शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)/षोडशः सर्गः(दूतसंवादवर्णनम्)

← पञ्चदशः सर्गः(शिशुपालक्रोधवर्णनम्) शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)
षोडशः सर्गः(दूतसंवादवर्णनम्)
माघः
सप्तदशः सर्गः(यदुवंशक्षोभणम्) →


षोडशः सर्गः।

 अथानन्तरसर्गे हरेश्चैद्यदूतसंवादं वर्णयति-

 दमघोषसुतेन कश्चन प्रतिशिष्टः प्रतिभानवानथ ।
 उपगम्य हरिं सदस्यदः स्फुटभिन्नार्थमुदाहरद्वचः॥१॥

 दमघोषेत्यादि ॥ अथ संनाहानन्तरं दमघोषसुतेन शिशुपालेन प्रतिशिष्टः प्रहितः। 'प्रतिशिष्टः प्रेषिते स्यात्प्रत्याख्याने च वाच्यवत्' इति विश्वः । प्रतिभानमस्थास्तीति प्रतिभानवान् । अवसरोचितोत्तरस्फुरणशक्तिमानित्यर्थः । कश्चन कश्चिद्दूतः हरिं कृष्णमुपगम्य प्राप्य सदसि सभायां स्फुटौ भिन्नार्थौ पृथगर्थौ प्रियाप्रियरूपौ यस्मिंस्तत्स्फुटभिन्नार्थम् । युगपदुभयार्थाभिधायकमित्यर्थः । तथैव वक्ष्यति-'उभयं युगपन्मयोदितं त्वरया सान्त्वमथेतरच्च ते' (१६॥४२) इति । अदः इदं वक्ष्यमाणं वचः उदाहरयाहरत् । अस्मिन्सगै वैतालीयाख्यं मात्रावृत्तम् । 'षड्विषमेऽष्टौ समे कलाः षट् च समे स्युर्नों निरन्तराः । न समात्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः ॥' इति लक्षणात् ॥ १ ॥

"अत्राह कामन्दक:--'सोमात्योत्पादतो हीनो दूतस्तु त्रिविधो मतः। स भर्तुः शासनाद्गच्छेद्गतवंत ह्युत्तरोत्तरम् । स्ववाक्यपरवाक्यानामिति वेत्ति च विन्दयेत्' (?) इति".  'स्फुटभिन्नार्थमुदाहरद्वच' (१६।१) इत्युक्तं, तदेव चतुर्दशभिः श्लोकैरभिधत्ते--

 अभिधाय तदा तदप्रियं शिशुपालोऽनुशयं परं गतः ।
 भवतोऽभिमनाः समीहते सरुषः कर्तुमुपेत्य माननाम् ॥ २ ॥

 अभिधायेत्यादि ॥ शिशुपालस्तदा अर्धस्वीकारकाले तत्तादृशमप्रियमभिधाय परमनुशयमनुतापं गतः अभिमना उत्कण्ठितचित्तः सन् उपेत्यागत्य सरुषः समन्योर्भवतस्तव माननां पूजां कर्तुं समीहते । अनुनेतुमिच्छतीत्यर्थः । अयं मधुरोऽर्थः ॥  परुषस्तु--तदा तदप्रियमभिधाय परं अनुशयं-केवलं न शप्तव्यः, किंतु हन्तव्यश्चेति दीर्घद्वेषं गतः प्राप्तः । 'रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषानुतापयोः' इत्युभयत्राप्यमरः । अत एव नास्ति भीर्यस्येत्यभि निर्भीकं मनो यस्य सोऽभिमनाः निःशङ्कचित्तः सन् उपेत्य स्वयमेवागत्य सरुषः सकोपस्य भवतो माननां हननं कर्तुं समीहते । 'मानना हनने माने' इत्युभयत्रापि केशवः । भवन्तं हन्तुमिच्छतीत्यर्थः । 'मन स्तम्भे' इति धातोश्चौरादिकाल्ल्युट् णिचो लुक् । अत्र चतुर्दशश्लोक्यां परहृदयपरीक्षापराणां दूतानां प्रियाप्रिये द्वे अपि वक्तव्ये, चमत्काराय तु श्लेषभङ्ग्याभिधीयेत इति प्रियाप्रिययोर्द्वयोरपि प्रकृतत्वादभिधेयत्वाच्छब्दमात्रसाधर्म्याच्च केवलप्रकृतगोचरः श्लेषः । 'प्रकृताप्रकृतोभयगतमुक्तं चेच्छब्दमात्रसाधर्म्यम् । श्लेषोऽयमि'ति लक्षणात् । न[१] चेयं व्याजस्तुतिः, निन्दास्तुत्योरन्यतरगम्यतायां तदुत्थापनात् । इह तु 'उभयं युगपन्मयोदितं त्वरया सान्त्वमथेतरच्च ते' (१६।४२) इति वक्ष्यमाणलिङ्गादुभयोर्वाच्यत्वावगमादित्यलं प्रपञ्चेन ॥ २ ॥

 विपुलेन निपीड्य निर्दयं मुदमायातु नितान्तमुन्मनाः ।
 प्रचुराधिगताङ्गनिर्वृतिं परितस्त्वां खलु विग्रहेण सः ॥ ३ ॥

 विपुलेनेति ॥ उन्मना उत्सुकचेताः स चैद्यः परितः प्रचुरं प्रभूतं यथा तथा अधिगता प्राप्ता अङ्गनिर्वृतिः सुहृत्स्पर्शकृतमङ्गसुखं येन तं त्वां विपुलेन विशिष्टपुलकेन 'पुलः स्यात्पुलके नापि पुलं तु विपुलेऽन्यवत्' इति विश्वः । विग्रहेण वपुषा निर्दयं गाढं निपीड्यालिङ्ग्य नितान्तं मुदमायातु खलु ॥

 परुषस्तु--उन्मना मनस्वी स चैद्यः प्रचुरेणाधिना मनोव्यथया गताङ्गनिर्वृतिं विगतशरीरसौख्यं त्वां विपुलेन महता विग्रहेण समरेण । 'विग्रहः समरे काये' इति विश्वः । निर्दयं निष्कृपं निपीड्य हत्वा मुदमायातु खलु ॥ ३ ॥

 प्रणतः शिरसा करिष्यते सकलैरेत्य समं ध[२]राधिपैः ।
 तव शासनमाशु भूपतिः परवानद्य यतस्त्वयैव सः ॥ ४ ॥

 प्रणत इति ॥ भूपतिः चैद्यः सकलैर्धराधिपैः समं सह एत्यागत्य शिरसा प्रणतः प्रणामं कृतवान् । कर्तरि क्तः । आशु तव शासनमाज्ञां करिष्यते त्वदाज्ञाकरो भविष्यति । कुतः । यतः स चैद्योऽस्मिन्नवसरे त्वयैव परवांस्त्वदेकपरतन्त्रः ॥

 परुषस्तु--शिरसा प्रणतो नमस्कृतः । नराधिपैरिति भावः । कर्मणि क्तः । भूपतिस्तव शासनं शास्ति शिक्षां करिष्यते । यतस्त्वयैव अद्य स परवान् शत्रुमान् । त्वमेक एवास्य शत्रुरवशिष्ट इति भावः । अन्यत्समानम् । शासनं राजदत्तोर्व्यां लेखाज्ञाशास्त्रशास्तिषु' इति विश्वः ॥ ४ ॥

 प्रणामे हेतुमाह-

 अधिवह्नि पतगतेजसो नियतस्वान्तसमर्थकर्मणः ।
 तव सर्वविधेयवर्तिनः प्रणति विभ्रति केन भूभृतः ॥ ५॥

 अधीति ॥ अधिगतं वह्निपतङ्गयोरग्निभान्वोरिव तेजो येन तस्य । तत्तुल्यतेजस इत्यर्थः । नियतस्वान्तो नियतचित्तः स चासौ समर्थकर्मा च । खञ्जकुब्जवद्विशेषणसमासः । तस्य तथोक्तस्य सर्वे विधेयवर्तिनो वशवर्तिनः कर्मकरा यस्य तस्य के भूभृतः प्रणतिं नतिं न बिभ्रति । सर्वेऽपि बिभ्रतीत्यर्थः ॥ परुषस्तु-प्रणामे हेतुमाह-अधिवह्नि अग्नौ पतङ्गस्य शलभस्येव तेजः पौरुषं यस्य तस्य । 'पतङ्गः शलभे भानौ' इति विश्वः । नियते अव्यभिचारे स्वान्ते स्वविनाशे समर्थ हेतुभूतं कर्म यस्य तस्य सर्वेषां विधेये वर्तते विधेयं वर्तयति वा सर्वविधेयवर्तिनः सर्वकिंकरस्य निष्पौरुषस्य तव केन गुणेन भूभृतः प्रणति विभ्रति । न केनापीत्यर्थः ॥ ५॥

 जनतां भयशून्यधीः परैरभिभृतामवलम्बसे यतः ।
 तव कृष्ण गुणास्ततो नरैरसमानस्य दधत्यगण्यताम् ॥ ६ ॥

 जनतामिति ॥ हे कृष्ण हे हरे, भयशून्यधीर्निर्भीकचित्तः सन् परैः शत्रुभिरभिभूतां जनतां जनसमूहम् । 'ग्रामजन-' (४।२।४३) इत्यादिना समूहे तल् प्रत्ययः । यतोऽवलम्बसे परिगृह्णासि । रक्षसीत्यर्थः । ततोहेतोर्नररैसमानस्य, अमानुषमहिम्न इत्यर्थः। तव गुणा आर्तभूभरणादयः।अगण्यतामसंख्येयतां दधति॥ परुषस्तु-हे कृष्ण मलिनात्मक, भयशून्यधीर्मूढबुद्धिः परैस्त्वदन्यैः 'परं दूरान्यमुख्येषु परोऽरिपरमात्मनोः' इत्युभयत्रापि वैजयन्ती । अभिभूतामवधीरितां जनतां पशुपालनपारतन्त्र्यादिना पृथग्जनत्वम् । भावेऽर्थे तल्प्रत्ययः । यतोऽवलम्बस आश्रयसि । ततो नरैरसमानस्य । ततोऽपि हीनस्येत्यर्थः । तव गुणाः लेशतः स्वभावतोऽपीति भावः । अगण्यतामनादरणीयतां दधति ॥ ६ ॥

 अहितादनपत्रपस्त्रसन्नतिमात्रोज्झितभीरनास्तिकः ।
 विनयोपहितस्त्वया कुतः सदृशोऽन्यो गुणवानविस्मयः ॥७॥

 अहितादिति ॥ त्वया सदृशोऽन्यो गुणवान् गुणाढ्यः कुतः । न कुत्रापीत्यर्थः । कुतस्त्वं अहितादनार्थात्रसन् । अधर्मभीरुरित्यर्थः । अपत्रपो निस्त्रपो न भवतीति अनपत्रपस्त्रपावान् । अकार्यजुगुप्सुरित्यर्थः । अतिमात्रमत्यन्तमुज्झितभीः । त्यक्तारि- भय इत्यर्थः । नास्तीति मतिरस्येति नास्तिकः नास्तिपरलोकः । 'अस्तिनास्तिदिष्टं मतिः' (१।४।६०) इति ठक् । स न भवतीत्यनास्तिकः । आस्तिक इत्यर्थः । विनयेनानौद्धत्येनोपहितो विशिष्टः । विनयवानित्यर्थः । विस्मयो विशिष्टगर्वो न भवतीत्यविस्मयोऽगर्वः॥ 'आर्तरक्षणादयः'.  परुषस्तु-त्वया सदृशोऽन्यो गुणवान्न भवतीत्यगुणवान्निर्गुणः कुतः। न कुत्रापीत्यर्थः । कुतः त्वमहितात् शत्रोस्सन् भीरुः । नास्त्यपत्रपा लज्जाविशेषो यस्येत्यनपत्रपो निर्लज्जः । 'लज्जा सापत्रपान्यतः' इत्यमरः । नतिमात्रेण प्रणामेनवोज्झितभीरपाकृतारिभयः, न तु पराक्रमेणेति भावः । अस्ति मतिरस्येत्यातिकोऽस्तिपरलोकः । पूर्ववट्ठक् । स न भवतीत्यनास्तिकः । नास्तिक इत्यर्थः । विनयो नयातीतः अपहितो हितादपेतः विस्मयो विगर्वो न भवतीत्यविस्मयो गर्वी । गर्वयुक्त इत्यर्थः । अत्राहितादित्यर्थश्लेषः । अन्यत्र शब्दश्लेष इत्यनयोः संकरः ॥ ७ ॥

 कृतगोपवधूरतेर्घ्नतो वृषमुग्रे नरकेऽपि संप्रति ।
 प्रतिपत्तिरधःकृतैनसो जनताभिस्तव साधु वर्ण्यते ॥ ८॥

 कृतेति ॥ गोप्य एव वध्वो गोपवध्वः । 'स्त्रियाः संवत्-' (६॥३॥३४) इत्यादिना पुंवद्भावः । तासु रतिः कृता येन तस्य । गोपीजनवल्लभस्येत्यर्थः । वृषं वृषभरूपिणमरिष्टाख्यमसुरं नतो मारयतः । हन्तेर्लटः शत्रादेशः । अधःकृतैनसो निरस्तकल्मषस्य तवोग्रे भयंकरे नरके नरकासुरे प्रतिपत्तिः प्रवृत्तिः । पुरुषकार इति यावत् । संप्रति जनताभिर्जनसमूहैः साधु वर्ण्यते । अहो महद्दुष्करं कृतमित्युपश्लोक्यते ॥

 परुषस्तु-गोपानां वधूषु रतिः कृता येन तस्य पारदारिकस्य वृषं धर्मं, वृषभं वा नतः । 'सुकृते वृषभे वृषः' इति विश्वः । अत एव कृतैनसः पापकृतः तव उग्रे दारुणे नरके निरये अधःप्रतिपत्तिरधःप्राप्तिः । 'प्रतिपत्तिः पदप्राप्तौ पौरुषे गौरवेऽपि च' इति विश्वः । संप्रति जनताभिः साधु वर्ण्यते । दुस्तरोऽस्य पापिष्ठस्य नरकपात इत्युद्धोध्यत इत्यर्थः । अत्र गोपपरदारिकोऽप्यधःकृतैना इति विरोधाभासः श्लेषेण संकीर्यते ॥८॥

 विहितापचितिर्महीभृतां द्विषतामाहितसाध्वसो बलैः ।
 भव सानुचरस्त्वमुच्चकैर्महतामप्युपरि क्षमाभृताम् ॥ ९॥

 विहितेति ॥ सहानुचरः सानुचरः सभृत्यो महीभृता चैद्येन विहितापचितिः कृतपूजः । लोकवेदयोः सानुचरस्यैव राज्ञः पूज्यत्वप्रसिद्धेरिति भावः । अत एव बलैः सैन्यैः द्विषतां शत्रूणामाहितसाध्वसो जनितभयः सन् स्वयं महतामपि क्षमाभृतां राज्ञामुपर्युच्चकैरुन्नतस्त्वं भव सर्वोत्कर्षेण वर्तस्व ॥ परुषस्तु-महीभृता चैद्येन विहितापचितिः कृतहानिः। 'भवेदपचितिः पूजा- व्ययहानिषु निष्कृतौ' इति विश्वः । अत एव द्विषतां बलैराहितसाध्वसो भीषितः सन् त्वमुच्चकैः महतां क्षमाभृतां भूधराणामुपरि सानुषु चरतीति सानुचरः स भव । चरेष्टः । अत्रापि शब्दार्थश्लेषसंकरः ॥ ९॥

 घनजालनिभैर्दुरासदाः परितो नागकदम्बकैस्तव ।
 नगरेषु भवन्तु वीथयः परिकीर्णा वनजैर्मुगादिभिः ॥१०॥

 घनेति ॥ तव नगरेषु वीथयो रथ्या घनजालनिभैर्मेघसमूहकल्पैः वनजैवनभवैः मृगादिभिः मृगप्रभृतिभिः । भद्रो मन्द्रो मृगश्चेत्येवं त्रिविधैरपीत्यर्थः । नागकदम्बकैर्गजवृन्दैः परितः परिकीर्णा व्याप्ताः अत एव दुरासदा दुष्प्रवेशा भवन्तु । राज्ञा संधाने महदैश्वर्यं ते भविष्यतीत्यर्थः ॥

 परुषस्तु-घनजालनिभैः सान्द्रानायतुल्यैः । 'आनायः पुंसि जालं स्यात्' इत्यमरः । नागकदम्बकैः सर्पसंधैर्वनजैमृगादिभिर्मृगव्यालपुलिन्दप्रभृतिभिः । अथवा मृगादिभिः मृगभक्षकैः शरभशार्दूलादिभिः दुरासदा भवन्तु । राजविग्रहादरण्यप्रायं गता भवन्त्वित्यर्थः ॥ १० ॥

 सकलापिहितस्वपौरुषो नियतव्यापदवर्धितोदयः ।
 रिपुरुन्नतधीरचेतसः सततव्याधिरनीतिरस्तु ते ॥ ११ ॥

 सकलेति ॥ उन्नतमुदारं धीरमविकारं चेतो यस्य तस्य ते तव रिपुः सकलैरपिहितं तिरस्कृतं स्वपौरुषं यस्य सः । नियता नित्या व्यापदो विशिष्टापदो यस्य सः । अवर्धितोदयोऽसंपूरिताभ्युदयः सततव्याधिः संततरोगः । अनीतिर्नीतिरहितः एवं विधोऽस्तु ॥

 परुषस्तु-अचेतसोऽमनस्विनः ते रिपुश्चैद्यः सकलैरपिहितस्वपौरुषः अतिरस्कृतात्मविक्रमः । 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इत्यलोपे नञ्समासः । नियतं नित्यं व्यापद्विगतापत् अवर्धितोदयोऽच्छिन्नोदयः । 'वृधु च्छेदने वृद्धौ' इति धातोः कर्मणि क्तः । उन्नतधीरुदारबुद्धिः सततव्याधिः विगताधिर्मनोव्यथारहितः । अनीतिरीतिबाधारहितोऽस्तु । 'अतिवृष्टिरनावृष्टिः शलभा मूषकाः शुकाः । अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः ॥' अत्र सर्वत्र - पदभङ्गेनार्थद्वयप्रतिपादनाज्जतुकाष्टवदेकशब्दप्रतीतेः शब्दश्लेषः ॥ ११ ॥

 विकचोत्पलचारुलोचनस्तव चैद्येन घटामुपेयुपः ।
 यदुपुंगव बन्धुसौहृदात्त्वयि पाता ससुरो नवासवः ॥ १२ ॥

 विकचेति ॥ पुमान् गौरिव पुंगवः पुरुषर्षभः । उपमितसमासः । 'गोरतद्धितलुकि' (५।४।९२) इति समासान्तष्टच्प्रत्ययः । यदुषु पुंगव यदुश्रेष्ठ । 'श्रेष्ठोक्षाणौ तु पुंगवौ' इति वैजयन्ती । चैद्येन कर्त्रा घटां घनसंधिमुपेयुषस्तव संबन्धीनि विकचोत्पलानि वासनार्थं विहितानि तान्येव चारुलोचनानि यस्य सः । सह सुरया माध्व्या गौड्या वा ससुरः 'गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा' (मनु० ११।९४) इति वचनात् । अत्र क्षत्रियवैश्ययोः पैष्ट्यामेव निषेधः । नवासवो नवमद्यं नालिकेरादिकमिति सुरासवयोर्न पौनरुक्त्यम् । बन्धुसौहृदाद्बन्धौ त्वयि स्नेहात्पाता पास्यते त्वद्गृहे सह पानं करिष्यते । संप्रति ते सत्यतिपथत्वादिति भावः । पिबतेः कर्मणि लुट् ॥

 परुषस्तु-हे यदुपुंगव यादवबलीवर्द, चैद्येन सह घटामुपेयुषः समराभियोगं गतस्य तव विकचोत्पलवच्चारुलोचनः । ससुरः सदेवो वासवोऽपि बन्धुसौहृदात् । उपेन्द्रे त्वयि सौभ्रात्रादित्यर्थः । पाता त्राता न । किं पुनर्मशका भीष्मादय इति भावः । पातेस्तृच् । सुहृदयस्य भावः सौहृदमिति विग्रहः । युवादित्वादण्प्रत्ययः 'हृदयस्य हृल्लेख-' (६।३।५०) इति हृद्भावविधानसामर्थ्यान्न 'हृद्भग-' (७।३।१९) इत्युभयपदवृद्धिः । अत एव 'सौहृददौहृदशब्दाभ्यामणि हृद्भावौ' इति वामनः । सुहृदस्तु सौदार्हमेव । शब्दार्थश्लेषसंकरः ॥ १२ ॥

 चलितानकदुन्दुभिः पुरः सबलस्त्वं सह सारणेन तम् ।
 समितौ रभसादुपागतं सगदः संप्रतिपत्तुमर्हसि ॥ १३ ॥

 चलितेति ॥ रभसाद्धर्षादुपागतं प्राप्तं तं चैद्यं त्वं पुरश्चलितानकदुन्दुभिः पुरोगतवसुदेवः । 'वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः' इत्यमरः । सबलो बलभद्रसहितः । सारणेन सारणाख्येन पुत्रेण सह ससारणः सगदः गदाख्येनानुजेन सहितः समितौ सभायां संप्रतिपत्तुं संभावयितुमर्हसि । सर्वबन्धुसमेतः प्रत्येतुमर्हसीत्यर्थः ॥

 परुषस्तु–समितौ समरे रभसाद्वेगादुपागतं 'रभसो वेगहर्षयोः । समितिः समरे साम्ये सभायामपि संगता' इत्युभयत्रापि विश्वः । तं चैद्यं पुरतश्चलिता आनकाः पटहाः, दुन्दुभयो भेर्यश्च यस्य सः । 'आनकः पटहोऽस्त्री स्यात्भेरी स्त्री दुन्दुभिः पुमान्' इत्यमरः । सबलः ससैन्यः । सगदः गदया कौमोदक्या सहितः सन् सहसा झटिति रणेन युद्धेन संप्रतिपत्तुमभियोक्तुमर्हसि । अत्रापि शब्दार्थश्लेषसंकरः ॥ १३ ॥

 समरेषु रिपून्विनिघ्नता शिशुपालेन समेत्य संप्रति ।
 सुचिरं सह सर्वसात्वतैर्भव विश्वस्तविलासिनीजनः ॥१४॥

 समरेष्विति ॥ किंच समरेषु रिपून्विनिघ्नता । अतिशूरेणेत्यर्थः । शिशुपालेन समेत्यैक्यं प्राप्य संप्रति सुचिरं बहुकालं सत्वतः अपत्यानि पुमांसः सात्वता यादवाः । 'उत्सादिभ्योऽञ्' (४।११८६)। तैः सर्वैः सर्वसात्वतैः सह विश्वस्तविलासिनीजनः शिशुपालभयनिवृत्त्या विश्रब्धविलासिनीजनो भव । 'समौ विश्रम्भविश्वासौ’ इत्यमरः ।

 परुष -रिपुघातिना शिशुपालेन सह समरेषु समेत्य संगत्य संप्रत्येव सर्वसात्वतैः सह विश्वस्तविलासिनीजनो भव । 'विश्वस्ताविधवे समे' इत्यमरः । 'आदितश्च' (७।२।१६) इति चकारादनुक्तसमुच्चयार्थाच्छ्वसेर्निष्ठायामिट्प्रतिषेधः । शिशूनामनुद्धतानामेवायं पालयिता नोद्धतानामिति सर्वथा यादवानद्यैव हनिष्यतीति भावः॥१४॥

 विजितक्रुधमीक्षतामसौ महतां त्वामहितं महीभृताम् ।
 असकृजितसंयतं पुरो मुदितः सप्रमदं महीपतिः ॥ १५ ॥

 विजितेति ॥ असौ महीपतिश्चैद्यः मुदितः सन् विजितक्रुधं मैत्रीसंबन्धान्निरस्तक्रोधं महतां महीभृतां राज्ञां महितं पूजितम् । 'गतिबुद्धि-' (३।२।१८८) इत्यादिना वर्तमाने क्तः । तद्योगे षष्ठी । असकृद्धहुशो जिताः संयतः आजयो येन स तम् । 'समुदायः स्त्रियां संयत्समित्याजिसमिद्युधः' इत्यमरः । सप्रमदं सहर्ष त्वा त्वाम् । त्वामौ द्वितीयायाः' (८1१।२३) इति त्वादेशः । पुरोऽग्रे ईक्षतां पश्यतु ॥

 परुषस्तु-विजितक्रुधं संत्यक्तक्रोधं महतां महीभृतां चैद्यादीनामहितमरिमसकृज्जितश्चासौ संयतो बद्धश्च तम् । स्नातानुलिप्तवत्पूर्वकालेति समासः । 'बद्धो नद्धश्च संयतः' इति वैजयन्ती । सप्रमदं सस्त्रीकं त्वामिति पदच्छेदः । असकृदीक्षताम् ॥ १५॥

 इति जोषमवस्थितं द्विषः प्रणिधिं गामभिधाय सात्यकिः ।
 वदति स वचोऽथ चोदितश्चलितैकभ्रु च रथाङ्गपाणिना ॥१६॥

 इतीति ॥ इतीत्थंभूतां गां वाचम् । 'अर्जुनीनेत्रदिग्बाणभूवाग्वारिषु गौर्मता' इति विश्वः । अभिधाय जोषं तूष्णीमवस्थितम् । 'तूष्णीं जोषं भवेन्मौने' इति वैजयन्ती । द्विषः प्रणिधिं दूतं सात्यकिः । अथ दूतवाक्यानन्तरं रथाङ्गं चक्रं पाणौ यस्य तेन रथाङ्गपाणिना हरिणा । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' इति पाणेः परनिपातः । चलिता प्रेरिता एका भ्रूर्यस्मिन्कर्मणि तत् । 'गोस्त्रियोरुपसर्जनस्य' (१।२।४८) इति ह्रस्वः । चोदितः । अस्योत्तरं देहीति भ्रूसंज्ञया प्रेरितः सन्नित्यर्थः । वचो वदति सावादीत् ॥ १६ ॥

 किं तद्वचस्तदेकविंशतिश्लोकैराह-

 मधुरं बहिरन्तरप्रियं कृतिनाऽवाचि वचस्तथा त्वया ।
 सकलार्थतया विभाव्यते प्रियमन्तर्बहिरप्रियं यथा ॥ १७ ॥

 मधुरमित्यादि ॥ कृतिना कुशलेन त्वया बहिः प्रकाशे मधुरं प्रियं अन्तगर्भेऽप्रियं वचस्तथा तेन प्रकारेणावाचि उक्तम् । वचेः कर्मणि लुङि चिणि वृद्धिः। यथा येन प्रकारेण सकलार्थतया संपूर्णोभयार्थतया हेतुना अन्तःप्रियं बहिरप्रियं विभाव्यतेऽवधार्यते । अस्माभिरिति शेषः । अप्रियगर्भं प्रियं यदुक्तं तदस्माकं तु प्रियगर्भमप्रियमेव प्रतीयते । ईदृगुक्तिचातुर्यं तवैवेत्यभिप्रेत्योक्तं कृतिनेति । अतो न श्रद्धेयमिदं वच इति भावः ॥ १७ ॥

 अथवा बहिरेव प्रियं अन्तरेवाप्रियं तथापि न ग्राह्यमित्युपमया व्यनक्ति-

 अतिकोमलमेकतोऽन्यतः सरसाम्भोरुहवृन्तकर्कशम् ।
 वहति स्फुटमेकमेव ते वचनं शाकपलाशदेश्यताम् ॥ १८ ॥

 अतीति ॥ एकतो बहिः अतिकोमलम्, अन्यतः अन्तः सरसमार्द्रं यदम्भोरुहस्य वृन्तं प्रसवबन्धनं तदिव कर्कशं परुषं एकमेव ते तव वचनं ईषदसमाप्तं शाकपलाशं शाकपलाशदेश्यं महापत्राख्यतरुपत्रं तत्तुल्यम् । 'शाकः पलाशसारः स्याद्वरदारुः करच्छदः । महापत्रो महाशाकः स्थिरदारुर्हनीटकः ॥' इत्यभिधानरत्नमालायाम् । 'ईषदसमाप्तौ कल्पब्देश्यदेशीयरः' (५।३।६७) इति देश्यप्रत्ययः । कल्पदेश्य देशीयानि सादृश्यवाचकानीति दण्डी । तस्य भावस्तत्ता तां वहति । अन्तःपरुषस्य बहिर्माधुर्यं यथा शाकपलाशवदिति भावः । अत्र शाकपलाशोपमायाः पद्मवृन्तोपमासापेक्षत्वात्संकरः ॥ १८॥

 ननु अप्रियगर्भेऽपि वाक्ये गुणग्राहिभिः प्रियमेव गृह्यतां हंसैः क्षीरमिवांभसीत्याशंक्याह-

 प्रकटं मृदु नाम जल्पतः परुषं सूचयतोऽर्थमन्तरा ।
 शकुनादिव मार्गवर्तिभिः पुरुषादुद्विजितव्यमीदृशः ॥ १९ ॥

 प्रकटमिति ॥ प्रकटं प्रकाशं मृदु नाम मृदुकल्पं जल्पतः कथयतः । अन्तरान्तः

परुषमनिष्टमर्थं सूचयतः ईदृशोऽन्तःशुद्धिशून्यात्पुरुषादीदृशः शकुनादिव बहिः शुभङ्करं कुर्वतोऽन्तरा परुषं सूचयतः पिङ्गलादिपक्षिण इव मार्गवर्तिभिः सन्मार्गवर्तिभिरध्वगैश्चोद्विजितव्यम् । नचांशतोऽपि ग्राह्यम् , विषसंपृक्तान्नवदखिलस्यानर्थहेतुत्वादिति भावः । 'विज इट्' (१।२।२) इतीटः कित्त्वान्न गुणः ॥१९॥

 एवं दूतं निर्भर्त्स्य अथ चैद्यं च तद्दोषोद्घाटनपूर्वकं भर्त्सयते-

 हरिमर्चितवान्महीपतिर्यदि राज्ञस्तव कोऽत्र मत्सरः ।
 न्यसनाय ससौरभस्य कस्तरुसूनस्य शिरस्यसूयति ॥ २०॥

 हरिमित्यादि ॥ महीपतिर्युधिष्ठिरो हरिमर्चितवान्यदि पूजितवांश्चेत् । अत्र हर्यर्चने तव राज्ञश्चैद्यस्य मत्सरः कः । न कोऽपीत्यर्थः । ससौरभस्य परिमलयुक्तस्य तरुसूनस्य । तरुग्रहणं सूनस्य साधारणत्वद्योतनार्थम् । शिरसि न्यसनायार्पणाय' कोऽसूयति । न कोपीत्यर्थः । 'क्रुधद्रुह-' (१।१४।३७) इत्यादिना संप्रदानसंज्ञा । सर्वत्र गुणवद्वस्तु गुणज्ञैर्बहु मन्यते, तटस्थानां किमत्र वृथा संतापेनेति भावः । अत्र हरितरुसूनयोर्वाक्यद्वये - बिम्बप्रतिबिम्बभावेनार्चनाशिरोधारणारूपसमानधर्मनिर्देशादृष्टान्तालंकारः ॥ २० ॥

 अथ कथं महान्महतः पूजां सहत इत्याशय हरिचैद्ययोर्महदन्तरं मनसि निधाय सामान्यतः सुजनदुर्जनयोरन्तरं चतुर्भिराह--

 सुकुमारमहो लघीयसां हृदयं तद्गतमप्रियं यतः।
 सहसैव समुद्रिन्त्यमी जरयन्त्येव हि तन्मनीषिणः ॥२१॥

 सुकुमारमित्यादि ॥ लघीयसामल्पीयसां हृदयं सुकुमारं तुच्छम् । कुतः यतोऽमी लघीयांसस्तद्गतं हृदयगतमप्रियं सहसैव झटित्येव समुद्भिरन्ति समुच्चारयन्ति । - मनीषिणस्तु तदप्रियं कथंचित् । संभाव्यमानमपीति शेषः । जरयन्ति अन्तरेव क्षपयन्ति । न तूद्गिरन्तीत्यर्थः । अहो इत्याश्चर्ये । चैद्यश्चोद्गिरति नैवं हरिरित्यहो महदन्तरमनयोरिति भावः । अत एवाप्रस्तुतात्सामान्यात्प्रस्तुतविशेषप्रतिपत्तिरूपोऽयमप्रस्तुतप्रशंसाभेदः । 'अप्रस्तुतस्य कथनात्प्रस्तुतं यत्र गम्यते । अप्रस्तुतप्रशंसेयं सारूप्यादिनियन्त्रिता ॥' इति लक्षणात् । आदिशब्दात्सामान्यविशेषसंग्रहः । एवमुत्तरश्लोकनयेऽपि दृष्टव्यं, विशेषं तु वक्ष्यामः ॥ २१ ॥

 उपकारपरः स्वभावतः सततं सर्वजनस्य सज्जनः ।
 असतामनिशं तथाप्यहो गुरुहृद्रोगकरी तदुन्नतिः ॥ २२ ॥

 उपकारेति ॥ किंच सज्जनः स्वभावतः सततं सर्वजनस्योपकारपरः । नतूपाधिपरः कदाचित्कस्यचिदेवेति भावः । तथापि सर्वोपकारित्वेऽपि तदुन्नतिस्तस्य सज्जनस्योत्कर्षः असतामसाधूनामनिशं गुरुहृद्रोगकरी अत्यन्तहृदयसंताप-

पाठा०-'स भूपतिः'. २ 'क्षपयन्ति'. कारिणी । 'कृञो हेतु-' (३।२।२०) इत्यादिना ताच्छील्ये टप्रत्यये 'टिड्ढाणञ्-' (४।०१५) इत्यादिना ङीप् । हरिचैद्यौ चैवंभूताविति सैवाप्रस्तुतप्रशंसा ॥२२॥

 परितप्यत एव नोत्तमः परितप्तोऽप्यपरः सुसंवृतिः ।
 परवृद्धिभिराहितव्यथः स्फुटनिर्भिन्नदुराशयोऽधमः ॥ २३ ॥

 परितप्यत इति ॥ किंच उत्तमः परवृद्धिभिर्न परितप्यते न व्यथत एव । उत्तमस्यापरशुभद्वेष एव नास्तीत्यर्थः । अपरो मध्यम एवेत्यर्थः । परितप्तोऽपि शोभना संवृतिः परितापगोपनं यस्य स सुसंवृतिः । सन्तमपि परशुभद्वेषं न प्रकाशयतीत्यर्थः । अधमस्तु परवृद्धिभिराहितव्यथः । उत्पादितसंतापः तथा स्फुटं निर्भिन्नः प्रकाशितो दुराशयः परशुभद्वेषलक्षणो दुरभिप्रायो यस्य सः । परशुभद्वेष्टि प्रकाशयति चेत्यर्थः । चैद्यश्चाधमो हरिस्तूत्तम इति प्रतीतेः पूर्वोक्त एवालंकारः ॥ २३ ॥

 ननु मानिनां परोत्कर्षप्रद्वेषो भूषणमेवेत्याशक्य नेत्याह-

 अनिराकृततापसंपदं फलहीनां सुमनोभिरुज्झिताम् ।
 खलतां खलनामिवासतीं प्रतिपद्येत कथं बुधो जनः ॥२४॥

 अनिराकृतेति ॥ अनिराकृता अनिवारिता तापसंपत् तापातिशयो यया ताम् । एकत्र संतापजननैकस्वभावादपरत्रासतच्छायाविरहाच्चेति भावः। तथा फलहीनाम् । एकत्र इहामुत्र चोपकारशून्यां प्रत्युतोभयत्राप्यनर्थकारी चेति भावः । अन्यत्र सर्वस्वरहितां सुमनोभिर्बुधैरुज्झितां अन्यत्र पुष्पैर्वर्जिताम् । 'सुमना पुष्पमालत्योः स्त्री देवबुधयोः पुमान्' इति वैजयन्ती । असती दुष्टाम्, अन्यत्र निरुपाख्यां खलस्य भावः खलता तां खलतां दुर्जनत्वम् । खस्य लता तां गगनलतिकामिव बुधो सदसद्विवेककुशलो जनः कथं प्रतिपद्येतावलम्बेत । न कथमपीत्यर्थः । वृथा मत्सरो न कस्यापि गुण इति भावः । तथापि खलतां प्रतिपद्यते चैद्यो न हरिरिति प्रतीतेः सैवाप्रस्तुतप्रशंसा खलतामिवेत्युपमया संकीर्यते । 'अत्यन्तासत्परिज्ञानमर्थे शब्दः करोति हि' इति न्यायादसत्या अपि प्रतीतिसत्याः खलतिकायाः खलतोपमत्वसिद्धिः ॥ २४ ॥

 नन्वेवं महानुभावो हरिः किमर्थं तथा सदसि राज्ञा निर्भत्स्यमानो मौनमास्थित इत्याशङ्क्य सत्यमनादरान्न तु कातर्यादित्याह-

 प्रतिवाचमदत्त केशवः शपमानाय न चेदिभूभुजे ।
 अनुहुंकुरुते धनध्वनिं न हि गोमायुरुतानि केसरी ॥ २५ ॥

 प्रतीति ॥ केशवः शपमानाय आक्रोशते । स्वरितेत्वादात्मनेपदम् । चेदिभूभुजे । क्रियाग्रहणात्संप्रदानत्वम् । प्रतिवाचं प्रत्युत्तरं नादत्त । केसरी सिंहो धनध्वनिमनुहुंकुरुते प्रतिगर्जति । गोमायुरुतानि शिवारुतानि नानुहुंकुरुते । स्त्रि यां शिवा भूरिमायगोमायुमृगधूर्तकाः' इत्यमरः । महतामधमेष्ववज्ञैव नीतिरिति भावः । दृष्टान्तालंकारः ॥२५॥  किंच राज्ञो हरिणा विरोधोऽपि न योग्य इत्याह-

 जितरोषतया महाधियः सपदि क्रोधजितो लघुर्जनः ।
 विजितेन जितस्य दुर्मतेर्मतिमद्भिः सह का विरोधिता ॥२६॥

 जितेति ॥ महाधियः सुधियो जितो रोषरयो यैस्ते तथोक्ताः । लघुरल्पो जनस्तु सपदि क्रोधजितः । एवं विजितेन जितस्य । जितेन क्रोधेन जितस्येत्यर्थः । दुर्मतेर्मूर्खस्य मतिमद्भिः पण्डितैः सह विरोधिता स्पर्धा का । मूर्खपण्डितर्योमैत्रीव स्पर्धापि न संगतेत्यर्थः । मूर्खश्चायं चैद्य इत्यप्रस्तुतात्सामान्याद्विशेषप्रतीतेरप्रस्तुतप्रशंसाभेदः ॥ २६ ॥

 नापि चैद्यप्रलापैः कृष्णस्य किंचिल्लाघवमित्याशयेनाह-

 वचनैरसतां महीयसो न खलु व्येति गुरुत्वमुद्धतैः ।
 किमपैति रजोभिरौर्वरैरवकीर्णस्य मणेर्महार्घता ॥ २७ ॥

 वचनैरिति ॥ उद्धतैर्निष्ठुरैः असतां दुर्जनानां वचनैर्महीयसो महत्तमस्य गुरुत्वं गौरवं न व्येति नापैति खलु । और्वरैर्भौमैः । 'उर्वरा सर्वशस्याढ्यभूमौ स्याद्भूमिमात्रके' इति विश्वः । रजोभिरवकीर्णस्य छन्नस्य मणेर्महार्घता महामूल्यत्वम् । 'मूल्ये पूजाविधावर्घः' इत्यमरः । अपैति किम् । नापैत्येवेत्यर्थः । अत्र मणिमहीयसोर्वाक्यभेदेन प्रतिबिम्बकरणादृष्टान्तालंकारः । महीयस इति सामान्याद्धरेरिति विशेषप्रतीतेरप्रस्तुतप्रशंसा चेति संकरः हरिमण्योरुपमाध्वनिश्च ॥ २७॥

 युक्तं चैतत्पारुष्यं दुरात्मनामित्याह-

 परितोषयिता न कश्चन स्वगतो यस्य गुणोऽस्ति देहिनः ।
 परदोषकथाभिरल्पकः स्वजनं तोषयितुं किलेच्छति ॥ २८ ॥

 परीति ॥ यस्य देहिनो जन्तोः परितोषयिता परेषामानन्दयिता स्वगतो गुणः कश्चन कश्चिदपि नास्ति । अल्पकोऽतितुच्छः, स इति शेषः । यत्तदोर्नित्यसंबन्धात् । परदोषकथाभिरन्यजनदोषोक्तिभिः स्वजनं । न तु मध्यस्थमिति भावः । तोषयितुमिच्छति किल ईहते खलु । अतोऽवश्यकर्तव्यमेतस्येत्यर्थः । चैद्यस्यापि निर्गुणत्वात्परदूषणं युक्तमिति । अत एवाप्रस्तुतप्रशंसाभेदः ॥ २८ ॥

 नन्वात्मनो निर्दोषत्वाभिमानादित्थं विजृम्भणमित्याशङ्क्याह-

 सहजान्धदृशः स्वदुर्नये परदोषेक्षणदिव्यचक्षुषः ।
 खगुणोच्चगिरो मुनिव्रताः परवर्णग्रहणेष्वसाधवः ॥ २९ ॥

 सहजेति ॥ असाधवः खलाः स्वदुर्नये स्वदोषे । महत्यपीति भावः । सहजा स्वाभाविकी अन्धा अपश्यन्ती दृग्येषां ते । जात्यन्धा इत्यर्थः । परदोषाणां पाठा०-१ 'परतोषयिता'. सूक्ष्माणामपीति भावः । ईक्षणे दर्शने दिव्यचक्षुषोऽप्रतिहतदृष्टयः । किंच स्वगुणेषूच्चगिरः । आत्मप्रशंसायामतिप्रगल्भवाच इत्यर्थः । परवर्णग्रहणेषु परस्तुतिवचनेषु । "स्तुतौ वर्णं तु वाक्षरे' इत्यमरः । मुनिव्रता मौनव्रतिनः । 'अर्श-आदिभ्योऽच्' (५।२।१२७)। चैद्यश्चैवंविध इति प्रतीतेरप्रस्तुतप्रशंसा ॥ २९ ॥

 साधवस्तु नैवमित्याह-

 प्रकटान्यपि नैपुणं महत्परवाच्यानि चिराय गोपितुम् ।
 विवरीतुमथात्मनो गुणान्भृशमाकौशलमार्यचेतसाम् ॥ ३०॥

 प्रकटानीति ॥ आर्यचेतसां सुमनसां प्रकटान्यपि परवाच्यानि परदूषणानि चिराय गोपितुं गोपायितुम् । संवरीतुमित्यर्थः । 'आयादय आर्धधातुके वा' (३।१॥३१) इति विकल्पादायप्रत्ययाभावः । महन्नैपुणं कौशलम् । अथेति वाक्यारम्भे । अथात्मनो गुणान्विवरीतुं प्रकटयितुम् । आत्मप्रशंसां कर्तुमित्यर्थः । भृशमाकौशलमत्यन्तमकौशलम् । साधवो न परान्निन्दन्ति न वात्मानं प्रशंसन्ति 'आत्मप्रशंसां परगर्हामिव वर्जयेदि'त्यापस्तम्बीये निषेधस्मरणादिति भावः 'नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम्' (७३।३०) इति विकल्पान्नपूर्वपदस्यापि वृद्धिः । कृष्णश्चैवंभूत इति विशेषप्रतीतेरप्रस्तुतप्रशंसैव ॥ ३० ॥

 किमिवाखिललोककीर्तितं कथयत्यात्मगुणं महामनाः ।
 वदिता न लघीयसोऽपरः स्वगुणं तेन वदत्यसौ स्वयम् ॥३१॥

 किमिति ॥ किंच महामना महात्मा । अखिललोककीर्तितं स्वत एव सर्वैर्लोकः प्रख्यातमात्मगुणं किमिव किमर्थं कथयति । न कथयत्येव । स्वत एव सवैलौकैः कीर्त्यमानत्वादित्यर्थः । लघीयसस्तुच्छस्य तु स्वगुणं वदिता वक्ता । वदेस्तृच्प्रत्ययः । अत एव 'न लोका-' (२।३।६९) इत्यादिना षष्टीप्रतिषेधः । अपरोऽन्यो नास्ति तेन कारणेनासौ लघीयान् स्वगुणं स्वयमेव वदति, न केवलं निषेधात् । स्वत्वप्रयोजनत्वादपि महानात्मप्रशंसां न करोति, तुच्छस्तु वक्रन्तरासंभवात् स्वयमेव तां प्रलपतीत्यर्थः । पूर्वार्धे पदार्थहेतुकं काव्यलिङ्गम् , उत्तरार्धे वाक्यार्थहेतुकं चोन्नेयम् । कृष्णचैद्यौ चैवंविधाविति विशेषप्रतीतेरप्रस्तुतप्रशंसा चेति संकरः ॥३१॥

 किंच महात्मानः क्रुद्धाः काले पराक्रमन्ति, दुरात्मानस्तु केवलं प्रलपन्तीत्याह-

 विसृजन्त्यविकत्थिनः परे विषमाशीविषवन्नराः क्रुधम् ।
 दधतोऽन्तरसाररूपतां ध्वनिसाराः पटहा इवेतरे ॥३२॥

 विसृजन्तीति ॥ परे नराः सत्पुरुषाः विषमाशीविषवत् क्रूरसर्पवदित्युपमा । अविकस्थिनोऽनात्मश्लाघिन एव कुधं क्रोधं विसृजन्ति वमन्ति । पराक्रमन्तीत्यर्थः । अन्तरभ्यन्तरे असाररूपतां निःसाररूपतां दधतो दधानाः । 'नाभ्यस्ताच्छतुः' (७।१।७८) इति नुमभावः । इतरे जना दुर्जनाः पटहा इव ध्वनिरेव सारो बलं येषां ते ध्वनिसारा वाक्शूरा एव । न तु बाहुबलशालिन इति भावः । अत्रापीदृशौ कृष्णचैद्यावित्यप्रस्तुतसामान्यात्प्रस्तुतविशेषप्रतीतेरप्रस्तुतप्रशंसाभेदः ॥३२॥

 'अभिधाय तदा तदप्रियम्' (१६३२) इत्यादिना यद्दूतेन युगपत्प्रियाप्रिये अभिहिते तत्रोत्तरमाह-

 नरकच्छिदमिच्छतीक्षितुं विधिना येन स चेदिभूपतिः।
 द्रुतमेतु न हापयिष्यते सदृशं तस्य विधातुमुत्तरम् ॥ ३३ ॥

 नरकेति ॥ स महीपतिश्चेदिभूपतिः येन विधिना येन प्रकारेण संधिना विग्रहेण वा नरकच्छिदं नरकस्याप्यन्तकम् । किमन्येषामशक्तानामिति भावः । ईक्षितुमिच्छति तस्य विधेः सदृशमुत्तरं प्रतिक्रिया स्नेहो विरोधो वा विधातुं न हापयिष्यते न यापयिष्यते । अविलम्बेन विधास्यत इत्यर्थः। जहातेण्यन्तात्कर्मणि लट् । विधानक्रियया अनभिहितेऽपि प्रधानभूतहापनक्रिययाभिहितत्वादुत्तरमिति न कर्मणि द्वितीया । द्रुतं शीघ्रमेतु आगच्छतु । आगमने स्वयमेव हीयत इति भावः ॥३३॥

 ननु 'अभिधाय' (१६॥२) इत्यादौ मयापि सान्त्वमेव विवक्षितं न विग्रहस्तत्किमुभयाभ्यनुज्ञयेत्याशङ्क्याह-

 समनद्ध किमङ्ग भूपतिर्यदि संधित्सुरसौ सहामुना ।
 हरिराक्रमणेन संनतिं किल बिभ्रीत भियेत्यसंभवः ॥ ३४ ॥

 समनद्धति ॥ अङ्गेत्यामन्त्रणे । असौ भूपतिश्चैद्योऽमुना हरिणा सह संधित्सुर्यदि संधातुमिच्छुश्चेत् । दधातेः सन्नन्तादुप्रत्ययः । किं समनद्ध किमर्थं संनद्धवान् । ततो नायं संधित्सुरिति भावः । नातेः स्वरितेत्त्वात्कर्तरि लुङि तङ् 'झलो झलि' (८।२।२६) इति सकारलोपः । कृष्णभीषणार्थं संनाह इत्यत आह-हरिः सिंहः कृष्णश्च किलाक्रमणेनाभिभवेन या भीस्तया संनतिं नम्रता विधीत बिभृयादित्यसंभवः। संभवो नास्ति खल्वित्यर्थः ॥ ३४ ॥

 अथाक्रमणेऽनिष्टमाचष्टे-

 महतस्तरसा विलङ्घयन्निजदोषेण कुधीर्विनश्यति ।
 कुरुते न खलु स्वयेच्छया शलभानिन्धनमिद्धदीधितिः ॥ ३५ ॥

 महत इति ॥ कुधीरासन्नविनाशत्वाद्विपरीतबुद्धिमान्महतो महानुभावांस्तरसा बलेन । 'तरसी बलरंहसी' इति विश्वः । विलङ्घयन्नाक्रामन्निजदोषेण स्वापराधेनैवोल्लङ्घनरूपेण विनश्यति । तथा हि-इद्धदीधितिर्दीप्तार्चिरग्निः स्वया निजयेच्छया शलभान्पतङ्गान् । 'समौ पतङ्गशलभौ' इत्यमरः । इन्धनं दाह्यं न कुरुते खलु, किंतु त एव निजौद्धत्यान्निपत्य दह्यन्त इत्यर्थः । इतः परं न क्षम्यत इति भावः । दृष्टान्तालंकारः ॥ ३५ ॥

 नन्वसहने शार्ङिणः शतापराधसहनप्रतिज्ञाभङ्गः स्यादित्यत्राह-

 यदपूरि पुरा महीपतिर्न मुखेन स्वयमागसां शतम् ।
 अथ संप्रति पर्यपूपुरत्तदसौ दूतमुखेन शार्ङ्गिणः ॥ ३६॥

पाठा०-१०षां मशकानां'.  यदिति ॥ पुरा पूर्व महीपतिश्चैद्यो मुखेन स्ववाचा यदागसामपराधानां शतम् । 'आगोऽपराधो मन्तुश्च' इत्यमरः । शार्ङ्गिणः कृष्णस्य स्वयं नापूरि । नापूरयदित्यर्थः । पूरयतेः कर्तरि लुङ् 'दीपजन-' (३।१।६१) इत्यादिना विकल्पाच्चिण्प्रत्यये चिणो लुक् । अथ स्वप्रलापानन्तरं संप्रतीदानीमसौ चैद्यः दूतमुखेन दूतवाचा तत् आगसां शतं पर्यपूपुरत् परिपूरयामास । दूतमुखत्वाद्राज्ञां तेन कृष्णक्रोधावसरदानेन महदुपकृतमायुष्मतेति भावः । पूरयतेर्लु्ङि ‘णो चङ्युपधाया ह्रस्वः' । (७४।१) अभ्यासदीर्घः ॥ ३६॥

 निगमयन्फलितमाह-

 यदनर्गलगोपुराननस्त्वमितो वक्ष्यसि किंचिदप्रियम् ।
 विवरिष्यति तच्चिरस्य नः समयोद्वीक्षणरक्षितां क्रुधम् ॥ ३७॥

 यदिति ॥ अनर्गलमविष्कम्भम् । विकृतमिति यावत् । 'तद्विष्कम्भोऽर्गलं न ना' इत्यमरः । यद्गोपुरं पुरद्वारं तदिवाननं यस्य सः । वाच्यावाच्यविवेकशून्य इत्यर्थः । त्वमितः इतःपरं यत्किंचिदप्रियं वक्ष्यसि तदप्रियं नोस्माकं चिरस्य चिराप्रभृति । 'चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः' इत्यव्ययेष्वमरः । समयोद्वीक्षणेन संवित्प्रतीक्षणेन रक्षितां, निरुद्धामित्यर्थः । 'समयाः शपथाचार. कालसिद्धान्तसंविदः' इत्यमरः । क्रुधं क्रोधं विवरिष्यति । 'वृतो वा' (७।२। ३८) इति दीर्घविकल्पः । इतःपरं त्वमपि दण्ड्य एवेति भावः ॥ ३७ ॥

 निशमय्य तदुर्जितं शिनेर्वचनं नप्तुरनाप्तुरेनसाम् ।
 पुनरुज्झितसाध्वसं द्विषामभिधत्ते स वचो वचोहरः ॥ ३८ ॥

 निशमय्येति ॥ एनसामनाप्तुरसंस्प्रष्टुः । सत्यवादिन इति भावः । आप्नोतेस्तृच् । शिनेः शिनिनाम्नः कस्यचिद्यादवस्य नप्तुः पौत्रस्य । सात्यकेरिति भावः । तदूर्जितमर्थयुक्तं वचनं निशमय्य श्रुत्वा । 'ल्यपि लघुपूर्वात्' (६।४।५६) इति णेरयादेशः । पुनर्भूयोऽप्युज्झितसाध्वसं त्यक्तभयं यथा तथा द्विषां वचो हरतीति वचोहरो दूतः । 'हरतेरनुद्यमनेऽच्' । (३।२।९) वचोऽभिधत्ते स्म अभिहितवान् ॥ ३८॥

 विविनक्ति न बुद्धिदुर्विधः स्वयमेव स्वहितं पृथग्जनः ।
 यदुदीरितमप्यदः परैर्न विजानाति तदद्भुतं महत् ॥ ३९ ॥

 विविनक्तीति ॥ बुद्ध्या दुर्विधो दरिद्रः । बुद्धिशून्य इत्यर्थः । निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः' इत्यमरः । पृथग्जनः पामरजनः स्वयमेव परोपदेशं विनैवात्महितं न विविनक्ति तद्युक्तमेवेति भावः । किंतु परैरुदीरितमुपदिष्टमप्यदो हितं न विजानातीति यत्तन्महदद्भुतम् । यतः सूक्तं न गृह्णातीति भावः॥ ३९॥ पाठा०-१ "रक्षिताः क्रुधः'.  अथ किमद्भुतं मूर्खेष्वित्याशयेनाह-

 विदुरेष्यदपायमात्मना परतः श्रद्दधतेऽथवा बुधाः ।
 न परोपहितं न च स्वतः प्रमिमीतेऽनुभवादृतेऽल्पधीः ॥ ४० ॥

 विदुरिति ॥ बुधा बुद्धिमन्तः एष्यन्तमागामिनं अपायमनर्थं आत्मना स्वयमेव । प्रकृत्यादिभ्य उपसंख्यानात्तृतीया । विदुर्विदन्ति । 'विदो लटो वा' (३।४।८३) इति विकल्पाज्जुसादेशः । अथवा परतोऽन्यस्मादाप्ताकच्छ्रद्दधते विश्वसन्ति । आप्तोक्तं गृह्णन्तीत्यर्थः । 'श्रदन्तरोरुपसंख्यानम्' (वा०) इत्युपसर्गसंज्ञोपसंख्यानाद्धातोः प्राक्प्रयोगः । अल्पधीर्मूढस्तु अनुभवादृते स्वानुभवं विना । 'अन्यारादितरर्ते-' (२।३।२९) इति पञ्चमी । न प्रमिमीते न जानाति । स्वतः प्रमाता उत्तमः, परतः प्रमाता मध्यमः, अधमस्तु स्वानुभवैकप्रमाण इत्यर्थः । अधमस्त्वमिति भावः । अत एवाप्रस्तुतसामान्यात्प्रस्तुतविशेषप्रतीतेरप्रस्तुतप्रशंसाभेदः ॥ ४० ॥

 अतः प्रस्तुते किमायातं तत्राह-

 कुशलं खलु तुभ्यमेव तद्वचनं कृष्ण यदभ्यधामहम् ।
 उपदेशपराः परेष्वपि स्वविनाशाभिमुखेषु साधवः ॥ ४१ ॥

 कुशलमिति ॥ हे कृष्ण, अहं यद्वचनमभ्यधाम् 'अभिधाय-' (१६।२) इत्यादिना राज्ञां संधिर्गुणाय विग्रहस्त्वनायेत्येवमवोचमित्यर्थः । तद्वचनं तुभ्यमेव कुशलं हितम् । 'चतुर्थी चाशिष्यायुष्यमद्रभद्कुशलसुखार्थहितैः' (२।३।७३) इति चतुर्थी । नन्वहितेषु हितोपदेशात्प्रत्ययः कथमित्याशङ्क्यार्थान्तरन्यासेन परिहरति- साधवः सुजनाः स्वविनाशाभिमुखेषु । प्रबलविरोधादात्मविनाशहेतुभूतकर्मप्रवृत्तेष्वित्यर्थः । परेषु शत्रुष्वप्युपदेशपरा उपदिशन्त्येव कृपालुतयेति भावः ॥ ४१ ॥

 तथाप्यर्थद्वये त्वद्वाक्ये किं ग्राह्यं तत्राह-

 उभयं युगपन्मयोदितं त्वरया सान्त्वमथेतरच्च ते ।
 प्रविभज्य पृथङ्मनीषया स्वगुणं यत्किल तत्करिष्यसि ॥ ४२ ॥

 उभयमिति॥ मया सान्त्वं सामादि । अथेति पक्षान्तरे । इतरत् असान्त्वम् । विग्रहश्चेत्यर्थः । युगपदुदितं, श्लेषाश्रयणादेकशब्देनाभिहितमित्यर्थः । त्वं तु मनीषया बुद्ध्या पृथग्भेदेन प्रविभज्य विविच्य यत्स्वगुणं तत्र द्वयेऽपि त्वरया यच्छुभोदकं तत्करिष्यसि किल खलु । हंसः क्षीरमिवाम्भसीति भावः ॥ ४२ ॥

 अथवा सुजनः स्वभावात्कृतोऽपि हितोपदेशो मूर्खेषु निष्फल इत्याह-

 अथवाभिनिविष्टबुद्धिषु व्रजति व्यर्थकतां सुभाषितम् ।
 रविरागिषु शीतरोचिषः करजालं कमलाकरेष्विव ॥ ४३ ॥

 अथवेति ॥ अथवा अभिनिविष्टबुद्धिषु दुराग्रहग्रस्तचित्तेषु विषये सुभाषितं हितोपदेशवचनं रविरागिषु तपनानुरक्तेषु कमलाकरेषु शीतरोचिषः शीतभानोः करजालमिव व्यर्थकतां निरर्थकतां व्रजति । तस्मादलमेव त्वयि हितोपदेशचिन्तयेति भावः॥४३॥ पाठा०-१ 'उभयं त्वरया राजकार्यत्वाद्वेगेनाविलम्बार्थमित्यर्थः । ते तुभ्यं युग  नन्वभिनिविष्टोऽपि सुजनैर्बलादपि हिते प्रवर्तयितव्य इत्याशङ्क्य न शक्यत इत्याह-

 अनपेक्ष्य गुणागुणौ जनः स्वरुचिं निश्चयतोऽनुधावति ।
 अपहाय महीशमार्चिचत्सदसि त्वां ननु भीमपूर्वजः ॥ ४४ ॥

 अनपेक्ष्येति ॥ जनस्त्वादृशः पृथग्जनः । गुणागुणौ गुणदोषौ । विप्रतिषिद्धं चानधिकरणवाचि' (२।४।१३) इति विभाषया न द्वन्द्वैकवद्भावः । अनपेक्ष्याविमृश्य निश्चयतः स्वनिश्चयादेव स्वरुचिं स्वेच्छामनुधावति । न तु स्वहितमनुसरतीत्यर्थः । तत्र पार्थ एव प्रमाणमित्याह-भीमपूर्वजः भीमाग्रजो युधिष्ठिरः । मूर्खाग्रणीरिति भावः । महीशं चेदिपमपहाय सदसि त्वामार्चिचदर्चितवान्खलु । अर्चयतेर्णॊ चङि 'अजादेर्द्वितीयस्य' (६।१।२) 'न न्द्राः संयो- गादयः' (६।१।३) इति रेफवर्जितस्यैकाचो द्विर्भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ४४ ॥

 पार्थानादरादेव राज्ञो लाघवं विज्ञेयमित्याशङ्क्य परिहरति-

 त्वयि भक्तिमता न सत्कृतः कुरुराजा गुरुरेव चेदिपः ।
 प्रियमांसमृगाधिपोज्झितः किमवद्यः करिकुम्भजो मणिः ॥४५॥

 त्वयीति ॥ हे कृष्ण, त्वयि भक्तिमता प्रेमवता । कुरूणां राट् । 'सत्सूद्विष-'(३।२।६१) इत्यादिना क्विप् । तेन कुरुराजा कुरुराजेन पार्थेन न सत्कृतो नार्चितश्चेदिपो गुरुरेव पूज्य एव । तथा हि-प्रियं मांसं यस्य तेन मांसगृध्नुना मृगाधिपेन सिंहेनोज्झितस्त्यक्तः करिकुम्भजो मणिर्मुक्तामणिरवद्यो गर्ह्यः किम् । अनवद्य एवेत्यर्थः । मूर्खानादरान्न महतां किंचिल्लाघवमित्यर्थः । 'कुपूयकुत्सितावद्यखेटगार्ह्यणकाः समाः' इत्यमरः । 'अवद्यपण्य-' (३।१।१०१) इत्यादिना निपातः । दृष्टान्तालंकारः ॥ ४५ ॥

 विदुषां तु पूज्य एव चैद्य इत्याशयेनाह-

 क्रियते धवलः खलूच्चकैर्धवलैरेव सितेतरैरधः।
 शिरसौघमधत्त शंकरः सुरसिन्धोर्मधुजित्तमङ्घ्रिणा ॥ ४६॥

 क्रियत इति ॥ धवलो निर्मलो धवलैर्निर्मलैरेवोच्चकैरुन्नतः क्रियते खलु । सितेतरैमलिनैरधः क्रियते। तथा हि-शंकरः शिवः सुरसिन्धोरोघं मन्दाकिनीपूरं शिरसा अधत्त । उभयोर्नैर्मल्यादिति भावः । मधुजिन्मधुशत्रुर्विष्णुस्तु तमोगमङ्घ्रिणा अधत्त । स्वयं मलिनत्वादिति भावः । अतो विशेषविदुषां राजा पूज्य एवेति भावः । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ ४६॥

 किंच यथा पार्थानादराद्राज्ञो न किंचिल्लाघवं तथा तदादराच्च न ते किंचिद्गौरवमित्याह-

 अबुधैः कृतमानसंविदस्तव पार्थैः कुत एव योग्यता ।
 सहसि प्लवगैरुपासितं न हि गुञ्जाफलमेति सोष्मताम् ॥ ४७ ॥

 अबुधैरिति॥ अबुधैरज्ञैः पार्थैः कृते मानसंविदौ पूजातोषणे यस्य तस्य । 'संवित्स्त्रियां प्रतिज्ञायां संकेताचारनामसु । संभाषणे तोषणे च' इति विश्वः । तव

पाठा०-१ 'गुणागुणं'. २ धुशत्रुः'. योग्यता पात्रता कुत एव । न कुतोऽपीत्यर्थः । तथा हि-सहसि मार्गशीर्षे । 'मार्गशीर्षे सहा मार्गः' इत्यमरः । प्लवगैः कपिभिः उपासितं सेवितं गु्ञ्जाफलं काकचिञ्चीबीजानि । जातावेकवचनम् । 'काकचिञ्चीगुञ्जे तु कृष्णला' इत्यमरः । सोष्मतामुष्णतां नैति हि । न हि पुंसां मूढपरिग्रहापरिग्रहौ गौरवागौरवयोः प्रयोजकावित्यर्थः । अत्र कृष्णगुञ्जाफलयोर्विशेषयोरेव वाक्यभेदेन प्रतिबिम्बीकरणादृष्टान्तालंकारः ॥ ४७ ॥

 'यदपूरि पुरा' (१६॥३६) इत्यादिना यत्सात्यकिना शतापराधक्षमत्वमुक्तं तत्रोत्तरमाह-

 अपराधशतक्षमं नृपः क्षमयात्येति भवन्तमेकया ।
 हृतवत्यपि भीष्मकात्मजां त्वयि चक्षाम समर्थ एव यत् ॥४८॥

 अपराधेति ॥ नृपश्चैद्यः अपराधशतक्षमं राज्ञः शतापराधसहिष्णुं भवन्तं एकया क्षमया । एकापराधसहनेनेत्यर्थः । अत्येति अतिक्रामति । अपराधकोटीनामपि तस्यांशेनापि साम्यासंभवादिति भावः । तामेव क्षमां दर्शयति-त्वयि भीष्मकात्मजां रुक्मिणीं हृतवत्यपि समर्थः प्रतीकारक्षम एव सन्नपि चक्षाम क्षाम्यति स्मेति यत् तया क्षमयेत्यर्थः ॥४८॥

 'राक्षसं क्षत्रियस्यैकं' (मनु० ३।२४) इति स्मरणाद्रासोद्वाहस्य क्षात्रधर्मत्वाद्रुक्मिणीहरणे कोऽस्माकमपराधः, राज्ञो वा कात्र क्षमेत्याकाङ्क्षायामाह-

 गुरुभिः प्रतिपादितां वधूमपहृत्य स्वजनस्य भूपतेः ।
 जनकोऽसि जनार्दन स्फुटं हतधर्मार्थतया मनोभुवः ॥ ४९ ॥

 गुरुभिरिति ॥ हे जनार्दन, गुरुभिः पित्रादिभिः प्रतिपादितां राज्ञे दत्ताम् अत एव स्वजनस्य बन्धोभूपतेर्महाराजस्य वधूं जायामपहृत्य हतौ धर्मार्थों येन तत्तथा तया हतधर्मार्थतया स्फुटं मनोभुवः कामस्य जनकोऽसि । धर्मार्थबाधेन काममात्रनिष्ठोऽसीत्यर्थः । नायं राक्षसो विवाहः। 'हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदतीं गृहात् । प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते ॥' (मनु. ३।३३) इति कन्याहरणस्य राक्षसत्वस्मरणात् । अयं तु परदारापहरणो बन्धुद्रोहो राजद्रोहश्चेत्यहो पापिष्ठस्य कामान्धस्य ते परमसाहसिकत्वमिति भावः ॥ ४९ ॥

 सत्यमीदृगेवाहं ततः किमित्याशङ्क्य किमन्यद्वधादित्याह-

 अनिरूपितरूपसंपदस्तमसो वान्यभृतच्छदच्छवेः ।
 तव सर्वगतस्य संप्रति क्षितिपः क्षिप्तुराभीशुमानिव ॥ ५० ॥

 अनिरूपितेति ॥ अनिरूपितरूपसंपदः शैलूषवद्बहुरूपधारित्वादज्ञातरूपविशेषस्यावाङ्मनसगोचरस्वरूपवैभवस्येति च गम्यते । अन्यत्र आरोपितं कृष्णरूपं तेजोविशेषाभावस्तम इति च मतद्वयेऽपि प्रमाणानवधृतरूपसंपद इत्यर्थः । अन्यभृतच्छदच्छवेः कोकिलपक्षकान्तेस्तव तमसो वा तिमिरस्येव । वा स्याद्विकल्पोपमयोः' इति विश्वः । सर्वगतस्य क्षितिपश्चेदिपोऽभीशुमानंशुमानिव संप्रतीदानीमेव क्षिप्नुः क्षेप्ता । हन्तेत्यर्थः । शास्तासौ दुरात्मनामिति भावः । 'त्रसि गृधिषिक्षिपेः नुः' (३।२।१४०) इति क्नु प्रत्ययः । 'न लोका-' (२।३।६९) इत्यादिना कृद्योगे षष्ठ्या निषेधे तवेति शेषे षष्ठी । पर्यवसानात्तु कर्मत्वलाभः । 'अभीषुः प्रग्रहे रश्मौ' इत्यमरः । विश्वप्रकाशादयः सर्वेऽप्याभिधानिका मूर्धन्यान्तेषु पेठुः । लोकवेदयोस्तु तालव्यान्तो दृश्यते । 'अभीशूनां महिमानम्' इत्यादि ॥ ५० ॥

 तर्ह्यस्मदर्थं त्वया राजा सान्त्वयितव्य इत्याशङ्क्य नेत्याह-

 क्षुभितस्य महीभृतस्त्वयि प्रशमोपन्यसनं वृथा मम ।
 प्रलयोल्लसितस्य वारिधेः परिवाहो जगतः करोति किम् ॥५१॥

 क्षुभितस्येति ॥ त्वयि विषये क्षुभितस्यातिक्रुद्धस्य महीभृतो राज्ञो मम प्रशमोपन्यसनं शान्युपदेशो वृथा निष्फलः । तथा हि-प्रलयोल्लसितस्य कल्पान्तक्षुभितस्य वारिधेः जगतः परिवाहो जगत्कृतो जलनिर्गममार्गः किं करोति । न किंचिदित्यर्थः । महतां क्षोभ उन्मूल्य विपक्षं निवर्तत इत्यर्थः । दृष्टान्तालंकारः ॥ ५१ ॥

 तर्ह्यसंधित्सुना राज्ञा किमर्थं भवानिह प्रहितस्तत्राह-

 प्रहितः प्रधनाय माधवानहमाकारयितुं महीभृता ।
 न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव ॥ ५२ ॥

 प्रहित इति ॥ प्रधनाय युद्धाय माधवान् यादवानाकारयितुमाह्वातुम् । 'युद्धमायोधनं जन्यं प्रधनं प्रविदारणम्' । 'हूतिराकारणाह्वानम्' इति चामरः । महीभृता राज्ञाहं प्रहितः प्रेषितः । ननु रन्ध्रे हन्तव्याः शत्रवो नाह्वातव्या इत्यत्राह-नेति । महौजसो महावीराः परेष्वरिषु मलिम्लुचाः पाटच्चरा इव । 'पाटच्चरमलिम्लुचाः' इत्यमरः । छलात्कपटात् नापकुर्वन्ति । तस्मादाह्वानं कर्त- व्यमिति वाक्यार्थहेतुकं काव्यलिङ्गमुपमालंकारसंकीर्णम् ॥ ५२ ॥

 तदेवागमनप्रयोजनमुक्त्वा हितमुपदिशति-

 तदयं समुपैति भूपतिः पयसां पूर इवानिवारितः ।
 अविलम्बितमेधि वेतसस्तरुवन्माधव मा म भज्यथाः ॥५३॥

 तदयमिति ॥ तत्तस्माद्युद्धार्थित्वादयं भूपतिश्चैद्यः पयसां पूरः प्रवाह इवानिवारितः समुपैति । हे माधव, अविलम्बितं शीघ्रं वेतसः एधि भव । तद्वन्नम्रमात्मानं रक्षेत्यर्थः । अस्तेर्लोट् सिपि हेर्धिः 'ध्वसोरेद्धावभ्यासलोपश्च' (६।४।११९) इति एत्वम् । 'धि* च' (८।२।२५) इति सकारलोपः। माधव, त्वं तरुवन्म- हावृक्षवत् मा स्म भज्यथा मा भज्यस्व । अतः आत्मानं न विनाशयेत्यर्थः । भजेः कर्मण्याशिषि लिङः (अर्थे ) 'मोत्तरे लङ् च' (३।३।१७६) इति लङ् 'न माङ्योगे' (६७४) इत्यडभावः । उपमालंकारः ॥ ५३ ॥

 ननु राज्ञि शिशुपाले यूनामफलमित्याशङ्क्याह-

 परिपाति स केवलं शिशूनिति तन्नामनि मा स विश्वसीः ।

[* उपन्यस्तसूत्रेण सकारस्यैवालोऽन्त्यपरिभाषया एत्वे 'श्नसोरल्लोपः' (६।४।१११)

इत्यकारलापे रूपसिद्धौ ‘घि च' (८।२।२५) इत्यस्योपन्यासो भ्रममूलकः ।।

 तरुणानपि रक्षति क्षमी स शरण्यः शरणागतान्द्विषः ॥ ५४॥

 परिपातीति ॥ स शिशुपालः । केवलमित्यवधारणे क्रियाविशेषणम् । शिशून्परिपातीति शिशूनेव पालयतीति तन्नामनि तस्य शिशुपालसंज्ञायां मा स्म विश्वसीः । मा विश्वासं कुर्वित्यर्थः । श्वसेः 'स्मोत्तरे लङ् च' (३।३।१७६) इति लङि 'रुदश्च पञ्चभ्यः' (७।३।९८) इतीडागमः । चकाराल्लुङि वा तत्र 'अस्ति सिचोऽपृक्ते' (७।३।९६) इति ईडागमः 'हयन्तक्षणश्वसजागृणिश्व्येदिताम्' (७२।५) इति वृद्धिप्रतिषेधः । 'न माङ्योगे' (६४७४) इत्यडभावस्तूभयत्र । किंतु क्षमी क्षमावान् । व्रीह्यादित्वादिनिः । शरणे रक्षणे साधुः शरण्यः रक्षणक्षमः । 'तत्र साधुः' (१८९८) इति यत्प्रत्ययः । स शिशुपालः शरणं रक्षितारमागतान्प्राप्तान् । 'शरणं गृहरक्षित्रोः शरणं रक्षणे गृहे' इत्युभयत्रापि विश्वः। द्विषः शत्रून् तरुणान् यूनोऽपि रक्षति । अतो निःशङ्कं शरणमागच्छेत्यर्थः ॥ ५४ ॥

 ननु वयं द्रोग्धारः सोऽप्यतिक्षुभितः किल कथं नः पालयेदित्याशङ्क्याह-

 न विदध्युरशङ्कमप्रियं महतः स्वार्थपराः परे कथम् ।
 भजते कुपितोऽप्युदारधीरनुनीतिं नतिमात्रकेण सः॥५५॥

 नेति ॥ स्वार्थपराः स्वार्थनिष्ठाः परे शत्रवो महतोऽधिकस्य कथमप्रियमपकारम् अशङ्कं यथा तथा न विदध्युः । कुर्युरेव कार्यवशादित्यर्थः । किंतु उदारधीमहामतिः । 'उदारो दातृमहतोः' इत्यमरः । स राजा कुपितोऽपि नतिमात्रकेण प्रणतिमात्रकेणानुनीतिमनुनयं भजते । अनुग्रहीष्यतीत्यर्थः । 'प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम्' इति भावः ॥ ५५ ॥

 किं बहुना तवायं हितोपदेशसंग्रह इत्याशङ्कयाह-

 हितमप्रियमिच्छसि श्रुतं यदि संधत्स्व पुरा न नश्यसि ।
 अनृतैरथ तुष्यसि प्रियैर्जयताजीव भवाऽवनीश्वरः ॥५६॥

 हितमिति ॥ श्रुतं अप्रियं हितमिच्छसि यदि । अप्रियमपि हितमाप्तादाकर्णितं ग्रहीतुमिच्छसि चेदित्यर्थः । संधत्स्व राज्ञा संधेहि । पुरा न नश्यसि । अन्यथा विनयसीत्यर्थः । यावत्पुरानिपातयोर्लट्' (३।३।४) इति भविष्यदर्थे लट् । अथेति पक्षान्तरे । अनृतैरसत्यैः प्रियैस्तुष्यसि यदि जयताज्जयतु । 'तुह्योस्तात आशिष्यन्यतरस्याम्' (७।१॥३५) इति तोस्तातङादेशः । जीव अवनीश्वरः सार्वभौमो भव। ततः किमेभिः प्रियालापैः । अप्रियमपि हितमेव गृहाणेति भावः॥५६॥

 ननु कंसाद्यनेकविजयी कृष्णः कथं विजेष्यते राज्ञेत्याशङ्क्याह-

 प्रतिपक्षजिदप्यसंशयं युधि चैद्येन विजेष्यते भवान् ।
 असते हि तमोपहं मुहुर्ननु राह्वाह्वमहर्पतिं तमः ॥ ५७ ॥

 प्रतिपक्षेति ॥ प्रतिपक्षजिदप्यनेकारिहन्तापि भवानसंशयं संशयो नास्ति । अर्थाभावेऽव्ययीभावः । युधि सङ्ग्रामे चैद्येन शिशुपालेन विजेष्यते । जयतेः कर्मणि लट् । शेषे प्रथमः । तमांस्यपहन्तीति तमोपहं सर्वतमोपहारिणम् । 'अपे

पाठा०-१ प्रतिपक्षभित्'. २ 'युधि चैद्येन भवान् विजेष्यते'; 'शिशुपालेन भवान् विजेष्यते'. क्लेशतमसोः' (३।२।५०) इति हन्तेर्डप्रत्ययः । अह्रां पतिमहर्पतिं सूर्यम् । 'अहरादीनां पत्यादिषूपसंख्यानम्' (वा.) इति वैकल्पिको रेफादेशः । राह्वाह्वां राह्वाख्यं तमः । 'आख्यह्वे अभिधानं च' इत्यमरः । मुहुर्ग्रसते नु गिलति हि । अत्र हरिसूर्ययो राहुचैद्ययोश्च वाक्यभेदेन प्रतिबिम्बकरणादृष्टान्तालंकारः ॥ ५७॥

 किं च न भवानेक एव विजेष्यते, किंतु सर्वैर्यादवैः सहेत्याह-

 अचिराजितमीनकेतनो विलसन्वृष्णिगणैर्नमस्कृतः।
 क्षितिपः क्षयितोद्धतान्धको हरलीलां स विडम्बयिष्यति ॥५८॥

 अचिरादिति ॥ स क्षितिपः राजा अचिरादविलम्बितमेव जितो मीनकेतनः कार्ष्णिः प्रद्युम्नः, स्मरश्च येन सः । वृष्णयो यादवभेदास्तेषां गणैरोघैर्नमस्कृतो भीत्या प्रणतः सन् । अत एव विलसन् दीप्यमानः । अन्यत्र वृष्णीति पदच्छेदः । वृष्णि उक्षणि विलसन् । वृषारूढ इत्यर्थः । गणैः प्रमथैर्नमस्कृतः । 'गणाः प्रमथसंख्यौघाः' इति, 'वृषा महेन्द्रे वृषभे' इति च वैजयन्ती । क्षयिता नाशिता उद्धता दृप्ता अन्धका यादवभेदाः । अन्यत्रान्धकोऽसुरो येन सः हरलीलां शंभुविभ्रमं विडम्बयिष्यत्यनुकरिष्यति । अत्र हरलीलामिति' सादृश्याक्षेपान्निदर्शना श्लेषसंकीर्णा ॥ ५८ ॥  ननु देवासुरैरप्यजय्या यादवाः कथं राज्ञा जेष्यन्ते तत्राह-

 निहतोन्मददुष्टकुञ्जराद्दधतो भूरि यशः क्रमार्जितम् ।
 न बिभेति रणे हरेरपि क्षितिपः का गणनास्य वृष्णिषु ॥५९॥

 निहतेति ॥ क्षितिपश्चेदिपो निहत उन्मदो दुष्टकुञ्जरः कुवलयापीडाख्यो येन तस्मात् , अन्यत्र हतानेकमत्तमातङ्गात् । अत एव क्रमार्जितं भूरि यशो दधतः । हरेः कृष्णात् , सिंहाच्चेति ध्वनिः । रणे न बिभेति । अस्यैतादृशचैद्यस्य वृष्णिषु यादवेषु मेषेषु च । 'वृष्णिस्तु यादवे मेषे' इति विश्वः । का गणना। कृष्णमगणयतो यादवाः के इत्यर्थः । अत्र कुञ्जरघातिनः सिंहस्य का कथा मेषेष्वित्यर्थान्तरप्रतीतिध्वनिरेव न श्लेषः । हरेर्वृष्णिविशेषस्यापि श्लिष्टत्वाअकृ- ताप्रकृतश्लेषे तदङ्गीकारादित्युक्तं प्राक् ॥ ५९ ॥

 हरेरपि न बिभेतीत्युक्तं तदेव संभावयितुं तस्य पराक्रमानासर्गसमाप्तेर्वर्णयति-

 न तदद्भुतमस्य यन्मुखं युधि पश्यन्ति भिया न शत्रवः ।
 द्रवतां ननु पृष्ठमीक्षते वदनं सोऽपि न जातु विद्विषाम् ॥६०॥

 नेति ॥ युधि शत्रवो भियाऽस्य मुखं न पश्यन्तीति यत्तन्नाद्भुतम्, कुतः सोऽपि न ईक्षते ननु खलु । द्रवतां भयात्पलायमानानां विद्विषां पृष्ठं कायपार्श्वाङ्गमीक्ष्यते । जातु कदाचित् वदनं न ईक्षते ननु खलु । द्वयोरन्यतरमुखेष्वन्योन्यस्य मुखविलोकनासंभवात्स्वयं विमुखानां विद्विषामभिमुखस्याप्यस्य मुखादर्शनादद्भुतमिस्यर्थः । अत एव वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ ६० ॥

 प्रतनूल्लसिताचिरद्युतः शरदं प्राप्य विखण्डितायुधाः ।
 दधतेऽरिभिरस्य तुल्यतां यदि नासारभृतः पयोभृतः ॥ ६१ ॥

 प्रतन्विति ॥ शरदं शरदृतुं प्राप्य विखण्डितायुधाः खण्डितेन्द्रचापाः अन्यत्र शरान् ददातीति शरदस्तं शरदं शरवर्षिणं प्राप्य खण्डितशस्त्राः प्रतनूल्लसिताचिरद्युतोऽल्पस्फुरितविद्युतः । अन्यत्र प्रतनूल्लसिताः स्वल्पोल्लसितास्त एवाचिरद्युतोऽस्थिरद्युतः । पयोभृतो मेघा आसारभृतः वृष्टिमन्तः न यदि । शरदि वृष्टिशून्यत्वादिति भावः । सुहृद्बलशून्या इत्यर्थः । 'आसारः स्यात्प्रसरणे वेगवृष्टौ सुहृद्बले' इति वैजयन्ती । अस्यारिभिस्तुल्यतां दधते । अत्र पयोभृतामुपमानानामुपमेयभावोक्तेः प्रतीपालंकारः । तेषामासारसंबन्धेऽपि संभावनया तदसंबन्धोक्तेरतिशयोक्तिभेदश्चेति संकरः ॥ ६१ ॥

 विशेषकमाह-

 मलिनं रणरेणुभिर्मुहुर्द्विषतां क्षालितमङ्गनाश्रुभिः ।
 नृपमौलिमरीचिर्वर्णकैरथ यस्याङ्घ्रियुगं विलिप्यते ॥ ६२ ॥

 मलिनमित्यादि ॥ मुहुरसकृत् । रणरेणुभिर्मलिनमत एव द्विषतामङ्गनाश्रुभिः क्षालितं । नाहत्वारीन् रणान्निवर्तत इति भावः । यस्याभियुगं चरणयुगलम् । अथ रेणुक्षालनानन्तरं नृपाणां प्रणतानां राज्ञां मौलिमरीचयो मुकुटमणिरश्मयस्तैरेव वर्णकैर्विलेपनैश्चन्दनैः । 'चन्दने चापि वर्णकम्' इति विश्वः । विलिप्यते विशेष्यते । अत्राङ्घ्रियुगस्य विशेषणमहिम्ना स्नातानुलिप्तपुरुषसाम्यप्रतीतेः समासोक्तिः ॥ २ ॥

 समराय निकामकर्कशं क्षणमाकृष्टमुपैति यस्य च ।
 धनुषा सममाशु विद्विषां कुलमाशङ्कितभङ्गमानतिम् ॥ ६३ ॥

 समरायेति ॥ किंचेति चार्थः । निकामकर्कशमतिकठिनम् । दुर्धर्षमित्यर्थः । समराय संप्रहारायाकृष्टमाहूतमावर्जितं च क्षणम् आशङ्कितभङ्गं मनसोप्रेक्षितस्वपराजयम् अन्यत्रातिकर्षणात्संभावितदलनं यस्य विद्विषां कुलमाशु धनुषा सममानतिं नम्रतामुपैति । अत्र धनुर्नमनकार्यस्य द्विषन्नमनस्य तत्सहभावोक्तेः कार्यकारणयोः पौर्वापर्यविपर्ययनिमित्तरूपातिशयोक्तिमूला सहोक्तिरलंकारः ॥६३॥

 तुहिनांशुममुं सुहृज्जनाः कलयन्त्युष्णकरं विरोधिनः ।
 कृतिभिः कृतदृष्टिविभ्रमाः स्रजमेके भुजगं यथापरे ॥ ६४ ॥

         (विशेषकम् ।)

 तुहिनेति ॥ अमुमेवंविधं चैद्यं सुहृज्जनाः तुहिनांशु कलयन्ति आह्लादकत्वाच्चन्द्रं मन्यन्ते । विरोधिनः उष्णकरत्वात् तपनं कलयन्ति । एकस्यानेकप्रतीतिमुपमिमीते । कृतिभिरिति । कृतिभिः कुशलैरैन्द्रजालिकादिभिः कृतदृष्टिविभ्रमा जनितदृष्टिविपर्यया एके नराः यथा स्रजं मालां कलयन्ति, अपरे तु भुजगं कलयन्ति । एकमेव रज्वादिकमिति शेषः । उपमालंकारः, स चैकस्य निमित्तवशाद्गृहीतभेदेनानेकधोल्लिखनात्मकेनोल्लेखेन संकीर्यते ॥ ६४ ॥ पाठा०-१ पयोमुचः'. २ वर्णकैः खलु'.

 दधतोऽसुलभक्षयागमास्तनुमेकान्तरताममानुषीम् ।
 भुवि संप्रति न प्रतिष्ठिताः सदृशा यस्य सुरैररातयः॥६५॥

 दधत इति ॥ असुलभक्षयागमाः दुर्लभगृहप्राप्तयः, अन्यत्रामरत्वाद्दुर्लभनाशयोगाः । 'निलयापचयौ क्षयौ' इत्यमरः । एकान्तरतां भयाद्विजनस्थाने निरताममानुषीं कार्यमालिन्यादिना पिशाचादिवत्प्रतीयमानाम्, अन्यत्रैकान्तरतां नियतसुरतां नित्यभोगाममानुषीं दिव्यां तनुं दधतो दधानाः भुवि संप्रति क्वचन न प्रतिष्ठिताः राज्यभ्रंशात्क्वापि स्थितिमप्राप्ताः, अन्यत्र च भुवं न स्पृशन्तीत्यर्थः । देवत्वाद्यस्यारातयः सुरैः सदृशाः । अत्राप्यमुमिति पूर्वेण संबन्धः । श्लिष्टविशेषणेयमुपमा । श्लेष एवेत्यन्ये ॥ ६५ ॥

 अतिविस्मयनीयकर्मणो नृपतेर्यस्य विरोधि किंचन ।
 यदमुक्तनयो नयत्यसावहितानां कुलमक्षयं क्षयम् ॥ ६६ ॥

 अतीति ॥ अतिविस्मयनीयकर्मणोऽत्यन्तविस्मितपौरुषस्य । स्मयतेरनीयर्प्रत्ययः । यस्य नृपतेश्चैद्यस्य विरोधि चेष्टितं द्वेषिरूपं । न किंचिदस्तीत्यर्थः । यस्मादमुक्तनयोऽत्यक्तनीतिमार्गोऽसौ अक्षयमविनाशि । पूर्व केनापि क्षयं न नीतमित्यर्थः । अहितानां कुलं शत्रुजातं क्षयं नाशं नयति । नीतिपौरुषाभ्यां द्विषन्निर्मूलयितुरस्य का विरोधिवातेति भावः । अक्षयमपि क्षयं नयतीति विरोधस्य नेतृभेदेन परिहाराद्विरोधाभासोऽलंकारः ॥ ६६ ॥

 चलितोलकबन्धसंपदो मकरव्यूहनिरुद्धवर्त्मनः ।
 अतरत्स्वभुजौजसा मुहुर्महतः संगरसागरानसौ ॥ ६७॥

 चलितेति ॥ असौ चैद्यश्चलिताः प्रवृत्ता ऊर्ध्वा उत्थिताः कबन्धसंपदः शिरोहीनकलेवरसंपद एव कबन्धसंपद उदकसमृद्धयो येषु तान् । इति श्लिष्टरूपकम् । 'कबन्धं सलिले प्रोक्तमपमूर्धकलेवरे' इति वैजयन्ती । मकरव्यूहाः मकराकारसैन्यविन्यासाः त एव मकरव्यूहा मकरादयः समूहाः इति श्लिष्टरूपकम् । 'व्यूहौ समूहविन्यासौ' इति वैजयन्ती । तैर्निरुद्धवर्त्मनो निरुद्धप्रवेशमार्गान् । अत एव महतो दुस्तरान्संगरसागरान्समरसमुद्रान्स्वभुजौजसा निजभुजबलेनैव मुहुरसकृदतरत् । भुजेनाब्धितरणमदृष्टचरमत्यद्भुतमिति भावः । अत्र कबन्धा एव कबन्धाः मकरव्यूहा एव कच्छपादिव्यूहा इति श्लिष्टरूपकस्य संगरेषु सागररूपेणहेतुत्वात्केवलं श्लिष्टपरम्परितरूपकम् ॥ ६७ ॥

 न चिकीर्षति यः सयोद्धतो नृपतिस्तच्चरणोपगं शिरः ।
 चरणं कुरुते गतस्मयः स्वमसावेव तदीयमूर्धनि ॥ ६८ ॥

 नेति ॥ स्मयोद्धतो गर्वेण दुर्विनीतो नृपतिः शिरो निजोत्तमाङ्गं तस्य शिशुपालस्य चरणमुपगच्छतीति तच्चरणोपगं तत्पादगतं यो न चिकीर्षति कर्तुं नेच्छति तदीये तस्य नृपतेः संबन्धिनि मूर्धनि गतस्मयो विगर्वोऽसौ शिशुपाल एव पाठा०-१ 'चेष्टितम्'. खं चरणं कुरुते । निधत्त इत्यर्थः । अनम्रान् सद्यो नमयति नम्रानवतीति तात्पर्यम् ॥ ६८॥

 खभुजद्वयकेवलायुधश्चतुरङ्गामपहाय वाहिनीम् ।
 बहुशः सह शक्रदन्तिना स चतुर्दन्तमगच्छदाहवम् ॥ ६९ ॥

 स्वेति॥ स चैद्यश्चत्वार्यङ्गानि हस्त्यादीनि यस्यास्तां चतुरङ्गा वाहिनी सेनामपहाय स्वभुजद्वयं केवलमेकमायुधं यस्य सः सन् शक्रदन्तिना ऐरावतेन सह । चत्वारो दन्ता यस्मिंस्तं चतुर्दन्तम् । आहवं रणं बहुशोऽगच्छत् । चतुर्दन्तेन शक्रदन्तिना दोर्द्वयेन योद्धं चैद्यं विना कोऽन्यः शक्त इति भावः । दन्तिनोराहवश्चतुर्दन्त इत्युक्तं नतु मनुष्यदन्तिनोरिति विरोधः, स च शक्रदन्तिनेति परिहृतः, तस्य चतुर्दन्तत्वादिति विरोधाभासः॥ ६९ ॥

 अविचालितचारुचक्रयोरनुरागादुपगूढयोः श्रिया ।
 युवयोरिदमेव भिद्यते यदुपेन्द्रस्त्वमतीन्द्र एव सः॥ ७० ॥

 अविचालितेति ॥ अविचालितं परैरपर्यासितं अत एव चारु शोभनं चक्रं सुदर्शनं, राष्ट्रं च ययोस्तयोः । 'चक्र राष्ट्ररथाङ्गयोः' इति विश्वः । श्रिया कमलया, संपदा चानुरागादुपगूढयोराश्लिष्टयोर्युवयोस्तव तस्य च । 'त्यदादीनि सर्वैर्नित्यम्' (१।२।७२) इत्येकशेषः । इदमेव भिद्यते विशेष्यते । कर्मकर्तरि लट् । किं तदित्यत्राह-त्वमिन्द्रमुपगत उपेन्द्र इन्द्रानुजः। तदनुचर इति यावत् । स तु इन्द्रमतिक्रान्तः अतीन्द्रः । इन्द्रविजयीति यावत् । इदमेव भिद्यते इति संबन्धः । इन्द्रकिङ्करेन्द्रजयिनोः का साम्यकथेति भावः । अत्रोपमानात्कृष्णादुपमेयस्य चैद्यस्याधिक्याद्भेदप्राधान्यसाधोक्तेर्व्यतिरेकालंकारः ॥ ७० ॥  किंच त्वत्तोऽप्यधिको राजेत्यवाच्योऽयमर्थः यदीश्वरादप्यधिक इत्याह-

 भृतभूतिरहीनभोगभाग्विजितानेकपुरोऽपि विद्विषाम् ।
 रुचिमिन्दुदले करोत्यजः परिपूर्णेन्दुरुचिर्महीपतिः ॥ ७१ ॥

 भृतेति ॥ भृता भूतिर्भस्म, संपच्च येन स भृतभूतिः । 'भूतिर्भस्मनि संपदि' इत्यमरः । अहीनां भोगिनामीनोऽहीनः शेषः तस्य भोगं कायं भजतीत्यहीनभोगभाक् । शेषभूषण इत्यर्थः । अन्यत्र अहीनमन्यूनं भोगं सुखानुभवं भजतीत्यहीनभोगभाक् । 'भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः' इत्यमरः । विद्विषां विजितानेकपुरः । विजितानेकविद्विदपुर इत्यर्थः । एकत्र त्रिपुरविजयादन्यत्र शत्रुनगरविजयाच्चेति भावः । सापेक्षत्वेऽपि गमकत्वात्समासः । एवंभूतोऽप्यजो हरः । 'अजा विष्णुहरच्छागाः' इत्यमरः । इन्दुदले चन्द्रखण्डे विषये रुचिमभिलाषं करोति । इन्दुदले या रुचिः शोभा तां करोति दधातीति चार्थः । सामान्यशब्देन विशेषलक्षणा । महीपतिस्तु परिपूर्णेन्दो रुचिरिव रुचिः शोभा यस्य सः तस्मिन् रुचिरभिलाषो यस्येति च परिपूर्णेन्दुरुचिः । 'रुचिर्मयूखे शोभा

पाठा०-१ 'न वोत्सिञ्चतीति'. यामभिषङ्गाभिलाषयोः' इति विश्वः । अत्र हरः खण्डेन्दुरुचिः, राजा पूर्णेन्दुरुचिरिति व्यतिरेकः । स च रुच्योरभेदाश्रयादिति श्लेषमूलामेदातिशयोक्त्या संकीर्णः ॥ ७१ ॥  अथ कलापकमाह-

 नयति द्रुतमुद्धतिश्रितः प्रसभं भङ्गमभङ्गरोदयः ।
 गमयत्यवनीतलस्फुरद्भुजशाखं भृशमन्यमुन्नतिम् ॥ ७२ ॥

 नयतीति ॥ यः तटद्रुमैः सरितामुदकस्य पूर एव भूभृतां गणैः क्रीडतीति चतुर्थे वक्ष्यति । तं क्रीडाप्रकारं त्रिभिर्वर्णयति । अभङ्गुरोदयः स्थिरवृद्धिः य उद्धतिश्रित औद्धत्यभाजः । अनम्रानिति यावत् । श्रयतेः विप् । नृपान् द्रुमांश्चेत्यर्थः । द्रुतं शीघ्रं प्रसभं प्रसह्य भङ्गं नयति । अवनीतले स्फुरन्त्यौ भुजौ शाखे इव भुजशाखे यस्य तम् । भुजौ प्रसार्य भुवि प्रणिपतितमित्यर्थः । अन्यं नृपं, द्रुमं च वेतसादिकं भृशमुन्नतिं गमयति ॥ ७२ ॥

 अधिगम्य च रन्ध्रमन्तरा जनयन्मण्डलभेदमन्यतः ।
 खनति क्षतसंहति क्षणादपि मूलानि महान्ति कस्यचित् ॥७३॥

 अधिगम्येति ॥ किंचेति चार्थः । अन्तरा मण्डलमध्ये, आलवालमध्ये च रन्ध्रमवकाशं शुषिरं चाधिगम्य । अन्यतः मण्डलस्यामात्यादिचक्रस्य भेदमुपजापं जनयन् , अन्यत्र मण्डलस्याधारदेशस्य भेदं विदारणं कुर्वन्नित्यर्थः । क्षता संहतिरैकमत्यं, मूलानामाश्लेषश्च यस्मिन्कर्मणि तद्यथा तथा क्षणात्कस्यचिद्राज्ञः, दुमस्य च महान्ति मूलानि मुख्याञ्जनानपि खनति तापयति, अन्यत्रादीनपि खनत्यवदारयति ॥ ७३ ॥

 घनपत्रभृतोऽनुगामिनस्तरसाकृष्य करोति कांश्चन ।
 दृढमप्यपरं प्रतिष्ठितं प्रतिकूलं नितरां निरस्यति ॥ ७४ ॥

 घनेति ॥ धनानि सान्द्राणि पत्राणि वाहनानि, पर्णानि च बिभ्रतीति घनपत्रभृतः पत्रभृतः कांश्चन नृपान् द्रुमांश्च तरसा बलेन, वेगेन च । 'तरसी बलरंहसी' इति विश्वः । आकृष्यानुगामिनोऽनुचरान् करोति । दृढं यथा तथा प्रतिष्ठितं प्रतिष्टां गतमपि । प्रतिकूलं प्रातिकूल्यभाजमपरं नृपं, द्रुमं च नितरां निरस्यति उत्पाट्यान्यतः क्षिपति । द्रुमपक्षे प्रतिकूलं कूले क्षिपतीति चार्थः ॥ ७ ॥

 इति पूर इवोदकस्य यः सरितां प्रावृषिजस्तटद्रुमैः ।
 वचनापि महानखण्डितप्रसरः क्रीडति भूभृतां गणैः ॥७५ ।।

        (कलापकम् ।)

 इतीति ॥ इतीत्थं वचनाप्यखण्डितप्रसरः । सर्वत्राखण्डितप्रवृत्तिरित्यर्थः । महान् यः शिशुपालः प्रावृषि जातः प्रावृषिजः । 'सप्तम्यां जनेः' (३।२।९७) इति डप्रत्ययः । 'प्रावृदशरत्कालदिवां जे' (६।३।१५) इत्यलुक् । 'प्रावृषिकः' पाठा०-१'अन्ततः'. इति पाठे तत्र जात इत्यर्थे 'प्रावृषष्ठक्' (४।३।२६) इति ठक् प्रत्ययः । ठस्येकः । सरितामुदकस्य पूरस्तद्रुमैरिव भूभृतां राज्ञां गणैः साधनैः क्रीडति । 'महतः कुकुर-' (१६७९) इत्यागामिश्लोके स महीपतिरित्यनेनास्य संबन्धः ॥ ७५ ॥

 अथ विशेषकमाह-

 अलघूपङ्क्तिशालिनीः परितो रुद्धनिरन्तराम्बराः ।
 अधिरूढनितम्बभूमयो न विमुश्चन्ति चिराय मेखलाः ॥७६ ॥

 अलध्वित्यादि ॥ यस्यारिस्त्रियः संपद्यनुभूतमापद्यप्यनुभवन्तीति वक्ष्यति तत्प्रकारेमेवाह । अधिरूढनितम्बभूमय उन्नतश्रोणिभागाः अलघुभिरुपलानां मणीनां, पाषाणानां च पङ्तिभिः शालन्त इति तच्छालिनीः । 'उपलौ मणिपाषाणौ' इति विश्वः । परितो रुद्धमावृतं निरन्तरं सान्द्रं संनिहितं च अम्बरं वस्त्रमाकाशं च याभिस्ता अधिरूढनितम्बभूमीः आक्रान्तश्रोणिभागाः प्राप्तकटकभागाश्चेति विभक्तिविपरिणामः । मेखला रशनाः पर्वतमध्यभूमीश्च चिराय न विमुञ्चन्ति । अत्र संपदादिविषयत्वेनोभयेषामपि मेखलादीनां वर्ण्यत्वेन प्रकृतत्वात्केवलप्रकृतगोचरः श्लेषः ॥ ७६ ॥

 कटकानि भजन्ति चारुभिर्नवमुक्ताफलभूषणैर्भुजैः ।
 नियतं दधते च चित्रकैरवियोगं पृथुगण्डशैलतः ॥ ७७ ।।

 कटकानीति ॥ किंच नवमुक्ताफलानि नूतनमौक्तिकानि भूषणानि येषां तैश्चारुभिः भुजैः कटकानि वलयानि भजन्ति, अन्यत्र नवमुक्तान्यचिरत्यक्तानि अफलानि वैधव्यान्निष्फलान्याभरणानि यैस्तैर्भुजैरुपलक्षिताः कटकानि तटानि भजन्ति । किंचेति चार्थः । पृथुगण्डशैलतः पृथुगण्डस्थलेषु चित्रकैः पत्ररचनाभिर्नियतमवियोगं संपर्क दधते, अन्यत्र च्युतस्थूलोपलेषु चित्रकैर्मृगविशेषैः सह वासं दधते । अत्रापि प्रकृतगोचरः श्लेषः ॥ ७७ ॥

 इति यस्य ससंपदः पुरा यदवापुर्भननेष्वरिस्त्रियः।
 स्फुटमेव समस्तमापदा तदिदानीमवनीध्रमूर्धसु ॥ ७८ ॥

        (विशेषकम् ।)

 इतीति ॥ यस्यारिस्त्रियः पुरा पूर्वं ससंपदः सश्रीकाः भवनेषु सदनेषु यदवापुर्मेखलादिकमनुबभूवुः । समस्तमशेषं तदिदानीमापदा अवनीध्रमूर्धसु शैलशृङ्गेषु इतीत्थं स्फुटमेवावापुः । न ह्यस्य वैरिणां जीविताशेति भावः । अस्याप्युत्तरश्लोकेनान्वयः ॥ ७० ॥

 महतः कुकुरान्धकद्रुमानतिमात्रं दववद्दहन्नपि ।
 अतिचित्रमिदं महीपतिर्यदकृष्णामवनीं करिष्यति ॥ ७९ ॥

 महत इति ॥ यत्तदोनित्यसंबन्धात् । स महीपतिर्महतोऽधिकान् कुकुराश्चान्धकाश्च यादवभेदास्तानेव द्रुमानतिमात्रं दववद्दवाग्निवत् । 'दवदावौ वनारण्यवह्नी' इत्यमरः । दहन्नपि अवनीमकृष्णामश्यामां करिष्यति इति यत् इदमतिचित्रम् । विरुद्धमित्यर्थः । कृष्णरहितामित्यविरोधः । अत एव विरोधाभासोऽलंकारः । कुकुरान्धकैः सह कृष्णं हनिष्यतीति श्लेषार्थः ॥ ७९ ॥

 अथ युग्मेनाह-

 परितः प्रमिताक्षरापि सर्वं विषयं व्याप्तवती गता प्रतिष्ठाम् ।
 न खलु प्रतिहन्यते कुतश्चित्परिभाषेव गरीयसी यदाज्ञा ॥८॥

 परित इति ॥ प्रकर्षण मिताक्षरापि एकत्र मितभाषित्वादन्यत्र तु सूत्रत्वाचाल्पाक्षरापि सर्व विषयं राष्ट्रकार्य, प्रदेशं च परितो व्याप्तवती । सर्वत्र प्रवृत्तेत्यर्थः । प्रतिष्ठा प्रामाण्यं स्थितिं गता गरीयसी भूयिष्टार्था यदाज्ञा यस्य राज्ञः शासनं परिभाषा अनियमनिवारको न्यायविशेषः सेव कुतश्चित्कुत्रापि न प्रतिहन्यते खलु न बाध्यते हि । परिभाषा ह्येकदेशे स्थित्वा सर्वशास्त्रमभिज्व- लयति दीपवदिति भाष्यकारः । 'इको गुणवृद्धी' (१॥१॥३) इत्यादिका परिभाषा । 'सिचि वृद्धिः-' (७।२।१) इत्यादिविषयः । उपमालंकारः । औपच्छन्दसिकं वृत्तम् ॥ ८॥

 यामूढवानूढवराहमूर्तिर्मुहूर्तमादौ पुरुषः पुराणः ।
 तेनोह्यते सांप्रतमक्षतैव क्षतारिणा सम्यगसौ पुनर्भूः॥८१॥

 यामिति ॥ यां भुवमादौ पूर्वं पुराणः पुरुषो विष्णुः ऊढवराहमूर्तितवराहशरीरः, स च नतु स्वरूपेणेति भावः । मुहूर्त क्षणमात्रमूढवान् धृतवान् क्षतारिणा संहृतसकुलविपक्षेण अत एवैनां पुनस्तेन राज्ञा । अविकृतेनेति भावः । अक्षतैव विपक्षरेनुपद्रुतैवासौ भूः सांप्रतमद्यापि न तु मुहूर्तमिति भावः । सम्यक् यथाशास्त्रमुह्यते धार्यते । वहेः कर्मणि लट् 'वचिस्वपि-' (६।१।१५) इत्यादिना संप्रसारणम् । अत्र राज्ञो विष्णोराधिक्यकथनाव्यतिरेकः । अत्र ध्वनिः । कश्चिद्वृद्धः स चोढवराहमूर्तिर्यामविकृतिमादौ प्रथमं मुहूर्तमूढवान्परिणीतवानिति भावः । अत एव अक्षता पूर्वेण अक्षतयोनिका । अत एवासौ भूर्वोढुः क्षतारिणा । शौर्यादिगुणाढ्येनेत्यर्थः । तेन केनचिद्युना सांप्रतं पुनरुह्यते पुनः परिणीयते । 'सा चेदक्षतयोनिः स्यात्पुनःसंस्कारमर्हति' ( ) इति स्मरणादिति सा पुनर्भूरुच्यते इति योज्यम् । 'पुनर्भूदिधिषूरूढा द्विस्तस्या दिधिषुः पतिः' इत्यमरः । अत्राभिधायाः प्रकृतार्थ एव नियन्त्रणादप्रकृतार्थप्रतीतेनिरेव ॥ ८१ ॥

  भूयांसः क्वचिदपि काममस्खलन्त-
   स्तुङ्गत्वं दधति च यद्यपि द्वयेऽपि ।
  कल्लोलाः सलिलनिधेरवाप्य पारं
   शीर्यन्ते न गुणमहोर्मयस्तदीयाः ॥ ८२ ॥

 भूयांस इति ॥ द्वयेऽपि समुद्रोर्मयो गुणोर्मयश्चेति द्वितया अप्यूर्मय इति ।

पाठा०-१ 'प्राप्तवती'. २ 'अनुपद्रुतैव सती वराहोद्धरणे तु हिरण्याक्षादिभिदंष्ट्रया च क्षतेति भावः । असौ'. द्वेस्तयप् तस्य 'द्वित्रिभ्याम्-' (५।२।४३) इत्यनेनायजादेशः 'प्रथमचरम-' (१।१।३३) इत्यादिना जसि विभाषया सर्वनामसंज्ञा । भूयांसो बहुतराः क्वचिदप्यस्खलन्तः । अप्रतिहतप्रसरा इत्यर्थः । कामं तुङ्गत्वं दधति यद्यपि दधत्येव । 'यद्यपीत्यवधारणे' इति केशवः । तथापीति शेषः । सलिलनिधेः समुद्रस्य कल्लोला महोर्मयः । अथोर्मिषु । महत्सूल्लोलकल्लोलौ' इत्यमरः । पारं तीरमवाप्य शीर्यन्ते विलीयन्ते । शीर्यतेर्दैवादिकाकर्तरि लट् । तदीया गुणमहोर्मयस्तु पारमवाप्यापि न शीर्यन्ते । अत्र गुणमहोर्मीणां भूयस्त्वादिसाधर्म्यण गुरुत्वेन समुद्रस्याधिक्याव्यतिरेकः । अनेन राज्ञोऽपि समुद्रादाधिक्यं व्यज्यते । प्रहर्षिणी वृत्तम् ॥ ८२ ॥

 अथ युग्मेनाह-

  लोकालोकव्याहतं धर्मरश्मे
   शालीनं वा धाम नालं प्रसर्तुम् ।
  लोकस्याग्रे पश्यतो धृष्टमाशु
   क्रामत्युच्चैर्भूभृतो यस्य तेजः॥ ८३ ॥

 लोकालोकेत्यादि ॥ लोक्यते आलोक्यते च पार्थान्तरेणेति लोकालोकः । 'लोकालोकश्चक्रवालः' इत्यमरः । विशेषणसमासः । तेन व्याहतं निरुद्धप्रसारं लोकस्यालोकेन चक्षुःप्रकाशेन व्याहतमित्यपि स्फुरति । अत एव शालीनमधष्टता । लज्जया भग्नधार्ष्ट्यमिवेत्यर्थः । 'शालीनकौपीने अदृष्टाकार्ययोः' (५।२।२०) इति निपातः । इवार्थे वाशब्दः तद्वदुत्प्रेक्षा । धर्मरश्मेर्धाम तेजः पश्यतो लोकस्याग्रे उच्चैर्भूभृतः पर्वतान् राज्ञश्च प्रसर्तुं व्याप्तुं नालं न समर्थम् । लोकालोकव्याप्तस्य लोकाग्रे संचारत्वादित्यर्थः । यस्य राज्ञस्तु तेजः पश्यतो लोकस्याग्रत एव पृष्टं केनाप्यव्याहतत्वात्प्रगल्भं सत् उच्चैर्भूभृतो राज्ञः पर्वतांश्च कामति व्यानोति । अत्राप्रतिहतप्रतापत्वेन राज्ञः सूर्यादाधिक्याव्यतिरेकः स च द्वयोर्लोकालोकयोर्द्वयानां भूभृतामभेदाध्यवसायाच्छेषमूलातिशयोक्त्युत्थापितया शालीनत्वोप्रेक्षया संकीर्यते । शालिनी वृत्तमेतत् ॥ ८३ ॥

 विच्छित्तिर्नवचन्दनेन वपुषो भिन्नोऽधरोऽलक्तकै-
  रच्छाच्छे पतिताञ्जने च नयने श्रोण्योऽलसन्मेखलाः ।
 प्राप्तो मौक्तिकहारमुन्नतकुचाभोगस्तदीयद्विषा-
  मित्थं नित्यविभूषणा युवतयः संपत्सु चापत्स्वपि॥८४॥

 विच्छित्तिरिति ॥ वपुषो नवचन्दनेन विच्छित्तिर्वियोग आपदि, अन्यत्र चन्दनालेपनमिति यावत् । अधरोष्ठोऽलक्तकै क्षारागैभिन्नो वियुक्तः, अन्यत्र युक्तः । नयने च पतिताञ्जने गलितकज्जले अत एवाच्छाच्छे अच्छप्रकारे । 'प्रकारे गुणवचनस्य' (८1१२) इति द्विर्भावः 'कर्मधारयवत्-' (११) इति

पाठा०-१ 'भङ्गुरत्वेन'. सुपो लुक् । अन्यत्र अच्छाच्छे नयने पतिताञ्जने प्राप्तीञ्जने । श्रोण्यो नितम्बाः लसन्मेखला न भवन्तीत्यलसन्मेखलाः निर्मेखला इत्यर्थः । अन्यत्र लसन्मेखला इति पदच्छेदः । उन्नतः कुचाभोगः कुचविस्तारो मौक्तिकानां हारं हरणं प्राप्तः । अन्यत्र मुक्तादाम प्राप्तः । इत्थमुक्तरीत्या तदीयद्विषां युवतयः संपत्सु च आपस्वपि नित्यविभूषणाः नित्यविगलितभूषणाः अन्यत्र भूषणयुक्ताः । अत्रापत्संपदोः प्रकृताप्रकृतयोः युवतिविशेषणद्वारा वर्णनाच्छेषः । शार्दूलविक्रीडितं वृत्तम् । लक्षणमुक्तम् ॥ ८४॥

 सत्यमीदृशस्ते राजा ततः किमित्याशक्य तर्हि तत्त्वमाकर्णयेत्याह--

 विनिहत्य भवन्तमूर्जितश्रीयुधि सद्यः शिशुपालतां यथार्थाम् ।
 रुदतां भवदङ्गनागणानां करुणान्तःकरणः करिष्यतेऽसौ॥८५॥

इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्र्यङ्के
दूतसंवादो नाम षोडशः सर्गः ॥ १६ ॥

 विनिहत्येति ॥ ऊर्जितश्रीरधिकैश्वर्योऽसौ राजा युधि भवन्तं सद्यो विनिहत्य हत्वा रुदतां क्रन्दतां भवेदङ्गनागणानां करुणान्तःकरणः कृपाविष्टचित्तः सन् शिशुपालतां यथार्थां करिष्यते । अङ्गनागणान्प्रति तच्छिशुपालनेन निजां शिशुपालसंज्ञामन्वर्थां करिष्यतीत्यर्थः । अत्र रोदनकरुणापदार्थयोर्विशेषणगत्या क्रमात्करुणाशिशुपालनहेतुकत्वात्काव्यलिङ्गयोः संकरः । औपच्छन्दसिकं वृत्तम् ॥ ८५ ॥

इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां शिशुपालवधकाव्यव्याख्यायां
सर्वंकषाख्यायां षोडशः सर्गः ॥१६॥


  1. 'न चोभयगतः'.
  2. 'जनाधिपैः; 'नराधिपैः'.