शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)/सप्तमः सर्गः(वनविहारवर्णनम्)

← षष्ठः सर्गः(ऋतुवर्णनम्) शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)
सप्तमः सर्गः(वनविहारवर्णनम्)
माघः
अष्टमः सर्गः(जलविहारवर्णनम्) →


सप्तमः सर्गः ।

 इत्थमृतुगणप्रादुर्भावमभिधाय तत्फलतया भगवतः सानुचरस्य वनविहार- लीलावर्णनमारभते--

 अनुगिरमृतुभिर्वितायमानामथ स विलोकयितुं वनान्तलक्ष्मीम् ।
 निरगमदभिराद्धुमादृतानां भवति महत्सु न निष्फलः प्रयासः॥१॥

 अनुगिरमिति ॥ अथर्तुप्रादुर्भावानन्तरं स हरिः गिरावित्यनुगिरम् । विभ- क्त्यर्थेऽव्ययीभावः । 'गिरेश्च सेनकस्य' (५।४।११२) इति समासान्तः । ऋतुभिर्वितायमानां वितन्यमानाम् । तनोतेः कर्मणि लटः शानजादेशः । 'तनोतेर्यकि' (६।४।४४) इति वैभाषिक आकारादेशः वनान्तलक्ष्मीं विलोकयितुं निरगम- न्निर्गतः । 'पुषादि-' (३।१।५५) इत्यादिना गमेर्लुङि च्लेरङादेशः । ऋतुगणभक्तिंं स्वीकर्तुमिति भावः । तथा हि-अभिराद्धुमाराधयितुमादृतानामादरं कुर्वताम् । आस्थावतामित्यर्थः । कर्तरि क्तः । प्रयासः सेवायासो महत्सु विषये निष्फलो न भवति । न हि भक्तानुकम्पिनो महान्तस्तत्सेवां व्यर्थयन्तीति भावः । अतो हरेरप्यृतुगणानुग्रहणार्थे निर्गमो युक्त इति सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः। 'सामान्यविशेषकार्यकारणभावाभ्यां निर्दिष्टप्रकृतार्थसमर्थनादर्थान्तरन्यासः' इति सर्वस्वसूत्रम् । अत्र सर्गे पुष्पिताग्रा वृत्तम् । 'अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' इति लक्षणात् ॥ १ ॥

 दधति सुमनसो वनानि बह्वीर्युवतियुता यदवः प्रयातुमीषु: ।
 मनसिशयमहास्त्रमन्यथामी न कुसुमपञ्चकमप्यलं विसोढुम्॥२॥

 दधतीति ॥ यदवो यादवाः । व्याख्यातं चैतत् । बह्वीबहूः । बहुविधा इत्यर्थः । 'बह्वादिभ्यश्च' (४।१।४५) इति विकल्पादीकारः । सुमनसः पुष्पाणि । 'स्त्रियः सुमनसः पुष्पम्' इत्यमरः । दधति दधन्ति । 'वा नपुंसकस्य' (७।११७९) इति अभ्यस्ताच्छतुर्वैकल्पिको नुम्प्रतिषेधः । वनानि युवतियुताः स्त्रीसमेता एव प्रयातुमीषुरिच्छन्ति स्म । अत्र हेतुमाह-अन्यथा युवतिजनाभावे अमी यदवो मनसि शेते इति मनसिशयः कामः । 'अधिकरणे शेतेः' (३।२।१५) इत्यच्प्रत्ययः । 'हलदन्तात्सप्तम्याः संज्ञायाम्' (६।३।९) इत्यलुक् । तस्य महास्त्रभूतं कुसुमपञ्चकमपि । पञ्चापि कुसुमानीत्यर्थः । पञ्चानां सङ्घः पञ्चकम् । 'संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु' (५।१।५८) इति कप्रत्ययः । विसोढुं नालं न शक्ताः । सकलसुमनसां सामर्थ्ये तत्रारविन्दादीनामेव पञ्चबाणबाणत्वस्य संभवप्रमाणसिद्धत्वादिति भावः । अतो युवतिभिः सह प्रयाणं युक्तमिति वाक्यार्थेन वाक्यार्थसम र्थनाद्वाक्यार्थसमर्थनरूपकाव्यलिङ्गमलंकारः ।'अरविन्दमशोकं च चूतं च नवमल्लिका ।

नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः' ॥२॥

 अवसरमधिगम्य तं हरन्त्यो हृदयमयत्नकृतोज्वलस्वरूपाः ।
 अवनिषु पदमङ्गनास्तदानीं न्यदधत विभ्रमसंपदोऽङ्गनासु ॥३॥

 अवसरमिति ॥ तमवसरं सहजिगमिषाकालमधिगम्य हृदयं हरन्त्यो हृद- यंगमा भवन्त्यः । सर्वं हि प्रार्थ्यमानमेव प्रियं भवतीत्यर्थः । यत्नेन कृतं न भवतीत्ययत्नकृतं तथाप्युज्वलं स्वरूपं यासां ताः । स्वभावसुन्दरमूर्तय' इत्यर्थः । अङ्गनास्तदानीं तस्मिन्नवसरेऽवनिषु पदं न्यदधत निहितवत्यः । पादचारेणैव चेलुरित्यर्थः । दधातेर्लङि 'आत्मनेपदेष्वनतः' (७।१|५) इति झस्यादादेशः । अङ्गनासु विभ्रमसंपदो विलाससंपदः पदं न्यदधत । तदानीं विलासाः प्रवृत्ता इत्यर्थः । अत्राङ्गनानां विलाससंपदां चोभयीनामपि प्रकृतानामेव हृदयहरणादिना वर्णनासाम्येनौपम्यस्य गम्यमानत्वात् केवलप्रकृतविषया तुल्ययोगितालंकारः । वाच्यभेदेनाप्यङ्गनाविलाससंपदामुत्तरोत्तरस्य पूर्वपूर्वविशेषकत्वावगमादेकावलीभेदो व्यज्यत इत्यलंकारेणालंकारध्वनिः ॥ ३ ॥

 न्यदधत विभ्रमसंपदोऽङ्गनास्वित्युक्तं ता एव प्रपञ्चयति-

 नखरुचिरचितेन्द्रचापलेखं ललितगतेषु गतागतं दधाना ।
 मुखरितवलयं पृथौ नितम्बे भुजलतिका मुहुरस्खलत्तरुण्याः ४

 नखेति ॥ ललितगतेषु मन्दगमनेषु नखानां रुचिभिः प्रभाभी रचिता इन्द्र- चापलेखा यस्मिन्कर्मणि तद्यथा तथा गतागतं यातायाते । 'विप्रतिषिद्धं चान- धिकरणवाचि' (२।४।१३) इति वैभाषिको द्वन्द्वैकवद्भावः । दधाना तरुण्याः भुजलतिका मुखराः कृता इति मुखरिताः ध्वनिता वलया यस्मिन्कर्मणि तद्यथा तथा । 'कटको वलयोऽस्त्रियाम्' इत्यमरः । पृथौ नितम्बे मुहुरस्खलच्चस्खाल । अत्र नखरुचीत्यालम्बनगुण उक्तः । गतागतं दधाना अस्खलदिति तच्चेष्टा । मुख- रितवलयभिति तदलंकृतिः । तटस्थास्तूक्ता वसन्तादयः । अन्यत्र विस्तारत इति चतुर्विधोऽप्युद्दीपनक्रम उक्तः । उक्तं च-'आलम्बनगुणाश्चैव तच्चेष्टा तदलंकृतिः । तटस्थश्चेति विज्ञेयश्चतुष्कोद्दीपनक्रमः ॥' इति । तत्रालम्बनं रसस्य समवायिकारणं नायिका नायकश्च । तद्गुणो रूपलावण्यादिः । तच्चेष्टा भावहावादिः । अन्यत्सु- गमम् । एवमुत्तरत्रापि ॥ ४ ॥

 अतिशयपरिणाहवान् वितेने बहुतरमर्पितरत्नकिङ्किणीकः ।
 अलघुनि जघनस्थलेऽपरस्या ध्वनिमधिकं कलमेखलाकलापः ५

 अतिशयेति ॥ अतिशयेन परिणाहवान् । अतिविशाल इत्यर्थः । अन्यथा तजघनस्य पर्याप्तेरिति भावः । 'परिणाहो विशालता' इत्यमरः । 'उपसर्गादसमा- सेऽपि णोपदेशस्य' (८|४|१४) इति णत्वम् । बहुतरमर्पिता आहिता रवानां किङ्किण्यो यस्मिन् सः । 'नद्यृतश्च' (५।४।१५३) इति कप्प्रत्ययः । कलो मधुरारावी मेखलाकलापोऽपरस्याः स्त्रियः अलघुनि जघनस्थलेऽधिकं ध्वनि

वितेने । तदलंकृतिरियम् ॥ ५॥

 गुरुनिविडनितम्बबिम्बभाराक्रमणनिपीडितमङ्गनाजनस्य ।
 चरणयुगमसुस्रुवत्पदेषु स्वरसमसक्तमलक्तकच्छलेन ॥६॥

 गुर्विति ॥ गुरु गुरुत्वगुणयुक्तं निबिडं दृढं च यन्नितम्बबिम्बं तदेव भारस्त- स्याक्रमणेनाधिष्ठानेन निपीडितं निष्पीडितमङ्गनाजनस्य चरणयुगं कर्तृ, पदेषु पादन्यासस्थानेष्वलक्तकच्छलेन लाक्षारसमिषेण स्वरसं स्वद्रवमेव । 'गुणे रागे द्रवे रसः' इत्यमरः । असक्तमविच्छिन्नं यथा तथाऽसुस्रुवत् स्रवति स्म । स्रवतेः क्षरणार्थाल्लुङि ‘णिश्रि-' (३।१।४८) इत्यादिना चङि धातोरुवङादेशः । द्रवद्र- व्यकर्तृक एवायमकर्मकः । अन्यकर्तृकत्वे तु सकर्मकः । अत्रालक्तकच्छलेनेत्यलक्त- कापह्नवेन रूपरसत्वारोपाच्छलादिशब्दैरसत्यत्वप्रतिपादनरूपोऽपह्नवालंकारः ॥ ६ ॥

 अथ कस्याश्चित्सख्याः कुपितनायिकानुनयवचनं पञ्चभिः कुलकेनाह-

 तव सपदि समीपमानये तामहमिति तस्य मयाग्रतोऽभ्यधायि ।
 अतिरभसकृतालघुप्रतिज्ञामनृतगिरं गुणगौरि मा कृथा माम् ७

 तवेत्यादि ॥ तां मत्सखीं सपदि तव समीपमहमानये आनयिष्यामि । वर्तमानसामीप्ये वर्तमानप्रत्ययः । कर्तुरभिप्राये आत्मनेपदम् । इति मया तस्या- अतोऽभ्यधाय्यभिहितम् । दधातेः कर्मणि लुङ् 'आतो युक् चिण्कृतोः' (७३। ३३) इति युगागमः । हे गुणगौरि गुणैः सौभाग्यदाक्षिण्यादिभिर्गौरि पार्वतीति रूपकम् । अतिरभसेनातित्वरया कृता अलघुर्महती प्रतिज्ञा त्वदानयनार्था यया तां मामनृतगिरमसत्यवाचं मा कृथाः मा कार्षीः। मद्वचनं सर्वथा कर्तव्यमि- त्यर्थः । करोते ङि थास् 'न माङ्योगे' (६।४७४) इत्यडागमप्रतिषेधः ॥ ७ ॥

 ननु मत्प्रतिज्ञापि दुस्त्याज्येति विप्रतिषेधमाशङ्क्याह-

 न च सुतनु न वेद्मि यन्महीयानसुनिरसस्तव निश्चयः परेण ।
 वितथयति न जातु मद्वचोऽसाविति च तथापि सखीषु मेऽभिमानः ८

 न चेति ॥ हे सुतनु शुभाङ्गि, दीर्घान्तोत्तरपदात्संबुद्धिः, अन्यथा गुणः स्यात् । अहं न वेद्मीति न । किंतु वेद्म्येवेत्यर्थः । किं तद्वेत्सीत्यत आह-मही- यान् महत्तरः तव निश्चयस्त्वदनैक्ये प्रतिज्ञा परेण जनान्तरेण सुनिरसः सुख- मोच्यः । अस्यतेः खल्प्रत्ययः । स न भवतीत्यसुनिरस इति यत्तदित्यर्थलभ्यम् । उद्देश्येन विधेयाक्षेपाद्यच्छब्दस्योत्तरवाक्यस्थत्वाच्च न पूर्ववाक्ये तच्छब्दप्रयोग इति निबन्धः । तथापि विदितत्वेऽप्यसौ मत्सखी जातु कदाचिदपि मद्वचो न वितथयति नानृतीकरोतीति सखीषु मध्ये मेऽभिमानः । स्वप्रतिज्ञाभङ्गेऽपि मत्प्रतिज्ञामेव पालयसीत्यहंकारान्निःशङ्कं प्रतिज्ञातमित्यर्थः ॥ ८॥

 सततमनभिभाषणं मया ते परिपणितं भवतीमनानयन्त्या।
 त्वयि तदिति विरोधनिश्चितायां भवति भवत्वसुहृज्जनः सकामः ९

 सतत मिति ॥ भवतीं त्वामनानयन्त्या । आनयितुमशक्नुवत्या इत्यर्थः ।

पाठा०-१ 'भविष्यत्सामीप्ये'. मया सततं सदा ते तव । कर्मणि षष्ठी । अनभिभाषणमसंभाषणं परिपणितं भवतीति 'भातेर्डवतुः' (उ०६३) इत्यौणादिको डवतुप्रत्ययः । 'उगितश्च' (४।१।६) इति डीप् । तस्याः संबुद्धिः हे भवति सुभगे, त्वयि तदिति तदसंभा- षणमस्त्विति विरोधनिश्चितायां निश्चितविरोधायां सत्याम् । 'वाहिताग्न्यादिषु' (२।२।३७) इति विकल्पान्निष्ठायाः परनिपातः । असुहृज्जनो विपक्षवर्गः सकामः फलितमनोरथो भवतु भवेत् । प्राप्तकाले लोट् । अस्मद्विरोधकाशिणामयमानन्द- कालः प्राप्त इत्यर्थः ॥ ९॥

 न केवलमावयोर्विरोधः प्राणहानिरपि मम स्यादित्याह-

 गतधृतिरवलम्बितुं बतासूननलमनालपनादहं भवत्याः ।
 प्रणयिनि यदि न प्रसादबुद्धिर्भव मम मानिनि जीविते दयालुः १०

 गतेति ॥ गततिरधीराऽहं भवत्यास्तवानालपनादसंभाषणात् । आलपनं विहायेत्यर्थः । ल्यब्लोपे पञ्चमी । असून् प्राणानवलम्बितुं धारयितुमनलमशक्ता । 'अलं भूषणपर्याप्तिशक्तिवारणवाचकम्' इत्यमरः । बतेति खेदे । अत एव हे मानिनि, प्रणयिनि प्रिये, प्रसादबुद्धिरनुग्रहबुद्धिर्न यदि नास्ति चेत्तथापि मम जीविते दयालुर्भव । 'स्पृहिगृहि-' (३।२।१५८) इत्यादिना आलुच्प्रत्ययः । स धूर्तोऽपि मत्प्राणत्राणार्थमनुग्राह्य इति भावः ॥ १० ॥

 प्रियमिति वनिता नितान्तमागःस्मरणसरोषकषायितायताक्षी ।
 चरणगतसखीवचोऽनुरोधात् किल कथमप्यनुकूलयांचकार॥११॥

 प्रियमिति ॥ इतीत्थं नितान्तमागसोऽन्यासङ्गापराधस्य स्मरणेन सरोषे अत एव कषाये लोहिते कृते कषायिते आयते चाक्षिणी यस्याः सा तथोक्ता । 'निर्यासे च कषायोऽथ सौरभे लोहितेऽन्यवत्' इति विश्वः । वनिता नायिका चरणगतायाः पूर्वोक्तवाक्यान्ते प्रणतायाः सख्या वचसोऽनुरोधादनुल्लङ्घना- त्किल । किलेत्यपरमार्थे । वस्तुतस्वनुरागादेवेति भावः । प्रियं कथमपि कथं चिदनुकूलयांचकाराभिमुखीचकार । अनुजग्राहेत्यर्थः । एषा खण्डिता नायिका । 'ज्ञातेऽन्यासङ्गविकृते खण्डितेाकपायिता' इति दशरूपकलक्षणात् (२।२५)। अत एव कविना आगःस्मरणसरोषकषायिताक्षीत्युक्तम् । एषा चासंभाषणचिन्ता- खेदाश्रुनिःश्वासाद्यनुभाववती ॥ ११ ॥

 अथ काचित्सखी कंचिदने शीघ्रगामिनं युग्मेनाह-

 द्रुतपदमिति मा वयस्य यासीननु सुतनुं परिपालयानुयान्तीम् ।
 नहि न विदितखेदमेतदीयस्तनजघनोद्वहने तवापि चेतः॥१२॥

 द्रुतेति ॥ हे वयस्य सखे, इतीत्थं द्रुतपदं शीघ्रपदक्रम यथा तथा मा यासीः मा गमः । यातेर्लुङि 'न माङयोगे' (६|४|७४) इत्यदप्रतिषेधः । अनुया- न्तीमनुगच्छतीं सुतनुं शुभाङ्गीं प्रियामनुपालय प्रतीक्षस्व । असावपि शीघ्रमायातु तत्राह-नहीति । तव चेतोऽपि एतदीयस्तनजघनोद्वहने विदितखेदमनुभूतखेदं नेति । न । किंतु वेत्येवेत्यर्थः । अतः कथं शीघ्रमायास्यतीति भावः। 'संभाव्यनिषेधनि- वर्तने द्वौ प्रतिषेधौ' इति वामनः ॥ १२॥

 इति वदति सखीजनेऽनुरागाद्दयिततमामपरश्चिरं प्रतीक्ष्य ।
 तदनुगमवशादनायतानि न्यधित मिमान इवावनिं पदानि १३

 इतीति ॥ सखीजने इति वदति सति अपरः कश्चिद्दयिततमामनुरागात् स्नेहा- च्चिरं प्रतीक्ष्य तदनुगमवशात्तस्याः प्रियायाः काः अनुगमः पश्चाद्गमनं तस्य वशादनुसारादवनिं मिमानो मानं कुर्वाण इवेत्युत्प्रेक्षा । माङो लटः कर्तरि शान- जादेशः । 'श्लौ' (६।१।१०) इति द्विर्भावः । अनायतान्यनन्तरालानि पदानि न्यधित निहितवान् । धाञो लुङि तङ् 'स्थाध्वोरिच्च' (१|२।१७) इतीकारः । सिचः कित्त्वान्न गुणः 'हृस्वादङ्गात्' ( ८।२।२७) इति सकारलोपः । एषा च नायिका स्वाधीनपतिका । 'स्वाधीनपतिका सा तु या न मुञ्चति वल्लभम्' इति लक्षणात् । हृष्टा चेयम् ॥ १३ ॥

 अथ काचित् पुरःप्रयातप्रियमेलनाय शीघ्रानुधावनं प्रार्थयमानां सखीमाह-

 यदि मयि लघिमानमागतायां तव धृतिरस्ति गतामि संप्रतीयम् ।
 द्रुततरपदपातमापपात प्रियमिति कोपपदेन कापि सख्या १४

 यदीति ॥ हे सखि, मयि लघिमानमागतायां स्वयं गमनेन लाघवं प्राप्तायां तव तिरस्ति यदि संतोषो भवति चेत् । 'धृतिः संतोषधैर्ययोः' इत्यमरः । इयमेतदवस्थैव संप्रत्यस्मिन्क्षण एवं गतास्मि इति । वदन्तीति शेषः । इतिना गम्यमानार्थत्वादप्रयोगः । अन्यथा पौनरुक्त्यादित्यालंकारिकाः । सख्या सह कोपपदेन कोपव्याजेन । वस्तुतस्तु रागादेवेति भावः । 'व्याजोपदेशो लक्ष्यं च', "निमित्तं व्यञ्जनं पदम्' इति चामरः । काचिन्नायिका द्रुततराः शीघ्रतराः पद- पाताः पादन्यासा यस्मिन्कर्मणि तद्यथा तथा प्रियं वल्लभमापपातानुधावति स्म । एषा च स्वयंप्रवृत्ता स्वलाघवशङ्कितया पूर्वं निर्वासितप्रिया, अथेदानीं स्वयं- प्रवृत्तेः पश्चात्तप्ता चेति गम्यते । अतः कलहान्तरिता । 'कोपात्कान्तं पराणुद्य पश्चात्तापसमन्विता' इति लक्षणात् ॥ १४ ॥

 अविरलपुलकः सह व्रजन्त्याः प्रतिपदमेकतरः स्तनस्तरुण्याः ।
 घटितविघटितः प्रियस्य वक्षस्तटभुवि कन्दुकविभ्रमं बभार १५

 अविरलेति ॥ सह व्रजन्त्याः । पार्श्वमाश्लिष्य गच्छन्त्या इत्यर्थः । तरुण्याः संबन्धी अविरलपुलकः प्रियाङ्गसंगमात् सान्द्ररोमाञ्चः एकतरोऽन्यतरो द्वयोरन्यः । संनिकृष्ट इति भावः । 'एकाच्च प्राचाम्' (५।३।९४) इति द्वयोरेकस्य निर्धारणे डतरच्प्रत्ययः । स्तनः प्रियस्य वक्षस्तटमिव तस्य भूः प्रदेशस्तस्यां वक्षस्तटभुवि प्रति- पदं घटितविघटितः संयुक्तवियुक्तः । पतितोत्पतितः सन्निति यावत् । विशेषणयो- रपि मिथो गुणप्रधानभावविवक्षया 'विशेषणं विशेष्येण बहुलम्' (२।१।५७) इति समासः । कन्दुकविभ्रमं गेन्दुकशोभाम् । 'गेन्दुकः कन्दुकः' इत्यमरः । बभार । अन्यविभ्रमस्यान्यसंबन्धायोगात्सादृश्याक्षेपे निदर्शना । एषा च प्रियपार्श्व-

पाठा०-१ 'अभिभृतपघात". गामिनी । इतःप्रभृति 'मदनरस-' (७।२३) इत्यतः प्राग्वक्ष्यमाणाः षण्नायिकाः स्वाधीनपतिका हृष्टाः प्रगल्भाश्चेत्यनुसंधेयम् ॥ १५ ॥

 अथापरस्या अपरं गतिविशेषं विशेषकेणाह-

 अशिथिलमपरावसज्य कण्ठे दृढपरिरब्धबृहद्बहि:स्तनेन ।
 हृषिततनुरुहा भुजेन भर्तुर्मृदुममृदु व्यतिविद्धमेकबाहुम् ॥१६॥

 अशिथिलमित्यादि ॥ अपरा स्त्री दृढं परिरब्धो गृहीतो बृहद्वहिःस्तनो येन तेन हृषितान्युदञ्चितानि तनुरूहि रोमाणि यस्य तेन । पुलकितेनेत्यर्थः । क्विब- न्तोत्तरपदो बहुव्रीहिः । 'हृषेर्लोमसु' (७।२।२९) इतीडागमः । भुजेन भर्तुर्वा- मबाहुना अमृदु गाढं यथा तथा व्यतिविद्धं व्यतिषञ्जितं मृदुं कोमलमेकबाहुं निजदक्षिणबाहुं भर्तुः कण्ठेऽशिथिलं दृढमवसज्यासज्य जगामेति भाविना संबध्यते ॥ १६ ॥

 मुहुरसुसममाघ्नती नितान्तं प्रणदितकाञ्चि नितम्बमण्डलेन ।
 विषमितपृथुहारयष्टि तिर्यक्कुचमितरं तदुरःस्थले निपीड्य ॥१७॥

 मुहुरिति ॥ पुनः किं कृत्वा । नितम्बमण्डलेन करणेन नितान्तमतिशयेन प्रणदिता प्रकर्षेण नदन्ती काञ्ची यस्मिन्कर्मणि तद्यथा तथा । 'उपसर्गादसमासे- ऽपि णोपदेशस्य' (८४१४) इति णत्वम् । मुहुरसुसमं प्राणेशमाघ्नती ताडयन्ती। हन्तेराङ्पूर्वाल्लटः शत्रादेशे ङीप् । सकर्मकत्वान्न 'आङो यमहनः' (१॥३॥२८) इत्यात्मनेपदम् । विषमिता विषमीकृता पृथुहारयष्टिर्यस्मिन्कर्मणि तद्यथा तथा इतरं पूर्वश्लोकोक्तबहिःस्तनादन्यम् । दक्षिणमित्यर्थः । कुचं तस्य भर्तुरुरःस्थले तिर्यङ् निपीड्य । पूर्ववत्संबन्धः ॥ १७ ॥

 गुरुतरकलनूपुरानुनादं सललितनर्तितवामपादपद्मा ।
 इतरदनतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम ॥१८॥
         (विशेषकम् ।)

 गुरुतरेति ॥ पुनर्गुरुतरः सान्द्रतरः कलो मधुरश्च नूपुरस्यानुनादो ध्वनिर्य- स्मिन्कर्मणि तद्यथा तथा सललितं सलीलं नर्तितं व्यापारितं वामं सव्यं पादपद्मं यया सा इतरद्दक्षिणं पदमनतिलोलं भर्तृचरणस्खलनादनतिचपलं यथा तथा आद- धाना निक्षिपन्ती सती मन्मथेन मन्थरमलसं जगाम । एषा च पार्श्वगामिनी ॥१८॥

 अथान्यासामप्येकैकेन गतिविशेषमाह-

 लघुललितपदं तदंसपीठद्वयनिहितोभयपाणिपल्लवान्या ।
 सकठिनकुचचूचुकप्रणोदं प्रियमवला सविलासमन्वियाय।।१९।।

 लघ्वित्यादि ॥ अन्या अबला स्त्री तस्य प्रियस्यांसौ पीठे इव तयोर्द्वये निहि- तावुभौ पाणिपल्लवी यया सा सती । 'उभादुदात्तो नित्यम्' (५।२।४४) इति पृथक्सूत्रकरणादेव सिद्धे पुनर्नित्यग्रहणसामर्थ्याद्वृत्तिविषये उभशब्दस्थानेऽप्युभय- शब्दप्रयोगः । यथाह कैयटः । तत्र 'उभादुदात्तो नित्यम्' (५।२।४४) इति नित्यग्रहणस्येदं प्रयोजनं वृत्तिविषये उभशब्दस्य प्रयोगो मा भूत् , उभयश- ब्दस्यैव यथा स्यादित्युभयत्रेत्यादि भवतीति । लघुनी द्रुते ललिते च पदे यस्मि- न्कर्मणि तद्यथा तथा कठिनाभ्यां कुचचूचुकाभ्यां स्तनाग्राभ्यां यः प्रणोदो निपीडनं तेन सह यथा तथा । 'चूचुकं तु कुचाग्रं स्यात्' इत्यमरः । तेन सह-' (२।२।२८) इत्यादिना समासे 'वोपसर्जनस्य' (६।३।८२) इति सहशब्दस्य सभावः । णोपदेशत्वात्प्रणोद इति णत्वम् । सविलासं च प्रियमन्वियायानुजगाम । एषा पृष्ठगामिनी ॥ १९॥

 जघनमलघुपीवरोरु कृच्छ्रादुरुनिबिरीसनितम्बभारखेदि ।
 दयिततमशिरोधरावलम्बिस्वभुजलताविभवेन काचिदूहे ॥२०॥

 जघनमिति ॥ काचित्स्त्री अलघू गुरू पीवरौ पीनौ चोरू यस्य तत् उरु- निर्महान् बिरीसो निबिडः । “निबिडं निबिरीसं च दृढं गाढं प्रचक्षते' इति वैजयन्ती । 'नेर्बिडज्बिरीसचौ' (५।२।३२) इति निशब्दाद्विरीसच्प्रत्ययः । स च यो नितम्बः स्त्रीकटिपश्चाद्भागः । 'पश्चान्नितम्बः स्त्रीकट्याः क्लीवे तु जघनं पुरः' इत्यमरः । स एव भारस्तेन खिद्यत इति तथोक्तम् । आभीक्ष्ण्ये णिनिः । जघनं कटिपुरोभागं दयिततमस्य शिरोधरायां ग्रीवायामवलम्बिन्योर्लम्बमानयोः स्वभुज- लतयोर्विभवेन सामर्थ्येन कृच्छ्रादूहे उवाह । वहेः स्वरितेत्त्वात्कर्त्रभिप्राय आत्म- नेपदम् । इयं च पृष्टगामिनी प्रियकण्ठावलम्बा ॥ २० ॥

 अनुवपुरपरेण बाहुमूलप्रहितभुजाकलितस्तनेन निन्ये ।
 निहितदशनवाससा कपोले विषमवितीर्णपदं बलादिवान्या २१

 अनुवपुरिति ॥ अन्या स्त्री वपुषः पश्चादनुवपुः स्त्रीपृष्ठभागः । 'अव्ययं विभक्ति-' (२/१/६) इत्यादिना पश्चादर्थेऽव्ययीभावः । बाहुमूलयोः स्त्रीकक्षयोः प्रहितावधःप्रसारितौ भुजौ ताभ्यामाकलितस्तनेन गृहीतस्तनेन कपोले निहितदश- नवाससा न्यस्ताधरेण किंचिदावृतमुख्याः सत्याः कपोलं चुम्बतेत्यर्थः । अपरेण कामिना विषमं प्रियाङ्गिसंघर्षात् श्लिष्टं वितीर्णपदं न्यस्ताङ्घ्रि यथा तथा बलादिव निन्ये नीता। आरोप्य नीयमानेव गमयांचक्र इत्यर्थः । एषा पुरोगामिनी ॥२१॥

 अनुवनमसितभ्रुवः सखीभिः सह पदवीमपरः पुरोगतायाः।
 उरसि सरसरागपादलेखाप्रतिमतयानुययावसंशयानः ॥२२॥

 अनुवनमिति ॥ अपरः कामी अनुवनं वनं प्रति सखीभिः सह पुरोगतायाः असितभ्रुवः स्वकान्तायाः पदवीमुरसि वक्षसि सरस आर्द्रो रागो लाक्षारञ्जनं यस्य तस्य पादस्य या लेखा विन्यासः सा प्रतिमोपमानं यस्याः सा तत्प्रतिमा तस्य भावस्तत्ता तया । तत्सदृशतयेत्यर्थः । असंशयानोऽसंदिहानः । शीङो लटः कर्तरि शानजादेशः । अनुययौ । अत्र पादरेखाप्रतिमतयेति सादृश्यवस्तुना सुर- तकालीनं पादताडनं वस्तु सरागपदार्थमहिम्ना प्रतीयत इति पदगतः स्वतः- सिद्धार्थशक्तिमूलो वस्तुध्वनिः संलक्ष्यक्रमध्वनेर्भेदः ॥ २२ ॥

 मदनरसमहौघपूर्णनाभीह्रदपरिवाहितरोमराजयस्ताः ।
 सरित इव सविभ्रमप्रयातप्रणदितहंसकभूषणा विरेजुः ॥२३॥

 मदनेति ॥ मदनस्य रसः शृङ्गारः, अन्यत्र रसो जलं तस्य महौघेन महापू रेण पूर्णा नाभ्य एव हृदास्तेषां परिवाहाः कृताः परिवाहिता जलोच्छासीकृता रोमराजयो यासां ताः । 'जलोच्छ्वासाः परीवाहाः' इत्यमरः । सरिज्जलानि हृदा- नापूर्य परित उच्छ्वसन्तीति प्रसिद्धिः । सविभ्रमैः सविलासैः प्रयातैः प्रकृष्ट- गमनैः प्रणदिताः शिञ्जिता ये हंसकाः पादकटकाः । 'हंसकः पादकटकः' इत्य- मरः । अन्यत्र हंसा एव हंसकाः मरालास्त एव भूषणानि यासां ताः स्त्रियः सरित इव विरेजुः । मदनरसपूर्णेत्यनेन नाभीनां तदुद्बोधकत्वं व्यज्यते । 'परि- वाहितरोमराजय' इति रोमराजीनां परिवाहत्वनिरूपणान्नाभ्य एव हृदा इति रूपकाश्रयणम् । ताः सरित एवेति श्लिष्टविशेषणेयमुपमा । श्लेष एवेत्यन्ये ॥२३॥

 श्रुतिपथमधुराणि सारसानामनुनदि शुश्रुविरे रुतानि ताभिः ।
 विदधति जनतामनःशरव्यव्यधपटुमन्मथचापनादशङ्काम् ॥२४॥

 श्रुतिपथेति ॥ अनुनदि नदीनां समीपे । समीपार्थेऽव्ययीभावः । 'अव्ययी- भावश्च' (२।४।१८) इति नपुंसकत्वे ह्रस्वत्वम् । ताभिः स्त्रीभिः जनानां समूहो जनता । 'ग्रामजन-' (४।२।४३) इत्यादिना सामूहिकस्तल्प्रत्ययः । तस्या मनांस्येव शरव्यं लक्ष्यम् । 'लक्ष्यं शरव्यं च' इत्यमरः । तस्य व्यधो वेधः । 'व्यधजपोरनुपसर्गे' (३।३।६१) इत्यप्प्रत्ययः । तत्र पटुः समर्थो यो मन्मथचा- पनादः स इति शङ्का भ्रमं विदधति विदधानानि । 'वा नपुंसकस्य' (७।१।७९) इति वैकल्पिको नुम्प्रतिषेधः । श्रुतिपथमधुराणि । श्राव्याणीत्यर्थः । सारसानां रुतानि शुश्रुविरे श्रुतानि । सारसरुतश्रवणान्मन्मथोद्दीपनमासीदित्यर्थः । अत्र सारसरुते मन्मथचापनादभ्रमाद्रान्तिमदलंकारः । 'कविसंमतसादृश्याद्विधेये पिहि- तात्मनि । आरोप्यमाणानुभवो यत्र स भ्रान्तिमान् मतः ॥' इति लक्षणात् ॥२४॥

 मधुमथनवधूरिवाह्वयन्ति भ्रमरकुलानि जगुर्यदुत्सुकानि ।
 तदभिनयमिवावलिर्वनानामतनुत नूतनपल्लवाङ्गुलीभिः ॥२५॥

 मध्विति ॥ उत्सुकान्युन्मनांसि भ्रमरकुलानि मधुमथनस्य हरेर्वधूराह्वय- न्त्याकारयन्तीवेत्युत्प्रेक्षा । हूतिराकारणाह्वानम्' इत्यमरः । ‘शपश्यनोर्नित्यम्' (७/१/८१) इति ह्वयतेः शतुर्नुमागमः । जगुरिति गायतेर्लिट् । वनानामा- वलिनूतनपल्लवा एवाङ्गुल्य इत्येकदेशवर्तिसावयवरूपकम् । अस्यैव वनावलौ नर्त- कीत्वरूपगमकत्वादिति । ताभिस्तदभिनयं व्यञ्जकचेष्टामतनुतेव । 'व्यञ्जकाभिनयौ समौ' इत्यमरः । 'अङ्गैरालम्बयेद्गीतं हस्तेनार्थं प्रदर्शयेत्' इति वचनात् । गीतार्थ. स्याह्वानस्य व्यञ्जनमङ्गुलिभिरकार्षीदिवेति क्रियास्वरूपोत्प्रेक्षा । पूर्वोक्तरूपकानु- प्राणिता साह्वानोत्प्रेक्षासापेक्षेति सजातीयसंकरोऽपीति ॥ २५ ॥

 असकलकलिकाकुलीकृतालिस्खलनविकीर्णविकासिकेशराणाम् ।
 मरुदवनिरुहां रजो वधूभ्यः समुपहरन् विचकार कोरकाणि ॥२६॥

 असकलेति ॥ मरुद्वनानिलः असकला असमग्राः । अर्धविकचा इत्यर्थः ।

ताभिः कलिकाभिः कोरकैराकुलीकृतानां संक्षोभितानामलीनां स्खलनेन विघट्टनेन विकीर्णा विक्षिप्ता विकासिनः केशराः किंजल्का येषां तेषामवनिरुहाम् । क्विप् । रजः परागं वधूभ्यः समुपहरन् प्रयच्छन् । यथा कश्चित्कामीति भावः । धनमर्जयन्वसतीतिवत् , 'लक्षणहेत्वोः क्रियायाः' (३।२।१२६) इति हेत्वर्थे शतृप्रत्ययः । कोरकाणि कुमलानि । 'कलिका कोरकः पुमान्' इत्यमरकोशेपुंस्त्वाभिधानं प्रायिकाभिप्रायम् । 'कोरकं कुड्मलेऽपि स्यात्कक्कोलकमृणालयोः' इति विश्वप्रकाशादौ नपुंसकत्वस्याभिधानात् । विचकार । विकाशयामासेत्यर्थः । विपूर्वात्किरतेः करोतेर्वा लिट् । अत्र कोरकविकाशकरणस्य समुपहरन्निति हेत्वर्थेन वधूसंप्रदानकपरागोपहरणार्थत्वावगमात्फलोत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या ॥ २६ ॥

 उपवनपवनानुपातदक्षैरलि1भिरलाभि यदङ्गनाजनस्य ।
 परिमलविषयस्तदुन्नतानामनुगमने खलु संपदोऽग्रतःस्थाः २७

 उपवनेति ॥ वने इत्युपवनम् । विभक्त्यर्थेऽव्ययीभावः । तत्र यः पवनः तस्यानुपातेनानुसारेण दक्षैर्विचक्षणैरलिभिर्यद्यतः कारणादङ्गनाजनस्य संबन्धी परिमलो गन्धविशेषः । 'विमर्दोत्थे परिमलो गन्धे जनमनोहरे' इत्यमरः । स एव विषयो भोग्यार्थः । 'रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी' इति । 1अलाभि लब्धः । लभेः कर्मणि लुङ् ‘विभाषा चिण्णमुलोः' (७।१।६९) इति विकल्पा2न्नुमभावः 'अत उपधायाः' (७।२।११६) इति वृद्धिः । तस्मादुन्नतानां महतामनुगमने पश्चाद्धावने, अनुवृत्तौ च संपदोऽग्रतःस्थाः पुरोवर्तिन्यः खलु। 'सुपि स्थः' (३।२।४) इति कप्रत्ययः । अत्रानुगमनयोर्द्वोरभेदाध्यवसायात् श्लेषोत्था- पितातिशयोक्त्यनुप्राणितोऽयमर्थान्तरन्यासः सामान्येन विशेषसमर्थनरूपः ॥२७॥

 रथचरणधराङ्गनाकराब्जव्यतिकरसंपदुपात्तसौमनस्याः ।
 जगति सुमनसस्तदादि नूनं दधति परिस्फुटमर्थतोऽभिधानम् २८

 रथेति ॥ सुमनसः पुष्पाणि रथचरणं चक्रं तस्य धरो धारयिता हरिः । पचाद्यच् । तस्याङ्गनास्तासां कराञ्जैः व्यतिकरः संपर्कः स एव संपत् तयोपात्तं लब्धं सौमनस्यं सुमनस्कत्वं संतुष्टचित्तत्वं याभिस्ताः सत्यः अत एव सौमनस्यलाभ आदिर्यस्मिन्कर्मणि तत्तदादि । ततः प्रभृतीत्यर्थः । अर्थतः पूर्वोक्तावयवार्थात् परिस्फुटं प्रसिद्धावयवार्थमभिधानं सुमनस इति नामधेयं दधति । पूर्वं त्वश्वकर्णका- दिवद्रूढमिति भावः । 'आख्याह्वे अभिधानं च नामधेयं च नाम च' इत्यमरः । स्त्रियः । पुष्पाण्यवचेतुं प्रवृत्ता इति फलितोऽर्थः । नूनमित्युत्प्रेक्षायाम् । अत्रोपा- सौमनस्या इति सौमनस्योपादानस्य पदार्थस्य विशेषणगत्या सुमनःपदान्वर्थता- हेतुकत्वोक्त्या काव्यलिङ्गम् । तदुत्थापिता चेयं तदादित्वोत्प्रेक्षेति संकरः । तेन चाङ्गनाकराणामतिश्लाघ्यत्वं व्यज्यते ॥ २८ ॥

 अभिमुखपतितैर्गुणप्रकर्षादवजितमुद्धतिमुज्ज्वलां दधानैः ।
 तरुकिसलयजालमग्रहस्तैः प्रसभमनीयत भङ्गमङ्गनानाम् ॥२९॥

पाठा०-१०रलम्भि यदङ्गनागणस्य'. २ 'नुम्भावः'.  अभिमुखेति ॥ अभिमुखपतितैः भञ्जनार्थमभिमुखमागतैः उज्ज्वलामुत्कृष्टामु- द्धतिमुपरिप्रसारमौद्धत्यं च दधानैरङ्गनानामग्राणि च ते हस्ताश्चेति समानाधिकर- णसमासः । अत एव 'हस्ताग्राग्रहस्तयोर्गुणगुणिनोरभेदात्' इति वामनः । तैरग्र- हस्तैः कर्तृभिः गुणप्रकर्षाद्धेतोरवजितमवधीरितं तरुकिसलयजालं प्रसभं बलाद्भङ्गं छेदं पराजयं चानीयत नीतम् । 'प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्' इति किसलयजालस्य प्राधान्यादभिधानम् । अत्राग्रहस्तेषु विशेषणमहिम्ना जिगीषुत्वस्य किसलयज़ाले जेतव्यत्वस्य च प्रतीतेः समासोक्तिरलंकारः ॥ २९ ॥

 मुदितमधुभुजो भुजेन शाखाश्चलितविशृङ्खलशङ्खकं धुवत्याः ।
 तरुरतिशयितापराङ्गनायाः शिरसि मुदेव मुमोच पुष्पवर्षम् ३०

 मुदितेति ॥ मुदिता हृष्टा मधुभुजो मधुपा यासु ताः शाखा भुजेन हस्तेन चलितानि विशृङ्खलान्यप्रतिहतरवाणि शङ्खकानि वलयानि यस्मिन् कर्मणि तद्यथा तथा धुवत्याः कम्पयन्त्याः । 'धू विधूनने' इति धातोस्तौदादिकाच्छतरि ङीप् । 'कृिति च' (1/१/५) इति गुणवृद्धिप्रतिषेधादुवङादेशः । अतिशयिता सौन्दर्ये- णातिक्रान्ता अपराङ्गना यया सा तस्याः शिरसि तरुर्मुदेव तदभिसरणसंतोषेणे- वेति गुणहेतूत्प्रेक्षा । पुष्पवर्षं पुष्पवृष्टिं मुमोच ॥ ३० ॥

 अनवरतरसेन रागभाजा करजपरिक्षतिलब्धसंस्तवेन ।
 सपदि तरुणपल्लवेन वध्वा विगतदयं खलु खण्डितेन मम्ले ३१

 अनवरतेति ॥ अनवरतरसेन अनवच्छिन्नद्रवेण, अन्यत्रानुबद्धशृङ्गारेण राग- भाजा रक्तेन, प्रीतिभाजा च करजपरिक्षतिषु नखक्षतेषु लब्धसंस्तवेन प्राप्तपरि- चयेन । 'संस्तवः स्यात्परिचयः' इत्यमरः । वध्वा विगतदयं निर्दयं यथा तथा खण्डितेन छिन्नेन निराकृतेन च तरुणपल्लवेन नवकिसलयेन युवविटेन च । 'पल्लवः किसलये विटे' इति विश्वः । सपदि मम्ले म्लानम् । खलु प्रसिद्धौ । म्लायतेर्भावे लिट् । अत्राभिधायाः प्रकृतार्थे नियन्त्रितत्वादप्रकृतार्थप्रतीतेः शब्दशक्तिमूलो ध्वनिः । न श्लेषः । तेन चोभयोः पल्लवयोरौपम्यं गम्यते ॥ ३१ ॥

 अथासां पुष्पावचये शृङ्गारचेष्टाः वर्णयन् कस्याश्चिच्चेष्टाविशेषमेकेनाह-

 प्रियमभि कुसुमोद्यतस्य बाहोर्नवनखमण्डनचारु मूलमन्या ।
 मुहुरितरकराहितेन पीनस्तनतटरोधि तिरोदधेऽशुकेन ॥३२॥

 प्रिय मिति ॥ अन्या स्त्री प्रियमभि । प्रियस्याग्रत इत्यर्थः । 'अभिरभागे' (१/४/९१) इत्यभेर्लक्षणार्थे कर्मप्रवचनीयत्वात्तद्योगे द्वितीया । कुसुमेषूद्यतः कुसुमोद्यतः । कुसुमग्रहणार्थमुक्षिप्त इत्यर्थः । प्रकृतिविकारभावाभावान्न तादर्थ्ये चतुर्थीसमासः । तस्य बाहोर्नवं यन्नखं नखक्षतं तदेव मण्डनं तेन चारु सुन्दरं मूलम् । कक्षभागमित्यर्थः । मुहुरितरकरेण सव्यपाणिना आहितेन निहितेनां- शुकेनोत्तरीयेण पीनं स्तनतटं रुणद्वीति पीनस्तनतटरोधि तदावरणं यथा तथा तिरोदधे तिरश्वकार । अयं चापलाख्यः संचारिभावः । 'आत्मप्रकाशिची चेष्टा रागादेश्चापलं मतम्' इति लक्षणात् । प्रौढा चेयम् ॥ ३२ ॥  अथापरस्याश्चेष्टाविशेष षड्भिः कुलकेनाह-

 विततवलिविभाव्यपाण्डुलेखाकृतपरभागविलीनरोमराजिः।
 कृशमपि कृशतां पुनर्नयन्ती विपुलतरोन्मुखलोचनावलग्नम् ॥३३॥

 विततेत्यादि ॥ काचिद्वितताभिर्गात्रोन्नमनाद्विश्लिष्टाभिर्वलिभिस्त्रिवलिभि- र्विभाव्याः संलक्ष्याः पाण्डुलेखा रेखाकारा वलित्रयान्तरालभागास्ताभिः कृत- परभागा जनितवोत्कर्षाः अत एव विशेषेण लीना विलीना रोमराजिर्यस्याः सा तथोक्ता । कृशमपि । स्वभावत एवेति भावः । अवलग्नं मध्यम् । 'मध्यमं चाव- लग्नं च मध्योऽस्त्री' इत्यमरः । पुनः कृशतां नयन्ती । अग्रपुष्पग्रहणाय गात्रवि- जृम्भणादिति भावः । तथा विपुलतरे उन्मुखे ऊर्ध्वमुखे च लोचने यस्याः सा । अग्रपुष्पग्रहणार्थमिति भावः ॥ ३३ ॥

 प्रसकलकुचवन्धुरोद्घु रोरःप्रसभविभिन्नतनूत्तरीयबन्धा।
 अवनमदुदरोच्छ्वसद्दुकूलस्फुटतरलक्ष्यगभीरनाभिमूला ॥ ३४ ॥

 प्रसकलेति ॥ प्रसकलाभ्यामतिसमग्राभ्यां कुचाभ्यां बन्धुरमुन्नतानतम् । 'बन्धुरं तून्नतानतम्' इत्यमरः । उडुरं निर्भरम् । दृढमिति यावत् । 'ऋक्पूर्-' (५।४/७४) इत्यादिना समासान्तः । तस्मादुरसः प्रसभाद्वलात्काराद्विभिन्नो विश्लिष्टस्तनूत्तरीयबन्धो यस्याः सा । गात्रविजृम्भणाद्विस्रस्तकुचावरणेत्यर्थः । किंच अवनमतोऽन्तर्लीयमानादुदरादुच्छ्वसद्विश्लिष्यद्दुकूलं यस्य तत् अत एव स्फुटतरं यथा तथा लक्ष्यं गभीरमगाधं नाभेर्मूलमन्तरालं यस्याः सा ॥ ३४ ॥

 व्यवहित1मविजानती किलान्तर्वणभुवि वल्लभमाभिमुख्यभाजम् ।
 अधिविटपि सलीलमग्रपुष्पग्रहणपदेन चिरं विलम्ब्य काचित् ३५

 व्यवहितमिति ॥ काचित्पूर्वोक्तविशेषणविशिष्टाङ्गना अन्तर्वणभुवि वनाभ्य- न्तरप्रदेशे । 'प्रनिरन्तः-' (८।४।५) इत्यादिना वननकारस्य णत्वम् । व्यवहितं तिरोहितमाभिमुख्यभाजम् । अभिमुखावस्थितमित्यर्थः ।तं वल्लभं प्रियमविजा- नती किल जानानाप्यजानानेव अधिविटपि विटपिनि वृक्षे । विभक्त्यर्थेऽव्ययी- भावः । सलीलं यथा तथाग्रे वृक्षाग्रे यानि पुष्पाणि तेषां ग्रहणस्य पदेन मिषेण चिरं विलम्ब्य । प्रियाय स्वाङ्गप्रकाशनार्थमिति भावः ॥ ३५॥

 अर्थ किल कथिते सखीभिरत्र क्षणमपरेव ससंभ्रमा भवन्ती ।
 शिथिलितकुसुमाकुलाग्रपाणिः प्रतिपदसंयमितांशुकावृताङ्गी ॥३६॥

 अथेति ॥ अथ विलम्बानन्तरमत्रास्मिन्प्रिये सखीभिः कथिते सति किलायमत्रैवास्त इति निवेदिते सति क्षणं ससंभ्र मा अपरेव पूर्वविपरीतव्यापारकारणा- दन्येव भवन्ती । बुद्धिपूर्वकारित्वमज्ञाननाटनेन वञ्चयन्तीत्यर्थः । शिथिलितः पुष्प- ग्रहणान्निवर्तितः कुसुमाकुलः कुसुमव्याहतोऽग्रपाणिर्यया सा तथोक्ता प्रतिपदं पाठा०-१०मिव'. प्रतिस्थानं संयमितेन नियमितेनांशुकेन । 'अंशुकं सूक्ष्मवस्त्रे स्यात्' इति विश्वः । वस्त्रेणावृतमङ्गं यस्याः सा तथोक्ता सती ॥ ३६ ॥

 कृतभयपरितोषसंनिपातं सचकितसस्मितवक्रवारिजश्रीः ।
 मनसिजगुरुतत्क्षणोपदिष्टं किमपि रसेन रसान्तरं भजन्ती ॥३७॥

 कृतभयेति ॥ किंच कृतः भयपरितोषयोः भर्तृदर्शनोत्थसाध्वसहर्षयोः संनि- पातः संकरो येन तत् । मनसि जातो मनसिजः स्मरः । 'सप्तम्यां जनेर्ड:' (३।२।९७) । 'हलदन्तात्सप्तम्याः संज्ञायाम्' (६।३।९) इत्यलुक् । स एव गुरुराचार्य स्तेन तत्क्षणे उपदिष्टम् । तदेकहेतुकमित्यर्थः । किमप्यनिर्वाच्यं रसान्तरं लक्षणया भावान्तरं तच्चेह किलकिंचिताख्यं विवक्षितम् । कृतभयेत्यादिविशेषणेन क्रोधाश्रुहर्षभीत्यादेः संकरः । किलकिंचितमिति लक्षणार्थस्य प्रतीतेः । रसेन रागेण हेतुना भजन्ती अत एव सचकिता सभयसंभ्रमा । 'चकितं भयसंभ्रमः' इत्यमरः । सस्मिता हर्षात् समन्दहासा वक्रवारिजश्रीर्यस्याः सा सती । अत्र चकितस्मितयोः पूर्वोक्तभयहर्षानुभावत्वेनोक्तिः ॥ ३७ ॥

 अवनतवदनेन्दुरिच्छतीव व्यवधिमधीरतया यदस्थितास्मै ।
 अहरत सुतरामतोऽस्य चेतः स्फुटमभिभूषयति स्त्रियस्त्रपैव ॥३८॥
         (षड्भिः कुलकम् ।)

 अवनतेति ॥ अवनतवदनेन्दुः । लजया नम्रमुखीत्यर्थः । अधीरतया अधृष्ट- तया व्यवधिं किंचिव्ध्यवधानम् । 'उपसर्गे घोः किः' (३।३।९२) इति किप्र- त्ययः । इच्छती वाञ्छन्तीव । तथा व्याकुला सतीत्यर्थः । 'आच्छीनद्योर्नुम्' (७।१।८०) इति विकल्पान्नुमभावः । अस्मै प्रियाय अस्थित । आत्मानं प्रकाश- यन्ती स्थितेत्यर्थः । तिष्ठतेः कर्तरि लुङ् । 'प्रकाशनस्थेयाख्ययोश्च' (1/३।२३) इत्यात्मनेपदं 'स्थाध्वोरिच' (१।२।१७) इति सिचः कित्त्वमिकारश्च धातोरन्ता- देशः कित्त्वान्न गुणः । इति यदतो हेतोरस्य प्रियस्य चेतः सुतरामहरत । तथा हि-त्रपैव स्त्रियोऽभिभूषयति स्फुटम् । प्रसिद्धमित्यर्थः । अतोऽस्या अपि त्रपाभूषितत्वादतिमनोहरत्वं युक्तमिति भावः । कुलकार्थान्तरन्यासौ । मध्या चेयं नायिका । 'लज्जामन्मथमध्यस्था मध्यमोदितयौवना' इति लक्षणात् ॥ ३८॥

 किसलयशकलेष्ववाचनीयाः पुलकिनि केवलमङ्गके निधेयाः ।
 नखपदलिपयोऽपि दीपितार्थाः प्रणिदधिरे दयितैरनङ्गलेखाः॥३९॥

 किसलयेति ॥ किसलयशकलेषु । वर्तमाना इति शेषः । अवाचनीयाः प्रसिद्धलिपिवैलक्षण्याद्वाचयितुमनर्हाः किंतु केवलं पुलकिनि दयितस्पृष्टत्वात्तत्स्प- र्शादेव रोमाञ्चवत्यङ्गके वपुषि निधेया विरहतापशान्त्यर्थमर्पणीयाः । कुतः । नख- पदानि नखाङ्का एव लिपयोऽक्षराणि येषु ते न तु प्रसिद्धाक्षराः । अतोऽवाचनीया इत्यर्थः । नैतावतानुतापकारित्वं चेत्याह-तथापि दीपितार्थाः संकेतितसंनि- वेशवशादेव घोतिताभिधेया लिख्यन्त इति लेखाः । कर्मणि घञ्प्रत्ययः । अनङ्गस्य लेखाः । तत्प्रयुक्ता इत्यर्थः । दयितैः दयिताभिः दयितैश्च । 'पुमान्स्त्रिया' (१/२।६७) इत्येकशेषः । प्रणिदधिरे प्रणिहिताः । लिखिता इत्यर्थः । दधाते: कर्मणि लिट् । 'नेर्गदनद- (८/४/१७) इत्यादिना नकारस्य णत्वम् । लोकप्रसि- द्धलेख्यवैलक्षण्याव्द्यतिरेकालंकारः ॥ ३९ ॥

 कृतकृतकरुषा सखीमपास्य त्वमकुशलेति कयाचिदात्मनैव ।
 अभिमतमभि साभिलाषमाविष्कृतभुजमूलमबन्धि मूर्ध्नि माला ४०

 कृतेति ॥ कृतकृतकरुषा कृतकृत्रिमरोषया कयाचिन्नायिकया त्वमकुशला माल्य- ग्रथने कुशला नासीति सखीमपास्य निरस्यात्मना स्वयमेवाभिमतमभिप्रायाभि- मुखं साभिलाषमाविष्कृतभुजमूलं प्रकाशितकक्षप्रदेशं यथा तथा मूर्ध्नि माला अबन्धि बद्धा । अयं च स्वाभिप्रायव्यञ्जकचेष्टारूपश्चापलाख्यः संचारिविशेषः । नायिका प्रौढैव । 'स्मरमन्दीकृतव्रीडा प्रौढा संपूर्णयौवना' इति लक्षणात् ॥ ४० ॥

 अथ कांचिन्नायिकां प्रति सखीवचनं विशेषकेणाह-

 अभिमुखमुपयाति मा स्म किंचित्त्वमभिदधाः पटले मधुव्रतानाम् ।
 मधुसुरभिमुखाजगन्धलब्धेरधिकमधित्वदनेन मा निपाति ॥४॥

 अभिमुखमिति ॥ मधु मकरन्दं व्रतयन्ति भुञ्जत इति मधुव्रता मधुपाः । कर्मण्यण्प्रत्ययः । तेषां पटले अभिमुखमुपयाति आगते सति त्वं किंचिन्मा स्माभि- दधा न किंचिदालप । मौनं भजेत्यर्थः । 'स्मोत्तरे लङ् च' (३।३।१७६) 'न माङयोगे' (६।४।७४) इत्यट्प्रतिषेधः । मौनस्य मधुकरबाधानिवृत्तिरेव फलमि- त्याह-मध्विति । मधुना मद्येन सुरभेर्मुखाङास्य यो गन्धस्तस्य लब्धेर्लाभात् । 'स्त्रियां क्तिन्' (३।३।९४) अनेन मधुव्रतपटलेन अधित्वत् त्वयि । विभक्त्यर्थेऽ- व्ययीभावः । त्वमावेकवचने' (७।२।९७) इत्यत्रैकवचन इत्यर्थनिर्देशादिह विभक्त्यभावेऽप्येकार्थवृत्तेर्युष्मदो मपर्यन्तस्य त्वादेशः । अत एव विभक्त्यभावाच्च त्वादेशोऽत्र चिन्त्य इति वल्लभवचनं *चिन्त्यम् । अधिकमत्यन्तं सर्वत्रेत्यर्थः । मा निपाति मा निपत्यताम् । भावे लुङि चिण्वद्वृद्धिः । अत्र निपातासंबन्धेऽपि तत्सं- बन्धोक्तेरतिशयोक्तिरलंकारः ॥४१॥

 सरजसमकरन्दनिर्भरासु प्रसवविभूतिषु भूरूहां विरक्तः ।
 ध्रुवममृतपनामवाञ्छयासावधरममुं मधुपस्तवाजिहीते ॥ ४२ ॥

 सरजसेति ॥ किंच मधु पिबतीति मधुपो मधुलिट्, मद्यपश्च । 'आतोऽनुपसर्गे कः' (३।२।३) भुवि रोहन्ति जायन्त इति भूरुहां भूरुहाणां भौमानां च देहिनां संबन्धिनीषु सह रजसा सरजसम् । अव्ययम्' (२॥१॥६) इत्यादिना साकल्यार्थे. ऽव्ययीभावः । 'अचतुर-' (५।४।७७) इति समासान्तनिपातः। तेन सरजस्क इति [* अर्थनिर्देशस्यातित्वानित्याद्यर्थमङ्गीकारेऽपि 'प्रत्ययोत्तरपदयोश्च' (७।२।९८) इत्यत्रो- त्तरपदग्रहणसामर्थ्याद्विभक्तिपरकत्वस्यापि निमित्तत्वेनात्राव्ययीभावत्वेनाव्ययत्वाद्विभक्ते का लुप्तत्वेन 'न लुमता-' (१।१।६३) इत्यनेन प्रत्ययेन प्रत्ययलक्षणप्रतिषेधाद्विभक्तिपरत्वा- भावेनादेशश्चिन्त्य एवातो वल्लभोक्ती रम्यैव। कविना तु विभक्तिप्रतिरूपकत्वच्छब्देन युष्मत्समानार्थकेन समासोऽङ्गीकृत इति प्रतिभाति । ] पाठा०-१ -'अचतुर- (५।४।७७ ) इत्यादिना साकल्यार्थेऽव्ययीभावः समासान्तनिपातः". बहुव्रीह्यर्थो लक्ष्यः मुख्यो वा । महाकविप्रयोगबाहुल्यात् । अव्ययीभावदर्शनं तु प्रायिकमित्युक्तं प्राक् । तथा च सरजसं सरजसो वा यो मकरन्दुस्तेन निर्भरासु पूर्णासु । न तु त्वदधरामृतेन नाप्यरजस्केनेति भावः । अन्यत्र रजः स्त्रीपुष्पम् , 'स्याद्रजः पुष्पमार्तवम्' इत्यमरः । तत्साहचर्यान्मकरन्दशब्देन शुक्रप्रतीतिः । तेन शुक्रशोणितसंनिपातप्रायास्वित्यर्थः । प्रसवविभूतिषु पुष्पसमृद्धिषु जन्मपरम्परासु च विरक्तः निस्पृहः सन अमृतं पिबतीति अमृतप इति नाम्नो वाञ्छया असावमुं तवाधरमोष्टं प्रति आजिहीते आगच्छति । ध्रुवं सत्यमित्युत्प्रेक्षायाम् । अन्यत्र तु अमृतपो देव इति नामवाञ्छया । देवभूयापेक्षयेत्यर्थः । अथवा । निःश्रेयसप्रा- प्तीच्छयेत्यर्थः । श्रेयो निःश्रेयसामृतम्' इत्यमरः । ध्रुवं शाश्वतं अधरं धरासंब- न्धरहितममुं परलोकपथम् । शुभमिह चामुत्र चान्वेतीत्यादौ लोके वेदे चेदमद- सोर्लोकद्वये रूढिप्रदर्शनात् । आजिहीते अन्विष्यतीत्यर्थः । 'ओहाङ् गतौ' इति धातोर्लटि 'श्लौ' (६।१।१०) इति द्विर्भावः । “ई हल्यघोः' (६।४।११३) इतीकारः । इह नायिकावदनसौरभहेतुकस्य मधुपानामागमनस्यामृतपानमवाञ्छा. हेतुकत्वोत्प्रेक्षणाद्गुणहेतूप्रेक्षा । सा च ध्रुवमिति व्यञ्जकाप्रयोगाद्वाच्या सती मधुप- स्याधारोद्देशस्यासंबन्धेऽपि संबन्धाभिधानादतिशयोक्त्युत्थापितेति संकरः। पूर्वो- क्ताप्रकृतार्थप्रतीतिस्तु मधुपादिशब्दानामभिधया प्रकृतार्थनियन्त्रितत्वाच्छब्दशक्ति- मूलो ध्वनिरेव न श्लेष इत्यलं विस्तरेणेति ॥ ४२ ॥

 इति वदति सखीजने निमीलद्विगुणितसान्द्रतराक्षिपक्ष्ममाला ।
 अपतदलिभयेन भर्तुरङ्कं भवति हि विक्लवता गुणोऽङ्गनानाम् ४३
         (विशेषकम् ।)

 इतीति ॥ इतीत्थं सख्येव जनस्तस्मिन् सखीजने वदति सति निमीलन्त्यौ भया- न्मुकुलीभवन्त्यौ अत एव द्वे आवृत्ती ययोस्ते द्विगुणे द्विरावृत्ते । 'गुणास्त्वावृत्ति- शब्दादिज्येन्द्रियामुख्यतन्तुषु' इति वैजयन्ती । ते कृते द्विगुणिते अत एव सान्द्रतरे अक्षिपक्ष्ममाले नेत्रलोमपङ्क्ती यस्याः सा । काचिदिति शेषः । अक्षिग्रहणस्य पक्ष्मद्वयद्वैगुण्यलक्ष्मीरक्ष्णोरेवेति द्योतनार्थत्वान्न पौनरुक्त्यम् । अलिभयेन भर्तु- रङ्कमुत्सङ्गमपतत् प्राप्तवती । अहो महत्कष्टं यत्कीटकादपि भयमित्याशङ्क्याह-अङ्ग- नानाम् । न तु पुंसामिति भावः । विक्लवता भीरुता गुणो भवति हि । न तु दोष इति भावः । अत एव जनसमक्षं भर्तुरङ्कारोहणमपि न दोषः । पार्श्वस्थाल- म्बनादीनां भयानुभावत्वात् । कुलकेऽलंकारोऽयमर्थान्तरन्यासः ॥ ४३ ॥

 मुखकमलकमुन्नमय्य यूना यदभिनवोढवधूर्बलादचुम्बि ।
 तदपि न किल बालपल्लवाग्रग्रहपरया विविदे विदग्धसख्या ४४

 मुखेति ॥ यूना अभिनवोढवधूर्नवोढाङ्गनापि बलाद्बलात्कारात् । मुखं कमल- मिवेत्युपमितसमासः। तदल्पं मुखकमलकम् । अल्पार्थे कन्प्रत्ययः । उन्नमय्योद्यम्य । 'ल्यपि लघुपूर्वात्' (६।४।५६) इत्ययादेशः । अचुम्बि चुम्बितेति यत् तच्चुम्बन विदग्धसख्या चतुरसख्या बालपल्लवाग्राणां ग्रहो ग्रहणम् । 'ग्रहवृदृनिश्चिगमश्च' (३।३।५८) इत्यप्प्रत्ययः । तत्परया तदासक्तया सत्या । कंचिव्द्यासङ्गं कल्पयन्त्ये. त्यर्थः । न विविदे अपि किल । न प्रकाशितमिति किमुत वक्तव्यमित्यपिशब्दार्थः । किलेत्यलीके । वस्तुतो विदित्वाप्यविदित्वेव स्थितं वैदग्ध्यात् । अन्यथा तयोर्वि- श्रम्भविहारविघातादिति भावः । मुग्धेयं नायिका । 'उदयद्यौवना मुग्धा लज्जापि- हित1मन्मथा' इति लक्षणात् ॥ ४४ ॥

 व्रततिविततिभिस्तिरोहितायां प्रतियुवतौ वदनं प्रियः प्रियायाः ।
 यदधयदधरावलोपनृत्यत्करवलयस्खनितेन तद्विवव्रे ॥ ४५ ॥

 व्रततीति ॥ प्रतिकूला युवतिः प्रतियुवतिः सपत्नी तस्यां व्रततिविततयो, लताजालानि । 'वल्ली तु व्रततिर्लता' इत्यमरः । ताभिस्तिरोहितायां सत्यां प्रियः प्रियाया वदनमधयदपिबदिति यत् । धेटो भौवादिकाल्लङ् । तद्दनपानमधराव- लोपेनाधरखण्डनेन । तज्जनितव्यथयेत्यर्थः । नृत्यतोश्चलतोः करयोर्वलयानां कङ्क- णानां स्वनितेन ध्वनिना विवव्रे विवृतम् । तदेव तस्यास्तदनुमापकमभूदित्यर्थः । अत्रैका हृष्टा अपरा त्वीया॑निर्वेदवतीत्यनुसंधेयम् ॥ ४५ ॥

 विलसितमनुकुर्वती पुरस्ताद्धरणिरुहाधिरुहो वधूर्लतायाः ।
 रमणमृजुतया पुरः सखीनामकलितचापलदोषमालिलिङ्ग॥४६॥

 विलसितमिति ॥ वधूः काचित् स्त्री पुरस्तादग्रे धरणिरुहमधिरोहतीति धर- णिरुहाधिरुट् वृक्षाधिरूढा । रुहेः क्लिप् । तस्या लताया विलसितं चेष्टितम् । भावे क्तः । अनुकुर्वती एवमित्याश्लेषप्रकारमभिनयन्ती ऋजुतया अकुटिलबुद्धितया सखीनां पुरोऽग्रे अकलितोऽविचारितश्चापलमनुचितकरणमेव दोषो यस्मिन्कर्मणि तद्यथा तथा रमणं प्रियमालिलिङ्ग । एषा हर्षौत्सुक्यवती प्रौढा च ॥ ४६ ॥

 सललितमवलम्ब्य पाणिनांसे सहचरमुच्छ्रितगुच्छवाञ्छयान्या ।
 सकलकलभकुम्भविभ्रमाभ्यामुरसि रसादवतस्तरे स्तनाभ्याम् ४७

 सललितमिति ॥ अन्या स्त्री उच्छ्रितगुच्छवाञ्छया उन्नतस्तबकजिघृक्षया सललितं सविलासं यथा तथा सहचरं प्रियं पाणिना । औचित्याद्वामेनेति शेषः । अंसेऽवलम्ब्यावष्टभ्य सकलयोः समग्रयोः कलभकुम्भयोः करिकुम्भयोर्विभ्रम इव विभ्रमः सौन्दर्य ययोस्ताभ्यां स्तनाभ्यां रसाद्रागादुरस्यवतस्तरे आच्छादयामास । सहचरमित्यनुषङ्गः । अभिमुखावस्थानादिति भावः । स्तृणातेः कर्तरि लिट् । 'ऋतश्च संयोगादेर्गुणः' (७।४।१०) 'शर्पूर्वाः स्वयः' (७/४।६१) इत्यभ्यास: सकारलोपश्च । इयं च प्रौढैव ॥ ४७ ॥

 मृदुचरणतलाग्रदुःस्थितत्वादसहतरा कुचकुम्भयोर्भरस्य ।
 उपरि निरवलम्बनं प्रियस्य न्यपतदथोचतरोचिचीषयान्या ॥४८॥

 मृद्विति ॥ अन्या स्त्री उच्चतराणामत्युन्नतकुसुमानामुच्चेतुमवचेतुमिच्छया उच्चतरोच्चिचीषया । चिनोतेः सन्नन्तात्स्त्रियामप्रत्यये टाप् । 'विभाषा चेः' (७॥ ३।५८) इति कुत्वविकल्पः । मृदुचरणतलाग्रेण दुःस्थितत्वादुःखेन स्थितत्वात् कुचकुम्भयोर्भरस्य 'पुंसि संज्ञायां घः प्रायेण' (३।३।११८) इति घप्रत्ययः ।

पाठा०-१ 'विदित.' न सहतेऽत्यन्तमित्यसहतरा । सहेः पचाद्यजन्तान्नन्समासात्तरप्प्रत्ययः । भरमस- हमानेत्यर्थः । कृद्योगात्कर्मणि षष्ठी । अथास्मिन्नवसरे निरवलम्बनं यथा तथा प्रियस्योपरि न्यपतत् । निरवलम्बनत्वान्निपपातेत्यर्थः । एषा च प्रौढा । स्वभावो- क्तिरलंकारः॥४८॥

 उपरिजतरुजानि याजमानां कुशलतया परिरम्भलोलुपोऽन्यः ।
 प्रथितपृथुपयोधरां गृहाण स्वयमिति मुग्धवधूमुदास दोर्भ्याम् ४९

 उपरिजेति ॥ उपरिजान्युपरि जातानि तरोर्जातानि तरुजानि कुसुमानि तानि याचमानां अपचित्य देहीति प्रार्थयमानां प्रथितपृथुपयोधरां प्रशस्तपीवरकुचां मुग्धवधूमकुटिलधियं स्त्रियं परिरम्भलोलुप आश्लेपलालसोऽन्यः कुशलतया वञ्च- नापटुतया स्वयं गृहाण । त्वमेवापचिनुष्वेत्यर्थः । इति गम्यमानार्थत्वादुक्त्वेति न प्रयुक्तं पौनरुक्त्यात् । दोर्भ्यामुदास उद्यच्छति स्म । अयं चैकायत्तत्वादनुकूलना- यकः । नायिका तु स्वाधीनपतिका प्रौढा च ॥ ४९॥

 इदमिदमिति भूरुहां प्रसूनैर्मुहुरतिलोभयता पुरःपुरोऽन्या ।
 अनुरहसमनायि नायकेन त्वरयति रन्तुमहो जनं मनोभूः ॥५०॥

 इदमिदमिति ॥ अन्या स्त्री इदमिदमिति । इदं ग्राह्यमिदं ग्राह्यमित्युक्त्वे- त्यर्थः । भूरुहां वृक्षाणां प्रसूनैः पुष्पैः पुरःपुरो मुहुरतिलोभयता प्रलोभयता नायकेन रहोऽनु अनुरहसमेकान्तम् । 'अन्ववतप्तात्-' (५।४।८१) इत्यव्ययी- भावः समासान्तः । अनायि नीता । तथा हि-मनोभूः कामो जनं रन्तुं त्वर- यति । देशकालानपेक्षयेति भावः । अत एवाश्चर्यमहो इति । पूर्ववन्नायिका- नायकविवेकः । अर्थान्तरन्यासः ॥ ५० ॥

 विजनमिति बलादमुं गृहीत्वा क्षणमथ वीक्ष्य विपक्षमन्तिकेऽन्या।
 अभिपतितुमना लघुत्वभीतेरभवदमुञ्चति वल्लभेऽतिगुर्वी ॥५१॥

 विजनमिति ॥ अन्या स्त्री विजनमेकान्तमिति हेतोरमुं वल्लभं क्षणं बलाद्गृहीत्वा आकृष्य अथान्तिके विपक्षं सपत्नीजनं वीक्ष्य लघुत्वभीतेस्तुच्छत्वभयादभिपतितुं मनो यस्याः सा अभिपतितुमनाः । 'तुं काममनसोरपि' इति मकारलोपः । अप- सर्तुकामेत्यर्थः । वल्लभे अमुञ्चत्यत्यजति सति । तस्य विपक्षानवेक्षणादिति भावः । अतिगुर्व्यतिगौरववत्यभवत् । स्वयंग्रहलाघवतिरोधानाद्भर्तृवल्लभत्वप्रकाशनाच्चेति भावः । भाग्यवतां सर्वं श्रेयसे भवतीति रहस्यम् । एषा त्वतिप्रगल्भैव ॥ ५१ ॥

 अधिरजनि जगाम धाम तस्याः प्रियतमयेति रुषा स्रजावनद्धः ।
 पदमपि चलितुं युवा न सेहे किमिव न शक्तिहरं ससाध्वसानाम् ५२

 अधीति ॥ अधिरजनि रजन्याम् । विभक्त्यर्थेऽव्ययीभावः । तस्याः । सपत्नया इत्यर्थः । बुद्धिस्थत्वान्नामग्रहणासहत्वाच्च तच्छब्देन निर्देशः । धाम गृहं जगामेति रुषा हेतुना प्रियतमया कर्त्र्या स्रजा कारणेनावनद्धो युवा पदमपि । अत्यन्तसंयोगे द्वितीया । चलितुं न सेहे न शशाक । तथा हि-ससाध्वसानां भयग्रस्तानां किमिव किं वा । इवशब्दो वाक्यालंकारे। इवेतीषदर्थोपमोत्प्रेक्षावाक्यालंकारेष्विति गणव्याख्याने । शक्तिं हरतीति शक्तिहरम्। 'हरतेरनुद्यमनेऽच्' (३।२।९) इत्यच्प्रत्ययः । न भवतीति शेषः । अस्तिर्भवन्तीपरोऽप्रयुज्यमानोऽप्यस्तीति वचनात् । भवन्तीति लटः पूर्वाचार्याणां संज्ञा । सर्वस्यापि भीरूणां शक्तिहरत्वादबलाकृतः स्रग्बन्धोऽपि यूनः शक्तिहर इति युक्तमिति सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः । खण्डितेयं नायिका । 'ज्ञातेऽन्यासङ्गविकृते खण्डितेर्ष्याकषायिता' (दशरूपके २।२५) इति लक्षणात् । नायकस्तु दक्षिणः । 'भयसंबन्धसहनादिभिस्तुल्यो नैकत्र दक्षिणः' इति लक्षणार्थप्रतीतेरिति ॥ ५२ ॥

 अथ काचित्खण्डिता निजकान्तमागस्कारिणं पल्लवदानेन प्रसादयन्तं चतुर्भिर्भर्त्सयितुमारभते--

 न खलु वयममुष्य दानयोग्याः पिबति च पाति च यासकौ रहस्त्वां ।
 व्रज विटपममुं ददस्व तस्यै भवतु यतः सदृशोश्चिराय योगः ॥ ५३ ॥

 नेत्यादि ॥ वयममुष्य दानयोग्या न भवामः खलु, किंतु या असावेवासकौ त्वत्प्रिया । 'अव्ययसर्वनाम्नामकच्प्राक्टेः' (५।३।७१) इत्यकच् । रहो रहसि । 'रहश्चोपांशु चालिङ्गे' इत्यमरः । त्वां पिबति पानं करोति । 'पा पाने' भौवादिकात्कर्तरि लट् । 'पाघ्रा-' (३।१।१३७) इत्यादिना पिबादेशः । पाति रक्षति च । अन्यतो वारयति चेत्यर्थः । 'पा रक्षणे' अदादित्वाच्छपो लुक् । तस्यै अमुं विटान् पातीति विटपं पल्लवम् । 'विटपः पल्लवे षिङ्गे' इति विश्वः । ददस्व प्रयच्छ । 'दद दाने' इति भौवादिकाल्लोट् । व्रज गच्छ । यतो दानाच्चिराय चिरकालात् । चिरार्थेऽव्ययम् । सदृशोरनुरूपयोर्योगो भवतु । उभयोरपि विटपत्वादिति भावः । समालंकारोऽयम् । 'सा समालंकृतिर्योगो वस्तुनोरनुरूपयोः' इति लक्षणात् ॥ ५३ ॥

 तव कितव किमाहितैर्वृथा नः क्षितिरुहपल्लवपुष्पकर्णपूरैः ।
 ननु जनविदितैर्भवद्व्यलीकैश्चिरपरिपूरितमेव कर्णयुग्मम् ॥ ५४ ॥

 तवेति ॥ हे कितव धूर्त, वृथा व्यर्थमेवाहितैः । तत्कार्यस्यान्यथासिद्धत्वादिति भावः । तव संबन्धिभिः क्षितिरुहाणां पल्लवाः पुष्पाणि च तान्येव कर्णं पूरयन्तीति कर्णपूराः कर्णावतंसाः । कर्मण्यण् । तैर्नोऽस्माकं किं तत्साध्यम् । न किंचिदस्तीत्यर्थः । गम्यमानसाधनक्रियापेक्षया कर्णपूराणां करणत्वात्तृतीया । उक्तं च न्यासोद्द्योते-'न केवलं श्रूयमाणैव क्रिया निमित्तं कारकभावस्य, अपि तु गम्यमानापि' इति । किंतु नन्वङ्ग जनविदितैर्जनेष्वतिप्रसिद्धैः । जनेषु विदितैरिति सप्तमीसमासः । 'क्तस्य च वर्तमाने' (२।३।६७) इति कृद्योगे षष्ठीप्रतिप्रसवत्वेऽपि 'क्तेन च पूजायाम्' (२।२।१२) इति षष्ठीसमासनिषेधात् जनानामाधारत्वविवक्षायां तदप्राप्तेः । भवद्व्यलीकैस्तवाप्रियवचनैः कर्णयुग्मं चिरपरिपूरितं नित्यं पूर्णमेव । अतः परिपूरितस्य पूरणायोगादलमेवैभिरित्यर्थः । अत्रोत्तरवाक्यार्थस्य पूर्ववाक्यार्थहेतुत्वेनोपनिबन्धाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः ॥ ५४ ॥

 मुहुरुपहसितामिवालिनादैर्वितरसि नः कलिकां किमर्थमेनाम् ।
 वसतिमुपगतेन धाम्नि तस्याः शठ कलिरेष महांस्त्वयाद्य दत्तः ५५

 मुहुरिति ॥ अलिनादैर्मुहुरुपहसितां प्रतारणार्थेति प्रहस्यमानामिव स्थितामेनां कलिकां कोरकं अल्पं कलिं, कलहं च । 'कलहे च युगे कलिः' इति वैजयन्ती। स्त्रीप्रत्ययस्त्वविवक्षितः श्लेषे । नोऽस्माकं किमर्थं वितरसि । हे शठ गूढविप्रियकारिन् , तस्यास्त्वत्प्रियाया धाम्नि भवने वसतिं स्थितिमुपगतेन त्वयाद्यैष

वर्तमानो महान् कलिः कलहो दत्तः स्वदत्त एव । महति कलौ स्थिते किं कल्यन्तरेणेत्यर्थः । अत्रापि पूर्ववाक्यार्थस्योत्तरवाक्यार्थहेतुत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गम् । कलिकामिति श्लेषोत्थापितया कोरककलहयोर्भेदे अभेदरूपातिशयोक्त्यानुप्राणितमिति संकरः ॥ ५५ ॥

 इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेशरेण ।
 श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षुषा च ॥५६॥
         (कलापकम् ।)

 इतीति ॥ इतीत्थं गदितवत्युक्तवती अन्या स्त्री रुषा कान्तं स्फुरितान्युज्ज्वलानि मनोरमाणि च पक्ष्माणीव केशराणि, अन्यत्र केशराणीव पक्ष्माणि यस्य तेन श्रवणनियमितेन श्रोत्रे धृतेन, निरुद्धेन च असिताम्बुरुहेण नीलोत्पलेन, चक्षुषा च समं युगपज्जघान ताडयामास । एषा खण्डिता । नायकस्तु धृष्टः । 'व्यक्ताङ्गो निर्भयो धृष्टः' इति लक्षणात् । अत्र स्फुरितेत्यादितुल्यधर्मगम्योपमानयोरसिताम्बुरुहचक्षुषोरुभयोरपि ताडनसाधनतयोपात्तत्वेन प्रकृतत्वात्केवलप्रकृतास्पदा तुल्ययोगिता । लक्षणं तूक्तम् ॥ ५६ ॥

 विनयति सुदृशो दृशः परागं प्रणयिनि कौसुममाननानिलेन ।
 तदहितयुवतेरभीक्ष्णमक्ष्णोर्द्वयमपि रोपरजोभिरापुपूरे ॥ ५७॥

 विनयतीति ॥ प्रणयिनि प्रिये सुदृशः प्रियाया दृशो लोचनात् । एकस्मादेवेति भावः । कुसुमेषु भवं कौसुमं परागं रजःकणम् । तच्चैकमेवेति भावः । आननानिलेन निजमुखफूत्कारेण विनयत्यपनयति सति तदहितयुवतेः तत्सपत्न्याः अक्ष्णोर्द्वयमपि । न त्वेकमेवेति भावः । रोषा एव रजांसि तैरभीक्ष्णमापुपूरे । नैकेन रजःकणेन किंचित्स्पृष्टमात्रमिति भावः । पूरयतेः कर्मणि लिट् । पूर्णमित्यर्थः । अत्र रजोविनयस्यान्यत्र रजःपूरणकारणत्वायोगादकारणत्वमेव पूरणमिति विभावनालंकारो रूपकानुप्राणित इति संकरः ॥ ५७ ॥

 स्फुटमिदमभिचारमन्त्र एव प्रतियुवतेरभिधानमङ्गनानाम् ।
 वरतनुरमुनोपहूय पत्या मृदुकुसुमेन यदाहताप्यमूर्च्छत् ॥ ५८ ॥

 स्फुटमिति ॥ इदं प्रतियुवतेः सपत्न्या अभिधानं नामधेयं अङ्गनानामभिचारः परमारणकर्म । यथा 'श्येनेनाभिचरन् यजेत' इति तस्य मन्त्रोऽभिचारमन्त्रः स एव स्फुटमित्युत्प्रेक्षा । यद्यस्माद्वरतनुः स्त्री पत्या भर्त्रा अमुना सपत्नीनामधेयेनोपहूय मृदुकुसुमेन । मृदुग्रहणमचिरावचितत्वं द्योतयन् देवताभिचारमन्त्राणामनादिसंस्कारभावं द्योतयति । तेनाप्याहता अमूर्च्छत् । यदुच्चारणपूर्वकं कुसुमताडनमपि मारकं सोऽभिचारमन्त्र एव सत्यम् । अन्यथा केवलकुसुमेऽपि तत्प्रसङ्गादित्यर्थः ॥ ५८॥

 समदनमवतंसितेऽधिकर्णं प्रणयवता कुसुमे सुमध्यमायाः ।
 व्रजदपि लघुतां बभूव भारः सपदि हिरण्मयमण्डनं सपत्न्याः ५९

 समदनमिति ॥ प्रणयवता प्रियेण सुमध्यमायाः प्रियाया अधिकर्णं कर्णे । विभक्त्यर्थेऽव्ययीभावः । कुसुमे समदनं यथा तथा अवतंसितेऽवतंसीकृते सति सपदि लघुतां हीनतामगुरुत्वं च व्रजदपि समान एकः पतिर्यस्यास्तस्याः सपत्न्याः । 'नित्यं सपत्नयादिषु' (४।१।३५) इति ङीष् नकारश्च । तस्मादेव निर्देशात् समानशब्दस्य सभावनिपातः । हिरण्यस्य विकारो हिरण्मयम्। 'दाण्डिनायन-' (६।४।१७४) इत्यादिना निपातः । तन्मण्डनं भारो बभूव । यत्किंचिदपि प्रेम्णा कान्तेन स्वहस्तदत्तं श्लाघ्यं मण्डनं भवति अन्यन्महार्घमपि हीनं भारश्च । न तु मण्डनमित्यर्थः । लघुगुरुत्वगुणविरोधस्य हीनार्थत्वेन परिहाराद्विरोधाभासभेदः ॥ ५९ ॥

 अवजितमधुना तवाहमक्ष्णो रुचिरतयेत्यवनम्य लज्जयेव ।
 श्रवणकुवलयं विलासवत्या भ्रमररुतैरुपकर्णमाचचक्षे ॥ ६० ॥

 अवजितमिति ॥ विलासवत्याः स्त्रियः श्रवणकुवलयं श्रवणोत्पलं कर्तृ अहमधुना तवाक्ष्णो रुचिरतया रुचिरस्य भावो रुचिरता । भावे तल् । तया सौन्दर्येणावजितमिति वक्तव्यानुवादः । अत एव लज्जयावनम्य भ्रमररुतैः । तन्मिषेणेत्यर्थः । उपकर्णं कर्णे । विभक्त्यर्थेऽव्ययीभावः । आचचक्ष इवेत्युप्रेक्षा ॥ ६० ॥

 अवचितकुसुमा विहाय वल्लीर्युवतिषु कोमलमाल्यमालिनीषु ।
 पदमुपदधिरे कुलान्यलीनां न परिचयो मलिनात्मनां प्रधानम् ६१

 अवचितेति ॥ अलीनां कुलानि अवचितानि युवतिभिरुपात्तानि कुसुमानि यासां ताः । रिक्ता इत्यर्थः । वल्लीः पुष्पलता विहाय । कोमलानि माल्यानि मलन्ते धारयन्तीति तासु कोमलमाल्यमालिनीषु । 'मल मल्ल धारणे' इति धातोणिनिः 'ऋन्नेभ्यो ङीप्' (४।१।५) युवतिषु पदमुपदधिरे निदधुः । तथा हि मलिनात्मनां कृष्णदेहानां, दुष्टचित्तानां च परिचयश्चिरकालसाहचर्यं न प्रधानं न प्रयोजकं, किंतु भुक्तिरेवेति भावः । अतः परिचितलतात्यागो नाश्चर्यमित्यर्थः । अत्र मलिनात्मनामिति कृष्णाङ्गत्वस्य दुष्टचित्तत्वेन सहाभेदाध्यवसायेनार्थान्तरन्यासस्योत्थापनात् श्लेषप्रतिभोत्थापितातिशयोक्त्यनुप्राणितोऽयमिति संकरः ॥ ६१ ॥

 अथोत्तरसर्गे जलक्रीडावर्णनाय तदुपोद्घातत्वेनासां वनविहारोद्भवं श्रमातिरेकं सप्तभिः कुलकेन दर्शयति-

 श्लथशिरसिजपाशपातभारादिव नितरां नतिमद्भिरंसभागैः।
 मुकुलितनयनैर्मुखारविन्दैर्धनमहतामिव पक्ष्मणां भरेण ।। ६२ ॥

 श्लथेत्यादि ॥ शिरसि जाताः शिरोरुहाः । 'सप्तम्यां जनेर्डः' (३।२।९७) 'हलदन्तात्-'(६।३।९) इत्यादिना सप्तम्या अलुक् । तेषां पाशः कलापः श्लथस्य तस्य यः पातस्तस्य भारादिवेति हेतूत्प्रेक्षा। 'न पादादौ खल्वादयः' इति वामनीयनिषेधेऽपि इवशब्दस्य पादादौ प्रयोगः कवेरौद्दण्ड्यात् । नितरामतिशयेन । अव्ययादामुप्रत्ययः । नतिमद्भिरंसभागैरुपलक्षिताभिर्नितम्बिनीभिरिति भाविना संबन्धः । एवमुत्तरत्रापि योज्यम् । नतांसत्वमुत्तमस्त्रीलक्षणात् । पुनर्घनमहतां सान्द्रदीर्घाणां पक्ष्मणां भरेणेवेति पूर्ववद्धेतूत्प्रेक्षा । मुकुलितनयनैर्मुखारविन्दैः । अत्रोत्प्रेक्षयोः संसृष्टिः॥६२ ॥

 अधिकमरुणिमानमुद्वहद्भिर्विकसदशीतमरीचिरश्मिजालैः ।
 परिचितपरिचुम्बनाभियोगादपगतकुङ्कुमरेणुभिः कपोलैः ॥६३॥

 अधिकमिति ॥ पुनः परिचितानां प्रणयिनां परिचुम्बनैरभियोगान्मर्दनादपगतकुङ्कुमरेणुभिः अत एव विकसन्ति वैमल्यात्प्रतिफलन्ति अशीतमरीचेरुष्णांशो रश्मिजालानि येषु तैः । असंबन्धे संबन्धोक्त्यातिशयोक्तिः । अत एवाधिकमरुणिमानमुद्वहद्भिः । कुङ्कुमापायेऽप्यातपलङ्घनादतिलोहितैरित्यर्थः । कपोलैर्गण्डस्थलैः ॥ ६३॥

 अवसितललितक्रियेण बाह्वोर्ललिततरेण तनीयसा युगेन ।
 सरसकिसलयानुरञ्जितैर्वा करकमलैः पुनरुक्तरक्तभाभिः॥६४॥

 अवसितेति ॥ पुनरवसिताः श्रमेण परिसमाप्ता ललिताः क्रियाः सुकुमारचेष्टा अपि यस्य तेन ललिततरेण मृदुतरेण तनीयसा तनुतरेण बाह्वोर्युगेन पुनः सरसैरार्द्रैः किसलयैरनुरञ्जितैर्वा अनुरञ्जनं प्रापितैरिव पुनरुक्ता द्विगुणा रक्ता भासो येषां तैः पुनरुक्तरक्तभाभिः। 'हलि सर्वेषाम्' (८।३।२२) इति यकारलोपः। करकमलैः पाणिपङ्कजैः । अत्रेतरजनकरापेक्षया पुनरुक्तरक्तत्वं स्वाभाविकमेव । तत्र किसलयरञ्जनहेतुकत्वमुत्प्रेक्ष्यते । इवार्थे वाशब्दस्तदुत्प्रेक्षायां प्रयुक्तः ॥ ६४ ॥

 सरसरसमुरःस्थलेन पत्युर्विनिमयसंक्रमिताङ्गरागरागैः ।
 भृशमतिशयखेदसंपदेव स्तनयुगलैरितरेतरं निषण्णैः ॥६५॥

 स्मरेति ॥ पुनः स्मरेण सरसं सानुरागं यथा तथा पत्युरुरःस्थलेन कर्त्रा विनिमयेन व्यतिहारेण संक्रमितोऽङ्गरागोऽनुलेपनं तेन रागो रञ्जनं येषु तैः अतिशयोऽतिशयितो यः खेदस्तस्य संपदा महिम्नेवेत्युत्प्रेक्षा । भृशमितरेतरं निषण्णैः परस्परं संश्रितैः स्तनयुगलैः ॥ ६५ ॥

 अतनुकुचभरानतेन भूयः श्रमजनितानतिना शरीरकेण ।
 अनुचितगतिसादनिःसहत्वं कलभकरोरुभिरूरुभिर्दधानः ॥६६॥

 अतन्विति ॥ पुनः अतनुना महता कुचभरेणानतेन नम्रेण । प्रागेवेति भावः । भूयः पुनश्च श्रमजनिता आनतिर्यस्य तेन शरीरकेण सुकुमारशरीरेण । किंच अनुचिताऽनभ्यस्ता । 'अभ्यस्तेऽप्युचितं न्याय्यम्' इति यादवः । तया गत्या पादचारेण यः सादः कार्श्यं तेन यन्निःसहत्वमक्षमत्वं तद्दधानैः । गन्तुमक्षमैरित्यर्थः । पाठा०-१ 'विलसित०". 'न सहन्त इति निःसहाः । पचाद्यजन्तेनोपसर्गस्य समासे त्वप्रत्ययः । कलभकराः करिहस्ता इवोरवो महान्तस्तैरूरुभिः सक्थिभिः । 'सक्थि क्लीवे पुमानूरुः' इत्यमरः ॥ ६६ ॥

 अपगतनवयावकैश्चिराय क्षितिगमनेन पुनर्वितीर्णरागैः ।
 कथमपि चरणोत्पलैश्चलद्भिर्भृशविनिवेशवशात्परस्परस्य ॥ ६७ ॥

 अपगतेति ॥ पुनश्चिराय चिरं क्षितिगमनेनापगतो नवयावको नवलाक्षारागो येषां तैः पुनस्तेनैव वितीर्णरागैः सौकुमार्यादुत्पादितरागैः परस्परस्य भृशविनिवेशवशात् स्थिरन्यासबलात् एकं स्थिरं निवेश्य तदवष्टम्भेन । इतरचालनक्रमेणेत्यर्थः । कथमपि महता प्रयत्नेन । 'कथमादि तथाप्यन्तं यत्नगौरवभेदयोः' इत्युत्पलः । चलद्भिश्चरणोत्पलैः ॥ ६७ ॥

 मुहुरिति वनविभ्रमाभिषङ्गादतमि तदा नितरां नितम्बिनीभिः ।
 मृदुतरतनवोऽलसाः प्रकृत्या चिरमपि ताः किमुत प्रयासभाजः ६८

 मुहुरिति ॥ नितम्बिनीभिरुक्तधर्मोपलक्षिताभिः स्त्रीभिर्मुहुरित्येवं वनविभ्रमाभिषङ्गात् वनभ्रमणासङ्गात् तदा नितरामतमि तान्तम् । तमेर्ण्यन्ताद्भावे लुङ् 'नोदात्तोपदेशस्य मान्तस्यानाचमेः' (७।३।३४) इति वृद्धिप्रतिषेधः । युक्तं चैतदित्याह-मृदुतरतनवोऽतिकोमलाङ्गयस्ताः स्त्रियः प्रकृत्या अलसा जडाः, अथ चिरमपि प्रयासभाजश्चेत् किमुत । सुतरामलसाः स्युरित्यर्थः । अत्राप्रकृतनैसर्गिकालस्यस्य कथनेनागन्तुकस्य कैमुत्यन्यायतः सिद्धत्ववर्णनादर्थापत्तिरलंकारः । 'एकस्य वस्तुनो भावाद्यत्र वस्त्वन्यदापतेत् । कैमुत्यन्यायतः सा स्यादर्थापत्तिरलंक्रिया ॥' इति लक्षणात् । श्रमश्चात्र संचारी वाच्यः । 'श्रमः खेदोऽध्वरत्यादेः स्वेदोऽस्मिन्मर्दनादयः' (दशरूपके ४।१२) इति लक्षणात् ॥ ६८ ॥

 अथ श्रमानुभावं स्वेदं वर्णयति-

 प्रथममलघुमौक्तिकाभमासीच्छ्रमजलमुज्ज्वलगण्डमण्डलेषु ।
 कठिनकुचतटाग्रपाति पश्चादथ शतशर्करतां जगाम तासाम् ॥६९।।

 प्रथममिति ॥ अथ तासां स्त्रीणां श्रमजलं प्रथममुज्ज्वलगण्डमण्डलेषूज्ज्वलगण्डस्थलेषु अलघुमौक्तिकाभं स्थूलमुक्ताफलसदृशमासीत् । पश्चात् कठिनतरकुचाग्रपाति सत् अथ पतनानन्तरं शतं शर्कराः शतशर्करम् । 'समाहारे द्विगुरेकवचनं वा टाबन्ते' इति नपुंसकत्वम् । तस्य भावस्तत्ता तां शतशर्करतां शतशकलत्वं जगाम । अत्रैकस्य श्रमजलस्य क्रमेणानेकाश्रयसंबन्धनिबन्धनात् पर्यायालंकारभेदः । 'क्रमेणैकमनेकस्मिन्नाधारे वर्तते यदि एकस्मिन्नथ वानेकं पर्यायालंकृतिर्मता ॥' इति लक्षणात् ॥ ६९ ॥

 श्रमेऽपि कुचमण्डलमविकृतशोभमित्याह-

 विपुलकमपि यौवनोद्धतानां घनपुलकोदयकोमलं चकाशे ।
 परिमलितमपि प्रियः प्रकामं कुचयुगमुज्ज्वलमेव कामिनीनाम् ७०

 विपुलकमिति ॥ यौवनोद्धतानां कामिनीनां कुचयुगं विपुलकं पुलकरहितमपि घनपुलकोदयेन सान्द्ररोमोद्गमेन कोमलं सदिति विरोधः । विपुलं विस्तृतं तदेव विपुलकमित्यविरोधः । प्रियैः प्रकामं परितो मलमस्येति परिमलं तत्कृतं परिमलितं मलिनीकृतं तथाप्युज्ज्वलं विमलमेव चकाश इति विरोधः । परिमलवत्कृतं परिमलितमित्यविरोधः । मत्वन्तात् 'तत्करोति-' (ग०) इति णिचि कर्मणि क्तः । णाविष्ठवद्भावे विन्मतोर्लुक् । अपिर्विरोधे । विरोधाभासालंकारयोः संसृष्टिः ॥ ७० ॥

 अथैकस्याः प्रियकण्ठावलम्बने श्रमानुभावमेकेनाह-

 अविरतकुसुमावचायखेदान्निहितभुजालतयैकयोपकण्ठम् ।
 विपुलतरनिरन्तरावलग्नस्तनपिहितप्रियवक्षसा ललम्बे ॥ ७१ ॥

 अविरतेति ॥ अविरतो यः कुसुमानामवचायो हस्तेन लवनम् । 'हस्तादाने चेरस्तेये' (३।३।४०) इति घञ् । तेन यः खेदस्तस्मात् भर्तुरुपकण्ठं कण्ठे । विभक्त्यर्थेऽव्ययीभावः । निहिते भुजालते यया तया । 'दोः प्रकोष्ठो भुजो बाहुर्भुजा च स्मर्यते बुधैः' इति वैजयन्ती । विपुलतरौ निरन्तरमवलग्नौ संश्लिष्टौ च यौ स्तनौ ताभ्यां पिहितं छादितं प्रियस्य वक्षो यया तयैकया स्त्रिया ललम्बे लम्बितम् । भावे लिट् ॥ ७१॥

 अथापरस्या अङ्गभङ्गाख्यमपरमनुभावमाह-

 अभिमतमभितः कृताङ्गभङ्गा कुचयुगमुन्नतिवित्तमुन्नमय्य ।
 तनुरभिलषितं क्लमच्छलेन व्यवृणुत वेल्लितबाहुवल्लरीका ॥७२॥

 अभिमतमिति ॥ तनुः काचित्तन्वी । 'वोतो गुणवचनात्' (४।१।४४) इति विकल्पादनीकारः । अभिमतमभितः। प्रियमभीत्यर्थः । उन्नतिवित्तं औन्नत्येन प्रतीतम् । विदेर्भावार्थात् 'वित्तो भोगप्रत्यययोः' (८।२।५८) इति प्रत्ययार्थे निष्ठानत्वाभावनिपातः । कुचयुगमुन्नमय्योत्तुङ्गीकृत्य कृतोऽङ्गभङ्गो गात्रविजृम्भणं यया सा । तथा वेल्लिते मिथोवेष्टिते बाहुवल्लर्यौ भुजलते यया सा । 'नद्यृतश्च' (५।४।१५३) इति कप् । क्लमच्छलेन । श्रमापनोदकचेष्टाव्याजेनेत्यर्थः । अभिलषितमालिङ्गनाद्यभिलषितं व्यवृणुत प्रकटितवती । वृणोतेर्लङ् । प्रौढेयमुत्सुका च ॥ ७२ ॥

 अथ कस्याश्चिन्मुग्धायाः प्रियचापलोक्तिद्वारा स्वेदोद्गमं प्रकटयति-

 हिमलवसदृशः श्रमोदबिन्दूनपनयता किल नूतनोढवध्वाः ।
 कुचकलशकिशोरको कथंचित्तरलतया तरुणेन पस्पृशाते ॥७३॥

 हिमेति ॥ हिमलवसदृशो हिमकणनिभान् श्रमोदबिन्दून् । स्वेदबिन्दूनित्यर्थः । 'मन्थौदन-' (६।३।६०) इत्यादिना उदकस्योदादेशः । अपनयता किल प्रमार्जतेव, न तु तत्र तात्पर्यमिति भावः । तरुणेन यूना नूतनोढवध्वाः कुचौ कलशाविव तौ च किशोरकाविव । उल्ललनसाम्यादश्वशावाविव । 'अश्वशावः किशोरकः' इत्यमरः । तौ कुचकलशकिशोरकौ । उभयत्राप्युपमितसमासः । कथंचित् क्लेशेन । सप्रतिषेधमेवेत्यर्थः । तरलतया चपलतया । उत्सुकतयेत्यर्थः । पस्पृशाते स्पृष्टौ । स्पृशेः कर्मणि लिद । मुग्धेयम् ॥ ७३ ॥  अथ सर्वासामेव स्वेदोद्रेकं वर्णयति-

  गत्वोद्रेकं जघनपुलिने रुद्धमध्यप्रदेशः
   क्रामन्नूरुद्रुमभुजलताः पूर्णनाभीहृदान्तः ।
  उल्लङ्घ्योच्चैः कुचतटभुवं प्लावयन् रोमकूपान्
   स्वेदापूरो युवतिसरितां व्याप गण्डस्थलानि॥७४।।

 गत्वेति ॥ युवतय एव सरितस्तासां स्वेद एवापूरः प्रवाहः जघनमेव पुलिनं तत्रोद्रेकं गत्वा रुद्ध आवृतो मध्यप्रदेशोऽवलग्नभागः, प्रवाहदेशश्च येन स पूर्णनाभीहृदान्तः। रेफान्तमकारान्तं वा । पूर्णेति पूरेर्ण्यन्तात्कर्मणि क्तः । 'वा दान्त-' (७।२।२७) इत्यादिना णिलुगिट्प्रतिषेधनिपातः । उच्चैरुन्नतौ कुचावेव तटौ तयोर्भुवं प्रदेशमुल्लङ्घ्य रोमकूपान् रोमाणि रोमरन्ध्राणि तान्येव कूपान् प्लावयन् पूरयन् गण्डस्थलानि कपोलभागान् , उन्नतभूभागांश्च प्राप । अत्र युवतिषु सरित्त्वस्य तदवयवेष्ववयवानां च निरूपणात्समवस्तुविषयसावयवरूपकं श्लेषानुप्राणितम् । मन्दाक्रान्ता वृत्तम् । 'मन्दाक्रान्ता जलधिषडगैर्म्भौ नतौ ताद्गुरू चेत्' इति लक्षणात् ॥ ७४॥

 एवमध्वश्रमानुभावं स्वेदोद्रेकं वर्णयित्वा तत्फलभूतां जलविहारेच्छामासां दर्शयति-

  प्रियकरपरिमार्गादङ्गनानां यदाभूत्
   पुनरधिकतरैव स्वेदतोयोदयश्रीः ।
  अथ वपुरभिषेक्तुं तास्तदाम्भोभिरीषु-
   र्वनविहरणखेदम्लानमम्लानशोभाः ॥ ७५ ॥

इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्र्यङ्के
 वनविहारो नाम सप्तमः सर्गः ॥ ७ ॥

 प्रियेति ॥ यदा अङ्गनानां प्रियकरपरिमार्गात्प्रियकरस्पर्शात् । मृजेर्घञ् प्रत्ययः। स्वेदतोयोदयश्रीः स्वेदोद्गमसंपत् पुनर्भूयोऽप्यधिकतरैवाभूत्तदा अम्लानशोभा अक्षीणकान्तयः । वपुषि म्लानेऽपीति भावः । ता अङ्गना वनविहरणखेदेन म्लानम् । म्लायतेः कर्तरि क्तः । 'संयोगादेरातो धातोर्यण्वतः' (८।२।४३) इति निष्ठानत्वम् । वपुरङ्गम् । अथ कार्त्स्न्येन । 'मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ' इत्यमरः । अम्भोभिरभिषेक्तुमीषुरिच्छन्ति स्म । इषेर्लिट् । अत्र पूर्ववाक्यार्थस्योत्तरवाक्यार्थसमर्थनहेतुकत्वेनोपनिबन्धाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः । मालिनी वृत्तम् ॥ ७५॥

इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध-
काव्यव्याख्याने सर्वंकषाख्ये सप्तमः सर्गः ॥ ७ ॥