शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)/तृतीयः सर्गः(पुरीप्रस्थानम्)
← द्वितीयः सर्गः(मन्त्रवर्णनम्) | शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्) तृतीयः सर्गः(पुरीप्रस्थानम्) माघः |
चतुर्थः सर्गः(रैवतकवर्णनम्) → |
तृतीयः सर्गः।
कौबेरदिग्भागमपास्य मार्गमागस्त्यमुष्णांशुरिवावतीर्णः ।
अपेतयुद्धाभिनिवेशसौम्यो हरिर्हरिप्रस्थमथ प्रतस्थे ॥१॥
कौबेरेति ॥ अथोद्धववाक्यश्रवणानन्तरम् । अपेतो युद्धेऽभिनिवेश आग्रहो यस्य सः । शान्तक्रोध इत्यर्थः । अत एव सौम्यः प्रसन्नः । अत एव कौबेर्या दिशो भागम् । उत्तरायणमित्यर्थः । 'स्त्रियाः पुंवत्-' (६।३।३४) इत्यादिना पुंवद्भावः । तमपास्य त्यक्त्वा, अगस्त्यस्येममागस्त्यं मार्गमवतीर्णः । दक्षिणायनं गत इत्यर्थः । उष्णांशुरिव स्थितः । अनेन हरेः क्रोधः कार्यवशादाकालमन्तःस्तम्भितो, न त्वेकान्ततो निवृत्त इति सूचितम् । हरिः कृष्णो हरिप्रस्थमिन्द्रप्रस्थं प्रतस्थे प्रचचाल । 'इन्द्रो दुश्च्यवनो हरिः' इति हलायुधः। 'समवप्रविभ्यः स्थः' (१।३।२२) इत्यात्मनेपदम् । 'देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्' इति गन्तव्यस्य कर्मत्वम् । उपमालंकारः । सर्गेऽस्मिन्निन्द्रोपेन्द्रवज्रामिश्रणादुपजातिवृत्तम् । 'अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः' इति लक्षणात् ॥ १ ॥
पाठा०-१ 'नरकरिपुरुदस्थादु". अथास्य प्रस्थानसंनाहं वर्णयन्नादौ छत्रधारणमाह-
जगत्पवित्रैरपि तं न पादैः स्प्रष्टुं जगत्पूज्यमयुज्यतार्कः ।
यतो बृहत्पार्वणचन्द्रचारु तस्यातपत्रं बिभरांबभूवे ॥२॥
जगदिति ॥ अर्को जगत्पूज्यं तं हरिं अत एव जगत्पवित्रैरपि पादैश्चरणैः किरणैश्च स्पष्टुं नायुज्यत नार्हत । युजेर्दैवादिकात्कर्तरि लङ् । कुतः । यतस्तस्य हरेर्बृहद्विपुलं पार्वणचन्द्रचारु, पूर्णेन्दुसुन्दरमित्युपमालंकारः । आतपात्रायत इत्या- तपत्रं छत्रम् । 'सुपि' (३।२।४) इति योगविभागात् कः । बिभरांबभूवे दध्ने । भृञः कर्मणि लिट् 'भीह्रीभृहुवाम्' (३।१॥३९) इति विकल्पादाम्प्रत्ययः । आतपत्रान्तर्हितस्य द्वयैरपि पादैः स्प्रष्टुमशक्यत्वादित्यर्थः । जगत्पूज्यस्य हरेः पादेन स्पर्शनिषेधादिति भावः ॥२॥
अथ चामरधारणमाह-
मृणालसूत्रामलमन्तरेण स्थितश्चलच्चामरयोर्द्वयं सः ।
भेजेऽभितःपातुकसिद्धसिन्धोरभूतपूर्वां रुचमम्बुराशेः ॥ ३ ॥
मृणालेति ॥ मृगालसूत्रामलं बिसतन्तुविशदमित्युपमा । चलन्ती च ते चामरे च चलच्चामरे । वीजनादिति भावः । तयोर्द्वयमन्तरेण स्थितः । द्वयस्य मध्ये स्थित इत्यर्थः । 'अन्तरान्तरेण युक्ते' (२।३।४) इति द्वितीया । स हरिरभितःपातुका उभयतःपातिनी सिद्धसिन्धुराकाशगङ्गा यस्य स तथोक्तः । 'पर्यभिभ्यां च' (५।३।९) इति तसिल्प्रत्ययः । 'सर्वोभयार्थवर्तमानाभ्यामिष्यते' इत्युभयार्थत्वम् । सुप्सुपेति समासः । पातुकेति । 'लषपत-' (३।२।१५४) इत्यादिना उकञ्प्रत्ययः । तस्याम्बुराशेः समुद्रस्याभूतपूर्वां पूर्वमभूताम् । सुप्सुपेति समासः । रुचं कान्तिं भेजे । अत एव निदर्शना । सा चाम्बुराशेः संभावनामात्रोक्त्या अभितःपातुकसिद्धसिन्धुसंबन्धमूलया असंबन्धे संबन्धरूपातिशयोक्त्या स्वोपजीवकसंयोगेन संकीर्यत इति संक्षेपः ॥ ३॥
अथाष्टभिरस्य प्रसाधनविधिं वर्णयन् मुकुटधारणमाह-
चित्राभिरस्योपरि मौलिभाजां भाभिर्मणीनामनणीयसीभिः ।
अनेकधातुच्छुरिताश्मराशेर्गोवर्धनस्साकृतिरन्वकारि ॥४॥
चित्राभिरिति ॥ अस्य हरेरुपयूर्ध्वदेशे मौलिभाजां मुकुटगतानां मणीनामनणीयसीभिर्महतीभिश्चित्राभिरनेकवर्णाभिर्भाभिः प्रभाभिः कर्त्रीभिः । 'स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः' इत्यमरः । सान्तपक्षे 'भोभगो-' (८।३।१७) इत्यादिना रोर्यकारे तस्य 'हलि सर्वेषाम्' (८।३।२२) इति लोपः। अनेकैर्धातुभिर्गैरिकादिभिश्छुरितानां रूषितानामश्मनां मणीनां राशिः समूहो यस्य तस्य गोवर्धनाख्यपर्वतस्याकृतिरन्वकार्यनुकृता । तत्सादृश्यमभाजीत्यर्थः । पूर्णोपमेयम् ॥ ४॥
कुण्डले च धृते इत्याह-
तस्योल्लसत्काञ्चनकुण्डलाग्रप्रत्युप्तगारुत्मतरत्नभासा ।
अवाप बाल्योचितनीलकण्ठपिच्छावचूडाकलनामिवोरः ॥५॥
तमङ्गदे मन्दरकूटकोटिव्याघट्टनोत्तेजनया मणीनाम् ।
बंहीयसा दीप्तिवितानकेन चकासयामासतुरुल्लसन्ती ॥६॥
तमङ्गदे इति ॥ तं हरिं मन्दरकूटकोटिव्याघट्टनं मन्दराचलशिखराग्रसंघर्षणं सैवोत्तेजना शाणोल्लेखना तया बंहीयसा बहुतरेण । 'प्रियस्थिर-' (६।४।१५७) इत्यादिना बहुलशब्दस्येयसुनि बंहादेशः । मणीनां दीप्तिवितानकेन प्रभापटलेनोल्लसन्ती दीप्यमाने । 'आच्छीनद्योर्नुम्' (७।१।८०) इति नुमागमः । अङ्गदे केयूरे । 'केयूरमङ्गदं तुल्ये' इत्यमरः। चकासयामासतुः शोभयांचक्रतुः। अङ्गदे धृतवानित्यर्थः । चकास्तेर्ण्यन्ताल्लिटि आम्प्रत्ययेऽस्तेरनुप्रयोगः । अत्राङ्गदयोः प्राग्भवीयाङ्गदभेदेऽप्यभेदोक्तिमुत्प्रेक्ष्य तयोर्मन्दरकूटकोट्यसंबन्धेऽपि संबन्धोक्त्या द्वयोरतिशयोक्त्योः संकरः ॥६॥
निसर्गरक्तैर्वलयावनद्धताम्राश्मरश्मिच्छुरितैर्नखाग्रैः ।
व्यद्योतताद्यापि सुरारिवक्षोविक्षोभजासृक्स्नपितैरिवासौ ॥७॥
निसर्गेति ॥ असौ हरिर्निसर्गरक्तैः स्वभावलोहितैः । किंच वलये कटके 'कटकं वलयोऽस्त्रियाम्' इत्यमरः । तयोरवनद्धानां प्रत्युप्तानां ताम्राश्मनां पद्मरागाणां रश्मिभिः छुरितैः अत एवाद्यापि सुरारेर्हिरण्यकशिपोर्वक्षसो विक्षोभेण विदारणेन जाता याऽसृक्तया स्नपितैः सिक्तैरिव स्थितैरित्युत्प्रेक्षा। स्नातेर्ण्यन्तात् क्तः । 'अर्तिह्री-' (७।३।३६) इत्यादिना पुगागमः । मितां ह्रस्वः । नखाग्रैर्व्यद्योतत । कटके च धृतवानित्यर्थः ॥ ७ ॥
उभौ यदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् ।
तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः॥८॥
उभाविति ॥ तमालवन्नीलं आमुक्ते आसञ्जिते मुक्तालते लतादीर्घत्वसाम्येन मौक्तिकहारौ यस्मिंस्तदस्य हरेर्वक्ष आकाशगङ्गायाः पयस उभौ प्रवाहौ व्योम्नि यदि पृथक् पतेतां प्रवहेतां चेत् । संभावनायां लिङ् । तेन व्योम्नोपमीयेत समीक्रियेत । नास्योपमानं किंचित्पश्याम इति भावः । मुक्ताहारं धृतवानित्यर्थः । अत्र व्योम्नो गङ्गाप्रवाहद्वयासंबन्धेऽपि संभावनायां संबन्धकथनादतिशयोक्तिः । तदेतत् 'पुष्पं प्रवालोपहितं यदि स्यात्' इत्याद्युदाहृत्यालंकारसर्वस्वकारः स्पष्टीचकार ॥८॥
तेनाम्भसां सारमयः पयोधेर्दध्रे मणिर्दीधितिदीपिताशः।
अन्तर्वसन्बिम्बगतस्तदङ्गे साक्षादिवालक्ष्यत यत्र लोकः ॥९।।
प्रत्यक्षेण लक्ष्यमाण इत्यर्थः । अन्तर्वसन्नन्तर्गतो लोक इवालक्ष्यत । यत्र मणौ प्रतिबिम्बितो बाह्यलोकस्तदङ्ग एव नैर्मल्याद्बहिः प्रतिफलितः कुक्षिस्थलोक इवालक्ष्यत इत्युत्प्रेक्षा ॥९॥
मुक्तामयं सारसनावलम्बि भाति स्म दामाप्रपदीनमस्य ।
अङ्गुष्ठनिष्ठ्यूतमिवोर्ध्वमुच्चैस्त्रिस्रोतसः संततधारमम्भः ॥१०॥
मुक्तेति ॥ अस्य हरेर्मुक्तामयं मुक्ताप्रचुरम् । 'तत्प्रकृतवचने मयट्' (५।४।२१) सारसने कटिसूत्रेऽवलम्बते इति सारसनावलम्बि । 'क्लीबे सारसनं चाथ पुंस्कट्यां शृङ्खलं त्रिषु' इत्यमरः । आप्रपदीनम् । आ समन्तात् प्रपदं प्राप्नोतीति, खश्प्रत्ययः । 'पादाग्रं प्रपदं पादः' इत्यमरः । दाम मुक्तासरः अङ्गुष्ठेन निष्ठ्यूतम् । विसृष्टमित्यर्थः । गौणार्थत्वादग्राम्यत्वम् । यथाह दण्डी-निष्ठ्यूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्यकक्षां विगाहते ॥' इति ऊर्ध्वमूर्ध्वप्रवाहमुच्चैरुन्नतं त्रिस्रोतसो मन्दाकिन्याः संततधारमविच्छिन्नसंपातमम्भ इव भाति स्मेत्युत्प्रेक्षा ॥ १० ॥
स इन्द्रनीलस्थलनीलमूर्ती रराज कर्चूरपिशङ्गवासाः ।
विसृत्वरैरम्बुरुहां रजोभिर्यमस्वसुश्चित्र इवोदभारः ॥ ११ ॥
स इति ॥ इन्द्रनीलस्थलमिम नीलमूर्तिः श्यामाङ्गः । संहितायां रोरि' (८।३।१४) इति रेफलोपः । 'ढ्लोपे पूर्वस्य-' (६।३।१११) इति दीर्घः । कर्चूरं हरितालमिव पिशङ्गं वासो यस्य स पीताम्बरो हरिः । 'हरितालं तु कर्चूरम्' इति वैजयन्ती । स हरिर्विसृत्वरैर्विसृमरैः। 'इण्नशजिसर्तिभ्यः क्वरप्' (३।२।१६३) अम्बुरुहामम्बुजानाम् । रुहेः क्विप् । रजोभिः परागैश्चित्रश्चित्रवर्णो यमस्वसुर्यमुनाया उदकस्य भारः पूर उदभारः स इव रराज । 'मन्थौदन-' (६।३।६०) इत्यादिनोदकस्योदादेशः ॥ ११॥
प्रसाधितस्यास्य मधुद्विषोऽभूदन्यैव लक्ष्मीरिति युक्तमेतत् ।
वपुष्यशेषेऽखिललोककान्ता सानन्यकान्ता ह्युरसीतरा तु ॥१२॥
प्रसाधितस्येति ॥ प्रसाधितस्यालंकृतस्यास्य मधुद्विषो हरेः अन्यैवासदृशी, विभिन्ना च । 'अन्यौ विभिन्नासदृशौ' इति वैजयन्ती । लक्ष्मीः शोभा, पद्मा च । 'शोभासंपत्तिपद्मासु लक्ष्मीः श्रीरपि गद्यते' इति विश्वः । अभूदित्येतद्युक्तम् । कुतः । हि यस्मात् सा प्रसाधनरूपा लक्ष्मीरशेषे वपुषि । वसतीति शेषः । किंचाखिललोकस्य कान्ता प्रिया । इतरा नित्या त्वन्यस्य कान्ता प्रिया न भवतीत्यनन्यकान्ता । किंतु तस्यैवेत्यर्थः । उरसि । उरस्येव वसतीत्यर्थः । अत्र हरेः प्रसाधनादसाधारणी शोभा जातेति पारमार्थिको वाक्यार्थः । अत्र लक्ष्मीशब्देन श्लेषमहिम्ना वाच्यायाः शोभायाः प्रतीयमानायाः श्रीदेव्या सहाभेदाध्यवसायादियमन्यैव लक्ष्मीरित्यभेदे भेदरूपातिशयोक्तिरलंकारः ॥ १२ ॥
अथैनमेवार्थं भङ्ग्यन्तरेणाह-
कपाटविस्तीर्णमनोरमोरःस्थलस्थितश्रीललनस्य तस्य ।
आनन्दिताशेषजना बभूव सर्वाङ्गसङ्गिन्यपरैव लक्ष्मीः ॥१३॥
कपाटेति ॥ कपाटवद्विस्तीर्णे मनोरमे च उरःस्थले स्थिता श्रीरिति ललना कान्ता यस्य तस्य हरेरानन्दिताशेषजना सर्वाङ्गसङ्गिनी सकलदेहव्यापिनी अत एवापरैवासाधारण्येव श्रीदेव्या अन्यैव लक्ष्मीः शोभा, रमा च बभूव । स एवालंकारः । प्रायेणैकार्थमप्यनेकं श्लोकमुक्तिविशेषलाभाल्लिखन्ति कवयः । यथाह नैषधे-आदावेव 'निपीय-' (१।१) इत्यादिश्लोकद्वयं; तथा 'स्वकेलिलेश-' (१।२३) इत्यादिश्लोकद्वयं चेति ॥ १३ ॥
अथ देवीसहचरस्यैवास्य यात्रेति सूचयन् प्रसाधनविधेः फलमाह-
प्राणच्छिदां दैत्यपतेर्नखानामुपेयुषां भूषणतां क्षतेन ।
प्रकाशकार्कश्यगुणौ दधानाः स्तनौ तरुण्यः परिवव्रुरेनम् ॥१४॥
प्राणेति ॥ भूषणतामुपेयुषाम्, न तु प्रहरणवतामिति भावः । दैत्यपतेः हिरण्यकशिपोः प्राणच्छिदां प्राणमुषां प्राणापहारिणाम् । वज्रादपि कठोराणामित्यर्थः । नखानां क्षतेन व्रणेन प्रकाशो व्यक्तः कार्कश्यमेव गुणो ययोस्तौ स्तनौ । स्तनानित्यर्थः । जातावेकवचने प्राप्ते जातिभूयस्सु स्तनादिषु जातेर्द्वित्वविशिष्टत्वाद्विवचनम् । यथाह वामनः-'स्तनादीनां द्वित्वविशिष्टा जातिः प्रायेण' इति । दधानास्तरुण्यो युवतयः । 'वयसि प्रथमे' (४।१।२०) इति ङीप् । एनं हरिं परिवव्रुः । अत्र हरिनखानां नरहरिनखभेदेऽप्यभेदोक्त्या स्तनयोश्च तादृक्काठिन्यासंबन्धेऽपि तत्संबन्धोक्त्यतिशयोक्ती तयोश्च सापेक्षत्वात्संकरः ॥ १४ ॥
आकर्षतेवोर्ध्वमतिक्रशीयानत्युन्नतत्वात्कुचमण्डलेन ।
ननाम मध्योऽतिगुरुत्वभाजा नितान्तमाक्रान्त इवाङ्गनानां ॥१५॥
आकर्षतेति ॥ अत्युन्नतत्वाद्धेतोः ऊर्ध्वमाकर्षतेव नमन्तम् । मध्यमुन्नमयतेव स्थितेनेत्युत्प्रेक्षा । अतिगुरुत्वमतिभारत्वम् , अतिप्रवृद्धत्वं च भजतीति भाक् । 'भजो ण्विः' (३।२।६२) तेनाङ्गनानां कुचमण्डलेनातिक्रशीयानत्यन्तकृशतरः तनीयान् , क्षीणश्च । 'र ऋतो हलादेर्लघोः' (६।४।१६१) इति रेफादेशः । मध्यो नितान्तमाक्रान्तः पीडित इव ननाम नतः, प्रणतश्च । अत्र मध्यकुचमण्डलयोर्विशेषणसाम्यादरिविजिगीषुराजप्रतीतेः समासोक्तिः । वाच्ययोः प्रतीयमानाभेदेनाक्रमणक्रियाकर्मकर्तृभावसंभावितेयं नमनस्याक्रमणहेतुकत्वोत्प्रेक्षेत्यनयोः संकरः । उत्प्रेक्षयोस्तु नैरपेक्ष्यादसंसृष्टिरेवेति विवेकः ॥ १५॥
पाठा०-१ 'दैत्याधिपप्राणमुषां नखानाम्'. यां यां प्रियः प्रैक्षत कातराक्षी सा सा ह्रिया नम्रमुखी बभूव ।
निःशङ्कमन्याः सममाहितेर्ष्यास्तत्रान्तरे जघ्नुरमुं कटाक्षैः ॥१६॥
यां यामिति ॥ प्रियो हरिर्यां यामङ्गनाम् । 'नित्यवीप्सयोः' (८।१।४) इति वीप्सायां द्विर्भावः एकपदम् । प्रैक्षतालोकयत सा सा । पूर्ववद्द्विर्भावः । कातराक्षी साध्वसाच्चकितलोचना सती ह्रिया नम्रमुखी बभूव । एतेन कार्यद्वारा लज्जासाध्वसभावोदयः उक्तः । अन्यासामीर्ष्याभावोदयमाह-अन्या अप्रेक्षिताङ्गना आहितेर्ष्याः कृताक्षमाः सत्यः । 'परोत्कर्षाक्षमेर्ष्या स्यात्' इति लक्षणात् । तत्रान्तरे तस्मिन्ननीक्षणावसरे । 'क्लीबेऽन्तरं चावकाशे तादर्थ्येऽवसरेऽवधौ' इति वैजयन्ती । निःशङ्कं तदनीक्षणादेव विस्रब्धं यथा तथा समं युगपत्कटाक्षैरमुं हरिं जघ्नुः प्रजघ्नुः सरोषमद्राक्षुः ॥१६॥
अथास्य पञ्चभिर्दिव्यास्त्रसंनिधानमाह-
तस्यातसीसूनसमानभासो भ्राम्यन्मयूखावलिमण्डलेन ।
चक्रेण रेजे यमुनाजलौघः स्फुरन्महावर्त इवैकबाहुः ॥ १७ ॥
तस्येत्यादि । अतसीसूनेन क्षुमाकुसुमेन समानभासस्तुल्यकान्तेः । स्निग्धश्यामस्येत्यर्थः । 'अतसी स्यादुमा क्षुमा' इत्यमरः । तस्य हरेरेकबाहुः भ्राम्यदावर्तमानं मयूखावलीनां मण्डलं चक्रवालं यस्य तेन चक्रेण सुदर्शनेन स्फुरन्महानावर्तो” भ्रमो यस्य सः । 'स्यादावर्तोऽम्भसां भ्रमः' इत्यमरः। यमुनाजलानामोघः पूर इव रेजे । चक्रं दधावित्यर्थः ॥ १७ ॥
विरोधिनां विग्रहभेददक्षा मूर्तेव शक्तिः क्वचिदस्खलन्ती ।
नित्यं हरेः संनिहिता निकामं कौमोदकी मोदयति स्म चेतः ॥१८॥
विरोधिनामिति ॥ विरोधिनां वैरिणां विग्रहभेदे शरीरविदारणे दक्षा । 'शरीरं वर्ष्म विग्रहः' इत्यमरः । क्वचित्क्वाप्यस्खलन्ती । सर्वत्राप्रतिहतवृत्तिरित्यर्थः । नित्यं संनिहिता अनपायिनी । अत एव मूर्ता मूर्तिमती शक्तिः सामर्थ्यमिव स्थितेत्युत्प्रेक्षा । कौमोदकी गदा हरेश्चेतो निकामं मोदयति स्म । स्वसंनिधानेनेति भावः ॥ १८॥
न केवलं यः स्वतया मुरारेरनन्यसाधारणतां दधानः ।
अत्यर्थमुद्वेजयिता परेषां नाम्नापि तस्यैव स नन्दकोऽभूत्॥१९॥
न केवलमिति ॥ अन्यस्य साधारणो न भवतीत्यनन्यसाधारणस्तस्य भावस्तत्ता तां दधानः, तथापि यो नन्दकः स्वतया केवलं गजाश्वादिवत्स्वत्वेनैव मुरारेर्नन्दको न, किंतु परेषां शत्रूणामत्यर्थमुद्वेजयिता भीषयिता सन् । अत एव नाम्नापि चन्द्रादिवन्नन्दयतीति नन्दक इत्यन्वर्थसंज्ञाबलेनापि । नन्दयितृत्वेनापीति यावत् । तस्यैव तदीय एव योऽनन्यसाधारणत्वात्परोद्वेजकत्वाच्च तस्यैव । नन्दको, नन्दयिता चेत्यर्थः । स नन्दको नन्दकाख्यः खड्गोऽभूत् । संनिहितोऽभूदित्यर्थः । संबन्धानुवादेन संनिधानमेवात्र विधेयं प्रकरणात् । अत्रानन्यसाधारणत्वपरोद्वेजकत्वंपदार्थाभ्यां विशेषणगत्या नन्दकस्य तदीयतासमर्थनात् पदार्थहेतुकं काव्यलिङ्गमलंकारः ॥ १९ ॥
न नीतमन्येन नतिं कदाचित्कर्णान्तिकप्राप्तगुणं क्रियासु ।
विधेयमस्या भवदन्तिकस्थं शार्ङ्गं धनुर्मित्रमिव द्रढीयः॥२०॥
न नीतमिति ॥ अन्येन पुरुषान्तरेण नतिमाकर्षणं भेदेन स्वानुकूल्यं च न नीतं न प्रापितम्, क्रियासु रणकर्मसु, हिताहितकृत्येषु च कर्णान्तिकं कर्णगो- चरं प्राप्तो गुणो मौर्वी, आप्तताधर्मश्च यस्य तद्विधेयं क्रियासु वश्यं दृढीयः दृढतरम् । पीडासहतरमिति यावत् । शृङ्गस्य विकारः शार्ङ्गं नाम धनुः मित्रमिवास्य हरेरन्तिकस्थं संनिहितमभवत् ॥ २० ॥
प्रवृद्धमन्द्राम्बुदधीरनादः कृष्णार्णवाभ्यर्णचरैकहंसः ।
मन्दानिलापूरकृतं दधानो निध्वानमश्रूयत पाञ्चजन्यः ॥२१॥
प्रवृद्धेति ॥ धियं रातीति धीरो मनोहरः मन्द्रो गम्भीरोऽम्बुदस्य मेघस्येव धीरश्च नादः प्रवृद्धो येन सः प्रवृद्धमन्द्राम्बुदधीरनाद इत्युपमा । कृष्ण एवार्णवः समुद्रस्तस्याभ्यर्णचरोऽन्तिकचरः । 'उपकण्ठान्तिकाभ्यर्णा' इत्यमरः । स चासावेकहंसश्चेति श्लिष्टपरम्परितरूपकम् । मन्दानिलस्य आपूर आपूरणं तेन कृतं जनितं निध्वानं दधानः । अनाध्मातोऽपि मन्दमारुतप्रवेशादेव ध्वनतीति पाटवादतिशयोक्तिः । ध्वन्यसंबन्धेऽपि संबन्धकथनात् । पञ्चजनो नाम कश्चिदसुरस्तत्र भवः पाञ्चजन्योऽस्य शङ्खः । 'बहिर्देवपञ्चजनेभ्यश्च वक्तव्यम्' इति ञ्यप्रत्ययः । अश्रूयत श्रूयते स्म । पाञ्चजन्योऽपि संनिहितोऽभूदित्यर्थः । वीणा श्रूयते, पुष्पाण्याघ्रायन्ते इत्यादिवद्धर्मधर्मिणोरभेदोपचारात्पाञ्चजन्यस्य श्रवणोक्तिः ॥२१॥
रराज संपादकमिष्टसिद्धेः सर्वासु दिक्ष्वप्रतिषिद्धमार्गम् ।
महारथः पुष्यरथं रथाङ्गी क्षिप्रं क्षपानाथ इवाधिरूढः ॥२२।।
रराजेति ॥ महान् रथो यस्य स महारथो रथिकविशेषः। 'आत्मानं सारथिं चाश्वान् रक्षन् युध्येत यो नरः । स महारथसंज्ञः स्यादित्याहुर्नीतिकोविदाः ॥' इति । रथाङ्गं चक्रमस्यास्तीति रथाङ्गी हरिः इष्टसिद्धेः संपादकं लक्षणवत्त्वात् । 'पुष्यः सर्वार्थसाधकः' इति शास्त्रादिति भावः । सर्वासु दिक्ष्वप्रतिषिद्धमार्गम् । अनिषिद्धगमनमित्यर्थः । अधिष्ठानशक्तेर्निरङ्कुशत्वात् । 'पुष्यो हस्तो मैत्रमप्याश्विनश्च चत्वार्याहुः सर्वदिग्द्वारकाणि' इति शास्त्रादिति भावः । क्षिप्रं क्षिप्रगामिनं, अन्यत्र क्षिप्रनामकम् । 'क्षिप्रं चाश्चिदिनेशपुष्यम्' इति शास्त्रात् । पुष्यरथं क्रीडारथम् । 'असौ पुष्यरथश्चक्रयानं न समराय यत्' इत्यमरः । अधिरूढः सन् पुष्यो रथ
इव तं पुष्यरथमधिरूढः पुप्यनक्षत्रगतः क्षपानाथश्चन्द्र इव रराज ॥२२॥ ध्वजाग्रधामा ददृशेऽथ शौरेः संक्रान्तमतिर्मणिमेदिनीषु ।
फणावतस्त्रासयितुं रसायास्तलं विविक्षन्निव पन्नगारिः ॥२३॥
ध्वजेति ॥ अथ रथारोहणानन्तरं शौरेः कृष्णस्य ध्वजाग्रं धाम स्थानं यस्य सः मणिमेदिनीषु मणिमयकुट्टिमेषु संक्रान्तमूर्तिः प्रतिबिम्बिताङ्गः सन् पन्नगारिर्गरुत्मान् फणावतः सर्पान् त्रासयितुं द्रावयितुं रसायास्तलं पातालं विविक्षन् । प्रवेष्टुमिच्छन्निवेत्युत्प्रेक्षा । विशतेः सन्नन्ताल्लटः शत्रादेशः । ददृशे दृष्टः । सोऽपि संनिहितोऽभूदित्यर्थः ॥ २३ ॥
यियासतस्तस्य महीध्ररन्ध्रभिदापटीयान् पटहप्रणादः ।
जलान्तराणीव महार्णवौघः शब्दान्तराण्यन्तरयांचकार ॥२४॥
यियासत इति ॥ यातुमिच्छतो यियासतः । यातेः सन्नन्ताल्लटः शत्रादेशः । तस्य हरेः संबन्धी महीं धरन्तीति महीध्राः पर्वताः । मूलविभुजादित्वात्कप्रत्ययः। यदाह वामनः-'महीध्रादयो मूलविभुजादिदर्शनात्' इति । तेषां रन्ध्राणि बिलानि तेषां भिदा भेदनम् । 'षिद्भिदादिभ्योऽङ्' (३।३।१०४)। तस्यां पटीयान् समर्थतरः पटहप्रणाद आनकघोषः महार्णवस्यौघः समुद्रस्य प्रवाहः । अन्यानि जलानि जलान्तराणीव । 'सुप्सुपा-' इति समासः । अन्यान् शब्दान् शब्दान्तराणि । पूर्ववत्समासः । अन्तरयांचकार अन्तर्हितानि चकार । छादयामासेत्यर्थः । अन्तरशब्दादन्तर्धानार्थात् 'तत्करोति-' (ग०) इति ण्यन्ताल्लिट् । 'अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थे' इत्युभयत्राप्यमरः ॥ २४ ॥
यतः स भर्ता जगतां जगाम धर्त्रा धरित्र्याः फणिना ततोऽधः ।
महाभराभुग्नशिरःसहस्रसाहायकव्यग्रभुजं प्रसस्रे ॥ २५ ॥
यत इति ॥ जगतां भर्ता धारयिता । कुक्षिस्थाखिललोक इत्यर्थः । 'कर्तृकर्मणोः कृति' (२।३।६५) इति कर्मणि षष्ठी । स हरिर्यतो येन भूमार्गेण जगाम ततस्तस्मिन्भूभागे अधः पाताले धरित्र्या धरण्याः धर्त्रा धारयित्रा । पूर्ववत्षष्टी । फणिना शेषेण महता भरेण आसमन्ताद्भुग्नस्य कुब्जीभूतस्य शिरःसहस्रस्य सहायके सहायकर्मणि । 'योपधाद्गुरूपोत्तमाद्वुञ्' (५।१।१३२) व्यग्राः त्वरमाणा भुजा यस्मिंस्तद्यथा तथा प्रसस्रे प्रसृतम् । भावे लिट् । हरिश्चचालेत्यर्थः । अत्र शेषस्य विशिष्टप्रसरणासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ॥ २५ ॥
अथोच्चकैस्तोरणसङ्गभङ्गभयावनम्रीकृतकेतनानि ।
क्रियाफलानीव सुनीतिभाजं सैन्यानि सोमान्वयमन्वयुस्तम् २६
अथेति ॥ अथ हरिचलनानन्तरमुच्चकैरुन्नते तोरणे द्वारदारुणि सङ्गेन भङ्गस्तस्मादयेनावनम्रीकृतानि केतनानि यैस्तानि सैन्यानि । सोमस्यान्वयः संतानः तं सोमान्वयं हरिं सुनीतिभाजं सुष्टु नीतिमन्तं क्रियाः सामाद्युपायप्रयोगास्तासां फलानि हिरण्यभूमित्रादिलाभा इवान्वयुरन्वगच्छन् । यातेर्लङ् 'लङः शाकटायनस्य-' (३।४।१११) इति झेर्जुस् ॥ २६ ॥
पाठा०-१'धर्ता'. २ 'धर्ता धारयिता'.
श्यामारुणैर्वारणदानतोयैरालोडिताः काञ्चनभूपरागाः ।
आनेमि मग्नैः शितिकण्ठपक्षक्षोदद्युतश्चुक्षुदिरे रथौघैः ॥२७॥
श्यामेति ॥ श्यामानि चारुणानि च तैः श्यामारुणैः कृष्णलोहितैः । 'वर्णो वर्णेन' (२।१।६९) इति समासः । वारणदानतोयैर्गजमदोदकैरालोडिताः संमिलिता अत एव शितिकण्ठपिच्छक्षोदा मयूरबर्हचूर्णा इव द्योतन्त इति तथोक्ताः । क्विप् । उपमालंकारः । काञ्चनस्य भूः काञ्चनभूस्तस्याः परागाः पांशवः । आनेमि नेमिमभिव्याप्य । 'चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री' इत्यमरः । 'आङ् मर्यादाभिविध्योः' (२।१।१३) इत्यभिविधावव्ययीभावः । मग्नै रथौधैः चुक्षुदिरे । पिष्टा इत्यर्थः । परागाणां विशिष्टपेषणासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः । तथा च महती गजरथसंपत्तिर्व्य॑ज्यत इत्यलंकारेण वस्तुध्वनिः ॥ २७ ॥
न लङ्घयामास महाजनानां शिरांसि नैवोद्धतिमाजगाम ।
अचेष्टताष्टापदभूमिरेणुः पदाहतो यत्सदृशं गरिम्णः ।। २८ ।।
नेति ॥ अष्टसु धातुषु पदं प्रतिष्ठा अस्येत्यष्टापदं सुवर्णम् । 'रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम्' इति सुवर्णपर्यायेष्वमरः । तस्य भूमिस्तस्या रेणुः काञ्चनभूरजः पदाहतः । रथाश्वादिचरणताडितोऽपि सन्नित्यर्थः । महाजनानां बहुजनानां पूज्यानां च शिरांसि न लङ्घयामास नाकामति स्म । किं बहुना, उद्ध- तिमुत्पवनं दर्पं च नैवाजगाम । कुतः । यद्यस्माद्गरिम्णो गुरुत्वगुणस्य माहात्म्यस्य च । 'प्रियस्थिर-' (१।४।१५७) इत्यादिना गुरोर्गरादेशः । सदृशमनुरूपं यथा तथाऽचेष्टत । अलङ्घनव्यवहारे गुरुत्वस्यौद्धत्यप्रतिबन्धकत्वादिति भावः । अत्रानौद्धत्यादिप्रस्तुतसुवर्णपरागविशेषणसाम्यादप्रस्तुतसुजनप्रतीतेः समासोक्तिरलंकारः
निरुध्यमाना यदुभिः कथंचिन्मुहुर्यदुच्चिक्षिपुरग्रपादान् ।
ध्रुवं गुरून्मार्गरुधः करीन्द्रानुल्लङ्घय गन्तुं तुरगास्तदीषुः॥२९॥
निरुध्यमाना इति ॥ तुरगा यदुभिः । आरूढैरिति भावः । कथंचिदतिप्र- यत्नेन निरुध्यमाना वल्गाकर्षणेन वार्यमाणा अपि यद्यस्मादग्राश्च ते पादाश्च तानग्रपादान् । 'हस्ताग्राग्रहस्तादयो गुणगुणिनोरभेदभेदयोगात्' इति वामनः । सामानाधिकरण्येन समासः । मुहुरुच्चिक्षिपुरुत्क्षिप्तवन्तः तत्तस्मान्मार्गं रुन्धन्तीति मार्गरुधो मन्दगमनेन मार्गरोधिनः । क्विप् । गुरून्महतः, पूज्यांश्च । अलङ्घ्यानपीति भावः । करीन्द्रानुल्लङ्घ्य गन्तुमीषुरिच्छन्ति स्म । ध्रुवमित्युत्प्रेक्षायाम् । गुरवोऽपि सन्मार्गरोधकाः परैरुल्लङ्घयन्त इत्यलंकारेण वस्तुध्वनिः ॥ २९॥
अवेक्षितानायतवल्गमग्रे तुरङ्गिभिर्यत्ननिरुद्धवाहैः ।
प्रक्रीडितान् रेणुभिरेत्य तूर्णं निन्युर्जनन्यः पृथुकान् पथिभ्यः ।।
अवेक्षितानिति ॥ आयता आकृष्टा वल्गा मुखरज्जुर्यस्मिन्कर्मणि तद्यथा
पाठा०-१ "पिच्छ” इति टीकाकृत्संमतः पाठः. २ 'खुराहतः' तथा यत्नेन दुर्वारवेगत्वादतिप्रयत्नेन निरुद्धा वाहा वाजिनो यैस्तैः । 'वाजिवाहार्व्रगन्धर्व-' इत्यमरः । तुरङ्गिभिरश्वसादिभिरग्रे पुरोदेशेऽवेक्षितानालोकितान् रेणुभिः प्रक्रीडन्तीति प्रक्रीडितान् पांशुक्रीडाकरान् । कर्तरि क्तः । पृथुकान् शिशून् । 'पृथुकः शावकः शिशुः' इत्यमरः । जनन्यस्तूर्णमेत्य पथिभ्यो निन्युः अपसारयांचक्रुरिति स्वभावोक्तिः ॥ ३० ॥
दिदृक्षमाणाः प्रतिरथ्यमीयुर्मुरारिमारादनघं जनौघाः ।
अनेकशः संस्तुतमप्यनल्पा नवं नवं प्रीतिरहो करोति ॥३१।।
दिदृक्षमाणा इति ॥ अनघमकलङ्कं मुरारि दिदृक्षमाणा द्रष्टुमिच्छन्तः । दृशेः सन्नन्ताल्लटः शानजादेशः । 'ज्ञाश्रुस्मृदृशां सनः' (१॥३५७) इत्यात्मनेपदम् । जनौघा रथ्यायां रथ्यायां प्रतिरथ्यम् , यथार्थेऽव्ययीभावः । आरात् समीपम् । 'आरादूरसमीपयोः' इत्यमरः । ईयुर्जग्मुः । इणो लिट् 'दीर्घ इणः किति' (७४।६९) इत्यभ्यासदीर्घः । ननु नित्यपरिचिते का दिदृक्षेत्यत्राह-अनेकश इति । अनेकशो बहुवारमित्यर्थः । 'बह्वल्पार्थाच्छस्कारकादन्यतरस्याम्' (५।४।४२) इति शस्प्रत्ययः । संस्तुतं परिचितमपि वस्तु । जनेनेति शेषः । 'संस्तवः स्यात्परिचयः' इत्यमरः । अनल्पाधिका प्रीतिः प्रेम कर्त्री नवं नवम् । आभीक्ष्ण्येन नवं करोति । 'नित्यवीप्सयोः' (८।१।४) इति द्विर्भावः। अहोशब्दः पुराणस्यापि नूतनत्वमित्याश्चर्ये । यथा परप्रेमास्पदं वस्तु नित्यदृष्टमप्यदृष्टचरमिव प्रतिक्षणं दिक्षते भगवानपि तथैवेति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः॥३१॥
उपेयुपो वर्त्म निरन्तराभिरसौ निरुच्छ्वासमनीकिनीभिः ।
रथस्य तस्यां पुरि दत्तचक्षुर्विद्वान् विदामास शनैर्न यातम् ॥३२
उपयुष इति ॥ विद्वानभिज्ञः अत एव तस्यां पुरि नगर्यां दत्तचक्षुः निसृष्टदृष्टिरसौ हरिर्निरन्तराभिर्नीरन्ध्राभिरनीकिनीभिः सेनाभिर्निरुच्छ्वासमतिसङ्कटं वर्त्म उपेयुषः प्राप्तस्य रथस्य शनैर्यातं संबन्धनिबन्धनं मन्दगमनं न विदामास न विवेद । 'उपविदजागृभ्योऽन्यतरस्याम्' (३।१।३८) इत्याम्प्रत्ययः । व्यासङ्गादसंवेदनं न तु तत्त्वाज्ञानादिति भावः । व्यासङ्गस्य पदार्थत्वात् पदार्थ हेतुकं काव्यलिङ्गम् ॥ ३२॥
अथैकत्रिंशच्छ्लोकैर्द्वारकां वर्णयति-
मध्येसमुद्रं ककुभः पिशङ्गीर्या कुर्वती काश्चनवप्रभासा ।
तुरङ्गकान्तामुखहव्यवाहज्वालेव भित्त्वा जलमुल्ललास ॥३३॥
मध्य इति ॥ समुद्स्य मध्ये मध्येसमुद्गम् । 'पारे मध्ये षष्ठ्या वा' (२॥ १११८) इति विकल्पादव्ययीभावः । मध्यशब्दस्य तत्संनियोगादेकारान्तत्वम् । काञ्चनवप्रभासा हेमप्राकारप्रभया ककुभो दिशः पिशङ्गीः पिङ्गलवर्णाः । गौरादित्वान्ङीष् । कुर्वती या पू: जलं समुद्रोदकं भित्त्वा । उत्थितेति शेषः । तुरङ्गकान्ताया वडवाया मुखे हव्यं वहतीति हव्यवाहोऽग्निः । कर्मण्यण्प्रत्ययः । तस्य वाडवाग्नेर्वालेवोल्लास उद्बभासे । अत्र समुद्रान्तर्लीनायां वडवानलज्वालायां कदाचिसंभाव्यमानस्य मध्योल्लसनस्य पुरि दर्शनाभेदाध्यवसायेनास्या ज्वालात्वमुत्प्रेक्षते । इवशब्दोऽयमुत्प्रेक्षाया एव व्यञ्जको नोपमायाः, ईदृग्ज्वालाया अप्रसिद्धत्वेनोपमानत्वायोगात् । 'मन्ये शङ्के ध्रुवं नूनं प्राय इत्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ॥' इत्याचार्यदण्डी ॥ ३३ ॥
कृतास्पदा भूमिभृतां सहस्रैरुदन्वदम्भःपरिवीतमूर्तिः ।
अनिर्विदा या विदधे विधात्रा पृथ्वी पृथिव्याः प्रतियातनेव ३४
कृतास्पदेति ॥ भूमिभृतां राज्ञां, गिरीणां च सहस्रैः कृतास्पदा कृताधिष्ठाना । 'आस्पदं प्रतिष्ठायाम्' (६।१।१४६) इति निपातः । उदकमस्यास्तीत्युदन्वानुदधिः । 'उदन्वानुदधिः सिन्धुः' इत्यमरः । 'उदन्वानुदधौ च' (८।२।१३) इति निपातनात्साधुः । तस्याम्भोभिः परिवीता परिवेष्टिता मूर्तिः स्वरूपं यस्याः सा पृथ्वी पृथुः । 'वोतो गुणवचनात्' (४॥१॥४४) इति ङीप् । एवंभूता या पू: न निर्विद्यते न खिद्यते इत्यनिर्वित् । विदेर्ज्ञानार्थत्वान्निःपूर्वात् 'सत्सूद्विष-' (३।२।६१) इत्यादिना क्विप् । तेनानिर्विदा अखिन्नेन । अन्यथा शिल्पसौष्ठवासिद्वेरिति भावः । विधात्रा प्रथत इति पृथिवी भूः । प्रथेरौणादिकः षिवन् । 'षिद्गौरादिभ्यश्च' (४।१।४१) इति ङीष् । तस्याः प्रतियातना प्रतिकृतिरिव विदधे विहिता । 'प्रतियातना प्रतिच्छाया । प्रतिकृतिः' इत्यमरः । भूप्रतिनिधित्वोत्प्रेक्षया पुरो वैचित्र्यविस्तारादिवस्तु व्यज्यते ॥ ३४ ॥
त्वष्टुः सदाभ्यासगृहीतशिल्पविज्ञानसंपत्प्रसरस्य सीमा ।
अदृश्यतादर्शतलामलेषु च्छायेव या स्वर्जलधेर्जलेषु ॥ ३५ ॥
त्वष्टुरिति ॥ त्वष्टुर्विश्वकर्मणः सदाभ्यासेन गृहीतो लब्धो यः शिल्पविज्ञानसंपदः प्रसरः प्रकर्षस्तस्य सीमाऽवधिः । अप्रतिमेति यावत् । या पूरादर्शतलामलेषु दर्पणपृष्ठस्वच्छेषु । 'दर्पणे मुकुरादर्शौ' इत्यमरः । जलधेर्जलेषु स्वः स्वर्गस्य । 'स्वरव्ययं स्वर्गनाक-' इत्यमरः । छाया प्रतिबिम्बमिवादृश्यतेत्युत्प्रेक्षा । 'छाया त्वनातपे कान्तौ प्रतिबिम्बार्कजाययोः' इति वैजयन्ती ॥ ३५ ॥
रथाङ्गभर्त्रेऽभिनवं वराय यस्याः पितेव प्रतिपादितायाः ।
प्रेम्णोपकण्ठं मुहुरङ्कभाजो रत्नावलीरम्बुधिराबबन्ध ॥ ३६॥
रथाङ्गेति ॥ अम्बुधिः पितेव वराय श्रेष्ठाय, जामात्रे च । 'वरो जामातरि श्रेष्टे' इति विश्वः । रथाङ्गभर्त्रे चक्रधराय हरयेऽभिनवं यथा तथा प्रतिपादितायाः । अङ्कः समीपं, उत्सङ्गश्च तद्भाजः। 'अङ्कः समीप उत्सङ्गे चिह्ने स्थानापराधयोः' इति केशवः । यस्याः पुर उपकण्ठमन्तिके । अत्यन्तसंयोगे द्वितीया । अन्यत्र कण्ठे । विभक्त्यर्थेऽव्ययीभावः । मुहुः प्रेम्णा रत्नावलीराबबन्ध आसम- न्ताद्बबन्ध । श्लेषानुप्राणितेयमुपमेति संकरः ॥ ३६ ॥
यस्याश्चलद्वारिधिवारिवीचिच्छटोच्छलच्छङ्खकुलाकुलेन ।
वप्रेण पर्यन्तचरोडुचक्रः सुमेरुवप्रोऽन्वहमन्वकारि ॥ ३७॥
यस्या इति ॥ चलन्तीनां वारिधिवारिवीचीनां छटासु परम्परासूच्छलद्भिरुत्पतद्भिः शङ्खानां कुलैराकुलेन संकीर्णेन यस्याः पुरो वप्रेण प्राकारेण पर्यन्ते चरतीति तत्तादृशमुडुचक्रं नक्षत्रमण्डलं यस्य सः सुमेरोर्वप्रः सानुः । 'सानुप्राकारयोर्वप्रम्' इत्युभयत्रापि सज्जनः । अहन्यहनीत्यन्वहम् । 'अव्ययं विभक्ति-' (२।१।६) इत्यादिना यथार्थेऽव्ययीभावः । 'अनश्च' (५।४।१०८) 'नपुंसकादन्यतरस्याम्' (५।४।१०९) इति समासान्तोऽच् । अन्वकार्यनुकृतः । तत्साम्यं प्रापित इत्यर्थः । मेरूपमानाद्वप्रस्य तत्तुल्यमौन्नत्यं व्यज्यते ॥ ३७॥
वणिक्पथे पूगकृतानि यत्र भ्रमागतैरम्बुभिरम्बुराशिः।
लोलैरलोलद्युतिभाञ्जि मुष्णन् रत्नानि रत्नाकरतामवाप ॥३८॥
वणिक्पथ इति ॥ यत्र यस्यां पुरि वणिजां पथि वणिक्पथे आपणे अपूगाः पूगाः संपद्यमानानि कृतानि पूगकृतानि पुञ्जीकृतानि । 'श्रेण्यादयः कृतादिभिः' (२।११५९) इति समासः । श्रेण्यादिषु च्व्यर्थवचनमिति च्व्यर्थता । अलोलद्युतिभाञ्जि स्थिरप्रभावन्ति रत्नानि लोलैश्चलैः । अत एव भ्रमागतैर्जलनिर्गममार्गादागतैः । 'भ्रमाश्च जलनिर्गमाः' इत्यमरः । अम्बुभिर्मुष्णन् अपहरन् , अम्बुराशिरर्णवः । जलमात्रसारोऽपीति भावः । रत्नाकरतामवाप प्राप । न तु प्रागिति भावः । अम्बुराशेः प्राग्रन्तसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिः । तथा च पुर्याः समुद्रातिशायिनी रत्नसमृद्धिर्वस्तु व्यज्यते ॥ ३८ ॥
अम्भश्च्युतः कोमलरत्नराशीनपांनिधिः फेनपिनद्धभासः।
यत्रातपे दातुमिवाघितल्पं विस्तारयामास तरङ्गहस्तैः ॥ ३९ ॥
अम्भ इति ॥ यत्र पुरि अपांनिधिः समुद्रः । अम्भश्च्योतन्ति क्षरन्तीत्यम्भश्युतो जलस्राविणः अत एव फेनैः पिनद्धभासः पिहितकान्तीन् । अपिपूर्वान्न- ह्यतेः कर्मणि क्तः । 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इत्यपेरकारलोपः । कोमलानुत्कृष्टान् रत्नराशीनातपे दातुं शोषणार्थं निधातुमिवेति फलोत्प्रेक्षा। तल्पेष्वट्टेषु अधितल्पम् । 'तल्पं शय्याट्टदारेषु' इत्यमरः । विभक्त्यर्थेऽव्ययीभावः । तरङ्गैरेव हस्तैर्विस्तारयामास प्रसारितवान् । अत्रातपदानस्य तरङ्गहस्तसाध्यत्वेनोत्प्रेक्षारूपकयोः संकरः ॥ ३९ ॥
यच्छालमुत्तुङ्गतया विजेतुं दूरादुदस्थीयत सागरस्य ।
महोर्मिभिर्व्याहतवाञ्छितार्थैव्रीडादिवाभ्यासगतैर्विलिल्ये ॥ ४० ॥
यच्छालमिति ॥ सागरस्य महोर्मिभिः कर्तृभिर्यच्छालं यस्याः प्राकारम् । 'प्राकारो वरणः शालः' इत्यमरः । उत्तुङ्गतया औन्नत्यगुणेन । जेतुमिवेत्यर्थः । फलोत्प्रेक्षेयं व्यञ्जकाप्रयोगाद्गम्या । दूरादुदस्थीयतोत्थितम् । भावे लङ् । अभ्यासगतैः समीपगतैः । 'समीपे निकटाभ्याससंनिकृष्टसनीडवत्' इत्यमरः । व्याहतो
वान्छितार्थः शालविजयरूपो येषां तैः । विजयाक्षमैरित्यर्थः । अत एव व्रीडादिवेति हेतूत्प्रेक्षा । ऊर्मिभिर्विलिल्ये विलीनम् । लीयतेर्भावे लिट् । अत्र शक्तस्याप्यविजिगीषोर्व्रीडानुदयात् सापेक्षत्वेनोत्प्रेक्षयोः संकरः ॥ ४० ॥ कुतूहलेनेव जवादुपेत्य प्राकारभित्त्या सहसा निषिद्धः ।
रसन्नरोदीद्भृशमम्बुवर्षव्याजेन यस्या बहिरम्बुवाहः ॥ ४१ ॥
कुतूहलेनेति ॥ अम्बु वहतीत्यम्बुवाहो मेघः । कर्मण्यण् । कुतूहलेनान्त:- प्रवेशकौतुकेनेवेति हेतूत्प्रेक्षा । जवादुपेत्य यस्याः प्राकारभित्त्या सहसा निषिद्धो निवारितः अत एव बहिरेव रसन् गर्जन् । दुःखात् क्रन्दंश्चेति श्लेषः । अम्बुवर्षव्याजेन भृशमरोदीत् अश्रूणि मुक्तवान् । 'रुदिर् अश्रुविमोचने' लङ् 'रुदश्च पञ्चभ्यः' (७।३।९८) इतीडागमः । अत्राम्बुवर्षव्याजेनोत्पादकस्योक्तश्लेषोत्प्रेक्षासापेक्षत्वात्संकरः ॥४१॥
यदङ्गनारूपसरूपतायाः कंचिद्गुणं भेदकमिच्छतीभिः ।
आराधितोऽद्धा मनुरप्सरोभिश्चक्रे प्रजाः स्वाः सनिमेषचिह्नाः४२
यदङ्गनेति ॥ यस्यां पुर्यामङ्गनानां रूपं सौन्दर्यमाकारो वा । 'रूपं स्वभावे सौन्दर्ये आकारश्लेषयोरपि' इति विश्वः । तस्य सरूपतायाः सारूप्याद्भेदकं व्यावतकं कंचिद्गुणं धर्ममिच्छतीभिरपेक्षमाणाभिः । 'आच्छीनद्योर्नुम्' (७।१।१८०) इति विकल्पान्नुमभावः । अप्सरोभिराराधितः प्रार्थितो मनुर्मानुषसृष्टिकर्ता स्वाः स्वकीयाः प्रजाः निमेषः पक्षमपात एव चिह्नं व्यावर्तकं तेन सह वर्तन्त इति सनिमेषचिह्नाः । तेन सहेति तुल्ययोगे' (२।२।२८) इति बहुव्रीहिः । चक्रे अद्धा तत्त्वमित्युत्प्रेक्षा । 'तत्त्वे त्वद्धाञ्जसा द्वयोः' इत्यमरः । अत्र स्वाभाविकनिमेषस्याप्सरसः प्रार्थनाहेतुकत्वोत्प्रेक्षया द्वारकाङ्गनानां निमेषमात्रभिन्नममानुषं सौन्दर्यं वस्तु व्यज्यते ॥ ४२ ॥
स्फुरत्तुषारांशुमरीचिजालैर्विनिह्नुताः स्फाटिकसौधपङ्क्तीः ।
आरुह्य नार्यः क्षणदासु यत्र नभोगता देव्य इव व्यराजन् ॥४३॥
स्फुरदिति ॥ यस्यां पुरि क्षणदासु रात्रिषु नार्यः स्फुरद्भिस्तुषारांशोश्चन्द्रस्य मरीचिजालैश्चन्द्रिकाभिः विनिह्नुता अपहृताः । तदेकरूपतापत्तेरगृह्यमाणा इत्यर्थः । अत एव सामान्यालंकारः । 'सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता' इति लक्षणात् । स्फाटिकानां स्फटिकविकाराणां सौधानां पङ्क्तीरारुह्य नभोगता देव्यो देवाङ्गना इव । देवशब्दस्य पचादिषु देवडिति पाठात् 'टिड्ढाणञ्-' (४।१।१५) इत्यादिना ङीप् । व्यराजन् । सौधानामग्रहणादभ्रंकषत्वात् तत्र लक्ष्यमाणाः स्त्रियः खेचर्य इव रेजुरित्यर्थः । अत्र नभोगतत्वोत्प्रेक्षायाः पूर्वाक्तसामान्यसापेक्षत्वात्संकरः ॥ ४३॥
कान्तेन्दुकान्तोपलकुट्टिमेषु प्रतिक्षपं हर्म्यतलेषु यत्र ।
उचैरधःपातिपयोमुचोऽपि समूहमूहुः पयसां प्रणाल्यः ॥४४॥
कान्तेति ॥ यत्र पुरि क्षपासु रात्रिषु प्रतिक्षपम् । विभक्त्यर्थेऽव्ययीभावः । कान्तानि रम्याणीन्दुकान्तोपलानां चन्द्रकान्तमणीनां कुट्टिमानि बद्धभूमयो येषु तेषु । 'कुट्टिमं बद्धभूमिः स्यात्' इति हलायुधः । हर्म्यतलेपूच्चैरुन्नताः प्रणाल्यो जलमार्गाः । 'द्वयोः प्रणाली पयसः पदव्याम्' इत्यमरः । अधःपातिनोऽधश्चराः
पाठा०-१ 'यस्याः'. पयोमुचो मेघा यासां ताः । अधःकृतमेघमण्डलत्वात् अज्ञातवृष्टिपाता अपीत्यर्थः । विरोधालंकारः । पयसां समूहं पयःपूरं मुहुर्वहन्ति स्म । चन्द्रकान्तनिप्यन्दैरिति भावः । वहेर्लिट् ‘वचिस्वपि-' (६।१।१५) इत्यादिना संप्रसारणम् । अत्र सौधानां प्रणालीनां च तादृगौन्नत्यपयःपूरासंबन्धेऽपि तत्संबन्धोक्त्यातिशयोक्तिः ॥४४॥
रतौ ह्रिया यत्र निशाम्य दीपाञ्जालागताभ्योऽधिगृहं गृहिण्यः ।
बिभ्युर्बिडालेक्षणभीषणाभ्यो वैदूर्यकुड्येषु शशिद्युतिभ्यः॥४५॥
रताविति ॥ यत्र पुरि गृहेष्वधिगृहम् । विभक्त्यर्थेऽव्ययीभावः । गृहिण्यः कुलाङ्गनाः अत एव रतौ रतिकाले ह्रिया दीपान्निशाम्य निर्वाप्य । शमेर्मित्वाद्ध्रस्वादेशाभावश्चिन्त्यः । जालागताभ्यो गवाक्षमार्गप्रविष्टाभ्यः । 'जालं गवाक्ष आनायः' इति विश्वः । विदूरात् प्रभवन्तीति वैदूर्याणि बालवायजानि मणयः “वैदूर्यं बालवायजम्' इति विश्वः । 'विदूराञ्ञ्यः' (४।३।८४) इति ञ्यप्रत्ययः । अत्र विदूरशब्दो बालवायस्यादेशः पर्यायो वा तत्रोपचारितो वा । तेन बालवायाद्गिरेरसौ प्रभवति न विदूरान्नगरात् । तत्र तु संस्क्रियत इत्याक्षेपः प्रयुक्तः । यदुक्तम्- 'बालवायो विदूरं च प्रकृत्यन्तरमेव वा । न वै तत्रैति चेxयाज्जित्वरीव्रदुपाचरेत् ॥' इति तेषां कुड्येषु भित्तिषु । संक्रान्ताभ्य इति शेषः । अत एव तच्छायापत्त्या पैङ्गल्याद्बिडालेक्षणवद्भीषयन्ते इति भीषणाभ्यो भयंकराभ्यः । नन्द्यादित्वात्कर्तरि ल्युप्रत्यये टाप् । शशिद्युतिभ्यो बिभ्युर्भीताः । मौग्ध्यादिति भावः । विभेतेर्लिट् । अत्र लज्जावारणाय दीपनिर्वापणे न केवलं तदसिद्धिः प्रत्युत भयं चोत्पन्नमित्यनर्थोत्पत्तिरूपो विषमभेदः । 'विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य वा भवेत् । विरूपघटना या स्याद्विपमालंकृतिर्मता ॥' इति लक्षणात् ॥ ४५ ॥
यस्यामतिश्लक्ष्णतया गृहेषु विधातुमालेख्यमशक्नुवन्तः ।
चक्रुर्युवानः प्रतिविम्बिताङ्गाः सजीवचित्रा इव रनभित्तीः॥४६॥
यस्यामिति ॥ यस्यां पुरि गृहेष्वतिश्लक्ष्णतया रत्नभित्तीनामतिस्निग्धतया आलेख्यं चित्रं विधातुं निर्मातुमशक्नुवन्तो युवानः प्रतिबिम्बिताङ्गाः स्वयं तासु संक्रान्तमूर्तयः सन्तो रत्नभित्तीः सजीवचित्राः सचेतनचित्रवतीरिव चकुरित्युत्प्रेक्षा ॥ ४६॥
सावर्ण्यभाजां प्रतिमागतानां लक्ष्यैः स्मरापाण्डुतयाङ्गनानाम् ।
यस्यां कपोलैः कलधौतधामस्तम्भेषु भेजे मणिदर्पणश्रीः ॥४७॥
सावर्ण्येति ॥ यस्यां पुरि कलधौतधामस्तम्भेषु हेमागारस्तम्भेषु । 'कलधौतं रौप्यहेम्नोः' इति विश्वः । प्रतिमागतानां प्रतिविम्बगतानां सावर्ण्यभाजाम् । तत्सावर्ण्यादगृहीतभेदानामित्यर्थः । अत एव सामान्यालंकारः । 'सामान्यं गुणसाम्येन यत्र वस्त्वन्तरकता' इति लक्षणात् । अङ्गनानां स्मरापाण्डुतया लक्ष्यैर्विभिनवर्णत्वाद्भेदेन गृह्यमाणैरित्यर्थः । कपोलैर्मणिदर्पणानां स्फटिकमुकुराणां श्रीरिव श्रीः भेजे प्राप्ता इति निदर्शना । सा चोक्तसामान्यप्रसादलब्धेति तेनास्याः संकरः ॥४७॥
पाठा०-१ 'निशम्य' इत्येव पाठो वल्लभाङ्गीकृतः. शुकाङ्गनीलोपलनिर्मितानां लिप्तेषु भासा गृहदेहलीनाम् ।
यस्यामलिन्देषु न चक्रुरेव मुग्धाङ्गना गोमयगोमुखानि॥४८॥
शुकाङ्गेति ॥ यस्यां पुरि मुग्धाङ्गनाः शुकाङ्गवन्नीलोपला नीलमणयः । मरकतानीत्यर्थः । 'उपलः प्रस्तरे मणौ' इति विश्वः । तैर्निर्मितानां गृहाणां देहल्यो गृहद्वारशाखाधारदारूणि । 'गृहावग्रहणी देहली' इत्यमरः । तासां भासा लिप्तेष्वलिन्देषु द्वारबहिर्भागेषु । 'प्रघाणप्रघणालिन्दा बहिर्द्वारप्रकोष्ठके' इत्यमरः । गोः पुरीषं गोमयम् । 'गोश्च पुरीषे' (४।३।१४५) इति मयट् । तस्य गोमुखानि विलेपनानि । 'गोमुखं कुटिलाकारे वाद्यभाण्डे विलेपने' इति विश्वः । न चक्रुरेव । मरकतप्रभायां विलेपनभ्रान्त्येति भावः । अत एव भ्रान्तिमदलंकारः । 'कविसंमतसादृश्याद्वस्वन्तरमतिर्हि यत् । स भ्रान्तिमान्' इत्यलंकारसर्वस्वकारलक्षणात् ॥ ४८ ॥
गोपानसीपु क्षणमास्थितानामालम्बिभिश्चन्द्रकिणां कलापैः ।
हरिन्मणिश्यामतृणाभिरामैर्गृहाणि नीध्रैरिव यत्र रेजुः ॥४९॥
गोपानसीष्विति ॥ यत्र पुरि गृहाणि गोपानसीषु वलभीषु । छादनाधारेषु वंशपञ्जरेष्वित्यर्थः । अत एव 'गोपानसी तु वलभी छादने वक्रदारुणि' इत्यत्र पटलाधारवंशपञ्जरे इत्याह स्वामी । क्षणमीषत्कालम् । अत्यन्तसंयोगे द्वितीया । आस्थितानामासीनानां चन्द्रकाः मेचकाः। 'समौ चन्द्रकमेचको' इत्यमरः । तद्वतां चन्द्रकिणां मयूराणामालम्बिभिर्लम्बमानैः कलापैर्बहैं: । 'कलापो भूषणे बर्हे' इत्यमरः । हरिन्मणयो मरकतानि । 'गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः' इत्यमरः । तद्वच्छयामैस्तृणैरभिरामाणि । हरिततृणमयानीत्यर्थः । तैर्नीध्रैः पटलप्रान्तैरिव रेजुः । 'वलीकनीध्रे पटलप्रान्तेऽथ पटलं छदिः' इत्यमरः । छादनपर्यायौ पटलच्छदी। छद्यञ्चलवाचिनी वलीकनीधे । छदेराधारो वंशपञ्जरो गोपानसीति विवेकः । अत एव हरितत्वालम्बनादिगुणक्रियानिमित्तत्वान्नीध्रैरिवेति जातिस्वरूपोत्प्रेक्षा ॥ ४९ ॥
बृहत्तुलैरप्यतुलैर्वितानमालापिनद्वैरपि चावितानैः ।
रेजे विचित्रैरपि या सचित्रैहैविशालैरपि भूरिशालैः ॥५०॥
बृहदिति ॥ या पूः बृहत्यस्तुला उपरिस्थाप्यदार्वाधारभूतानि स्तम्भाग्रपीठानि येषु तैः बृहत्तुलैस्तथाप्यतुलैस्तद्रहितैरिति विरोधः । अनुपमैरित्यविरोधः । 'तुला माने पलशते सादृश्ये राशिभाण्डयोः । गृहाणां दारुबन्धाय पीठ्याम्' इति हैमः । वितानानामुल्लोचानां मालाभिः पङ्क्तिभिः पिनद्वैराच्छादितैः तथाप्यवितानैस्तदहितैरिति विरोधः । अशून्यरित्यविरोधः । समस्तवस्तुसमृद्धैरित्यर्थः । 'अस्त्री वितानमुल्लोचः' 'वितानं त्रिषु तुच्छकम्' इत्युभयत्राप्यमरः । विचित्रैरालेख्यरहितैरपि सचित्रैः तत्सहितैरिति विरोधः । विचित्रैरद्भुतैरिति परिहारः । 'आलेख्याश्चर्ययोश्चित्रम्' इत्यमरः । विगताः शाला गृहैकदेशा येषां तानि । 'शाला गृहे तरुस्कन्धे शाखागारैकदेशयोः' इति विश्वः । तैः विशालैरपि भूरिशालैः प्रचुरगृहैकदेशविशिष्टैरिति विरोधः । विशालैः पृथुलैरित्यविरोधः । विशालं पृथुलं महत्' इत्यमरः । 'वैः शालच्छङ्कटचौ' (५।२।२८) इति शालच्प्रत्ययः । गृहै रेजे । अपिरयं सर्वत्र विरोधे । विरुद्धवदाभासाद्विरोधालंकारः । 'विरोधः सोऽविरोधेऽपि विरुद्धत्वेन यद्वचः' इति काव्यप्रकाशलक्षणात् ॥ ५० ॥
चिक्रंसया कृत्रिमपत्रिपङ्क्तेः कपोतपालीषु निकेतनानाम् ।
मार्जारमप्यायतनिश्चलाङ्गं यस्यां जनः कृत्रिममेव मेने ॥५१॥
चिक्रंसयेति ॥ यस्यां पुरि निकेतनानां वेश्मनाम् । 'वेश्म सद्म निकेतनम्' इत्यमरः । कपोतान् पक्षिणः पालयन्तीति कपोतपाल्यो विटङ्कापरनामानः स्तम्भाग्रप्रसारिता दारुविशेषाः । 'कपोतपालिकायां तु विटङ्कं पुंनपुंसकम्' इत्यमरः । कर्मण्यणि ङीप् । तासु कृत्रिमपत्रिणां दारुमयपक्षिणां पङ्क्तेः । कर्मणि पष्टी । चिक्रंसया क्रमितुमिच्छया। जिघृक्षयेत्यर्थः । क्रमेः सन्नन्तात् 'अ प्रत्ययात्' (३।३।१०२) इत्यकारप्रत्यये टाप् । 'स्नुक्रमोरनात्मनेपदनिमित्ते' (७।२।३६) इतीडागमो न भवति । अत्र क्रमेर्वृत्यादिव्यतिरिक्तार्थेऽपि 'अनुपसर्गाद्वा' (१॥३।४३) इति वैकल्पिकस्यात्मनेपदनिमित्तस्यानुपसर्गत्वस्य वैवक्षिकस्य संभवात् । आयतमानतं वा निश्चलमङ्गं यस्य तं मार्जारं बिडालमपि । 'ओतुर्बिडालो मार्जारः' इत्यमरः । जनः कृत्रिमं क्रियया निवृत्तमेव मेने । न तु वास्तवमित्यर्थः । 'ड्वितः क्रिः' (३।३।८८) 'क्रेर्मन्नित्यम्' (वा०) इति मम्प्रत्ययः । अनेन कृत्रिमाकृत्रिमभेदो दुर्ग्रह इति शिल्पज्ञानातिशयोक्तिः । अत्र कविकल्पितसादृश्यान्मार्जारजनयोः कृत्रिमाकृत्रिमेषु विपरीतमतिवर्णनाद्भ्राशान्तिमदलंकारः ॥५१॥
क्षितिप्रतिष्ठोऽपि मुखारविन्दैवधूजनश्चन्द्रमधश्चकार ।
अतीतनक्षत्रपथानि यत्र प्रासादशृङ्गाणि वृथाध्यरुक्षत् ॥५२॥
क्षितीति ॥ यस्यां पुरि वधूजनः क्षितौ प्रतिष्ठा यस्य स भूमिस्थितोऽपि चन्द्रम् । दिवि स्थितमिति भावः । तत्रापि मुखैरेवारविन्दैरधश्चकारेति विरोधः । स्वलावण्यमहिम्नाऽधरीचकारेति परिहाराद्विरोधालंकारः । अतीतानि नक्षत्रपथमतीतनक्षत्रपथानि । 'अत्यादयः क्रान्ताद्यर्थे द्वितीयया' (वा०) इति समासः । “द्विगुप्राप्तापन्ना-' (वा.) इत्यादिना परवल्लिङ्गताप्रतिषेधः । प्रासादशृङ्गाणि वृथा अध्यक्षदधिरोहति स्म । अनधिरुह्यैवाधःकरणादिति भावः । रोहतेर्लुङ् । 'शल इगुपधादनिटः क्सः' (३।१।४५) इति च्लेः क्सादेशः । अत्राधःकरणवाक्यार्थस्य श्लेषविरोधोपजीव्यवैयर्थं हेतुत्वात्संकीर्णः काव्यलिङ्गभेदः ॥ ५२ ॥
रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्धयन्तीः ।
यस्यामसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः॥५३॥
रम्या इति ॥ यस्यां पुरि युवानो रम्या रमणीया इति हेतोः पताकाः प्राप्तवतीः । उत्क्षिप्तध्वजा इत्यर्थः । अन्यत्र रम्या इत्येवं पताकाः प्राप्तवतीः । प्रसिद्धिं गता इत्यर्थः । 'पताका वैजयन्त्यां च सौभाग्येऽध्वजेऽपि च', 'इति हेतौ प्रकरणे प्रकारादिसमाप्तिषु' इत्युभयत्रापि विश्वः । विविक्ता विजना विमलाश्व इति हेतो रागं वर्धयन्तीः । 'विविक्तौ पूतविजनौ' इत्युभयत्राप्यमरः । नमद्वलीका नम्रनीध्राः । 'वलीकनीध्रे पटलप्रान्ते' इत्यमरः । अन्यत्र नमन्त्यो वल्यस्त्रिवल्याख्या मध्यरेखा यासां ता नमद्वलीकाः । 'नद्यृतश्च' (५।४।१५३) इति कप्प्रत्ययः । 'वली मध्यमरेखोर्मिजीर्णत्वग्गृहदारुषु' इति वैजयन्ती । वलभीः कूटागाराणि । 'कूटागारं तु वलभी' इत्यमरः । वधूभिः सममसेवन्त । वधूसहिता असेवन्तेत्यर्थः । अत्र वधूनां वलभीनां च प्रकृतानामेव धर्मसाधर्म्येणौपम्यावगमात् केवलप्रकृतगोचरा तुल्ययोगिता न श्लेषः । तत्र विशेष्यस्यापि श्लिष्टत्वनियमात् । यथाहुः-'प्रस्तुतानां तथान्येषां केवलं तुल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता ॥' इति ॥ ५३ ॥
सुगन्धितामप्रतियत्नपूर्वां विभ्रन्ति यत्र प्रमदाय पुंसाम् ।
मधूनि वक्राणि च कामिनीनामामोदकर्मव्यतिहारमीयुः ॥५४॥
सुगन्धितामिति ॥ यत्र पुरि न प्रतियत्नः संस्कारः पूर्वो यस्यास्तामप्रतियत्नपूर्वामकृत्रिमाम् । स्वाभाविकीमित्यर्थः । 'प्रतियत्नस्तु संस्कारः' इति वैजयन्ती । शोभनो गन्धो येषां तेषां भावस्तत्ता तां सुगन्धितां सौरभ्यम् । 'गन्धस्येत्-' (५।४।१३५) इतीकारः । विभ्रन्ति विभ्राणानि । 'वा नपुंसकस्य' (७।१।७९) इति नुमागमः । मधूनि मद्यानि कामिनीनां वस्त्राणि च यूनां प्रमदाय प्रीत्यै आमोदकर्मणो वासनाधानस्य व्यतिहारं परस्परकरणमीयुः । अन्योन्यगन्धेनान्योन्यं वासयामासुरित्यर्थः । इणो लिट् । अत्रापि मधूनां वक्राणां च प्रकृतत्वात्तत्पूर्वक एव तुल्ययोगिताभेदः । तेन यूनां मधुवासितवधूवदनपानं वदनवासि- तगण्डूषपानं च वस्तु व्यज्यते । तेन च निरातङ्कभोगाः पौरा इति गम्यते ॥५४॥
रतान्तरे यत्र गृहान्तरेषु वितर्दिनिर्यूहविटङ्कनीडः ।
रुतानि शृण्वन्वयसां गणोऽन्तेवासित्वमाप स्फुटमङ्गनानाम् ५५
रतान्तर इति ॥ यत्र पुरि गृहान्तरेषु वितर्दयो विहारवेदिकाः । 'स्याद्वितर्दिस्तु वेदिका' इत्यमरः । तासां निर्यूहा मत्तवारणाख्या अपाश्रयाः । 'निर्यूहो मत्तवारणः' इति वैजयन्ती । तेषां विटङ्का उपरितन्यः कपोतपालिकाः त एव नीडाः कुलाया यस्य सः । 'कुलायो नीडमस्त्रियाम्' इत्यमरः । वयसां शुकसारिकादिपत्रिणां गणः । 'वयः पक्षिणि बाल्यादौ' इति विश्वः । अङ्गनानाम् । वितर्दिषु रममाणानामिति भावः । रतान्तरे रुतानि रतिकूजितानि शृण्वन् । अन्ते समीपे वसन्त इत्यन्तेवासिनः शिष्याः । 'छात्रान्तेवासिनौ शिष्ये' इत्यमरः । 'शयवासवासिष्वकालात्' (६।३।१८) इत्यलुक् । तेषां भावस्तत्त्वमाप । समीपे प्रतिशब्दं यथाश्रुतमुच्चारणादेवमुत्प्रेक्ष्यते। अत एव स्फुटमिति व्यञ्जकप्रयोगः ॥५५॥
छन्नेष्वपि स्पष्टतरेषु यत्र स्वच्छानि नारीकुचमण्डलेषु ।
आकाशसाम्यं दधुरम्बराणि न नामतः केवलमर्थतोऽपि॥५६॥
छन्नेष्विति ॥ यत्र पुरि छन्नेष्वाच्छादितेषु । 'वा दान्त-' (७।२।२७) इत्यादिना वैकल्पिको निपातः । स्पष्टतरेषु । स्फुटतरं लक्ष्यमाणेष्वित्यर्थः । नारीकुचमण्डलेषु स्वच्छानि स्फटिकादिवदतिरोधायकानि, अम्बराणि वस्त्राणि केवलं नामतोऽम्बरमिति नाम्नेवाकाशसाम्यं न दधुः । 'अम्बरं व्योम्नि वाससि' इति विश्वः । किंत्वर्थतोऽप्यर्थक्रिययापि तत्साम्यं दधुः । स्वयमतिसूक्ष्मत्वादव्यवधायकत्वं दृष्ट्यादेर्मूर्तान्तरगत्यविघातित्वं चेत्यादिनापि साम्यं दधुरित्यर्थः । उपमा- लंकारः॥५६॥
यस्यामजिह्मा महतीमपङ्काः सीमानमत्यायतयोऽत्यजन्तः ।
जनैरजातस्खलनैर्न जातु द्वयेऽप्यमुच्यन्त विनीतमार्गाः॥५७॥
यस्यामिति ॥ यस्यां पुरि अजिह्मा अवकाः, अन्यत्राकपटाः । दम्भादिरहिता इत्यर्थः । 'आचरेत्सदृशीं वृत्तिमजिह्मामशठां तथा' इति स्मरणादिति भावः । 'जिह्मः कपटवक्रयोः' इति विश्वः । अपङ्काः कर्दमरहिताः, निष्पापाश्च । 'पङ्कोऽघे कर्दमे' इति हैमः । महतीं सीमानं राजकल्पितक्षेत्रमानं मर्यादां, कुलागतानुष्ठानस्थितिं चात्यजन्तः। अत्यक्तमहामर्यादा इत्यर्थः । अतिमात्रा आयतिरायामः उत्तरकालश्च येषां ते अत्यायतयः । 'आयतिस्तूत्तरे काले संयमायामयोरपि' इति विश्वः । द्वये द्विरूपा अपि । 'प्रथमचरमतया-' (१॥१॥३३) इत्यादिना जसि विभाषया सर्वनामसंज्ञा । विनीतमार्गाः सुरचितपुरवीथयः, सुशिक्षिताचारपद्धतयश्च न जातं स्खलनं पाषाणादिप्रतिघातः, विरुद्धाचरणं च येषां तैर्जनैर्जातु कदाचिदपि नामुच्यन्त न त्यक्ताः । न कदाचित्खिलीकृता इत्यर्थः । अत्र मार्गशब्दस्य साधर्म्यादेकवृन्तावलम्बिफलद्वयवदेकशब्देनार्थद्वयप्रतीतेः, द्वयानामपि मार्गाणां प्रकृतत्वाच्च केवलप्रकृतविषयोऽर्थश्लेषः । विशेष्यस्यापि श्लिष्टत्वान्न तुल्ययोगिता ॥ ५७ ॥
परस्परस्पर्धिपरार्ध्यरूपाः पौरस्त्रियो यत्र विधाय वेधाः ।
श्रीनिर्मितिप्राप्तघुणक्षतैकवर्णोपमावाच्यमलं ममार्ज ॥५८ ॥
परस्परेति ॥ यत्र पुरि परस्परस्पर्धीन्यहमहमिकयाऽन्योन्यसामर्षाणि परा- र्ध्यानि श्रेष्ठानि रूपाणि सौन्दर्याणि यासां ताः। 'रूपं स्वरूपे सौन्दर्ये' इति विश्वः । पुरे भवाः पौरस्ताः स्त्रियः पौरस्त्रियः। 'स्त्रियाः पुंवत्-' (६।३।३४) इत्यादिना पुंवद्भावः। विधाय निर्माय वेधाः स्रष्टा श्रियो लक्ष्मीदेव्याः निर्मित्या निर्माणेन प्राप्तं यत् घुणेन वज्रकीटेन क्षतस्योत्कीर्णस्यैकवर्णस्योपमया साम्येन वाच्यमपवादः तदलमत्यन्तम् । तदेव मलमिति केचित् । ममार्ज । घुणाक्षरवत् यादृच्छिकमिदं श्रीदेवतासौन्दर्यशिल्पं न कौशलमित्ययशः क्षालितवानित्यर्थः । अनया चातिशयोक्त्या पौरस्त्रीणां रमासमानसौन्दर्यं वस्तु व्यज्यते ॥ ५८ ॥
क्षुण्णं यदन्तःकरणेन वृक्षाः फलन्ति कल्पोपपदास्तदेव ।
अध्यूषुषो यामभवञ्जनस्य याः संपदस्ता मनसोऽप्यगम्याः॥५९
क्षुण्णमिति ॥ यदन्तःकरणेन क्षुण्णमभ्यस्तम् । ममेदं भूयादिति भूयोभूयः संकल्पितमित्यर्थः । कल्पयन्ति संकल्पितार्थानिति कल्पाः । कल्पा इत्युपपदं व्यावर्तकं येषां ते कल्पोपपदा वृक्षाः कल्पवृक्षाः तदेव फलन्ति फलानि निष्पादयन्ति । ‘फल निष्पत्तौ' इति धातोर्लट । कुतः । यां पुरमध्यूषुषो यस्यामुषितवन्तः ।
पाठा०-१ प्यभूमिः'. 'उपान्वध्याङ्वसः' (१।४।४८) इति कर्मत्वम् । 'भाषायां सदवसश्रुवः' (३।२।१०८) इति क्वसुप्रत्ययः । जनस्य याः संपदोऽभवन् ता मनसोऽप्यगम्याः । वाचामभूमय इति किमु वक्तव्यमिति भावः । गृहे गृहे कल्पवृक्षसंबन्धातिशयोक्त्या पौराणां देवेन्द्रभोगो व्यज्यते । इह कल्प इत्युपपदं स्वसंज्ञैकदेशो येषामिति व्याख्याने हिरण्यपूर्वं कशिपुमित्यादिवदवाच्यवचनदोषावकाशः ॥ ५९ ॥
कला दधानः सकलाः स्वभाभिरुद्भासयन्सौधसिताभिराशाः ।
यां रेवतीजानिरियेष हातुं न रौहिणेयो न च रोहिणीशः॥६॥
कला इति ॥ सकलाः समग्राः कलाश्चतुःषष्टिविद्याः, षोडशभागांश्च दधानः । 'कला शिल्पे कालभेदे' इति, 'कला तु षोडशो भागः' इति चामरः । सुधयावलिप्तं सौधं तद्वत्सिताभिः स्वभाभिराशा दिश उद्भासयन रेवती ककुद्मि- कन्या, पूषकं भं च जाया यस्य स रेवतीजानिः । 'जायाया निङ् (५।४।१३४) इति समासान्तो निङादेशः । 'लोपो व्योर्वलि' (६।१।६६) इति यलोपः । रोहिण्या अपत्यं पुमान् रौहिणेयो बलभद्रः । 'स्त्रीभ्यो ढक्' (४।१।१२०)। यां पुरी हातुं त्यक्तुं न इयेष नेच्छति स्म । लिट् । रोहिणीशश्चन्द्रश्च हातुं न इयेष । अत्र रौहिणेयरोहिणीशयोः परोत्कर्षावहत्वेन द्वयोः प्रकृतत्वाद्विशेष्यस्याश्लिष्टत्वाच्च केवलप्रकृतविषया तुल्ययोगिता । गतमन्यत् ॥ ६० ॥
बाणाहवव्याहतशंभुशक्तेरासत्तिमासाद्य जनार्दनस्य ।
शरीरिणा जैत्रशरेण यत्र निःशङ्कमूषे मकरध्वजेन ॥ ६१ ॥
बाणेति ॥ यत्र पुरि बाणाहवे बाणासुरयुद्धे व्याहता क्षयं नीता शंभुशक्तिर्येन तस्य हरविजयिनो जनार्दनस्य कृष्णस्यासत्तिं प्रत्यासत्तिमासाद्य । पुत्रत्वं प्राप्येत्यर्थः । शरीरिणा विग्रहवता । न त्वनङ्गेनेति भावः । जेतार एव जैत्रा जयशीलाः । तृन्नन्तात्प्रज्ञादित्वादण्प्रत्ययः । ते शरा यस्य तेन मकरध्वजेन कामेन । प्रद्युम्नरूपेणेति भावः । निःशङ्कं निर्भीकमूषे उषितम् । 'वस निवासे' भावे लिट् । 'वचिस्वपि-' (६।१।१५) इत्यादिना संप्रसारणम् । 'शङ्का वितर्कभययोः' इति विश्वः । अत्र शंभुशक्तिव्याघातपदार्थस्य विशेषणगत्या निःशङ्कनि वासहेतुत्वोक्तेः काव्यलिङ्गभेदः । पुरा किल भगवान् भक्तवत्सलो धूर्जटिर्बाण- प्रेम्णा बाणाभियोधिनं हरिमभियुज्य निर्जित इति पौराणिकाः कथयन्ति ॥ ६१ ।।
निषेव्यमाणेन शिवैर्मरुद्भिरध्यास्यमाना हरिणा चिराय ।
उद्रश्मिरत्नाङ्कुरधाम्नि सिन्धावाह्वास्त मेरावमरावतीं या ॥६२॥
निषेव्यमाणेनेति ॥ शिवैर्मरुद्भिर्मन्दमारुतैः, अन्यत्र शिवै रुदैः, मरुद्भिः मरुद्गणैश्च चिराय निषेव्यमाणेन हरिणा श्रीकृष्णेन, शक्रेण चाध्यास्यमाना अधिष्टीयमाना उद्रश्मीनां रत्नाङ्कुराणां धाम्नि स्थाने । एकत्र रत्नाकरत्वादन्यत्र रत्नसानुत्वाच्चेति भावः। सिन्धौ स्थितेति शेषः। या पू: मेरौ स्थिताम् अमरा यस्यां सन्तीत्यमरावतीमिन्द्रनगरीम् । 'मतौ बह्वचोऽनजिरा-' (६।३।११९) इति दीर्घः ।
पाठा०-१०प्यभूमिः वाचामभूमिः'. संज्ञायाम् 'मादुपधायाश्च-' (८।२।९) इति वत्वम् । आह्वास्त स्पर्धयाऽऽहूतवती । अमरावतीमनुचकारेत्यर्थः । ह्वयतेर्लुङ् 'स्पर्धायामाङः' (१३।३१) इत्यात्मनेपदम् । “लिपि सिचि ह्वश्च' (३।१।५३) इति 'आत्मनेपदेष्वन्यतरस्याम्' (३।१०५४) इति च्लेरङभावपक्षे सिजादेशः । अत्र प्रथमार्धे श्लेषेऽपि सिन्धौ मेरौ स्थितेति प्रतिबिम्बाभावेन साधर्म्योक्तेः श्लेषानुप्राणितेयमुपमेति संक्षेपः । आह्वास्तेति सादृश्यप्रतिपादकः शब्दः । स्पर्धते ह्वयते द्वेष्टीत्यनुशासनात् ॥ ६२ ॥
स्निग्धाञ्जनश्यामरुचिः सुवृत्तो वध्वा इवाध्वंसितवर्णकान्तः ।
विशेषको वा विशिशेष यस्याः श्रियं त्रिलोकीतिलकः स एव ६३
स्निग्धेति ॥ स्निग्धं यदञ्जनं तद्वत्तेन च श्यामरुचिः सुवृत्तः सद्वृत्तिः, सुष्टु वर्तुलश्च । त्रयाणां लोकानां समाहारस्त्रिलोकी । तद्धितार्थ-' (२।१।५१) इत्यादिना समासः । 'संख्यापूर्वो द्विगुः' (२।१।५२) इति द्विगुसंज्ञा । 'अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्यते' इति स्त्रीत्वे 'द्विगोः' (४।१।२१) इति ङीप् । तस्यास्तिलको भूषणभूतः स हरिरेव, विशेषको वा । तिलक इवेत्यर्थः । 'इववद्वायथाशब्दा' इत्यनुशासनात् । 'तमालपत्रतिलकचित्रकाणि विशेषकम् । द्वितीयं च तुरीयं च न स्त्रियाम्' इत्यमरः । अध्वंसिता वर्णानां ब्राह्मणादीनां कान्तिरौज्ज्वल्यं यस्यास्तस्याः पुरः, अन्यत्राध्वंसितो वर्णो गौरादिः, कान्तिर्लावण्यं च यस्यास्तस्याः । 'वर्णो द्विजादौ शुक्लादौ' इत्युभयत्राप्यमरः । वध्वा इव श्रियं विशिशेष विशेषितवान् । अनेकशब्देयमुपमेत्येके । शब्दमात्रसादृश्याच्ल्छेष इत्यन्ये । श्लेषोपमेत्याह दण्डी ॥ ६३॥
तामीक्षमाणः स पुरं पुरस्तात्तात्प्रापत्प्रतोलीमतुलप्रतापः ।
वज्रप्रभोद्भासिसुरायुधश्रीर्या देवसेनेव परैरलङ्घ्या ॥ ६४ ॥
तामिति ॥ अतुलप्रतापः स हरिस्तां पूर्वोक्तां पुरमीक्षमाणः पुरस्तात् पूर्वस्यां दिशि । सप्तम्यर्थे तसिल् प्रत्ययः । प्रतोली रथ्याम् । 'रथ्या प्रतोली विशिखा' इत्यमरः । प्रापत् प्राप्तवान् । लुङि 'पुषादि-' (३।१।५५) इत्यादिना च्लेरङादेशः । वज्राणां तोरणप्रासादादिगतहीरकादिमणीनां प्रभाभिरुद्भासिनी सुरायुधश्रीरिन्द्रचापलक्ष्मीर्यस्यां सा । इह वज्रग्रहणं मणिमात्रोपलक्षणम् । अन्यथेन्द्रायुधासाम्यादिति भावः । अन्यत्र वज्रस्य कुलिशस्य प्रभाभिरुद्भासिनी सुरायुधानाभितरदेवतायुधानां श्रीर्यस्याः सा । 'वज्रोऽस्त्री हीरके पवौ' इत्यमरः । या प्रतोली देवसेना सुरचमूरिव परैः शत्रुभिरलङ्घ्या दुष्प्रधर्ष्या ॥ ६४ ॥
प्रजा इवाङ्गादरविन्दनाभेः शंभोर्जटाजूटतटादिवापः ।
मुखादिवाथ श्रुतयो विधातुः पुरान्निरीयुर्मुरजिद्धजिन्यः॥६५॥
प्रजा इति ॥ अरविन्दनाभेर्विष्णोरङ्गात् प्रजा इव । 'यतो वा इमानि भूतानि जायन्ते' इति श्रुतेरिति भावः । शंभोर्जटाजूटतटात् आप इव गङ्गाजलानीव विधातुर्मुखात् श्रुतय इव मुरजितो हरेः ध्वजिन्यः सेनाः पुरान्निरीयुर्निर्गताः ।
मालोपमेयम् ॥ ६५॥ श्लिष्यद्भिरन्योन्यमुखाग्रसङ्गस्खलत्खलीनं हरिभिर्विलोलैः ।
परस्परोत्पीडितजानुभागा दुःखेन निश्चक्रमुरश्ववाराः॥६६॥
श्लिष्यद्भिरिति ॥ अन्योन्येषां मुखाग्रेषु सङ्गेन स्खलन्तः खलीनाः कविका यस्मिन्कर्मणि तद्यथा तथा। 'कविका तु खलीनोऽस्त्री' इत्यमरः । श्लिष्यद्भिः संघृष्यद्भिः विलोलैः मुहुरुच्चलद्भिः हरिभिस्तुरंगैः करणैः । अश्वान् वारयन्ति ये तेऽश्ववारा अश्वारोहाः परस्परेणोत्पीडितजानुभागाः सन्तो दुःखेन निश्चक्रमुः निर्जग्मुः। अत्र स्वभावोत्यातिशयोक्तेः संकरः ॥ ६६ ॥
निरन्तरालेऽपि विमुच्यमाने दूरं पथि प्राणभृतां गणेन ।
तेजोमहद्भिस्तमसेव दीपैर्द्विपैरसंबाधमयांबभूवे ॥ ६७ ॥
निरन्तराल इति ॥ तमसा तिमिरेणेव प्राणभृतां गणेन प्राणिवर्गेण कर्त्रा निरन्तरालेऽपि पूर्वं स्वेनैवातिसंकटेऽपि पथि संप्रति दूरं दूरत एव विमुच्यमाने सति । एकत्र दीपभयादन्यत्र द्विपभयाच्चेत्यर्थः। तेजोमहद्भिर्बलाधिकैः, प्रभासंपन्नैश्च । 'तेजो बलं प्रभा तेजः' इति विश्वः। द्विपैर्दीपैरिवासंबाधमसंकीर्णमयांबभूवे जग्मे । न त्वश्वैरिव कृच्छ्रादिति भावः। 'अय गतौ' भावे लिट् 'दयायासश्च' (३।१॥३७) इत्याम्प्रत्ययः । स्वतेजसैव दूरोत्सारिततमस्के दीपा इव तथोत्सारितप्राणिके पथि निरर्गलं द्विपाः प्रययुरित्यर्थः । तमसीति सप्तम्यन्तपाठे तु तमसः पथ्युपमानत्वे द्विपागमनात् पथ इव तमसो दीपागमनात् प्राकृतप्राणिवर्गेण निरन्तरालत्वं पश्चान्मुच्यमानत्वं च न संभवतीत्युपमानोपमेययोवैरूप्यं स्यात् । तृतीयान्तपाठे तमसः प्राणिवर्गोपमानत्वे तत्सारूप्यसाकल्यात् स एव साधीयानित्यालंकारिकाणां पन्थाः ॥ ६७ ॥
शनैरनीयन्त रयात्पतन्तो रथाः क्षितिं हस्तिनखादखेदैः।
सयत्नसूतायतरश्मिभुग्नग्रीवाग्रसंसक्तयुगैस्तुरंगैः ॥ ६८ ॥
शनैरिति ॥ रयात्पतन्तो धावन्तो रथाः सयत्नैः सूतैः सारथिभिः । 'सूतः क्षत्ता च सारथिः' इत्यमरः । आयता आकृष्टा ये रश्मयः प्रग्रहाः। 'किरणप्रग्रहौ रश्मी' इत्यमरः । तैर्भुग्नेषु प्रह्वेषु ग्रीवाणामग्रेषु संसक्ता युगा युग्याः स्कन्धवाह्या दारुविशेषा येषां तैरत एवाखेदैरश्रमैस्तुरंगैः। हस्तिनखात् । हस्तिनखः पूर्द्वारि मृत्कूटः । 'कूटं पूर्द्वारि यद्धस्तिनखस्तस्मिन्' इत्यमरः । तस्माच्छनैः क्षितिमनीयन्त नीता इति स्वभावोक्तिः । यथावद्वस्तुवर्णनात् ॥ ६८ ॥
बलोर्मिभिस्तत्क्षणहीयमानरथ्याभुजाया वलयैरिवास्याः ।
प्रायेण निष्कामति चक्रपाणौ नेष्टं पुरो द्वारवतीत्वमासीत् ॥६९॥
बलोर्मिभिरिति ॥ बलान्यूर्मय इव तैर्बलोर्मिभिः वलयैः कङ्कणैरिव तत्क्षणे हरिनिष्क्रमणक्षण एव हीयमाना अपरिच्यमाना रथ्या भुजेव यस्यास्तस्याः अत एवास्याः पुरो द्वारवत्याश्चक्रपाणौ कृष्णे निष्कामति निर्गच्छति सति प्रायेण भूम्ना द्वारवतीत्वं द्वारकात्वम् । स्वस्वरूपमिति यावत् । इष्टं नासीत् । हरिविरहे तद्वैफल्यादिति भावः। द्वारवतीशब्दस्य संज्ञात्वात् 'स्वतलोर्गुणवचनस्य' (वा०) इति न पुंवद्भावः । अन्यत्र द्वारवतीत्वं द्वारवत्त्वं नेष्टं, तस्य हरिनिष्क्रमणहेतुत्वात् , इत्युभयथाप्युपमितभुजवलयगलनहेतुत्वात् उपमासंकीर्णेयमनिष्टत्वोत्प्रेक्षा प्रायेणेत्यनेन व्यज्यते॥६९॥
अथासर्गसमाप्तेः समुद्रं वर्णयति-
पारेजलं नीरनिधेरपश्यन्मुरारिरानीलपलाशराशीः ।
वनावलीरुत्कलिकासहस्रप्रतिक्षणोत्कूलितशैवलाभाः ॥ ७० ॥
पार इति ॥ मुरारिः नीरनिधेः समुद्रस्य जलानां पारे परतीरे पारेजलम् । 'पारावारे परार्वाची तीरे' इत्यमरः । 'पारे मध्ये पष्ठ्या वा' (२।१।१८) इत्यव्ययीभावः । तत्संयोगादेकारान्तत्वं च पारेशब्दस्य । आ समन्तान्नीला पलाशानां पत्राणां राशयो यासां ताः। हरितपर्णपूर्णा इत्यर्थः । 'पत्रं पलाशं छदनम्' इत्यमरः। अत एवोत्कलिका ऊर्मयः । 'ऊर्मिरुत्कलिकोल्लोलकल्लोललहरिस्तथा' इति हलायुधः । तासां सहस्रैः प्रतिक्षणमुत्कूलिताः कूलमुद्गताः। कूलं प्रापिता इत्यर्थः । उत्कूलशब्दात् 'तत्करोति-' (ग०) इति ण्यन्ताकर्मणि क्तः । तेषां शैवलानामाभेवाभा यासां ताः । तत्सदृशीरित्यर्थः । वनावलीरपश्यत् । अत्रोत्कूलितशैवलस्य स्वतःसिद्धसंदेहादुपमोत्प्रेक्षयोः संदेहसंकरः ॥ ७० ॥
लक्ष्मीभृतोऽम्भोधितटाधिवासान् द्रुमानसौ नीरदनीलभासः ।
लतावधूसंप्रयुजोऽधिवेलं बहूकृतान् स्वानिव पश्यति स्म ॥७१॥
लक्ष्मीभृत इति ॥ असौ हरिर्लक्ष्मी शोभां, श्रीदेवीं च विभ्रतीति लक्ष्मीभृतस्तान् अम्भोधितटेऽधिवासो येषां तान् नीरदवन्नीलभासो नीलवर्णान् । लता वध्व इवेत्युपमितसमासः । अन्यत्र लता इव वध्व इति शाकपार्थिवादित्वान्मध्यमपदलोपी समासः । ताभिः संप्रयुज्यन्त इति संप्रयुजः संगतान् । क्विप् । अधिवेलं वेलायाम् । विभक्त्यर्थेऽव्ययीभावः । द्रुमान् बहूकृताननेकीकृतान् स्वान् स्वकीयविग्रहानिवेत्यर्थः । एवं च पुंलिङ्गतानिर्वाहः । आत्मपरत्वे नपुंसकत्वापातः । 'स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने' इत्यमरः। पश्यति स्म । श्लेषसंकीर्णेयमुत्प्रेक्षा ॥ ७१ ॥
आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्भुजाकारबृहत्तरङ्गम् ।
फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ॥ ७२॥
आश्लिष्टेति ॥ आश्लिष्टभूमिमालिङ्गितभूतलमुच्चैस्तारं रसितारं क्रन्दितारं लोलतां चञ्चलतामितस्ततः पततां भुजानामाकार इवाकारो येषां ते बृहत्तरङ्गा यस्य तं तथोक्तं फेनायमानं फेनमुद्वमन्तम् । 'फेनाञ्चेति वक्तव्यम्' (वा०) इति क्यङ् । अपां समूह आपम् । 'तस्य समूहः' (४।२।३७) इत्यण् । तेन गच्छन्तीत्यापगाः तासां पतिं समुद्रम् । असौ हरिरपस्मारिणमपस्माररोगिणमाशशङ्के । तत्कर्मयोगात्तथोत्प्रेक्षां चक्रे इत्यर्थः । यथाहुनैदानिका:-क्रुद्धैर्धातुभिरारतेऽथ मनसि प्राणी मनः संदिशन्दन्तान्खादति फेनमुद्गिरति दोःपादौ क्षिपन्मूढधीः। पश्यन्रूपमसत्क्षितौ निपतति व्यर्थां करोति क्रियां बिभ्यत्स स्वयमेव शाम्यति गते वेगे त्वपस्माररुक् ॥' इति ॥ ७२ ॥
पाठा०-१ "धनावली:'.२ "ध्वजा".
पीत्वा जलानां निधिनातिगार्ध्याद्वृद्धिं गतेऽप्यात्मनि नैव मान्तीः ।
क्षिप्ता इवेन्दोः स रुचोऽधिवेलं मुक्तावलीराकलयांचकार ॥७३॥
पीत्वेति ॥ जलानां निधिना समुद्रेण गर्ध एव गार्ध्यम् । औपम्यादिवच्चातुर्वर्ण्यादित्वात् स्वार्थे ष्यञ् । तदतिमात्रमतिगार्ध्यं तस्मात् । तृष्णाभरादित्यर्थः । गृध्नोः पुनरोर्गुणः 'वान्तो यि प्रत्यये' (६११७९) इति गार्धव्यमिति स्यात् । पीत्वा । क्षेपणक्रियापेक्षया पूर्वकालता । अथ वृद्धिं गते आत्मनि देहे । चन्द्रोदये समुद्रस्य वृद्धिरित्यागमः । नैव मान्तीरमान्तीः । अतिरिच्यमाना इत्यर्थः । मातेः शतरि ङीप् । 'आच्छीनद्योर्नुम्' (७।१८०) क्षिप्ता उद्गीर्णातितृष्णयोत्कटं पीत्वा अन्तरमानाद्वहिरुद्वान्ता इत्यर्थः । इन्दो रुचो मरीचीरिवेत्युत्प्रेक्षा । स हरिरधिवेलमधितीरम् । 'वेला कूलविकारयोः' इति विश्वः । मुक्तावलीराकलयांचकाराकलयामास । कलतिः कामधेनुः ॥ ७३ ॥
साटोपमुर्वीमनिशं नदन्तो यैः प्लावयिष्यन्ति समन्ततोऽमी ।'
तान्येकदेशान्निभृतं पयोधेः सोऽम्भांसि मेघान् पिबतो ददर्श ॥७४॥
साटोपमिति ॥ अमी मेघाः साटोपं ससंभ्रमम् । 'संभ्रमाटोपसंरम्भाः' इति यादवः । अनिशं नदन्तो गर्जन्तो यैस्तोयैरम्भोभिरुर्वीं समन्ततः प्लावयिष्यन्ति तान्यम्भांसि पयोधेरेकदेशादेककोणान्निभृतं निश्चलं यथा तथा पिबतो मेघान् स हरिददर्श । एतेन समुद्रस्यापरिच्छिन्नरूपत्वं व्यज्यते ॥ ७४ ॥
उद्धृत्य मेघैस्तत एव तोयमर्थं मुनीन्द्रैरिव संप्रणीताः ।
आलोकयामास हरिः पतन्तीनदीः स्मृतीर्वेदमिवाम्बुराशिम् ७५
उद्धृत्येति ॥ मुनीन्द्रैस्ततो वेदावेदार्थमिव मेघैस्ततोऽम्बुराशेरेव तोयमुद्धृत्य संप्रणीताः कृता अम्बुराशिं पतन्तीः प्रविशन्तीनदीर्वेदं पतन्तीः स्मृतीर्मन्वादिसंहिता इव हरिरालोकयामास । श्रुतिमूलत्वेनैव प्रामाण्यात्स्मृतीनाम् । तत्संवाद एव तत्संप्रवेशः । अनेकवेयमुपमा ॥ ७५ ॥
विक्रीय दिश्यानि धनान्युरूणि द्वैप्यानसावुत्तमलाभभाजः ।
तरीषु तत्रत्यमफल्गु भाण्डं सांयात्रिकानावपतोऽभ्यनन्दत् ७६
विक्रीयेति ॥ दिक्षु भवानि दिश्यानि । दिगन्तरानीतानीत्यर्थः । 'दिगादिभ्यो यत्' (४।३।५४) उरूणि महान्ति धनानि नानाद्रव्याणि विक्रीय मूल्येन दत्त्वोत्तमलाभं द्वैगुण्यादिकं भजन्तीति तानुत्तमलाभभाजः । तत्रत्यं द्वैप्यमित्यर्थः । 'अव्ययात्त्यप्' (४।२।१०४)। अफल्गु सारवत् । 'फल्गु तुच्छमसारं च' इति यादवः । भाण्डं मूलधनम् । पण्यद्रव्यमित्यर्थः । 'वणिङ्मूलधने पात्रे भाण्डं भूषाश्वभूषयोः' इति वैजयन्ती । तरीषु नौषु । 'स्त्रियां नौस्तरणिस्तरिः' इत्यमरः । 'अविस्तरिस्तन्त्रिः-' इत्यौणादिक इकारप्रत्ययः । आवपत आदधतः । वपतेः शतृप्रत्ययः । द्वैप्यान् समुद्रद्वीपवासिनः । 'द्वीपादनुसमुद्रं यञ्' (४।३।१०) इति
पाठा०-१ 'अवितृस्तृतन्त्रिभ्य ई:'. यञ्प्रत्ययः। संयात्रा संभूय यात्रा सा प्रयोजनमेषां तान् सांयात्रिकान् पोतवणिजः। 'सांयात्रिकः पोतवणिक्' इत्यमरः । 'प्रयोजनम्' (५।१।१०९) इति ठक् । असौ हरिरभ्यनन्दत् ॥ ७६ ॥
उत्पित्सवोऽन्तर्नदभर्तुरुच्चैर्गरीयसा निःश्वसितानिलेन ।
पयांसि भक्त्या गरुडध्वजस्य ध्वजानिवोचिक्षिपिरे फणीन्द्राः७७
उत्पित्सव इति ॥ नदभर्तुः समुद्रस्यान्तरभ्यन्तरादुत्पित्सव उत्पतितुमिच्छवः । पततेः सन्नन्तादुप्रत्ययः । 'सनि मीमा-' (७४।५४) इत्यादिना इसादेशः। 'अत्र लोपोऽभ्यासस्य' (७।४।५८) इत्यभ्यासलोपः । फणीन्द्राः सर्पा भक्त्या गरुडध्वजस्य हरेर्ध्वजानिव गरीयसाऽतिमहता निःश्वसितानिलेन मुखमारुतेन पयांस्युच्चैरुच्चिक्षिपिरे उत्क्षिप्तवन्तः । उत्प्रेक्षा । स्वरितेत्त्वादात्मनेपदम् ॥७७॥
तमागतं वीक्ष्य युगान्तवन्धुमुत्सङ्गशय्याशयमम्बुराशिः।
प्रत्युज्जगामेव गुरुप्रमोदप्रसारितोत्तुङ्गतरङ्गबाहुः ॥ ७८ ॥
तमिति ॥ अम्बुराशिः युगान्तबन्धुम् । आपद्धन्धुमित्यर्थः । उत्सङ्ग एव शय्या तस्यां शेत इति तथोक्तम् । 'अधिकरणे शेतेः' (३।२।१५) इत्यच्प्रत्ययः । आगतमभ्यागतं तं हरिं वीक्ष्य गुरुणा प्रमोदेन प्रसारिता उत्तुङ्गास्तरङ्गा एव बाहवो यस्य सः सन् प्रत्युज्जगाम संमेलनार्थमागतवानिवेति क्रियास्वरूपोत्प्रेक्षा ॥ ७८ ॥
उत्सङ्गिताम्भःकणको नभस्वानुदन्वतः स्वेदलवान् ममार्ज।
तस्यानुवेलं व्रजतोऽधिवेलमेलालतास्फालनलब्धगन्धः ॥७९॥
उत्सङ्गितेति ॥ उत्सङ्गिनः संसर्गिणः कृता उत्सङ्गिताः । 'तत्करोति-' (ग०) इति ण्यन्तात् कर्मणि क्तः । उत्सङ्गिता अम्भःकणा येनेति 'शेषाद्विभाषा' (५।४।१५४) इति कप् । एलालतानामास्फालनेन संघर्षणेन लब्धगन्धः एवं शिशिरसुरभिरुदन्वतो नभस्वान् समुद्रस्य वायुरधिवेलं वेलायाम् । विभक्त्यर्थेऽव्ययीभावः। व्रजतस्तस्य हरेः स्वेदलवाननुवेलं प्रतिक्षणम् । यथार्थेऽव्ययीभावः । ममार्ज जहार । 'वेला कूले च जलधेर्वेला तीरविकारयोः' इति विश्वः। काव्यलिङ्गम् ॥७९॥
उत्तालतालीवनसंप्रवृत्तसमीरसीमन्तितकेतकीकाः ।
आसेदिरे लावणसैन्धवीनां चमूचरैः कच्छभुवां प्रदेशाः ॥८॥
उत्तालेति ॥ चमूषु चरन्तीति चमूचराः सैनिकाः । 'चरेष्टः' (३।२।१६) इति टप्रत्ययः । तैरुत्तालेषून्नतेषु तालीवनेषु संप्रवृत्तेन समीरणेन मारुतेन सीमन्तिताः सीमन्तिन्यः कृताः । सीमन्तशब्दान्मत्वन्तात् 'तत्करोति-' (ग०) इति ण्यन्तात् कर्मणि क्तः । णाविष्टवद्भावे विन्मतोलुक् । ताः केतक्यो येषु ते तथोक्ताः । 'नद्यृतश्च' (५।४।१५३) इति कप् । लवणसिन्धोरिमा लावणसैन्धव्यः । तस्येदम्' (४।३।१२०) इत्यण् । 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य -' (७।३।१९) इत्युभयपदवृद्धिः । तासां कच्छभुवामनूपभूमीनाम् । 'जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः'
इत्यमरः । प्रदेशा देशा आसेदिरे प्राप्ताः । सीदतेः कर्मणि लिट् । अत्र स्वभावोक्तिरनुप्रासश्चालंकारौ । ओजःश्लेषसौशब्दसौकुमार्याद्यनेकगुणसंपत्तिः स्पष्टा ॥ ८॥ लवङ्गमालाकलितावतंसास्ते नारिकेलान्तरपः पिबन्तः ।
आस्वादितार्द्रक्रमुकाः समुद्रादभ्यागतस्य प्रतिपत्तिमीयुः ॥८१॥
लवङ्गेति ॥ लवङ्गमालाभिर्लवङ्गकुसुममाल्यैः कलितावतंसाः कृतभूषणाः । नारिकेलान्तरित्यव्ययम् । नारिकेलाभ्यन्तर इत्यर्थः । अप इति पृथक्पदम् । समासे 'ऋक्पूर्-' (५।४।७४) इत्यादिना समासान्तप्रसङ्गात् । पिबन्तः । आस्वादिता भक्षिता आर्द्रक्रमुका आईपूगीफलानि यैस्ते । 'घोण्टा तु पूगः क्रमुकः' इत्यमरः । ते चमूचराः समुद्रादभ्यागतस्यातिथेः प्रतिपत्तिं गौरवं सत्कारमीयुः । 'प्रतिपत्तिः पदप्राप्तौ प्रवृत्तौ गौरवेऽपि च' इति विश्वः । अत्राभ्यागतप्रतिपत्तिप्राप्तेर्विशेषणगत्या अवतंसकलनादिपदार्थहेतुत्वात् काव्यलिङ्गमलङ्कारः । तेन समुद्रचमूचराणां गृहस्थाभ्यागतौपम्यप्रतीतेरलंकारेणालंकारध्वनिः ॥ ८१ ॥
तुरगशताकुलस्य परितः परमेकतुरंगजन्मनः
प्रमथितभूभृतः प्रतिपथं मथितस्य भृशं महीभृता ।
परिचलतो बलानुजबलस्य पुरः सततं धृतश्रिय-
श्चिरविगतश्रियो जलनिधेश्च तदाभवदन्तरं महत् ॥ ८२॥
इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्च्यङ्के पुरीप्रस्थानो
नाम तृतीयः सर्गः ॥३॥
तुरगेति ॥ परितः तुरगशतैराकुलस्य । अपरिमिताश्वस्येत्यर्थः । प्रतिपथं प्रतिमार्गम् । यथार्थेऽव्ययीभाव समासान्तः । प्रमथिताः क्षुण्णा भूभृतो राजानो, गिरयश्च येन तस्य । न तु स्वयं केनापि मथितस्येति भावः । सततं धृता श्रीः शोभा, रमा च येन तस्य धृतश्रियः पुरोऽग्रे, नगराद्वा परिचलतः परिगच्छतः बलो रामस्तस्यानुजस्य हरेबलस्य सैन्यस्य । 'बलं सैन्ये बलो रामे' इत्युभयत्रापि शाश्वतः । परं केवलमेकस्यैव तुरंगस्य जन्म जन्ममात्रं यस्मात्तस्यैकतुरंगजन्मनः । एकोऽपि जात एव न त्वस्तीति भावः । महीभृता मन्दराद्रिणा, राज्ञा च मथितस्य । न तु स्वयं कस्यापि मन्थिता । सततं विगतश्रियः । उत्पत्त्यनन्तरमेवास्या हरिस्त्रीकरणादिति भावः । जलनिधेश्च तदा प्रस्थानसमये महदन्तरं दूरगमनादिव्यवधानं, उक्तरीत्या महत्तारतम्यं चाभवत् । अत्रोपमेयस्य हरिबलस्योपमानाज्जलधेराधिक्यवर्णनाव्यतिरेकालंकारः । *पञ्चकावली वृत्तम् । 'नजभजजा जरौ
पाठा०-१ 'सलिल'. * एक एव श्लोकोऽयं छन्दोग्रन्थेषु त्वन्यान्यछन्दसामुदाहरणत्वेन प्रत्युद्धृतो दरीदृश्यते, तदिदं कवीनां छन्दोविषयकमतप्राचुर्यमध्येतॄणां चेतश्चमत्कृत्यर्धमत्रोपाहियते-वृत्तरत्नाकरस्य नारायणभट्टीव्याख्यायाम्-"प्रकृतौ-'नजभजजजरैधृतश्रीः' । यथा माघे-'तुरगशता०' । निःसप्तसु यतिः ।" छन्दोमञ्जर्याम् तथा प्राकृत- पिङ्गलसूत्रेऽपि च-"नजभजजा जरौ यदि तदा गदिता सरसी कवीश्वरैः । यथा-'तुरगशता०' इति माघे ।" छन्दःशास्त्रे हलायुधकृतटीकायां-"कृतौ-'शशिवदना नूजौ भूजौ ज् जरौ रुद्रदिशः ॥८॥१९॥ पञ्चकावली इति केचित् , तत्रोदाहरणम् 'तुरगशता०'-" नरपते कथिता भुवि पञ्चकावली' इति लक्षणात् । धृतश्रीवृत्तमिति कश्चित् । 'नजभपुरस्कृता जजजरा रचिता भुवि रुद्रदिक्पतिः' इति लक्षणात् ॥ ८२॥
इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध-
काव्यव्याख्याने सर्वंकषाख्ये तृतीयः सर्गः ॥३॥