शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)/पञ्चदशः सर्गः(शिशुपालक्रोधवर्णनम्)
← चतुर्दशः सर्गः(श्रीकृष्णार्घदानवर्णनम्) | शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्) पञ्चदशः सर्गः(शिशुपालक्रोधवर्णनम्) माघः |
षोडशः सर्गः(दूतसंवादवर्णनम्) → |
पञ्चदशः सर्गः।
अथ तत्र पाण्डुतनयेन सदसि विहितं मुरद्विषः ।
मानमसहत न चेदिपतिः परवृद्धिमत्सरि मनो हि मानिनाम्॥१॥
अथेति ॥ अथ हरिपूजानन्तरं चेदिपतिः शिशुपालः तत्र सदसि सभायां पाण्डुसुतेन युधिष्ठिरेण विहितं मुरद्विषो हरेर्मानं पूजां नासहत । ईर्ष्यां चकारेत्यर्थः । 'परोत्कर्षाक्षमेर्ष्या स्याद्दौर्जन्यान्मन्युतोऽपि च' इति लक्षणात् । तथा हि-मानिनामहंकारिणां मनः परवृद्धौ मत्सरि मत्सरवत् । परशुभद्वेषि खल्वित्यर्थः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः । अस्मिन्सर्गे उद्गता वृत्तम् । 'सँजमादिमे सलघुकौ च नसजगुरुकेष्वथोद्गता । त्र्यङ्घ्रिगतभनजला गयुताः सजसा जगौ चरममेकतः पठेत् ॥' इति लक्षणात् ॥ १ ॥
पुर एव शार्ङ्गिणि सवैरमथ पुनरमुं तदर्चया ।
मन्युरभजदवगाढतरः समदोषकाल इव देहिनं ज्वरः ॥२॥
पुर इति ॥ पुरः पूर्वमेव शार्ङ्गिणि सवैरं सक्रोधममुं चैद्यं अथ पुनः अतः परं तदर्चया हरिपूजया अवगाढतरो निबिडतरो मन्युः क्रोधः । रौद्ररसस्य स्थायीभाव इति भावः । देहिनं शरीरिणं समौ मिलितौ दोषो अपथ्यसेवा काल: कर्मविपाकश्च यस्य स ज्वर इवाभजत् । उपमालंकारः ॥ २॥
अथाष्टभिरस्य गात्रारब्धक्रोधचेष्टां प्रपञ्चयति-
अभितर्जयन्निव समस्तनृपगणमसावकम्पयत् ।
लोलमुकुटमणिरश्मि शनैरशनैः प्रकम्पितजगत्रयं शिरः॥३॥
अभीत्यादि ॥ असौ चैद्यः । समस्तनृपगणमभितर्जयन्निवेत्युत्प्रेक्षा । 'तर्ज- भर्त्सने' चौरादिकस्यानुदात्तत्वेन प्राप्तस्य आत्मनेपदस्य चक्षिङादेशस्य ख्याञ: स्थानिवद्भावानादरेण पुनर्ञित्करणसामर्थ्यादनित्यत्वज्ञापनात्परस्मैपदम् । अत एव तर्जयतीत्यपि दृश्यते कविष्विति भट्टमल्लः । अशनैरतिमात्रं प्रकम्पितं जगत्रयं येन तत् त्रैलोक्यभीषणं शिरः शनैर्लोलाश्चपला मुकुटमणिरश्मयो यस्मिन्कर्मणि तद्यथा तथा अकम्पयत् । क्रोधातिरेकादिति भावः ॥ ३ ॥
स वमन्रुषाश्रु घनघर्मविगलदुरुगण्डमण्डलः ।
स्वेदजलकणकरालकरो व्यरुचत्प्रभिन्न इव कुञ्जरस्त्रिधा ॥४॥
स इति ॥ रुषा रोषेणाश्रु वमन्मुञ्चन् । घनेन सान्द्रेण घर्मेण क्रोधोष्मणा विगलत्स्रवदुरु महत् गण्डमण्डलं यस्य सः । स्विद्यत्कपोल इत्यर्थः । स्वेदजलकणैः स्वेदबिन्दुभिः करालकरो दन्तुरहस्तः स चैद्यः त्रिधा नेत्रकपोलहस्तदेशैः प्रभिन्नो मदस्रावी मत्तः । 'प्रभिन्नो मत्तः स्यात्' इति वैजयन्ती । कुञ्जर इव व्यरुचत् । रुचेः 'दयुद्भ्यो लुङि' (१|३।९१) इति विकल्पात्परस्मैपदम् । एतेन स्वेदाख्यः सात्विकभाव उक्तः । उपमालङ्कारः ॥ ४ ॥
स निकामघर्मितमभीक्ष्णमधुवदवधूतराजकः ।
क्षिप्तबहुलजलबिन्दु वपुः प्रलयार्णवोत्थित इवादिशूकरः ॥५॥
स इति ॥ राज्ञां समूहो राजकम् । 'गोत्रोक्ष-' (४।२।३९) इत्यादिना वुञ्प्रत्ययः । तदवधूतमभिभूतं येन स तथोक्तः स चैद्यो निकामं घर्मितं संजातधर्मम्| उद्भवत्स्वेदमित्यर्थः । 'धर्मः स्यादातपे ग्रीष्म उष्णस्वेदाम्भसोरपि' इति विश्वः । तारकादित्वादितच्प्रत्ययः । वपुः प्रलये अर्णवस्तस्मादुत्थितः । आदिशूकर इव क्षिप्ताः प्रेरिता बहुलाः सान्द्रा जलबिन्दवो यस्मिन्कर्मणि तद्यथा तथा अभीक्ष्णमधुवत्क्रोधाद्धुवति स्म । 'धूञ् विधूनने' इति धातोस्तौदादिकाल्लङ् । अत्रापि स्वेदः सात्विक एवोक्तः । उपमालङ्कारः ॥ ५॥
क्षणमाश्लिषद्धटितशैलशिखरकठिनांसमण्डलः ।
स्तम्भमुपहितविधूतिमसावधिकावधूनितसमस्तसंसदम् ॥६॥
क्षणमिति ॥ घटितं सुसंहितं यच्छैलशिखरं तद्वत्कठिनमंसमण्डलं यस्य सः असौ चैद्यः उपहितावगाहिता । आरोपितेत्यर्थः । विधूतिः कम्पो यस्मिंस्तम् । अधिकमत्यन्तमवधूनिता कम्पिता समस्ता सकला संसत् सभा येन तं स्तम्भं क्षणं आश्लिषत् श्लिष्टवान् । तेनांसमण्डलेनाहतवानित्यर्थः । अत एव कठिनांसमण्डल इति विशेषणं च । पुषादित्वाच्च्लेरङादेशः । आलिङ्गनार्थत्वे तु 'श्लिष आलिङ्गने'
[ ञित्त्वस्य पदद्वयार्थ कृतत्वेनाज्ञापकत्वादिदमसंगतम् । तस्मात् विचक्षण इत्यत्र युजर्थमावश्यकेनानुदात्तेत्वेनात्मनेपदे सिद्धे ङित्करणसामर्थ्यात् 'अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्' इत्यस्य सिद्धिर्वक्तव्या'.] इति वसादेशः स्यात् । क्रोधान्धाः किमु न कुर्वन्तीति भावः । अत्रांसकाठिन्यस्य विशेषणगत्या स्तम्भाश्लेषहेतुत्वात्काव्यलिङ्गं शैलशिखरोपमया संकीर्यते ॥ ६॥
कनकाङ्गदद्युतिभिरस्य गमितमरुचत्पिशङ्गताम् ।
क्रोधमयशिखिशिखापटलैः परितः परीतमिव बाहुमण्डलम् ७
कनकेति ॥ कनकस्याङ्गदयोः केयूरयोः द्युतिभिः पिशङ्गतां पिङ्गलवर्णतां गमितं प्रापितमिति तद्गुणालंकारः । अथास्य चैद्यस्य बाहुमण्डलं क्रोधमयशिखिशिखापटलैः क्रोधाग्निज्वालाजालैः परितः परीतं परिवृतमिवारुचदित्युत्प्रेक्षा । 'द्युद्भ्यो लुङि' (१॥३।९१) इति परस्मैपदम् ॥ ७ ॥
कृतसंनिधानमिव तस्य पुनरपि तृतीयचक्षुषा ।
क्रूरमजनि कुटिलभ्रु गुरुभ्रुकुटीकठोरितललाटमाननम् ॥८॥
कृतेति ॥ कुटिले ध्रुवौ यस्य तत्कुटिलभ्रु । उपसर्जनस्य हस्वः । गुर्व्या भृकुट्या भ्रूभङ्गेन कठोरितं भीषणीकृतं ललाटं यस्य तत् । तस्य चैद्यस्याननं पुनरपि तृतीयचक्षुषा कृतसंनिधानं कृतसंसर्गमिवेत्युत्प्रेक्षा । क्रूरमजनि भयंकरमभूत्| जनेः कर्तरि लुङ् 'दीपजन-' (३।१॥६१) इत्यादिना विकल्पाच्चिण्- प्रत्ययः॥८॥
अतिरक्तभावमुपगम्य कृतमतिरमुष्य साहसे ।
दृष्टिरगणितभयासिलतामवलम्बते स्म समया सखीमिव ॥९॥
अतिरक्तेति ॥ अमुष्य चैद्यस्य दृष्टिः । अतिरक्तस्य भावो धर्मस्तमतिरक्तभावं रोषातिरेकादत्यरुणतामन्यत्र कर्मातिरेकादत्यनुरागितामुपगम्य प्राप्य । साहसे कृष्णादिवधरूपे, अन्यत्र युद्धे कृतमतिः । सर्वथा गमिष्यामि हनिष्यामि इति च कृतनिश्चयोऽर्थनिर्धारणं मतिरिति । अगणितमविचारितं भयं शत्रोर्गुरुजनाच्च यया सा सती समया समीपे असिलतां सखीमिवावलम्बते स्म साधनत्वेन च स्वीचकार । क्रोधाज्जिघांसया खड्गमद्राक्षीदित्यर्थः । अत्र प्रस्तुतदृष्टिविशेषणसाम्यादप्रस्तुतनायिकाप्रतीतेः समासोक्तिरुपमासंकीर्णा ॥ ९॥
करकुड्मलेन निजमूरुमुरुतरनगाश्मकर्कशम् ।
त्रस्तचपलचलमानजनश्रुतभीमनादमयमाहतोच्चकैः ॥१०॥
करेति ॥ अयं चैद्यः उरुतरो महत्तरो नगाश्मवत् शैलशिलेव कर्कश इत्युपमा । तं निजमात्मीयमूरुं सक्थि । 'सक्थि क्लीबे पुमानूरुः' इत्यमरः । करः कुड्मल इवेत्युपमितसमासः । तेन संहतप्रसारिताङ्गुलिना पाणितलेनेत्यर्थः । त्रस्तो भीतः अत एव चपलं चञ्चलं चलमानेन जनेन श्रुतो भीमनादो भयंकरध्वनिर्यस्मिन्कर्मणि तद्यथा तथा उच्चकैस्तारं आहत आहतवान् । अलब्धलक्ष्याः क्रोधान्धाः स्वात्मानमेव घ्नन्तीति भावः । आङ्पूर्वाद्धन्तेर्लङ् 'आङो यमहनः' (१।३।२८) इत्यकर्मकाधिकारेऽपि 'खाङ्गकर्मकाञ्चेति वक्तव्यम्' (वा०) इत्यात्मनेपदे 'अनुदात्तोपदेश-' (६।४।३७) इत्यादिनानुनासिकलोपः ॥ १० ॥
इति चुक्रुधे भृशमनेन ननु महदवाप्य विप्रियम् ।
याति विकृतिमपि संवृतिमत्किमु यन्निसर्गनिरवग्रहं मनः॥११॥
इतीति ॥ इतीत्थमनेन प्रकारेण अनेन चैद्येन भृशं चुक्रुधे क्रुद्धम् । भावे लिट् । संवृतिमदपि संवृतिर्विकारगुप्तिः तद्वदपि । धीरमपीत्यर्थः । मनो महद्विप्रियमप्रियमवाप्य विकृतिं विकारं याति ननु प्राप्नोति खलु । यन्मनो निसर्गात्स्वभावान्निरवग्रहम्| चपलमित्यर्थः । ग्रहेः खल्प्रत्ययः । तदिति शेषः । किमु । विकृतिं यातीति किमु वक्तव्यमित्यर्थः । चपलचित्तश्चायं चैद्य इति भावः । अत्र चैद्यक्रोधस्य नन्वित्यादिवाक्यार्थहेतुकत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ ११ ॥
एवं गात्रारब्धविकारानुक्त्वा वागारब्धान्वक्तुमुपोद्धातयति-
प्रथमं शरीरजविकारकृतमुकुलबन्धमव्यथी।
भाविकलहफलयोगमसौ वचनेन कोपकुसुमं व्यचीकसत्॥१२।।
प्रथममिति ॥ न व्यथते बिभेतीत्यव्यथी निर्भीकः । 'जिदृक्षि-' (३।२।१५७) इत्यादिना नञ्पूर्वाव्द्यथतेरिनिः । असौ चैद्यः प्रथमं शरीरजैर्विकारैः पूर्वोक्तैः शिरःकम्पनादिभिः कृतो मुकुलबन्धो मुकुलप्रादुर्भावो यस्य तत् । भाविकलहस्य रणस्यैव फलयोगो यस्य तत् । 'अस्त्रियां समरानीकरणाः कलहविग्रहो' इत्यमरः । कोप एव कुसुमं तत् वचनेन 'यदपूपुज' (१५/१४) इत्यादि वक्ष्यमाणवाक्येन व्यचीकसद्विकासयति स्म । कसेः 'णौ चङ्युपधाया ह्रस्वः' (७।४।१) 'दीर्घो लघोः' (७।४।९४) इत्यभ्यासदीर्घः । अत्र विकारकलहवचनकोपेषु मुकुलफलविकासकुसुमत्वरूपणात्समस्तवस्तुवर्तिसावयवरूपकम् ॥ १२ ॥
ध्वनयन्सभामथ सनीरघनरवगभीरवागभीः।
वाचमवददतिरोषवशादतिनिष्ठुरस्फुटतराक्षरामसौ ॥१३॥
ध्वनयन्निति ॥ अथ सनीरघनरवगभीरवाक् । सजलमेघगर्जितगभीरस्वर इत्यर्थः । अभीः निर्भीकः असौ चैद्यः सभामास्थानं ध्वनयन्नतिरोषवशादतिनिष्ठुराण्यतिपरुषाणि स्फुटतराणि चाक्षराणि यस्यास्तां वाचमवदत् । घनरवगभीरेत्युपमालंकारः॥ १३॥
'वाचमवदत्' (१५/१३) इत्युक्तम् , अथ तामेव प्रपञ्चयन्पञ्चभिः पाण्डवोपालम्भमाह-
यदपूपुजस्त्वमिह पार्थ मुरजितमपूजितं सताम्
प्रेम विलसति महत्तदहो दयितं जनः खलु गुणीति मन्यते॥१४॥
[ * वल्लभेन त्वितः प्रभृति अष्टत्रिंशत्संख्याक( अयमुग्रसेन )श्लोकपर्यन्तं व्याख्यानं न कृतम् । किंतु अग्रे मल्लिनाथेन प्रक्षिप्तत्वेन निर्दिष्टा एव व्याख्याताः । १२९९ शकलिखितपुस्तके त्वेतेऽपि श्लोका उपलभ्यन्ते तेऽपि च ।] यदिति ॥ हे पार्थ पृथापुत्रेति मातृप्राधान्येनामन्त्रणं मर्मोद्धाटनार्थम् । सतामपूजितम् । सद्भिरपूज्यमानमित्यर्थः । 'मतिबुद्धिपूजार्थेभ्यश्च' (३।२।१८८) इति वर्तमाने क्तः । 'क्तस्य च वर्तमाने' (२।३।६७) इति षष्ठी । मुरजितं कृष्णं इह सदसि यद्यस्मादपूपुजः पूजयसि स्म । णौ चङ्युपधाया ह्रस्वः' (७।४।१) तत्तस्मान्महत्प्रेम विलसति स्फुरति । अन्यथा कथमपूज्ये पूज्यत्वाभिमान इत्यभिप्रेत्याह -जनो लोकः दयितं प्रियं जनं गुणीति मन्यते खलु । अगुणिनमपीत्यर्थः । अहो आश्चर्यम् । कृष्णः प्रेम्णा पूजितो न गुणादिति भावः । अत्र प्रेमविलसितस्योत्तरवाक्यार्थहेतुकं काव्यलिङ्गम् ॥ १४ ॥
यदराज्ञि राजवदिहार्यमुपहितमिदं मुरद्विपि ।
ग्राम्यमृग इव हविस्तदयं भजते ज्वलत्सु न महीशवह्निषु॥१५॥
यदिति ॥ अराज्ञि । अभिषेकादिराजगुणविरहिणीत्यर्थः । 'नञस्तत्पुरुषात्' (५।४।७१) इति समासान्तप्रतिषेधः । इहास्मिन्सुरद्विषि कृष्णे । अपात्रत्वद्योतनार्थमसंप्रदानविभक्तिनिर्देशः । राजानमर्हतीति राजद्राजार्हम् । तदर्हमिति वतिप्रत्ययः, 'तद्धितश्चासर्वविभक्तिः (१॥१॥३८) इत्यव्ययत्वम् । यदिदमर्घ्यमर्घार्थं द्रव्यम् । अर्हणमित्यर्थः । उपहितमर्पितं तदर्घ्यमयं कृष्णः महीशा अवनिपा वह्नयश्चाहवनीयादय इवेत्युपमितसमासः । तेषु महीशवह्निषु ज्वलत्सु सत्सु, अन्यत्र महीशा इव वह्नयस्तेषु ज्वलत्सु सत्स्वित्यर्थः । ग्राम्यमृगः शुनको हविरिव न भजते न प्राप्नोति । उपमालंकारः ॥ १५॥
अनृतां गिरं न गदसीति जगति पटहैर्विघुष्यसे ।
निन्द्यमथ च हरिमर्चयतस्तव कर्मणैव विकसत्यसत्यता ॥१६॥
अनृतामिति ॥ हे पार्थ, अनृतामसत्यां गिरं न गदसि न वदसीति जगति लोके पटहैर्वाद्यविशेषैः कर्तृभिर्विघुष्यसे उद्घोष्यसे । अथ च तथापि निन्द्यं हरिमर्चयतस्तव कर्मणा अपूज्यपूजाकरणेनैवासत्यता सत्यहीनता विकसति प्रकाशते । अनासत्यप्रसिद्धसत्याचरणयोर्विरूपयोर्घटनाद्विरूपघटनारूपो विषमालंकारः॥ १६॥
तव धर्मराज इति नाम कथमिदमपष्ट पठ्यते ।
भौमदिनमभिदधत्यथवा भृशमप्रशस्तमपि मङ्गलं जनाः॥१७॥
यदि वार्चनीयतम एष किमपि भवतां पृथासुताः ।
शौरिवनिपतिभिनिखिलैरवमाननार्थमिह किं निमन्त्रितैः॥१८॥
यदि वेति ॥ हे पृथासुताः कौन्तेयाः, एष शौरिर्वा शौरिरेवेत्यर्थः। 'वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये' इति विश्वः । किमपि कथमपि भवतां अर्चनीयतमो यदि पूज्यश्चेत् । तर्हीति शेषः । अवमाननं तिरस्कारः तस्मै तदर्थमेव । अर्थेन सह नित्यसमासः सर्वलिङ्गता च वक्तव्या । क्रियाविशेषणम् । निमन्त्रितैराहूतैः निखिलैरवनिपतिभिरिह किम् । कोऽर्थः साध्य इत्यर्थः । अत एव साधनक्रियापेक्षया करणत्वे तृतीया । अत्र गम्यमानक्रियापेक्षयापि कारकवृत्तिरिति न्यायो घोत्यते । अत्र सकलराजनिषेधस्य पूर्ववाक्यार्थहेतुकत्वात्काव्यलिङ्गभेदः ॥ १८॥
अथ त्रिभिर्भीष्मोपालम्भमाह-
अथवा न धर्ममसुबोधसमयमवयात बालिशाः ।
काममयमिह वृथापलितो हतबुद्धिरप्रणिहितः सरित्सुतः॥१९॥
अथेत्यादि ॥ अथवा बालिशा मूर्खाः । यूयमिति शेषः । सुबोधो न भवतीत्यसुबोधो दुर्बोधः समय आचारो यस्य तं धर्मं नावयात न जानीत । अवपूर्वाद्याधातोर्लोटः 'तस्थस्थ-' (३।४।१०१) इत्यादिना थस्य तादेशः । किंतु वृथा निष्फलं पलितं यस्य स वृथापलितः । वृथापरिणत इत्यर्थः । 'पलितं जरसा शौक्लयम्' इत्यमरः । वृथात्वे हेतुः-हतबुद्धिर्नष्टमतिरयं सरित्सुतो भीष्मोऽपि काममप्रणिहितोऽनवहितः प्रमत्तः । बालाः पार्था न जानन्तु हन्त, वृद्धोऽपि न जानातीति चित्रमित्यर्थः । अत एव सत्यपि कारणे कार्यानुदयाद्विशेषोक्तिरलंकारः| तथा बालिशत्वधर्मदुर्बोधत्वयोर्विशेषणगत्या धर्मज्ञानाहेतुत्वात्काव्यलिङ्गं चेत्यनयोः सापेक्षत्वात्संकरः ॥ १९ ॥
स्वयमेव शन्तनुतनूज यमपि गणमयमभ्यधाः ।
तत्र मुररिपुरयं कतमो यमनिन्द्यबन्दिवदभिष्टुषे वृथा॥२०॥
स्वयमेवेति ॥ हे शन्तनुतनूज भीष्म । स्वयमेवेत्यर्थः । यमपि गणं वर्गमर्घ्यमर्घार्हं पूज्यम् । 'दण्डादिभ्यो यत्' (५।१।६६) इति यत्प्रत्ययः । अभ्यधा अवोचः । 'स्नातकं गुरुम्' (१४५५) इत्यादिश्लोक इति भावः । धाधातोर्लङि 'गातिस्था-'(२।४।७७) इत्यादिना सिचो लुक् । तत्र स्नातकादिगणे अयं मुररिपुः कतमः । न कोऽपीत्यर्थः । मास्तु अस्तु वा, अस्मदुपालम्भे को हेतुरत आह—यमिति । यं मुररिपुमनिन्द्यबन्दिवत्प्रगल्भवैतालिकवदित्युपमा । अभिष्टुषे मिथ्या स्तौषि । त्वमिति शेषः । अतस्त्वमेवोपालभ्य इति भावः । 'उपसर्गात्सुनोति ' (८।३।६५) इत्यादिना षत्वम् ॥ २० ॥
अवनीभृतां त्वमपहाय गणमतिजडः समुन्नतम् ।
नीचि नियतमिह यच्चपलो निरतः स्फुटं भवसि निम्नगासुतः२१
अवनीति ॥ अतिजडोऽतिमूढोऽतिशीतश्च चपलोऽस्थिरः सत्वरश्च त्वं समु-
पाठा०-१ 'मृषा'. २ 'स्वयमेव त्वमेवेत्यर्थः'. ३ 'तवोपालम्भे'. । न्नतमुन्नतमवनीभृतां राज्ञां, भूधराणां च गणमपहाय । न्यञ्चतीति न्यङ् तस्मिन्नीचि नीचवृत्ते, निम्ने च । 'अचः' (६४।१३८) इत्यकारलोपे 'चौ' (६॥३॥१३८) इति दीर्घः । इहास्सिन्कृष्णे यद्यस्मान्नियतं नित्यं निरतोऽनुरक्तः प्रवणश्च स इति शेषः । निम्नं नीचं गच्छतीति निम्नगा नदी । डो 'अन्यत्रापि दृश्यते' (वा०) इति डप्रत्ययः । तस्याः सुतो भवसि स्फुटं व्यक्तम् । नीचनिरतत्वादिधर्मसंक्रमादिति भावः । उक्तं च-'न पित्र्यमनुवर्तन्ते मातृकं द्विपदाः' इति । अत्र चतुर्थपादार्थस्य पूर्ववाक्यार्थहेतुकत्वात्काव्यलिङ्गभेदः ॥ २१ ॥
अथ सप्तदशभिः कृष्णोपालम्भं करोति-
प्रतिपत्तुमङ्ग घटते च न तव नृपयोग्यमर्हणम् ।
कृष्ण कलय ननु कोऽहमिति स्फुटमापदां पदमनात्मवेदिता २२
प्रतिपत्तुमिति ॥ हे अङ्ग, तव नृपयोग्यं राजार्हमर्हणं पूजनं प्रतिपत्तुं स्वीकर्तुं न च घटते न युज्यते । नन्वहमपि राजैव कथमर्हणं मे न युक्तं तत्राह- कृष्णेति । हे कृष्ण, अहं क इति कलय । अहं राजा न वेति निजस्वरूपमालोचयेत्यर्थः| अनालोचनेऽनर्थमाह-अनात्मवेदिता अनात्मज्ञत्वं आपदां पदं स्थानं स्फुटं खलु । सत्यमित्यर्थः । आत्मा च कंसकिङ्करस्तस्य पशुपालकत्वादिति भावः । अतो निजस्वरूपं चिन्त्यमिति हेतुमद्भावात्काव्यलिङ्गम् ॥ २२ ॥
असुरस्त्वया न्यवधि कोऽपि मधुरिति कथं प्रतीयते ।
दण्डदलितसरघः प्रथसे मधुसूदनस्त्वमिति सूदयन्मधु ॥२३॥
असुर इति ॥ मधुरिति कोऽप्यसुरस्त्वया न्यवधि हतः । 'आत्मनेपदेष्वन्यतरस्याम्' (२।४।४४) इति हन्तेर्लुङि विकल्पाद्वधादेशः । इति कथं प्रतीयते विश्वस्यते । न कथंचिदित्यर्थः । 'प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु' इत्यमरः । किंतु दण्डेन दलिता ध्वस्ता सरघा मधुमक्षिका येनेदृशस्त्वम् । 'सरघा मधुमक्षिका' इत्यमरः । अत एव मधु क्षौद्रं सूदयन्पीडयन् मधुसूदन इति प्रथसे प्रथितोऽसि | मक्षिकासूदनमेव मधुसूदनसंज्ञाप्रवृत्तिनिमित्तं, न तु मधुनानो दैत्यस्य सूदनमित्यर्थः । अत्र मधुसूदनसंज्ञायां प्रसिद्धार्थनिषेधस्योत्तरवाक्यस्यान्यथा व्युत्पादनहेतुत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ २३ ॥
मुचुकुन्दतल्पशरणस्य मगधपतिशातितौजसः ।
सिद्धमबल सबलत्वमहो तव रोहिणीतनयसाहचर्यतः ॥२४॥
मुचुकुन्देति ॥ हे अबल बलहीन, कुतः मुचुकुन्दो नाम कश्चिद्राजा । यस्यासुरविजयश्रान्त्या निद्रायमाणस्य देवतावरप्रसादान्निद्राविघातकारी दृष्टिपाताद्भस्मीभवतीति तस्य तल्पं शय्या तदेव शरणं रक्षकं यस्य तस्य । कालयवनविद्रावितस्येति भावः । तथा मगधपतिना जरासंधेन शातितौजसः अष्टादशकृत्वो
पाठा०-१ 'यवनपति". भग्नवीर्यस्य तव रोहिणीतनयस्य बलापरनाम्रो बलभद्रस्य साहचर्यतः साहचर्यात् बलत्वं सिद्धम् । न तु स्वबलसंपत्त्येत्यर्थः। अहो इति कारणं विना कार्योदयादाश्चर्यम्| अत एव विभावनालंकारः । पुण्यैर्यशो लभ्यत इति भावः ॥ २४ ॥
छलयन्प्रजास्त्वमनृतेन कपटपटुरैन्द्रजालिकः ।
प्रीतिमनुभवसि नग्नजितः सुतयेष्टसत्य इति संप्रतीयसे ॥२५॥
छलयन्निति ॥ इन्द्रजालं वेत्तीत्यैन्द्रजालिकः । अत एव कपटपटुर्वञ्चनाकुशलस्त्वमनृतेनासत्येन प्रजाश्छलयन्वञ्चयन् इष्टं सत्यं यस्य स इष्टसत्यः प्रियसत्य इति संप्रतीयसे सम्यक्ख्यायसे । 'प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः' इत्यमरः| नग्नजितो नग्नजिन्नाम्नो राज्ञः । सुतया सत्यभामया सत्यापराख्यया प्रीतिमानन्दमनुभवसि| सत्यायोगादिष्टसत्यो न तु सत्ययोगादिति भावः । अत्र हरेः सत्यसंबन्धेऽपि तदसंबन्धोक्तेः संबन्धेऽसंबन्धरूपातिशयोक्तिः ॥ २५ ॥
धृतवान्न चक्रमरिचक्रभयचकितमाहवे निजम् ।
चक्रधर इति रथाङ्गमदः सततं बिभर्षि भुवनेषु रूढये ॥२६॥
धृतवानिति ॥ आहवे युद्धे अरिचक्रादरिसैन्याद्भयेन चकितं संभ्रमं 'चकितं भयसंभ्रमः' इति सज्जनः । निजमात्मीयं चक्रं सैन्यं न धृतवान्नावलम्बितवान्| न रक्षितवानित्यर्थः। किंतु चक्रधर इति भुवनेषु रूढये प्रसिद्धये । अदः इदं रथाङ्गं चक्रापराख्यं सततं बिभर्षि दधासि । वृथाभारमिति भावः । 'चक्र सैन्यरथाङ्गयोः' इति हेमसज्जनौ । अयोविकारधरः चक्रधरो भवान्नारिभीतिचक्रधारकत्वादित्यर्थः । अत्र हरौ भगवति चक्रधारणसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिः ॥ २६॥
जगति श्रिया विरहितोऽपि यदुदधिसुतामुपायथाः।
ज्ञातिजनजनितनामपदां त्वमतः श्रियः पतिरिति प्रथामगाः २७
अभिशत्रु संयति कदाचिदविहितपराक्रमोऽपि यत् ।
व्योम्नि कथमपि चकर्थ पदं व्यपदिश्यसे जगति विक्रमीत्यतः २८
अभीति ॥ संयति युद्धे कदाचित् कदापि अभिशत्रु शत्रुमभिव्याप्य । आभिमुख्येऽव्ययीभावः । अविहितपराक्रमोऽप्यकृतपौरुषोऽपि यद्यस्मात्कथमपि महता प्रयत्नेन व्योन्नि पदं पादक्षेपं चकर्थ कृतवानसि । 'ऋतो भारद्वाजस्य' (७२।६३) इति इट्प्रतिषेधः पित्त्वेनाकित्त्वाद्गुणः । अतो जगति विक्रमी विक्रमवानिति व्यपदिश्यसे व्यवह्वियसे, न तु पराक्रमयोगादित्यर्थः । अत्रापि पराक्रमसंबन्धोक्तरतिशयोक्तिः ॥ २८॥
पृथिवीं बिभर्थ यदि पूर्वमिदमपि गुणाय वर्तते ।
भूमिभृदिति परहारितभूस्त्वमुदाह्रियस्व कथमन्यथा जनैः २९
पृथिवीमिति ॥ पूर्व प्रागपि । संपत्संभवेऽपीति भावः । पृथिवीं बिभर्थ यदि भृतवांश्चेत् । भृजो लिटि भारद्वाजीयेट्प्रतिषेधः । पित्त्वेनाकित्त्वाद्गुणः । इदं भूधारणमपि गुणायोत्कर्षाय वर्तते । भूतपूर्वगत्यापि व्यपदेशत्वात्तदपि नास्तीति भावः । प्रत्युत परैः शत्रुभिः हारितभूः परिहारितभूमिक: जरासंधेन मथुरानगरान्निष्कासितत्वादिति भावः । अत्र हर्तुरवहरणक्षमत्वमेव हारयितृत्वमिति णिजर्थोपपत्तिः । जनैः कथमन्यथा अर्थवैपरीत्येन भूमिभृदित्युदाहियस्व उदाह्रितयेथाः । संभावनायां लोट् । असंभावितमेवेत्यर्थः । अत्रापि भूधरणसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिः ॥ २९ ॥
तव धन्यतेयमपि सर्वनृपतितुलितोऽपि यत्क्षणम् ।
क्लान्तकरतलधृताचलकः पृथिवीतले तुलितभूभृदुच्यसे ॥३०॥
तवेति ॥ तवेयं धन्यता पुण्यवत्ता कथं सर्वैर्नृपतिभिस्तुलितोऽवधूतोऽपि । तिरस्कृतोऽपीत्यर्थः । क्षणं क्लान्ते भारवत्तयैव श्रान्ते करतले धृतः अचलकोऽल्पाचलो येन स सन् पृथिवीतले तुलितभूभृदुद्धृतराजकश्चोच्यस इति यत् इयमप्यपरा ते धन्यतेत्यर्थः । गोवर्धनाख्यक्षुद्रभूधरतोलनात्तुलितभूभृत्त्वं भवति न मादृशामिव महावीरातितुलनादिति भावः । अत्र सर्वनृपतितुलितोऽपि तत्तोलक इति विरोधो भूभृदिति श्लेषमूलाभेदाध्यवसायोत्थापित इति विरोधातिशयोक्त्योः संकरः । तेन गोवर्धनोद्धरणमपि नातीवाद्भुतं बाहुबलशालिनामिति वस्तु व्यज्यते ॥३०॥
त्वमशक्नुवन्नशुभकर्मनिरत परिपाकदारुणम् ।
जेतुमकुशलमतिर्नरकं यशसेऽधिलोकमजयः सुतं भुवः॥३१॥
त्वमिति ॥ हे अशुभकर्मनिरत पापाचारपर, अत एवाकुशलमतिर्दुर्बुद्धिस्त्वं परिपाके फलकाले दारुणम् । विचित्रपापयातनामयत्वाद्भयंकरमित्यर्थः । नरकं निरयम् । 'स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम्' इत्यमरः । जेतुमशक्नु वन् । पापिष्टैर्दुर्जयत्वादिति भावः । अधिलोकं लोके । विभत्त्यर्थेऽव्ययीभावः । यशसे नरकविजयीति प्रसिद्धये भुवः सुतं नरकाख्यमजयो जितवानसि । परलो- कप्रातारणमात्रपरो न परलोकबाध्योऽसीति भावः । अत्र निरयापराख्यनरकविज- याशक्तेर्विशेषणगत्या तज्जयस्यार्थिनो हरेर्नरकासुरविजयप्रकृतिहेतुकत्वात्पदार्थहेतुकं काव्यलिङ्गम् । तच्च नरकयोः श्लेष्ममूलाभेदात्तदुत्थापितमिति संकरः ॥ ३१ ॥
सकलैर्वपुः सकलदोषसमुदितमिदं गुणैस्तव ।
त्यक्तमपगुण गुणत्रितयत्यजनप्रयासमुपयासि किं मुधा ॥३२॥
सकलैरिति ॥ हे अपगुण निर्गुण, सकलैः सर्वदोषैः समुदितं युक्तं तवेदं वपुः सकलैर्गुणैः शौर्यादिभिस्त्यक्तम् । सर्वगुणान्निवर्तितमेवेत्यर्थः । एवं च सति गुणत्रितयस्य त्यजने त्यागे यः प्रयासः तं मुधा वृथा किं किमर्थमुपयासि । मुमुक्षयेति भावः । यत्र सकलगुणस्य त्यागस्तत्र गुणत्रयस्य त्यागोऽन्तर्गत्या सिद्ध एव, अन्यथा साकल्यव्याघातादित्यर्थः । स्वभावतो निर्गुणस्य परवस्तुनः कुतो गुणत्रयचिन्तेति ध्वनिः । गुणत्रयत्यागनिषेधस्य सकलैरित्यादिवाक्यार्थहेतुकत्वात्काव्यलिङ्गभेदः ॥ ३२ ॥
त्वयि पूजनं जगति जाल्म कृतमिदमपाकृते गुणैः ।
हासकरमघटते नितरां शिरसीव कङ्कतमपेतमूर्धजे ॥ ३३ ॥
त्वयीति ॥ हे जाल्म असमीक्ष्यकारिन् , 'जाल्मोऽसमीक्ष्यकारी स्यात्' इत्यमरः । गुणैरपाकृते निरस्त गुणैहीने त्वयि पूजनं कृतं जगति हासकरं परिहासजनकं इदं पूजनम् । अपेतमूर्धजेऽपगतकेशे शिरसि कङ्कतं दारुदन्तादिमयः केश- प्रसाधनविशेषः । 'प्रसाधने कङ्कतिका' इति विश्वामरौ । कङ्कतमेव कङ्कतिका । 'कंकणम्' इति पाठे शेखरमित्यर्थः। 'कङ्कणं शेखरे हस्तसूत्रमण्डनयोरपि' इति विश्वः । तदिव नितरामघटते । न संगच्छत इत्यर्थः । 'नजो नलोपस्तिङि क्षेपे' (वा०) इत्युपसंख्यानमिति निन्दायां तिङ्योगेऽपि नलोपः। उपमालंकारः ॥३३॥
संप्रति राज्ञां रोषमुत्पादयन्नाह-
मृगविद्विषामिव यदित्थमजनि मिषतां पृथासुतैः ।
अस्य वनशुन इवापचितिः परिभाव एव भवतां भुवोऽधिपाः ॥३४॥
अवधीञ्जनंगम इवैष यदि हतवृषो वृष ननु ।
स्पर्शमशुचिवपुरर्हति न प्रतिमाननां तु नितरां नृपोचिताम् ॥ ३५ ॥
अवधीदिति ॥ हतवृषो हतसुकृतः। 'सुकृतं वृषभे वृषे' इति विश्वः । एष कृष्णो जनंगमश्चाण्डाल इव । 'चाण्डालप्लवमातङ्गदिवाकीर्तिजनंगमाः' इत्यमरः । 'गमश्च' (३।२।४७) इति संज्ञायां जनपूर्वाद्गमधातोः खच्प्रत्ययः "अरुर्द्विषत्-' (६।३।६७) इत्यादिना मुमागमः । वृषं वृषभरूपिणमरिष्टाख्यमसुरमवधीद्यदि हतवांश्चेत् । 'लुङि च' (२।४।४३) इति हनो वधादेशः । अत एव अशुचिवपुरशुद्धामा स्पर्श नार्हति । नृपोचितां राजाही प्रतिमाननां पूजां तु नितरां नार्हति । स्पर्शायोग्यो गोघ्नः कथं पूज्य इत्यर्थः । उपमा ॥ ३५ ॥
यदि नाङ्गनेति मतिरस्य मृदुरजनि पूतनां प्रति ।
स्तन्यमघृणमनसः पिवतः किल धर्मतो भवति सा जनन्यपि ॥३६॥
दीयति ॥ अस्य कृष्णस्य मतिः पूतना नाम बालग्रहविशेषः, तां प्रति अङ्गनेति हेतोर्मृदुः कृपा दया नाजनि यदि न जाता चेत् मास्त्विति शेषः । जनेः कर्तरि लुङ् 'दीपजन-' (३।१।६१) इत्यादिना चिण्प्रत्ययः । अघृणमनसो निर्घृणचित्तस्य । स्तने भवं स्तन्यं पयः । 'शरीरावयवाद्यत्' (५।१।६) इति यत्प्रत्ययः । पिबतोऽस्य सा पूतना धर्मतः शास्त्रतो जनन्यपि माता च भवति खलु । स्त्रीति कृपाभावेऽपि मातेति जुगुप्साप्यस्य नास्तीत्यहो न केवलं स्त्रीहन्ता, किंतु मातृहन्ता चायम् । स्तनप्रदाया उपमातृत्वादिति भावः । अत्र स्तनपानस्य विशेषणगत्या जननीत्वहेतुत्वात्काव्यलिङ्गम् ॥ ३६ ॥
शकटव्युदासतरुभङ्गधरणिधरधारणादिकम् ।
कर्म यदयमकरोत्तरलः स्थिरचेतसां क इव तेन विस्मयः॥३७॥
शकटेति ॥ तरलश्चपलोऽयं कृष्णः शकटव्युदासः शकटासुरमर्दनं तरुभङ्गो यमलार्जुनभञ्जनं धरणिधरधारणं गोवर्धनोद्धरणम् , तानि आदिर्यस्य तत्तथोक्तं यत्कर्माकरोत्तेन कर्मणा स्थिरचेतसां धीरचित्तानां क इव विस्मयः । न कोऽपीत्यर्थः । अत्र स्थिरचेतस्कताया विशेषणगत्या विस्मयनिषेधहेतुत्वात्काव्यलिङ्गं वृत्त्यनुप्रासेन संसृज्यते ॥ ३७॥
अयमुग्रसेनतनयस्य नृपशुरपरः पशूनवन् ।
खामिवधमसुकरं पुरुषैः कुरुते स्म यत्परममेतदद्भुतम् ॥३८॥
अयमिति ॥ अपरोऽन्यः ना पशुरिवेति नृपशुरित्युपमितसमासः ।कार्याकार्यविवेकशून्यत्वादेवेत्यर्थः । अयं कृष्णः उग्रसेनतनयस्य कंसस्य पशूनवन् गाः पालयन् पुरुषैरसुकरं लोकवेदविगीतत्वाद्दुष्करं स्वामिवधं यत्कुरुते स्म । चकारेति यावत् । एतत्परममद्भुतम् । अभूतपूर्ववदिति भावः । अत्र पश्ववनस्य विशेषण गत्या कंसकृष्णयोः स्वामिभृत्यभावहेतुत्वाकाव्यलिङ्गम् ॥ ३८॥ ये चतुर्स्त्रिशच्छ्लोकाः 'प्रक्षिप्ताः' इति मन्यमानेन मल्लिनाथेन
न व्याख्यातास्ते वल्लभदेवकृतव्याख्यासमेताः प्रदर्श्यन्ते-
[किमवोचदित्याह-
ननु सर्व एव समवेक्ष्य कमपि गुणमेति पूज्यताम् ।
सर्वगुणविरहितस्य हरेः परिपूजया कुरुनरेन्द्र को गुणः॥१॥
नन्विति ॥ हे कुरुनरेन्द्र कौरवनाथ, ननु सर्व एव कश्चित्कमपि पौरुषश्रु- तादिकं गुणं समवेक्ष्य पूज्यतामेति पूज्यते । गुणाः पूजाया निमित्तमित्यर्थः । यदि वा गुणं स्वप्रयोजनं पर्यालोच्य । अतश्चैवंस्थिते अस्य हरेर्वानरतुल्यस्य सर्वैर्गुणैः कृतज्ञत्वादिभिर्विरहितस्य विशेषेण रहितस्य परिपूजनात्को गुणः । एनमर्चयित्वा न कश्चिद्गुणस्त्वया प्राप्तः । ननुरमर्षे । कमपि । स्वल्पमपीत्यर्थः । हरिर्वानरः तत्साधार्म्याद्भगवानत्र हरिविवक्षितः । यथाग्निर्माणवक इति तत्त्वम् । यादृशस्तादृशस्त्वम् । येनागुणं पूजयसीति 'कुरुनरेन्द्र' इत्यामन्त्रणपदेन सूच्यते ॥
अत्र कविरतिभक्तत्वाद्भगवतः कथाक्रमागतामपि निन्दामसहमानः प्रतीयमानां स्तुतिं व्यरचयदिति तदर्थोऽधुना व्याख्यायते-हरेर्विष्णोः परिपूजया कोऽगुणः, अपि तु स्वर्गादिको गुणः । नतु गुण एवेत्यर्थः । यदि वा को गुणो नीरागत्वेन । नैवास्य उपकार इत्यर्थः । कीदृशस्य । सर्वैस्त्रिभिरपि गुणैः सत्त्वरजस्तमोभिर्विरहितस्य । 'निर्गुणो हि पुरुषः' इति सांख्याः । अत्र द्वितीयार्धमेव तेन भिद्यते । प्रथमार्धे तु न किंचित्प्रयोजनम् । नहि तत्र ते गुणा निन्दागताः । पूज्यतामेतीतीण्धात्वर्थस्य तु अवेक्षत्येकः कर्ता । य एव हि समीक्षते स एव पूज्यते इति ल्यब् भवत्येव । सर्वो गुणान्दृष्ट्वा पूज्यत इत्यर्थः । वक्रश्लेषोऽत्र ।- निन्दास्तुतावकारः ॥ १॥
तदेव निर्गुणत्वं दर्शयितुमाह-
न महानयं न च बिभर्ति गुणसमतया प्रधानताम् ।
स्वस्य कथयति चिराय पृथग्जनतां जगत्यनभिमानतां दधत्॥२॥
नेति ॥ अयं हरिः न महान् सर्वोत्कृष्टः । सर्वनाम सर्वत्र प्रत्यक्षनिर्देशे । कदाचिदन्येषां प्रधानानां गुणैः समः स्यात्तदापि पूज्यः । एतदपि नेत्याह- गुणसमतया गुणसाम्येन या प्रधानतां विवक्षितत्वं तदपि न बिभर्ति । यतोऽन्येषां गुणैरसम इत्यर्थः । गुणोत्कर्षाद्धि प्राधान्यमाप्यते । कदाचित् महत्प्रधानं च न भवेद्यावद्धतोऽपि (?) न तत्स्यात् । तदपि नेत्याह–अनभिमानितां निरहंकारित्वं दधत्स्वस्यात्मनः चिराय जगति पृथग्जनतां हीनत्वं कथयति । प्राक- तोऽपि निरभिमानो भवति । इति निन्दा ॥
स्तुतिस्तु-अयं न महान् महत्तत्त्वं न भवति । गुणानामुद्रेके साम्याभावे बुद्धेरेव महत्त्वम् । अथ गुणानां सत्त्वरजस्तमसां समतया या प्रधानता तामपि न बिभर्ति । प्रधानमप्ययं न भवतीत्यर्थः । अनुभूतविक्रियाणि प्रकृतिस्थानि सत्त्वरजस्तमांसि प्रधानशब्देनाहुः । तथाऽनभिमानितामनहंकारितां दधत्स्वस्यात्मनः पृथग्जनतां जनव्यतिरिक्तत्वं कथयतीति वा । जनाः पञ्चतन्मात्राणि । पृथग्भूतो जनेभ्यः, पृथग्वा जनो यस्मात्स पृथग्जनः । तद्भावस्तत्ता तां कथयति । सर्वातीतत्वात् । तेनायं 'न महान् , न प्रधानम्, न भूतानि, न तन्मात्राणि, नाहंकारः' इति वाक्यार्थः । पञ्चविंशकोऽयं पुरुषः । चतुर्विंशकबाह्य इति यावत् ॥२॥
भूयोऽपि निर्गुणत्वमाह-
रहितं कलाभिरखिलाभिरकृतरसभावसंविदम् ।
क्षेत्रविदमपदिशन्ति जनाः पुरवाह्यमेनमगतं विदग्धताम् ॥३॥
रहितमिति ॥ एनं हरिं क्षेत्रविदमपदिशन्ति कर्षकमाहुः । अत एव पुरबाह्यं ग्राम्यम् । कार्षिका हि नगराबहिर्वसन्ति । यद्वा पुरस्य वाहनीयो वाह्यः पुरायत्तः । तथा सर्वाभिः कलाभिर्गीतवाद्यादिभिर्वर्जितम् । यतः अकृता रसानां शृङ्गारादीनां भावानां रत्यादिकानां च संवित् संकेतः संवचनं येन । विदग्धशास्त्राणां संकेतमपि यो न वेदेत्यर्थः । यतो विदग्धतां वैदग्ध्यमगतमप्राप्तम् । इति निन्दा ॥
स्तुतिस्तु-- एनं भगवन्तं क्षेत्रज्ञमात्मानमामनन्ति । क्षेत्रं शरीरम् । कीद्दशम् । समग्राभिः कलाभिरवयवै रहितं निष्कलम् । प्रकृतरसा अविहितरागा भावसंवित्पदार्थसंवेदनं यस्य । पुरुषो हि भावान्वेत्ति नतु तत्र रसज्ञतां भजते । यद्वा अविद्यमानाः कृतरसभावाः कर्मरागोत्पत्तयो यस्य स चासौ संवित् चिद्रूपः । पुरादेहाद्बाह्यं विलक्षणम् । विदग्धतां विशेषेण दाह्यत्वमगतम् । यदाह 'नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः' (भ. गी. २।२३) इति ॥ ३॥
अतिभूयसापि सुकृतेन दुरुपचर एष शक्यते ।
भक्तिशुचिभिरुपचारपरैरपि न ग्रहीतुमभियोगिभिर्नृभिः ॥ ४॥
अतीति ॥ अयमेवंविधैरपि नृभिर्ग्रहीतुमावर्जयितुं न शक्यते । कीदृशैः । भक्त्या तत्त्वतः शुचिभिः शुद्धमतिभिः उपचारपरैराराधनपरैरभियोगिभिः एतन्मनोभिः । कथं तर्हि न शक्यत इत्याह-यतोऽतिभूयसापि बहुतरेणापि सुकृतेनो- पकारेण दुरुपचरो दुराराधः । अकृतज्ञोऽयमिति वाक्यार्थः । इति निन्दा ॥
स्तुतिस्तु-एषोऽभियोगिभिराभिमुख्येन योगिभिरपि नृभिर्ग्रहीतुं परिच्छेत्तुं न शक्यते । आत्मतत्त्वस्य दुर्ज्ञानत्वात् । कीदृगेषः । अतिभूयसापि सुकृतेन यज्ञदानादिना दुरुपचरो दुराराधः भक्तिगम्यो हि भगवान् । कीदृशैर्नृभिः । भक्त्या शुचिभिर्निर्मलीमसैः । केचित्त्वमताशङ्कया ननं काका व्याचक्षते । नैष सुकृतेन दुरुपचरो योगिभिरपि न ग्रहीतुं शक्यते । परंतु तैरेव ज्ञायत इत्यर्थः । यदुक्तम् 'नाहं वेदैर्न तपसा-' (भ. गी. ११।५३) इत्यादि ॥ ४ ॥ बजति खतामनुचितोऽपि सविनयमुपासितो जनैः।
नित्यमपरिचितचित्ततया पर एव सर्वजगतस्तथाप्ययम् ॥५॥
बजतीति ॥ अयमनुचितोऽप्ययोग्योऽपि स्वतां जन्मना ज्ञातित्वं याति । असमोऽपि शिशुपालस्याहं स्वजन इति वक्तीत्यर्थः । तथा जनैः सविनयं साचार सेवितोऽपि परः शत्रुरेवायं त्रिभुवनस्य । यद्ययमकृतप्रज्ञः सेवितोऽपि शत्रुस्तत्कथं जनाः सेवन्त इत्याह-अपरिचितचित्ततया चलचित्ततया अविश्वा- सहृदयत्वेन सर्वजगतः परमेवेति योज्यम् । इति निन्दा ॥
स्तुतिश्च-असौ स्वतामात्मत्वं व्रजति प्रतिपद्यते । क्षेत्रज्ञोऽयमित्यर्थः । 'लोकप्रसिद्ध्यात्र स्वशब्देनात्मोक्तः । आत्मात्मीयज्ञातिधनवचनः स्वशब्दः सांख्या ह्यात्मानं स्वामिशब्दवाच्यमाहुः । कीदृशोऽयम्- अनुचितोऽप्यनभ्यस्तोऽप्यज्ञेयोऽपि सविनयमेकाग्रेण योगिभिरुपासितश्चिन्तितः । तस्मात्सर्वस्माज्जगतो व्यक्तात्परो विलक्षणः । कुतः । अपरिचितमसंगतं चित्तं मनो बुद्धिर्वा यस्य सोऽपरिचितचित्तः तद्भावस्तत्ता तया । अन्यो ह्यात्मा, अन्या च बुद्धिः, अन्यच्च चित्तम् , जगञ्चेदं प्राकृतो भागः ॥ ५॥
उपकारिणं निरुपकारमनरिमरिमप्रियं प्रियम् ।
साधुमितरमबुधं बुधमित्यविशेषतः सततमेष पश्यति ॥६॥
उपकारिणमिति ॥ अयमुपकारिणमपकारिणं च अविशेषेण पश्यति । अपकारिणमिवोपकारकमप्यसौ स्वया दृष्ट्या पश्यतीत्यर्थः । इत्यकृतज्ञत्वकथनम् । एवमन्यत्र । तथा अरिं शत्रुं त्वनरिं मित्रम् । नायं नियमो यन्मित्रमुपकार्येव भवति । अनुपकारकश्च शत्रुरेव संभवति । अप्रियं द्वेष्यं प्रियं मनोज्ञम् । साधुमार्यमितरं खलम् । अबुधं मूर्ख बुधं पण्डितम् । इति दुरुक्तनिर्देशः । एषा निन्दा ॥
स्तुतौ तु-निर्गुणत्वात्पुरुषस्य समदृष्टित्वम् ॥ ६॥
उपकारकस्य दधतोऽपि बहुगुणतया प्रधानताम् ।
दुःखमयमनिशमाप्तवतो न परस्य किंचिदुपकर्तुमिच्छति ॥७॥
उपकारकस्येति ॥ अयं परस्यान्यस्य किंचिदपि मनागपि नोपकर्तुमिच्छति । उपकारकरणे बुद्धिरेवास्य न भवतीत्यर्थः । कदाचित्परोऽनुपकारी स्यादित्याह- उपकारकस्यापि अत एवैतदर्थमनिशं दुःखं क्लेशमाप्तवतः प्राप्तस्य । कदाचिदमुख्यः परः स्यात् , तदप्रत्युपकारित्वेन तथा लज्जादोषो भवेदित्याह-बहुगुणतया श्रुतशौर्यादिसद्भावेन प्रधानतां मुख्यत्वं दधतो बिभ्रतः । तदेतेन पूर्वोक्तार्थों दृढीकृतः । इति निन्दा ॥
स्तुतिस्तु-अयं परस्य बुद्धितत्त्वस्य प्रधानसंज्ञकस्य किंचिदपि नोपचिकीर्षति-। द्रष्टा हि पुरुषो न सक्रियः । कीदृशस्य । पुरुषप्रवृत्तिद्वारेणोपकारकस्या तथा बहवः त्रयोऽपि ये गुणास्तद्भावेन प्रधानतां प्रकृतित्वं दधतः । सत्वरज स्तमांसि प्रधानम् । तथा दुःखं जननमरणादिकं सदा प्राप्तस्य । सर्वं हि बुद्धिरनुभवति न पुरुषः ॥७॥
खयमक्रियः कुटिलमेष तृणमपि विधातुमक्षमः ।
भोक्तुमविरतमलज्जतया फलमीहते परकृतय कर्मणः ॥ ८॥
स्वयमिति ॥ एष देवः परकृतस्यान्यनिष्पादितस्य कर्मणः क्रियायाः फलं भोक्तुमीहते वाञ्छति । कथम् । अलज्जतया निस्त्रपत्वेन । कदाचिदैश्वर्यादेवं स्यादित्याह- आत्मना तृणमपि कुटिलं कर्तुमक्षमोऽसमर्थोऽनीशः । यतोऽक्रियोऽलसः । अशक्तया स्वयं निष्क्रियः पराधीनोऽन्यदत्तेन पिण्डेन जीवति । इति निन्दा ॥
अथ च वाक्यार्थपर्यालोचनया स्तुतिः-एष भगवान्परजनितस्य बुद्धिकृतस्य कर्मणः शुभाशुभस्य फलं सुखदुःखात्मकं भोक्तुमीहते । आत्मा हि फलभागीति सांख्याः । कीदृगेष इति पुरुषस्य स्वरूपमाह-स्वयमक्रियो निष्कर्मा । तथा तृणमपि कुटिलं कर्तुमनीशः । निर्लज्जत्वं निर्गुणत्वात् ॥ ८॥
य इमं समाश्रयति कश्चिदुदयविपदोनिराकुलम् ।
तस्य भवति जगतीह कुतः पुनरुद्भवो विकरणत्वमेयुषः॥९॥
य इति ॥ यः कश्चिन्मूर्ख इमं कृष्णं समाश्रयति सेवते तस्यास्मिन्संसारे कुतः पुनरुद्भवो भवति । नैव समुत्थानं भवतीत्यर्थः । य एनमुदये विपदि च निराकुलं निश्चिन्तमाश्रितस्य । यदि संपत्ततोऽस्य नैव सुखम् , यदि वा विपत्ततो नैव दुःखमित्यर्थः । तस्य कीदृशस्य । विकारणत्वं मृतिमेयुषः प्राप्तस्य । एतदाश्रयणात्स मृत एव । सामग्रीवैकल्यं वा विकरणत्वम् इति निन्दा ॥
स्तुतिश्च -यः कश्चिद्योगी एनं परमात्मानं सेवते तस्य विकरणत्वमेयुषो नष्टदेहस्य पुनरिह कुत उद्भवो जन्म । मुक्त एवासावित्यर्थः । कीदृशम् । समुदय- विपदोनिराकुलमव्यग्रम् । अक्रियत्वात् । करणानीन्द्रियाणि । एयुष इत्यापूर्वस्येणः क्वसुः । 'उपेयिवान्-' (३।२।१०९) इत्यत्र हि उपसर्गनिर्देशोऽतन्त्रम् ॥९॥
गुणवन्तमप्ययमपास जनमखिलमव्यवस्थितैः ।
याति सुचिरमतिबालतया धृतिमेक एव परिवारितो जडैः॥१०॥
गुणवन्त मिति ॥ अयं सर्वमेव गुणिनं जनमतिबालतयातिचापलेन हित्वा अव्यवस्थितैश्चपलैः जडैरज्ञैः परिवारितः सन्नजस्रमेक एव धृतिमेति प्रीयते । एतद्वर्जं नान्यो नाकलोकमपास्य गोपमध्ये रमते । इति निन्दा ॥
स्तुतिस्तु-एष भगवान्बालतया बालरूपो भवन् जलैरद्भिः परिवारित आवृतः सुचिरं धृतिमेति । उक्तं च–'संभक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत् । बालः स्वपिति यश्चैकस्तस्मै मायात्मने नमः ॥' (महाभारते शांतिप० ४७।५७) इति । कीदृशैर्जलैः । अव्यवस्थितैर्भरितसकलभुवनैः । किं कृत्वा धृतिं याति । गुणवन्तं सत्त्वाद्याश्रयं जनमपास्य क्षित्वा विनाश्य । सर्वं जनं संहृत्य बालरूपधरो जलमध्येऽयं शेते ॥ १० ॥ सुकृतोऽपि सेवकजनस्य बहुदिवसखिनचेतसः ।
सर्वजनविहितनिर्विदयं सकृदेव दर्शनमुपैति कस्यचित् ॥ ११॥
सुकृत इति ॥ अयं सुकृतोऽप्युपकारकस्याप्याश्रितजनस्य सकृदेकवारमेव दर्शनमुपैति दर्शनं ददाति कस्यचित्, न सर्वस्य । किंभूतः । सर्वजनविहितनिविद् सर्वजनस्य विहिता निर्वित् खेदो येन । कीदृशस्य जनस्य । बहुदिवसखिन्नचेतसः बहुभिर्दिवसैः खिन्नं चेतो यस्य तस्य । चिरकालमेवोद्विग्नचित्तस्येत्यर्थः । इति निन्दा ॥
स्तुतिस्तु-अयं कस्यचिदेव सेवकजनस्य भक्तलोकस्य सकृदेव दर्शनमुपैति । नहि क्षेत्रज्ञः सर्वस्य सदैव । कीदृशस्य । सुकृतः पुण्यकृतः । तथा बहुभिर्दिवसैर्भूयसा कालेन खिन्नचेतसः क्षुण्णमनसः । दीर्घेण योगेन श्रान्तचेतस इत्यर्थः । नह्यनभ्यासगम्य ईश्वरः । अत एव सर्वजनविहितनिर्वेदः । श्रेयस्यपि चिरकालमभ्यसनो निर्विद्यते । यदि वा सर्वेषु जनेषु विगतौ हितनिवेदौ यस्य स सर्वजनविहितनिर्विद् । नास्य कश्चित्प्रियो न च द्वेष्य इत्यर्थः । यदि वा सर्वे जना यत्र स सर्वजनः, विगते हितनिर्विदौ सुखदुःखे यस्य स विहितनिर्वित् । ततः कर्मधारयः । सर्वजनस्य विहिता निर्वित् निर्वाणो येनेत्यन्ये । आश्रितजनं संसारान्मोचयतीत्यर्थः । शोभनं करोति सुकृदुपकारी, पुण्यकृञ्च । निर्विन्निर्वेदो निर्वाणं च ॥११॥
स्वजने सखिष्वनुगतेषु नियतमनुरागवत्स्वपि ।
स्नेहममृदुहृदयः क्षपयन्निरपेक्ष एष समुपैति निर्वृतिम् ॥१२॥
स्वजन इति ॥ एष बन्धुमित्राश्रितेषु प्रीतिं नाशयन्निर्वृतिं सदा समुपैति सुखं प्रामोति । सर्वत्रैव वैरायमाणः सुखायत इत्यर्थः । कदाचिदेते विरक्ताः स्युरित्याह–अनुरक्तेष्विति कथं तर्हि निःस्नेह इत्याह-यतो हृदयेऽमृदुहृदयः क्रूरचित्तः । तथा निरपेक्षो निर्विवेकः । इति निन्दा ॥
स्तुतिस्तु -एष स्वजनादिषु अनुरागवत्स्वपि स्नेहं क्षपयंस्तृष्णां तनूकुर्वन्निवृतिं समुपैति निर्वाणं याति । तृष्णाक्षयात्किल मुक्तिः । अमृदुहृदयः नार्द्रभावो वीतरागत्वात् । यदि वा अमृदु दुर्बोधं हृदयं स्वरूपं यस्य । निरपेक्षो निःसङ्गः । क्षपिर्धातुप्वपठितोऽपि क्रियावाचित्वात्खचिमिलोकस्यार्घत्वादिक(?)वद्धातुरेव ॥ १२॥
क्षणमेष राजसतयैव जगदुदयदर्शितोद्यतिः ।
सत्वहितकृतमतिः सहसा तमसा विनाशयति सर्वमावृतः ॥१३॥
क्षणमिति ॥ एष राजसतया चापलेन क्षणं जगदुदये लोकहिते दर्शितोधतिर्दर्शितोद्यम इति क्रिया । राजसिकत्वेन क्षणमुपकुरुते इत्यर्थः । तमसा तु मोहेन पुनरनन्तरमावृतत्वादहितकृतमतिरुपद्रविहितबुद्धिः सन् सहसैव सर्वं सत् सुकृतं विनाशयति । यदेव पूर्वमुपकृतं तदेव मोहयन्नाशयतीत्यर्थः । सत् सुकृतम् । तु भिन्नक्रमः । इति गर्हा । नुतिरपि-एष त्रिमूर्तिः राजसतया रजोगुणेनाश्रितः सन् ब्रह्मरूपेण जंगदुदये प्रजासर्गे दर्शितोद्यमः । तथा सत्त्वेन गुणेन हिते रक्षायां विहितचित्तो विष्णुरूपेण। तथा तमसा गुणेनावृतः सन् सहसैव सर्वं व्यक्तं रुद्ररूपेण नाशयति ॥ १३ ॥
अभिहन्यते यदभिहन्ति परितपति यच्च तप्यते ।
नास्य भवति वचनीयमिदं चपलात्मिका प्रकृतिरेव हीदृशी॥१४॥
अभीति ॥ यदेष हरिरन्येनाभिहन्यते ताड्यते यच्चैषोऽन्यानभिहन्ति । तथा यत्परितपति बाधते । यच्च तप्यते उपश्रूयते । अतोऽस्य वचनीयता वाच्यता भवति । यतोऽस्यैवंविधैव चपलात्मिका अविनीता प्रकृतिः स्वभावः । स्वभावाञ्चपलस्त्वयोग्यतामर्हति । इति क्षेपः ॥
स्तुतिस्तु-अस्य परमात्मनो यथोक्तं वचनीयं वचनं न भवति न प्रवर्तते । 'एष हन्ति हन्यते तपति परितप्यते च' इति न वाच्यमित्यर्थः । यत ईदृशी चपलात्मिकाऽनेकरूपा प्रकृतिर्बुद्धिः । नत्वेषः । हननादिकं तमसा भवति । पुरुषश्च निर्गुण इत्यर्थः । उक्तं च-'य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥' (भ. गी. २।१९) इति । 'तस्मान्न बध्यतेऽसौ न मुच्यते नापि संसरति । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः॥' तपिः सकर्मकोऽपि । शारीरं दुःखमभिघातः।मानसं तु परितापः॥
अतिसत्त्वयुक्त इति पुंभिरयमतिशयेन वर्ण्यते ।
सूक्ष्ममतिभिरथ चापगते समुपैति नाल्पमपि सत्त्वसंकरम् ॥१५॥
अतीति ॥ एष सूक्ष्ममतिभिः स्वल्पप्रज्ञैर्नृभिः महता सत्त्वेन धैर्येण इति सुष्टु वर्ण्यते । अथानन्तरं चापगते प्राप्तचापे गृहीतधनुषि कस्मिंश्चित्स्वल्पमपि सत्त्वसंकरं पौरुषलेशं न भजति पलायनादिना । परेणोत्तब्धस्यास्य सत्त्वलेशोऽपि न लभ्यत इत्यर्थः । तस्मादयुक्तं च तैर्वर्ण्यत इति भावः । इति निन्दा ॥
स्तुतिस्तु-चापं गतश्चापगतः । यद्वा चापस्य गतं प्राप्तिश्चापगतं तस्मिंश्चापगते । धनुःसंनिधाने सतीत्यर्थः । अथ च सबीजनिर्बोजसमाधौ पुंभियोगिभिः 'सत्वेन गुणेन युक्त' इति कथ्यते । सूक्ष्ममतिभिः कुशाग्रीयबुद्धिभिर्बहुदृश्वभिरपगते ज्ञाते सति निर्बीजसमाधौ स्वल्पमपि सत्यसंकरं नोपैति । निर्गुणो हि पुरुषः । अथ चेति विस्मये ॥ १५॥
प्रलयं परस्य महतोऽपि नियतमिह निःसुखे गुणाः ।
यान्ति जगदपि सदोषमदः खरुचैव पश्यति गुणान्द्विपन्नयम् ॥१६॥
प्रलयमिति ॥ परस्यान्यस्य महतोऽपि मुख्यस्यापीह कृष्णे गुणाः शौर्यादयो नियतमवश्यं प्रलयं यान्ति नश्यन्ति । नैष कस्यचिद्गुणानङ्गीकरोतीत्यर्थः । अविद्यमानं सुखमस्मादिति निःसुखः । गुणापहाराद्धि कुतः सुखम् । यद्वा अविद्यमानं सुखमस्मादिति निःसुखः । अत एव ते नाशमत्र यान्ति । अतश्चायं गुणा न्द्विषन्नखिलमप्येतजगद्विश्वं स्वरुचैवात्मेच्छयैव सदोष पश्यति । गुणद्वेषित्वा- दन्यानपि सदोषान्वेत्तीत्यर्थः । इति निन्दा ॥
अथ स्तुतिः--इह परमात्मनि कृष्णे परस्य बुद्धितत्त्वस्य महतोऽपि महत्तत्त्वस्य च गुणाः सत्त्वरजस्तमांसि प्रलयं यान्ति नाशं गच्छन्ति । पुरुषं प्राप्य निवर्तन्त इत्यर्थः । कीदृशेऽत्र । निःसुखे सुखवर्जिते । अविक्रियत्वात् । सुखासुखे नात्मनः तथैष गुणान्सत्त्वादीन् द्विषन्नभिनन्दनस्पृशन् अदो जगत्प्रकृति सदोषं क्लेशयुक्तं पश्यतीक्षते । द्रष्टा हि पुरुषः प्रकृतेरिष्यते जगत्प्रकृतिर्हि भागो व्यक्तम् । तच्च सदोषं जननमरणयोगात् । केन पश्यति । स्वरुचा आत्मभासा निजशक्तयेत्यर्थः ॥ १६ ॥
एवं सांख्यदर्शनेन स्तुत्वा अधुना पुराणदर्शनेन तुष्टूपुर्निनिन्दिषुश्वाह-
क्षितिपीठमम्भसि निमग्नमुदहरत यः परः पुमान् ।
एष किल स इति कैरबुधैरभिधीयमानमपि तत्प्रतीयते ॥१७॥
क्षितीति ॥ कैरबुधैर्मूखैरिति तदभिधीयमानमप्युच्यमानमपि प्रतीयते । मूर्ख एव सत्यमवगच्छतीत्यर्थः । इतीति किम् । स एष परमपुरुषः । यो वराहरूपेणाम्भसि निमग्नं क्षितिपीठं पृथ्वीमण्डलमुदहरतोद्धृतवान् । इति निन्दा ॥
स्तुतिस्तु-कैश्चिदभिधीयमानं तत् मूर्खैरपि प्रतीयते । मूर्खा अपि सत्यमवगच्छन्तीत्यर्थः ॥ १७ ॥
नरसिंहमूर्तिरयमेव दितिसुतमदारयन्नखैः ।
आप्तजनवचनमेतदपि प्रतिपत्तुमोमिति जनोऽयमर्हति ॥१८॥
नरसिंहति ॥ नृसिंहवपुः सन्नयमेव नखैर्हिरण्यकशिपुमदारयदिति यदाप्तजनवचनं बान्धवभाषितं तदप्ययमेव जनो भीष्मादिकवत् ओमित्येवमेवैतदिति प्रतिपत्तुं ज्ञातुं अङ्गीकर्तुमर्हति । सुहृद एवेत्थमेनं स्तुवन्ति, तच्च मूखैरेव सत्यं बुध्यत इत्यर्थः । इतिशब्दोऽत्रार्थयोः संबन्धोपादानायाध्याहार्यः ॥
स्तुतौ त्वयमर्थः-अयमेव भगवान्नापरो नरसिंहमूर्तिमाश्रित्य नहँदैत्येन्द्रमदारयदित्येतदप्याप्तजनवचनं शिष्टवाक्यमयं मनीषी जनः प्रतिपत्तुमर्हति नान्यः । आप्तो तत्वात्पण्डिता एव सत्यं जानन्तीत्यर्थः । आप्ता अवितथवादिनो व्यासादयः ॥१८॥
अपहाय तुङ्गमपि मानमुचितमवलम्ब्य नीचताम् ।
खार्थकरणपटुरेष पुरा बलिना परेण सह संप्रयुज्यते ॥१९॥
अपहायेति ॥ एष बलिना बलवता परेणान्येनारिणा वा सह पुरा अचिरात्संप्रयुज्यते संबध्यते । समर्थं चेत्परं वेत्ति तद्भयात्तमेव प्रविशतीत्यर्थः । सर्वनामनिर्देशः सर्वत्र निन्दायामनास्थां सूचयति । स्तुतौ तु गौरवम् । किं कृत्वा । उचितं योग्यं तुङ्गमुन्नतं मानमप्यपहायाहंकारमपि त्यक्त्वा । तथा नीचतां प्राकृतत्वमाश्रित्य । यतः स्वार्थकरणपटुरात्मप्रयोजनसंपादनचतुरः शक्तिः किलात्मनो नाशाय । इति निन्दा ॥
शक्तिविकलात्मनो अनाशाय'. स्तुतिस्तु-एष तुङ्गं मानं प्रमाणं हित्वा नीचतां खर्वत्वं चावलम्ब्य । पुरा
पूर्वं परेणोत्कृष्टेन बलिना वैरोचनिना सह संप्रयुज्यते संप्रयुयुजे । यतः स्वस्य ज्ञातेरिन्द्रस्य योऽर्थः शत्रुवशीकरणलक्षणस्तत्र पटुः कुशलः । इन्द्रप्रीतये वामनरूपत्वमवलम्ब्यैष भगवान्बलिं बबन्धेत्यर्थः ॥ १९॥
क्रमते नमो रभसयैव विरचयति विश्वरूपताम् ।
सर्वमतिशयगतं कुरुते स्फुटमिन्द्रजालमिदमेष मायया ॥२०॥
क्रमत इति ॥ एष कृष्णः स्फुटं नूनं इदमिन्द्रजालसमुद्भूतं मायया हेतुभूतया कुरुते । किमित्याह-रभसया रभसेन युद्धादौ नभः क्रमते आरोहति । वयः पक्षिणः, श्वानः कुक्कुराः तद्रूपा मृगाः तद्भावं विरचयति । यदि वा विश्वरूपतां नानारूपत्वम् । तथा सर्वमतिशयगतं विशेषप्राप्तं कुरुते । तात्त्विकोऽस्य व्यव- हारो न कश्चित् । इति निन्दा ॥
नुतिस्तु–इदमीदृक् स्फुटमेष भगवान्मायया बुद्ध्या इन्द्रजालं कुरुते । इन्द्रजालमिवेन्द्रजालं भ्रमकारित्वात् । तदेवाह-नभः क्रमते बलिबन्धनार्थं विश्वरूपत्वं सर्वदेवमयत्वं विरचयति । सर्वं च जगदतिशयगतं प्राप्तविशेषं कुरुते । कीदृश्या मायया । रभसमौत्सुक्यं करोतीति रभसा तया रभसया। क्रमते इति, 'अनुपसर्गाद्वा' (१॥३॥४३) इत्यात्मनेपदम् ॥ २० ॥
किल रावणारिरयमेव किमिदमियदेव कथ्यते ।
सत्त्वमतिबलमधिद्युति यत्तदशेषमेष इति धृष्टमुच्यताम् ॥२१॥
किलेति ॥ अयं हरिः किल रावणारिरिति । एतेन दशास्यो हत इति यदेवैतस्वल्पमात्रमपि किमिति कस्मादुच्यते । अतिबलं महाशक्ति अधिद्युति महातेजश्च यत्सत्त्वं प्राणी तत्सर्वमेष एवेति धृष्टं निःशङ्कमुच्यताम् । न ह्यलीकस्यान्तो भवतीति भावः । अतश्च येनासत्यं वाच्यं स बढेव कस्मान्नाह । तस्मान्नैतेन किंचिदपि कृतमिति वाक्यार्थः । इति निन्दा ॥
स्तुतिस्तु-अयं किल रावणारिरेवेति किमेतावदेवोच्यते । यस्माद्यदतिबलमधिद्युति च सत्त्वं तत्सर्वमेष इति धृष्टं निःशङ्कमुच्यताम् । उक्तं च किलागमे- ’यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोऽशसंभवम् ॥' (भ.गी. १०।४१) इति ॥ २१ ॥
यश्च बाल्ये शकटमेष एव चिक्षेपेत्युच्यते तदप्यसत्यमिति वक्तुमाह-
चलतैष पादयुगलेन गुरु शकटमीपदस्पृशत् ।
दैवकलितमथ चोदलसद्दलितोरुभाण्डचयमात्मनैव तत् ॥२२॥
चलतेति ॥ एष वै चलद्भ्यां चरणाभ्यां गुरु शकटं किंचिदस्पाक्षीत् । तच्च दैवकलितं दैवचोदितं स्वयमेवोदलसदपप्तत् । न त्वेतस्यात्र किंचित्पौरुषम् । दलितः स्फुटित उरुर्महान्भाण्डानां दधिघृतकटादीनां चयो राशिर्यत्र । इति निन्दा ॥ स्तुतिस्तु-एष भगवांश्चलता पादयुगलेन गुरु शकटमीषदेवास्पृशत् । अथ चोदलसत्परिवृत्तम् । यत् एतेन दैवेन भगवता कलितं प्रेरितम् । अथेति विस्मये । ईषत्स्पर्शमात्राकिल भङ्गो न युक्तः । शकटशब्दोऽस्त्रीलिङ्गः ॥ २२ ॥
स्नुवतामुना स्तनयुगेन जनितजननीजनादरा ।
स्त्रीति सदयमविधाय मनस्तदकारि साधु यदधाति पूतना।।२३।।
स्नुवतेति ॥ अमुना यत् पूतना राक्षसी स्त्री इति सदयं मनः अकृत्वा अघाति हता तत्साध्वकारि युक्तं कृतमिति काक्वा प्रयोजने, नैव साधु कृतमित्यर्थः । कीदृशी सा । स्तुवता क्षीरं स्रवता स्तनयुगेन कृतो जननीजनादरो मातृस्नेहो यया, अतश्च मातृघात्येवायम् । इति निन्दा ॥
स्तुतिस्तु–यदमुना स्त्रुवता स्तनयुगेन कृतमातृस्नेहापि पूतना राक्षसी स्त्रीति मनः सदयमकृत्वा हता तत्साध्वकारि युक्तमेवानुष्ठितमिति स्पष्ट एवार्थः । सा हि राक्षसी स्तनाभ्यां सविषं क्षीरं स्रवन्ती तन्मारणार्थमेवागमदित्यागमार्थः । निष्कारणवधोद्यतस्य वधे कथमधर्मः स्यात् ॥ २३ ॥
अभनक्तरू कथमिवैष कृतधरणिरिङ्गणः क्षणात् ।
बाढमिदमपि न बालकृतं ननु देवताविधिरयं विजृम्भते ॥२४॥
अभनगिति ॥ कृतधरणिरिङ्गणो विहितोर्वीगतिः स कथमिव केन प्रकारेण क्षणेनैव तरू अर्जुनाख्यौ बाढं भृशमभनग्बभञ्ज । न संभावयाम एतदित्यर्थः । ननु सर्वत्रैव तेनैव भिन्नाविति प्रतीतिः, तत्कथं भवतो न संभावनेत्याह-इदमपि न बालकृतं न शिशुकर्म । ननु देवताविधिरयं विजृम्भते विलसति । केनाप्यदृष्टेन देवेन तत्कृतं न त्वनेन । यस्य हि गमनमात्रे न शक्तिः स कथममानुषं कर्म कुर्यादिति भावः । ननु अमर्षे । न केवलं शकटभङ्गो देवताविधिर्यावदयमपीत्यपिशब्दार्थः-। इति निन्दा ॥
स्तुतिस्तु–यदेष कृतधरणिरिङ्गणः कथमिवावस्त्विव क्षणादर्जुनौ बभञ्ज इदमपि न बालकृतम् । नन्वयं देवताविधिरुज्जृम्भते । एतस्य देवरूपत्वं देवत्वमाश्रित्यैतदेतेन कृतम्, नतु तत्त्वतो बालेनेत्यर्थः । ननुराभिमुख्ये । अभनगिति भोर्लङि रूपम् ॥ २४ ॥
विहरन्वने विजन एव महति दधदेष गोपताम् ।
नाम जगति मधुसूदन इत्यगमद्धतेन मधुना महीयसा ॥२५॥
विहरनिति ॥ एष महति विशाले विजने वनेऽरण्ये गोपरूपो विहरन्वृहता मधुना माक्षिकपटलेन हतेन जगति मधुसूदन इति नाम प्राप्तवान् । वने मधु सूदितवान् नतु मधुनामानं दैत्यम् । इति निन्दा ॥
स्तुतिस्तु--एष कृष्ण एव महीयसा बलवत्तरेण मधुना दैत्येन हतेन मधुसूदन इति नाम जगति अगमत्याप । कीदृगेषः-वने तोये महति सर्वलोकव्यापिनि विगतजने विहरन् । तथा गां पृथ्वी गोपस्तद्भावं बिभ्रत् ॥ २५॥
अविमृश्य गोवधसमुत्थमयमघममीमद्रुषा ।
रिष्टमुपगु समुपोढमदं यदसौ किलासुर इति प्रमाष्टिं तत् ॥२६॥
अविमृश्येति ॥ अयं गोवधसमुत्थं तन्मारणोद्भवं पापमविमृश्यागणयित्वा यद्रुषा कोपेन रिष्टमनड्वाहममीमरदवधीत् तदकार्यम् । असौ पापी असुर इति किल प्रमार्ष्टि नाशयति । दान्तरूपी असुरो मया हतो न तु गौरिति लोकस्य परिशुध्यति । किलालीके । तत्त्वतस्त्वसौ गौरेव, अयं च गोधातीत्यर्थः । कीदृशं रिष्टम् । उपगु गवां समीपे समुपोढमदं धृतहर्षम् । सुरभीः कामयमानमित्यर्थः । अतश्च सुरतासक्तदान्तवधपातकित्वान्नायं पूजाहः इति निन्दा ॥
स्तुतिस्तु-किलशब्दस्य परमार्थत्वात् । यदसावुपगु गोनिकटे रिष्मतृणेट्र् तदसौ किलासुर इति प्रमार्ष्टि असुर एवानेन हत इत्यर्थः । कीदृशं तम् । अविमृश्यश्चिन्तयितुमशक्यो गोवधस्तत्र समुत्थ उत्थानमुद्यमो यस्य तमविमृश्यगोवधसमुत्थं यतोऽघं पापिनम् । अघमस्यास्तीति कृत्वा । तथा समुपोढमदं तदर्पम् । अतश्च गोवधसमुत्थस्य दर्पिष्ठस्य पापमतेर्दानवस्य वधाद्भगवतो महती नुतिरेव । अविमृश्येति ल्यप् । 'ऋदुपधात्-' (३।१।११०) इति क्यप् । अमीमरदिति मारयतेर्लुङ् चङ् । प्रमार्ष्टीति मृजेर्वृद्धिः ॥ २६॥
मुखकन्दरान्तरगतोऽपि विकटदशनेन केशिना ।
नास्य सपदि यदखादि भुजस्तदहो तिरश्चि सहजैव मूढता ॥२७॥
मुखेति ॥ अस्य केशिनाम्ना अश्वेन यद्भुजो नाखादि न जग्धः तदहो तिरश्चि तिर्यक्षु सहजैव स्वाभाविक्येव मूढता अज्ञत्वं, तिर्यक्त्वात् । मूर्खेण तेन न भक्षितो न त्वस्य कापि शक्तिरिति वाक्यार्थः । कदाचिदप्राप्तोऽसौ भवेन्नेत्याह- आस्यदरीविवरप्राप्तः । कदाचिद्दन्ताभावः स्यादित्याह-विकटदशनेन दन्तुरेणापि सपदि अस्य प्राध्यनन्तरम् । अहो विषादे॥
स्तुतिरत्र-परमतमाशङ्कय काकुप्रयोगेण । यदस्य केशिना दैत्येन भुजो नाखादि तक्तिं, तिरश्चि सहजैव मूढता न त्वस्य माहात्म्यमित्यर्थः । एतस्यैव ह्येवमसौ शक्तिः । न स तात्त्विकोऽर्थः । अहोशब्दः परस्योल्लुण्ठनाय । तिरश्चीति सप्तमी ॥
यदुदस्य बाहुमयमेकमधृत गिरिमद्भुतं न तत् ।
भूरि सलिलमविषह्यमियं जलदे विमुञ्चति गवां सभाग्यता ॥२८॥
यदिति ॥ मेघे समारुतं दुःसहं प्रभूतं वारि वर्षति यदयं हरिरेकं भुजमुत्क्षिप्य गिरिं गोवर्धनमधृत दध्रे तन्नाद्भुतं नाश्चर्यम् । इयं गवां सभाग्यता पुण्यवत्त्वम् । गवां महिम्नासौ धृतो न त्वेतस्य काचिच्छक्तिरित्यर्थः । इति निन्दा॥ स्तुतिस्तु-परमतमाशङ्क्य काकुप्रयोगेण न तदद्भुतम्, अपि त्वाश्चर्यमेव । तथेयं गवां सभाग्यता किम्, न स्वस्य सा । अयमेव स्वमहिम्ना बभरित्यर्थः ॥
किमिवात्र चित्रमयमन्नमचलमहकल्पितं यदि ।
प्राश निखिलमखिलेऽपि जगत्युदरं गते बहुभुजोऽस्य न व्यथा ॥२९॥
किमिवेति ॥ अयं हरिरचलमहकल्पितं पर्वतोत्सवकृतमन्नं यदि प्राश प्रकर्षण बुभुजे तत्किमिवात्र चित्रमाश्चर्यम् । यतोऽस्य बहुभुजः बह्वाहारस्य सकलेऽपि जगत्युदरं प्राप्ते न व्यथा पीडा अजीर्णत्वात् । अतश्च यः कुक्षिंभरत्वात्सर्वमेव जिघत्सति तस्यौदनमात्रभोजनात्को विस्मयः । इत्यामंभरित्वकथनेन निन्दा ॥
स्तुतिस्तु-अस्यान्नादनात्को विस्मयः । यतोऽस्य जगन्निवासस्य सर्वेषु जगसूदरस्थितेषु न व्यथा । बहु भुनक्तीति बहुभुक् निखिलभुवनपालकः । यदि वा बहवो भुजा यस्य स बहुभुजोऽयम् । पूर्वत्र तु बहु भुङ्क्ते इति बहुभुक् । प्राशेत्यत्राश्नातेर्लिट् ॥ २९ ॥
अमुना करेण पृथुदन्तमुसलमुदखानि दन्तिनः ।
तेन यदवधि स एव पुनर्बलशालिनां क इव तत्र विस्मयः ॥३०॥
अमुनेति ॥ अमुना हरिणा दन्तिनः कुवलयापीडस्य यत्पृथुदन्तमुसलं करेणोदपाटि उत्खातम् । तेनोत्खातेन योऽसौ हस्ती अवधि हतः तत्र बलशालिनां क इव विस्मयः । न युक्तस्तत्र विस्मयः । मर्महननाद्धि शिशुरपि मारयति । इति निन्दा ॥
स्तुतिस्तु काक्वा गम्यते-को विस्मयः । विस्मय एवेत्यर्थः । स तु हस्तिनो हन्तुमशक्यत्वादिति भावः । यदुक्तम् – 'एकः क्रुद्धो गजो हन्ति षट्सहस्राणि वाजिनाम्' । अवधीति कर्मणि लकारः च्लेश्चिण् अकारलोपः॥ ३०॥
शिशुरेव शिक्षितनियुद्धकरणमकृतक्रियः स्वयम् ।
मल्लमलघुकठिनांसतटं न्यवधीद्यदेष तददृष्टकारितम् ।। ३१ ॥
शिशुरिति ॥ तथा एष हरिः शिशुरेव बालः सन् यन्मल्लं चाणूराख्यं न्यवधीज्जधान तददृष्टकारितं दैवविहितम् । विधिवशाद्ध्य बलोऽपि बलीयांसमभिभवति । तदेव बलवत्वमाह-कीदृशं मल्लम् । शिक्षितानि नियुद्धकरणानि बाहुयुद्धक्रियाः येन तं शिक्षितनियुद्धकरणं युद्धज्ञं, तथा अलघु पीनं कठिनमंसतटं यस्य तम् । एष तु स्वयमकृतक्रियोऽशिक्षितकरणः । यतः शिशुः इति निन्दा ॥
स्तुतिस्तु-पूर्ववत्काक्वा । तत्किमदृष्टकारितं नैतद्दैवविजृम्भितम् , अपि त्वस्यैवायं महिमेत्यर्थः ॥ ३१ ॥
यदयुध्यमानमपि सन्तमुपहितसुरौघसाध्वसम् ।
कंसमभियमयमभ्यभवत्समुदा जनेन तदपि प्रशंस्यते ॥ ३२ ॥
यदिति ॥ यदयमयुध्यमानं कंसं स्वजनमप्यभ्यभवदाचकर्ष तदपि समुदा जनेन प्रशंस्यते नैवाभिनन्द्यत इति काकुप्रयोगः । निष्क्रियस्य हि वधे का नाम स्तुतिः । कीदृशं तम्-जनितदेवपूगकम्पम् । अभियं त्रासरहितम् । वीरमित्यर्थः । इति निन्दा॥
स्तुतिस्तु-अयुध्यमानमपि सन्तं कंसमभियं त्रासरहितं वीरं यदभ्यभवत्त- दपि संतोषवता जनेन प्रशस्यते स्तूयत एव । यत उपहितसुरौघसाध्वसं, सदर्पं च । कण्टकोद्धरणेन चावश्यं प्रहृष्टो जनः प्रशंसां करोति ॥ ३२ ॥
इति निन्दितुं कृतधियापि वचनममुना यदाददे ।
स्तोतुमनिशमुचितस्य परैः स्तुतिरेव सा मधुनिघातिनोऽभवत् ॥ ३३ ॥
इतीति ॥ इत्युक्तप्रकारेण अमुना चैद्येन यद्वच आददेऽभ्यधायि । सा मधुरिपोः भगवतो नुतिरेवाभवत् । कदाचित्तुष्टूपुरसौ स्यादित्याह-निन्दितुं कृतधियापीति । किंविधस्य हरेः । परैः शत्रुभिरपि स्तोतुमजस्रं योग्यस्य । अत एतत्स्तुतिरभवत् । एतेन पूर्वेषां वाक्यानामुभयार्थता ख्याता यथा तथा व्याख्यातमेव । आददे इत्यस्य विहरणस्याशब्दार्थत्वात्प्रतिषेधाभावः प्रतीयते । अत्र तन्न तु शब्दोपात्तं यथा आस्यं व्याददातीति । मधुं निहन्तीत्यावश्यके णिनिः । 'कर्मणि हनः' (३।२।८६) इत्यर्थकुत्सायाम् ॥ ३३ ॥
यदुवाच दुष्टमतिरेष परिविवदिषुर्मुरद्विषम् ।
व्यर्थमपि सदसि चेदिपतेस्तदतोऽपराधगणनामगाद्वचः॥३४॥
यदुवाचेति ॥ एष चैद्यः सभायां यद्वचोऽवोचत्तदुभयार्थं निन्दास्तुतिवाचकमप्यतो हेतोरपराधगणनामगादपराधमध्ये गणितम् । यत एष दुष्टत्वान्मुरारिं परिविवदिषुर्निनिन्दिषुः । तेन हि तद्वच आक्रोशतयोक्तम् । या तु तस्य स्तोत्ररूपता सा काकतालीयेति भगवतो वा माहात्म्यम् । नैतावतासौ प्रियंवद इति अपराधगणनामगात् । यस्मादेष दुष्टमतिः सन् देवं परिविवदिषुराह इत्येवं वा योज्यम् ॥ ३४ ॥]
इति प्रक्षिप्तश्लोकाः॥ ३४ ॥
इति वाचमुद्धतमुदीर्य सपदि सह वेणुदारिणा ।
सोढरिपुबलभरोऽसहनः स जहास दत्तकरतालमुच्चकैः ॥ ३९ ॥
इतीति ॥ सोढः क्षान्तो रिपूणां बलभरो वीर्यातिशयो येन सः न सहत इत्यसहनः असहिष्णुः स चैद्य इतीत्थमुद्धतं निष्ठुरं यथा तथा वाचमुदीर्य सपदि वेणुदारिणा नरकात्मजेन सह दत्तः करतालः परस्परपाणिताडनं यस्मिन्कर्मणि तद्यथा तथा उच्चकैस्तारं जहास । कृष्णदोषोद्घाटनहर्षादट्टहासं चकारेत्यर्थः । स्वभावोक्तिः ॥ ३९ ॥
कटुनापि चैद्यवचनेन विकृतिमगमन्न माधवः ।
सत्यनियतवचसं वचसा सुजनं जनाश्चलयितुं क ईशते ॥४०॥
"पुषादि-' (३।१।५५) इति च्लेरङादेशः । तथा हि-सत्ये नियतवचसमस्खलितवचसं सत्यसंधं सुजनं के जनाः वचसा । तीव्रणापीति भावः । चलयितुमीशते शक्नुवन्ति । न केऽपीत्यर्थः । 'सहिष्ये शतमागांसि' (२।१०८) इति प्रतिज्ञाभङ्गभयादसहतेति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ४०॥
न च तं तदेति शपमानमपि यदुनृपाः प्रचुक्रुधुः।
शौरिसमयनिगृहीतधियः प्रभुचित्तमेव हि जनोऽनुवर्तते ॥४॥
न चेति ॥ किंचेति चार्थः । तदा तत्काले इतीत्थं शपमानमाक्रोशन्तमपि । 'शपतेराक्रोशे' इति भट्टमल्लः । तं चैद्यं यदुनृपा यादवाः शौरेः कृष्णस्य समयेन संकेतेन निगृहीतधियो निरुद्धबुद्धयः सन्तो न प्रचुक्रुधुः । 'क्रुधद्रुहोरुपसृष्टयोः कर्म' (१।४।३८) इति कर्मत्वम् । तथा हि-जनो लोकः प्रभुचित्तमेवानुवर्तते । शौरिसंकेतनिरुद्धबुद्धेर्यदुविशेषणगत्या क्रोधाभावहेतुत्वात् काव्यलिङ्गमर्थान्तरन्यासेन संकीर्यते ॥४१॥
विहितागसो मुहुरलङ्घ्यनिजवचनदामसंयतः ।
तस्य कतिथ इति तत्प्रथमं मनसा समाख्यदपराधमच्युतः॥४२॥
विहितेति ॥ अलङ्घयेन निजवचनदाम्ना स्वप्रतिज्ञापाशेन संयतो बद्धोऽच्युतः मुहुर्विहितागसः पूर्वं सहस्रशः कृतापराधस्यापि तस्य चैद्यस्यापराधं स एव प्रथमो यस्मिन्कर्मणि तत्प्रथमं यथा तथा कतिथः । कतीनां पूरण इति 'तस्य पूरणे डट्' (५।२।४८) इति डट्प्रत्ययः । 'षट्कतिकतिपयचतुरां थुक्' (५।२।५१) इति थुगागमः । मनसा समाख्यत् गणनां चकार । 'अस्यतिवक्तिख्यातिभ्योऽङ्' (३।१।५२) इति च्लेरङादेशः । अत्र प्रतिज्ञापाशबन्धनस्य विशेषणगत्या प्राचीनापराधानन्त्येऽपि तात्कालिकापराधगणनाहेतुत्वात् काव्यलिङ्गभेदः॥ ४२ ॥
स्मृतिवर्त्म तस्य न समस्तमपकृतमियाय विद्विषः ।
स्मर्तुमधिगतगुणस्मरणाः पटवो न दोषमखिलं खलूत्तमाः ॥४३॥
स्मृतीति ॥ विद्विषश्चैद्यस्य संबन्धि समस्तमपकृतमपकारजातम् । नपुंसके भावे क्तः । तस्य हरेः कृष्णस्य स्मृतिपथं नेयाय न प्राप । न तमपकारं सस्मारेत्यर्थः । अर्थान्तरं न्यस्यति-अधिगतगुणस्मरणाः परिचितोपकारस्मृतय उत्तमाः सजना अखिलं दोषमपकारं स्मर्तुं न पटवः खलु । नालं भवन्तीत्यर्थः । 'पर्याप्तिवचनेष्वलमर्थेषु' (३।४।६६) इति तुमुन्प्रत्ययः । उपकारमेव स्मरन्ति साधवो नापकारमित्यर्थः ॥ ४३ ॥
नृपतावधिक्षिपति शौरिमथ सुरसरित्सुतो वचः ।
स्माह चलयति भुवं मरुति क्षुभितस्य नादमनुकुर्वदम्बुधेः॥४४॥
नृपताविति ॥ अथ नृपतौ चेदिपे शौरिं हरिमधिक्षिपति सति सुरसरि त्सुतो भीष्मः मरुति प्रलयमारते भुवं चलयति कम्पयति सति क्षुभितस्योद्वेलस्याम्बुधेर्नादमनुकुर्वत्तद्वद्गभीरं वच आह स्म उवाच । 'लट् से' (३।२।११८) इति भूतार्थे लट् । 'बुवः पञ्चानामादित आहो बुवः' (३।४।८४) इति णल्याहादेशः । यद्यपि 'न पादादौ खल्वादयः' इत्याह वामनः तथापि कविप्रौढ्या स्मशब्दस्य पादादौ प्रयोगः । उपमालंकारः ॥ ४४ ॥
उक्तमेवार्थ वक्तुराशयाविष्कारार्थमाह--
अथ गौरवेण परिवादमपरिगणयंस्तमात्मनः ।
प्राह मुररिपुतिरस्करणक्षुभितः स्म वाचमिति जाह्नवीसुतः॥४५।।
अथेति ॥ अथ शिशुपालप्रलापानन्तरं मुररिपुतिरस्करणेन हरिनिन्दया क्षुभितः कलुषमना जाह्नवीसुतो गाङ्गेयः गौरवेण धैर्येण तमात्मनः परिवादं 'काममयं वृथापलित' इत्यादि स्वनिन्दामपरिगणयन् इति वक्ष्यमाणप्रकारेण वाचं प्राह स्म प्रोक्तवान् । गतमेतत् । धीराः स्वनिन्दामेव सहन्ते, न गुरुदेवादिनिन्दामिति भावः । अत्र क्षोभस्य विशेषणगत्या वचनहेतुत्वाकाव्यलिङ्गभेदः ॥४५॥
विहितं मयाद्य सदसीदमपमृषितमच्युतार्चनम् ।
यस्य नमयतु स चापमयं चरणः कृतः शिरसि सर्वभूभृताम् ॥४६॥
विहितमिति ॥ मया अद्य सदसि सभायां विहितं कृतं इदमच्युतार्चनं यस्यापमृषितमतितिक्षितम् । असोढमित्यर्थः । 'मृष तितिक्षायाम्' इति धातोः कर्मणि क्तः । उपसर्गवशाद्विपरीतार्थता । अत एव मृषस्तितिक्षायामेव कित्त्वनिषेधादतितिक्षार्थत्वान्न गुणः । 'मतिबुद्धिपूजार्थेभ्यश्च' (३।२।१८८) इति चकाराद्वर्तमानार्थता । 'क्तस्य च वर्तमाने' (२।३।६७) इति षष्ठी । सोऽपम्रष्टा पुरुषश्चापं नमयतु आरोपयतु । सर्वभूभृतां मिषतामिति भावः । शिरस्ययं चरणः कृतो न्यस्तः । अयमिति भूमौ पात्यमानस्य चरणस्य हस्तेन निर्देशः । अयं कोपामर्ष इत्यनुसंधेयम् ॥ ४६ ॥
इति भीष्मभाषितवचोऽर्थमधिगतवतामिव क्षणात् ।
क्षोभमगमदतिमात्रमथो शिशुपालपक्षपृथिवीभृतां गणः॥४७॥
इतीति ॥ इतीत्थं भीष्मेण भाषितस्योक्तस्य वचसोऽर्थमभिधेयं शिरसि पादन्यासरूपं क्षणादधिगतवताम् । प्राप्तवतामिव सतामित्यर्थः । शिशुपालस्य पक्षा ये पृथिवीभृतो राजानस्तेषामसौ गणोऽतिमानं क्षोभं क्रोधं विकारमगमत् । एतेनैषामात्मविनाशावसायी रौद्रस्थायी क्रोधः प्रादुरभूदित्युक्तम् । उत्प्रेक्षा ॥४७॥
अथैषां दशभिर्गात्रारम्भान्क्रोधानुभावानाह-
शितितारकानुमितताम्रनयनमरुणीकृतं क्रुधा ।
बाणवदनमुददीपि भिये जगतः सकीलमिव सूर्यमण्डलम्॥४८॥
शितीत्यादि ॥ क्रुधा क्रोधेन अरुणीकृतमत एव शिती श्यामे ये तारके कनीनिके ताभ्यामनुमितेऽनुमापिते ताम्रे नयने यस्य तत् । 'तारकाक्ष्णः कनीनिका' इत्यमरः । सर्वमुखस्य रक्तत्वादिति भावः । बाणो नृपस्तस्य वदनं सकीलं कीलाकारच्छायासहितम् । परिधियुक्तमिति यावत् । सूर्यमण्डलमिव जगतो भिये भयाय उददीपि प्रजज्वाल । दीप्यतेः कर्तरि लुङि 'दीपजन-' (३।१।६१) इत्यादिना चिण्प्रत्यये तलुक् । अत्र नयनयोः स्वधावल्यत्यागेनारुण्यस्वीकारात्तद्गुणः । तत्सापेक्षत्वादौत्पातिकसूर्यमण्डलोपमासंकरः ॥४८॥
प्रविदारितारुणतरोग्रनयनकुसुमोज्वलः स्फुरन् ।
प्रातरहिमकरताम्रतनुर्विषजद्रुमोऽपर इवाभवद्रुमः ॥ ४९ ॥
प्रवीति ॥ प्रविदारितेऽतिविकासिते अरुणतरे क्रोधादतिरक्ततरे अत एवोग्रे भयंकरे ये नयने ते एव कुसुमे ताभ्यामुज्वलो दीप्तः स्फुरन्वतेजसा दीप्यमानः प्रातरहिमकरताम्रतनुः प्रभातार्कारुणविग्रहः प्रसिद्धो दुमो दुमाख्यो नृपः अपरो विषजद्रुम इवाभवदित्युत्प्रेक्षा रूपकसंकीर्णा ॥ ४९ ॥
अनिशान्तवैरदहनेन विरहितवतान्तरार्द्रताम् ।
कोपमरुदभिहतेन भृशं नरकात्मजेन तरुणेव जज्वले ॥५०॥
अनिशान्तेति ॥ अनिशान्तोऽनिर्वाणो वैरदहनो विरोधाग्निर्यस्य तेन अत एवान्तरभ्यन्तरे आर्द्रतां सारस्यं विरहितवता त्यक्तवता । रहयतेः क्तवतुप्रत्ययः । कोपो मरुदिव तेनाभिहतः प्रज्वलितः तेन नरकात्मजेन वेणुदारिणा तरुणा वृक्षेणेव भृशं जज्वले ज्वलितम् । भावे लिट् । उपमालंकारः ॥ ५० ॥
अभिधित्सतः किमपि राहुवदनविकृतं व्यभाव्यत ।
ग्रस्तशशधरमिवोपलसत्सितदन्तपति मुखमुत्तमौजसः ॥ ५१ ॥
अभीति ॥ किमप्यभिधित्सतोऽभिधातुमिच्छतः । दधातेः सन्नन्ताल्लटः शत्रादेशः । उत्तमौजसो नाम राज्ञः संबन्धि राहुवदनविकृतं व्यात्तत्वादाहुवक्रवत्करालम् , उपलसन्ती लक्ष्यमाणा सिता दन्तपङ्क्तिर्यस्य तन्मुखं ग्रस्तशशधरमिव संदष्टचन्द्रमिव व्यभाव्यतातर्यत । इत्युत्प्रेक्षा ॥ ५१ ॥
कुपिताकृतिं प्रथममेव हसितमशनैरसूचयत् ।
क्रुद्धमशनिदलिताद्रितटध्वनि दन्तवक्रमरिचक्रभीषणम् ॥५२॥
प्रतिघः कुतोऽपि समुपेत्य नरपतिगणं समाश्रयत् ।
जामिहरणजनितानुशयः समुदाचचार निज एव रुक्मिणः ॥५३॥
प्रतिघ इति ॥ प्रतिघः कोपः । 'कोपक्रोधामर्षरोषप्रतिघा-' इत्यमरः । कुतोऽपि समुपेत्यागत्य नरपतिगणं राजमण्डलं समाश्रयत्समाविशत् । रुक्मिणस्तु जामिः स्वसा । 'जामिः स्वसूकुलस्त्रियोः' इत्यमरः । तस्या रुक्मिण्या हरणेन जनितोऽनुशयो 'हा कष्टमापन्नं ! कदा निर्यातयामि' इत्यनुतापो यस्मिन्सः । 'अथा- नुशयो दीर्घद्वेषानुतापयोः' इत्यमरः । निजो नित्य एव प्रतिघः । 'निजमात्मीयनित्ययोः' इति विश्वः । समुदाचचार समुद्दिदीपे । भीष्मवाक्यमन्येषां कोपोत्पादकमासीत्, रुक्मिणस्तु प्रागेवावरूढकोपस्योद्दीपकमासीदित्यर्थः । अत्रानुशयस्य विशेषणगत्या कोपोद्दीपनहेतुत्वात्काव्यलिङ्गभेदः ॥ ५३ ॥
चरणेन हन्ति सुबलः स शिथिलितमहीध्रबन्धनाम् ।
तीरतरलजलराशिजलामवभुग्नभोगिफणमण्डलां भुवम् ॥ ५४॥
चरणेनेति ॥ सुबलो नाम राजा महीं धारयन्तीति महीध्राः पर्वताः । 'कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम्' (वा०) इति कप्रत्ययः । शिथिलितानि विश्लेषितानि महीध्राणां बन्धनानि संधयो यस्यास्ताम् । तीरेण तरलानि भूकम्पाच्चलितानि जलराशेरम्बुधेलानि यस्यास्ताम् । अवभुग्नं कुटिलम् । अतिभारादित्यर्थः । भोगिनां फणिनां फणमण्डलं फणासमूहो यस्यास्तां भुवं चरणेन हन्ति स्म जघान । 'लट् स्मे' (३।२।११८) इति भूतार्थे लट् । अत्र पादाघाताद्भुवः कम्पासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः ॥ ५४ ॥
कुपितेषु राजसु तथापि रथचरणपाणिपूजया ।
चित्तकलितकलहागमनो मुदमाहुकिः सुहृदिवाधिकां दधौ ॥५५॥
कुपितेष्विति ॥ रथचरणपाणेश्चक्रपाणेः पूजया राजसु तथा कुपितेष्वपि चित्ते कलितं निश्चितं कलहागमनं युद्धलाभो येन स आहुकिः आहुकिर्नाम राजा शोभनं हृदयं यस्य स सुहृन्मित्रमिव । कृष्णपक्षपातीवेत्यर्थः । 'सुहृदुर्हृदौ मित्रामित्रयोः' (५।४।१५०) इति निपातः । अधिकां मुदं दधौ संतोषं धृतवान् । सुदुःसहोऽपि कृष्णोत्कर्षः कलहकण्डूलबाहोराहुकेः मोदहेतुरासीदित्यर्थः । उपमालंकारः ॥ ५५॥
गुरुकोपरुद्धपदमापदसितयवनस्य रौद्रताम् ।
व्यात्तमशितुमिव सर्वजगद्विकरालमास्यकुहरं विवक्षतः॥५६॥
गुर्विति ॥ विवक्षतः किमपि वक्तुमिच्छतः । वचेः सन्नन्ताल्लटः शत्रादेशः । असितयवनस्य कालयवनस्य राज्ञः संबन्धि सर्वजगदशितुमत्तुमिव व्यात्तं विवृतम् । अत एव विकरालमतिविकृतम् । 'करालो दन्तुरे तुङ्गे विशाले विकृतेऽपि च' इति वैजयन्ती । गुरुणा कोपेन रुद्धपदं प्रतिबद्धवचनमास्यकुहरं वऋविवरं रौद्रातां भयंकरतामापत् । अत्राशितुमिवेति फलोत्प्रेक्षा व्यादानक्रियानिमित्ता ॥ ५६ ॥
विवृतोरुबाहुपरिघेण सरभसपदं निधित्सता
हन्तुमखिलनृपतीन्वसुना वसने विलम्बिनि निजे विचस्खले ॥५७॥
विवृतेति ॥ अखिलनृपतीन् हन्तुं विवृतः प्रसारित उरुबाहुरेव परिघ आयुधविशेषो येन तेन । 'परिघः प्रतिघातेऽस्त्री' इति हैमः । सरभसं ससत्वरं यत्पदं तनिधित्सता निधातुमिच्छता । दधातेः सन्नन्ताल्लटः शत्रादेशः । वसुना तन्नाम्ना राज्ञा विलम्बिनि उत्पातवेगाद्द्विस्रंसिनि निजे वसने स्वाम्बरे विचस्खले स्खलितम् । तद्ध्यस्य दुर्निमित्तमिति भावः । भावे लिट् । अत्र वस्त्रसंसनस्य विशेषणगत्या स्खलनहेतुत्वात्काव्यलिङ्गं तद्बाहुपरिघेति रूपकेण संसृज्यते ॥ ५७ ॥
इति तत्तदा विकृतरूपमभजत्तदविभिन्नचेतसम् ।
मारबलमिव भयंकरतां हरिबोधिसत्त्वमभि राजमण्डलम् ॥५८॥
इतीति । इतीत्थं तदा तस्मिन्काले विकृतरूपं रोषभीषणाकारं तद्राजमण्डलं मारबलमिव मदनसैन्यमिव । 'मदनो मन्मथो मारः' इत्यमरः । अविभिन्नचेतसमविकृतचित्तं बोधिसत्त्वो बुद्धः । 'बुद्धस्तु श्रीघनः शास्ता बोधिसत्त्वो विनायकः' इति वैजयन्ती। स हरिरिवेत्युपमितसमासः । तं हरिबोधिसत्त्वमभि । तत्समक्षमित्यर्थः । 'अभिरभागे' (१।४।९१) इत्यभेः कर्मप्रवचनीयत्वात्तद्योगे द्वितीया । भयं करोतीति भयंकरः । 'मेघर्तिभयेषु कृजः' (३।२।४३) इति खच्प्रत्यये मुमागमः । तस्य भावस्तत्तामभजत् । उपमालंकारः । तेन भगवतो बुद्धस्य समाधिभङ्गाय प्रवृत्तं मारबलं यथा तेन भग्नं तथा राजमण्डलमपि हरिणा भज्यत इति वस्तु व्यज्यते ॥ ५८ ॥
रभसादुदस्थुरथ युद्धमनुचितभियोऽभिलाषुकाः ।
सान्द्रमुकुटकिरणोच्छलितस्फटिकांशवः सदसि मेदिनीभृतः ॥५९॥
रभसादिति ॥ अथानन्तरमनुचितभियोऽनभ्यस्तसाध्वसाः । 'अभ्यस्तेऽप्युचितम्' इति यादवः । अत एव युद्धमभिलाषुका युद्धार्थिनः । 'लषपत-' (३।२।१५४) इत्यादिना उकञ्प्रत्यये 'न लोका-' (२।३।६९) इत्यादिना षष्ठीप्रतिषेधः । सदसि मेदिनीभृतः सदसि स्थिताश्चैद्यपक्षीया राजानः । सान्द्रैर्मुकुटकिरणैरुच्छलिताः स्फटिकांशवः सभाभित्तिस्फटिकमणिमयूखा यैस्ते तथोक्ताः सन्तो रभसाद्वेगात् उदस्थुरुत्थिताः । 'उदोऽनूर्ध्वकर्मणि' (१॥३॥२४) इत्यस्य प्रत्युदाहरणमेतत् । अत्र युद्धाभिलाषुकस्य विशेषणगत्योत्थानहेतुत्वात्काव्यलिङ्गभेदः ॥५९॥
स्फुरमाणनेत्रकुसुमोष्ठदलमभृत भूभृदङ्घ्रिपैः ।
धूतपृथुभुजलतं चलितैर्द्रुतवातपातवनविभ्रमं सदः॥६० ॥
स्फुरमाणेति ॥ स्फुरमाणानि नेत्राण्येव कुसुमान्योष्ठा एव दलानि च यस्मिकर्मणि तद्यथा तथा धूताः कम्पिताः पृथवो भुजा एव लताः शाखा यस्मि-
'निपित्सता'. [* अत्र छन्दोमङ्गः सुधीभिर्विमर्शनीयाः.] न्कर्मणि तद्यथा तथा । चलितैः भूभृतो राजानस्त एव अङ्घ्रिपाः पादपास्तैः सदः
सभामण्डलं दुतः शीघ्रो वातपातो वायुप्रचारो यस्य तस्य वनस्य विभ्रमं
शोभाम् । “विभ्रमः संशये भ्रान्तौ शोभायां च' इति वैजयन्ती । अमृत
बभार । भृञो लुङि तङ् 'उश्च' (१।२।१२) इति सिचः कित्त्वाद्गुणाभावः
'ह्रस्वादङ्गात्' (८।२।२७) इति सलोपः । अत्र वनविभ्रममिति
सादृश्याक्षेपादसंभवद्वस्तुसंबन्धा निदर्शना नेत्रकुसुमेत्यादिरूपकोत्थापितेति संकरः ॥ ६० ॥
हरिमप्यमंसत तृणाय कुरुपतिमजीगणन वा ।
मानतुलितभुवनत्रितयाः सरितः सुतादविभयुर्न भूभृतः ॥६१ ॥
हरिमिति ॥ मानतुलितभुवनत्रितया अहंकारावधीरितजगत्रयाः भूभृतश्चैद्यपक्षा राजानः । हरिमपि तृणायामसत तृणसमममन्यन्त । तथा लघुं मेनिर इत्यनादरोक्तिः । मन्यतेः कर्तरि लुङि च्लेः सिच् । अनुदात्तत्वादिट्प्रतिषेधः । 'मन्यकर्मणि-' (२।३।१७) इति चतुर्थी । कुरुपतिं च नाजीगणन् । न धर्मराजं गणयन्ति स्मेत्यर्थः । गणेर्णेो चङि 'ई च गणः' (७।४।९७) इत्यभ्यासस्येकारः । सरितः सुताद्धीष्मादपि नाबिभयुर्न भीताः । बिभेतेर्लुङि 'श्लौ' (६।१।१०) इति द्विर्भावे 'सिजभ्यस्तविदिभ्यश्च' (३।४।१०९) इति झेर्जुसादेशः । 'जुसि च' (७।३।८३) इति गुणः । अत्र राजसु हर्यवमानाद्यनेकक्रियायोगपद्यात्समुच्चय इति सर्वस्वकारः ॥ ६१ ॥
गुरु निःश्वसनथ विलोलसदवथुवपुर्वचोविषम् ।
कीर्णदशनकिरणाग्निकणः फणवानिवैष विससर्ज चेदिपः ॥६२॥
गुर्विति ॥ अथैष चेदिपः फणवान्फणीव । गुर्वधिकं निःश्वसन्फूत्कुर्वन् विलोलं सदवथु ससंतापम् । 'संतापो दवथुः' इत्यनेकार्थादिति सज्जनः । तद्वपुर्यस्य स विलोलसदवथुवपुः । 'ट्वितोऽथुच्' (३।३।८९)। कीर्णा विक्षिप्ता दशनकिरणा अग्निकणा इव यस्य स तथा सन् वचो विषमिव तद्वचोविषं विससर्ज । विषप्रायं वच उज्जगारेत्यर्थः । अतः फणवानिवेति व्यस्तोपमालिङ्गात्सर्वत्रोपमितसमासाश्रयणम् ॥ ६२॥
अथैतद्वचोविषमेव चतुर्भिराह-
किमहो नृपाः समममीभिरुपपतिसुतैर्न पञ्चभिः ।
वध्यमभिहत भुजिष्यममुं सह चानया स्थविरराजकन्यया ॥६३॥
किमित्यादि ॥ हे नृपाः, अमीभिः पञ्चभिरुपपतिसुतैः समं जारजैः सह । पाण्डवानां क्षेत्रजत्वादित्थं प्रलापः । अनया स्थविरराजकन्यया क्षत्रियाङ्गनया च सह । 'कन्या कुमारिकानार्योः' इति विश्वः । भीष्मस्योर्ध्वरेतस्कत्वेन निन्दा । वध्यं वधार्हम् । अराज्ञो राजार्हणग्रहणापराधादिति भावः । अराजत्वं व्यनक्ति-अमुं भुजिष्यं किंकरम् । कंसपशुपालनादिति भावः । 'भुजिष्यः किंकरो मतः' इति
'अहंकाराद्धारित'. हलायुधः । किं नाभिहत किमिति न मारयत । किंत्वभिहतेत्यर्थः । हन्तेर्वधार्थे
लोट् । 'लोटो लङ्कत्' (३।४।८५) इति थस्य तादेशः । ’अनुदात्तोपदेश-' (६।४।३७) इत्यादिनानुनासिकलोपः । अहो अतिवध्योऽपि न हन्यत इत्याश्चर्ये । अत्रामर्षानुभावो वागारम्भः । 'क्रोधः कृपापराधेषु स्थिरोऽमर्ष इतीर्यते' इति ॥६३॥
अथवाध्वमेव खलु यूयमगणितमरुद्गणौजसः ।
वस्तु कियदिदमयं न मृधे मम केवलस्य मुखमीक्षितुं क्षमः ॥६४॥
अथवेति ॥ अथवा अगणितमरुद्गणौजसोऽवधीरितसुरसङ्घसत्त्वाः यूयमादध्वमेव तूष्णीं तिष्टतैव खलु । आस्तेर्लोटि 'धि च' (८।२।२५) इति सकारलोपः । इदं कृष्णहननं कियद्वस्तु कियत्कार्यम् । अल्पमित्यर्थः । कुतः । अयं कृष्णो मृधे युद्धे । 'मृधमास्कन्दनं संख्यम्' इति युद्धपर्यायेष्वमरः । केवलस्यैकाकिनो ममैव मुखमीक्षितुं न क्षमः युष्माकं का वार्तेति भावः । एतेनास्य बलगर्यो व्यज्यते । "आत्मोत्कर्षोऽन्यधिक्कारो यल्लावण्यविभूतिभिः' इति लक्षणात् ॥ ६४ ॥
विदतुर्यमुत्तममशेषपरिषदि नदीजधर्मजौ ।
यातु निकषमधियुद्धमसौ वचनेन किं भवतु साध्वसाधु वा॥६५।।
विदतुरिति ॥ किंच नदीजधर्मजौ भीष्मयुधिष्ठिरौ । अशेषपरिषदि समप्रसंसदि । 'परिषत्संसत्' इति विश्वः । यं कृष्णमुत्तमं विदतुः । विदितवन्तावित्यर्थः । 'विदो लटो वा' (३।४।८३) इति तसोऽतुसादेशः । असौ कृष्णः । अधियुद्धं युद्धे । विभक्त्यर्थेऽव्ययीभावः । निकषं निकषणं यातु । परीक्ष्यतामित्यर्थः । ततः साधूत्कर्षोऽसाध्वनुत्कर्षों वा भवतु । व्यक्तमस्त्वित्यर्थः । वचनेन किम् । वृथा वाग्वीर्यैरलमित्यर्थः । अत्रापि गर्वामर्षौ व्यज्यते ॥ ६५॥
अचिरान्मया सह गतस्य समरमुरगारिलक्ष्मणः ।
तीक्ष्णविशिखमुखपीतमसृक्पततां गणैः पिबतु सार्धमुर्वरा ॥६६॥
अचिरादिति ॥ किंच मया सह समरं गतस्योरगारिलक्ष्मणो गरुडध्वजस्य संबन्धि तीक्ष्णैर्विशिखमुखैः पीतम् । मद्वाणोच्छिष्टमित्यर्थः । असृक् रक्तमुर्वरा भूमिः । 'उर्वरा सर्वसस्याढ्यभूमौ स्याद्भूमिमात्रके' इति विश्वः । पततां गणैः पक्षिसमूहैः । 'पतत्पत्ररथाण्डजाः'इत्यमरः । सार्धमचिरात्पिबतु । अद्यैवाहमेनं हनिष्यामीत्यर्थः । अत्राप्यमर्ष एवेति भावः ॥ ६६ ॥
अभिधाय रूक्षमिति मा म गम इति पृथासुतेरिताम् ।
वाचमनुनयपरां स ततः सहसावकर्ण्य निरियाय संसदः॥१७॥
अभिधायेति ॥ स चैद्य इतीत्थं रूक्षं परुषमभिधाय ततः पृथासुतैः पार्थैरीरितामुक्तामनुनयपरां मा स्म गमो न गच्छेति वाचम् । ‘स्मोत्तरे लङ् च'(३॥३॥१७६) इति चकाराद्गमेराशिषि लुङि 'पुषादि-' (३।१।५५) इति च्लेरङादेशः 'न माङयोगे' (६।४।७४) इत्यडभावः । अवकर्ण्य अनादरेण श्रुत्वा सहसा संसदः सदसो निरियाय निर्ययौ । अमर्षादेवेति भावः ॥ ६७ ॥
गृहमागताय कृपया च कथमपि निसर्गदक्षिणाः ।
शान्तिमहितमनसो जननीखसुरात्मजाय चुकुपुर्न पाण्डवाः॥ ६८॥
गृहमिति ॥ निसर्गदक्षिणाः स्वभावतो दाक्षिण्यसंपन्नाः । परच्छन्दानुवर्तिन इत्यर्थः । 'त्रिषु वाक्कुशलावामपरच्छन्दानुवर्तिषु । दक्षिणा' इति वैजयन्ती । किंच क्षान्त्या क्षमया महितमनसः पूजितचित्ताः क्षमावन्तः पाण्डवाः । किंच गृहमागताय । अभ्यागतायेत्यर्थः । किंच जननीस्वसुर्मातृष्वसुरात्मजाय शिशुपालाय कृपया च कथमपि । असह्यापराधेऽपीत्यर्थः । न चुकुपुः न चुकुधुः । सद्योवध्यस्यापि तस्याभ्यागतत्वान्मातृबन्धुत्वात्स्वयं क्षान्तत्वाद्दाक्षिण्यात्कृपया च कथमपि जिघांसां न चक्रुरित्यर्थः । 'क्रुधद्रुह-' (१॥४॥३७) इत्यादिना संप्रदानत्वाच्चतुर्थी । अत्राभ्यागतत्वादिविशेषणानां साभिप्रायत्वादकोपहेतुत्वाच्च परिकरः काव्यलिङ्गे सति सापेक्षत्वात्संकीर्यते ॥ ६८॥
चलितं ततोऽनभिहतेच्छमवनिपतियज्ञभूमितः ।
तूर्णमथ ययुमिवानुययुर्दमघोषसूनुमवनीशसूनवः ॥ ६९ ॥
चलितमिति ॥ अथ चैद्यनिर्याणानन्तरं अवनीशसूनवस्तत्पक्षराजपुत्रास्ततस्तस्याः अवनिपतेर्युधिष्ठिरस्य यज्ञभूमितो यज्ञभूमेर्देवयजनात् । पञ्चम्यास्तसिल् । अनभिहतेच्छमप्रतिहतमनोरथं यथा तथा चलितं प्रस्थितं दमघोषसूनुं शिशुपालम् । याति परलोकमिति ययुः परलोकप्रापकोऽश्वमेधीयोऽश्वः । 'ययुरश्वोऽश्वमेधीयः' इत्यमरः । 'यो द्वे च' (उ० २१) इति यातेरौणादिक उक् द्वित्वं च । तं ययुमिव तूर्णमनुययुः । ययुरपि राजकै राजपुत्रैरन्वीयते । 'चतुःशता रक्षन्ति' इति श्रुतेः । अश्वमेधीयाश्वोपमया चैद्यस्य वध्यत्वं व्यज्यत इत्यलंकारेण वस्तुध्वनिः ॥ ६९॥
विशिखान्तराण्यतिपपात सपदि जवनैः स वाजिभिः ।
द्रष्टुमलघुरभसापतिता वनिताश्चकार न सकामचेतसः॥ ७० ॥
विशिखान्तराणीति ॥ स चैद्यः सपदि जवनैवेंगशालिभिर्वाजिभिरश्वैर्विशिखान्तराणि रथ्यान्तराणि । 'रथ्या प्रतोली विशिखा' इत्यमरः । अतिपपात अतिचक्राम । अत एव द्रष्टुमलघुरभसेनातिवेगेनापतिता आधावन्तीर्वनिताः सकामानि साभिलाषाणि चेतांसि चित्तवृत्तयो यासां ताः सकामचेतसः । सफलमनोरथा इत्यर्थः । न चकार । अतिशीघ्रलङ्घनान्न दर्शनावकाशस्तासामासीदित्यर्थः । अत एव वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ ७० ॥
क्षणमीक्षितः पथि जनेन किमिदमिति जल्पता मिथः ।
प्राप्य शिबिरमविशङ्किमनाः समनीनहद्द्रुतमनीकिनीमसौ ॥७१॥
संवृत्त इति परस्परमालपता जनेन क्षणमीक्षितः सन् शिबिरं स्वकटकं प्राप्याविशङ्किमना निःशङ्कचित्तः द्रुतं शीघ्रमनीकिनीं सेनां समनीनहत् संनाहयति स्म । नह्यतेः संपूर्वकाल्लुङि ‘णौ चड्युपधाया ह्रस्वः' (७।४।१) अभ्यासदीर्घश्च । शिबिरं शकटमिति केचित् । एतेनास्य रौद्रस्थायिनः कोपस्य प्ररूढत्वं वेदितव्यम् ॥ ७१ ॥
त्वरमाणशाङ्खिकसवेगवदनपवनाभिपूरितः।
शैलकटकतटभिन्नरवः प्रणनाद सांनहनिकोऽस्य वारिजः ॥७२॥
त्वरमाणेति ॥ शङ्खः शिल्पमस्येति शालिकः । तदस्य शिल्पम्' इति ठक् । त्वरमाणस्य जवमानस्य शाङ्खिकस्य यः सवेगो वदनपवनो मुखमारुतः तेनाभिपूरितः प्रध्मातः शैलानां कटकतटेषु नितम्बप्रदेशेषु भिन्नरवो मूर्छितप्रतिध्वनिरस्य चैद्यस्य संबन्धि संनहनं प्रयोजनमस्येति सांनहनिकः । योधानां रणसंनाहप्रवर्तक इत्यर्थः । तदस्य प्रयोजनम्' इति ठक् । वारिजः शङ्खः । 'वारिजः शङ्खपद्मयोः' इति विश्वः । प्रणनाद दध्वान । संनहनशङ्खं दध्मावित्यर्थः । 'उपसर्गादसमासेऽपि णोपदेशस्य' (८।४।१४) इति णत्वम् । एतेनास्य महानुत्साहो वीररसस्थायी व्यज्यते ॥ ७२ ॥
जगदन्तकालसमवेतविषदविषमेरितारवम् ।
धीरनिजरवविलीनगुरुप्रतिशब्दमस्य रणतूर्यमावधि ॥ ७३ ॥
जगदिति ॥ जगदन्तकाले कल्पान्ते समवेता मिलिता ये विषदास्तोयदाः पुष्करावर्तकादयो मेघाः । 'विषं तु गरले तोये' इति विश्वः । तैर्विषमं दारुणं यथा तथेरित उत्पादितो य आरवः स इवारवो यस्य तत् । धीरे गम्भीरे निजरवे विलीना अन्तर्गता गुरवः प्रतिशब्दाः शब्दान्तराणि यस्य तत् । अस्य चैद्यस्य रणतूर्यं रणदुन्दुभिरावधि आहतम् । आहन्तेः कर्मणि लुङ्। 'आत्मनेपदेष्वन्यतरस्याम्' (२।४।४४) इति हनो वधादेशः । अत्राप्युत्साहो व्यज्यते । उपमालंकारः ॥७३॥
सहसा ससंभ्रमविलोलसकलजनतासमाकुलम् ।
स्थानमगमदथ तत्परितश्चलितोडुमण्डलनभःस्थलोपमाम् ॥७४॥
सहसेति ॥ अथ रणदुन्दुभिताडनानन्तरं सहसा झटिति ससंभ्रमं सव्यग्रं यथा तथा विलोलया चलन्त्या सकलया समग्रया जनतया जनसमूहेन समाकुलं संकीर्णं तत्स्थानं परितश्वलितं प्रस्थितमुडुमण्डलं ज्योतिश्चक्रं यस्मिंस्तस्य नभः- स्थलस्योपमां सादृश्यमगमत् । अत्रोडुमण्डलस्य चलनासंबन्धेऽपि संभावनया तत्संबन्धोक्तेरतिशयोक्तिः । उपमा तु तदुज्जीविता प्रतीतिमात्रसारा तदङ्गम् । तत्रैव चमत्कारस्फुरणात् । 'पुष्पं प्रवालोपहितं यदि स्यात्' इत्यादिवत् ॥ ७४ ॥
दधतो भयानकतरत्वमुपगतवतः समानताम् ।
धूमपटलपिहितस्य गिरेः समवर्मयन्सपदि मेदिनीभृतः॥७५॥
एव भयानकतरत्वमतिभयंकरत्वमुपगतवतो गिरेः समानतां सादृश्यं दधतो दधानाः सपदि समवर्मयन् संवर्मयन्ति स्म । सम्यग्वर्मणानहन्नित्यर्थः । 'सत्यापपाश-' (३।१।२५) इत्यादिना णिच् । उपमालंकारः॥ ७५ ॥
परिमोहिणा परिजनेन कथमपि चिरादुपाहृतम् ।
वर्म करतलयुगेन महत्तनुचूर्णपेषमपिषद्रुषा परः ॥ ७६ ॥
परिमोहिणेति ॥ परोऽन्यो नृपः । परिमुह्यतीति परिमोही । 'संपृच-'(३।२।१४२) इत्यादिना धिनुण्प्रत्ययः । तेन । खेदयुक्तेनेत्यर्थः । परिजनेन सेवकजनेन कथमपि विलम्बेन कष्टसृष्ट्या चिरादुपाहृतमानीतं महद्वर्म संनाहं करतलयुगेन पाणितलद्वयेन तनुचूर्णपेषं पिष्ट्वा । 'शुष्कचूर्णरूक्षेषु पिषः' (३।४॥३५) इति णमुलप्रत्ययः । अपिषञ्चूर्णितवान् । तच्च जिगीषोर्दुनिमित्तमिति भावः। 'कषादिषु यथाविध्यनुप्रयोगः' (३।४।४६) इत्यनुप्रयोगः । पिषेर्लुडि 'पुषादि-' (३।१।५५) इति च्लेरङादेशः । अत्र वर्मणः पेषणासंबन्धेपि तत्संबन्धोक्तेरतिशयोक्तिः । तया चामानुषं वीर्यमस्य व्यज्यते ॥ ७६ ॥
रणसंमदोदयविकासिबलकलकलाकुलीकृते ।
शारिमशकदधिरोपयितुं द्विरदे मदच्युति जनः कथंचन ॥७७॥
रणेति ॥ रणेन रणारम्भेण यः संमदो हर्षः । 'प्रमदसंमदौ हर्षे' (३।३।६८) इति निपातः । तस्योदयेन जन्मना विकासिभिर्विस्तारिभिर्बलकलकलैः सैन्यकोलाहलैराकुलीकृते संक्षोभिते । अत एव मदं च्योततीति मदच्युति मदस्राविणि । क्विप् । द्विरदे गजे जनः परिजनः शारिं पर्याणम् । 'ना पर्याणे विहङ्गे स्त्री शारिद्यूतगुडे न पुम्' इति वैजयन्ती । 'शारिर्नाऽक्षोपकरणे स्त्रियां शकुनिकान्तरे । युद्धार्थे गजपर्याणे व्यवहारान्तरे क्वचित् ॥' इति विश्वप्रकाशश्च । अधिरोपयितुमारोपयितुं कथंचन कृच्छ्रादशकच्छशाक । शकेर्लुंङि 'पुषादि-' (३।१।५५) इति च्लेरङादेशः । अत्र विशेषणगत्या सेनाकलकलस्य मदहेतुत्वान्मदस्य शारिदुरारोपत्वहेतुत्वाच्च काव्यलिङ्गद्वयं तत्सापेक्षत्वात्संकीर्यते ॥ ७७ ॥
परितश्च धौतमुखरुक्मविलसदहिमांशुमण्डलाः ।
तेनुरतनुवपुषः पृथिवीं स्फुटलक्ष्यतेजस इवात्मजाः श्रियः॥७८॥
प्रधिमण्डलोद्धतपरागघनवलयमध्यवर्तिनः ।
पेतुरशनय इवाशनकैगुरुनिः स्वनव्यथितजन्तवो रथाः ॥ ७९ ॥
प्रधीति ॥ 'चक्रधारा प्रधिर्नेमिः' इति हलायुधः । प्रधिमण्डलैर्नेमिवलयै- रुद्धता उत्थापिताः परागाः पांसव एव घना मेघास्तेषां वलयानि मण्डलानि तेषां मध्यवर्तिनः गुरुभिनिःस्वनैः स्वघोषैर्व्यथिता भीषिता जन्तवः प्राणिनो यैस्ते रथा अशनयः वज्रा इवाशनकैः पेतुस्तीव्रमधावन् । अत्र रथानामशनित्वेनोप्रेक्षा परागाणां घनत्वरूपणसापेक्षेति संकरः ॥ ७९ ॥
दधतः शशाङ्कितशशाङ्करुचि लसदुरश्छदं वपुः ।
चक्रुरथ सह पुरन्ध्रिजनैरयथार्थसिद्धि सरकं महीभृतः ॥ ८० ॥
दधत इति ॥ लसनुरश्छदः कवचो यस्मिन्कर्मणि तद्यथा तथा । 'उरश्छदः कङ्कटकोऽजगरः कवचोऽस्त्रियाम्' इत्यमरः । अत एव शशाङ्कितो मृगलाञ्छितो यः शशाङ्क इन्दुस्तस्य रुचिरिव रुचिर्यस्येत्युपमा । तद्वपुर्दधतो दधानाः मही- भृतो राजानः पुरन्ध्रिजनैरङ्गनाजनैः सह । अयथार्था असत्या सिद्धिर्मदकार्योत्पत्तियस्मिंस्तद्यथार्थसिद्धिरहितम् । अनिर्वृतचित्तत्वादमादकमित्यर्थः । सरकं मधुपानं चक्रुः । उत्साहवर्धनार्थमिति भावः । 'मणौ शीधौ शीधुपाने सरकं मधुभाजनम्' इति वैजयन्ती ॥ ८०॥
अथासर्गसमाप्तेः प्रायाणिकामन्त्रणाय प्रियासंगतानां भटानामागामिशुचः- सूचिकास्तात्कालिकचेष्टा वर्णयति-
दयिताय सासवमुदस्तमपतदवसादिनः करात् ।
कांस्यमुपहितसरोजपतद्भ्रमरौघभारगुरु राजयोषितः ॥ ८१॥
दयितायेत्यादि ॥ दयिताय प्रेयसे उदस्तं पानार्थमुत्क्षिप्तं सासवं समद्यं अत एवोपहिते वासनार्थं निहिते सरोजे पतन् भ्रमरौघ एव भारः तेन गुरु दुर्भरम् । 'गुरुस्तु वाक्पतौ श्रेष्ठे तुङ्गे पितरि दुर्भरे' इति शब्दार्णवे । कांस्यं पानभाजनम् । 'कंसोऽस्त्री पानभाजनम्' इत्यमरः । 'वृतृवदिहनिकमिकषिभ्यः सः' (उ० ३४२) इति कमेर्धातोरौणादिकः सप्रत्ययः । तस्मै हितं कंसीयं लोहवि- शेषः । 'प्राक्क्रीताच्छः' (५।१।१) इति छप्रत्ययः । तस्य विकारः कांस्यं पानपात्रम् । 'कंसीयपरशव्ययोर्यञञौ लुक्च' (४।३।१६८) इति यज्प्रत्यये छस्य लुक् । राजयोषितः कस्याश्चिद्राजवध्वाः संबन्धिनः अवसादिनः शैथिल्यभाजः करादपतत् । तच्च दुर्निमित्तमिति भावः । एतेनास्या भाविविरहशोकादेवाप्रसन्नदृष्टेः काचिच्चिन्ता व्यज्यते । अत्रावसादभारगौरवयोर्विशेषणगत्या पात्रपातहेतुत्वात्काव्यलिङ्गम् ॥ ८१॥
भृशमङ्गसादमरुणत्वमविशददृशः कपोलयोः ।
वाक्यमसकलमपास्य मदं विदधुस्तदीयगुणमात्मना शुचः॥८२॥
भृशमिति ॥ शुचो भाविविरहभावनाप्रसूताः शोकाः अविशदद्दशः शोकादेवाप्रसन्नदृष्टेः । कस्याश्चिदिति शेषः । मदमपास्य तदुत्पत्तिं प्रतिरुध्य तदीयं गुणं तद्धर्मम् । मदकार्यभूतमित्यर्थः । अङ्गसादमङ्गशैथिल्यं कपोलयोररुणत्वमसकलमसमाप्तं वाक्यं चात्मना स्वयम् । प्रकृत्यादिभ्य उपसंख्यानात्तृतीया । भृशं विदधुः । करुणेन शृङ्गारस्तिरस्कृत इत्यर्थः । अत्र मदाभावेऽपि तत्कार्योदयात्तस्यावलोकननिमित्तकत्वोक्त्या उक्तनिमित्ताख्यो विभावनाभेदः ॥ ८२ ॥
सुदृशः समीकगमनाय युवभिरथ संबभाषिरे ।
शोकपिहितगलरुद्धगिरस्तरसागताश्रुजलकेवलोत्तराः ॥ ८३ ॥
सुदृश इति ॥ अथास्मिन्नवसरे युवभिः समीकगमनाय युद्धगमनाय । 'समीकं सांपरायिकम्' इत्यमरः । सुदृशः शोकपिहिते शोकावृते गले कण्ठे रुद्धगिरः प्रतिबद्धोत्तरवाचस्तथापि तरसा वेगेनागतमश्रुजलमेव केवलं निर्णीतमुत्तरं यासां ताः । 'निर्णीतं केवलं चोक्तम्' इति विश्वः । संबभाषिरे संभाषिताः । योद्धं गच्छामेत्यामन्त्रिताः । 'हा कष्टमिदमेवान्तिमदर्शनम्' इति वाक्यभेदेऽप्यश्रुपातेनैवानक्षरं दत्तोत्तराश्चासन्नित्यर्थः । अत्राप्यश्रुपातो दुर्निमित्तमिति भावः । एतेन गन्तव्यं चेद्गम्यतां, वयं च युष्मत्सालोक्यकामा इत्यनिष्टविध्याभासरूपाक्षेपालंकारो व्यज्यते । अनिष्टविध्याभासश्चेति सूत्रेणेष्टनिषेधाभासवदस्यापि लक्षणात् ॥ ८३॥
विपुलाचलस्थलघनेन जिगमिषुभिरङ्गनाः प्रियैः ।
पीनकुचतटनिपीडदलद्वरवारबाणमुरसालिलिङ्गिरे ॥ ८४ ॥
विपुलेति ॥ जिगमिषुभिर्युद्धाय गन्तुमिच्छुभिः । प्रियैः कर्तृभिः अङ्गनाः विपुलं यदचलस्य स्थलं तद्वद्धनेन दृढेनोरसा निजवक्षसा करणेन पीने कुचतटे निपीडो नितरां पीडनं तेन दलन्तो विदीर्यमाणा वराः श्रेष्ठा वारबाणाः कञ्चुका यस्मिन्कर्मणि तद्यथा तथा । 'कञ्जुको वारबाणोऽस्त्री' इत्यमरः । आलिलिगिरे आलिङ्गिताः । अत्र वारबाणानां दलनासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः ॥८४॥
न मुमोच लोचनजलानि दयितजयमङ्गलैषिणी ।
यातमवनिमवसन्नभुजान्न गलद्विवेद वलयं विलासिनी ॥८५॥
नेति ॥ दयितस्य जयमङ्गलम् । तदर्थमङ्गलमित्यर्थः । अश्वघासादिवत्तदर्थे षष्ठीसमासः । तदिच्छतीति तदेषिणी विलासिनी काचिदङ्गना लोचनजलान्यश्रूणि न मुमोच । अश्रुपातस्यामङ्गलत्वादिति भावः । अमङ्गलं तदन्यतः प्रवृत्तमेवेत्याह- यातमिति । अवसन्नभुजाच्छोकशिथिलात्कराद्गलद्भ्रश्यदेवावनिं भुवं यातं प्राप्तं वलयं कङ्कणं न विवेद । अवश्यभाविनां को निवारक इति भावः । एषा च दैन्यचिन्तेति । अत्रावसादस्य विशेषणगत्या वलयपातहेतुत्वात्काव्यलिङ्गम् ॥ ८५ ॥
प्रविवत्सतः प्रियतमस्य निगडमिव चक्षुरक्षिपत् ।
नीलनलिनदलदामरुचि प्रतिपादयुग्ममचिरोढसुन्दरी ॥ ८६ ॥
कर्तुमिच्छतः । वसेः सन्नन्ताल्लटः शत्रादेशः । प्रियतमस्य प्रतिपादयुग्मं पादयुग्मे । विभक्त्यर्थेऽव्ययीभावः । नीलनलिनदलदामरुचि नीलोत्पलमालासच्छायमित्युपमा । निगडमिव शृङ्खलामिव चक्षुनॆत्रमक्षिपत् । प्रैरयदित्यर्थः । चक्षुषो दूरे पदमपि गन्तुं न शशाकेत्यर्थः । तच्च दुर्निमित्तमिति भावः । प्रयाणे रुयवलोकननिषेधात् । उक्तोपमासापेक्षा चक्षुषो निगड़त्वोत्प्रेक्षेति संकरः ॥ ८६ ॥
बजतः क्व तात वजसीति परिचयगतार्थमस्फुटम् ।
धैर्यमभिनदुदितं शिशुना जननीनिभर्त्सनविवृद्धमन्युना ।। ८७॥
व्रजत इति ॥ जनन्याः अपशकुनभीतायाः मातुर्निर्भर्त्सनाद्विवृद्धमन्युना प्रवृद्धकोपेन शिशुना बालकेन हे तात जनक । 'तातस्तु जनकः पिता' इत्यमरः । क्क वजसि कुत्र व्रजसि इत्यस्फुटमुदितमुक्तम् । वदेः कर्मणि क्तः । 'वचिस्वपि-' (६।१।१५) इत्यादिना संप्रसारणम् । व्रजसीति सरेफपदमपाटवादरेफमुच्चारितमित्यर्थः । तथापि परिचयादभ्यासपाटवागतार्थम् । पितृभ्यां केवलावगताभिधेयं वचनमिति शेषः । व्रजतः प्रस्थातुः धैर्य ग्रयाणोत्साहमभिनत् । गमनकारिणो दुर्निमित्तत्वादिति भावः । उक्तं च योगयात्रायाम्-'यानात्पुरा निपतनं बृह- तीव काचिद्गर्भेण भारबृहती स्वपुरःस्थिता स्त्री । आगच्छ तिष्ठ कुत इत्यलमर्थवाचिशब्दाश्च राजगमने प्रतिषेधकाः स्युः ॥' इति । अत्र दंपत्योर्दैन्यविषाचिन्ताशङ्कादयः संचारिणोऽनुसंधेयाः ॥ ८७ ॥
शठ नाकलोकललनाभिरविरतरतं रिरंससे ।
तेन वहसि मुदमित्यवदद्रणरागिणं रमणमीर्ण्ययाऽपरा ॥ ८८ ॥
शठेति ॥ अपरा स्त्री रणरागिणं युद्धोत्साहिनं रमणं हे शठ वञ्चक, नाकलोकललनाभिः । अप्सरोभिः सहेत्यर्थः । सहयुक्तेऽप्रधाने' (२।३।१९) इति सहार्थे तृतीया, वृद्धो यूनेतिवत् । अविरतरतमविच्छिन्नसुरतं यथा भवति तथा रिरंससे रन्तुमिच्छसि । रमेः सन्नन्ताल्लट् । 'पूर्ववत्सनः' (१।३।६२) इत्यात्मनेपदम् । तेनाप्सरोरिरंसाकरणेन मुदं वहसीति ईर्ष्यया सापत्रयाक्षमया अवदत् । अर्थाद्विरहासहनया प्रस्थानप्रतिषेधपरया व्याहृतमिदमेवास्य मरणशंसिनी दुरुपश्रुतिरिति भावः । ईर्ष्यात्र कण्ठोक्त एव संचारी ॥ ८८ ॥
ध्रियमाणमप्यगलदश्रु चलति दयिते नतभ्रवः ।
स्नेहमकृतकरसं दधतामिदमेव युक्तमतिमुग्धचेतसाम् ।। ८९ ।।
ध्रियमाणमिति ॥ दयिते चलति प्रतिष्ठमाने सति नतभ्रवः वध्वाः अश्रु ध्रियमाणममङ्गलभिया धार्यमाणमपि । धरतेः कर्मणि लटः शानजादेशः । अगलत् अस्रवत् । शोकातिरेकाद्धारयितुमशक्यमासीदित्यर्थः । तथा हि-अकृतकरसमकृत्रिमरागं स्नेहं प्रेम दधताम् अतएव अतिमुग्धचेतसामत्यन्ताकपटबुद्धीनामिदमेवासंवरणं युक्तम् । अन्यथा स्नेहव्याघातेन तत्कालविरुद्धमश्रुमोचनं नानु चितमिति भावः । रसस्नेहयो रागप्रेमापरनाम्नोरवस्थाभेदाद्भेदः । । 'रागस्तसंबन्धी प्रेम तद्वियोगासहिष्णुता' इति रससागरे । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ८९॥
सह कज्जलेन विरराज नयनकमलाम्बुसंततिः ।
गण्डफलकमभितः सुतनोः पदवीव शोकमयकृष्णवर्त्मनः॥९०॥
सहेति ॥ सुतनोः शुभाङ्गयाः गण्डफलकमभितः । गण्डस्थलयोरित्यर्थः । 'अभितःपरित:-' (वा०) इत्यादिना द्वितीया । नयनकमलाम्बुसंततिरश्रुधारा कज्जलेनाञ्जनेन सह शोक एव शोकमयस्तस्य कृष्णवर्त्मनः शोकाग्नेः पदवी निःसरणमार्ग इव विरराज शुशुभे । येन वर्त्मना अग्निर्गच्छति तत्कृष्णं भवतीति कृष्णवर्त्मा । अत्राप्यश्रुपात एव दुर्निमित्तमिति भावः ॥ ९० ॥
क्षणमात्ररोधि चलितेन कतिपयपदं नतभ्रवः ।
स्रस्तभुजयुगगलद्वलयस्खनितं प्रति क्षुतमिवोपशुश्रुवे ॥ ९१ ॥
क्षणेति ॥ कतिपयं च तत्पदं च तत् । जातावेकवचनम् । कतिचित्पदानीत्यर्थः । पदशब्दस्य तदवच्छिन्नदेशवाचित्वादत्यन्तसंयोगे द्वितीया । चलितेन प्रस्थितेन । केनचिदिति शेषः । क्षणमात्रमरोधि क्षणमात्रप्रतिबन्धकम् । प्राणदानकजीविनामवसरे सत्यधिकं स्थातुमनौचित्यादिति भावः । नतभ्रुवः स्रस्तानामगसादेन झटिति प्रकोष्ठाग्रे पतितानां भुजयुगगलद्वलयानां हस्तद्वयचलत्कङ्कणानां स्वनितं रणत्कारं प्रति प्रतिमुखं क्षुतमिवोपशुश्रुवे उपश्रुतम् । 'स्त्री क्षुक्षुतं क्षवः पुंसि' इत्यमरः । रणत्कारे क्षुतभ्रान्त्या निवृत्तम् । क्षणमात्रं स्थितमित्यर्थः । अक्षुते क्षुतभ्रान्त्या भ्रान्तिमदलंकारः । दैन्यविषादाख्याः संचारिणः ॥ ९१ ॥
अभिवर्त्म वल्लभतमस्य विगलदमलायतांशुका ।
भूमिनभसि रभसेन यती विरराज काचन समं महोल्कया ॥९२॥
अभीति ॥ वल्लभतमस्य प्रियतमस्याभि वर्त्माभिमार्गं विगलदङ्गसादात्त्रंसमानममलमायतं चांशुकं वस्त्रं यस्याः, अन्यत्र विगलन्तो विशीर्यमाणा अमला उज्ज्वलाः आयता दीर्घीभूता अंशवो रश्मयो यस्याः सा । शैषिक: कप्रत्ययः । भूमिर्नभ इव तस्मिन्भूमिनभसि रभसेन वेगेन यती यान्ती । इणः शतरि 'उगितश्च (४।१।६) इति ङीप् । काचनाङ्गना महोल्कया समं सदृशं विरराज । अत्र प्रस्थातुरग्रे स्वकान्ताया महोल्कासादृश्यभवनमेव दुर्निमित्तमिति भावः । उपमालंकारः ॥ ९२॥
समरोन्मुखे नृपगणेऽपि तदनुमरणोद्यतैकधीः ।
दीनपरिजनकृताश्रुजलो न भटीजनः स्थिरमना विचक्लमे ॥९३॥
समरेति ॥ नृपगणे समरोन्मुखेऽपि तस्य नृपगणस्यानुमरणे सहमरणे उद्यतोधुक्ता अत एवैका मुख्या धीर्यस्य सः । दीनेनाप्यशोच्येन परिजनेन कृताश्रुजलो मुक्तबाप्पः । दासीमुक्ताश्रुबिन्दुरित्यर्थः । तथापि स्वयं स्थिरमना अचलितचित्तो भटीजनो भटस्त्रीलोकः । जातावेकवचनम् । 'पुंयोगादाख्यायाम्' (४। १ । ४८) इति डीप् । न विचक्लमे न तत्रास । सहमृत्युप्रियाणां कुतः संत्रास इति भावः । अत्र मरणोद्योगस्य विशेषणगत्या अक्लैब्यहेतुत्वात्काव्यलिङ्गभेदः ॥ ९३ ॥
विदुषीव दर्शनममुष्य युवतिरतिदुर्लभं पुनः ।
यान्तमनिमिषमतृप्तमनाः पतिमीक्षते स्म भृशमा दृशः पथः ॥९४॥
विदुषीवेति ॥ युवतिः काचिदङ्गना अमुष्य पत्युदर्शनं पुनः पश्चादतिदुर्लभम् । तस्यापुनरावृत्तेरिति भावः । विदुषी जानतीवेत्युप्रेक्षा । 'विदेः शतुर्वसुः' (७।१॥३६) इति वस्वादेशः 'उगितश्च' (४।१।६) इति डीप् । अवितृप्तमना अवितृप्तचित्ता सती यान्तं योद्धुं गच्छन्तं पतिं भर्तारं आ दृशः पथः आ दृष्टिपथात् । दृष्टिपथातिक्रमपर्यन्तमित्यर्थः । 'आङ्मर्यादाभिविध्योः' (२।१।१३) इति विकल्पादाङो न समासः । भृशमनिमिषं निमेषरहितं यथा तथा ईक्षते स्म ॥१४॥
संप्रत्युपेयाः कुशली पुनर्युधः सस्नेहमाशीरिति भर्तुरीरिता ।
सद्यः प्रसह्य द्वितयेन नेत्रयोः प्रत्याचचक्षे गलता भटस्त्रियाः॥ ९५॥
संप्रतीति ॥ संप्रतीदानीमेव कुशली अक्षतः सन् युधो युद्धात्पुनः उयेयाः प्रत्यावर्तस्वेति सस्नेहं भर्तुरीरिता भर्त्रे प्रयुक्ता आशीराशीर्वादः सद्यः प्रसह्य बलाद्गलदम्भसा स्रवदश्रुणा तस्या भटस्त्रियास्तस्य वध्वा एव । अस्त्रीति प्रतिषेधान्नदीत्वादाडागमः । नेत्रयोर्द्वितयेन प्रत्याचचक्षे प्रत्याख्याता । निराकृतेत्यर्थः । अमङ्गलेनाश्रुपातेन निष्फलीकृतेत्यवश्यं भवितव्यं भवत्येवेति भावः । 'वा लिटि' (२।४।५५) इति विकल्पान्न चक्षिङः ख्याजादेशः । अत्राश्रुपातस्य नेत्रविशेषणद्वारा आशीःप्रत्याख्याने हेतुत्वात्काव्यलिङ्गभेदः ॥ ९५ ॥
काचित्कीर्णा रजोभिर्दिवमनुविदधे भिन्नवक्रेन्दुलक्ष्मी-
रश्रीकाः काश्चिदन्तर्दिश इव दधिरे दाहमुद्भ्रान्तसत्त्वाः ।
भ्रेमुर्वात्या इवान्याः प्रतिपदमपरा भूमिवत्कम्पमापुः
प्रस्थाने पार्थिवानामशिवमिति पुरो भावि नार्यः शशंसुः ॥९६॥
इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्रयङ्के
पञ्चदशः सर्गः॥ १५॥
काचिदिति ॥ काचिस्त्री रजोभिरार्तवैरङ्गसंस्कारत्यागात्पांशुभिर्वा कीर्णा । 'स्या द्र्नः पुष्पमार्तवम्' इति । 'पांशुर्ना न द्वयो रजः' इति चामरः ।दिवस्त्वौत्पातिकपांसुवर्षणाद्रजःकीर्णता । वक्रमिन्दुरिव, अन्यत्र वक्रमिवेन्दुर्भिन्नास्तस्य लक्ष्म्यो यस्याः सा भिन्नवक्रेन्दु लक्ष्मीः । बहुवचनान्तो बहुव्रीहिः। एवमपि एकवचनान्तस्यैव लक्ष्मीशब्दस्योरःप्रभृतिषु पाठान्न तन्निमित्तः कप्प्रत्ययः । शैषिक स्तु वैभाषिक इत्यविरोधः । काचिन्नारी दिवमनुविदधेऽनुचकार । काश्चिन्नार्यों दिश इवाश्रीका वीतशोभाः । उद्धान्तसत्त्वा उद्भेन्तचित्ता उद्भ्रान्तजन्तुकाश्च सत्यः । अन्तरात्मनि मध्ये च दाहं संतापम्, अन्यत्रौत्पातिकं प्रज्वलनं दधिरे दधुः । अन्या नार्यों वात्या इव वातसमूहा इव । 'शाखादिभ्यो यत्' (५।३।१०३) इति यत्प्रत्ययः । प्रतिदिशं दिशि दिशि । 'अव्ययीभावे शरत्प्रभृतिभ्यः' (५।४।१०७}} ) इति समासान्तष्टप्रत्ययः । भ्रमुर्बभ्रमः । 'वा जॄभ्रमुत्रसाम्' (६।४।१२४) इति विकल्पादेत्वाभ्यासलोपौ । अपरा नार्यों भूमिवत् भूम्या तुल्यं कम्पमापुः । इतीत्थं पार्थिवानां प्रस्थाने प्रयाणे नार्यों भाव्यशुभं पुरः पूर्वं शशंसुः । सूचयामासुरित्यर्थः । अत्र नारीणां भाव्यशुभसूचनस्य रजोदाहादिवाक्यार्थहेतुकं काव्यलिङ्गम् । तत्र नारीणां द्युदिगाद्युपमाभिस्तद्रजोदाहादिवन्नारीरजोदाहादीनाम- शुभसूचकत्वमित्युपमाकाव्यलिङ्गयोरङ्गाङ्गिभावेन संकरः । संचारिणश्च पूर्ववद्विषा- दादयः सुगमाः । अत्र 'काश्चित्कीर्णा रजोभिर्दिवमनुविदधुभिन्नवक्रेन्दुलक्ष्म्यो निश्रीकाः काश्चित्' इति पाठे काचित्कीर्णेत्येकवचनप्रक्रमभङ्गे दोषो नास्ति । न चैवमुपमानोपमेययोर्भिन्नवचनत्वदोषः । लोकेषु चन्द्रादिष्वेकत्र नियतेषु दोषबु- द्धयनुदयात् । यथाह दण्डी-'न लिङ्गवचने भिन्ने न हीनाधिकतापि वा । उपमा- दूषणायालं यत्रोद्वेगो न धीमताम् ॥' इति स्रग्धरावृत्तम् । 'म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्' इति लक्षणात् ॥ ९६ ॥
इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितशिशुपालवध
काव्यव्याख्यायां सर्वंकषाख्यायां पञ्चदशः सर्गः ॥ १५॥