शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)/प्रथमः सर्गः(कृष्णनारदसम्भाषणम्)
शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्) प्रथमः सर्गः(कृष्णनारदसम्भाषणम्) माघः |
द्वितीयः सर्गः(मन्त्रवर्णनम्) → |
॥ श्रीः ॥
श्रीमन्माघकविप्रणीतं
शिशुपालवधम् ।
मल्लिनाथकृतया सर्वंकषाव्याख्यया समेतम् ।
प्रथमः सर्गः।।
इन्दीवरदलश्याममिन्दिरानन्दकन्दलम् । |
दन्ताञ्चलेन धरणीतलमुन्नमय्य पातालकेलिषु धृतादिवराहलीलम् । |
शारदा शारदाम्भोजवदना वदनाम्बुजे । |
वाणीं काणभुजीमजीगणदवाशासीच्च वैयासिकी- |
मल्लिनाथः सुधीः सोऽयं महोपाध्यायशब्दभाक् । |
ये शब्दार्थपरीक्षणप्रणयिनो ये वा गुणालंक्रिया- |
इहान्वयमुखेनैव सर्वं व्याख्यायते मया । |
अथ तत्रभवान् माघकविः ‘काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥' इत्यालंकारिकवचनप्रामाण्यात् काव्यस्यानेकश्रेयःसाधनतां, “काव्यालापांश्च वर्जयेत्' इति निषेधस्यासत्काव्यविषयतां च पश्यन् शिशुपालवधाख्यं काव्यं चिकीर्षुश्चिकीर्षितार्थाविघ्नपरिसमाप्तिसंप्रदायाविच्छेदलक्षणसाधनत्वात् ‘आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्' इत्याशीराद्यन्यतमस्य प्रबन्धमुखलक्षणत्वाच्च काव्यफलं शिशुपालवधबीजभूतं भगवतः श्रीकृष्णस्य नारददर्शनरूपं वस्तु आदौ श्रीशब्दप्रयोगपूर्वकं निर्दिशन् कथामुपक्षिपति-
श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि ।
वसन्ददर्शावतरन्तमम्बराद्धिरण्यगर्भाङ्गभुवं मुनिं हरिः ॥ १ ॥
श्रिय इति ॥ तत्रादौ श्रीशब्दप्रयोगात् वर्णगणादिशुद्धेरभ्युच्चयः । तदुक्तम्- 'देवतावाचकाः शब्दा ये च भद्रादिवाचकाः । ते सर्वे नैव निन्द्याः स्युर्लिपितो गणतोऽपि वा ॥' इति । श्रियो लक्ष्म्याः पतिः । अनेन रुक्मिणीरूपया श्रिया समेत इति सूचितम् । ‘राघवत्वे भवेत्सीता रुक्मिणी कृष्णजन्मनि' इति विष्णुपुरा- णात् । जगन्निवासो जगतामाधारः । कुक्षिस्थाखिलभुवन इति यावत् । तथापि जगत् लोकं शासितुं दुष्टनिग्रहशिष्टानुग्रहाभ्यां नियन्तुं श्रीमति लक्ष्मीयुक्ते वसु- देवसद्मनि वसुदेवरूपिणः कश्यपस्य वेश्मनि वसन् कृष्णरूपेण तिष्ठन् हरिर्विष्णुर- म्बरादवतरन्तमायान्तम् । इन्द्रसंदेशकथनार्थमिति भावः । हिरण्यस्य गर्भो हिर- ण्यगर्भो ब्रह्मा ब्रह्माण्डप्रभवत्वात् । तस्याङ्गभुवं तनूजम् । अथवा तस्याङ्गाद- वयवादुत्सङ्गाख्याद्भवतीति हिरण्यगर्भाङ्गभूस्तं मुनिम् । नारदमित्यर्थः । ‘उत्सङ्गा- नारदो जज्ञे दक्षोऽङ्गुष्ठात्स्वयंभुवः' इति भागवतात् । ददर्श । कदाचिदिति शेषः । अत्राल्पीयसि वसुदेवसद्मनि सकलजगदाश्रयतया महीयसो हरेराधेयत्वकथनाद- धिकप्रभेदोऽर्थालंकारः । तदुक्तम्-‘आधाराधेययोरानुरूप्याभावोऽधिको मतः' इति । जगन्निवासस्य जगदेकदेशनिवासित्वमिति विरोधश्च । तथा तकारसकारादेः केवलस्यासकृदावृत्त्या जगज्जगदिति सकृद्व्यञ्जनद्वयसादृश्याच्च वृत्त्यनुप्रासभेदौ शब्दालंकारौ । एषां चान्योन्यनैरपेक्ष्येणैकत्र समावेशात्तिलतण्डुलवत्संसृष्टिः । सर्गेऽस्मिन्वंशस्थं वृत्तम् । ‘जतौ तु वंशस्थमुदीरितं जरौ' इति लक्षणात् ॥ १ ॥
तदानीं जनैर्विस्मयादीक्षितुं प्रवृत्तमित्याह-
गतं तिरश्चीनमनूरुसारथेः प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः ।।
पतत्यधो धाम विसारि सर्वतः किमेतदित्याकुलमीक्षितं जनैः ॥२॥
गतमिति ॥ अविद्यमानावूरू यस्य सोऽनूरुः स सारथिर्यस्य तस्यानूसारथेः सूर्यस्य गतं गतिः । भावे क्तः । तिरश्चीनं तिर्यग्भूतम् । ‘विभाषाञ्चेरदिक्- स्त्रियाम्' इति तिर्यक्शब्दादञ्चत्यन्तात्प्रातिपदिकात् स्वार्थे खप्रत्ययः । हविर्भुजोऽग्ने- रूर्ध्वज्वलनमूर्ध्वस्फुरणं प्रसिद्धम् । इदं तु सर्वतो विसरि धामाधः पतति । किमेतदिति सूर्याग्निविलक्षणमदृष्टपूर्वमिदं धाम किमात्मकं स्यादित्याकुलं विस्म- यात्संभ्रान्तं यथा तथा जनैरीक्षितमीक्षणं कृतम् । सकर्मकादप्यविवक्षिते कर्मणि क्तः । ‘प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया' इति वचनात् । केचित्क-.. र्मणि त्कान्तं कृत्वा ईक्षितं मुनिं ददर्शेति पूर्वेण योजयन्ति । अत्रोपमेयस्य मुनि- धाम्नः सूर्याग्निभ्यामुपमानाभ्यामधःप्रसरणधर्मेणाधिक्यवर्णनाद्व्यतिरेकः । तदुक्तं काव्यप्रकाशे-‘उपमानाद्यदन्यस्य व्यतिरेकः स एव सः' इति । ‘धाम रश्मौ गृहे देहे स्थाने जन्मप्रभावयोः' इति हेमचन्द्रः । दिवाकरस्तु वृत्तरत्नाकरटीकायां । प्रथमपठितेन ‘द्विधाकृतात्मा किमयं दिवाकरो, विधूमरोचिः किमयं हुता- शनः' इति चरणद्वयेन सहेममेव श्लोकं षट्पदच्छन्दस उदाहरणमाह । तत्राद्य चरणद्वयेन संदेहालंकारो गतमिति तन्निरासश्च बोध्य इत्युपरिष्टात् ॥ २ ॥
अथ भगवान्निरणैषीदित्याह-
चयस्त्विषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिम् ।
विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ॥३॥
चय इति ॥ विभुर्वस्तुतत्त्वावधारणसमर्थः स हरिः पुरा प्रथमं त्विषां चय इत्यवधारितं तेजःपुञ्जमात्रत्वेन विनिश्चितम् । ततः प्रत्यासन्ने सति विभाविता विमृष्टा आकृतिः संस्थानं यस्य तं तथोक्तम् । अत एव शरीरी चेतन इत्यवधा- रितम् । ततो विभक्ता विविच्य गृहीता अवयवा सुखादयो यस्य तं तथोक्तम् । अत एव पुमानित्यवधारितम् । अमुमागच्छन्तं व्यक्तिविशेषं नारदं वास्तवाभिप्रा- येणेति पुंलिङ्गनिर्वाहः । क्रमात् पूर्वोक्तसामान्यविशेषज्ञानक्रमेण । लोकदृष्ट्येदमु- क्तम् । हरिस्तु सर्वं वेदैवेति तत्त्वम् । नारद इत्यबोधि । नारदं बुद्धवानित्यर्थः । नारदस्य कर्मत्वेऽपि निपातशब्देनाभिहितत्वान्न द्वितीया । तिङामुपसंख्या- नस्योपलक्षणत्वात् । यथाह वामनः–‘निपातेनाभिहिते कर्मणि न कर्मविभक्तिः । परिगणनस्य प्रायिकत्वात्' इति बुध्यतेः कर्तरि लुङ् । ‘दीपजन-' (३।१।६१ ) इत्यादिना चिण् । ‘चिणो लुक्’ (६।४।१०४ ) इति तस्य लुक् । अत्र विभा- विताकृतिं विभक्तावयवमित्यादिना आकृतिविभावनावयवविभावनयोः पदार्थयो- र्विशेषणवृत्त्या शरीरित्वपुंस्त्वावधारणहेतुत्वेनोपन्यासात्पदार्थहेतुकं काव्यलिङ्गमलं- कारः । ‘हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्' इति लक्षणात् ॥ ३ ॥
अथ सप्तभिर्मुनिं विशिनष्टि-
नवानधोऽधो बृहतः पयोधरान्समूढकर्पूरपरागपाण्डुरम् ।।
क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना स्फुटोपमं भूतिसितेन शंभुना ॥४॥
नवानित्यादिभिः ।। कीदृशममुम् । नवान्सद्यः संभृतसलिलान् । अतिनीला- निति यावत् । बृहतो विपुलान्पयोधरान्मेघानधोऽधः । मेघानां समीपाधःप्रदेशे स्थितमिति शेषः । ‘उपर्यध्यधसः सामीप्ये' (८।१।७ ) इति द्विर्भावः । तद्योगे द्वितीया । ‘उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु’ ईत्यादिवचनात् । समूढः पुञ्जीकृतः । 'समूढः पुञ्जिते भुग्ने' इति विश्वः । कर्पूरस्य परागचूर्णं तद्वत्पाण्डुरम् । अत एव क्षणं मेघसमीपावस्थानक्षणे । अत्यन्तसंयोगे द्वितीया ।क्षणेषु ताण्डवोत्सवेषु । 'निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः' इत्युभयत्राप्यमरः । उत्क्षिप्ता उपरि धारिता गजेन्द्रस्य कृत्तिश्चर्म येन तेन । 'अजिनं चर्म कृत्तिः स्त्री' इत्यमरः । भूत्या भस्मना सितेन । 'भूतिर्भस्मनि संपदि' इत्यमरः। शंभुना हरेण स्फुटा उपमा सादृश्यं यस्य तं स्फुटोपमम् । स्फुटशंभूपममित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । सदृशपर्याययोस्तुलोपमाशब्दयोः 'अतुलोपमाभ्याम्-' इति निषेधात्सादृश्यवा- चित्वे तृतीयेत्याहुः । केचिदिमं श्लोकं चयस्त्विषामित्यतः प्राग्लिखित्वा व्याचक्षते । तेषां पुंस्त्वावधारणात्प्राक् तेजःपिण्डमात्रस्य शंभूपमौचित्यं चिन्त्यम् ॥ ४ ॥
दधानमम्भोरुहकेसरद्युतीर्जटाः शरच्चन्द्रमरीचिरोचिषम् ।
विपाकपिङ्गास्तुहिनस्थलीरुहो धराधरेन्द्रं व्रततीततीरिव ॥५॥
दधानमिति ॥ पुनः कीदृशम् । अम्भोरुहकेसरद्युतीः पद्मकिंजल्कप्रभापि- शङ्गीरित्यर्थः । जटा दधानम् , स्वयं तु शरच्चन्द्रमरीचिरिव रोचिर्यस्य तम् । धवल- मित्यर्थः । अत एव विपाकेन परिणामेन पिङ्गाः पिङ्गलास्तुहिनस्थल्यां तुषारभूमौ रोहन्तीति तुहिनस्थलीरुहः व्रततीततीर्लताव्यूहान् 'वल्ली तु व्रततिर्लता' इत्यमरः । दधानं धराधरेन्द्रो हिमवान् तुहिनस्थलीति लिङ्गान्नारदोपमानत्वाच्च तमिव स्थितम् ॥ ५॥
पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमञ्जनद्युति ।
सुवर्णसूत्राकलिताधराम्बरां विडम्बयन्तं शितिवाससस्तनुम् ॥६॥
पिशङ्गेति ॥ पुनः कीदृशम् । मुञ्जस्तृणविशेषः तन्मयी मेखला मौञ्जी पिशङ्ग्या मौङ्ज्या युज्यत इति पिशङ्गमौञ्जीयुक् तम् । 'सत्सूद्विष-' (३।२।६१) इत्यादिना क्विप् । 'स्त्रियाः पुंवत्-' (६।३।३४) इति पिशङ्गशब्दस्य पुंवद्भावः। अर्जुनच्छविं धवलकान्तिम् । 'वलक्षो धवलोऽर्जुनः' इत्यमरः । अञ्जनद्युत्यञ्जनवर्ण एणाजिनं कृष्णमृगचर्म वसानमाच्छादयन्तम् । 'वस आच्छादने' इति धातोः शानच् । सुवर्ण- सूत्रेण कनकमेखलया आकलितं बद्धमधराम्बरमन्तरीयकं यस्यास्तां शितिवाससो नीलाम्बरस्य रामस्य तनुं विडम्बयन्तम् । अनुकुर्वाणमित्यर्थः । आर्थीयमुपमा ॥६॥
विहंगराजाङ्गरुहैरिवायतैर्हिरण्मयोर्वीरुहवल्लितन्तुभिः ।
कृतोपवीतं हिमशुभ्रमुच्चकैर्घनं घनान्ते तडितां गणैरिव ॥ ७ ॥
विहंगेति ॥ पुनः । विहंगराजाङ्गरुहैरिव गरुत्मल्लोमतुल्यैरायतैर्दीधैः। हिरण्यस्य विकारो हिरण्मयी । 'दाण्डिनायन-' (६।४।१७४) इत्यादिना मयटि यलोप- निपातः । तस्यामुया॑ रुहा रूढाः । इगुपधालक्षणः कप्रत्ययः । तासां वल्लीनां तन्तु- भिस्तत्तुल्यैः सूक्ष्मावयवैः । उपादानगुणात् । हिरण्मयैः कृतोपवीतं शोभार्थं कल्पित- यज्ञसूत्रं स्वयं हिमशुभ्रम् । अत एव घनान्ते शरदि तडितां गणैरुपलक्षितम् । 'तडित्सौदामनी विद्युत्' इत्यमरः । उच्चैरेवोच्चकैरुन्नतं धनं मेघमिव स्थितम् ॥७॥
पाठा०-१ 'गुणैः'.निसर्गचित्रोज्वलसूक्ष्मपक्ष्मणा लसब्दिसच्छेदसिताङ्गसङ्गिना ।
चकासतं चारुचमूरुचर्मणा कुथेन नागेन्द्रमिवेन्द्रवाहनम् ॥ ८॥
निसर्गेति ॥ पुनः निसर्गात्स्वभावादेव चित्राणि शबलान्युज्वलानि भास्व- राणि सूक्ष्माणि पक्ष्माणि लोमानि यस्य तेन लसन् यो बिसच्छेदो मृणालखण्डः । 'छेदः खण्डोऽस्त्रियाम्' इति त्रिकाण्डशेषः । तद्वत्सितेऽङ्गे वपुषि सङ्गिना सक्तेन चारुणा मनोहरेण चमूरुचर्मणा मृगत्वचा कुथेन पृष्ठास्तरणेन । 'प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः' इत्यमरः । इन्द्रवाहनं नागेन्द्रमैरावतमिव चकासतं शोभमानम् । इन्द्रस्य वाहनमिति स्वस्वामिभावमात्रस्य विवक्षितत्वात् 'वाहन- माहितात्' (८।४।८) इति न णत्वम् । यथाह वामनः -'नेन्द्रवाहनशब्दे णत्व- माहितत्वस्याविवक्षितत्वात्' इति । चकासतेः शतरि 'नाभ्यस्ताच्छतुः' (७।१।७८) इति नुमभावः । 'जक्षित्यादयः षट्' (६।१।६) इत्यभ्यस्तसंज्ञा ॥ ८॥
अजस्रमास्फालितवल्लकीगुणक्षतोज्ज्वलाङ्गुष्ठनखांशुभिन्नया ।
पुरः प्रवालैरिव पूरितार्धया विभान्तमच्छस्फटिकाक्षमालया ॥९॥
अजस्रमिति ॥ पुनरजस्रं प्राचुर्येणास्फालितास्ताडिताः । सौष्ठवपरीक्षार्थ न्युब्जाङ्गुष्ठेन तन्त्रीताडनं प्रसिद्धम् । तेषां वल्लकीगुणानां वीणातन्त्रीणां क्षतेन संघर्षणेनोज्वलैरङ्गुष्टनखांशुभिर्भिन्नया मिश्रया । तद्रागरक्तयेत्यर्थः । अत एव पुरः पुरोभागे प्रवालैर्विद्रुमैः। '-अथ विद्रुमः पुंसि प्रवालं पुंनपुंसकम्' इत्यमरः । पूरि- तार्धयेव स्थितया अच्छस्फटिकाक्षमालया स्वच्छस्फटिकानां मालया । जपमाल- येत्यर्थः । 'अच्छो भल्लूके स्फटिकेऽमलेच्छाभिमुखेऽव्ययम्' इति हेमचन्द्रः । तथा प्रसिद्धस्फटिकग्रहणादृषेर्मोक्षार्थित्वं व्यज्यते । 'स्फटिको मोक्षदः परम्' इति मोक्षा- र्थिनां स्फटिकाक्षमालाभिधानात् । विभान्तं भासमानम् । भातेः शतृप्रत्ययः । अत्र नखांशुभिन्नयेति स्वगुणत्यागेनान्यगुणस्वीकारलक्षणस्तद्गुणालंकार उक्तः । 'तद्गुणः स्वगुणत्यागात्' इति ॥ ९॥
रणद्भिराघट्टनया नभस्वतः पृथग्विभिन्नश्रुतिमण्डलैः स्वरैः ।
स्फुटीभवद्रामविशेषमूर्च्छनामवेक्षमाणं महतीं मुहुर्मुहुः ॥१०॥
रणद्भिरिति ॥ पुनः नभस्वतो वायोराघट्टनया आघातेन पृथगसंकीर्ण रण- द्भिर्ध्वनद्भिः । अनुरणनोत्पद्यमानैरित्यर्थः । 'श्रुत्यारब्धमनुरणनं स्वरः' इति लक्ष- णात् । तदुक्तं रत्नाकरे—'श्रुत्यनन्तरभावी यः स्निग्धोऽनुरणनात्मकः । स्वनो रञ्ज- यति श्रोतुश्चित्तं स स्वर उच्यते ॥' इति । श्रुतिर्नाम स्वरारम्भकावयवः शब्दवि- शेषः । तदुक्तम्-'प्रथमश्रवणाच्छब्दः श्रूयते ह्रस्वमात्रकः । सा श्रुतिः संपरिज्ञेया स्वरावयवलक्षणा ॥' इति । विभिन्नानि प्रतिनियतसंख्यया व्यवस्थितानि श्रुतीनां मण्डलानि समूहा येषां तैर्विभिन्नश्रुतिमण्डलैः । श्रुतिसंख्यानियमश्च दर्शितः- 'चतुश्चतुश्चतुश्चैव षड्जमध्यमपञ्चमाः । द्वे द्वे निषादगान्धारौ त्रिस्त्रिर्ऋषभधैवतौ ॥' स्वराः षड्जादयः सप्तोक्तलक्षणाः । तदुक्तम्-श्रुतिभ्यः स्युः स्वराः षड्जर्षभगा- न्धारमध्यमाः । पञ्चमो धैवतश्चाथ निषाद इति सप्त ते । तेषां संज्ञाः सरिगमपध- नीत्यपरा मताः ॥' इति । तैः स्वरैः स्फुटीभवन्त्यो ग्रामविशेषाणां षड्जाद्यपरनाम- कानां स्वरसंघातभेदानां त्रयाणां मूर्च्छनाः स्वरारोहावरोहक्रमभेदा यस्यां तां महतीं (महतीनाम्नीं) निजवीणाम् । 'विश्वावसोस्तु बृहती तुम्बुरोस्तु कलावती । महती नारदस्य स्यात्सरस्वत्यास्तु कच्छपी ॥' इति वैजयन्ती । मुहुर्मुहुरवेक्षमाणम् । तन्त्री- योजनाभेदलक्षणमहिम्ना पुरुषप्रयत्नमन्तरेणैवाविसंवादं ध्वनतीति कौतुकादनुसंद- धानमित्यर्थः । अथ ग्रामलक्षणम्-'यथा कुटुम्बिनः सर्वेऽप्येकीभूता भवन्ति हि । तथा स्वराणां संदोहो ग्राम इत्यभिधीयते॥ षड्जग्रामो भवेदादौ मध्यमग्राम एव च । गान्धारग्राम इत्येतद्ग्रामत्रयमुदाहृतम् ॥' इति । तथा च--नन्द्यावर्तोऽथ जीमूतः सुभद्रो ग्रामकास्त्रयः । षड्जमध्यमगान्धारास्त्रयाणां जन्महेतवः ॥' इति । मूर्च्छना- लक्षणं च–'क्रमात्स्वराणां सप्तानामारोहश्चावरोहणम् । सा मूर्च्छेत्युच्यते ग्रामस्था एताः सप्त सप्त च ॥' ग्रामत्रयेऽपि प्रत्येकं सप्त सप्त मूर्च्छना इत्येकविंशतिर्मूर्च्छना भवन्ति । तत्र नामानि तु 'नानपेक्षितमुच्यते' इति प्रतिज्ञाभङ्गभयान्न लिख्यन्त इति सर्वमवदातम् । अत्र पुंव्यापारमन्तरेण स्वराद्याविर्भावोक्त्या कोऽपि लोका- तिक्रान्तोऽयं शिल्पसौष्ठवातिशयो वीणायाः प्रतीयते । तेन सह स्वतःप्रसिद्धाति- शयस्याभेदेनाध्यवसितत्वात्तन्मूलातिशयोक्तिरलंकारः । सा च महत्याः पुंव्यापारं विना मूर्च्छाद्यसंबन्धेऽपि संबन्धाभिधानादसंबन्धे संबन्धरूपतया पुंव्यापाराख्य- रूपकारणं विनापि मूर्च्छनादिकार्योत्पत्तिद्योतनाद्विभावना व्यज्यत इत्यलंकारेणा- लंकारध्वनिरिति संक्षेपः ॥ १० ॥
निवर्त्य सोऽनुव्रजतः कृतानतीनतीन्द्रियज्ञाननिधिर्नभःसदः ।
समासदत्सादितदैत्यसंपदः पदं महेन्द्रालयचारु चक्रिणः ॥११॥
निवर्त्येति ॥ अतीन्द्रिया इन्द्रियमतिकान्ता देशकालस्वरूपाद्विप्रकृष्टार्थाः । 'अत्यादयः क्रान्ताद्यर्थे द्वितीयया' इति समासः । द्विगुप्राप्तापन्नालंपूर्वगतिसमा- सेषु परलिङ्गताप्रतिषेधो वक्तव्यः' इति विशेष्यलिङ्गत्वम् । तेषां ज्ञानं तस्य निधिः। सर्वार्थद्रष्टेत्यर्थः । कृतानतीन् कृतप्रणामाननुव्रजतोऽनुगच्छतः नभस्याकाशे सीदन्ति गच्छन्तीति नभःसदः सुरान् । 'सत्सूद्विष-' (३।२।६१) इत्यादिना क्विप् । निवर्त्य प्रतिषिध्य स मुनिः सादितदैत्यसंपदः सादिताः विध्वस्तीकृताः दैत्यानां संपदो येन तस्य चक्रिणः कृष्णस्य पदं स्थानं महेन्द्रालयचारु इन्द्रभवनमिव भासमानं समासदत् । समाङ्पूर्वात्षद्लृधातोर्लुङ् । 'पुषादि-' (३।१।५५) इत्यङ् । अत्र नतीनती पदःपदमिति च द्वयोर्व्यञ्जनयुग्मयोरसकृदावृत्त्या छेकानुप्रासः । अन्यत्र
वृत्त्यनुप्रास इत्यनयोः संसृष्टिः ॥ ११ ॥पतत्पतङ्गप्रतिमस्तपोनिधिः पुरोऽस्य यावन्न भुवि व्यलीयत ।
गिरेस्तडित्वानिव तावदुच्चकैर्जवेन पीठादुदतिष्ठदच्युतः ॥ १२ ॥
पतदिति ॥ पतन् यः पतङ्गः सूर्यः स प्रतिमोपमानं यस्य सः । 'पतङ्गौ पक्षि- सूर्यौ च' इत्यमरः । तपोनिधिर्मुनिरस्य हरेः पुरो भुवि पुरःप्रदेशे यावन्न व्यलीयत नातिष्ठत् । 'लीङ् गतौ' इति धातोर्दैवादिकात्कर्तरि लङ् । तावदच्युतो हरिर्गिरेः शैलात् । तडितोऽस्य सन्तीति तडित्वान्मेघ इव । 'मादुपधायाश्च मतोर्वोऽयवादिभ्यः' (८।२।९) इति मतुपो मकारस्य वकारः। 'तसौ मत्वर्थे' (१।४।१९) इति भसंज्ञा- यामेकसंज्ञाधिकारेणापदत्वान्न जश्त्वम् । उच्चकैरुन्नतात्पीठादासनाज्जवेनोदतिष्ठत् । मुनिचरणस्य भूस्पर्शात्प्रागेव स्वयमुत्थितवान् । 'ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यून: स्थविर आयति । प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते॥' इति शास्त्रमनुस्मरन्निति भावः । 'उदोऽनूर्ध्वकर्मणि' (१।३।२४) इति नियमादिहोर्ध्वकर्मणि नात्मनेपदम् । पतत्पतङ्ग इत्यत्र पतङ्गस्य पतनासंभवादियमभूतोपमेत्याचार्यदण्डिप्रभृतयो बभणुः । अत एवाप्रसिद्धस्योपमानत्वायोगादुत्प्रेक्षेत्याधुनिकालंकारिकाः सर्वे वर्णयन्ति ॥१२॥
अथ प्रयत्नोन्नमितानमत्फणैर्धृते कथंचित्फणिनां गणैरधः ।
न्यधायिषातामभिदेवकीसुतं सुतेन धातुश्चरणौ भुवस्तले ॥१३॥
अथेति ॥ अथाच्युताभ्युत्थानानन्तरं धातुः सुतेन नारदेन प्रयत्नोन्नमितास्त- थापि मुनिपादन्यासभारादानमन्त्यः फणा येषां तैः फणिनां गणैरधोऽधःप्रदेशे कथंचिद्धृते स्थापिते भुवस्तले भूपृष्ठे । अभिदेवकीसुतं देवकीसुतमभि । लक्ष्यी- कृत्येत्यर्थः । 'लक्षणेनाभिप्रती आभिमुख्ये' (२।१।१४) इत्यव्ययीभावः । चरणौ पदौ । 'पदङ्घ्रिश्चरणोऽस्त्रियाम्' इत्यमरः । न्यधायिषातां निहितौ । दधातेः कर्मणि लुङ् । 'स्यसिच्सी-' (६।४।६२) इत्यादिना चिण्वदिटि युक् । अत्र फणानां नम- नोन्नमनासंबन्धेऽपि मुनिगौरवाय तत्संबन्धाभिधानादतिशयोक्तिभेदः ॥ १३ ॥
तमर्घ्यमर्घ्यादिकयादिपूरुषः सपर्यया साधु स पर्यपूपुजत् ।
गृहानुपैतुं प्रणयादभीप्सवो भवन्ति नापुण्यकृतां मनीषिणः॥१४॥
तमिति ॥ आदिपूरुषः पुराणपुरुषः। 'अन्येषामपि दृश्यते' (६।३।१३७) इति वा दीर्घः । स कृष्णः । अर्घं पूजामर्हत्यर्घ्यः । 'दण्डादिभ्यो यत्' (५।१।६६)। तं नारदम् । अर्घार्थं द्रव्यमर्घ्यम् । 'पादार्घाभ्यां च' (५।४।२५) इति यत्प्रत्ययः । 'मूल्ये पूजाविधावर्घः', 'षट् तु त्रिष्वर्घ्यमर्घ्यार्घ्यः' इति चामरः । अर्घ्यमादिर्यस्यास्त- यार्घ्यादिकया। 'शेषाद्विभाषा' (५।४।१५४) इति विकल्पेन कप्प्रत्ययः । सपर्यया पूजया । 'पूजा नमस्यापचितिः सपर्यार्चाहणाः समाः' इत्यमरः । साधु यथा तथा पर्यपूपुजत् परिपूजितवान् । णौ चङन्तं कर्तव्यम् । युक्तं चैतदित्यर्थान्तरं न्यस्यति-- गृहानिति । मनस ईषिणो मनीषिणः सन्तः । पृषोदरादित्वात्साधुः । अपुण्यकृतां पुण्यमकृतवताम् । 'सुकर्मपापमन्त्रपुण्येषु कृञ्ः' (३।२।८९) इति भूते क्विम् । गृहान्प्रणयादुपैतुमभीप्सवः प्राप्तुमिच्छवः । आप्नोतेः सन्नन्तादुप्रत्ययः । 'आपूज्ञप्यृधामीत्' (७।४।५५) इतीकारः । न भवन्ति किंतु पुण्यकृतामेव । अतः कृच्छूलभ्याः सन्तः पूज्या इत्यर्थः ॥ १४ ॥
न यावदेतावुदपश्यदुत्थितौ जनस्तुषाराञ्जनपर्वताविव ।
स्वहस्तदत्ते मुनिमासने मुनिश्चिरंतनस्तावदभिन्यवीविशत् ॥ १५ ॥
न यावदिति ॥ उत्थितावेतौ मुनिकृष्णौ जनस्तुषाराञ्जनयोः पर्वताविव याव- न्नोदपश्यन्नोत्प्रेक्षितवान् । तावच्चिरंतनः पुराणो मुनिः कृष्णः 'पुरा किल भगवान्ब- दरिकारण्ये नारायणावतारेण तपसि स्थितवान्' इति पुराणात् । 'सायंचिरम्-' (४।३।२३) इत्यादिना ट्युप्रत्ययस्तुडागमश्च । स्वहस्तेन दत्ते आसने मुनिं नारदमभिन्यवीविशत् स्वाभिमुखेनोपवेशितवान् । अभिनिपूर्वाद्विशतेर्ण्यन्ताल्लुङि "णिश्रि-' (३।१।४८) इति चङ् ॥ १५ ॥
महामहानीलशिलारुचः पुरो निषेदिवान्कंसकृषः स विष्टरे ।
श्रितोदयाद्रेरभिसायमुच्चकैरचूचुरच्चन्द्रमसोऽभिरामताम् ॥ १६ ॥
महामहेति ॥ महत्या महानीलशिलायाः सिंहलद्वीपसंभवेन्द्रनीलोपलस्य रुगिव रुग्यस्य तस्येत्युपमालंकारः । 'सिंहलस्याकराद्भूता महानीलास्तु ते स्मृताः' इति भगवानगस्त्यः । कंसकृषो हरेः पुरोऽग्रे उच्चकैरुन्नते विष्टर आसने । “वृक्षासनयोर्विष्टरः' (८।३।९३) इति षत्वम् । निषेदिवानुपविष्टवान् । 'भाषायां सदवसश्रुवः' (३।२।१०८) इति क्कसुः । स मुनिरभिसायं सायंकालाभिमुखम् । अव्ययीभावसमासः। सायंकालस्य कार्ष्ण्यात्कृष्णोपमानत्वम् । श्रित आश्रित उद- याद्रिरुदयाचलो येन तस्य चन्द्रमसोऽभिरामतां शोभामचूचुरच्चोरितवान् । प्राप्तवा- नित्यर्थः । 'चुर स्तेये' 'णिश्रि-' (३।१।४८) इति चङ् । 'अन्यस्यान्यधर्मसंबन्धा- संभवाच्चन्द्रमसाभिरामतामिवाभिरामतामि'त्यौपम्यपर्यवसानादसंभवद्वस्तुसंबन्ध- रूपो निदर्शनाभेदः स चोक्तोपमयाङ्गाङ्गिभावेन संकीर्यते ॥ १६ ॥
विधाय तस्यापचितिं प्रसेदुषः प्रकाममप्रीयत यज्वनां प्रियः ।
ग्रहीतुमार्यान्परिचर्यया मुहुर्महानुभावा हि नितान्तमर्थिनः॥१७॥
विधायेति ॥ यज्वानो विधिनेष्टवन्तः । 'यज्वा तु विधिनेष्टवान्' इत्यमरः । 'सुयजो:-' (३।२।१०३) इति यजिधातोर्ङव्निप् । तेषां प्रियो हरिः प्रसेदुषः प्रस- न्नस्य । 'सदेः क्वसुः' इत्युक्तम् । तस्य मुनेरपचितिं पूजाम् । 'पूजा नमस्यापचितिः' इत्यमरः। विधाय विशेषेण मनोवाक्कायकर्मभिस्तत्परतया कृत्वा प्रकाममत्यर्थमप्रीयत प्रीतो बभूव । प्रीयतेर्दैवादिकात्कर्तरि लङ् । मुनिपूजायाः प्रीतिहेतुत्वेऽर्थान्तरं न्यस्यति-महानुभावा महात्मान आर्यान्पूज्यान् परिचर्यया मुहुर्ग्रहीतुं वशीकर्तुम् । 'ग्रहोऽलिटि दीर्घः' (७।२।३७) इतीटो दीर्घः । नितान्तमर्थिनोऽभिलाषवन्तो हि भवन्ति । अर्थोऽभिलाषः स एषामस्तीति मत्वर्थ इनिर्न तु णिनिः । 'कृद्वृत्ते-
स्तद्धितवृत्तिर्बलीयसी' इति भाष्यात् ॥ १७ ॥अशेषतीर्थोपहृताः कमण्डलोर्निधाय पाणावृषिणाभ्युदीरिताः ।
अघौघविध्वंसविधौ पटीयसीर्नतेन् मूर्ध्ना हरिरग्रहीदपः ॥ १८ ॥
अशेषेति ॥ अशेषेभ्यस्तीर्थेभ्य उपहृता आहृतास्तथा । कमण्डलोरुदकपात्रादु- द्धृत्येत्यर्थः । पाणौ निधाय क्रियान्तराक्षिप्तक्रियापेक्षया कमण्डलोरपादानत्वम् । 'अस्त्री कमण्डलुः कुण्डी' इत्यमरः । ऋषिणाभ्युदीरिता आक्षिप्ता अत एवाघौघानां पापसमूहानां विध्वंसविधौ विनाशकरणे पटीयसीः समर्थतराः। पटुशब्दादीयसुनि 'उगितश्च' (४।१।६) इति ङीप् । अपो जलानि हरिर्नतेन मूर्ध्नाग्रहीत्स्वी- कृतवान् । ग्रहेर्लुङ् ॥ १८ ॥
स काञ्चने यत्र मुनेरनुज्ञया नवाम्बुदश्यामवपुर्न्यविक्षत ।
जिगाय जम्बूजनितश्रियः श्रियं सुमेरुशृङ्गस्य तदा तदासनम् १९
स काञ्चन इति ॥ नवाम्बुदश्यामतनुः स हरिर्मुनेरनुज्ञया काञ्चने काञ्चनवि- कारे । वैकारिकोऽण्प्रत्ययः । यत्रासने न्यविक्षतोपविष्टवान् । निपूर्वकविशो लुङि 'नेर्विशः' (१।३।१७) इत्यात्मनेपदे 'शल इगुपधादनिटः क्सः' (३।१।४५)। तदासनं तदा हर्युपवेशनसमये जम्बूर्नीलफलविशेषः । 'जम्बूः सुरभिपत्रा च राजज- म्बूर्महाफला' इत्यभिधानरत्नमालायाम् । तया जनिता श्रीर्यस्य तत्तथोक्तस्य । भाषित- पुंस्कत्वात्पक्षे पुंवद्भावान्नुमभावः । सुमेरुशृङ्गस्य श्रियं जिगाय । अभिभावितवानि- त्यर्थः । 'सन्लिटोर्जेः' (७।३।५७) इति कुत्वम् । उपमानुप्रासयोः संसृष्टिः ॥१९॥
स तप्तकार्तस्वरभास्वराम्बरः कठोरताराधिपलाञ्छनच्छविः ।
विदिद्युते वाडवजातवेदसः शिखाभिराश्लिष्ट इवाम्भसां निधिः २०
स तप्तेति ॥ तप्तं पुटपाकशोधितं कार्तस्वरं सुवर्णम् । 'रुक्मं कार्तस्वरं जाम्बू- नदमष्टापदोऽस्त्रियाम्' इत्यमरः । तद्वद्भास्वरं दीप्यमानमम्बरं यस्य सः । पीता- म्बर इत्यर्थः । कठोरताराधिपस्य पूर्णेन्दोर्लाञ्छनस्य छविरिव छविर्यस्य स इत्यु- पमानपूर्वपदो बहुव्रीहिरुत्तरपदलोपश्च । स हरिर्वाडवजातवेदसो वाडवाग्नेः शिखा- भिर्ज्वालाभिराश्लिष्टो व्याप्तोऽम्भसां निधिरिव समुद्र इव विदिद्युते बभौ ॥२०॥
रथाङ्गपाणेः पटलेन रोचिषामृषित्विषः संवलिता विरेजिरे ।
चलत्पलाशान्तरगोचरास्तरोस्तुषारमूर्तेरिव नक्तमंशवः ॥ २१ ॥
रथाङ्गपाणेरिति ॥ रथाङ्गं चक्रं पाणौ यस्य तस्य हरेः । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' (वा०) इति पाणेः परनिपातः । रोचिषां छवीनां पटलेन समूहेन संवलिता मिलिता ऋषित्विषो नक्तं रात्रौ । सप्तम्यर्थेऽव्ययम् । तरोश्चलतां पलाशानां पत्राणामन्तराणि विवराणि गोचर आश्रयो येषां ते, तुषारा मूर्तिर्यस्य तस्येन्दोरंशव इव विरेजिरे चकाशिरे ॥ २१ ॥
प्रफुल्लतापिच्छनिभैरभीषुभिः शुभैश्च सप्तच्छदपांशुपाण्डुभिः ।
परस्परेण च्छुरितामलच्छवी तदैकवर्णाविव तौ बभूवतुः ॥ २२ ॥
पचाद्यजन्तम् । फलेर्निष्टायाम् 'अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः' इति निपातनात्प्र- फुल्लमित्येवेति क्षीरस्वामी । तापिच्छस्य तमालस्य पुष्पं तापिच्छम् । 'फले लुक्' (४।३।१६३) इति तद्धितलुक् । 'द्विहीनं प्रसवे सर्वम्' इति नपुंसकत्वम् । 'काल- स्कन्धस्तमालः स्यात्तापिच्छोऽपि' इत्यमरः । तेन सदृशैः प्रफुल्लतापिच्छनिभैः । नित्यासमसत्वादस्वपदविग्रहः । अत एव 'स्युरुत्तरपदे त्वमी' इति, 'निभसंकाशनी- काशप्रतीकाशोपमादयः' इत्यमरः । सप्त छदाः पर्णानि पर्वसु यस्येति सप्तच्छदो वृक्षभेदः । 'सप्तपर्णो विशालत्वक्शारदो विषमच्छदः' इत्यमरः । संख्याशब्दस्य वृत्तिविषये वीप्सार्थत्वं सप्तपर्णादिवदित्युक्तं भाष्ये । शेषं तापिच्छवत् । तस्य पुष्पाणि सप्तच्छदानि तेषां पांशुवत्पाण्डुभिः शुभ्रैरभीषुभिरन्योन्यरश्मिभिः 'अभीषुः प्रग्रहे रश्मौ' इति शाश्वतः । परस्परेण छुरिते रूषितेऽमले छवी अन्योन्यकान्ती ययोस्तौ । छव्योरभीषूणामवयवावयविभावाद्भेदनिर्देशः । तौ हरिनारदौ तदै- कवर्णाविव बभूवतुः । उभयप्रभामेलनादुभयोरपि सर्वाङ्गीणो गङ्गायमुनासंगम इव स्फटिकेन्द्रनीलमणिप्रभामेलनप्रायः कश्चिदेको वर्णः प्रादुर्बभूव तन्निमित्ता चेयमनयोरेकवर्णत्वोत्प्रेक्षा ॥ २२ ॥
युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकासमासत ।
तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसंभवा मुदः ॥२३॥
युगान्तेति ॥ युगान्तकाले प्रतिसंहृतात्मनः आत्मन्युपसंहृता आत्मानो जीवा येन तस्य कैटभद्विषो हरेर्यस्यां तनौ जगन्ति सविकासं सविस्तरमासता- तिष्ठन् । 'आस उपवेशने' लङ् । तत्र तनौ देहे तपोधनाभ्यागमेन संभवन्तीति संभवाः संभूताः । पचाद्यच् । मुदः संतोषा न ममुः । अतिरिच्यन्ते स्मेत्यर्थः । चतुर्दशभुवनभरणपर्याप्ते वपुषि अन्तर्न मान्तीति कविप्रौढोक्तिसिद्धातिशयेन स्वतःसिद्धस्याभेदेनाध्यवसितातिशयोक्तिः, सा च मुदामन्तःसंबन्धेऽप्यसंब- न्धोक्त्या संबन्धासंबन्धरूपा ॥ २३ ॥
निदाघधामानमिवाधिदीधितिं मुदा विकासं मुनिमभ्युपेयुषी ।
विलोचने बिभ्रदधिश्रितश्रिणी स पुण्डरीकाक्ष इति स्फुटोऽभवत् ।।
निदाघेति ॥ निदाघमुष्णं धाम किरणा यस्य तथोक्तम् । 'निदाघो ग्रीष्मकाले स्यादुष्णस्वेदाम्बुनोरपि' इति विश्वः । अर्कमिवाधिदीधितिमधिकतेजसं मुनिमभि- लक्ष्य । 'अभिरभागे' इति लक्षणे कर्मप्रवचनीयसंज्ञा 'कर्मप्रवचनीययुक्ते द्वितीया'। (२।३।८) मुदा विकासमुपेयुषी उपगते । क्कसुप्रत्ययान्तो निपातः । अत एवाधि- श्रिता प्राप्ता श्रीर्याभ्यां ते तथोक्ते। 'इकोऽचि विभक्तौ' (७।१।७३) इति नुमागमः। विलोचने बिभ्रत् । 'नाभ्यस्ताच्छतुः' (७।१।७८) इति नुमभावः । स हरिः पुण्डरीकाक्ष इत्येवं स्फुटोऽभवत् । सूर्यसंनिधाने श्रीविकासभावादक्ष्णां पुण्डरीक- साधर्म्यात् । पुण्डरीके इवाक्षिणी यस्येत्यवयवार्थलाभे पुण्डरीकाक्ष इति व्यक्तम् । अन्वर्थसंज्ञोऽभूदित्यर्थः । बिभ्रत्स्फुटोऽभवदिति पदार्थहेतुकस्य काव्यलिङ्गस्य निदाघधामानमिवेत्युपमासापेक्षत्वादनयोरङ्गाङ्गिभावेन संकरः ॥ २४ ॥
सितं सितिम्ना सुतरां मुनेर्वपुर्विसारिभिः सौधमिवाथ लम्भयन् ।
द्विजावलिव्याजनिशाकरांशुभिः शुचिस्मितां वाचमवोचदच्युतः ॥ २५ ॥
सितमिति ॥ अथोभयोरुपवेशनानन्तरमच्युतो हेतुकर्ता । विसारिभिरभीक्ष्णं प्रसरद्भिः । 'बहुलमाभीक्ष्ण्ये' (३।२।८१) इति णिनिः । द्विजावलिर्दन्तपङ्क्तिः । 'दन्तविप्राण्डजा द्विजाः' इत्यमरः । सैव व्याजः कपटं यस्य सः । तद्रूप इत्यर्थः । स चासौ निशाकरश्च तस्यांशुभिः किरणैः सितं स्वभावशुभ्रं मुनेर्वपुः सौधं प्रासादमिव सुतरामत्यन्तम् । अव्ययादाम्प्रत्ययः । सितिम्ना धावल्येन प्रयोज्यकर्त्रा लम्भयन् व्यापारयन् । अतिधवलयन्नित्यर्थः । लभेरत्र गत्युपसर्जनप्राप्त्यर्थत्वेनागत्यर्थत्वात् 'गतिबुद्धि-' इत्यादिना अणि कर्तुर्न कर्मत्वम् । तथाह वामनः-'लभेर्गत्यर्थत्वाण्णिच्यणौ कर्तुः कर्मत्वाकर्मत्वे' इति । प्राप्त्युपसर्जनगत्यर्थत्वे तु कर्मत्वमेवेति रहस्यम् 'लभेश्च' (७।१।६४) इति नुमागमः । शुचिस्मितां वाचमवोचदुक्तवान् । ब्रुवो वच्यादेशः लुङ् 'वच उम्' इत्युमागमे गुणः । अत्र सौधमिवेत्युपमायाः सितिम्ना लम्भयन्नित्यसंबन्धरूपातिशयोक्तेः द्विजावलिव्याजनिशाकरेति छलादिशब्दैरसत्यत्वप्रतिपादनरूपापह्नवस्य च मिथो नैरपेक्ष्यात् संसृष्टिः ॥ २५ ॥
हरत्यघं संप्रति हेतुरेष्यतः शुभस्य पूर्वाचरितैः कृतं शुभैः ।
शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यताम् २६
हरतीति ॥ भवदीयदर्शनं शरीरभाजाम् । द्रष्टृृणामित्यर्थः । 'भजो ण्विः' (३।२।६२)। कालत्रितये भूतादिकालत्रितयेऽपि योग्यतां पवित्रतां व्यनक्ति गमयति । कुतः-संप्रति दर्शनकाले अघं पापं हरति । एष्यतो भाविनः शुभस्य श्रेयसो हेतुः । तथा पूर्वाचरितैः प्रागनुष्ठितैः शुभैः सुकृतैः कृतम् । एवं त्रैकाल्येऽपि कार्यत्वेन कारणत्वेन च पुंसि सुकृतसमवायमवगमयते । अत एतादृशं दर्शनं कस्य न प्रार्थ्यमिति भावः । अत्र हरतीत्यादिवाक्यत्रयस्यार्थस्य शरीरेत्यादिवाक्यत्रयोक्त्या वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः ॥ २६ ॥
जगत्यपर्याप्तसहस्रभानुना न यन्नियन्तुं समभावि भानुना ।
प्रसह्य तेजोभिरसंख्यतां गतैरदस्त्वया नुन्नमनुत्तमं तमः ॥ २७ ॥
जगतीति ॥ जगत्यपर्याप्ता अपरिच्छिन्नाः सहस्रं भानवोंऽशवो यस्य तेन भानुनार्केण । 'भानवोऽर्कहरांशवः' इति वैजयन्ती । यत्तमो नियन्तुं निवारयितुं न समभावि न शेके । भावे लुङ् । अविद्यमानमुत्तमं यस्मात्तदनुत्तमं सर्वाधिकम् अदस्तमो मोहात्मकसंख्यतां गतैस्तेजोभिः प्रसह्य बलात्त्वया नुन्नं छिन्नम् ।
अतः श्लाघ्यदर्शनो भवानिति भावः । 'नुदविद-' इत्यादिना विकल्पान्निष्टानत्वभावः । अत्रोपमानाद्भानोर्मुनेराधिक्यप्रतिपादनाद्व्यतिरेकालंकारः ॥ २७ ॥कृतः प्रजाक्षेमकृता प्रजासृजा सुपात्रनिक्षेपनिराकुलात्मना ।
सदोपयोगेऽपि गुरुस्त्वमक्षयो निधिः श्रुतीनां धनसंपदामिव ॥२८॥
कृत इति ॥ प्रजानां जनानामपत्यानां च क्षेमकृता कुशलकारिणा । 'प्रजा स्यात्संततौ जने' इत्यमरः । सुपात्रे योग्यपुरुषे कटाहादिदृढभाजने च निक्षेपेण निधानेन च निराकुलात्मना स्वस्थचित्तेन । 'योग्यभाजनयोः पात्रम्' इत्यमरः । प्रजासृजा ब्रह्मणा पुत्रिणा च त्वं धनसंपदामिव श्रुतीनां वेदानां सदोपयोगे दानभोगाभ्यां व्ययेऽप्यक्षयः । एकत्राम्नानादन्यत्रानन्त्याच्चेति भावः । गुरुरुपदेष्टा । संप्रदायप्रवर्तक इति यावत् । अन्यत्र महान् । निधीयत इति निधिः निक्षेपः कृतः । "उपसर्गे घोः किः' (३।३।९२)। श्रुतिसंप्रदायद्वारा धर्माधर्मव्यवस्थापकतया जगत्प्रतिष्ठाहेतूनां भवादृशां दर्शनं कस्य न श्लाघ्यमिति भावः । अत्र शब्दमात्रसाधर्म्याच्छ्लेषोऽयं प्रकृतविषय इत्याहुः ॥ २८ ॥
विलोकनेनैव तवामुना मुने कृतः कृतार्थोऽसि निबर्हितांहसा ।
तथापि शुश्रूषुरहं गरीयसीर्गिरोऽथवा श्रेयसि केन तृप्यते ॥२९॥
विलोकनेनेति ॥ हे मुने, निबर्हितांहसापहृतपाप्मना अत एवामुना तव विलोकनेनैव कृतार्थः कृतोऽस्मि । तथाप्यहं गरीयसीरर्थवत्तराः । 'द्विवचन-' (५।३।५७) इत्यादिना ईयसुन्प्रत्ययः । 'उगितश्च' (४।१६) इति ङीप् । 'प्रियस्थिर-' (६।४।१५७) इत्यादिना गुरोर्गरादेशः । गिरस्तव वाचोऽपि शुश्रूषुः श्रोतुमिच्छुरस्मि । शृणोतेः सन्नन्तादुप्रत्ययः । न चैतद्वृथेत्याह- अथवा तथाहीत्यर्थः । अथवेति पक्षान्तरप्रसिद्ध्योरिति गणव्याख्यानात् । श्रेयसि विषये केन तृप्यते । न केनापीत्यर्थः । कृतार्थताया इयत्ताभावादिति भावः । भावे लिट् ॥२९॥
एवं प्रियमुक्त्वा सम्प्रत्यागमनप्रयोजनं विनयेन पृच्छति-
गतस्पृहोऽप्यागमनप्रयोजनं वदेति वक्तुं व्यवसीयते यया ।
तनोति नस्तामुदितात्मगौरवो गुरुस्तवैवागम एष धृष्टताम् ॥३०॥
गतस्पृहोऽपीति ॥ गतस्पृहो विरक्तोऽपि त्वमागमनप्रयोजनं वदेति वक्तुं यया धृष्टतया व्यवसीयत उद्यम्यते । स्यतेर्भावे लट् । उदितमुत्पन्नमुक्तं वा आत्मनो मम गौरवं येन स गुरुः श्लाघ्य एष तवागम आगमनमेव नोऽस्माकं धृष्टतां तनोति विस्तारयति । 'तनु विस्तारे' लट् । भवतो निस्पृहत्वेऽपि प्रेक्षावत्प्रवृत्तेः प्रयोजनव्याप्त्या सावकाशः प्रश्न इति भावः ॥३०॥
इति ब्रुवन्तं तमुवाच स व्रती न वाच्यमित्थं पुरुषोत्तम त्वया ।
त्वमेव साक्षात्करणीय इत्यतः किमस्ति कार्यं गुरु योगिनामपि ॥३१॥
इति ब्रुवन्तमिति ॥ इति बुवन्तं तं हरिं स व्रती मुनिरुवाच । किमिति । हे पुरुषोत्तम पुरुषेषु श्रेष्ठ । 'न निर्धारणे' इति षष्ठीसमासप्रतिषेधः । त्वया इत्थं 'गतस्पृहोऽपि' इति न वाच्यम् । निस्पृहस्याप्यत्र प्रयोजनसंभवादिति भावः । तदेवाह । योगिनामपि त्वमेव साक्षात्करणीयः प्रत्यक्षीकर्तव्य इत्यतोऽस्मादन्यद्गुरु कार्यं किमस्ति । न किंचिदित्यर्थः । तस्मान्न प्रयोजनान्तरप्रश्नावकाश इति भावः ॥३१॥
यदुक्तं योगिनामपि त्वमेव साक्षात्करणीय इति तदेव द्रढयति-
उदीर्णरागप्रतिरोधकं जनैरभीक्ष्णमक्षुण्णतयातिदुर्गमम् ।
उपेयुषो मोक्षपथं मनस्विनस्त्वमग्रभूमिर्निरपायसंश्रया ॥३२॥
उदीर्णरागेति ॥ उदीर्ण उद्रिक्तो रागो विषयाभिलाषः स एव प्रतिरोधकः प्रतिबन्धकः पाटच्चरश्च यस्मिन् । 'प्रतिरोधिपरास्कन्दिपाटच्चरमलिम्लुचाः' इत्यमरः । अभीक्ष्णमक्षुण्णतया अनभ्यस्तत्वेनाप्रतिहतत्वेन च जनैरतिदुर्गमं मोक्षपथमपवर्गमार्गं, कान्तारं चोपेयुषः प्राप्तवतः । 'उपेयिवान्-' (३।२।१०९) इत्यादिना क्वस्वन्तो निपातः । मनस्विनः सुमनसः, धीरस्य च । प्रशंसायां विनिः । त्वमेव निरपायः पुनरावृत्तिरहितः संश्रयः प्राप्तिर्यस्याः सा तथोक्ता । 'न स पुनरावर्तते' इति श्रुतेः । अग्रभूमिः प्राप्यस्थानम् । 'अग्रमालम्बने प्राप्ये' इति विश्वः । 'सोऽहम्' इत्यादिश्रुतेस्तत्प्राप्तेरेव मोक्षत्वादिति भावः । तस्मान्मुमुक्षूणामपि त्वमेव साक्षात्करणीय इति सिद्धम् । 'तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय' इति श्रुतेः । यथा कस्यचित्कुतश्चित्संकटान्निर्गतस्य केनचित्कान्तारेण गतस्य किंचिन्निर्बाधस्थानप्राप्तिरभयाय कल्पते तथा त्वमपि मुमुक्षोरिति ध्वनिः ॥ ३२ ॥
ननु प्रकृतिविविक्तपुरुषसाक्षात्कारान्मोक्षो नास्मत्साक्षात्कारादित्याशङ्क्य सोऽपि त्वमेवेत्याह-
उदासितारं निगृहीतमानसैर्गृहीतमध्यात्मदृशा कथंचन ।
बहिर्विकारं प्रकृतेः पृथग्विदुः पुरातनं त्वां पुरुषं पुराविदः ॥३३॥
उदासितारमिति ॥ पुराविदः पूर्वज्ञाः कपिलादयस्त्वां निगृहीतमानसैरन्तर्निबद्धचित्तैयोगिभिः । आत्मनि अधि इत्यध्यात्मम् । विभक्त्यर्थेऽव्ययीभावः। 'अनश्च' (५।४।१०८) इति समासान्तष्टच् । अध्यात्मं या दृक् ज्ञानं तया अध्यात्मदृशा प्रत्यग्दृष्ट्या कथंचन गृहीतं साक्षात्कृतम् । केन रूपेण गृहीतमित्यत आह -उदासितारमुदासीनम् । प्रकृतौ स्वार्थप्रवृत्तायामपि स्वयमप्राकृतत्वादस्पृष्टमित्यर्थः । आसेस्तृच् । विकारेभ्यो बहिः बहिर्विकारम् । महदादिभ्यः पृथग्भूतमित्यर्थः । 'अपपरिबहिरञ्चवः पञ्चम्या' (२।१।१२) इत्यव्ययीभावः । किंच प्रकृतेस्रैगुण्यात्मनो मूलकारणात्पृथग्भिन्नम् । 'प्रकृतिः पञ्चभूतेषु प्रधाने मूलकारणे' इति यादवः । पुरा भवं पुरातनमनादिम् । 'सायंचिरम्-' (१।३।२३) इत्यादिना ट्युप्रत्ययः । पुरुषं पुरुषपदवाच्यं विज्ञानघनं विदुर्विदन्ति । 'विदो लटो वा' (३।४।८३) इति झेरुसादेशः । यथाहुः-'मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥' इति । 'अजामेकां लोहितशुक्लकृष्णाम्' इत्यादिश्रुतिश्च । सोऽपि त्वमेव 'तत्त्वमसि' इत्यादिवाक्यैरैक्यश्रवणात् । तस्मात्त्वमेव साक्षात्करणीय इति सुष्ठूक्तमिति भावः ॥ ३३ ॥ एवं भगवतो निर्गुणस्वरूपमुक्त्वा संप्रति प्रस्तुतोपयोगितया सगुणमाश्रित्य षड्भिः स्तौति-
निवेशयामासिथ हेलयोद्धृतं फणाभृतां छादनमेकमोकसः ।
जगत्रयैकस्थपतिस्त्वमुच्चकैरहीश्वरस्तम्भशिरःसु भूतलम् ॥ ३४ ॥
निवेशयामासिथेति ॥ जगत्रयस्यैकस्थपतिरेकाधिपतिरेकशिल्पी च । 'स्थपतिरधिपतौ तक्ष्णि बृहस्पतिसचिवयोः' इति वैजयन्ती । त्वं हेलयोद्धृतम् । वराहावतारे इति भावः । फणाभृतामोकस आश्रयस्य, सद्मनश्च । 'ओकः सद्मनि चाश्रये' इति विश्वः । एकं छादनमावरणं भूतलमुच्चकैरुन्नतेषु च अहीश्वरः शेष एव स्तम्भस्तस्य शिरःसु मूर्धसु, अग्रेषु च । फणासहस्रेष्विति भावः । निवेशयामासिथ निवेशितवानसि । विशतेर्ण्यन्ताल्लिटि थल् । 'कृञ्चानुप्रयुज्यते लिटि' (३।१।४०) इत्यस्तेरनुप्रयोगः। अत्र श्लिष्टाश्लिष्टरूपकयोहेतुहेतुमद्भावात् श्लिष्टं परम्परितरूपकम् ॥३४॥
अनन्यगुर्वास्तव केन केवलः पुराणमूर्तेर्महिमावगम्यते ।
मनुष्यजन्मापि सुरासुरान्गुणैर्भवान्भवच्छेदकरैः करोत्यधः ॥३५॥
अनन्येति ॥ न विद्यतेऽन्यो गुरुर्यस्यास्तस्या अनन्यगुर्वाः इत्यनीकारान्तः पाठः । समासात्प्राङ्ङीषि 'नद्यृतश्च' (५।४।१५३) इति कप्प्रसङ्गः स्यात् । पश्चात्त्वनुपसर्जनाधिकारात् 'वोतो गुणवचनात्' (४।१।४४) इति न प्राप्नोति । 'ङिति ह्रस्वश्च' (१।४।६) इति वा नदीसंज्ञात्वात् 'आण्नद्याः' (७।३।११२) इत्याडागमः । केचित्तु समासान्तविधिरनित्य इति कपं वारयन्ति । तस्याः सर्वोत्तमायास्तव पुराणमूर्तेरमानुषस्वरूपस्य । केवलः कृत्स्नः । 'केवलः कृत्स्न एकः स्यात्केवलश्चावधारणे' इति विश्वः । महिमा केनावगम्यते । न केनापीत्यर्थः । कुतः । मनुष्याज्जन्म यस्य स मनुष्यजन्मा भवान् । 'अवर्ज्यो हि बहुव्रीहिर्व्यधिकरणो जन्माद्युत्तरपदः' इति वामनः । भवच्छेदकरैः संसारनिवर्तकैर्गुणैर्ज्ञानादिभिः सुरासुरान् । सुरासुरविरोधस्य कार्योपाधिकत्वेनाशाश्वतिकत्वात् 'येषां च विरोधः शाश्वतिकः' (२।४।९) इति न द्वन्द्वैकवद्भाव इत्याहुः । अधः करोति । 'शेषे प्रथमः' (१।४।१०८) इति प्रथमपुरुषः । भवच्छब्दस्य युष्मदस्मदन्यत्वेन शेषत्वादिति । मानुष एव ते महिमा दुरवगाहः । अमानुषस्तु किमिति तात्पर्यार्थः । द्वितीयार्थेऽसकृद्व्यञ्जनावृत्त्या छेकानुप्रासः ॥ ३५ ॥
लघूकरिष्यन्नतिभारभङ्गुराममूं किल त्वं त्रिदिवादवातरः ।
उदूढलोकत्रितयेन सांप्रतं गुरुर्धरित्री क्रियतेतरां त्वया ॥ ३६ ॥
लघूकरिष्यन्निति ॥ त्वमतिभारेणोर्जेन स्वरूपेण भङ्गुरां स्वयं भज्यमानाम् । 'भञ्जभासमिदो घुरच्' (३।२।१६१)। 'भङ्गुरः कर्मकर्तरि' इति वामनः। अमूम् । भुवमित्यर्थः । लघूकरिष्यन् निर्भारां करिष्यन् किल । 'कृभ्वस्ति-' (५।४।५०) इत्यादिनाऽभूततद्भावे च्विः । ‘च्वौ च' (७।४।२६) इति दीर्घः । तृतीया द्यौस्त्रि-
पाठा०-१ 'अनन्यगुाः'. २ 'भवोच्छेद". दिवः स्वर्गस्तस्मात् । 'घञर्थेकविधानम्' (वा०)। वृत्तिविषये संख्याशब्दस्य पूरणार्थत्वं त्रिभागादिवत् । अवातरः अवतीर्णोऽसि । सांप्रतं संप्रति, उदूढलोकत्रितयेन । कुक्षाविति शेषः । त्वया धरित्री गुरुः पूज्या, भारवती च क्रियतेतराम् अतिशयेन क्रियते । “तिङश्च' (५।३।५६) इति तरप् । 'किमेत्तिङव्ययात्-' (५।४।११) इत्यादिना आमुप्रत्ययः । लघुकर्ता गुरुकर्तेति विरोधाभासोऽलंकारः । 'आभासत्वे विरोधस्य विरोधाभास उच्यते' इति लक्षणात् ॥ ३६ ॥
निजौजसोज्जासयितुं जगद्द्रुहामुपाजिहीथा न महीतलं यदि ।
समाहितैरप्यनिरूपितस्ततः पदं दृशः स्याः कथमीश मादृशाम् ॥३७॥
निजेति ॥ निजौजसा स्वतेजसा जगद्भ्यो द्रुह्यन्तीति जगद्रुहः कंसादयः। 'सत्सूद्विष-' (३।२।६१) इत्यादिना क्विप् । तेषां उज्जासयितुम् । तान् हिंसितुमित्यर्थः । 'जासिनिप्रहण-' (२।३।५६) इत्यादिना कर्मणि शेषे षष्ठी । 'जसु हिंसायाम् इति चुरादिः । महीतलं नोपाजिहीथा यदि नावतरेश्चेत् । 'ओहाङ् गतौ' लङि थासि रूपम् । ततस्तर्हि समाहितैः समाधिनिष्ठैरपि सकर्मकादप्याशितादिवदविवक्षिते कर्मणि कर्तरि क्तः । अथवा समाहितैः । समाहितचित्तैरित्यर्थः । विभक्तधनेषु 'विभक्ता भ्रातरः' इतिवदुत्तरपदलोपो द्रष्टव्यः । 'गम्यमानार्थस्याप्रयोग एव लोपः' इति कैयटः । अनिरूपितोऽगृहीतस्त्वमीश, मादृशाम् । चर्मचक्षुषामिति भावः । विनयोक्तिरियम् । दृशो दृष्टेः पदं गोचरः कथं स्याः । न कथंचिदित्यर्थः । तस्मात्वत्साक्षात्कार एवागमनप्रयोजनमिति भावः ॥ ३७ ॥
ननु कोऽयं नियमो यन्ममैवायं दुष्टनिग्रहाधिकार इत्याशङ्क्याऽनन्यसाध्यत्वमेवाह-
उपप्लुतं पातुमदो मदोद्धतैस्त्वमेव विश्वंभर विश्वमीशिषे ।
ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं नभः ॥३८॥
उपप्लुतमिति ॥ विश्वं बिभर्तीति विश्वंभरस्तत्संबुद्धौ हे विश्वंभर विश्वत्रातः । 'संज्ञायां भृतृृवृजि-' (३।२।४६) इत्यादिना खच्प्रत्यये मुमागमः । मदोद्धतैः कंसादिभिरुपप्लुतं पीडितं अदो विश्वं पातुं त्वमेव ईशिषे शक्तोऽसि । विश्वंभरत्वादिति भावः । 'ईश ऐश्वर्ये' लिटि थासि रूपम् । अत्र वैधर्म्येण दृष्टान्तमाह- क्षपायास्तमस्काण्डैस्तमोवर्गैः । 'काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु' इत्यमरः । 'कस्कादिषु च' (८।३।४८) इति विसर्जनीयस्य सत्वम् । मलीमसं मलिनम् । 'मलीमसं तु मलिनं कच्चरं मलदूषितम्' इत्यमरः । 'ज्योत्स्नातमिस्रा-' (५।२।११४) इत्यादिना मत्वर्थीयो निपातः । नभः क्षालयितुं रवेः ऋते रविं विना । 'अन्यारादितरर्ते-' (२।३।२९) इति पञ्चमी । कः क्षमेत शक्नुयात् । न कोऽपीत्यर्थः। अत्र वाक्यद्वये समानधर्मस्यैकस्येशिषे क्षमेतेति शब्दद्वयेन वस्तुभावेन निर्देशात्तत्रापि व्यतिरेकमुखत्वाद्वैधर्म्येण प्रतिवस्तूपमालंकारः । तदुक्तम्-'सर्वस्य
वाक्यार्थगतत्वेन सामान्यस्य वाक्यद्वये पृथङ्निर्देशे प्रतिवस्तूपमा' इति ॥ ३८ ॥करोति कंसादिमहीभृतां वधाज्जनो मृगाणामिव यत्तव स्तवम् ।
हरे हिरण्याक्षपुरःसरासुरद्विपद्विषः प्रत्युत सा तिरस्क्रिया ॥३९॥
करोतीति ॥ किंच जनो मृगाणामिव कंसादिमहीभृतां वधाद्धेतोः स्तवं स्तोत्रम् । 'स्तवः स्तोत्रं स्तुतिर्नुतिः' इत्यमरः । करोतीति यत् । हे हरे हे कृष्ण, हे सिंहेति च गम्यते । सा स्तुतिक्रिया हिरण्याक्षपुरःसरा हिरण्याक्षप्रभृतयो येऽसुरास्त एव द्विपास्तेषां द्विषः । हन्तुरित्यर्थः । तस्य तव प्रत्युत वैपरीत्येन 'प्रत्युतेत्युक्तवैपरीत्ये' इति गणव्याख्यानात् । तिरस्क्रियाऽवमानः । यदिति सामान्ये नपुंसकम् । सेति विधेयलिङ्गम् । गजघातिनः सिंहस्य मृगवधवर्णनमिव महासुरहन्तुस्तव कंसादिक्षुद्रनृपवधवर्णनं तिरस्कार एवेत्यर्थः । अत्रासुरद्विपानामिति हरिवद्धरिरिति श्लिष्टपरम्परितरूपकं मृगाणामिवेत्युपमयाङ्गाङ्गिभावेन संकीर्यते ॥ ३९ ॥
एवं स्तुत्या देवमभिमुखीकृत्यागमनप्रयोजनं वक्तुमुपोद्धातयति-
प्रवृत्त एव स्वयमुज्झितश्रमः क्रमेण पेष्टुं भुवनद्विषामसि ।
तथापि वाचालतया युनक्ति मां मिथस्त्वदाभाषणलोलुपं मनः ॥४०॥
प्रवृत्त इति ॥ त्वमुज्झितश्रमः त्यक्तश्रमः सन् क्रमेण भुवनानि द्विषन्तीति भुवनद्विषो दुष्टास्तेषां पेष्टुम् । तान् हिंसितुमित्यर्थः । 'जासिनिप्रहण-' (२।३।५६) इत्यादिना कर्मणि शेषे षष्ठी । स्वयमपरप्रेरित एव प्रवृत्तोऽसि । एवं तर्हि पिष्टपेषणं किमिति चेत्तत्राह-तथापि स्वतःप्रवृत्तेऽपि मिथो रहसि त्वदाभाषणे त्वया सह संलापे लोलुपं लुब्धम् । 'लुब्धोऽभिलाषुकस्तृष्णक्समौ लोलुपलोलुभौ' इत्यमरः । मनो मां वाचालतया सह युनक्ति । वाचालं करोतीत्यर्थः । वाचो बह्व्योऽस्य सन्तीति वाचालः। 'आलजाटचौ बहुभाषिणि' (५।२।१२५) इत्यालच् । 'स्याजल्पाकस्तु वाचालो वाचाटो बहुगर्ह्यवाक्' इत्यमरः ॥४०॥
अथ स्ववाक्यश्रवणं सहेतुकं प्रार्थयते-
तदिन्द्रसंदिष्टमुपेन्द्र यद्वचः क्षणं मया विश्वजनीनमुच्यते ।
समस्तकार्येषु गतेन धुर्यतामहिद्विषस्तद्भवता निशम्यताम् ॥४१॥
तदिति ॥ तत्तस्मादिन्द्रमुपगत उपेन्द्र इन्द्रावरजः । अत एवेन्द्रसंदिष्टम् । श्रोतव्यमिति भावः। किंच विश्वस्मै जनाय हितं विश्वजनीनम् । 'आत्मन्विश्वजनभोगोत्तरपदात्खः' (५।१।९)। यद्वचः क्षणं न तु चिरं मयोच्यते, तद्वचोऽहिद्विषो वृत्रघ्नः । 'सर्पे वृत्रासुरेऽप्यहिः' इति वैजयन्ती । समस्तकार्येषु धुर्यतां धुरंधरत्वं गतेन । अतोऽपि भवता निशम्यताम् । प्रार्थनायां लोट् । धुरं वहतीति धुर्यः । 'धुरो यड्ढकौ' (४।४।७७) इति यत्प्रत्ययः । स्फुटमत्र पदार्थहेतुकं काव्यलिङ्गमलंकारः ॥४१॥
पाठा०-१'यस्तव'. २ 'हरेहिए. अथ शिशुपालो हन्तव्य इति वक्तुं तस्यावश्यवध्यत्वेऽनन्यवध्यत्वज्ञापनौपयिकतया औद्धत्यप्रकटनार्थं जन्मान्तरवृत्तान्तं तावदुद्घाटयति-
अभूदभूमिः प्रतिपक्षजन्मनां भियां तनूजस्तपनद्युतिर्दितेः ।
यमिन्द्रशब्दार्थनिसूदनं हरेर्हिरण्यपूर्वं कशिपुं प्रचक्षते ॥ ४२ ॥
अभूदिति ॥ प्रतिपक्षाच्छत्रोः जन्म यासां तासां भियामभूमिरविषयः । निर्भीक इत्यर्थः । तपनद्युतिः सूर्यतापो दितेस्तनूजो दैत्योऽभूत् । कोऽसावत आह-हरेरिन्द्रस्य इन्द्रशब्दार्थनिसूदनं इन्दतीति इन्द्रः । 'इदि परमैश्वर्ये । 'ऋजेन्द्र-' इत्यादिना रन्प्रत्ययान्त औणादिकनिपातः । तस्य इन्द्र इति शब्दस्येन्द्र इति संज्ञापदस्य योऽर्थः परमैश्वर्यलक्षणस्तस्य निसूदनं निवर्तकम् । कर्तरि ल्युट । हरेरैश्वर्यनिहन्तारमित्यर्थः । यं दैत्यं हिरण्यपूर्वं कशिपुं प्रचक्षते । हिरण्यकशिपुमाहुरित्यर्थः । अत्र हिरण्यशब्दपूर्वकत्वं कशिपुशब्दस्यैव न तु संज्ञिनस्तदर्थस्येति शब्दपरस्य कशिपुशब्दस्यार्थगतत्वेनाप्रयोज्यस्य प्रयोगादवाच्यवचनाख्यार्थदोषमाहुः । 'यदेवावाच्यवचनमवाच्यवचनं हि तत्' इति समाधानम् । एवंविधविषये शब्दपरेणार्थलक्षणेति कथंचित्संपाद्यमित्युक्तमस्माभिः 'देवपूर्वं गिरिं ते' (मेघदूते पूर्व० ४२) इति । 'धनुरुपपदमस्मै वेदमभ्यादिदेश' (किरातार्जुनीये १८१४४) इत्येतद्व्याख्यानावसरे संजीविन्यां घण्टापथे च । विशेषश्चात्र- अयं दैत्यमपदिश्य हिरण्यपूर्व कशिपुं प्रचक्षते संज्ञात्वेन प्रयुङ्क्ते ॥ ४२ ॥
समत्सरेणासुर इत्युपेयुषा चिराय नाम्नः प्रथमाभिधेयताम् ।
भयस्य पूर्वावतरस्तरस्विना मनस्सु येन द्युसदां न्यधीयत ॥४३॥
समत्सरेणेति ॥ समत्सरेण अन्यशुभद्वेषसहितेन । 'मत्सरोऽन्यशुभद्वेषे' इत्यमरः । अस्यतीत्यसुरः । असेरुरन् । असुर इति नाम्नः चिराय चिरकालेन 'चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः' इत्यमरः । प्रथमाभिधेयतामुपेयुषा अन्वर्थतया मुख्यार्थतां गतेन तरस्विना बलवता । 'तरसी बलरंहसी' इति विश्वः । येन हिरण्यकशिपुना दिवि सीदन्तीति द्युसदां देवानां मनस्सु भयस्य पूर्वावतरः प्रथमप्रवेशः । 'ॠदोरप्' (३।३।५७)। न्यधीयत निहितः । धाञः कर्मणि लिङ् । अस्मादेव देवानां प्रथमं भयस्योत्पत्तिरभूदित्यर्थः ॥ ४३ ॥
दिशामधीशांश्चतुरो यतः सुरानपास्य तं रागहृताः सिषेविरे ।
अवापुरारभ्य ततश्चला इति प्रवादमुच्चैरयशस्करं श्रियः ॥ ४४ ॥
दिशामिति ॥ श्रियः संपदो यतः । यदेत्यर्थः । दिशामधीशान् दिक्पतीनपि चतुरः सुरानिन्द्रवरुणयमकुबेरानपास्य त्यक्त्वा तं हिरण्यकशिपुं रागहृता रागकृष्टाः सत्यः । न तु बलादिति भावः । सिषेविरे । यतो वीरप्रियाः श्रिय इति भावः । तत आरभ्य तदाप्रभृति अयशः करोतीत्ययशस्करम् । दुष्कीर्तिहेतुमित्यर्थः । 'कृञो हेतुताच्छील्यानुलोम्येषु' (३।२।२०) इति टप्रत्ययः । अतः कृकमि' (८।३।४६)-
इत्यादिना विसर्जनीयस्य सत्वम् । उच्चैः प्रचुरं चला अस्थिरा इति प्रवादं जनापवादमवापुः । दिगीशानामपि सर्वस्वहारित्वात्तदौद्धत्यस्य प्राकट्यमिति भावः ॥ ४४ ॥पुराणि दुर्गाणि निशातमायुधं बलानि शूराणि घनाश्च कञ्चुकाः ।
स्वरूपशोभैकफलानि नाकिनां गणैर्यमाशङ्क्य तदादि चक्रिरे॥४५॥
पुराणीति ॥ किंच नाकिनां सुराणां गणैः यं हिरण्यकशिपुमाशङ्क्य बाधकत्वेनोप्रेक्ष्य स काल आदिर्यस्मिंस्तदादि तदाप्रभृति स्वरूपशोभैवैकं फलं मुख्यं प्रयोजनं येषां तेषां सुरादीनां तानि तथोक्तानि । प्रागीदृगसाध्यशत्रोरभावादिति भावः । 'नपुंसकमनपुंसकेन-' (१।२।६९) इत्यादिना नपुंसकैकशेषः । पुराणि दुर्गाणि प्राकारपरिखादिना अगम्यानि चक्रिरे । 'सुदुरोरधिकरणे' (वा०) इति गमेर्डः । आयुधं निशातं निशितं चक्रे इति विभक्तिविपरिणामेनान्वयः । 'शो तनूकरणे' इति धातोः क्तः । 'शाच्छोरन्यतरस्याम्' (७।४।४१) इतीत्वविकल्पात् पक्षे आत्वम् । बलानि सैन्यानि शूराणि शौर्यवन्ति चक्रिरे संपादितानि । कञ्चुका वारबाणाः । लोहवर्माणीत्यर्थः । 'कञ्चुको वारबाणोऽस्त्री' इत्यमरः । घना दुर्भेदाश्चक्रिरे । इत्थं नित्यसंनद्धा जाग्रति स्मेत्यर्थः ॥ ४५ ॥
स संचरिष्णुर्भुवनान्तरेषु यां यदृच्छयाशिश्रियदाश्रयः श्रियः ।
अकारि तस्यै मुकुटोपलस्खलत्करैस्त्रिसंध्यं त्रिदशैर्दिशे नमः॥४६॥
स इति ॥ अन्येषु भुवनेषु भुवनान्तरेषु । 'सुप्सुपा' इति समासः। संचरिष्णुः संचरणशीलः। 'अलंकृञ्-' (३।२।१३६) इत्यादिना चरेरिष्णुच् । श्रियो लक्ष्म्या आश्रयः स हिरण्यकशिपुः । यदृच्छया स्वैरवृत्त्या । यदृच्छा स्वैरवृत्तिः' इत्यमरः। यां दिशमशिश्रियदगमत् । श्रयतेर्लुङ् णिश्रि-' (३।१।४८) इत्यादिना चङि द्विर्भाव इयङादेशः। मुकुटोपलेषु मौलिरत्नेषु स्खलन्तः करा येषां तैः । शिरसि बद्धाञ्जलिभिरित्यर्थः । 'उपलः प्रस्तरे रत्ने' विश्वः । तिस्रो दशा बाल्यकौमारयौवनानि, जन्मसत्तावृद्धयो वा येषां तैत्रिदशैर्देवैः । यद्वा त्रिर्दश परिमाणमेषामिति 'बहुव्रीहौ संख्येये डजबहुगणात्' (५।४७३) इति समासान्तः । तिस्रः संध्याः समाहृतास्त्रिसन्ध्यम् । तद्धितार्थोत्तरपद-' (२।१५१) इत्यादिना समाहारे द्विगुः। द्विगुरेकवचनम्' (२०४३) वा टाबन्त इति पक्षे नपुंसकत्वम् । अत्यन्तसंयोगे द्वितीया । तस्यै दिशे करैर्हस्तैः । 'नमःस्वस्ति-' (२।३।१६) इत्यादिना चतुर्थी । नमः नमस्कारोऽकारि कृतम् । कृञः कर्मणि लुङ् । 'चिण् भावकर्मणोः' (३।१।६६) इति चिण् । संध्यावन्दनेऽपि दिङ्नियमं परित्यज्य तदागमनभयात्तस्यै दिशे नमस्कारः कृत इति भावः ॥ ४६ ॥
अथ सोऽपि त्वयैव हत इत्याह-
सटाच्छटाभिन्नघनेन बिभ्रता नृसिंह सैंहीमतनुं तनुं त्वया ।
स मुग्धकान्तास्तनसङ्गभङ्गुरैरुरोविदारं प्रतिचस्करे नखैः ॥४७॥
सटाच्छटेति ॥ हे नृसिंह, नरः सिंह इवेत्युपमितसमासः । ना चासौ सिंह- 'श्चेति प्रस्तावात् । सिंहस्येमां सैंहीं तनुं कायं बिभ्रता । नृसिंहावतारभाजेत्यर्थः । किंभूताम् । अतनुं विस्तीर्णाम् । अत एव सटाच्छटाभिः केशरसमूहैः भिन्ना घना मेघा पाठा०-१ 'गुणानि'. २ 'श्रियाम्'. ३ 'यद्वा' इत्यत आरभ्य 'समासान्तः' इत्यन्तः पाठः क्वचिन्न पठ्यते. येन । अभ्रंकषविग्रहत्वादिति भावः । 'सटा जटाकेशरयोः' इति 'तनुः काये कृशेऽल्पे च' इति विश्वः । त्वया स दैत्यः । मुग्धौ नवौ । 'मुग्धः सौम्ये नवे मूढे' इति वैजयन्ती । यो कान्तास्तनौ तयोः सङ्गेनापि भङ्गुरैः कुटिलैर्नखैरुरोविदारम् उरो विदार्य । 'परिक्लिश्यमाने च' (३।४।५५) इति णमुल्प्रत्ययः । प्रतिचस्करे हतः । किरतेः कर्मणि लिट् । 'ऋच्छत्यृृताम्' (७।४।११) इति गुणः । “हिंसायां प्रतेश्च' (६।१।१४१) इति सुडागमः । वज्रकठिनोऽपि नखैर्विदारित इति वाङ्मनसयोरगोचरमहिम्नस्ते किमसाध्यमिति भावः ॥ ४७ ॥
अथास्य जन्मान्तरचेष्टितान्याचष्टे-
विनोदमिच्छन्नथ दर्पजन्मनो रणेन कण्ड्वास्त्रिदशैः समं पुनः ।
स रावणो नाम निकामभीषणं बभूव रक्षः क्षतरक्षणं दिवः ॥४८॥
विनोद मिति ॥ अथ स हिरण्यकशिपुः पुनर्भूयोऽपि त्रिदशैः समं सह । 'साकं साधं समं सह' इत्यमरः । रणेन दर्पादन्तःसाराज्जन्म यस्यास्तस्याः कण्ड्वाः भुजकण्डूतेर्विनोदमपनोदमिच्छन् । प्राग्भवनखक्षतैस्तदपनोदाभावादित्यर्थः । दिवः स्वर्गस्य क्षतं नष्टं रक्षणं रक्षा येन तत् । क्षतधुरक्षणमित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः। अनेन देवसर्वस्वापहारित्वमुक्तम् । भीषयत इति भीषणः । नन्द्यादित्वात् ल्युः । 'भियो हेतुभये षुक्' (७।३।४०) इति षुक् । निकामं भीषणः । 'सुप्सुपा' इति समासः । रावणो नाम रावण इति प्रसिद्धं रक्षो बभूव । राक्षसयोनौ जात इत्यर्थः। विश्रवसोऽपत्यं पुमान् रावण इति विग्रहः। 'तस्यापत्यम्' (४।१।९२) इत्यणि कृते 'विश्रवसो विश्रवणरवणौ' इति प्रकृते रवणादेशः । पौराणिकास्तु रावयतीति व्युत्पादयन्ति । तदुक्तमुत्तरकाण्डे-'यस्माल्लोकत्रयं चैतद्रावितं भयमागतम् । तस्मात्त्वं रावणो नाम नाम्ना वीरो भविष्यसि ॥' (१६।३८) इति । रौतेर्ण्यन्तात्कर्तरि ल्युट् । रावणरक्षसोर्नियतलिङ्गत्वाद्विशेषणविशेष्यभावेऽपि स्वलिङ्गता ॥ ४८॥
अथास्यौद्धत्यमष्टादशश्लोक्याचष्टे-
प्रभुर्बुभूषुर्भुवनत्रयस्य यः शिरोऽतिरागादशमं चिकर्तिषुः ।
अतर्कयद्विघ्नमिवेष्टसाहसः प्रसादमिच्छासदृशं पिनाकिनः॥४९॥
प्रभुरिति ॥ यो रावणः भुवनत्रयस्य प्रभुः स्वामी बुभूषुः भवितुमिच्छुः । भुवः सन्नन्तादुप्रत्ययः । अतिरागादुत्साहात्, न तु फलविलम्बननिर्वेदादिति भावः दशमं शिरः चिकर्तिषुः कर्तितुं छेत्तुमिच्छुः । 'कृती छेदने' इति धातोः सन्नन्तादुप्रत्ययः । इष्टसाहसः प्रियसाहसः । अत एवेच्छासदृशमिच्छानुरूपं पिनाकिनः प्रसादं वरं विघ्नमिवातर्कयत् उत्प्रेक्षितवानिति परमसाहसिकत्वोक्तिः । इत आरभ्य श्लोकषट्केऽपि यच्छब्दस्य स रावणो नाम रक्षो बभूवेति पूर्वेणान्वयः । रङ्गराजस्तु 'न चक्रमस्याक्रमताधिकंधरम्' इति उपरिष्टादन्वय इत्याह । तदसत् । 'गुणानां च परार्थत्वात्' इति न्यायादारुण्यादिवत्प्रत्येकं प्रधानान्वयिनां मिथः संबन्धायोगादित्यलं शाखाचङ्क्रमणेन । पुरा किल रावणः काम्ये कर्मणि पशुपतिप्रीणनाय नव शिरांस्यग्नौ हुत्वा दशमारम्भे संतुष्टात्तस्मात्त्रैलोक्याधिपत्यं वव्रे इति पौराणिकी कथाऽत्रानुसंधेया ॥ ४९ ॥
अथ कैलासोत्क्षेपणवृत्तान्तमाह-
समुत्क्षिपन्यः पृथिवीभृतां वरं वरप्रदानस्य चकार शूलिनः ।
त्रसत्तुषाराद्रिसुताससंभ्रमस्वयंग्रहाश्लेषसुखेन निष्क्रयम् ॥ ५० ॥
समुत्क्षिपन्निति ॥ यो रावणः पृथिवीभृतां पर्वतानां वरं श्रेष्ठं कैलासं समुत्क्षिपन् । दर्पादिति शेषः । शूलिनो वरप्रदानस्य पूर्वोक्तस्य । त्रसन्त्याः शैलचलनेन बिभ्यत्यास्तुषाराद्रिसुतायाः पार्वत्याः ससंभ्रमो यः स्वयंग्रहः प्रियप्रार्थनां विना कण्ठग्रहणम् । 'सुप्सुपा' इति समासः । तेन आश्लेषः संमेलनं तेन यत्सुखं तेन । त्रैलोक्याधिपत्यसुखादुत्कृष्टेनेति भावः । निष्क्रयं प्रत्युपकारनिर्गतिं चकार । 'निष्क्रयो बुद्धियोगे स्यात्सामर्थ्ये निर्गतावपि' इति वैजयन्ती । यद्वा निष्क्रयं चकार क्रयेण व्यवहारेण याञ्चादोषदैन्यं ममार्जेत्यर्थः । अत्र सुखवरदानयोर्विनिमयात् परिवृत्तिरलंकारः ॥ ५० ॥
पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः ।
विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिवः ॥५१॥
पुरीमिति ॥ यो बली बलवान् रावणो नमुचिद्विषा इन्द्रेण विगृह्य विरुध्य पुरीममरावतीमवस्कन्द अवरुरोध । नन्दनमिन्द्रवनम् , 'नन्दनं वनम्' इत्यमरः । लुनीहि चिच्छेद । 'ई हल्यघोः' (६।४।११३) इतीकारः । रत्नानि श्रेष्ठवस्तूनि मणीन् वा । 'रत्नं श्रेष्ठे मणावपि' इति विश्वः। मुषाण मुमोष । 'मुष स्तेये' । 'हलः श्नः शानज्झौ' (३।११८३) इति श्नः शानजादेशः। अमराङ्गनाः हर जहार । सर्वत्र पौनःपुन्येनेत्यर्थः। इत्थमनेन प्रकारेण अहनि च दिवा चाहर्दिवम् । अहन्यहनीत्यर्थः । 'अचतुर-' (५।४।७७) इत्यादिना सप्तम्यर्थवृत्तौ द्वन्द्वे समासान्तो निपातः । दिवः स्वर्गस्यास्वास्थ्यमुपद्रवं चक्रे । अत्रावस्कन्देत्यादौ 'क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः' (३।४।२) इत्यनुवृत्तौ 'समुच्चयेऽन्यतरस्याम्' (३।४।३) इति विकल्पेन कालसामान्ये लोट् । तस्य यथोपग्रहं सर्वतिङादेशो हिस्वौ च । प्रकरणादिना त्वर्थविशेषावसानम् । 'अतो हेः' (६।४।१०५) इति यथायोग्यं हिलुक् । पौनःपुन्यं भृशार्थो वा क्रियासमभिहारः । अवस्कन्दनादिक्रियाविशेषाणां समुच्चयः क्रियासमभिहारः । तत्सामान्यस्य करोतेः 'समुच्चये सामान्यवचनस्य' (३।४।५) इत्यनुप्रयोगः चक्रे इति । 'अत्र तिङ्वैचित्र्यात् सौशब्दाख्यो गुणः' । 'सुपां तिङां परावृत्तिः सौशब्दम्' इति लक्षणात् । समुच्चयश्चालंकारः ॥ ५१ ॥
सलीलयातानि न भर्तुरभ्रमोर्न चित्रमुच्चैःश्रवसः पदक्रमम् ।
अनुद्रुतः संयति येन केवलं बलस्य शत्रुः प्रशशंस शीघ्रताम् ॥५२॥
पाठा०-१ 'वशी'. २०महर्निशं'. सलीलेति ॥ संयति युद्धे । 'समुदायः स्त्रियां संयत्समित्याजिसमिद्युधः इत्यमरः । येन रावणेन अनुद्रुतोऽनुधावितः बलस्य शत्रुरिन्द्रः अभ्रमोर्भर्तुरैरा- वतस्य सलीलयातानि सभङ्गीकगमनानि न प्रशशंस । तथा उच्चैःश्रवसः स्वाश्वस्य चित्रं नानाविधं पदक्रमं पादविक्षेपम् । अर्धपुलायितादिगतिविशेषमित्यर्थः । न प्रशशंस । किंतु केवलं शीघ्रतां शीघ्रगामित्वमेव प्रशशंस । अन्यथा शीघ्रं मामास्कन्द्य ग्रहीष्यतीति भयादिति भावः ॥ ५२ ॥
अशक्नुवन् सोढुमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनम् ।
प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यद्दिवसानि कौशिकः ५३
अशक्नुवन्निति ॥ अधीरलोचनोऽस्थिरदृष्टिः कौशिको महेन्द्रः, उलूकश्च । 'महेन्द्रगुग्गुलूलूकव्यालग्राहिषु कौशिकः' इत्यमरः । सहस्ररश्मेः सूर्यस्येव यस्य रावणस्य विक्रमकर्मणो दर्शनं सोढुमशक्नुवन् । हेमाद्रेर्गुहैव गृहं तस्यान्तरं प्रविश्य बिभ्यत्तत्रापि वेपमान एव । बिभीतेः शतरि 'नाभ्यस्ताच्छतुः' (७।१।७८) इति नुमभावः । दिवसानि वासराणि निनाय । 'वा तु क्लीबे दिवसवासरौ' इत्यमरः । यथा पेचकः सूर्योदये भीतः सन् तिष्ठति तथा सोऽपीति भावः । कौशिक इत्य- भिधायाः प्रस्तुतैकगोचरत्वेनोभयश्लेषेऽपि विशेष्यश्लेषासंभवात् उलूकविषयशब्दश- क्तिमूलो ध्वनिः । सहस्ररश्मेरिवेत्युपमाननिर्वाहकत्वाद्वाच्यसिद्ध्यङ्गम् ॥ ५३ ॥
बृहच्छिलानिष्ठुरकण्ठघट्टनाद्विकीर्णलोलाग्निकणं सुरद्विषः ।
जगत्प्रभोरप्रसहिष्णु वैष्णवं न चक्रमस्याक्रमताधिकंधरम् ॥५४॥
बृहच्छिलेति ॥ बृहति शिलेव निष्ठुरे कण्ठे घट्टनादभिघाताद्विकीर्णा विक्षिप्ताः लोलाश्चाग्निकणाः स्फुलिङ्गा यस्य तत् । अत एवाप्रसहिष्णु अनभिभावकम् । 'प्रसह- नमभिभवः' इति वृत्तिकारः । 'अलंकृञ्-' (३।२।१३६) इत्यादिना इष्णुच् । वैष्णवं चक्रं सुदर्शनं जगत्प्रभोः सकललोकैकस्वामिनः । अस्य सुरद्विषो रावणस्य कंधरायामधि अधिकंधरमधिग्रीवम् । विभक्त्यर्थेऽव्ययीभावः । 'अव्ययीभावश्च' (२।४।१८) इति नपुंसकत्वात् 'ह्रस्वो नपुंसके प्रातिपदिकस्य' (१।२।४७) इति ह्रस्वत्वम् । 'कण्ठो गलोऽथ ग्रीवायां शिरोधिः कंधरेत्यपि' इत्यमरः । नाक्रमता- प्रतिहतं न क्रमते स्म न प्रवर्तते स्म । किंतु प्रतिहतमेवेत्यर्थः । 'वृत्तिसर्गतायनेषु क्रमः' (१॥३॥३८) इति वृत्तावात्मनेपदम् । वृत्तिरप्रतिबन्धः ॥ ५४ ॥
विभिन्नशङ्खः कलुषीभवन्मुहुर्मदेन दन्तीव मनुष्यधर्मणः ।
निरस्तगाम्भीर्यमपास्तपुष्पकं प्रकम्पयामास न मानसं न सः॥५५॥
विभिन्नेति ॥ स रावणो मदेन दर्पण, इभदानेन च । 'मदो दर्पेभदानयोः’ इति विश्वः । दन्तीव गज इव विभिन्नो विघट्टितः शङ्खो निधिभेदः, कम्बुश्च येन सः सन्। 'शङ्खो निध्यन्तरे कम्बुललाटास्थिनखेषु च' इति विश्वः । अकलुषं कलुषं क्षुब्धमाविलं च भवत् कलुषीभवत् । निरस्तं गाम्भीर्यमविकारित्वं, अगाधत्वं च यस्य तत् । अपास्तानि पुष्पाणि, पुष्पकं विमानं च यस्मात्तत् । पुष्पपक्षे वैभाषिक: कप्प्रत्ययः । मनुष्यस्येव धर्मः श्मश्रुलत्वादिर्यस्येति स्वामी । तस्य मनुष्यधर्मणः । 'धर्मादनिच् केवलात्' (५।४।१२४) इत्यनिच् । मानसं चित्तं, तदीयं सरश्च । 'मानसं सरसि स्वान्ते' इति विश्वः । मुहुर्न कम्पयामास न क्षोभयामासेति न, किंतु कम्पयामासैवेत्यर्थः । कुबेरस्य महामहिमतया संभाविताप्रकम्पित्वनिवार- णाय नञ्द्वयम् । 'संभाव्यनिषेधनिवर्तने नञ्द्वयम्' इति वामनः । अत्र दन्तिरा- वणयोः प्रकृताप्रकृतयोः श्लेषः ॥ ५५ ॥
रणेषु तस्य प्रहिताः प्रचेतसा सरोषहुंकारपराङ्मुखीकृताः।
प्रहर्तुरेवोरगराजरज्जवो जवेन कण्ठं सभयाः प्रपेदिरे ॥५६ ॥
रणेष्विति ॥ किंच रणेषु प्रचेतसा वरुणेन प्रहिताः प्रयुक्ता उरगराजा महा- सर्पास्ते रज्जव इव उरगराजरज्जवः । नागपाशा इत्यर्थः । तस्य रावणस्य सरोषहुं- कारेण पराङ्मुखीकृता व्यावर्तिताः । अत एव सभयाः सत्यः जवेन वेगेन प्रहर्तुः प्रयोक्तुः प्रचेतस एव कण्ठं प्रपेदिरे प्राप्ताः । अत्र परहिंसाप्रयुक्तस्यायुधस्य वैप- रीत्येन स्वकण्ठग्रहणादनर्थोत्पत्तिरूपो विषमालंकारः । 'विरुद्धकार्यस्योत्पत्तिर्यत्रा- नर्थस्य वा भवेत्' इति लक्षणात् ॥ ५६ ॥
परेतभर्तुर्महिषोऽमुना धनुर्विधातुमुत्खातविषाणमण्डलः ।
हृतेऽपि भारे महतस्त्रपाभरादुवाह दुःखेन भृशानतं शिरः ॥ ५७ ॥
परेतभर्तुरिति ॥ अमुना रावणेन धनुः शार्ङ्गं विधातुं निर्मातुमुत्खातमुत्पाटितं विषाणयोः शृङ्गयोर्मण्डलं वलयं यस्य स परेतभर्तुर्यमस्य महिषः । वाहनभूत इति भावः । भारे विषाणरूपे । भृञो घञ् । हृतेऽपि महतस्त्रपैव भरस्तस्मात् । ततोऽपि दुर्भरादिति भावः । भृधातोः कैयादिकात् 'ॠदोरप्' (३।३।५७) इत्यप्प्रत्ययः । भृश- मत्यर्थमानतं नम्रं शिरो दुःखेनोवाह वहति स्म । 'असंयोगाल्लिट् कित्' (१।२।५) इति कित्त्वात् 'वचिस्वपि-' (६।१।१५) इत्यादिना संप्रसारणम् । हृतेऽपि भारे नतमिति विरोधः । तदनुप्राणिता चेयमवनतिहेतुत्वसाधर्म्यात् त्रपाभारत्वो- त्प्रेक्षा ॥ ५७ ॥
स्पृशन्सशङ्कः समये शुचावपि स्थितः कराग्रैरसमग्रपातिभिः ।
अघर्मघर्मोदकबिन्दुमौक्तिकैरलंचकारास्य वधूरहस्करः ॥ ५८ ॥
स्पृशन्निति ॥ अहः करोतीत्यहस्करः सूर्यः । 'दिवाविभानिशा-' (३।२।२१) इत्यादिना टप्रत्ययः। कस्कादित्वात् सत्वम् । शुचौ समये ग्रीष्मकाले, अनुपहते आचारे च स्थितोऽपि । 'शुचिः शुद्धेऽनुपहते शृङ्गाराषाढयोरपि । ग्रीष्मे हुतवहेऽपि स्यात्' इति विश्वः। 'समयाः शपथाचारकालसिद्धान्तसंविदः' इत्यमरः । असमग्रपातिभिः । संकुचितवृत्तिभिरित्यर्थः । कराणामंशूनां, हस्तानां चाग्रैः । 'बलिहस्तांशवः कराः' इत्यमरः । सशङ्कः स्पृशन् । अविश्वासभयादिति भावः । अघर्मा अनुष्णा घर्मोदक- बिन्दवः स्वेदोदबिन्दवः । 'मन्थौदन-' (६।३।६०) इत्यादिना विकल्पादुद- कशब्दस्योदादेशाभावः । तैरेव मौक्तिकैरस्य वधूरलंचकार । ग्रीष्मे तद्भयान्नासह्यं तपतीत्यर्थः । अत्र प्रस्तुतसूर्यविशेषणमात्रसाम्यादप्रस्तुतप्रसाधकप्रतीतेः समा- सोक्तिरलंकारः ॥ ५८ ॥
कलासमग्रेण गृहानमुञ्चता मनस्विनीरुत्कयितुं पटीयसा ।
विलासिनस्तस्य वितन्वता रतिं न नर्मसाचिव्यमकारि नेन्दुना ५९
कलासमग्रेणेति ॥ कलाभिः षोडशांशैः, शिल्पविद्याभिश्च समग्रेण संपूर्णेन । 'काले शिल्पे वित्तवृद्धौ चन्द्रांशे कलने कला' इति वैजयन्ती । गृहानमुञ्चता सदा तद्गृहेष्वेव वसता । दण्डभयात्सेवाधर्मत्वाच्चेति भावः । मनस्विनीर्मानिनीरुत्का उत्सुकाः कर्तुम् उत्कयितुम् । 'उत्क उन्मनाः' (५।२।८०) इति निपातनादुत्क- शब्दात् 'तत्करोति-' (ग०) इति ण्यन्तात्तुमुन् । पटीयसा । मानभेदचतुरेणे- त्यर्थः । कुतः । रतिं वितन्वता चन्द्रिकाभिश्चतुरोक्तिभिश्च रागं वर्धयता इन्दुना विलासिनो विलसनशीलस्य । 'वौ कषलस-' (३।२।१४३) इत्यादिना घिनुण् प्रत्ययः । तस्य रावणस्य नर्मसाचिव्यं क्रीडासंबन्ध्यधिकारित्वे सचेष्टत्वम् । 'लीला क्रीडा च नर्म च' इत्यमरः । नाकारीति न किंत्वकार्येवेत्यर्थः । अनौचित्यात्प्राप्त- नर्मसाचिव्यनिषेधनिवारणार्थं नञ्द्वयम् । 'संभाव्यनिषेधनिवर्तने नञ्द्वयम्' इति वामनः । अत्रेन्दोः प्रकृतस्याप्रकृतेन नर्मसचिवेन श्लेषः ॥ ५९ ॥
विदग्धलीलोचितदन्तपत्रिकाविधित्सया नूनमनेन मानिना ।
न जातु वैनायकमेकमुद्धृतं विषाणमद्यापि पुनः प्ररोहति ॥६०॥
विदग्धेति ॥ मानिनाहंकारिणा अनेन रावणेन विदग्धलीलाः। चतुरविलासिन्य इत्यर्थः । तासामुचिताश्च ता दन्तपत्रिकाश्च कर्णभूषणानि । 'विलासिनीविभ्रमदन्त- पत्रिका' इति साधीयान्पाठः । अन्यथा विप्रकृष्टार्थप्रतीतिकत्वेन कष्टाख्यार्थदोषापत्तेः । 'कष्टं तदर्थावगमो दूरायत्तो भवेत्' इति लक्षणात् । अत्र विलासिनीनां या विभ्रम- दन्तपत्रिका विभ्रमार्थानि यानि दन्तमयपत्राणि । विभ्रमदन्तशब्दयोः षष्ठीसमास- पर्यवसानात्तादर्थ्यलाभः । तासां विधित्सया विधातुमिच्छया । विपूर्वाद्दधातेः 'सनि मीमा-' (७।४।५४) इत्यादिना अच इस् । 'सः सि' इति तकारः । अन 'लोपोऽभ्यासस्य' (७।४।५८) इत्यभ्यासलोपः । ततः 'स्त्रियाम्' (४।१।३) इत्यनुवृत्तौ 'अ प्रत्ययात्' (३।३।१०२) इत्यकारप्रत्यये टाप् । नूनं निश्चितं जातु कदाचिदपि । कदाचिज्जातु' इत्यमरः । उद्धृतमुत्पाटितं विनायकस्य गणेशस्येदं वैनायकं एकं विषाणं दन्तः । 'विषाणं पशुशृङ्गे स्यात्क्रीडाद्विरददन्तयोः' इति विश्वः । अद्यापि पुनर्न प्ररोहति न प्रादुर्भवति । प्रपूर्वात् 'रुह प्रादुर्भावे' इत्य- स्माल्लट् । किमन्यदकार्यमस्येति भावः । एतदन्यथा कथं गजाननस्यैकदन्तत्वमु- त्प्रेक्ष्यते नूनमिति ॥ ६०॥
निशान्तनारीपरिधानधूननस्फुटागसाप्यूरुषु लोलचक्षुषः ।
प्रियेण तस्यानपराधबाधिताः प्रकम्पनेनानुचकम्पिरे सुराः ॥६॥
निशान्तेति ॥ निशान्तं गृहम् । 'निशान्तं गृहशान्तयोः' इति विश्वः । तत्र
पाठा०-१ 'इकारः,लोपोऽभ्यासस्य'. या नार्यः । शुद्धान्तःस्त्रिय इत्यर्थः । तासां परिधानान्यन्तरीयाणि । 'अन्तरीयोप- संव्यानपरिधानान्यधोंशुके' इत्यमरः । तेषां धूननं चालनम् । धूञो ण्यन्ताल्लट् । 'धूञ्प्रीञोर्नुग्वक्तव्यः' (वा०) इति नुक् । तेन स्फुटागसा व्यक्तापराधेनापि । अन्तः- पुरद्रोहस्य महापराधत्वादिति भावः । ऊरुषु तासां सक्थिषु लोलचक्षुषः सतृष्ण- दृष्टेः। 'सक्थि क्लीबे पुमानूरुः' इति, 'लोलश्चलसतृष्णयोः' इति चामरः । अत एव तस्य रावणस्य प्रियेण प्रमोदास्पदभूतेनाङ्गीकृतः । म्लानिर्न दोषायेति न्यायादिति भावः । प्रकम्पनेन वायुना अनपराधेऽपराधाभावेऽपि बाधिताः । राजपुरुषैरिति शेषः । सुरा अनुचकम्पिरे । स्वयमुपायेनान्तःप्रविश्यानपराधबाधानिवेदनेन मोच- यता वायुनानुकम्पिता इत्यर्थः । एकस्य वैदग्ध्याद्बहवो जीवन्तीति भावः ॥ ६१॥
तिरस्कृतस्तस्य जनाभिभाविना मुहुर्महिम्ना महसां महीयसाम् ।
बभार बाष्पैर्द्विगुणीकृतं तनुस्तनूनपाद्धूमवितानमाधिजैः ॥६२॥
तिरस्कृत इति ॥ किंच तस्य रावणस्य जनाभिभाविना लोकतिरस्कारिणा महीयसामतिमहतां महसां तेजसा महिम्ना महत्त्वेन । 'पृथ्वादिभ्य इमनिज्वा' (५।१। १२२) इतीमनिच् । मुहुस्तिरस्कृतः अत एव तनुः कृशः । तनुं न पातयति जाठररूपेण शरीरं धारयतीति तनूनपादग्निरिति स्वामी । 'नभ्राट्-' (६।३। ७५) इत्यादिसूत्रेण निपातनान्नञो लोपाभावः । आधिजैर्दुःखोत्थैर्बाष्पैः निःश्वासो- ष्मभिः । 'बाष्पो नेत्रजलोष्मणोः', 'पुंस्याधिर्मानसी व्यथा' इति विश्वामरौ । द्वौ गुणावावृत्ती यस्य स द्विगुणः । ततश्चिवः । द्विगुणीकृतं द्विरावृत्तम् । 'गुणस्त्वावृत्ति- शब्दादिज्येन्द्रियामुख्यतन्तुषु' इति वैजयन्ती । धूमवितानं धूममण्डलं बभार । अग्निरपि तत्संनिधौ निस्तेजस्को धूमायमान आस्त इत्यर्थः । धूमद्वैगुण्यासंबन्धे संबन्धाभिधानादतिशयोक्तिः ॥ ६२ ॥
परस्य मर्माविधमुज्झतां निजं द्विजिह्वतादोषमजिह्मगामिभिः ।
तमिद्धमाराधयितुं सकर्णकैः कुलैर्न भेजे फणिनां भुजंगता ॥६३॥
परस्येति ॥ किंच इद्धं दीप्तम् । उग्रमित्यर्थः । 'इन्धी दीप्तौ’ कर्तरि क्तः । तं रावणमाराधयितुं सेवितुं परस्य स्वेतरस्य मर्माणि हृदयादिजीवस्थानानि, कुला- चारव्रतानि च विध्यति भिनत्तीति मर्मावित् । विध्यतेः क्विप् 'ग्रहिज्या-' (६।१।१६) इति संप्रसारणम् । 'नहिवृति-' (६।३।११६) इत्यादिना पूर्वस्य दीर्घः । तं मर्माविधं निजं स्वीयं द्विजिह्वतायां सर्पत्वे यो दोषो दृष्टिविष- त्वादिस्तम् । अन्यत्र द्विजिह्वता पिशुनता । 'द्विजिह्वौ सर्पसूचकौ' इत्यमरः । सैव दोषस्तमुज्झतां त्यजतां फणिनां संबन्धिभिरजिह्मगामिभिः करचरणादिमद्वि- ग्रहधारित्वात् ऋजुगतिभिः, अकपटचारिभिश्च । तथा कर्णाभ्यां सह वर्तन्त इति सकर्णकाः तैश्चक्षुःश्रवस्त्वं विहाय आविष्कृतकर्णैरित्यर्थः । तेन सहेति तुल्ययोगे' (२।२।२८) इति बहुव्रीहिः । शेषाद्विभाषा' (५।४।१५४) इति कप् । अन्यत्र कर्णयति सर्वं शृणोतीति कर्णको नियन्ता । कर्णयतेर्ण्वुल् । ततः पूर्ववत्समासे सकर्णकैः । सनियामकैरित्यर्थः । फणिनां सर्पाणां कुलैर्वर्गैर्भुजंगता सर्पता, विटत्वं च । 'भुजङ्गो विटसर्पयोः' इति हलायुधः । न भेजे त्यक्तः । भुजैर्गच्छन्तीति भुजंगाः । गमेः सुपि 'खच् च डिद्वा वाच्यः' । तस्मिन्नियन्तरि खलैः खलत्वमपि, सर्पैः सर्पत्वमपि विहाय वेषभावक्रियाभिः सौम्यत्वं श्रितमित्यर्थः । अत्र प्रस्तुत- सर्पविशेषणसाम्यादप्रस्तुतखलव्यवहारप्रतीतेः समासोक्तिः ॥ ६३ ॥
तदीयमातङ्गघटाविघट्टितैः कटस्थलप्रोषितदानवारिभिः ।
गृहीतदिक्कैरपुनर्निवर्तिभिश्चिराय याथार्थ्यमलम्भि दिग्गजैः॥६४॥
तदीयेति ॥ तदीयमातङ्गानां घटाभिर्व्यूंहैः विघट्टितैरभिहतैः । 'करिणां घटना घटा' इत्यमरः । अत एव कटस्थलेभ्यः प्रोषितान्यपगतानि दानवारीणि येषां तैः। गृहीताः पलाय्य संश्रिता दिशो यैस्तैर्गृहीतदिक्कैः। शेषाद्विभाषा' (५।४।१५४) इति कप् । अपुनर्निवर्तिभिर्भयात्तत्रैव स्थितैर्दिग्गजैः चिराय याथार्थ्यं दिक्षु स्थिता गजा दिग्गजा इत्यनुगतार्थनामकत्वमलम्भि लब्धम् । लभेर्ण्यन्तात् कर्मणि लुङ् । 'विभाषा चिण्णमुलोः' (७।१।६९) इति विकल्पान्नुमागमः ॥ ६४ ॥
अभीक्ष्णमुष्णैरपि तस्य सोष्मणः सुरेन्द्रबन्दीश्वसितानिलैर्यथा ।
सचन्दनाम्भःकणकोमलैस्तथा वपुर्जलार्द्रापवनैर्न निर्ववौ ॥६५॥
अभीक्ष्णमिति ॥ ऊष्मणा स्मरज्वरेण सहितः सोष्मा तस्य सोष्मणस्तस्य रावणस्य वपुरभीक्ष्णं भृशमुष्णैरपि । शोकादिति भावः । सुरेन्द्रस्य बन्द्यः बन्दी- कृताः स्त्रियः तासां श्वसितानिलैर्निःश्वासमारुतैर्यथा निर्ववौ निर्वृतम् । 'निर्वाणं निर्वृतौ मोक्षे' इति वैजयन्ती । तथा सचन्दनाम्भःकणाः चन्दनोदकबिन्दु- सहिताः ते च ते कोमला मृदुलाश्च तैर्जलार्द्राणां जलोक्षिततालवृन्तानां पवनैर्न निर्ववौ । 'धुवित्रं तालवृन्तं स्यादुत्क्षेपव्यजनं च तत्' । 'जलार्द्रा स्याज्जलेनार्द्रं' इति वैजयन्ती । अत्र संतप्तस्योष्णोपचारान्निर्वृतिरिति कारणविरुद्धकार्योत्पत्ति- रूपो विषमालंकारः ॥ ६५ ॥
तपेन वर्षाः शरदा हिमागमो वसन्तलक्ष्म्या शिशिरः समेत्य च ।
प्रसूनक्लृप्तिं दधतः सदर्तवः पुरेऽस्य वास्तव्यकुटुम्बितां ययुः॥६६॥
तपेनेति ॥ सदा नित्यं नतु यथाकालं प्रसूनक्लृप्तिं कुसुमसंपत्तिम् । 'प्रसूनं कुसुमं सुमम्' इत्यमरः । दधतो धारयन्तः ऋतवो वर्षाः प्रावृट् तपेन ग्रीष्मेण । "उष्ण ऊष्मागमस्तपः' इति, 'स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम्' इति चामरः । तथा हिमागमो हेमन्तः शरदा, तथा शिशिरो वसन्तलक्ष्म्या च समेत्य मिथुनीभावेन मिलित्वा अस्य रावणस्य पुरे वसन्तीति वास्तव्या वस्तारः । 'वसेस्तव्यत्कर्तरि णिच्च' (वा) इति तव्यत् प्रत्ययः । ते च कुटुम्बिनश्च तेषां भावं तत्ताम् । प्रतिवासित्वमित्यर्थः । ययुः समेत्य ययुरिति समुदायसमुदायिनोरभेद- विवक्षया समानकर्तृत्वम् । अत्र पुरे युगपत्सर्वर्तुसंबन्धाभिधानादसंबन्धे संबन्ध- रूपातिशयोक्तिः ॥ ६६ ॥
पाठा०-१ तपेन'-६५, 'अभीक्ष्ण'-६६ इत्येवं विलोमक्रमेणोपलभ्येते. २ 'निर्ववार'. स चायमासन्नविनाशस्तुभ्यमपि द्रुग्ध्वा पुनस्त्वयैव हत इति युग्मेनाह-
अमानवं जातमजं कुले मनोः प्रभाविनं भाविनमन्तमात्मनः ।
मुमोच जानन्नपि जानकीं न यः सदाभिमानैकधना हि मानिनः६७
अमानवमिति ॥ मनोरयं मानवः । 'तस्येदम्' (४।३।१२०) इत्यण्प्रत्यये पर्यवसानाज्जातावेकवचनम् । अन्यथा मनोर्जातमित्येव स्यात् । अमानवममानुषम् । न जायत इत्यजम् । 'अन्येष्वपि दृश्यते' (३।२।१०१) इति डप्रत्ययः । तथापि मनोः कुले जातं रामस्वरूपेणोत्पन्नमिति विरोधः । स चाभासत्वादलंकार इत्याह- प्रभाविनमिति । महानुभावे तस्मिन्न कश्चिद्विरोध इति भावः। 'आभीक्ष्ण्ये णिनिः' इति णिनिः । इनिर्वा मत्वर्थीयः । भवन्तमिति शेषः । आत्मनः स्वस्यान्तं करोती- त्यन्तम् । अन्तशब्दात् 'तत्करोति-' (ग०) इति ण्यन्तात्पचाद्यच् । भाविनं भविष्य- न्तम् । 'भविष्यति गम्यादयः' (३।३।३)। जानन्नपि यो रावणः जनकस्यापत्यं स्त्री जानकी सीता तां न मुमोच नामुञ्चदित्यन्वयः । जानतोऽप्यमोचने कारण- माह-मानिनः सदा प्राणात्ययेऽप्यभिमान एवैकं मुख्यं धनं येषां ते । प्राणात्य- येऽपि न मानं मुञ्चन्तीत्यर्थः । कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ ६७ ॥
स्मरत्यदो दाशरथिर्भवन्भवानमुं वनान्ताद्वनितापहारिणम् ।
पयोधिमाबद्धचलज्जलाविलं विलङ्घ्य लङ्कां निकषा हनिष्यति॥६८॥
स्मरतीति ॥ भातीति भवान् । भातेर्डवतुः । दशरथस्यापत्यं पुमान्दाश- रथिः । 'अत इञ्' (४।१।९५) इतीञ्प्रत्ययः । भवन् । रामः सन्नित्यर्थः । भवते- र्लटः शत्रादेशः । वनान्ताद्दण्डकारण्याद्वनितापहारिणं सीतापहर्तारममुं रावणम् । आबद्धः प्रक्षिप्ताद्रिभिर्बद्धसेतुः अत एव चलन्ति जलानि यस्य स च अत एव आविलश्च तं आबद्धचलज्जलाविलं पयोधिं विलङ्घ्य लङ्कां निकषा लङ्कासमीपे । "समयानिकषाशब्दौ सामीप्ये त्वव्यये मतौ' इति हलायुधः । 'अभितःपरित:- समयानिकषाहाप्रतियोगेष्वपि' (वा०) इति द्वितीया । हनिष्यति अवधीत् । 'अभिज्ञावचने लृट्' (३।२।११२) इति भूते लृट् । अदो हननं भवान्स्मरतीति काकुः । प्रत्यभिजानासि किमित्यर्थः । शेषे प्रथमः ॥ ५८ ॥
अथोपपत्तिं छलनापरोऽपरामवाप्य शैलूष इवैष भूमिकाम् ।
तिरोहितात्मा शिशुपालसंज्ञया प्रतीयते संप्रति सोऽप्यसः परैः६९
अथेति ॥ अथ राक्षसदेहत्यागानन्तरं संप्रति छलनापरः परप्रतारणापरः एष रावणः शैलूषो नटः तस्य भूमिकां रूपान्तरमिव । 'शैलूषो नटभिल्लयोः । भूमिका रचनायां स्यान्मूर्यन्तरपरिग्रहे' इति विश्वः । अपरामुपपत्तिम् । जन्मा- न्तरमित्यर्थः । अवाप्य शिशुपालसंज्ञया तिरोहितात्मा तिरोहितस्वरूपः सन् सोऽपि रावण एव सन्नपि परैरितरैः स न भवतीत्यसः तस्मादन्य एव । 'नम्' (२।२।६) इति नञ् समासः। अत एव 'एतत्तदोः सुलोप-'(६।१।१३२) इत्यादिना न सुलोपः।
पाठा०-१'विनाशस्त्वयैव'. २ 'आविद्ध.' ३'आविद्धानि सेतुबन्धेऽद्रिभिः अभिहतानि'. प्रतीयते ज्ञायत इति प्रतिपूर्वादिणः कर्मणि लट् । यथैक एव शैलूषो रूपान्तमास्थाय तद्देशभाषादिभिरन्य एव प्रतीयते तद्वदयमपि मानुषदेहपरिग्रहादन्य इव भाति । दौर्जन्यं तु तदेवेत्यवश्यं संहार्य इति भावः ॥ ६९॥
अथैतद्दौर्जन्यं त्रिभिराविष्करोति-
स बाल आसीद्वपुषा चतुर्भुजो मुखेन पूर्णेन्दुनिभस्त्रिलोचनः ।
युवा कराक्रान्तमहीभृदुच्चकैरसंशयं संप्रति तेजसा रविः ॥७॥
स बाल इति ॥ स शिशुपालो बालः सन् वपुषा चतुर्भुजो भुजचतुष्टयवानासीत् । विष्णुरिति ध्वनिः । मुखेन पूर्णेन्दुनिभस्तत्तुल्यः त्रिलोचनो लोचनत्रयवानासीत् । त्र्यम्बक इति ध्वनिः। बालविशेषणात्संप्रति तत्सर्वमन्तर्हितमिति भावः। संप्रति तु युवा सन् करेण बलिना आक्रान्तमहीभृदधिष्ठितराजकः सन् । अन्यत्रांशुव्याप्तशैलः । 'बलिहस्तांशवः कराः' इत्यमरः । उच्चकैस्तेजसा रविरसंश- यम् । संशयो नास्तीत्यर्थः । अर्थाभावेऽव्ययीभावः । वपुषा मुखेन चेति । 'येनाङ्गविकारः' (२।३।२०) इति तृतीया। हानिवदाधिक्यस्यापि विकारत्वात् । तथा च वामनः-'हानिवदाधिक्यमप्यङ्गविकारः' इति । तेजसेति 'प्रकृत्यादिभ्य उपसंख्यानम्' (वा०) इति तृतीया। कराक्रान्तेत्यादिना श्लेषानुप्राणितेयमुत्प्रेक्षा । रविरसंशयमिति तस्य पूर्णेन्दुनिभ इत्युपमया संसृष्टिः। हरिहरादितुल्यमहिमत्वादतिदुर्धर्षः स इति भावः ॥ ७० ॥
स्वयं विधाता सुरदैत्यरक्षसामनुग्रहावग्रहयोर्यदृच्छया ।
दशाननादीनभिराद्धदेवतावितीर्णवीर्यातिशयान् हसत्यसौ ॥७१॥
स्वयमिति ॥ यदृच्छया स्वेच्छया स्वयं सामर्थेन । न तु देवताप्रसादबलादिति भावः । सुरदैत्यरक्षसां देवदानवयातुधानानां अनुग्रहावग्रहयोः प्रसादनिग्रहयोर्विधाता कर्ता असौ शिशुपालः अभिराद्धाभिराराधिताभिः, देवताभिरीश्वरादिभिः वितीर्णो दत्तो वीर्यातिशयः प्रभावातिशयो येषां तान् दशाननादीन् हसति ।अनन्यप्रसादलब्धैश्वर्ये मयि कथं याचकैस्तुल्यतेति गर्वात् हसतीत्यर्थः ॥ ७१ ॥
बलावलेपादधुनापि पूर्ववत् प्रबाध्यते तेन जगज्जिगीषुणा ।
सतीव योषित्प्रकृतिः सुनिश्चला पुमांसमभ्येति भवान्तरेष्वपि।।७२॥
बलेति ॥ जिगीषुणा । नित्योत्साहवतेत्यर्थः । तेन शिशुपालेन बलावलेपाद्वलगर्वादधुनापि पूर्ववत् पूर्वजन्मनीव जगत् प्रबाध्यते । तथा हि-सती पतिव्रता योषिदिव सुनिश्चलाऽतिस्थिरा प्रकृतिः स्वभावो भवान्तरेषु जन्मान्तरेष्वपि पुमांसमभ्येति । 'पति या नाभिचरति मनोवाक्कायसंयता। सा भर्तुर्लोकमाप्नोति सद्भिः साध्वीति चोच्यते ॥' इति मनुः (५।६५)। उपमोपमेयपुरस्कृतोऽर्थान्तरन्यासः॥७२॥
तदेनमुल्लङ्घितशासनं विधेर्विधेहि कीनाशनिकेतनातिथिम् ।
शुभेतराचारविपक्रिमापदो निपातनीया हि सतामसाधवः ॥७३॥
तदेनमिति ॥ तत्तस्मात् विधेर्विधातुरप्युल्लङ्घितशासनम् । स्वयं विधातेत्याद्युक्त
पाठा०-१ 'विपादनीयाः'. रीत्यातिक्रान्तदैवशासनमित्यर्थः । सापेक्षत्वेऽपि गमकत्वात् समासः । एनं शिशुपालं कीनाशनिकेतनातिथिं कीनाशो यमः तस्य निकेतनं गृहं तत्र अतिथिं प्राघुणिकं विधेहि कुरु । यमगृहं प्रेषयेत्यर्थः । 'कीनाशः कर्षके क्षुद्रे कृतान्तोपांशुघातिनोः' इति विश्वः । न चैतत् प्राघुणिकहस्तेन सर्पमारणं भवादृशामवश्यकर्तव्यत्वादित्याह-शुभेतराचारेण दुराचारेण विपक्रिमाः परिपाकेन निर्वृत्ताः कालपरिपाकेन प्राप्ता आपदो येषां ते तथोक्ताः । 'ड्वितः क्रिः' (३।३।८८) इति पचेः क्रिप्रत्ययः । 'क्रेर्मम्नित्यम्' (वा०) इति तद्धितो मम्प्रत्ययः । असाधवो दुष्टाः सतां भवादृशां जगन्नियन्तॄणां निपातनीयाः वध्या हि । न च नैर्घृण्यदोषः ।स्वदोषेणैव तेषां विनाशे निमित्तमात्रत्वादस्माकमित्याशयेन शुभेतराचारेत्यादिविशेषणोक्तिः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ७३ ॥
किंचैवं दुष्टनिग्रहे शिष्टानुग्रहः स्यादित्याह-
हृदयमरिवधोदयादुदूढद्रढिम दधातु पुनः पुरन्दरस्य ।
घनपुलकपुलोमजाकुचाग्रद्रुतपरिरम्भनिपीडनक्षमत्वम् ॥७४॥
हृदयमिति ॥ अरिवधोदयात् रिपुनाशलाभात् । उदूढद्रढिम नैश्चिन्त्याद्धृतदार्ढ्यम् । स्वस्थमिति यावत् । पृथ्वादित्वाद्दृढशब्दादिमनिच्प्रत्ययः । 'र ऋतो हलादेर्लघोः' (६।३।१६१) इति ऋकारस्य रेफादेशः । पुरः शत्रुपुराणि दारयतीति पुरन्दर इन्द्रः । 'पू:सर्वयोर्दारिसहोः' (३।२।४१) इति खच्प्रत्ययः। 'खचि ह्रस्वः' (६।४।९४) इत्युपधाह्रस्वः। 'वाचंयमपुरंदरौ च' (६॥३६९) इति निपातनाददन्तत्वं मुमागमश्च । तस्य हृदयं पुनर्भूयोऽपि । पूर्ववदेवेति भावः । घनपुलकयोः सान्द्ररोमाञ्चयोः । पुलोम्नो जाता पुलोमजा शची तस्याः कुचाग्रयोः द्रुतपरिरम्भ औत्सुक्यात् शीघ्रालिङ्गनं तत्र यत्पीडनं तस्य क्षमत्वं सहत्वं दधातु । प्राक्चित्तविक्षेपात्त्यक्तभोगेन शक्रेण संप्रति त्वत्प्रसादान्निष्कण्टकं स्वकीयं राज्यं भुज्यतामित्यर्थः । अत्र दार्ढ्यपदार्थस्योदूढद्रढिमेति विशेषणगत्या निपीडनक्षमत्वं प्रति हेतुत्वोक्त्या पदार्थहेतुकं काव्यलिङ्गम् । हृदयनिपीडनक्षमत्वसंबन्धेऽप्यसंबन्धोक्त्या संबन्धेऽसंवन्धरूपातिशयोक्तिरित्यर्थालंकारो वृत्त्यनुप्रासश्च तैरन्योन्यं संसृज्यते । पुष्पिताग्रा वृत्तम् । 'अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' इति लक्षणात् ॥ ७४ ॥
ओमित्युक्तवतोऽथ शार्ङ्गिण इति व्याहृत्य वाचं नभ-
स्तस्मिन्नुत्पतिते पुरः सुरमुनाविन्दोः श्रियं विभ्रति ।
शत्रूणामनिशं विनाशपिशुनः कुंद्धस्य चैद्यं प्रति
व्योम्नीव भ्रुकुटिच्छलेन वदने केतुश्चकारास्पदम् ॥७५ ॥
ओमिति ॥ तस्मिन्सुरमुनौ नारदे इति इत्थंभूतां वाचं व्याहृत्योक्त्वा नभ उत्पतिते खमुद्गते पुरोऽग्रे इन्दोः श्रियं बिभ्रति सति । अथ मुनिवाक्यानन्तरम् ओमित्युक्तवतः तथास्त्वित्यङ्गीकृतवतः । 'ओम् प्रश्नेऽङ्गीकृतौ रोषे' इति विश्वः। चेदीनां
पाठा०-१ दुपोढ', 'दवाप्त'. २ 'कर्तुं मतिं संयति', 'कर्तुं मतिं संयुगे'. जनपदानामयं चैद्यः शिशुपालः । 'वृद्धेत्कोसलाजादाञ्ञ्यङ्' (४।१।१७१) इति ञ्यङ्प्रत्ययः । तं प्रति क्रुद्धस्य शार्ङ्गिणो वदने व्योम्नीवानिशं सर्वदा । अव्यभिचा- रेणेत्यर्थः । शत्रूणां विनाशस्य पिशुनः सूचकः । 'चन्द्रमभ्युत्थितं केतुः क्षितीशानां विनाशकृत्' इति शास्त्रादिति भावः । केतुः उत्पातविशेषः । केतुर्द्युतौ पताकायां ग्रहोत्पातारिलक्ष्मसु' इत्यमरः । भ्रुकुटिच्छलेन भ्रूभङ्गव्याजेनास्पदं प्रतिष्ठां स्थितिं चकार । 'आस्पदं प्रतिष्ठायाम्' (६।१।१४६) इति निपातनात् सुडागमः । अनेन वाक्यार्थभूतस्य वीररससहकारिणो रौद्रस्य स्थायी क्रोधः स्वानुभावेन भृकुट्या कारणभूतोऽनुमेय इत्युक्तम् । तथा तदविनाभूतस्याङ्गिनो वीरस्य स्थायी प्रयत्नोपनेय उत्साहोऽप्युत्पन्न एवेत्यनुसंधेयम् । इन्दोः श्रियं बिभ्रतीत्यत्र मुनेरिन्दु- श्रियोऽयोगात्तत्सदृशीमिति सादृश्याक्षेपादसंभवद्वस्तुसंबन्धरूपो निदर्शनालंकारः । वदने व्योम्नीवेत्युपमा । भ्रुकुटिच्छलेन केतुरिति छलादिशब्देनासत्यत्वप्रतिपाद- नरूपोऽपह्नवः । तत्र शत्रुविनाशसूचके त्वपेक्षितेन्दुसान्निध्यव्योमावस्थानसंपाद- कत्वे निदर्शनोपमयोरपह्नवोपकारसत्वादङ्गाङ्गिभावेन संकरः । चमत्कारकारितया मङ्गलाचरणरूपतया च सर्गान्त्यश्लोकेषु श्रीशब्दप्रयोगः । यथाह भगवान् भाष्य- कारः-'मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणि प्रथन्ते, वीरपुरुषा- ण्यायुष्मत्पुरुषाणि च भवन्ति, अध्येतारश्च प्रवक्तारो भवन्ति' इति । शार्दूल- विक्रीडितं वृत्तम् । 'सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्' इति लक्ष- णात् । सर्गान्तत्वात् वृत्तभेदः । यथाह दण्डी–'सर्गैरनतिविस्तीर्णैः श्राव्यवृत्तैः सुसंधिभिः । सर्वत्र भिन्नसर्गान्तैरुपेतं लोकरञ्जकम् ॥' इति ॥ ७५ ॥
इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये कृष्ण-
नारंदसंभाषणं नाम प्रथमः सर्गः ॥१॥
अथ कविः कविकाव्यवर्णनीयाख्यानपूर्वकसर्गसमाप्तिं कथयति-इतीति ॥ इतिशब्दः समाप्तौ । माघकृताविति कविनामकथनम् । महाकाव्ये इति महच्छ- ब्देन लक्षणसंपत्तिः सूचिता । शिशुपालवध इति काव्यनामकथनम् । प्रथमः सर्ग इति समाप्त इति शेषः । एवमुत्तरत्रापि द्रष्टव्यम् ॥
इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध-
काव्यव्याख्याने सर्वंकषाख्ये प्रथमः सर्गः ॥ १ ॥