शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)/षष्ठः सर्गः(ऋतुवर्णनम्)
← पञ्चमः सर्गः(सेनानिवेशनम्) | शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्) षष्ठः सर्गः(ऋतुवर्णनम्) माघः |
सप्तमः सर्गः(वनविहारवर्णनम्) → |
षष्ठः सर्गः ।
अथ ऋतुवर्णनं प्रस्तौति-
अथ रिरंसुममुं युगपद्गिरौ कृतयथास्वतरुप्रसवश्रिया ।
ऋतुगणेन निषेवितुमादधे भुवि पदं विपदन्तकृतं सताम् ॥१॥
अथेति ॥ अथ सेनानिवेशानन्तरं गिरौ रैवतके रिरंसुं रन्तुमिच्छम् । रमेः सन्नन्तादुप्रत्ययः । एतेन ऋतुवर्णनप्रवृत्तेः प्रभुचित्तवृत्तिज्ञानपूर्वकत्वमुक्तम् । सतां साधूनां विपदामन्तं करोतीति विपदन्तकृत् । विप् । तं विपदन्तकृतम् । सेव्य- मिति भावः । अमुं हरिं निषेवितुं स्वतरून स्वस्वनियतवृक्षाननतिक्रम्य यथास्वतरु । यथार्थेऽव्ययीभावः । यथास्वतरुस्थिता प्रसवश्रीः पुष्पफलसंपत्तिः यथास्वतरु- प्रसवश्रीः । 'प्रसवस्तु फले पुष्पे' इत्यमरः । शाकपार्थिवादिषु द्रष्टव्यः । सा कृता येन तेन कृतयथास्वतरुप्रसवश्रिया। यथास्वतस्कृतप्रसवश्रियेत्यर्थः । ऋतुगणेन युगपद्भुवि पदमादधे आहितम् । युगपद्दतुगणः प्रादुरभूदित्यर्थः । नह्यवसरं सेवकाः क्षिपन्तीति भावः । अत्र सर्गे सर्वत्र यमकशब्दालंकारः । तल्लक्षणं तूक्तं चतुर्थे । अर्थालंकारस्तु यथासंभवमूह्यः । अस्मिन्सर्गे द्रुतविलम्बितं वृत्तम् । द्रुतविलम्बि- तमाह नभौ भरौ' इति लक्षणात् ॥ १ ॥
अथ लोकवेदयोः प्राथम्येन व्यवहाराद्वसन्तमादौ वर्णयति-
नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् ।
मृदुलतान्तलतान्तमलोकयत्स सुरभिं सुरभि सुमनोभरैः ॥२॥
नवेति ॥ स हरिः पुरोऽग्रे प्रथमं वा नवपलाशानि नूतनपर्णानि पलाशव- नानि किंशुककाननानि यस्मिंस्तं नवपलाशपलाशवनम् । बहुव्रीहिपूर्वपदो बहु- व्रीहिः । 'पलाशः किंशुके पत्रे पलाशम्' इति विश्वः । स्फुटानि विकचानि परागै रजोभिः परागतानि व्याप्तानि च पङ्कजानि यस्मिंस्तं स्फुटपरागपरागतप- ङ्कजं । मृदुलाः कोमला अत एव तान्ताः आतपसमये किंचिन्म्लाना लतान्ताः पल्लवा यस्मिंस्तं मृदुलतान्तलतान्तं सुमनोभरैः पुष्पसमृद्धिभिः सुरभिं सुगन्धिं सुरभिं वसन्तमलोकयदपश्यत् । 'सुरभिश्चम्पके स्वर्णे जातीफलवसन्तयोः । सुगन्धौ च मनोज्ञे च वाच्यवत्' इति विश्वः । इह प्रतिपादं प्रथमाक्षरद्वयात् पर- तोऽक्षरत्रयावृत्तिरूपयमकप्रक्रमाच्चतुर्थपादेऽपि तदेव यमकम् । एकस्मादप्यपर- मिति सजातीयसंसृष्टिः ॥ २ ॥
विलुलितालकसंहतिरामृशन्मृगदृशां श्रमवारि ललाटजम् ।
तनुतरङ्गततिं सरसां दलत्कुवलयं वलयन्मरुदाववौ ॥३॥
विलुलितेति ॥ विलुलितालकसंहतिर्विधुतचिकुरनिकरः सन् मृगदृशां लला- टजं श्रमवारि स्वेदमामृशन् परिमृजन् । मन्द इति भावः । सरसां तनुतरङ्गततिं दलन्ति विकसन्ति कुवलयानि यस्मिन्कर्मणि तद्यथा तथा वलयंश्वालयन् । शीतल इति भावः । मरुद्वसन्तवायुराववौ आवाति स्म ॥३॥
तुलयति स्म विलोचनतारकाः कुरबकस्तबकव्यतिषङ्गिणि ।
गुणवदाश्रयलब्धगुणोदये मलिनिमालिनि माधवयोषिताम् ४
तुलयतीति ॥ कुरबकस्तबके व्यतिषङ्गिणि लग्ने अत एव गुणवतः शुक्लगुणस्य कुरबकस्तबकस्याश्रयेणाश्रयणेन लब्धो गुणोदयो निजनीलिमगुणोत्कर्षो येन तस्मिन् । धवले नीलस्य स्फुरणादिति भावः । अलिनि भ्रमरे मलिनस्य भावो मलिनिमा कृष्णत्वं माधवयोषितां हरिवधूनां विलोचनानां तारकाः कनी- निकाः। 'तारकाक्ष्णः कनीनिका' इत्यमरः । तुलयति स्म समीचकार । तद्वद्ध- भावित्यर्थः । तुलाशब्दात्सदृशपर्यायात् 'तत्करोति-' (ग०) इति ण्यन्तात् 'लट् स्मे' (३।२।११८) इति भूते लट् । उपमालंकारः ॥ ४ ॥
स्फुटमिवोज्ज्वलकाञ्चनकान्तिभिर्युतमशोकमशोभत चम्पकैः ।
विरहिणां हृदयस्य भिदाभृतः कपिशितं पिशितं मदनाग्निना ५
स्फुटमिति ॥ उज्ज्वलकाञ्चनकान्तिभिः शुद्धसुवर्णप्रभैश्चम्पकैर्युतम् । चम्पक- समूहमध्यगतमित्यर्थः । स्फुटं विकचमशोकपुष्पं भिदा भेदः । 'षिद्भिदादिभ्यो- ऽङ्' (३।३।१०४) तां बिभर्ति यत्तस्य भिदाभृतो भिन्नस्य विरहिणां हृदयस्य हृदयपिण्डस्य संबन्धि मदनाग्निना कपिशितं कपिशीकृतं पिशितं मांसमिवाशो- भतेत्युप्रेक्षा ॥ ५॥
स्मरहुताशनमुर्मुरचूर्णतां दधुरिवाम्रवणस्य रजःकणाः ।
निपतिताः परितः पथिकव्रजानुपरि ते परितेपुरतो भृशम् ॥६॥
स्मरेति ॥ आम्रवणस्य चूतवनस्य । 'आम्रश्चूतो रसालश्च' इत्यमरः । 'प्रनिरन्तःशर-' (८/४/५) इत्यादिना वननकारस्य णत्वम् । रजःकणाः पराग- चूर्णाः स्मरहुताशनः कामाग्निः स एव मुर्मुरस्तुषाग्निः 'मुर्मुरस्तु तुषानलः' इति वैजयन्ती । तस्य चूर्णतां दधुरिवेत्युत्प्रेक्षा । अतो मुर्मुरचूर्णत्वादेव परित उपरि निपतितास्ते रजःकणाः पन्थानं गच्छन्तीति पथिकाः । 'पथः कन्' (५।१।७५) इति कन्प्रत्ययः । तेषां व्रजान् भृशं परितेपुः परितापयामासुः । अतो मुर्मुरचूर्ण- त्वोत्प्रेक्षणमिति भावः ॥ ६॥
रतिपतिप्रहितेव कृतक्रुधः प्रियतमेषु वधूरनुनायिका ।
बकुलपुष्परसासवपेशलध्वनिरगानिरगान्मधुपावलिः ॥ ७ ॥
रतिपतीति ॥ प्रियतमेषु विषये कृतक्रुधः कृतरुषः । 'प्रतिघा रुट्क्रुधौ स्त्रियाम्' इत्यमरः । वधूरनुनायिकाः कुपितस्त्रीरनुनेष्यन्ती । 'तमुन्ण्वुलौ क्रियायां क्रियायाम्' (३।३।१०) इति भविष्यदर्थे ण्वुल् प्रत्ययः । 'अकेनोर्भ- विष्यदाधमर्ण्ययोः' (२।३।७०) इति षष्ठीप्रतिषेधाद्वधूरिति द्वितीया । रतिप- तिना कामेन प्रहिता प्रेषितेव तद्वाणीश्रवणानन्तरमेव तासां कोपत्यागदर्शनादिय- मुत्प्रेक्षा । बकुलपुष्पाणां रसो मकरन्दः स एवासवस्तेन तत्पानेन पेशलध्वनिर्मधु- रस्वरा मधुपावलिः कर्त्री न गच्छतीत्यगादृशान्निरगान्निर्गता । इणो गा लुङि'
(२।४।४५) इति गादेशः ॥ ७ ॥ प्रियसखीसदृशं प्रतिबोधिताः किमपि काम्यगिरा परपुष्टया ।
प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयाऽदुरनाचितमङ्गनाः ॥ ८॥
प्रियसखीति ॥ गुरोर्महतो मत्सरस्य द्वेषस्य छिदुरया छेञ्न्या । 'विदिभिदि- च्छिदेः कुरच्' (३।२।१६२)। काम्यगिरा ग्राह्यवाचा परपुष्टया कोकिलया प्रियसख्या सदृशं यथा तथा किमपि परैर्दुर्बोधं रहस्यं हितं प्रतिबोधिता उपदिष्टा अङ्गनाः प्रियतमाय अयाचितमप्रार्थितमेव वपुर्निजाङ्गम् अदुरर्पयामासुः । ददातेर्लुङि 'गातिस्था-' (२।४/७७) इत्यादिना सिचो लुक् । कोकिलाकूजितश्रवणानन्तरमे- चाङ्गार्पणादौत्सुक्यहेतुकाद्यनन्तरन्यायेन तथा किमपि बोधिता इत्युत्प्रेक्षा ॥ ८॥
मधुकरैरपवादकरैरिव स्मृतिभुवः पथिका हरिणा इव ।
कलतया वचसः परिवादिनीस्वरजिता रजिता वशमाययुः॥९॥
मधुकरैरिति ॥ मधुकरैः कर्तृभिः । अपवादं मृगवञ्चनाय घण्टादिकुत्सित- वाद्यं कुर्वन्तीत्यपवादकरा व्याधास्तैरिव पथिका हरिणा इव परिवादिनीस्वर- जिता वीणाविशेषध्वनिजयिन्या । 'सप्तभिः परिवादिनी' इत्यमरः । जेः क्विपि तुक् । वचसो गीतस्य कलतया माधुर्येण करणेन रजिताः । आकृष्टाः सन्त इत्यर्थः । रञ्जय॑न्तात्कर्मणि क्तः । रञ्जो मृगरमणे-' (वा०) इति उपधानका- रलोपः । इहोपमानमृगसादृश्यादौपचारिकं मृगत्वम् उपमेयेषु पथिकेष्वस्तीत्यवि- रोधः । स्मृतिभुवः स्मरस्य मृगपातचिन्ताविषयत्वान्मृगग्रहणगर्तदेशस्य च वश- माययुः । यथा व्याधगानासक्त्या गर्ते मृगाः पतन्ति तद्वन्मधुकरहुंकाराकृष्टाः पान्थाः स्मरपारवश्यं भेजुरित्यर्थः । अनेकैवेयमुपमा ॥ ९ ॥
समभिसृत्य रसादवलम्बितः प्रमदया कुसुमावचिचीषया ।
अविनमन्न रराज वृथोचकैरनृतया नृतया वनपादपः ॥१०॥
समभिसृत्येति ॥ प्रमदया कर्व्या कुसुमानामवचिचीषया अवचेतुमिच्छया । रिरसयेति भावः । चिन्तेतेः सन्नन्तात् 'अ प्रत्ययात्' (३।३।१०२) इति स्त्रिया- मकारप्रत्ययः । 'विभाषा चेः' इति विकल्पात् कुत्वाभावः। रसादागात् समभिसृत्य समागत्यावलम्बितो हस्तेन गृहीतस्तथाप्यविनमन् वशमगच्छन् अत एव वृथोच्च- कैर्व्यर्थमुनतो वनपादपः । न तु नागरिक इति भावः । न ऋतेत्यनृता असत्या तथा अनृतया नुर्भावो नृता तया नृतया पुंस्त्वेन रराज । 'स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः' इत्यमरः । यः कान्ताकरगृहीतोऽपि न द्रवति स नपुंसक एव, लौकिकस्तु पुंस्त्वव्यपदेशो मिथ्यैवेति भावः ॥ १०॥
अथ कश्चित्स्वयंग्रहाश्लेषसुखार्थ प्रियामलिपातेन भीषयंस्त्रिभिः कुलकेनाह-
इदमपास्य विरागि परागिणीरलिकदम्बकमम्बुरुहां ततीः ।
स्तनभरेण जितस्तबकानमन्नवलते वलतेऽभिमुखं तव ॥११॥
इदमित्यादि ॥ स्तनभरेण साधनेन जिताभ्यां स्तबकाभ्यामानमन्ती नवलता यया सा तथोक्ता तस्याः संबुद्धिर्जितस्तबकानमन्नवलते स्तबकानमन्नवलतोपमे [* अत्र 'विशेषकेन' इति पाठः साधीयान् , यतः-'द्वाभ्यां युग्ममिति प्रोक्तं त्रिभिः श्लोकैर्विशेषकम् । कलापकं चतुर्भिः स्यात्तदूर्ध्व कुलकं स्मृतम् ।' इति तल्लक्षणात् । ] इत्यर्थः । अत एवेदं विरागि विरक्तिमदलिकदम्बकं परागिणीः परागवतीरिति विरक्तिहेतूक्तिः । अम्बुरुहां ततीरपास्य तवाभिमुखं वलते चलति । विशिष्टल. ताभ्रमादिति भावः । तथा च भ्रान्तिमदलंकारो व्यज्यते ॥ ११ ॥
अथालेस्तदभिमुखागमने कारणमाह -
सुरभिणि श्वसिते दधतस्तृषं नवसुधामधुरे च तवाधरे ।
अलमलेरिव गन्धरसावम् मम न सौमनसौ मनसो मुदे ॥१२॥
सुरभीति ॥ तव सुरभिणि श्वसिते निश्वासमारुते नवसुधावन्मधुरे अधरे च तृषं तृष्णां दधतो दधानस्यालेभ्रमरस्य ममेवामू उपलभ्यमानौ सुमनसां पुष्पाणां संबन्धिनौ सौमनसौ गन्धरसौ सौरभमाधुर्ये मनसोऽन्तःकरणस्य मुदे नालं न पर्याप्तौ । अतस्त्वद्वदनरसगन्धलोभादागच्छतीत्यर्थः । 'नमःस्वस्ति-' (२।३।१६) इत्यादिना चतुर्थी । अत्र कान्ताकर्तृकस्वयंग्रहाश्लेषसुखार्थिनः प्रियस्य तद्भयहेतोरलेरेवागमनहेतुत्वेनात्र दृष्टान्तेन मुखसौरभरसलोभभरकुसुमवैराग्ययो. र्वर्णयितुमौचित्याद्यमकानुसारेण विप्रकृष्टेनापि ममशब्देनेवशब्दस्यान्वयः । 'वलते. ऽभिमुखं तव अलिभयादिव सस्वज' इत्युपक्रमोपसंहाराभ्यामलेः प्रकृतत्वेनोप- मेयत्वावगमात् । अन्यथा मध्ये तद्वैपरीत्ये तद्विरोधादित्यलमहिचलनाध्वमार्ग- णेन । अत्रोपमानुप्रासयमकानां तावद्विजातीयानां संसृष्टिः स्पष्टैव । तथा यम- कानां त्रयाणां चतुर्थपादादावेकस्मादक्षरात् , द्वाभ्यां, त्रिभ्यश्च परतोऽक्षरत्रयावृ. त्तिलक्षणानां स्थितत्वात् सजातीयसंसृष्टिश्चेष्टा ॥ १२ ॥
इति गदन्तमनन्तरमङ्गना भुजयुगोन्नमनोच्चतरस्तनी ।
प्रणयिनं रभसादुदरश्रिया वलिभयालिभयादिव सस्वजे ॥१३॥
इतीति ॥ इतीत्थं गदन्तं प्रणयिनं अनन्तरं भुजयुगस्योन्नमनेनोच्चतराव- त्युनतौ स्तनौ यस्याः सा । 'स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्' (४॥१॥५४) इति ङीष् । वलिभया वलयो विद्यन्ते यस्यास्तया वलिमत्या । 'तुन्दिवलिवटेर्भः' (५।२।१३९) इति भप्रत्ययः । उदरश्रिया मध्यशोभया उपलक्षिता अङ्गना अलिभयादिव रभसात् सस्वजे आलिलिङ्ग । वस्तुतस्तु रागादेवेति भावः । 'ष्वञ्ज परिष्वङ्गे' इति धातोः कर्तरि लिट् । 'लज्जामन्मथमध्यस्था मध्येयं नायिका मता' इति ॥ १३ ॥
वदनसौरभलोभपरिभ्रमद्भमरसंभ्रमसंभृतशोभया ।
चलितया विदधे कलमेखलाकलकलोऽलकलोलदृशान्यया १४
वदनेति ॥ वदनस्य सौरभे सौगन्ध्ये लोभेन परिभ्रमता भ्रमरेण हेतुना यः संभ्रमस्तेन संभृतशोभया संपादितश्रिया चलितया अलिसंभ्रमात्प्रस्थितया अत एवालकैरलकपातैर्लोलदृशा चञ्चलाक्ष्या अन्यया स्यन्तरेण कलो मेखलायाः कलकलः कोलाहलो विदधे विहितः । अलिभयादपसरन्त्याः काञ्चीगुणध्वनिरज- नीत्यर्थः । एतेन चकितत्वमुक्तम् । चकितं भयसंभ्रमः। अनुप्रासयमकयोः सजा- तीयशब्दालंकारयोः संसृष्टिः स्पष्टैव तावत् । तथा यमकयोश्च द्वयोः सजातीययोः चतुर्थपादादावेकस्मादक्षराद्वाभ्यां च परतोऽक्षरत्रयावृत्तिलक्षणयोः स्थितत्वात् सजातीययोः संसृष्टिः ॥ १४ ॥
अजगणन् गणशः प्रियमग्रतः प्रणतमप्यभिमानितया न याः।
सति मधावभवन्मदनव्यथा विधुरिता धुरि ताः कुकुरस्त्रियः१५
अजगणनिति ॥ याः कुकुरस्त्रियो यादवाङ्गनाः गणशो बहुशः । बह्वल्पा- र्थाच्छस् कारकादन्यतरस्याम्' (५।४।४२) इति शस् प्रत्ययः । अग्रतः प्रणतमपि प्रियम् । जातावेकवचनम् । प्रियानित्यर्थः । अभिमानिनीनां भावोऽभिमानिता तया। 'त्वतलोर्गुणवचनस्य पुंवद्भावो वक्तव्यः' (वा०)। नाजगणन्न गणयन्ति स्म । गणेश्चौरादिकाण्णौ चङि 'ई च गणः' (७।४।९७) इत्यभ्यासस्य पाक्षिक इत्वा- भावः । ताः कुकुरस्त्रियो मधौ वसन्ते सति प्रवर्तमाने । 'मधुश्चैत्रे वसन्ते च' इति विश्वः । मदनव्यथाविधुरिता विह्वलिताः सत्यः धुरि अग्रेऽभवन्नवर्तन्त । स्वयमेव पुरः प्रवृत्ता इत्यर्थः ॥ १५॥
कुसुमकार्मुककार्मुकसंहितद्रुतशिलीमुखखण्डितविग्रहाः ।
मरणमप्यपराः प्रतिपेदिरे किमु मुहुर्मुमुहुर्गतभर्तृकाः ॥१६॥
कुसुमेति ॥ गतभर्तृका वियोगिन्यः । 'नद्युतश्च' (५।४।१५३) इति कप् । अपराः काश्चिदङ्गनाः कुसुमकार्मुकस्य कामस्य कार्मुके संहितैः द्रुतैर्जवनैः शिलीमुखैः शरैः खण्डितविग्रहाः पाटितशरीराः सत्यो मरणमपि प्रतिपेदिरे । मुहुः पुनःपुनः मुमुहुर्मुमूर्छुरिति किमु वक्तव्यमित्यर्थः ॥ १६ ॥
अथ कस्याश्चित्प्रोषितभर्तृकाया बन्धुजनसमाश्वासनं विशेषकेणाह-
रुरुदिषा वदनाम्बुरुहश्रियः सुतनु सत्यमलंकरणाय ते ।
तदपि संप्रति संनिहिते मधावधिगमं धिगमङ्गलमश्रुणः ॥१७॥
रुरुदिषेति ॥ हे सुतनु शुभाङ्गि, 'अम्बार्थनद्योर्ह्रस्वः' (७३।१०७) इति ह्रस्वत्वम् । दीर्घोत्तरपदो बहुव्रीहिः, अन्यथा गुणः स्यात् । रुरुदिषा रोदनेच्छा। अश्रुविमोचनमित्यर्थः । रुदः सन्नन्तादप्रत्यये टाप् । ते तव वदनाम्बुरुहश्रियोऽलं. करणाय सत्यम् । 'रम्याणां विकृतिरपि श्रियं तनोति' (किरातार्जुनीये ७।५) इति न्यायादिति भावः । गम्यमानक्रियापेक्षत्वाच्चतुर्थी । तदपि तथापि संप्रति मधौ वसन्ते संनिहिते संनिहितोत्सवे सति अश्रुणोऽधिगमं प्राप्तिममङ्गलं धिक् निन्दतीत्यर्थः । 'धिक निर्भर्त्सननिन्दयोः' इत्यमरः । 'धिगुपर्यादिषु त्रिषु' इति द्वितीया । अतो मा रुद इत्यर्थः ॥ १७ ॥
त्यजति कष्टमसावचिरादसून् विरहवेदनयेत्यघशङ्किभिः ।
प्रियतया गदितास्त्वयि बान्धवैरवितथा वितथाः सखि मा गिरः
त्यजतीति ॥ प्रियतया इष्टतया अघशङ्किभिरनर्थोत्प्रेक्षिभिः । 'प्रेम पश्यति भयान्यपदेऽपि' (किरातार्जुनीये ९/७०) इति भावः । बान्धवैस्त्वयि विषये गदिता उच्चारिताः कष्टं बत असौ बाला विरहवेदनया अचिरादसून प्राणांस्त्यजति त्यक्ष्यति । 'वर्तमानसामीप्ये वर्तमानवद्वा' (३।३।१३१) इति लट् । इत्येवं- विधा गिर उक्तीः हे सखि, विगतं तथात्वं यासां ता वितथा अनृताः । 'वितथं त्वनृतं वचः' इत्यमरः । बहुव्रीहौ विशेष्यलिङ्गता *ब्राह्मणादित्वाद्रस्वः । ततो नञ्समासः । अवितथाः सत्यः मा वितथा मा कृथाः। वृथातिशोकेन मा मृथा इत्यर्थः । विपूर्वात्तनोतेर्लुङि थास् 'तनादिभ्यस्तथासोः' (२।४/७९) इति विभाषा सिचो लुक् 'अनुदात्तोपदेश-' (६।४।३७) इत्यादिनानुनासिकलोपः 'न माङयोगे' (६/४/७४) इत्यडागमप्रतिषेधः ॥ १८ ॥
न खलु दूरगतोऽप्यतिवर्तते महमसाविति बन्धुतयोदितैः ।
प्रणयिनो निशमय्य वधूर्वहिः खरमृतैरमृतैरिव निर्ववौ॥१९॥
(विशेषकम् ।)
नेति ॥ किं चासौ ते प्रणयी दूरगतो दूरस्थोऽपि महं वसन्तोत्सवम् । 'मह उद्धव उत्सवः' इत्यमरः । नातिवर्तते नातिकामति खलु इति बन्धुतया बन्धुस- मूहेन । 'ग्रामजनबन्धुसहायेभ्यस्तल्' (४।२।४३) इति तल्प्रत्ययः । उदितैरुक्तैः । वदेः कर्मणि क्तः । ऋतैः सत्यवचनैः । 'सत्यं तथ्यमृतं सम्यक्' इत्यमरः । बहिः प्रणयिनस्तदैव दैवादागतस्य प्रियस्य स्वरं कण्ठगतं शब्दं निशमय्य श्रुत्वा । 'शमु अदर्शने' इति चौरादिकाल्ल्यप् ‘मित्त्वाद्रस्वः' (६।४।९२) 'ल्यपि लघुपूर्वात्' (६४५६) इत्ययादेशः । वधूरमृतैः सुधाभिरिव निर्ववौ निर्ववार । वाते. लिट् । 'निर्वाणं निर्वृतिः सुखम्' इति ॥ १९ ॥
मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया ।
मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे ॥२०॥
मधुरयेति ॥ मधुरया मनोहरया मधुना वसन्तेन बोधिताः विकासिताश्च ता माधव्यश्च । पुष्पधर्मः पुष्पितासूपचर्यते । तासां माधवीनामतिमुक्तलता- नाम् । 'अतिमुक्तः पुण्डूकः स्याद्वासन्ती माधवी लता' इत्यमरः । मधुसमृद्ध्या मकरन्दसंपदा समेधितमेधया संवर्धितप्रतिभया अत एव उन्मदयतीत्युन्मदो मदकरः । पचाद्यच् । तं ध्वनिं बिभर्तीत्युन्मदध्वनिभृत् तया मधुकराङ्गनया मुहुर्निभृताक्षरम् । लक्षणया स्थिरनादं यथा तथेत्यर्थः । अथवा सर्वः शब्दो वर्णात्मक एव व्यञ्जकविशेषाभावादस्फुट इति मतमाश्रित्योक्तं सर्वपथीनाः कवय इति । उज्जगे उच्चैर्गीतम् । गायतेरविवक्षितकर्मकाद्भावे लिट् । 'बन्धवै. षम्यराहित्यं समता पदगुम्फने' इति लक्षणात्समताख्यो गुणः ॥ २० ॥
अरुणिताखिलशैलवना मुहुर्विदधती पथिकान् परितापिनः ।
विकचकिंशुकसंहतिरुच्चकैरुदवहद्दवहव्यवहश्रियम् ॥ २१॥
अरुणितेति ॥ अरुणितान्यरुणीकृतान्यखिलानि शैलवनानि यया सा मुहुः पथिकानध्वगान् , विरहिणश्च परितापिनः संतापवतो विदधती उच्चैरेवोच्चकैरु. न्नता । 'अव्ययसर्वनाम्नामकच्प्राक्टेः' (५।३।७१) इत्यकच् प्रत्ययः । विकचा विकसिता या किंशुकसंहतिः पलाशकुसुमराशिः सा दवहव्यवहश्रियं दवाग्निशो- भामुदवहत् । निदर्शनालंकारः ॥ इति वसन्तवर्णनम् ॥ २१ ॥ [* व्याख्यासुधायां तु “अजिति योगविभागेन समासान्तेऽचि जाते 'यस्येति च' (६।४।१४८ ) इति आकारलोपः" इत्युक्तम् । ] अथ ग्रीष्मवर्णनमारभते-
रवितुरङ्गतनूरुहतुल्यतां दधति यत्र शिरीषरजोरुचः ।
उपययौ विदधनवमल्लिकाः शुचिरसौ चिरसौरभसंपदः ॥२२॥
रवीत्यादि ॥ यत्र शुचौ शिरीषरजसा रुचः कान्तयो रवितुरङ्गतनूरुहतुल्यतां सूर्याश्वरोमसावण्यं दधति । हरिद्वर्णा भवन्तीत्यर्थः । असौ शुचिर्ग्रीष्मः । 'शुचिः शुद्धेऽनुपहते शृङ्गाराषाढयोस्तथा । ग्रीष्मे हुतवहेऽपि स्यात्' इति विश्वः । नवम- ल्लिकाः । 'पुष्पे जातीप्रभृतयः स्वलिङ्गाः' इत्यमरः । 'पुष्पमूलेषु बहुलम्' (वा०) इति बहुलग्रहणाल्लुप् । लुपि युक्तवद्व्यक्तिवचने भवतः । चिरं चिरावस्था- यिनी सौरभसंपत् यासां ताः। स्थिरगन्धा इत्यर्थः। विदधत्कुर्वन्नुपययौ प्राप्तः ॥२२॥
दलितकोमलपाटलकुड्मले निजवधूश्वसितानुविधायिनि ।
मरुति वाति विलासिभिरुन्मदभ्रमदलौ मदलौल्यमुपाददे ॥२३॥
दलितेति ॥ पाटलाया अवयवाः पाटलाः । लुक्प्रकरणे 'पुष्पमूलेषु बहु- लम्' (वा.) इति बहुलग्रहणादलुक् । ते च ते कुङ्मलाश्च, दलिता विभिन्नाः कोमलाः पाटलकुमला येन तस्मिन् निजवधूनां श्वसितं निःश्वासमनुविधत्तेऽनुक- रोतीति तथोक्ते । तादृशीत्यर्थः । उन्मदा भ्रमन्तश्चालयो यस्मिंस्तस्मिन् उन्मदभ्र- मदलौ मरुति ग्रीष्मानिले वाति वहति सति । वातेर्लटः शत्रादेशः । विलासि- भिर्विलसनशीलैः कामिभिः । 'वौ कपलसकत्थस्रम्भः' (३।२।१४३) इति घिनुष्प्रत्ययः । मदेन लौल्यं चापल्यमुपाददे । मत्तैर्जातमित्यर्थः ॥ २३ ॥
निदधिरे दयितोरसि तत्क्षणस्नपनवारितुषारभृतः स्तनाः ।
सरसचन्दनरेणुरनुक्षणं विचकरे च करेण वरोरुभिः ॥२४॥
निदधिर इति ॥ वरोरुभिः स्त्रीभिः तत्क्षणस्नपनेन सद्यःसेकेन वारितुषार- भृतः । जलशीकरधारिण इत्यर्थः । 'तुषारौ हिमशीकरौ' इति शाश्वतः । स्तना दयितोरसि निदधिरे निहिताः । तेषां संतापशान्तये स्नानार्द्राङ्गा एव आलिङ्गन्नि- त्यर्थः । किंच करेण पाणिना सरस आर्द्रश्चन्दनरेणुः घृष्टचन्दनपङ्कश्चानुक्षणं विच. करे विकीर्णः । किरतेः कर्मणि लिट् । 'ऋच्छत्यृताम्' (७।४।११) इति गुणः । 'करेणुकरोरुभिः' इति पाठस्तु 'ऊरूत्तरपदादौपम्ये' (४।१।६९) इत्यूप्रसङ्गा- द्धेयः ॥ इति ग्रीष्मवर्णनम् ॥ २४ ॥
अथ वर्षावतारमाह-
स्फुरदधीरतडिन्नयना मुहुः प्रियमिवागलितोरुपयोधरा ।
जलधरावलिरप्रतिपालितस्वसमया समयाज्जगतीधरम् ॥२५॥
स्फुरदिति ॥ स्फुरन्ती अधीरे चञ्चले तडितौ नयने इव तडिन्नयने यस्याः सा अगलिता अरिक्ता उरुपयोधरा मेघा यस्याम् , अन्यत्र ऊरू च पयोधरौ च ऊरुपयोधरम् । प्राण्यङ्गत्वावन्द्वैकवद्भावः । न गलितं न पतितं यस्यां सा । जल- धरावलिर्मेधपङ्क्तिः । अत्र जलधरावलेः पयोधराणां चावयवावयविभावात्पृथङ्गि- र्देशः । अप्रतिपालितस्वसमया अनपेक्षितनिजवेला सती । एकत्र यौगपद्यादन्यत्राधैर्याच्चेति भावः । जगतीधरं रैवतकं भूधरं प्रियमिव समयात् समागच्छत् । यातेर्लङ् । पयोजगतीशब्दयोः पचाद्यजन्तेन धरशब्देन षष्ठीसमासः । अत्र विशे- षणमहिम्ना जलधरावलौ नायिकात्वप्रतीतेः समासोक्तिः, सा तु प्रियमिवेत्युपम- याङ्गेन संकीर्यते ॥ २५॥
गजकदम्बकमेचकमुच्चकैर्नभसि वीक्ष्य नवाम्बुदमम्बरे ।
अभिससार न वल्लभमङ्गना न चकमे च कमेकरसं रहः ॥२६॥
गजेति ॥ नभसि श्रावणमासे । 'नभाः श्रावणिकश्च सः' इत्यमरः । अम्बरे ज्योम्नि गजकदम्बकमिव मेचकं श्यामलम् । 'कालश्यामलमेचकाः' इत्यमरः । उच्चैरेवोच्चकैरुन्नतं नवाम्बुदं वीक्ष्य अङ्गना एक एकायनो रसो रागो यस्य तमेक- रसम् । तिरस्कृतरसान्तरमित्यर्थः । कं वल्लभं प्रियं रह एकान्ते न चकमे न काम- यते स्म तथा नाभिससार च । सर्ववल्लभं सर्वापि तत्तदङ्गना चकमे अभिससार चेति । नवाम्बुदस्योद्दीपकत्वादतिशयोक्तिः । इह कामनापूर्वकत्वादभिसरणस्य तयोरर्थक्रमबलीयस्वन्यायेन यमकवशायातपाठक्रमबाधेन योजना न्याय्यैव ॥२६॥
अनुययौ विविधोपलकुण्डलद्युतिवितानकसंवलितांशुकम् ।
धृतधनुर्वलयस्य पयोमुचः शबलिमा बलिमानमुषो वपुः ॥२७॥
अनुययाविति ॥ धृतधनुर्वलयस्य तेन्द्रचापमण्डलस्य पयोमुचो मेघस्य संबन्धी शबलस्य भावः शबलिमा विचित्रता । 'पृथ्वादिभ्य इमनिज्वा' (५।1। १२२)। विविधा नानावर्णा उपला मणयो ययोस्तयोः कुण्डलयोर्द्युतिवितानकेन कान्तिपुञ्जेन संवलिता मिलिता अंशवो निजनीलभासो यस्य तत्तथोक्तम् । 'शेषाद्विभाषा' (५।४।१५४) इति कप्प्रत्ययः । बलिमानमुषो बल्यसुराहंकाराप- हारकस्य हरेर्वपुरनुययावनुचकार । तद्वद्धभावित्यर्थः । उपमालंकारः ॥२७॥
द्रुतसमीरचलैः क्षणलक्षितव्यवहिता विटपैरिव मञ्जरी ।
नवतमालनिभस्य नभस्तरोरचिररोचिररोचत वारिदैः ॥ २८ ॥
द्रुतेति ॥ द्रुतसमीरेण शीघ्रमारुतेन चलैर्वारिदैः क्षणं लक्षिता च व्यवहिता च सा क्षणलक्षितव्यवहिता । क्षणिकाविर्भावतिरोधानेत्यर्थः । स्नातानुलिप्तवत् 'पूर्वकालैक-' (२॥१॥४९) इत्यादिना समासः । अचिरं रोचिर्यस्याः सा अचि- ररोचिर्विद्युत् द्रुतसमीरचलैर्विटपैः शाखाभिः क्षणलक्षितव्यवहिता नवतमालनि- भस्य नवतमालेन सदृशस्य । तद्वन्नीलस्येत्यर्थः । नित्यसमासः । नभस्तरुरिव तस्य नभस्तरोर्मञ्जरी गुच्छ इवारोचत । उपमालंकारः । अत्र नभस्तरोर्नभःश्रेष्ठस्येति व्याख्याने तरुशब्दस्य व्याघ्रादिवच्छ्रेष्ठार्थगोचरत्वात्तमालशब्देन विशेषवाचिना तन्नीलसामान्येन पौनरुक्त्यमिति वल्लभः । तमालशब्दस्येन्द्रनीलवन्नैल्यमात्रोपमा- नत्वात्तरुशब्दस्य स्वार्थवृत्तित्वेऽपि न पौनरुक्त्यमित्यन्ये ॥ २८॥
पटलमम्बुमुचां पथिकाङ्गना सपदि जीवितसंशयमेष्यती ।
सनयनाम्बुसखीजनसंभ्रमाद्विधुरवन्धुरवन्धुरमैक्षत ॥ २९ ॥
मरणमेष्यती । निश्चितमरणेत्यर्थः । 'आच्छीनद्योर्नुम्' (७।१८०) इति विकल्पा- बुमभावः । अत एव सनयनाम्बोः सबाष्पस्य सखीजनस्य संभ्रमाक्षोभाद्विधुर- बन्धुः संभ्रमदर्शनाद्विह्वलबन्धुजना सती अम्बुमुचां पटलमबन्धुरमशोभनम् । सदैन्यरोषमिति यावत् । ऐक्षत । ईक्षतेर्लङ् 'आटश्च' (६।१।९०) इति वृद्धिः । इह विरहवेदनाक्षमाया नायिकाया मरणसाधनमेघपटलावेक्षणवर्णनायां तदुद्योग- लक्षणा मरणावस्थोक्ता । सा हि द्विविधा तदुद्योगस्तद्योगश्चेत्याहुः । 'दृङ्मनःसङ्ग- संकल्पा जागरः कृशता रतिः । ह्रीत्यागोन्मादमूर्ध्वान्ता इत्यनङ्गदशा दश ॥' इत्यवस्थासंग्रहः ॥ २९॥
प्रवसतः सुतरामुदकम्पयद्विदलकन्दलकम्पनलालितः ।
नमयति स वनानि मनस्विनीजनमनोनमनो घनमारुतः ३०
प्रवसत इति ॥ कन्दली भूकन्दली । 'द्रोणपर्णी स्निग्धकन्दा कन्दली भूमि- कन्दली' इति शब्दार्णवः । तस्याः पुष्पाणि कन्दलानि । 'फले लुक्' (४।३।१६३) इत्यणो लुक् । विदलानां विकचानां कन्दलानां कम्पनेनावधूननेन लालित उप- स्कृतो मनस्विनीजनस्य मनसां नमनो नमयिता । मानिनीमानभञ्जन इत्यर्थः । कर्तरि ल्युट् । घनमारुतो मेघवायुः वनानि नमयति स्म । प्रवसतः प्रोषितान् सुतरामुदकम्पयत् उद्वेजितवान् । मनस्विनीमानमर्दनस्य वननमनं प्रोषितकम्पनं वा कियदिति भावः ॥ ३०॥
जलदपतिरनर्तयदुन्मदं कलविलापि कलापिकदम्बकम् ।
कृतसमार्जनमर्दलमण्डलध्वनिजया निजया खनसंपदा ॥३१॥
जलदेति ॥ निजया आत्मीयया स्वनसंपदा कृतः समार्जनस्य मार्जनाख्यसं- स्कारसहितस्य मर्दलमण्डलस्य ध्वनेर्जयो यया सा तथोक्ता । मार्जनं नाम मर्द- लानां ध्धननार्थं भस्ममृदिताम्भःपुष्करलेपनम् । जलदपङ्क्तिरुन्मदमुत्कटमदं कल- विलापि मधुरालापि कलापिकदम्बकं मयूरवृन्दमनर्तयत् ॥ ३१ ॥
नवकदम्बरजोरुणिताम्बरैरधिपुरन्ध्रि शिलीन्ध्रसुगन्धिभिः ।
मनसि रागवतामनुरागिता नवनवा वनवायुभिरादधे ॥३२॥
नवेति ॥ नवकदम्बरजोभिररुणितमरुणीकृतमम्बरमाकाशं यैस्तैः शिली- न्ध्राणां कन्दलीकुसुमानां यः सुगन्धः स एषामस्तीति शिलीन्ध्रसुगन्धिनस्तैः । गन्धस्यत्वे तदेकान्तग्रहणादिन्प्रत्ययाश्रयणम् । 'कदल्यां च शिलीन्ध्रः स्यात्' इति शब्दार्णवे । वनवायुभिः पुरंध्रीषु स्त्रीषु विषये अधिपुरंध्रि । विभक्त्यर्थे- ऽव्ययीभावः । रागवतां कामिनां मनसि नवनवा नवप्रकारा । 'प्रकारे गुणवच- नस्य' (८॥१॥१२) इति द्विर्भावः । कर्मधारयवद्भावात्सुपो लुक् । अनुरागिता आदधे । अनुराग उत्पादित इत्यर्थः ॥ ३२॥
शमिततापमपोढमहीरजः प्रथमबिन्दुभिरम्बुमुचोऽम्भसाम् । |
शमितेति ॥ अम्बुमुचो मेघाः प्रविरलैरम्भसां प्रथमबिन्दुभिः शमिततापमपोढमहीरजो निरस्तधूलिकम् । न तु पङ्कितमिति भावः । सुगन्धि संतप्तसेकादुद्भूतसौरभम् । इह तदेकान्तत्वाद्गन्धस्येत्वम् । अचलाङ्गनं रैवतकाङ्गनम् । 'अङ्गनं चत्वराजिरे' इत्यमरः । अङ्गनाजनस्य सुखेन गच्छत्यस्मिन्निति सुगम् । सुखसंचारमित्यर्थः । 'सुदुरोरधिकरणे' (वा०) इति गमेर्डप्रत्यये टिलोपः । न न चक्रिरे । चक्रिरे इत्यर्थः । द्वौ नजौ प्रकृतमर्थं गमयतः ॥ ३३ ॥
द्विरददन्तवलक्षमलक्ष्यत स्फुरितभृङ्गमृगच्छवि केतकम् । |
द्विरदेति ॥ द्विरददन्तवलक्षं गजदन्तधवलम् । 'वलक्षो धवलोऽर्जुनः' इत्यमरः । भृङ्गो मृग इव भृङ्गमृगः तस्य छविः सा स्फुरिता यस्मिंस्तत्तथोक्तं केतक्याः पुष्पं केतकम् । 'पुष्पमूलेषु बहुलम्' (वा०) इत्यणो लुकि नादिवृद्धिः । 'लुक् तद्धितलुकि' (१।२।४९) इति स्त्रीप्रत्ययस्यापि लुक् । घनघनौघविघट्टनया निविडमेघसङ्घोपघातेन दिवोऽन्तरिक्षाच्च्युतं कृशशिखं सूक्ष्माग्रं शशिखण्डमिवालक्ष्यतेत्युत्प्रेक्षा ॥ ३४ ॥
दलितमौक्तिकचूर्णविपाण्डवः स्फुरितनिर्झरशीकरचारवः । |
दलितेति ॥ दलितमौक्तिकानां निष्पिष्टमुक्ताफलानां चूर्ण इव विपाण्डवोऽतिशुभ्राः स्फुरिता ये निर्झराणां शीकराः कणास्त इव चारवः कुटजपुष्पपरागकणाः स्फुटं दधिरेणुविडम्बनां दधिचूर्णानुकारं विदधिरे चक्रिरे । तद्वद्वभुरित्यर्थः । पूर्वोपमानद्वयानुप्राणितेयमुपमेति संकरः ॥ ३५ ॥
नवपयःकणकोमलमालतीकुसुमसंततिसंततसङ्गिभिः । |
नवेति ॥ नवपयःकणवन्नवोदकबिन्दुवत्कोमलानां मालतीकुसुमानां जातीपुष्पाणां संततिषु संततसङ्गिभिर्निरन्तरासक्तैः । 'सुमना मालती जातिः' इत्यमरः । अत एव प्रचलितोडुनिभैः परागभूषणात् संचरन्नक्षत्रकल्पैरिवेत्युत्प्रेक्षा । अलिभिः शुभाद्रजोभरात्परागपुञ्जाज्जातः शुभरजोभरजः परिपाण्डिमा धवलिमा आददे स्वीकृतः ॥ ३६॥
निजरजः पटवासमिवाकिरद्धृतपटोपमवारिमुचां दिशाम् । |
निजेति ॥ प्रियवियुक्तवधूजनचेतसाम् । कर्मणि षष्ठी । अनवनी अरक्षणी । किंतु हन्त्रीत्यर्थः । अवतेः कर्तरि ल्युटि ङीप् । नवनीपवनावलिः नवकदम्बकाननपङ्क्तिः । धृताः पटोपमाः पटकल्पा वारिमुचो मेघा याभिस्ताः । मेघपटावृता इत्यर्थः । तासां दिशां निजरजः स्वपरागं पटवासं पिधानमिवेत्युत्प्रेक्षा । अकिरदक्षिपत् । सखीवदिति भावः ॥ ३७ ॥
प्रणयकोपभृतोऽपि पराङ्मुखाः सपदि वारिधरारवभीरवः । |
प्रणयेति ॥ प्रणयकोपभृतः अत एव पराङ्मुखा विमुखा अपि । 'स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्' (४।१।५४) इति विकल्पादाकारः । सपदि वारिधरारवेभ्यो गर्जितेभ्यो भीरवो भीताः । स्त्रिय इति शेषः । अथ अनन्तरं गर्जिताकर्णनानन्तरमेव प्रणयिनः प्रियान् परिरब्धुमालिङ्गितुं वलिरेचितान्यालिङ्गतानार्थमङ्गप्रसारणात्रिवलिरिक्तीकृतानि मध्यमान्यवलग्नानि यासां ताः सत्यो ववलिरे प्रवृत्ताः । वलतेर्वकारादित्वात् 'न शसददवादिगुणानाम्' (६।४।१२६) इत्येत्वाभ्यासलोपप्रतिषेधः ॥ ३८ ॥
विगतरागगुणोऽपि जनो न कश्चलति वाति पयोदनभवति । |
विगतेति ॥ पयोदनभस्वति मेघमारुते वाति वहति सति । वातेर्लटः शत्रादेशः । विगतरागगुणो विरक्तोऽपि को नरो न चलति । सर्वोऽपि चलत्येवेत्यर्थः । एवमलिभिरुच्चकैरुच्चैस्तरामनृतमसत्यं न भवतीत्यननृतं तस्मिन्नननृते सत्यवचनेऽभिहिते सति नवपल्लवैर्ननृत इव नृत्यं कृतमिवेत्युत्प्रेक्षा । नृतेर्भावे लिट् ॥ ३९ ॥
अरमयन् भवनादचिरद्युतेः किल भयादपयातुमनिच्छवः । |
अरमयन्निति ॥ अचिरद्युतेर्विद्युतो भयात्किल भयादिव न तु तथा । किंतु रागादेवेति भावः । किलेत्यलोके । भवनाद्गणगृहादपयातुं निर्गन्तुमनिच्छवः । भयव्याजात्तत्रैव स्थिता इति भावः । 'विन्दुरिच्छुः' (३।२।१६९) इत्युप्रत्ययान्तो निपातः । मन्मथेन मन्थरमलसं भाषन्त इति मन्मथमन्थरभाषिणः । कामवशा इत्यर्थः। तरुणीगणास्तं प्रकृतं यदव एव नरेन्द्रास्तेषां गणमरमयन् रमयन्ति स्म । अत्र भयेन रागनिगूहनान्मीलनालंकारः । 'मीलनं वस्तुना यत्र वस्त्वन्तरनिगृहनम्' इति लक्षणात् । सोऽप्यागन्तुकेन भयेन सहजरागतिरोधानादागन्तुकेन सहजतिरोधानरूपः ॥ इति वर्षावर्णनम् ॥ ४० ॥
अथ शरद्वर्णनमारभते-
ददतमन्तरिताहिमदीधितिं खगकुलाय कुलायनिलायिताम् । |
ददतमिति ॥ रथावयवायुधश्चक्रायुधो हरिरन्तरिताहिमदीधितिं तिरोहितोष्णांशुं तथा खगकुलाय पक्षिसङ्घाय । कुलायेषु नीडेषु निलीयन्त इति कुलायनिलायिनः। 'कुलायो नीडमस्त्रियाम्' इत्यमरः । तेषां भावस्तत्ता तां ददतं प्रयच्छन्तम् । पक्षिसंचारं प्रतिबन्धन्तमित्यर्थः । 'नाभ्यस्ताच्छतुः' (७।१।७८) इति नुरप्रतिषेधः । दिशामिति कर्मणि षष्ठी । अबोधकृतमबोधकारिणम् । मेघावरणेन प्राच्यादिविवेकं लुम्पन्तमित्यर्थः । जलदकालं प्रावृदकालमपरथा प्रकारान्तरेण आप प्राप । मेघोदयोपाधिना प्रावृड्व्यवहारभाजं तमेव कालं मेघात्ययोपाधिना शरत्संज्ञयोपलेभे इत्यर्थः । कालो हि एक एव सन्ननेकोपाधिसंबन्धान्नानात्वेनोपचर्यत इति तद्विदः ॥ ४१ ॥
स विकचोत्पलचक्षुषमैक्षत क्षितिभृतोऽङ्कगतां दयितामिव । |
स इति ॥ अघानां नाशनं निवर्तनं कीर्तनं यस्य सोऽघनाशनकीर्तनः स हरिर्विकचमुत्पलमेव चक्षुर्यस्यास्तामच्छं शुभ्रं गलत् स्रंसमानं यद्वसनं तस्योपमा सादृश्यं तस्याः क्षमा योग्या घना मेघा यस्यां सा ताम् । अत एव क्षितिभृतोऽङ्कगतामुत्सङ्गगतां दयितामिवेत्युत्प्रेक्षा । शरदमैक्षत ॥ ४२ ॥
जगति नैशमशीतकरः करैर्वियति वारिदवृन्दमयं तमः । |
जगतीति ॥ अशीतकर उष्णांशुः करैः स्वांशुभिर्जगति लोके निशायां भवं नैशम् । 'निशाप्रदोषाभ्यां च' (४।३।१४) इति विकल्पादण् प्रत्ययः । तमस्तिमिरम् अदिग्रवद्रावयति स्म । निरस्तवानित्यर्थः । 'द्रु गतौ' । णौ चङि उपधाहस्वः। सन्वद्भावः । 'स्रवतिशृणोतिद्रतिप्रवतिप्लवतिच्यवतीनां वा' (७।४।८१) इत्यभ्यासस्य विकल्पादित्वम् । वियत्याकाशे वारिदवृन्दमयं मेघसङ्घरूपम् । स्वार्थे मयट् । तमः अदिद्रवत् । जलजराजिषु निद्रामेव नैद्रं निमीलनं तदेव तमः अदिद्रवत् । तथा हि-महतां महात्मनां अरयः क्क च क्क वा न नाहताः अहता न । किंतु सर्वत्र हता भवन्तीत्यर्थः । द्वितीयनिषेधप्रापितस्य प्रकृतार्थस्य हननस्य तृतीयेन निषेधः । पुनः क्केति क्कशब्दसामर्थ्यात् प्रकृतार्थपर्यवसानम् । वैधर्म्येण सामान्याद्विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ४३ ॥
समय एव करोति बलाबलं प्रणिगदन्त इतीव शरीरिणाम् । |
समय इति ॥ समयः काल एव शरीरिणां बलाबलं बलाबले । 'विप्रतिषिद्धं चानधिकरणवाचि' (२।४।१३) इति विकल्पाद्धन्द्वैकवद्भावः । करोतीति प्रणिगदन्तः प्रतिपादयन्त इवेत्युत्प्रेक्षा । 'नेर्गदनद-' (८।४।१७) इत्यादिना णत्वम् । शरदि हंसरवाः परुषीकृतस्वरा निष्ठुरीकृतनादा मयूरा यस्मिन्कर्मणि तत्परुषीकृतस्वरमयूरं यथा तथा रमणीयतामयुः प्राप्ताः । यातेर्लङि 'लङः शाकटायनस्यैव' (३।४।१११) इति झेर्जुसादेशः, 'उस्यपदान्तात्' (६।१।९६) इति पररूपं संहितायां 'ढूलोपे पूर्वस्य दीर्घोऽणः'। (६।३।१११) शरत्प्रावृषोर्हसमयूरकूजिते माधुर्यामाधुर्यविपर्ययदर्शनात् काल एव प्राणिनां बलाबलनिदानं व्यक्तमभूदित्यर्थः ॥ ४४ ॥
तनुरुहाणि पुरो विजितध्वनेर्धवलपक्षविहंगमकूजितैः । |
अनुवनं वनराजिवधूमुखे बहलरागजवाधरचारुणि । |
अनुवनमिति ॥ अनुवनं प्रतिवनं बहलो रागो यस्याः सा चासौ जवा च । 'औण्ड्पुष्पं जवा' इत्यमरः । पुष्पेषु जातीप्रभृतित्वात्स्वलिङ्गता । सैवाधरस्तेन चारुणि रम्ये वनराजिरेव वधूस्तस्या मुखं प्राग्भागस्तदेव मुखं वऋमिति श्लिष्टरूपकम् । तस्मिन् रुचिराणामीक्षणानां विभ्रम इव विभ्रमः शोभा यासां ताः विकचबाणदलावलयो नीलझिण्टीपत्रपङ्क्तयः । 'बाणोऽस्त्री नीलझिण्ट्यां च' इति वैजयन्ती । अधिकं रुरुचिरे शुशुभिरे । उपमारूपकयोः संकरः ॥ ४६ ॥
कनकभङ्गपिशङ्गदलैर्दधे सरजसारुणकेशरचारुभिः । |
कनकेति ॥ कनकभङ्गाः स्वर्णखण्डा इव पिशङ्गानि दलानि येषां तैः सह रजसा सरजसम् । 'अचतुर-' (५।४।७) इत्यादिना साकल्यार्थेऽव्ययीभावे समासान्तो निपातः । बहुव्रीह्यर्थे लक्षणया तु सरजस्का इत्यर्थः । अत एव न सरजसमित्यव्ययीभाव इति वामनः । अथवा महाकविप्रयोगप्राचुर्यदर्शनादव्ययीभावदर्शनं प्रायिकमिति पक्षाश्रयणाद्वहुव्रीह्यर्थोऽपि साधुरेव । तथा च सरजसं सरजसा वा ये अरुणकेशरास्तैश्चारुभिः तथा प्रियैर्विमानिता अवमानिता मानवत्यो मानिन्यस्तासां या रुषो रोषास्तासां निरसनैर्निरासकैः । अस्यतेः कर्तरि ल्युट् । असनैः प्रियकप्रसूनैः । 'सर्जकासनबन्धूकपुष्पप्रियकजीवकाः' इत्यमरः । अवृथार्थता माननि रासकत्वादस्यन्तीत्यसनानीत्यन्वर्थनामकत्वं दधे दध्रे । दधातेः कर्मणि लिट् ॥ ४७ ॥
मुखसरोजरुचं मदपाटलामनुचकार चकोरदृशां यतः । |
मुखेति ॥ धृतो नवातपो येन तद्धृतनवातपम् । बालातपताम्रमित्यर्थः अम्भसि कमलं अम्भःस्थं कमलम् । अम्भोग्रहणं स्थलकमलनिवृत्त्यर्थम् , अम्लानताद्योतनार्थं वा । यतो मदपाटलां चकोरदृशां स्त्रीणां मुखसरोजरुचं मुखारविन्दशोभामनुचकार । 'अनुपराभ्यां कृञः' (१३।७९) इति परस्मैपदनियमः । अतोऽनुकरणाद्धेतोः कं पुमांसमुत्सुकतां प्रेयसीमुखावलोकनकौतुकितां नालम्भयन्नागमयत् । सर्वं चालम्भयदेव । तत्स्मारकत्वादित्यर्थः । एतेनौत्सुक्यवस्तुना कार्येण कारणभूता कमलदर्शनोत्था मुखस्मृतिर्व्यज्यत इति वस्तुनालंकारध्वनिः । एतेन स्त्रीमुखसादृश्यात् कमलं स्वाधारेऽम्भसि पुंस उत्सुकतामलम्भयदिति रङ्गराजव्याख्यानं 'काकस्य कार्ष्ण्याद्धवलः प्रासादः' इतिवदसंगतं मन्तव्यमिति । अलम्भयदिति लभेर्ण्यन्ताल्लङ् 'लभेश्च' (७।४।६४) इति नुमागमः । लभेश्चात्र प्राद्युपसर्जनकगत्यर्थत्वात् 'गतिबुद्धि-' (१।४।५२) इत्यादिना अणिकर्तुः कर्मत्वे द्विकर्मकता । गत्युपसर्जनकप्राध्यर्थत्वे तु वैपरीत्यमित्युक्तं 'सितं सितिम्ना' (१२५) इत्यत्र ॥ ४८ ॥
विगतसस्यजिघत्समघट्टयत्कलमगोपवधूर्न मृगव्रजम् । |
विगतेति ॥ इषे आश्वयुजमासे । 'स्यादाश्विन इषोऽप्याश्वयुजः' इत्यमरः । कलमगोपी शालिगोप्त्री सा चासौ वधूश्च कलमगोपवधूः । 'स्त्रियाः पुंवत्-' (६।३।३४) इत्यादिना पुंवद्भावः । श्रुत आकर्णितस्तया वध्वा ईरितस्यालापितस्य कोमलगीतकस्य मधुरगानस्य ध्वनिर्येन तं श्रुततदीरितकोमलगीतकध्वनिम् । अत एवाग्रतोऽग्रे न निमिषति विस्मयानन्दाभ्यामित्यनिमिषम् । इगुपधलक्षणः कप्रत्ययः । तदीक्षणं यस्य तमनिमिषेक्षणम् । घस्तुमत्तुं वेच्छा जिघत्सा । घसेरदादेशाद्वा सन्नन्तात् 'अ प्रत्ययात्' (३।३।१०२) इति स्त्रियामप्रत्ययः । विगता सस्यस्य जिघत्सा यस्य तं विगतसस्यजिघत्सम् । उपसर्जनाङ्गस्वः । मृगव्रजं नाघट्टयन्नाताडयत् । सिद्धे साधनाप्रयोगादिति भावः । अत्र दण्डसाध्ये मृगनिवारणे काकतालीयन्यायेन सुखार्थस्य गानस्य कारणत्वकथनात् समाधिरलंकारः । 'कारणान्तरयोगात् कार्यसुकरत्वं समाधिः' इति सूत्रात् ॥ ४९ ॥
कृतमदं निगदन्त इवाकुलीकृतजगत्रयमूर्जमतङ्गजम् । |
कृतेति ॥ अयुजो विषमाश्छदा येषां ते अयुक्छदाः सप्तपर्णास्तेषां गुच्छैः स्तबकैः सुगन्धयः शोभनगन्धाः । गजमदगन्धिन इति भावः । अलिभिर्भृङ्गैस्तेता विस्तृता गानगिरो येषां ते । अलिभिर्गीयमाना इत्यर्थः । सततं गच्छन्तीति सततगाः सदागतयः । वायव इति यावत् । कृतमदं जनितमदं अत एवाकुलीकृतजगत्रयम् । ऊर्जः कार्तिकः । 'बाहुलोर्जौ कार्तिकिकः' इत्यमरः । स एव मतङ्गज इति रूपकम् । तं निगदन्त इव अयमागच्छतीत्यावेदयन्त इव ववुर्वान्ति स्म । मत्तमातङ्गगमनेऽप्येवंविधवायुवहनसंभवादियमुत्प्रेक्षा । रूपकं त्वङ्गमस्याः ॥ ५० ॥
विगतवारिधरावरणाः क्वचिद्ददृशुरुल्लसितासिलतासिताः। |
विगतेति ॥ शरदि यदवो यादवाः । यदुशब्देन रघुशब्दवत्तदपत्ये लक्षणा । जनपदशब्दानामेव 'तद्वाजस्य बहुषु-' (२।४।६२) इति लुक्संभवादिति । क्वचिद्विगतवारिधरावरणा निवृत्तमेघावरणाः अत एवोल्लसिता कोशादुद्धृता । असिर्लतेवासिलता तद्वदसिताः श्यामा इत्युपमा । क्कचिन्नीरदिनीर्मेघवतीः । शुभ्राभ्रपटलच्छन्ना इत्यर्थः । अत एवेन्द्रगजाजिनमैरावतचर्म तदेव कञ्चुकः कूर्पासको यासां ता इव स्थिता इत्युस्प्रेक्षा । दिशो ददृशुः । उक्तालंकारयोः संसृष्टिः ॥ ५१ ॥
विलुलितामनिलैः शरदङ्गना नवसरोरुहकेशरसंभवाम् । |
विलुलितामिति ॥ शरदेवाङ्गना इति रूपकम् । अनिलैर्विलुलितां विक्षोभितां नवसरोरुहकेशरसंभवां धूलिं परागं परिहासविधित्सया नर्मरीतिचिकीर्षया । दधातेः सन्नन्तात्स्त्रियामप्रत्यये टाप् । हरिवधूः विकरितुं विक्षेप्तुमिव । 'तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' (३।३।१०) इति तुमुन्प्रत्ययः । उदक्षिपत् प्रेरितवती । रूपकोज्जीवितेयमुत्प्रेक्षा । किरतिरयं कीर्यमाणकर्मा । यथा रजः किरति मारुतः । क्वचित्तत्कारकोद्देश्यकर्मा यथात्रैवेति विवेकः ॥ ५२ ॥
हरितपत्रमयीव मरुद्गणैः स्रगवनद्धमनोरमपल्लवा । |
हरितेति ॥ अभिताम्रमुख्यरुणमुखी । 'स्वाङ्गाच्चोपसर्जनात्-' (४।१।५४) इत्यादिना विकल्पान्ङीष् । शुकावलिर्मरुद्गणैः सुमनोगणैर्दिवि तता हरिप्रियार्थमाकाशे वितता हरितानां हरिद्वर्णानां पत्राणां विकारो हरितपत्रमयी। 'टिड्ढाणञ्-' (४।१।१५) इत्यादिना विकल्पात् डीए । तयावनद्धा ग्रथिता मनोरमाः पल्लवा यस्यां सा स्रगिवेत्युत्प्रेक्षा । मधुरिपोः कृष्णस्य मुदं विततान ॥ ५३ ॥
सितसरोरुहनेत्रसरोजलामतिसिताङ्गविहंगहसद्दिवम् । |
स्मितेति ॥ स हरिः स्मितानि विकसितानि सरोरुहाण्येव नेत्राणि येषु तानि सरोजलानि यस्यां तां तथोक्तामतिसिताङ्गा धवलपक्षा ये विहङ्गा हंसास्तैर्हसन्ती स्मयमानेव स्थिता द्यौर्यस्यां तां तथोक्तां शरैस्तृणविशेषैर्दन्तुराण्युन्नतदन्तानि । हासात्प्रकाशदशनानीति यावत् । 'दन्त उन्नत उरच्' (५।२।१०६) इत्युरच्प्रत्ययो मत्वर्थीयः । तानि दिङ्मुखानि यस्यां तां शरदन्तुरदिङ्मुखां शरदं सर्वतो मुदितामिवाकलयत् । सर्वत्र नेत्रविकासादिलिङ्गैर्हृष्टामिवामन्यते इत्यर्थः । अत्र सरोजहंसशरेषु नेत्रहासदन्तत्वारोपणाद्रूपकालंकारः । तद्वशात्प्रतीयमानाङ्गनाभेदाध्यवसायाच्छरदि मुदितत्वोत्प्रेक्षेति संकरः ॥ इति शरद्वर्णनम् ॥ ५४ ॥
अथ हेमन्तं वर्णयति-
गजपतिद्वयसीरपि हैमनस्तुहिनयन् सरितः पृषतां पतिः । |
गजपतीति ॥ गजपतिः प्रमाणमासां गजपतिद्वयसीर्महागजप्रमाणाः । 'प्रमाणे द्वयसज्दघ्नञ्मात्रचः' (५।२।३७) इति प्रमाणार्थे द्वयसच् प्रत्ययः । 'टिड्ढाणञ्-' (४।१।१५) इत्यादिना ङीप् । ता अपि सरितस्तुहिनयन् हिमीकुर्वन् । 'तत्करोति-' (ग०) इति ण्यन्ताल्लटः शत्रादेशः । हेमन्ते भवो हैमनः । 'सर्वत्राण्च तलोपश्च' (४।३।२२) इति हेमन्तशब्दाच्छैषिकोऽण् प्रत्ययः तकारलोपश्च । पृषतां बिन्दूनां पतिर्वायुः । 'पृषन्ति विन्दुपृषताः' इत्यमरः । अध्वानं गच्छन्तीत्यध्वगाः पथिकाः । 'अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः' (३।२।४८) तद्योषितां प्रोषितभर्तृकाणां दृशामतनुतापकृतं महासंतापकारिणीं सलिलसंततिमतनुत । उष्णमश्रूत्पादयामासेत्यर्थः । हेमन्तमारुतो विरहिणीदुःसहोऽजनीति भावः ॥ ५५ ॥
सर्वदापि वियोगिनामुद्दीपकवायोर्हेमन्ते वैशिष्ट्यमाचष्टे-
इदमयुक्तमहो महदेव यद्वरतनोः सरयत्यनिलोऽन्यदा । |
इदमिति ॥ अनिलो वायुरन्यदान्यस्मिकाले । ग्रीष्मादावित्यर्थः । 'सर्वैकान्य-' (५।३।१५) इत्यादिना दाप्रत्ययः । वियोगिनो वियुक्तान् । 'गतिबुद्धि-' (१।४।५२) इत्यादिना अणिकर्तुः कर्मत्वम् । वरतनोः । वरतनुमित्यर्थः । 'अधीगर्थ-' (२।३।५२) इत्यादिना कर्मणि शेषे षष्ठी । स्मरयतीति स्मरतेराध्याने मित्त्वाद्भस्वत्वम् । इदं स्मारकत्वमपि महदत्यन्तमयुक्तमेव । सहकारिविरहादिति भावः । अहो अत्यन्ताकिंचित्करत्वाद्विस्मयः । हेमन्ते तु हन्तृत्वमप्यस्य संभवतीत्याह–सतुहिनः तुहिनसहितस्तु सयौवना यौवनयुक्ताः अत एव सोष्माणो ये पयोधराः कुचास्ते स्मृता यैस्तान् स्मृतसयौवनसोष्मपयोधरान् वियोगिनो वियुक्तान् । 'तथायुक्तं चानीप्सितम्' (१।४।५०) इति कर्मत्वम् । हिनस्तु हन्तु । संभावनायां लोट् । हेमन्ते हि हिमसहकारात् कुचोष्मैकसाध्यदुःखोत्पादनसामर्थ्याद्वियोगिमारकत्वमपि संभाव्यते । ग्रीष्मादौ तु ताहक्सहकारिविरहात् स्मारकत्वमप्ययुक्तमित्यर्थः । अमारके मारकसंबन्धोक्तेरतिशयोक्तिभेदः । इह सहजकविप्रौढोक्तिसिद्ध्योरभेदाध्यवसाय इति रहस्यम् ॥ ५६ ॥
प्रियतमेन यया सरुषा स्थितं न सह सा सहसा परिरभ्य तम् । |
प्रियतमेति ॥ अत्राद्यपर्याये न सह सा इति त्रेधा विभागः । अन्यत्र सहसेत्येकं पदम् । सरुषा सरोषया यया स्त्रिया का प्रियतमेन सह न स्थितम् । नपुंसके भावे क्तः । सा अङ्गना स्त्री सहसा मार्गशीर्षमासेन । 'मार्गशीर्षे सहा मार्गः' इत्यमरः । कृतवेपथुर्जनितकम्पा सती । 'द्वितोऽथुच्' (३।३।८९) इत्यथुच्प्रत्ययः । तं पूर्वमगणितमेव प्रियं हसेन सह वर्तत इति सहसा सहास्या सती । 'अथो हसः । हासो हास्यं च' इत्यमरः । 'स्वनहसोर्वा' (३।३।६२) इति विकल्पादप्प्रत्ययः । सहसा शीघ्रम् । स्वरादिपाठादव्ययत्वम् । परिरभ्याश्लिष्य क्षणम् । क्षणमपीत्यर्थः । अन्यथा वैरस्यात् । अत एव सामर्थ्यलभ्यार्थत्वादपेरप्रयोगः । श्लथयितुं नाक्षमत । शिथिलीकर्तुं नोत्सहते स्मेत्यर्थः । मानिनीमानभञ्जनक्षमोऽयं मास इति भावः । कलहान्तरितेयं नायिका । 'कोपात्कान्तं पराणुद्य पश्चात्तापसमन्विता' इति लक्षणात् ॥ ५७ ॥
शिशु० १४
भृशमयत याऽधरपल्लवक्षतिरनावरणा हिममारुतैः । |
भृशमिति ॥ अनावरणा आवरणरहिता या अधरपल्लवस्य क्षतिर्व्रणो हिममारुतैर्भृशमदूयतातप्यत । दूञो देवादिकात्कर्तरि लङ् । सा क्षतिः । यत्तदोर्नित्यसंबन्धात् । सीत्कृतैः सीत्कारैः कर्तृभिः सितेन शुभ्रेण दशनरश्मय एव पटस्तेन करणेन निवसितेवाच्छादितेवेत्युत्प्रेक्षा । वसेराच्छादनार्थात्कर्मणि क्तस्येडागमः । सुनिर्ववौ सुष्टु निर्ववार । शीतालुराच्छाद्यत इति भावः । हिमहताधरनिर्वाणस्य सीत्कारकारणकस्य दशनरश्मिपटाच्छादने हेतुत्वोत्प्रेक्षणाद्रूपकोत्प्रेक्षयोः संकरः ॥ ५८ ॥
उक्तमेवार्थ भङ्गयन्तरेणाह-
व्रणभृता सुतनोः कलसीत्कृतस्फुरितदन्तमरीचिमयं दधे । |
व्रणेति ॥ मृदुतया मार्दवेन हेतुना हिममारुतैर्दुतया पीडितया । 'टुदु उपतापे' इति धातोः सौवादिकात्कर्मणि क्तः । व्रणभृता दन्तव्रणवत्या सुतनोः स्त्रिया अधरो लेखेव तया अधरलेखया क[१]र्त्र्या सुतनोः कामिन्याः कलेन सीत्कृतेन हेतुना स्फुरिताः प्रकाशिता ये दन्तमरीचयस्तन्मयं तद्रूपं स्फुटमावरणमाच्छादुनं दध इव धृतमिवेत्युत्प्रेक्षा । दधातेः कर्मणि लिद ॥ ५९ ॥
धृततुषारकणस्य नभखतस्तरुलताङ्गुलितर्जनविभ्रमाः । |
धृतेति ॥ धृतास्तुषारकणास्तुहिनशीकरा येन तस्य नभस्वतः पवनस्य संबन्धिनः तरुलता एवाङ्गुलयस्ताभिस्तर्जनानि यानि तान्येव विभ्रमा विलासाः पृथु विशालमिष्टस्य दयितस्य भुजान्तरं भुजमध्यं वक्षःस्थलं निरन्तरमनितया अप्रासया । गाढालिङ्गनमलभमानयेत्यर्थः । इणः कर्तरि क्तः । वनितया स्त्रिया न विषेहिरे न सोढाः । विरहिण्यस्तर्जिता इव नभस्वतो बिभ्यतीति भावः ॥ ६० ॥
हिमऋतावपि ताः स्म भृशस्विदो युवतयः सुतरामुपकारिणि । |
हिमेति ॥ स्मरमयं स्मरादागतम् । स्मरप्रयुक्तमित्यर्थः । 'तत आगतः' (४।३।७४) इति मयट् । अकृत्रिममनुरागं सहजं प्रेम प्रकटयति प्रकटीकुर्वाणे । तत्कार्येण स्वेदेनेति भावः । अत एव सुतरामुपकारिणि पुंसां रिरंसाजननात्तेभ्यः स्वानुरागप्रकाशनाच्चात्यन्तोपकर्तरीत्यर्थः । एवंभूते हिमऋतौ हेमन्तेऽपि । स्वेदसंभावनारहितकालेऽपीत्यर्थः । सांहितः 'ऋत्यकः' (६।१।१२८) इति प्रकृतिभावः । भृशं स्विद्यन्ति रागोष्मणा भृशस्विद इति सात्त्विकोक्तिः । क्किप् । हेमन्तोऽपि रागिणां स्वेदहेतुरेव । तद्धेतुरागहेतुत्वादिति भावः । तास्तथा धीरा युवतयो विलासिनः प्रियान् रमयन्ति स्म। हेमन्तस्योद्दीपकत्वादिति पीडाक्षमत्वात् दीर्घरात्रित्वाच्चोभयेच्छासदृशमरमन्तेत्यर्थः ॥ इति हेमन्तवर्णनम् ॥ ६१ ॥
अथ शिशिरं वर्णयति-
कुसुमयन्फलिनीरलिनीरवैर्मदविकासिभिराहितहुंकृतिः । |
कुसुमयन्नित्यादिना ॥ उपवनम् । वन इत्यर्थः । विभक्त्यर्थेऽव्ययीभावः । 'तृतीयासप्तम्योर्बहुलम्' (२।४।८४) इति विकल्पादम्भावः । फलिनीः प्रियङ्गुलताः । 'प्रियङ्गुः फलिनी फली' इत्यमरः । कुसुमयन् कुसुमवतीः कुर्वन् इत्युद्दीपनसामग्रीवर्णनम् । कुसुमयतेर्मत्वन्तप्रकृतिकात् 'तत्करोति-' (ग०) इति ण्यन्ताल्लटः शत्रादेशः । णाविष्टवद्भावे विन्मतोर्लुक् । मदविकासिभिर्मदेन विजृम्भमाणैरलिनीरवैः भृङ्गीहुंकारैराहितहुंकृतिः कृतहुंकारः । माधुर्याद्युद्दीपकत्वातिशयद्योतनार्थमलिनीति स्त्रीलिङ्गनिर्देशः । शिशिरानिलः प्रियान्वियुवतीः कोपाद्वियुञ्जानाः । यौतेः शतरि धातोरुवङादेशः, 'उगितश्च' (४।१।६) इति ङीप् । युवतीर्वधूः। 'यूनस्तिः' (४।१७७) इति तिप्रत्ययः । निरभर्त्सतातर्जयत । तर्जिभर्त्स्योश्चौरादिकयोरनुदात्तेत्वादात्मनेपदम् । अत्र वायौ अचेतने चेतनधर्मो निर्भर्त्सनमुत्प्रेक्ष्यते । सा चालिनीहुंकारझङ्काराज्जीवितेति रूपकसंकीर्णा व्यञ्जकाप्रयोगाद्गम्या च ॥ ६२ ॥
उपचितेषु परेष्वसमर्थतां व्रजति कालवशाहद्बलवानपि । |
उपचितेष्विति ॥ कालवशाद्बलवानपि परेषु शत्रुषूपचितेषु प्रवृद्धेषु सत्सु असमर्थतां दौर्बल्यं व्रजति । हि यस्मात्तपसि माघमासे । 'तपा माघे' इत्यमरः । मन्दगभस्तिर्मृदुरश्मिरभीषुमानंशुमान् । 'अभीषुः प्रग्रहे रश्मौ' इत्यमरः महत उपचितस्य हिमस्य हानिं नाशं करोतीति महाहिमहानिकरस्तद्धेतुर्नाभवत् । 'कुञो हेतु-' (३।२।२०) इत्यादिना हेत्वर्थे टप्रत्ययः । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ ६३ ॥
अभिषिषेणयिषुं भुवनानि यः स्मरमिवाख्यत लोध्ररजश्चयः । |
अभीति ॥ क्षुभित उद्धतो यः सैन्यपरागः सेनारजः स इव विपाण्डुरद्युतिः शुभ्रवर्णो यो लोध्ररजश्चयः भुवनान्यभिषिषेणयिषुं सेनयाभियातुमिच्छन्तम् । 'यत्सेनयाभिगमनमरौ तदभिषेणनम्' इत्यमरः । 'सत्यापपाश-' (३।१।२५) इत्यादिना सेनाशब्दाण्णिचि सनि 'सनाशंसभिक्ष उः' (३।२।१६८) इत्युप्रत्ययः। 'स्थादिष्वभ्यासेन-' (८।३।६४) इति धात्वभ्याससकारयोः षत्वम् । स्मरमाख्यतेव ख्यातवानित्युत्प्रेक्षा। चक्षिङः ख्याञ्। 'अस्यतिवक्तिख्यातिभ्योऽङ्' (३।१।५२) इति च्लेरङादेशः । अयं लोध्ररजश्चयो दिशस्तिरयन् तिरस्कुर्वन् । तिरःशब्दात् 'तत्करोति-' (ग०) इति ण्यन्ताल्लटः शत्रादेशः । णाविष्ठवद्भावे टिलोपः । उदभूत् ॥ ६४ ॥
शिशिरमासमपास्य गुणोऽस्य नः क इव शीतहरस्य कुचोष्मणः । |
शिशिरेति ॥ शिशिरमासमपास्यापहाय शीतं हरतीति शीतहरस्य । 'हरतेरनुद्यमनेऽच्' (३।२।९) इत्यच्प्रत्ययः । नोऽस्माकमस्य कुचोष्मणः कुचोष्णस्य क इव गुणः । किं फलं संपाद्यत इति शेषः । गम्यमानक्रियापेक्षया क्त्वानिर्देशः । इवशब्दो वाक्यालंकारे । इति धिया । अतोऽस्मिन् शिशिरमासे । सार्वविभक्तिकस्तसिः। प्रियाः कान्ता अस्तरुषो निरस्तरोषाः सत्यो नमतः प्रणताननुमतान् स्वप्रियान् घनं निबिडं परिरेभिर आश्लिष्टवत्यः । इति धियेति सुखार्थस्य परिरम्भस्य कुचोष्मसाफल्यार्थत्वमुत्प्रेक्ष्यते व्यञ्जकाप्रयोगाद्गम्यत्वं च ॥ ६५ ॥
अधिलवङ्गममी रजसाधिकं मलिनिताः सुमनोदलतालिनः । |
अधीति ॥ लवङ्गेष्वधिलवङ्गम् । विभक्त्यर्थेऽव्ययीभावः । सुमनसां पुष्पाणां दलेषु तालयन्ति प्रतितिष्ठन्तीति सुमनोदलतालिनः । ताच्छील्ये आभीक्ष्ण्ये वा णिनिः । अमी अलिनो मधुपाः रजसा परागेणार्तवेन चाधिकं मलिना मलीमसाः पापिनश्च कृता मलिनिता इति हेतोः पुरोऽग्रे सपदि कुन्दलता माध्यवल्ली। 'माध्यं कुन्दम्' इत्यमरः । दलता विकसता प्रसवेन निजकुसुमेनाहसज्जहास । स्फुटमित्युत्प्रेक्षायाम् । रजस्वलां गन्तारं कामिनं सपत्यो हसन्तीति भावः । कुन्दकुसुमस्य धावल्याद्धासत्वेनोत्प्रेक्षा ॥ इति शिशिरवर्णनम् ॥ ६६ ॥
अथ यमकविशेषकौतुकितया कविः पुनर्द्वादशभिर्ऋतून् वर्णयन्नाद्यैश्चतुर्भिर्वसन्तं वर्णयति-
अतिसुरभिरभाजि पुष्पश्रियामतनुतरतयेव संतानकः । |
अतिसुरभिरिति ॥ अतिसुरभिरत्यन्तसुगन्धिः संतानकः कल्पवृक्षः पुष्पश्रियां पुष्पसंपदामतनुतरतया महत्तरत्वेन । अतनुशब्दात्तरबन्तात्तलप्रत्ययः । अभाजीवाभञ्जीवेत्युप्रेक्षा । तथा नम्र इत्यर्थः । 'भञ्जेश्च चिणि' (६।४।३३) इति विभाषा नलोपे उपधावृद्धिः । चिणो लुक् । किंच वसन्तस्यानको वसन्तानकः । दुन्दुभिरिति रूपकम् । तरुणपरभृतस्तरुणकोकिलो रागिणां कामिनां रतये रागवर्धनाय स्वनमतनुत । मधुरं चुकूजेत्यर्थः । प्रभावृत्तम् । 'स्वरशरविरतिननौ रौ प्रभा' इति लक्षणात् ॥ ६७ ॥
नोज्झितुं युवतिमाननिरासे दक्षमिष्टमधुवासरसारम् । |
नोज्झितुमिति ॥ अरमत्यन्तमिष्टेष्वीप्सितेषु मधुषु मकरन्देषु वासे वसतौ रसो रागो यस्याः सा इष्टमधुवासरसा। मधुपानप्रियेत्यर्थः । अत एवालिनामालिर्भृङ्गश्रेणिर्युवतिमाननिरासे दक्षं कुशलम् । उद्दीपकत्वादिति भावः । मधुवासरेषु वसन्तदिनेषु सारं श्रेष्ठं मधुवासरसारम् । तत्कालश्लघ्यमित्यर्थः । चूतं सह- कारमतिरागादतिलौल्यादुज्झितुं हातुं नाक्षमिष्ट नासहिष्ट । क्षमेर्भौवादिकाल्लुङ् । स्वागता वृत्तम् । 'स्वागतेति रनभाद्गुरुयुग्मम्' इति लक्षणात् ॥ ६८ ॥
जगद्वशीकर्तुमिमाः स्मरस्य प्रभावनीके तनवै जयन्तीः ।
इत्यस्य तेने कदलीमधुश्रीः प्रभावनी केतनवैजयन्तीः ॥६९॥
जगदिति ॥ प्रभावयतीति प्रभावनी संपादयित्री । कर्तरि ल्युटि ङीप् । मधुश्रीः कर्त्री जगद्वशीकर्तुं प्रभौ समर्थे अस्य स्मरस्यानीके सैन्ये जयन्तीर्जित्वरीः केतनवैजयन्तीर्ध्वजपताकाः तनवै करवाणि । तनोतेः प्राप्तकाले लोट् । टेरेत्वमित्ये- कारः 'एत ऐ' (३।४।९३) 'आडुत्तमस्य पिच्च' (३।४।९२) इति आटि 'आटश्च' (६|१|९०) इति वृद्धिः । इति मनीषयेति शेषः । इमाः कदली रम्भातरूंस्तेने वितस्तार । 'कदली वारणबुशा रम्भा मोचांशुमत्फला' इत्यमरः । कदलीषु काम- वैजयन्तीत्वोत्प्रेक्षा । वृत्तमुपजातिः ॥ ६९ ॥
स्मररागमयी वपुस्तमिस्रा परितस्तार रवेरसत्यवश्यम् ।
प्रियमाप दिवापि कोकिले स्त्री परितस्ताररवे रसत्यवश्यम् ७०
स्मरेति ॥ असती दुष्टा स्मरेण कामेन निमित्तेन यो रागो रमणेच्छा स एव तन्मयी तमिस्रा तमस्तोमः। 'तमिस्रा तिमिरे रोगे तमिस्रा तु तमस्ततौ । कृष्ण- पक्षनिशायां च' इति विश्वः । रवेर्वपुर्मण्डलं परितस्तार आवव्रे । अहनि रजनीधियं जनयामासेत्यर्थः । परिपूर्वात्स्तृणातेर्लिट् । अवश्यम् । सत्यमित्यर्थः । कुतः । परितः समन्तात् ताररवे उच्चतरध्वनौ कोकिले रसति कूजति सति इत्युद्दीपकोक्तिः । स्त्री। स्त्रिय इत्यर्थः । जातावेकवचनम्। दिवेति सप्तम्यर्थेऽव्ययम् । वशं गतो वश्यः । 'वशं गतः' (१४८६) इति यत्प्रत्ययः । न वश्यस्तमवश्यम् । अवशं गतमपीत्यर्थः । प्रियमाप । स्वयमभिससारेत्यर्थः । यदवगणयन्तमपि प्रियं दिवापि मानमवगणय्य निषेधं चोल्लङ्घ्य समगच्छंस्तत्सत्यम् । रागतिमिरतिरोहितमानभानुमण्डला मानिन्य इति रूपकानुप्राणिता प्रियाप्तिक्रियानिमित्ता परिस्तरणक्रियास्वरूपोत्प्रेक्षा अवश्यमिति व्यञ्जकप्रयोगाद्वाच्या । औपच्छन्दसिकं वृत्तम् । 'विषमे ससजा गुरू समे चेत् स्मर तच्छन्दसिकं तदोपपूर्वम्' इति लक्षणात् ॥ ७० ॥
अथैकेन ग्रीष्ममाह-
वपुरम्बुविहारहिमं शुचिना रुचिरं कमनीयतरा गमिता ।
रमणेन रमण्यचिरांशुलतारुचिरङ्कमनीयत रागमिता ॥७१।।
वपुरिति ॥ शुचिना ग्रीष्मेण प्रयोजककर्त्रा अम्बुविहारेण जलक्रीडया हिमं शीतलमत एव रुचिरमुज्वलं वपुर्देहं गमिता प्रापिता । 'गतिबुद्धि-' (११४५२) इत्यादिना अणिकर्तुः कर्मत्वम् , 'प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्' इत्यभि- हितत्वं च । अत एव कमनीयतरा रमणीयतरा अचिरांशुर्लतेवाचिरांशुलता विद्यु- ल्लता तस्या रुचिरिव रुचिर्यस्याः सा अचिरांशुलतारुचिः इत्युपमाद्वयम् । तथा रागमनुरागमिता प्राप्ता । इणः कर्तरि क्तः । रमणी रमणेन प्रियेणाङ्कमुत्सङ्गमनीयत नीता । 'नीहृकृष्वहाम्' इति नयतेर्द्विकर्मकता । शेषं पूर्ववत् । तोटकं वृत्तम् । 'वद तोटकमब्धिसकारयुतम्' इति लक्षणात् ॥ ७१ ॥
अथ द्वाभ्यां वर्षर्तुं वर्णयति-
मुदमब्दभुवामपां मयूराः सहसायन्त नदी पपाट लाभे ।
अलिना रमतालिनी शिलीन्ध्रे सह सायन्तनदीपपाटलाभे ७२
मुदमित्यादि ॥ अब्दभुवां मेघप्रभवानामपां लाभे । मेघे वर्षति सतीत्यर्थः । सहसा मयूरा मुदमानन्दमायन्तालभन्त । 'अय गतौ' लङि 'आडजादीनाम्' (६।४।७२) इत्याडागमे वृद्धिः । नदी पपाट । नद्यः प्रावहन्नित्यर्थः । 'अट पट गतौ' लिट् । जातावेकवचनम् । अलिना भृङ्गेण सह सायंतनः सायंभवः । "सायंचिरम्-'(४।३।२३) इत्यादिना ट्युप्रत्ययः तुडागमश्च । स चासौ दीपश्च तद्वत्पाटलाभे पाटलप्रभे इत्युपमालंकारः । तस्मिन् शिलीन्ध्रे कन्दलीकुसुमे अलि- न्यरमत । अत्र मयूरमोदप्राप्त्याद्यनेककर्तृकक्रियायोगपद्याद्भिन्नाधिकरणक्रियासमुच्च- यरूपः समुच्चयालंकारभेदः । 'गुणक्रियायौगपद्यं समुच्चयः' इति सामान्यलक्षणम् । औपच्छन्दसिकं वृत्तम् ॥ ७२ ॥
कुटजानि वीक्ष्य शिखिभिः शिखरीन्द्रं समयावनौ घनमदभ्रमराणि ।
गगनं च गीतनिनदस्य गिरोच्चैः समया वनौघनमदभ्रमराणि ७३
कुटजानीति ॥ शिखरीन्द्रं समया रैवतकाग्रे: समीपे । 'अभितःपरितःस- मया-' (वा०) इत्यादिना द्वितीया । अवनौ प्रदेशे घनमदा भ्रमरा येषु तानि घनमदभ्रमराणि कुटजानि कुटजकुसुमानि वनौघेन पयःपूरेण नमन्त्यभ्राणि मेघा यस्मिंस्तद्वनौघनमदभ्रम् । ‘पयः कीलालममृतं जीवनं भुवनं वनम्' इत्यमरः । गगनं च वीक्ष्य शिखिभिर्मयूरैर्गीतनिनदस्य गानध्वनेः समया तुल्यया । 'तुल्या- र्थैः-' (२।३।७२) इत्यादिना वैकल्पिकी षष्ठी । गिरा वाचा । केकयेत्यर्थः । उच्चैरराणि रणितम् । 'रण शब्दे' भावे लुङ् । चिणो लुक् । कुटजा वृत्तम् । 'सजसा भवेदिह सगौ कुटजाख्यम्' इति लक्षणात् ॥ ७३ ॥
अथ त्रिभिः शरदं वर्णयति-
अभीष्टमासाद्य चिराय काले समुद्धृताशं कमनी चकाशे ।
योषिन्मनोजन्मसुखोदयेषु समुद्धृताशङ्कमनीचकाशे ॥ ७४ ॥
अभीष्टमित्यादि ॥ कामयत इति कमनी कामयित्री । 'कम्रः कामयिता- भीकः कमनः कामनोऽभिकः' इत्यमरः । कमेः कर्तरि ल्युटि ङीप् । योषित् । जातावेकवचनम् । अनीचा उन्नताः काशा अश्ववाला यस्मिन्ननीचकाशे काले । शरदीत्यर्थः । मनोजन्मसुखोदयेषु कामसुखाविर्भावेषु धृता आशा अभिलाषो येन तमभीष्टं प्रियं चिराय चिरकालेन । 'चिराय चिररात्राय' इत्यमरः । सम्यगुद्धृता उत्सृष्टा आशङ्का संकोचो यस्मिन्कर्मणि तत्समुद्धताशकं विस्रब्धं यथा तथा आसाद्य प्राप्य मुदा सह वर्तत इति समुत् सानन्दा सती चकाशे । विललासेत्यर्थः । अत्र समुच्चकाश इति योषितः प्रियप्राप्तिनिमित्तहर्षाख्यभावनिबन्धनात् प्रेयोऽलंकारः ।। रसभावतदाभासत्प्रकाशसमानानां निबन्धे रसवत्प्रेय ऊर्जस्विसमाहितानीति लक्षणात् । वृत्तमुपजातिः । ॥ ७४ ॥
स्तनयोः समयेन याङ्गनानामभिनद्धारसमा न सा रसेन ।
परिरम्भरुचिं ततिर्जलानामभिनद्धा रसमानसारसेन ॥ ७५ ।।
स्तनयोरिति ॥ रसमानाः कूजनशीलाः । 'ताच्छील्यवयोवचनशक्तिषु चानश्' (३।२।१२९) इति ताच्छील्ये चानश्प्रत्ययः । रसतेः परस्मैपदित्वान्न शानच्प्रत्ययः । ते सारसाः पक्षिविशेषाः यस्मिंस्तेन रसमानसारसेन समयेन । शरत्कालेनेत्यर्थः । सारसानां तत्रैव संभवात् । 'सारसो मैथुनी कामी गोनर्दः पुष्कराह्वयः' इति यादवः । अङ्गनानां स्तनयोर्या जलानां ततिः शारदोष्मजन्मा स्वेदोदबिन्दुसं- दोहः अभितो नद्धाऽभिनद्धा । नह्यतेरभिपूर्वात्कर्मणि क्तः । 'नहो धः' (८|२।३४) इति धत्वम् । हारसमा मुक्ताहारतुल्या । कुचमण्डलमण्डनायमानेति भावः । सा जलानां तती रसेन रागेण हेतुना । बलीयसेति भावः । परिरम्भरुचिमालिङ्गनेच्छां नाभिनत् न विभेद । शारदस्वेदस्याप्यालंकारतया उद्दीपकस्याजुगुप्सितत्वान्निःसपलशृङ्गारा विजयन्त इत्यर्थः । अत एव रसनिबन्धनाद्रसवदलंकारः । लक्षणमुक्तं पूर्वश्लोके । औपच्छन्दसिकं वृत्तम् ॥ ७५ ॥
जातप्रीतिर्या मधुरेणानुवनान्तं
कामे कान्ते सारसिकाकाकुरुतेन ।
तत्संपर्कं प्राप्य पुरा मोहनलीलां
कामेकान्ते सा रसिका का कुरुते न ॥ ७६ ॥
जातेति ॥ या स्त्री अनुवनान्तम् । विभक्त्यर्थेऽव्ययीभावः । मधुरेण श्राव्येण सारसिकाकाकुरुतेन सारस्य एव सारसिकाः सारसाङ्गनाः । कात्पूर्वस्येत्वम् । तासां काकुरुतेन विकृतशब्देन । 'काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः' इत्यमरः । काकुश्च तद्रुतं च तेन । कामे कामकल्पे । 'सिंहो देवदत्त' इतिवद्गौण- प्रयोगः । कान्ते प्रिये जातप्रीतिर्जातस्नेहाभूत् । रसिका रसवती । रागवतीत्यर्थः । 'अत इनिठनौ' (५।२।११५) इतीठन्प्रत्ययः । सा का स्त्री एकान्ते रहसि तस्य कान्तस्य संपर्कं प्राप्य पुरा पुरुषप्रेरणात्पूर्वमेव का मोहनलीलां सुरतक्रीडां न कुरुते । सर्वापि स्त्री सर्वानपि सुरतविशेषान् कामतन्त्रप्रसिद्धान् विस्रब्धं चकारेत्यर्थः । तेन शृङ्गारस्य पराकाष्ठा प्राप्तेत्युक्तम् । मत्तमयूरं वृत्तम् ॥ ७६ ॥
अथैकेन हेमन्तमाह-
कान्ताजनेन रहसि प्रसभं गृहीत-
केशे रते स्मरसहासवतोषितेन ।
प्रेम्णा मनस्सु रजनीष्वपि हैमनीषु
के शेरते स रसहासवतोषितेन ॥ ७७ ॥
इत्यर्थः । तेनासवेन तोषितः तेन स्मरसहासवतोषितेन अत एव रसहासावस्य स्त इति रसहासवता रागहास्यवता अत एव प्रेम्णा मनस्सु पुंसां चित्तेपूषितेन वसता । वसतेः कर्तरि क्तः । 'वसतिक्षुधोरिद' (७।२।५२) इतीडागमः 'गतिबुद्धि-' (१|४|५२) इत्यादिसूत्रे चकाराद्वर्तमानार्थता । कान्तैव जनस्तेन कान्ताजनेन । जातावेकवचनम् । प्रसभं रहसि बलाद्गृहीतकेशे आकृष्टशिरोरुहे रते सुरते हेमन्ते भवा हैमन्यस्तासु हैमनीष्वपि । द्वाघीयसीष्वपीति भावः। 'सर्वत्राण् च तलोपश्च' (४।३।२२) इति हेमन्तशब्दादण्प्रत्ययः तकारलोपश्च ‘टिड्ढाणञ्-' (४।१।१५) इत्यादिना ङीप् । रजनीषु के युवानः शेरते स्म स्वपन्ति स्म । न केऽपीत्यर्थः । 'लट् स्मे' (३।२।११८) इति भूते लट् । एतेनातिभूमिं गतः शृङ्गार इति व्यज्यते । वसन्ततिलका वृत्तम् ॥ ७७ ॥
अथैकेन शिशिरं वर्णयति-
गतवतामिव विस्मयमुच्चकैरसकलामलपल्लवलीलया ।
मधुकृतामसकृद्गिरमावली रसकलामलपल्लवलीलया॥७८॥
गतवतामिति ॥ असकलामलपल्लवलीलया असकला असमाविकासिनोऽ- मला निर्मलाश्च ये पल्लवास्तेषां लीला तया । नृत्यरूपयेत्यर्थः । विस्मयं गतवता- मिव स्थितानामिवेत्युत्प्रेक्षा । मधुकृतां मधुकराणां संबन्धिनी लवलीषु लतावि- शेषेषु लयो लयनं स्थितिर्यस्याः सा लवलीलया आवलिः पङ्क्तिः रसकलां रसेन मध्वास्वादेन कलामव्यक्तमधुराम् । 'ध्वनौ तु मधुरास्फुटे । कलः' इत्यमरः । गिरं वाचमसकृदुच्चैरलपत् । मधुमदहेतुकस्य मधुकरालापस्य पल्लवलीलया जनितविस्म- यहेतुकत्वमुत्प्रेक्ष्यत इति गुणहेतूप्रेक्षा । द्रुतविलम्बितं वृत्तम् । ७८ ॥
कुर्वन्तमित्यतिभरेण नगानवाचः
पुष्पैर्विराममलिनां च न गानवाचः ।
श्रीमान्समस्तमनुसानु गिरौ विहर्तुं
विभ्रत्यचोदि स मयूरगिरा विहर्तुम् ॥ ७९ ।।
इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्र्यङ्के
ऋतुवर्णनं नाम षष्टः सर्गः ॥ ६ ॥
कुर्वन्तमिति ॥ इतीत्थं पुष्पैरेवातिभरेण महाभरेण तत्कृतेन वा गौरवेण नगान् वृक्षानवाञ्चन्तीत्यवाचो नम्रान् । अञ्चेरवपूर्वात् 'ऋत्विक्-' (३।२।५९) इत्या- दिना क्विन्प्रत्ययः । कुर्वन्तमलिनां गानवाचो गीतध्वनेर्झंकारस्य च न विराममवि- राममसमाप्तिं कुर्वन्तं समस्तमृतुं सर्वानृतूननुसानु । सानुष्वित्यर्थः । विभक्त्यर्थेऽ- व्ययीभावः । विभ्रति बिभ्राणे इह गिरौ रैवतकाद्रौ विहर्तुं क्रीडितुं श्रीमान् स हरिः मयूरगिरा केकया अचोदि प्रेरितः । भगवन्निह विहर ऋतुगणमनुगृहाणेति प्रार्थित इवेत्युत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या । वृत्तमुक्तम् ॥ ७९ ॥
इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध-
काव्यव्याख्याने सर्वङ्कषाख्ये षष्ठः सर्गः ॥६॥
- ↑ 'कर्त्र्या कलशीकृतेन हेतुना.'