ब्राह्मण १

१- अग्निचयनमहाव्रतसामबृहदुक्थानां नियमेन सहप्रयोज्यत्वात्तानि त्रीण्येवं सहभावनीयानीति वक्तुं प्रथममग्निबृहदुक्थयोरनुवदनं, संवत्सरात्मकाग्नेः पूर्वचयनं बृहदुक्थस्यान्ते शंसनमिति यदुक्तं तस्य प्रशंसनं, सोपपत्तिकं प्रजापतेः संवत्सररूपत्वाभिधानं, चीयमानाग्नेः संवत्सरप्रजापत्युभयरूपत्वस्यानिधानं, तत्र यावत्य इष्टका यजुर्मन्त्रैरुपहितास्तावत्य एव प्रजापत्यवयवात्मना प्रतिसंहिता इत्यपि प्रतिपादनं, एवं चित्यमग्निं प्रशस्य स्तोत्रशस्त्रयोः प्रशंसनं, तत्र पूर्वभाविग्रहग्रहणं प्रशंसितुं ग्रहे सिच्यमानचमसस्य प्रशंसनं, अध्वर्युकर्तृकं रसग्रहणमभिधाय तस्य महाव्रतमहदुक्थत्वयोरुपपादनं, पूर्वं प्रजापते रससंयुक्तता स्यादन्यथा रसाभावेन शरीरमदृढं भवेदित्याशंक्य तस्याः शंकाया रसस्थापनेन व्युदसनं, अग्नौ रसस्याप्ययनस्य प्रशंसनं, चित्याग्नेर्मिथुनरूपेण प्रशंसनं, उक्ताया मिथुनत्वसम्पत्तेः स्त्रीपुंसयोः शरीरे प्रदर्शनं, एवं मिथुनरूपेणाप्ययनप्रकारं प्रदर्श्य पुनश्चित्याग्निं मिथुनरूपेण स्तोतुं प्रकारान्तरेण प्रतिज्ञापूर्वकं मिथुनत्वस्य प्रतिपादनं, मिथुनपरम्पराऽऽवेदितुः फलनिरूपणं, उक्तेऽर्थे मन्त्रसंवादप्रदर्शनं, यदर्थमन्नरूपत्वमुक्तं तस्य प्रदर्शनं, " अन्नस्यामृतभागो वायुमप्येति " इति यदुक्तं तस्य प्रकृते योजनं, चेत्यादि.


ब्राह्मण २

२-पूर्वं महाव्रतयज्ञे सहप्रयुक्तानि अग्निचयनमहाव्रतसामबृहदुक्थशस्त्राणि त्रीण्यपि पक्ष्याकाराण्यधिदैवं पृथिव्यन्तरिक्षद्युलोकात्मकानि-अध्यात्मं मन:-' प्राणवाग्रूपाणि चेत्यादिनिरूपणं ज्योतिष्टोमे एवैतेषां त्रयाणां सम्पादनप्रकारोपवर्णनं, तत्रोक्तानां भूम्यादिलोकानामग्न्यादेश्चाभेदविवक्षया तदात्मकताप्रतिपादनं, एतेषामेव त्रयाणामध्यात्मत्वं प्रदर्श्य प्रकारान्तरेण प्रशंसनं, पुनः प्रकारान्तरेणैतेषां त्रयाणां प्रशंसनं, प्रथमसंस्थारूपज्योतिष्टोमाग्निष्टोमं महाव्रतयज्ञात्मना स्तोतुं तत्रैवाग्निचयनादित्रयस्योपाप्तेर्ब्रह्मवादिप्रश्नोत्तराभ्यां प्रदर्शनं चेत्यादि.


ब्राह्मण ३

३-प्रजापतेः प्राणेभ्यः सृष्टिनिर्माणकरणप्रतिपादनं, प्रजाः सृष्टवतः प्रजापतेः शरीरस्य मर्त्यामृतत्वं प्रतिपाद्य तत्र मर्त्यशरीरद्वारा मृत्योर्भयेन मृज्जलरूपेण भूमौ प्रवेशननिरूपणं, भूप्रवेशस्यैव मृत्युदेवप्रश्नप्रतिवचनाभ्यां निरूपणं, अग्निचयने पञ्चेष्टकाचितयः पञ्चपुरीषचितयश्च ताः प्रजापतेर्मर्त्यामृतशरीराणीति प्रतिपादनं, उभय्यः पञ्चापि तन्वश्चित्याग्नेरेवेति वक्तुं प्रजापतेस्तदात्मकत्वप्रतिपादनं, मर्त्यशरीराणाममृतत्वकरणप्रदर्शनं, अमृत शरीरद्वयेनैकस्य मर्त्यशरीरस्यामृतीकरणस्य चित्त्याग्नौ प्रदर्शनं, यदि द्वाभ्यामेकस्यामृतीकरणं चेत्पञ्चम्याः पुरीषचितेरुपरिचित्यन्तराभावात्तस्या अमृतत्वं न स्यादित्याशंक्य सर्वासामुपरि विकर्णीस्वयमातृण्णे इष्टके उपधाय हिरण्यशकलैः सम्प्रोक्ष्य तत्राहवनीयाग्नेराधानमित्येवं रूपां सप्तमीं चितिं संपाद्य ततः पञ्चमीसप्तमीभ्यामिष्टकाचितिभ्यां तन्मध्यस्थितायाः पुरीषचितेरमृतीकरणं सम्पद्यत इति समाधानकथनं, यजमानस्यापि स्वस्यामृतीभवनरूपं फलं सम्पद्यत इति प्रतिपादनं, चित्याग्नेर्न्यूनातिरेकपरिहाराय मन्त्रेणोपस्थानं देवाः कृतवन्त इत्ययमर्थः श्रुत्या स्वयमेव देवकर्तृकाज्ञानपुरःसरं निरूप्यत इत्यभिधानं, मन्त्रगताग्नीन्द्र विश्वदेवपदैः प्रतिपाद्याभिः सवनदेवताभिः सवनत्रयव्यापिचित्याग्नेः संस्कृतत्वस्याभिधानं, अनया ऋचोपस्थाने पूर्वोक्तासर्वकरणादि दोषपरिहारो भवतीति कथनं, ऋग्गतस्यानुष्टप्छन्दसो वाग्रूपेण प्रशंसनं, उपस्थानकालमभिधाय तत्साधनभूतस्य मन्त्रस्य सार्थवादं साभिप्रायं व्याख्यापकब्राह्मणातिदेशसहितं प्रदर्शनं चेत्यादि.


ब्राह्मण ४

४ अनन्तरातीतब्राह्मणे यत्प्रजापतेर्मर्त्यामृतभेदेन द्वैविध्यमुक्तं तद्द्वयोर्मर्त्यामृतयोरर्थं वक्तुं तत्स्मारणं, षण्णामिष्टकाचितीनां प्रजापतेरमृतशरीरगतप्राणापानव्यानोदानसमानवाग्रूपत्वस्य षण्णां पुरीषचितीनां प्रजापतेर्मर्त्यशरीरगतमज्जास्थिस्नायुवसामांसमेदोऽसूक्त्वग्रूपत्वस्य च प्रतिपादनं, चितिद्वयगतां संख्यामनूद्य सम्भूय तस्याः संवत्सररूपाग्न्यात्मना प्रशंसनं, विकर्ण्यादीष्टकाहिरण्यशकलाहवनीयनिधानस्य हिरण्मयरूपत्वेन प्रशंसनं, हिरण्यशकलाहवनीयनिधानं प्रजापतेर्हिरण्मयरूपमित्युक्तं तत्र गुरुशिष्ययोः संवादेन विवादं प्रदर्श्य तत्र विवादे आचार्यः शाण्डिल्यो रूपमित्येव सोपपत्तिकं निश्चितवानित्याद्यभिधानं, शाण्डिल्येनोक्तेऽर्थे श्रुतेरनुमोदनप्रदर्शनं, चित्याग्निमभिलक्ष्याहवनीयाग्नेः प्राङ्मुखत्वेन प्रणयनस्य प्रशंसनं, प्रणीतेऽग्नौ हूयमानानां समिधां देवानामन्नरूपत्वेन प्रशंसनं, अग्निचितः पक्षिभक्षणवर्जननियमं सहेतुकमनूद्य तस्य सहेतुकमेव दूषणकथनं, अग्निचयनसाध्यस्य फलस्य वेदनादिप्रश्नोत्तराभ्यां निरूपणं, उक्तार्थज्ञस्य फलाभिधानं चेत्यादि,

ब्राह्मण ५

५ अग्निचयनकर्मणः संक्षेपत अग्न्याधानादिसर्वयज्ञात्मकत्वप्रतिपादनं, उक्तयज्ञवीर्याणां मीमांसाकरणं, तत्र शतशब्दस्यापरिमितार्थत्वप्रतिपादनं, उक्तार्थं वेदितुः फलनिरूपणं चेति.