शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)/पञ्चमः सर्गः(सेनानिवेशनम्)

← चतुर्थः सर्गः(रैवतकवर्णनम्) शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)
पञ्चमः सर्गः(सेनानिवेशनम्)
माघः
षष्ठः सर्गः(ऋतुवर्णनम्) →


पञ्चमः सर्गः ।

  इत्थं गिरः प्रियतमा इव सोऽव्यलीकाः
   शुश्राव सूततनयस्य तदा व्यलीकाः ।
  रन्तुं निरन्तरमियेष ततोऽवसाने
   तासां गिरौ च वनराजिपटं वसाने ॥१॥

 इत्थमिति ॥ स हरिरित्थमनेन प्रकारेण । 'इदमस्थमुः' (५।३।२४) इति थमुप्रत्ययः । अव्यलीका अप्रियरहिताः । 'व्यलीकं त्वप्रियेऽनृते' इत्यमरः । प्रियतमाः प्रेयस्य इव स्थिताः । कान्तासंमिता इत्यर्थः । व्यलीका विगतानृताः सत्यः सूततनयस्य सारथिकुमारस्य दारुकस्य गिरः तदा शुश्राव । ततः श्रवणानन्तरं तासां गिरामवसाने समाप्तौ निरन्तरं नीरन्धं वनराजिरेव पटस्तं वसाने आच्छादयति । 'वस आच्छादने' इति धातोः कर्तरि लटः शानजादेशः । गिरौ रैवतकाद्रौ रन्तुं क्रीडितुमियेष । तत्र वसतिं कर्तुमिच्छति स्मेत्यर्थः । उपमायमकयोः संसृष्टिः । सर्गेऽस्मिन्वसन्ततिलका वृत्तम् । 'उक्ता वसन्ततिलका तभजा जगौ गः' इति ॥१॥

  तं स
   द्विपेन्द्रतुलितातुलतुङ्गशृङ्गमभ्युल्लसत्कदलिकावनराजिमुच्चैः ।
  विस्ताररुद्धवसुधोऽन्वचलं चचाल
   लक्ष्मीं दधत्प्रतिगिरेरलघुर्बलौघः ॥२॥

 तमिति ॥ कदल्य एव कदलिकाः वैजयन्त्यो रम्भातरवश्च । 'कदली वैजयन्त्यां च रम्भायां हरिणान्तरे' इति विश्वः । अभ्युल्लसन्त्यः कदल्यो वैजयन्त्यो वनराजय इव यस्य सः, अन्यत्र रम्भावनपङ्क्तयो यस्य तमिति योज्यम् । उच्चैरुन्नतः विस्तारेण रुद्धवसुधो व्याप्तभूमिः । अत एव प्रतिगिरेलक्ष्मीं दधत् । स्वयमप्यन्यो गिरिरिव स्थित इत्यर्थः । अलधुर्महान् स बलौघः सेनासङ्घो द्विपेन्द्रैस्तुलितान्यतुलान्यप्रतिमानि द्विपेन्द्रव्यतिरिक्तप्रतिमारहितान्युत्तुङ्गशृङ्गाणि यस्य तं तथोक्तमन्वचलं रैवतकमनु चचाल । तं प्रति ययावित्यर्थः । 'अनुर्लक्षणे' (१।४।८४) इति कर्मप्रवचनीयत्वात्तद्योगे द्वितीया । अत्र प्रतिगिरेः कस्यचिदप्रसिद्धत्वात् गिरिधर्मयोगी बलौघः प्रतिगिरेर्लक्ष्मीमिव लक्ष्मीं दधातीति निदर्शनामुखेन प्रतियोगित्वेनोत्प्रेक्ष्यते इत्युत्प्रेक्षैवेयं श्लेषानुप्राणितेति संकरः ॥ २ ॥

  भास्वत्करव्यतिकरोल्लसिताम्बरान्ताः
   सापत्रपा इव महाजनदर्शनेन ।
  संविव्युरम्बरविकाशि चमूसमुत्थं
   पृथ्वीरजः करभकण्ठकडारमाशाः ॥३॥

 भास्वदिति ॥आशा दिशो भास्वत्करव्यतिकरेण सूर्यांशुव्याप्त्या उल्लसिताम्बरान्ताः प्रकाशिताकाशदेशाः । अन्यत्र भास्वान् भास्वरोऽभिरूपः । 'भास्वान् भास्वरसूर्ययोः' इति विश्वः । तस्य हस्तस्य स्पर्शनेनोल्लसिताम्बरान्ताः स्रस्तवस्त्राञ्चलाः अत एव महाजनदर्शनेन सापत्रपा इव । 'लज्जा सापत्रपान्यतः' इत्यमरः । अम्बरविकाशि व्योमव्यापि, वासश्शोभि च । 'अम्बरं व्योमवाससोः' इति विश्वः । चमूषु समुत्थं करभ उष्ट्रपोतः । 'उष्ट्रे क्रमेलकमयमहाङ्गाः करभः शिशुः' इत्यमरः । तस्य कण्ठ इव कडारं कपिशम् । 'कडारः कपिशः पिङ्गः' इत्यमरः । पृथ्वीरजः संविव्युः संवत्रुः । आच्छादयामासुरित्यर्थः । 'व्येञ् संवरणे' लिट् । कित्त्वात्संप्रसारणे द्विर्भावः । 'एरनेकाचो-' (६।४।८२) इति यणादेशः । स्त्रियो वस्त्रापहारे लज्जया यत्किंचिदाच्छादयन्तीति भावः । अत्राचेतनास्वाशासु श्लिष्टविशेषणमहिम्ना स्त्रीप्रतीतौ तदभेदाध्यवसायेन संव्यानव्यवहारसमारोपात् समासोक्तिः । सा च सापत्रपत्वोत्प्रेक्षानुप्राणितेति संकरः ॥ ३॥

  आवर्तिनः शुभफलप्रदशुक्तियुक्ताः
   संपन्नदेवमणयो भृतरन्ध्रभागाः ।
  अश्वाः प्यधुर्वसुमतीमतिरोचमानास्तूर्णं
   पयोधय इवोर्मिभिरापतन्तः ॥४॥

 आवर्तिन इति ॥ आवर्तिनो दशावर्तवन्तः । 'प्रशंसायाम्-' (५।३।६६) इति णिनिः । ते च 'द्वावुरस्यौ शिरस्यौ द्वौ द्वौ द्वौ रन्ध्रोपरन्ध्रयोः । एको भाले ह्यपाने च दशावर्ता ध्रुवाः स्मृताः॥' इत्युक्ता दश ध्रुवाख्या विवक्षिताः । अन्येषामनन्तरमेव पृथगभिधानात् । अन्यत्र तु जलभ्रमवन्तः । 'स्यादावर्तोऽम्भसां भ्रमः' इत्यमरः । रोमसंस्थाने तु तत्साम्याव्द्यपदेशः । तदुक्तम्-'आवर्तसाम्यादावर्तो रोमसंस्थानमङ्गिनाम्' इति । शुभफलानि राज्यलाभादीनि प्रददतीति शुभफलप्रदाः । 'प्रे दाज्ञः' (३।२।६) इति कः । ताभिः शुक्तिभिः संस्थानैरावर्तविशेषैर्युक्ताः । तदुक्तम्- 'वक्षःस्थाः शुक्तयस्तिस्र ऊर्ध्वरोमा जयावहाः' इति । अन्यत्र शुभफलानि मुक्ताफलानि तत्प्रदाः शुक्तयो मुक्तास्फोटाः ताभिर्युक्ताः । 'मुक्तास्फोटे हयावर्ते शुक्तिः शङ्खकपालयोः' इति यादवः । संपन्नाः समग्रा देवमणयो निगालावर्ताः, कौस्तुभादिदिव्यमणयश्च येषां ते 'आवर्तो रोमजो देवमणिस्त्वेष निगालजः। निगालस्तु गलोद्देशे सकृत्' इति वैजयन्ती । भृताः पूर्णा रन्ध्रभागाः पार्श्वदेशाः, निम्नप्रदेशाश्च येषां ते । अतिशयिता रोचमानाः कण्ठावर्ता येषां तेऽतिरोचमानाः । कण्ठजो रोचमानश्च स्वामिसौभाग्यवर्धनः' इति वैजयन्ती । अन्यत्र त्वत्यन्तं दीप्यमाना इत्यर्थः । ऊर्मिभिर्गतिविशेषैर्वीचिभिश्च आपतन्त आधावन्तः । 'पङ्क्तीकृतानामश्वानां नमनोन्नमनाकृतिः । अतिवेगसमायुक्तो गतिरूर्मिरुदाहृता ॥' इति वैजयन्ती । ईदृशोऽश्वाः पयोधय इव तूर्णं वसुमतीं प्यधुः छादयन्ति स्म । 'अपिधानतिरोधानपिधानाच्छादनानि च' इत्यमरः । अपिपूर्वाद्दधातेर्लुङ् । 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इत्यकारलोपः । एकनालावलम्बिफलद्वयवदेकशब्देनार्थद्वयप्रतीतेरर्थश्लेषोऽयं प्रकृताप्रकृतगोचरः । उपमा त्वङ्गमिति संकरः ॥४॥

  आरक्षमग्नमवमत्य सृणिं
   शिताग्रमेकः पलायत जवेन कृतार्तनादः ।
  अन्यः पुनर्मुहुरुदप्लवतास्तभारमन्योन्यतः
   पथि बताबिभितामिभोष्ट्रौ ॥५॥

 आरक्षेति ॥ पथि मार्गे इभोष्ट्रावन्योन्यतोऽन्योन्यस्मादबिभितां भीतवन्तौ । 'ञिभी भये' लङ् । 'भियोऽन्यतरस्याम्' (६।४।११५) इतीत्वम् । बतेत्यनयोरपि भीतिरिति खेदेऽतिविस्मये वा। 'खेदानुकम्पासंतोषविस्मयामन्त्रणे बत' इत्यमरः । तत्र लिङ्गमाह-एक इभ आरक्षः कुम्भयोरधःप्रदेशस्तत्र मग्नं प्रविष्टं शिताग्रं तीक्ष्णमुखं सृणिमङ्कुशम् । 'अङ्कुशोऽस्त्री सृणिर्द्वयोः' इत्यमरः । अवमत्यावधूय कृत आर्तनादो येन सः। अतिकरुणं क्रन्दन्नित्यर्थः । जवेन पलायत पलायितवान् । परापूर्वादयतेर्लुङ् । 'उपसर्गस्यायतौ' (८।२।१९) इति रेफस्य लत्वम् । अन्यः पुनरुष्ट्रस्तु अस्तभारं निरस्तभारं यथा तथा मुहुरुदप्लवतोत्प्लवितवान् । 'प्लु गतौ' इति लङ् । स्वभावोक्तिः ॥ ५॥

  आयस्तमैक्षत जनश्चटुलाग्रपादं
   गच्छन्तमुच्चलितचामरचारुमश्वम् ।
  नागं पुनर्मृदु सलीलनिमीलिताक्षं
   सर्वः प्रियः खलु भवत्यनुरूपचेष्टः॥६॥

 आयस्तमिति ॥ जनश्चटुलाग्रपादं चञ्चलपूर्वचरणं यथा तथा गच्छन्तम् । शीघ्रं धावन्तमित्यर्थः। उच्चलितैरुल्लसितैश्चामरैश्चारुमश्वमायस्तं सयत्नमाहृतं यथा तथा । 'यसु प्रयत्ने' कर्तरि क्तः । क्लान्तं क्रियाविशेषणम् । ऐक्षत ईक्षितवान् । ईक्षतेर्लङ् 'आडजादीनाम्' (६।४।७२) 'आटश्च' (६।१।९०) इति वृद्धिः । नागं पुनर्गजं तं सलीलं निमीलिते अक्षिणी यस्मिन्कर्मणि तत् । 'बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्' (५।४।११३) मृदु मन्दं गच्छन्तमायस्तमैक्षत । कथं शीघ्रमन्दयोस्तुल्यदृष्टिरत आह-सर्वः प्राणी अनुरूपचेष्टः स्वजात्युचितव्यापारः सन् प्रीणातीति प्रियः प्रीतिकरो भवति खलु । 'इगुपधज्ञाप्री-' (३।१।१३५) इति कर्तरि क्तः । अर्थान्तरन्यासः ॥ ६ ॥

  त्रस्तः समस्तजनहासकरः
   करेणोस्तावत्खरः प्रखरमुल्ललयांचकार ।
  यावच्चलासनविलोलनितम्बबिम्बविस्त्रस्तवस्त्रमवरोधवधूः
   पपात ॥७॥

 त्रस्त इति ॥ करेणोरिभ्याः । 'करेणुरिभ्यां स्त्री नेभे' इत्यमरः । 'भीत्रार्थानां भयहेतुः' (१।४।२५) इत्यपादानत्वम् । त्रस्तो भीत: खरो गर्दभः समस्तजनस्य हासं करोतीति तत्करः सन् । 'कृञो हेतु-' (३।२।२०) इत्यादिना टप्रत्ययः । तावत्तदवधि प्रखरं भृशमुल्ललयांचकार उत्पपात । यावत् चलात् स्थानचलितादासनात् पल्ययनात् विलोलोऽपसृतस्तस्मान्नितम्बबिम्बाद्विस्रस्तं वस्त्रं यस्मिन्कर्मणि तद्यथा तथा अवरोधवधूः पपात । स्वभावोक्तिः ॥ ७ ॥

  शैलोपशल्यनिपतद्रथनेमिधारा-
   निष्पिष्टनिष्ठुरशिलातलचूर्णगर्भाः।
  भूरेणवो नभसि नद्धपयोदचक्रा-
   श्चक्रीवदङ्गरुहधूम्ररुचो विस्स्रुः॥८॥

 शैलेति ॥ शैलस्य रैवतकाद्रेपशल्यं प्रान्तम् । यद्यपि 'ग्रामान्त उपशल्यं स्यात्' इत्यमरः, तथाप्युपचाराददोषः । तत्र निपततां धावतां रथानां नेमयः चक्रान्ताः । 'चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान्' इत्यमरः । तासां धाराभिर्निष्पिष्टानां चूर्णितानां निष्ठुरशिलातलानां चूर्णो गर्भे येषां ते तथोक्ताः । नभसि नद्धानि पयोदचक्राणि पयोदाकारमण्डलानि यैस्ते चक्रवद्भ्रमणमस्यास्तीति चक्रीवान् गर्दभः । 'चक्रीवन्तस्तु बालेया रासभा गर्दभाः खराः' इत्यमरः । 'आसन्दीवदष्टीवच्चक्रीवत्-' ( ८।२।१२) इत्यादिना साधुः । तस्याङ्गरुहाणि रोमाणि तद्वद्धूम्ररुचो कृष्णलोहितवर्णाः । 'धूम्रधूमलौ कृष्णलोहिते' इत्यमरः । भूरेणवो विसस्त्रुः प्रसृताः ॥ ८॥

  उद्यत्कृशानुशकलेषु
   खुराभिघाताभ्दूमीसमायतशिलाफलकाचितेषु ।
  पर्यन्तवर्त्मसु विचक्रमिरे महाश्वाः
   शैलस्य दर्दुरपुटानिव वादयन्तः ॥९॥

 उद्यदिति ॥ खुराः शफानि । 'शफं क्लीवे खुरः पुमान्' इत्यमरः । तेषामभिघातादुद्यन्तः कृशानुशकलाः स्फुलिङ्गा येभ्यस्तेषु । टङ्कप्रायाः खुरा इति भावः । भूम्यां समानि समतलान्यायतानि च यानि शिलाः फलकानीव शिलाफलकानि तैराचितेष्वास्तृतेषु शैलस्य पर्यन्तवर्त्मसु प्रान्तमार्गेषु महाश्वा दर्दुराणां वाद्यविशेषाणां पुटान् मुखानि वादयन्त इव विचक्रमिरे जग्मुः । पादन्यासैस्तादृशं शब्दमकुर्वन्नित्यर्थः । 'वेः पादविहरणे' (१।३।४१) इत्यात्मनेपदम् । 'दर्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः' इत्यमरः । उत्प्रेक्षालंकारः ॥ ९ ॥

  तेजोनिरोधसमतावहितेन यन्त्रा
   सम्यक्कशात्रयविचारवता नियुक्तः।
  आरट्टजश्चटुलनिष्ठुरपातमुच्चैश्चित्रं
   चकार पदमर्धपुलायितेन ॥१०॥

 तेज इति ॥ तेजो नाम दर्पापरनामा सत्त्वगुणविकारः प्रकाशकोऽन्तःसारविशेषः । यथाह भोजराजः-'तेजो निसर्गजं सत्त्वं वाजिनां स्फुरणं रजः । क्रोधस्तम इति ज्ञेयास्त्रयोऽपि सहजा गुणाः ॥' इति । तच्च द्विविधं सततोत्थितं भयोत्थितं चेति । यथाह स एव-'धारासु योजितानां च निसर्गात्प्रेरणं बिना। अविच्छिन्नमिवाभाति तत्तेजः सततोत्थितम् ॥ कशापादादिघातैर्यत्साध्वसात्स्फुरितं तु तत् ॥' इति । अत्र तेजःशब्देन तत्कार्यं वेगो लक्ष्यते । तथा च तेजसि वेगे निरोधे तन्निवारणे समतायां वेगसाम्ये चावहितेन । वल्गाविभागकुशलेनेत्यर्थः । कशा ताडनी । 'अश्वादेस्ताडनी कशा' इत्यमरः । अत्र कशाः कशाघातास्तासां त्रयमुत्तममध्यमाधमेषु यथासंख्यं मृदुसमनिष्ठुरसकृद्द्वित्रिरूपं त्रितयं तस्य विचारः । एतेषु निमित्तेष्वङ्गेष्वेवं ताड्य इति विमर्शः । तद्वता तज्ज्ञेन । यथाह भोजः-'मृदुनैकेन घातेन दण्डकालेषु ताडयेत् । तीक्ष्णं मध्यं पुनर्द्वाभ्यां जघन्यं निष्ठुरैस्त्रिभिः । उपवेशेऽथ निद्रायां स्खलिते दुष्टचेष्टिते । वडवालोकनौत्सुक्ये बहुगर्वितहेषिते ॥ संत्रासे च दुरुत्थाने विमार्गगमने भये । शिक्षात्यागस्य समये संजाते चित्तविभ्रमे ॥ दण्डः प्रयोज्यो वाहानां कालेषु द्वादशस्वपि । ग्रीवायां भीतमाहन्यात्रस्तं चैव च वाजिनम् ॥ विभ्रान्तचित्तमधरे त्यक्तशिक्षं च ताडयेत् । प्रहेषितं स्कन्धबाह्वोर्वडवालोकितं तथा ॥ उपवेशे च निद्रायां कटिदेशे च ताडयेत् । दुश्चेष्टितं मुखे हन्यादुन्मार्गप्रस्थितं तथा ॥ जघने स्खलितं हन्यान्नेत्रमार्गे दुरुत्थितम् । यः कुण्ठप्रकृतिर्वाजी तं सर्वत्रैव ताडयेत् ॥' इति । एवंभूतेन यन्त्रा सादिना सम्यग्यथाशास्त्रं नियुक्त ईरितः उच्चैरुन्नत आरट्टोऽश्वयोनिदेशविशेषः तज्जोऽश्व आरट्टजः । विशेषणमात्रप्रयोगे सागराम्बरादिवत्तावतैव विशेष्यप्रतीतेरित्याह वामनः । विशेषणप्रयोगो विशेष्यप्रतिपत्ताविति । चटुलश्चपलो निष्ठुरः परुषश्च पातः प्रक्षेपो यस्मिन्कर्मणि तद्यथा तथा । अर्धपुलायितेन मण्डलगतिविशेषेण चित्रमभ्दुतं पदं पदक्रमं चकार । 'शतार्धार्धक्रमादूनैर्मण्डलायितवलिगतैः । उन्मुखस्याश्वमुख्यस्य गतिरर्धपुलायितम् ॥' इति लक्षणात् । पुला नाम प्लुताद्यनेकापरनामा हयानां गतिविशेषः । तदुक्तं हयलीलावत्याम्-'प्लुतां प्लवङ्गितामाहुर्या धारा पुलनाभिधा । पुनरेनां रलोपान्तां पुलामित्याह देशिकः ॥' तल्लक्षणं च तत्रैवोक्तम्-'क्षिपति समविशेषानुत्क्षिपत्यग्रपादान् प्रसरति पुरतोऽश्वः साथ धारा पुलाख्या । विलसति समपादोत्क्षेपणाकुञ्चनानां करुणमिह गतिज्ञाः प्राहुरन्ये पुलाख्याम् ॥' इति । 'पार्ष्णिप्रधानं प्रविधाय रागाद्वल्गां श्लथीकृत्य वहेत्पुलाख्याम्' इत्यादि । पुलाख्यया अयितं गतिः पुलायितम् । 'अय गतौ' भावे क्तः । तच्छतार्धेत्याधुक्तरीत्याऽनुष्ठितमर्धपुलायितमित्यलमतिविस्तरेण ॥ १० ॥

  नीहारजालमलिनः पुनरुक्तसान्द्राः
   कुर्वन्वधूजनविलोचनपक्ष्ममालाः ।
  क्षुण्णः क्षणं यदुबलैर्दिवमातितांसुः
   पांशुर्दिशां मुखमतुत्थयदुत्थितोऽद्रेः॥११॥

 नीहारेति ॥ नीहारजालवत्तुहिनव्यूहवन्मलिनो वधूजनविलोचनानां पक्ष्ममालाः पुनरुक्तसान्द्राः द्विगुणसान्द्राः कुर्वन् । स्वभावतोऽपि सान्द्रत्वादिति भावः । मयूरच्यंसकादित्वाद्विस्पष्टबहुवत्समासः । क्षणं यदूनां बलैः सैन्यैः क्षुण्णोऽद्रेरुत्थितो दिवमाकाशमातनितुमवतनितुमिच्छुरातितांसुः । तनोतेः सन्नन्तादुप्रत्ययः । 'सनीवन्तर्ध-' (७।२।४९) इत्यत्र तनिपतिदरिद्राणामुपसंख्यानाद्वैकल्पिक इड्भावः । 'तनोतेर्विभाषा' (६।४।१७) इति दीर्घः । पांशुर्दिशां मुखमतुत्थयदाच्छादयति स्म । 'तुत्थ आच्छादने' इति धातोश्चौरादिकाल्लङ् ॥ ११॥

  उच्छिद्य विद्विष इव प्रसभं
   मृगेन्द्रानिन्द्रानुजानुचरभूपतयोऽध्यवात्सुः।
  वन्येभमस्तकनिखातनखाग्रमुक्त-
   मुक्ताफलप्रकरभाञ्जि गुहागृहाणि ॥ १२ ॥

 उच्छिद्येति ॥ इन्द्रानुजस्योपेन्द्रस्य हरेरनुचरा अनुजीविनो भूपतयो मृगेन्द्रान् सिंहान् विद्विषः शत्रूनिव प्रसभं प्रसह्योच्छिद्य हत्वा वन्येभानां मस्तकेषु निखातैर्निक्षिप्तैर्नखाग्रैः सिंहनखमुखैर्मुक्तान् विकीर्णान् मुक्ताफलप्रकरान् भजन्तीति तथोक्तानि । गुहा गृहाणीवेत्युपमितसमासः । विद्विप इवेति लिङ्गादध्यवात्सुः अध्युषितवन्तः । 'उपान्वध्याङ्गसः' (१।४।४८) इति कर्मत्वम् । 'वस निवासे' लुङि सिचि वृद्धिः । 'सः स्यार्धधातुके' (७।४।४९) इति तत्वम् ॥ १२ ॥

  विभ्राणया बहलयावकपङ्कपिङ्ग-
   पिच्छावचूडमनुमाधवधाम जग्मुः।
  चश्ववग्रदष्टचटुलाहिपताकयान्ये
   स्वावासभागमुरगाशनकेतुयष्ट्या ॥१३॥

 बिभ्राणयेति ॥ अन्ये भूपतयः याव एव यावकोऽलक्तकः । 'राक्षा लाक्षा जतु क्लीवे यावोऽलक्तो द्रुमामयः' इत्यमरः । ‘यावादिभ्यः कन्' (५।४।२९) इति स्वार्थे कन् । बहलेन यावकपङ्केन पिङ्ग पिङ्गलं पिच्छं बर्हमेवावचूडमधोलम्बिकलापं बिभ्राणया 'अस्योचूडावचूडाख्यावूर्ध्वाधोमुखचूडको' इति ध्वजाङ्गेषु हलायुधः । चञ्चुः त्रोटिः । 'चञ्चुस्त्रोटिरुभे स्त्रियाम्' इत्यमरः । तस्या अग्रेण दृष्टा चटुला चञ्चला अहिरेव पताका यस्यां तया उरगाशनो गरुडस्तस्य केतुयष्टिः । तदधिष्ठितो ध्वजदण्ड इत्यर्थः । तया, अभिज्ञानेनेति भावः । अनुमाधवधाम हरिशिबिरमनु स्वावासभागं स्वनिवेशदेशं जग्मुः प्रापुः । दूरादेव गरुडध्वजेन माधवधाम ज्ञात्वा तत्संनिहितान्नियतदिक्कान् स्वावासान्निश्चित्य जग्मुरित्यर्थः ॥ १३ ॥

  छायामपास्य महतीमपि वर्तमाना-
   मागामिनीं जगृहिरे जनतास्तरूणाम् ।
  सर्वो हि नोपगतमप्यपचीयमानं
   वर्धिष्णुमाश्रयमनागतमभ्युपैति ॥ १४ ॥

 छायामिति ॥ जनानां समूहा जनताः । 'ग्रामजनबन्धुसहायेभ्यस्तल्'

(४।२।४३)।तरूणां वर्तमानां विद्यमानां महतीमपि छायामपास्य त्यक्त्वा आगामिनी छायां जगृहिरे । वर्धिष्णुत्वादिति भावः । न च प्राप्तत्यागो दोषाय । त्यागस्वीकारयोः क्षयवृद्धिप्रयुक्तत्वादिति भावः । सर्व इति । तथा हि-सर्वो जन उपगतं प्राप्तमप्यपचीयमानं क्षीयमानम् । कर्मकर्तरि प्रयोगः । आश्रयं नोपैति न गृह्णाति, किं त्वनागतमप्राप्तमपि वर्धिष्णुं वर्धनशीलमाश्रयमुपैति । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ १४ ॥

  अग्रे गतेन वसतिं परिगृह्य
   रम्यामापात्यसैनिकनिराकरणाकुलेन ।
  यान्तोऽन्यतः प्लुतकृतस्वरमाशु
   दूरादुब्दाहुना जुहुविरे मुहुरात्मवर्ग्याः ॥ १५ ॥

 अग्र इति ॥ अग्रे गतेन पुरः प्रयातेन रम्यां वसतिं निवासम् । 'वहिवस्यर्तिभ्यश्च' (उ० ५००) इति वसेरौणादिकोऽतिप्रत्ययः । परिगृह्यापतन्तीत्यापात्याः स्वयमाक्रमितुमागच्छन्तः । 'भव्यगेय-' (३।४।६८) इत्यादिना कर्तरि ण्यदन्तो निपातः । तेषां सैनिकानां निराकरणे निरसने आकुलेन व्यग्रेण उद्वाहुनोद्यतहस्तेन । केनचिदिति शेषः । अन्यतो यान्तो गच्छन्त आत्मवर्ग्याः स्वयूथ्याः प्लुतं त्रिमात्रिकं यथा तथा कृतः स्वरो नाद आह्वानं यस्मिन्कर्मणि तद्यथा तथा । 'दूराद्भूते च' (८।२।८४) इति दूरादाह्वाने प्लुतविधानादिति भावः । आशु दूरान्मुहुराजुहुविरे आहूताः । ह्वयतेराङ्पूर्वात्कर्मणि लिट् 'अभ्यस्तस्य च' (६।१।३३) इति संप्रसारणे द्विर्वचनमुवङादेशश्च ॥ १५ ॥

  सिक्ता इवामृतरसेन मुहुर्जनानां
   क्लान्तिच्छिदो वनवनस्पतयस्तदानीम् ।
  शाखावसक्तवसनाभरणाभिरामाः
   कल्पद्रुमैः सह विचित्रफलैर्विरेजुः ॥ १६ ॥

 सिक्ता इति ॥ अमृतरसेन सिक्ता इवेत्युत्प्रेक्षा । मुहुर्जनानां क्लान्तिच्छिदः श्रमहराः । कल्पद्रुमवदमृतसेकाभावादपि तद्वदाह्लादका इति भावः । शाखास्ववसक्तैर्लग्नैः वसनैराभरणैश्चाभिरामाः । एकत्र सेनास्थपितैः, अन्यत्र स्वप्रसूतैरिति भावः । वनवनस्पतयो वनवृक्षा विचित्रफलैर्वस्त्राभरणाद्यनेकफलयुक्तैः कल्पद्रुमैः । तत्रत्यैरिति शेषः । सह तदानीं विरेजुः । तद्वद्विरेजुरित्यर्थः । सहेति सादृश्ये । 'सह साकल्यसादृश्ययोगपद्यसमृद्धिषु' इति विश्वः । तथा चोपमालंकारः ॥ १६॥

  यानाज्जनः परिजनैरवतार्यमाणा
   राज्ञीर्नरापनयनाकुलसौविदल्लाः ।

  स्रस्तावगुण्ठनपटाः क्षणलक्ष्यमाण-
   वक्रश्रियः सभयकौतुकमीक्षते स्म ॥ १७ ॥

 यानादिति ॥ परिजनैर्यानाद्वाहनादवतार्यमाणा अवरोप्यमाणाः । रुहेर्ण्यन्तात्कर्मणि लटः शानजादेशः। 'रुहः पोऽन्यतरस्याम्' (७।३।४३) इति पकारः । नराणामालोकिजनानामपनयनेऽपसारणे आकुलाः सौविदल्लाः कञ्चुकिनो यासां ताः । 'सौविदल्लाः कञ्चुकिनः' इत्यमरः । स्रस्ता अवरोपणसंक्षोभादपसृता अवगुण्ठनपटा नीरङ्गीवस्त्राणि यासां ताः । अत एव क्षणं लक्ष्यमाणा वक्रश्रियो यासां तास्तथोक्ता राज्ञी राजस्त्रीः । 'पुंयोगादाख्यायाम्' (४।१|४८) इति ङीप् । जनः सभयकौतुकमीक्षते स्म । ताडनाद्भयं कामात्कौतुकम् ॥ १७ ॥

  कण्ठावसक्तमृदुबाहुलतास्तुरङ्गा-
   द्राजावरोधनवधूरवतारयन्तः ।
  आलिङ्गनान्यधिकृताः स्फुटमापुरेव
   गण्डस्थलीः शुचितया न चुचुम्बुरासाम् ॥ १८॥

 कण्ठेति ॥ तुरङ्गाद्राजावरोधनवधू: राज्ञामवरोधस्त्रिरवतारयन्तोऽवरोपयन्तोऽधिकृता अन्तःपुराधिकारिणः कण्ठेषु स्वकीयेष्ववसक्ता मृदवो बाहुलतास्तदीया येषां ते तथोक्ताः सन्तः स्फुटं व्यक्तमालिङ्गनान्यापुरेव । अन्यथा दुरवरोहत्वाद्ध्याजाच्चेति भावः । आसां वधूनां गण्डस्थलीः शुचितया स्वयं शुद्धवर्तित्वाद्गण्डानां नैर्मल्याच्च न चुचुम्बुः । यावत्कर्तव्यकारिणः शुद्धात्मानो नातिचरन्तीति भावः । अन्यत्र तु पापाचाराः पापलिङ्गानि प्रकाशयन्तीति भावः ॥ १८॥

  दृष्ट्वेव निर्जितकलापभरामधस्ता-
   व्ध्याकीर्णमाल्यकबरां कबरीं तरुण्याः ।
  प्रादुद्रुवत् सपदि चन्द्रकवान् द्रुमाग्रात्
   सं1घर्षिणा सह गुणाभ्यधिकैर्दुरासम् ॥ १९ ॥

 दृष्ट्वेति ॥ अधस्तात्तरुतले निर्जितः कलापभरो बर्हमारो यया ताम् । 'कलापो भूषणे बर्हे' इत्यमरः । व्याकीर्णेन विक्षिप्तेन माल्येन कबरां शाराम् । 'कबरः कर्बुरः शारः' इति हलायुधः । तरुण्याः कबरी केशपाशम् । 'कबरी केशपाशोऽथ' इत्यमरः। 'जानपद-' (४।१।४२) इत्यादिना ङीष् । दृष्ट्वेवेत्युत्प्रेक्षा। सपदि चन्द्रका अस्य सन्तीति चन्द्रकवान् मयूरः द्रुमाग्रात् प्रादुद्रुवत् प्रद्रुतवान् । 'दु गतौ' लुङि ‘णिश्रि-' (३।१।४८) इत्यादिना च्लेश्वङादेशः । 'अचि श्रुधातु-' (६।४।७७) इत्यादिना उवङादेशः । तथा हि संघ1र्षिणा मत्सरिणा कर्त्रा गुणाभ्यधिकैर्गुणोत्कृष्टैः सह दुरासम् । आसितुमशक्यमित्यर्थः । आसेरकर्मकात् 'ईषद्दुः-' (३।३।१२६) इत्यादिना भावे खल्प्रत्ययः । 'तयोरेव कृत्यक्तखलर्थाः' (३।४/७०) इति नियमात् । अत्र भयहेतुकस्य पलायनस्य कबरीदर्शनहेतुकत्व- पाठा.1 संहर्षिणा मुत्प्रेक्ष्य तत्समर्थनासमर्थोऽयमर्थान्तरन्यासः कृत इत्यस्यानयाङ्गेन संकरः । न हि जितैर्जेतुरग्रे स्थातुमुचितमिति भावः ॥ १९ ॥

  रोचिष्णुकाश्चनचयांशुपिशङ्गिताशा
   वंशध्वजैर्जलदसंहतिमुल्लिखन्त्यः ।
  भृभर्तुरायतनिरन्तरसंनिविष्टाः
   पादा इवाभिवभुरावलयो रथानाम् ॥ २० ॥

 रोचिष्ण्विति ॥ रोचिष्णवो रोचनशीलाः । 'अलंकृञ्-' (३।२।१३६) इत्यादिना इष्णुच्प्रत्ययः । तेषां काञ्चनचयानां कनकचयानामंशुभिः पिशङ्गिताः पिशङ्गीकृता आशा याभिस्ताः वंशानां तत्तद्वाजकुलानां ध्वजैः प्रतिनियतकुलानाम- कुशादिचिह्नितकेतुभिः, अन्यत्र वंशा वेणवस्तैरेव ध्वजैर्जलदसंहतिं मेघसंघातमु. ल्लिखन्त्यः आयतं दीर्घ निरन्तरं नीरन्ध्रं च संनिविष्टाः संस्थिता रथानामावलयो भूभर्तृ रैवतकाद्रेः पादाः प्रत्यन्तपर्वता इवाभिबभुः भान्ति स्म । आशापिशङ्गीकर- णादिक्रियानिमित्ता जातिस्वरूपोत्प्रेक्षा ॥ २० ॥

  छायाविधायिभिरनुज्झितभूतिशोभै-
   रुच्छ्रायिभिर्बहलपाटलधातुरागैः ।
  दूष्यैरिव क्षितिभृतां द्विरदैरुदार-
   तारावलीविरचनैर्व्यरुचन्निवासाः ॥ २१॥

 छायेति ॥ क्षितिभृतां राज्ञां निवसन्त्यत्रेति निवासाः निवासदेशाश्छाया- विधायिभिः कान्तिकरैरनातपसंपादकैश्च । 'छाया त्वनातपे कान्तौ' इति विश्वः । अनुज्झिता भूतीनां भस्मरचनानां संपदां च शोभा यैस्तैः । 'भूतिर्भस्मनि संपदि' इत्यमरः । उच्छ्रायिभिरुन्नमद्भिर्बहलः सान्द्रः पाटल आरक्तधातुरागो गैरिकादि- रञ्जनं येषां तैः । उदारा तारावलीनां शुद्धमुक्तावलीनां विरचना येषु तैः । मुक्ता- सारभूषितैरित्यर्थः । 'तारा मुक्तादिसंशुद्धौ तरले शुद्धमौक्तिके' इति विश्वः । दूष्यपक्षे तारावली रज्जुसंततिरिति केचित् । द्विरदैर्दूष्यैः पटमण्डपैरिव । 'दूष्यं वस्त्रे च तद्गृहे' इति विश्वः । व्यरुचन् रोचन्ते स्म । 'रुच दीप्तौ' 'द्युभ्यो लुङि' (१॥३।९१) इति परस्मैपदे 'पुषादि-' (३।१।५५) इत्यादिना च्लेरङादेशः । अन्न द्विरदानां दूष्याणां च प्रकृतत्वान्नोपमा, नापि श्लेषभेदः । विशेष्यस्य विशेष- णानां च केषांचिदश्लिष्टत्वात् । तस्मात्केवलप्रकृतास्पदा तुल्ययोगितेयम् । इवशब्दस्तु सादृश्यमात्रानुवादक इति संक्षेपः ॥ २१॥

  उत्क्षिप्तकाण्डपटकान्तरलीयमान-
   मन्दानिलप्रशमितश्रमघर्मतोयैः ।
  दूर्वाप्रतानसहजास्तरणेषु भेजे
   निद्रासुखं वसनसद्मसु राजदारैः ॥२२॥

 उत्क्षिप्तेति ॥ उत्क्षिप्त उद्धृतो यः काण्डपट एव काण्डपटकः दूष्याधोलम्बि-

वायुसंचारार्थः पटः । 'अपटः काण्डपटी स्यात्' इति वैजयन्ती । तस्यान्तरेऽवकाशे लीयमानेन मन्दानिलेन प्रशमितं श्रमेणाध्वखेदेन यद्धर्मतोयं स्वेदाम्बु तद्येषां तै राजदारै राजावरोधैः दूर्वाणां प्रतानं प्रचय एव सहजमकृत्रिममास्तरणं तल्पं येषु तेषु वसनसद्मसु पटमण्डपेषु निद्रासुखं भेजे ॥ २२ ॥

  प्रस्वेदवारिसविशेषविषक्तमङ्गे
   कूर्पासकं क्षतनखक्षतमुत्क्षिपन्ती ।
  आविर्भवद्धनपयोधरबाहुमूला
   शातोदरी युवदृशां क्षणमुत्सवोऽभूत् ॥ २३ ॥

 प्रस्वेदेति ॥ अङ्गे गात्रे प्रस्वेदवारिणा सविशेषं सातिशयं यथा तथा विष- क्तमतिश्लिष्टं कूर्पासकं चोलकम् । कञ्चुकमित्यर्थः । 'चोलः कूर्पासकोऽस्त्रियाम्' इत्यमरः । क्षतानि पुनर्विदीर्णानि नखक्षतानि यस्मिन्कर्मणि तद्यथा तथा उत्क्षि- पन्ती उन्मोचयन्ती अत एवाविर्भवत्प्रकाशमानं घनपयोधरबाहुमूलं घनौ पयोधरौ बाहुमूले च यस्याः सा शातोदरी । 'नासिकोदर-' (४।१।५५) इत्यादिना ङीप् । युवदृशां क्षणमुत्सवोऽभूत् । एतेन यूनां त्वराचिन्तादिकरमिष्टवस्त्ववलोकननिमित्तं कालाक्षमत्वलक्षणमौत्सुक्यं व्यज्यते । नायिकाभिसारिणी प्रगल्भा वा ॥ २३ ॥

  यावत्स एव समयः सममेव ताव-
   दव्याकुलाः पटमयान्यभितो वितत्य ।
  पर्यापतत्क्रयिकलोकमगण्यपण्य-
   1पूर्णापणा विपणिनो विपणीर्विभेजुः ॥ २४ ॥

 यावदिति ॥ विपणो व्यवहारः स एषामस्तीति विपणिनो वणिजो यावत् स एव समयः सेनानिवेशलक्षण एव तावत्क्षण एव समं युगपत् अव्याकुला अव्यग्राः सन्तः पटमयानि पटविकाराणि । पटमण्डपानीत्यर्थः । अभितो वितत्य उभयतः श्रेण्या वितत्य विस्तीर्य क्रयेण जीवतीति क्रयिकः । 'वस्त्रक्रयविक्रयात्-' (४॥४॥ १३) इति ठक् । पर्यापतन् परितो धावन् क्रयिकलोकः क्रेतृजनो यस्मिन्कर्मणि अगण्यैरसंख्येयैः पण्यैः पण्यद्व्यैः पूर्णा आपणाः पण्यप्रसारणस्थानानि यासु ता विपणीः पण्यवीथीः । 'आपणस्तु निषद्यायां विपणिः पण्यवीथिका' इत्यमरः । विभेजुः । असंकीर्णं निर्ममुरित्यर्थः । स्वभावोक्त्यनुप्रासौ ॥ २४ ॥ तत्

पाठा०-१ 'पूर्णापणं विपणिनो विपणि विभेजुः'. अयमेव पाठो वल्लभव्याख्यातः प्राचीनश्च । अत एवामरव्याख्यायाम् 'अत एव प्रयोगाद्विपणेः पुंस्त्वमपीति सर्वधरः' इति

मुकुट उक्तवान् । वल्लभोऽपि 'बाहुल्येन विपणिशब्दं स्मरन्ति' इत्युक्तवान्.

  अल्पप्रयोजनकृतोरुतरप्रयासै-
   रुद्गुर्णलोष्टलगुडैः परितोऽनुविद्धम् ।
  उ1द्यातमुद्रुतमनोकहजालमध्या-
   दन्यः शशं गुणमनल्पमवन्नवाप ॥ २५ ॥

 अल्पेति ॥ अल्पप्रयोजनेनाल्पफलेन निमित्तेन कृत उरुतरो भूयान्प्रयासो यैस्तैः । अल्पस्यैकस्य शशपिण्डस्य भूयसामकिंचित्करत्वादिति भावः । उद्गूर्णा उद्यताः लोष्टानि मृत्खण्डा लगुडाश्च दण्डकाष्ठानि यस्तैः । पुंभिरिति शेषः । परितोऽनुविद्धमनुरुद्धम् । अनसः शकटस्याकं गतिं घ्नन्तीत्यनोकहा वृक्षास्तेषां जालमध्यादु1द्यातमुत्थितम् । उत्पूर्वाद्या2तेः कर्तरि क्तः । उद्रुतं पलायितं शशं मृगविशेषम् । अन्यः परः अवन् हन्तृन्निवार्य रक्षन्ननल्पं गुणं महान्तमुत्कर्षम- वाप । दयालोरनामिषलोलुपस्य सुकीर्तिः सुलभेति भावः । अत्रार्थान्तरं चाहुः । अन्यो गुणं पाशमवन् प्रयुञ्जानः शशमवाप जग्राह । यो हन्ता तस्यैव मृग इति व्याधसमयादिति भावः ॥ २५ ॥

  त्रासाकुलः परिपतन् परितो निकेतान्
   पुंभिर्न कैश्चिदपि धन्विभिरन्वबन्धि ।
  तस्थौ तथापि न मृगः क्वचिदङ्गनाना-
   माकर्णपूर्णनयनेषुहतेक्षणश्रीः॥ २६ ॥

 त्रासेति ॥ त्रासाकुलो जनदर्शनाद्भयविह्वलोऽत एव निकेतान्निवेशान् परितः सर्वतः । 'अभितःपरितः-' (वा०) इत्यादिना द्वितीया । परिपतन् धावन् मृगो हरिणः कैश्चिदपि धन्विभिर्धनुष्मद्भिः । 'धन्वी धनुष्मान्धानुष्कः' इत्यमरः । व्रीह्यादित्वादिनिरिति स्वामी । पुंभिर्नान्वबन्धि नानुयातः । बध्नातेः कर्मणि लुङ् । तथाप्यङ्गनानामाकर्णपूर्णा विस्तीर्णा आकृष्टाश्च ये नयनान्येवेषवस्तैर्हता ईक्षणश्रीर्यस्य सः । अतः क्वचिदपि न तस्थौ । किंतु वीरविशिखापाताभावेऽप्यङ्ग- नापाङ्गविशिखपातात्पलायित एवेति भावः । अत्र जनालोकनोत्थभयहेतुकस्य मृगा- नवस्थानस्याङ्गनापाङ्गेषु हतिहेतुकत्वोत्प्रेक्षणाद्धेतूत्प्रेक्षा । सा च व्यञ्जकाप्रयोगात्प्रती- यमाना। हेतोश्व हतेक्षणश्रीरिति विशेषणगत्योक्तत्वात्काव्यलिङ्गमिति संकरः॥२६॥

  आस्तीर्णतल्परचितावसथः क्षणेन
   वेश्याजनः कृतनवप्रतिकर्मकाम्यः ।
  खिन्नानखिन्नमतिरापततो मनुष्यान्
   प्रत्यग्रहीच्चिरनिविष्ट इवोपचारैः ॥ २७ ॥

 आस्तीर्णेति ॥ क्षणेनास्तीर्णतल्पं वेश्यावृत्तेः शय्याप्रधानत्वात्प्रागेव सज्जि- तशय्यं यथा तथा रचितावसथः कल्पितनिकेतः । 'स्थानावसथवास्तु' च इति कोशः । कृतेन नवप्रतिकर्मणा नूतनेन प्रसाधनेन काम्यः स्पृहणीयोऽखिन्नमति- रश्रान्तचित्तः । अगणिताध्वखेद इत्यर्थः । वेश्याजनः खिन्नानध्वश्रान्तानापतत पाठा०-१ 'उद्यन्त”. २ र्वादेतेः'. । 1 आगच्छतो मनुष्यान् पुरुषान् चिरनिविष्ट इव तत्रैव नित्यवास्तव्य इवेत्युत्प्रेक्षा । उपचारैः शीताम्बुताम्बूलदानादिसत्कारैः प्रत्यग्रहीत् । वशीचकारेत्यर्थः ॥ २७ ॥

  सस्नुः पयः पपुरनेनिजुरम्बराणि
   जक्षुर्विसं धृतविकासिविसप्रसूनाः ।
  सैन्याः श्रियामनुपभोगनिरर्थकत्व-
   दोषप्रवादममृजन्नगनिम्नगानाम् ॥ २८ ॥

 सस्नुरिति ॥ सेनायां समेताः सैन्याः सैनिकजनाः । 'सेनायां वा' (४।४।४५) इति ण्यप्रत्ययः । नगनिम्नगानां याः श्रियः समृद्धयस्तासामनुप- भोग उपभोगाभावः । क्वचित्प्रसज्यप्रतिषेधेऽपि नञ्समास इष्यते । यथाऽदर्शन- मश्रवणमनुच्चारणमनुपलब्धिरभाव इत्यादि । तेन यन्निरर्थकत्वं निष्फलत्वं तदेव दोषस्तेन यः प्रवादो निन्दा तममृजन्नमार्जन् । 'मृजुष् शुद्धौ' अदादित्वाल्लङि शपो लुक् । 'मृजेरजादौ क्लिति विभाषा वृद्धिर्वक्तव्ये ति विकल्पादृध्यभावः । मार्जनप्रकारमाह-सस्नुः स्नानं चक्रुः । पयः पानीयं पपुः । ष्णा शौचे', 'पा पाने' लिट् । अम्बराण्यनेनिजुरक्षालयन् । 'णिजिर् शौचे' । जुहोत्यादित्वाल्लङि श्लो' (६।१।१०) इति विर्भावः । 'सिजभ्यस्तविदिभ्यश्च' (३।४।१०९) इति झेर्जु- सादेशः । 'णिजां त्रयाणां गुणः श्लौ' इत्यभ्यासस्य गुणः । धृतानि विकासिबिसप्र- सूनानि विकसितपुष्कराणि यैस्ते । 'विसप्रसूनराजीवपुष्कराम्भोरुहाणि च' मरः । बिसं मृणालं जक्षुर्भक्षयाञ्चक्रुः । घसेर्लिटि 'गमहन-' (६।१/९८) इत्या- दिना उपधालोपे चुत्वं 'शासिवसिघसीनां च' (८।३।६०) इति षत्वम् । स्नानाद्युपभोगेनोक्तनैरर्थ्यं निराचारित्यर्थः । अत्र दोषमार्जनस्य स्नानादिना कृत- त्वाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः । स्नानादिक्रियासमुच्चयस्त्वङ्गमस्येति संकरः॥२८॥

  नाभिहदैः परिगृहीतरयाणि 1निम्नैः
   स्त्रीणां बृहज्जघनसेतुनिवारितानि ।
  जग्मुर्जलानि जलमंड्डकवाद्यवल्गु-
   वल्गद्धनस्तनतटस्खलितानि मन्दम् ॥ २९ ॥

 नाभीति ॥ स्त्रीणां निम्नैर्गम्भीरैर्नाभिभिरेव हृदैः परिगृहीतरयाणि प्रतिषिद्धवे- गानि बृहनिर्जघनैरेव सेतुभिर्निवारितानि । प्रतिहतगतिकानीत्यर्थः । 'पश्वान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः' इत्यमरः । जलमेव 2मैडकवाद्यं वाद्यविशेषः । जलमेकेन पाणिनोत्थापितमपरेण ताडितं 2मैड्डुकवद्ध्वनतीति प्रसिद्धम् । तेन वल्गु सुन्दरं यथा तथा वल्गद्भिश्चलैर्घनैः स्तनतटैः स्खलितानि स्खलनं गतानि गमितानि वा जलानि पूर्वोक्तनगनिम्नगासलिलानि मन्दं जग्मुः । अत्र जलम- न्दगमनस्य विशेषणगत्या रयप्रतिबन्धादिपदार्थहेतुकत्वात्काव्यलिङ्गम् ॥ २९ ॥

पाठा०-१ 'यत्र'. २ मण्डुक'.

इत्य

  आलोलपुष्करमुखोल्लसितैरभीक्ष्ण-
   मुक्षांबभूवुरभितो वपुरम्बुवर्षेः ।
  खेदायतश्वसितवेगनिरस्तमुग्ध-
   मूर्धन्यरत्ननिकरैरिव हास्तिकानि ॥ ३० ॥

 आलोलेति ॥ हस्तिनां समूहा हास्तिकानि । 'अचित्तहस्तिधेनोष्ठक्' (४।२।२७) आलोलानि यानि पुष्कराणि हस्ताग्राणि । 'पुष्करं करिहस्ताग्रे' इत्य- मरः । तेषां मुखै रन्धैरुल्लसितान्युक्षिप्तानि तैरम्बुवर्षेः खेदेनाध्वश्रमेणायतेन द्वाघीयसा श्वसितस्योच्चासमारुतस्य वेगेन निरस्ता बहिरुत्क्षिप्ता ये मुग्धाः सुन्दरा मूर्धन्या मूर्धनि भवाः । 'शरीरावयवाच्च' (४।३।५५) इति यत्प्रत्ययः । 'ये चाभावकर्मणोः' (६/१६८) इति प्रकृतिभावात् 'नस्तद्धिते' (६।४।१४४) इति टिलोपाभावः । रत्ननिकरा मुक्ताफलप्रकरास्तैरिवेत्युत्प्रेक्षा । वपुरभीक्षणमुक्षां- बभूवुः सिषिचुः । 'उक्ष सेचने' 'इजादेश्च गुरुमतोऽनृच्छः' (३।१।३६) इत्या- म्प्रत्ययः। 'गजेन्द्रजीमूतवराहशङ्खमत्स्याहिशुक्त्युद्भववेणुजानि । मुक्ताफलानि प्रथि- तानि लोके तेषां तु शुक्त्युद्भवमेव भूरि ॥' इति गजानां मुक्ताकरत्वे प्रमाणम् ॥३०॥

  ये पक्षिणः प्रथममम्बुनिधिं गतास्ते
   येऽपीन्द्रपाणितुलितायुधलूनपक्षाः ।
  ते जग्मुरद्रिपतयः सरसीविंगाढु-
   माक्षिप्तकेतुकुथसैन्यगजच्छलेन ॥ ३१ ॥

 य इति ॥ ये पक्षिणः पक्षवन्तः । इन्द्रेणाच्छिन्नपक्षा इत्यर्थः । संसर्गे इनि- प्रत्ययः । तेऽद्रिपतयो मैनाकादयः प्रथममम्बुनिधिं गताः प्रविष्टाः । येऽपि । ये ये इत्यर्थः । इन्द्रस्य पाणिना तुलितेन प्रेरितेनायुधेन वज्रेण लूनपक्षाश्छिन्नगरु- तस्तेऽद्रिपतय आक्षिप्ता अपनीताः केतवो ध्वजाः कुथाः, पृष्टास्तरणानि च येषाम् । प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः' इत्यमरः । तेषां सैन्यगजानां छलेन सरसीर्विगाढुं विगाहितुम् । 'स्वरतिसूति-' (७/२।४४) इति विकल्पान्नेडागमः । जग्मुः । अत्र गजच्छलेनेति छलशब्देन गजत्वमपहृत्याद्रित्वारोपणाच्छलादिशब्दैर- सत्यत्वप्रतिपादनरूपोऽपह्नवालंकारः । तेन पक्षवतामद्रीणां सागरावगाहनदर्शना- न्मत्सरात् स्वयमपि सलिलमवगाहमानाः साक्षालूनपक्षाः पर्वता इवेत्युत्प्रेक्षा व्यज्यते ॥ ३१ ॥

  आत्मानमेव जलधेः प्रतिबिम्बिताङ्ग-
   मूर्मौ महत्यभिमुखापतितं निरीक्ष्य ।
  क्रोधादधावदपभीरभिहन्तुमन्य-
   नागाभियुक्त इव युक्तमहो महेभः ॥ ३२ ॥

 आत्मानमिति ॥ महेभो जलधेर्जलाशयस्य महत्यूर्मौ प्रतिबिम्बितमङ्गं

पाठा०-१ 'गजेन.' यस्य तमभिमुखापतितमभिमुखमागतमात्मानमेव । आत्मप्रतिबिम्बमेवेत्यर्थः । निरीक्ष्यान्यनागेन प्रतिगजेनाभियुक्तोऽभिद्रुत इवातितूर्णमपभीनिर्भीकः सन् क्रोधादधावत् । अहो इति मौढ्येन विस्मयः । तच्च युक्तं महेभस्येति भावः । अभियुक्त इवेत्युत्प्रेक्षायाः प्रतिगजभ्रान्तिनिबन्धनत्वाभान्तिमदुत्प्रेक्षयोरङ्गाङ्गि- भावेन संकरः॥३२॥

  नादातुमन्यकरिमुक्तमदाम्बुतिक्तं
   धूताङ्कुशेन न विहातुमपीच्छताम्भः ।
  रुद्धे गजेन सरितः सरुषावतारे
   रिक्तोदपात्रकरमास्त चिरं जनौघः ॥ ३३ ॥

 नेति ॥ अन्यकरिणा प्रतिगजेन मुक्तेन मदाम्बुना तिक्तं सुरभि । 'कटुतिक्त- कषायास्तु सौरभ्येऽपि प्रकीर्तिताः' इति केशवः । अम्भ आदातुं ग्रहीतुं नेच्छता विहातुं त्यक्तुमपि नेच्छता अनिच्छता । क्रोधपिपासाभ्यामिति भावः । धूताङ्कुशेन सरुषा सक्रोधेन गजेन नगसरितोऽवतारे तीर्थे रुद्धे सति जनौघः रिक्तान्युदपा- त्राणि येषु ते करा यस्मिंस्तद्यथा तथा चिरमास्त अतिष्ठत् । 'आस उपवेशने' लङ्। 'एकहलादौ पूरयितव्येऽन्यतरस्याम्' (६।३।५९) इत्युदकशब्दस्योदादेशः ॥ ३३ ॥

  पन्थानमाशु विजहीहि पुरः स्तनौ ते
   पश्यन् प्रतिद्विरदकुम्भविशङ्किचेताः ।
  स्तम्बेरमः परिणिनंसुरसावुपैति
   षिङ्गैरगद्यत ससंभ्रममेव काचित् ॥३४॥

 पन्थानमिति ॥ पन्थानमाशु विजहीहि । 'ओहाक त्यागे' लोटि सेेर्ह्यादेशः। 'आ च हौ' (६।४।११७) इति विकल्पादीकारादेशः । पुरोऽने ते स्तनौ पश्यन् प्रतिद्विरदस्य कुम्भौ विशङ्कत इति तद्विशङ्कि चेतो यस्य सः । कुम्भभ्रान्तिमानि- त्यर्थः । अत एव भ्रान्तिमदलंकारः । स्तम्बे तृणे रमत इति स्तम्बेरमः । 'इभः स्तम्बरमः पद्मी' इत्यमरः । 'स्तम्बकर्णयो रमिजपोः' (३।२।१३) इत्यच् प्रत्ययः । 'तत्पुरुषे कृति बहुलम्' (६।३।१४) इत्यलुक् । परिणन्तुं तिर्यक्प्रहर्तुमिच्छुः परिणिनंसुः । नमेः सन्नन्तादुप्रत्ययः । 'एकाच उपदेशेऽनुदात्तात्' (७।२।१०) इतीट्प्रतिषेधः । असावुपैति । पुरेति पाठे पुरोपैतीत्यन्वयः । उपैष्यतीत्यर्थः । 'यावत्पुरानिपातयोर्लट्' (३।३।४) इति भविष्यदर्थे लट् । षिङ्गैर्विटैः । 'षिङ्गः पाल्लविको विटः' इति कोशः । काचिदेवमुक्तरीत्या ससंभ्रमं ससत्वरमगद्यत गदिता ॥ ३४ ॥

  कीर्णं शनैरनुकपोलमनेकपानां
   हस्तैर्विगाढमदतापरुजः शमाय ।
  आकर्णमुल्लसितमम्बु विकासिकाश-
   नीकाशमाप समतां सितचामरस्य ॥ ३५ ॥

 कीर्णमिति ॥ अनेकपानां द्विपानां विगाढः प्ररूढो यो मदेन तापः स एव

रुक् रोगस्तस्या रुजः शमाय शनैर्मन्दं हस्तैरनुकपोलं कपोलयोः कीर्णं क्षिप्तम् । आकर्णं कर्णपर्यन्तम् । 'आमर्यादाभिविध्योः' (२।१।१३) इत्यव्ययीभावः । उल्लसितमुत्पतितं विकासि यत् काशं काशकुसुमं तेन सदृशं काशनीकाशम् । नित्य- समासत्वादस्वपदविग्रहः । अत एव 'स्युरुत्तरपदे त्वमी । निभसंकाशनीकाशप्रती- काशोपमादयः' इत्यमरः। अम्बु पानीयं सितचामरस्य समतां सादृश्यमाप । 'तुल्याथैः-' (२।३/७२) इत्यादिना षष्ठी । उपमालंकारः ॥ ३५ ॥

  गण्डूषमुज्झितवता पयसः सरोषं
   नागेन लब्धपरवारणमारुतेन ।
  अम्भोधिरोधसि पृथुप्रतिमानभाग-
   रुद्धोरुदन्तमुसलप्रसरं निपेते ॥ ३६॥

 गण्डूषमिति ॥ लब्धः परवारणस्य प्रतिगजस्य मारुतो मदगन्धवाहो येन तेन अत एव सरोषं यथा तथा पयसः पानीयस्य गण्डूषं मुखपूरणम् । मुखा- न्तर्गतं पय इत्यर्थः । गण्डूषो मुखपूरणः' इति हलायुधः । द्विलिङ्गत्वेऽपि पुंलिङ्गमेवाह वामनो लिङ्गाध्याहारावित्यत्र । उज्झितवता त्यक्तवता नागेन गजेन । 'मतगजो गजो नागः' इत्यमरः । अम्भोधिरोधसि सागरतीरे । 'दन्त- योरुभयोर्मध्यं प्रतिमानमिति स्मृतम्' । पृथुना प्रतिमानभागेन रुद्धः प्रतिबद्धः उरू दन्तौ मुसलाविव तयोः प्रसरः प्रसारो यस्मिन्कर्मणि तत् । 'अयोग्रो मुस- लोऽस्त्री स्यात्' इत्यमरः । निपेते निपतितम् । भावे लिट् । क्रोधवेगादलब्ध- रोधाः प्रहृत्य पारवश्यात् स्वयं चाधोमुखः पपातेत्यर्थः । क्रोधान्धाः किं न कुर्व- न्तीति भावः ॥ ३६॥

  दानं ददत्यपि जलैः सहसाधिरूढे
   को विद्यमानगतिरासितुमुत्सहेत ।
  यद्दन्तिनः कटकटाहतटान्मिमङ्क्षो-
   र्मङ्क्षदपाति परितः पटलैरलीनाम् ॥ ३७॥

 दानमिति ॥ दीयत इति दानं धनं मदश्च । 'दानं गजमदे त्यागे' इति विश्वः । तद्ददति वितरत्यपि । दातर्यपीत्यर्थः । सहसा अकस्मात् । स्वरादित्वाद- व्ययत्वमिति शाकटायनः । जलैर्जडैर्नीरैश्च । 'जलं गोकलले नीरे हीबेरे च जडे. ऽन्यवत्' इति विश्वः । अधिरूढे आक्रान्ते सति विद्यमानगतिः गत्यन्तरवान् सम- र्थश्च कः पुमानासितुं तत्र स्थातुमुत्सहेत । न कोऽपीत्यर्थः । 'शकधृष-' (३।४।६५) इत्यादिना तुमुन् । यसान्मिमङ्क्षोर्मङ्क्तुमिच्छोः । मज्जेः सन्नन्तादुप्रत्ययः । दन्तिनः कटो गण्डः स कटाहः खर्पर इव । 'कटाहः खर्परस्तुपः' इति वैजयन्ती । तस्य तटाप्रदेशादलीनां पटलैः परितो मङ्क्षु द्राक् । 'दाङ्मङ्क्षु सपदि द्रुतम्' इत्यमरः । उदपाति उत्पतितम् । भावे लुङ् 'चिण् भावकर्मणोः' (३।१६६) इति चिण् 'चिणो लुक्' (६।४।१०४)। विशेषेण सामान्यसमर्थनरूपोऽर्थान्त- रन्यासः ॥३७॥

  अन्तर्जलौघमवगाढवतः कपोलौ
   हित्वा क्षणं विततपक्षतिरन्तरीक्षे ।
  द्रव्याश्रयेष्वपि गुणेषु रराज नीलो
   वर्णः पृथग्गत इवालिगणो गजस्य ॥३८॥

 अन्तरिति ॥ जलौघे अन्तरित्यन्तर्जलौघम् । विभक्त्यर्थेऽव्ययीभावः । अथवा जलौघं जलपूरमन्तरभ्यन्तरेऽवगाढवतः प्रविष्टवतः । गाहेर्निष्ठाक्तवतुप्रत्ययः । ढत्वष्टुत्वढलोपाः । गजस्य कपोलौ हित्वा क्षणमन्तरीक्षे उपर्याकाशे विततपक्षति- विस्तृतपक्षमूलः । आमूलाद्विततपक्ष इत्यर्थः । 'स्त्री पक्षतिः पक्षमूलम्' इत्यमरः । 'पक्षात्तिः' (५।२।२५) इति तिप्रत्ययः । अलिगणो भ्रमरसङ्घो गुणेषु रूपादिषु द्रव्यमाश्रयो येषां तेषु द्रव्याश्रयेष्वपि अयुतसिद्धत्वात् , द्रव्यसमवेतत्वाच्च । द्रव्याधीनसत्ताकेषु सत्स्वपीत्यर्थः । पृथग्गतः जलमजनभयात् स्वाश्रयपरिहारेण स्थितो नीलो वर्णों नीलरूपं गजस्य नीलिमेव रराज । 'गुणे शुक्लादयः पुंसि', इत्यमरः । अत्रालिगणे सादृश्याद्गजनीलत्वाश्रयादन्यत उपलब्धिनिर्वाहाय पृथक् स्थितिविशिष्टत्वमुत्प्रेक्ष्यते ॥ ३८ ॥

  संसर्पिमिः पयसि गैरिकरेणुरागै-
   रम्भोजगर्भरजसाङ्गनिषङ्गिणा च ।
  क्रीडोपभोगमनुभूय सरिन्महेभा-
   वन्योन्यवस्त्रपरिवर्तमिव व्यधत्ताम् ॥ ३९ ॥

 संसर्पिभिरिति ॥ सरिच्च महेभश्च सरिन्महेभौ पयसि संसर्पिभिः गजात्स- रिजले विसृत्वरैः गैरिकरेणवो धातव एव रागास्तैः । करणे घञ् । अङ्गनिषङ्गिणा गजाङ्गसङ्गिना अम्भोजगर्भरजसा पद्मान्तःपरागेण च निमित्तेन क्रीडया लीलया उपभोगं संभोगमनुभूयान्योन्यं मिथो वस्त्रयोः परिवर्तं विनिमयं व्यधत्तामकुरु- तामिव । दधातेर्लङि परस्मैपदे तसस्तामादेशः । अत्र सरिन्महेभयोः प्रतीयमान- नायिकादेरभेदाध्यवसायेन वस्त्रविनिमयोत्प्रेक्षा ॥ ३९ ॥

  यां चन्द्रकैर्मदजलस्य महानदीनां
   नेत्रश्रियं विकसतो विदधुर्गजेन्द्राः ।
  तां प्रत्यवापुरविलम्बितमुत्तरन्तो
   धौताङ्गलग्ननवनीलपयोजपत्रैः॥४०॥

 यामिति ॥ गजेन्द्राः विकसतः समन्तात्पयसि तैलबिन्दुवत्प्रसरतो मदज. लस्य चन्द्रकैश्चन्द्राकारैर्मण्डलैर्महानदीनां यां नेत्रश्रियं विदधुः चक्रुस्तां नेत्रश्रियमुत्तरन्तो जलान्निर्गच्छन्तो धौतेषु क्षालितेष्वङ्गेषु लग्नैः सक्तैर्नवनीलपयोजपत्रैर्नव. नीलोत्पलदलैरविलम्बितं क्षिप्रमेव प्रत्यवापुः प्रतिभेजिरे । अत्र गजानां नदीनां च समनेत्रश्रीविनिमयोक्त्या समपरिवृत्तिरलंकारः । 'समन्यूनाधिकानां च यदा विनि- मयो भवेत् । साकं समाधिकन्यूनैः परिवृत्तिरसौ मता ॥' इति लक्षणात् ॥४०॥

  प्रत्यन्यदन्ति निशिताङ्कुशदूरभिन्न-
   निर्याणनिर्यदसृजं चलितं निषादी ।
  रोद्धुं महेभमपरिव्रढिमानमागा--
   दाक्रान्तितो न वशमेति महान् परस्य ॥४१॥

 प्रतीति ॥ अन्यदन्तिनं प्रति प्रत्यन्यदन्ति । प्रतिगजाभिमुखमित्यर्थः । 'लक्षणे- नाभिप्रती आभिमुख्ये' (२।१।१४) इत्यव्ययीभावः । चलितं धावन्तमत एव निशितेनाङ्कुशेन दूरं गाढं यथा तथा भिन्नं यन्निर्याणमपाङ्गदेशः । 'अपाङ्गदेशो निर्याणम्' इत्यमरः । तस्मान्निर्यत् निःसरदसृक् यस्य तं महेभं रोर्बु ग्रहीतुं निषादी यन्ता परिबृंहते प्रभवतीति परिवृढः प्रभुः । बृहतेर्वृहेर्वा कर्तरि क्तप्रत्यये 'प्रभौ परिवृढः' (७।२।२१) इति नकारहकारयोर्लोपः निष्ठातकारस्य ढत्वं च निपात्यते । अन्यथा ढलोपस्य सर्वत्रासिद्धेरिष्टन्नादिषु 'र ऋतो हलादेर्लघोः (६।४।१६१) इति रेफादेशो न स्यात् । तस्मादिमनिचि रेफादेशे परिव्रढिमा ततो नञ्समासः । तमपरिव्रढिमानमसामर्थ्यमागात्प्राप । 'इणो गा लुङि' (२।४।४५) इति गादेशः । तथा हि-महान् बलवान् आक्रान्तितो बलात्कारात् परस्य वशं नैति । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥४१॥

  सेव्योऽपि सानुनयमाकलनाय यत्रा
   नीतेन वन्यकरिदानकृताधिवासः।
  नाभाजि केवलमभाजि गजेन शाखी
   नान्यस्य गन्धमपि मानभृतः सहन्ते ॥ ४२ ॥

 सेव्य इति ॥ यत्रा निषादिना आकलनाय बन्धनाय सानुनयं ससान्त्वं नीतेन समीपं प्रापितेन गजेन वन्यगजदानैः कृतोऽधिवासो वासना यस्य सः तद्गन्धीत्यर्थः । शास्त्री वृक्षः । ब्रीह्यादित्वाण्णिनिः । सेव्योऽपि सन्नाभाजि नासेवि। 'भज सेवायाम्' कर्मणि लुङि चिणो लुग्वृद्धिश्च । किंतु केवलमभाजि । अभञ्जी- त्यर्थः । 'भञ्जो आमर्दने' । 'भञ्जेश्च चिणि' (६॥४॥३३) इति विभाषा नलोपः । शेषं पूर्ववत् । तथा हि-मानभृतोऽहङ्कारिणोऽन्यस्य गन्धमपि न सहन्ते । परं किमुतेति भावः । अतो वृक्षभञ्जनं गजस्य युक्तमेवेत्यर्थः । पूर्ववदलंकारः ॥४२॥

  अद्रीन्द्रकुञ्जचरकुञ्जरगण्डकाप-
   संक्रान्तदानपयसो वनपादपस्य ।
  सेनागजेन मथितस्य निजप्रसूनै-
   र्मम्ले यथागतमगामि कुलैरलीनाम् ॥ ४३॥

 अद्रीन्द्रेति ॥ अद्रीन्द्रस्य रैवतकस्य कुञ्जेषु चरति यस्तस्य कुञ्जचरस्य कुञ्जरस्य

गण्डकाषेण कपोलसंघर्षणेन संक्रान्तं दानपयो मदाम्बु यस्य तस्यात एव सेनागजेन मथितस्य भग्नस्य वनपादपस्य निजैरात्मीयैः प्रसूनैः पुष्पैः । 'निजमात्मीयनित्ययोः' इति वैजयन्ती । मम्ले म्लानम् । म्लायतेर्भावे लिट् । अलीनां कुलैस्तु यथागतमगामि गतम् । आगतक्रमेणैव गतं न तु म्लानमित्यर्थः । 'आपद्यात्मीयानात्मीययोर्भेदः' इति भावः । गमेर्गत्यर्थस्याकर्मकत्वविवक्षणाद्भावे लुङ् । इभवनपादपादीनां विशेषणसाम्यादापन्नाद्यौपम्यप्रतीतेः कथंचित्समासोक्तिरुन्नेया ॥ ४३ ।।

  नोचैर्यदा तरुतलेषु ममुस्तदानी-
   माधोरणैरभिहिताः पृथुमूलशाखाः।
  बन्धाय चिच्छिदुरिभास्तरसात्मनैव
   नैवात्मनीनमथवा क्रियते मदान्धैः ॥४४॥

 नेति ॥ इभा यदा उच्चैरुन्नतेषु तरुतलेषु न ममुर्नावर्तन्त तदानीमाधोरणैर्नियन्तृभिरभिहिता इमांश्छिन्तेत्युपदिष्टाः पृथुमूलशाखाः बन्धाय स्वबन्धनायैव तरसा बलेनात्मना स्वयमेव चिच्छिदुः । न चैतद्युक्तमिति भावः । यद्वा मूढानां युक्तमेवेत्याह-अथवेति । अथवा मदान्धैरात्मनीनमात्मने हितं न क्रियत एव । 'आत्मन्विश्वजनभोगोत्तरपदात्खः' (५।१।९) इति खप्रत्ययः । 'आत्माध्वानौ खे' (१।४।१६९) इति प्रकृतिभावात् 'नस्तद्धिते' (६।४।१४४) इति टिलोपो न । पूर्ववदर्थान्तरन्यासः ॥ ४४ ॥

  उष्णोष्णशीकरसृजः प्रबलोष्मणोऽन्त-
   रुत्फुल्लनीलनलिनोदरतुल्यभासः ।
  एकान् विशालशिरसो हरिचन्दनेषु
   नागान् बबन्धुरपरान्मनुजा निरासुः ॥ ४५ ॥

 उष्णोष्णेति ॥ मनुजा नरा उष्णोष्णा उष्णप्रकाराः । 'प्रकारे गुणवचनस्य' (८।१।१२) इति द्विवचनम् । कर्मधारयवद्भावात्सुपो लुक् । तान् शीकरान् सृजन्ति मुञ्चन्तीति तथोक्तान् । क्विप् । अन्तः प्रबलोष्मणः प्रवृद्धतापान् । उत्फुल्लं विकचम् । 'उत्फुल्लसंफुल्लयोरुपसंख्यानम्' (वा०) इत्युपसर्गेऽपि फुल्लेनिष्ठानत्वम् । तस्य नीलनलिनस्य नीलोत्पलस्योदरेण तुल्यभासः समानकान्तीन् । कृष्णवर्णानित्यर्थः । विशालशिरसो विपुलमस्तकानेकान् कतिचिन्नागान् । गजानित्यर्थः । हरिचन्दनेषु चन्दनविशेषेषु । 'तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम्' इत्यमरः । बबन्धुः । अपरान्नागानहीनित्यर्थः । 'दुष्टाब्भ्राहिगजा नागाः' इत्युभयत्रापि वैजयन्ती । निरासुनिष्कासयामासुः । अस्यतेर्लिट् । अत्रोभयेषामपि नागानां प्रकृतत्वात्केवलप्रकृतश्लेषः ॥ ४५ ॥

  कण्डूयतः कटभुवं करिणो मदेन
   स्कन्धं सुगन्धिमनुलीनवता नगस्य ।

  स्थूलेन्द्रनीलशकलावलिकोमलेन
   कण्ठेगुणत्वमलिनां वलयेन भेजे ॥४६॥

 कण्डूयत इति ॥ कटभुवं गण्डस्थलं कण्डूयतः कषतः । 'कण्ड्वादिभ्यो यक्' (३।१।२७) ततः शतृप्रत्ययः । कण्डूयतेर्ञिद्धातुप्रकृतित्वादुभयपदित्वम् । करिणो मदेन सुगन्धिं शोभनगन्धम् । गन्धस्येत्वे तदेकान्तग्रहणं नाद्रियन्ते कवयः । नगस्य वृक्षस्य स्कन्धं प्रकाण्डम् । अनुलीनवता । तत्र संश्लिष्टेनेत्यर्थः । लीयतेर्निष्टेति क्तवतुप्रत्ययः । 'ल्वादिभ्यः' (८।२।४४) इति निष्ठानत्वम् । स्थूलानामिन्द्रनीलशकलानामावलिवत्कोमलेन मनोहरेणालिनां वलयेन कण्ठेगुणत्वं कण्ठवलयत्वम् । 'अमूर्धमस्तकात्स्वाङ्गादकामे' (६।३।१२) इत्यलुक् । भेजे प्राप्तम् । कर्मणि लिट् । अत्रालिवलये इन्द्रनीलमयकण्ठभूषणत्वारोपाद्रूपकालंकारः ॥ ४६॥

  निर्धूतवीतमपि बालकमुल्ललन्तं
   यन्ता क्रमेण परिसान्त्वनतर्जनाभिः ।
  शिक्षावशेन शनकैर्वशमानिनाय
   शास्त्रं हि निश्चितधियां क्व न सिद्धिमेति ॥४७॥

 निर्धूतेति ॥ यन्ता निषादी निधूतं निरस्तं वीतं पादघाताङ्कुशवारणं यस्मिन्कर्मणि तद्यथा तथा उल्ललन्तमुत्प्लवमानमपि । 'पादकर्म यतं प्रोक्तं यतमङ्कुशवारणम् । उभयं वीतमाख्यातम्' इति हलायुधः । बालकं पञ्चवर्षगजम् । 'पञ्चवर्षों गजो बालः पोतस्तु दशवार्षिकः' इति वैजयन्ती । शिक्षावशेन स्वकीयेन गजशास्त्राभ्यासबलेन क्रमेण परिपाट्या परिसान्त्वनान्युपलालनानि तर्जना भर्त्सनाश्च ताभिः शनैरेव शनकैः । 'अव्ययसर्वनाम्नामकच् प्राक्टेः' (५।३७१) इति स्वार्थेऽकच् प्रत्ययः । शमं शान्तिमानिनाय । तथा हि-सुष्टु निश्चितार्था धीरेषां तेषाम् । पुंसामित्यर्थः । शास्त्रं क्व सिद्धिं नैति । स्वभ्यस्तं शास्त्रं सर्वत्र फलतीत्यर्थः । विभक्तधना भ्रातरो विभक्ता इतिवद्विनिश्चितार्था धीनिश्चितेत्युपचर्यते । अत एवात्र गम्यमानार्थत्वादुत्तरपदस्याप्रयोगलक्षणो लोप इत्याहुः ॥ ४७ ॥

  स्तम्भं महान्तमुचितं सहसा मुमोच
   दानं ददावतितरां सरसाग्रहस्तः ।
  बद्धापराणि परितो निगडान्यलावी-
   त्स्वातन्त्र्यमुज्वलमवाप करेणुराजः॥४८॥

 स्तम्भमिति ॥ करेणुश्चासौ राजा च करेणुराजो गजश्रेष्ठः । करेणूनां राजेति गजपतिः, राजा च ध्वन्यते । उभयत्रापि 'राजाहःसखिभ्यः-' (५।४।९१) इति टच् । उज्ज्वलमुच्छृङ्खलं स्वातन्त्रयं स्वेच्छाचारित्वमवाप। तदेवाह-उचितं चिरपरिचितं महान्तं स्तम्भमालानं जाड्यं च सहसा मुमोच। 'स्तम्भः स्थूणाजडत्वयोः' इति विश्वः । सरस आद्रोऽग्रहस्तः पुष्कर, पाणिश्च यस्य स सन् दानं मदं, दीयत इति दानं धनं चातितरामतिमात्रम् । अव्ययादामुप्रत्ययः । ददौ । ववर्षेत्यर्थः । परितो बद्धापराणि बद्धपश्चिमपादानि बद्धान्यानि च । 'अपरः पश्चिमः पादः' इति गजप्रकरणे वैजयन्ती । निगडानि शृङ्खलानि । 'अथ शृङ्खले । अन्दुको निगडोऽस्त्री स्यात्' इत्यमरः । अलावीत् लुनाति स्म । 'लून छेदने' लुङ् 'अस्तिसिचोऽपृक्ते' (७३।९६) इतीट् 'इट ईटिं' (८।२।२८) इति सलोपः । अत्र करेणुराजपदसाधर्म्यध्वनिः । विशेष्यस्यापि श्लिष्टत्वान्न श्लेष इत्युक्तम् ॥ ४८॥

  जज्ञे जनैर्मुकुलिताक्षमनाददाने
   संरब्धहस्तिपकनिष्ठुरचोदनाभिः ।
  गम्भीरवेदिनि पुरः कवलं करीन्द्रे
   मन्दोऽपि नाम न महानवगृह्य साध्यः॥४९ ॥

 जज्ञ इति ॥ गम्भीरं मन्दं वेत्तीति गम्भीरवेदी । त्वग्भेदाच्छोणितस्रावान्मांसस्य च्यवनादपि । आत्मानं यो न जानाति तस्य गम्भीरवेदिता ॥' इति राजपुत्रीये । 'चिरकालेन यो वेत्ति शिक्षा परिचितामपि । गम्भीरवेदी विज्ञेयः स गजो गजवेदिभिः ॥' इति मृगचर्मीये । तस्मिन् गम्भीरवेदिनि करीन्द्रे संरब्धः कुपितः हस्तिनं पातीति हस्तिपः स एव हस्तिपको निषादी । 'आधोरणा हस्तिपका हस्त्यारोहा निपादिनः' इत्यमरः । तस्य निष्ठुराभिश्चोदनाभिस्तर्जनाभिरपि मुकुलिताक्षं निमीलितनेत्रं यथा तथा पुरः कवलं ग्रासं अनाददाने सति । मन्दो मूढोऽपि । 'मूढाल्पापटुनिर्भाग्या' इत्यमरः । गजभेदोऽपि । 'भद्रो मन्दो मृगश्चैव विज्ञेयास्त्रिविधा गजाः' इति । महान् बलाधिकोऽवगृह्य निगृह्य साध्यो न नाम न खल्विति जनैर्जज्ञे ज्ञातम् । जानातेः कर्मणि लिद । मन्दोऽपीत्यादिवा- क्यार्थः कर्म ॥ ४९॥

  क्षिप्तं पुरो न जगृहे मुहुरिक्षुकाण्डं
   नापेक्षते स्म निकटोपगतां करेणुम् ।
  समार वारणपतिः परिमीलिताक्ष-
   मिच्छाविहारवनवासमहोत्सवानाम् ॥ ५० ॥

 क्षिप्तमिति ॥ वारणपतिः करिवरो मुहुः पुरः क्षिप्तमग्रे न्यस्तमिक्षुकाण्डमिक्षुदण्डं न जगृहे न स्वीचकार । निकटोपंगतां समीपस्थां करेणुं करिणी च नापेक्षते स्म नेच्छति स्म । 'लट् स्मे' (३।२।११८) इति भूतार्थे लट् । किंतु परिमी- लिताक्षं यथा तथेति स्मृत्यनुभावः । इच्छया विहारा येषु ते वनवासा एव महोत्सवास्तेषां सस्मार । तानेव चिन्तयामासेत्यर्थः । 'अधीगर्थदयेशां कर्मणि' (२।३।५२) इति शेषत्वविवक्षायां षष्ठी । न स्वच्छन्दचारिणां निर्बन्धे भोगेषु

मनः प्रवर्तत इति भावः । वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः ॥ ५० ॥

  दुःखेन भोजयितुमाशयिता शशाक
   तुङ्गाग्रकायमनमन्तमनादरेण ।
  उत्क्षिप्तहस्ततलदत्तविधानपिण्ड-
   स्नेह तिस्नपितबाहुरिभाधिराजम् ॥५१॥

 दुःखेनेति ॥ उत्क्षिप्ते उद्यते हस्ततले दत्तो निहितो यः विधानस्य गजग्रा- सस्य पिण्डः । 'विधानं हस्तिकवलः' इति वैजयन्ती । तस्य स्नेहस्रुत्या घृतादिनिः- स्यन्दनेन स्नपितबाहुराप्लुतभुजः । स्नातेर्ण्य॑न्तात्कर्मणि क्तः । 'अर्तिर्ह्री-'(७/३।३६) इत्यादिना पुगागमः मित्वाद्रस्वः। आशयिता भोजयिता । अशेर्ण्य॑न्तात्तृच । तुङ्गाग्र- कायं स्वभावत एवोन्नतोर्ध्वकायम् । अनादरेणानमन्तं कवलग्रहणाय नतिमकुर्वा- णमिमाधिराजम् । 'गतिबुद्धि-' (१॥४॥५२) इत्यादिना अणि कर्तुणौं कर्मत्वम् । दुःखेन कृच्छ्रेण भोजयितुं शशाक । स्वभावोन्नतानां तत्राप्यहङ्कारग्रस्तानां को नम- यितेति भावः ॥ ५१ ॥

  शुक्लांशुकोपरचितानि निरन्तराभि-
   र्वेश्मानि रश्मिविततानि नराधिपानाम् ।
  चन्द्राकृतीनि गजमण्डलिकाभिरुच्चै-
   र्नीलाभ्रपङ्क्तिपरिवेषमिवाधिजग्मुः ॥५२॥

 शुक्लेति ॥ शुक्लांशुकैः शुक्लपटैरुपरचितान्युपकल्पितानि, अन्यत्र तु अल्पा अंशवोऽशुकाः सूक्ष्मास्तेजोऽवयवाः । 'अल्पे' (५।३।८५) इत्यल्पार्थे कन्प्रत्ययः । शुक्लैस्तैरुपरचितानि व्याप्तानि रश्मिभिः प्रग्रहै:, किरणैश्च विततानि विस्तृतानि । 'किरणप्रग्रहौ रश्मी' इत्यमरः । चन्द्रस्येवाकृतिर्येषां तानि चन्द्राकृतीनि । चन्द्र- मण्डलनिभानीत्यर्थः । नराधिपानां वेश्मानि दूष्याणि निरन्तराभिर्नीरन्ध्राभिरुच्चैर्गज- मण्डलिकाभिर्गजपरिधिभिः । स्वार्थे कप्रत्ययः । कात्पूर्वस्येकारः । नीलाभ्रपङ्क्तिभिः परिवेषं परिधिम् । परिवेष्टनमिति यावत् । 'परिवेषस्तु परिधिः' इत्यमरः । अधि- जग्मुरिवेत्युत्प्रेक्षा ॥ ५२ ॥

  गत्यूनमार्गगतयोऽपि गतोरुमार्गाः
   स्वैरं समाचकृषिरे भुवि वेल्लनाय ।
  दर्पोदयोल्लसितफेनजलानुसार-
   संलक्ष्यपल्ययनवर्ध्रपदास्तुरङ्गाः ॥५३ ॥

 गत्यूनेति ॥ गत्यूना विशिष्टगमनहीना मार्गगतयोऽध्वगमनानि येषां ते तथापि गतोरुमार्गाः प्रस्थितदूराध्वान इति विरोधः । अपिर्विरोधे । गत्यूना मार्गी मृगसंबन्धिनी गतिर्येषां त इति विरोधपरिहारः । अत एव विरोधाभासो- ऽलंकारः। दर्पस्य तेजसोऽन्तःसारस्योदयेनौत्कट्येनोल्लसितस्योद्धतस्य फेनजलस्य फेनीभूतोद्धतस्वेदोदकस्यानुसारेण प्रसारेण संलक्ष्याणि पल्ययनवर्ध्राणामासन- बन्धचर्मवरत्राणां पदानि तन्नोदनान्निम्नीभूतस्थलानि येषां ते तथोक्ताः । तुरङ्गा भुवि वेल्लनायाङ्गपरिवर्तनाय स्वैरं मन्दं समाचकृषिरे समाकृष्टाः । अध्वश्रमाप- नोदनार्थमिति भावः । वर्धते दृढबन्धनाद्दीर्घीभवतीति वर्ध्रम् । 'वृधिवपिभ्यां रन्' (उ० १८५) इत्यौणादिके रन्प्रत्यये लघूपधगुणो रपरः । 'वधं त्रपुवरत्रयोः' इति विश्वः । अमरस्तु 'नध्री वर्ध्री वरत्रा स्यात्' इत्याह । तदा 'ष्ट्रन्' इत्यौणादिके ष्ट्रन्प्रत्यये पूर्ववद्गुणो रपरः प्रत्ययतकारस्य 'झषस्तथोर्धोऽधः' (८।२।४०) इति धत्वे षित्त्वात्स्त्रीलिङ्गे ङीष् ॥ ५३॥

  आजिघ्रति प्रणतमूर्धनि बाह्लिजेऽश्वे
   तस्याङ्गसङ्गमसुखानुभवोत्सुकायाः ।
  नासाविरोकपवनोल्लसितं तनीयो
   रोमाञ्चतामिव जगाम रजः पृथिव्याः॥५४॥

 आजिघ्रतीति ॥ बाह्निरश्वयोनिर्देशविशेषः, तज्जे, बाह्निजेऽश्वे । 'बाह्निदेश्ये' इति पाठे विशेष्याप्रयोगो गम्यमानत्वादित्युक्तम् ।1 'दिगादिभ्यो यत्' (१।३।५४) इति भवार्थे यत्प्रत्ययः । तदन्तविधिस्तु मृग्यः। प्रणतमूर्धनि नम्रशिरसि कृतप्र- णामे च आजिघ्रति गन्धं गृह्णति चुम्बति च सति । स्वभावात्कामाच्चेति भावः । नासाविरोकं नासारन्धं तस्य पवनो निःश्वासस्तेनोल्लसितमुद्भूतं तनीयस्तनुतरं रज- स्तस्याश्वस्याङ्गसङ्गमेन वेल्लनप्रयुक्तेन यत्सुखं तस्यानुभवे उत्सुकाया उत्कण्ठितायाः पृथिव्या रोमाञ्चतां जगामेवेत्युत्प्रेक्षा । सा च भूतुरङ्गमयोः प्रतीयमानचेतननाय- काद्यभेदाध्यवसायादित्यवधेयम् । विरोचतेऽनेनेति विरोकम् । घञ्प्रत्ययः । 'चजोः कु घिण्यतोः' (७।३।५२) इति कुत्वम् । लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य' इति नपुंसकत्वाविरोधः । अत एव छिद्रं निर्व्यथनं रोकम्' इत्यमरः । 'रोको रश्मौ बिले न पुम्' इति वैजयन्ती । रोको दीप्तौ बिले रोकम्' इति विश्वः । ये तु केनाप्यभिप्रायेण 'विरेकपवन' इति पठन्ति तेषां परोत्सर्गैकजीविनामितिवदपानी- यपवनप्रतीतेरश्लीलाख्यो दोषः। 'अश्लीलं तदमङ्गल्यजुगुप्साव्रीडधीकरम्' इति लक्षणात् ॥ ५४॥

  हेम्नः स्थलीषु परितः परिवृत्त्य वाजी
   धुन्वन् वपुः प्रविततायतकेशपङ्क्तिः।
  ज्वालाकणारुणरुचा निकरेण रेणोः
   शेषेण तेजस इवोल्लसता रराज ॥ ५५ ॥

 हेम्न इति ॥ हेम्नः स्थलीषु स्वर्णभूमिषु । 'जानपद-' (४।१।४२) इत्यादि- नाऽकृत्रिमार्थे ङीष्प्रत्ययः । परितः परिवृत्त्य परिवृत्तिं कृत्वा वपुर्धन्वन् धूलिनिर्ग- माय कम्पयन् अत एव प्रवितता विश्लिष्टा आयता च केशपङ्क्ती रोमसंघातो यस्य स वाजी ज्वालाकणाः स्फुलिङ्गास्तद्वदरुणरुचा रक्तवर्णेन रेणोर्निकरेणोल्लसता अत्युत्कटतया बहिरुद्गच्छता तेजसोऽन्तःसारस्य दर्पस्य शेषेणातिरेकेणेव रराज । उत्प्रेक्षालंकारः ॥ ५५ ॥

पाठा०-१ 'गर्गादिभ्यो यञ्, इति भवाथें यञ्प्रत्ययः'. २ 'प्रकरेण'.

  दन्तालिकाधरणनिश्चलपाणियुग्म-
   मर्धोदितो हरिरिवोदयशैलमूर्ध्नः ।
  स्तोकेन नाक्रमत वल्लभपालमुच्चैः
   श्रीवृक्षकी पुरुषकोनमिताग्रकायः॥ ५६ ॥

 दन्तालिकेति ॥ पुरुषकोऽश्वानां स्थानकभेदः । तदुक्तम्-'पश्चिमेनाग्रपा- देन भुवि स्थित्वाग्रपादयोः । ऊर्ध्वप्रेरणया स्थानमश्वानां पुरुषः स्मृतः ॥' इति । पुरुष एव पुरुषकः तेन पुरुषकेण स्थानकेनोन्नमित ऊर्ध्वावस्थितोऽग्रकायः पूर्वकायो यस्य स तथोक्तः अत एवोदयशैलस्य मूर्ध्नो मस्तकादर्धमुदितोऽडर्धोदितो हरिः । सूर्य इव स्थित इत्यर्थः । अर्धोदितविशेषणादुच्चैरुन्नतः श्रीवृक्ष एव श्रीवृक्षकः आवर्तविशेषस्तद्वानश्वः श्रीवृक्षकी । 'वक्षोभवावर्तचतुष्टयं च कण्ठे भवेद्यस्य च रोचमानः । श्रीवृक्षकी नाम हयः स भर्तुः श्रीपुत्रपौत्रादिविवृद्धये स्यात् ॥' इति लक्षणात् । 'श्रीवृक्षकी वक्षसि चेद्रोमावर्तो मुखेऽपि च' इति तु वैजयन्ती । दन्तालिका मुखरज्जुः । 'मुखरज्जुश्च दन्ताली राणिका रक्षणीति च' इति वैजयन्ती। तस्या धरणे ग्रहणे निश्चलं स्थिरं पाणियुग्मं यस्य तम् । पाणिभ्यां दृढं गृहीतोभ- यवल्गमित्यर्थः । वल्लभपालमुत्तमाश्वपालम् । 'वल्लभो दयितेऽध्यक्षे कुलीनेऽश्वे- ऽपि वल्लभः' इति विश्वः । स्तोकेन नाक्रमत । वल्गाग्रहणदार्ढ्यात् स्तोकेनाप्यभि- भवितुं न शक्तोऽभूदित्यर्थः । इह 'श्लथयितुं क्षणमक्षमताङ्गना न द्वन्द्वदुःखमिह किंचित्' इत्यादिवदप्यर्थस्य सामर्थ्यलभ्यत्वादपेरप्रयोगः । अन्यथा स्तोकेन नाक्र- मत किंतु भूय इति व्याख्याने निश्चलपाणियुग्मत्वादिविशेषणावगतवाहकौशल्य- प्रकाशनतात्पर्यभङ्गप्रसङ्गात् । 'करणे च स्तोकाल्प-' (२।३।३३) इत्यादिना विकल्पा. तृतीया 'अनुपसर्गाद्वा' (वा०) इति विकल्पादात्मनेपदम् । उपमालंकारः ॥५६॥

  रेजे जनैः स्नपनसान्द्रतरार्द्रमूर्ति-
   देवैरिवानिमिषदृष्टिभिरीक्ष्यमाणः ।
  श्रीसंनिधानरमणीयतरोऽश्व उच्चै-
   रुच्चैःश्रवा जलनिधेरिव जातमात्रः॥ ५७ ॥

 रेज इति ॥ स्नपनेनाभिषेचनेन सान्द्रतरार्द्रमूर्तिः अनिमिषदृष्टिभिर्विस्मया- दनिमिषा:र्जनैर्देवैरिव तादृग्भिरीक्ष्यमाणः श्रियः शोभायाः, देव्याश्च संनिधानेन रमणीयतरः । 'तत्र संनिहिता लक्ष्मीः सन्ति यत्रोत्तमा हयाः' इत्यागमादिति भावः । उच्चैरुन्नतोऽश्वो जलनिधेः समुद्राज्जात एव जातमात्रः । सद्योजात इत्यर्थः । अन्यथोक्तसाधर्म्यासंभवादिति भावः । 'मात्रं कार्त्स्येऽवधारणे' इत्यमरः । उच्चै- रुन्नतं श्रवः कीर्तिरुन्नते श्रवसी कर्णौ वा यस्य स उच्चैःश्रवाः शक्राश्व इव रेजे । उपमालंकारः ॥ ५७ ॥

  अश्रावि भूमिपतिभिः क्षणवीतनिद्रै-
   रश्नन् पुरो हरितकं मुदमादधानः ।

  ग्रीवाग्रलोलकलकिङ्किणिकानिनाद-
   मिश्रं दधद्दशन1चर्चुरशब्दमश्वः ॥ ५८ ॥

 अश्रावीति ॥ पुरोऽग्रे हरितकं हरिततृणमश्नन् अत एव ग्रीवाग्रे लोला- श्वलाः कला अव्यक्तमधुराः किङ्किणिकाः क्षुद्रघण्टिकास्तासां निनादेन मिश्रं दशनानां दन्तानां 1चर्चुरशब्दं चर्चुरध्वनिं दधत् अत एव मुदमादधान उत्पा- दयन्नश्वः । जातावेकवचनम् । क्षणेन वीतनिद्रैः । 'अल्पनिद्रोऽल्पभुग्वाग्मी मित- भाष्यनसूयकः' इति सौभाग्यलक्षणादिति भावः । भूमिपतिभिरश्रावि श्रुतः । अश्वस्य शब्दोऽश्रावीत्यर्थः । वीणाः श्रूयन्ते भेर्य श्रूयन्त इत्यादिवच्छब्दधर्मः शब्दिषूपचर्यते । स्वभावोक्तिरलंकारः ॥ ५८ ॥

  उत्खाय दर्पचलितेन सहैव रज्ज्वा
   कीलं प्रयत्नपरमानवदुर्ग्रहेण ।
  आकुल्यकारि कटकस्तुरगेण तूर्ण-
   मश्चेति विद्रुतमनुद्रवताश्वमन्यम् ॥ ५९॥

 उत्खायेति ॥ दर्पाच्चलितेनोल्ललितेन अत एव रज्ज्वा पाशेन सह कीलं शङ्कुम् । 'शङ्कावपि द्वयोः कीलः' । इत्यमरः। उत्खाय उत्पाट्य तूर्णं विद्रुतं धाव- न्तम् । अन्यमश्वम् । अश्वेत्यनुगवता वडवेति भ्रान्त्यानुधावता प्रयत्नपरैर्ग्रहीतुं प्रयतमानैरपि मानवैर्मनुष्यैर्दुर्ग्रहेण तुरंगेण कटकः शिबिरमाकुल्यकारि आकुली- कृतः । आकुलशब्दादभूततद्भावे चिः 'अस्य च्चौ' (७/४।३२) इतीकारः । करोतेः कर्मणि लुङि चिणो लुक् ॥ ५९ ॥

  अव्याकुलं प्रकृतमुत्तरधेयकर्म-
   धाराः प्रसाधयितुमव्यतिकीर्णरूपाः ।
  सिद्धं मुखे नवसु वीथिषु कश्चिदश्वं
   वल्गाविभागकुशलो गमयांबभूव ॥ ६०॥

 अव्याकुलमिति ॥ वल्गा मुखरज्जुः सा चोरिक्षप्तादिभेदेन चतुर्दशविधा । तदुक्तं हयलीलावत्याम्-'उत्क्षिप्ता शिथिला तथोत्तरवती मन्दा च वैहायसी वि- क्षिप्तैककरार्धकंधरसमाकीर्णा विभक्ता तथा । अत्युक्षिप्ततलोद्धृते खलु तथा व्या- गूढगोकर्णिके वाहानां कथिताश्चतुर्दशविधा वल्गाप्रभेदा अमी ॥' इति । तल्लक्ष- णानि तु तत्रैव द्रष्टव्यानि, विस्तरभयान्न लिख्यन्ते । तस्या विभागो विविच्य प्रयोगः तत्र कुशलो वल्गविभागकुशल इति । षड्विधप्रेरणाभिज्ञ इत्यर्थः । वल्गा- ग्रहणस्य रागाद्युपलक्षणत्वात् । यथाह भोजः-'वाहनं प्रतिवाहानां षड्विधं प्रेरणं विदुः । रागावल्गाकशापार्ष्णिप्रतोदरवभेदतः ॥' इति । कश्चित् कश्चन वाहकः अव्याकुलं 2अव्यग्रम् । अत्रस्तमिति यावत् । प्रकर्षेण कृतं प्रकृतम् । सज्जितमित्यर्थः । मुखे मुखकर्मणि सिद्धं सिद्धिमन्तमश्वं चतुष्काख्ये गतिविशेषे मुखे । संस्थानवि-

पाठा०-१ चुर्चुर”. २ 'समग्रम्.' शेषादिविशेषणविशिष्टमश्वमित्यर्थः । तदुक्तं रेवतोत्तरे-'सृक्काधरोष्ठसितफेनलवा- भिरामफूत्कारवायुपदमुन्नतकंधराग्रम् । नीत्वोपकुञ्चितमुखं नवलोहसाम्यमश्वं चतुष्कसमये मुखसिद्धमाहुः ॥' उत्तरधेयकर्म युद्धाद्युत्तरकाले धेयं विधेयं प्रयोज्यं यत्कर्म क्रिया तद्रूपा इत्यर्थः । अव्यतिकीर्णरूपा असंकीर्णरूपा धारा गतिभेदाः । 'अश्वानां तु गतिर्धारा विभिन्ना सा च पञ्चधा । आस्कन्दितं धौरि- तकं रेचितं वल्गितं प्लुतम् ॥' इति वैजयन्ती । 'गतयोऽमूः पञ्च धाराः' इत्यम- रश्च । अश्वशास्त्रे तु संज्ञान्तरेणोक्ताः । 'गतिः पुला चतुष्का च तद्वन्मध्यजवा परा । पूर्णवेगा तथा चान्या पञ्च धाराः प्रकीर्तिताः ॥ एकैका त्रिविधा धारा हयशिक्षाविधौ मता । लघ्वी मध्या तथा दीर्घा ज्ञात्वैता योजयेत् क्रमात् ॥' इति । तथा च पञ्चदश विभेदा भवन्ति । ताः पञ्च धाराः प्रसाधयितुं परिचेतुं नवसु वीथिषु संचारस्थानेषु गमयांबभूव । वीथयो नवाश्वानां सर्वत्र धारादार्ढ्यार्थाः परिमिताः प्रचारदेशाः । ताश्च तिस्र इत्येके नवेत्यन्ये । तत्रोत्तरपक्षमाश्रित्योक्तं कविना नवस्विति । यथाह भोजः-'वीथ्यस्तिस्रोऽथ धाराणां लध्वीमध्योत्तमाः क्रमात् । तासां स्याद्धनुषां मानमशीतिर्नवतिः शतम् ॥ श्रेष्ठमध्योत्तमानां तु वाजिनां वीथिकाः स्मृताः । नवानां कथिता वीथ्यो दुष्टानां क्रमणक्रमे । अन्ये- चामपि सर्वत्र गतिदार्ढ्यार्थमीरिताः ॥ समोन्नता सा विषमाम्बुकीर्णा शुद्धा नताग्रा तृणवीरुदाढ्या । स्थाणुप्रकीर्णोपलसंप्रकीर्णा पार्श्वोन्नताख्या नवधेति वीथ्यः ॥ सर्ववीथीषु यो वाजी दृढशिक्षासमन्वितः । तेन राजा रणे नित्यं मृग- यायां मुदं व्रजेत् ॥' इति । अन्ये तु उरसाल्यादयो गतिविशेषा वीथय इत्याहुः । 'उरसाली वरश्वाली पृथुलो मध्यनामकः । आलीढः शोभनैरङ्गैः प्रत्यालीढस्तथा- परः । उपधेनव उक्तं च पादचाली च सर्वगः । निर्दिष्टा वीथयस्त्वेताः' इति ॥६०॥

  मुक्तास्तृणानि परितः कटकं चरन्त-
   खुट्यद्वितानतनिकाव्यतिषङ्गभाजः।
  सस्रुः सरोषपरिचारकवार्यमाणा
   दामाञ्चलस्खलितलोलपदं तुरंगाः॥६१ ॥

 मुक्ता इति ॥ मुक्ता विहारार्थमुत्सृष्टा अत एव कटकं शिविरं परितः । 'अ- भितःपरितः- (वा०) इत्यादिना द्वितीया । तृणानि चरन्तो भक्षयन्तः त्रुट्य- न्तीषु छिन्नासु वितानतनिकासु पटमण्डपरज्जुषु व्यतिषङ्गं सङ्गं भजन्तीति तथो- क्ताः । अत एव सरोषैः परिचारकैः किंकरैर्वार्यमाणा अपसार्यमाणास्तुरङ्गा दामाञ्च- लानि पादपाशाः । 'दामाञ्चलं पादपाशः' इति वैजयन्ती । दूष्यवरत्राबन्धनशङ्कव इति केचित् । तेषु स्खलितेन लोलानि पदानि यस्मिन्कर्मणि तद्यथा तथा सस्रुर- पसस्नुः ॥ ६१॥

  उत्तीर्णभारलघुनाप्यलघूलपौघ-
   सौहित्यनिःसहतरेण तरोरधस्तात् ।
  रोमन्थमन्थरचलद्गुरुसानमासां
   चक्रे निमीलदलसेक्षणमौक्षकेण ॥ ६२ ॥

 उत्तीर्णेति ॥ उत्तीर्णभारमवरोपितावपनम् अत एव लघु तेन तथोक्तेन

तथाप्यलघुना उलपानां बल्वजतृणानामोघेन यत्सौहित्यं पूर्तिः । 'पर्याप्तमुपसं- पन्नं पूर्तिः सौहित्यमुच्यते' इति हलायुधः । तेन निःसहतरेणात्यन्तमसहतरेण बाह्यभारावतारेऽप्यन्तर1तिभोजनाद्गुरूभवतेत्यर्थः । सहेर्निःपूर्वात्पचाद्यजन्तात्त- रप् प्रत्ययः । 'उलपा बल्वजाः प्रोक्ताः' इति विश्वः । औक्षकेण उक्ष्णां समूहेन । 'गोत्रोक्ष- (४।२।३९) इत्यादिना वुञ् प्रत्ययः । तरोरधस्तात्तरुतले रोमन्थः पशूनां चर्वितचर्वणं तेन मन्थरं मन्दं चलन्त्यो गुर्व्यः सास्ना गलकम्बलानि यस्मि- न्कर्मणि तद्यथा तथा । 'सास्ना तु गलकम्बलः' इत्यमरः । किंच निमीलन्ति सुखान् मुकुलीभवन्ति अलसानि चेक्षणानि यस्मिन्कर्मणि तद्यथा तथा आसांचके आसितम् । 'आस उपवेशने' भावे लिट् । 'दयायासश्च' (३।१॥३७) इत्याम्प्र- त्ययः । 'कृञ्चानुप्रयुज्यते लिटि' (३।१।४०) इति कृजोऽनुप्रयोगः । इतःप्रभृ- त्याचतुष्टयात्स्वभावोक्तिः ॥ ६२ ॥

  मृत्पिण्डशेखरितकोटिभिरर्धचन्द्रं
   शृङ्गैः शिखाग्रगतलक्ष्ममलं हसद्भिः।
  उच्छृङ्गितान्यवृषभाः सरितां नदन्तो
   रोधांसि धीरमवचस्करिरे महोक्षाः॥६३॥

 मृत्पिण्डेति ॥ मृत्पिण्डैर्वप्रक्रीडालग्नैर्मृत्खण्डैः शेखरिताः संजातशेखराः कोटयोऽग्राणि येषां तैरत एव शिखाग्रगतमुभयकोट्यन्तर्गतं लक्ष्मैव मलं यस्य स एवंभूतं श्वेतमर्धचन्द्रं हसद्भिरित्यतिशयोक्तिभेद इत्युक्तम् । अभूतोपमेति मता- न्तरम्। शृङ्गैर्विषाणैरुच्छृङ्गा उत्पतितशृङ्गाः कृता उच्छृङ्गिता अन्यवृषभाः प्रतिवृषभा यैस्ते अत एव धीरं गम्भीरं नदन्तो गर्जन्तो महान्त उक्षाणो महोक्षाः । 'अचतुर-' (५।४।७७) इत्यादिना निपातात्साधुः । सरितां रोधांसि अवचस्करिरे आलि- लिखुः । हर्षाद्गुरुजुरित्यर्थः । अवपूर्वात्किरतेः कर्तरि लिट् । 'किरतेर्हर्षजीविकाकुलायकरणेष्विति वक्तव्यम्' (वा०) इत्यात्मनेपदम् । 'ऋच्छत्यृताम्' (७/४।१५) इति गुणः, 'अपाच्चतुष्पाच्छकुनिष्वालेखने' (६।१।१४२) इति सुडागमः ॥ ६३ ।।

  मेदस्विनः सरभसोपगतानभीकान्
   भङ्क्त्वा पराननडुहो मुहुराहवेन ।
  ऊर्जस्वलेन सुरभीरनु निःसपत्नं
   जग्मे जयोद्धुरविशालविषाणमुक्ष्णा ॥ ६४ ॥

 मेदस्विन इति ॥ ऊर्जो बलमस्यास्तीति तेन ऊर्जस्वलेन बलिना । 'ज्योत्स्ना- तमिस्रा-' (५।२।११४) इत्यादिना निपातः । उक्ष्णा वृषभेण मेदस्विनो मांस- लान् । 'अस्मायामेधास्रजो विनिः' (५।२।१२१)। अत एव सरभसं सत्वरमुप- गतान् अभिकामयन्त इत्यभीकान् कामुकान् । 'कम्रः कामयिताभीकः' इत्यमरः । 'अनुकाभिकाभीकः कमिता' (५।२।७४) इति निपातः । पराननडुहो बलीवर्दान् मुहुराहवेन युद्धेन भक्त्वा निर्जित्य जयेनोद्धुरे निर्भरे। 'ऋक्पूर-' (५।४।७४)

पाठा०-१ रगुरुभोजनाद्गु". इत्यादिना समासान्तः । विशाले च विषाणे यस्मिन्कर्मणि तद्यथा तथा निःसप- त्रमप्रतिपक्षं सुरभीरनु गवां पृष्ठतः । 'कर्मप्रवचनीययुक्ते द्वितीया' (२।३/8) जग्मे गतम् । भावे लिट् ॥ ६४ ॥

  विभ्राणमायतिमतीमवृथा शिरोधिं
   प्रत्यग्रतामतिरसामधिकं दधन्ति ।
  लोलोष्ठमौष्ट्रकमुदग्रमुखं तरूणा-
   मभ्रंलिहानि लिलिहे नवपल्लवानि ॥६५॥

 बिभ्राणमिति ॥ आयतिमतीं दैर्ध्यवतीम् । न च वृथा दैर्ध्यमित्याह-अवृ- थेति । उच्चस्तरपल्लवग्रहणात्सफलामित्यर्थः । शिरो धीयतेऽस्यामिति शिरोधिं ग्रीवाम् । 'शिरोधिः कंधरेत्यपि' इत्यमरः । 'कर्मण्यधिकरणे च' (३।३।९३) इति किप्रत्ययः । बिभ्राणं दधानम् । उदग्रमुखं पल्लवग्रहणार्थमूर्ध्वोक्षिप्ततुण्डमौ- ष्ट्रकमुष्ट्रसमूहः । 'गोत्रोक्ष-' (४।२।३९) इत्यादिना वुञ् । अधिकमतिशयितो रसः स्वादो यस्यां तामतिरसां प्रत्यग्रतामभिनवत्वं दधन्ति दधति । 'वा नपुंसकस्य-' (७।१।७९) इति वैकल्पिको नुमागमः । अभ्रं लिहन्तीत्यभ्रंलिहान्युच्चतराणि । 'वहाभ्रे लिहः' (३।२।३२) इति खश्प्रत्ययः । 'अरुर्द्विषत्-' (६।३।६७) इत्यादिना मुमागमः । तरूणां नवपल्लवानि । 'पल्लवोऽस्त्री किसलयम्' इत्यमरः । लोलोष्ठं यथा तथा । 'ओत्वोष्ठयोः समासे वा' (वा.) इति पररूपं वक्तव्यम् । लिलिहे आस्वादयामास । जघासेत्यर्थः ॥ ६५॥

  सार्धं कथंचिदुचितैः पिचुमर्दपत्रै-
   रास्यान्तरालगतमाम्रदलं म्रदीयः ।
  दासेरकः सपदि संवलितं निषादै-
   र्विप्रं पुरा पतगराडिव निर्जगार ॥ ६६ ॥

 सार्धमिति ॥ उचितैरभ्यस्तैः । 'अभ्यस्तेऽप्युचितं न्याय्यम्' इति यादवः । पिचुमर्दपत्रैर्निम्बदलैः सार्धम् । 'पिचुमर्दश्च निम्बेऽथ' इत्यमरः । कथंचित् प्रमादात् आस्यान्तरालगतं मुखान्तर्गतं म्रदीयो मृदुतरमाम्रदलं चूतपल्लवं दासेरक उष्ट्रः पुरा निषादैर्लेच्छैः संवलितं युक्तं विप्रं पतगराट् गरुत्मानिव निर्जगार उद्गीर्ण- वान् । पुरा किल कुतश्चित्कारणात् म्लेच्छभक्षणे तैः संह अन्तः प्रविश्य गलं दहन्तं विप्रं गरुड उजगारेति पौराणिकी कथानानुसंधेया ॥ ६६ ॥

  स्पष्टं बहिः स्थितवतेऽपि निवेदयन्त-
   श्चेष्टाविशेषमनुजीविजनाय राज्ञाम् ।
  वैतालिकाः स्फुटपदप्रकटार्थमुच्चै-
   र्भोगावलीः कलगिरोऽवसरेषु पेठुः ॥ ६७ ॥

[* सेयम्-'तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया । दहन्दीप्त इवाङ्गारस्तमु- वाचान्तरिक्षगः । द्विजोत्तम ! विनिर्गच्छ तूर्णमस्मादपावृतात् ॥' इत्यादि महाभा० आदि० २९ अध्यायोक्ता ज्ञेया।]  स्पष्टमिति ॥ बहिः स्थितवतेऽप्यनुजीविजनाय । राज्ञोऽवसरकाङ्क्षिण इति भावः । राज्ञां चेष्टाविशेषं तत्कालोचितचरित्रविशेष स्पष्टं निवेदयन्तः । तद्व्यञ्जक- प्रबन्धपाठैरिति भावः । कलगिरो मधुरवाचो वैतालिका मङ्गलपाठकाः अवसरेषु तद्वेलासु स्फुटैः प्रसिद्धैः पदैः प्रकटः प्रकाशोऽर्थोऽभिधेयं यस्मिन्कर्मणि तद्यथा तथा उच्चैर्भोगावलीः प्रबन्धान् पेठुः पठन्ति स्म । 'अत एकहल्मध्येऽनादेशादे- लिटि' (६१।१२०) इत्येत्वाभ्यासलोपौ ॥ ६७ ॥

  उन्नम्रताम्रपटमण्डपमण्डितं त-
   दानीलनागकुलसंकुलमावभासे ।
  संध्यांशुभिन्नघनकर्बुरितान्तरीक्ष-
   लक्ष्मीविडम्बि शिबिरं शिवकीर्तनस्य ॥ ६८॥

 उन्नम्रेति ॥ उन्ननैरुन्नतैः ताम्रर्धातुरक्तैः पटमण्डपैर्दूष्यैर्मण्डितं आसमन्ता- न्नीलैर्नागकुलैर्गजसङ्घः संकुलं अत एव संध्यांशुभिन्नैः संध्यारागसंभिन्नैर्घनैर्मेधैः कर्बुरितस्य चित्रीकृतस्यान्तरीक्षस्य लक्ष्मीं विडम्बयत्यनुकरोतीति तत्तथोक्तं शिव- कीर्तनस्य मङ्गलकीर्तेः कृष्णस्य तच्छिविरं कटकमाबभासे । मनोहरमभूदित्यर्थः । उपमालंकारः ॥ ६८॥

  धरस्योद्धर्ताऽसि त्वमिति ननु सर्वत्र जगति
   प्रतीतस्तत्किं मामतिभरमधः प्रापिपयिषुः ।
  उपालब्धेवोच्चैर्गिरिपतिरिति श्रीपतिमसौ
   बलाक्रान्तः क्रीडग्विरदमथितोर्वीरुहरवैः ॥६९ ॥

इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्यङ्के पञ्चमः सर्गः ॥५॥

 धरस्येति ॥ बलैः सैन्यैराक्रान्तो गिरिपती रैवतकः क्रीडद्भिर्विहरमाणैर्द्विर- दैर्मथितानां भग्नानामुर्वीरुहाणां वृक्षाणां रवैः शब्दैनिमित्तेन श्रीपतिं हरिम् । नन्वङ्ग त्वं धरस्य पर्वतस्योद्धर्ता उद्धारकोऽसीति सर्वत्र जगति प्रतीतः प्रसिद्धः । गोवर्धनोद्धारणादिति भावः । तत्तर्हि किं किमर्थमतिभरमतिभारवन्तं मामधः प्रापिपयिषुः प्रापयितुमिच्छुरसि । प्रापयतेः सन्नन्तादुप्रत्ययः । इत्युच्चैरुपालब्धेव आक्रुक्षदिवेत्युत्प्रेक्षा । उपाङ्पूर्वाल्लभेर्लुङ् 'एकाच उपदेशे-' (७।२।१०) इति नेट् । 'झंषस्तथोऽधः' (८।२।४०) इति तकारस्य धकारः । 'धि च' (8/2/२५) इति सिचः सकारलोपः । शिखरिणी वृत्तम् । 'रसै रुदैश्छिन्ना यमनसभला गः शिखरिणी' इति लक्षणात् ॥ ६९ ॥

इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध-
काव्यव्याख्याने सर्वंकषाख्ये पञ्चमः सर्गः ॥५॥


१ अत्र मल्लिनाथोऽप्युपालम्भयोग्य एव । सिचः सत्वे 'झषस्तथो:-' (८।२।४०) इत्यस्याप्राप्तेः । तस्मात् 'झलो झलि' (८।२।२६) इति सलोपे 'झषस्तथो:-' इति धः ॥