शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)/द्वादशः सर्गः(प्रयाणवर्णनम्)
← एकादशः सर्गः(प्रत्यूषवर्णनम्) | शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्) द्वादशः सर्गः(प्रयाणवर्णनम्) माघः |
त्रयोदशः सर्गः(श्रीकृष्णसमागमवर्णनम्) → |
द्वादशः सर्गः।
एवं प्रभातं वर्णयित्वा भगवतः प्राभातिकप्रस्थानवर्णनाय प्रक्रमते-
इत्थं रथाश्वेभनिषादिनां प्रगे गणो नृपाणामथ तोरणाद्बहिः ।
प्रस्थानकालक्षमवेषकल्पनाकृतक्षणक्षेपमुदैक्षताच्युतम् ॥१॥
इत्थमिति ॥ इत्थं भूते । पूर्वसर्गोक्तविध इत्यर्थः । प्रगे प्रातःकाले । 'सायं साये प्रगे प्रातः' इत्यव्ययेष्वमरः । अथ सूर्योदयानन्तरं रथाश्वेभे निषीदन्तीति रथाश्वेभनिषादिनाम् । रथेषु अश्वेषु इभेषु च स्थितानामित्यर्थः । नृपाणां गणः । तोरणाद्भगवतो बाह्यद्वाराद्बहिः । 'अपपरिबहिरञ्चवः पञ्चम्या' (२।१।१२) इति पञ्चमीसमासविधानाज्ज्ञापकात्पञ्चमी । 'तोरणोऽस्त्री बहिर्द्वारम्' इत्यमरः । प्रस्थानकाले प्रयाणकाले क्षम उचितो वेष आकल्पः। 'आकल्पवेषौ नेपथ्यम्' इत्यमरः । तस्य कल्पनया संपादनेन कृतः क्षणक्षेपः क्षणविलम्बो येन तमच्युतं हरिमुदैक्षत । प्रतीक्षितवानित्यर्थः । अत्राच्युतविलम्बस्य विशेषणगत्या प्रतीक्षणहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गमलंकारः । अस्मिन्सर्गे विषमपादयोर्जागतमिन्द्रवंशा वृत्तम् । 'स्यादिन्द्रवंशा ततजै रसंयुतैः' इति लक्षणात् । समपादयोस्तु जागतमेव वंशस्थं वृत्तम् । 'जतौ तु वंशस्थमुदीरितं जरौ' इति लक्षणात् । तदेवमुभयमेलनादुपजातिभेदोऽयम् । अत एव त्रिष्टुबिन्द्रवज्रोपेन्द्रवज्रालक्षणानन्तरम् 'अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः' इत्युक्त्वोक्तम् । 'इत्थं किलान्यास्वपि मिश्रितासु वदन्ति जातिष्विदमेव नाम' इति ॥ १ ॥
स्वक्षं सुपत्रं कनकोज्ज्वलद्युतिं जवेन नागाञ्जितवन्तमुच्चकैः ।
आरुह्य तार्क्ष्यं नभसीव भूतले ययावनुद्धातसुखेन सोऽध्वना ॥२॥
स्वक्षमिति ॥ स हरिः शोभनोऽक्षश्चक्रधारणदारुभेदो यस्य तं स्वक्षम् । 'स्यादक्षश्चक्रधारणः' इति वैजयन्ती । अन्यत्र शोभनेन्द्रियम् । 'अथाक्षमिन्द्रियम्' इत्यमरः । सुपत्रं शोभनं पत्रं वाहनं यस्य तम् । स्वश्वमित्यर्थः । अन्यत्र सुपक्षम् । 'पत्रं वाहनपक्षयोः' इत्यमरः । कनकोज्ज्वलद्युतिं कनकरचनावन्तम् । अन्यत्र कनकवदुज्ज्वलद्युतिं कनकवर्णम् । जवेन नागान् गजान् , उरगांश्च जितवन्तम्। ततोऽधिकवेगमित्यर्थः । अन्यत्र नागान्तकमित्यर्थः । उच्चकैरुन्नतं तार्क्ष्यं रथं गरुडं च । 'तार्क्ष्यः स्यादश्वकर्णाख्यवृक्षे रथतुरंगयोः । तार्क्ष्यं रसाञ्जने तार्क्ष्यो गरुडे गरुडाग्रजे ॥' इति विश्वः । आरुह्य नभसीव भूतलेऽनुद्धातेनाप्रतिघातेन सुखः सुगमस्तेनाध्वना ययौ गरुडमारुह्य नभसीव रथमारुह्य भूतलेऽप्यप्रतिहतं ययौ। गरुडवदेव तद्रथस्यापि सर्वत्राप्रतिहतगतित्वादित्यर्थः । नायं श्लेषः प्रकृताप्रकृतवादेऽपि तार्क्ष्यमिति विशेष्यश्लेषायोगादन्यत्राप्रसङ्गाच्च श्लेषसंकीर्णेयमुपमा ॥ २ ॥
हस्तस्थिताखण्डितचक्रशालिनं द्विजेन्द्रकान्तं श्रितवक्षसं श्रिया ।
सत्यानुरक्तं नरकस्य जिष्णवो गुणैर्नृपाः शार्ङ्गिणमन्वयासिषुः ॥३॥
हस्तेति ॥ अत्र नृविशेषणानि शार्ङ्गिण्यपि विभक्तिविपरिणामेन योज्यानि । हस्तस्थितैरखण्डितैश्चक्रैश्चक्ररेखाभिः शालन्त इति तथोक्ताः, अन्यत्र चक्रं सुदर्शनं तच्छालिनम् । द्विजेन्द्रकान्ता ब्राह्मणोत्तमप्रियाः, अन्यत्र द्विजेन्द्रश्चन्द्रः 'तस्मात् सोमराजानो ब्राह्मणाः' इति श्रुतेः । अत एव 'द्विजराजः शशधरः' इत्यमरः । तद्वत्कान्तं सुन्दरं श्रिया शोभया श्रितवक्षसो व्याप्तोरस्काः, अन्यत्र रमयाधिष्ठितोरस्कम् । सत्ये सत्यवचनेऽनुरक्ताः, अन्यत्र सत्यायां सत्यभामायामनुरक्तम् । नरकस्य जिष्णवः, अन्यत्र नरकासुरस्य जेतारम् । 'ग्लाजिस्थश्च’ (३।२।१३९) इति ग्स्नुः । 'नरको निरये दैत्ये' इति विश्वः । एवंभूता नृपा एवंभूतं शार्ङ्गिणं गुणैर्विनयादिभिर्हेतुना अन्वयासिषुरनुजग्मुः, गुणैः पूर्वोक्तैरन्वकार्षुश्च । यार्तेलुङि च्लेः सिच् । 'यमरम-’(७।२।७३) इति सगागमः सिच इडागमश्च । 'सिजभ्यस्त-' (३।४।१०९) इति झेर्जुस् । अत्र शार्ङ्गिणो नृपाणां च प्रकृतत्वाच्छब्दमात्रसाधर्म्याच्च केवलः प्रकृतिविषयः शब्दश्लेषः ॥ ३॥
शुक्लैः सतारैर्मुकुलीकृतैः स्थुलैः कुमुद्वतीनां कुमुदाकरैरिव ।
व्युष्टं प्रयाणं च वियोगवेदनाविदूननारीकमभूत्समं तदा ॥ ४ ॥
शुक्लैरिति ॥ शुक्लैः शुभैः सतारैः सरज्जूकैः सकर्णिकैश्च मुकुलीकृतैर्वहनसौकर्याय संकोचितैः, अन्यत्र रात्रिविकासित्वान्मुकुलतां नीतैः प्राप्तैः स्थुलैर्दीर्घैः पटमण्डपैरिति यावत् । कुमुदाकरैः कुमुदहृदैरिवोपलक्षितम् । अन्यत्र स्थुलैरिव कुमुदाकरैरुपलक्षितं वियोगवेदनया विरहव्यथया विदूनाः परितप्ताः । 'ल्वादिभ्यः' (८।२।४४) इति निष्ठानत्वम् । ता नार्यो यस्मिंस्तत्तथोक्तम् । द्वयोरपि वियोगकालत्वादिति भावः । 'नद्यृतश्च' (५।४।१५३) इति कप् । कुमुदान्यासु सन्तीति कुमुद्वत्यः कुमुदप्राया भूमयः । 'कुमुद्वान्कुमुदप्राये' इत्यमरः । कैरविण्यो वा। 'कुमुद्वती कैरविण्याम्' इति विश्वः । 'कुमुदनडवेतसेभ्यो ड्मतुप्' (४।२।८७) इति मतुप्प्रत्ययः । 'मादुपधायाः-' (८।२।९) इति मकारस्य वत्वम् । तासां कुमुद्वतीनां संबन्धे व्युष्टं प्रभातम् । 'व्युष्टं प्रभातं प्रत्यूषम्' इत्यभिधानचिन्तामणिः । तत्र किंचित्करत्वात्तत्संबन्धित्वं प्रयाणं च सेनानामिति शेषः । तदा तस्मिन्काले सममुक्तरीत्या अन्योन्यसदृशमभूत् । व्युष्टप्रयाणयोर्द्वित्वेऽपि समुदायविवक्षायामभूदित्येकवचनम् । व्युष्टं प्रयाणं च द्वयमपि सममभूदित्यर्थः । अत्र वर्ण्यत्वेन प्रकृतस्य प्रयाणस्य प्रकृतव्युष्टसाम्योक्तेरुपमा श्लेषसंकीर्णा ॥ ४ ॥
उत्क्षिप्तगात्रः स्म विडम्बयन्नभः समुत्पतिष्यन्तमगेन्द्रमुच्चकैः ।
आकुञ्चितप्रोहनिरूपितक्रमं करेणुरारोहयते निषादिनम् ॥ ५॥
उत्क्षिप्तेति ॥ उत्क्षिप्तगात्र उन्नमितपूर्वकायः अत एव नभः खं प्रति समुत्पतिष्यन्तमुत्पतनोद्युक्तमगेन्द्रं महाद्रिं विडम्बयन्ननुकुर्वन्नित्युत्प्रेक्षा । अभूतोपमेति केचित् । उच्चकैरुन्नतः करेणुरिभः । 'करेणुरिभ्यां स्त्री नेभे' इत्यमरः । आकुञ्चितो नमितः प्रोहो गजाङ्घ्रिः । 'गजाङ्घ्रिः प्रोहः' इति विश्वः । तत्र निरूपितक्रमं कृतपादन्यासं निषादिनं यन्तारं आरोहयते स्म । स्वयमेव स्वात्मन्यारोपयतीत्यर्थः । रोहेर्गत्यर्थत्वात् 'गतिबुद्धि-' (१।४।५२) इत्यादिना अणि कर्तुर्निषादिनः कर्मत्वम् । अत्र कर्त्रभिप्राये 'णिचश्च' (१।३।७४) इत्यात्मनेपदे सिद्धेऽपि प्रयोगवैचित्र्यस्याप्यलंकारत्वादकार्त्रभिप्रायेऽपि ‘णेरणौ यत्कर्म णौ चेत्स कर्तानाध्याने' (१।३।६७) इत्यात्मनेपदं वदन्ति । अणि कर्मणः करेणोरेवात्र ण्यन्ते कर्तृत्वात्तस्यैव चार्थात्कर्मत्वादिति । ननु यत्सग्रहणमनन्यकर्मार्थमित्युक्तं तेन कर्ममात्रनिषेधात्कथं निषादिनि कर्मण्यात्मनेपदम् । सत्यम् । अन्येषां मतम् । भाष्यकारस्य तु 'दर्शयते भृत्यान् राजा' इत्युदाहरणादणि कर्तृकर्मण्यतिरिक्तकर्मण एव निषेधो विवक्षित इति कैयटः । तदेतत्सम्यग्विवेचितमस्माभिः किरातार्जुनीयटीकायां घण्टापथे 'स संततं दर्शयते गतस्मयः' (किरातार्जुनीये १।१०) इत्यत्र । स्वभावोक्तिः ॥५॥
स्वैरं कृतास्फालनलालितान्पुरः स्फुरत्तनून्दर्शितलाघवक्रियाः ।
वङ्कावलग्नैकसवल्गपाणयस्तुरंगमानारुरुहुस्तुरंगिणः ॥ ६॥
स्वैरमिति ॥ तुरंगिणोऽश्वारोहाः पुरः पूर्वं स्वैरं मन्दं कृतं यदास्फालनं पाणितलेनाङ्गसंघट्टनं तेन लालिताननुपालितान् । त्याजितोद्वेगानित्यर्थः । अत एव स्फुरत्तनून् कम्पितदेहांस्तुरंगमानश्वान् दर्शितं लाघवं शैघ्र्यं यासु ताः क्रिया उत्पतनकर्माणि येषां ते । वङ्कः पल्याणकोटिः । 'वङ्कः पल्याणभागे स्यात्' इति विश्वः । तत्रावलग्नः सक्त एकैकः सवल्गो मुखरज्जुसहितः पाणिः येषां ते तथोक्ताः सन्त आरुरुहुरारूढाः । स्वभावोक्तिः ॥ ६॥
अह्नाय यावन्न चकार भूयसे निषेदिवानासनबन्धमध्वने ।
तीव्रोत्थितास्तावदसह्यरंहसो विशृङ्खलं शृङ्खलकाः प्रतस्थिरे ॥७॥
अह्नायेति ॥ निषेदिवानुपर्युपविष्टः । निषादीति शेषः । 'भाषायां सदवसश्रुवः' (३।२।१०८) इति क्वसुप्रत्ययः । भूयसे दवीयसे अध्वने । भूयांसमध्वानं गन्तुमित्यर्थः । 'क्रियार्थोपपदस्य-' (२।३।१४) इति चतुर्थी । अह्नाय झटिति । 'द्राक् झटित्यञ्जसाह्नाय' इत्यमरः । यावदासनबन्धं दूराध्वगमनौपयिकमासनविशेषं न चकार तावत्तीव्रं तीक्ष्णमुत्थिता असह्यरंहसो दुःसहवेगाः शृङ्खलकाः करभा उष्ट्रभेदाः । 'करभाः स्युः शृङ्खलका दारवैः पादबन्धनैः' इत्यमरः । विशृङ्खलमनर्गलं प्रतस्थिरे प्रस्थिताः । 'समवप्रविभ्यः स्थः (१।३।२२) इत्यात्मनेपदम् । एषापि स्वभावोक्तिः ॥ ७॥
गण्डोज्ज्वलामुज्ज्वलनाभिचक्रया विराजमानां नवयोदरश्रिया ।
कश्चित्सुखं प्राप्तुमनाः सुसारथी रथीं युयोजाविधुरां वधूमिव ॥८॥
गण्डेति ॥ सुखमक्लिष्टं यथा तथा प्राप्तुं गन्तुं मनो यस्य स प्राप्तुमनाः, अन्यत्र सुखमानन्दं लब्धुकामः । 'तुं काममनसोरपि' इति मकारलोपः । शोभनः सारथिर्यस्य स सुसारथिः, अन्यत्र सुसहायवान् । कश्चित्कोऽपि रथी, कामी च । गण्डैश्चिह्नैरुज्ज्वलाम्, अन्यत्र कपोलोज्ज्वलाम् । 'गण्डः कपोले चिह्ने च' इति विश्वः । उज्ज्वलो नाभिर्बिलमध्यं ययोस्ते चक्रे रथाङ्गे यस्यास्तयोज्ज्वलनाभिचक्रया, अन्यत्रोज्ज्वलं नाभिचक्रं नाभिमण्डलं यस्यास्तया । 'नाभिः प्राण्यङ्गके क्षेत्रे चक्राङ्गचक्रवर्तिनोः' इति विश्वः । नवया प्रत्यग्रया उदुन्नता अराश्चक्रशलाकाः । पाठा०-१ 'तीक्ष्णो०’. २ 'तीक्ष्णं=तीव्रं'. 'अरः शीघ्रे च चक्राङ्गे' इति विश्वः । तेषां श्रिया, अन्यत्र उदरस्य मध्यस्य श्रिया शोभया विराजमानां विगता धूरग्रं यस्याः सा विधुरा । 'धूः स्त्री क्लीबे यानमुखम्' इत्यमरः । 'ऋक्पू:-' (५।४।७४) इत्यादिना समासान्तः । सा न भवतीत्यविधुरा ताम् । सधुरामित्यर्थः । अन्यत्राविधुरामविकलां रथीं शकटीम् । 'बह्वादिभ्यश्च' (४।१।४५) इति विकल्पेन ङीष् । वधूमिव युयोज योजयामास । अत्र शब्दमात्रसाधर्म्यात्सभङ्गाभङ्गपदमिश्रणादुभयगोचरत्वाच्च प्रकृताप्रकृतगोचरागोचरः शब्दार्थश्लेषः ॥ ८॥
उत्थातुमिच्छन्विधृतः पुरो बलान्निधीयमाने भरभाजि यन्त्रके।
अर्धोज्झितोद्गारविझर्झरस्वरः स्वनाम निन्ये रवणः स्फुटार्थताम् ॥९॥
उत्थातुमिति ॥ रौतीति रवण उष्ट्रः । 'रु शब्दे' इति धातोः 'चलनशब्दार्थादकर्मकाद्युच्' (३।२।१४८) इति युच्प्रत्ययः । भारारोपणाय यन्त्ररूपेण निर्मिते भरभाजि भारयुक्ते यन्त्रके गोण्यादौ निधीयमाने सति बलादुत्थातुमिच्छन्नुत्थाय गन्तुमिच्छन् अत एव पुरो मुखभागे विधृतो गृहीतः एवं स्वैरचारव्याघाततः अर्धोज्झितेनोद्गारेण स्वजग्धपिचुमर्दादिपत्ररसनेन विझर्झरो विषमः स्वरो यस्य स रवण उष्ट्रः स्वनाम स्फुटार्थतां निन्ये । रौतीति रवण इति व्युत्पन्नं स्वनाम यथार्थमकरोदित्यर्थः ॥ ९॥
नस्यागृहीतोऽपि धुवन्विषाणयोर्युगं ससूत्कारविवर्तितत्रिकः ।
गोणीं जनेन स्म निधातुमुद्धृतामनुक्षणं नोक्षतरः प्रतीच्छति ॥१०॥
नस्येति ॥ नस्या । नासिकाया नसादेशः । नासिकाभवा नस्या । दिगादित्वाद्यत् । तस्यां नासिकाप्रोतरज्जौ गृहीतोऽपि विषाणयोर्युगं धुवन् विधुन्वन् शृङ्गद्वयं कम्पयन् । ससूत्कारेति । सूत्कार इति शब्दानुकरणम् । अमर्षजः सशब्दनिश्वासो वा ससूत्कारं यथा तथा विवर्तितं त्रिकं पृष्ठवंशाधरसन्धिर्येन । 'पृष्ठवंशाधरे त्रिकम्' इत्यमरः । उक्षतरो महोक्षः पृष्ठे निधातुं जनेनानुक्षणमुद्धृतां गोणीं न प्रतीच्छति स्म न स्वीकृतवान् । निधातुमवसरं न दत्तवानित्यर्थः ॥ १० ॥
नानाविधाविष्कृतसामजस्वरः सहस्रवर्त्मा चपलैर्दुरध्ययः ।
गान्धर्वभूयिष्ठतया समानतां स सामवेदस्य दधौ बलोदधिः॥११॥
नानेति ॥ सामजा गजाः । 'सामजौ गजसामोत्थौ' इति शाश्वतः । नानाविधमाविष्कृताः सामजानां स्वरा ध्वनयो बृंहितानि यस्मिन् स सहस्रवर्त्मा बहुभिर्मार्गैर्गच्छन् । गन्धर्वा एव गान्धर्वा अश्वाः । 'वाजिवाहार्वगन्धर्व-' इत्यमरः । तैर्भूयिष्ठतया चपलैरस्थिरैः दुरध्ययो दुष्प्रापः । 'इण् गतौ' इत्यस्मात्कृच्छ्रार्थे खल् । ईदृशः स बलोदधिः सेनासमुद्रः सामवेदस्य समानतां दधौ । तत्समोऽभूदित्यर्थः । सामवेदोऽपि बहुधाविष्कृतबृहद्रथन्तरादिसामोत्थितस्वरः । सहस्रशाखत्वात्सहस्रवर्त्मा । गान्धर्वगानबहुत्वाच्चपलमतिभिरध्येतुमशक्य इत्यर्थः। 'इङ् अध्ययने' इत्यस्माद्धातोः खलि दुरध्यय इत्येवं रूपम् ॥ ११ ॥
पाठा०-१ 'उत्थाय गच्छन्'. २ 'विजर्जर'. ३ 'उत्थाय गच्छन्=गन्तुमिच्छन्'.
४ 'यथार्थमकरोदित्यभिप्रायः । 'रु शब्दे' इति धातोश्चलनार्थकादकर्मकायुजिति युच्प्रत्ययः'. प्रत्यन्यनागं चलितस्त्वरावता निरस्य कुण्ठं दधताप्यमङ्कुशम् ।
मूर्धानमूर्ध्वायतदन्तमण्डलं धुवन्नरोधि द्विरदो निषादिना ॥१२॥
प्रत्यन्येति ॥ अन्यनागं प्रति चलित ऊर्ध्वायतदन्तमण्डलं मूर्धानं धुवन् कम्पयन् द्विरदः कुण्ठमतीक्ष्णमङ्कुशं निरस्यस्य अन्यमकुण्ठमङ्कुशं दधता त्वरावता निषादिना अरोधि रुद्धः ॥ १२ ॥
संमूर्च्छदुच्छृङ्खलशङ्खनिःस्वनः स्वनः प्रयाते पटहस्य शार्ङ्गिणि ।
सत्त्वानि निन्ये नितरां महान्त्यपि व्यथां द्वयेषामपि मेदिनीभृतां १३
संमूर्च्छदिति ॥ 'मुर्छा मोहसमुच्छ्राययोः' इति धातुः । संमूर्च्छन्नुच्छ्रायं गच्छन् प्रचुरीभवन्नुच्छृङ्खलोऽनर्गलः सर्वव्यापी शङ्खस्य निःस्वनो यस्मिन्सः शार्ङ्गिणि प्रयाते यातुमुपक्रान्ते पटहस्य स्वनः द्वयेषामुभयेषामपि मेदिनीभृतां राज्ञां, पर्वतानां च महान्त्यपि सत्त्वानि बलानि, भूतानि च नितरां व्यथां निन्ये । कृष्णस्य पटहश्रवणाद्राज्ञां बलान्यभिभवशङ्कया व्यथितान्यासन् । तथा गिरिस्थिताः सिंहादयो जन्तवश्व किमिदमिति ससाध्वसा आसन्नित्यर्थः। 'व्यवसाये स्वभावे च पिशाचादौ गुणे बले । द्रव्यात्मभावयोश्चैव सत्त्वं प्राणेषु जन्तुषु ॥' इति शाश्वतः॥१३॥
कालीयकक्षोदविलेपनश्रियं दिशदिशामुल्लसदंशुमद्द्युति ।
खातं खुरैर्मुद्गभुजां विपप्रथे गिरेरधः काञ्चनभूमिजं रजः॥१४॥
कालीयेति ॥ कालीयं कुङ्कुमम् । 'काश्मीरजन्म घुसृणं कालीयं कुङ्कुमं विदुः' इति शाश्वतः । कालीयकक्षोदैः कुङ्कुमचूर्णैः कृतानुलेपनश्रियं दिशां दिशद्ददत् । उल्लस दंशुमान् उद्यदादित्यस्तत्समा द्युतिर्यस्य तत् मुद्गभुजामश्वानां खुरैः खातं विदारितं काञ्चनभूमिजं रजो गिरेरधो गुरुत्वाद्गिरेरधस्तादेव विपप्रथे विस्तीर्णमभवत् ॥ १४ ॥
मन्द्रैर्गजानां रथमण्डलस्वनैर्निजुह्नुवे तादृशमेव बृंहितम् ।
तारैर्बभूवे परभागलाभतः परिस्फुटैस्तेषु तुरंगहेषितैः ॥ १५ ॥
मन्द्रैरिति ॥ मन्द्रैर्गम्भीरैः । 'मन्द्रस्तु गम्भीरे' इत्यमरः । रथमण्डलस्वनैः तादृशं तद्रूपमेव गजानां बृंहितं निजुह्नुवे तिरस्कृतम् । गजध्वनिरेकरूपत्वेन रथशब्दान्न पृथगश्रावीत्यर्थः । तारैरुच्चैस्तरैर्मन्द्रस्वरविलक्षणैस्तुरंगहेषितैः परभागलाभतस्तेषु तादृशध्वनिगुणभेदलाभात्तेषु गजादिस्वनेषु परिस्फुटैर्बभूवे । तुरंगहेषाः सुव्यक्ता एव शुश्रुविर इत्यर्थः । 'बृंहितं करिणां शब्दो हेषा हृषा च वाजिनाम् । बभूवे इति भावे लिट् । निजुह्नुव इति कर्मणि लिट् ॥ १५॥
अन्वेतुकामोऽवमताङ्कुशग्रहस्तिरोगतं साङ्कुशमुद्वहञ्शिरः ।
स्थूलोच्चयेनागमदन्तिकागतां गजोऽग्रयाताग्रकरः करेणुकाम्॥१६॥
अन्वेत्विति ॥ अन्तिकागतां करेणुकां करिणीमन्वेतुकामोऽनुगन्तुकामः अङ्कुशं
पाठा०-१ 'कालेय०’. २ ‘०स्वरैः'. गृह्णातीत्यङ्कुशग्रहो निषादी सोऽवमतो येन सः निषादिना साङ्कुशं तिरोगतम् । अङ्कुशाकर्षणेन तिर्यग्भूतं शिरो मस्तकमुद्वहन् गजः अग्रयाताग्रकरः करिणीग्रहणाय प्रसारितकराग्रो भूत्वा स्थूलोच्चयेन गतिविशेषेणागमज्जगाम । 'गजमध्यगतौ स्थूलोच्चयः साकल्यपुञ्जयोः' इति रत्नप्रकाशः ॥ १६॥
यान्तोऽस्पृशन्तश्चरणैरिवावनिं जवात्प्रकीर्णैरभितः प्रकीर्णकैः।
अद्यापि सेनातुरगाः सविस्मयैरलूनपक्षा इव मेनिरे जनैः॥१७॥
यान्त इति ॥ जवाद्वेगाच्चरणैरवनिमस्पृशन्त इव यान्तः सेनातुरगा अभितः प्रकीर्णैरुभयतः प्रसृतैः प्रकीर्णकैश्चामरैः । 'चामरं तु प्रकीर्णकम्' इत्यमरः । कण्ठभूषणचामरैर्हेतुभिरद्यापि अलूनपक्षा इवेति सविस्मयैर्जनैर्मेनिरे । पूर्वं तुरगाणामपि पक्षा आसन् पश्चात्केनचित्कारणेन देवैः पक्षच्छेदः कारित इति प्रसिद्धिः ॥ १७ ॥
ऋज्वीर्दधानैरवतत्य कंधराश्चलावचूडाः कलघर्घरास्वैः ।
भूमिमहत्यप्यविलम्बितक्रमं क्रमेलकैस्तत्क्षणमेव चिच्छिदे ॥१८॥
ऋज्वीरिति ॥ ऋज्वीरवक्राः चलावचूडाः चलितकण्ठभूषणाः । 'शिरःशिखाभूषणेषु चूडा' इति यादवः । चलितशिरस इति वा । कंधराः शिरोधरा अवतत्य वितत्य दधानः कलघर्घरारवैः । 'घर्घरा क्षुद्रघण्टा स्यात्' इति शाश्वतः । अथवा घर्घरारव इति शब्दानुकरणम् । क्रमेलकैरुष्ट्रैः अविलम्बितक्रमम् , क्रमः पदक्षेपः । द्रुतपादक्षेपं यथा तथा महत्यपि भूमिस्तत्क्षणमेव चिच्छिदेऽतिक्रान्ता । स्वभावोक्तिः ॥ १८॥
तूर्णं प्रणेत्रा कृतनादमुच्चकैः प्रणोदितं वेसरयुग्यमध्वनि ।
आत्मीयनेमिक्षतसान्द्रमेदिनीरजश्चयाक्रान्तिभयादिवाद्रवत्॥१९॥
तूर्णमिति ॥ प्रणेत्रा सारथिना प्रणोदितं गमनाय प्रेरितम् । अत एव उच्चकैरुच्चैस्तरां कृतनादं यथा तथा वेसरयुग्यम् । संकराश्वो वेसरः । वेसराभ्यां युग्यं शकटमात्मीयनेमिः स्वचक्रधारा तया क्षतस्य सान्द्रस्य मेदिनीरजसश्चयेन समूहेन यदाक्रमणं तद्भयादिव तूर्णमध्वन्यद्रवत् । आत्मीयनेमिसमुद्भूतधूलिजालेनास्पृष्टं सत् द्रुतमगमदित्यर्थः ॥ १९ ॥
व्यावृत्तवक्त्रैरखिलैश्चमूचरैर्व्रजद्भिरेव क्षणमीक्षिताननाः ।
वल्गद्गरीयःस्तनकम्प्रकञ्चुकं ययुस्तुरंगाधिरुहोऽवरोधिकाः॥२०॥
व्यावृत्तेति ॥ व्यावृत्तवक्त्रैर्विवृत्तमुखैः व्रजद्भिरेवाखिलैः चमूचरैः क्षणमीक्षिताननाः तुरंगाधिरुहः । तुरंगानधिरुहन्तीति क्विप् । तुरंगाधिरूढा अवरोधिका अवरोधस्त्रियो वल्गद्भिश्चलद्भिः गरीयोभिर्गुरुतरैः स्तनैः कम्प्रः कम्पनशीलः कञ्चुकः कूर्पासो यस्मिन्कर्मणि तद्यथा तथा ययुः । 'नमिकम्पि-' (३।२।१६७) इत्यादिना रः प्रत्ययः ॥२०॥ पादैः पुरः कूबरिणां विदारिताः प्रकाममाक्रान्ततलास्ततो गजैः । भग्नोन्नतानन्तरपूरितान्तरा बभुर्भुवः कृष्टसमीकृता इव ॥ २१॥
पाठा०-१ 'ततघर्घरा०’. २ 'संततघण्टास्वनैः'. पादैरिति ॥ कूबरिणां रथानाम् । 'कूबरस्तु युगंधरः' इत्यमरः । स एषामस्तीति ते रथास्तेषां पादैः चक्रैः पुरः पूर्वं विदारिताः ततो गजैः प्रकाममाक्रान्ततलाः भग्नैरुक्तप्रकारेण पूर्वं भग्नत्वादुन्नतैरनन्तरैरुभयभागैः पूरितान्तराः समीकृतनिम्नप्रदेशाः । यद्वा पूर्वं रथचक्रविदारितत्वाद्भग्नोन्नता अनन्तरं गजपतिपरिक्रमणेन पूरितानतप्रदेशाः भुवः कृष्टसमीकृताः पूर्वं हलैः कृष्टा अनन्तरं बीजवपनार्थं समीकृता इव बभुः शुशुभिरे ॥ २१ ॥
दुर्दान्तमुत्कृत्य निरस्तसादिनं सहासहाकारमलोकयज्जनः ।
पर्याणतः स्रस्तमुरोविलम्बिनस्तुरंगमं प्रद्रुतमेकया दिशा ॥२२॥
दुर्दान्तमिति ॥ उरोविलम्बिनः पर्याणतः पल्ययनतः स्रस्तमत एवोत्प्लुत्य निरस्तसादिनं स्वपृष्टात्पातितावरोहमेकया दिशा प्रद्रुतं पलायितं दुर्दान्तं दुर्विनीतं तुरंगमं हासकृतेन हाकारेण सह यथा तथा जनोऽवलोकयदवलोकितवान् ॥२२॥
भूभृद्भिरप्यस्खलिताः खलूनतैरपह्नुवाना सरितः पृथूरपि ।
अन्वर्थसंज्ञैव परं त्रिमार्गगा ययावसंख्यैः पथिभिश्चमूरसौ ॥२३॥
भूभृद्भिरिति ॥ उन्नतैरपि भूभृद्भिः भूधरैर्भूपैश्चास्खलिता अप्रतिहताः पृथूर्महतीरपि सरितो यमुनाप्रभृतीर्नदीरपह्नुवाना स्वमहिम्नाच्छादयन्ती त्रिभिर्मागैर्गच्छतीति त्रिमार्गगा गङ्गा परमत्यन्तमन्वर्था अनुगतार्था संज्ञा 'त्रिमार्गगा' इति नामधेयं यस्याः सैव खलु त्रिभिरेव मागैर्ययौ न चतुर्थेनेत्यर्थः । असौ चमूस्त्वसंख्यैः पथिभिर्ययौ । अतो गङ्गाया अप्यधिका चमूरिति भावः । अत एव व्यतिरेकालंकारः । 'भेदप्राधान्यसाधर्म्यमुपमानोपमेययोः । अधिकाल्पत्वकथनाद्व्यतिरेकः स उच्यते ॥' इति तल्लक्षणात् ॥ २३ ॥
त्रस्तौ समासन्नकरेणुसूत्कृतान्नियन्तरि व्याकुलमुक्तरज्जुके ।
क्षिप्तावरोधाङ्गनमुत्पथेन गां विलङ्घ्य लघ्वीं करभौ बभञ्जतुः॥२४॥
त्रस्ताविति ॥ समासन्नस्य प्रत्यासन्नस्य करेणोरिभस्य सूत्कृतात्सूत्कारात्त्रस्तौ करभौ वेसरौ । 'करभो वेसरेऽप्युष्ट्रे' इति सज्जनः । नियन्तरि सारथौ व्याकुलं व्यग्रं यथा तथा मुक्तरज्जुके त्यक्तप्रग्रहे सति क्षिप्ताः पतिता अवरोधाङ्गना यस्मिन्कर्मणि तद्यथा तथा उत्पथेनापथेन । 'ऋक्पू:-' (५।४।७४) इत्यादिना समासान्तः । गां भूमिं विलङ्घय दूरमतीत्य लघ्वी रथविशेषम् । 'लघ्वी लाघवयुक्तायां प्रभेदे स्यन्दनस्य च' इति हैमः । बभञ्जतुर्भग्नवन्तौ । अत्र त्रासस्य विशेषणगत्या भञ्जनहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गं स्वभावोक्त्या संकीर्यते ॥ २४ ॥
स्रस्ताङ्गसंधौ विगताक्षपाटवे रुजा निकामं विकलीकृते रथे ।
आप्तेन तक्ष्णा भिषजेव तत्क्षणं प्रचक्रमे लङ्घनपूर्वकः क्रमः ॥२५॥
स्रस्तेति ॥ स्रस्ता विश्लिष्टा अङ्गयो रथाङ्गयोरङ्गानां करचरणादीनां च संधयः संधिभागा यस्य तस्मिन् विगतमक्षस्य चक्राधारकाष्ठस्याक्षाणामिन्द्रियाणां च पाटवं पाठा०-१'त्रस्त०’. २ 'सहसहाकारं हास्यदर्शनजनितेन हासेन हासशब्देन च सहितं यथा तथा, अथवा'. सामर्थ्यं यस्य तस्मिन् रथे स्यन्दने, शरीरे च । 'रथः स्यात्स्यन्दने काये' इति विश्वः । रुजा भङ्गेन, रोगेण च निकामं विकलीकृते सति आप्तेन हितेन तक्ष्णा वर्धकिना, आप्तेन हितेन भिषजा वैद्येनेव । 'तक्षा तु वर्धकिस्त्वष्टा' इत्यमरः । तत्क्षणं तस्मिन्नेव क्षणे । अत्यन्तसंयोगे द्वितीया । लङ्घनं पादेनाक्रमणं, उपवासश्च । 'लङ्घनं तूपवासे स्वाद्गमने प्लवनेऽपि च' इति विश्वः । तत्पूर्वकः क्रमो विधिः प्रचक्रमे प्रक्रान्तः । प्रायेण ज्वरादिचिकित्साया लङ्घनपूर्वकत्वादिति भावः । श्लेषालंकारः ॥ २५ ॥
धूर्भङ्गसंक्षोभविदारितोष्ट्रिकागलन्मधुप्लावितदूरवर्त्मनि ।
स्थाणौ निषङ्गिण्यनसि क्षणं पुरः शुशोच लाभाय कृतक्रयो वणिक् ॥
धूर्भङ्गेति । स्थाणौ कीले । 'स्थाणुः कीले स्थिरे हरे' इति विश्वः । निषङ्गिणि सक्ते अनसि शकटे । 'क्लीबेऽनः शकटोऽस्त्री स्यात्' इत्यमरः । धुरोऽक्षस्य भङ्गेन यः संक्षोभो विपर्यासस्तेन विदारिता भिन्ना या उष्ट्रिका मृण्मयं मद्यभाण्डम् । 'उष्ट्रिका मृत्तिकाभाण्डभेदे करभयोषिति' इति विश्वः । ततो गलता स्रवता मधुना मद्येन प्लावितं सिक्तं दूरवर्त्म दीर्घाध्वा येन तस्मिन् । तथा सति पुरः पूर्वं लाभाय कृतः क्रयः क्रयणं येन स वणिक् क्षणं शुशोच । अत्र मधुस्रावधनव्यययोर्विशेषणगत्या शोकहेतुत्वात्काव्यलिङ्गभेदः ॥ २६॥
भेरीभिराक्रुष्टमहागुहामुखो ध्वजांशुकैस्तर्जितकन्दलीवनः ।
उत्तुङ्गमातङ्गजितालघूपलो बलैः स पश्चात्क्रियते स भूधरः॥२७॥
भेरीभिरिति ॥ भेरीभिराक्रुष्टानि निन्दितानि महान्ति गुहामुखानि येन सः । भेरीझङ्कारभर्त्सितनितान्तवात्यामुखरमहागुहाद्वार इत्यर्थः । ध्वजांशुकैस्तर्जितानि भर्त्सितानि कन्दलीदलानि गुल्मपत्राणि येन सः । उत्तुङ्गैर्मातङ्गैर्जिता अलघूपलाः स्थूलपाषाणा येन स भूधरो रैवतकादिः बलैः सैन्यैः पश्चात्क्रियते स्म पश्चात्कृतः । स्वयं दूरगमनेन पृष्ठतः कृत इत्यर्थः । उक्तविशेषणमहिम्ना अधरीकृत इति च प्रतीयते । 'लट् स्मे' (३।२।११८) इति भूतार्थे लट् । आक्रुष्टेति क्रोशतेः कर्मणि क्तः । व्रश्चादित्वात्पत्वे ष्टुत्वम् । अत्र पश्चात्करणस्याक्रुष्टादिपदार्थहेतुकत्वात्काव्यलिङ्गम् । तच्चोक्तप्रतीयमानाभेदाध्यवसायादिति श्लेषमूलातिशयोक्तिसंकीर्णम् । तेन बलानां भूधरौपम्यं गम्यत इत्यर्थालंकारेणालंकारध्वनिः ॥ २७ ॥
वन्येभदानानिलगन्धदुर्धराः क्षणं तरुच्छेदविनोदितक्रुधः ।
व्यालद्विपा यन्तृभिरुन्मदिष्णवः कथंचिदारादपथेन निन्यिरे॥२७॥
वन्येभेति ॥ वन्येभदानानिलगन्धेन वनगजमदमारुतगन्धाघ्राणेन दुर्धराः क्रोधान्धा दुर्ग्रहाः अत एव क्षणं तरुच्छेदेन विनोदितक्रुधः प्रतिगजासांनिध्ये वृक्षाणां भङ्गेनापनीतक्रोधाः उन्मदिष्णवोऽत्यन्तमदशीलाः । 'अलंकृञ्-' (३।२। १३६) इत्यादिना इष्णुच् । व्यालद्विपा दुष्टगजा यन्तृभिराधोरणैः कथंचिद्दूरादपथेनामार्गेण । 'पथो विभाषा' (५।४।७२) इति निषेधविकल्पात् 'ऋक्पू:-' (५।४।७४) इत्यादिना समासान्तः । 'अपथं नपुंसकम्' (२।४।३०) इति नपुंसकत्वम् । निन्यिरे नीताः । अत्रापि द्विपविशेषणानां तदुपमेयहेतुकत्वात्काव्यलिङ्गं सत्स्वभावोक्त्या संकीर्यते ॥ २८ ॥
तैर्वैजयन्तीवनराजिराजिभिर्गिरिप्रतिच्छन्दमहामतङ्गजैः ।
बह्व्यः प्रसर्पज्जनतानदीशतैर्भुवो बलैरन्तरयांबभूविरे ॥ २९ ॥
तैरिति ॥ वैजयन्त्यः पताकाः ता वनराजय इव ताभी राजन्तीति तथोक्तैः गिरीणां प्रतिच्छन्दाः प्रतिनिधयः । तत्सदृशा इत्यर्थः । एतस्मादेव स्पष्टोपमालिङ्गादन्यत्राप्युपमितसमासाश्रयणम् । ते महामतङ्गजा येषु तैः । जनता जनसमूहास्ता नद्य इव तासां शतानि प्रसर्पन्ति प्रवहन्ति येषु तैस्तथोक्तैः बलैः सैन्यैः । बह्व्यो बहवः । 'बह्वादिभ्यश्च' (४।१।४५) इति विकल्पादीकारः । भुवो भूमयः अन्तरयांबभूविरेऽन्तरा दूराः कृता इति । अतिक्रान्ता इत्यर्थः । न केवलं रैवतकादिरेवेति भावः । बलैर्वैपुल्यादाच्छादिता इत्यर्थः । उक्तविशेषणावगतसादृश्यादगृहीतभेदाः कृता इति च गम्यते । एतेनाभेदाध्यवसायादेवास्याक्रमणरूपान्तरीकरणस्य बलविशेषणावगतसादृश्यस्य हेतुकत्वात्तदङ्गभूतोपमासंकीर्णं पदार्थहेतुकं काव्यलिङ्गं श्लेषमूलाभेदातिशयोक्त्युत्थापितमिति संकरः अन्तरशब्दात् 'तत्करोति-' (ग०) इति ण्यन्तात्कर्मणि लिट् । आम्प्रत्यये भुवोऽनुप्रयोगः॥२९॥
तस्थे मुहूर्तं हरिणीविलोचनैः सदृंशि दृष्ट्वा नयनानि योषिताम् ।
मत्वाथ सत्रासमनेकविभ्रमक्रियाविकाराणि मृगैः पलाय्यत॥३०॥
तस्थ इति ॥ हरिणीविलोचनैः सदृंशि सदृशानि । 'नपुंसकस्य झलचः' (७।१।७२) इति नुम् । योषितां नयनानि दृष्ट्वा मृगैः कृष्णसारैः कर्तृभिः मुहूर्तमल्पकालम् । 'मुहूर्तमल्पकाले स्याद्घटिकाद्वितयेऽपि च' इति विश्वः । तस्थे स्थितम् । हरिणीविलोचनशङ्कयेति भावः । अथानन्तरमनेका विभ्रमक्रिया विलासक्रिया एव विकारा येषां तानि मत्वा । सविलासानि ज्ञात्वेत्यर्थः । सत्रासं सभयं यथा तथा पलाय्यत पलायितम् । हरिणीदुर्लभैर्विलासैर्योषिन्निश्चयादिति भावः । अत एव निश्चयान्तः संशयालंकारः । परापूर्वादयतेर्भावे लङ् । 'उपसर्गस्यायतौ' (८।२।१९) इति लत्वम् ॥ ३० ॥
निम्नानि दुःखादवतीर्य सादिभिः सयत्नमाकृष्टकशाः शनैःशनैः ।
उत्तेरुरुत्तालखुरारवं द्रुताः श्लथीकृतप्रग्रहमर्वतां व्रजाः ॥ ३१ ॥
निम्नानीति ॥ अर्वतामश्वानाम् । 'वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः' इत्यमरः । 'अर्वणस्त्रसावनञः' ( ६।४।१२७) इति त्रादेशः । व्रजाः समूहाः सादिभिरश्वारूढैः । सयत्नमाकृष्टकशा दृढगृहीतवल्गाः सन्तः । यद्यपि 'अश्वादेस्ताडनी कशा' इत्यमरः, तथाप्यत्र 'ताडनीवल्गयोः कशा' इति दर्शनादविरोधः । शनैःशनैः दुःखात्कृच्छ्रात् निम्नानि निम्नभूप्रदेशानवतीर्य उत्तालखुरारवमुच्चतरशफशब्दं श्लथीकृतप्रग्रहं शिथिलितवल्गं च यथा तथा द्रुताः सत्वराः सन्त उत्तेरुः उत्पुप्लुविरे । निम्नेषु शनैरवतीर्य दीर्घं धावन्तीत्यश्वानां स्वभाव इति भावः । अत
एव स्वभावोक्तिः ॥ ३१ ॥ अध्यध्वमारूढवतैव केनचित्प्रतीक्षमाणेन जनं मुहुर्धृतः ।
दाक्ष्यं हि सद्यः फलदं यदग्रतश्चखाद दासेरयुवा वनावलीः ॥३२॥
अध्यध्वमिति ॥ दक्षस्य भावो दाक्ष्यं कौशलं सद्यः फलदम् । कुतः, यद्यस्मादध्यध्वमध्वनि । विभक्त्यर्थेऽव्ययीभावः, 'अनश्च' (५।४।१०८) इति समासान्तोऽप्रत्ययः 'नस्तद्धिते' (६।४।१४४) इति टिलोपः । आरूढवतैवारुह्यैव स्थितेन । निष्ठेति रुहेः क्तवतुप्रत्ययः । जनं शनैः पश्चादागच्छन्तं स्वजनं प्रतीक्षमाणेन । केनचित्पुंसेति शेषः । मुहुर्धृतः स्थापितोऽपि दासेरयुवा तरुणोष्ट्रः । विशेषणसमासः। अग्रतो वनावलीश्चखाद । पुरः पिचुमर्दादिकं भक्षयन्नास्त इत्यर्थः। न हि कुशलो वृथा कालं यापयतीति भावः । अत्र दाक्ष्यसाफल्यस्य सामान्यस्य तद्विशेषेण दासेरककौशलेन समर्थनाद्विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः॥३२॥
शौरेः प्रतापोपनतैरितस्ततः समागतैः प्रश्रयनम्रमूर्तिभिः ।
एकातपत्रा पृथिवीभृतां गणैरभूद्बहुच्छत्रतया पताकिनी ॥३३॥
शौरेरिति ॥ शौरेः कृष्णस्य पताकिनी सेना । व्रीह्यादित्वादिनिः । प्रतापेन हरितेजसा उपनतैर्नम्रैः । विधेयैरित्यर्थः । अत एवेतस्ततः समागतैः पार्श्वदेशादागतैः प्रश्रयनम्रमूर्तिभिर्हरिसंनिधौ विनयनम्रविग्रहैः पृथिवीभृतां राज्ञां गणैर्हेतुना बहुच्छत्रतया असंख्यातातपत्रवत्तया निमित्तेन एकानि केवलान्यातपत्राणि यस्याः सा एकातपत्रा केवलातपत्रमय्यभूत् । आतपत्रातिरिक्तं न किंचिदलक्ष्यतेत्यर्थः । 'एके मुख्यान्यकेवलाः' इत्यमरः । बहुच्छत्राप्येकच्छत्रेति विरोधभासनाद्विरोधाभासोऽलंकारः ॥ ३३ ॥
आगच्छतोऽनूचि गजस्य घण्टयोः स्वनं समाकर्ण्य समाकुलाङ्गनाः।
दूरादपावर्तितभारवाहणाः पथोऽपसस्रुस्त्वरितं चमूचराः ॥ ३४ ॥
आगच्छत इति ॥ अन्वञ्चतीत्यन्वङ् तस्मिन्ननूचि पृष्ठदेशे । 'ऋत्विग्-' (३।२।५९) इत्यादिनाऽञ्चेः क्विन्प्रत्ययः । आगच्छतो गजस्य घण्टयोः स्वनं समाकर्ण्य समाकुलाङ्गनाः संभ्रान्तवधूकाश्चमूचराः दूरादेवापावर्तिता अपसारिता भारस्यान्नादेहिना भारवाहणा भारवाहिन उष्ट्रादयो यैस्ते तथा सन्तः । 'वाहनमाहितात्' (८।४।८) इति णत्वम् । वहेर्ण्यन्तात्कर्तरि ल्युट् । त्वरितं शीघ्रं पथो मार्गादपसस्रुरपजग्मुः । स्वभावोक्तिः ॥ ३४ ॥
ओजस्विवर्णोज्ज्वलवृत्तशालिनः प्रसादिनोऽनुज्झितगोत्रसंविदः ।
श्लोकानुपेन्द्रस्य पुरःस्म भूयसो गुणान्समुद्दिश्य पठन्ति बन्दिनः३५
ओजस्वीति ॥ बन्दिनः स्तुतिपाठकाः । 'बन्दिनः स्तुतिपाठकाः' इत्यमरः । ओजस्विवर्णस्य तेजस्विवर्णस्य क्षत्रजातेर्यदुज्ज्वलं वृत्तमुदग्रव्यापारः विजयाख्यं तेन शालत इति ओजस्विवर्णोज्ज्वलवृत्तशाली तस्य, अन्यत्र ओजस्विवर्णैः समासभूयिष्ठाक्षरैरुज्ज्वलास्ते च ते वृत्तशालिनो वसन्ततिलकादिच्छन्दोविशेषशालिनश्च । 'वृत्तं चारित्रच्छन्दसोरपि' इति विश्वः । तान् प्रसादोऽस्यास्तीति प्रसादी तस्य प्रसादिनोऽनुग्रहशीलस्य । अन्यत्र प्रसादगुणयुक्तान् । 'प्रसिद्धार्थपदत्वं यत्स प्रसादो निगद्यते' इति अनुज्झितौ गोत्रसंविदौ कुलाचारौ येन तस्य । यादववंशोत्पन्नस्येत्यर्थः । अन्यत्र कुलनामनी यैस्तान् । वंशनामाङ्कितानित्यर्थः । 'संविद्युद्धे प्रतिज्ञायां संकेताचारनामसु' इति वैजयन्ती । एवंभूतस्योपेन्द्रस्य हरेर्गुणान् समुद्दिश्याधिकृत्य भूयसो बहुलान् श्लोकान् स्तुतिपद्यानि पुरोऽग्रे पठन्ति स्म । अत्रोपेन्द्रस्य तच्छ्लोकानां च वर्ण्यत्वेन प्रकृतानां श्लेषसाधर्म्यादौपम्यगम्यतायां श्लेषप्रतिभोत्थापिता केवलप्रकृतगोचरा तुल्ययोगिता । श्लेषश्च प्रकृतिषु प्रत्ययेषु नेति ॥३५॥
निःशेषमाक्रान्तमहीतलो जलैश्चलन्समुद्रोऽपि समुज्झति स्थितिम् ।
ग्रामेषु सैन्यैरकरोदवारितैः किमव्यवस्थां चलितोऽपि केशवः॥३६॥
निःशेषमिति ॥ चलन्कल्पान्ते क्षुभितः समुद्रोऽपि जलैर्निःशेषमाक्रान्तमहीतलः सन् स्थितिं मर्यादां वेलालङ्घनलक्षणां समुज्झति त्यजति । केशवस्तु चलितोऽपि प्रस्थितोऽप्यवारितैरपरिमितैः सैन्यैः निःशेषमाक्रान्तमहीतलः सन् ग्रामेषु अव्यवस्थाममर्यादां अकरोत् किम् । नाकरोदेवेत्यर्थः । अनोपमानात् समुद्रादुपमेयस्य केशवस्य मर्यादानतिक्रमेणाधिक्यकथनाध्यतिरेकालंकारः । लक्षणं तूक्तम् ॥ ३६ ॥
कोशातकीपुष्पगुलुच्छकान्तिभिर्मुखैर्विनिद्रोल्बणबाणचक्षुषः ।
ग्रामीणवध्वस्तमलक्षिता जनैश्चिरं वृतीनामुपरि व्यलोकयन् ॥३७॥
कोशातकीति॥ कोशातकीपुष्पगुलुच्छकान्तिभिः पटोलीप्रसूनगुच्छसच्छायैः । स्मरपाण्डेररित्यर्थः । 'कोशातकी पटोली स्यात्' इति हलायुधः । मुखैरुपलक्षिताः विनिद्रं विकसितमत एवोल्बणं विपुलं बाणं नीलसैरेयपुष्पमिव चक्षुर्यासां ताः । 'नीली झिण्टी द्वयोर्बाणा' इत्यमरः । ग्रामेषु भवा ग्रामीणाः । 'ग्रामाद्यखञौ' (४।२।९४) इति खञ्प्रत्ययः । ताश्च वध्वः स्त्रियस्तं कृष्णम् । ग्रामान्तर्गामिनमिति भावः । जनैश्चमूचरैरलक्षिता । वृतिभिस्तिरोहिता इत्यर्थः । चिरं वृतीनां कण्टकशाखावरणानामुपर्युपरितनावकाशे व्यलोकयन् । उपमास्वभावोक्त्योः संकरः ॥ ३७॥
गोष्ठेषु गोष्ठीकृतमण्डलासनान्सनादमुत्थाय मुहुः स वल्गतः ।
ग्राम्यानपश्यत्कपिशं पिपासतः स्वगोत्रसंकीर्तनभावितात्मनः ॥३८
गोष्ठेष्विति ॥ स कृष्णो गावस्तिष्ठन्त्येष्विति गोष्ठानि गोस्थानानि । गोष्ठं गोस्थानकम्' इत्यमरः । 'सुपि स्थः' (३।२।४) इति कप्रत्ययः । 'अम्बाम्बगोभूमि-' (८।३।९७) इत्यादिना षत्वम् । गोष्ठीषु वार्तासु । 'गोष्ठी सभायामालापे' इति विश्वः । कृतानि मण्डलासनानि मण्डलाकारेणोपवेशनानि यैस्तान्मुहुः सनादं क्ष्वेलाट्टाट्टहासाचारावसहितं यथा तथोत्थाय वल्गत उत्प्लवमानान् कपिशं मद्यम् । 'कश्यं मद्यं च मैरेयं कपिशं कापिशायनम्' इति हलायुधः । पिपासतो मुहुर्मुहुः पातुमिच्छतः । पिबतेः सन्नन्ताल्लटः शतरि शप् । स्वगोत्रसंकीर्तने स्वनामसंकीर्तने भावितात्मनः प्रवर्तितचित्तान् । कृष्णनामानि गायत इत्यर्थः । ग्रामेषु भवान् ग्राम्यान् । घोषजनानित्यर्थः । 'ग्रामाद्यखञौ' (४।२।९४) इति
यप्रत्ययः । अपश्यदालोकितवान् । स्वभावोक्तिः ॥ ३८ ॥ पश्यन्कृतार्थैरपि बल्लवीजनो जनाधिनाथं न ययौ वितृष्णताम् ।
एकान्तमौग्ध्यानवबुद्धविभ्रमैः प्रसिद्धविस्तारगुणैर्विलोचनैः ॥३९॥
पश्यन्निति ॥ एकान्तमौग्ध्येनात्यन्तमुग्धतया अनवबुद्धविभ्रमैरज्ञातविलासैः किंतु प्रसिद्धो विस्तार एव गुणो येषां तैः । अतिविशालैरित्यर्थः । कृतार्थैरपि । सकृद्दर्शनाल्लब्धविस्तारफलैरित्यर्थः । विलोचनैर्जनाधिनाथं कृष्णं पश्यन् बल्लवीजनो गोपाङ्गनाजनः वितृष्णतां तृप्ततां न ययौ । भूयो भूयः पश्यन्नपि नालंबुद्धिमवापेत्यर्थः । अत्र तृप्तिकारणे दर्शने सत्यपि तृप्तिकार्यानुपपत्तेर्विशेषोक्तिः । सा कृष्णस्य मदनकोटिलावण्यलक्ष्मीं व्यञ्जयति ॥ ३९ ॥
प्रीत्या नियुक्ताँल्लिहती स्तनंधयान्निगृह्य पारीमुभयेन जानुनोः ।
वर्धिष्णुधाराध्वनि रोहिणीः पयश्चिरं निदध्यौ दुहतः स गोदुहः ४०
प्रीत्येति ॥ नियुक्तान्वामपादे एव संयतान् स्तनं धयन्ति पिबन्तीति स्तनंधयान् वत्सान् । 'नासिकास्तनयोर्ध्माधेटोः' (३।२।२९) इति धेटः खशप्रत्ययः । प्रीत्या वत्सांल्लिहतीर्जिह्वया स्वादयन्तीः रोहिणीर्गाः । 'अर्जुन्यज्ञ्या रोहिणी स्यात्' इत्यमरः । पयः क्षीरं जानुनोरुभयेन जानुद्वयेन पारी दोहनपात्रीम् । 'पारी पात्रीपरागयोः' इति विश्वः । निगृह्य निरुध्य । वर्धिष्णुधाराध्वनि वर्धनशीलक्षीरधाराशब्दं यथा भवति तथा दुहतः प्रपूरयतः । दुहेर्लटः शतरि शप् 'दुह्याच्–' (३।२।६१) इति द्विकर्मकत्वम् । गां दुहन्तीति गोदुहो गोदोहकान् । 'सत्सूद्विष-' (३।२।६१) इत्यादिना क्विप् । स हरिश्चिरं निदध्याववलोकयति स्म । 'निध्यानमवलोकनम्' इति वैजयन्ती । स्वभावोक्तिः ॥ ४० ॥
अभ्याजतोऽभ्यागततूर्णतर्णकान्निर्याणहस्तस्य पुरो दुधुक्षतः ।
वर्गाद्गवां हुंकृतिचारु निर्यतीमरिर्मधोरैक्षत गोमतल्लिकाम् ॥४१॥
अभ्येति ॥ अभ्याजतः दोग्धुमभिमुखमागच्छतः । अजेर्लटः शत्रादेशः । निर्याणं पादबन्धनं दाम । 'निर्याणं दाम संदानं पशूनां पादबन्धने' इति वैजयन्ती । तद्धस्ते यस्य तस्य निर्याणहस्तस्य दुधुक्षतो दोग्धुमिच्छतः । दोग्धुरिति शेषः । दुहेः सन्नन्ताल्लटः शत्रादेशः घत्वधत्वे । पुरोऽग्रेऽभ्यागतोऽभिमुखमागतस्तूर्णस्तनपाने त्वरमाणस्तर्णकोऽतिबालवत्सो यस्यास्ताम् । 'सद्योजातस्तु तर्णकः' इत्यमरः । गवां वर्गाद्गोव्रजाद्धुंकृतिचारु हुंकारमनोहरं यथा तथा निर्यतीं निर्गच्छन्तीम् । इणः शतरि ङीप् । इणो यणादेशः । प्रशस्तां गां गोमतल्लिकाम् । 'प्रशंसावचनैश्च' इति नित्यसमासः । 'मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ । प्रशस्तवाचकान्यमूनि' इत्यमरः । मधोररिर्मधुसूदन ऐक्षत ईक्षितवान् । ईक्षतेर्लङि 'आडजादीनाम्' (६।४।७२) इत्याट् 'आटश्च' (६।१९०) इति वृद्धिः । स्वभावोक्तिः ॥ ४१ ॥
स व्रीहिणां यावदपासितुं गताः
शुकान्मृगैस्तावदुपद्रुतश्रियाम् ।
कैदारिकाणामभितः समाकुलाः
सहासमालोकयति स्म गोपिकाः ॥ ४२ ॥
स इति ॥ यावच्छुकान् कीरानपासितुं गतास्तावन्मृगैरुपद्रुतश्रियामुपद्रुतसंपदां व्रीहिणां व्रीहिमताम् । 'व्रीह्यादिभ्यश्च' (५।२।११६) इतीनिप्रत्ययः । कैदारिकाणां क्षेत्रसमूहानाम् । 'पुंनपुंसकयोर्वप्रः केदारः क्षेत्रमस्य तु । कैदारकं स्यात्कदार्यं क्षेत्रं कैदारिकं गणे ॥' इत्यमरः । 'ठञ् कवचिनश्च' (४।२।४१) इति चकाराट्ठञ्प्रत्ययः । कृद्योगात्कर्मणि षष्ठी । गोपिकाः गोप्त्रीरभितः समाकुला व्यग्राः । उभयतः समाकृष्यमाणाः सतीरित्यर्थः । स हरिः सहासमालोकयति स्म । अत्र सहासावलोकनस्य विशेषणगत्या समाकुलपदार्थहेतुकत्वात्काव्यलिङ्गभेदः॥४२॥
व्यासेद्धुमस्मानवधानतः पुरा
चलत्यसावित्युपकर्णयन्नसौ ।
गीतानि गोप्याः कलमं मृगव्रजो
न नूनमत्तीति हरिर्व्यलोकयत् ॥ ४३ ॥
व्यासेद्धुमिति ॥ गोप्याः शालिगोप्याः । गौरादित्वान्ङीष् । गीतान्युपकर्णयन् शृण्वन् असौ मृगव्रजो नूनं निश्चितं कलमं नात्ति न खादति इति । किं कलमभक्षणे गीतश्रवणविशेष इत्यत आह–असौ गोपी अस्मान् व्यासेद्धुं निवारयितुमवधानतो गीतैकाग्र्यात् पुरा चलति चलिष्यति । 'यावत्पुरानिपातयोर्लट्' (३।३।४) इति भविष्यदर्थे लट् । इतीत्थं वितर्कयन्निति शेषः । हरिर्व्यलोकयत् । अत्र मृगाणां कलमखादननिवृत्तेर्गीतासक्तिनिमित्तायास्तदाकर्णनसुखभङ्गभयहेतुकत्वमुत्प्रेक्ष्यते ॥ ४३ ॥
लीलाचलत्स्त्रीचरणारुणोत्पलस्खलत्तुलाकोटिनिनादकोमलः ।
शौरेरुपानूपमपाहरन्मनः स्वनान्तरादुन्मदसारसारवः ॥ ४४ ॥
लीलेति ॥ अनुगता आपो येषु ते अनूपा जलप्राया देशाः । 'जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः' इत्यमरः । 'प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपश्च' (वा०) इति बहुव्रीहिः 'ऋक्पू:-' (५।४।७४) इत्यदिना समासान्तः 'ऊदनोर्देशे' (६।३।९८) इत्यूकारः । तेषां समीपे उपानूपम् । समीपार्थेऽव्ययीभावः । लीलया चलति चलनशीले स्त्रियाश्चरणे अरुणोत्पले इव तयोः स्खलन्त्यौ ये तुलाकोटी नूपुरौ । 'पादाङ्गदं तुलाकोटिर्मञ्जीरो नूपुरोऽस्त्रियाम्' इत्यमरः । तयोर्निनाद इव कोमलो मधुर उन्मदसारसारवः मत्तहंसकूजितम् । 'चक्राङ्गसारसौ हंसे' इति शब्दार्णवे । शौरेर्मनः स्वनान्तरादपाहरत् । अत्र मनोहरणस्य लीलेत्यादिविशेषणार्थहेतुकत्वादुपमासंकीर्णं काव्यलिङ्गम् ॥ ४४ ॥
उच्चैर्गतामस्खलितां गरीयसीं तदातिदूरादपि तस्य गच्छतः ।
एके समूहुर्बलरेणुसंहतिं शिरोभिराज्ञामपरे महीभृतः ॥ ४५ ॥
च गरीयसीमतिमहतीं, पूज्यां च । बलरेणुसंहतिं सेनारेणुसंघातमेके कतिपये महीभृतः पर्वता आज्ञां शासनं, अपरे महीभृतः, राजानश्च । शिरोभिः शेखरैः, शीर्षैश्च समूहुः संवहन्ति स्म । वहेलिटि झेरुसि 'वचिस्वपि-' (६।१।१५) इत्यादिना संप्रसारणम् । अत्र हरिमहिमवर्णनायामुभयेषामपि महीभृतां प्रकृतत्वात्केवलप्रकृतास्पदा तुल्ययोगिता श्लेषप्रतिभोत्थापिता चेति संकरः ॥ ४५ ॥
प्रायेण नीचानपि मेदिनीभृतो जनः समेनैव पथाधिरोहति ।
सेना मुरारेः पथ एव सा पुनर्महामहीध्रान्परितोऽध्यरोहयत् ॥४६॥
प्रायेणेति ॥ प्रायेण प्राचुर्येण नीचान् कुब्जानपि मेदिनीभृतोऽद्रीन् जनो लोकः समेन सुगमेन पथा मार्गेणैवाधिरोहति । सा मुरारेः सेना पुनः पथो मार्गानेव महामहीध्रान् महाद्रीन् परितोऽध्यरोहयत् । लोके हि सति क्षुण्णेऽध्वनि तेन शैलारोहणसंभवः । सेना तु सर्वपथातिरेकिण्यभूत् । पूर्वापराः सहस्रं पन्थानः स्वारोहणेन प्रवर्तिता इत्यर्थः । रोहतेर्गत्यर्थत्वात् 'गतिबुद्धि-' (१।४।५२) इत्यादिना पथामणिकर्तॄणां णौ कर्मत्वम् । महीं धरन्तीति महीध्राः मूलविभुजादित्वात्कः । अत्र सेनायाः पथां शैलाधिरोहणेनोपमानाज्जनादाधिक्यकथनाद्व्यतिरेकः ॥ ४६॥
दन्ताग्रनिर्भिन्नपयोदमुन्मुखाः शिलोचयानारुरुहुर्महीयसः।
तिर्यक्कटप्लाविमदाम्बुनिम्नगाविपूर्यमाणश्रवणोदरं द्विपाः ॥४७॥
दन्ताग्रेति ॥ द्वाभ्यां पिबन्तीति द्विपाः । 'सुपि' (३।२।४) इति योगविभागात्कप्रत्ययः । उन्मुखा उन्नमितमुखाः सन्तः दन्ताग्रैर्निर्भिन्ना विदारिताः पयोदाः शृङ्गगता यस्मिन्कर्मणि तद्यथा तथा तिर्यगूर्ध्वमुखत्वात्तिरश्चीनं यथा तथा कटेभ्यः प्लवन्ते क्षरन्तीति कटप्लाविनीभिः मदाम्बुनिम्नगाभिः मदजलप्रवाहैः विपूर्यमाणानि श्रवणोदराणि श्रोत्रोदराणि यस्मिन्कर्मणि तद्यथा तथा महीयसो महत्तरान् शिलोच्चयान् शैलानारुरुहुः । स्वभावोक्तिः ॥ ४७ ॥
योतन्मदाम्भःकणकेन केनचिज्जनस्य जीमूतकदम्बकद्युता ।
नगेन नागेन गरीयसोच्चकैररोधि पन्थाः पृथुदन्तशालिना॥४८॥
श्च्योतदिति ॥ श्च्योतन्तः क्षरन्तो मदाम्भःकणा यस्य तेन । शैषिकः कप्प्रत्ययः । जीमूतकदम्बकस्येव द्युत् द्युतिर्यस्य तेन । पृथुभ्यां दन्ताभ्यां शालत इति तच्छालिना । गरीयसा गुरुतरेणोच्चकैरुन्नतेन केनचिन्नागेन गजेन जनस्य पन्था मार्गः यथाऽरोधि अगेन अचलेन न तथाऽरोधि रुद्धः । मत्तमातङ्गस्य दुरासदत्वाच्छैलवदनतिक्रमणीयत्वादिति भावः । अत एवोपमानादगादुपमेयस्य
नागस्याधिक्याद्व्यतिरेकः ॥ ४८ ॥ भग्नद्रुमश्चक्रुरितस्ततो दिशः समुल्लसत्केतनकाननाकुलाः ।
पिष्टाद्रिपृष्ठास्तरसा च दन्तिनश्चलन्निजाङ्गाचलदुर्गमा भुवः ॥४९॥
भग्नेति ॥ दन्तिनो गजा इतस्ततो भग्नद्रुमाः स्वभग्नाखिलवृक्षा दिशः समुल्लसद्भिः केतनैरेव काननैराकुलाः संकीर्णाश्चक्रुः । तथा तरसा बलेन पिष्टानि चूर्णितान्यद्रिपृष्ठानि यासु ता भुवो भूमीः चलद्भिर्निजाङ्गैरेवाचलैः दुर्गमा दुष्प्रापाश्चक्रुः । अत्र केतनेष्वङ्गेषु च काननाचलत्वरूपणाद्रूपकालंकारः । तेन गजानां पुरातनसृष्टिसंहारेण सृष्ट्यन्तरप्रवर्तनरूपं लोकोत्तरं सामर्थ्यं गम्यत इत्यलंकारेण वस्तुध्वनिः ॥ ४९॥
आलोकयामास हरिर्महीधरानधिश्रयन्तीर्गजताः परःशताः ।
उत्पातवातप्रतिकूलपातिनीरुपत्यकाभ्यो बृहतीः शिला इव ॥५०॥
आलोकेति ॥ हरिर्महीधरान् गिरीनधिश्रयन्तीः परःशताः शतात्पराः । असंख्याता इत्यर्थः । 'परःशताद्यास्ते येषां परा संख्या शतादिकात्' इत्यमरः । 'पञ्चमी' (२।१।३७) इति योगविभागात्समासः । राजदन्तादित्वादुपसर्जनस्यापि शतशब्दस्य परनिपातः । पारस्करादित्वात्सुडागमः । गजताः गजसमूहान् । 'गजाच्चेति वक्तव्यम्' (वा०) इति सामूहिकस्तल्प्रत्ययः । उपत्यकाभ्य आसन्नभूमिभ्यः । 'उपत्यकादेरासन्ना भूमिः' इत्यमरः । 'उपाधिभ्यां त्यकन्नासन्नारूढयोः' (५।२।३४) इति त्यकन्प्रत्ययः । उत्पातवातेन । तत्प्रतिकूलं पतन्तीति प्रतिकूलपातिनीः । ऊर्ध्वगामिनीरित्यर्थः । बृहतीः शिला इवेत्युप्रेक्षा । आलोकयामास ॥५०॥
शैलाधिरोहाभ्यसनाधिकोद्धुरैः पयोधरैरामलकीवनाश्रिताः।
तं पर्वतीयप्रमदाश्चचायिरे विकासविस्फारितविभ्रमेक्षणाः॥५१॥
शैलेति ॥ शैलाधिरोहाभ्यसनेन पर्वतारोहणाभ्यासेन अधिकोद्धुरैरत्युन्नतैः पयोधरैः स्तनैरुपलक्षिता आमलकीवनाश्रिता धात्रीवनगताः । पर्वतो निवासो येषां ते पर्वतीयाः किरातादयः । 'पर्वताच्च' (४।२।१४३) इति छप्रत्ययः । तेषां प्रमदाः । विकासेन विस्मयकृतविस्तारेण विस्फारिता विवर्तिता विभ्रमा विलासा येषां तानीक्षणानि यासां तास्तथा सत्यः तं हरिं चचायिरे ददृशुः । 'चायृ पूजानिशामनयोः' इति धातोः कर्तरि लिट् । निशामनं दर्शनम् । 'निरीक्षणनिशामने' इति दर्शनपर्यायेषु भट्टमल्लः । एतेन हरेर्लोकोत्तरं लावण्यं व्यज्यत इति वस्तुना वस्तुध्वनिः । स्वभावोक्तिवृत्त्यनुप्रासयोः संसृष्टिः ॥ ५ ॥
सावज्ञमुन्मील्य विलोचने सकृत्क्षणं मृगेन्द्रेण सुषुप्सुना पुनः ।
सैन्यान्न यातः समयापि विव्यथे कथं सुराजंभवमन्यथाथवा ॥५२॥
सावज्ञमिति ॥ सावज्ञमनादरं यथा तथा विलोचने सकृदेकवारम् । 'एकस्य सकृत्' (५।४।१९) इति सकृदर्थे निपातः । क्षणमुन्मील्योन्मिष्य । पुनः सुषुप्सुना स्वप्तुमिच्छुना । स्वपेः सन्नन्तादुप्रत्ययः । 'रुदविद-' (१।२।८) इत्यादिना सनः कित्त्वात् 'वचिस्वपि-' (६।१।१५) इत्यादिना संप्रसारणम् । मृगेन्द्रेण सिंहेन समया समीपे । 'समयानिकषाशब्दौ समीपे संप्रकीर्तितौ' इति सज्जनः । यातो गच्छतोऽपि । यातेर्लटः शत्रादेशः । सैन्यात् सेनातः। भीत्रार्थानां भयहेतुः' (१।४।२५) इत्यपादानत्वम् । न विव्यथे न बिभ्ये । 'व्यथ भयसंचलनयोः' इति धातोर्भावे लिट् । अथवा । तथा हीत्यर्थः । अन्यथा भीतत्वे कथं सुराजंभवं सुखेन राज्ञा भूयते । न कथमपीति भावः । राजा चायं मृगाणामिति भावः । 'कर्तृकर्मणोश्च भूकृञोः' (३।३।१२७) इति कर्तरीषदादौ चोपपदे भवतेः खल्प्रत्यये नलोपमुमागमौ । अर्थान्तरन्यासः ॥ ५२ ॥
उत्सेधनिर्धूतमहीरुहां ध्वजैर्जनावरुद्धोद्धतसिन्धुरंहसाम् ।
नागैरधिक्षिप्तमहाशिलं मुहुर्बलं बभूवोपरि तन्महीभृताम् ॥५३॥
उत्सेधेति ॥ नागैर्गजैः अधिक्षिप्तास्तिरस्कृता महाशिला येन तद्बलं सैन्यं ध्वजैरुत्सेधेनौन्नत्येन निर्धूता अवगणिता महीरुहो येषु तेषाम् । 'उत्सेधश्चोच्छ्रयश्च सः' इत्यमरः । जनैरवरुद्ध प्रतिबद्धमुद्धतमुद्वेलं सिन्धुरंहो नदीवेगो येषां तेषां महीभृतां पर्वतानामुपरि मुहुर्बभूव । मार्गवशाद्भूयसो भूधरान् मुहुरारुरोहेत्यर्थः । 'हयोघरुद्ध' इति पाठे हयौघेन घोटकसमूहेन रुद्धमित्यादि पूर्ववत् । अत्रावरोहणवदुत्कर्षश्चोपरिभावो विशेषणवैभवात्प्रतीयत इति तदभेदेनोपरिभावस्य बलभूधरविशेषणपदार्थहेतुकत्वाच्छ्लेषप्रतिभोत्थापितकाव्यलिङ्गविशेषः ॥ ५३ ॥
श्मश्रूयमाणे मधुजालके तरोर्गजेन गण्डं कषता विधूनिते ।
क्षुद्राभिरक्षुद्रतराभिराकुलं विदश्यमानेन जनेन दुद्रुवे ॥ ५४॥
श्मश्रूयेति ॥ तरोर्वृक्षस्य श्मश्रूयमाणे श्मश्रुवदाचरति । तद्वदालम्बमान इत्यर्थः । उपमालंकारः । श्मश्रुशब्दादाचारे क्यङन्ताल्लटः शानजादेशः 'अकृत्सार्वधातुकयोः' (७।४।२५) इति दीर्घः । गण्डं कपोलं कषता तरुस्कन्धे कण्डूयमानेन गजेन मधुजालके क्षौद्रपटले विधूनिते कम्पिते सति । धूञो ण्यन्तात्कर्मणि क्तः । 'धूञ्प्रीञोर्नुग्वक्तव्यः' (वा०) इति नुगागमः । अक्षुद्रतराभिरतिस्थूलाभिः क्षुद्राभिः सरघाभिः । 'क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका' इत्यमरः । विदश्यमानेन चञ्चुभिस्तुद्यमानेन जनेन समाकुलं व्यग्रं यथा तथा दुद्रुवे पलायितम् । भावे लिट् । स्वभावोक्तिरुक्तोपमासंसृष्टा ॥ ५४ ॥
नीते पलाशिन्युचिते शरीरवद्गजान्तकेनान्तमदान्तकर्मणा ।
संचेरुरात्मान इवापरं क्षणात्क्षमारुहं देहमिव प्लवंगमाः ॥ ५५ ॥
नीत इति ॥ उचिते परिचिते पलाशिनि द्रुमे । 'पलाशी दुद्रुमागमाः' इत्यमरः । शरीरवत्पूर्वशरीरवत् । 'तत्र तस्येव' (५।१।११६) इति वतिप्रत्ययः । अदान्तकर्मणा दुर्दान्तव्यापारेण गजोऽन्तक इवेत्युपमितसमासः साहचर्यात् । तेन गजान्तकेनान्तं नाशं नीते गमिते सति प्लवैर्गच्छन्तीति प्लवंगमाः कपयः । 'गमश्च' (३।२।४७) इति खच्प्रत्यये मुमागमः । आत्मानो जीवा इवापरं क्षमारुहं देहमिव क्षणात् संचेरुः । संप्रविष्टा इत्यर्थः । अनेकेवशब्दवाक्यार्थोपमा । सा च शरीरवदिति तद्धितगता, अन्यत्र समासगतेति संकरः ॥ ५५ ॥
प्रह्वानतीव क्वचिदुद्धतिश्रितः क्वचित्प्रकाशानथ गह्वरानपि ।
साम्यादपेतानिति वाहिनी हरेस्तदातिचक्राम गिरीन्गुरूनपि ॥५६॥
प्रह्वानिति ॥ क्वचिदतीव नितान्तं प्रह्वान् प्रवणान् । अन्यत्रानुकूलान् क्वचिदुद्धतिं श्रयन्तीत्युद्धतिश्रितः औन्नत्यभाजः, औद्धत्यभाजश्च । श्रयतेः क्विप् तुक् । क्वचित्प्रकाशान्प्रकटाननवगूढवृत्तींश्च क्वचिदतिगह्वरानपि । अपिः चार्थे । अप्रवेशान्, अन्यत्र गूढांश्च । इतीत्थं साम्यादपेतान् विषमरूपान् विषमवृत्तांश्च । अत एव गुरून् महतोऽपि पूज्यानपि गिरीस्तदा हरेः वाहिनी सेना अतिचक्रामातीत्य गता, उल्लङ्घिता च । 'गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥' इति स्मरणादिति भावः । गुरूणामप्यतिक्रम इति विरोधेऽपिशब्दः । स चोक्तवैषम्यदोषोद्घाटनेन परिहृत इति विरोधाभासः । स च गुरूनिति वाच्यप्रतीयमानयोरभेदाध्यवसायाच्छ्लेषमूलातिशयोक्त्युत्थापित इति संकरः ॥ ५६ ॥
स व्याप्तवत्या परितोऽपथान्यपि स्वसेनया सर्वपथीनया तया ।
अम्भोभिरुल्लङ्घिततुङ्गरोधसः प्रतीपनाम्नीः कुरुते स्म निम्नगाः॥५७॥
स इति ॥ स हरिः परितः समन्तादपथान्यपमार्गान्यपि । 'पथो विभाषा' (५।४।७२) इति निषेधविकल्पात् 'ऋक्पू:-' (५।४।७४) इत्यादिना समासान्तः । 'अपथं नपुंसकम्' (२।४।३०) इति नपुंसकत्वम् । व्याप्तवत्यापि सर्वान्पथो व्याप्नोतीति सर्वपथीना। 'तत्सर्वादेः-' (५।२।७) इत्यादिना खप्रत्ययः । तया सर्वपथीनया तया स्वसेनया निमित्तेन अम्भोभिरुल्लङ्घितानि युगपदखिलसेनाप्रवेशेन प्रतीपगमनादुपर्याक्रान्तानि तुङ्गरोधांसि यासां ता निम्नं गच्छन्तीति निम्नगा नद्यः प्रतीपनाम्नीः कुरुते स्म । प्रतिगता उत्तानगा आपो यासां ताः प्रतीपाः । 'ऋक्पू:-' (५।४।७४) इत्यादिना समासान्तः । 'द्व्यन्तरुपसर्गेभ्योऽप ईत्' (६।३।९७) इतीकारः। अथवा प्रतीपं निम्नगानामविरुद्धं नाम उत्तानगा इति नामधेयं यासां ताः प्रतीपनाम्यः । 'अन उपधालोपिनोऽन्यतरस्याम्' (४।१।२८) इति ङीप् । तास्तथा चकारेत्यर्थः । अत्र निम्नगानां प्रतीपनामासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ॥ ५७ ॥
यावद्व्यगाहन्त न दन्तिनां घटास्तुरंगमैस्तावदुदीरितं खुरैः ।
क्षिप्तं समीरैः सरितां पुरः पतज्जलान्यनैषीद्रज एव पङ्कताम् ।।५८॥
यावदिति ॥ दन्तिनां घटा गजव्रजा यावन्न व्यगाहन्त न व्यलोडयंस्तावत्तुरंगमैः कर्तृभिः खुरैः करणैरुदीरितमुत्थापितम् । अथ समीरैः मारुतैः क्षिप्तं विकीर्णम् । अत एव पुरो गजप्रवेशात्प्रागेव पतद्रजो भूरेणुरेव सरितां जलानि
पङ्कतामनैषीन्निनाय । नयतेर्द्विकर्मकत्वाल्लुङि सिचि वृद्धिः। अत्रापि सरितां पङ्कत्वासंबन्धेऽपि संबन्धोक्तेः पूर्ववदतिशयोक्तिः ॥ ५८ ॥ रन्तुं क्षतोत्तुङ्गनितम्बभूमयो मुहुर्व्रजन्तः प्रमदं मदोद्धताः ।
पङ्कं करापाकृतशैवलांशुकाः समुद्रगाणामुदपादयन्निभाः॥ ५९॥
रन्तुमिति ॥ रन्तुं क्रीडितुं क्षता एकत्र विषाणैरन्यत्र नखैश्च विदलिता उत्तुङ्गा नितम्बभूमयो रोधोभागाः श्रोणिभागाश्च यैस्ते । 'नितम्बो रोधसि स्कन्धे शिखरेऽपि कटीतटे' इति विश्वः । मुहुः प्रमदं हर्षं व्रजन्तः मदेन दानेन दर्पेण वोद्धताः। करैर्हस्तैरपाकृतानि शैवलानि अंशुकानीवांशुकानि यैस्ते इभा नागाः समुद्रं गच्छन्तीति समुद्रगाणां समुद्रपत्नीनां नदीनाम् । 'एकाजुत्तरपदे णः' (८।४।१२) इति णत्वम् । पङ्कं कर्दमं कलुषं चोदपादयत् । पङ्कोऽस्त्री कर्दमैनसोः' इति विश्वः । यथा मदोद्धताः पराङ्गनानां बलाद्दोषमुत्पादयन्ति तद्वदिति भावः । अत्र प्रस्तुतेभविशेषणादप्रस्तुतस्त्रीसंग्रहणसाहसिकप्रतीतेः समासोक्तिः । स्त्रीपङ्कयोरभेदाध्यवसायादिति श्लेषमूलातिशयोक्त्युत्थापितेति संकरः ॥ ५९॥
रुग्णोरुरोधःपरिपूरिताम्भसः समस्थलीकृत्य पुरातनीर्नदीः।
कूलंकषौघाः सरितस्तथापराः प्रवर्तयामासुरिभा मदाम्बुभिः॥६०॥
रुग्णेति ॥ इभा रुग्णैर्भग्नैरुरुभिर्महद्भी रोधोभिस्तटैः परिपूरिताम्भसः । मृत्क्षेपशोषिताम्भस इत्यर्थः । पुराभवाः पुरातनीः । 'सायंचिरम्-' (४।३।२३) इत्यादिना ट्युप्रत्ययः तुडागमश्च । 'टिड्ढाणञ्-' (४।१।१५) इत्यादिना ङीप् । नदीः समस्थलीकृत्य स्थलसमाः कृत्वा । मदाम्बुभिः स्वमदोदकैः कूलं कषन्तीति कूलंकषाः ओघा यासां ता उभयकूलप्रवाहिन्योऽपरा अन्याः सरितः प्रवर्तयामासुः । एतेन गजसंपत्तिरुक्ता । अत्र नदीनां समस्थलत्वासंबन्धे मदाम्बूनां च सरित्त्वासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिरिति सजातीयसंकरः ॥ ६० ॥
पद्मैरनन्वीतवधूमुखद्युतो गता न हंसैः श्रियमातपत्रजाम् ।
दूरेऽभवन्भोजबलय गच्छतः शैलोपमातीतगजस्य निम्नगाः॥६१॥
पद्मैरिति ॥ पद्मरनन्वीता अप्राप्ता वधूमुखस्य द्युत् श्रीर्याभिस्ताः । वधूमुखश्रीजितपद्मा इत्यर्थः । अन्वीतेति 'ईङ् गतौ' इति धातोः कर्मणि क्तः । हंसैरातपत्रजां छत्रजन्यां श्रियं न गता अगताः । आतपत्रजितहंसश्रीका इत्यर्थः । निम्नगा नद्यः शैलोपमामतीताः शिलासाम्यमतिक्रान्ता गजा यस्मिंस्तस्य गच्छतो भोजबलस्य यादवसैन्यस्य दूरेऽभवन् । अतिव्यवहिता इत्यर्थः । अपकृष्टाश्चेति गम्यते । तदभेदाध्यवसायेनैव निम्नगानां दूरभवनस्य तद्विशेषणपदार्थहेतुकत्वाच्छ्लेषमूलातिशयोक्तिसमुत्थापितः काव्यलिङ्गभेदः ॥ ६१ ॥
स्निग्धाञ्जनश्यामतनूभिरुन्नतैर्निरन्तराला करिणां कदम्बकैः ।
सेना सुधाक्षालितसौधसंपदां पुरां बहूनां परभागमाप सा ।। ६२॥
स्निग्धेति ॥ स्निग्धाञ्जनमिव श्यामाभिस्तनूभिरुन्नतैः करिणां कदम्बकैर्निरन्त-
पाठा०-१ ‘०श्रियः'. राला नीरन्ध्रा सा सेना सुधया लेपनविशेषेण क्षालिता धवलिताः सौधसंपदो यासां तासाम् । 'लेपभेदेऽमृते सुधा' इति वैजयन्ती । बहूनां पुरां पुरीणां परभागं विप्रकृष्टदेशमाप । दूरमतीत्य गतेत्यर्थः । वर्णोत्कर्षश्च परभागः । तदभेदाध्यवसायेन परभागाप्तौ विशेषणगत्या श्यामकरिकदम्बकनैरन्तर्यस्य हेतुत्वात्पूर्ववत्काव्यलिङ्गभेदः ॥ ६२ ॥
प्रासादशोभातिशयालुभिः पथि प्रभोर्निवासाः पटवेश्मभिर्बभुः।
नूनं सहानेन वियोगविक्लवा पुरः पुरश्रीरपि निर्ययौ तदा ॥६३॥
प्रासादेति ॥ पथि मार्गे प्रभोः कृष्णस्य निवासाः सेनानिवेशाः प्रासादशोभामतिशयालुभिरतिशायकैः । आलुचि शीङ्ग्रहणमपि कर्तव्यमित्यालुच्प्रत्ययः । पटवेश्मभिः पटवस्त्रैर्बभुः तेनोत्प्रेक्ष्यते । द्वारकानिर्याणकालेऽनेन कृष्णेन सह वियोगविक्लवा विरहभीरुः पुरश्रीर्द्वारकानगरलक्ष्मीरपि पुरोऽग्रे निर्ययौ निर्गता । नूनं द्वारकातो न भिद्यन्ते अस्य निवासाः शोभयेति भावः ॥ ६३॥
वर्ष्म द्विपानां विरुवन्त उच्चकैर्वनेचरेभ्यश्चिरमाचचक्षिरे ।
गण्डस्थलाघर्षगलन्मदोदकद्रवद्रुमस्कन्धनिलायिनोऽलयः॥६४॥
वर्ष्मेति ॥ गण्डस्थलानामाघर्षेण संघर्षेण गलता स्रवता मदोदकेन द्रवेष्वार्द्रेषु द्रुमस्कन्धेषु निलीयन्त इति निलायिनस्तन्निवासिन उच्चकैर्विरुवन्तो गुञ्जन्तोऽलयः द्विपानां सेनागजानां वर्ष्म प्रमाणम् । 'वर्ष्म देहप्रमाणयोः' इति विश्वः । वनेचरेभ्यः किरातेभ्यः चिरमाचचक्षिरे । इयन्तो गजा इत्याख्यातवन्त इत्यर्थः । गजवर्ष्मानुमापकेष्वलिषु विरावयोगादाख्यानमुत्प्रेक्ष्यते । वाचकाप्रयोगाद्गम्योत्प्रेक्षा ॥ ६४ ॥
आयामवद्भिः करिणां घटाशतैरधःकृताट्टालकपङ्क्तिरुच्चकैः ।
दूष्यैर्जितोदग्रगृहाणि सा चमूरतीत्य भूयांसि पुराण्यवर्तत ॥६५॥
आयामेति ॥ आयामो दैर्घ्यं सोऽस्ति येषां तद्वद्भिः । आयतैरित्यर्थः । करिणां संबन्धिभिर्घटाशतैर्व्यूहशतैः । 'करिणां घटना घटा' इत्यमरः । अधःकृतास्तिरस्कृता अट्टालकपङ्क्तयोऽट्टश्रेण्यो यया सा । 'अट्टास्वट्टालकः स्मृतः' इति वैजयन्ती । सा चमूरुच्चकैरुन्नतैः दूष्यैः पटमण्डपैः जितान्युदग्राणि गृहाणि येषां तानि भूयांसि पुराण्यतीत्यावर्तत । अतिक्रम्य गतेत्यर्थः । शोभया अतिशय्य स्थितेति च गम्यते । तदभेदाध्यवसायेन श्लेषमूलातिशयोक्त्युत्थापितं पूर्ववत्पदार्थहेतुकं काव्यलिङ्गम् ॥ ६५ ॥
अथ हरिसेनाः कालिन्दी प्रत्यासेदुरित्याह-
उद्धूतमुच्चैर्ध्वजिनीभिरंशुभिः प्रतप्तमभ्यर्णतया विवस्वतः ।
आह्लादिकह्लारसमीरणाहते पुरा पपाताम्भसि यामुने रजः ॥६६॥
प्रतप्तमिवेत्यर्थः । अत एव व्यञ्जकाप्रयोगाद्गम्योत्प्रेक्षा । आह्लादिन आह्लादका ये कह्लारसमीरणाः सौगन्धिकमारुताः । 'सौगन्धिकं तु कह्लारम्' इत्यमरः । तैराहते चालिते यामुने यमुनासंबन्धिन्यम्भसि पुरोऽग्रे रजो धूलिः पपात । संतप्ता हि संतापमसहमानाः पुरो धावित्वा क्वचन शिशिरे पयसि पतन्तीति भावः॥६६॥
अथ चतुर्भिर्यमुनां वर्णयति-
या घर्मभानोस्तनयापि शीतलैः स्वसा यमस्यापि जनस्य जीवनैः ।
कृष्णापि शुद्धेरधिकं विधातृभिर्विहन्तुमंहांसि जलैः पटीयसी॥६७॥
येत्यादि ॥ या यमुना घर्मभानोरुष्णांशोस्तनयापि सती शीतलैरपि । अपिर्विरोधे । स चोष्णजातायाः शैत्यानुपपत्तेरिति भावः । यमस्यान्तकस्य स्वसापि जनस्य जीवनैरुज्जीवकैः । अत्राप्येकोदराणां भिन्नक्रियानुपपत्तेर्विरोधः । 'कालिन्दी सूर्यतनया यमुना शमनस्वसा' इत्युभयत्राप्यमरः । किंच कृष्णा कृष्णवर्णा मलिना च तथापि शुद्धेर्वैमल्यस्याधिकं विधातृभिः संपादकैर्जलैरंहांसि पापानि विहन्तुं पटीयसी समर्थतरा । अत्र यमुनातज्जलगतत्वेन निर्दिष्टयोर्गुणक्रिययोर्विरोधेन त्रिषु विरोधेषु संसृष्टेषु तृतीयः कृष्णेति श्लेषप्रतिभोत्थापित इति संक्षेपः ॥ ६७ ॥
यस्या महानीलतटीरिव द्रुताः
प्रयान्ति पीत्वा हिमपिण्डपाण्डुराः ।
कालीरपस्ताभिरिवानुरञ्जिताः
क्षणेन भिन्नाञ्जनवर्णतां घनाः ॥ ६८॥
यस्या इति ॥ हिमपिण्डपाण्डुरा हिमसङ्घशुभ्राः घना मेघाः द्रुता द्रवीकृता महानीलतटीरिन्द्रनीलस्थलानीव कालीः कृष्णवर्णाः । 'जानपद-' (४।१।४२) इत्यादिना ङीप् । यस्याः कालिन्द्या अपः पीत्वा ताभिः पीताभिरभिरनुरञ्जिता इव क्षणेन भिन्नाञ्जनवर्णतां स्नेहमृदितकज्जलवर्णतां प्रयान्ति । अत्र तटीरिवानुरञ्जिता इवेति चोत्प्रेक्षया संकीर्णेयं घनानामञ्जनोपमेति संग्रहः ॥ ६८ ॥
व्यक्तं बलीयान्यदि हेतुरागमादपूरयत्सा जलधिं न जाह्नवी ।
गाङ्गौघनिर्भस्मितशंभुकंधरासवर्णमर्णः कथमन्यथास्य तत् ॥६९॥
व्यक्तमिति ॥ हेतुर्युक्तिः । अनुमानमिति यावत् । आगमात् 'गङ्गा सागरपूरिणी' इत्यागमप्रमाणात् । बलीयान् यदि प्रबलश्चेत् सा यमुना जलधिमपूरयत् । जह्नोरपत्यं स्त्री जाह्नवी नापूरयत्, व्यक्तं सत्यमित्युत्प्रेक्षा । कुतः । अन्यथा विपर्यये अस्य जलधेः तत्प्रसिद्धमर्णोऽम्भः । 'अम्भोऽर्णस्तोयपानीयम्' इत्यमरः । गाङ्गेन गङ्गासंबन्धिना ओघेन प्रवाहेण निर्भस्मितायाः निर्भस्मीकृतायाः शंभुकंधराया हरकण्ठस्य सवर्णं समानवर्णम् । कृष्णवर्णमित्यर्थः । कथं स्यात्, न स्यादेव। 'ज्योतिर्जनपद-' (६।३८५) इत्यादिना समानस्य सभावः । अन्यथा गङ्गौघस्य धावल्याद्धवलमेव स्यात् । तथा च ग्रावाप्लवनवाक्यवदागमोऽप्यन्यथा नेय इति कवेराशयः ॥ ६९॥
अभ्युद्यतस्य क्रमितुं जवेन गां तमालनीला नितरां धृतायतिः ।
सीमेव सा तस्य पुरः क्षणं बभौ बलाम्बुराशेर्महतो महापगा ॥७०॥
(कलापकम् ।)
अभीति ॥ तमालवन्नीला कृष्णा नितरां धृतायतिरत्यन्तं कृतदैर्घ्या सा महापगा महानदी यमुना । जवेन गां भुवं क्रमितुमाक्रमितुमभ्युद्यतस्योद्युक्तस्य तस्य महतो बलाम्बुराशेः सेनासमुद्रस्य पुरोऽग्रे क्षणं सीमेव वेलेव बभावित्युत्प्रेक्षा। क्षणमिति क्षणमात्रनिरोधिकाभवत् । अनन्तरमेव तरणादिति भावः ॥७०॥
लोलैररित्रैश्चरणैरिवाभितो जवाद्व्रजन्तीभिरसौ सरिज्जनैः ।
नौभिः प्रतेरे परितः प्लवोदितभ्रमीनिमीलल्ललनावलम्बितैः ॥७१।।
लोलैरिति ॥ अभितः उभयतो लोलैश्चलद्भिररित्रैः केनिपातकदण्डैः । 'क्षेपणी स्यादरित्रं केनिपातकः' इत्यमरः । चरणैः पादैरिवेत्युत्प्रेक्षा । जवाद्व्रजन्तीभिर्गच्छन्तीभिर्नौभिः साधनैरसौ सरिद्यमुना कर्म, प्लवेनोदिता नौवेगेनोत्पन्ना भ्रमी भ्रान्तिस्तस्या भयान्निमीलन्तीभिर्भयादक्षिनिमीलनं कुर्वतीभिर्ललनाभिरवलम्बितैर्जनैः कर्तृभिः परितः । सर्वतः । सर्वोभयार्थे वर्तमानाभ्यां पर्यभिभ्यां तसिल्विधानात् । प्रतेरे प्रतीर्णा ॥ ७१ ॥
तत्पूर्वमंसद्वयसं द्विपाधिपाः क्षणं सहेलाः परितो जगाहिरे ।
सद्यस्ततस्तेरुरनारतस्रुतस्वदानवारिप्रचुरीकृतं पयः ॥ ७२ ॥
तत्पूर्वमिति ॥ द्विपाधिपा महागजाः पूर्वं प्रथमं अंसौ प्रमाणमस्यांसद्वयसमंसप्रमाणम् । तेषां तथोन्नतत्वादिति भावः । 'प्रमाणे द्वयसज्-' (५।२।३७) इति द्वयसच्प्रत्ययः । तत्तथा गम्भीरं पयो यमुनाजलं सहेला: सावज्ञाः परितो, जगाहिरे प्रविशन्ति स्म । ततः प्रवेशानन्तरं सद्योऽविलम्बेन अनारतमविच्छिन्नं स्रुतेन स्रवता स्वदानवारिणा स्वमदोदकेन प्रचुरीकृतं बहुलीकृतं तत्पयस्तेरुः तरन्ति स्म । अनातिगम्भीरस्याप्यम्भसोंऽसदघ्नत्वातिशयोक्त्या गजानामौन्नत्यं पुरस्तस्यैव तन्मदाम्बुसंभेदतात्पर्योक्त्या तेषां मदातिरेकश्च व्यज्यते ॥ ७२ ॥
प्रोथैः स्फुरद्भिः स्फुटशब्दमुन्मुखैस्तुरंगमैरायतकीर्णवालधि ।
उत्कर्णमुद्वाहितधीरकंधरैरतीर्यताग्रे तटदत्तदृष्टिभिः ॥ ७३ ॥
प्रोथैरिति ॥ स्फुटशब्दं स्पष्टध्वानं यथा तथा स्फुरद्भिश्चलद्भिः प्रोथैर्घोणामि-
पाठा०-१ 'नौकावाहनदण्डैः'. रुपलक्षितैः । 'घोणा तु प्रोथमस्त्रियाम्' इत्यमरः । उन्मुखैरूर्ध्वमुखैस्तथा उत्कर्णमुन्नमितकर्णं यथा तथा उद्वाहिता ऊर्ध्वं प्रसारिता धीरा निश्चलाः कंधरा ग्रीवा येषां तैरग्रे पुरः तटे दत्तदृष्टिभिस्तुरंगमैरायताः प्रसारिताः कीर्णा विक्षिप्ता वालधयो यस्मिन्कर्मणि तद्यथा तथाऽतीर्यत अतारि । सरिदिति शेषः । कर्मणि लङि यक् । स्वभावोक्तिः ॥ ७३ ॥
तीर्त्वा जवेनैव नितान्तदुस्तरां नदीं प्रतिज्ञामिव तां गरीयसीम् ।
शृङ्गैरपस्कीर्णमहत्तटीभुवामशोभतोच्चैर्नदितं ककुद्मताम् ॥ ७४ ॥
तीर्त्वेति ॥ नितान्तदुस्तरामतिमहत्तयात्यन्ताशक्यतरणां तां नदीं गरीयसीमतिदुस्तरां प्रतिज्ञामिव प्रतिज्ञावचनमिव जवेन वेगेनैव तीर्त्वा शृङ्गैर्विषाणैरपस्कीर्णा आलेखिता महत्यस्तटीभुवस्तीरप्रदेशा यैस्तेषाम् । 'अपाच्चतुष्पाच्छकुनिष्वालेखने' (६।१।१४२) इति किरतेः कात्पूर्वतः सुडागमः । ककुद्मतामुच्चैस्तरं नदितं नादः अशोभत । उपमासंकीर्णा स्वभावोक्तिः ॥ ७४ ॥
सीमन्त्यमाना यदुभूभृतां बलैर्बभौ तरद्भिर्गवलासितद्युतिः।
सिन्दूरितानेकपकंकणाङ्किता तरङ्गिणी वेणिरिवायता भुवः ॥७५॥
सीमन्त्यमानेति ॥ तरद्भिः यदुभूभृतां यादवभूपानां बलैः सैन्यैः सीमन्त्यमाना सीमन्तवती क्रियमाणा । सीमन्तवच्छब्दात् 'तत्करोति-' (ग०) इति ण्यन्तात्कर्मणि लटः शानजादेशः । णाविष्ठवद्भावाद्विन्मतोर्लुक् । गवलासितद्युतिः माहिषविषाणमेचकप्रभा । 'गवलं माहिषं शृङ्गम्' इत्यमरः । सिन्दूरिताः सिन्दूरवत्कृताः । सिन्दूरशब्दात् 'तत्करोति-' (ग०) इति ण्यन्तात्कर्मणि क्तः । णाविष्ठवद्भावाद्विन्मतोर्लुक् । तैरनेकपैर्द्विपैरेव कंकणैः शेखरैः अङ्किता चिह्निता । 'कंकणं शेखरे हस्तसूत्रमण्डनयोरपि' इति विश्वः । तरङ्गिणी यमुना नदी आयता दीर्घा भुवो वेणिरिव बभौ इत्युत्प्रेक्षा ॥ ७५ ॥
अव्याहतक्षिप्रगतैः समुच्छ्रिताननुज्झितद्राघिमभिर्गरीयसः ।
नाव्यं पयः केचिदतारिषुर्भुजैः क्षिपद्भिरूर्मीनपरैरिवोर्मिभिः॥७६॥
अव्याहतेति ॥ अत्रोर्मीणां भुजानां विशेषणान्युभयविपरिणामेन योज्यानि । केचिज्जनाः नावा तार्यं नाव्यम् । 'नाव्यं त्रिलिङ्गं नौतार्ये' इत्यमरः । 'नौवयोधर्म-' (४।९।९१) इत्यादिना यत्प्रत्ययः । पयो जलं अव्याहतक्षिप्रगतैरप्रतिहतशीघ्रगमनैरनुज्झितो द्राघिमा दैर्घ्यं यस्तैः । अतिदीर्घैरित्यर्थः । समुच्छ्रितानुन्नतान् गरीयसो गुरुतरानूर्मीन्क्षिपद्भिरपाकुर्वद्भिरत एवापरैरूर्मिभिरिव स्थितैरित्युत्प्रेक्षा । भुजैर्बाहुभिरतारिषुस्तरन्ति स्म । तरेर्लुङि सिचि वृद्धिरिडागमश्च ॥ ७६ ॥
विदलितमहाकूलामुक्ष्णां विषाणविघट्टनै-
रलघुचरणाकृष्टग्राहां विषाणिभिरुन्मदैः ।
सपदि सरितं सा श्रीभर्तुर्वृहद्रथमण्डल-
स्खलितसलिलामुल्लङ्घच्यैनां जगाम वरूथिनी ॥ ७७ ।।
इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्र्यङ्के
प्रयाणवर्णनो नाम द्वादशः सर्गः ॥ १२ ॥
विदलितेति ॥ सा प्रकृता श्रीभर्तुः कृष्णस्य वरूथिनी सेना उक्ष्णामनडुहां विषाणविघट्टनैः शृङ्गाघातैर्विदलितानि महाकूलानि यस्यास्तां उन्मदैरुद्भूतमदै- र्विषाणिभिरलघुभिर्गुरुभिश्चरणैः पादैराकृष्टा बहिर्नीता ग्राहा जलग्राहा यस्यास्तां बृहद्भी रथमण्डलै रथसमूहैः स्खलितानि व्याकुलीकृतानि सलिलानि यस्यास्ता- मेनां सरितं यमुनां सपदि उल्लङ्घय जित्वा । तीर्त्वेत्यर्थः । भुक्त्वेति च गम्यते । विशेषणसामर्थ्यात् । जगाम । अत्र जयस्य विशेषणगत्या कूलदलनादिहेतुक- त्वात्काव्यलिङ्गभेदः । हरिणी वृत्तम् । 'भवति हरिणी न्सौ म्रौ स्लौ गो रसा- म्बुधिविष्टपैः' इति लक्षणात् ॥ ७७ ॥
इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां शिशुपालवध-
काव्यव्याख्यायां सर्वंकषाख्यायां द्वादशः सर्गः ॥ १२॥