तेषामग्न्याहितानाम् । 'वाहिताग्न्यादिषु' (२।२।३७) इति निष्ठायाः परनिपातः । प्रतिशरणं प्रतिगृहम् । 'शरणं गृहरक्षित्रोः'

पाठा०-१ 'गदति'. इत्यमरः । अशीर्णज्योतिरक्षतार्चिरयमग्निराहवनीयः विधिना 'यज्ञकर्मण्यजपन्यूङ्खसामसु' (१।२।३४) इत्यादिशास्त्रोक्तरीत्या विहिता यथायोगमुच्चारिता विरिब्धाः स्वरा एकश्रुत्यादयश्चत्वारो यैस्तैः । 'क्षुब्धस्वान्त-' (७।२।१८) इत्यादिना रेभृ शब्दे' इति धातोः स्वरे विरिब्धशब्दो निष्ठान्तोऽनिट्त्वेन निपातितः। अध्वर्युवर्यैः ऋत्विक्श्रेष्ठैः । ऋत्विग्विशेषवाचिनाध्वर्युशब्देन ऋत्विङ्मात्रलक्षणात् । यद्वा अध्वर्युः वर्यो मुख्यो येषां तैरध्वर्युप्रमुखैः, चतुर्भिर्ऋत्विग्भिरित्यर्थः । तस्माद्दर्शपौर्णमासयोर्यज्ञक्रत्वोश्चत्वार ऋत्विज इति श्रवणात् । दर्शश्चायं सत्यत्रैव सांनाय्यविधानादिति । सामिधेनी: 'प्र वो वाजा' (ऋग्वेदे ३।२।१५) इत्यादिका अग्निसमिन्धनीर्ऋचोऽधीत्य पठित्वा 'ऋक्सामिधेनी धाय्या च या स्यादग्निसमिन्धने' इत्यमरः । सामिधेनीग्रहणं याज्यापुरोनुवाक्यादिमन्त्रान्तराणामप्युपलक्षणम्। कृतो गुरुतरदुरितानामोघस्य ध्वंसो यस्मिन्कर्मणि तद्यथा तथा साधु सम्यक् हुतं देवतोद्देशेन त्यक्तं संनीयत इति सांनाय्यं हविर्विशेषम् । 'ऐन्द्रं दध्यमावास्यायामैन्द्रं पयोऽमावास्याया' मिति विहिते दधिपयसी इत्यर्थः । पाय्यसांनाय्यनिकाय्य-' (३।१।१२९) इत्यादिना हविर्विशेषे संपूर्वान्नयतेर्ण्यन्तादायादेशोपसर्गदीर्घनिपातः । उपलीढे आस्वादयति । 'लिह आस्वादने' इति धातोः स्वरितेत्त्वाल्लटि तङि टेरेत्वं ढत्वधत्वष्टुत्वढलोपदीर्घाः । अत्राग्नेः सानाय्योपलेहनस्योत्तरकालभावित्वेऽपि तदुपलक्षितस्य कर्मण उदिते आदित्ये पौर्णमास्यास्तन्त्रं प्रक्रमति प्रागुदयादमावास्याया इति शास्त्रात्तत्कालप्रक्रान्तस्य वर्तमानत्वात्तस्यापि वर्तमानताव्यपदेशः । एतच्चाहिताग्नित्वमात्रेण कालविशेषानादरेणोक्तमिति पूर्वोक्तचन्द्रोदयाद्यविरोधः । अथवा 'उदिते जुहोत्यनुदिते जुहोति प्रातर्जुहोत्यग्निहोत्रं' इति तत्कालत्वात्सामिधेनीसांनाय्यशब्दयोर्मन्त्रहविर्मात्रपरत्वमाश्रित्याग्निहोत्रपरत्वेन व्याख्येयम् । तस्मादग्निहोत्रस्य यज्ञक्रत्वोः एकऋत्विगित्येकाध्वर्युकत्वेऽध्वर्युवर्यैरिति बहुवचनं यजमानबहुत्वादुपपद्यत इत्याहुरित्यलं छान्दसगोष्ठीव्यसनेन । वृत्त्यनुप्रासोऽलंकारः स्पष्ट एव॥४१॥

  प्रकृतजपविधीनामास्यमुद्रश्मिदन्तं
   मुहुरपिहितमोष्ठ्यैरक्षरैर्लक्ष्यमन्यैः ।
  अनुकृतिमनुवेलं घट्टितोद्घट्टितस्य
   व्रजति नियमभाजां मुग्धमुक्तापुटस्य ॥४२॥

 प्रकृतेति ॥ प्रकृतजपविधीनां प्रक्रान्तजपकर्मणां नियमभाजां तपस्विनां संबन्धे ओष्ठे भवैरोष्ठ्यैः । 'शरीरावयवाच्च' (४।३।५५) इति यत्प्रत्ययः । अक्षरैर्वर्णैः । उपूपध्मानीयैरित्यर्थः । 'उपूपध्मानीयानामोष्ठौ' इत्यनुशासनात् । मुहुरपिहितमावृतमन्यैरनोष्ठ्यैरक्षरैर्लक्ष्यं दर्शनीयं अत एवोद्रश्मय उद्गतांशवो दन्ता यस्य तदास्यं मुखमनुवेलं प्रतिक्षणं घट्टितोद्घट्टितस्य प्राणित्वान्मुहुर्घटितविघटितस्य । विशेषणसमासः । मुग्धं सुन्दरं यन्मुक्तानां मुक्ताफलानां पुटं कोटिः । शुक्तिरिति यावत् । तस्यानुकृति साम्यं व्रजति । उपमालंकारः । एतेन श्लोकद्वयेन बहवः कर्मनिष्ठास्तपोनिष्ठाश्च ब्राह्मणा भगवन्तमनुयान्तीति कथितम् ॥ ४२ ॥

  नवकनकपिशङ्गं वासराणां विधातुः
   ककुभि कुलिशपाणेर्भाति भासां वितानम् ।
  जनितभुवनदाहारम्भमम्भांसि दग्ध्वा
   ज्वलितमिव महाब्धेरूर्ध्वमौर्वानलार्चिः॥४३॥

 नवेति ॥ कुलिशं पाणौ यस्य स कुलिशपाणिरिन्द्रः । 'ग्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' (वा०) इति पाणेः परनिपातः । एतदेवात्र व्यधिकरणबहुव्रीहेश्च ज्ञापकम् । तस्य ककुभि प्राच्यां दिशि नवकनकवत्पिशङ्गं वासराणां विधातुर्दिनकरस्य भासां वितानं करजालं महाब्धेरम्भांसि दग्ध्वा जनितभुवनदाहारम्भं कृतजगद्दाहोद्योगं सदूर्ध्वमब्धेरुपरि ज्वलितमौर्वानलार्चिर्वडवानलज्योतिरिव भातीत्युत्प्रेक्षा ॥ ४३ ॥

  विततपृथुवरत्रातुल्यरूपैर्मयूखैः
   कलश इव गरीयान्दिग्भिराकृष्यमाणः ।
  कृतचपलविहंगालापकोलाहलाभि-
   र्जलनिधिजलमध्यादेष उत्तार्यतेऽर्कः॥४४॥

 विततेति ॥ वितताभिः प्रसारिताभिः पृथुवरत्राभिर्महारज्जुभिः तुल्यरूपैस्तुल्याकारैः मयूखैः किरणैः गरीयान् कलश इवाकृष्यमाणः सन्नेषोऽर्कः कृतश्चपलः सत्वरो विहंगालाप एव कोलाहलः कलकलो याभिस्ताभिः दिग्भिर्जलनिधेः जलमध्यादुत्तार्यते उद्ध्रियते । तरतेर्ण्यन्तात्कर्मणि लट् । यथा कुतश्चित्कूपात्कुम्भः पाशैराकृष्य सकलकलं बहुभिः स्त्रीभिरुद्ध्रियते तद्वदिति भावः । अत्र वरत्रातुल्यरूपैः कलश इवेति चोपमाभ्यां विहंगालापकोलाहलेति रूपकेण चोज्जीवितार्कस्य दिक्कर्तृकोत्तारणोत्प्रेक्षा व्यञ्जकाप्रयोगात्प्रतीयमानेति संकरः ॥ ४४ ॥

  पयसि सलिलराशेर्नक्तमन्तर्निमग्नः
   स्फुटमनिशमतापि ज्वालया वाडवाग्नेः ।
  यदयमिदमिदानीमङ्गमुद्यन्दधाति
   ज्वलितखदिरकाष्ठाङ्गारगौरं विवस्वान् ॥ ४५ ॥

 पयसीति ॥ अयं च विवस्वान् नक्तं सलिलराशेः पयसि निमग्नोऽन्तर्वाडवाग्नेर्ज्वालयानिशमतापि तप्तः स्फुटमित्युत्प्रेक्षा । कुतः । यदिदानीमुद्यन् इदं ज्वलितः प्रज्वलन् यः खदिरकाष्ठस्याङ्गारः तद्वद्गौरमरुणमङ्गं दधाति । 'गौरोऽरुणे

सिते पीते' इति विश्वः ॥ ४५ ॥

  अतुहिनरुचिनासौ केवलं नोदयाद्रिः
   क्षणमुपरिगतेन क्ष्माभृतः सर्व एव ।
  नवकरनिकरेण स्पष्टबन्धूकसून-
   स्तवकरचितमेते शेखरं बिभ्रतीव ॥४६॥

 अतुहिनेति ॥ क्षणमुपरिगतेन स्थितेनातुहिनरुचिनार्केण केवलमसावुदयादिः पूर्वाद्रिर्न । 'उदयः पूर्वपर्वतः' इत्यमरः । किंत्वेते सर्व एव क्ष्माभृतः सर्वेऽपि शैलाः क्षणमुपरिगतेनावस्थितेन नवकरनिकरेण स्पष्टैर्विकसितैः बन्धूकसूनस्तबकैर्बन्धुजीवककुसुमगुच्छैः विरचितम् । 'बन्धूको बन्धुजीवकः' इत्यमरः । शेखरं शिखामाल्यम् । 'शिखास्वापीडशेखरौ' इत्यमरः । बिभ्रतीवेत्युत्प्रेक्षा । न केवलमर्केणोदयाद्रिरेव बन्धूकशेखरं बिभर्ति, किंतु तत्करजालेन सर्वेऽपि पर्वतास्तथेत्यर्थः ॥ ४६॥

  उदयशिखरिशृङ्गप्राङ्गणेष्वेष रिङ्गन्
   सकमलमुखहासं वीक्षितः पद्मिनीभिः।
  विततमृदुकराग्रः शब्दयन्त्या वयोभिः
   परिपतति दिवोऽङ्के हेलया बालसूर्यः ॥४७॥

 उदयेति ॥ एष बाल उदितमात्रः बालश्चासौ सूर्यश्व बालसूर्यः उदयशिखरिशृङ्गस्योदयादिशिखरस्य प्राङ्गणेषु रिङ्गन् संचरन् पद्मिनीभिर्नलिनीभिः स्त्रीविशेषैश्च । 'पद्मिनी स्त्रीविशेषेऽपि' इति विश्वः । कमलान्येव मुखानि तेषां हासेन विकासेन, हास्येन च, सह यस्मिन्कर्मणि तद्यथा तथा वीक्षितः सन् । वयोभिः पक्षिभिः । 'वयः पक्षिणि बाल्यादौ' इति विश्वः । शब्दयन्त्याः शब्दं कुर्वत्याः । 'आगच्छागच्छ वत्स' इति व्याहरन्त्या इत्यर्थः । शब्दशब्दात् 'तत्करोति-' (ग०) इति ण्यन्ताल्लटः शतरि ङीप् । दिवोऽन्तरिक्षस्य मातुश्चाङ्के समीपे, उत्सङ्गे च विततानि प्रसृतानि मृदूनि कराग्राणि किरणाग्राणि हस्ताग्रे च यस्य सन् हेलया लीलया परिपतति । श्लेषमूलातिशयोक्त्यनुगृहीतरूपकम् ॥ ४७ ॥

  क्षणमयमुपविष्टः क्ष्मातलन्यस्तपादः
   प्रणतिपरमवेक्ष्य प्रीतमह्नाय लोकम् ।
  भुवनतलमशेषं प्रत्यवेक्षिष्यमाणः
   क्षितिधरतटपीठादुत्थितः सप्तसप्तिः ॥४८॥

 क्षणमिति ॥ अयं सप्तसप्तिरर्कः क्षणमुपविष्टः क्षितिधरपीठमध्यासीनः क्ष्मातलन्यस्तपादः । प्रणामस्वीकाराय भूतलप्रसारिताङ्घ्रिरित्यर्थः । प्रणतिपरं नमस्कारं कुर्वाणं प्रीतं प्रणामस्वीकारात् संतुष्टं लोकं जनमह्नाय झटित्यवेक्ष्य । 'झटित्यञ्जसाह्नाय' इत्यमरः । रूपावलोकेन संभाव्याशेषं भुवनतलं लोकस्वरूपं प्रत्यवेक्षिष्यमाणोऽनुसंधास्यमानः क्षितिधरस्य तटं पीठमिव सिंहासनमिव । अन्यत्र तटमिव पीठं तस्मादुत्थितः । उदयाद्रिमतिक्रान्त इत्यर्थः । यथा कस्मिन्महाराजः सिंहासनोपविष्टः क्षणं प्रणतजनमादृत्य अथ सकलस्वराष्ट्रप्रत्यवेक्षणाय सहसोत्थाय गच्छति तद्वदित्यर्थः । अत्र प्रकृतार्कविशेषणवैभवादप्रकृतमहाराजप्रतीतेः समासोक्तिः ॥४८॥

  परिणतमदिराभं भास्करणांशुबाणै-
   स्तिमिरकरिघटायाः सर्वदिक्षु क्षतायाः।
  रुधिरमिव वहन्त्यो भान्ति बालातपेन
   छुरितमुभयरोधोवारितं वारि नद्यः ॥ ४९ ॥

 परिणतेति ॥ नद्यः बालातपेन छुरितं रूषितम् अत एव परिणतमदिराभं सुपक्वसुरासंनिभमुभाभ्यां रोधोभ्यां वारितमवरुद्धमुभयरोधोवारितम् । 'उभादुदात्तो नित्यम्' (५।२।४४) इत्यत्र नित्यग्रहणसामर्थ्याद्वृत्तिविषये उभशब्दस्य स्थाने उभयशब्दप्रयोग इत्युक्तं प्राक् । वारि जलं भास्करेण । कस्कादित्वात्सत्वम् । अंशुभिरेव बाणैः । सर्वदिक्षु क्षतायाः प्रहृतायास्तिमिरमेव करिघटा गजसङ्घस्तस्या रुधिरमिवेत्युत्प्रेक्षा । वहन्त्यो भान्ति ॥ ४९ ॥

  दधति परिपतन्त्यो जालवातायनेभ्य-
   स्तरुणतपनभासो मन्दिराभ्यन्तरेषु ।
  प्रणयिषु वनितानां प्रातरिच्छत्सु गन्तुं
   कुपितमदनमुक्तोत्तप्तनाराचलीलाम् ॥ ५० ॥

 दधतीति ॥ जालवातायनेभ्यो गवाक्षविवरेभ्यः मन्दिराणामभ्यन्तरेषु परिपतन्त्यः तरुणतपनभासो बालार्ककिरणा वनितानां प्रणयिषु प्रातर्गन्तुमिच्छत्सु कुपितेन मदनेन मुक्तानामुत्तप्तानामग्निज्वलिततेजसां नाराचानां बाणविशेषाणां लीलां शोभां दधति । अत्र लीलेव लीलेति सादृश्याक्षेपादसंभवद्वस्तुसंबन्धान्निदर्शना ॥ ५०॥

  अधिरजनि वधूभिः पीतमैरेयरिक्तं
   कनकचषकमेतद्रोचनालोहितेन ।
  उदयदहिमरोचिर्ज्योतिषाक्रान्तमन्त-
   र्मधुन इव तथैवापूर्णमद्यापि भाति ॥५१॥

 अधीति ॥ अधिरजनि रजन्याम् । विभक्त्यर्थेऽव्ययीभावः । वधूभिः पीतं मैरेयं मद्यं यस्य तत् अत एव रिक्तं पीतमैरेयरिक्तं एतत्कनकचषकं स्वर्णस्य पानपात्रम् । अवयवषष्ठ्या विकारार्थता । 'चषकोऽस्त्री पानपात्रम्' इत्यमरः । रोचनालोहितेन गोरोचनारुणेन उदयत उदीयमानस्य अहिमरोचिषोऽर्कस्य ज्योतिषा तेजसा अन्तरभ्यन्तर आक्रान्तं व्याप्तं सत् अद्यापि इदानीमपि तथैव पूर्ववदेव मधुन आपूर्णमिव । सामान्यषष्ठ्या योग्यविशेषपर्यवसाननियमात् 'षष्ठी शेषे' (२।३।५०) इति संबन्धसामान्ये षष्ठी करणस्यापि कारणत्वादिति । भाति शोभते । अत्रातपाक्रान्ते मधुपूर्णत्वोपेक्षया आतपे मधुभ्रमाद्भ्रान्तिमान् व्यज्यते ॥ ५१ ॥

  सितरुचि शयनीये नक्तमेकान्तमुक्तं
   दिनकरकरसङ्गव्यक्तकौसुम्भकान्ति ।
  निजमिति रतिबन्धोर्जानतीमुत्तरीयं
   परिहसति सखी स्त्रीमाददानां दिनादौ ॥ ५२ ॥

 सितेति ॥ नक्तं रात्रौ शयनीये तल्पे । एकान्तमुक्तमत्यन्तत्यक्तं सितरुचि शुभ्रवर्णम् । किंतु दिनादौ प्रभाते दिनकरकरसङ्गेनार्कांशुव्यतिकरेण व्यक्ता कौसुम्भी कुसुम्भस्य रागद्रव्यस्य संबन्धिनी कान्तिर्यस्य तत्तथा भासमानं रतिबन्धोः प्रियस्योत्तरीयं निजमात्मीयमिति जानतीम् । अत एवाददानां स्त्रीनायिकाम् । 'वाम्शसोः' (६।४।८०) इतीयङभावपक्षे 'अमि पूर्वः' (६।१।१०७) इति पूर्वरूपम् । सखी परिहसति । अत्राकौसुम्भे कौसुम्भभ्रमात् सादृश्यनिबन्धनाद्भ्रान्तिमदलंकारः ॥ ५२ ॥

  प्लुतमिव शिशिरांशोरंशुभिर्यन्निशासु
   स्फटिकमयमराजद्राजताद्रिस्थलाभम् ।
  अरुणितमकठोर्वेश्म काश्मीरजाम्भ:-
   स्नपितमिव तदेतद्भानुभिर्भाति भानोः॥ ५३॥

 प्लुतमिति ॥ राजताद्रिस्थलाभं सुधाधवलितत्वात्कैलासतटसंनिभं यद्वेश्म निशासु शिशिरांशोरिन्दोरंशुभिश्चन्द्रिकाभिः प्लुतं धौतं सत् स्फटिकमयं स्फटिकविकार इवाराजद्रेजे । तदेतद्वेश्म भानोः सूर्यस्य अकठोरैः कोमलैर्भानुभिः अरुणितमरुणिकृतं सत् काश्मीरदेशे जातं काश्मीरजं कुङ्कुमं तस्याम्भसा स्नपितं सिक्तमिव भाति । उत्प्रेक्षयोः संसृष्टिः ॥ ५३॥

  सरसनखपदान्तर्दष्टकेशप्रमोकं
   प्रणयिनि विदधाने योषितामुल्लसन्त्यः ।
  विदधति दशनानां सीत्कृताविष्कृताना-
   मभिनवरविभासः पद्मरागानुकारम् ॥ ५४॥

 सरसेति ॥ प्रणयिनि योषितां सरसनखपदानामार्द्रनखक्षतानामन्तर्मध्ये दृष्टानां लग्नानां केशानां शिरोरुहाणां प्रमोकं प्रमोचनं विदधाने सति सीत्कृतैर्व्यथाविर्भूतसीत्कारैराविष्कृतानां दशनानामुल्लसन्त्यो वैमल्याद्दन्तेषु प्रतिफलन्त्यः

अभिनवरविभासः पद्मरागाणामनुकारमनुकरणं विदधति । उपमालंकारः । रविभासामारुण्यप्रतिपादकाभिनवविशेषणप्रसादलब्ध इति काव्यलिङ्गेन संकरः ॥५४॥

  अविरतदयिताङ्गासङ्गसंचारितेन
   छुरितमभिनवासृक्कान्तिना कुङ्कुमेन ।
  कनकनिकषरेखाकोमलं कामिनीनां
   भवति वपुरवाप्तच्छायमेवातपेऽपि ॥ ५५ ॥

 अविरतेति ॥ अविरतेनाविच्छिन्नेन दयितानां प्रेयसामङ्गस्यासङ्गेन शरीरसंपर्केण संचारितेन संक्रामितेनाभिनवस्यासृजो रक्तस्येव कान्तिर्यस्य तेन कुङ्कुमेन छुरितं कनकस्य या निकषे निकषोपले रेखा राजिस्तद्वत्कोमलं मनोहरमित्युपमा । कामिनीनां वपुरातपेऽप्यवाप्तच्छायं लब्धवर्णोत्कर्षमेव भवति । स्वतः सुवर्णस्य ततः कुङ्कुमाङ्कितस्य कामिनीगात्रस्य पुनर्बालातपव्याप्तिरिति महती वर्णोत्कर्षसामग्रीति भावः । आतपे छायानातप इति विरोधाभासेऽपिशब्दः । 'छाया त्वनातपे कान्तौ' इत्यमरः । अत्र संक्रान्तकुङ्कुमच्छुरितत्वकनकनिकषरेखाकोमलत्वयोरुपमापेक्षया छायावाप्तिहेतुत्वादुपमासंकीर्णं काव्यलिङ्गं तदातपेऽप्यवाप्तच्छायमित्यत्र विरोधेनैकवाचकानुप्रवेशेन संकीर्यते ॥ ५५ ॥

  सरसिजवनकान्तं बिभ्रदभ्रान्तवृत्तिः
   करनयनसहस्रं हेतुमालोकशक्तेः।
  अखिलमतिमहिम्ना लोकमाक्रान्तवन्तं
   हरिरिव हरिदश्वः साधु वृत्रं हिनस्ति ॥५६॥

 सरसीति ॥ सरसि जातानि सरसिजानि । 'सप्तम्यां जनेर्डः' (३।२।९७)। तत्पुरुषे कृति बहुलम्' (६।३।१४) इत्यलुक् । तद्वनस्य कान्तं प्रियम्, अन्यत्र तद्वत्कान्तं रम्यं आलोकशक्तेर्लोकलोचनानां विषयग्रहणशक्तेर्हेतुं आलोकान्तरसहकृतानामेव तेषां तत्सामर्थ्यात्, अन्यत्र आलोकशक्तेर्दर्शनव्यापारस्य हेतुम् । दर्शनसाधनमित्यर्थः । करा नयनानीव, अन्यत्र करा इव नयनानि तेषां सहस्रं करनयनसहस्रं बिभ्रत् । अभ्रान्ते नभोमध्ये वृत्तिर्यस्य सोऽभ्रान्तवृत्तिः । अन्यत्राभ्रान्ते मेघे वृत्तिर्यस्य सः । मेघवाहन इत्यर्थः । 'अभ्रं नभः स्वर्गबलाहकेषु' इति विश्वः । हरितोऽश्वो यस्य स हरिदश्वोऽर्कः हरिरिन्द्र इवातिमहिम्नातिमहत्तया । स्ववृद्ध्येत्यर्थः । लोकमाक्रान्तवन्तं व्याप्तवन्तं एकत्र प्रत्यक्षादन्यत्र 'स इषुमात्रमिषुमात्रं विष्वग्वर्धते । स इमाँल्लोकानावृणोत्' इत्यागमादिति भावः । वृत्रं ध्वान्तं दानवं च त्वाष्ट्रं साधु हिनस्ति हन्ति । 'ध्वान्तारिदानवा वृत्राः' इत्यमरः उपमा श्लेषो वा मतभेदात् ॥ ५६ ॥

  अवतमसभिदायै भास्वताभ्युद्गतेन
   प्रसभमुडुगणोऽसौ दर्शनीयोऽप्यपास्तः ।
  निरसितुमरिमिच्छोर्ये तदीयाश्रयेण
   श्रियमधिगतवन्तस्तेऽपि हन्तव्यपक्षे ॥ ५७ ॥

अवतमसेति ॥ अवतमसं तिमिरम् । 'अवसमन्धेभ्यस्तमसः' (५।४।७९)

इति समासान्तः । यद्यपि क्षीणेऽवतमसं तमः' इत्युक्तं, तथापीह विरोधाद्विशेषानादरेण सामान्यमेव ग्राह्यम् । तस्य भिदायै भेदाय । “षिद्भिदादिभ्योऽङ् (३।३।१०४) अभ्युद्गतेनाभ्युदितेनोद्यतेन च भास्वता सूर्येण दर्शनीयोऽप्युडुगणोऽसौ प्रसभं बलादपास्तः । तथा हि-अरिं निरसितुमिच्छोर्ये तदीयेनाश्रयेणाश्रयणेन श्रियं संपदं शोभां च । 'शोभासंपत्तिपद्मासु लक्ष्मीः श्रीरपि गद्यते' इति विश्वः । अधिगतवन्तः प्राप्तवन्तस्तेऽपि हन्तव्यपक्षे वध्यकोटावेव । अरिवदरिपक्षा अपि वध्या एवेत्यर्थः । उडुगणोऽपि तमसि शोभते अतस्तत्पक्ष इति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ५७ ॥

  प्रतिफलति करौघे संमुखावस्थितायां
   रजतकटकभित्तौ सान्द्रचन्द्रांशुगौर्याम् ।
  बहिरभिहतमद्रेः संहतं कंदरान्त-
   र्गतमपि तिमिरौघं घर्मभानुर्भिनत्ति ॥ ५८॥

 प्रतीति ॥ घर्मभानुरुष्णांशुः संमुखावस्थितायां सान्द्रचन्द्रांशुवद्गौर्यां धवलायामित्युपमा । 'षिद्गौरादिभ्यश्च' (४।१।४१) इति ङीष् । रजतकटकमेव भित्तिः तस्यां करौघे स्वकिरणजाले प्रतिफलति सति अद्रेर्बहिरभिहतं कंदराणां दरीणामन्तर्गतं संहतं तिमिरोधमपि भिनत्ति । पुरोगतरजतभित्तिप्रतिहतस्य निजतेजसः कंदरान्तःप्रवेशादिति भावः । अत्र करौघस्यान्तःसंबन्धाभावेऽपि संबन्धोक्तेरतिशयोक्तिः ॥ ५८॥

  बहिरपि विलसन्त्यः काममानिन्यिरे य-
   द्दिवसकररुचोऽन्तं ध्वान्तमन्तर्गृहेषु ।
  नियतविषयवृत्तेरप्यनल्पप्रताप-
   क्षतसकलविपक्षस्तेजसः स स्वभावः ॥ ५९॥

 बहिरिति ॥ बहिर्विलसन्त्योऽपि दिवसकररुचोऽर्कभासः अन्तर्गृहेषु गर्भागारेषु काम यथेष्टं ध्वान्तमन्तं नाशमानिन्यिरे प्रापयामासुरिति यत् । नयतेर्द्विकर्मकात्कर्तरि लिट् । सोऽन्तर्गृहध्वान्तनिरासो नियतविषये नियतस्थाने वृत्तिर्यस्य तस्य । नियतदेशवर्तिनोऽपीत्यर्थः । 'तृतीयादिषु' (७।१।७४) इति पुंवद्भावः। तेजसोऽनल्पेन प्रतापेन स्वप्रकाशेन । स्वप्रभावेनैवेत्यर्थः । 'प्रतापौ पौरुषातपौ' इति वैजयन्ती । क्षतसकलविपक्षो निरस्तसमस्तप्रतिपक्षः । स्वभावः तेजस्विनामेष स्वभावो यत्प्रतापेनैव परोच्छेदनमतो युक्तमर्कभासामप्यन्तर्ध्वान्तहरणमित्यर्थः । अत्र समर्थ्यसमर्थकयोः सामान्यविशेषभावादर्थान्तरन्यासः ॥ ५९॥

  चिरमतिरसलौल्याद्बन्धनं लम्भितानां
   पुनरयमुदयाय प्राप्य धाम स्वमेव ।

  दलितदलकपाटः षट्पदानां सरोजे
   सरभस इव गुप्तिस्फोटमर्कः करोति ॥ ६० ॥

 चिरमिति ॥ अयमर्कः पुनर्भूयोऽप्युदयाय स्ववृद्धये स्वं स्वकीयमेव धाम स्थानं तेजो वा प्राप्य अतिरसलौल्यादतिमात्राद्रसेषु मकरन्देषु, विषयेषु च लौल्यादासक्तेः सरोजे चिरं बन्धनं लम्भितानां प्रापितानां षट्पदानां सरभसः सत्वरो दलितं विघट्टितं दलमेव कपाटं येन स सन् गुप्तिस्फोटं बन्धनमोक्षं करोतीवेत्युत्प्रेक्षा । यथा कश्चित्पदभ्रष्टः पुनर्लब्धपदः पूर्ववदात्मबन्धूनागत्य स्वयमेव काराकपाटमुद्घाट्य मोचयति तद्वदिति भावः ॥ ६० ॥

  युगपदयुगसप्तिस्तुल्यसंख्यैर्मयूखै-
   र्दशशतदलभेदं कौतुकेनाशु कृत्वा ।।
  श्रियमलिकुलगीतैर्लालितां पङ्कजान्त-
   र्भवनमधिशयानामादरात्पश्यतीव ॥ ६१ ॥

 युगपदिति ॥ अयुगा विषमाः सप्तयोऽश्वा यस्य सोऽयुगसप्तिः सप्ताश्वोऽर्कः । युगशब्दस्य युग्मशब्दस्य च विशेष्यलिङ्गतावगन्तव्या । युगपदेकदैव तुल्यसंख्यैः। सहस्रसंख्यैरित्यर्थः । मयूखैः करैः दश शतानि येषां तानि दशशतानि । सहस्रमित्यर्थः । तेषां दलानां भेदं विघटन कौतुकेनाश कृत्वा अलिकुलस्य गीतैर्लालितां सत्कृतां पङ्कजमेवान्तर्भवनं गर्भगृहमधिशयानाम् । “अधिशीस्थासां कर्म (१।४।४६) इति कर्मत्वम् । श्रियमादरात्पश्यतीवेत्युत्प्रेक्षा । कश्चित्कान्तः कान्तामिवैकान्तगतीमिति भावः ॥ ६१ ॥

  अदयमिव कराग्रेरैष निष्पीड्य सद्यः
   शशधरमहरादौ रागवानुष्णरश्मिः ।
  अवकिरति नितान्तं कान्तिनिर्यासमब्द-
   स्रुतनवजलपाण्डुं पुण्डरीकोदरेषु ॥ ६२ ॥

 अदयमिति ॥ अहरादौ प्रभाते रागवानुदयरागवान् पुण्डरीकस्नेहवांश्चैष उष्णरश्मिरर्कः शशधर चन्द्रं कराग्रैः रश्म्यग्रैः हस्ताग्रैश्चादयं निर्दयं सद्यो निष्पीड्य अब्दान्मेघात्स्रुतं स्रस्तं नवजलमिव पाण्डुं शुभ्रं कान्तिनिर्यासं लावण्यसारं पुण्डरीकाणां सिताब्जानामुदरेष्वभ्यन्तरेषु नितान्तमवकिरतीव विक्षिपतीव । अत्र सूर्योदये चन्द्रस्य कान्तिक्षयात् पुण्डरीकाणां तत्प्रादुर्भावाच्च सूर्यश्चान्द्रीमेव कान्तिं पुण्डरीकस्नेहात्परेषु सिञ्चतीवेत्युत्प्रेक्षा । यथा द्विषन्तं प्रपीड्य तदीयं वसुसारं सुहदे प्रयच्छति तद्वदिति भावः ॥ ६२ ॥

  प्रविकसति चिराय द्योतिताशेषलोके
   दशशतकरमूर्तावक्षिणीव द्वितीये ।

पाठा०-१ ‘°स्नेहं’.

  सितकरवपुषासौ लक्ष्यते संप्रति द्यौ-
   र्विगलितकिरणेन व्यङ्गितैकेक्षणेव ॥ ६३ ॥

 प्रविकसतीति ॥ द्योतितः प्रकाशितोऽशेषलोको येन तस्मिन् , दश शतानि येषां ते दशशतास्ते करा यस्याः सा दशशतकरा सहस्रकरा मूर्तिर्यस्य तस्मिन्दशशतकरमूर्तौ सूर्ये द्वितीयेऽक्षिणि चक्षुषीव चिराय प्रविकसति सति संप्रत्यसौ द्यौराकाशं स्त्री च गम्यते । विगलितकिरणेन निष्प्रकाशेन सितकरं शुभ्रकिरणं वपुर्यस्य तेन सितकरवपुषा चन्द्रेण व्यङ्गितं विकलीकृतमेकेक्षणमेकनेत्रं यस्याः सा व्यङ्गितैकेक्षणा काणेव लक्ष्यते । अत्र दिवः काणत्वमुत्प्रेक्ष्यते । तच्च काणत्वमक्षित्वेनाध्यवसितेन निष्काशितेन चन्द्रेणेति । तत्र 'येनाङ्गविकारः' (२।३।२०) इति तृतीया ॥ ६३ ॥

  कुमुदवनमपथि श्रीमदम्भोजषण्डं
   त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः ।
  उदयमहिमरश्मिर्याति शीतांशुरस्तं
   हतविधिलसितानां ही विचित्रो विपाकः॥ ६४॥

 कुमुदेति ॥ कुमुदवनं अपगता श्रीर्यस्य तदपश्रि विगतशोभम् । 'गोस्त्रियोरुपसर्जनस्य' (१।२।४८) इति ह्रस्वत्वम् । अम्भोजषण्डं श्रीमच्छोभायुक्तम् । उलूकः पेचको मुदं त्यजति । तस्य दिवाभीतत्वादिति भावः । चक्रवाकः प्रीतिमान् । रजनीविरहाभावत्वात्तस्येति भावः । अहिमरश्मिरुष्णांशुरुदयं याति । हिमांशुरिन्दुरस्तमदर्शनं याति । अस्तमित्यव्ययम् । कथमेतद्वैषम्यं तत्राह-हतेति । हतविधिलसितानां दुष्टदैवचेष्टितानां विपाकः परिपाकः तत्तत्प्राणिकर्मानुरूपफलदानप्रकार इति यावत् । विचित्रो विविधः । न त्वेकविध इत्यर्थः । हीति विस्मये । 'अहो ही च विस्मये' इत्यमरः । विधिविपाकवैचित्र्याज्जगद्वैचित्र्यं युज्यत इति कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ ६४ ॥

  क्षणमतुहिनधाम्नि प्रोष्य भूयः पुरस्ता-
   दुपगतवति पाणिग्राहवद्दिग्वधूनाम् ।
  द्रुततरमुपयाति स्रंसमानांशुकोऽसा-
   वुपपतिरिव नीचैः पश्चिमान्तेन चन्द्रः ॥६५॥

 क्षणमिति ॥ अतुहिनधाम्नि उष्णांशौ दिशो वध्व इवेत्युपमितसमासः । तासां दिग्वधूनां पाणिं गृह्णातीति पाणिग्राहो निजभर्ता तस्मिन्निव पाणिग्राहवत् । 'तत्र तस्येव' (५।१।११६) इति तत्रार्थे वतिः । क्षणं प्रोष्य प्रवासं कृत्वा । प्रपूर्वाद्वसधातोः क्त्वा । तस्य 'समासेऽनञ्पूर्वे क्त्वो ल्यप्' (७।१।३७) 'वचिस्वपि-’(६।१।१५) इत्यादिना संप्रसारणम् । भूयः पुनरपि पुरस्तात्पूर्वस्यां दिशि मार्गे चोपगतवत्यागतवति सति असौ चन्द्र उपपतिर्जार इव । 'जारस्तूपपतिः समौ' इत्यमरः । स्रंसमानांशुको गलद्रश्मिकः । शैषिकः कप्प्रत्ययः । स्रस्तवस्त्रश्च नीचैर्नम्रः सपश्चिमान्तेन पश्चिमदिक्कोणेन केनचिदपरद्वारेण द्रुततरमपयात्यपसरति । पाठा०-१ 'उदयति दिननाथो याति'. यथा पूर्वद्वारेण निजपतावागते पश्चान्मार्गेणोपपतिरपसरति तद्वदित्यर्थः । उपमालंकारः ॥६५॥

  प्रलयमखिलतारालोकमह्नाय नीत्वा
   श्रियमनतिशयश्रीः सानुरागां दधानः ।
  गगनसलिलराशिं रात्रिकल्पावसाने
   मधुरिपुरिव भावानेष एकोऽधिशेते ॥ ६६ ॥

 प्रलयमिति ॥ अखिलस्तारालोको लोक इव तारा नक्षत्रं तमखिलं तारालोकमह्नाय द्राक् प्रलयं क्षयं नीत्वा अत एव यतो नास्त्यतिशयं सानतिशया सर्वातिशायिनी श्रीर्महिमा यस्य सोऽनतिशयश्रीः सानुरागामुदयरागवतीं श्रियं शोभामन्यत्र सानुरागामनुरागवतीं श्रियं रमां च दधान एव भास्वानेको मधुरिपुर्विष्णुरिव रात्रिः कल्पावसानं कल्पान्त इव तस्मिन् रात्रिकल्पावसाने गगनं सलिलराशिरिव तं गगनसलिलराशिमधिशेतेऽधितिष्ठति । अत्र मधुरिपुरिवेति वाक्यगतोपमैव समासगतोपमानां प्रसाधिकेति सर्वत्रोपमितसमासाश्रयणमेवोचितम् ॥६६॥

  कृतसकलजगद्विबोधोऽवधूतान्धकारोदयः
   क्षयितकुमुदतारकश्रीर्वियोगं नयन्कामिनः ।
  बहुतरगुणदर्शनादभ्युपेताल्पदोषः कृती
   तव वरद करोतु सुपातमह्नामयं नायकः ॥ ६७ ॥

इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्र्यङ्के
प्रत्यूषवर्णनो नामैकादशः सर्गः ॥ ११ ॥

 कृतेति ॥ कृतसकलजगद्विबोधः कृताखिलजगत्प्रबोधः अवधूतो विक्षिप्तोऽन्धकारस्योदय उज्जृम्भणं येन सोऽवधूतान्धकारोदय इति महागुणोक्तिः । दोषमाह-क्षयिता नाशिता कुमुदानां तारकाणां च श्रीर्येन सः कामिनः स्त्रीपुंसान्वियोगं नयन् प्रापयंस्तथापि बहुतरगुणस्य पूर्वोक्तमहागुणस्य दर्शनादभ्युपेतो लोकैरङ्गीकृतोऽल्पदोषः पूर्वाक्त एव यस्य सः । ‘एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः' (कुमारसंभवे १-३) इति न्यायादिति भावः । अत एव कृती कृतार्थोऽयमह्नां नायकः प्रभुः सूर्यः हे वरद कामद, तव सुप्रातं सुप्रभातं करोतु । 'आशिषि लिङ्लोटौ' (३।३।१७३) इत्याशीरर्थे लोट् । शोभनं प्रातर्यस्येति सुप्रातः शोभनमातर्वानुच्यते 'सुप्रातसुश्व-' (५।४।१२०) इत्यादिना बहुव्रीहावच्प्रत्ययान्तो निपातितः । अत्र भावप्रधानो निर्देशः । तव सुप्रातं सुप्रभातत्वं करोत्वित्यर्थः । महामालिकावृत्तमेतत् । 'यदिह नयुगलं ततो वेदरेफैर्महामालिका' इति लक्षणात् ॥ ६७ ॥

इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध-
काव्यव्याख्याने सर्वंकषाख्ये एकादशः सर्गः ॥ ११ ॥