← अध्यायः ०४ शुक्लयजुर्वेदः
अध्यायः ०५
[[लेखकः :|]]
अध्यायः ०६ →


अध्याय 5
अग्निष्टोमे आतिथ्यमारभ्य यूपनिर्माणपर्यन्तम् मन्त्राः
5.1
अग्नेस् तनूर् असि विष्णवे त्वा सोमस्य तनूर् असि विष्णवे त्वातिऽतिथेर् आतिथ्यम् असि विष्णवे श्येनाय त्वा सोमभृते विष्णवे त्वाऽग्नये त्वा रायस्पोषदे विष्णवे त्वा ॥

5.2
अग्नेर् जनित्रम् असि ।
वृषणौ स्थः ।
ऽउर्वश्य् असि ।
आयुर् असि ।
ऽ पुरूरवा असि ।
गायत्रेण त्वा छन्दसा मन्थामि ।
त्रैष्टुभेन त्वा छन्दसा मन्थामि ।
जागतेन त्वा छन्दसा मन्थामि ॥

5.3
भवतं नः समनसौ सचेतसाव् अरेपसौ ।
मा यज्ञꣳ हिꣳसिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतम् अद्य नः ॥

5.4
अग्नाव् अग्निश् चरति प्रविष्ट ऽ ऋषीणां पुत्रो ऽअभिशस्तिपावा ।
स नः स्योनः सुयजा यजेह देवेभ्यो हव्यꣳ सदम् अप्रयुच्छन्त् स्वाहा ॥

5.5
आपतये त्वा परिपतये गृह्णामि तनूनप्त्र्ये शाक्वराय शक्वन ऽ ओजिष्ठाय ।
अनाधृष्टम् अस्य् अनाधृष्यं देवानाम् ओजो ऽनभिशस्त्य् अभिशस्तिपा ऽ अनभिशस्तेन्यम् अञ्जसा सत्यम् उप गेषꣳ स्विते मा धाः ॥

5.6
अग्ने व्रतपास् त्वे व्रतपा या तव तनूर् इयꣳ सा मयि यो मम तनूर् एषा सा त्वयि ।
सह नौ व्रतपते व्रतान्य् अनु मे दीक्षां दीक्षापतिर् मन्यताम् अनु तपस् तपस्पतिः ॥

5.7
अꣳशुर्-अꣳशुष्टे देव सोमाप्यायताम् इन्द्रायैकधनविदे ।
आ तुभ्यम् इन्द्रः प्यायताम् आ त्वम् इन्द्राय प्यायस्व ।
आ प्याययास्मान्त् सखीन्त् सन्या मेधया स्वस्ति ते देव सोम सुत्याम् अशीय ।
एष्टा रायः प्रेषे भगाय ऋतम् ऋतवादिभ्यो नमो द्यावापृथिवीभ्याम् ॥

5.8
या ते ऽ अग्ने ऽयःशया तनूर् वर्षिष्ठा गह्वरेष्ठा ।
उग्रं वचोऽअपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा ।
या ते ऽ अग्ने रजःशया तनूर् वर्षिष्ठा गह्वरेष्ठा ।
उग्रं वचो ऽ अपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा ।
या ते अग्ने हरिशया तनूर् वर्षिष्ठा गह्वरेष्ठा ।
उग्रं वचो ऽ अपावधीत् त्वेषं वचो ऽ अपावधीत् स्वाहा ॥

5.9
तप्तायनी मे ऽसि ।
वित्तायनी मे ऽसि ।
अवतान् मा नाथितात् ।
अवतान् मा व्यथितात् ।
विदेद् अग्निर् नभो नाम ।
अग्ने ऽ अङ्गिर ऽ आयुना नाम्नेहि ।
योऽस्यां पृथिव्याम् असि यत् तेऽनाधृष्टं नाम यज्ञियं तेन त्वा दधे ।
विदेद् अग्निर् नभो नाम ।
अग्ने ऽ अङ्गिर ऽ आयुना नाम्नेहि ।
यो द्वितीयस्यां पृथिव्याम् असि यत् तेऽनाधृष्टं नाम यज्ञियं तेन त्वा दधे ।
विदेद् अग्निर् नभो नाम ।
अग्नेऽअङ्गिर ऽ आयुना नाम्नेहि ।
यस् तृतीयस्यां पृथिव्याम् असि यत् ते ऽनाधृष्टं नाम यज्ञियं तेन त्वा दधे ।
अनु त्वा देववीतये ॥

5.10
सिꣳह्य् असि सपत्नसाही देवेभ्यः कल्पस्व ।
सिꣳह्य् असि सपत्नसाही देवेभ्यः शुन्धस्व ।
सिꣳह्य् असि सपत्नसाही देवेभ्यः शुम्भस्व ॥

5.11
इन्द्रघोषस् त्वा वसुभिः पुरस्तात् पातु ।
प्रचेतास् त्वा रुद्रैः पश्चात् पातु ।
मनोजवास् त्वा पितृभिर् दक्षिणतः पातु ।
विश्वकर्मा त्वादित्यैर् उत्तरतः पातु ।
इदम् अहं तप्तं वार् बहिर्धा यज्ञान् निः सृजामि ॥

5.12
सिꣳह्य् असि स्वाहा ।
सिꣳह्य् अस्य् आदित्यवनिः स्वाहा ।
सिꣳह्य् असि ब्रह्मवनिः क्षत्रवनिः स्वाहा ।
सिꣳह्य् असि सुप्रजावनी रायस्पोषवनिः स्वाहा ।
सिꣳह्य् अस्य् आवह देवान् यजमानाय स्वाहा ।
भूतेभ्यस् त्वा ॥

5.13
ध्रुवो ऽसि पृथिवीं दृꣳह ।
ध्रुवक्षिद् अस्य् अन्तरिक्षं दृꣳह ।
अच्युतक्षिद् असि दिवं दृꣳह ।
अग्नेः पुरीषम् असि ॥

5.14
युञ्जते मन ऽ उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः ।
वि होत्रा दधे वयुनाविद् एक ऽइन् मही देवस्य सवितुः परिष्टुतिः स्वाहा ॥

5.15
इदं विष्णुर् विचक्रमे त्रेधा नि दधे पदम् ।
समूढम् अस्य पासुरे स्वाहा ॥

5.16
इरावती धेनुमती हि भूतꣳ सूयवसिनी मनवे दशस्या ।
व्यस्कभ्ना रोदसी विष्णव् एते दाधर्त्थ पृथिवीम् अभितो मयूखैः स्वाहा ॥

5.17
देवश्रुतौ देवेष्व् आ घोषतम् ।
प्राची प्रेतम् अध्वरं कल्पयन्ती ऽ ऊर्ध्वं यज्ञं नयतं मा जिह्वरतम् ।
स्वं गोष्ठम् आ वदतं देवी दुर्ये ऽ आयुर् मा निर्वादिष्टं प्रजां मा निर्वादिष्टम् ।
अत्र रमेथां वर्ष्मन् पृथिव्याः ॥

5.18
विष्णोर् नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजाꣳसि ।
यो ऽ अस्कभायद् उत्तरꣳ सधस्थं विचक्रमाणस् त्रेधोरुगायः ।
विष्णवे त्वा ॥

5.19
दिवो वा विष्ण ऽ उत वा पृथिव्या महो वा विष्णऽउरोरन्तरिक्षात् ।
उभा हि हस्ता वसुना पृणस्वा प्रयच्छ दक्षिणाद् ओत सव्यात् ।
विष्णवे त्वा ॥

5.20
प्र तद् विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः ।
यस्योरुषु त्रिषु विक्रमणेष्व् अधिक्षियन्ति भुवनानि विश्वा ॥

5.21
विष्णो रराटम् असि ।
विष्णोः श्नप्त्रे स्थः ।
विष्णोः स्यूर् असि ।
विष्णोर् ध्रुवो सि ।
वैष्णवम् असि विष्णवे त्वा ॥

5.22
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
आ ददे नार्य् असि ।
इदम् अहꣳ रक्षसां ग्रीवा ऽ अपिकृन्तामि ।
बृहन्न् असि बृहद्रवा बृहतीम् इन्द्राय वाचं वद ॥

5.23
रक्षोहणं वलगहनं वैष्णवीम् ।
इदम् अहं तं वलगम् उत् किरामि यं मे निष्ट्यो यम् अमात्यो निचखान ।
इदम् अहं तं वलगम् उत् किरामि यं मे समानो यम् असमानो निचखान ।
इदम् अहं तं वलगम् उत् किरामि यं मे सबन्धुर् यम् असबन्धुर् निचखान ।
इदम् अहं तं वलगम् उत् किरामि यं मे सजातो यम् असजातो निचखान ।
उत् कृत्यां किरामि ॥

5.24
स्वराड् असि सपत्नहा ।
सत्रराड् अस्य् अभिमातिहा ।
जनराड् असि रक्षोहा ।
सर्वराड् अस्य् अमित्रहा ॥

5.25
रक्षोहणो वो वलगहनः प्रोक्षामि वैष्णवान् ।
रक्षोहणो वो वलगहनो ऽव नयामि वैष्णवान् ।
रक्षोहणो वो वलगहनो ऽव स्तृणामि वैष्णवान् ।
रक्षोहणौ वां वलगहना ऽ उप दधामि वैष्णवी ।
रक्षोहणौ वां वलगहनौ पर्य् ऊहामि वैष्णवी ।
वैष्णवम् असि ।
वैष्णवा स्थ ॥

5.26
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् ।
आ ददे नार्य् असि ।
इदम् अहꣳ रक्षसां ग्रीवा ऽ अपि कृन्तामि ।
यवो ऽसि यवयास्मद् द्वेषो यवयारातीः ।
दिवे त्वाऽन्तरिक्षाय त्वा पृथिव्यै त्वा ।
शुन्धन्तां लोकाः पितृषदनाः ।
पितृषदनम् असि ॥

5.27
उद् दिवꣳ स्तभानान्तरिक्षं पृण दृꣳहस्व पृथिव्याम् ।
द्युतानास् त्वा मारुतो मिनोतु मित्रावरुणौ ध्रुवेण धर्मणा ।
ब्रह्मवनि त्वा क्षत्रवनि त्वा रायस्पोषवनि पर्य् ऊहामि ।
ब्रह्म दृꣳह क्षत्रं दृꣳहायुर् दृꣳह प्रजां दृꣳह ॥

5.28
ध्रुवासि ध्रुवो ऽयं यजमानो ऽस्मिन्न् आयतने प्रजया पशुभिर् भूयात् ।
घृतेन द्यावापृथिवी पूर्येथाम् ।
इन्द्रस्य छदिर् असि विश्वजनस्य छाया ॥

5.29
परि त्वा गिर्वणो गिर ऽ इमा भवन्तु विश्वतः ।
वृद्धायुम् अनु वृद्धयो जुष्टा भवन्तु जुष्टयः ॥

5.30
इन्द्रस्य स्यूर् असि ।
इन्द्रस्य ध्रुवो ऽसि ।
ऐन्द्रम् असि ।
वैश्वदेवम् असि ॥

5.31
विभूर् असि प्रवाहणः ।* द्रष्टव्यम् - ब्रह्माण्डपुराणम् १.२.१२.२७, वायुपुराणम् २९.२६
वह्निर् असि हव्यवाहनः ।
श्वात्रो ऽसि प्रचेताः ।
तुथो ऽसि विश्ववेदाः ॥

5.32
उशिग् असि कविः ।
अङ्घारिर् असि बम्भारिः ।
अवस्यूर् असि दुवस्वान् ।
शुन्ध्यूर् असि मार्जालीयः ।
सम्राड् असि कृशानुः ।
परिषद्योऽसि पवमानः ।
नभोऽसि प्रतक्वा ।
मृष्टो ऽसि हव्यसूदनः ।
ऽऋतधामासि स्वर्ज्योतिः ॥

5.33
समुद्रो ऽसि विश्वव्यचाः ।
ऽअजो ऽस्य् एकपात् ।
अहिर् असि बुध्न्यः ।
वाग् अस्य् ऐन्द्रम् असि सदो ऽसि ।
ऋतस्य द्वारौ मा मा संताप्तम् ।
अध्वनाम् अध्वपते प्र मा तिर स्वस्ति मे ऽस्मिन् पथि देवयाने भूयात् ॥

5.34
मित्रस्य मा चक्षुषेक्षध्वम् ।
अग्नयः सगराः सगरा स्थ सगरेण नाम्ना रुद्रेणानीकेन पात माग्नयः पिपृत माग्नयो गोपायत मा नमो वो स्तु मा मा हिꣳसिष्ट ॥

5.35
ज्योतिर् असि विश्वरूपं विश्वेषां देवाना समित् ।
त्वꣳ सोम तनूकृद्भ्यो द्वेषोभ्यो ऽन्यकृतेभ्य ऽउरु यन्तासि वरूथꣳ स्वाहा ।
जुषाणो ऽअप्तुर् आज्यस्य वेतु स्वाहा ॥

5.36
अग्ने नय सुपथा राये ऽअस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नमऽउक्तिं विधेम ॥

5.37
अयं नो ऽ अग्निर् वरिवस् कृणोत्व् अयं मृधः पुर ऽएतु प्रभिन्दन् ।
अयं वाजान् जयतु वाजसाताव् अयꣳ शत्रून् जयतु जर्हृषाणः स्वाहा ॥

5.38
उरु विष्णो वि क्रमस्वोरु क्षयाय नस् कृधि ।
घृतं घृतयोने पिब प्र-प्र यज्ञपतिं तिर स्वाहा ॥

5.39
देव सवितर् एष ते सोमस् तꣳ रक्षस्व मा त्वा दभन् ।
एतत् त्वं देव सोम देवो देवाँ2 ऽ उपागा ऽ इदम् अहं मनुष्यान्त् सह रायस्पोषेण स्वाहा निर् वरुणस्य पाशान् मुच्ये ॥

5.40
अग्ने व्रतपास् त्वे व्रतपा या तव तनूर् मय्य् अभूद् एषा सा त्वयि यो मम तनूस् त्वय्य् अभूद् इयꣳ सा मयि ।
यथायथं नौ व्रतपते व्रतान्य् अनु मे दीक्षां दीक्षापतिर् अमꣳस्तानु तपस् तपस्पतिः ॥

5.41
उरु विष्णो वि क्रमस्वोरु क्षयाय नस् कृधि ।
घृतं घृतयोने पिब प्र-प्र यज्ञपतिं तिर स्वाहा ॥

5.42
अत्य् अन्याꣳ ऽ अगां नान्याꣳ ऽ उपागाम् अर्वाक् त्वा परेभ्यो ऽविदं परो ऽवरेभ्यः ।
तं त्वा जुषामहे देव वनस्पते देवयज्यायै देवास् त्वा देवयज्यायै जुषन्तां विष्णवे त्वा ।
ओषधे त्रायस्व ।
स्वधिते मैनꣳ हिꣳसीः ॥

5.43
द्यां मा लेखीर् अन्तरिक्षं मा हिꣳसीः पृथिव्या सं भव ।
अयꣳ हि त्वा स्वधितिस् तेतिजानः प्रणिनाय महते सौभगाय ।
अतस् त्वं देव वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयꣳ रुहेम ॥

भाष्यम्(उवट-महीधर)

पञ्चमोऽध्यायः।
तत्र प्रथमा।
अ॒ग्नेस्त॒नूर॑सि॒ विष्ण॑वे त्वा॒ सोम॑स्य त॒नूर॑सि॒ विष्ण॑वे॒ त्वा ऽति॑थेराति॒थ्यम॑सि॒ विष्ण॑वे त्वा श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे त्वा॒ऽग्नये॑ त्वा रायस्पोष॒दे विष्ण॑वे त्वा ।। १ ।।
उ० आतिथ्ये हविर्गृह्णाति पञ्चभिर्वैष्णवैर्यजुभिः । अग्नेस्तनूरसि 'अग्निशब्देन परोक्षं गायत्र्युच्यते' इति श्रुतिः । अग्नेस्तनूः शरीरं भवसि । हुतं हविरग्नेः शरीरं भवत्येव । विष्णवे त्वा जुष्टं गृह्णामि । सोमस्य शरीरमसि विष्णवे त्वां जुष्टं गृह्णामि । 'सोमः परोक्षेण त्रिष्टुबुच्यते' इति श्रुतिः । अतिथेरातिथ्यमसि । अतिथेः सोमस्य आतिथ्यं भोजनमसि । विष्णवे त्वां जुष्टं गृह्णामि । श्येनाय त्वा सोमभृते । गायत्र्यै त्वां सोमहारिण्यै विष्णवे त्वामिति संबन्धः । 'सायं गायत्री श्येनो भूत्वा दिवः सोममहरत्' इति श्रुतिः । अग्नये त्वा रायस्पोषदे धनपोषस्य दात्रे विष्णवे त्वेति संबन्धः । 'पशवो वै रायस्पोषः पशवो जगती' इति श्रुतिः ॥ १॥
म० चतुर्थेऽध्याये सर्त्विग्यजमानस्य शालाप्रवेशमारभ्य क्रीतसोमस्य शालाप्रवेशपर्यन्ता मन्त्रा उक्ताः । अथ पञ्चमोऽध्यायस्तत्रादौ आतिथ्येष्टौ हविर्ग्रहणादिमन्त्रा उच्यन्ते । 'निर्वपेदग्नेस्तनूरिति पञ्चकृत्वः प्रतिमन्त्रमिति' (का० ८ । १।४) । पञ्च यजूंषि वैष्णवानि । हे हविः, त्वमग्नेस्तनूरसि अग्निसंज्ञो यो देवः सोमस्य राज्ञो भृत्यस्तस्य गायत्रीच्छन्दोऽधिष्ठातुस्तनूः शरीरं भवसि तृप्तिजनकत्वात् तथाविध हे हविः, विष्णवे बहुयज्ञव्यापिने सोमाय सोमप्रीत्यर्थं त्वा त्वां निर्वपामीति शेषः । सोमस्य तनूरसि । सोमसंज्ञः कश्चित्सोमस्य राज्ञो भृत्यस्त्रिष्टुप्छन्दोधिष्ठाता तस्य तृप्तिहेतुत्वात्तनूरसि । अन्यत्पूर्ववत् । अतिथेरातिथ्यमसि । अतिथिसंज्ञः सोमराजानुचरो जगतीच्छन्दोधिष्ठाता । हे हविः,. त्वमतिथेरतिथिसंज्ञस्य सोमभृत्यस्य आतिथ्यमसि आतिथ्यनामसंस्काररूपमसि । तिथिविशेषं विनैवातिक्षुधया पीडिते विप्रेऽतिथौ समागते तत्सत्काराय क्रियमाणः पादक्षालनभोजनसंवहनादिसंस्कार आतिथ्यमुच्यते । अतिथेरिदमातिथ्यम् 'अतिथेर्ञ्यः' (पा० ५। ४ । २६) इति ञ्यप्रत्ययः । विष्णवे त्वां निर्वपामीति पूर्ववत् । श्येनाय त्वा सोमभृते । श्येनो नाम देवः सोमराजानुचरः स्वर्गात्सोमहर्ता श्येनरूपधारिगायत्र्यधिष्ठाता तस्मै श्येनाय विष्णवे सोमाय च त्वां निर्वपामि । किंभूताय श्येनाय । सोमभृते सोमं हरति आनयतीति सोमहृत्तस्मै । 'हृग्रहोर्भश्छन्दसि' (पा० ८।२। ३२) इति हरतेर्हस्य भः । सोमानयनकर्त्रे । तथाच श्रुतिः ‘सा यद्गायत्री श्येनो भूत्वा दिवः सोममाहरदिति' (३ । ४ । १ । १२) । अग्नये त्वा रायस्पोषदे । रायस्पोषं धनपुष्टिं ददाति रायस्पोषदाः तस्मै । क्विप्प्रत्ययः । राज्ञो धनं क्रयविक्रयादिना बहुधा पोषयित्वा राज्ञेऽर्पयति स रायस्पोषदाः अग्निसंज्ञोऽपरः सोमानुचरोऽस्ति अनुक्तच्छन्दोऽधिष्ठाता देवः तस्मै धनपुष्टिदायिनेऽग्नये हे हविः, त्वा त्वां गृह्णामि । विष्णवे त्वेति पूर्ववत् । विष्णुशब्दाभिधेयस्य सोमस्य राज्ञो हविषा तदनुचराणामग्न्यादिदेवानां तद्द्वारा तत्संबन्धिनां गायत्र्यादिच्छन्दसां च तृप्तिर्भवति । तदाह तित्तिरिः 'यावद्भिर्वै राजानुचरैरागच्छति सर्वेभ्यो वै तेभ्य आतिथ्यं क्रियते छन्दाᳪसि खलु वै सोमस्य राज्ञोऽनुचराणि' इति ॥१॥

द्वितीया ।
अ॒ग्नेर्ज॒नित्र॑मसि वृष॑णौ स्थ उ॒र्वश्य॑स्या॒युर॑सि पुरू॒रवा॑ असि । गा॒य॒त्रेण॑ त्वा॒ छन्द॑सा मन्थामि॒ त्रै॑ष्टुभेन त्वा॒ छन्द॑सा मन्थामि॒ जाग॑तेन त्वा॒ छन्द॑सा मन्थामि ।। २ ।।
उ० आतिथ्येऽग्निमन्थनं शकलमादत्ते । अग्नेर्जनित्रम् । जायतेऽस्मिन्नग्निरिति जनित्रम् । दर्भतरुणके निदधाति । वृषणौ स्थः । 'वृषु सेचने' । वृषणौ वर्षितारौ सेक्तारौ भवथः । अधरारणिं निदधाति । उर्वश्यसि । उत्तरारण्याज्यविलापनीमुपस्पृशति । आयुरसि उत्तरारणिं निदधाति । पुरूरवा असि इतिहासपक्षेण मन्त्रत्रयं व्याख्यातं श्रुत्या । 'उर्वशी वा अप्सराः पुरूरवाः पतिरथ यत्तस्मान्मिथुनादजायत तदायुः' इति । मन्थति । गायत्रेण त्वा। हे अग्ने, गायत्रेण त्वा छन्दसा मन्थामि जनयामि । उत्तरौ मन्त्रौ समानव्याख्यानौ । त्रैष्टुभेन जागतेनेति विशेषः ॥२॥
म० अथाग्निनयनमन्त्राः । 'अग्नेर्जनित्रमिति शकलमादाय वेद्यां करोतीति' ( का० ५। १।२८) । शकलदैवतं यजुः । हे शकल, त्वमग्नेर्जनित्रं जननाधारभूतमसि । जायतेऽस्मिन्निति जनित्रम् । 'वृषणाविति कुशतरुणे तस्मिन्निति' (का० ५। १ । २९) । तस्मिञ्शकले करोतीत्यर्थः । मन्त्रार्थस्तु । हे दर्भौ, युवां वृषणौ सेक्तारौ स्थः भवथः । वर्षत इति वृषणौ । कनिन्प्रत्ययः । यथा पुत्रजननाय स्त्रीपुरुषौ वीर्यस्य सेक्तारौ तद्वद्युवामप्यरण्योरग्निजननसामर्थ्यसंपादकावित्यर्थः । 'उर्वश्यसीत्यधरारणिं तयोरिति' (का० ५।१।३०)। शकलस्थापितयोर्दर्भयोरधरारणिं निदध्यादिति सूत्रार्थः । हे अधरारणे, त्वमुर्वशी असि । यथोर्वशी पुरूरवोनृपस्य भोगायाधस्ताच्छेते तद्वत्त्वमधोऽवस्थितासीत्यर्थः । 'आयुरसीत्युत्तरयाज्यस्थालीᳪ सᳪस्पृशेदिति' (का० ५।१। ३१)। उत्तरारण्याज्यस्थालीं स्पृशेदिति सूत्रार्थः । हे स्थालीगताज्य, त्वमायुरसि अरणिद्वयेन जनिष्यमाणस्याग्नेरायुःप्रदं भवसि । 'पुरूरवा इत्यभिनिधानं तयेति' (का० ५।१। ३१)। अधरारणेरभिमुखीमुत्तरारणिं निदध्यादिति सूत्रार्थः । हे उत्तरारणे, त्वं पुरूरवा असि । यथा पुरूरवा नृप उर्वश्या अभिमुख उपरि वर्तते तथा त्वमपीत्यर्थः । उर्वशीत्यादिमन्त्रत्रयं श्रुत्या व्याख्यातम् । 'उर्वशी वा अप्सराः पुरूरवाः पतिरथ यत्तस्मान्मिथुनादजायत तदायुरिति' (३।४।१। २२)। 'मन्थति गायत्रेणेति प्रतिमन्त्रं त्रिः प्रदक्षिणमिति' (का० ५।२।२) । मत्रत्रयेणारण्योर्मन्थनं कुर्यात् । हे अग्ने, गायत्रेण छन्दसा गायत्रीच्छन्दोभिमानिना देवेनाहं त्वा त्वां मन्थामि अरण्योर्मन्थनेनोत्पादयामि । एवमुत्तरावपि मन्त्रौ योज्यौ ॥२॥

तृतीया ।
भव॑तं न॒: सम॑नसौ॒ सचे॑तसावरे॒पसौ॑ । मा य॒ज्ञᳪ हि॑ᳪसिष्टं॒ मा य॒ज्ञप॑तिं जातवेदसौ शिवौ भ॑वतम॒द्य न॑: ।। ३ ।।
उ० प्रास्यति । भवतं नः पङ्क्तिः । आहवनीयनिर्मथ्यावुच्यते । भवतं युवां नः अस्माकं समनसौ समानमनस्कौ सचेतसौ समानप्रज्ञौ । अरेपसौ । रेप इति पापनाम । अपापौ । मा यज्ञं हिᳪसिष्टं विनाशिष्टम् । मा च यज्ञपतिं यजमानम् । किंच शिवौ शान्तौ भवतं भवथः । अद्य अस्मिन्यज्ञे नः अस्माकम् ॥ ३ ॥
म० ‘भवतं न इति प्रास्यतीति' (का० ५।२।३)। मन्थनोत्थमग्निमाहवनीये प्रास्यतीत्यर्थः । पङ्क्तिः । यस्याः अष्टार्णाः पञ्च पादाः सा पङ्क्तिः । अत्र तु तृतीयः षडक्षरः चतुर्थो दशार्णः । निर्मथ्याहवनीयावग्नी देवते । हे जातवेदसावुभावग्नी, नोऽस्मदर्थं युवामीदृशौ भक्तम् । किंभूतो युवाम् । समनसौ मनसा सहितौ । तथा सचेतसौ समानं चेतो ययोस्तौ परस्परं समानचित्तयुक्तौ । अन्यविषयं मनः परिहृत्यास्मदनुग्रहाभिमुखत्वं समनस्त्वम् । अनुग्रहे परस्परविप्रतिपत्तिराहित्यं सचेतस्त्वम् । तथा अरेपसौ पापरहितौ प्रमादादस्माभिः कृतेऽपि पापे कोपाभावः पापरहित्यम् । . तदेव स्पष्टयति । यज्ञमस्मत्कर्म मा हिसिष्टं मा विनाशयतम् । यज्ञपतिं यजमानं च मा हिᳪसिष्टम् । तथा अद्यास्मिन्ननुष्ठानदिने नोऽस्मदर्थं शिवौ शान्तौ कल्याणकारिणौ भवतं पूर्वोक्तविधिना ॥३॥

चतुर्थी।
अ॒ग्नाव॒ग्निश्च॑रति॒ प्रवि॑ष्ट॒ ऋषी॑णां पु॒त्रो अ॑भिशस्ति॒पावा॑ । स न॑: स्यो॒नः सु॒यजा॑ यजे॒ह दे॒वेभ्यो॑ ह॒व्यᳪ सद॒मप्र॑युच्छ॒न्त्स्वाहा॑ ।। ४ ।।
उ० जुहोति । असावग्निः । आहवनीयनिर्मथ्यावुच्येते विराट् । अग्नौ आहवनीयाख्ये योयमग्निः निर्मथ्यः चरति प्रविष्टः । ऋषीणां विदुषामग्निहोत्रिणां पुत्रः । स यदग्नी आधत्ते तदेतं जनयति' इति श्रुतिः । अभिशस्तिपावा अभिशंसनमभिशस्तिः अभिशस्तेः पाति गोपायति यः सोऽभिशस्तिपावा । स नः सोऽस्माकमग्निः स्योनः सुखरूपः। सुयजा सुयागेन यज । परोक्षत्वान्मन्त्रस्य प्रथमपुरुषेण व्यत्ययः । यजतु । इह अस्मिन् यज्ञे । देवेभ्यो हव्यं हविः । सदम् सदा । अप्रयुच्छन् । 'युच्छी प्रमादे' । अप्रमाद्यन् । स्वाहा सुहुतं हविर्जुहोमि ॥ ४ ॥
म० 'अग्नावग्निरिति जुहोति स्थाल्याः स्रुवेणेति' ( का० ५।२।६)। विराट् । दशाक्षरैश्चतुर्भिः पादैर्विराट् । अत्र द्वितीयतुर्यावेकादशार्णौ ततो द्व्यधिका । अग्निर्मथ्यमानोऽग्नावाहवनीये प्रविष्टः सन् चरति हविर्भक्षयति । 'चर गतिभक्षणयोः' । किंभूतोऽग्निः । ऋषीणां पुत्रः ऋत्विजो वेदविदः ऋषयः तैरुत्पादितत्वात्तेषां पुत्रवत्पुत्रः । तथा अभिशस्तिपावा अभिशस्तिर्वैकल्यनिमित्तोऽभिशापस्तस्मात्पाति रक्षतीत्यभिशस्तिपावा । 'आतो मनिन्-' (पा०३।२।७४) इति वनिप्प्रत्ययः । हे अग्ने, स तथाविधस्त्वं नोऽस्मदर्थं स्योनः सुखरूपः सन् सुयजा शोभनयागेन इहास्मिन् स्थाने देवेभ्यः इन्द्रादिभ्यः हव्यं सोमादिरूपं यज दहि । अस्मद्दत्तं हविर्देवान्प्रापयेत्यर्थः । किं कुर्वन् । सदं सदा अप्रयुच्छन् अप्रमाद्यन् । 'युच्छ प्रमादे' । स्वाहा इदमाज्यं तुभ्यं हुतमस्तु । यद्वा सोऽग्निर्नो हविर्देवेभ्यो यज यजतु ददात्विति पुरुषव्यत्ययेन वा योजना ॥ ४ ॥

पञ्चमी।
आप॑तये त्वा॒ परि॑पतये गृह्णामि॒ तनू॒नप्त्रे॑ शाक्व॒राय॒ शक्व॑न॒ ओजि॑ष्ठाय । अना॑धृष्टमस्यनाधृ॒ष्यं दे॒वाना॒मोजोऽन॑भिशस्त्यभिशस्ति॒पा अ॑नभिशस्ते॒न्यमञ्ज॑सा स॒त्यमुप॑गेषᳪ स्वि॒ते मा॑ धाः ।। ५ ।।
उ० तनूनप्त्रमाज्यं गृह्णाति । आपतये त्वा । वायुदेवत्यं यजुः । आ पततीत्यापतिः। परि सर्वतः पततीति परिपतिः। उभयगुणविशिष्टाय वायवे हे आज्य, त्वा गृह्णामि । तनूनप्त्रे । तनूशब्देनात्रात्माभिप्रेतः । तन्यते हि तस्मादाकाशः ततो वायुर्भवति तस्मादाकाशो जायते शक्वरनामा । आकाशाद्वायुः । एतदभिप्रेत्योक्तं तनूनप्त्रे ब्रह्मणः पौत्रायेत्यर्थः । शाक्वराय । शक्नुवन्त्याकाशे भूतानि स्थातुमिति शक्वर आकाशस्तस्यापत्यं शाक्वरो वायुस्तस्मै । 'तस्माद्वा एतस्मादात्मन आकाशः संभूत आकाशाद्वायुः' इति श्रुतिः। शक्वने 'शक्लृ शक्तौ' । 'अन्येभ्योपि दृश्यन्ते' इति वनिप्। शक्ताय । ओजिष्ठाय बलिष्ठाय । आज्यमवमृशन्त्यृत्विजः परस्परमद्रोहाय शपथयन्तः । अनाधृष्टमसि । अनाधर्षितमनुल्लङ्घितं च त्वं भवसि । हे आज्य, शपथकारिभिः पूर्वमधृष्टमिदानीमप्यनाधृष्यमनुल्लङ्घनीयं त्वं भवसि । अनभिशस्ति । अभिपूर्वः शंसतिर्गर्हार्थे वर्तते । न विद्यते अभिशस्तिर्यस्य तत्तथोक्तम् । अभिशस्तिपाः अभिशस्तेः पाति रक्षतीत्यभिशस्तिपाः । अनभिशस्ते प्रदेशे स्वर्गादौ नयतीति अनभिशस्तेन्यम् । यत इत्थंभूतमतः त्वामभिमृश्य । अञ्जसा सत्यमुपगेषम् । अञ्जसा प्रगुणेन मार्गेण यथास्वरूपं सत्यमुपगच्छेयम् । त्वं चानेन सत्येन स्विते मा धाः । सु इते साधुगते कल्याणे लोके स्वर्गे मां निदध्याः ॥ ५॥
म० 'ध्रौवं व्रतप्रदाने गृह्णात्यापतय इति द्विश्च स्थाल्याः स्रुवेणेति' (का० ८ । १।१९–२०) । व्रतं प्रदीयते येन पात्रेण तत्र पात्रे ध्रुवास्थमाज्यं गृह्णीयादिति सूत्रार्थः । वायुदेवत्यं यजुः । आ समन्तात्पतति गच्छतीत्यापतिः सततगतिर्वायुस्तस्मै हे आज्य, त्वां गृह्णामि । किंभूताय । परिपतये परितः पततीति परिपतिस्तस्मै सर्वव्यापिने । तथा तनूनप्त्रे तनोति विस्तारयति विश्वमिति तनूरात्मा तस्य नप्त्रे पौत्राय । शाक्वराय शक्नुवन्ति स्थातुं भूतानि यत्र स शक्वर आकाशस्तस्यापत्यं शाक्वरस्तस्मै । 'तस्माद्वा एतस्मादात्मन आकाशः संभूतः । आकाशाद्वायुः' (तैत्ति. आरण्य. ८।१) इति श्रुतेः । तथा शक्वने शक्नोति सर्वं कर्तुमिति शक्वा तस्मै । 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३।२। ७५)। इति वनिप् । ओजिष्ठाय । ओजो बलमस्यास्तीत्योजस्वी। 'अस्मायामेधास्रजो विनिः' (पा० ५।२।१२१) इति विनिप्रत्ययः । अतिशयेनौजस्वी ओजिष्ठस्तस्मै । 'अतिशायने तमबिष्ठनौ' (पा० ५। ३ । ५५) इतीष्ठनि प्रत्यये 'विन्मतोर्लुक्' ( पा० ५। ३ । ६५) इति विनो लोपे टिलोपः । यद्वास्य मन्त्रस्यार्थान्तरं तित्तिरिव्याख्यातम् । हे आज्य, त्वामापतये प्राणदेवताप्रीतये गृह्णाम्यत्र पात्रे स्वीकरोमि । आसमन्तात्पाति देहं रक्षतीत्यापतिः प्राणः । तदाह तित्तिरिः 'प्राणो वा आपतिः प्राणमेव प्रीणातीति' । इष्टप्राप्त्युपायमनिष्टपरिहारोपायं च चिन्तयित्वा परितः पाति पालयतीति परिपतिर्मनस्तत्प्रीत्यै गृह्णामि । तदाह तित्तिरिः । 'मनो वै परिपतिर्मन एव प्रीणाति' इति । तनूनप्त्रे । तनूं शरीरं न पातयति न विनाशयतीति तनूनप्ता जाठरोऽग्निस्तस्मै जाठराग्निदेवताप्रीत्यै आज्य, त्वां गृह्णामि । शाक्वराय शकनशीलः शक्वरः शक्तिमान् पुरुषस्तस्येदं शाक्वरं शक्तिस्वरूपं तस्मै शक्तिस्वरूपाभिमानिदेवताप्रीत्यै त्वां गृह्णामि । शक्वन ओजिष्ठाय । शक्वने इति चतुर्थी सप्तम्यर्थे । शक्वनि शक्तिमति पुरुषे यदोजिष्ठं सारं तस्मै । ओजो नामाष्टमो धातुस्तत्सारमोजिष्ठं तदवष्टम्भेनैव शरीरे शक्तिरवतिष्ठते । ओजःसाराभिमानिदेवताप्रीत्यै त्वां गृह्णामीत्यर्थः । 'तनूनप्त्रमेतद्दक्षिणस्यां वेदिश्रोणौ निधायावमृशन्त्यृत्विजो यजमानश्चानाधृष्टमित्यद्रोहस्तेभ्यः' ( का० ८ । १ । २४-२६) इति । आज्यदैवतं यजुः । हे आज्य, त्वमीदृशमसि । किंभूतम् । अनाधृष्टमितः पूर्वं केनाप्यतिरस्कृतम् । अनाधृष्यं न आधर्षितुं शक्यमितः परमप्यतिरस्कार्यम् । देवानामग्न्यादीनामोजः सारभूतम् । अनभिशस्ति नास्ति अभिशस्तिर्निन्दा यस्य तत् । अभिपूर्वः शंसतिर्गर्हायां वर्तते । अभिशस्तिपाः अभिशस्तिर्ऋत्विजां परस्परविरोधेन निन्दनं तस्याः पाति रक्षतीत्यभिशस्तिपाः । पुंस्त्वं छान्दसम् । अनभिशस्तेन्यम् | अनभिशस्ते अनिन्दिते स्वर्गादौ नयतीत्यनभिशस्तेनीः । द्वितीया प्रथमार्थे । पुंस्त्वं व्यत्ययेन । यतस्त्वमीदृशमसि अतो हे तानूतनप्त्राज्य, अहमृत्विक् अञ्जसा ऋजुमार्गेण मानसकौटिल्यरहितेन सत्यमाज्यस्पर्शरूपं शपथमुपगेषमुपगच्छेयम् । उपपूर्वस्य गायतेर्लेट्युत्तमैकवचने 'सिब्बहुलं लेटि' (पा० ३।१।३४) इति सिपि इडागमे 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) इत्यडागमे च रूपम् । 'इतश्च लोपः परस्मैपदेषु' (पा० ३ । ४ । ९७) इति इलोपः । किंच हे आज्य, स्विते शोभनमार्गे यज्ञकर्मणि मा मां त्वं धाः धेहि स्थापय । दधातेर्लुङि मध्यमैकवचनेऽडभावे रूपम् ॥ ५॥

षष्ठी।
अग्ने॑ व्रतपा॒स्त्वे व्र॑त॒पा या तव॑ त॒नूरि॒यᳪ सा मयि॒ यो मम॑ त॒नूरे॒षा सा त्वयि॑ । स॒ह नौ॑ व्रतपते व्र॒तान्यनु॑ मे दी॒क्षां दी॒क्षाप॑ति॒र्मन्य॑ता॒मनु॒ तप॒स्तप॑स्पतिः ।। ६ ।।
उ० आहवनीये समिधमादधाति । अग्ने व्रतपाः । यजमानोऽनेन यजुषा अग्निशरीरात्मशरीरयोः व्यत्यासं करोति । हे अग्ने व्रतपाः । हे अग्ने, व्रतं पाति रक्षतीति व्रतपाः । व्रतमिति कर्मनाम । त्वे व्रतपाः अवधारणार्थं पुनः संबोधयति । त्वमेव व्रतस्य गोपायिता । तं शरणं व्रजाम इति शेषः । केन प्रकारेणेतिचेत् । या तव तनूरियᳪसा मयि । या इयं तव तनूः सा मयि भवत्विति शेषः । या मम तनूरेषा सा त्वयि । या चैषा मम तनूः सा त्वयि भवत्विति शेषः। एवं कृतशरीरव्यत्यययोरावयोः सह नौ व्रतपते व्रतानि । एकत्र आवयोः हे व्रतपते, व्रतानि कर्माणि सन्त्विति शेषः । किंच अनु मे दीक्षां दीक्षापतिर्मन्यताम् । अनुमन्यतां मे मम दीक्षां दीक्षापतिः सोमः। अनु तपस्तपस्पतिः। अनुमन्यतां च तपस्पतिः सोमः तपः । तपःशब्देन च उपसद उच्यन्ते ॥६॥
म० 'अग्ने व्रतपा इत्याहवनीये समिधमाधायेति' (का० ८।२।४)। आग्नेयं यजुः । यजमानोऽनेन यजुषाग्निशरीरात्मशरीरयोर्व्यत्ययं करोति । हे व्रतपाः सर्वेषां व्रतानां पालकाग्ने, त्वे व्रतपाः त्वमस्मदीयस्य वर्तमानव्रतस्य पालको भवसीति शेषः । विभक्तेः शे आदेशे त्वे इति रूपम् । तव तथाविधस्य व्रतपालकस्य या तनूः शरीरमस्ति सेयं तनूर्मयि भवत्विति शेषः । यो या उ या च मम तनूः मदीयं शरीरं सैषा तनूस्त्वयि भवतु । तथा सति हे व्रतपते, व्रतपालकाग्ने, व्रतान्यनुष्ठेयानि कर्माणि नौ अग्नियजमानयोः सह प्रवर्तन्तामिति शेषः । यावान्व्रतेषु ममादरस्तावानेव तवापि भवत्वित्यर्थः । किंच । दीक्षापतिर्दीक्षायाः पालकः सोमो मे मम दीक्षामनुमन्यताम् । तथा तपस्पतिः उपसद्रूपस्य तपसः पालकः सोमः तपः मदीयमुपसद्रूपमनुमन्यतामित्यनुवर्तते ॥ ६॥

सप्तमी।
अ॒ᳪशुर॑ᳪशुष्टे देव सो॒माप्या॑यता॒मिन्द्रा॑यैकधन॒विदे॑ । आ तुभ्य॒मिन्द्र॒: प्याय॑ता॒मा त्वमिन्द्रा॑य प्यायस्व । आ प्या॑यया॒स्मान्त्सखी॑न्त्स॒न्या मे॒धया॑ स्व॒स्ति ते॑ देव सोम सु॒त्याम॑शीय । एष्टा॒ राय॒: प्रेषे भगा॑य ऋ॒तमृ॑तवा॒दिभ्यो॒ नमो॒ द्यावा॑पृथि॒वीभ्या॑म् ।। ७ ।।
उ० सोममाप्याययन्ति । अᳪ शुरᳪ शुः । चतुरवसाना चतुरशीत्यक्षरा प्रकृतिरुच्यते सौमी । चतुर्थोऽर्धर्चो लिङ्गोक्तदेवताकः । हे सोम अंशुः । वीप्सा । ते तव आप्यायतामुपचीयताम् । कस्मै इन्द्राय । तादर्थ्ये चतुर्थी । एकधनविदे। एकधनान् वेत्ति एकधनवित् तस्मै एकधनविदे। कथंभूतान् वेत्ति। 'एकैकोंशुः सोमस्य देवान्प्रति भक्षत्वेन गच्छन् शतमेकधनानाप्याययति दशदश वा सोमस्य ईदृशी शक्तिः' इतिश्रुतिः। आ तुभ्यमिन्द्रः प्यायताम् । आप्यायतामुपचीयतामिन्द्रः । हे सोम, तुभ्यं त्वदर्थम् । उपचितो हीन्द्रो बहु सोमं पिबति । आत्वमिन्द्राय प्यायस्व आप्यायस्व स्वमिन्द्रार्थमात्मानम् । सोम आप्यायय वर्धय । अस्मान् सखीन् समानख्यानान्परिचारकान् । सन्या धनलोभेन मेधया प्रज्ञया च । स्वस्ति ते देव सोम । स्वस्ति अविनाशः अस्तु तव हे देव सोम । | अहं च सुत्यामशीय व्याप्नुयाम् । यद्वा स्वस्त्यविनाशेन तव संबन्धि सवनं सुत्यां हे देव सोम, अहं व्याप्नुयाम् । प्रस्तरे निह्नुवते । एषा रायः । यजतेः कृतसंप्रसारणस्यैतद्रूपं निष्ठाप्रत्यये परतो दानार्थस्य । आ इष्टा रायः मर्यादया इष्टानि धनानि । दक्षिणाभिप्रायमेतत् । किमर्थमितिचेत् । प्रेषे भगाय ।प्रकृष्टाय इषेऽन्नाद्याय भगाय धनाय च । ऋतमृतवादिभ्यः सत्यमेतच्चिन्तितमस्माकं भूयात्सत्यवादिनामिति विभक्तिव्यत्ययः । षष्ठ्यर्थे चतुर्थी । नमो द्यावापृथिवीभ्याम् । द्यावापृथिव्योः संभोगमनु सर्वं सिध्यतीति नमस्कारः ॥७॥
म०. 'यजमानषष्ठाः सोममाप्याययन्त्यᳪशुरᳪशुरिति' (का० ८ । २ । ६ । ) । प्रकृतिः चतुरवसाना सोमदेवत्या । अन्त्योऽर्धर्चो लिङ्गोक्तदेवतः । चतुरशीत्यक्षरा प्रकृतिः । तत्र मन्त्रद्वयम् । सोमवल्ल्या अवयवोंऽशुरुच्यते । वीप्सा सर्वसंग्रहार्था । हे सोम देव, ते तवांशुरंशुः सर्वोऽप्यवयव इन्द्राय इन्द्रप्रीत्यर्थमाप्यायतां वर्धतां । चिरावस्थानेन यः सोमावयवो म्लानः शुष्कश्च तदुभयं मन्त्रेणाप्यायितं भवति । तदाह तित्तिरिः । 'यद्देवस्य शुष्यति यन्म्लायते तदेवास्यैतेनाप्याययति' इति । किंभूतायेन्द्राय । एकधनविदे एकं मुख्यं धनं सोमरूपं विन्दते लभते स एकधनवित् । यद्वा सोमकण्डनाय यैर्जलमानीयते ते कुम्भा एकधनाः । एकं धनं सोमरूपं यत्रेति तान्वेत्ति जानातीति । सोमकण्डनाय जलकुम्भा आनीता इति जानातीत्यर्थः । किंच हे सोम, तुभ्यं त्वत्पानार्थमिन्द्र आप्यायतां वर्धताम् । तथा हे सोम, त्वमपि इन्द्रायेन्द्रपानायाप्यायस्व सर्वतो वृद्धो भव । अनेनोभयोरपि वृद्धिर्भवति । तदाह तित्तिरिः 'उभावेवेन्द्रं च सोमं चाप्याययति' इति । किंच हे सोम, सखीन् सखिवत्प्रीतिविषयानस्मानृत्विजः सन्या मेधया चाप्यायय प्रवर्धय । सनिर्धनदानं मेधार्थधारणशक्तिः । 'ऋत्विजो वा अस्य सखायः' इत्युक्तेः सखिशब्देन ऋत्विजः । किंच हे सोमदेव, ते तव स्वस्ति क्षेमोऽस्तु । तव प्रसादादहं सुत्यां सोमाभिषवक्रियां समाप्तिदिनमशीय प्राप्नुयाम् । 'प्रत्येत्य प्रस्तरे निह्नुवत उत्तानहस्ता दक्षिणोत्ताना वेष्टा राय' ( का० ८ । २ । ९) इति । सर्वेऽपि ऋत्विजः प्रस्तरे निजहस्तानुत्तानान्कृत्वा दक्षिणहस्तं वोत्तानमुपर्यवस्थाप्य निह्नुवते सोमं परिचरन्तीति सूत्रार्थः । रायो धनानि एष्टाः आ समन्तादिष्टा अस्माकमपेक्षिताः । सोम, त्वत्प्रसादादस्माकं रायः सन्त्विति भावः । यद्वा रायः दक्षिणालक्षणा एष्टाः आ समन्तादत्ताः । यजते रूपम् । दक्षिणा दास्यन्त इति भावः । किमर्थं । प्रेषे भगाय । प्रकर्षेणेष्यत इति प्रेट् तस्मै प्रेष्यमाणाय भगायैश्वर्याय । यद्वा प्रकर्षेण इषे अन्नाय भगाय च । किंच ऋतवादिभ्योऽग्निहोत्रिभ्यः ऋतमवश्यंभाविफलोपेतं कर्म संपादयेति शेषः । ऋतं सत्यं वदन्तीति ऋतवादिनः । यद्वा षष्ठ्यर्थे चतुर्थी । ऋतवादिनामस्माकमृतं कर्मफलमस्त्विति शेषः । द्यावापृथिवीभ्यां तदभिमानिदेवताभ्यां नमोऽस्तु । तयोरनुग्रहेण यजमानायाविघ्नस्थितिर्भवतीति नमस्क्रियते । तदाह तित्तिरिः ‘द्यावापृथिवीभ्यामेव नमस्कृत्यास्मिंल्लोके प्रतितिष्ठति' इति ॥ ७ ॥

अष्टमी।
या ते॑ अग्नेऽयःश॒या त॒नूर्वर्षि॑ष्ठा गह्वरे॒ष्ठा । उ॒ग्रं वचो॒ अपा॑वधीत्त्वे॒षं वचो॒ अपा॑वधी॒त्स्वाहा॑ ।
या ते॑ अग्ने रजःश॒या त॒नूर्वर्षि॑ष्ठा गह्वरे॒ष्ठा । उ॒ग्रं वचो॒ अपा॑वधीत्त्वे॒षं वचो॒ अपा॑वधी॒त्स्वाहा॑ ।
या ते॑ अग्ने हरिश॒या त॒नूर्वर्षि॑ष्ठा गह्वरे॒ष्ठा । उ॒ग्रं वचो॒ अपा॑वधीत्त्वे॒षं वचो॒ अपा॑वधी॒त्स्वाहा॑ ।। ८ ।।
उ० उपसदं जुहोति । ततोऽसुरा एषु लोकेषु पुरश्चक्रिरे अयमयीमेवास्मिँल्लोके रजतामन्तरिक्षे हारिणीं दिवि' इत्यादीतिहासो निदानभूतः । या ते अग्ने । हे अग्ने, या ते तव अयःशया अयसि शेते इत्ययःशया तनूः शरीरम् । वर्षिष्ठा उरुतमा विस्तीर्णतमा । गह्वरेष्ठा निगूढदेशस्थायिनी । सा असुरसंबन्धिनी उग्रं वचः उद्गूर्णं वचः जहिजहि मारयमारय इतीत्थंभूतं वचनम् अपावधीत् अपहन्तु । त्वेषं दीप्तं धृष्टं बलेन ऊर्जस्वितया च युक्तमपहन्तु । हतसर्वोद्यमा निर्वाचः असुराः सन्त्वित्यर्थः । यद्वा या तवाग्नेऽयःशयाः तनूः विस्तीर्णा निगूढदेशस्थायिनी च उद्गूर्णमसह्यं वचनमपहतवती दीप्तं वचनमपहतवती । सैनां पुनरपहन्त्विति शेषः । रजःशया रजतशायिनी । हरिशया हरितसुवर्णशायिनी। एतावदुत्तरयोर्मंत्रयोर्विशेषव्याख्यानम् ॥ ८॥
म० 'उपसदं जुहोति स्रुवेण या ते इति' (का० ८ । २। ३५)। आग्नेयानि त्रीणि यजूंषि । अत्रेयमाख्यायिकास्ति । देवैः पराजिता असुरास्तपस्तप्त्वा त्रैलोक्ये त्रीणि पुराणि चक्रुर्लोहमयीं भूमौ राजतीमन्तरिक्षे हैमीं दिवि । तंदीं देवैस्ता दग्धुमुपसदाग्निराराधितः । तत उपसद्देवतारूपोऽग्निर्यदा तासु पूर्षु प्रविश्य ता ददाह तदा तिस्रः पुरोऽग्नेस्तनवोऽभूवन् । तदभिप्रेत्यायं मन्त्रः । हे अग्ने, या ते तवायःशया तनूः अयसि शेते इत्ययःशया । लोहमयीत्यर्थः । लोहमयपुरव्यापित्वेन तद्रूपा सती । वर्षिष्ठा देवानामतिशयेनाभिमतफलवर्षिणी । तथा गह्वरेष्ठा गह्वरे असुराणां विषमे देशे तिष्ठतीति गह्वरेष्ठा । 'हलदन्तात्सप्तम्याः संज्ञायाम्' (पा० ६ । ३ । ९) इति विभक्तेरलुक् । सा ते तनूरुग्रं वचोऽपावधीत् छिन्धिभिन्धीत्यादिकमसुरप्रोक्तं तीवं वचनं विनाशितवती । तथा त्वेषं वचः असुरोक्तं देवाधिक्षेपरूपं प्रदीप्तं वाक्यमपावधीत् । स्वाहा तथाविधोपकाराय तुभ्यमग्नये हविर्दत्तम् । 'ततोऽसुरा एषु लोकेषु पुरश्चक्रिरे अयस्मयीमेवास्मिंल्लोके रजतामन्तरिक्षे हरिणीं दिवि' (३ । ४ । ४ । ३) | इत्यादिश्रुत्या अयमितिहासो निरूपितः । उग्रत्वेषवचसोरर्थान्तरम् । यथा असुरैः पराजिता देवा अन्नपाने अलभमानाः क्षुत्पिपासाभ्यां वयं पीडिता इति यदूचुस्तदुग्रं वचः । तथा किं वा वीरहत्यादि महापातकमस्माभिः कृतमिति क्लिश्नन्तो यद्वाक्यं संतापहेतुत्वेन दीप्तमूचुस्तत्त्वेषं वचः । । तदाह तित्तिरिः । 'अशनायापिपासे ह वा उग्रं वच एनश्च वै वीरहत्यं च त्वेषं वचः' इति । 'एवमितरे अन्वहᳪरजः' शयाᳪ हरिशयां चेति' (का० ८ । २ । ३८) । यथा प्रथमदिने या ते अग्नेऽयःशयेत्युपसदेवमितरे द्वितीयतृतीये उपसदो द्वितीयतृतीयदिनयोरनुतिष्ठेत् । द्वितीयस्यामुपसदि रजःशयेति तृतीयोपसदि हरिशयेति मन्त्रभेद इति सूत्रार्थः । रजःशया रजतमयी । हरिशया हिरण्यमयी । अन्यत्पूर्ववत् ॥ ८ ॥

नवमी। -
त॒प्ताय॑नी मेऽसि वि॒त्ताय॑नी मेऽस्यव॑तान्मा नाथि॒तादव॑तान्मा व्यथि॒तात् । वि॒देद॒ग्निर्नभो॒ नामा ऽग्ने॑ अङ्गिर॒ आयु॑ना॒ नाम्नेहि॒
योऽस्यां पृ॑थि॒व्यामसि॒ यत्तेऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॑धे वि॒देद॒ग्निर्न॒भो॒ नामा ऽग्ने॑ अङ्गिर॒ आयु॑ना॒ नाम्नेहि॒
यो द्वि॒तीय॑स्यां पृथि॒व्यामसि॒ यत्तेऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॑धे वि॒देद॒ग्निर्न॒भो नामा ऽग्ने॑ अङ्गिर॒ आयु॑ना॒ नाम्नेहि॑ यस्तृ॒तीय॑स्यां पृथि॒व्यामसि॒ यत्तेऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॑धे । अनु॑ त्वा दे॒ववी॑तये ।। ९ ।।
उ० चात्वालं परिलिखति । तप्तायनी मेऽसि । चत्वारो मन्त्राः पृथिवीदेवत्याः । तप्त इव वृत्त्यर्थं पुरुषोऽस्यामेतीति तप्तायनी पृथिवी मे मम असि । द्वितीयं परिलिखति । वित्तायनी अस्यां हि विविदानोऽर्थमुपलभमानः पुरुष एतीति वित्तायनी । वित्तवान्वा भवतीति वित्तायनी मे मम असि । तृतीयं परिलिखति । अवतात् मा नाथितात् । अवतु रक्षतु मां नाथितात् । नाथतिर्याञ्चार्थः। परियाचनात् । यथाहं न याचेयं तथा पृथिवी मां करोत्वित्यर्थः । चतुर्थम् । अवतात् अवतु रक्षतु मां व्यथितात्। 'व्यथ दुःखभयचलनयोः' । भयात् चलनाद्वा पृथिवी । चात्वाले प्रहरन्ति । विदेदग्निः । स वा अग्नीनामेव नामानि गृह्णन्हरति । यां त्वा अमूं देवा अग्ने अग्नीन् होत्राय प्रवृणतेत्यादीतिहासस्तदनुवादिन एते मन्त्राः । विदेत् जानीयात् अग्निः । कतमः । नभः न भातीति नभः स्वकीयं नाम । पुरीषं हरति । अग्ने अङ्गिरः। हे अग्ने अङ्गिरः । 'अङ्गिरा उ ह्यग्निः' इति श्रुतिः । आयुनानाम्ना आयुरित्यनेन नाम्ना अभिहितः । आ इहि आगच्छ । निवपति । योऽस्यां पृथिव्यां यस्त्वमस्यां पृथिव्यां भवसि । यत्ते तव अनाधृष्टं अनाधर्षितं नाम यज्ञियं यज्ञसंपादि तेन नाम्ना त्वा त्वामादधे स्थापयामि । यो द्वितीयस्यां पृथिव्यामसि । पृथिवीशब्देनान्तरिक्षलोक उक्तः । तृतीयस्यां पृथिव्यामसि । पृथिवीशब्देन द्युलोक उक्तः । चतुर्थं प्रहरति । अनु त्वा देव वीतये । देवतर्पणाय अनुहरामि त्वां देववीतये । वीतिस्तर्पणार्थः ॥ ९॥
म० 'शम्यामादाय चात्वालं मिमीते पूर्वेणोत्करᳪ संचरं परिहाप्य शम्यामुदीची निदधाति पुरस्ताच्च दक्षिणतः प्राचीमुत्तरतश्च स्फ्येनान्तर्लिखति तप्तायनीति प्रतिमन्त्रमिति' (का० ५। ३ । २०-२५) । उत्तरवेदिनिचयार्थं यत्र भूप्रदेशे मृदं खनति स प्रदेशश्चात्वाल उच्यते । तत्रोत्करात्पूर्वस्यां संचरपरिहारेणोदगग्रां शम्यां निधाय तत्प्रमाणां तत्पूर्वपार्श्वे स्फ्येन रेखां कुर्यात् । तथा तत्पूर्वपार्श्वे तथैव शम्यां निधाय रेखां कुर्यात् । अभ्यन्तरे एवं दक्षिणोत्तरयोरपि प्रागग्रां शम्यां निधाय रेखाद्वयं कुर्यादिति सूत्रार्थः । अस्यां कण्डिकायां चतुर्दश यजूंषि । तत्राद्यानि चत्वारि पृथिवीदेवत्यानि । तत्र प्रथमं परिलिखति । हे पृथिवि, त्वं मे ममानुग्रहार्थं तप्तायनी असि । तप्तं पुरुषमयति प्राप्नोतीति तप्तायनी । यो हि दरिद्रः क्षेत्ररहितोऽहमिति संतप्यते तं तापोपशान्त्यर्थं प्राप्नोषीत्यर्थः । यद्वा तप्तः सन्नरो यस्यामयति सा तप्तायनी ममासि । द्वितीयं लिखति । वित्तार्थं नरो यस्यामेतीति वित्तायनी । यद्वा वित्तार्थं विर्धनं पुरुषमयतीति वित्तायनी । पृथिव्यां हि प्राप्तायां सस्यनिष्पत्तिद्वारा महद्धनं लभ्यते । तृतीयं परिलिखति । हे पृथिवि, नाथितात् याचितात् मा मां त्वम् अवतात् रक्ष । 'तुह्योस्तातड्-' (पा० ७।१ । ३५) इति हेस्तातङादेशः । यथा कमपि न याचे तथा मां कुर्वित्यर्थः । नाथतिधातुर्याञ्चार्थः । चतुर्थं परिलिखति । 'व्यथ भयचलनयोः' । व्यथितात् भयाञ्चलनात् स्थानभ्रंशाच्च मा मामवतात् रक्ष । 'विदेदग्निरिति चात्वाले प्रहरति स्फ्येनेति' (का० ५ । ३ । २६) । प्रहरति मृत्तिकां खनेदित्यर्थः । आग्नेयं यजुः । हे चात्वालगतमृत्तिके, नभोनामाग्निर्नभःसंज्ञस्त्वदधिष्ठाताग्निर्विदेत् त्वां जानीयात् । मया खन्यमानां त्वां त्वदधिष्ठातानुजानात्वित्यर्थः । अग्निनामोच्चारणपुरःसरं प्रहरेत् । तथाच श्रुतिः ‘स वा अग्नीनामेव नामानि गृह्णन् हरति' (३ । ५। १।३१) इति । 'अग्ने अङ्गिर इति पुरीषं प्रहरतीति' (का० ५। ३ । २७) पुरीषं खाता मृत् । हे अग्ने, हे अङ्गिरः, अङ्गिर्गतिरस्यास्तीति अङ्गिराः । मत्वर्थे रस्प्रत्ययः । तत्संबोधनं हे अग्ने, त्वमायुना नाम्नाभिहितः सन् एहि गच्छ । एति गच्छतीत्यायुरग्नेर्नाम । अधिष्ठातर्यागत एवाधिष्ठेयमागच्छतीत्यग्नेरागमनादिकं प्रार्थ्यते । 'योऽस्यामिति निवपति पूर्वार्धे शङ्कुसहितमिति' ( का० ३ । ५ । २८)। उत्तरवेदिस्थाने मृदं निक्षिपेदित्यर्थः । हे अग्ने, यस्त्वमस्यां दृश्यमानायां पृथिव्यां भूमावसि । किंच ते तव यज्ञियं यज्ञयोग्यं यत् नामाग्निरिति प्रसिद्धमनाधृष्यं केनापि याज्ञिकेनातिरस्कृतं तेन त्वादधे तेन नाम्ना युक्तं वां स्थापयामि । ‘एवं द्विरपरं द्वितीयस्यां तृतीयस्यामिति विशेष इति' (का० ५। ३ । ३०-३१)। यथा पूर्वैस्त्रिभिर्मन्त्रैः खात्वा हृत्वा मृत्प्रक्षिप्ता वेद्यर्थमेतत्त्रितयं पुनरपि द्विः कुर्यादिति मन्त्रयोः तत्रास्यामिति पदस्थाने द्वितीयस्यां तृतीयस्यामिति पाठविशेष इति सूत्रार्थः । यद्यपि पृथिवीशब्देन भूमिरेव तथापि द्वितीयस्यामिति तृतीयस्यामिति विशेषणत्वाद्द्वितीया पृथिव्यन्तरिक्षं तृतीया पृथिवी द्यौः । अन्यत् पूर्ववद्व्याख्येयम् । 'अनु त्वेति चतुर्थं यथार्थमाहृत्येति' (का० ५ । ३ । ३२ ) । यथा पूर्व स्मिन्पर्यायत्रये मृदाहृत्य प्रक्षिप्ता एवं चतुर्थमपि प्रक्षेपणपर्यन्तं मृदाहरणं कुर्यादिति सूत्रार्थः । देववीतये देवानां प्रीतये हे मृत्तिके, त्वा त्वामनु पूर्वोक्तमाहरणत्रयमनुसृत्याहरामीति शेषः ॥ ९॥

दशमी।
सि॒ᳪह्य॒सि सपत्नसा॒ही दे॒वेभ्य॑: कल्पस्व सि॒ᳪह्य॒सि सपत्नसा॒ही दे॒वेभ्य॑:शुन्धस्व सि॒ᳪह्य॒सि सपत्नसा॒ही दे॒वेभ्य॑: शुम्भस्व ।। १० ।।
उ० व्यूहत्युत्तरवेदिम् । सिंह्यसि । 'तेभ्यो ह वाक् चुक्रोध' इत्युपक्रम्य ' सिᳪही भूत्वा ददानाचचार' इतीतिहासो वेदिमन्त्राणां निदानभूतः । या त्वं सिᳪही भवसि । सपत्नसाही सपत्नान्सोढुं शीलमस्या इति सपत्नसाही । शत्रूणामभिभवित्रीत्यर्थः । सा त्वमस्माभिरनुमीयमाना देवेभ्योऽर्थाय कल्पस्व उत्तरवेदिरूपेण क्लृप्ता भव । प्रोक्षति । शुन्धस्व आभिरद्भिराप्लुता सती शुद्धा भव । सिकताः प्रकिरति । शुंभस्व । शुंभतिरलंकारार्थः । अलंकृता भव ॥१०॥
म० सिᳪह्यसीति व्यूहत्युत्तरवेदिᳪशम्यामात्रामिति'(का. ५। ३ । ३२)। विशेषेण पांसुभिः समां करोति । त्रयाणां वेदिर्देवता । वाक् पूर्वमसुरेभ्यः क्रुद्धा सिंही भूला चचारेतीतिहासः । सा वेदिमन्त्रेषूच्यते । हे उत्तरवेदे, या त्वं सिंही सिंहसमाना भूला सपत्नसाही सपत्नान् सहतेऽभिभवतीति सपत्नसाही कर्मण्यण् । शत्रूणामभिभवित्री असि भवसि । अतो देवेभ्यः देवोपकारार्थं कल्पस्व समर्था उत्तरवेदिरूपेण क्लृप्ता भव । 'प्रोक्षत्युत्तरवेदिᳪसिकताश्च प्रकिरति सिᳪह्यसीति प्रतिमन्त्रमिति' (का० ५। ३ । ३७) । हे उत्तरवेदे, शुन्धस्व शुद्धा भव । 'शुन्ध शुद्धौ' । अन्यत्पूर्ववत् । हे उत्तरवेदे, त्वं शुम्भस्व सिकताप्रक्षेपेण शोभिता भव । अन्यत्पूर्ववत् । शुंभतिरलंकारार्थः ॥ १० ॥

एकादशी।
इ॒न्द्र॒घो॒षस्त्वा॒ वसु॑भिः पु॒रस्ता॑त्पातु प्रचे॑तास्त्वा रुद्रैः प॒श्चात्पा॑तु मनो॑जवास्त्वा पि॒तृभि॑र्दक्षिण॒तः पा॑तु वि॒श्वक॑र्मा त्वाऽऽदि॒त्यैरु॑त्तर॒तः पा॑त्वि॒दम॒हं त॒प्तं वार्ब॑हि॒र्धा य॒ज्ञान्निः सृ॑जामि ।। ११ ।।
उ० उत्तरवेदिं प्रोक्षति । इन्द्रघोषः । घोष इति वाङ्नामसु पठितम् । इन्द्रस्त्वां वसुभिः सहितः पुरस्ताद्गोपायतु । प्रचेताः प्रकृष्टज्ञानो वरुणः त्वा रुद्रैः सहितः पश्चात्पातु । मनोजवाः मनोगतिर्यमः त्वां पितृभिः सहितः दक्षिणतः पातु । विश्वकर्मा । विश्वकर्मेति निगदव्याख्यातो मन्त्रः । बहिर्वेदि शेषं निषिञ्चति । इदमहं वेदिशमनेन तप्तमावर्तितं वाः उदकम् बहिर्धा यज्ञात् बाह्यतो यज्ञात् निःसृजामि निक्षिपामि ॥११॥
म० 'वेद्यन्तरे स्थित्वोदङुत्तरवेदिं प्रोक्षतीन्द्रघोष इति प्रतिमन्त्रं प्रतिदिशं यथालिङ्गमिति' (का० ५। ४ । ११)। चतुर्णां यजुषामुत्तरवेदिर्देवता । इन्द्र इति शब्देन घुष्यते विस्पष्टं कथ्यते । यो देवः सोऽयमिन्द्रघोषः वसुभिः अष्टसंख्याकैर्गणदेवैर्युक्तः सन् हे उत्तरवेदे, त्वा त्वां पुरस्तात् पूर्वस्यां दिशि पातु रक्षतु । प्रचेताः प्रकृष्टप्रज्ञो वरुणो रुद्रैरेकादशसंख्यैर्गणदेवैः सहितः पश्चात्पश्चिमायां दिशि त्वां पातु । मनोजवाः मनोवद्वेगयुक्तो यमो देवः पितृभिः स्वर्लोकवासिदेवविशेषैर्युक्तो दक्षिणतः दक्षिणस्यां दिशि त्वा त्वां पातु । विश्वकर्मा विश्वानि कर्माणि जगदुत्पत्त्यादीनि यस्य स विश्वकर्मा आदित्यैः द्वादशसंख्यैर्गणदेवैः सहित उत्तरतः उत्तरस्यां दिशि त्वां पातु । एकदा असुरा देवान्हन्तुमागतास्तदा देवसेनाधिपतय इन्द्रघोषादयश्चतसृषु दिक्षु तानसुरानपाकुर्वन् । तस्मादेतैर्मन्त्रैर्दिक्चतुष्टये रक्षा प्रार्थनीया । तदाह तित्तिरिः 'असुरा वज्रमुद्यम्य देवानभ्यायन्त तानिन्द्रघोषो वसुभिः पुरस्तादपानुदत्' इत्यादि । 'बहिर्वेदि शेषं निषिञ्चतीदमहं तप्तं वारिति' (का० ५ । ४ । १२)। असुरनिवारणाय येनोदकेन प्रोक्षणं कृतं तदुदकमुग्ररूपत्वात्तप्तमित्युच्यते । तप्तमिदं वाः उदकं प्रोक्षणशेषभूतं यज्ञाद्बहिर्धा यज्ञप्रदेशाद्बाह्यप्रदेशेऽहं निःसृजामि निक्षिपामि ॥११॥

द्वादशी।
सि॒ᳪह्य॒सि॒ स्वाहा॑ सि॒ᳪह्य॒स्यादित्य॒वनि॒: स्वाहा॑ सि॒ᳪह्य॒सि ब्रह्म॒वनि॑: क्षत्र॒वनि॒: स्वाहा॑ सि॒ᳪह्य॒सि सुप्रजा॒वनी॑ रायस्पोष॒वनि॒: स्वाहा॑ सि॒ᳪह्यस्याव॑ह दे॒वान् यज॑मानाय॒ स्वाहा॑ भू॒तेभ्य॑स्त्वा ।। १२ ।।
उ० नाभिव्याघारयति । सिᳪह्यसि । सा यदेवादः | सिᳪही भूत्वा शान्तेवाचचारेत्यादि निदानोद्घाटनं श्रौतम् । सिᳪह्यसिस्वाहा । सिᳪह्यसि आदित्यवनिः । 'छन्दसि वनसनरक्षिमथाम्' इति इन्प्रत्ययः । आदित्यादीन्वनुते संभजत इत्यादित्यवनिः । सिᳪह्यसि ब्रह्मवनिः क्षत्रवनिः । | सिᳪह्यसि सुप्रजावनिः रायस्पोषवनिः । ब्रह्मक्षत्रं शोभनां प्रजां रायस्पोषं धनपोषम् । एतान्यादित्यवनिसमानव्याख्यानानि । सिᳪह्यसि आवह देवान् यजमानाय । आगमय देवान् यजमानाय । स्रुचमुद्यच्छति । भूतेभ्यस्त्वा । भूतशब्देन चतुर्विधो भूतग्रामोऽभिधीयते । चतुर्विधाय भूतग्रामाय । उत्पत्तये स्थितये च स्रुचमुद्यच्छामीति शेषः ॥ १२ ॥
म० नाभ्योः श्रोण्यᳪसेषु पञ्चगृहीतं जुहोत्यक्ष्णया दक्षिणेᳪसे श्रोण्याᳪश्रोण्यामᳪसे मध्ये च हिरण्यं पश्यन् सिᳪह्यसीति' (का० ५। ४ । १४) । योऽयमुत्तरवेदेर्नाभ्याख्यो मध्यदेशस्तस्य श्रोण्यंसेषु आग्नेयैशकोणावंसौ वायव्यनैर्ऋतकोणौ श्रोणी तेषु चतुर्षु मध्ये च जुह्वां पञ्चवारं गृहीतेनाज्येन जुहुयात् । कथम् । अक्ष्णया कोणसूत्रप्रदेशेन । तद्यथा । प्रथमं दक्षिणेंऽसे तत उत्तरश्रोणौ ततो दक्षिणश्रोणौ तत उत्तरांसे ततो मध्ये एवं पञ्चसु स्थानेषु हिरण्यं निधाय तदवलोकयन्पञ्चभिर्मन्त्रैर्जुहुयादिति सूत्रार्थः । पञ्च यजुषां वाग्देवता । पुरा कदाचिदुत्तरवेदिदेवता केनापि निमित्तेन देवेभ्योऽपक्रम्यासुरानप्राप्योभयोर्दैवासुरसेनयोर्मध्ये सिंहरूपं धृत्वा तस्थौ । तदयं मन्त्र आह । तदुक्तं तित्तिरिणा 'तेभ्योऽपक्रम्योत्तरवेदिः सिंहीरूपं कृत्वोभयानन्तरातिष्ठत्' इति । तदभिप्रेत्य सिंही उच्यते । हे उत्तरवेदे, त्वं सिंह्यसि सिंहरूपा भवसि तादृश्यै तुभ्यं स्वाहा हविर्दत्तम् । सिंह्यसि किंभूता । आदित्यवनिः आदित्यान् वनुते संभजति प्रीणयतीत्यादित्यवनिः । अन्यत्पूर्ववत् । सिंह्यसि ब्रह्मवनिः क्षत्रवनिः ब्रह्म क्षत्रं च वनुत इति ब्राह्मणजातिक्षत्रियजात्योः प्रीणयितृत्वमत्र विशेषः । सिंह्यसि सुप्रजावनिः पुत्रपौत्रादिरूपायाः शोभनप्रजायाः संपादयित्री । रायस्पोषवनिः सुवर्णरजतादिधनपुष्टेः संपादयित्री । सिंह्यसि यजमानाय यजमानोपकारार्थं देवानावहानयेति विशेषः । 'भूतेभ्यस्त्वेति स्रुचमुद्यच्छतीति' (का० ५ । ४ । १५)। भूतेभ्यः जरायुजाण्डजादिचतुर्विधभूतग्रामप्रीत्यर्थं हे होमविशेषाज्ययुक्ते जुहूः, त्वामुद्यच्छामीति शेषः । तदाह तित्तिरिः ‘भूतेभ्यस्त्वेति स्रुचमुद्गृह्णाति य एव देवा भूतास्तेषां तद्भागधेयं भवति तानेव तेन प्रीणाति' इति ॥ १२ ॥

त्रयोदशी।
ध्रु॒वो॒ऽसि पृथि॒वीं दृ॑ᳪह ध्रुव॒क्षिद॑स्य॒न्तरि॑क्षं दृᳪहाच्युत॒क्षिद॑सि॒ दिवं॑ दृᳪहा॒ग्नेः पुरी॑षमसि ।। १३ ।।
उ० परिधीन्परिदधाति । ध्रुवोऽसि । यस्मादधियज्ञं ध्रुवः स्थिरः त्वमसि तस्मात् पृथिवीं दृᳪह दृढीकुरु । ध्रुवक्षित् । ध्रुवे नित्ये यज्ञे क्षियतीति ध्रुवक्षित् । यस्मात्त्वं ध्रुवक्षिदसि तस्मादन्तरिक्षं दृढीकुरु । अच्युतक्षित् । अच्युते यज्ञे क्षियतीत्यच्युतक्षित्। यस्मात्त्वमच्युतक्षिदसि तस्माद्दिवं दृढीकुरु । संभारानुपनिवपति । अग्नेः पुरीषमसि अग्नेः पूरयितृ भवसि । 'शरीरं हैवास्य पीतदारु' इत्यादिश्रुतिः। संभाराणां शरीरपूरणात्पुरीषत्वमुपपद्यते ॥ १३॥
म०. 'नाभिं पैतदारवैः परिदधाति पूर्ववद् ध्रुवोऽसीति प्रतिमन्त्रमिति' (का० ५। ४ । १६) । पीतदारुर्देवदारुः तदीयैः परिधिभिरुत्तरवेदेर्मध्यदेशरूपां नाभिं परिदध्यात्पूर्ववद्दर्शपौर्णमासेष्टौ यथा पश्चिमदक्षिणोत्तरेषु तथात्रापीति सूत्रार्थः । त्रयाणां परिधयो देवताः । हे मध्यमपरिधे, त्वं ध्रुवः स्थिरोऽसि । अतः पृथिवीं दृंह दृढीकुरु । हे दक्षिणपरिधे, त्वं ध्रुवे स्थिरे यज्ञे क्षियति निवसति ध्रुवक्षिदसि तस्मादन्तरिक्षं दृढीकुरु । अच्युते विनाशरहिते यज्ञे क्षियति निवसतीत्यच्युतक्षित् हे उत्तरपरिधे, त्वं तादृशोऽसि तस्माद्दिवं द्युलोकं दृंह । 'अग्नेः पुरीषमिति निवपति गुग्गुलुसुगन्धितेजनवृष्णेः स्तुकाश्चोपरि शीर्षण्या अभावेऽन्या इति' (का. ५।४ ।१७) गुग्गुलुर्धूपद्रव्यं, सुगन्धितेजनं तृणविशेषः, वृष्णे: स्तुका अविरोमाणि । एतानि नाभौ प्रक्षिपेदिति सूत्रार्थः । हे गुग्गुलुप्रभृतिसंभारसमूह, त्वमग्नेः पुरीषं पूरकमसि । पूरयतीति पुरीषम् । 'अग्नेर्ह्येतत्पुरीषं यत्संभाराः' इति तित्तिरिः ॥ १३ ॥

चतुर्दशी।
यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चित॑: ।
वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुति॒: स्वाहा॑ ।। १४ ।।
उ०. सावित्रं जुहोति । युञ्जते मनः । अधियज्ञानुवादिनी सावित्री जगती यस्मात्सवित्रा प्रसूता ऋत्विजो युञ्जते मनः मनांसि । उत युञ्जते धियः अपि च युञ्जते प्रेरयन्ति धियो वाचः । कथंभूता ऋत्विजः प्रेरयन्ति । विप्राः ब्राह्मणाः शुश्रुवांसोऽनूचानाः । विप्रस्य प्राप्तक्रियाशक्तेः फलदानंप्रति यज्ञस्य कर्मणि ब्राह्मणस्य । श्रुतौ वैश्यक्षत्रियावपि यजमानावग्निष्टोमे दीक्षितोऽयं ब्राह्मण इत्युच्यतेऽतस्तावपि ब्राह्मणशब्देनोच्यते । बृहतो महतः । विपश्चितो मेधाविनः सर्वस्य यज्ञस्य । किंच त एव सवित्रा प्रसूता ऋत्विजः। विहोत्रा दधे विदधत इति वचनविपर्ययः। अथ होत्राः सप्त वषट्कर्तारो होत्रा इत्युच्यन्ते। 'अथ होत्राः संयाजयन्ति' इति श्रुतिः। 'सौत्येऽहनि सप्त होतारो वषट्कुर्वन्ति' तदेतदुच्यते । वयुनाविदेक इत् । वयुनं वेत्तेः कान्तिर्वा प्रज्ञा वा । इच्छब्द एवार्थे । सर्वेषामेवर्त्विजां मध्ये सवित्रा प्रसूतो ब्रह्माख्यः एक एव ऋत्विक् । वयुनावित् त्रिवेदज्ञानान्वितो भैषज्यं करोति । मही देवस्य सवितुः परिष्टुतिः । महती देवस्य दानादिगुणयुक्तस्य सवितुः सर्वस्य प्रसवितुः परिष्टुतिः परिस्तवनम् । को हि नाम यज्ञं प्रेत्यर्त्विजः प्रस्तूय समाप्स्यति यज्ञम् । यज्ञो हि वृष्टिद्वारेण समस्तं जगद्बिभर्तीति सवितुर्महती स्तुतिरित्युक्तम् ॥ १४ ॥
म० अस्ति तावत्प्राचीनवंशा शाला । तस्यामाहवनीयाद्यग्नित्रयमैष्टिकवेदिश्चास्ति । तस्याः शालायाः पुरतः षट्त्रिंशत्पददीर्घा सौमिकी वेदिर्विधेया । तद्वेद्या अग्रभागे पूर्वोक्तोत्तरवेदिः । ततः पश्चान्मध्यभागे हविर्धानाख्यो मण्डपो विधेयः। ततोऽपि पश्चात्सदोऽभिधानोदग्वंशा शाला निर्मातव्या । तस्याः स्थाने प्राचीनशालायाः पुरतो दक्षिणोत्तरभागयोर्हविर्धानसंज्ञके द्वे शकटे स्थापिते स्तः । तच्छकटद्वयं पुरतः प्रवर्त्य तदावरकत्वेन हविर्धानाख्यमण्डपो विधेयः । तच्छकटद्वयं सावित्रहोमादूर्ध्वं प्रवर्तनीयम् । तदाह तित्तिरिः 'सावित्र्यर्चा हुत्वा हविर्धाने प्रवर्तयति' इति । तं होमं विधत्ते कात्यायनः 'चतुर्गृहीतᳪ शालाद्वार्ये जुहोति युञ्जत इति स गार्हपत्योऽतः' (८ । ३ । २९) इति । प्राचीनशालाया द्वारसमीपे पूर्वसिद्ध आहवनीयो वर्तते तस्मिन् जुहुयात्स च पूर्वमाहवनीयोऽपि सन्नुत्तरवेद्याख्येऽन्यस्मिन्नाहवनीये निष्पन्ने सति तदपेक्षया स्वयं गार्हपत्यो भवतीति सूत्रार्थः । सावित्री जगती श्यावाश्वदृष्टा । विप्रस्य ब्राह्मणस्य यजमानस्य संबन्धिनो विप्रा ब्राह्मणा ऋत्विजो मनो युञ्जन्ति लौकिकचिन्ताभ्यो मनो निवार्य यज्ञचिन्तायां नियमयन्ति । उत धिय इन्द्रियाण्यपि यज्ञार्थेषु नियमयन्ति । कीदृशस्य विप्रस्य । बृहतो महतः । तथा विपश्चितः सर्वज्ञस्य । अधीतवेदत्वाद्बृहत्त्वमर्थाभिज्ञत्वाद्विपश्चित्त्वम् । किंभूता विप्राः । होत्राः होमकर्तारः । तदिदं विप्राणां मनोनियमनादिसामर्थ्यमेकइत् एकएव विदधे ससर्ज । किंभूत एकः । वयुनावित् 'वयुनं वेत्तेः कान्तिर्वा प्रज्ञा वा' (निरु० ५। १४) इति यास्कोक्तेर्वयुनं प्रज्ञां सर्वभूतानां मनोवृत्तिं वेत्तीति वयुनवित् । संहितायां दीर्घः । सर्वधीसाक्षीत्यर्थः । नन्वेकस्य सर्वसृष्टौ कथं सामर्थ्यं तत्राह । यतः सवितुः प्रेरकस्यान्तर्यामिणो देवस्य परिष्टुतिः सर्वदोक्ता स्तुतिः मही महती । तथाचाथर्वणिकाः 'यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः' इति । बृहदारण्यकेऽपि स एव सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किंच' (मा० ४ । २ । २४ । का० ४।४ । २१) इति । श्वेताश्वतराश्च 'परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च' इति । यद्वास्य मन्त्रस्यार्थान्तरम् । विप्रा ऋत्विजो विपश्चितो यज्ञस्य कर्मणीति शेषः । मनो धियो वाचश्च युञ्जते प्रयुञ्जते । 'यज्ञो वै विपश्चित्' (३ । ५। ३ । ११) इति श्रुतेः । किंभूतस्य विपश्चितः । विप्रस्य विशेषेण प्राति पूरयति फलमिति विप्रस्तस्य । फलदानं प्रति प्राप्तक्रियाशक्तेः । 'प्रा पूर्तौ' । तथा बृहतः महतः सर्वसाधनसंपन्नस्य । होत्रा होतारः सप्त वषट्कर्तारः विदधे विदधते स्वस्वकर्मणीति शेषः । पुरुषवचनव्यत्ययः । तन्मध्ये वयुनाविदेकइत् त्रिवेदज्ञानवान्ब्रह्माख्य एक एव । सवितुर्देवस्य मही महती परिष्टुतिः स्तवनम् । ब्रह्माद्या ऋत्विजो यत्कर्म कुर्वते तत्सवितुः प्रेरणेनैवेति सवितुर्महती स्तुतिरित्यर्थः ॥ १४ ॥

पञ्चदशी।
इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दम् । समू॑ढमस्य पाᳪसु॒रे स्वाहा॑ ।। १५ ।।
उ० दक्षिणे वर्त्मनि हिरण्यं निधाय जुहोति । इदं विष्णुः । गायत्री वैष्णवी । इदं जगत् विष्णुर्विचक्रमे विक्रान्तवान् । सर्वप्राणिनो हि भूतेन्द्रियमनोजीवभावेनाविशतीति विष्णुः । किंच त्रेधा निदधे पदम् । पद्यते ज्ञायतेऽनेनेति पदम् । भूम्यन्तरिक्षद्युलोकेषु अग्निवायुसूर्यरूपेण त्रिधा निहितवान् पदम् । किंच समूढमस्य पाᳪसुरे । अस्यैव विष्णोरन्यत्पदान्तरं विज्ञानघनानन्दमजमद्वैतमक्षरमित्येवंलक्षणम्, समूढमन्तर्हितमविज्ञातमकृतात्मभिः । पांसुरे । लुप्तोपममेतत् । पांसुल इव प्रदेशे निहितं न दृश्यते तत्समूढमिति द्रष्टव्यमिति वाक्यशेषः । तदुक्तम् । 'तद्विष्णोः परमं पदᳪ सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम्' इति ॥ १५॥
म० 'दक्षिणे वर्त्मनि दक्षिणस्यानसो हिरण्यं निधायाभिजुहोतीदं विष्णुरिति' ( का० ८।३ । ३१) । दक्षिणशकटसंबन्धिदक्षिणचक्रमार्गे हिरण्यं निधाय तत्रैष होमः । विष्णुदेवत्या गायत्री मेधातिथिदृष्टा । विष्णुः त्रिविक्रमावतारं कृत्वा इदं विश्वं विचक्रमे विभज्य क्रमते स्म । तदेवाह । त्रेधा पदं निदधे भूमावेकं पदमन्तरिक्षे द्वितीयं दिवि तृतीयमिति क्रमादग्निवायुसूर्यरूपेणेत्यर्थः । पांसवो भूम्यादिलोकरूपा विद्यन्ते यस्य तत्पांसुरं तस्मिन्पांसुरे अस्य विष्णोः पदे समूढं सम्यगन्तर्भूतं विश्वमिति शेषः । यद्वायमर्थः । अस्य विष्णोः पदं पद्यते ज्ञायत इति पदमद्वैताख्यं स्वरूपं समूढमन्तर्हितमज्ञातमकृतात्मभिः । कस्मिन्निव । पांसुरे इव लुप्तोपमानं । पांसुले रजस्वले प्रदेशे निहितं यथा न ज्ञायते तद्वत् । तदुक्तं 'तद्विष्णोः परमं पदᳪ सदा पश्यन्ति सूरयः' (अध्या० ६ । ५) इति । स्वाहा तस्मै विष्णवे हविर्दत्तम् ॥ १५ ॥

षोडशी। ।
इरा॑वती धेनु॒मती॒ हि भू॒तᳪ सू॑यव॒सिनी॒ मन॑वे दश॒स्या । व्य॑स्कभ्ना॒ रोद॑सी विष्णवे॒ते दा॒धर्थ॑ पृथि॒वीम॒भितो॑ म॒यूखै॒: स्वाहा॑ ।। १६ ।।
उ० द्वितीयस्यानसो वर्त्मनि जुहोति । इरावती । वैष्णवी त्रिष्टुप् । हे विष्णो, यस्मात्तव प्रशासनमनुकुर्वन्त्यौ द्यावापृथिव्यौ इरावती सस्यवत्यौ । धेनुमती धेन्वादिभिः पशुभिः तद्वत्यौ । हिशब्दो यस्मादर्थे व्याख्यातः । एवंभूतं भूताम् अभूतामिति पुरुषव्यत्ययः । संवृत्ते इत्यर्थः । सूयवसिनी शोभनयवसवत्यौ सुसस्यवत्यौ । मनवे यजमानाय । दशस्या दात्र्यौ यज्ञसाधनानाम् । अतः कारणात् व्यस्कभ्नाः । स्कभ्नोतिः स्तम्भनार्थः । स्तम्भितवानसि । । रोदसी द्यावापृथिव्यौ एते । किंच । दाधर्थ धारयसि । पृथिवीं द्यां चेत्यध्याहारः । अभितः इतश्चेतश्च । मयूखैः रश्मिभिः । । यस्मात्त्वमेवंप्रभावस्तस्मात्त्वां स्तुम इति शेषः ॥ १६ ॥
म० 'स्रुक्स्थाल्यौ प्रतिगृह्य प्रतिप्रस्थातोत्तरस्येरावती इति ' पूर्ववदिति' (का० ८ । ३ । ३५) यथा दक्षिणशकटदक्षिणचक्रमार्गे अध्वर्युर्हुतवान् तथा उत्तरशकटसंबन्ध्युत्तरचक्रमार्गे प्रतिप्रस्थाता जुहुयादिति सूत्रार्थः । वैष्णवी त्रिष्टुब् वसिष्ठदृष्टा । हे रोदसी द्यावापृथिव्यौ, युवामीदृश्यौ भूतं भवतम् । भवतेर्लुङि मध्यमद्विवचने रूपम् । अडभावश्छान्दसः । किंभूते युवाम् । इरावती इरावत्यौ अन्नवत्यौ सस्यवत्यौ । धेनुमती बहुधेनुयुक्ते । सुयवसिनी सुष्ठु यवसानि विद्यन्ते ययोस्ते सुयवसिनी । यवसशब्देनात्राभ्यवहार्याणि वस्तूनि । तथा मनवे दशस्या । मनुते जानातीति मनुर्ज्ञानवान्यजमानः तस्मै दशस्या दात्र्यौ यज्ञसाधनानाम् । 'दाशृ दाने' दाशतस्ते दशस्या । असुन्प्रत्यये उपधाह्रस्वः ओविभक्तेर्यादेशश्च । एवं द्यावापृथिव्यौ संप्रार्थ्य विष्णुमाह । हे विष्णो, एते रोदसी त्वं व्यस्कभ्नाः विभज्य स्तम्भितवानसि । किंच पृथिवीं मयूखैः स्वतेजोरूपैर्नानाजीवैर्वराहाद्यनेकावतारैर्वा अभितो दाधर्थ दधर्थ सर्वतो धारितवानसि । 'तुजादीनां दीर्घोऽभ्यासस्य' (पा० । ६ । १ । ७) इत्यभ्यासदीर्घः । स्वाहा तस्मै विष्णवे हविर्दत्तम् ॥ १६ ॥

सप्तदशी।
दे॒व॒श्रुतौ॑ दे॒वेष्वा घो॑षतं॒ प्राची॒ प्रेत॑मध्व॒रं क॒ल्पय॑न्ती ऊ॒र्ध्वं य॒ज्ञं न॑यतं॒ मा जि॑ह्वरतम् ।
स्वं गो॒ष्ठमा व॑दतं देवी दुर्ये॒ आयु॒र्मा निर्वा॑दिष्टं प्र॒जां मा निर्वा॑दिष्ट॒मत्र॑ रमेथां॒ वर्ष्म॑न् पृथि॒व्याः ।। १७ ।।
उ० पत्नी अक्षधुरावनक्ति । देवश्रुतौ । देवा एते धुरौ शृण्वन्ति इति देवश्रुतौ । ये युवां देवश्रुतौ ते देवेषु आघोषतम् । 'घुषिर् शब्दे' । आशब्दयतम् । वाचयति । प्राचीप्रेतम् । हे हविर्धाने प्राची प्रागञ्चने, 'इण् गतौ' । प्रइतं प्रेतं प्रगच्छतम् । अध्वरं कल्पयन्ती यज्ञं समर्थं कुर्वाणे । किंच ऊर्ध्वं यज्ञं नयतम् । ऊर्ध्वं स्वर्गं प्रति यज्ञं नयतम् । मा जिह्वरतम् । 'ह्वल चलने' । मा चलनं कुरुतम् । अचलितप्रतिष्ठिते युवां भवतम् । शब्दं कुर्वत्यनसि वाचयति । स्वं गोष्ठम् । हे हविर्धाने, स्वमात्मीयं गोष्ठं स्थानम् । आवदतं उच्चारयतम् । हे देवि दानादिगुणयुक्ते, हे दुर्ये गृहभूते । आमन्त्रितद्विवचनान्ते द्वे पदे । किंच आयुर्मा निर्वादिष्टम् । निरुपसर्गः कुत्सायाम् । निकृष्टमल्पं पशुधनादिरहितमायुर्मा निर्वादिष्टं मा उच्चारयतम्। प्रजा मानिर्वादिष्टम् । प्रजां निकृष्टाम् निरंशां मा उच्चारयतम् । युवाभ्यामुच्चारितं तथैव स्यादित्यभिप्रायः । नस्यस्थे करोति । अत्र रमेथाम् अस्मिन् प्रदेशे रमेथां रतिं कुरुतम् । वर्ष्मन् 'न ङिसंबुद्ध्योः' इति नलोपाभावः। 'सुपांसुलुक्' इति सप्तम्या लोपः। पृथिव्याः ॥ १७ ॥
म० 'दक्षिणया द्वारानीता पत्नी पाणिभ्याᳪ शेषं प्रतिगृह्याक्षधुरावनक्ति पराग्देवश्रुताविति' (का० ८ । ३ । ३२) प्रतिप्रस्थात्रा समानीता पत्नी होमशेषेणाज्येनाक्षस्योभावग्रभागावञ्ज्यादिति सूत्रार्थः । अक्षधुरौ देवते । देवेषु श्रूयते देवश्रुतौ । शृणोतेः क्विप्तुगागमश्च । हे देवश्रुतौ देवसभायां प्रसिद्धे अक्षधुरौ अक्षाग्रभागौ, युवां यजमानोऽयं यक्ष्यतीति देवेषु आघोषतम् उच्चध्वनिना कथयतम् । 'घुषिर् शब्दे' । 'प्राची प्रेतमिति वाचयतीति' (का० ८ । ४ । ३) हविर्धानाख्ये यदा प्रवर्तेते तदा यजमानं वाचयेदिति सूत्रार्थः । त्रयाणां यजुषां हविर्धाने देवते । हे उभे शकटे, युवां प्राची प्राङ्मुखे प्रेतं प्रकर्षेण गच्छतम् । प्रागञ्चतस्ते प्राची। किंभूते युवाम् । अध्वरं कल्पयन्ती इदं कर्म समर्थं कुर्वाणे । किंच यज्ञमिममूर्ध्वं नयतं उपरिवर्तिदेवान्प्रति प्रापयतम् । मा जिह्वरतं मा कुटिले भवतम् । 'ह्वृ कौटिल्ये' णिजन्तस्य लुङि रूपम् । यद्वा 'ह्वल चलने' मा चलतम् । 'स्वं गोष्ठमिति च खर्जतीति' (का० ८ । ४ । ४) । प्रवर्त्यमानयोः शकटयोरक्षे खर्जति ध्वनिं कुर्वति सति स्वं गोष्ठमिति यजमानं वाचयेदिति सूत्रार्थः। दुर्यशब्दो गृहवाची । 'गृहा वै दुर्याः' (३ । ५। ३ । १८) इति श्रुतेः । तेन गृहसदृशे शकटे लक्ष्यते । हे देवि दुर्ये गृहसदृशशटकद्वयरूपे देवते, स्वं गोष्ठं स्वकीयं गोस्थानमावदतं सर्वतः कथयतम् । योऽयमक्षशब्दस्तेन यजमानस्य गृहं बहूनां गवां यथा स्थानं भवति तथा कथयतमित्यर्थः । युवाभ्यामुञ्चारितं तथैव स्यादिति भावः । किंच आयुर्मा निर्वादिष्टं यजमानस्य यावदायुरस्ति तावत्सर्वं मा निराकार्ष्टम् । वदतेर्लुङि मध्यमद्विवचने रूपम् । यद्वा निकृष्टं पशुधनादिरहितं मा उच्चारयतम् । प्रजां मा निर्वादिष्टं यजमानस्य प्रजां पुत्रादिरूपां मा निराकार्ष्टम् । अनेनाक्षशब्देनायुःप्रजयोर्निराकरणं मा भूदिति भावः । उभयबद्धो योऽक्षः स दुष्टवाक् वरुणदेवरूपः । तदाह श्रुतिः 'वरुणो वा एष दुर्वागुभयतोबद्धो यदक्षः' - (३ । ५ । ३ । १८) इति । तस्माच्छापरूपदुर्वाक्यपरिहारायाशीर्वादरूपं सुवाक्यमनेन मन्त्रेण प्रार्थ्यते । 'पश्चादुत्तरवेदेस्त्रिषु प्रक्रमेषु मत्या वा नभ्यस्थे अभिमन्त्रयतेऽत्र रमेथामिति' (का० ८ । ४ । ५)। वेदिनिकटस्थापिते उभे शकटे अमिमन्त्रयेदिति सूत्रार्थः। हे शकटे, पृथिव्याः वर्ष्मन् वर्ष्मणि भूमेः शरीरभूतेऽत्रास्मिन्देवयजने युवां रमेथां क्रीडां कुरुतं वर्ष्मणि स्तीर्णे वा । 'सुपां सुलुक्' (पा. ७।१।३९ )। इति ङेर्लोपे 'न ङिसंबुद्ध्योः' (पा० ८ । २ । ८) इति नलोपाभावः । देवयजनस्य भूमेः शरीरत्वं तित्तिरिणोक्तम् 'वर्त्म ह्येतत्पृथिव्या यद्देवयजनम्' इति ॥ १७ ॥

अष्टादशी।
विष्णो॒र्नुकं॑ वी॒र्या॒णि॒ प्र वो॑चं॒ यः पार्थि॑वानि विम॒मे रजा॑ᳪसि ।
यो अस्क॑भाय॒दुत्त॑रᳪ स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यो विष्ण॑वे त्वा ।। १८ ।।
उ० दक्षिणमुपस्तभ्नाति । विष्णोर्नुकमित्याद्यास्तिस्रो वैष्णव्यस्त्रिष्टुभः । द्वयोरन्ते विष्णवे त्वेति यजुः । नुकमिति निपातसमुदायोऽवधारणार्थः । विष्णोरेव वीर्याणि प्रवोचं ब्रवीमि । यो विष्णुः पार्थिवानि विममे पृथिव्यन्तरिक्षद्युलोकानि विममे निर्मितवान् । रजांसि । 'लोका रजांस्युच्यन्त' इति रजःशब्दो लोकवचनः । किंच यश्च विचक्रमाणस्त्रेधा उरुगायः । उरुगमनः अस्कभायत् स्तम्भितवान् । उत्तरं द्युलोकाख्यम् । सधस्थं सहस्थानं देवानाम् । 'सधमादस्थयोश्छन्दसि' इति सहशब्दस्य सधादेशः । तस्य विष्णोर्वीर्याणि प्रवोचमिति संबन्धः । स्थूणमुपनिहन्ति विष्णवे त्वा। निहन्मीति शेषः ॥ १८॥
म० 'उत्तरेण परिक्रम्य दक्षिणमुपस्तभ्नाति विष्णोर्नुकमिति' (का० ८ । ४ । ६) । दक्षिणशकटस्याग्रं ओढुमाधारभूतं काष्ठं स्थापयेदित्यर्थः । तिस्रो वैष्णव्यस्त्रिष्टुभः आद्ये यजुरन्ते । विष्णवे त्वेति यजुः । नुकमित्यव्ययमवधारणार्थम् । विष्णोरेव वीर्याणि कर्माण्यहं प्रवोचं प्रब्रवीमि । प्रपूर्वस्य वचेर्लुङि रूपं वचेरुम् अडभावः । कानि कर्माणीत्याह । यो विष्णुः पार्थिवानि रजांसि पृथिव्यन्तरिक्षद्युलोकस्थानानि विममे निर्ममे । 'लोका रजांस्युच्यन्ते' (निरु० ४ । १९) इति यास्कोक्तेः रजःशब्दो लोकवाचकः । यद्वा यः पार्थिवानि रजांसि पार्थिवपरमाणून्विममे परिगणितवान् । यश्च विष्णुरुत्तरमुपरितनं सधस्थं देवानां सहवासस्थानं द्युलोकरूपमस्कभायत् यथाधो न पतति तथा स्तम्भितवान् । सह देवाः तिष्ठन्ति यस्मिंस्तत्सधस्थम् । 'सधमादस्थयोश्छन्दसि' (पा० ३ । ६ । ९६) इति सहस्य सधादेशः । 'स्कम्भ रोधने' । 'क्र्यादिभ्यः श्ना' । 'हलः श्नः शानज्झौ' (पा० ३ । १। ८३) इति हेरनुवृत्तौ 'छन्दसि शायजपि' (पा० ३ । १। ८४) इति । यद्यपि हौ परे श्नाप्रत्ययस्य शायजादेशोऽविहितस्तथाप्यत्र 'व्यत्ययो बहुलम्' (पा० ३।१ । ८५) इति लड्यपि श्नः शायजादेशे अस्कभायदिति रूपम् । कीदृशो विष्णुः । त्रेधा विचक्रमाणस्त्रिषु लोकेष्वग्निवायुसूर्यरूपेण पदत्रयं निदधानः । विपूर्वस्य क्रमतेः 'लिटः कानज्वा' (पा० ३ । २ । १०६) इति कानचि रूपम् । तथा उरुगायः उरुर्गायो गमनं यस्य उरुभिर्महात्मभिर्गीयत इति वा 'दक्षिणतः स्थूणामुपनिहन्ति विष्णवे त्वेति' (का० ८ । ४ । ७) हे स्थूणे काष्ठ, विष्णवे हविर्धानशकटाभिमानिविष्णुप्रीत्यर्थं त्वां निहन्मि निखनामीति शेषः ॥ १८ ॥

एकोनविंशी।
दि॒वो वा॑ विष्ण उ॒त वा॑ पृथि॒व्या म॒हो वा॑ विष्ण उ॒रोर॒न्तरि॑क्षात् ।
उ॒भा हि हस्ता॒ वसु॑ना पृ॒णस्वा प्र य॑च्छ॒ दक्षि॑णा॒दोत स॒व्याद्विष्ण॑वे त्वा ।। १९ ।।
उ० उत्तरमुपस्तभ्नाति । दिवो वा विष्णो हे विष्णो, द्युलोकात् वा उत वा पृथिव्याः अपि वा पृथिवीलोकात् । महो वा विष्णो उरोरन्तरिक्षात् महतो वा विष्णो उरोर्विस्तीर्णाद् अन्तरिक्षलोकात् । एतेभ्यो वा त्रिभ्यो लोकेभ्यो धनमादाय अन्यतो वा यतःकुतश्चित् । उभा उभौ हस्तौ वसुना धनेन पृणस्व आपूरय । तत आप्रयच्छ आभिमुख्येन देहि । दक्षिणात् आ उत सव्यात् । पञ्चम्याः तृतीयया व्यत्ययः। दक्षिणेन हस्तेन अपिच सव्येन हस्तेन । उभाभ्यां हस्ताभ्यामकृपणतया प्रयच्छेत्ययमभिप्रायः । विष्णवे त्वेति पूर्ववत् ॥ १९ ॥ .
म०. 'दिवो वेत्युत्तरं प्रतिप्रस्थातोत्तरस्थूणं पूर्ववदिति' । (का० ८ । ४ । ८-९)। यथाध्वर्युर्दक्षिणशकटं मन्त्रेणोपष्टभ्य विष्णवे त्वेति स्थूणां निखातवानेवं प्रतिप्रस्थातोत्तरशकटे कुर्यादिति सूत्रार्थः । हे विष्णो, दिवो द्युलोकादुत अपिच पृथिव्याः भूलोकात् वापिच महो महतः उरोविस्तीर्णादन्तरिक्षलोकाद्वा समानीतेन वसुना द्रव्येण उभा हि हस्ता उभावपि स्वकीयौ हस्तौ पृणस्व पूरयस्व । ततो धनपूर्णाद्दक्षिणादुत सव्याद्वामाद्धस्तात् आ प्रयच्छ बहुकृत्व आवृत्य प्रकृष्टं मणिमुक्तादिधनमस्मभ्यं देहि । विष्णवे त्वेत्ययं मन्त्रः पूर्ववत् ॥१९॥

विंशी।
प्र तद्विष्णु॑ स्तवते वी॒र्ये॒ण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः ।
यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑ ।। २० ।।
उ० मध्यमं छदिरालभ्य वाचयति । प्रतद्विष्णुः । उत्तरोऽर्धर्चः प्रथमं व्याख्यायते यद्वृत्तयोगात् । यस्य विष्णोः उरुषु महत्सु त्रिषु विक्रमणेषु लोकेषु अधिक्षियन्ति उपरि निवसन्ति । भुवनानि भूतजातानि विश्वा विश्वानि सर्वाणि । इदानीं प्रथमोऽर्धर्चः । प्रतद्विष्णुः स्तवते स विष्णुः स्तूयते । यकः स्थाने शप्छान्दसः । वीर्येण वीरकर्मणा । कथं स्तूयते । मृगो न भीमः । यथा मृगः सिंहः स्तूयते । भीमः बिभेत्यस्मादिति भीमः । कुचरः कुत्सितचारी प्राणिवधजीवनः । गिरिष्ठाः पर्वतस्थानः । यद्वा हीनोपमानत्वादन्यथा व्याख्यायते । सर्वैरेतैर्मृगादिभिः पदैः इन्द्रो विशिष्यते । स हि विष्णोरुपमानं भवितुमर्हति । मृगो न । 'मृजूष् शुद्धौ'। यथा शुद्धोपहतपाप्मा इन्द्रः । भीमो भीषणः । कुचरः क्वायं चरतीति कुचरः । कुशब्दस्य संप्रसारणं छान्दसम् । गिरिष्ठाः गिरिर्मेघः तत्र इन्द्रो वृष्ट्यर्थं तिष्ठति । अथ कौ पृथिव्यां चरतीति कुचरः मत्स्यकूर्मादिरूपेण । अथ गिरि वेदवाक्ये तिष्ठति गिरिष्ठाः । अथ देहोऽपि गिरिरुच्यते तस्मिन्नात्मत्वेन तिष्ठतीति गिरिष्ठाः ॥ २० ॥
म० 'प्रतद्विष्णुरिति वाचयति मध्यमं छदिरालभ्येति' (का. ८ । ४ । १३) । तत् स प्रसिद्धो विष्णुः वीर्येणासाधारणवीरकर्मणा प्रस्तवते प्रस्तूयते गर्वैरिति शेषः । तदिति लिङ्गव्यत्ययः । प्रस्तवते इत्यत्र व्यत्ययेन यकः स्थाने शप्प्रत्ययः। किंभूतो विष्णुः । 'मृजूष् शुद्धौ मार्ष्टि शोधयतीति मृगः। नोऽनर्थकः पादपूरणः । भीमः बिभेत्यस्मादसौ भीमः । 'भीमादयोपादाने' (पा० ३ । ४ । ७४ ) । इति मप्रत्ययः। कुचरः कौ पृथिव्यां मत्स्यादिरूपेण चरतीति कुचरः । गिरिष्ठाः गिरि वेदवाण्यां गिरौ देहे वान्तर्यामिरूपेण तिष्ठतीति गिरिष्ठाः । अथवा न इवार्थः । गिरिष्ठाः पर्वतस्थितः कुचरः कुत्सितचारी प्राणिवधजीवनो भीमः भयंकरो मृगो न सिंह इव । स यथा वीर्येण स्तूयते तद्वत् । स को विष्णुरित्याह । यस्य विष्णोरुरुषु प्रभूतेषु त्रिषु विक्रमणेषु पादप्रक्षेपणस्थानेषु लोकेषु विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि अधिक्षियन्ति अधिनिवसन्ति स स्तूयत इत्यर्थः ॥२०॥

एकविंशी।
विष्णो॑ र॒राट॑मसि॒ विष्णो॒: श्नप्त्रे॑ स्थो विष्णो॒: स्यूर॑सि॒ विष्णो॑र्ध्रु॒वो॒ऽसि ।
वै॒ष्ण॒वम॑सि॒ विष्ण॑वे त्वा ।। २१ ।।
उ० रराट्यामालभ्य वाचयति । विष्णोर्रराटम् । विष्णोर्यज्ञस्य ललाटमसि । उत श्रप्यानुपस्पृश्य वाचयति विष्णोः श्नप्त्रेस्थः । विष्णोर्यज्ञस्य श्नप्त्रे सृक्किणी स्थः । ओष्ठसंधिरुच्यते श्नप्त्रशब्देन । सीव्यति । स्यूरसि । 'षिवु तन्तुसम्ताने' । सीव्यत्यनेनेति स्यूः सूचिर्वा । ग्रन्थिं करोति । विष्णोर्ध्रुवोऽसि ग्रन्थिरसि । समाप्तं स्पृशति । वैष्णवमसि विष्णुर्देवतास्य वैष्णवम् । विष्णवेर्थाय त्वामुपस्पृशामीति शेषः ॥ २१ ॥
म० 'विष्णो रराटमिति रराट्यमिति' । (का० ८।४ । १५) वाचयतीत्यनुवर्तते । हविर्धानाख्ये द्वे शकटे दक्षिणोत्तरभागयोः स्थापयित्वा तदावरकत्वेन परितो हविर्धानाख्यं मण्डपं कुर्यात् । स च मण्डपो विष्णुदेवताकत्वाद्विष्णुरित्युपचर्यते। विष्णोश्च मूर्तिधरस्य सर्वावयवसद्भावाल्ललाटाख्योऽवयवोऽस्ति । तद्वद्धविर्धानमण्डपस्यापि पूर्वद्वारवर्तिस्तम्भयोर्मध्ये काचिद्दर्भमाला ग्रथ्यते । तां मालां तद्बन्धनाधारतिर्यग्वंशं वा संबोध्य पुरुषललाटत्वेनोपचर्यते । दर्भमयमालाधारवंश । त्वं विष्णोः विष्णुमूर्तित्वेनोपचरितस्य हविर्धानमण्डपस्य रराटमसि ललाटस्थानीयोऽसि । 'विष्णोः श्नप्त्रे स्थ इत्युच्छ्राय्याविति' (का. ८।४।१६)। उच्छाय्यौ रराटीप्रान्तावुपस्पृश्य वाचयेदित्यर्थः । हे रराट्यन्तौ, युवां विष्णोः विष्णुनामकस्य हविर्धानमण्डपस्य श्नप्त्रे स्थः ओष्ठसन्धिरूपे भवथः । 'द्वार्याः परिषीव्यति लस्यूजनि प्रतिहृतया रज्वा विष्णोः स्यूरसीति' ( का. ८।४।१८)। बृहत्सूचिसमर्पितया रज्ज्वा द्वारशाखाः सीव्यतीति सूत्रार्थः । हे लस्यूजनि, त्वं विष्णोर्हविर्धानस्य स्यूरसि । सीव्यन्त्यनेनेति स्यूः सूचिः । 'षिवु तन्तुसन्ताने । क्विपि 'च्छ्वोः शूडनुनासिके च' (पा० ६ । ४ । १६) इति वस्योडादेशः । 'विष्णोर्रुे वोऽसीति ग्रन्थिं करोति' ( का० ८।४।१६) हे रज्जुग्रन्थे, त्वं विष्णोः हविर्धानस्य ध्रुवोऽसि ग्रन्थिर्भवसि । 'प्राग्वᳪशᳪ हविर्धानं निष्ठाप्य वैष्णवमसीत्यालभते' (का. ८ । ४ । २१) प्रागग्रैर्वंशैर्मण्डपं निर्मायानेन मन्त्रेण स्पृशेदिति सूत्रार्थः । हे हविर्धान, त्वं वैष्णवमसि विष्णुदेवताकत्वेन तत्संबन्धि भवसि । तस्माद्विष्णवे विष्णुप्रीत्यर्थं त्वा त्वां स्पृशामीति शेषः ॥ २१ ॥

द्वाविंशी।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
आ द॑दे॒ नार्य॑सी॒दम॒हᳪ रक्ष॑सां ग्री॒वा अपि॑ कृन्तामि ।
बृ॒हन्न॑सि बृ॒हद्र॑वा बृह॒तीमिन्द्रा॑य॒ वाचं॑ वद ।। २२ ।।
उ० इत उत्तरं उपरवमन्त्राः प्राग्देवस्य त्वेत्यस्मान्मन्त्रात् । अभ्रिमादत्ते । देवस्य त्वेति व्याख्यातो मन्त्रः। आददे गृह्णामि । नार्यसि । नारीति प्रशस्यतेऽभ्रिः । नरस्यापत्यं स्त्री नारी । परिलिखति । इदमहम् । उपरवान् परिलिखामि। इदमहं रक्षसां यज्ञविध्वंसिनां ग्रीवा अपि कृन्तामि छिनद्मि। . यथापरिलिखितं खनति । बृहन्नसि । यस्मात्त्वं हे उपरव, बृहन्महानसि कर्मणा परिमाणेन च । बृहद्रवाश्च बृहन्महत् रवोऽस्येति बृहद्रवाः । तस्माद् बृहतीं महतीमिन्द्राय वाचं वद ॥ २२॥
म० इत उत्तरमुपरवमन्त्रा देवस्य त्वेत्यस्मात् (क० २६) प्राक् । 'दक्षिणस्यानसोऽधः प्रउगं खनत्युपरवानभ्यादिकरोत्यवटवदिति' (का ८ । ४ । २५)। यथा यूपस्यावटः क्रियते तथात्राप्युपरवनामकांश्चतुरो गर्तानभ्रिस्वीकारमारभ्य परिलेखनपूर्वकं कुर्यादित्यर्थः । अवटार्थमभ्रिस्वीकारमेवाह 'देवस्य त्वेत्यभ्रिमादायेति' (का० ६ । २ । ८)। अभ्रिशब्देन काष्ठनिर्मितं खननसाधनमुच्यते । अभ्रिर्देवता । हे अभ्रे, सवितुर्देवस्य प्रसवे वर्तमानः सन्नश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां त्वामाददे स्वीकरोमि । त्वं तु नार्यसि खननसाधनत्वेन कर्मोपयोगित्वान्नराणां पुरुषाणामनुष्ठातॄणां संबन्धिनी भवसि । 'यूपावटं परिलिखतीदमिति' (का० ६।२।८)। य इदं चतुरोऽवटान्परिलिखामि । इदमिति विभक्तिव्यत्ययः । अनेन परिलेखनेन रक्षसां यज्ञघ्नानां ग्रीवा अपिकृन्तामि कण्ठप्रदेशान्छिनद्मि । बृहन्नसीति यथापरिलिखितं खनतीति' (का. ८।५। ७) । आग्नेयीं विदिशमारभ्य चतसृषु विदिक्षु चतुर उपरवान्खातुं भूमिः परिलिखिता । तेन परिलेखनक्रमेणावटान्खनेदिति सूत्रार्थः । हे उपरवाख्यगर्त, त्वं बृहन्नसि महान् भवसि वर्तुलस्य गर्तस्य प्रादेशपरिमाणेन विस्तृतत्वाद्बाहूपरिमाणेन

उपरवविधिः.
सोमाभिषवणम्

खातत्वाच्च महत्त्वम् । तथा त्वं बृहद्रवाः बृहन्महान् रवो ध्वनिर्यस्य सः । सकारान्तो रवस्शब्दः । खातुं भूमौ प्रहारे महान्ध्वनिर्भवतीत्यर्थः । तस्मात्त्वमिन्द्रायेन्द्रप्रीत्यर्थं बृहती वाचं वद प्रौढध्वनियुक्तं वाक्यं वद ॥ २२ ॥

त्रयोविंशी।
र॒क्षो॒हणं॑ वलग॒हनं॑ वैष्ण॒वी मि॒दम॒हं तं व॑ल॒गमुत्कि॑रामि॒ यं मे॒ निष्ट्यो॒ यम॒मात्यो॑ निच॒खाने॒दम॒हं तं व॑ल॒गमुत्कि॑रामि॒ यं मे॑ समा॒नो यमस॑मानो निच॒खाने॒दम॒हं तं व॑ल॒गमुत्कि॑रामि॒ यं मे॒ सब॑न्धु॒र्यमस॑बन्धुर्निच॒खाने॒दम॒हं तं व॑ल॒गमुत्कि॑रामि॒ यं मे॑ सजा॒तो यमस॑जातो निच॒खानोत्कृ॒त्यां कि॑रामि ।। २३ ।।
उ० किं बृहतीमेव केवला नेत्याह । रक्षोहणम् । रक्षांसि या वागपहन्ति सा रक्षोहा तां रक्षोहणम् । 'ब्रह्मभ्रूणवृत्रेषु क्विप्' । धातूपपदकालप्रत्ययनियमान प्राप्नोतीति 'बहुलं छन्दसि' इति क्विप्प्रत्ययः । वलगहनम् वलगान् कृत्यविशेषान् भूमौ निखनितान् शत्रुभिर्विनाशार्थं हन्तीति वलगहा वाक् । पूर्ववत्विृतप्प्रत्ययः । तां वलगहनम् । वलो वृणोतेः । यस्य वधार्थं क्रियते तं रोगादिभिर्वृण्वन् आ प्रच्छादयन् गच्छतीति वलगः । वैष्णवीं विष्णुदेवत्यां वाचं वदेति संबन्धः । उत्किरति । इदमहं यत्करोमि तद्वलगं कृत्याविशेषम् । उत्किरामि उद्वपामि । यं मे निष्ट्यः । यं वलगं मे मम निष्ट्यः पुत्रः । स हि निर्गत्य शरीरात्ततो विस्तीर्णो भवति यं च अमात्यः वलगं निचखान निखनति । छन्दसि लङ्लुङ्लिटः सर्वेषु कालेषु भवन्ति । द्वितीयमुत्किरति । यं मे समानः विद्यादिभिः सदृशः । असमानः विद्यादिभिरसदृशः । शेषं व्याख्यातम् । तृतीयमुत्किरति । यं मे सबन्धुः। सबन्धुः स्वजनः । असबन्धुस्तद्विपरीतः । शेषं व्याख्यातम् । चतुर्थमुत्किरति । यं मे सजातः । सजातो भ्राता । स हि समानजन्मा भवति । असजातः असमानजन्मा भ्रातुरसदृशः । शेषं व्याख्यातम् । सर्वमुत्किरति । उत्कृत्यां किरामि उत्किरामि कृत्याम् ॥ २३ ॥
म० किंभूतां वाचम् । रक्षोहणं रक्षांसि हन्तीति रक्षोहा तां रक्षोवधविषयाम् । तथा वलगहनम् वलगान् हन्तीति वलगहा ताम् । 'बहुलं छन्दसि' (पा० ३।२। ८८ ) इति क्विप् । पराजयं प्राप्य पलायमानै राक्षसैरिन्द्रादिवधार्थमभिचाररूपेण भूमौ निखाता अस्थिकेशनखादिपदार्थाः कृत्याविशेषा वलगाः। 'वलगो वृणोतेः' (निरु० ६ । २) इति यास्कः । यस्य वधार्थं क्रियते तं वृण्वन्नाच्छादयन् गच्छतीति वलगः । ते वलगा बाहुमात्रे खातास्ततस्तदुद्धारार्थमुपरवस्य तावन्मात्रखननम् । 'तान्बाहुमात्रान्खनेत्' इति श्रुतिः (३।५। ४ । ९) तदाह तित्तिरिः ‘असुरा वै निर्यन्तो देवानां प्राणेषु वलगान् न्यखनन् तान् बाहुमात्रे त्वविन्दन् तस्माद्बाहुमात्राः खायन्ते' इति । तथा वैष्णवीं यज्ञरक्षकस्य विष्णोः संबन्धिनीम् । ईदृशीं वाचमिन्द्राय वदेति संबन्धः । 'इदमहमित्युत्किरति यथाखातं प्रतिमन्त्रमिति' (का० ८ । ५। ८) । येन क्रमेण चत्वारो गर्ताः खातास्तेन क्रमेण चतुर्भ्यो गर्तेभ्यः खातं मृत्तृणादिकं चतुर्भिर्मन्त्रैरुत्किरेदिति सूत्रार्थः । 'ष्ठ्यै स्त्यै शब्दसङ्घातयोः' नितरां स्त्यायति सङ्घातरूपेण सह वर्तत इति निष्ट्यः । यद्वा निर्गत्य शरीरात् स्त्यायति विस्तीर्णो भवतीति निष्ट्यः पुत्रादिः । यद्वा निर्गतो वर्णाश्रमेभ्यो निष्ट्यः चण्डालादिः 'निसो गते' (पा० ४ । २ । १०४ वा० ४) इति वार्तिकेन 'निस उपसर्गाद्गतार्थे त्यप्' इति काशिकायाम् । अमाशब्दो गृहार्थः सहार्थो वा । अमा गृहे सह वा भवोऽमात्यः 'अव्ययात्त्यप्' (पा० ४ । २ । १०४ ) इति भवार्थे त्यप् । धनिकस्य स्वामिनो धनगृहादिनिर्वाहकोऽमात्यः । केनापि निमित्तेन कुपितः पुत्रोऽमात्यो वा मे मह्यं मद्बाधार्थं यं वलगं निचखान निखातवान् तं वलगमहमुत्किरामि उद्वपामि उद्धृत्यान्यत्र परित्यजामि । इदंशब्दः क्रियाविशेषणम् । इदं प्रत्यक्षं यथा भवति तथोद्वपामीत्यर्थः । द्वितीयमुत्किरति समानो धनकुलादिभिः सदृशः । असमानो न्यूनोऽधिको वा । अन्यत्पूर्ववत् । तृतीयमुत्किरति । सबन्धुः कुलशीलादिभिः समानो मातुलपैतृष्वसेयादिः तद्विपरीतोऽसबन्धुः । अन्यत्पूर्ववत् । चतुर्थमुत्किरति । सजातः समानजन्मा भ्राता तद्विपरीतोऽसजातः । अन्यत् पूर्ववत् । 'उत्कृत्यां किरामीति पश्चात्सर्वेभ्यः' (का० ८ । ५। ९) इति । असाधारणैर्मन्त्रैः पूर्वोक्तक्रमेणोत्किरणं कृत्वा पश्चात्साधारणेन मन्त्रेण चतुर्भ्यो गर्तेभ्य उत्किरेदिति सूत्रार्थः । येयं कृत्या शत्रुभिरभिचरद्भिः संपादिता वलगरूपा तामुत्किरामि उद्धृत्य दूरे क्षिपामि ॥ २३ ॥

चतुर्विंशी।
स्व॒राड॑सि सपत्न॒हा स॑त्र॒राड॑स्यभिमाति॒हा ज॑न॒राड॑सि रक्षो॒हा स॑र्व॒राड॑स्यमित्र॒हा ।। २४ ।।
उ० यथाखातं स्पृशति । स्वराडसि । स्वकीयमेव राज्यं यस्य सः स्वराट् । सपत्नान् शत्रून्हन्तीति सपत्नहा यस्त्वं स्वराडसि सपत्नहा च सोऽस्मानपीत्थंभूतान्कुर्विति शेषः । एवं वक्ष्यमाणेषु त्रिष्वपि मन्त्रेषु योज्यम् । सत्रराट् सत्रं द्वादशाहादि तत्र राजति सततं वा राजति सत्रराट् । अभिमातिहा अभिमातिरननुकूलः शत्रुः तं हन्ति अभिमातिहा । जनराडसि जने राजतीति जनराट् । रक्षोहा रक्षांसि हन्तीति रक्षोहा । सर्वराडसि सर्वत्र राजतीति सर्वराट् । अमित्रहा अमित्रान्हन्तीत्यमित्रहा ॥ २४ ॥
म०. 'स्वराडित्यभिमर्शयति यथा खातं प्रतिमन्त्रमिति' (का० ८ । ५। १३)। खननक्रमेण चतुर्षु गर्तेषु यजमानह<poem>स्तस्य स्पर्शं चतुर्भिर्मन्त्रैः कारयेदिति सूत्रार्थः । चत्वारि यजूंषि औपरवाणि । तत्र प्रथमं हे प्रथमगर्त, त्वं स्वराडसि स्वेनैव राजत इति स्वराट् स्वयमेव राजमानो भवसि । अतः सपत्नहा शत्रुघाती भवेति शेषः । अथ द्वितीयं सत्रराट् सत्रेषु द्वादशाहादिषु राजत इति सत्रराट् । अभिमातिहा शत्रुघाती । अथ तृतीयं जनराट् जनेषु यजमानेषु राजत इति जनराट् । रक्षोहा यज्ञविनाशकराक्षसघाती । अथ चतुर्थं सर्वराट् सर्वेषु राजत इति सर्वराट् अमित्रहा शत्रुघाती ॥ २४ ॥

पञ्चविंशी।
र॒क्षो॒हणो॑ वो वलग॒हन॒: प्रोक्षा॑मि वैष्ण॒वान् र॑क्षो॒हणो॑ वो वलग॒हनोऽव॑नयामि वैष्ण॒वान् र॑क्षो॒हणो॑ वो वलग॒हनोऽव॑स्तृणामि वैष्ण॒वान् र॑क्षो॒हणौ॑ वां वलग॒हना॒ उप॑ दधामि वैष्ण॒वी र॑क्षो॒हणौ॑ वां वलग॒हनौ॒ पर्यू॑हामि वैष्ण॒वी वै॑ष्ण॒वम॑सि वै॑ष्ण॒वा स्थ॑ ।। २५ ।।
उ० प्रोक्षत्येतान् । रक्षोहणः रक्षसां हन्तॄन् वः युष्मान् वलगहनः वलगस्य हन्तॄन् प्रोक्षामि सिंचामि वैष्णवान् विष्णुदेवत्यान् । अपनयति । रक्षसां हन्तॄन् वः युष्मान् वलगस्य हन्तॄन् प्रति अपनयामि । अवाचीनम् अपः प्रापयामि । वैष्णवान् । अवस्तृणाति । रक्षसां हन्तॄन् युष्मान् वलगस्य च हन्तॄन् प्रति अवाचीनान्दर्भान स्तृणामि वैष्णवान् । अधिषवणे फलके उपदधाति । रक्षसां हन्तृणी वां युवां वलगस्य हन्तृणी उपदधामि स्थापयामि । वैष्णवी विष्णुदैवत्ये । पर्यूहति । रक्षोहणौ वां पर्यूहामि परिप्रापयामि संलग्ने करोमि । व्याख्यातमन्यत् । तत्राधिषवणं चर्म निदधाति । वैष्णवमसि विष्णुदेवत्यमसि । तस्मिन् ग्राव्णः पञ्च वैष्णवाः स्थ विष्णुदेवत्या भवथ ॥ २५ ॥
म० 'प्रोक्षत्येनान् रक्षोहण इति भेदे मन्त्रावृत्तिरिति' (का० ८ । ५ । २२-२३) चतुरो गर्तान्मन्त्रेण प्रोक्षेत् । तस्य मन्त्रस्य गर्तभेदे सत्यावृत्तिः कर्तव्येति सूत्रार्थः । सप्त यजूंषि वैष्णवानि । वैष्णवान्विष्णुदेवताकान् गर्तान्वो युष्मान्प्रोक्षामि । कीदृशान् । रक्षोहणो राक्षसहन्तॄन् वलगहनः अभिचारसाधनहन्तॄन् । 'अवनयनेऽवस्तरणे चावटवद्रक्षोहणो रक्षोहण इति' (का० ८ । ५। २४ ) । गर्तेषु प्रोक्षणशेषोदकसेचनमवनयनं दभैराच्छादनं संस्तरणं तयोर्द्वयोरपि क्रिययोर्गतभेदात्तन्मन्त्रावृत्तिर्द्रष्टव्येति सूत्रार्थः। तत्रावनयनमन्त्रः । अवनयामि सिंचामि । अन्यत्पूर्ववत् । अथावस्तरणमन्त्रः । आस्तृणामि दर्भैराच्छादयामि । अन्यत्पूर्ववत् । 'तनूनुपरि कुशान्कृत्वाधिषवणे फलके द्व्यङ्गुलान्तरे प्रक्षालिते प्राची अरत्निमात्रे संतृण्णे वोपदधाति पर्यूहति च रक्षोहणौ रक्षोहणाविति' (का० ८ । ५।२५) ययोः फलकयोरुपरि सोमोऽभिषूयते ते द्वे अधिषवणफलके तयोरुभयोर्मध्ये द्व्यङ्गुलव्यवहिते अरत्निप्रमाणे संतृण्णे ईषद्बन्धनोपेते चतुर्णां गर्तानामुपरि स्थापयेत् । तयोः परितो मृदा छिद्रपिधानं कुर्यादित्यर्थः । तत्रोपधानमन्त्रः । यावधिषवणफलकविशेषौ रक्षोहणौ रक्षसां नाशकौ वलगहनौ कृत्याविनाशकौ वैष्णवी वैष्णवौ विष्णुदेवताकौ । लिङ्गव्यत्ययः । तौ वां युवामहमुपदधामि द्वयोर्गर्तयोरुपरि एकैकं फलकं स्थापयामि । अथ पर्यूहणमन्त्रः । पर्यूहामि मृदा परितश्छादयामि । अन्यत्पूर्ववत् । 'तयोश्चर्माधिषवणं परिकृत्तᳪ सर्वरोहितं निदधाति वैष्णवमसीति' (का० ८ । ५ । २६ )। यस्मिंश्चर्मणि सोमोऽभिषूयते तच्चर्माधिषवणाख्यम् अग्रभागे छिन्नं सर्वमपि लोहितवर्णं तयोः फलकयोरुपरि स्थापयेदिति सूत्रार्थः । हे चर्म, त्वं वैष्णवमसि यज्ञरक्षकविष्णुसंबन्धि भवसि । 'तस्मिन् ग्राव्णः पञ्च वैष्णवाः स्थेति' (का० ८।५।२७) । निदधातीत्यनुवर्तते । तस्मिंश्चर्मणि । सोमाभिषवहेतून् पञ्च पाषाणान्स्थापयेदिति सूत्रार्थः । हे ग्रावाणः, यूयं वैष्णवाः स्थ यज्ञरक्षकविष्णुसंबन्धिनो भवथ ॥ २५॥

षड्डिशी।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आ द॑दे॒ नार्य॑सी॒दम॒हᳪ रक्ष॑सां ग्री॒वा अपि॑ कृन्तामि ।
यवो॑ऽसि य॒वया॒स्मद्द्वेषो॑ य॒वयारा॑तीर्दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वा शुन्ध॑न्तांल्लो॒काः पि॑तृ॒षद॑नाः पितृ॒षद॑नमसि ।। २६ ।।
उ० इत उत्तरमौदुम्बरीमन्त्राः । अभ्रिमादत्ते । देवस्य त्वेति । व्याख्याते द्वे यजुषी । यवानावपति । यवोसि । 'यु पृथग्भावे' यौतीति यवः । यस्माद्यवनक्रियायोगाद्यव इत्येतन्नामा त्वमभूः तस्मात् यवय पृथक्कुरु । अस्मत् अस्मत्तः द्वेषोऽप्रीतिः दौर्भाग्यम् यवय । अरातीः अदानानि । सौभाग्यं दानं च प्रार्थ्यते । औदुम्बरीं प्रोक्षति । दिवे त्वा। दिवेर्थाय त्वां प्रोक्षामीति शेषः । अन्तरिक्षाय त्वा पृथिव्यै त्वा । प्रथमेन यजुषा व्याख्याते यजुषी। अवटे शेषमासिञ्चति। शुन्धन्तां लोकाः । शुन्ध्यन्तामिति विकरणव्यत्ययः। दिवादिभ्यः श्यन्प्राप्नोति स न भवति । पितरो येषु लोकेषु सीदन्ति आसते पितृषदनाः । बर्हींषि प्रास्यति पितृषदनमसि । पितर एषु सीदन्तीति पितृषदनम् ॥ २६ ॥
म० इत उत्तरमौदुम्बरीमन्त्राः । 'औदुम्बरीं मिनोति यजमानमात्रीं यूपवच्छेतेऽभ्र्यादि करोत्यावस्तरणादिति' (का. ८।५ । ३०-३२) । उदुम्बरवृक्षादुत्पन्नां कांचिच्छाखां यजमानदेहमितां सदोमण्डपमध्ये निखनेत् । सा च शाखा निखननात्पूर्वं यूपवद्भूमौ शयित्वा वर्तते यूपावटखननवदभ्रिस्वीकारमारभ्य दर्भोपस्तरणपर्यन्तान्पदार्थान्मन्त्रैरेव कुर्यादिति सूत्रार्थः । सूपावटप्रदेशे 'देवस्य त्वेत्यभ्रिमादायेति' (का.६ । २। ८) व्याख्यातं यजुः । 'यूपावटं परिलिखतीदमहमिति' ( का० ६ । २ । ८) एतदपि व्याख्यातम् । ‘यवोऽसीत्यप्सु यवानोप्येति' ( का० ६।२।१५)। यवदेवत्यम् । हे धान्यविशेष, त्वं यवोऽसि यौति पृथक्करोतीति यवः अस्मत् द्वेषो द्वेष्टॄन् शत्रून् द्वेषो दौर्भाग्यं वा अस्मत् अस्मत्तो यवय पृथक्कुरु । तथा अरातीः अदानानि च यवय पृथक्कुरु । अनेन सोभाग्यं धनं च प्रार्थ्यत इति भावः । 'प्रोक्षत्यग्रमध्यमूलानि दिवे त्वेति प्रतिमन्त्रं प्रोक्षामीति सर्वत्र साकाङ्क्षत्वादिति' (६ । २ । १५-१६) । तत्र प्रथमो मन्त्रः । हे औदुम्बर्यग्रभाग, दिवे द्युलोकप्रीत्यर्थं त्वा त्वां प्रोक्षामीति शेषः । द्वितीयः । हे मध्यभाग, अन्तरिक्षायान्तरिक्षलोकप्रीत्यै त्वां प्रोक्षामि । अथ तृतीयः । हे मूलभाग, पृथिव्यै पृथिवीप्रीत्यै त्वां प्रोक्षामि । 'अवटे शेषमासिञ्चति शुन्धन्तामिति' (का० ६ । २।१७ ) द्वे यजुषी पित्र्ये । पितरः सीदन्ति येषु लोकेषु ते पितृषदनाः लोकाः शुन्धन्तामनेनोदकसेचनेन शुद्धा भवन्तु । खननेनोत्पन्नस्य क्रौर्यस्य शान्त्यर्थमिदमुदकसेचनम् । तदाह तित्तिरिः 'क्रूरमिव वा एतत्करोति यत्खनति यत्पयोऽवनयति शान्त्यै तदिति' । 'बर्हीᳪषि प्राञ्च्युदञ्चि च प्रास्यति पितृषदनमसीति' (का० ६ । २ । १८) । तस्मिन्नवटे प्रागग्रानुदगग्रांश्च दर्भानास्तृणातीति सूत्रार्थः । पितरः सीदन्त्युपविशन्ति यस्मिन् तत्पितृषदनम् । हे बर्हिः, त्वं पितृषदनमसि ॥ २६ ॥

सप्तविंशी।
उद्दिव॑ᳪ स्तभाना॒न्तरि॑क्षं पृण॒ दृᳪह॑स्व पृथि॒व्याम् द्यु॑ता॒नास्त्वा॑ मारु॒तो मिनो॑तु मि॒त्रावरु॑णौ ध्रु॒वेण॒ धर्म॑णा ।
ब्र॒ह्म॒वनि॑ त्वा क्षत्र॒वनि॑ रायस्पोष॒वनि॒ पर्यू॑हामि । ब्रह्म॑ दृᳪह क्ष॒त्रं दृ॒ᳪहायु॑र्दृᳪह प्र॒जां दृ॑ᳪह ।। २७ ।।
उ० उच्छ्रयति । उद्दिवᳪस्तभान। दिवं द्युलोकं स्तम्भय । आअन्तरिक्षं पृण 'पॄ पालनपूरणयोः' । आपृण आपूरयान्तरिक्षम् । दृᳪहस्व पृथिव्याम् । द्वितीयार्थे सप्तमी । दृढीकुरु पृथिवीम् । यद्वा पृथिव्यामवस्थिता पृथिवीं दृढीकुरु । मिनोति । द्युतानः त्वा । द्युतानो दीप्यमानः त्वां मारुतो वायुः मिनोतु । 'डुमिञ् प्रक्षेपणे' । प्रक्षिपतु । मित्रावरुणौ च मिनुतां ध्रुवेण स्थिरेण धर्मणा धारणेन । पर्यूहति ब्रह्मवनि । 'छन्दसि वनसनरक्षिमथाम्' इतीन्प्रत्ययः । ब्रह्म वनोति ब्रह्मवनि । ' अविभक्तिको निर्देशः । क्रियाविशेषणतया पर्यूहणाविशेषणतया वा नपुंसकलिङ्गत्वम् । ब्रह्मवनि त्वाम् । क्षत्रवनि त्वाम्। क्षतं वनोति क्षत्रवनि । एवं रायस्पोषवनि त्वाम् , धनपोषवनि त्वां पर्यूहामि । 'उह वितर्के' परिपूर्वः पूरणार्थः । पर्यषति । ब्रह्मादीनि दृᳪह दृढीकुरु । ब्रह्मा इति व्याख्यातम् ॥ २७ ॥
म० 'उद्दिवमित्युच्छ्रयतीति' (का० ८।५। ३३) - उच्छ्यणमूर्ध्वाग्रत्वेन स्थापनम् । पञ्च यजूंष्यौदुम्बरीदेवत्यानि । हे औदुम्बरि, त्वं दिवं द्युलोकमुत्तभान स्तम्भय ऊर्ध्वः सन् यथा न पतति तथा कुर्वित्यर्थः । अन्तरिक्षं पृण पूरय । पृथिव्यां दृंहस्व दृढा भव । पृथिव्यामिति सप्तमी द्वितीयार्थे । पृथिवीं दृढीकुरु । 'द्युतान इति मिनोतीति' (का० ८।५। ३४) । शाखां गर्ते प्रक्षिपतीति सूत्रार्थः । हे औदुम्बरि, | द्युतानः दीप्यमानो मारुतो वायुः ध्रुवेण स्थिरेण धर्मणा धारणेन त्वां मिनोतु गर्ते प्रक्षिपतु 'डुमिञ् प्रक्षेपे' स्वादिः । तथा मित्रावरुणौ देवौ ध्रुवेण धर्मणा त्वां प्रक्षिपतामिति शेषः । 'पर्यूहणाद्योपसेचनात्कृत्वेति' (का० ८ । ५। ३५) । पर्यूहणमारभ्योपसेचनपर्यन्तं यथा यूपे कृतं तथात्रापि कुर्यादित्यर्थः । । तत्र यूपस्थाने 'ब्रह्मवनि त्वेति पाᳪसुभिः पर्यूहतीति' (का. । ६ । ३ । १०)। हे औदुम्बरि, त्वा त्वां पर्यूहामि परितो मृत्तिकां क्षिपामि । किंभूतां त्वाम् । ब्रह्मवनि ब्रह्म ब्राह्मणजातिं वनति संभजत इति ब्रह्मवनिः । क्षत्रं क्षत्रियजातिं वनतीति क्षत्रवनिः । रायो धनस्य पोषं पुष्टिं वनतीति रायस्पोषवनिः । सर्वत्र 'सुपां सुलुक्' (पा० ७ । १ । ३९) इति विभक्तेर्लुक्। 'ब्रह्म दृᳪहेति मैत्रावरुणदण्डेन समन्तं त्रिः पर्यूषतीति' (का. ६। ३ । ११) । परितो दृढीकुर्यादिति सूत्रार्थः । हे औदुम्बरि, ब्रह्म ब्राह्मणजातिं क्षत्रं क्षत्रियजातिमायुः जीवनं प्रजां पुत्रादिरूपां च दृंह दृढीकुरु ॥ २७ ॥

अष्टाविंशी।
ध्रु॒वासि॑ ध्रु॒वोऽयं यज॑मानो॒ऽस्मिन्ना॒यत॑ने प्र॒जया॑ प॒शुभि॑र्भूयात् ।
घृ॒तेन॑ द्यावापृथिवी पूर्येथा॒मिन्द्र॑स्य छ॒दिर॑सि विश्वज॒नस्य॑ छा॒या ।। २८ ।।
उ०. आलभ्य वाचयति । ध्रुवासि । यथा त्वं ध्रुवासि स्थिरासि एवमयं यजमानो ध्रुवः शाश्वतः अस्मिन्नायतने अस्मिँल्लोके प्रजया वा पशुभिर्वा भूयात् । विशाखे जुहोति । घृतेन द्यावापृथिवी घृतेनानेन हे द्यावापृथिव्यौ युवां पूर्येथाम् । सदसि छदिरधि निदधाति । इन्द्रस्य छदिर्भवसि । सर्वजनानां छाया । 'विश्वगोत्रा ह्यस्मिन् ब्राह्मणा आसत' इति श्रुतिः ॥ २८॥
म० 'धुवासीति वाचयत्यौदुम्बरीमालम्भ्येति' ( का० ८ । ५। ३५)। आलम्भनं स्पर्शनम् । हे औदुम्बरि, त्वं ध्रुवासि स्थिरा भवसि । त्वमिवायं यजमानोऽस्मिन्नायतने स्वकीये गृहे ध्रुवो भूयात् प्रजया पुत्रादिकया पशुभिः गवादिभिश्च सह स्थिरोस्तु । 'स्रुवेण विशाखे जुहोति घृतेनेति' (का. ८ । ५। ३७) । औदुम्बर्या विशाखे यस्मिन्प्रदेशे द्विधा शाखोत्पत्तिस्तत्र जुहुयादिति सूत्रार्थः । हूयमानेनानेन घृतेन द्यावापृथिवी द्यावापृथिव्यौ पूर्येथां पूरिते भवताम् । 'इन्द्रस्य छदिरिति मध्यमं छदिरारोपयति' (का० ८।६।१०) औदुम्बरीनिखननादूर्ध्वं सदोनामकं मण्डपं निर्माय तस्योपरि प्रावरणाय मध्यं कटमारोपयेदिति सूत्रार्थः । छदिःशब्देन तृणनिर्मितः कट उच्यते । हे तृणमय कट, त्वमिन्द्रस्य छदिरसि इन्द्रसंबन्धी कटो भवसि । अतस्त्वं विश्वजनस्य छाया भवेति शेषः । सदोमध्यवर्तिनः सर्वजनस्य यजमानर्त्विग्रूपस्य प्राणिनः प्रावरणाय छाया भवेत्यर्थः । सदस इन्द्रदेवताकत्वेन तदीयच्छदिष इन्द्रसंबन्धित्वम् ॥ २८ ॥

एकोनत्रिंशी।
परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा भ॑वन्तु वि॒श्वत॑:। वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा॑ भवन्तु॒ जुष्ट॑यः ।। २९ ।।
उ० परिश्रयति । परि त्वा अनुष्टुबैन्द्री अनिरुक्ता । परिभवन्तु परिगृह्णन्तु त्वां हे गिर्वणः, 'इन्द्रो वै गिर्वा' इति श्रुतिः। गिरो वाचः इमा ऋग्यजुःसामलक्षणाः । विश्वतः सर्वतः । कथंभूतं त्वां परिगृह्णन्तु । वृद्धायुम् वृद्धा आयवो मनुष्या ऊरुलक्षणा यस्य स तथोक्तः । यद्वा वृद्धायुरिति समानाधिकरणः । वृद्धश्चायुश्च महामनुष्य इत्यर्थः । अनुवृद्धयः सवनक्रमेणानुवृद्धा वाचः । किंच जुष्टा भवन्तु त्वां परिगृह्णानाः त्वया परिसेविता भवन्तु । प्रीतिकरा जुष्टयः ॥ २९ ॥
म० 'परि त्वेति परिवार्येति' (का० ८ । ६ । १२ ) परितः कुड्यवदावरणं कृत्वेति सूत्रार्थः । ऐन्द्र्यनुष्टुबनिरुक्ता मधुच्छन्दोदृष्टा । गीर्भिः स्तुतिभिर्वननीयो भजनीयो गिर्वण इन्द्रः सदोऽभिमानी । हे गिर्वण इन्द्र, स्तोत्रशस्त्ररूपा गिरः त्वा त्वां विश्वतः सर्वतः कटरूपेण परिभवन्तु परिगृह्णन्तु । किंभूतं त्वाम् । वृद्धायुं वृद्धा आयवो मनुष्या यजमानादयो मरुतो वा यस्य तम् । यद्वा वृद्धः श्रेष्ठश्चासावायुश्च तं महामनुष्यम् । किंभूताः गिरः। अनुवृद्धयः अनु सवनक्रमेण वृद्धिर्यासां ताः शनैः प्रातःसवनं तत उच्चैर्माध्यन्दिनं सवनं तारस्वरेण तृतीयं सवनमिति क्रमः । किंच जुष्टयोऽस्मत्सेवास्तव जुष्टाः प्रियाः भवन्तु 'जुषी प्रीतिसेवनयोः' जोषणं जुष्टिः ॥ २९ ॥

त्रिंशी।
इन्द्र॑स्य॒ स्यूर॒सीन्द्र॑स्य ध्रु॒वो॑ऽसि । ऐ॒न्द्रम॑सि वैश्वदे॒वम॑सि ।। ३० ।।
उ० परिषीवनग्रन्थिकरणाभिमर्शनानि सदसः इन्द्रोपलक्षितानि भवन्ति । आग्नीध्रं स्पृशति । वैश्वदेवमसि ॥३०॥
म० परिषीवणग्रन्थ्यभिमर्शनान्यैन्द्रैरिति' (का० ८ । ६ । १२) । इन्द्रदेवताकैस्त्रिभिर्मन्त्रैः परिषीवणादित्रयं कुर्यादिति सूत्रार्थः । तत्र प्रथमः । हे रज्जो, त्वमिन्द्रस्य सदोऽभिमानिदेवस्य संबन्धिनी स्यूः सीवनमसि । सीव्यतेऽनया सा स्यूः क्विप् 'छ्वोः शूडनुनासिके च' (पा० ६ । ४ । १९) इति ऊडादेशः । द्वितीयः । हे ग्रन्थे, त्वमिन्द्रसंबन्धी भूत्वा ध्रुवः स्थिरो भवसि। अथ तृतीयः । हे सदः, त्वमिन्द्रसंबन्धि भवसि । 'हविर्धानापरान्तमुत्तरेणाग्नीध्रमग्न्यगारद्वारमन्तवेद्यर्थं भूयः सर्वं वा निष्टाप्य वैश्वदेवमसीत्यालभते' (का० ८ । ६ । १३-१४) इति हविर्धानमण्डपस्यापरान्तो वायव्यकोणस्तस्योत्तरभागे किंचिदाग्नीध्रनामकमग्निस्थानं कृत्वा तस्य स्पर्शं कुर्यादिति सूत्रार्थः । हे आग्नीध्र, त्वं सर्वदेवसंबन्धि भवसि ॥ ३० ॥


उत्तरवेदी
धिष्ण्य

एकत्रिंशी।
वि॒भूर॑सि प्र॒वाह॑णो॒ वह्नि॑रसि हव्य॒वाह॑नः । श्वा॒त्रो॒ऽसि॒ प्रचे॑तास्तु॒थो॑ऽसि वि॒श्ववे॑दाः ।। ३१ ।।
उ०. अत उत्तरं षोडश धिष्ण्यमन्त्राः । तत्र श्रुतिः 'ते वै द्विनामानो भवन्तीति' । आग्नीध्रं विभूरसि प्रवाहणः । विभवतीति विभूः । प्रवाहयति गमयतीति प्रवाहणः । तस्य हि दक्षिणत उत्तरतश्च ऋत्विजो गच्छन्ति। यस्त्वं विभूश्च नामतः प्रवाहणश्चासि तं त्वां स्थापयामीति शेषः । एवमुत्तरेष्वपि योज्यम् । होतुर्धिष्णम् । वह्निरसि हव्यवाहनः प्रशास्तुः । श्वात्रः शु क्षिप्रमततीति श्वात्रः । प्रचेताः प्रकृष्टज्ञानः । ब्राह्मणाच्छंसिनः । तुथोसि विश्ववेदाः । 'ब्रह्म वै तुथः' इति श्रुतिः । विश्ववेदाः सर्वज्ञः सर्वधनो वा ॥११॥
म० इत उत्तरं षोडश धिष्ण्यमन्त्राः । तदाह ‘धिष्ण्यान्निवपत्युद्धतावोक्षिते पुरीषं निवपति स्फ्येनान्वारब्ध उदङ् उपविश्य विभूरसीति प्रतिमन्त्रमिति' ( का० ८।६ । १५)। अग्नीनामाश्रयभूता मृदा निर्मिताः स्वल्पवेदिका धिष्ण्यान्युच्यन्ते । 'आग्नीध्रीयं पूर्वमिति' (का० ८।६।१६)। विभूशब्दप्रवाहणशब्दावाग्नीध्रीयधिष्ण्यस्य नामनी । 'ते वै द्विनामानो भवन्ति' ( ३ । ६ । २ । २४ ) इति श्रुतेः । अष्टयजुषां धिष्ण्या अग्नयो देवताः । हे आग्नीध्रीय धिष्ण्य, त्वं विभूः प्रवाहणश्चासि । विविधं भवतीति विभूः एतस्मादेव धिष्ण्यादितरधिष्ण्येष्वग्निविहरणादेतस्य विभुत्वम् । प्रवाहयतीति प्रवाहणः । तस्य हि दक्षिणोत्तरत ऋविजो गच्छन्ति । हविषः प्रवाहयितृत्वाद्वा प्रवाहणत्वम् । धिष्ण्यगतानग्नीन् प्रत्यन्ये देवा ऊचुः प्रत्येकं स्वं नामधेयं संपादयतेति । तदाह तित्तिरिः 'तान् देवा अब्रुवन् द्वे द्वे नामनी कुरुतेति' । मैत्रावरुणहोतृब्राह्मणाच्छंसिपोतृनेष्ट्रच्छावाकानां धिष्ण्यान् सदसि कुर्यात् । तदाह 'षट् सदसि प्रत्यङ्मुखो द्वारमपरेण होतुर्दक्षिणपूर्वेणौदुम्बरीं मैत्रावरुणस्य होतृधिष्ण्यमुत्तरेण चतुरः समान्तरान्ब्राह्मणाच्छंसिपोतृनेष्ट्राच्छावाकानामिति' (का. ८ । ६ । १८ -२१)। होतुर्धिष्ण्यं हे होतृधिष्ण्य, वह्निर्हव्यवाहनश्चासि । वहति यज्ञकर्म निर्वहतीति वह्निः । हव्यं वहति देवान् प्रति प्रापयतीति हव्यवाहनः । यथाग्नीध्रीयधिष्ण्यस्य नामद्वयमुक्तं तथा होत्रादिधिष्ण्यानामपि बोध्यम् । मैत्रावरुणधिष्ण्यं हे मैत्रावरुणधिष्ण्य, त्वं श्वात्रः प्रचेताश्चासि शु क्षिप्रमततीति श्वात्रो मित्रः । प्रकृष्टे चेतो ज्ञानं यस्य स प्रचेताः वरुणः तद्रूपोऽसि । ब्राह्मणाच्छंसिनः हे ब्राह्मणाच्छंसिधिष्ण्य, त्वं तुथो विश्ववेदाश्चासि । 'ब्रह्म वै तुथः' (४ । ३ । ४ । १५) इति श्रुतेः ब्रह्मरूपोऽसि । विश्वं वेत्ति विश्ववेदाः सर्वज्ञः । यद्वा तुथशब्देन देवान्प्रति दक्षिणानां विभागकर्ता पुरुष उच्यते । तदाह तित्तिरिः । तुथो ह स्म वै विश्ववेदा देवानां दक्षिणा विभजतीति ॥ ३१॥


मार्जालीयः.

द्वात्रिंशी।
उ॒शिग॑सि क॒विरङ्घा॑रिरसि॒ बम्भा॑रिरव॒स्यूर॑सि॒ दुव॑स्वाञ्छु॒न्ध्यूर॑सि मार्जा॒लीय॑: स॒म्राड॑सि कृ॒शानु॑: परि॒षद्यो॑ऽसि॒ पव॑मानो॒ नभो॑ऽसि प्र॒तक्वा॑ मृ॒ष्टो॒ऽसि हव्य॒सूद॑न ऋ॒त॒धा॑माऽसि॒ स्व॒र्ज्योतिः ।। ३२ ।।
उ० पोतुः । उशिगसि कविः । 'वश कान्तौ' । तस्य कृतसंप्रसारणस्योशिक् । कान्तोसि । कविः क्रान्तदर्शनः । नेष्टुः । अङ्घारिरसि बम्भारिः । अंहःशब्दः पापवचनः । तस्य हकारस्य घकारश्छान्दसः । तस्यारिः अङ्घारिः । बम्भारिः । 'डुभृञ् धारणपोषणयोः' । भर्ता । अच्छावाकस्य । अवस्यूरसि दुवस्वान् । अवसमन्नं तदिच्छति क्विप ऊप्रत्यय औणादिकः । स हि पुरोडाशबृगलमिच्छति । दुवस्वान् दुव इति हविर्नाम । दुवस्वान् हविष्मान् । अच्छावाको हि पुरोडाशबृगलं लभते । मार्जालीयः शुन्ध्यरसि । शोधनः मार्जालीयः। 'मृजूष् शुद्धौ' । तत्र हि पात्राणि प्रक्षाल्यन्ते । इत उत्तरमनुदिशति आहवनीयम् । सम्राडसि। सम्राट् संगतदीप्तिः। कृशानुः कृशो यजमानः पयोव्रतैरुपक्षीणः एनमनुगच्छतीति कृशानुः बहिष्पवमानदेशः । परिषद्योसि पवमानः । परिषदनीयः उद्गातृप्रभृतिभिः पवमानः । प्रसिद्ध्या चात्वालम् । नभोसि प्रतक्वा न भातीति नभः । यद्वा नभ आकाशः आकाशरूपः । प्रतक्वा । तक्वतिर्गत्यर्थः । प्रदक्षिणमेनं तक्वन्ति निर्गच्छन्ति ऋत्विजः स शामित्रदेशः। मृष्टोसि हव्यसूदनः । मृष्टो मृष्टकारी । शृतं हविर्मृष्टं भवति । हव्यसूदनः । सूदः सूपकार उच्यते । हविषः पक्ता । औदुम्बरी ऋतधामासि स्वर्ज्योतिः । ऋतो यज्ञस्तस्य धाम स्थानं जन्म वा । तत्र हि उद्गातारो यज्ञस्य कारणभूतान्तिष्ठन्ति । जनयन्ति वा यज्ञम् । स्वर्योधातिः आदित्यज्योतिः ॥ ३२ ॥
म० पोतुः । हे पोतृधिष्ण्य, त्वमुशिक् कमनीयः कविः विद्वांश्चासि ॥ नेष्टुः अङ्घस्यांहसः पापस्यारिरङ्घारिः । बिभर्तीति बम्भारिः त्वं तद्रूपोसि हे नेष्टृधिष्ण्य । दिवि सोमरक्षकौ द्वावङ्घारिबम्भारी । तथाच सोमरक्षकमन्त्रे स्वानभ्राजाङ्घारे बम्भारे (अध्या० ४ क० २७) इत्याम्नातम् । अच्छावाकस्य । हे अच्छावाकधिष्ण्य, त्वमवस्यूः दुवस्वान् चासि । अवोऽन्नमिच्छतीत्यवस्युः । 'सुप आत्मनः क्यच्' (पा० ३।१।८) . 'क्याच्छन्दसि' (पा० ३।२। १७०) इति क्यजन्तादुप्रत्ययः दीर्घश्छान्दसः औणादिक ऊप्रत्ययो वा । दुवोऽस्यास्तीति दुवस्वान्हविष्मान् । दुव इति हविर्नाम । अच्छावाको हि पुरोडाशभागं लभते । एवं होत्रादिधिष्ण्यान्सदसि निर्माय वेदेर्दक्षिणभागे मार्जालीयं निर्माति । तदाह 'आग्नीध्राद्दक्षिणांसंप्रति वेद्यन्ते । दक्षिणामुखो मार्जालीयमिति' (का० ८।६।२१)। शुन्धयतीति शुन्ध्यूः । मार्ष्टीति मार्जालीयः । तत्र हि पात्राणि प्रक्षाल्यन्ते । । 'सदोद्वारं पूर्वेण तिष्ठन्ननुदिशत्याहवनीयबहिष्पवमानदेशचात्वालशामित्रौदुम्बरीब्रह्मासनशालाद्वार्यप्रजाहितान् सम्राडसीति प्रतिमन्त्रमिति' (का० ८।६।२३)। सदोद्वारस्य पूर्वभागेऽवस्थायाहवनीयादीन् सम्राडसीत्याद्यष्टमन्त्रैः क्रमेण निर्दिशेदिति सूत्रार्थः । तत्रादावाहवनीयम् । हे उत्तरवेदिगताहवनीय, त्वं सम्राट् कृशानुश्चासि । बहुविधाहुत्याधारत्वेन सम्यग्राजत इति सम्राट् । पयोव्रतादिभिः कृशं क्षीणं यजमानमनुगच्छतीति कृशानुः । बहिष्पवमानदेशम् हे बहिष्पवमानदेश, त्वं परिषद्यः | पवमानश्चासि। स्तोतुं समेता ऋत्विजः परिषत् तद्योग्यः परिषद्यः अतएव शुद्धत्वात्पवमानः । चात्वालं हे चात्वाल, त्वं नभोसि खनने छिद्ररूपत्वादाकाशः, न भातीति वा । तथा प्रतक्वा प्रदक्षिणं तकन्ति गच्छन्ति ऋत्विजो यत्र स प्रतक्वा । तकतिर्गत्यर्थः 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३ । २ । ७५) इति वनिप् । शामित्रम् पशुविशसनप्रदेशः शामित्रशब्देनोच्यते । हे शामित्र, त्वं मृष्टोऽसि पशुविशसनस्य विहितत्वेनाशुद्धिहेतुत्वाभावात्सत्यपि विशसने शुद्धोऽसि । यद्वा मृष्टः शृतत्वान्मिष्टः पक्वं हविर्मृष्टं भवति । तथा हव्यस्य हृदयजिह्वादिरूपस्य हविषः सूदनः पाकहेतुश्चासि । औदुम्बरीम् हे औदुम्बरि, त्वमृतधामा ऋतं सामगानं धामोपवेशनस्थानं यस्याः सा । 'औदुम्बरीं स्पृष्ट्वोद्गायति' इत्युक्तेः । स्वर्ज्योतिः उन्नतत्वेन स्वर्गे प्रकाशकः यद्वा सूर्यज्योतिः ॥ ३२॥

त्रयस्त्रिंशी।
स॒मु॒द्रो॒ऽसि वि॒श्वव्य॑चा अ॒जोऽस्येक॑पा॒दहि॑रसि बु॒ध्न्यो वाग॑स्यै॒न्द्रम॑सि॒ सदो॒ऽस्यृत॑स्य द्वारौ॒ मा मा॒ सन्ता॑प्त॒मध्व॑नामध्वपते॒ प्र मा॑ तिर स्व॒स्ति मे॒ऽस्मिन्प॒थि दे॑व॒याने॑ भूयात् ।। ३३।।
उ० ब्रह्मासनम् । समुद्रोसि विश्वव्यचाः समुद्र इव त्वमसि सर्वव्यधनः तत्र हि समुद्र इवाऽगाधो ज्ञानेन ब्रह्मणि तिष्ठति । विश्वं च यज्ञं च व्यञ्चति कृताकृतप्रत्यवेक्षणेन । शालाद्वार्यम् । अजोऽस्येकपात् । अजः । 'अज गतिक्षेपणयोः' । अजनः अयमेवाहवनीयादिभावेन अजति गच्छति। एकपात् । एकः प्राजहितः । एकं पाति एकपात् । सह्यनुगतस्तस्मादुद्ध्रियते । प्राजनितम् । अहिरसि बुध्न्यः । अहिः अयनः शालाद्वार्यादिभिर्भावैरिति बुध्नमादिरुच्यते तत्र भवो बुध्न्यः। स हि प्रथमं मथ्यते । नाम्नैवात्र धिष्ण्यानां स्तुतिः। उक्तंच 'स्तुतिः स्वनाम्ना वाथ कर्मरूपैः' । सदोऽभिमृशति । वागस्यैन्द्रमसि । वाचास्मिन्कुर्वन्तीति वाक्शब्देनाभेदोपचारेण सदोऽभिधीयते। ऐन्द्रमसीति देवताभिप्रायं । सदोसीति नामव्युत्पत्त्यभिप्रायम् । सीदन्त्यस्मिन्ब्राह्मणा इति. सदः । द्वार्ये ऋतस्य द्वारौ ऋतस्य यज्ञस्य ये युवां द्वारौ द्वारदेशस्थायिनौ ते मां मा संताप्तम् । संतापश्च प्रवेशनिष्क्रमणस्खलनाभिप्रायः । अभिमन्त्रणमुत्तरैः । सूर्यमभिमन्त्रयते । अध्वनाम् । हे सूर्य, अध्वपते मार्गपते । अध्वनां संचाराणां मध्ये वर्तमानमिति शेषः । प्रमातिरः वर्धयस्व माम् । संचारेण हि गच्छतो वृद्धिर्भवत्येव । किंच त्वत्प्रसादात् स्वस्ति अविनाशः मे मम अस्मिन् पथि मार्गे । देवयाने देवयानप्रापके भूयात् भवेत् ॥ ३३ ॥
म० ब्रह्मासनम् हे ब्रह्मासन, त्वं समुद्रः विश्वव्यचाश्चासि । सर्वे देवाः सम्यगुत्कर्षेण द्रवन्त्यत्रेति समुद्रः समुद्र इवागाधो ज्ञानेन, ब्रह्मा यत्र तिष्ठतीति वा । विश्वं सर्वं यज्ञं व्यचति गच्छति कृताकृतप्रत्यवेक्षणायेति विश्वव्यचाः । शालाद्वार्यम्, हे प्राचीनवंशशालाद्वारवर्तिन्नग्ने, त्वमजोऽसि । अजति आहवनीयरूपेण यज्ञप्रदेशे गच्छतीत्यजः । यद्वा परब्रह्मत्वमुपचर्यते । न जायत इत्यजः । एकः पातीत्येकपात् । यद्वा एकः पादः सर्वाणि भूतानि यस्येत्येकपात् । 'पादोऽस्य विश्वा भूतानि' इति श्रुतेः।। प्राजहितम् पत्नीशालापश्चिमभागवर्ती पुरातनो गार्हपत्योऽग्निः प्राजहित उच्यते । हे प्राजहित, त्वमहिरसि । न हीयत इत्यहिः शालाद्वारीये नूतने गार्हपत्ये उत्पनेऽपि अयमग्निः स्वरूपेण न हीयते । बुध्नो मूलं तत्र भवो बुध्न्यः। आधानकाले प्रथममाहितत्वान्मूलभावित्वम् । स हि प्रथमं मथ्यते । नामभिरेवात्र धिष्ण्यानां स्तुतिः । उक्तं च । 'स्तुतिः स्वनाम्ना कर्मणा वाथ रूपैरिति' (का० ९ । ८ । २२) । वागसीति सदोऽभिमर्शनमिति । हे सदः, त्वं वागसि वाचास्मिन्कर्म कुर्वन्तीति वाक्शब्देनाभेदोपचारेण सद उच्यते । ऐन्द्रमिन्द्रदेवताकं चासि ।। सीदन्त्यस्मिन्निति सदः । 'ऋतस्य द्वाराविति द्वार्ये (का. ९।८।२३) इति । द्वार्ये सदोद्वारशाखे अभिमृशतीति सूत्रार्थः । हे ऋतस्य यज्ञस्य द्वारौ द्वारदेशस्थायिन्यौ शाखे, युवां मा मां मा संताप्तं मा संतापयतं प्रवेशनिःक्रमणे स्खलनादिना । तपतेर्लुङि मध्यमैकवचने 'झलो झलि' (पा० ८।२। २६) इति सिलोपे रूपम् । 'अभिमन्त्रणमुत्तरैरध्वनामध्वपत | इति सूर्यम्' (का० ५। ८ । २४-२५)। उत्तरैस्त्रिभिर्मन्त्रैस्त्रयाणामभिमन्त्रणं दर्शनमित्यर्थः । तत्राध्वनामिति सूर्यमभिमन्त्रयत इति सूत्रार्थः । अध्वपते मार्गपालक रवे, अध्वनां मार्गाणां मध्ये वर्तमानं मा मां त्वं प्रतिर प्रवर्धय । तिरतिर्वृद्ध्यर्थः । किंच अस्मिन् देवयाने देवयानप्रापके पथि यज्ञमार्गे मे मम स्वस्ति कल्याणं भूयात् ॥ ३३ ॥

चतुस्त्रिंशी।
मि॒त्रस्य॑ मा॒ चक्षु॑षेक्षध्व॒मग्न॑यः सगराः॒ सग॑रा स्थ॒ सग॑रेण॒ नाम्ना॒ रौद्रे॒णानी॑केन पा॒त मा॑ऽग्नयः पिपृ॒त मा॑ऽग्नयो गोपा॒यत॑ मा॒ नमो॑ वोऽस्तु॒ मा मा॑ हिᳪसिष्ट ।। ३४ ।।
उ० ऋत्विजः मित्रस्य मा । मित्रस्यादित्यस्य चक्षुषा मामीक्षध्वम् । मित्रस्य हि शान्तं चक्षुः। धिष्ण्यान् । अग्नयः सगराः । 'गृ स्तुतौ' । हे अग्नयः, सगराः समानगराः समानस्तुतयः । ये यूयं समानस्तुतयो भवथ ते सगरेण नाम्ना समानस्तुतिनाम्नाभिहिताः सन्तः । समानं हि नाम धिष्ण्या इति । ते वै द्विनामानो भवन्ति' इति द्विनामता च। रौद्रेण रुद्रदैवत्येन अनीकेन मुखेन पातं पालयतं मा माम् । हे अग्नयः, पिपृतं पूरयत धनैर्माम् । हे अग्नयः, गोपायत रक्षत माम् । किंच हे अग्नयः, नमो वोस्तु । अयं नमस्कारो वो युष्मभ्यं भवतु । मा मा हिंसिष्ट । 'तृह हिसि हिंसायाम्' । मा हिंसिष्ट माम् । यदत्र पुनरुक्तं तत् 'अभ्यासेन भूयांसमर्थं मन्यन्ते' इति परिह्रियते ॥ ३४ ॥
म० मित्रस्येत्यृत्विजः' (का. ९। ८ । २६) इति । अभिमन्त्रयत इति शेषः । हे ऋत्विजः, मित्रस्यादित्यस्य चक्षुषा नेत्रेण मा मामीक्षध्वं पश्यत सख्युर्नेत्रेण वा सखा यथा सखायं हितचक्षुषा पश्यति तथा मां पश्यध्वमित्यर्थः । 'अग्नयः सगरा इति धिष्ण्यानि' ( का० ९ । ८।२७) इति । अभिमन्त्रयत इति शेषः । हे अग्नयः सगराः । 'गृ स्तुतौ' गरेण स्तुत्या सहिताः सगराः यूयं सगरेण नाम्ना स्तुतिसहितेन नाम्ना धिष्ण्या इति नाम्ना व्यवह्रियमाणत्वात्सगराः स्थ समानस्तुतयो भवथ । समानो गरो येषां ते सगराः । हे अग्नयः, ते यूयं रौद्रेणानीकेन शत्रुविनाशकत्वादुग्रेण भवदीयेन सैन्येन मा मां पात रक्षत । यद्वा रुद्रदेवत्येन मुखेन मां पात अनीकं मुखं सैन्यं च । हे अग्नयः, मा मां पिपृत धनादिभिः पूरयत । मा मां गोपायत रक्षत । 'अभ्यासे भूयांसमर्थं मन्यन्ते' (निरु०१०। ४२) इति यास्कोक्तेः निरन्तरं रक्षतेत्यर्थः । वो युष्मभ्यं नमोऽस्तु । मा मां मा हिंसिष्ट मा वधिष्ट । निर्विघ्नं यज्ञं कारयतेत्यर्थः ॥ ३४॥

पञ्चत्रिंशी।
ज्योति॑रसि वि॒श्वरू॑पं॒ विश्वे॑षां दे॒वाना॑ᳪ स॒मित् । त्वᳪ सो॑म तनू॒कृद्भ्यो॒ द्वेषो॑भ्यो॒ऽन्यकृ॑तेभ्य उ॒रु य॒न्तासि॒ वरू॑थ॒ᳪ स्वाहा॑ जुषा॒णो अ॒प्तुराज्य॑स्य वेतु॒ स्वाहा॑ ।। ३५ ।।
उ० पृषदाज्यं गृह्णाति । ज्योतिरसि यथा त्वं ज्योतिरसि आज्यत्वाद् यथाच विश्वरूपं वैचित्र्यात्त्वमसि । एवं विश्वेषां देवानां समित् समिन्धनमसि। वैसर्जितानि जुहोति। त्वᳪ सोम । सौमी गायत्री अनवसानीया । हे सोम, त्वं तनूकूद्भ्यः । 'कृती छेदने' । तनूः शरीरम् तत्कृन्तन्ति छिन्दन्ति ये वृकादयः ते तनूकृतः तेभ्यः गोपायेत्येतदध्याह्रियते । द्वेषोभ्योऽन्यकृतेभ्यः यानि च द्वेषांसि अन्यकृतानि दुर्जनकृतानि तेभ्यश्च गोपाय । यतस्त्वं उरुयन्तासि बहुप्रकारं नियन्तासि नियामकोऽसि । किंच वरूथं गृहं च यज्ञरूपं मे गोपाय । यद्वा तन्वा शरीरेण क्रियन्ते यानि द्वेषांसि अन्यकृतानि पुत्रदारप्रभृतिभिः कृतानि तेभ्यो गोपायेति तुल्यम् । द्वितीयं जुहोति । जुषाणः । एकपदा विराट् अप्तुदेवत्या । अप्तुश्चात्र सोमः । जुषाणः सेवमानः प्रीयमाणो वा अप्तुः । आप्नोति तूर्णं पीतः सन् शरीरमित्यप्तुः सोमः । आज्यस्य वेतु पिबतु ॥ ३५॥
म०. 'ध्रुवायाः पुरस्तात्पृषदाज्यमाज्यं दधिमिश्रं पञ्चगृहीतं ज्योतिरसीति समिदन्तेन' (का० ५ । ४ । २६) इति । हे आज्य, त्वं ज्योतिरसि । किंभूतम् । विश्वरूपं सर्वरूपं बहुष्वाहुतिषूपयुक्तत्वाद्विश्वरूपत्वम् । आज्यत्वाद्वा दीप्यमानत्वाद्वा ज्योतिष्ट्वम् । विश्वेषां सर्वेषां देवानां समित्समिन्धनं सम्यग्दीपकम् । देवा ह्याज्यं भुक्त्वा दीप्यन्ते । 'प्रदीप्तमिध्मं त्वᳪ सोमेति प्रचरण्याभिजुहोति' ( का० ८ । ७ । १) इति । जुहूरिव होमसाधना काचित्स्रुक् प्रचरणीत्युच्यते । अवसानरहिता सोमदेवत्या गायत्री भृगुसुतक्रतुदृष्टा । तनूं शरीरं कृन्तन्ति छिन्दन्तीति तनूकृतो राक्षसाः । 'कृती छेदने' । द्विषन्तीति द्वेषांसि दौर्भाग्यानि । अन्यैरस्मद्विरोधिभिः कृतानि प्रेरितान्यन्यकृतानि । हे सोम, त्वं तेभ्यो यन्ता नियन्तासि । यच्छतीति यन्ता 'यम उपरमे' तृच् । यथा तादृशा अस्मान्मा बाधन्ते तथास्मान्सुरक्षितप्रदेशे संस्थाप्य पालयसीत्यर्थः । तस्मात्त्वमेवास्माकमुरु प्रभूतं वरूथं बलमसि तस्मै तुभ्यमिदं हुतमस्तु । सोमं नेतुं तमुद्दिश्यासावाज्याहुतीर्हुतेति भावः । 'जुषाणोऽप्तुरिति द्वितीयाम्' (का. ७ । ८ । २) इति । जुहोतीत्यनुवर्तते। अप्तुदेवत्यैकपदा विराट् यजुरन्ता । 'विराजो दश' इत्युक्तेर्दशाक्षरत्वाद्विराट् । अप्तुश्चात्र सोमः । आप्नोति पीतः सन् शरीरमित्याप्तुः ‘आप्लृ व्याप्तौ' 'आप्नोतेर्र्पस्वश्च' ( उणा० १ । ७४ ) इति तुप्रत्ययो धातोर्ह्रस्वश्च । जुषाणः प्रीयमाणोऽप्तुसोम आज्यस्य वेतु आज्यं पिबतु । कर्मण्यपीति केचित् । स्वाहा तस्मै सुहुतमस्तु ॥ ३५॥

षट्त्रिंशी।
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒ध्यस्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ उक्तिं विधेम ।। ३६ ।।
उ० वाचयति । अग्ने नयेति द्वे आग्नेय्यौ त्रिष्टुभौ । हे भगवन्नग्ने, नय प्रापय सुपथा शोभमानेन मार्गेण । राये धनाय यज्ञफलाय । अस्मान् विश्वानि सर्वाणि । हे देव दानादिगुणयुक्त, वयुनानि प्रज्ञानानि प्रकृष्टज्ञानानि । विद्वान् जानानः । नहि ते विज्ञानशक्तीनां प्रमाणमस्तीत्यभिप्रायः। किंच युयोधि । 'यु पृथग्भावे' पृथक्कुरु । अस्मत् मत्तः । जुहुराणमेनः। 'हुर्छा कौटिल्ये' हूर्छतेः सनोलोपश्च' इत्यौणादिकेन सूत्रेण सिद्धिः । हूर्छितुमिच्छति कुटिलीकर्तुमिच्छतीति । यत् एनः पापम् अभिलषितक्रियाप्रतिबन्धि यत्पापम् । किं कारणमिति चेत् भूयिष्ठां बहुतमाम् ते तव नमउक्तिं विधेम । नम इति अन्ननाम । 'वच परिभाषणे' । अस्य स्त्रियां क्तिन् । उक्तिर्भणनम् । नमसा हविर्लक्षणेन । पुरोनुवाक्यायाज्यावचनं नमउक्तिस्तां नमउक्तिं विधेम । दधातिः करोत्यर्थः । करवाम ॥ ३६॥
म० 'अग्ने नयेति वाचयति' (का० ८ । ७ । ६) इति । आग्नेयी त्रिष्टुबगस्त्यदृष्टा । हे अग्ने हे देव, विश्वानि सर्वाणि वयुनानि मार्गान् ज्ञानानि वा विद्वान् जानानस्त्वमस्माननुष्ठातॄन् राये धनाय यज्ञफलाय सुपथा शोभनमार्गेण नय प्रापय । किंच अस्मदस्मत्तोऽनुष्ठातृभ्यः एनः पापं युयोधि पृथक्कुरु । 'यु मिश्रणामिश्रणयोः' यौतेः शपः श्लुः ‘वा छन्दसि' (पा० ३।४। ८८ ) इति हेः पित्त्वपक्षे 'अङितश्च' (पा० ६ । ४ । । १०३) इति हेर्धिः पित्त्वाद्गुणः । किंभूतमेनः । जुहुराणम् । 'हुर्छा कौटिल्ये' अस्मात् हुर्छतेः सनो लुक् छलोपश्च ( उणा. | २ । ८८) औणादिकसूत्रेणानच्प्रत्यये रूपम् । हूर्छितुं कुटिलीकर्तुमिच्छतीति जुहुराणम् । अभिलषितक्रियाप्रतिबन्धकमित्यर्थः । किंच ते तव भूयिष्ठां बहुलतमां नमउक्तिं हविषां वचनं याज्यापुरोनुवाक्यालक्षणां विधेम करवाम । नम इत्यन्ननाम । यद्वा नमस्कारविषयामुक्तिं संपादयाम ॥ ३६ ॥

सप्तत्रिंशी।
अ॒यं नो॑ अ॒ग्निर्वरि॑वस्कृणोत्व॒यं मृध॑: पु॒र ए॑तु प्रभि॒न्दन् ।
अ॒यं वाजा॑ञ्जयतु॒ वाज॑साताव॒यᳪ शत्रू॑ञ्जयतु॒ जर्हृ॑षाण॒: स्वाहा॑ ।। ३७ ।।
उ० आग्नीध्राय जुहोति । अयं नः अयमग्निः नः अस्माकम् । वरिवः धनं कृणोतु करोतु । अयमेव च मृधः संग्रामान् प्रभिन्दन् पुर एतु अग्रतो यातु । अयमेव च वाजानन्नानि जयतु । वाजसातौ अन्नसंभजनसेवने निमित्तभूते । अयमेव च शत्रून् जयतु जर्हृषाणः । 'हृष तुष्टौ' । अत्यर्थं हृष्यन् तुष्यन् ॥ ३७ ॥ ।
म० 'उत्तरेण सदो हृत्वाग्नीध्रेऽग्निं निदधाति ग्रावद्रोणकलशसोमपात्राणि चायं न इति जुहोत्यस्मिन्' (का० ८ । ७। ७-९) इति । शालामुखीयमग्निं ग्रावादीनि च सदस उत्तरभागे नीत्वाग्नीध्रमण्डपे निधाय तत्रत्यधिष्ण्यगतेऽग्नौ घृतेन जुहुयादिति सूत्रार्थः । आग्नेयी त्रिष्टुब्यजुरन्ता । अयमग्निर्नोऽस्माकं वरिवः धनं कृणोतु करोतु । अयमेवानिर्मृधः संग्रामान्प्रभिन्दन्विदारयन्सन् पुर एतु अग्रतो यातु । अयमेवाग्निर्वाजसातौ वाजानामन्नानां संभजने निमित्ते वाजान् शत्रुसंबन्धीन्यन्नानि अस्मभ्यं दातुं जयतु । ततोऽयमेवाग्निर्जर्हृषाणोऽत्यर्थं हृष्यन् शत्रूञ्जयतु स्वाहा तुभ्यं सुहुतमस्तु ॥ ३७ ॥

अष्टत्रिंशी।
उ॒रु वि॑ष्णो॒ वि क्र॑मस्वो॒रु क्षया॑य नस्कृधि ।
घृ॒तं घृ॑तयोने पिब॒ प्रप्र॑ य॒ज्ञप॑तिं तिर॒ स्वाहा॑ ।। ३८ ।।
उ० आहवनीये जुहोति । उरुविष्णो । वैष्णव्यनुष्टुप् । हे विष्णो यज्ञ, उरु महत् विक्रमस्व व्याप्नुहि । देवयानाभिप्रायं त्रिलोकाभिप्रायं वा । उरु विस्तीर्णशरीरान् क्षयाय संनिवासाय । महत् । ब्रह्म गृहनिवासाय । नः अस्मान् । कृधि कुरु । उरु 'क्षयो निवासे' इति आद्युदात्तत्वात् क्षयशब्दो निवासवचनः । किंच घृतं पिब घृतयोने अग्ने । 'अग्निर्यस्यै योनेरसृजत तस्यै घृतमुल्बमासीत्' इति श्रुतिः । प्रप्र यज्ञपतिं तिर । 'प्रसमुपोदः पादपूरणे' इत्यभ्यासः । तिरतिवृद्ध्यर्थः । प्रतिर प्रवर्धय यज्ञपतिं यजमानं | पुत्र्यश्वादिभिः ॥ ३८ ॥
म०. 'उरु विष्णविति जुहोति' ( का० ८ । ७।१५) इति। पूर्वमन्त्रेणाग्नीध्रीये होमोऽनेन त्वाहवनीय इति सूत्रार्थः । वैष्णव्यनुष्टुब्यजुरन्ता । हे विष्णो व्यापिन् आहवनीय, उरु विक्रमस्व शत्रुषु बहुलं पराक्रमं कुरु । किंच क्षयाय ब्रह्मगृहनिवासाय नोऽस्मानुरु बहु यथा तथा कृधि कुरु । हे घृतयोने अग्ने, घृतं पिब हूयमानमिदमाज्यं भक्षय । 'अग्निर्यस्यै योनेरसृज्यत | तस्यै घृतमुल्बमासीत्' इति श्रुतेर्घृतयोनित्वम् । किंच यज्ञपतिं यजमानं प्रतिर अतिशयेन वर्धय । 'प्रसमुपोदः पादपूरणे' (पा० ८।१।६) इति प्रशब्दस्य द्वित्वम् । स्वाहा तस्मै | तुभ्यं सुहुतमस्तु ॥ ३८ ॥

एकोनचत्वारिंशी।।
देव॑ सवितरे॒ष ते॒ सोम॒स्तᳪ र॑क्षस्व॒ मा त्वा॑ दभन् ।
ए॒तत्त्वं दे॑व सोम दे॒वो दे॒वाँ२ उपा॑गा इ॒दम॒हं म॑नु॒ष्या॒न्त्स॒ह रा॒यस्पोषे॑ण स्वाहा॒ निर्वरु॑णस्य॒ पाशा॑न्मुच्ये ।। ३९ ।।
उ० सोमं निदधाति । देवसवितः । हे देवसवितः, तव सोमः समर्पितः तं रक्षस्व गोपाय । मा त्वा दभन् । तस्मिन्रक्षणकर्मणि प्रवृत्तं त्वां मा असुरा दभ्नुयुः । दभ्नोतेर्वधकर्मा । यजमान उपतिष्ठते । एतत्वं देव हे देव, सोम, एतत्त्वं देवः सन् देवान् उप अगाः उपागतवानसि । अभिनयेन दर्शयति । इदमहं मनुष्यान् । उपगच्छेयमित्यनुषङ्गः । सहरायस्पोषेण सहितो धनपोषेण। उपनिष्क्रामति । स्वाहा निर्वरुणस्य स्वाहा । स्वः अहमिति निगृह्यवचनम् । अनेन देवानां सोमप्रदानेनात्मानं निष्क्रीयस्व आत्मीयोहमस्मि अस्माच्च हेतोर्निर्मुच्ये निर्मुक्तोहं वरुणस्य संबन्धिनः पाशात् । यद्वा सुहुतः सोमोस्तु । अहं त्विदानीमेव वरुणस्य पाशान्निर्मुच्ये ॥ ३९॥
म० 'दक्षिणेऽनसि कृष्णाजिनमास्तीर्य तस्मिन्सोमं निदधाति देव सवितः' (का० ८।७।१७) इति । अनसि शकटे । सावित्रं यजुः । हे सवितः सर्वस्य प्रेरक देव, एष सोमस्ते तवार्पितः तं तादृशं सोमं त्वं रक्षस्व पालय । मा त्वा दभन् सोमस्य रक्षितारं त्वामसुरा मा विहिंसिषुः । एतत्त्वमिति विसृज्योपतिष्ठते' ( का० ८ । ७ । १८) इति । कृष्णाजिने स्थापितं बद्धं सोमं विस्रस्योपस्थानं कुर्यादिति सूत्रार्थः । सौम्यं यजुः । हे सोम देव, त्वं देवः सन्भवदीयान्देवानेतदिदानीमुपागाः प्राप्तोऽसि । अहं मनुष्यो यजमानो मदीयान्मनुष्यानिदमिदानीं रायस्पोषेण सह पश्वादिधनेन सार्धमुपागतोऽस्मीत्यनुषङ्गः । 'स्वाहा निरिति निष्क्रम्य' ( का० ८।७।१९.)इति हविर्धानमण्डपान्निर्गत्येति सूत्रार्थः । हानं हा न हा अहा स्वस्याहा स्वाहा स्वात्यागः सोमेनात्मानं निष्क्रीयात्मीयोऽहमस्मीत्यर्थः । यद्वा स्वाहा सोमरूपमन्नं देवेभ्यो दत्तमस्तु । अनेन सोमप्रदानेनाहं वरुणपाशान्निर्मुच्ये निर्मुक्तोऽस्मि ॥ ३९ ॥

चत्वारिंशी।
अग्ने॑ व्रतपा॒स्त्वे व्र॑त॒पा या तव॑ त॒नूर्मय्यभू॑दे॒षा सा त्वयि॒ यो मम॑ त॒नूस्त्वय्यभू॑दि॒यᳪ सा मयि॑ ।
य॒था॒य॒थं नौ॑ व्रतपते व्र॒तान्यनु॑ मे दी॒क्षां दी॒क्षाप॑ति॒रम॒ᳪस्तानु॒ तप॒स्तप॑स्पतिः ।। ४० ।।
उ० समिधमादधाति । अग्ने व्रतपाः । यजमानोऽग्निशरीरेणात्मशरीरस्य कृतव्यत्ययोऽधस्तनकर्मकलापं कृत्वाऽथेदानीं यथास्वं शरीरेणानुकुर्वाण आह । अग्ने व्रतपाः त्वे व्रतपाः या तव तनूः । व्रतपाशब्दस्यामन्त्रितस्याभ्यासः। 'अभ्यासे भूयां समर्थं मन्यन्ते' इत्यतिशयार्थः । त्वे इति द्वितीयार्थे शेप्रत्ययः । हे अग्ने, अतिशयेन व्रतस्य त्वं गोपाः अतस्त्वां ब्रवीमि या तव संबन्धिनी तनूर्मयि अभूत् । अभिनयेन दर्शयति । एषा सा त्वयि भवतु । यो मम तनूः । या तु मम तनूः त्वयि अग्ने, अभूद् इयं सा मयि भवतु । किंच यथायथं नौ व्रतपते व्रतानि यथायथं यथास्वं यथात्मीयम् आवयोः हे व्रतपते अग्ने, व्रतानि कर्माणि सन्तु । किंच अनु मे दीक्षां दीक्षापतिरमᳪस्त अन्वमंस्त अनुमतवान् मे मम दीक्षां दीक्षापतिः सोमः । अनुतपस्तपस्पतिः अनुमतवांश्च तपः उपसदः तपस्पतिः तपसः पतिः सोमः तपःप्रधानत्वात् तपःशब्देनोपसद उच्यन्ते ॥ ४० ॥
म० 'अग्ने व्रतपा इत्याहवनीये समिधमाधायेति' (का. ८।३।४) आग्नेयं यजुः यजमानोऽग्निशरीरेणात्मशरीरस्य कृतव्यत्ययोऽधस्तनं कर्मकलापं कृत्वाथ यथा स्वशरीरं कुर्वाण आह हे अग्ने, व्रतपाः स्वभावतः सर्वेषां व्रतानां पालकोऽसि तस्मात्कारणादिदानीमपि त्वं व्रतपाः मदीयव्रतस्य पालको भवेति शेषः। हे अग्ने, व्रतप्रार्थनकाले तव संबन्धिनी या तनूर्मयि अभूदवस्थिता सा एषा तव तनूः त्वयि भवत्विति शेषः । यो या उ या च मम तनूस्त्वय्यभूत्सा इयं मयि भवतु । किंच हे व्रतपते व्रतपालकाग्ने, नौ आवयोर्व्रतानि कर्माणि यथायथं यथास्वं स्वसंबन्धमनतिक्रम्य सन्त्विति शेषः । अनुष्ठानरूपं व्रतं ममास्तु तत्पालनरूपं व्रतं तवास्त्वित्यर्थः । किंच दीक्षापतिः दीक्षायाः पालकोऽग्निः मे दीक्षां मदीयदीक्षार्थं नियममन्वमंस्त अनुमतवान् । अङ्गीकृतवानित्यर्थः । तपस्पतिः तपसः पालकोऽग्निस्तपो मदीयामुपसदमन्वमंस्तानुमतवान् ॥ ४० ॥

एकचत्वारिंशी।
उ॒रु वि॑ष्णो॒ वि क्र॑मस्वो॒रु क्षया॑य नस्कृधि । घृ॒तं घृ॑तयोने पिब॒ प्रप्र॑ य॒ज्ञप॑तिं तिर॒ स्वाहा॑ ।। ४१ ।।
उ० यूपाहुतिः । उरु विष्णो । व्याख्यातम् ॥ ४१ ॥
म० इदानीं यूपसंपादनमन्त्राः 'गृहेषु यूपाहुतिं जुहोति चतुर्ग्रहीताᳪस्रुवेण वोरु विष्णविति' (का० ६।१।३-४) इति । चतुर्गृहीतमाज्यमाहवनीये जुहोति यूपं छेत्तुं गमिष्यन्सा यूपाहुतिरिति सूत्रार्थः । व्याख्याता ॥ ४१ ॥

द्विचत्वारिंशी।
अत्य॒न्याँ२ अगां॒ नान्याँ२ उपा॑गाम॒र्वाक् त्वा॒ परे॒भ्योऽवि॑दं प॒रोऽव॑रेभ्यः ।
तं त्वा॑ जुषामहे देव वनस्पते देवय॒ज्यायै॑ दे॒वास्त्वा॑ देवय॒ज्यायै॑ जुषन्तां॒ विष्ण॑वे त्वा ।
ओष॑धे॒ त्राय॑स्व स्वधि॑ते॒ मैन॑ᳪ हिᳪसीः ।। ४२ ।।
उ० अभिमृशति यूपम्। अत्यन्यान् अतीत्यान्यान् । यूपलक्षणलक्षितान् वृक्षान् । अगाम् त्वां प्रत्यागतः नान्यान् उपागाम् । भवन्तं च दृष्ट्वा न अन्यान् यूपवृक्षान् उपअगाम् । उप आगतवानस्मि । किंच अर्वाक् त्वा परेभ्यो विदन् । ये त्वत्तः पराञ्चो वृक्षास्तेभ्यस्त्वामर्वाक् अविदम्। विदिर्लाभार्थो ज्ञानार्थो वा। लब्धवानस्मि ज्ञातवान्वा । परः परस्ताच्च अवरेभ्यस्त्वाम् अविदमित्यनुवर्तते । तं त्वां लक्षण्यं जुषामहे सेवामहे । देव वनस्पते । देव दानादिगुणयुक्त वनस्पते । देवयज्यायै देवयागाय । किंच देवाश्च त्वां भवन्तं देवयागाय जुषन्तां सेवन्ताम् । उपस्पृशति । विष्णवे त्वा । तादर्येेा चतुर्थी । विष्णवे यज्ञाय त्वाम् । उपस्पृशामीति शेषः । कुशतरुणमन्तर्दधाति । ओषधे त्रायस्व व्याख्यातम् । प्रहरति । स्वधिते मैनᳪहिᳪसीः व्याख्यातम् ॥ ४२ ॥
म०. 'आज्यशेषमादाय स तक्षा गच्छति यूपमभिमृशत्यत्यन्यानिति प्राङ् तिष्ठन्नभिमन्त्रयते वेति' ( का० ६ । १ । ५-७)। यूपाहुतिशेषाज्ययुतो यूपतक्षणार्थ वनं गत्वा यूपमभिमृशेदभिमन्त्रयेद्वेति सूत्रार्थः । वनस्पतिदेवत्यम् । वृक्षा द्विविधाः यूप्या अयूप्याश्च । पलाशखदिरबिल्वादयो यूप्याः निम्बजम्बीरादयस्त्वयूप्याः । हे पुरोवर्ति यूपवृक्ष, त्वत्तोऽन्यान्कांश्चिद्यूप्यानपि समप्रदेशजन्मादिलक्षणरहितानत्यगाम् अतिक्रान्तवानस्मि अन्यांश्चायूप्यान्नोपागाम् । किंच परेभ्यो वृक्षेभ्यो दूरवर्तिभ्योर्वाक् निकटं त्वा त्वामविदं लब्धवानस्मि । अवरेभ्यो निकटेभ्यः परः परस्तादविदं विद्लृ लाभे' 'पुषादि-' (पा० | ३।१।५५) इत्यङ् लुङि रूपम् । किंच हे वनस्पते वनस्य पते, हे देव दीप्यमान वृक्ष, देवयज्यायै देवयागार्थं तं तादृशं त्वां वयं । जुषामहे सेवामहे। देवा अपि देवयज्यायै त्वा जुषन्तां सेवन्ताम् । । 'स्रुवेणोपस्पृशति विष्णवे त्वेति' (का० ६।१।११)। हे यूपवृक्ष, त्वा त्वां विष्णवे यज्ञाय उपस्पृशामीति शेषः । 'यज्ञो वै विष्णुः' इति श्रुतेः 'ओषध इति कुशतरुणं तिरस्कृत्येति' (का. ६।१।१२)। यूपवृक्षस्य कुशमन्तर्धानं कुर्यादिति सूत्रार्थः । हे ओषधे, त्वं त्रायस्व स्वधितिभयात् मां रक्ष । स्वधित इति परशुना प्रहरतीति' (का० ६।१।१३)। हे स्वधिते । परशो, एनं यूपं मा वधीः ॥ ४२ ॥

त्रिचत्वारिंशी ।
द्यां मा ले॑खीर॒न्तरि॑क्षं॒ मा हि॑ᳪसीः पृथि॒व्या सम्भ॑व ।
अ॒यᳪ हि त्वा॒ स्वधि॑ति॒स्तेति॑जानः प्रणि॒नाय॑ मह॒ते सौ॑भगाय ।
अत॒स्त्वं दे॑व वनस्पते श॒तव॑ल्शो॒ वि रो॑ह स॒हस्र॑वल्शा॒ वि व॒यᳪ रु॑हेम ।। ४३ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां पंचमोऽध्यायः ॥५॥ -
उ० पतन्तमभिमन्त्रयते । द्यां मा लेखीः । 'लिख अक्षर- विन्यासे' । इह तु हिंसार्थः । द्युलोकं हिंसीः अन्तरिक्षं मा हिंसीः । पृथिव्या संभव संगतो भव । वज्ररूपत्वाद् यूपस्य लोकानां शान्तिराशास्यते । कस्मात्त्वमेवमुच्यसे द्यां मालेखीरित्यत आह । अयं हीति । हिशब्दो यस्मादर्थे । यस्मादयं त्वां स्वधितिः वज्ररूपः कुठारः तेतिजानः । 'तिज , निशाने' इह तु हिंसार्थः । उत्सहमानः । प्रणिनाय प्रणयति । महते सौभगाय । सुभगो यज्ञः तस्य हि महदैश्वर्यं विद्यते शोभनं च । स्वार्थे अण् । महते यज्ञायेत्यर्थः । सौभाग्याय वा । स्थाणौ जुहोति । अतस्त्वम् । हे ' देव वनस्पते, अतः अस्मात् स्थाणोस्त्वं शतवल्शः बह्वङ्कुरः
शतशाखो विरोह । वयं च सहस्रवल्शाः बह्वङ्कुराः पुत्रपौत्रादिभिः । विरुहेम प्रजायेमहीत्याशीः ॥ ४३ ॥
इति उवटकृतौ मन्त्रभाष्ये पञ्चमोऽध्यायः ॥५॥
म० 'द्यां मा लेखीरिति पतन्तमभिमन्त्रयते' (का० ६ । १।१६) इति । हे यूपवृक्ष, द्यां द्युलोकं त्वं मा लेखीः माहिंसीः । 'लिख अक्षरविन्यासे' इह तु हिंसार्थः । अन्तरिक्षं च मा हिंसीः। पृथिव्या सह संभव सङ्गतो भव । यूपस्य वज्ररूपत्वाल्लोकानां शान्तिराशास्यत इति भावः । 'अयᳪहि त्वेति शोधनमभिमन्त्रणशेषो वा सविशेषोपदेशादिति' (का० ६ । १ । १८-१९) हि यस्मात् हे छिन्नवृक्ष, तेतिजानोऽतितीक्ष्णोऽयं स्वधितिः कुठारो महते सौभगाय सौभाग्याय दर्शनीयत्वाय । यद्वा सुभगो यज्ञः स एव सौभगः स्वार्थेऽण् । यज्ञाय त्वां प्रणिनाय प्रणयति यूपत्वं प्रापयति । 'छन्दसि लुङ्लङ्लिटः' (पा० ३ । ४ । ६) इति वर्तमाने लिट् । 'तिज निशाने' अस्माद्यङन्ताच्छानचि तेतिजान इति रूपम् । अतस्त्वया छेदान्न भेतव्यमिति भावः । अतस्त्वमित्यावृश्चने जुहोति यूपे वेति' ( का० ६।१। २०-२१)। हे देव वनस्पते, अतोऽस्मात्स्थाणोः त्वं शतवल्शः बह्वङ्कुरः सन् विरोह विशेषेण जायस्व । वयं च सहस्रवल्शाः पुत्रपौत्रादिभिर्बहुशाखोपेता विरुहेम प्रजायेमहि ॥ ४३ ॥
श्रीमन्महीधरकृते वेददीपे मनोरमे। आतिथ्यात्स्थाणुहोमान्तः पञ्चमोऽध्याय ईरितः ॥५॥
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां पञ्चमोऽध्यायः ॥५॥


सम्पाद्यताम्

टिप्पणी

५.२५

दर्शपूर्णमासादि हविर्यागेषु पेषणाय दृषदुपलयोः प्रयोगं भवति। सोमयागे एतयोः स्थाने अभिषवणफलकयोः उपयोगं कथितमस्ति। व्यवहारे सोमाभिषवणाय दृषदस्थानीया या शिला अस्ति, तस्याः उल्लेखं न उपलभ्यते।श्री मंगेश बाविकरानुसारेण अस्याः एका संज्ञा उपरहः अस्ति। द्वितीया संज्ञा अश्मा अस्ति -- रक्षोघ्नो वो वलगघ्नस्सꣳसादयामि वैष्णवान् तस्मिंश्चतुरो। ग्राव्ण्णः प्रादेशमात्रान् ऊर्ध्वसानूनाहननप्रकारानश्मनस्संसादयत्युपरं प्रथिष्ठं मध्ये पञ्चमम् । तमभिसंमुखा भवन्ति । स्थवीयांसि मुखानि ।(आश्वलायनश्रौतप्रयोगः)

द्र. दृषदोपरि टिप्पणी


५.३१-५.३२ :

द्रष्टव्यम् - ब्रह्माण्डपुराणम् १.२.१२.२७, वायुपुराणम् २९.२६ । तुथोसि विश्ववेदाः स्थाने पुराणेषु सुतोसि विश्ववेदाः कथनमपि उपलभ्यते। अयं भ्रष्टपाठः अस्ति अथवा पुराणकारेभिः स्वमतस्य प्रदर्शनमस्ति, शोचनीयः।