शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)/द्वितीयः सर्गः(मन्त्रवर्णनम्)

← प्रथमः सर्गः(कृष्णनारदसम्भाषणम्) शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)
द्वितीयः सर्गः(मन्त्रवर्णनम्)
माघः
तृतीयः सर्गः(पुरीप्रस्थानम्) →


द्वितीयः सर्गः ।

 अस्मिन्सर्गे मन्त्रवर्णनाय बीजं वपति-

  यियक्षमाणेनाहूतः पार्थेनाथ द्विषन्मुरम् ।
  अभिचैद्यं प्रतिष्ठासुरासीत्कार्यद्वयाकुलः ॥१॥

पाठा०-१ 'नारदागमनविसर्जनो'. यियक्षमाणेनेति ॥ अथेन्द्रसंदेशश्रवणानन्तरं यियक्षमाणेन यष्टुमिच्छता । यजतेः सन्नन्ताल्लटः शानच् । पार्थेन पृथापुत्रेण युधिष्ठिरेण । 'तस्येदम् (४।३।१२०) इत्यण् । अन्यथा 'स्त्रीभ्यो ढक्' (४।१।१२०) स्यात् । ततः पार्थेय इति स्यात् । आहूत आकारितः । ह्वयतेः कर्मणि क्ते संप्रसारणदीर्घौ । तथा अभिचैद्यं शिशुपालं प्रति । 'लक्षणेनाभिप्रती आभिमुख्ये' (२।१।१४) इत्यव्ययीभावः । 'अभिरभागे' (१।४।९१) इति कर्मप्रवचनीयत्वे तद्योगे द्वितीया वा। प्रतिष्ठासुः प्रस्थातुमिच्छुः । तिष्ठतेः सन्नन्तादुप्रत्ययः । मुरं द्विषन् मुरारिः । 'द्विषोऽमित्रे' (३।२।१३१) इति शतृप्रत्यये 'न लोका-' (२।३।६९) इत्यत्र 'द्विषः शतुर्वा' (वा०) इति वैकल्पिकः षष्ठीप्रतिषेधः । कार्यद्वयेन सुरकार्यसुहृत्कार्यरूपेणाकुलो विप्रतिषेधादा- वश्यकत्वाच्च द्वयोः संदिहान आसीत् । अतो मन्त्रस्यायमवसर इति भावः ॥ १॥

 एवं मन्त्रबीजसंदेहमुपन्यस्य मन्त्रोचितं देशमाह-

  सार्धमुद्धवसीरिभ्यामथासावासदत्सदः ।
  गुरुकाव्यानुगां बिभ्रच्चान्द्रीमभिनभः श्रियम् ॥ २॥

 सार्धमिति ॥ अथ संदेहानन्तरं असौ हरिः अभिनभः । पूर्ववदव्ययीभावः । कर्मप्रवचनीयत्वे वा द्वितीया । गुरुकाव्यौ बृहस्पतिशुक्रावनुगावनुयायिनौ यस्यां ताम् । 'गीष्पतिर्धिषणो गुरुः' इति 'शुक्रो दैत्यगुरुः काव्यः' इति चामरः । चन्द्र- स्येमां चान्द्रीं श्रियं बिभ्रत् । अत्र श्रीतुल्यां श्रियमिति निदर्शनाभेदः-उद्धवसीरिभ्यां सार्धं उद्धवरामाभ्यां सह सदः सभामासदत् अगमत् । राजसदसः प्रासाद- त्वादिति भावः । सदेर्लुङि 'पुषादित्वात्-' (३।१।५५) इति च्लेरङादेशः । अत्र मनु:- -'गिरि पृष्ठं समारुह्य प्रासादं वा रहोगतः । अरण्ये निःशलाके वा मन्त्रये- द्भावभावितौ ॥' (७।१७४) इति ॥ २ ॥

  जाज्वल्यमाना जगतः शान्तये समुपेयुषी ।
  व्यद्योतिष्ट सभावेद्यामसौ नरशिखित्रयी ॥३॥

 जाज्वल्यमानेति ॥ जगतः शान्तयेऽनुपद्रवाय समुपेयुषी मिलिता जाज्व- ल्यमाना भृशं ज्वलन्ती। 'धातोरेकाचो हलादेः क्रियासमभिहारे यङ्' (३।१।२२)। ततो लटः शानजादेशे टाप् । असौ नराः पुरुषा एव शिखिनोऽग्नयस्तेषां त्रयी। 'द्वित्रिभ्याम्-' (५।२।४३) इत्यादिना तयस्यायजादेशे कृते 'टिड्ढाणञ्-' (४।१।१५) इत्यादिना ङीप् । सभा आस्थानी सैव वेदिः । 'वेदिः परिष्कृता भूमिः' इत्यमरः । तस्यां व्यद्योतिष्ट दीप्यते स्म । 'द्युद्भ्यो लुङि' (१।३।९१) इति वा तङ् । रूपकालंकारः ॥३॥

  रत्नस्तम्भेषु संक्रान्तप्रतिमास्ते चकाशिरे ।
  एकाकिनोऽपि परितः पौरुषेयवृता इव ॥४॥

रत्नेति ॥ रत्नानां स्तम्भा इति षष्ठीसमासस्य विशेषे पर्यवसानाद्विकारार्थत्वम् । तेषु संक्रान्तप्रतिमाः संक्रान्तप्रतिबिम्बाः। 'प्रतिमानं प्रतिबिम्बं प्रतिमा-' इत्यमरः । ते त्रय एकाकिनोऽसहाया अपि । 'एकादाकिनिच्चासहाये' (५।३।५२) इत्याकिनि- च्प्रत्ययः । परितोऽभितः सर्वतः। 'पर्यभिभ्यां च' (५।३।९) इति तसिल्प्रत्ययः ।

पाठा०-१ पूर्वोत्तरार्धव्यत्यासेन क्वचित् पठ्यते. २ भाविनाविति'. ३ 'इत्यभावे'. स च सर्वोभयार्थाभ्यामिष्यते । पौरुषेयेण प्रतिबिम्बभूयस्त्वात् पुरुषसमूहेनावृता इवेत्युप्रेक्षा । चकाशिरे । 'सर्वपुरुषाभ्यां णढञौ' (५।१।१०) 'पुरुषाद्वधविकारसमूहतेनकृतेष्विति वक्तव्यम्' (वा०) इति समूहे ढञ्प्रत्ययः । एतेन विजनत्वमुक्तम् । यद्यपि निस्तम्भे निर्गवाक्षे च निर्भित्त्यन्तरसंश्रये । प्रासादाग्रे त्वरण्ये वा मन्त्रयेद्भावभाविनौ ॥' इति कामन्दकीये मन्त्रभूमेः स्तम्भाप्राचुर्यनिषेधो गम्यते । तथापि तस्यापि विजनोपलक्षणत्वाददोष इति भावः ॥ ४ ॥

  अध्यासामासुरुत्तुङ्गहेमपीठानि यान्यमी ।
  तैरूहे केसरिक्रान्तत्रिकूटशिखरोपमा ॥ ५ ॥

 अध्यासामासुरिति ॥ अमी त्रयो यान्युत्तुङ्गहेमपीठानि आसनानि अध्यासामासुरधितष्ठुः । येषूपविष्टा इत्यर्थः । 'अधिशीङ्स्थासां कर्म' (१।४।४६) इति कर्मत्वम् । 'आस उपवेशने' लिट् । 'दयायासश्च' (३।१।३७) इत्याम्प्रत्ययः । 'कृञ्चानुप्रयुज्यते लिटि' (३।१।४०) इत्यस्तेरनुप्रयोगः । 'आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य' (१।३।६३) इति कृञ एवेति नियमादस्तेर्नात्मनेपदम् । तैः पीठैः केसरिभिः सिंहैः क्रान्तानां त्रिकूटस्य त्रिकूटाद्रेः शिखराणामुपमा सादृश्यमूहे ऊढा । वहेः कर्मणि लिट् । संप्रसारणम् । त्रीणि कूटान्यस्येत्यन्वर्थसंज्ञा । 'कूटोऽस्त्री शिखरं शृङ्गम्' इत्यमरः । उपमालंकारः ॥ ५ ॥

  गुरुद्वयाय गुरुणोरुभयोरथ कार्ययोः ।
  हरिर्विप्रतिषेधं तमाचचक्षे विचक्षणः ॥ ६ ॥

 गुर्विति ॥ अथोपवेशनानन्तरं विचष्टे इति विचक्षणो वक्ता । कर्तरि ल्युडिति न्यासकारः । 'असनयोश्च प्रतिषेधो वक्तव्यः' (वा०) इति चक्षिङः ख्याञादेशाभावः । हरिर्गुर्वोः उद्धवरामयोः पितृव्यज्येष्ठभ्रात्रोर्द्वयाय । द्वाभ्यामित्यर्थः । गुरुणोर्महतोरुभयोः कार्ययोः पूर्वोक्तयोः तं विप्रतिषेधं विरोधमाचचक्षे आख्यातवान् । तुल्यबलविरोधो विप्रतिषेधः ॥ ६ ॥

  द्योतितान्तःसभैः कुन्दकुड्मलाग्रदतः स्मितैः ।
  स्नपितेवाभवत्तस्य शुद्धवर्णा सरस्वती ॥ ७ ॥

 द्योतितेति ॥ कुन्दं माघभवः पुष्पविशेषः । 'माध्यं कुन्दम्' इत्यमरः । कुन्दकुड्मलाग्राणीव दन्ता यस्य तस्य कुन्दकुड्मलाग्रदतः । 'अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च' (५।४।१४५) इत्यग्रान्तपूर्वपदबहुव्रीहेः समासान्तो वैभाषिको दतादेशः । तस्य हरेः सरस्वती अन्तःप्रधाना सभा अन्तःसभा । सभाभ्यन्तरमित्यर्थः । सा द्योतिता प्रकाशिता यैस्तैः स्मितैः स्नपितेव क्षालितेव । स्नातेर्ण्यन्तात् क्तः । 'अर्तिह्री (७।३।३६) इत्यादिना पुगागमः । मितां ह्रस्वः । शुद्धवर्णा स्फुटाक्षरत्वात् स्वच्छकान्तिरभवत् । अत्र स्वाभाविकवर्णशुद्धेः स्नानहेतुकत्वमुत्प्रेक्ष्यते । स्मितपूर्वाभिभाषी हरिरिति भावः ॥ ७ ॥

 कार्यविप्रतिषेधं निवेद्य तत्र स्वमतमावेदयिष्यन् पण्डितमानित्वं तावत्परिहरति--

  भवद्गिरामवसरप्रदानाय वचांसि नः ।
  पूर्वरङ्गः प्रसङ्गाय नाटकीयस्य वस्तुनः ॥ ८ ॥

 भवद्गिरामिति ॥ भवद्गिरां युष्मद्वाचां अवसरप्रदानाय । प्रसञ्जनायेत्यर्थः ।

नोऽस्माकं वचांसि सिद्धान्तोन्नयनार्थमुच्यन्ते । न तु सिद्धान्तत्वेनेत्यर्थः । तथाहि-पूर्वं रज्यतेऽस्मिन्निति पूर्वरङ्गः नाट्यशाला, तत्स्थं कर्माणि पूर्वरङ्ग इति दशरूपके । अतः पूर्वरङ्गो नाम रङ्गप्रधानाख्यो रङ्गविघ्नशान्तिकारी नान्दीपाठगीतवादित्राद्यनेकाङ्गविशेषो नाट्यादौ कर्तव्यः कर्मविशेषः । तदुक्तं वसन्तराजीये-'यन्नाट्यवस्तुनः पूर्वं रङ्गविघ्नोपशान्तये । कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः प्रकीर्तितः ॥' इति । स पूर्वरङ्गः नाटके भवं नाटकीयम् । तत्र वर्ण्यमित्यर्थः । वृद्धाच्छः । तस्य 'आयनेयी-' (७।१।२) इतीयादेशः । तस्य वस्तुनः प्रसिद्धस्य प्रसङ्गाय प्रसञ्जनाय । प्रवर्तनायेति यावत् । अतः प्रथमवादो न दोषायेति भावः । पूर्वरङ्गः प्रस्तावनेति रङ्गराजः । तच्चिन्त्यम् । 'पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते । प्रविश्य तद्वदपरः काव्यमास्थापयेन्नटः ॥ प्रथमं पूर्वरङ्गश्च ततः प्रस्तावनेति च । आरम्भे सर्वनाट्यानामेतत्सामान्यमिष्यते ॥' इति दशरूपकाद्युक्तभेदविरोधादिति । अत्र हरिवाक्यपूर्वरङ्गयोः प्रसञ्जकत्वस्वरूपसामान्यस्य वाक्यद्वये शब्दान्तरेण पृथङ्निर्देशात् प्रतिवस्तूपमालंकारः । तल्लक्षणं तूक्तम् ॥ ८॥

 संप्रति स्वमतमाह-

  करदीकृतभूपालो भ्रातृभिर्जित्वरैर्दिशाम् ।
  विनाप्यस्मदलंभूष्णुरिज्यायै तपसः सुतः ॥९॥

 करदीकृतेति ॥ दिशां जित्वरैः जयनशीलैः । 'इण्नश्जिसर्तिभ्यः क्वरप्' (३।२।१६३)। कृद्योगात्कर्मणि षष्ठी । भ्रातृभिर्भीमादिहेतुभिः । करदाः षष्ठभागप्रदाः। 'भागधेयः करो बलिः' इत्यमरः। ततः च्विः। 'ऊर्यादिच्विडाचश्च' (१।४।६१) इति गतिसंज्ञायां 'कुगतिप्रादयः' (२।२।१८) इति नित्यसमासः । अकरदाः करदाः संपद्यमानाः कृताः करदीकृता भूपाला यस्य सः वशीकृतराजमण्डलः तपसः सुतो धर्मपुत्रः । 'तपश्चान्द्रायणादौ स्याद्धर्मे लोकान्तरेऽपि च' इति विश्वः । अस्मद्विना । अस्माभिर्विनापीत्यर्थः । 'पृथग्विनानाना-' (२।३।३२) इत्यादिना तृतीयाविकल्पात् पञ्चमी । इज्यायै यागाय । यजेर्भावे क्यप् । 'वचिस्वपि-' (६।१।१५) इत्यादिना संप्रसारणम् । 'नमःस्वस्ति-' (२।३।१६) इत्यादिना चतुर्थी । अलं समर्थो भूष्णुर्भवनशीलः । 'भूष्णुर्भविष्णुर्भविता' इत्यमरः । 'ग्लाजिस्थश्च रस्नुः' (३।२।१३९) इति ग्स्नुप्रत्ययः । 'क्ङिति च' (१॥१॥५) इत्यत्र गकारप्रश्लेषाद्गुणाभावः । तथा च जयादित्यः तत्रैव गकारोऽपि च तत्त्वभूतो निर्दिश्यते' । अतो जैत्रयात्रैव कार्या न यज्ञयात्रेति भावः ॥ ९॥

 ननु यज्ञतो जैत्रयात्रायामुभयानुसरणं स्यात्तत्राह-

  उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता।
  समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ॥ १० ॥

 उत्तिष्ठमान इति ॥ उत्तिष्ठमानो वर्धमानः। 'उदोऽनूर्ध्वकर्मणि' (१।३।२४) इत्यात्मनेपदम् । परः शत्रुः पथोऽनपेतं पथ्यं हितमारोग्यं चेच्छता । पुंसेति शेषः । नोपेक्ष्यो नौदासीन्येन द्रष्टव्यः। कुतः। हि यस्माद्वर्त्स्यन्तौ वर्धिष्यमाणौ। 'लृटः सद्वा' (३।३।१४) इति सदादेशे 'वृद्भ्यः स्यसनोः' (१।३।९२) इति विभाषया परस्मैपदम् । 'न वृद्भ्यश्चतुर्भ्यः' (७।२।५९) इतीडभावः । आमयो व्याधिः । 'रोगव्याधिगदामयाः' इत्यमरः । स शत्रुश्च शिष्टैर्नीतिज्ञैः समौ तुल्यवृत्ती आम्नाताव्याख्यातौ । 'अल्पीयसोऽप्यरेवृद्धिर्महानर्थाय रोगवत् । अतस्तस्यानुपेक्ष्यत्वादुभयानुसृतिः कुतः' इति भावः । उपमालंकारः ॥१०॥

 नन्वेवं स्वार्थपरत्वदोषः स्यादिति चेन्न । लोकानुग्रहार्थत्वादस्याः प्रवृत्तेरित्याशयेनाह-

  न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति ।
  यत्तु दन्दह्यते लोकमदो दुःखाकरोति माम् ॥ ११ ॥

 नेति ॥ सत्वतोऽपत्यं स्त्री सात्वती नाम हरेः पितृष्वसा । 'उत्सादिभ्योऽञ्' (४।१।८६)। तस्याः सूनुश्चैद्यः । बन्धुरपि खलो न मृष्यत इति भावः । यन्मह्यमपराध्यति दुह्यतीति यावत् । 'क्रुधद्रुह-' (१।४।३७) इत्यादिना चतुर्थी । तत इति शेषः । यत्तदोर्नित्यसंबन्धात् । न दूये न परितप्ये । दूङो दैवादिकात् कर्तरि लट् । उत्तमपुरुषैकवचनम् । किंतु लोकं दन्दह्यते । गर्हितं यथा स्यादेवं दहतीति यावत् । 'लुपसदचरजप-' (३।१।२४) इत्यादिना गर्हायां यङ् । 'जपजभदहदशभञ्जपशां च' (७।४।८६) इत्यभ्यासस्य नुमागमः । अदो लोकदहनं मां दुःखाकरोति । दुःखमनुभावयतीत्यर्थः । 'दुःखात्प्रातिलोम्ये' (५।४।६४) इति डाच्प्रत्ययः । अतश्चैद्य एवाभिघातव्यः, पार्थस्तु प्रार्थनयापि पश्चात्समाधेय इत्यर्थः॥११॥

 स्वमतं निगमयन् परमतं शुश्रूषुः पृच्छति-

  मम तावन्मतमिदं श्रूयतामङ्ग वामपि ।
  ज्ञातसारोऽपि खल्वेकः संदिग्धे कार्यवस्तुनि ॥ १२ ॥

 ममेति ॥तावत् । भवन्मतश्रवणपर्यन्तमित्यर्थः। मम मतमिदम् । अङ्गेत्यामन्त्रणेऽव्ययम् । 'अथ संबोधनार्थकाः । स्युः प्याट् पाडङ्ग हे है भोः' इत्यमरः । वां युवयोः । 'युष्मदस्मदोः षष्ठीचतुर्थी-' (८।१।२०) इत्यादिना वामादेशः । मतं श्रूयताम् । विधौ लोट् । तदिदं मया श्रोतव्यम् । अन्यथा संदेहानिवृत्तेरिति भावः । विदुषस्ते कुतः संदेहस्तत्राह-ज्ञातसारः ज्ञाततत्त्वार्थोऽप्येकः एकाकी कार्यवस्तुनि कर्तव्यार्थे संदिग्धे संशेते । खलु निश्चये । अतो मयापि संदिह्यत इत्यर्थः । 'दिह उपचये' कर्तरि लट् । घत्वधत्वे । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥१२॥

  यावदर्थपदां वाचमेवमादाय माधवः ।
  विरराम महीयांसः प्रकृत्या मितभाषिणः ॥ १३ ॥

 यावदिति ॥ माधवो हरिः यावानर्थो यावदर्थम् । ‘यावदवधारणे' (२।१।८) इत्यव्ययीभावः । यावदर्थं पदानि यस्यास्ताम् । अभिधेयसंमिताक्षरामित्यर्थः । एवमुक्तप्रकारेण वाचमादाय गृहीत्वा । उक्त्वेत्यर्थः । विरराम तूष्णीमास । 'व्याङ्परिभ्यो रमः' (१।३।८३) इति परस्मैपदम् । तथाहि-महीयांसः उत्तमाः प्रकृत्या स्वभावेन मितभाषिणः । भवन्तीति शेषः । वृथालापनिषेधादिति भावः । पूर्ववदलंकारः ॥ १३ ॥

पाठा०-१ 'मदः'.  अथाष्टभिः कुलकेन रामं वर्णयंस्तद्वाक्यमवतारयति-

  ततः सपत्नापनयस्मरणानुशयस्फुरा।
  ओष्ठेन रामो रामोष्ठबिम्बचुम्बनचुञ्चुना ॥ १४ ॥

 तत इति ॥ ततो रामो जगादेत्युत्तरेणान्वयः । सपत्नो रिपुः । 'रिपौ वैरिसपनारि-' इत्यमरः । तस्यापनयोऽपकारः तस्य स्मरणेन योऽनुशयः पश्चात्तापः । 'भवेदनुशयो द्वेषे पश्चात्तापानुबन्धयोः' इति विश्वः । तेन स्फुरतीति अनुशयस्फूः । तेन स्फुरा । ओष्टो बिम्बमिवेत्युपमितसमासः । रामायाः ओष्टबिम्बस्य चुम्बनेन वित्तो रामोष्ठबिम्बचुम्बनचुञ्चुः । तेन वित्तश्चुञ्चुप्चणपौ' (५।२।२६) इति चुञ्चुप्प्रत्ययः। 'ओत्वोष्ठयोः समासे वा पररूपं वक्तव्यम्' (वा०) । तेनौष्ठेनोपलक्षितः । समरसुरतयोः समरस इति भावः । उपमानुप्रासयोः संसृष्टिः ॥ १४ ॥

  विवक्षितामर्थविदस्तत्क्षणप्रतिसंहृताम् ।
  प्रापयन् पवनव्याधेर्गिरमुत्तरपक्षताम् ॥ १५ ॥

 विवक्षितामिति ॥ विवक्षितां वृद्धत्वाभिमानादग्रे वक्तुमिष्टाम् । वचेर्ब्रूञो वा सन्नन्तात्कर्मणि क्तः । तत्क्षणे विवक्षाक्षणे एव इत्यविलम्बोक्तिः । प्रतिसंहृतां रामानुरोधानुरुद्धां अर्थविदः कार्यज्ञस्य अत एव पवनव्याधेरुद्धवस्य गिरमुत्तरपक्षतां सिद्धान्तपक्षतां प्रापयन् । स्वयमसत्पक्षावलम्बित्वादिति भावः । अनेन रामस्य व्यग्रतोक्ता ॥ १५॥

  घूर्णयन् मदिरास्वादमदपाटलितद्युती ।
  रेवतीवदनोच्छिष्टपरिपूतपुटे दृशौ ॥ १६ ॥

 घूर्णयन्निति ॥ पुनः । मदिरास्वादेन मद्यपानेन यो मदस्तेन पाटलिता ईषद्रक्तीकृता द्युतिर्ययोस्ते रेवत्या देव्याः वदने यदुच्छिष्टं मद्यलेपताम्बूलादि अक्षिचुम्बनसंक्रान्तमिति भावः । तेन परिपूते शुद्धे पुटे ययोस्ते दृशौ घूर्णयन् भ्रामयन्निति मद्यविकारोक्तिः । उच्छिष्टपरिपूतेत्यत्र 'रतिकाले मुखं स्त्रीणां शुद्धमाखेटके शुनाम्' इति स्मरणात् । उच्छिष्टस्य पावित्र्यजनकत्वविरोधस्याभासत्वाद्विरोधाभासोऽलंकारः। 'आभासत्वे विरोधस्य विरोधाभास उच्यते' इति लक्षणात् ॥१६॥

  आश्लेषलोलुपवधूस्तनकार्कश्यसाक्षिणीम् ।
  म्लापयन्नभिमानोष्णैर्वनमालां मुखानिलैः ॥ १७॥

 आश्लेषेति ॥ पुनः । आश्लेषलोलुपाया आलिङ्गनलुब्धायाः वध्वाः स्तनयोः कार्कश्यस्य काठिन्यस्य साक्षिणी उपद्रष्ट्रीम् । नित्यं पीड्यमानामिति भावः । 'साक्षाद्द्रष्टरि संज्ञायाम्' (५।२।९१) । इति साक्षाच्छब्दादिनिप्रत्ययः । वनमालामभिमानोष्णैरहंकारतप्तैर्मुखानिलैः निश्वासमारुतैर्म्लापयन् ग्लापयन् । म्लायतेर्ण्यन्ताल्लटः शत्रादेशः । 'आदेच-' (६।१।४५) इत्यात्वे पुगागमः । अम्लाने म्लानसंबन्धादतिशयोक्तिः ॥ १७ ॥

  दधत्संध्यारुणव्योमस्फुरत्तारानुकारिणीः ।
  द्विपद्द्वेषोपरक्ताङ्गसङ्गिनीः खेदविप्रुषः ॥१८॥

 दधदिति ॥ पुनः । संध्यायामरुणे व्योम्नि स्फुरन्तीस्तारा अनुकुर्वन्तीति

तथोक्ताः । कुतः । द्विषतः शत्रोर्द्रेषेण क्रोधेनोपरक्तेऽङ्गे वपुषि सङ्गिनीः सक्ताः स्वेदविप्रुषः स्वेदबिन्दून् । 'पृषन्तिबिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम्' इत्यमरः । दधद्दधानः । 'नाभ्यस्ताच्छतुः' (७।१।७८) इति नुमभावः । उपमालंकारः ॥ १८॥

  प्रोल्लसत्कुण्डलपोतपद्मरागदलत्विषा ।
  कृष्णोत्तरासङ्गरुचं विदधच्चौतपल्लवीम् ॥ १९ ॥

 प्रोल्लसदिति ॥ पुनः । प्रकर्षेणोल्लसतां कुण्डलयोः प्रोतानां स्यूतानां पद्मरागदलानां माणिक्यशकलानां त्विषा कान्त्या । प्रोतेति प्रपूर्वाद्वेञः कर्मणि क्तः । यजादित्वात्संप्रसारणम् । कृष्णोत्तरासङ्गो नीलोत्तरीयम् । 'द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा । संव्यानमुत्तरीयं च' इत्यमरः । तस्य रुचं चूतपल्लवस्येमां चौतपल्लवीं विदधत् । कृष्णलोहितमिश्रवर्णचूतपल्लववद्धूम्रां कुर्वन्नित्यर्थः । 'धूम्रधूमलौ कृष्णलोहिते' इत्यमरवचनात् । अत्रान्यरुचोऽन्यदीयत्वायोगात्सादृश्यापेक्षो निदर्शनालंकारः ॥ १९॥

  ककुद्मिकन्यावक्रान्तर्वासलब्धाधिवासया ।
  मुखामोदं मदिरया कृतानुव्याधमुद्वमन् ॥ २० ॥

 ककुद्मिति ॥ पुनः । ककुद्मिकन्याया रेवत्या वक्त्रस्यान्तः अभ्यन्तरे वासेन स्थित्या लब्धोऽधिवासो वासना यया तया। तन्मुखसौरभवासितयेत्यर्थः। 'संस्कारो गन्धमाल्याद्यैरधिवासनमुच्यते' । मदिरया कृतानुव्याधं कृतसंसर्गम् । प्रियागण्डूषगन्धिनमित्यर्थः । 'व्यधजपोरनुपसर्गे-' (३।३।६१) इत्यनुपसृष्टादप्प्रत्ययविधानादुपसृष्टाद्व्यधेर्घञ्प्रत्ययः । मुखामोदं स्वमुखगन्धविशेषम् । 'आमोदः सोऽतिनिर्हारी' इत्यमरः । उद्वमन् उद्गिरन् । अत्र मदिराराममुखगन्धयोः स्वगन्धतिरोधानेन रामामुखतद्गण्डूषमद्यगन्धस्वीकारात्तद्गुणयोस्तत्रोत्तरस्यात्मविशेषकत्वेन पूर्वसापेक्षत्वादङ्गाङ्गिभावेन संकरः। 'तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणाहृतिः' इति लक्षणात् ॥२०॥

  जगाद वदनच्छद्मपद्मपर्यन्तपातिनः ।
  नयन्मधुलिहः श्वैत्यमुदग्रदशनांशुभिः॥२१॥ (कुलकम् ।)

 जगादेति ॥ वदनमेव छद्म कपटं यस्य तत् पद्मम् । वदनमेव पद्ममित्यर्थः । छद्मशब्देनासत्यप्रतिपादनरूपोऽपह्नवः । तस्य पर्यन्तपातिनः प्रान्तसंचारिणः । मधु लिहन्तीति मधुलिहस्तान् मधुपान् । क्विप् । उदग्रैरुच्छ्रितैः दशनांशुभिः श्वैत्यं धावल्यं नयन्नेवं जगाद । तद्गुणालंकारः । तस्य मधुपसंनिधापकवदनापह्नवसापेक्षत्वात्तेन संकरः ॥ २१ ॥

 रामो जगादेत्युक्तम् , किं तदित्याकाङ्क्षायामाह-

  यद्वासुदेवेनादीनमनादीनवमीरितम् ।
  वचसस्तस्य सपदि क्रिया केवलमुत्तरम् ॥ २२ ॥

 यदिति ॥ वासुदेवेन न दीनमित्यदीनमकातरं न आदीनवोऽस्येत्यनादीनवं

निर्दोषम् । 'दोष आदीनवो मतः' इत्यमरः । यद्वच ईरितम् । 'उत्तिष्ठमानस्तु परः' इत्यादिपक्षमाश्रित्य यदुक्तमित्यर्थः । तस्य वचसः सपदि क्रिया केवलं सद्योऽनुष्ठानमेवोत्तरम् । सिद्धान्तस्यैवोक्तत्वादिति भावः ॥ २२ ॥

 अथ तदेव प्रतिपादयिष्यन्ननन्यातिशयतयोपस्करोति-

  नैतल्लध्वपि भूयस्या वचो वाचातिशय्यते ।
  इन्धनौघधगप्यग्निस्त्विषा नात्येति पूषणम् ॥ २३ ॥

 नैतदिति ॥ लघु संक्षिप्तमप्येतद्वचो भूयस्या बहुतरया । विस्तृतयापीत्यर्थः । "द्विवचनविभज्य-' (५।३।५७) इत्यादिना ईयसुनि 'बहोलोंपो भू च बहोः' (६।४।१५८) इतीकारलोपो बहोश्च भूरादेशः । वाचा नातिशय्यते नातिरिच्यते । गुर्वर्थत्वादिति भावः । शीङः कर्मणि लटि यक् । 'अयङ्यि क्ङिति' (७४।२२) इत्ययङादेशः । तथाहि-इन्धनौघान् दहतीति इन्धनौघधक् काष्ठराशिदाहकः । भूयानपीत्यर्थः । क्विपि घत्वधत्वे भष्भावः । अग्निस्त्विषा प्रभया पूषणं सूर्यम् । अल्पीयांसमपीति भावः। नात्येति नातिक्रामति । तेजसः प्रभावत्त्वमिव वचसोऽर्थवत्त्वमलङ्घयत्वहेतुरित्यर्थः । अत्र समानधर्मबिम्बबिम्बिततया दृष्टान्तालंकारः॥२३॥

यदि हरिवचो नातिशय्यते, अलं तर्हि तवापि वागारम्भैरत आह-

  संक्षिप्तस्याप्यतोऽस्यैव वाक्यस्यार्थगरीयसः ।
  सुविस्तरतरा वाचो भाष्यभूता भवन्तु मे ॥ २४ ॥

 संक्षिप्तस्येति ॥ अतो हरिवचसोऽनतिशयनीयत्वादेव सुविस्तरतराःप्रपञ्चतराः। 'प्रथने वामशब्दे' (३।३।३३) इति घञः प्रतिषेधे ॠदोरप्' (३।३।५७) इत्यप् । मे वाचः संक्षिप्तस्याल्पाक्षरस्याप्यर्थेन गरीयसः । सूत्रकल्पस्येत्यर्थः । 'अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः॥' इति लक्षणात् । अस्यैव वाक्यस्य नान्यस्य भाष्यभूता भाष्यैः समाः। नित्यसमासः। "क्ष्मादौ जन्तौ भूतं क्लीबं समेऽतीते चिरे त्रिषु' इति वैजयन्ती । व्याख्यानरूपा भवन्त्वित्यर्थः। सूत्रव्याख्यानविशेषो भाष्यम् । 'सूत्रस्थं पदमादाय वाक्यैः सूत्रानुसारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः ॥' इति । मया तु तदेव विशेषप्रकाशनाय व्याख्यायते, न त्वतिशयाय प्रत्याख्यायत इत्यदोष इत्यर्थः । उपमालंकारः ॥ २४ ॥

 इत्थं यानं सिद्धान्तयित्वा तत्रोद्धवप्रतिरोधं हृदि निधाय त्रिभिः प्रत्याचष्टे-

  विरोधिवचसो मूकान् वागीशानपि कुर्वते ।
  जडानप्यनुलोमार्थान् प्रवाचः कृतिनां गिरः ॥ २५ ॥

पाठा०-१ इतः पूर्वं 'विरोधि वचसो मूकान्-' इति श्लोको दृश्यते।  विरोधीति ॥ कृतिनां कुशलानां गिरः कर्त्र्यः । विरोधिवचसः प्रतिकूलवादिनो वागीशान वाक्पतीनपि । 'वागीशो वाक्पतिः समौ' इत्यमरः । मूकान् निर्वाचः कुर्वते । जडयन्तीत्यर्थः । अनुलोमोऽनुकूलोऽर्थोऽभिधेयं येषां तेऽनुलोमार्था अनुकूलवादिनः । तान् जडान् मन्दानपि प्रवाचः प्रगल्भवाचः कुर्वते । अतोऽस्मद्गिरः प्रवाच्या इति भावः । अत्र वागीशानां मूकीकरणाज्जडानां प्रवाक्त्वकरणाञ्चाशक्यवस्तुकरणरूपो विशेषोऽलंकारः । असंबन्धे संबन्धातिशयोक्तिप्रतिभोत्थापित इति संकरः ॥ २५ ॥

 नन्वात्मनीनेन स्वामिना 'बुद्धेः फलमनाग्रहः' इति न्यायेन शास्त्रज्ञवचनं प्रतिकूलमपि ग्राह्यमेवेत्याशङ्कयाह-

  षड्गुणाः शक्तयस्तिस्रः सिद्धयश्चोदयास्त्रयः।
  ग्रन्थानधीत्य व्याकर्तुमिति दुर्मेधसोऽप्यलम् ॥ २६ ॥

 षडिति ॥ दुष्टा मेधा येषां ते दुर्मेधसो मन्दबुद्धयोऽपि । 'नित्यमसिच्प्रजामेधयोः' (५।४।१२२) इति समासान्तोऽसिच्प्रत्ययः । ग्रन्थानौशनसादीनधीत्य पठित्वा गुणाः संधिविग्रहयानासनद्वैधीभावसमाश्रयाख्याः षट् । शक्तयः प्रभुत्वमन्त्रोत्साहाख्यास्तिस्रः। सिद्धयः पूर्वोक्तशक्तित्रयसाध्याः पुरुषार्थलाभात्मिकाः। ताश्च तिस्रः प्रभुसिद्धिर्मन्त्रसिद्धिरुत्साहसिद्धिश्चेति । उदया वृद्धिक्षयस्थानानि छत्रिन्यायेनोदया उच्यन्ते । तत्र वृद्धिक्षयौ स्वशक्तिसिद्ध्योः पूर्वावस्थानादुपचयापचयौ स्थानं ते च त्रय इति व्याकर्तुं व्याख्यातुमलं समर्थाः । 'पर्याप्तिवचनेष्वलमर्थेषु'(३।४।६६) इति तुमुन् । पञ्चाङ्गनिर्णयशक्तिविकलानां संध्यादिरूपसंख्यामात्रपाठकानामशास्त्रज्ञत्वादुद्धवादयो न ग्राह्यवचना इत्यभिसंधिः । अत्रामरः 'संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः । षड्गुणाः शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः । क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम् ॥' इति । तत्रारिविजिगीष्वोर्व्यवस्थाकरणमैक्यं संधिः । विरोधो विग्रहः । विजिगीषोररिं प्रति यात्रा यानम् । तयोर्मिथः प्रतिबद्धशक्त्योः कालप्रतीक्षया तूष्णीमवस्थानमासनम् । दुर्बलप्रबलयोर्वाचिकमात्मसमर्पणं द्वैधीभावः । अरिणा पीड्यमानस्य बलवदाश्रयणं संश्रयः । कोशदण्डोत्थं तेजः प्रभावः । कर्तव्यार्थेषु स्थेयान् प्रयत्न उत्साहः । षड्गुणचिन्तनं मन्त्रः। गतमन्यदिति संक्षेपः ॥ २६ ॥

 ननु शास्त्रोक्तार्थव्याख्यातैव शास्त्रज्ञः, स एव ग्राह्यवचनश्चेत्याशङ्क्याह-

  अनिर्लोडितकार्यस्य वाग्जालं वाग्मिनो वृथा ।
  निमित्तादपराद्धेषोर्धानुष्कस्येव वल्गितम् ॥ २७ ॥

 अनिर्लोडितेति ॥ अनिर्लोडितं नालोकितं कार्यं येन तस्य । कार्याकार्यमजानत इत्यर्थः । वाचोऽस्य सन्तीति वाग्मी वावदूकः । 'वाचो युक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि' इत्यमरः । 'वाचो ग्मिनिः' (५।२।१२४) इति ग्मिनिप्रत्ययः । तस्य वाग्जालं वागाडम्बरो निमित्ताल्लक्ष्यात् । 'वेध्यं लक्ष्यं निमित्तं च शरव्यं च समं विदुः' इति वैजयन्ती। अपराद्धेषोः स्खलितबाणस्य । धनुः प्रहरणमस्येति धानुष्को

पाठा०-१ 'अन्धान्'. २ °क्षयावस्थानानि क्षत्रिय'. ३ ०दुद्धवा' इति क्वचिन्न पठ्यते.

धन्वी । 'प्रहरणम्' (४।४।५७) इति ठक् । 'इसुसुक्तान्तात्कः' (७।३।५१) 'अपराद्धपृषत्कोऽसौ लक्ष्याद्यश्च्युतसायकः । धन्वी धनुष्मान् धानुष्कः' इत्यमरः। तस्य वलिगतमिव वृथा निष्फलम् । कार्यज्ञस्य वचो ग्राह्यं न तु वाचालस्येति भावः ॥२७॥

 इत्थं षाड्गुण्यादिपाठमात्रं न मन्त्र इति सिद्धे संप्रति स्वयं मन्त्रस्वरूपमाह-

  सर्वकार्यशरीरेषु मुक्त्वाङ्गस्कन्धपञ्चकम् ।
  सौगतानामिवात्मान्यो नास्ति मन्त्रो महीभृताम् ॥ २८ ॥

 सर्वेति ॥ सर्वाणि कार्याणि संध्यादीनि तानि शरीराणीवेत्युपमितसमासः । व्यासे सौगतानामिवेति लिङ्गान्तेषु सर्वकार्यशरीरेषु सर्वेषु शरीरेष्विव । सर्वकार्येष्वित्यर्थः । अङ्गानि स्कन्धा इवेत्युपमितसमासः । तेषां पञ्चकं मुक्त्वा । स्कन्धपुञ्चकमिवाङ्गपञ्चकं हित्वेत्यर्थः । पञ्च परिमाणमस्येति पञ्चकम् । 'संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु' (५।१।५८) इति कप्रत्ययः । सुगतो भक्तिर्भजनीय एषां ते सौगता बौद्धाः । 'भक्तिः' (४।३।९५) इत्यण्प्रत्ययः । तेषामन्य आत्मेव महीभृतामन्यो मन्त्रो नास्ति । कर्मणामारम्भोपायः, पुरुषद्रव्यसंपत् , देशकालविभागः, विपत्तिप्रतीकारः, कार्यसिद्धिष्चेति पञ्चाङ्गानि । यथाह कामन्दकः-'सहायाः साधनोपाया विभागो देशकालयोः । विपत्तेश्च प्रतीकारः सिद्धिः पञ्चाङ्गमिष्यते ॥' इति । रूपवेदनाविज्ञानसंज्ञासंस्काराः पञ्च स्कन्धाः । तत्र विषयप्रपञ्चो रूपस्कन्धः, तज्ज्ञानप्रपञ्चो वेदनास्कन्धः, आलयविज्ञानसंतानो विज्ञानस्कन्धः, नामप्रपञ्चः संज्ञास्कन्धः, वासनाप्रपञ्चः संस्कारस्कन्धः । एवं पञ्चधा परिवर्तमानो ज्ञानसंतान एवात्मा इति बौद्धाः । एवं यथा बौद्धानां सर्वेषु शरीरेषु स्कन्धपञ्चकातिरिक्त आत्मा नास्ति, तथा राज्ञामङ्गपञ्चकातिरिक्तो मन्त्रो नास्तीत्युपमालंकारः । तच्चास्माकं समग्रमेवेत्ययमेव यात्राकाल इति भावः ॥ २८ ॥

 अथ मन्त्रितार्थक्रियाविलम्बे दोषमाह-

  मन्त्रो योध इवाधीरः सर्वाङ्गैः संवृतैरपि ।
  चिरं न सहते स्थातुं परेभ्यो भेदशङ्कया ॥ २९ ॥

 मन्त्र इति ॥ संवृतैर्गुप्तैः सर्वाङ्गैः पूर्वोक्तैरुपायादिभिरुरःस्थलादिभिश्चोपलक्षितोऽपि । सर्वाङ्गसंवृतोऽपीत्यर्थः । मन्त्रो विचारः। अधीरो भीरुः युध्यत इति योधो भट इव । पचाद्यच् । परेभ्योऽन्येभ्योऽरिभ्यश्च । 'परं दूरान्यमुख्येषु परोऽरिपरमात्मनोः' इति वैजयन्ती । भेदो विदारणं तृतीयगामित्वं च तस्य शङ्कया चिरं स्थातुम् । विलम्बितुमित्यर्थः । न सहते न क्षमः । शकधृष-' (३।४।६५) इत्यादिना तुमुन्प्रत्ययः । अतो न विलम्बितव्यम् , अन्यथा मन्त्रभेदे कार्यहानिः स्यादिति भावः ॥ २९ ॥

 किंच नीतिसर्वस्वपर्यालोचनयापि न विलम्बः कार्य इत्यभिप्रेत्याह-

  आत्मोदयः परज्यानिर्द्वयं नीतिरितीयती ।
  तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतायते ॥ ३० ॥

पाठा०-१ ग्लानिः'.  आत्मोदय इति ॥ आत्मन उदयो वृद्धिः परस्य शत्रोर्ज्यानिर्हानिः । 'वीज्याज्वरिभ्यो निः' (उ० ४८८) इत्यौणादिको निः प्रत्ययः । इति द्वयम् । इदं परिमाणमस्या इति इयती एतावती । 'किमिदंभ्यां वो घः' (५।२।४०) इति वतुपो वस्य घश्च । 'उगितश्च' (४।१।६) इति ङीप् । नीतिर्नीतिसंग्रहः । एतद्द्वयातिरिक्तो न कश्चिन्नीतिपदार्थोऽस्तीत्यर्थः । यदन्यत् षाड्गुण्यादिवर्णनं तत्सर्वमस्यैव प्रपञ्च इत्याह-तदिति । तद्द्वयमूरीकृत्याङ्गीकृत्य । 'ऊरीकृतमुररीकृतमङ्गीकृतम्' इत्यमरः । 'ऊर्यादिच्विडाचश्च' (१।४।६१) इति गतिसंज्ञायां 'कुगतिप्रादयः' (२।२।१८) इति समासे क्त्वो ल्यप् । कृतिभिः कुशलैः वाचस्पत्यं वाग्मित्वम् । कस्कादित्वादलुक् सत्वे । 'षष्ट्याः पतिपुत्र-' (८।३।५३) इत्यादिना सत्वमिति स्वामी । तन्न । तस्य छन्दोविषयत्वात् । ब्राह्मणादित्वाद्भावे ष्यञ्प्रत्ययः । प्रतायते विस्तार्यते । कर्मणि लट् । 'तनोतेर्यकि' (६।४।४४) इत्यात्वम् । तस्सादात्मोदयार्थिभिरविलम्बाच्छत्रुरुच्छेत्तव्यः । तत्रान्तरीयत्वात्तस्येति भावः ॥ ३० ॥

 ननु लब्धोदयस्य किं परोच्छित्त्येत्यत्राह-

  तृप्तियोगः परेणापि महिम्ना न महात्मनाम् ।
  पूर्णश्चन्द्रोदयाकाङ्क्षी दृष्टान्तोत्र महार्णवः ॥ ३१ ॥

 तृप्तियोग इति ॥ महीयसां महात्मनां परेणापि प्रभूतेनापि महिम्ना ऐश्वर्येण तृप्तियोगः संतोषलाभो न । अत्र तृप्त्यभावे पूर्णः सन् चन्द्रोदयाकाङ्क्षी । वृद्ध्यर्थमिति भावः । महार्णवो दृष्टान्तः दृष्टः अन्तो निश्चयो यस्मिन् , दृष्टान्तो निदर्शनम् । उपमानमिति यावत् । राज्ञा वृद्धावलंबुद्धिर्न कार्या । 'असंतुष्टा द्विजा नष्टाः संतुष्टाश्च महीभुजः । सलज्जा गणिका नष्टा निर्लज्जा च कुलाङ्गना ॥' इति न्यायादिति भावः । नायं दृष्टान्तालंकारः । बिम्बप्रतिबिम्बभावेनौपम्यस्य गम्यत्वे तस्योत्थानात् । किंतु दृष्टान्तशब्देन तस्याभिधानादुपमालंकारः । अत एव दृष्टान्तोदाहरणनिदर्शनरूपाः शब्दा न प्रयोक्तव्याः पौनरुक्त्यापत्तेरित्येकावल्यलंकारः ॥ ३१ ॥

 तथापि संतोषे दोषमाह-

  संपदा सुस्थिरंमन्यो भवति स्वल्पयापि यः ।
  कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ॥ ३२ ॥

 संपदेति ॥ यः स्वल्पयापि संपदा सुस्थिरमात्मानं मन्यत इति सुस्थिरंमन्यः स्वस्थमानी भवति । 'आत्ममाने खश्च' (३।२।८३) इति खश्प्रत्यये मुमागमः । तस्याल्पसंतुष्टस्य तां स्वल्पसंपदं कृतकृत्यस्तावतैव कृतार्थो विधिदैवमपि न वर्धयति अहमिति मन्ये। पौरुषहीनाद्दैवमपि जुगुप्सते, तत्प्रवृत्तेः परमर्द्धिप्राप्तिरिति भावः ३२

 किंच पराक्रमलब्ध एवोदयो नान्यलब्ध इत्याह-

  समूलघातमघ्नन्तः परान्नोद्यन्ति मानिनः ।
  प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः ॥३३॥

पाठा०-१ '°र्ग्लानि°'. २ 'सुस्थितंमन्यो'. ३ 'पारार्थ्यादिति'. ४ °लब्ध' इति क्वचिन्न पठ्यते.  समूलेति ॥ मानिनोऽभिमानिनः परान् शत्रून् समूलं हत्वा समूलघातम् , अघ्नन्तः । अनुन्मूलयन्त इत्यर्थः । 'समूलाकृतजीवेषु हन्कृञ्ग्रहः' (३।४।३६) इति णमुल् प्रत्ययः । 'कषादिषु यथाविध्यनुप्रयोगः' (३।४।४६) इति हन्तेरनुप्रयोगः । नोद्यन्ति । किंतु हत्वैवोद्यन्तीत्यर्थः । तत्र हत्वैवोदये अन्धयतीत्यन्धं गाढं तमोऽन्धतमसम् । 'ध्वान्ते गाढेऽन्धतमसम्' इत्यमरः । 'अवसमन्धेभ्यस्तमसः' (५।४७९) इत्यच्प्रत्ययः। प्रध्वंसितमन्धतमसं येन सः । उदयात्प्रागिति भावः । रविरुदाहरणं दृष्टान्तः । अत्रापि 'दृष्टान्तोऽत्र महार्णवः' (२।३१) इतिवदुपमालंकारो न तु दृष्टान्त इति द्रष्टव्यम् ॥ ३३ ॥

 किंचानुच्छिन्नशत्रोः प्रतिष्ठैव दुर्घटेत्याह-

  विपक्षमखिलीकृत्य प्रतिष्ठा खलु दुर्लभा ।
  अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते ॥ ३४ ॥

 विपक्षमिति ॥ विपक्षं शत्रुमखिलीकृत्य खिलमुत्सन्नमकृत्वा । अनुन्मूल्येत्यर्थः । प्रतिष्ठा दुर्लभा खलु । तथा हि-उदकं कर्तृ । धूलिम् । स्वपरिभाविनीमिति भावः । पङ्कतामनीत्वा । नाधःकृत्येत्यर्थः । नावतिष्ठते । किंतु नीत्वैव तिष्ठतीत्यर्थः । 'समवप्रविभ्यः स्थः' (१।३।२२) इत्यात्मनेपदम् । वाक्यभेदेन प्रतिबिम्बनापेक्षो दृष्टान्तालंकारः ॥ ३४ ॥

 नन्वयं शिशुपाल एकाकी नः किं करिष्यतीत्याशङ्क्याह-

  ध्रियते यावदेकोऽपि रिपुस्तावत्कुतः सुखम् ।
  पुरः क्लिश्नाति सोमं हि सैंहिकेयोऽसुरद्रुहाम् ॥ ३५ ॥

 ध्रियत इति ॥ एकोऽपि रिपुर्यावद्ध्रियतेऽवतिष्ठते । 'धृङ् अवस्थाने' इति धातोस्तौदादिकात् कर्तरि लट् । 'रिङ्शयग्लिङ्क्षु” (७।४।२८) इति रिङादेशः । तावत् तदवधि सुखं कुतः। यावत्तावच्च साकल्येऽवधौ' इत्यमरः । तथाहि-सिंहिकाया अपत्यं पुमान् सैहिकेयो राहुः । 'तमस्तु राहुः स्वर्भानुः सैहिकेयो विधुंतुदः' इत्यमरः । 'स्त्रीभ्यो ढक्' (४।१।१२०)। असुरद्रुहां देवानां पुरोऽग्रे सोमं क्लिश्नाति धावते । प्राचुर्यात्सोमग्रहणम् । सूर्यं चेति भावः । तस्मादेकोऽपि शत्रुरुच्छेत्तव्य इति भावः । 'अग्नेः शेषमृणाच्छेषं शत्रोः शेषं न शेषयेत्' इति तात्पर्यम् । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ ३५ ॥ ननु क्षुद्रोऽयं चैद्यः किं नः करिष्यतीत्याशङ्क्य तस्य बलवत्तां वक्तुं मित्रामित्रबलाबलविवेकं तावत्करोति-

  सखा गरीयान् शत्रुश्च कृत्रिमस्तौ हि कार्यतः ।
  स्याताममित्रौ मित्रे च सहजप्राकृतावपि ॥ ३६ ॥

 सखेति ॥ क्रियया उपकारापकारान्यतररूपया निवृत्तः कृत्रिमः । 'ड्वितः क्रिः" (३।३।८८) क्रेर्मम्नित्यम्' (वा०) सखा सुहृत् शत्रुश्च कृत्रिमो गरीयान् । कुतः- हि यस्मात्तौ कृत्रिममित्रशत्रू कार्यत उपकारापकाररूपकार्यवशात् । निर्वृत्ताविति शेषः।

पाठा०-१ 'अमित्रे मित्रौ च'. विशेषयोः उक्तिरबिर: स्यात्सामान्य उक्तकार्योपाधेर्यावज्जीवमनपायादनयोर्मित्रामित्रभावोऽप्यनपायीति गरीयांस्त्वमिति भावः । सहजप्राकृतौ तु नैवमित्याह-स्यातामिति । सहजातः सहजः एकशरी- रावयवत्वात् । तत्र सहजं मित्रं मातृष्वसेयपितृष्वसेयादि । सहजशत्रुस्तु पितृ- व्यतत्पुत्रादिः । प्रकृत्या सिद्धः प्राकृतः । पूर्वोक्तसहजकृत्रिमलक्षणरहित इत्यर्थः । तत्र विषयान्तरः प्राकृतः शत्रुः । तदनन्तरः प्राकृतं मित्रम् । अपि त्वर्थे । तौ सहजप्राकृतौ शत्रुमित्रे च स्यातां तावात्मकार्यवशादनियमेनोभयरूपतामापद्येते न कृत्रिमशत्रुमित्रे । कृत्रिमः शत्रुः शत्रुरेव, मित्रं च मित्रमेवेति कृत्रिमावेव मित्रामित्रौ गरीयांसौ । न तु सहजौ, नापि प्राकृतावित्यर्थः । अनेन कृत्रिमत्वं सर्वापवादीति सिद्धम् ॥ ३६॥

 एवं चेदस्माकं पैतृष्वसेयः शिशुपालः सहजमित्रत्वात्संधातव्यो न तु यातव्य इत्यत आह-

  उपकर्त्रारिणा संधिर्न मित्रेणापकारिणा ।
  उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः॥३७॥

 उपकर्त्रेति ॥ उपकर्त्रा उपकारकारिणा अरिणापि । सहजेन प्राकृतेन चेति शेषः । संधिः कार्यः । अरित्वापवादेन कृत्रिममित्रताया बलीयस्या यावज्जीवभा- विन्यास्तत्रोत्पन्नत्वादिति भावः । एवमपकारिणा मित्रेणापि । सहजेन प्राकृतेन वेति शेषः । संधिर्न कार्यः । मित्रत्वापवादेन कृत्रिमशत्रुताया बलीयस्या याव- ज्जीवभाविन्यास्तत्रोत्पन्नत्वादिति भावः । ननु साक्षादरिणा संदध्यात्, मित्रेण कथं विरुन्ध्यादित्याशक्य क्रियया तयोर्वैपरीत्याददोष इत्याह-हि यस्मादुपका- रापकारावेव तयोर्मित्रामित्रयोर्लक्षणं स्वरूपं लक्ष्यं द्रष्टव्यम् । उपकर्तैव मित्रम् , अपकर्तैव शत्रुरित्यर्थः । तस्मात्सहजमित्रत्वेऽपि चैद्यः क्रियया शत्रुत्वात् यातव्य एवेति भावः ॥ ३७॥

 अथ चैद्यस्य कृत्रिमशत्रुत्वं चतुर्भिराह-

  त्वया विप्रकृतश्चैद्यो रुक्मिणीं हरता हरे ।
  बद्धमूलस्य मूलं हि महद्वैरतरोः स्त्रियः ॥ ३८ ॥

 त्वयेति ॥ हे हरे, रुक्मिणीं हरता । बन्धुभिस्तस्मै प्रदत्तां राक्षसधर्मेणोद्वह- तेत्यर्थः । 'राक्षसो युद्धहरणात्' इति याज्ञवल्क्यः (आचाराध्याये ३।६१)। 'गान्धर्वो राक्षसश्चैव धर्म्यौ क्षत्रस्य तौ स्मृतौ' इति मनुः (३।२६) । त्वया चैद्यो विप्रकृतः विप्रियं प्रापितः । तथाहि बद्धमूलस्य रूढमूलस्य वैरतरोः स्त्रियो महत् प्रधानं मूलम् । हि निश्चये । रूपकसंसृष्टोऽयं सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ३८ ॥

 अथ तेनापि त्वं विप्रकृत इत्याह-

  त्वयि भौमं गते जेतुमरौत्सीत्स पुरीमिमाम् ।
  प्रोषितार्यमणं मेरोरन्धकारस्तटीमिव ॥ ३९ ॥

४२ शिशुपालवधे

 त्वयीति ॥ त्वयि भूमेरपत्यं पुमांसं भौमं नरकासुरं जेतुं गते सति । स चैद्य इमां पुरीं द्वारकाम् । प्रोषितोऽर्यमा सूर्यो यस्यास्तां मेरोस्तटीं सानुमन्धकार इवारौत्सीत् रुरोध । रुधेरनिटो लुङि सिचि वृद्धिः । उपमालंकारः ॥ ३९ ॥

 अपकारान्तरमाह-

  आलप्यालमिदं बभ्रोर्यत्स दारानपाहरत् ।
  कथापि खलु पापानामलमश्रेयसे यतः ॥ ४०॥

आलप्येति ॥ स चैद्यो बभ्रोर्यादवभेदस्य दारान् भार्याम् । 'भार्या जायाथ पुं भूम्निं दाराः स्यात्तु कुटुम्बिनी' इत्यमरः । अपाहरदिति यदिदं दारापहरणं आलप्योञ्चार्यालम् । नालपनीयमित्यर्थः । 'अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा' (३।४।१८) इति क्त्वाप्रत्यये समासे ल्यबादेशः । यतः पापानां पाप्मनां कथ- नमुञ्चारणमपि । 'चिन्तिपूजिकथिकुम्बि' (३।३।१०५) इत्यप्रत्ययः । अश्रेयसेऽ- नर्थायालं समर्थं खलु । 'नमःस्वस्ति-' (२।३।१६) इत्यादिना चतुर्थी । अत्र निषिध्यमानालपननिषेधनसमर्थनात् कार्येण कारणसमर्थकोऽर्थान्तरन्यासः ॥ ४०॥

 फलितमाह-

  विराद्ध एवं भवता विराद्धा बहुधा च नः।
  निवर्त्यतेऽरिः क्रियया स श्रुतश्रवसः सुतः॥४१॥

 विराद्ध इति ॥ एवं भवता विराद्धो विप्रकृतः । राधेरनिटः कर्मणि क्तः । बहुधा नोऽस्माकं च विराद्धा विप्रकर्ता श्रुतश्रवा नाम हरेः पितृष्वसा तस्याः सुतः । पैतृष्वसेयत्वात् सहजमित्रमपीति भावः । स चैद्यः क्रियया पूर्वोक्तान्यो- न्यापक्रियया अरिनिर्वय॑ते कृत्रिमः शत्रुः क्रियते । अतो बलीयस्त्वादनुपेक्ष्य इति भावः ॥ ४१ ॥

 अत्राप्युपेक्षायां दोषमाह-

  विधाय वैरं सामर्षे नरोऽरौ य उदासते ।
  प्रक्षिप्योदर्चिषं कक्षे शेरते तेऽभिमारुतम् ॥ ४२ ॥

 विधायेति ॥ ये नरः पुमांसः । 'स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः' इत्यमरः । सामर्षे प्रागेव सरोषेऽरौ वैरं विधाय । स्वयं चापकृत्येत्यर्थः । उदासते उपेक्षन्ते ते नरः कक्षे गुल्मे । 'कक्षस्तु गुल्मे दोर्मूले पापे जीर्णवने तृणे' इति वैजयन्ती । उदर्चिषमधिकज्वालमग्निं प्रक्षिप्य अभिमारुतम् । आभिमुख्येऽव्य- यीभावः । शेरते स्वपन्ति । तद्वन्नाशहेतुरित्यर्थः । 'शीङो रुट्' (७।१।१६) इति रुडागमः । अत्र ये उदासते ते शेरते इति विशिष्टौदासीन्यशयनयोर्वाक्यार्थ- योर्निर्दिष्टेकत्वासंभवात् सादृश्यलक्षणायामसंभवद्वस्तुसंबन्धो वाक्यार्थनिर्वृत्तिरिति निदर्शनाभेदः । न चायं दृष्टान्तः । वाक्यभेदेन प्रतिबिम्बकारणाक्षेपे तस्योत्थानात् । अत्र तु वाक्यार्थे वाक्यार्थसमारोपाद्वाक्यैकवाक्यतायां तदभाव इत्यलंकारसर्वस्व- कारः॥४२॥

पाठा०-१ 'रूपम्'. २ इतः पूर्वमुत्तरश्लोकास्त्रयो दृश्यन्ते. द्वितीयः सर्गः । ४३

तथापि बान्धवत्वात् सोढव्य इत्याशङ्क्याह-

मनागनभ्यावृत्त्या वा कामं क्षाम्यतु यः क्षमी। क्रियासमभिहारेण विराध्यन्तं क्षमेत कः ॥४३॥

मनागिति ॥ यः क्षमी सहनः । 'शमित्यष्टाभ्यो घिनुण्' (३।२।१४१) इति घिनुण्प्रत्ययः । स सोढा मनागल्पम् । अभ्यावृत्तावपीति भावः । अनभ्यावृत्त्या सकृद्वा । अनल्पत्वेऽपीति भावः । विराध्यन्तमपकुर्वाणं कामं भृशं क्षाम्यतु क्षम्य- ताम् । संभावनायां लोट्। 'शमामष्टानां दीर्घः श्यनि' (७।३।७४) । क्रियासम- भिहारेण भृशम् , पौनःपुन्येन चेत्यर्थः। न च पुंवाक्येष्वनेकार्थत्वं दोषाय । विराध्यन्तं कः क्षमेत सहेत सोढुं शक्नुयात् । न कोऽपीत्यर्थः । 'शकि लिङ्-' (३।३।१७२) इति शक्याथै लिङ् । 'क्षमू प्रसहने' देवादिको भौवादिकश्च ॥ ४३ ॥

ननु सर्वदा क्षमैव पुंसो भूषणम् , अतोऽपराधेऽपि क्षन्तव्यमत आह-

अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः । पराक्रमः परिभवे वैयात्यं सुरतेष्विव ॥४४॥

अन्यदेति ॥ अन्यदा सुरतव्यतिरिक्ते काले योषितो लज्जेव पुंसोऽन्यदा अप- रिभवे क्षमा शमो भूषणम् । परिभवे तु योषितः सुरतेषु वैयात्यं धार्ष्ट्यमिव । "धृष्टे धृष्णुर्वियातश्च' इत्यमरः । पराक्रमः पौरुषं भूष्यतेऽनेनेति भूषणमाभरणम् । एवं चाक्रियावचनत्वान्नियतलिङ्गत्वाद्विरोध इति वल्लभोक्तं प्रत्युक्तम् ॥ ४४ ॥

अथ परिभवेऽप्यपाक्रमे त्रिभिर्निन्दामाह-

माजीवन् यः परावज्ञादुःखदग्धोऽपि जीवति । तस्याजननिरेवास्तु जननीक्लेशकारिणः ॥ ४५ ॥

माजीवन्निति ॥ यः परस्यापकर्तुरवज्ञया अवमानेन यद्दुःखं तेन दग्धस्तप्तोऽत एव माजीवन् गर्हितजीवी सन् । 'माङयाक्रोशे-' (वा०) इति लटः शत्रादेशः । जीवति प्राणान्धारयति । जनन्याः क्लेशकारिणो गर्भधारणप्रसवादिवेदनाकारिणः । तद्व्यतिरिक्तार्थक्रियाहीनस्येत्यर्थः । तस्याजननमजननिरनुत्पत्तिरेवास्तु । जननीक्लेश- निवृत्त्यर्थमिति भावः । 'आक्रोशे नञ्यनिः ' (३।३।११२) इति नञ्पूर्वाज्ज- निधातोरनिप्रत्ययः ॥ ४५ ॥

पादाहतं यदुत्थाय मूर्धानमधिरोहति । स्वस्थादेवापमानेऽपि देहिनस्तद्वरं रजः ॥ ४६ ॥

पादेति ॥ यद्रजो धूलिः पादेनाहतं सदुत्थायोड्डीय मूर्धानमाहन्तुरेव शिरो- ऽधिरोहत्याक्रमति तद्गजः । अचेतनमपीति भावः । अवमाने सत्यपि स्वस्थात् संतुष्टात् देहिनश्चेतनाद्वरं श्रेष्ठम् । व्यतिरेकालंकारः ॥ ४६॥

असंपादयतः कश्चिदर्थं जातिक्रियागुणैः । यदृच्छाशब्दवत्पुंसः संज्ञायै जन्म केवलम् ॥ ४७॥

पाठा०-१ 'सहेत'. २ 'शमः'. ३ 'नियतलिङ्गत्वात्' इति क्वचिन्न पठ्यते. ४४ शिशुपालवधे

असंपादयत इति ॥ किंच जातिः ब्राह्मणत्वादिः, क्रिया इज्याध्ययनादिः, गुणः शौर्यादिः, तैः साधनैः । करणे तृतीया । कञ्चिदर्थं सुकृतकीर्त्यादिपौरुषार्थम्, अन्यत्र गोत्वपाचकत्वशौक्ल्यादिभिः स्वाभिधेयभूतैः करणैः कञ्चिदर्थं व्यवहाररूपं प्रयोजनमसंपादयतः। उभयत्र तादृग्जात्याद्यसंभवादिति भावः । पुंसो जन्म सत्ता- लाभः यदृच्छाशब्दवत् इच्छाप्रकल्पितस्य जात्यादिप्रवृत्तिनिमित्तशून्यस्य डित्थादि- शब्दस्येव । 'तत्र तस्येव' (५।१।११६) इति वतिप्रत्ययः । 'स्वेच्छा यदृच्छा स्वच्छन्दः स्वैरता चेति ते समाः' इति केशवः। संज्ञायै केवलं संज्ञार्थमेव । एकत्र पारिभाषिकं किञ्चिन्नाममात्रमनुभवितुम् , अन्यत्र तादृक्तामनुभवितुमित्यर्थः॥४७॥

एवमपौरुषं दूषयित्वा पौरुषं भूषयति-

तुङ्गत्वमितरा नाद्रौ नेदं सिन्धावगाधता । अलङ्घनीयताहेतुरुभयं तन्मनस्विनि ॥४८॥

तुङ्गत्वमिति ॥ अद्रौ पर्वते तुङ्गत्वमौन्नत्यम् । अस्तीति शेषः, अस्तिर्भवन्ती- परोऽप्रयुज्यमानोऽप्यस्तीत्यादिभाष्यात् । भवन्तीति पूर्वाचार्याणां लटः संज्ञा । इतराऽगाधता नास्ति । सिन्धौ समुद्रेऽगाधता गम्भीरतास्ति । इदं तुङ्गत्वं नास्ति । मनस्विनि वीरे त्वलङ्घनीयताहेतुरलङ्घ्यत्वकारणं तदुभयं तुङ्गत्वमगाधता च । तस्मादद्रिसिन्धुभ्यामधिको मनस्वीति व्यतिरेकालंकारः ॥४८॥

संप्रति शत्रौ मार्दवमनर्थायेत्याह-

तुल्येऽपराधे स्वर्भानुर्भानुमन्तं चिरेण यत् । हिमांशुमाशु ग्रसते तन्म्रदिम्नः स्फुटं फलम् ॥ ४९ ॥

तुल्य इति ॥ स्वर्भानू राहुरपराधे तुल्येऽपि भानुमन्तं सूर्य चिरेण ग्रसते, हिमांशुं चन्द्रमाशु शीघ्रं ग्रसते गिलतीति यत् । 'ग्रसिते गिलिते गीर्णम्' इत्यभिधानात् । तत् म्रदिम्नो मार्दवस्य फलं स्फुटम् । 'पृथ्वादिभ्य इमनिच्' (५।१।१२२) इतीमनिच्प्रत्ययः । तस्माद्विपक्षे तीव्रेण भवितव्यम् । अन्यथा मृदुः सर्वत्र बाध्यत इति भावः । एतच्च प्रस्तुतमप्रस्तुतार्केन्दुकथनेन सारूप्यात्प्रतीयते इत्यप्रस्तुतप्रशंसाभेदोऽयम् । 'अप्रस्तुतस्य कथनात्प्रस्तुतं यत्र गम्यते । अप्रस्तुत- प्रशंसेयं सारूप्याद्विनियन्त्रिता ॥' इति लक्षणात् ॥ ४९ ॥

एतदेव भङ्ग्यन्तरेणाह-

स्वयं प्रणमतेऽल्पेऽपि परवायावुपेयुषि । निदर्शनमसाराणां लघुर्बहुतृणं नरः॥५०॥

स्वयमिति ॥ असाराणां दुर्बलानां निदर्शनं दृष्टान्तः । अत एव ईषदसमाप्तं तृणं बहुतृणम् । तृणकल्पमित्यर्थः । 'विभाषा सुपो बहुच्पुरस्तात्' (५।३।६८) इति बहुच्प्रत्ययः प्रकृतेः पूर्वं च भवति । 'स्यादीषदसमाप्तौ तु बहुप्रकृतिलिङ्गके' इति वचनात् प्रकृतिलिङ्गता । लघुर्निष्पौरुषो नरोऽल्पेऽपि परो वायुरिवेत्युपमितसमासः। द्वितीयः सर्गः। ४५

बहुतृणमिति । स्पष्टोपमासाहचर्यात्कल्पब्देश्यदेशीयदेश्यादीति दण्डिना कल्पबादी- नामौपम्यवाचकेष्वभिधानात् । तस्मिन्नुपेयुषि प्राप्ते सति स्वयं प्रणमते स्वयमेव प्रह्वीभवति । 'कर्मवत्कर्मणा तुल्यक्रियः' (३।१८७) इति कर्मवद्भावात् 'भाव- कर्मणोः' (१।३।१३) इत्यात्मनेपदम् । 'न दुहस्नुनमा यक्चिणौ' (३।१।८९) इति यक्प्रतिषेधः । वायुना तृणमिवाल्पीयसापि रिपुणा लघुरक्लेशेन परिभूयत इत्यर्थः । उपमालंकारः ॥ ५० ॥

पुनः पौरुषे गुणमाह-

तेजस्विमध्ये तेजस्वी दवीयानपि गण्यते । पञ्चमः पञ्चतपसस्तपनो जातवेदसाम् ॥५१॥

तेजस्वीति ॥ दवीयानपि दूरस्थोऽपि । 'स्थूलदूर-' (६।४।१५६) इत्यादिना पूर्वगुणयणादिपरलोपौ । तेजस्वी तेजस्विनां मध्ये गण्यते संख्यायते । तथाहि- पञ्चाग्निसाध्यं तपो यस्य स तथा तस्य पञ्चतपसः पञ्चाग्निमध्ये तपस्यतः तपनोऽर्को जातवेदसामग्नीनां पञ्चमः पञ्चानां पूरणः । पञ्चमो जातवेदा भवतीत्यर्थः । विशे- षेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः॥ ५१ ॥

गुणान्तरं च व्यतिरेकेणाह-

अकृत्वा हेलया पादमुच्चैर्मुर्धसु विद्विषाम् । कथंकारमनालम्बा कीर्तिर्द्यामधिरोहति ॥ ५२ ॥

अकृत्वेति ॥ उच्चैरुन्नतेषु विद्विषां मूर्धसु हेलया पादमकृत्वा अनिधाय । 'अनञ्पूर्वः' इति निषेधात्समासेऽपि न ल्यबादेशः । कीर्तिः कथंकारम् । कथ- मित्यर्थः । 'अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्' (३।४।२७) इत्यनर्थकादेव करोतेः कथंपूर्वाण्णमुल । अनालम्बा निराधारा कीर्तिर्यां दिवमधिरोहति । न कथंचिदित्यर्थः । किंचिन्निःश्रेण्यादिकमनाक्रम्य उच्चसौधस्य दुरारोहत्वादिति भावः। तस्मात्कीर्तिमिच्छतः पौरुषमेवाश्रयणीयमिति श्लोकतात्पर्यम् । कीर्तितद्वतोरभेदो- पचारात् समानकर्तृतानिर्वाहः । अत्र प्रस्तुतायाः कीर्तेर्विषयमहिम्ना अप्रस्तुत- प्रासादारोहणस्त्रीव्यवहारप्रतीतेः समासोक्तिः ॥ ५२ ॥

पौरुषमेवाश्रयणीयमित्यत्रान्वयव्यतिरेकदृष्टान्तावाचष्टे-

अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः । केसरी निष्ठुरक्षिप्तमृगयूथो मृगाधिपः ॥ ५३ ॥

अङ्केति ॥ अङ्कमुत्सङ्गमधिरोपितो मृगो येन स चन्द्रमा मृगलाञ्छनः मृगाङ्कः । तथा निष्ठुरं यथा तथा क्षिप्तो हतो मृगयूथो मृगसमूहो येन स केसरी सिंहो मृगाधिपः । उभयत्रापि ख्यात इति शेषः । तस्माच्छत्रौ मार्दवं दुष्कीर्तये, पौरुषं तु कीर्तये इति भावः । अत्राप्रस्तुतकथनात् प्रस्तुतार्थप्रतीतेरप्रस्तुतप्रशंसा ॥५३॥

ननु सामादि सुकरोपायमुपेक्ष्य किं पाक्षिकसिद्धिना दण्डेन । यथाह मनुः- 'साम्ना भेदेन दानेन समस्तैरुत वा पृथक् । विजेतुं प्रयतेतारीन्न युद्धेन कदाचन ॥' (७।१९८) इति । तस्मात्सान्त्वमेव युक्तमित्याङ्क्य द्वाभ्यां निराचष्टे४६ शिशुपालवधे

चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया । स्वेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति ॥ ५४ ॥

। चतुर्थोपायेति ॥ चतुर्थोपायसाध्ये दण्डसाध्ये रिपौ सान्त्वं साम । 'साम सान्त्वमुभे समे' इत्यमरः । अपक्रियाऽपकारः। तथा हि-स्वेद्यं स्वेदार्हम् । स्वेद- नकार्यमित्यर्थः । 'स्वेदस्तु स्वेदने धर्मे' इति विश्वः । आमज्वरमपक्वज्वरं प्राप्य । 'आमो रोगे रोगभेदे आमोऽपक्वे तु वाच्यवत्' इति विश्वः । कः प्राज्ञः पण्डि- तोऽम्भसा जलेन परिषिञ्चति । न कोऽपीत्यर्थः । ज्वरितस्याम्भस्सेकवत् क्रुद्धस्य सान्त्वमुद्दीपनकरं स्यात् । अतो दण्ड्य एवेति भावः । वाक्यभेदेन प्रतिबिम्ब- करणापेक्षो दृष्टान्तालंकारः ॥ ५४ ॥

सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः। प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः ॥ ५५ ॥

सामेति ॥ सकोपस्य रूढवैरस्य तस्य चैद्यस्य सामवादाः प्रियोक्तयः सहसा प्रतप्तस्य क्वथितस्य सर्पिषो घृतस्य तोयबिन्दव इव प्रत्युत वैपरीत्येन दीपकाः प्रज्वलनकारिणः । न तु शान्तिकरा इत्यर्थः । तस्माद्दण्ड्य एव सः । मनुवचनं त्वप्ररूढवैरविषयमिति भावः ॥ ५५ ॥

एवं स्थिते केचिदुद्धवादयः प्रत्याचक्षीरंस्तान्प्रत्याह-

गुणानामायथातथ्यादर्थं विप्लावयन्ति ये । अमात्यव्यञ्जना राज्ञां दृष्यास्ते शत्रुसंज्ञिताः ॥ ५६ ॥

गुणानामिति ॥ संध्यादीनां गुणानाम् । आयथातथ्यात् तथात्वमनतिक्रम्य यथातथम् । यथायोग्यमिति यावत् । 'यथार्थे तु यथातथम्' इत्यमरः । यथार्थेऽ - व्ययीभावः । स नपुंसकम्' (२।४।१७) इति नपुंसकत्वम् । 'ह्रस्त्रो नपुंसके-' (१।२।४७) इति ह्रस्वत्वम् । ततो नञ्समासे अयथातथं, तस्य भाव आयथा- तथ्यम् । ब्राह्मणादित्वात्ष्यञ्प्रत्ययः । 'यथातथयथापुरयोः पर्यायेण' (७३।३१) इति विकल्पान्नपूर्वपदवृद्धिः । तस्मादायथातथ्यादयथायोग्यत्वात् । अन्यकालेऽन्य- प्रयोगादित्यर्थः । अर्थं प्रयोजनं ये विप्लावयन्ति निघ्नन्ति । कार्यहानिं कुर्वन्तीत्यर्थः । अमात्यानां व्यञ्जनं चिह्नं येषां ते तथोक्ताः । तद्वेषधारिण इत्यर्थः । 'अवर्ज्यो बहुव्रीहिव्यधिकरणो जन्माद्युत्तरपदः' इति वामनः । वस्तुतस्तु शत्रुरिति संज्ञा एषां संजाता शत्रुसंज्ञिताः शत्रव एव ते कूटमन्त्रिणो राज्ञां दूषयितुमर्हाः दूष्या गर्ह्याः । त्याज्या इति यावत् । 'कृत्यानां कर्तरि वा' (२।३।७१) इति कर्तरि षष्ठी । अतः स्वोक्तं न प्रतिरोद्धव्यमिति भावः ॥ ५६ ॥

ननु यातव्योऽपि काले यातव्य इत्याशङ्क्यायमेव काल इत्याह-

स्वशक्त्युपचये केचित्परस्य व्यसनेऽपरे। यानमाहुस्तदासीनं त्वामुत्थापयति द्वयम् ॥ ५७ ॥

पाठा०-१ 'दीपिकाः'. २ 'यथातथात्वं'. द्वितीयः सर्गः । ४७  स्वेति ॥ केचिद्वृद्धाः स्वस्य शक्त्युपचये सामर्थ्यातिरेके यानं यात्रामाहुः । अथाह कामन्दक:-'प्रायेण सन्तो व्यसने रिपूणां यातव्यमित्येव समादिशन्ति । तथा विपक्षे व्यसनानपेक्षी क्षमो द्विषन्तं मुदितः प्रतीयात् ॥' इति । अपरे वृद्धाः परस्य शत्रोर्व्यसने विपदि । 'व्यसनं विपदि भ्रंशे' इत्यमरः । यानमाहुः । अत्र मनुः-'तदा यायाद्विगृह्मैव व्यसने चोत्थिते रिपोः' (७।१८३) इति । तद्वयमुक्तपक्षद्वयं कर्तृ आसीनमनुद्युञ्जानम् । 'ईदासः' (७।२।८३) इति शान- जाकारस्येकारादेशः । त्वामुत्थापयति प्रेरयति । तदुभयलाभादीदृक्कालो न कदापि लक्ष्यत इत्यर्थः ॥ ५७ ॥

 तत्र स्वशक्त्युपचयं तावल्लक्षयति-

  लिलङ्घयिषतो लोकानलङ्घ्यानलघीयसः ।
  यादवाम्भोनिधीन् रुन्धे वेलेव भवतः क्षमा ॥ ५८ ॥

 लिलङ्घयिषत इति ॥ लोकांल्लङ्घयितुमिच्छतो लिलङ्घयिषतः । लङ्घयतेः सन्नन्ताल्लटः शतरि शस् । अलङ्घ्यान् स्वयं दुर्लङ्घ्यान् । कुतः । अलघीयसोऽतिगु- रून् । अत एव यादवा अम्भोनिधय इवेत्युपमितसमासः । वेलेवेति लिङ्गात् । तान् यादवाम्भोनिधीन् भवतः क्षमा तितिक्षा वेलेव कूलमिव । 'वेला कूलेऽपि वारिधेः' इति विश्वः । रुन्धे प्रतिबध्नाति । अन्यथा प्रागेव सर्वं संहरेयुरिति भावः ॥ ५८ ॥

अभ्युच्चयश्चायमपरो यदक्लेशेनैव ते विजयलाभ इत्याह-

  विजयस्त्वयि सेनायाः साक्षिमात्रेऽपदिश्यताम् ।
  फलभाजि समीक्ष्योक्ते बुद्धेर्भोग इवात्मनि ॥ ५९ ॥

 विजय इति ॥ सेनायाः कर्त्र्या विजयः साक्षिमात्रे उदासीने एव फलभाजि त्वयि समीक्ष्योक्ते सांख्योक्ते । 'सांख्यं समीक्ष्यम्' इति त्रिकाण्डः । आत्मनि बुद्धेर्महत्तत्त्वस्य मूलप्रकृतेः प्रथमविकारस्य कर्त्र्याः भोगः सुखदुःखानुभव इवा- पदिश्यतां व्यवह्रियताम् । भृत्यजयपराजययोः स्वामिगम्यत्वादिति भावः । सांख्या अप्याहुः–कर्तेव भवत्युदासीनः' इति, 'सर्वं प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः' इति च ॥ ५९॥

 अथ परस्य व्यसनमाह-

  हते हिडिम्बरिपुणा राज्ञि द्वैमातुरे युधि ।
  चिरस्य मित्रव्यसनी सुदमो दमघोषजः ॥६० ॥

 हत इति ॥ हिडिम्बरिपुणा भीमेन द्वयोर्मात्रोरपत्यं पुमान् द्वैमातुरः । 'मातु- रुत्संख्यासंभद्रपूर्वायाः' (४।१।११५) इत्यण्प्रत्ययः उकारश्चान्तादेशो रेफपरः । तस्मिन् राज्ञि जरासन्धे । सहिताभ्यां पत्नीभ्यामर्धशः प्रसूतो जरया नाम पिशा- च्या संधितश्चेति कथयन्ति । युधि हते सति चिरस्य चिरकालेन । 'चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः' इत्यमरः । मित्रव्यसनी मित्रव्यसनवान् ।

पाठा०-१ 'तन्नैष पक्षो व्यसनं ह्यनिष्टं क्षमस्तु सन्नभ्युदितः प्रतीयात्'. २ वेलेवेति लिङ्गात्' इत्यंशः क्वचिन्न लभ्यते. ४८ शिशुपालवधे मित्रभ्रंशवानिति यावत् । 'व्यसनं विपदि भ्रंशे' इत्यमरः । दमघोषाज्जातो दम- घोषजश्चैद्यः सुखेन दम्यत इति सुदमः । एकाकित्वात् सुसाध्य इत्यर्थः ॥ ६० ॥

 कष्टश्चायं पक्षोऽभ्युपेत्यवादेनोक्तः, वस्तुतस्तु शूराणामग्रिमपक्ष एवेष्टः शास्त्रसं. वादी । यथाह कामन्दकः :-'यदा समस्तं प्रसभं निहन्तुं पराक्रमादूर्जितमप्यमि- त्रम् । तदाभियायादहितानि कुर्वन्नुपान्ततः कर्षणपीडनानि ॥' इतीत्यभिप्रेत्याह-

  नीतिरापदि यद्गम्यः परस्तन्मानिनो ह्रिये ।
  विधुर्विधुन्तुदस्येव पूर्णस्तस्योत्सवाय सः ॥६१ ॥

 नीतिरिति ॥ परः शत्रुरापदि गम्यो गमनार्हः नीतिरिति यत्तदापदि गमनं मानिनः शौर्याभिमानिनो ह्रिये । लज्जाकरमित्यर्थः। किंतु पूर्ण उपचितगात्रः स शत्रुस्तस्य मानिनः । विधुश्चन्द्रः विधुं तुदति हिनस्तीति विधुंतुदो राहुः । 'विध्वरुषोस्तुदः' (३।२।३५) इति खश्प्रत्यये मुमागमः । तस्येवोत्सवाय । अत एव बलिना बलवानेव यातव्यः, बलिनश्च वयमिति भावः ॥ ६२ ॥

 तर्हि पूर्वोदाहृतमन्वादिशास्त्रविरोधः स्यादित्याशङ्क्याह-

  अन्यदुच्छृङ्खलं सत्त्वमन्यच्छास्त्रनियन्त्रितम् ।
  सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः ॥ ६२ ॥

 अन्यदिति ॥ अन्यदुच्छृङ्खलमनर्गलम् । प्रसह्य पीडनक्षममिति भावः । सत्त्वं बलमन्यत् । शास्त्रेण मन्वादिशास्त्रेण नियन्त्रितमुदाहृतं परव्यसनकाले निर्मितं सत्त्वमन्यत् । उत्कटानुत्कटलक्षणवैलक्षण्यमन्यशब्दार्थः । तयोः सापेक्षत्वनिरपेक्ष- त्वाभ्यां मिथो विरोधान्नैकशास्त्रत्वं संभवतीत्यर्थः । अत्र दृष्टान्तमाह-तेजस्ति- मिरयोः समानमधिकरणं ययोस्तयोर्भावः सामानाधिकरण्यमेकाश्रयत्वं कुतः । न कुतश्चित् , तयोः सहावस्थानविरोधादिति भावः । तस्मादुभयोरुदितानुदित- होमवद्भिन्नविषयत्वादितरेतरशास्त्रविरोधो न बाधक इति भावः ॥ ६२॥

 तर्हि नः किमिदानीं कार्यमत आह-

  इन्द्रप्रस्थगमस्तावत् कारि मा सन्तु चेदयः ।
  आस्माकदन्तिसांनिध्याद्वामनीभूतभूरुहः ॥ ६३ ॥

 इन्द्रप्रस्थेति ॥ इन्द्रप्रस्थस्य पार्थनगरस्य गमो गमनम् । 'ग्रहवृदृनिश्चिग- मश्च' (३।३।५८) इत्यप्रत्ययः । तावदिदानीं मा कारि तावत् । न क्रियतामेवे- त्यर्थः । यावत्तावत्परिच्छेदे कार्त्स्न्ये मानावधारणे' इति विश्वः । कृञः कर्मणि लुङ् । 'माङि लुङ्' (३।३।१७५) इत्याशीरर्थे । 'न माङ्योगे' (६।४।७४) इत्यट्प्रतिषेधः । किंतु चेदयश्चेदिदेशाः । अस्माकमिमे आस्माकाः, 'युष्मदस्मदोर- न्यतरस्यां खञ्च' (४।३।१) इति विकल्पादण्प्रत्ययः । तस्मिन्नणि च युष्माका- स्माकौ' (४।३।२) इत्यस्माकादेशः । संनिधिरेव सांनिध्यम् । स्वार्थे ष्यञ्प्रत्ययः । आस्माकानां दन्तिनां सांनिध्यात् वामनीभूताः शाखाभङ्गात् खर्वीभूता भूरुहो वृक्षा येषां ते तथोक्ताः सन्तु । चेदियात्रैव क्रियतामित्यर्थः । सा च प्रस्तुता प्रस्तुतेनैव द्वितीयः सर्गः ४९ स्वकार्येण गम्यत इति पर्यायोक्तालंकारः । 'कारणं गम्यते यत्र प्रस्तुतात् कार्यवर्ण- नात् । प्रस्तुतत्वेन संबन्धात् पर्यायोक्तः स उच्यते ॥' इति लक्षणात् ॥ ६३ ॥

  निरुद्धवीवधासारप्रसारा गा इव व्रजम् ।
  उपरुन्धन्तु दाशार्हाः पुरीं माहिष्मतीं द्विषः ॥ ६४ ॥

 निरुद्धेति ॥ किंच दाशार्हा यादवाः वीवधो धान्यादिप्राप्तिः, आसारः सुहृ- द्बलम्, प्रसारस्तृणकाष्ठादेः प्रवेशः । 'धान्यादेर्वीवधः प्राप्तिरासारस्तु सुहृद्बलम् । प्रसारः तृणकाष्ठादेः प्रवेश:-' इति वैजयन्ती । ते निरुद्धा यैस्ते तथोक्ताः, अन्यत्र निरुद्धौ वीवधानां पर्याहारापरनाम्नां स्कन्धवाह्यक्षीराद्याहरणसाधनभारविशेषा- णामासारप्रसारौ प्रवेशनिर्गमौ यैस्ते तथोक्ताः । 'विवधो वीवधो भारे पर्याहा- राध्वनोरपि' इति हेमचन्द्रः । व्रजं गोष्ठम् । 'व्रजः स्याद्गोकुलं गोष्ठम्' इति वैजयन्ती । गा इव माहिष्मतीं पुरीं द्विषोऽरीनुपरुन्धन्तु । व्रजे गा इव माहि- ष्मत्यामरीन् आवृण्वन्त्वित्यर्थः । 'दुहियाचिरुधि-' इति द्विकर्मकत्वम् । तत्र पुरीव्रजाकथितं कर्म, अन्यदीप्सितं कर्म ॥ ६४ ॥

 तर्हि पार्थपार्थनायाः का गतिरित्याशङ्क्य, उपेक्षैव गतिरित्याह-

  यजतां पाण्डवः स्वर्गमवत्विन्द्रस्तपस्विनः ।
  वयं हनाम द्विषतः सर्वः स्वार्थं समीहते ॥६५॥

 यजतामिति ॥ पाण्डवो युधिष्ठिरो यजतां यागं करोतु । इन्द्रः स्वर्गमवतु रक्षतु । इनोऽर्कः । 'इनः पत्यौ नृपार्कयोः' इति मेदिनी । तपतु प्रकाशताम् । वयं द्विषोऽरीन् हनाम मारयाम। 'आडुत्तमस्य पिच्च' (३।४।९२) इत्याडागमः । सर्वत्र प्राप्तकाले लोट् । तथा हि-सर्वो जनः स्वार्थं स्वप्रयोजनं समीहतेऽनुसं. धत्ते । इन्द्रादिसमानयोगक्षेमो नः पार्थ इत्यर्थः । अर्थान्तरन्यासः ॥६५॥

  प्राप्यतां विद्युतां संपत्संपर्कादर्करोचिषाम् ।
  शस्त्रैर्द्विषच्छिरश्छेदप्रोच्छलच्छोणितोक्षितैः ॥ ६६

 प्राप्यतामिति ॥ किंच द्विषतां शिरश्छेदेन प्रोच्छलतोद्गच्छता शोणितेनो- क्षितैः सिक्तैः शस्त्रैरर्करोचिषां संपर्कात्संबन्धाद्विद्युतां संपल्लक्ष्मीः प्राप्यतामिति । निदर्शनालंकारः ॥६६॥

  इति संरम्भिणो वाणीर्बलस्यालेख्यदेवताः ।
  सभाभत्तिप्रतिध्वानैर्भयादन्ववदन्निव ॥ ६७ ॥

 इतीति ॥ इतीत्थं संरम्भिणः क्षुभितस्य बलभद्रस्य वाणीरालेख्यदेवताश्चित्र- लिखितदेवताः सभायाः सदोगृहस्य भित्तीनां प्रतिध्वानैः । प्रतिध्वनिव्याजे- नेत्यर्थः । भयादन्ववदन्नन्वमोदयन्निवेत्युत्प्रेक्षा ॥ ६७ ॥

  निशम्य ताः शेषगवीरभिधातुमधोक्षजः ।
  शिष्याय बृहतां पत्युः प्रस्तावमदिशदृशा ॥ ६८॥

' निशम्येति ॥ अधः कृतमक्षजमिन्द्रियजं ज्ञानं येन सोऽधोक्षजो हरिः ताः

शेषस्य शेषावतारस्य बलभद्र्स्य गाः वाचः शेषगवीः । 'गोरतद्धितलुकि' (५।४।९२) इति टच् । टित्वान्ङीप् । निशम्य श्रुत्वा । 'निशाम्यतीति श्रवणे तथा निशमयत्यपि' इति भट्टमल्लः । तत्र शाम्यतेरिदं रूपम् । अन्यथा निशम- य्येति स्यात् । अत एव वामनः 'निशम्य्यनिशमय्यशब्दौ प्रकृतिभेदात्' इति । बृहतांं वाचां पत्युर्बृहस्पतेस्तस्य शिष्यायोद्धवायाभिधातुं वक्तुं दृशा दृक्संज्ञया प्रस्तावमव- सरमदिशदतिसृष्टवान् । 'प्रस्तावः स्यादवसरः' इत्यमरः ॥ ६८॥

  भारतीमाहितभरामथानुद्धतमुद्धवः ।
  तथ्यामुतथ्यानुजवज्जगादाग्रे गदाग्रजम् ॥ ६९ ॥

 भारतीमिति ॥ अथ कृष्णानुज्ञानन्तरमुद्धवः आहितो भरोऽर्थगौरवं यस्यां सा तां तथ्यां यथार्थां भारतींं वाचम् । अनुद्धतमगर्वितं यथा तथा गदस्याग्रजं कृष्णम् । अग्रे पुरत इति प्रागल्भ्योक्तिः । उतथ्यस्य महर्षेरनुजो बृहस्पतिः । 'उत- थ्यावरजो जीवः' इति विश्वः । तद्वत् तेन तुल्यं जगाद । 'तेन तुल्यं क्रिया..चे- द्वतिः' (५।१।११५) इति वतिः । तद्धितगेयमुपमा ॥ ६९॥

 किं जगादेत्याह-

  संप्रत्यसांप्रतं वक्तुमुक्ते मुसलपाणिना ।
  निर्धारितेऽर्थे लेखेन खलूक्त्वा खलु वाचिकम् ॥ ७० ॥

 संप्रतीति ॥ संप्रति मुसलपाणिना बलभद्रेण । केवलं शूरेणेति ध्वनिः । उक्ते सति वक्तुमसांप्रतमयुक्तम् । साधूक्तत्वादभ्याससमानयोगक्षेमप्रसङ्गादिति ध्वनिः । सांप्रतशब्दस्यार्हार्थत्वात्तद्योगे 'शकघृष-' (३।४।६५), इत्यादिना तुमुन् । तथा हि लेख्येन पुत्रेणार्थे वाच्ये निर्धारिते निर्णीते सति वाचिकं व्याहृ- तार्थां वाचम् । संदेशवचनमित्यर्थः । 'संदेशवाग्वाचिकं स्यात्' इत्यमरः । 'वाचो व्याहृतार्थायाम्' (५।४।३५)इति ठक् । उक्त्वा खलु । न वाच्यं खल्वित्यर्थः । खलुराद्यः प्रतिषेधे, अन्यो वाक्यालंकारे, 'निषेधवाक्यालंकारजिज्ञासानुनये खलु' इत्युभयत्राप्यमरः । 'अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा' (३।४।१८) इति क्र्त्वाप्रत्ययः । इह 'न पादादौ खल्वादयः' इति निषेधस्योद्वेजकाभिप्रायत्वात् , नञ- र्थखलुशब्दस्यानुद्वेजकत्वात् नञ्वदेव पादादौ प्रयोगे न दुष्यतीत्यनुसंधेयम् । लिखितार्थे वाचिकमिव बलोक्ते मदुक्तिरनवकाशेति वाक्यार्थप्रतिबिम्बकरणात् । स्पष्टस्तावद्दृष्टान्तः । स्तुतिव्याजेन निन्दावगमाद्व्याजस्तुतिश्च । लक्षणं चाग्रे वक्ष्यते ॥ ७०॥

 तर्हि किं तूष्णीभूतेन भाव्यं, नेत्याह-

  तथापि यन्मय्यपि ते गुरुरित्यस्ति गौरवम् ।
  तत्प्रयोजककर्तृत्वमुपैति मम जल्पतः ॥ ७१ ॥

 तथापीति ॥ तथापि बलेन निर्णीतेऽपि । ते तव मय्यपि । बलभद् इवेत्यपि- शब्दार्थः । गुरुरित्येव यद्गौरवमादरः तद्गौरवं जल्पतः जल्पने प्रयोज्यकर्मणो मे

पाठा०-१ असाधू०". प्रयोजककर्तृत्वं प्रेरकत्वमुपैति । अतो वक्ष्यामीत्यर्थः । न हि पण्डितैः सादरं पृष्टस्य विशेषज्ञस्याज्ञवत्तूष्णींभावो युक्त इति भावः ॥ ७१ ॥

 ननु रामेणैव सर्वं प्रपञ्चेनोक्तम् , संप्रति किं ते वाच्यमस्तीत्याशङ्क्य वृथा प्रपञ्चोऽयमिति हृदि निधाय स्तुवन्नाह-

  वर्णैः कतिपयैरेव ग्रथितस्य स्वरैरिव ।
  अनन्ता वाङ्मयस्याहो गेयस्येव विचित्रता ॥७२॥

 वर्णैरित्यादित्रयेण ॥ कतिपयैः परिमितैर्वर्णैः पञ्चाशतैव मातृकाक्षरैः, कतिपयैः सप्तभिरेव स्वरैर्निषादादिभिर्ग्रथितस्य गुम्फितस्य वाङ्मयस्य शब्दजालस्य । 'एकाचोऽपि नित्यं मयटमिच्छन्ति' इति स्वार्थे मयट् । गीयत इति गेयं तस्य गानस्येव विचित्रता रचनाभेदादनन्ता । अपरिमिता भवतीत्यर्थः । अहो अतस्तेन साधूक्तेऽपि विशेषानन्त्यान्ममापि वक्तव्यमस्तीत्येको भावः। तस्य दुरुक्तवान्ममैवास्तीत्यन्यः । प्रत्यवयवमिवोपादानादनेकैवेयमुपमा ॥ ७२ ॥

  बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते ।
  अनुज्झितार्थसंबन्धः प्रबन्धो दुरुदाहरः ॥ ७३ ॥

 बह्वपीति ॥ स्वेच्छया स्वप्रतिभानुसारेण प्रकीर्णमसंगतं बह्वपि कामं यथेष्ट- मभिधीयते । किंतु, अनुज्झितोऽर्थसंबन्धः पदार्थसंगतिर्यस्मिन् स प्रबन्धः संदर्भः दुरुदाहरो दुर्वचः । हरतेः खल्प्रत्ययः । रामेण तु संगतमेवोक्तमिति स्तुतिः, असंगतमेवोक्तमिति निन्दा च गम्यते ॥ ७३ ॥

  म्रदीयसीमपि घनामनल्पगुणकल्पिताम् ।
  प्रसारयन्ति कुशलाश्चित्रां वाचं पटीमिव ॥ ७४॥

 म्रदीयसीमिति ॥ कुशला वक्तारो म्रदीयसीमतिसुकुमाराक्षरां, श्लक्ष्ण- तरां च तथापि घनामर्थगुर्वीम्, अन्यत्र सान्द्राम् । कदलीदलकल्पामित्यर्थः । अनल्पैर्बहुभिर्गुणैः श्लेषादिभिः, तन्तुभिश्च कल्पिता रचितां, निर्मितां च चित्रां शब्दादिविचित्रां, विचित्ररूपां च वाचं पटीं शाटीमिव प्रसारयन्ति । रामवा- गप्येवंविधेति स्तुतिः, रामवाक् तु नैवंविधेति निन्दा च गम्यते । अत्र श्लेषस्य शुद्ध- विषयासंभवेन सर्वालंकारबाधकत्वादुपमाप्रतिभोत्थापितः प्रकृताप्रकृतश्लेषोऽय- मित्यलंकारसर्वस्वकारः । एवं च पूर्णोपमाया निर्विषयत्वप्रसङ्गात् श्लेषप्रतिभोत्था- पितेयमुपमैवेत्यन्ये ॥ ७४ ॥

 अथोद्धवः स्वसिद्धान्तं वर्णयिष्यन् स्तुत्या गर्वं परिहरन् हरिमभिमुखीकरोति-

  विशेषविदुषः शास्त्रं यत्तवोद्ग्राह्यते पुरः।
  हेतुः परिचयस्थैर्ये वक्तुर्गुणनिकैव सा ॥ ७५ ॥

 विशेषेति ॥ विशेषानवान्तरभेदान् वेत्तीति विशेषविद्वान् तस्य विशेषविदुषो विशेषज्ञस्य । गतिगम्यादिपाठाद्वितीयासमासः । तव पुरोऽग्रे शास्त्रं नीतिशास्त्र-

पाठा०-१ विशेषं वेत्ति'. मुद्राह्यते उपन्यस्यत इति यत् । 'उद्वाहितमुपन्यस्तम्' इति वैजयन्ती। सा। तदुद्वहणमित्यर्थः । विधेयप्राधान्यात् स्त्रीलिङ्गत्वम् । वक्तुरुद्वाहयितुः परिचयस्थैर्ये- ऽभ्यासदार्ढ्ये हेतुर्गुणनिका । आम्रेडितमेवेति यावत् । न तु वैदुष्यप्रकटनमिति भावः । 'गुण आम्रेडने' चौरादिकात् ‘ण्यासश्रन्थो युच्' (३।३।१०७) इति युच् । ततः संज्ञायां कन् । कात्पूर्वस्येकारः ॥ ७५ ॥

 संप्रति स्व1मतमुपन्यस्यति-

  प्रज्ञोत्साहावतः स्वामी यतेताधातुमात्मनि ।
  तौ हि मूलमुदेष्यन्त्या जिगीषोरात्मसंपदः ॥ ७६ ॥

 प्रक्ज्ञेति ॥ अतोऽस्मात्कारणात् स्वमस्यास्तीति स्वामी प्रभुः । 'स्वामिन्नैश्वर्ये (५।२।१२६) इति निपातः । प्रज्ञोत्साहौ मन्त्रोत्साहशक्ती आत्मनि स्वस्मिन्नाधातुं संपादयितुं यतेत । स्वयमुभयशक्तिमान्भवेदित्यर्थः । कुतः । हि यस्मात्तौ प्रज्ञोत्साहौ उदेष्यन्त्या वर्त्स्य॑न्त्याः जिगीषोरात्मनः संपदः प्रभुशक्तेर्मूलं निदानम् । अत्रोत्साह- ग्रहणं दृष्टान्तार्थम्् । यथोत्साहस्तथा मन्त्रोऽपि ग्राह्यो, न तु केवलोत्साह इति बलभद्रापवादः ॥ ७६ ॥

 उत्साहवत्प्रज्ञापि ग्राह्येत्युक्तं तस्याः प्रयोजनमाह-

  सोपधानां धियं धीराः स्थेयसीं खट्वयन्ति ये ।
  तत्रानिशं निषण्णास्ते जानते जातु न श्रमम् ॥ ७७ ॥

 सोपधानामिति ॥ ये धीरा धीमन्तः सोपधानां सविशेषाम् । युक्तियुक्ता- मित्यर्थः । अन्यत्र सगेन्दुकाम् । सोपवर्हामित्यर्थः। 'उपधानं विशेषे स्याद्गेन्दुके प्रणयेऽपि च' इति विश्वः । स्थेयसीं स्थिरतरामचपलां, द्रढीयसीं च । स्थिरश- ब्दादीयसुनि 'प्रियस्थिर-' (६४।१५७ ) इत्यादिना स्थादेशः । धियं खट्वयन्ति खट्वां पर्यङ्कं कुर्वन्ति । आश्रयन्तीत्यर्थः । ‘शयनं मञ्चपर्यङ्कपल्यङ्काः खट्या समाः' इत्यमरः । 'तत्करोति तदाचष्टे' (ग०) इति णिच् । ते धीरास्तत्र धीखट्वायामनिश- मश्रान्तं निषण्णा विश्रान्ताः सन्तो जातु कदाचिदपि श्रमं खेदं न जानते न विदन्ति । श्रमः खेदोऽध्वरत्यादेः' इति लक्षणम् । धीपूर्वक एवोत्साहः सेव्यो न केवल इति सर्वथा धीराश्रयणीयेत्यर्थः। अत्र धिय आरोप्यमाणायाः प्रकृतश्रमापनोदरूपोपकार- पर्यन्ततया परिणामालंकारः । 'आरोप्यमाणस्य प्रकृतोपयोगित्वे परिमाणः' इति लक्षणात् ॥ ७७॥

 अथ प्रज्ञाप्रज्ञयोभ्यां वैषम्यमाह-

  स्पृशन्ति शरवत्तीक्ष्णास्तोकमन्तर्विशन्ति च ।
  बहुस्पृशापि स्थूलेन स्थीयते बहिरश्मवत् ॥ ७८ ॥

 स्पृशन्तीति ॥ तीक्ष्णा निशितप्रज्ञाः शरवच्छरेण तुल्यं स्तोकमल्पमेव स्पृश- न्ति । अन्तः कार्यस्य चान्तरं विशन्ति । अल्पायासेन बहु कार्य साधयन्तीत्यर्थः । बहुस्पृशा व्यापिना स्थूलेन मन्देन, बृहता चाश्मनोपलेन तुल्यमश्मवत् । 'तेन

पाठा०-१ 'स्वगतं'. तुल्यं क्रिया चेद्वतिः' (५।१।११५)। बहिरेव । कार्यस्याकार्यस्य चेति भावः । स्थीयते स्थितिः क्रियते । मूढो हि अल्पस्य हेतोर्बहु प्रयासं करोति । मूषकग्रह- णाय शिखरिखननं परिहासास्पदं भवतीति भावः । तद्धितगतेयमुपमा ॥ ७८ ॥

  आरभन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च ।
  महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥ ७९ ॥

 आरभन्त इति ॥ किंचाज्ञा अल्पं तुच्छमेवारभन्ते प्रक्रमन्ते । काममत्यन्तं व्यग्राः, त्वरिताश्च भवन्ति । न च पारं गच्छन्तीति भावः । कृतधियः शिक्षित- बुद्धयस्तु महारम्भा महोद्योगा भवन्ति । निराकुला अव्यग्राश्च तिष्ठन्ति 1। पारं गच्छन्तीति भावः ॥७९॥

 अथ प्रज्ञावानपि न प्रमाद्येदित्याह-

  उपायमास्थितस्यापि नश्यन्त्यर्थाः प्रमाद्यतः ।
  हन्ति नोपशयस्थोऽपि शयालुर्मृगयुर्मृगान् ॥ ८॥

 उपायमिति ॥ उपायमास्थितस्य प्राप्तस्यापि । उपायेनैव कार्यं साधयतो- ऽपीत्यर्थः । किमुत व्यग्रतयेति भावः । प्रमाद्यतोऽनवधानस्य । 'प्रमादोऽनवधा- नता' इत्यमरः । अर्थाः प्रयोजनानि नश्यन्ति । तथा हि-शयालुर्निद्रालुः । आलुचि शीङो वक्तव्यत्वादालुच् । मृगान् यातीति मृगयुर्व्याधः । 'मृगयवादयश्च' (उ० ३७) इत्यौणादिकः कुप्रत्ययान्तो निपातः । 'व्याधो मृगवधाजीवो मृगयु- र्लुब्धकश्च सः' इत्यमरः । उपशेरतेऽस्मिन्नित्युपशयो मृगमार्गस्थायिनो व्याधस्या- त्मगुप्तिस्थानं गर्तविशेषः । 'एरच्' (३।३।५६) इत्यच्प्रत्ययः । तत्र तिष्ठतीत्यु- पशयस्थोऽपि मृगान्न हन्ति । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥८॥

 एवं प्रज्ञाया आवश्यकत्वमुक्तम् , तथोत्साहस्याप्याह-

  उदेतुमत्यजन्नीहां राजसु द्वादशस्वपि
  जिगीषुरेको दिनकृदादित्येष्विव कल्पते ॥ ८१ ॥

 उदेतुमिति ॥ जेतुमिच्छर्जिगीषुरेक एव द्वादशस्वपि राजसु मध्ये द्वादश- स्वादित्येषु दिनकृद्यो दिनकरणे व्याप्रियमाण आदित्यः स इव, ईहामुत्साहमत्यजन् प्रयुञ्जान एव । न तु निरुद्योग इति भावः । उदेतुं कल्पते उदयाय प्रभवति । उत्साहशक्तिरेव प्रभुशक्तेरपि मूलमित्यर्थः । 'नानालिङ्गत्वाद्धेतूनां नानासूर्यत्वम्' इति श्रुतेः । प्रतिमासमादित्यभेदाद्वादशत्वं तच्चैकस्यैव द्वादशात्मकत्वम् , 'द्वादु- शात्मा दिवाकरः' इत्यभिधानात् । ते चार्यमादयः पुराणोक्ता द्रष्टव्याः । राजा- नस्तु 'अरिर्मित्रमरेर्मित्रं मित्रमित्रमतः परम् । तथारिमित्रमित्रं च विजिगीषोः पुरस्सराः ॥' पञ्चेति शेषः । 'पार्ष्णिग्राहास्ततः पश्चादाक्रन्दस्तदनन्तरम् । असा- रावनयोश्चैव विजिगीषोस्तु पृष्ठतः ॥' पाणिग्राहासारः आक्रन्दासारश्चेत्यर्थः । अत्र चत्वार इति शेषः । एवं नव भवन्ति । विजिगीषुर्दशमः । 'अरेश्च विजिगीषोश्च

पाठा०-१ 'भवन्ति'. ['धाता मित्रोऽर्यमा शक्रो वरुणश्चांश एव च । भगो विवस्वान् पूषा च सविता दशमस्तथा ॥ एकादशस्तथा त्वष्टा विष्णुर्दादश उच्यते ।" इति द्वादशादित्या महाभारते आ० ५० ५९।१५½] ac मध्यमो भूम्यनन्तरः । अनुग्रहे संहतयोः समर्थों व्यस्तयोर्वधे । मण्डलाद्बहिरेतेषा- मुदासीनो बलाधिकः ॥' इति मध्यमोदासीनाभ्यां सह द्वादश वेदितव्याः । पूर्णोपमा ॥ ८१॥

 'उपायमास्थितस्य' (२।८०) इत्यत्र राजा न प्रमादित्युक्तम् , अप्रमाद- प्रकारमाह-

  बुद्धिशस्त्रः प्रकृत्यङ्गो घनसंवृतिकञ्चकः ।
  चारेक्षणो दूतमुखः पुरुषः कोऽपि पार्थिवः ॥ ८२॥

 बुद्धिशस्त्र इति ॥ बुद्धिरेव शस्त्रं यस्य स बुद्धिशस्त्रः । अमोघपातित्वात्तस्या इति भावः । प्रकृतयः स्वाम्यादिराज्याङ्गानि । 'राज्याङ्गानि प्रकृतयः' इत्यमरः । ता एवाङ्गानि यस्य सः । तद्वैकल्ये राज्ञो वैकल्यं स्यादिति भावः । घना दुर्भेदा संवृतिर्मन्त्रगुप्तिरेव कञ्चुकः कवचो यस्य स तथोक्तः । मन्त्रभेदे राज्यभेदादिति भावः । चरतीति चरः। पचाद्यच् । स एव चारो गूढपुरुषः । प्रज्ञादित्वात्स्वा- र्थिकोऽण्प्रत्ययः । 'चारश्च गूढपुरुषः' इत्यमरः । स एवेक्षणं चक्षुर्यस्य स चारे- क्षणः । अन्यथा स्वपरमण्डलवृत्तान्तादर्शनात् । 'अन्धस्येवान्धलग्नस्य विनिपातः पदे पदे' इति भावः । दूतः संदेशहरः । 'स्यात्संदेशहरो दूतः' इत्यमरः । स एव मुखं वाग्यस्यासौ दूतमुखः । अन्यथा मूकस्येव वाग्व्यवहारासिद्धौ तत्सा- ध्यासाध्यकार्यप्रतिबन्धः स्यादिति भावः । एवंभूतः पार्थिवः कोऽपि पुरुषोऽन्य एवायम् । लोकविलक्षणः पुमानित्यर्थः । अतो राज्ञा बुद्ध्यादिसंपन्नेन भवित- व्यम् । एतदेवाप्रमत्तत्वम् । अन्यथा स्वरूपहानिः स्यादिति भावः । अत्र कोs- पीति राज्ञो लोकसंबन्धेऽपि तदसंबन्धोक्त्या तद्रूपातिशयोक्तिः । सा च बुद्धि- शस्त्र इत्यादिरूपकनिर्व्यूंढेति तेन सहाङ्गाङ्गिभावेन संकरः ॥ ८२॥

 'चतुर्थोपायसाध्ये' (२।५४) इत्यादिना यत्क्षात्रमेव कर्तव्यमुक्तं तत्रोत्तरमाह-

  तेजः क्षमा वा नैकान्तं कालज्ञस्य महीपतेः ।
  नैकमोजः प्रसादो वा रसभावविदः कवेः ॥ ८३ ।।

 तेज इति ॥ कालं जानातीति कालज्ञस्तस्य । अयं काल इति विदुष इत्यर्थः । 'आतोऽनुपसर्गे कः' (३।२।३) न तु 'इगुपध-' (३।१।१३५) इत्यादिना कवि- धिः । समासे कर्मोपपदस्यैव बलवत्त्वभाषणात् । तस्य महीपतेस्तेजः क्षात्रमेवेति वा क्षमैव वा एकान्तं नियमो नास्ति, किंतु यथाकालमुभयमप्याश्रयणीयमित्यर्थः । तथा हि-रसान् शृङ्गारादीन् , भावान् निर्वेदादींश्च वेत्ति यस्तस्य रसभावविदः । भावग्रहणं संपातायातम् । कवेः कवितुरेकं केवलमोजः प्रौढप्रबन्धत्वं वा एकः प्रसादः, सुकुमारप्रबन्धत्वं वा न । किंतु तत्र हि रसानुगुण्येन यथायोग्यमुभयम- प्युपादेयम् । दृष्टान्तालंकारः ॥ ८३ ॥

 यदुक्तं 'क्रियासमभिहारेण विराध्यन्तं क्षमेत कः' (२/४३) इति तत्रोत्तरमाह-

  कृता1पचारोऽपि परैरनाविष्कृतविक्रियः ।
  असाध्यः कुरुते कोपं प्राप्ते काले गदो यथा ॥ ८४ ॥

१ 'कृतापराधोऽपि' इति पाठः.  कृतापचार इति ॥ परैः शत्रुभिः कृतः अपचारोऽपकारः, अपथ्यं च यस्य सः, तथाप्यनाविष्कृतविक्रियोऽन्तर्गुढविकारः । अत एवासाध्योऽप्रतिसमाधेयः सन् गदो यथा रोग इव । 'इववद्वा यथाशब्दः' इति दण्डी। काले बलक्षयाव- सरे प्राप्ते सति कोपं कुरुते । प्रकुप्यतीत्यर्थः । तदुक्तम्-'वहेदमित्रं स्कन्धेन यावत्कालविपर्ययः । तमेव चागते काले भिन्द्याद्धटमिवाश्मना ॥' इति ॥ ८४ ।।

 इतश्च क्षन्तव्यमिदानीमित्याह-

  मृदुव्यवहितं तेजो भोक्तुमर्थान् प्रकल्पते ।
  प्रदीपः स्नेहमादत्ते दशयाभ्यन्तरस्थया ॥ ८५ ॥

 मृद्विति ॥ मृदुना मृदुवस्तुना व्यवहितमन्तर्हितं तेजः अर्थान् भोक्तुं प्रकल्पते प्रभवति । तथा हि-प्रदीपोऽभ्यन्तरस्थया मध्यस्थया दशया वर्त्या॑ । 'दशा वर्ता- ववस्थायां स्नेहस्तैलादिके रसे' इति विश्वः । स्नेहं तैलादिकमर्थमादत्ते । अन्यथा स्वयमेव नि1र्वाहादिति । ततः क्षान्तिपूर्वमेव क्षात्रं फलतीति सर्वथा प्रथमं क्षन्त- व्यमिति भावः । विशेषेण सामान्यसमर्थनादर्थान्तरन्यासः ॥ ८५ ॥

 तर्हि पौरुषं मा भून्नित्यं, क्षममाणस्य दैवमेव श्रेयो विधास्यतीत्याशङ्क्याह-

  नालम्बते दैष्टिकतां न निपीदति पौरुषे ।
  शब्दार्थों सत्कविरिव द्वयं विद्वानपेक्षते ॥ ८६ ॥

 नालम्बत इति ॥ विद्वानभिज्ञः दिष्टे मतिर्यस्येति दैष्टिकः । दैवप्रमाणक इत्यर्थः । 'दैवं दिष्टं भागधेयम्' इत्यमरः । 'अस्तिनास्तिदिष्टं मतिः' (४/४/६०) इति ठक् । तद्भावं दैष्टिकतामेव नालम्बते । सर्वथा यद्भविष्यस्य विनाशादिति भावः। तथा पौरुषे केवलपुरुषकारेऽपि । युवादित्वादण्प्रत्ययः। न निषीदति न तिष्ठति । दैव- प्रातिकूल्ये तस्य वैफल्यादिति भावः । किंतु सत्कविः सत्कव2यिता शब्दार्थाविव, तयोः काव्यशरीरत्वादिति भावः । यथाह वामनः-- 'अदोषौ सगुणौ सालंकारौ शब्दार्थों काव्यम्' इति । द्वयं पौरुषं, दैवं चापेक्षते । अतः पौरुषमप्यावश्यकम् किंतु काले कर्तव्यमिति विशेषः। पौरुषादृष्टयोः परस्परसापेक्षत्वादिति भावः ॥८६॥

 अथ क्षान्तेः फलमाह-

  स्थायिनोऽर्थे प्रवर्तन्ते भावाः संचारिणो यथा ।
  रसस्सैकस्य भूयांसस्तथा नेतुर्मही3भृतः ॥ ८७ ॥

 स्थायिन इति ॥ रस्यते स्वाद्यत इति रसः शृङ्गारादिः । रसतेः स्वादनार्थ- त्वाद्रस्यन्त इति ते रसा इति निर्वचनात् तस्य रसस्य रसीभवतः स्थायिभावस्य रत्यादेः । रतिर्हासश्च क्रोधश्च शोकोत्साहभयानि च । जुगुप्साविस्मयशमाः स्थायिभावाः प्रकीर्तिताः ॥' इत्युक्तत्वात् । एकस्यैवार्थे स्वादुभावरूपे प्रयोजने भूयांसः संचारिणो व्यभिचारिणो भावा निर्वेदादयः । विभावादीनामुपलक्षण-

पाठा०-१ निर्वापात्', 'निर्वायात्'. २ 'कविता'. ३ 'महीभुजः'. मेतत् । यथा प्रवर्तन्ते । तदुक्तम्-'विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः । आनीयमानः स्वादुत्वं स्थायिभावो रसः स्मृतः ॥' इति । तथा स्थायिनः स्थिरस्य । क्षान्त्या कालं प्रतीक्षमाणस्येत्यर्थः । एकस्यैव नेतुर्विजिगीषोर्नायक- स्यार्थे प्रयोजने भूयांसो महीभृतो राजानः प्रवर्तन्ते । स्वयमेवास्य कार्यं साधय- न्तीत्यर्थः । ततः क्षन्तव्यमिति भावः । केचित्तु भावपदस्यापि रसपरत्वमाश्रित्य यथा संचारिणः प्रसङ्गादागन्तुका अन्ये रसाः स्थायिनः स्थिरस्यैकस्य मुख्यस्यार्थे प्रव- र्तन्ते, यथाऽस्मिन्नेव काव्ये वीरस्य शृङ्गारादय इति व्याचक्षते । उपमालंकारः ॥८७॥

 क्षान्तिपक्ष एव गुणान्तरमाह-

  तत्रावापविदा योगैर्मण्डलान्यधितिष्ठता ।
  सुनिग्रहा नरेन्द्रेण फणीन्द्रा इव शत्रवः ॥ ८८॥

 तन्त्रेति ॥ तन्त्रावापौ स्वपरराष्ट्रचिन्तनम् । अन्यत्र तत्रावापं शास्त्रौषधप्रयोगं च वेत्ति यस्तेन तन्त्रावापविदा । 'तत्रं स्वराष्ट्रचिन्तायामावापः परचिन्तने । शास्त्रौषधान्तमुख्येषु तन्त्रम्' इति वैजयन्ती । योगैः सामाधुपायैः, अन्यत्र देवताध्यानैश्च । 'योगः संनहनोपायध्यानसंगतियुक्तिषु' इत्यमरः । मण्डलानि स्वपरराष्ट्राणि, माहेन्द्रादिदेवतायतनानि च अधितिष्ठताऽतिक्रमता नरेन्द्रेण राज्ञा, विषवैद्येन च । नरेन्द्रो वार्तिके राज्ञि विषवैद्ये च कथ्यते' इति विश्वः । शत्रवः फणीन्द्रा इव सुनिग्रहाः सुखेन निग्राह्याः । एवं च प्रकृताप्रकृतविषयः श्लेषः । उपमैवेति केचित् ॥ ८८॥

 'प्रज्ञोत्साहावतः स्वामी' (२/७६) इत्यत्रैव तावेव प्रभुशक्तेर्मूलमित्युक्तं तदेव व्यनक्ति-

  करप्रचेयामुत्तुङ्गः प्रभुशक्तिं प्रथीयसीम् ।
  प्रज्ञावलबृहन्मूलः फलत्युत्साहपादपः ॥ ८९ ।।

 करेति ॥ उत्तुङ्गो महोन्नतः प्रज्ञावलं मत्रशक्तिरेव बृहत् प्रधानं मूलं यस्य सः । उत्साह एवं पादपः । करेण बलिना प्रचेयां वर्धनीयां, हस्तग्राह्यां च । 'बलिहस्तांशवः कराः' इत्यमरः । प्रथीयसीं पृथुतराम् । र ऋतो हलादेः-' (६/४/१६१) इति रेफादेशः । प्रभुशक्तिं तेजोविशेषम् । 'स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम्' इत्यमरः । फलति । प्रसूत इत्यर्थः । 'फल निष्पत्तौ' मन्त्रपूर्वक

एवोत्साहः फलति । विपरीतस्तु छिन्नमूलो वृक्ष इव शुष्यतीति भावः ।

रूपकालंकारः॥ ८९॥

 विमे2श्यकारिणस्तु विश्वमपि विधेयं स्यादिति त्रयेणाह-

  अनल्पत्वात्प्रधानत्वाद्वंशस्येवेतरे स्वराः ।
  विजिगीषेर्नृपतयः प्रयान्ति परिवारताम् ॥ ९ ॥

 अनल्पत्वादिति ॥ अनल्पत्वायज्ञोत्साहाधिकत्वादत एव प्रधानत्वान्मण्ड- लाभिज्ञत्वात् , अन्यत्रानल्पत्वादुच्चैस्तरत्वात् प्रधानत्वान्नायकं स्वरत्वाच्च वंशस्य वंशवाद्यस्वरस्य इतरे स्वरा वीणागानादिशब्दा इव। अथवा आश्रयत्वाद्वंश इव

पाठा०-२ स्यात्'. २ 'विमृष्य”. विषयभेद तदप्य रजनं विषयस्पयत ।। वंशस्तत्कालविहितः स्वर उच्यते तस्य स्वरस्येतराः षड्जादयः विजिगीषोर्नृपत- योऽन्ये मण्डलपरिवर्तिनो राजानः परिवारतां पोष्यतां प्रयान्ति । तत्कार्यमेव साधयन्तीत्यर्थः । तस्माद्वि1मृश्य कर्तव्यमित्यर्थः ॥९॥

  अप्यनारभमाणस्य विभोरुत्पादिताः परैः।
  वजन्ति गुणतामर्थाः शब्दा इव विहायसः ॥ ९१ ॥

 अपीति ॥ किंच अनारभमाणस्य स्वयमकिंचित्कुर्वाणस्यापि विभोः प्रभोः, व्यापकस्य च परैरन्यैर्नृपतिभिः, शङ्खभेर्यादिभिश्च उत्पादिताः संपादिताः, जनि- ताश्वार्थाः प्रयोजनानि विहायस आकाशस्य शब्दा इव गुणतां विशेषणतां कारणत्वाद्गुणत्वं व्रजन्ति । शक्तो हि राजा स्वयमुदासीन एवाकाशवत् स्वमहिम्नैव कार्यदेशं व्याप्नुवन् शब्दानिव सर्वार्थानपि स्वकीयतां नयतीत्यर्थः । 'गुणस्त्वावृ. त्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु' इति वैजयन्ती ॥९१ ॥

  यातव्यपार्षिणिग्राहादिमालायामधिकद्युतिः ।
  एकार्थतन्तुप्रोतायां नायको नायकायते ॥ ९२ ॥

 यातव्येति ॥ किंच एकार्थ एकप्रयोजनं स एव तन्तुः सूत्रं तत्र प्रोतायाम् । एकाभीष्टाभिलाषिण्यामित्यर्थः। प्रपूर्वाद्वेञः कर्मणि क्तः । 'वचिस्वपि-' (६॥१॥१५) इत्यादिना संप्रसारणम् । यातव्योऽभिषेणयितव्योऽरिः पार्ष्णि गृह्णातीति पार्ष्णि- ग्राहः पृष्ठानुधावी । कर्मण्यण् । तावादी येषां ते पूर्वोक्ताः पङ्क्तिशः स्थितास्त एवं माला रत्नमालिका तस्यामधिकातिर्महातेजा नायकः शक्तिसंपन्नो जिगीषु- र्नायकायते मध्यमणिरिवाचरति । स्वयमेव सर्वोत्कर्षेण वर्तत इत्यर्थः । तस्मा- द्वि1मृष्य कर्तव्यमिति भावः । 'नायको नेतरि श्रेष्ठे हारमध्यमणावपि' इति विश्वः । 'उपमानादाचारे' (३।१/१०) इति क्यच् । 'अकृत्सार्वधातुक-' (७।४।२५) इति दीर्घः । नायकायते इत्युपमा । अन्यथानुशासनविरोधात् । एकार्थतन्त्वत्यत्र तु रूपकमधिष्ठानतिरोधानेनारोप्यमाणतन्तुत्वस्यैवोद्भटत्वात् प्रोतत्वसिद्धेस्तदेव युक्तम् । तद्बलात्पार्ष्णिग्राहादिमालायामित्यत्रापि रूपकमेव । तदनुप्राणिता चेयमुप- मेत्यङ्गाङ्गिभावेन तयोः संकरः ॥ ९२ ॥

 अथ वि1मृश्यकरणप्रकारमाह-

  षाङ्गुण्यमुपयुञ्जीत शक्त्य2पेक्षो रसायनम् ।
  भवन्त्यस्यैवमङ्गानि स्थास्नूनि बलवन्ति च ॥ ९३ ॥

 षाङ्गुण्यमिति ॥ शक्तिं प्रभावादित्रयं, बलं चापेक्षत इति शक्त्यपेक्षः सन् । पचाद्यच् । 'शक्तिर्बले प्रभावादौ' इति विश्वः । षड्गुणा एव षाड्गुण्यं संधिविग्रहादिषट्कम् । चातुर्वर्ण्यादित्वात् स्वार्थे ष्यञ्प्रत्ययः । तदेव रसायनमौषध- विशेषमुपयुञ्जीत सेवेत । 'रसायनं विहङ्गेऽपि जराव्याधिभिदौषधे' इति विश्वः । एवं सत्यस्य प्रयोक्तुरङ्गानि स्वाम्यादीनि । 'स्वामी जनपदोऽमात्यः कोशो दुर्ग बलं सुहृत् । राज्यं सप्तप्रकृत्यङ्गं नीतिज्ञाः संप्रचक्षते ॥' इति । गात्राणि च

पाठा०-१ विमृष्य'. २ 'शक्त्यपेक्षं'. स्थास्तूनि स्थिराणि । कालान्तरक्षमाणीत्यर्थः । 'ग्लाजिस्थश्च-' (३।२।१३९) इति ग्स्नुः । बलवन्ति च परपीडाक्षमाणि च भवन्ति । श्लिष्टपरम्परितरूपकम् ॥ ९३ ॥

  स्थाने शमवतां शक्त्या व्यायामे वृद्धिरङ्गिनाम् ।
  अयथावलमारम्भो निदानं क्षयसंपदः ॥९४ ॥

 स्थाने इति ॥ किंच स्थाने शक्यविषये शमवतां क्षमावतामङ्गिनां सप्ता- ङ्गिनां राज्ञां, शरीरिणां च शक्त्या प्रभावाद्यनुसारेण, बलेन च व्यायामे व्यापारे । पाहुण्यप्रयोगे गमनादौ च सतीत्यर्थः । वृद्धिपचयः । राज्यस्य, शरीरस्य चेति भावः । विपक्षे बाधकमाह-अयथाबलं शक्त्यतिक्रमेण । 'यथा सादृश्ये' (२/१/७) इत्यव्ययीभावे नञ्समासः । आरम्भो व्यायामः । क्षयसंप- दोऽत्यन्तहानेर्निदानमादिकारणम् । अङ्गानामिति भावः । तस्मादस्माकमकस्साच्चै- द्यास्कन्दनमश्रेयस्करमिति भावः । अत्र विशेषस्यापि श्लिष्टत्वाच्छब्दशक्तिमूलो वस्तुना वस्तुध्वनिः । अतो द्वयानामङ्गिनामौपम्यं च गम्यत इति संक्षेपः ॥ ९४ ॥

 फलितमाह-

  तदीशितारं चेदीनां भवांस्तमवमंस्त मा।
  निहन्त्यरीनेकपदे य उदात्तः स्वरानिव ॥ ९५ ॥

 तदिति ॥ तत्तस्मादशक्यार्थस्याकार्यत्वात्तं चेदीनामीशितारं शिशुपालं भवान् मावमंस्त नावमन्यस्व । मन्यतेर्माङि लुङ् । अनुदात्तत्वान्नेडागमः। कुतः । यश्चैद्यः उदात्तः स्वराननुदात्तानिवारीनेकपदे एकस्मिन्पदन्यासे, सुप्तिङन्तलक्षणे च निहन्ति हिनस्ति, नीचैः करोति च । अतिशूरत्वात् । 'अनुदात्तं पदमेकवर्जम्' (६।१।१५८) इति परिभाषाबलाच्चेति भावः ॥ ९५॥

 न चायमेकाकी किं नः करिष्यतीति मन्तव्यमित्याह-

  मा वेदि यदसावेको जेतव्यश्चेदिराडिति ।
  राजयक्ष्मेव रोगाणां समूहः स महीभृताम् ॥ ९६ ॥

 मा वेदीति ॥ असौ चेदिराट् एकः एकाकी अतो जेतव्यः सुजय इति मा वेदि मा ज्ञायि । वेत्तेः कर्मणि माङि लुङ् । यद्यस्मात् स चेदिराट् राज्ञश्चन्द्रस्य यक्ष्मा, राजा चासौ यक्ष्मेति वा राजयक्ष्मा क्षयरोगो रोगाणामिव महीभृतां समूहः समष्टिरूपः । तथाह वाग्भटः- 'अनेकरोगानुगतो बहुरोगपुरोगमः । राजयक्ष्मा क्षयः शोषो रोगराडिति च स्मृतः ॥ नक्षत्राणां द्विजानां च राज्ञो- ऽभूद्यदयं पुरा । यच्च राजा च यक्ष्मा च राजयक्ष्मा ततो मतः ॥' (नि० स्था० अ० ५) इति । अतो दुर्जेय इति भावः । एतेन 'चिरस्य मित्रव्यसनी सुदमो दमघोषजः' (२/६०) इति निरस्तम् ॥ ९६ ॥

 अथास्य सर्वराजसमष्टितामेव द्वाभ्यां व्याचष्टे-

  संपादितफलस्तेन सपक्षः परभेदनः ।
  कार्मुकेणेव गुणिना बाणः संधानमेष्यति ॥ ९७ ॥

 संपादितेति ॥ संपादितं फलं लाभो, बाणाग्रं च यस्य सः । 'फलं

लाभशराग्रयोः' इति शाश्वतः । सपक्षः ससुहृत् , कङ्कादिपत्रयुतश्च परेषां भेदकः शत्रुविदारणः बाणो बाणासुरः, शरश्च । गुणिना शौर्यादिगुणवता, अधि- ज्येन च तेन चैद्येन कर्मणे प्रभवतीति कार्मुकम् । 'कर्मण उकञ्' (५।१।१०३)। तेनैव संधानं संधिमेष्यति । अतो नैकाकीति भावः । अत्राप्युपमा श्लेषो वा मतभेदात् ॥ ९७ ॥

  ये चान्ये कालयवनशाल्वरुक्मिद्रुमादयः ।
  तमःस्वभावास्तेऽप्येनं प्रदोषमनुयायिनः ॥९८॥

 ये चेति ॥ ये चोन्ये कालयवनशाल्वरुक्मिद्रुमादयो राजानस्तमःस्वभावास्त- मोगुणात्मका अत एव तेऽपि प्रदोषं प्रकृष्टदोषम् । 'प्रदोषो दुष्टरात्र्यंशौ' इति वैजयन्ती । तामसमेवैनं चैद्यमनुयायिनोऽनुयास्यन्ति । सादृश्यादिति भावः । 'भविष्यति गम्यादयः' (३।३।३) इति णिनिर्भविष्यदर्थे । 'अकेनोर्भविष्यदाध- मर्ण्ययोः' (२।३।७०) इति षष्ठीप्रतिषेधाद्वितीया । यथा ध्वान्तं रजनीमुखमनु- याति तद्वदिति वस्तुनाऽलंकारध्वनिः ॥ ९८ ॥

 ननु बाणादयोऽस्माभिः कृतसंधाना इदानीं न विराध्यन्तीत्यत आह-

  उपजापः कृतस्तेन तानाकोपवतस्त्वयि ।
  आशु दीपयिताल्पोऽपि साग्नीनेधानिवानिलः ॥ ९९ ॥

 उपेति ॥ तेन चैद्येन कृतोऽल्पोप्युपजापो भेदः । 'भेदोपजापौ' इत्यमरः । त्वय्याकोपवतस्तान् बाणादीन् अनिलः साग्नीनेधानिन्धनानीव। 'काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित्स्त्रियाम्' इत्यमरः । आशु दीपयिता सद्यः प्रज्वलयिष्यति । दीपेर्ण्य॑न्ताल्लुट् । अन्तर्वैराः संहिताः आपदि सति रन्ध्रे सद्यो विश्लिष्यन्तीति भावः ॥ ९९ ॥

 ततः किमत आह-

  बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति ।
  संभूयाम्भोधिमभ्येति महानद्या नगापगा ॥१०० ॥

 बृहदिति ॥ बृहत्सहायो महासहायवान् क्षोदीयान् क्षुद्रतरोऽपि । 'स्थूलदूर-' (६।४।९५६) इत्यादिना यणादिपरलोपः पूर्वगुणश्च । कार्यस्यान्तं पारं गच्छति । तथा हि-अपां समूह आपम् । 'तस्य समूहः' (४।२।३७) इत्यण् । तेन गच्छती- त्यापगा नगापगा गिरिनदी महानद्या गङ्गादिकया संभूय मिलित्वाऽम्भोधिमभ्येति । क्षुद्रोऽप्येवं तादृक् । महावीरश्चैद्यस्तु किमु वक्तव्य इत्यपिशब्दार्थः । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ १०० ॥

 किंच न केवलं शत्रोरसाध्यत्वं मित्रविरोधश्चाधिकोऽनर्थकर इत्याह-

  तस्य मित्राण्यमित्रास्ते ये 1च ये चोभये नृपाः ।
  अभियुक्तं त्वयैनं ते गन्तारस्त्वामतः परे ॥ १०१॥

पाठा०-१ 'ये चान्ये चो".  तस्येत्यादिद्वयेन ॥ ये च तस्य चैद्यस्य मित्राणि नृपाः, ये च ते तवामित्रा नृपास्त उभये त्वयाभियुक्तमभियातमेनं चैद्यं गन्तारो गमिष्यन्ति । गमेः कर्तरि लुट् । अतः परे उक्तोभयव्यतिरिक्ताः तव मित्राणि तस्यामित्राश्वेत्यर्थः । त्वां गन्तारः॥ १०१॥

 ततः किमत आह-

  मख विघ्नाय सकलमित्थमुत्थाप्य राजकम् ।
  हन्त जातमजातारेः प्रथमेन त्वयारिणा ॥ १०२॥

 मखेति ॥ इत्थमनेन प्रकारेण । 'इदमस्थमुः' (५।३।२४) इति थमुप्रत्ययः । मखविघ्नाय मखविघाताय सकलं राजकं राजसमूहम् । 'गोत्रोक्ष- (४।२।३९) इत्यादिना वुञ् । उत्थाप्य क्षोभयित्वा । हन्त इति खेदे । अजातारेरजातशत्रोर्युधि- ष्ठिरस्य त्वया प्रथमेनारिणा जातमजनि । नपुंसके भावे क्तः ॥ १०२ ॥

 अस्तु सोऽपि शत्रुः, को दोषस्तत्राह-

  संभाव्य त्वामतिभरक्षमस्कन्धं स1 बान्धवः ।
  सहायमध्वरधुरां धर्मराजो विवक्षते ॥ १०३ ॥

 संभाव्येति ॥ बन्धुरेव बान्धवः स धर्मराजः अतिभरस्य क्षमः स्कन्धो यस्य स तम् । समानस्कन्धमित्यर्थः । त्वां सहायं संभाव्याभिसंधाय । अध्वरस्य धुरमध्वरधुराम् । 'ऋक्पूर्-' (५।4/७४) इत्यादिना समासान्तोऽच्प्रत्ययः । समासान्तानां प्रकृतिलिङ्गत्वात्तत्पुरुषे परवल्लिङ्गत्वे टाप् । विवक्षते वोढुमिच्छति । वहतेः स्वरितेतः सन्नन्ताल्लट् । तथा हि-विरोधे विश्वासघातो, बन्धुद्रोहश्च स्यातामिति भावः । विशेषणसाम्यात् प्रस्तुतयागधर्मप्रतीतेः समासोक्तिः ॥१०३॥ ननु प्रतिश्रुत्याकरणे दोषः प्रागेव, परिहारे तु को दोष इत्यत आह-

  महात्मानोऽनुगृह्णन्ति भजमानात्रिपूनपि ।
  सपत्नीः प्रापयन्त्यब्धिं सिन्धवो नगनिम्नगाः॥ १०४ ॥

 महात्मान इति ॥ महात्मानो नि2ग्रहानुग्रहसमर्था भजमानान् शरणागतान् रिपूनप्यनुगृह्णन्ति । किमुत बन्धूनिति भावः । अर्थान्तरं न्यस्यति- सिन्धवो महानद्यः समान एकः पतिर्यासां ताः सपत्नीः । 'नित्यं सपत्यादिषु' (४।१।३५) इति ङीप् नकारश्च । नगनिम्नगा गिरिनिर्झरिणीरब्धिं प्रापयन्ति । स्वसौभाग्यं ताभ्यः प्रयच्छन्तीति भावः । अतः परिहारेऽप्यनर्थ इति भावः ॥ १०४ ॥

 तर्हि संप्रत्युपेक्षायामपि पश्चात्प्रार्थनया पार्थमार्जवयेयमित्यत आह-

  चिरादपि बलात्कारो बलिनः सिद्धयेऽरिषु ।
  छन्दानुवृत्तिदुःसाध्याः सुहृदो विमनीकृताः ॥ १०५ ॥

पाठा०-१ 'सुबान्धवः'. २ 'निग्रहानुग्रहसमर्था' इति क्वचिन्न लभ्यते.  चिरादिति ॥ बलिनः स्वयं बलवतोऽप्यरिषु विषये बलात्कारो दण्डः, चिरात् चिरकालेनापि । सद्यो मा भूदिति भावः । सिद्धये वशंवदत्वसिद्धये । भवतीति शेषः । अविमनसो विमनसः संपद्यमानाः कृता विमनीकृताः । वैमनस्यं प्रापिता इत्यर्थः । 'अरुर्मनश्चक्षुश्चेतोरहोरजसा लोपश्च' (५।४।५१) इति च्विप्रत्ययसलोपौ। 'अस्य च्वॉ' (७।४।३२) इतीकारः । शोभनं हृदयं येषां ते सुहृदो मित्राणि तु । 'सुहृदुहृदो मित्रामित्रयोः' (५।४।१५०) इति निपातः । छन्दस्याभिप्रायस्यानुवृत्त्या चित्तानुरोधेनापि दुःसाध्याः । आर्जवयितुमशक्या इत्यर्थः । 'अभिप्रायश्छन्द आशयः' इत्यमरः । शनैः शत्रुर्दण्डेनापि वशो भवति, मित्रं वैमनस्येन साम्नापीति भावः ॥ १०५ ॥

 ननु सुहृत्कार्यात्सुरकार्यं बलीय' इत्यत्राह-

  मन्यसेऽरिवधः श्रेयान् प्रीतये नाकिनामिति ।
  पुरोडाशभुजामिष्टमिष्टं कर्तुमलंतराम् ॥ १०६ ॥

 मन्यस इति ॥ नाकिनां देवानां प्रीतयेऽरिवधः श्रेयान् प्रशस्ततरः । 'प्रशस्यस्य श्रः' (५।३।६०) इति श्रादेशः । इति मन्यसे चेत्तर्हि पुरोडाशभुजां हविर्भोजिनाम् । अत एव नाकिनामिष्टमभीप्सितं कर्तुम् । इषेः कर्मणि क्तः । इष्टं इष्टिः । याग इति यावत् । यजेर्भावे क्तः । 'वचिस्वपि-' (६।१।१५) इत्यादिना संप्रसारणम् । अलंतरामतिपर्याप्तम् । अव्ययादामुप्रत्ययः । शत्रुवधादतिप्रियकरो याग एव, नाकिनां भुक्त्वापि शत्रुवधस्य सुकरत्वादिति भावः ॥ १०६ ॥

 तथाप्यमृताशिनां तेषां देवानां किमेभिः पिष्टभक्षणप्रलोभनैरत आह-

  अमृतं नाम यत्सन्तो मन्त्रजिह्वेषु जुह्वति ।
  शोभैव मन्दरक्षुब्धक्षुभिताम्भोधिवर्णना ॥ १०७ ॥

 अमृतमिति ॥ अमृतं नाम सन्तो विद्वांसः मन्त्रा एव जिह्वा येषां तेषु मन्त्रजिह्वेष्वग्निषु । 'मन्त्रजिह्वः सप्तजिह्वः सुजिह्वो हव्यवाहनः' इति वैजयन्ती । यत्पुरोडाशादिकं जुह्वति, तदेवेति शेषः । यत्तदोर्नित्यसंबन्धात् । मन्दर एव क्षुब्धो मन्थनदण्डः । 'क्षुब्धस्वान्त-' (७।२।१८) इत्यादिनास्मिन्नर्थे निपातनात् सिद्धम् । तेन क्षुभितस्य मथितस्याम्भोधेवर्णना शोभैवालंकार एव । अब्धिमन्थनेनामृतमुत्पादितमिति यतः कीर्तिमात्रम्, अतो हुतमेवामृतमिति भावः । वाक्यार्थयोर्हेतुहेतुमद्भावाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः ॥ १०७ ॥

 यात्रायाः प्रतिबन्धः कश्चिद्दुस्तरस्तवास्तीत्याह-

  सहिष्ये शतमागांसि सूनोस्त इति यत्त्वया ।
  प्रतीक्ष्यं तत्प्रतीक्ष्यायै पितृष्वस्रे प्रतिश्रुतम् ॥ १०८ ॥

 सहिष्य इति ॥ प्रतीक्ष्यायै पूज्यायै । 'पूज्यः प्रतीक्ष्यः' इत्यमरः । पितृष्वस्रे पितृभगिन्यै । 'विभाषा स्वसृपत्योः' (६।३।२४) इति विकल्पादलुगभावः । 'मातृपितृभ्यां स्वसा' (८३३।८४) इति षत्वम् । ते तव सूनोः शतमागांस्यपराधान् । 'आगोऽपराधो मन्तुश्च' इत्यमरः । सहिष्ये सोढाहे इति यत्त्वया प्रतिश्रुतं

पाठा०-१ 'नाकिनामपि'. २ °त्तरप्प्रत्यय आम्बागमश्च'. प्रतिज्ञातं तत्प्रतीक्ष्यं प्रतिपालनीयम् । अन्यथा महादोषस्मरणादिति भावः ॥१०८॥

 सत्यमस्ति प्रतिश्रुतं, किंत्वस्योन्मत्तत्वादौद्धत्यात्तदपि जिहासितमत आह-

  तीक्ष्णा नारुन्तुदा बुद्धिः कर्म शान्तं प्रतापवत् ।
  नोपतापि मनः सोष्म वागेका वाग्मिनः सतः॥१०९ ॥

 तीक्ष्णेति ॥ सतः सत्पुरुषस्य बुद्धिस्तीक्ष्णा निशिता स्यादिति विद्धीत्यध्याहारः । एवमुत्तरत्रापि । तथाप्यरुस्तुदतीत्यरुन्तुदा शस्त्रवन्मर्मच्छेदिनी न भवेत् । अहिंसयैव परं पीडयेदित्यर्थः । कर्म व्यापारः प्रतापवत्तेजस्वि भयदं स्यात्,तथापि शान्तं स्यात् । न तु सिंहादिवद्धिस्रं भवेदित्यर्थः । मनश्चित्तं सोष्म अभिमानोष्णं स्यात्तथापि उपतापयतीत्युपतापि । अग्यादिवत् परसन्तापि न स्यात् । वाग्मिनो वक्तुर्वागेका एकरूपा स्यात् । वाग्मी सत्यमेव वदेदित्यर्थः । अतः सत्यसन्धस्य प्रतिश्रुतार्थहानिरनर्हेति भावः । अत्र प्रकृताया वाचोऽप्रकृतानां बुद्धिकर्ममनसां च तुल्यधर्मादौपम्यावगमाद्दीपकालंकारः । 'प्रकृताप्रकृतानां च साम्ये तु तुल्यधर्मतः । औपम्यं गम्यते यत्र दीपकं तन्निगद्यते ॥' इति लक्षणात् । बुद्ध्यादीनां शस्त्रादिव्यतिरेको व्यज्यते ॥ १०९॥

 अशक्यश्चाकाले चैद्यवध इत्याह-

  स्वयंकृतप्रसादस्य तस्याहो भानुमानिव ।
  समयावधिमप्राप्य नान्तायालं भवानपि ॥ ११० ॥

स्वयमिति ॥ किंच अह्नो भानुमानिव स्वयं कृतः प्रसादोऽनुग्रहः, प्रकाशश्च यस्य तस्य चैद्यस्यान्ताय समयावधिं नियतकालावसानमप्राप्य भवानपि नालं शक्तो न । तथा च वृथापकीर्तिरेव । अन्यन्न किंचित्फलं स्यादिति भावः ॥११०॥

 तर्हि किमयमुपेक्ष्य एव, नेत्याह-

  कृत्वा कृत्यविदस्तीर्थेष्वन्तः प्रणिधयः पदम् ।
  विदांकुर्वन्तु महतस्तलं विद्विषदम्भसः ॥१११ ॥

 कृत्वेति ॥ किंतु कृत्यविदः कार्यज्ञाः, विधिज्ञाश्च प्रणिधीयन्त इति प्रणिधयो गूढचारिणः । 'प्रणिधिर्गूढपुरुषः' इति हलायुधः । तरन्त्येभिरिति तीर्थानि मन्त्राद्यष्टादश स्थानानि, जलावताराश्च । 'योनौ जलावतारे च मन्त्राद्यष्टादशस्वपि । पुण्यक्षेत्रे तथा पार्थे तीर्थं स्यात्' इति हलायुधः । तेष्वन्तः पदं स्थानं,पादप्रक्षेपं च कृत्वा महतो दुरवगाहस्य, पूज्यस्य च विद्विषन् शत्रूरेवाम्भस्तस्य तलं स्वरूपम् । प्रमाणमिति यावत् । 'अधःस्वरूपयोरस्त्री तलम्' इत्यमरः । विदांकुर्वन्तु विदन्तु । 'विद ज्ञाने' लोट् । 'विदांकुर्वन्त्वित्यन्यतरस्याम्' (३।१।४१) इति विकल्पादाम्प्रत्ययनिपातः । अम्भस इव शत्रोः कृततीर्थस्य सुप्रवेशत्वात् प्रागन्तः प्रविश्य परीक्ष्येत्यर्थः । श्लिष्टपरम्परितरूपकम् ॥ १११ ॥

पाठा०-१ 'तीर्थैरन्तः'.  आवश्यकं चैतदित्याह-

  अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना ।
  शब्दविद्येव नो भाति राजनीतिरपस्पशा ॥ ११२॥

 अनुदिति ॥ उत्सूत्र उच्छास्त्रो नीतिशास्त्रविरुद्धः पदन्यासः एकपदप्रक्षेपोऽपि । स्वल्पव्यवहारोऽपीति यावत् । स नास्ति यस्यां सा अनुत्सूत्रपदन्यासा । नीतिपूर्वकसर्वव्यवहारेत्यर्थः । अन्यत्रानुत्सूत्रपदन्यासा अनुत्सृष्टसूत्राक्षरः इष्ट्युपसंख्याननैरपेक्ष्येण सूत्राक्षरैरेव सर्वार्थप्रतिपादको न्यासो वृत्तिव्याख्यानग्रन्थविशेषो यस्यां सा तथोक्ता । तथा सती यथार्थं कल्पनया शोभना वृत्तिर्भृत्यामात्यादीनामाजीविका यस्यां सा सद्वृत्तिः, अन्यत्र सती वृत्तिः काशिकाख्यसूत्रव्याख्यानग्रन्थविशेषो यस्यां सा । 'वृत्तिर्ग्रन्थजीवनयोः' इति वैजयन्ती । सन्ति निबन्धनान्यनुजीव्यादीनां क्रियावसानेषु दत्तानि गोहिरण्यादिशाश्वतपारितोषिकदानानि यस्यां सा । एतच्च ‘दत्त्वा भूमिनिबन्धनं च' *इत्येतद्वचनव्याख्याने मिताक्षरायां द्रष्टव्यम् । अन्यत्र सन्निबन्धनं भाष्यग्रन्थो यस्यां सा। एवंभूतापि राजनीती राजवृत्तिः । अपगतः स्पशः चारो यस्याः सा अपस्पशा चेत् । 'यथार्थवर्णो मन्त्रज्ञः स्पशो हरक उच्यते' इति हलायुधः । अन्यत्र अविद्यमानः पस्पशः शास्त्रारम्भसमर्थक उपोद्घातसंदर्भग्रन्थो यस्याः सा अपस्पशा शब्दविद्या व्याकरणविद्येव नो भाति न शोभते । तस्माच्चारप्रेषणमावश्यकम् , तद्रहितस्य राज्ञोऽन्धप्रायत्वादिति भावः । अत्रापस्पशेत्यत्र जतुकाष्ठवच्छब्दयोरेव श्लिष्टत्वाच्छब्दश्लेषः । सद्वृत्तिः सन्निबन्धनेत्यत्रैकवृन्तावलम्बिफलद्वयवदर्थश्लेषः । अनुत्सूत्रपदन्यासेत्यत्र तूभयसंभवादुभयश्लेषः । शब्दविद्येवेति पूर्णोपमा व्यक्तैव । तयोः सापेक्षत्वात्संकरः ॥ ११२ ॥

 न केवलं चारमुखेन वृत्तान्तज्ञानम् , अपि तूपजापश्च कर्तव्य इत्याह-

  अज्ञातदोषैर्दोषज्ञैरुद्दूष्योभयवेतनैः ।
  भेद्याः शत्रोरभिव्यक्तशासनैः सामवायिकाः॥११३ ॥

 अज्ञातेति ॥ किंचाज्ञातदोषैः परैरज्ञातस्वकर्मभिर्दोषज्ञैः स्वयं परमर्मज्ञैरभिव्यक्तानि भेद्यस्याग्रे प्रकटितानि शासनानि तदमात्याद्यविश्वासकराणि कूटलिखितानि येषां तैः उभयवेतनैरुभयत्र भेद्ये स्वामिनि च वेतनं भृतिर्येषां तैरुभयजीविकाग्राहिभिः, भेद्यनगरवास्तव्यैश्चरैरित्यर्थः । 'भृतयो भर्म वेतनम्' इत्यमरः । शत्रोः संबन्धिनः समवायं समवयन्तीति सामवायिकाः सङ्घमुख्याः सचिवादयः । 'समवायान्समवैति' (४।४।४३) इति ठक् । उद्दूष्य द्विषामेते दत्तहस्ता अस्माभिरेषां लिखितान्येव गृहीतानीत्युच्चैर्दूषयित्वा भेद्या विघट्टनीयाः ॥ ११३ ॥

  उपेयिवांसि कर्तारः पुरीमाजातशात्रवीम् ।
  राजन्यकान्युपायज्ञैरेकार्थानि चरैस्तव ॥ ११४ ॥

 उपेयिवांसीति ॥ किंच उपायज्ञैः कार्यसाधनकुशलैस्तव चरन्तीति चरैर्गूढ-

  • [ श्लोकोऽयं 'दत्त्वा भूमिं निबन्धं वा' इति याज्ञवल्क्यस्मृतावाचाराध्याये

(श्लो० ३१८) पठ्यते ।] चारिभिः । पचाद्यच् । एकार्थानि त्वया सहैकप्रयोजनानि राजन्यानां समूहा राजन्यकानि । 'गोत्रोक्ष-(४।२।३९) इत्यादिना वुञ्। अजातशत्रोरिमामाजातशात्रवीं पुरीमिन्द्रप्रस्थमुपेयिवांसि प्राप्नुवन्ति । 'उपेयिवान्-' (३।२।१०९) इत्यादिना क्वसुप्रत्ययान्तो निपातः । कर्तारः करिष्यन्ते । कृञः कर्मणि लुट् । इन्द्रप्रस्थेऽस्माकं महत्कार्यं भविष्यति तदध्वरयात्राव्याजेन संनद्वैरागन्तव्यमिति गूढं संदिश्य तत्र सर्वे मेलयितव्या इत्यर्थः ॥ ११४ ॥

 ननु तत्रावरकर्मणि को युद्धावकाश इत्याशङ्कय तत्रैव महत्कलहबीजं संपादयति-

  सविशेषं सुते पाण्डोर्भक्तिं भवति तन्वति ।
  वैरायितारस्तरलाः स्वयं मत्सरिणः परे ॥ ११५॥

 सविशेषमिति ॥ पाण्डोः सुते युधिष्ठिरे भवति पूज्ये त्वयि सविशेषं यथा तथा भक्तिं तन्वति सति तरलाश्चपला मत्सरिणो द्वेषवन्तः परे शत्रवः स्वयमेव वैरायितारो वैरं कर्तारः। 'शब्दवैरकलह-' (३।१।१७) इत्यादिना क्यङ् । ततः कर्तरि लुट् ॥ ११५॥

 किं तेऽपि सर्वे वैरायिष्यन्ते, नेत्याह-

  य इहात्मविदो विपक्षमध्ये
   सहसंवृद्धियुजोऽपि भूभुजः स्युः ।
  बलिपुष्टकुलादिवान्यपुष्टैः
   पृथगस्मादचिरेण भाविता तैः ॥ ११६ ॥

 य इति ॥ ये इह विपक्षमध्ये शत्रुमध्ये सहसंवृद्धियुजोऽपि चैद्येन सहैश्वर्यं गता अपि 'सत्सूद्विष-' (३।२।६१) इत्यादिना क्विप् । ये भूभुजो राजान आत्मविदः स्वाभिजनवेदिनःस्युः, यद्वा स्वात्मस्वरूपवेदिनः स्युस्तैर्भूभुग्भिः बलिपुष्टकुलात् काककुलात् । 'काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः' इत्यमरः । अन्यपुष्टैः परभृतैरिवाचिरेण सद्योऽस्माद्विपक्षमध्यात् । 'अन्यारात्-' (२।३।२९) इत्यत्रान्यशब्दस्यार्थपरत्वात् पृथगादिप्रयोगेऽपि पञ्चमी । पृथग्भाविता पृथग्भविष्यते । भावे लुट् । चिण्वदिटि वृद्धिः । तेष्वपि केचिदस्माभिः संगच्छन्त इत्यर्थः । औपच्छन्दसिकं वृत्तम् ॥ ११६॥

 अथ फलितं निगमयन्नाशिषं प्रयुङ्क्ते-

  सहजचापलदोषसमुद्धतश्चलितदुर्बलपक्षपरिग्रहः ।
  तव दुरासदवीर्यविभावसौ शलभतां लभतामसुहृद्गणः॥११७॥

 सहजेति ॥ सहजं स्वाभाविकं चापलं दुर्विनीतत्वम् , अनवस्थितत्वं च । 'चपलः पारदे शीघ्रे दुर्विनीतेऽनवस्थिते' इति वैजयन्ती । तेनैव दोषेण समुद्धतो दृप्तः पक्षः सहायो, गरुच्च । 'पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु' इति वैजयन्ती । चलितोऽस्थिरो दुर्बलपक्षपरिग्रहो यस्य स असुहृद्गणः शत्रुवर्गस्तव दुरासदवीर्यविभावसौ दुःसहतेजोवह्नौ । 'वीर्यं शुक्रे प्रभावे च तेजःसामर्थ्ययोरपि', 'सूर्यवह्नी । विभावसू' इति विश्वामरौ । शलभतां पतङ्गत्वम् । 'समौ पतङ्गशलभौ' इत्यमरः । भावे तल् । लभतां गच्छतु । रूपकालंकारः । द्रुतविलम्बितं वृत्तम् ॥११७॥

  इति विशकलितार्थामौद्धवीं वाचमेना-
   मनुगतनयमार्गामर्गलां दुर्नयस्य ।
  जनितमुदमुदस्थादुच्चकैरुच्छ्रितोरः ।
   स्थलनियतनिषण्णश्रीश्रुतां शुश्रुवान् सः॥ ११८ ॥

इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्र्यङ्के
मन्त्रवर्णनं नाम द्वितीयः सर्गः ॥२॥

 इतीति ॥ स हरिरित्थं विशकलितार्थां विवेचितार्थामनुगतनयमार्गां नीतिमार्गानुसारिणीं दुर्नयस्य । बलभद्राद्युक्तस्येत्यर्थः । अर्गलां निवारयित्रीमिति वैधर्म्येण रूपकालंकारः । 'तद्विष्कम्भोऽर्गलं न ना' इत्यमरः । अत एव जनितमुदं हरेः कृतानन्दाम् । उच्छ्रित उन्नते उरःस्थले नियतं निषण्णया अविश्रान्तमाश्रितया श्रिया श्रुतां नान्ययेति मन्त्रगुप्तिः । उद्धवस्येमामौद्धवीमेनां पूर्वोक्तांं वाचं शुश्रुवान् श्रुतवान् । 'भाषायां सदवसश्रुवः' (३।२।१०८) इति क्वसुः । उच्चैरेवोच्चकैरुन्नतः सन् । 'अव्ययसर्वनाम्नामकच् प्राक्टेः' (५।३।७१) इत्यकच्प्रत्ययः । उदस्थात् आसनादुत्थितवान् । 'उदोऽनूर्ध्वकर्मणि' (१॥३॥२४) इत्यस्य प्रत्युदाहरणमेतत् । रूपकानुप्रासालंकारौ । मालिनी वृत्तम् ॥ ११८ ॥

इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध-
काव्यव्याख्याने सर्वंकषाख्ये द्वितीयः सर्गः ॥२॥