प्रथमाश्वासः सम्पाद्यताम्

चिन्तामणिर्जयति सोमगिरिर्गुरुर्मे
शिक्षागुरुश्च भगवाञ्शिखिपिञ्छमौलिः।
यत्पादकल्पतरुपल्लवशेखरेषु
लीलास्वयंवररसं लभते जयश्रीः॥ १
(वसन्ततिलका)

अस्ति स्वस्तरुणीकराग्रविगलत्कल्पप्रसूनाप्लुतं
वस्तु प्रस्तुतवेणुनादलहरीनिर्वाणनिर्व्याकुलम्।
स्रस्तस्रस्तनिरुद्धनीविविलसद्गोपीसहस्रावृतं
हस्तन्यस्तनतापवर्गमखिलोदारं किशोराकृति॥ २
(शार्दूलविक्रीडितम्)

चातुर्यैकनिदानसीमचपलापाङ्गच्छटामन्थरं
लावण्यामृतवीचिलोलितदृशं लक्ष्मीकटक्षादृतम्।
कालिन्दीपुलिनाङ्गनप्रणयिनं कामावताराङ्कुरं
बालं नीलममी वयं मधुरिमस्वाराज्यमाराध्नुमः॥ ३
(शार्दूलविक्रीडितम्)

बर्होत्तंसविलासिकुन्तलभरं माधुर्यमग्नाननं
प्रोन्मीलन्नवयौवनं प्रविलसद्वेणुप्रणादामृतम्।
आपीनस्तनकुट्मलाभिरभितो गोपीभिराराधितं
ज्योतिश्चेतसि नश्चकास्ति जगतामेकाभिरामाद्भुतम्॥ ४
(शार्दूलविक्रीडितम्)

मधुरतरस्मितामृतविमुग्धमुखाम्बुरुहं
मदशिखिपिञ्छलाञ्छितमनोज्ञकचप्रचयम्।
विषयविषामिषग्रसनगृध्नुनि चेतसि मे
विपुलविलोचनं किमपि धाम चकास्ति चिरम्॥ ५
(कोकिलका)

मुकुलायमाननयनाम्बुजं विभो–
र्मुरलीनिनादमकरन्दनिर्भरम्।
मुकुरायमाणमृदुगण्डमण्डलं
मुखपङ्कजं मनसि मे विजृम्भताम्॥ ६
(मञ्जुभाषिणी)

कमनीयकिशोरमुग्धमूर्तेः
कलवेणुक्वणितादृताननेन्दोः।
मम वाचि विजृम्भतां मुरारे–
र्मधुरिम्णः कणिकापि कापि कापि॥ ७
(औपच्छन्दसिकम्)

मदशिखण्डिशिखण्डविभूषणं
मदनमन्थरमुग्धमुखांबुजम्।
व्रजवधूनयनाञ्चलवञ्चितम्
विजयतां मम वाङ्मयजीवितम्॥ ८
(द्रुतविलम्बितम्)

पल्लवारुणपाणिपङ्कजसङ्गिवेणुरवाकुलं
फुल्लपाटलपाटलीपरिवादिपादसरोरुहम्।
उल्लसन्मधुराधरद्युतिमञ्जरीसरसाननं
वल्लवीकुचकुम्भकुङ्कुमपङ्किलं प्रभुमाश्रये॥ ९
(मत्तकोकिलम्)

अपाङ्गरेखाभिरभङ्गुराभि–
रनङ्गरेखारसरञ्जिताभिः।
अनुक्षणं वल्लवसुन्दरीभि–
रभ्यर्च्यमानं विभुमाश्रयामः॥ १०
(उपजाति)

हृदये मम हृद्यविभ्रमाणां
हृदयं हर्षविशाललोलनेत्रम्।
तरुणं व्रजबालसुन्दरीणां
तरलं किञ्चन धाम संनिधत्ताम्॥ ११
(औपच्छन्दसिकम्)

निखिलभुवनलक्ष्मीनित्यलीलास्पदाभ्यां
कमलविपिनवीथीगर्वसर्वङ्कषाभ्याम्।
प्रणमदभयदानप्रौढगाढोद्धताभ्यां
किमपि वहतु चेतः कृष्णपादाम्बुजाभ्याम्॥ १२
(मालिनी)

प्रणयपरिणताभ्यां प्राभवालम्बनाभ्यां
प्रतिपदललिताभ्यां प्रत्यहं नूतनाभ्याम्।
प्रतिमुहुरधिकाभ्यां प्रस्नुवल्लोचनाभ्यां
प्रभवतु हृदये नः प्राणनाथः किशोरः॥ १३
(मालिनी)

माधुर्यवारिधिमदान्धतरङ्गभङ्गी–
शृङ्गारसंकलितशीतकिशोरवेषम्।
आमन्दहासललिताननचन्द्रबिम्ब–
मानन्दसंप्लवमनुप्लवतां मनो मे॥ १४
(वसन्ततिलका)

अव्याजमञ्जुलमुखाम्बुजमुग्धभावै–
रास्वाद्यमाननिजवेणुविनोदनादम्।
आक्रीडतामरुणपादसरोरुहाभ्या–
मार्द्रे मदीयहृदये भुवनार्द्रमोजः॥ १५
(वसन्ततिलका)

मणिनूपुरवाचालं
वन्दे तच्चरणं विभोः।
ललितानि यदीयानि
लक्ष्माणि व्रजवीथिषु॥ १६
(अनुष्टुप्श्लोकम्)

मम चेतसि स्फुरतु वल्लवीविभो–
र्मणिनूपुरप्रणयि मञ्जुशिञ्जितम्।
कमलावनेचरकलिन्दकन्यका–
कलहंसकण्ठकलकूजितादृतम्॥ १७
(मञ्जुभाषिणी)

तरुणारुणकरुणामयविपुलायतनयनं
कमलाकुचकलशीभरविपुलीकृतपुलकम्।
मुरलीरवतरलीकृतमुनिमानसनलिनं
मम खेलति मदचेतसि मधुराधरममृतम्॥ १८
(हंसकम्)

आमुग्धमर्धनयनाम्बुजचुम्ब्यमान–
हर्षाकुलव्रजवधूमधुराननेन्दोः।
आरब्धवेणुरवमादिकिशोरमूर्ते–
राविर्भवन्ति मम चेतसि केऽपि भावाः॥ १९
(वसन्ततिलका)

कलक्वणितकङ्कणं करनिरुद्धपीताम्बरं
क्रमप्रसृतकुन्तलं गलितबर्हभूषं विभोः।
पुनः प्रसृतिचापलं प्रणयिनीभुजायन्त्रितं
मम स्फुरतु मानसे मदनकेलिशय्योत्थितम्॥ २०
(पृथ्वी)

स्तोकस्तोकनिरुध्यमानमृदुलप्रस्यन्दिमन्दस्मितं
प्रेमोद्भेदनिरर्गलप्रसृमरप्रव्यक्तरोमोद्गमम्।
श्रोतृश्रोत्रमनोहरव्रजवधूलीलामिथोजल्पितं
मिथ्यास्वापमुपास्महे भगवतः क्रीडानिमीलद्दृशः॥ २१
(शार्दूलविक्रीडितम्)

विचित्रपत्राङ्कुरशालिबाला–
स्तनान्तरं मौनिमनोऽन्तरं वा।
अपास्य बृन्दावनपादपास्यम्
उपास्यमन्यन्न विलोकयामः॥ २२
(उपेन्द्रवज्रा)

साध्यं समृद्धैरमृतायमानै–
राध्मायमानैर्मुरलीनिनादैः।
मूर्धाभिषिक्तं मधुराकृतीनां
बालं कदा नाम विलोकयिष्ये॥ २३
(इन्द्रवज्रा)

शिशिरीकुरुते कदा नु नः
शिखिपिञ्छाभरणः शिशुर्दृशोः।
युगलं विगलन्मधुद्रव–
स्मितमुद्रामृदुना मुखेन्दुना॥ २४
(वियोगिनी)

कारुण्यकर्बुरकटाक्षनिरीक्षणेन
तारुण्यसंवलितशैशववैभवेन।
आपुष्णता भुवनमद्भुतविभ्रमेण
श्रीकृष्णचन्द्र शिशिरीकुरु लोचनं मे॥ २५
(वसन्ततिलका)

कदा वा कालिन्दीकुवलयदलश्यामलतराः
कटाक्षा लक्ष्यन्ते किमपि करुणावीचिनिचिताः।
कदा वा कंदर्पप्रतिभटजटाचन्द्रशिशिराः
किमप्यन्तस्तोषं ददति मुरलीकेलिनिनदाः॥ २६
(शिखरिणी)

अधीरमालोकितमार्द्रजल्पितं
गतं च गम्भीरविलासमन्थरम्।
अमन्दमालिङ्गितमाकुलोन्मद–
स्मितं च ते नाथ वदन्ति गोपिकाः॥ २७
(वंशस्थविला)

अस्तोकस्मितभरमायतायताक्षं
निःशेषस्तनमृदितं व्रजाङ्गनाभिः।
निःसीमस्तबकितनीलकान्तिधारं
दृश्यासं त्रिभुवनसुन्दरं महस्ते ॥ २८
(प्रहर्षिणी)

मयि प्रसादं मधुरैः कटाक्षै–
र्वंशीनिनादानुचरैर्विधेहि।
त्वयि प्रसन्ने किमिहापरैर्न–
स्त्वय्यप्रसन्ने किमिहापरैर्नः ॥ २९
(उपजाति)

निबद्धमुग्धाञ्जलिरेष याचे
नीरन्ध्रदैन्योन्नतमुक्तकण्ठम्।
दयाम्बुधे देव भवत्कटाक्ष–
दाक्षिण्यलेशेन सकृन्निषिञ्च॥ ३०
(उपजाति)

पिञ्छावतंसरचनोचितकेशपाशे
पीनस्तनीनयनपङ्कजपूजनीये।
चन्द्रारविन्दविजयोद्यतवक्त्रबिम्बे
चापल्यमेति नयनं तव शैशवे नः॥ ३१
(वसन्ततिलका)

त्वच्छैशवं त्रिभुवनाद्भुतमित्यवैमि
यच्चापलं च मम वागविवादगम्यम्।
तत्किं करोमि विरणन्मुरलीविलास–
मुग्धं मुखाम्बुजमुदीक्षितुमीक्षणाभ्याम्॥ ३२
(वसन्ततिलका)

पर्याचितामृतरसानि पदार्थभङ्गी–
फल्गूनि वल्गितविशालविलोचनानि।
बाल्याधिकानि मदवल्लवभावितानि
भावे लुठन्ति सुदृशां तव जल्पितानि॥ ३३
(वसन्ततिलका)

पुनः प्रसन्नेन मुखेन्दुतेजसा
पुरोऽवतीर्णस्य कृपामहाम्बुधेः।
तदेव लीलामुरलीरवामृतं
समाधिविघ्नाय कदा नु मे भवेत्॥ ३४
(वंशस्थविला)

भावेन मुग्धचपलेन विलोकनेन
मन्मानसे किमपि चापलमुद्वहन्तम्।
लोलेन लोचनरसायनमीक्षणेन
लीलाकिशोरमुपगूहितुमुत्सुकाः स्मः॥ ३५
(वसन्ततिलका)

अधीरबिम्बाधरविभ्रमेण
हर्षार्द्रवेणुस्वरसंपदा च।
अनेन केनापि मनोहरेण
हा हन्त हा हन्त मनो धुनोति॥ ३६
(उपजाति)

यावन्न मे निखिलमर्मदृढाभिघात–
निःसंधिबन्धनमुदेति नवोपतापः।
तावद्विभो भवतु तावकवक्त्रचन्द्र–
चन्द्रातपद्विगुणिता मम चित्तधारा॥ ३७
(वसन्ततिलका)

यावन्न मे नरदशा दशमी दृशोऽपि
रन्ध्रादुदेति तिमिरीकृतसर्वभावा।
लावण्यकेलिसदनं तव तावदेतु
लक्ष्म्या समुत्क्वणितवेणु मुखेन्दुबिम्बम्॥ ३८
(वसन्ततिलका)

आलोललोचनविलोकितकेलिधारा–
नीराजिताग्रसरणेः करुणाम्बुराशेः।
आर्द्राणि वेणुनिनदैः प्रतिनादपूरै–
राकर्णयामि मणिनूपुरशिञ्जितानि॥ ३९
(वसन्ततिलका)

हे देव हे दयित हे जगदेकबन्धो
हे कृष्ण हे चपल हे करुणैकसिन्धो।
हे नाथ हे रमण हे नयनाभिराम
हा हा कदा नु भवितासि पदं दृशोर्मे॥ ४०
(वसन्ततिलका)

अमून्यधन्यानि दिनान्तराणि
हरे त्वदालोकनमन्तरेण।
अनाथबन्धो करुणैकसिन्धो
हा हन्त हा हन्त कथं नयामि॥ ४१
(उपजाति)

किमिह शृणुमः कस्य ब्रूमः कथं कृतमाशया
कथयत कथं धन्यामन्यामहो हृदयेशयम्।
मधुरमधुरस्मेराकारे मनोनयनोत्सवे
कृपणकृपणा तृष्णा कृष्णे चिरं बत लम्बते॥ ४२
(हरिणी)

आभ्यां विलोचनाभ्या–
मम्बुजदलललितलोचनं बालम्।
द्वाभ्यामपि परिरब्धुं
दूरे मम हन्त दैवसमाग्री॥ ४३
(गीति)

अश्रान्तस्मितमरुणारुणाधरोष्ठं
हर्षार्द्रद्विगुणमनोज्ञवेणुगीतम्।
विभ्राम्यद्विपुलविलोचनार्धमुग्धं
वीक्षिष्ये तव वदनाम्बुजं कदा नु॥ ४४
(प्रहर्षिणी)

लीलायताभ्यां रसशीतलाभ्यां
नीलारुणाभ्यां नयनाम्बुजाभ्याम्।
आलोकयेदद्भुतविभ्रमाभ्यां
काले कदा कारुणिकः किशोरः॥ ४५
(इन्द्रवज्रा)

बहुलचिकुरभारं बद्धपिञ्छावतंसं
चपलचपलनेत्रं चारुबिम्बाधरोष्ठम्।
मधुरमृदुलहासं मन्दरोदारलीलं
मृगयति नयनं मे मुग्धवेषं मुरारेः॥ ४६
(मालिनी)

बहुलजलदच्छायाचोरं विलासभरालसं
मदशिखिशिखालीलोत्तंसं मनोज्ञमुखाम्बुजम्।
कमपि कमलापाङ्गोदग्रप्रसन्नजगज्जडं
मधुरिमपरीपाकोद्रेकं वयं मृगयामहे॥ ४७
(हरिणी)

परामृश्यं दूरे परिषदि मुनीनां व्रजवधू–
दृशां दृश्यं शश्वत्त्रिभुवनमनोहारिवपुषम्।
अनामृश्यं वाचामनिदमुदयानामपि कदा
दरीदृश्ये देवं दरदलितनीलोत्पलरुचिम्॥ ४८
(शिखरिणी)

लीलाननाम्बुजमधीरमुदीक्षमाणं
नर्माणि वेणुविवरेषु निवेशयन्तम्।
डोलायमाननयनं नयनाभिरामं
वन्दे कदा नु दयितं व्यतिलोकयिष्ये॥ ४९
(वसन्ततिलका)

लग्नं मुहुर्मनसि लम्पटसंप्रदायि–
लेखावलेखिनि रसज्ञमनोज्ञवेषम्।
लज्जन्मृदुस्मितमधुस्नपिताधरांशु–
राकेन्दुलालितमुखेन्दु मुकुन्दबाल्यम्॥ ५०
(वसन्ततिलका)

अहिमकरकरनिकरमृदुमुदितलक्ष्मी–
सरसतरसरसिरुहसरसदृशि देवे।
व्रजयुवतिरतिकलहविजयिनिजलीला–
मदमुदितवदनशशिमधुरिमणि लीये॥ ५१
(शशिकला)

करकमलदलदलितललिततरवंशी–
कलनिनदगलदमृतघनसरसि देवे।
सहजरसभरभरितदरहसितवीथी–
सततवहदधरमणिमधुरिमणि लीये॥ ५२
(शशिकला)

कुसुमशरशरसमरकुपितमदगोपी–
कुचकलशघुसृणरसलसदुरसि देवे।
मदलुलितमृदुहसितमुषितशशिशोभा–
मुहुरधिकमुखकमलमधुरिमणि लीये॥ ५३
(शशिकला)

आनम्रामसितभ्रुवोरुपचितामक्षीणपक्ष्माङ्कुरे–
ष्वालोलामनुरागिणोर्नयनयोरार्द्रां मृदौ जल्पिते।
आताम्रामधरामृते मदकलामम्लानवंशीस्वने–
ष्वाशास्ते मम लोचनं व्रजशिशोर्मूर्तिं जगन्मोहिनीम्॥ ५४
(शार्दूलविक्रीडितम्)

तत्कैशोरं तच्च वक्त्रारविन्दं
तत्कारुण्यं ते च लीलाकटाक्षाः।
तत्सौन्दर्यं सा च मन्दस्मितश्रीः
सत्यं सत्यं दुर्लभं दैवतेषु॥ ५५
(शालिनी)

विश्वोपप्लवशमनैकबद्धदीक्षं
विश्वासस्तबकितचेतसां जनानाम्।
पश्यामः प्रतिनवकान्तिकन्दलार्द्रं
पश्यामः पथि पथि शैशवं मुरारेः॥ ५६
(प्रहर्षिणी)

मौलिश्चन्द्रकभूषणो मरकतस्तम्भाभिरामं वपु–
र्वक्त्रं चित्रविमुग्धहासमधुरं बाले विलोले दृशौ।
वाचः शैशवशीतला मदगजश्लाघ्या विलासस्थिति–
र्मन्दंमन्दमये क एष मथुरावीथीं मिथो गाहते॥ *
(शार्दूलविक्रीडितम्)

पादौ पादविनिर्जिताम्बुजवनौ पद्मालयालङ्कृतौ
पाणी वेणुविनोदनप्रणयिनौ पर्याप्तशिल्पश्रियौ।
बाहू दोहदभाजनं मृगदृशां माधुर्यधारा गिरो
वक्त्रं वाग्विभवातिलङ्घितमहो बालं किमेतन्महः॥ ५७
(शार्दूलविक्रीडितम्)

बर्हं नाम विभूषणं बहुमतं वेषाय शेषैरलं
वक्त्रं द्वित्रिविशेषकान्तिलहरीविन्यासधन्याधरम्।
शीलैरल्पधियामगम्यविभवैः शृङ्गारभङ्गीमयं
वक्त्रं चित्रमहो विचित्रितमहो चित्रं विचित्रं महः॥ ५८
(शार्दूलविक्रीडितम्)

अग्रे समग्रयति कामपि केलिलक्ष्मी–
मन्यासु दिक्ष्वपि विलोचनमेव साक्षी।
हा हन्त हस्तपथदूरमहो किमेत–
दासीत् किशोरमयमम्ब जगत्त्रयं मे॥ ५९
(वसन्ततिलका)

चिकुरं बहुलं विरलं भ्रमरं
मृदुलं वचनं विपुलं नयनम्।
अधरं मधुरं ललितं वदनं
चपलं चरितं च कदानुभवे॥ ६०
(तोटकम्)

परिपालय नः कृपालये–
त्यसकृज्जल्पितमात्मबान्धवः।
मुरलीमृदुलस्वनान्तरे
विभुराकर्णयिता कदा नु नः॥ ६१
(वियोगिनी)

कदा नु कस्यां नु विपद्दशायां
कैशोरगन्धिः करुणाम्बुधिर्नः।
विलोचनाभ्यां विपुलायताभ्यां
व्यालोकयिष्यन्विषयीकरोति॥ ६२
(उपजाति)

मधुरमधरबिम्बे मञ्जुलं मन्दहासे
शिशिरममृतनादे शीतलं दृष्टिपाते।
विपुलमरुणनेत्रे विश्रुतं वेणुनादे
मरकतमणिनीलं बालमालोकये नु॥ ६३
(मालिनी)

माधुर्यादपि मधुरं
मन्मथतातस्य किमपि कैशोरम्।
चापल्यादपि चपलं
चेतो मम हरति किं कुर्मः॥ ६४
(आर्या)

वक्षःस्थले च विपुलं नयनोत्पले च
मन्दस्मिते च मृदुलं मदजल्पिते च।
बिम्बाधरे च मधुरं मुरलीरवे च
बालं विलासनिधिमाकलये कदा नु॥ ६५
(वसन्ततिलका)

मारः स्वयं नु मधुरद्युतिमण्डलं नु
माधुर्यमेव नु मनोनयनामृतं नु।
वाणीमृजा नु मम जीवितवल्लभो नु
बालोऽयमभ्युदयते मम लोचनाय॥ ६६
(वसन्ततिलका)

आर्द्रावलोकितधरापरिणद्धनेत्र–
माविष्कृतस्मितसुधामधुराधरोष्ठम्।
आद्यं पुमांसमवतंसितबर्हिबर्ह–
मालोकयन्ति कृतिनः कृतपुण्यपुञ्जाः॥ ६७
(वसन्ततिलका)

बालोऽयमालोलविलोचनेन
वक्त्रेण चित्रीकृतदिङ्मुखेन।
वेषेण घोषोचितभूषणेन
मुग्धेन दुग्धे नयनोत्सवं नः॥ ६८
(इन्द्रवज्रा)

आन्दोलिताग्रभुजमाकुलनेत्रलील–
मार्द्रस्मितं च वदनाम्बुजचन्द्रबिम्बम्।
शिञ्जानभूषणशतं शिखिपिञ्छमौलिं
शीतं विलोचनरसायनमभ्युपैति॥ ६९
(वसन्ततिलका)

शिशुपालबालपरिषद्विभूषणं
शिशुरेष शीतलविलोललोचनम्।
मृदुलस्मितार्द्रवदनेन्दुसंपदा
मदयन्मदीयहृदयं विगाहते॥ ७०
(मञ्जुभाषिणी)

किमिदमधरवीथीकॢप्तवंशीनिनादं
किरति नयनयोर्नः कामपि प्रेमधाराम्।
तदिदममरवीथीदुर्लभं वल्लभं न–
स्त्रिभुवनकमनीयं दैवतं जीवितं च ॥ ७१
(मालिनी)

तदिदमुपनतं तमालनीलं
तरलविलोचनतारकाभिरामम्।
मुदितमुदितवक्त्रचन्द्रबिम्बं
मुखरितवेणुविलासजीवितं मे॥ ७२
(पुष्पिताग्रा)

चापल्यसीम चपलानुभवैकसीम
चातुर्यसीम चतुराननशिल्पसीम।
सौरभ्यसीम सकलाद्भुतकेलिसीम
सौभाग्यसीम तदिदं व्रजभाग्यसीम॥ ७३
(वसन्ततिलका)

माधुर्येण द्विगुणशिशिरं वक्त्रचन्द्रं वहन्ती
वंशीवीथीविगलदमृतस्रोतसा सेचयन्ती।
मद्वाणीनां विहरणपदं मत्तसौभाग्यभाजां
मत्पुण्यानां परिणतिरहो नेत्रयोः संनिधत्ते॥ ७४
(मन्दाक्रान्ता)

तेजसेऽस्तु नमो धेनु–
पालिने लोकपालिने।
राधापयोधरोत्सङ्ग–
शायिने शेषशायिने॥ ७५
(अनुष्टुप्श्लोकम्)

धेनुपालदयितास्तनस्थली–
धन्यकुङ्कुमसनाथकान्तये।
वेणुगीतगतिमूलवेधसे
तेजसे तदिदम्ॐ नमो नमः॥ ७६
(रथोद्धता)

मृदुक्वणन्नूपुरमन्थरेण
बालेन पादाम्बुजपल्लवेन।
अनुक्वणन्मञ्जुलवेणुगीत–
मायाति मे जीवितमात्तकेलि॥ ७७
(उपजाति)

सोऽयं विलासमुरलीनिनदामृतेन
सिञ्चन्नुदञ्चितमिदं मम कर्णयुग्मम्।
आयाति मे नयनबन्धुरनन्यबन्धु–
रानन्दकन्दलितकेलिकटाक्षलक्षः॥ ७८
(वसन्ततिलका)

दूराद्विलोकयति वारणखेलगामी
धाराकटाक्षभरितेन विलोचनेन।
आरादुपैति हृदयंगमवेणुनाद–
वेणीदुघेन दशनावरणेन देवः॥ ७९
(वसन्ततिलका)

त्रिभुवनसरसाभ्यां दीप्तभूषापदाभ्यां
दृशि दृशि शिशिराभ्यां दिव्यलीलाकुलाभ्याम्।
अशरणशरणाभ्यामद्भुताभ्यां पदाभ्या–
मयमयमनुकूजद्वेणुरायाति देवः॥ ८०
(मालिनी)

सोऽयं मुनीन्द्रजनमानसतापहारी
सोऽयं मदव्रजवधूवसनापहारी।
सोऽयं तृतीयभुवनेश्वरदर्पहारी
सोऽयं मदीयहृदयाम्बुजतापहारी॥ ८१
(वसन्ततिलका)

सर्वज्ञत्वे च मौग्ध्ये च
सार्वभौममिदं महः।
निर्विशन्नयनं हन्त
निर्वाणपदमश्नुते॥ ८२
(अनुष्टुप्श्लोकम्)

पुष्णानमेतत्पुनरुक्तशोभ–
मुष्णेतरांशोरुदयन्मुखेन्दोः।
तृष्णाम्बुराशिं त्रिगुणीकरोति
कृष्णाह्वयं किंचन जीवितं मे॥ ८३
(इन्द्रवज्रा)

तदेतदाताम्रविलोचनश्री–
संभाविताशेषविनम्रवर्गम्।
मुहुर्मुरारेर्मधुराधरोष्ठं
मुखाम्बुजं चुम्बति मानसं मे॥ ८४
(उपजाति)

करौ शरदुदञ्चिताम्बुजविलासशिक्षागुरू
पदौ विबुधपादपप्रथमपल्लवोल्लङ्घिनौ।
दृशौ दलितदुर्मदत्रिभुवनोपमानश्रियौ
विलोकय विलोचनामृतमहो महच्छैशवम्॥ ८५
(पृथ्वी)

आचिन्वानमहन्यहन्यहनि साकारान्विहारक्रमा–
नारुन्धानमरुन्धतीहृदयमप्यार्द्रस्मितास्यश्रिया।
आतन्वानमनन्यजन्मनयनश्लाघ्यामनर्घ्यां दशा–
मानन्दं व्रजसुन्दरीस्तनतटीसाम्राज्यमुज्जृम्भते॥ ८६
(शार्दूलविक्रीडितम्)

तमुच्छ्वसितयौवनं तरलशैशवालंकृतं
मदच्छुरितलोचनं मदविमुग्धहासामृतम्।
प्रतिक्षणविलोभनं प्रणयपीतवंशीमुखं
जगत्त्रयविमोहनं जयति मामकं जीवितम्॥ ८७
(पृथ्वी)

चित्रं तदेतच्चरणारविन्दं
चित्रं तदेतन्नयनारविन्दम्।
चित्रं तदेतद्वदनारविन्दं
चित्रं तदेतत्पुनरम्ब चित्रम्॥ ८८
(इन्द्रवज्रा)

अखिलभुवनैकभूषण–
मधिभूषितजलधिदुहितृकुचकुम्भम्।
व्रजयुवतीहारवल्ली–
मरकतनायकमहामणिं वन्दे॥ ८९
(गीति)

कान्ताकचग्रहणविग्रहलब्धलक्ष्मी–
खण्डाङ्गरागलवरञ्जितमञ्जुलश्रीः।
गण्डस्थलीमुकुरमण्डलखेलमान–
घर्माङ्कुरः किमपि खेलति कृष्णदेवः॥ *
(वसन्ततिलका)

मधुरं मधुरं वपुरस्य विभो–
र्मधुरं मधुरं वदनं मधुरम्।
मधुगन्धिमृदुस्मितमेतदहो
मधुरं मधुरं मधुरं मधुरम्॥ ९०
(तोटकम्)

शृङ्गाररससर्वस्वं
शिखिपिञ्छविभूषणम्।
अङ्गीकृतनराकार–
माश्रये भुवनाश्रयम्॥ ९१
(अनुष्टुप्श्लोकम्)

नाद्यापि पश्यति कदाचन दर्शनेन
चित्ते नवोपनिषदा सुदृशां सहस्रम्।
स त्वं चिरं नयनयोरनयोः पदव्यां
स्वामिन्कया नु कृपया मम संनिधत्से॥ ९२
(वसन्ततिलका)

केयं कान्तिः केशव त्वन्मुखेन्दोः
कोऽयं वेषः कापि वाचामभूमिः।
सेयं सेयं स्वादुता मञ्जुलश्रीर्
भूयो भूयो भूयसस्तन्नमामि॥ ९३
(शालिनी)

वदनेन्दुविनिर्जितः शशी
दशधा देव पदं प्रपद्य ते।
अधिकां श्रियमश्नुतेतरां
तव तारुण्यविजृम्भितं कियत्॥ ९४
(वियोगिनी)

तत्त्वन्मुखं कथमिवाब्जसमानकक्ष्यं
वाङ्माधुरीबहुलपर्वकलासमृद्धम्।
तत्किं ब्रुवे किमपरं भुवनैककान्तं
यस्य त्वदाननसमा सुषमा सदा स्यात्॥ ९५
(वसन्ततिलका)

शुश्रूषसे शृणु यदि प्रणिधानपूर्वं
पूर्वैरपूर्वकविभिर्न कटाक्षितं यत्।
नीराजनक्रमधुरां भवदाननेन्दो–
र्निर्व्याजमर्हति चिराय शशिप्रदीपः॥ *
(वसन्ततिलका)

अखण्डनिर्वाणरसप्रवाह–
विखण्डिताशेषरसान्तराणि।
अयन्त्रितोद्वान्तसुधार्णवानि
जयन्ति शीतानि तव स्मितानि॥ ९६
(उपेन्द्रवज्रा)

कामं सन्तु सहस्रशः कतिपये सारस्यधौरेयकाः
कामं वा कमनीयतापरिणतिस्वाराज्यबद्धव्रताः।
नैवैतैर्विवदामहे न च वयं देव प्रियं ब्रूमहे
यत्सत्यं रमणीयतापरिणतिस्त्वय्येव पारं गता॥ ९७
(शार्दूलविक्रीडितम्)

गलद्व्रीडा लोला मदनवनिता गोपवनिता
मधुस्फीतं गीतं किमपि मधुरा चापलधुरा।
समुज्जृम्भो गुम्भो मधुरिमकिरां मादृशगिरां
त्वयि स्थाने जाते दधति चपलं जन्म सफलम्॥ ९८
(शिखरिणी)

भुवनं भवनं विलासिनी श्री–
स्तनयस्तामरसासनः स्मरश्च।
परिचारपरम्पराः सुरेन्द्रा–
स्तदपि त्वच्चरितं विभो विचित्रम्॥ *
(औपच्छन्दसिकम्)

देवस्त्रिलोकीसौभाग्य–
कस्तूरीमकराङ्कुरः।
जीयाद्व्रजाङ्गनानङ्ग–
केलिलालितविभ्रमः॥ *
(अनुष्टुप्श्लोकम्)

प्रेमदं च मे कामदं च मे
वेदनं च मे वैभवं च मे।
जीवनं च मे जीवितं च मे
दैवतं च मे देव नापरम्॥ ९९
(अच्युतम्)

माधुर्येण विजृम्भन्तां
वाचो नस्तव वैभवे।
चापल्येन विवर्धन्तां
चिन्ता नस्तव शैशवे॥ १००
(अनुष्टुप्श्लोकम्)

यानि त्वच्चरितामृतानि रसनालेह्यानि धन्यात्मनां
ये वा शैशवचापलव्यतिकरा राधापराधोन्मुखाः।
या वा भावितवेणुगीतगतयो लीलामुखाम्भोरुहे
धारावाहिकया वहन्तु हृदये तान्येव तान्येव मे॥ १०१
(शार्दूलविक्रीडितम्)

भक्तिस्त्वयि स्थिरतया भगवन्यदि स्या–
द्दैवेन नः फलितदिव्यकिशोरवेषे।
मुक्तिः स्वयं मुकुलिताञ्जलि सेवतेऽस्मा–
न्धर्मार्थकामगतयः समयप्रतीक्षाः॥ १०२
(वसन्ततिलका)

जय जय जय देव देव देव
श्रवणमनोनयनामृतावतार।
जय जय जय देव देव देव
त्रिभुवनमङ्गलदिव्यनामधेय॥ १०३
(पुष्पिताग्रा)

तुभ्यं निर्भरहर्षवर्षविवशावेशस्फुटाविर्भव–
द्भूयश्चापलभूषितेषु सुकृतां भावेषु निर्भासते।
श्रीमद्गोकुलमण्डनाय महते वाचां विदूरायते
माधुर्यैकरसार्णवाय महसे कस्मैचिदस्मै नमः॥ १०४
(शार्दूलविक्रीडितम्)

ईशानदेवचरणाभरणेन नीवी–
दामोदरस्थिरयशःस्तबकोद्गमेन।
लीलाशुकेन रचितं तव देव कृष्ण–
कर्णामृतं वहतु कल्पशतान्तरेऽपि॥ १०५
(वसन्ततिलका)

धन्यानां सरसानुलापसरणीसौभाग्यमभ्यस्यतां
कर्णानां विवरेषु कामपि सुधावृष्टिं दुहानं मुहुः।
वश्यानां सुदृशां मनोनयनयोर्मग्नस्य देवस्य नः
कर्णानां वचसां विजृम्भितमहो कृष्णस्य कर्णामृतम्॥ १०६
(शार्दूलविक्रीडितम्)

अनुग्रहद्विगुणविशाललोचनै–
रनुस्वनद्वेणुगलद्रवामृतैः।
यतो यतः प्रसरति मे विलोचनं
ततस्ततः स्फुरतु तवैव वैभवम्॥ १०७
(रुचिरा)

इति श्रीकृष्णकर्णामृते प्रथमाश्वासः समाप्तः॥

द्वितीयाश्वासः सम्पाद्यताम्

अभिनवनवनीतस्निग्धमापीतदुग्धं
दधिकणपरिदिग्धं मुग्धमङ्गं मुरारेः।
दिशतु भुवनकृच्छ्रच्छेदि तापिञ्छगुच्छ‍–
च्छवि नवशिखिपिञ्छालाञ्छितं वाञ्छितं नः॥ १
(मालिनी)

यां दृष्ट्वा यमुनां पिपासुरनिशं व्यूहो गवां गाहते
विद्युत्वानिति नीलकण्ठनिवहो यां द्रष्टुमुत्कण्ठते।
उत्तंसाय तमालपल्लवमिति च्छिन्दन्ति यां गोपिकाः
कान्तिः कालियशासनस्य वपुषः सा पावनी पातु नः॥ २
(शार्दूलविक्रीडितम्)

देवः पायात्पयसि विमले यामुने मज्जतीनां
याचन्तीनामनुनयपदैर्वञ्चितान्यंशुकानि।
लज्जालोलैरलसविलसैरुन्मिषत्पञ्चबाणै‍–
र्गोपस्त्रीणां नयनकुसुमैरर्चितः केशवो नः॥ ३
(मन्दाक्रान्ता)

मातर्नातःपरमनुचितं यत्खलानां पुरस्ता‍–
दस्ताशङ्कं जठरपिठरीपूर्तये नर्तितासि।
तत्क्षन्तव्यं सहजसरले वत्सले वाणि कुर्यां
प्रायश्चित्तं गुणगणनया गोपवेषस्य विष्णोः॥ ४
(मन्दाक्रान्ता)

अङ्गुल्यग्रैररुणकिरणैर्मुक्तसंरुद्धरन्ध्रं
वारं वारं वदनमरुता वेणुमापूरयन्तम्।
व्यत्यस्ताङ्घ्रिं विकचकमलच्छायविस्तारनेत्रं
वन्दे बृन्दावनसुचरितं नन्दगोपालसूनुम्॥ ५
(मन्दाक्रान्ता)

मन्दं मन्दं मधुरनिनदैर्वेणुमापूरयन्तं
बृन्दं बृन्दावनभुवि गवां चारयन्तं चरन्तम्।
छन्दोभागे शतमखमुखध्वंसिनां दानवानां
हन्तारं तं कथय रसने गोपकन्याभुजङ्गम्॥ ६
(मन्दाक्रान्ता)

वेणीमूले विरचितघनश्यामपिञ्छावचूडो
विद्युल्लेखावलयित इव स्निग्धपीताम्बरेण।
मामालिङ्गन्मरकतमणिस्तम्भगम्भीरबाहुः
स्वप्ने दृष्टस्तरुणतुलसीभूषणो नीलमेघः॥ ७
(मन्दाक्रान्ता)

कृष्णे हृत्वा सिचयनिचयं कूलकुञ्जाधिरूढे
मुग्धा काचिन्मुहुरनुनयैः किं न्विति व्याहरन्ती।
सभ्रूभङ्गं सदरहसितं सत्रपं सानुरागं
छायाशौरेः करतलगतान्यम्बराण्याचकर्ष॥ ८
(मन्दाक्रान्ता)

अपि जनुषि परस्मिन्नात्तपुण्यो भवेयं
तटभुवि यमुनायास्तादृशो वंशनालः।
अनुभवति यदेष श्रीमदाभीरसूनो–
রरधरमणिसमीपन्यासधन्यामवस्थाम्॥ ९
(मालिनी)

अयि परिचिनु चेतः प्रातरअम्भोजनेत्रं
कबरकलितचञ्चत्पिञ्छदामाभिरामम्।
बलभिदुपलनीलं वल्लवीभागधेयं
निखिलनिगमवल्लीमूलकन्दं मुकुन्दम्॥ १०
(मालिनी)

अयि मुरलि मुकुन्दस्मेरवक्त्रारविन्द‍–
श्वसनमधुरसज्ञे त्वां प्रणम्याद्य याचे।
अधरमणिसमीपं प्राप्तवत्यां भवत्यां
कथय रहसि कर्णे मद्दशां नन्दसूनोः॥ ११
(मालिनी)

सजलजलदनीलं वल्लवीकेलिलोलं
श्रितसुरतरुमूलं विद्युदुल्लासिचेलम्।
नतसुरमुनिजालं सन्मनोबिम्बलीलं
सुररिपुकुलकालं नौमि गोपालबालम्॥ १२
(मालिनी)

अधरबिम्बविडम्बितविद्रुमं
मधुरवेणुनिनादविनोदिनम्।
कमलकोमलकम्रमुखाम्बुजं
कमपि गोपकुमारमुपास्महे॥ १३
(द्रुतविलम्बितम्)

अधरे विनिवेश्य वंशनालं
विवराण्यस्य सलीलमङ्गुलीभिः।
मुहुरन्तरयन्मुहुर्विवृण्व‍–
न्मधुरं गायति माधवो वनान्ते॥ १४
(औपच्छन्दसिकम्)

वदने नवनीतगन्धवाहं
वचने तस्करचातुरीधुरीणम्।
नयने कुहनाश्रुमाश्रयेथा‍–
श्चरणे कोमलताण्डवं कुमारम्॥ १५
(औपच्छन्दसिकम्)

अमुना किल गोपगोपनार्थं
यमुनारोधसि नन्दनन्दनेन।
दमुना वनसम्भवः पपे नः
किमु नासौ शरणार्थिनां शरण्यः॥ १६
(औपच्छन्दसिकम्)

जगदादरणीयजारभावं
जलजापत्यवचोविचारगम्यम्।
तनुतां तनुतां शिवेतराणां
सुरनाथोपलसुन्दरं महो नः॥ १७
(औपच्छन्दसिकम्)

सा कापि सर्वजगतामभिरामसीमा
कामाय नो भवतु गोपकिशोरमूर्तिः।
या शेखरे श्रुतिगिरां हृदि योगभाजां
पादाम्बुजे च सुलभा व्रजसुन्दरीणाम् ॥ १८
(वसन्ततिलका)

अत्यन्तबालमतसीकुसुमप्रकाशं
दिग्वाससं कनकभूषणभूषिताङ्गम्।
विस्रस्तकेशमरुणाधरमायताक्षं
कृष्णं नमामि शिरसा वसुदेवसूनुम्॥ १९
(वसन्ततिलका)

हस्ताङ्घ्रिनिक्वणितकङ्कणकिङ्किणीकं
मध्येनितम्बमवलम्बितहेमसूत्रम्।
मुक्ताकलापमुकुलीकृतकाकपक्षं
वन्दामहे व्रजवरं वसुदेवभाग्यम्॥ २०
(वसन्ततिलका)

बृन्दावनद्रुमतलेषु गवां गणेषु
वेदावसानसमयेषु च दृश्यते यत्।
तद्वेणुनादनपरं शिखिपिञ्छचूडं
ब्रह्म स्मरामि कमलेक्षणमभ्रनीलम्॥ २१
(वसन्ततिलका)

व्यत्यस्तपादमवतंसितबर्हिबर्हं
साचीकृतानननिवेशितवेणुरन्ध्रम्।
तेजः परं परमकारुणिकं पुरस्ता‍–
त्प्राणप्रयाणसमये मम सन्निधत्ताम्॥ २२
(वसन्ततिलका)

घोषप्रघोषशमनाय मथोगुणेन
मध्ये बबन्ध जननी नवनीतचोरम्।
तद्बन्धनं त्रिजगतामुदराश्रयाणा‍–
माक्रोशकारणमहो नितरां बभूव॥ २३
(वसन्ततिलका)

शैवा वयं न खलु तत्र विचारणीयं
पञ्चाक्षरीजपपरा नितरां तथापि।
चेतो मदीयमतसीकुसुमावभासं
स्मेराननं स्मरति गोपवधूकिशोरम्॥ २४
(वसन्ततिलका)

राधा पुनातु जगदच्युतदत्तचित्ता
मन्थानमाकलयती दधिरिक्तपात्रे।
तस्याः स्तनस्तबकचञ्चललोलदृष्टि‍–
र्देवोऽपि दोहनधिया वृषभं निरुन्धन्॥ २५
(वसन्ततिलका)

गोधूलिधूसरितकोमलकुन्तलाग्रं
गोवर्धनोद्धरणकेलिकृतप्रयासम्।
गोपीजनस्य कुचकुङ्कुममुद्रिताङ्गं
गोविन्दमिन्दुवदनं शरणं भजामः॥ २६
(वसन्ततिलका)

यद्रोमरन्ध्रपरिपूर्तिविधावदक्षा
वाराहजन्मनि बभू वुरमी समुद्राः।
तं नाम नाथमरविन्ददृशं यशोदा
पाणिद्वयान्तरजले स्नपयाम्बभूव॥ २७
(वसन्ततिलका)

परमिममुपदेशमाद्रियध्वं
निगमवनेषु नितान्तचारखिन्नाः।
विचिनुत भवनेषु वल्लवीना‍–
मुपनिषदर्थमुलूखले निबद्धम्॥ २८
(पुष्पिताग्रा)

देवकीतनयपूजनपूतः
पूतनारिचरणोदकधौतः।
यद्यहं स्मृतधनञ्जयसूतः
किं करिष्यति स मे यमदूतः॥ २९
(स्वागता)

भासतां भवभयैकभेषजं
मानसे मम मुहुर्मुहुर्मुहुः।
गोपवेषमुपसेदुषः स्वयं
यापि कापि रमणीयता विभोः॥ ३०
(रथोद्धता)

कर्णलम्बितकदम्बमञ्जरी‍–
केसरारुणकपोलमण्डलम्।
निर्मलं निगमवागगोचरं
नीलिमानमवलोकयामहे॥ ३१
(रथोद्धता)

साचिसञ्चलितलोचनान्तरं
सामिकुट्मलितकोमलाधरम्।
वेगवल्गितकराङ्गुलीमुखं
वेणुनादरसिकं भजामहे॥ ३२
(रथोद्धता)

स्यन्दने गरुडमण्डितध्वजे
कुण्डिनेशतनयाधिरोपिता।
केनचिन्नवतमालपल्लव‍–
श्यामलेन पुरुषेण नीयते॥ ३३
(रथोद्धता)

मा यात पान्थाः पथि भीमरथ्या
दिगम्बरः कोऽपि तमालनीलः।
विन्यस्तहस्तोऽपि नितम्बबिम्बे
धूर्तस्समाकर्षति चित्तवित्तम्॥ ३४
(उपजाति)

अङ्गनामङ्गनामन्तरे माधवो
माधवं माधवं चान्तरेणाङ्गना।
इत्थमाकल्पिते मण्डले मध्यगः
सञ्जगौ वेणुना देवकीनन्दनः॥ ३५
(स्रग्विणी)

केकिकेकादृतानेकपङ्केरुहा‍–
लीनहंसावलीहृद्यताहृद्यता।
कंसवंशाटवीदाहदावानलः
सञ्जगौ वेणुना देवकीनन्दनः॥ ३६
(स्रग्विणी)

क्वापि वीणाभिराराविणा कम्पितः
क्वापि वीणाभिराकिङ्किणीनर्तितः।
क्वापि वीणाभिरामन्तरं गापितः
सञ्जगौ वेणुना देवकीनन्दनः॥ ३७
(स्रग्विणी)

चारुचन्द्रावलीलोचनैश्चुम्बितो
गोपगोबृन्दगोपालिकावल्लभः।
वल्लवीबृन्दबृन्दारकः कामुकः
सञ्जगौ वेणुना देवकीनन्दनः॥ ३८
(स्रग्विणी)

मौलिमालालसन्मत्तभृङ्गीलता‍–
भीतभीतप्रियाविभ्रमालिङ्गितः।
स्रस्तगोपीकुचाभोगसम्मेलितः
सञ्जगौ वेणुना देवकीनन्दनः॥ ३९
(स्रग्विणी)

चारुचामीकराभासभामाविभु‍–
र्वैजयन्तीलताभासितोरःस्थलः।
नन्दबृन्दावने वासितामध्यगः
सञ्जगौ वेणुना देवकीनन्दनः॥ ४०
(स्रग्विणी)

बालिकातालिकाताललीलालया‍–
सङ्गसन्दर्शितभ्रूलताविभ्रमः।
गोपिकागीतदत्तावधानः स्वयं
सञ्जगौ वेणुना देवकीनन्दनः॥ ४१
(स्रग्विणी)

पारिजातं समुद्धृत्य राधावयो‍–
रूपया मासभासा गुणैरङ्गणे।
शीतशीते वटे यामुनीये तटे
सञ्जगौ वेणुना देवकीनन्दनः॥ ४२
(स्रग्विणी)

अग्रे दीर्घतरोऽयमर्जुनतरुस्तस्याग्रतो वर्तनी
सा घोषं समुपैति तत्परिसरे देशे कलिन्दात्मजा।
तस्यास्तीरतमालकाननतले चक्रं गवां चारय‍–
न्गोपः क्रीडति दर्शयिष्यति सखे पन्थानमव्याहतम्॥ ४३
(शार्दूलविक्रीडितम्)

गोधूलिधूसरितकोमलगोपवेषं
गोपालबालकशतैरनुगम्यमानम्।
सायन्तने प्रतिगृहं पशुबन्धनार्थं
गच्छन्तमच्युतशिशुं प्रणतोऽस्मि नित्यम्॥ ४४
(वसन्ततिलका)

निधिं लावण्यानां निखिलजगदाश्चर्यनिलयं
निजावासं भासां निरवधिकनिःश्रेयसरसम्।
सुधाधारासारं सुकृतपरिपाकं मृगदृशां
प्रपद्ये माङ्गल्यं प्रथममधिदैवं कृतधियाम्॥ ४५
(शिखरिणी)

आताम्रपाणिकमलप्रणयप्रतोद‍–
मालोलहारमणिकुण्डलहेमसूत्रम्।
आविःश्रमाम्बुकणमम्बुदनीलमव्या‍–
दाद्यं धनञ्जयरथाभरणं महो नः॥ ४६
(वसन्ततिलका)

नखनियमितकण्डून्पाण्डवस्यन्दनाश्वा‍–
ननुदिनमभिषिञ्चन्नञ्जलिस्थैः पयोभिः।
अवतु विततगात्रस्तोत्रसंस्यूतमौलिर्
दशनविधृतरश्मिर्देवकीपुण्यराशिः॥ ४७
(मालिनी)

व्रजयुवतिसहाये यौवनोल्लासिकाये
सकलशुभविलासे कुन्दमन्दारहासे।
निवसतु मम चित्तं तत्पदायत्तवृत्तं
मुनिसरसिजभानौ नन्दगोपालसूनौ॥ ४८
(मालिनी)

अरण्यानीमार्द्रस्मितमधुरबिम्बाधरसुधा
सरण्या संक्रान्तैस्सपदि मदयन्वेणुनिनदैः।
धरण्या सानन्दोत्पुलकमुपगूढाङ्घ्रिकमलः
शरण्यानामाद्यस्स जयतु शरीरी मधुरिमा॥ ४९
(शिखरिणी)

मुग्धं स्निग्धं मधुरमुरलीमाधुरीधीरनादैः
कारं कारं करणविवशं गोकुलं व्याकुलत्वम्।
श्यामं कामं युवजनमनोमोहनं मोहनत्वं
चित्ते नित्यं निवसतु महो वल्लवीवल्लभं नः ॥ ५०
(मन्दाक्रान्ता)

विदग्धगोपालविलासिनीनां
सम्भोगचिह्नाङ्कितसर्वगात्रम्।
पवित्रमाम्नायगिरामगम्यं
ब्रह्म प्रपद्ये नवनीतचोरम्॥ ५१
(उपजाति)

आनन्देन यशोदया समदनं गोपाङ्गनाभिश्चिरं
साशङ्कं बलविद्विषा सकुसुमैः सिद्धैः पथि व्याकुलम्।
सेर्ष्यं गोपकुमारकैस्सकरुणं पौरैर्जनैः सस्मितं
यो दृष्टः स पुनातु नो मुररिपुः प्रोत्क्षिप्तगोवर्धनः॥ ५२
(शार्दूलविक्रीडितम्)

अन्तर्गृहे कृष्णमवेक्ष्य चोरं
बध्वा कवाटं जननीं गतैका।
उलूखले दामनिबद्धमेनं
तत्रापि दृष्ट्वा स्तिमिता बभूव॥ ५३
(उपजाति)

रत्नस्थले जानुचरः कुमारः
संक्रान्तमात्मीयमुखारविन्दम्।
आदातुकामस्तदलाभखेदाद्
विलोक्य धात्रीवदनं रुरोद॥ ५४
(उपजाति)

उपासतामात्मविदः पुराणाः
परं परस्तान्निहितं गुहायाम्।
वयं यशोदाशिशुबाललीला‍–
कथासुधासिन्धुषु लीलयामः॥ ५५
(उपेन्द्रवज्रा)

विक्रेतुकामा किल गोपकन्या
मुरारिपादार्पितचित्तवृत्तिः।
दध्यादिकं मोहवशादवोच‍–
द्गोविन्द दामोदर माधवेति॥ ५६
(उपजाति)

उलूखलं वा यमिनां मनो वा
गोपाङ्गनानां कुचकुट्मलं वा।
मुरारिनाम्नः कलभस्य नून‍–
मालानमासीत्त्रयमेव भूमौ॥ ५७
(उपजाति)

करारविन्देन पदारविन्दं
मुखारविन्दे विनिवेशयन्तम्।
वटस्य पत्रस्य पुटे शयानं
बालं मुकुन्दं मनसा स्मरामि॥ ५८
(उपजाति)

शम्भो स्वागतमास्यतामित इतो वामेन पद्मासन
क्रौञ्चारे कुशलं सुखं सुरपते वित्तेश नो दृश्यसे।
इत्थं स्वप्नगतस्य कैटभजितश्श्रुत्वा यशोदा गिरः
किं किं बालक जल्पसीति रचितं धूधूकृतं पातु नः॥ ५९
(शार्दूलविक्रीडितम्)

मातः किं यदुनाथ देहि चषकं किं तेन पातुं पय‍–
स्तन्नास्त्यद्य कदास्ति वा निशि निशा का वान्धकारोदये।
आमील्याक्षियुगं निशाप्युपगता देहीति मातुर्मुहु‍–
र्वक्षोजांशुककर्षणोद्यतकरः कृष्णस्स पुष्णातु नः॥ ६०
(शार्दूलविक्रीडितम्)

कालिन्दीपुलिनोदरेषु मुसली यावद्गतः खेलितुं
तावत्कर्बुरिकापयः पिब हरे वर्धिष्यते ते शिखा।
इत्थं बालतया प्रतारणपराः श्रुत्वा यशोदागिरः
पायान्नस्स्वशिखां स्पृशन्प्रमुदितः क्षीरेऽर्धपीते हरिः॥ ६१
(शार्दूलविक्रीडितम्)

कैलासे नवनीतति क्षितितले प्राग्जग्धमृल्लोष्टति
क्षीरोदेऽपि निपीतदुग्धति लसत्स्मेरप्रफुल्ले मुखे।
मात्राजीर्णधिया दृढं चकितया नष्टास्मि दृष्टः कया
धूधू वत्सक जीव जीव चिरमित्युक्तोऽवताद्वो हरिः॥ ६२
(शार्दूलविक्रीडितम्)

किञ्चित्कुञ्चितलोचनस्य पिबतः पर्यायपीतस्तनं
सद्यः प्रस्नुतदुग्धबिन्दुमपरं हस्तेन सम्मार्जतः।
मात्रैकाङ्गुलिलालितस्य चुबुके स्मेराननस्याधरे
शौरेः क्षीरकणान्विता निपतिता दन्तद्युतिः पातु नः॥ ६३
(शार्दूलविक्रीडितम्)

उत्तुङ्गस्तनमण्डलोपरिलसत्प्रालम्बमुक्तामणे‍–
रन्तर्बिम्बितमिन्द्रनीलनिकरच्छायानुकारिद्युति।
लज्जाव्याजमुपेत्य नम्रवदना स्पष्टं मुरारेर्वपुः
पश्यन्ती मुदिता मुदोऽस्तु भवतां लक्ष्मीर्विवाहोत्सवे॥ ६४
(शार्दूलविक्रीडितम्)

कृष्णेनाम्ब गतेन रन्तुमधुना मृद्भक्षिता स्वेच्छया
तथ्यं कृष्ण क एवमाह मुसली मिथ्याम्ब पश्याननम्।
व्यादेहीति विदारिते च वदने दृष्ट्वा समस्तं जग‍–
न्माता यस्य जगाम विस्मयपदं पायात् स नः केशवः॥ ६५
(शार्दूलविक्रीडितम्)

स्वाती सपत्नी किल तारकाणां
मुक्ताफलानां जननीति रोषात्।
सा रोहिणी नीलमसूत रत्नं
कृतास्पदं गोपवधूकुचेषु॥ ६६
(उपजाति)

नृत्यन्तमत्यन्तविलोकनीयं
कृष्णं मणिस्तम्भगतं मृगाक्षी।
निरीक्ष्य साक्षादिव कृष्णमग्रे
द्विधा वितेने नवनीतमेकम्॥ ६७
(उपजाति)

वत्स जागृहि विभातमागतं
जीव कृष्ण शरदां शतं शतम्।
इत्युदीर्य सुचिरं यशोदया
दृश्यमानवदनं भजामहे॥ ६८
(रथोद्धता)

ओष्ठं जिघ्रञ्शिशुरिति धिया चुम्बितो वल्लवीभिः
कण्ठं गृह्णन्नरुणितपदं गाढमालिङ्गिताङ्गः।
दोष्णा लज्जापदमभिमृशन्नङ्कमारोपितात्मा
धूर्तस्वामी हरतु दुरितं दूरतो बालकृष्णः॥ ६९
(मन्दाक्रान्ता)

एते लक्ष्मण जानकीविरहितं मां खेदयन्त्यम्बुदा
मर्माणीव च घट्टयन्त्यलममी क्रूराः कदम्बानिलाः।
इत्थं व्याहृतपूर्वजन्मचरितो यो राधया वीक्षितः
सेर्ष्यं शङ्कितया स नस्सुखयतु स्वप्नायमानो हरिः॥ ७०
(शार्दूलविक्रीडितम्)

ओष्ठं मुञ्च हरे बिभेमि भवता पानैर्हता पूतना
कण्ठाश्लेषममुं जहीहि दलितावालिङ्गनेनार्जुनौ।
मा देहि च्छुरितं हिरण्यकशिपुर्नीतो नखैः पञ्चता‍–
मित्थं वारितरात्रिकेलिरवताल्लक्ष्म्यापहासाद्धरिः॥ ७१
(शार्दूलविक्रीडितम्)

रामो नाम बभूव हुं तदबला सीतेति हुं तौ पितु‍–
र्वाचा पञ्चवटीवने विहरतस्तामाहरद्रावणः।
निद्रार्थं जननीकथामिति हरेर्हुंकारतः शृण्वतः
सौमित्रे क्व धनुर्धनुर्धनुरिति व्यग्रा गिरः पान्तु नः॥ ७२
(शार्दूलविक्रीडितम्)

बालोऽपि शैलोद्धरणाग्रपाणि‍–
र्नीलोऽपि नीरन्ध्रतमः प्रदीपः।
धीरोऽपि राधानयनावबद्धो
जारोऽपि संसारहरः कुतस्त्वम्॥ ७३
(इन्द्रवज्रा)

बालाय नीलवपुषे नवकिङ्किणीक‍–
जालाभिरामजघनाय दिगम्बराय।
शार्दूलदिव्यनखभूषणभूषिताय
नन्दात्मजाय नवनीतमुषे नमस्ते॥ ७४
(वसन्ततिलका)

सव्ये पायसभक्तमाहितरसं बिभ्रन्मुदा दक्षिणे
पाणौ शारदचन्द्रमण्डलनिभं हैयङ्गवीनं वहन्।
कण्ठे कल्पितपुण्डरीकनखमप्युद्दामदीप्तिं दध‍–
द्देवो दिव्यदिगम्बरो दिशतु नस्सौख्यं यशोदाशिशुः॥ ७५
(शार्दूलविक्रीडितम्)

किङ्किणिकिणिकिणिरभसै‍–
रङ्गणभुवि रिङ्गणैः सदाटन्तम्।
कुङ्कुणुकुणुपदयुगलं
कङ्कणकरभूषणं हरिं वन्दे॥ ७६
(गीति)

सम्बाधे सुरभीणा‍–
मम्बामायासयन्तमनुयान्तीम्।
लम्बालकमवलम्बे
तं बालं तनुविलग्नजम्बालम्॥ ७७
(गीति)

अञ्चितपिञ्छाचूडं
सञ्चितसौजन्यवल्लवीवलयम्।
अधरमणिनिहितवेणुं
बालं गोपालमनिशमवलम्बे॥ ७८
(गीति)

प्रह्लादभागधेयं
निगमान्तमहागुहान्तराधेयम्।
नरहरिपदाभिधेयं
विबुधविधेयं ममानुसंधेयम्॥ ७९
(आर्यागीति)

संसारे किं सारं
कंसारेश्चरणयुगलपरिवसनम्।
ज्योतिः किमन्धकारे
यदन्धकारेरनुस्मरणम्॥ ८०
(आर्या)

कलशनवनीतचोरे
कमलादृक्कुमुदचन्द्रिकापूरे।
विहरतु नन्दकुमारे
चेतो मम गोपसुन्दरीजारे॥ ८१
(गीति)

कस्त्वं बाल बलानुजः किमिह ते मन्मन्दिराशङ्कया
युक्तं तन्नवनीतपात्रविवरे हस्तं किमर्थं न्यसेः।
मातः कञ्चन वत्सकं मृगयितुं मा गा विषादं क्षणा‍–
दित्येवं वरवल्लवीप्रतिवचः कृष्णस्य पुष्णातु नः॥ ८२
(शार्दूलविक्रीडितम्)

गोपालाजिरकर्दमे विहरसे विप्राध्वरे लज्जसे
ब्रूषे गोधनहुङ्कृतैः स्तुतिशतैर्मौनं विधत्से विदाम्।
दास्यं गोकुलपुंश्चलीषु कुरुषे स्वाम्यं न दान्तात्मसु
ज्ञातं कृष्ण तवाङ्घ्रिपङ्कजयुगं प्रेम्णाचलं मञ्जुलम्॥ ८३
(शार्दूलविक्रीडितम्)

नमस्तस्मै यशोदाया
दायादायास्तु तेजसे।
यद्धि राधामुखाम्भोजं
भोजं भोजं व्यवर्धत॥ ८४
(अनुष्टुप्श्लोकम्)

अवताराः सन्त्वन्ये
सरसिजनयनस्य सर्वतोभद्राः।
कृष्णादन्यः को वा
प्रभवति गोगोपगोपिकामुक्त्यै॥ ८५
(गीति)

मध्येगोकुलमण्डलं प्रतिदिशं चाम्भारवेर्जृम्भिते
प्रातर्दोहमहोत्सवे नवघनश्यामं रणन्नूपुरम्।
फालेबालविभूषणं कटिरणत्सत्किङ्किणीमेखलं
कण्ठेव्याघ्रनखं च शैशवकलाकल्याणकार्त्स्न्यं भजे॥ ८६
(शार्दूलविक्रीडितम्)

सजलजलदनीलं दर्शितोदारलीलं
करतलधृतशैलं वेणुवाद्यै रसालम्।
व्रजजनकुलपालं कामिनीकेलिलोलं
कलितललितमालं नौमि गोपालबालम्॥ ८७
(मालिनी)

स्मितललितकपोलं स्निग्धसंगीतलोलं
ललितचिकुरजालं चौर्यचातुर्यलीलम्।
शतमखरिपुकालं शातकुम्भाभचेलं
कुवलयदलनीलं नौमि गोपालबालम्॥ ८८
(मालिनी)

मुरलिनिनदलोलं मुग्धमायूरवालं
दलितदनुजजालं धन्यसौजन्यलीलम्।
परहितनवहेलं पद्मसद्मानुकूलं
नवजलधरनीलं नौमि गोपालबालम्॥ ८९
(मालिनी)

सरसगुणनिकायं सच्चिदानन्दकायं
शमितसकलमायं सत्यलक्ष्मीसहायम्।
शमदमसमुदायं शान्तसर्वान्तरायं
सुहृदयजनदायं नौमि गोपालबालम्॥ ९०
(मालिनी)

लक्ष्मीकलत्रं ललिताब्जनेत्रं
पूर्णेन्दुवक्त्रं पुरुहूतमित्रम्।
कारुण्यपात्रं कमनीयगात्रं
वन्दे पवित्रं वसुदेवपुत्रम्॥ ९१
(इन्द्रवज्रा)

मदमयमदमयदुरगं
यमुनामवतीर्य वीर्यशाली यः।
मम रतिममरतिरस्कृति‍–
शमनपरस्स क्रियात्कृष्णः॥ ९२
(आर्या)

मौलौ मायूरबर्हं मृगमदतिलकं चारुलालाटपट्टे
कर्णद्वन्द्वे च तालीदलमतिमृदुलं मौक्तिकं नासिकायाम्।
हारो मन्दारमालापरिमलभरिते कौस्तुभस्योपकण्ठे
पाणौ वेणुश्च यस्य व्रजयुवतियुतः पातु पीताम्बरो नः॥ ९३
(स्रग्धरा)

मुरारिणा वारिविहारकाले
मृगेक्षणानां मुषितांशुकानाम्।
करद्वयं वा कचसंहतिर्वा
प्रमीलनं वा परिधानमासीत्॥ ९४
(उपेन्द्रवज्रा)

यासां गोपाङ्गनानां लसदसिततरा लोललीलाकटाक्षा
यन्नासाचारुमुक्तामणिरुचिनिकरव्योमगङ्गाप्रवाहे।
मीनायन्तेऽपि तासामतिरभसचलच्चारुनीलालकान्ता
भृङ्गायन्ते यदङ्घ्रिद्वयसरसिरुहे पातु पीताम्बरो नः॥ ९५
(स्रग्धरा)

यद्वेणुश्रेणिरूपस्थितसुषिरमुखोद्गीर्णनादप्रभिन्ना
एणाक्ष्यस्तत्क्षणेन त्रुटितनिजपतिप्रेमबन्धा बभूवुः।
अस्तव्यस्तालकान्ताः स्फुरदधरकुचद्वन्द्वनाभिप्रदेशाः
कामावेशप्रकल्पप्रकटितपुलकाः पातु पीताम्बरो नः॥ ९६
(स्रग्धरा)

देवक्या जठराकरे समुदितः क्रीतो गवां पालिना
नन्देनानकदुन्दुभेर्निजसुतापण्येन पुण्यात्मना।
गोपालावलिमुग्धहारतरलो गोपीजनालङ्कृतिः
स्थेयाद्वो हृदि सन्ततं स मधुरः कोऽपीन्द्रनीलो मणिः॥ ९७
(शार्दूलविक्रीडितम्)

पीठे पीठनिषण्णबालकगले तिष्ठन्स गोपालको
यन्त्रान्तः स्थितदुग्धभाण्डमपकृष्याच्छाद्य घण्टारवम्।
वक्त्रोपान्तकृताञ्जलिः कृतशिरः कम्पं पिबन्यः पयः
पायादागतगोपिकानयनयोर्गण्डूषफूत्कारकृत्॥ ९८
(शार्दूलविक्रीडितम्)

यज्ञैरीजिमहे धनं ददिमहे पात्रेषु नूनं वयं
वृद्धान्भेजिमहे तपश्चकृमहे जन्मान्तरे दुश्चरम्।
येनास्माकमभूदनन्यसुलभा भक्तिर्भवद्वेषिणी
चाणूरद्विषि भक्तकल्मषमुषि श्रेयःपुषि श्रीजुषि॥ ९९
(शार्दूलविक्रीडितम्)

त्वयि प्रसन्ने मम किं गुणेन
त्वय्यप्रसन्ने मम किं गुणेन।
रक्ते विरक्ते च वरे वधूनां
निरर्थकः कुङ्कुमपत्रभङ्गः॥ १००
(उपजाति)

गायन्ति क्षणदावसानसमये सानन्दमिन्दुप्रभा
रुन्धन्त्यो निजदन्तकान्तिनिवहैर्गोपाङ्गना गोकुले।
मथ्नत्यो दधि पाणिकङ्कणझणत्कारानुकारं जवा‍–
द्व्यावल्गद्वसनाञ्जला यमनिशं पीताम्बरोऽव्यात्स नः॥ १०१
(शार्दूलविक्रीडितम्)

अंसालम्बितवामकुण्डलभरं मन्दोन्नतभ्रूलतं
किञ्चित्कुञ्चितकोमलाधरपुटं साचिप्रसारेक्षणम्।
आलोलाङ्गुलिपल्लवैर्मुरलिकामापूरयन्तं मुदा
मूले कल्पतरोस्त्रिभङ्गिललितं जाने जगन्मोहनम्॥ १०२
(शार्दूलविक्रीडितम्)

मल्लैः शैलेन्द्रकल्पः शिशुरितरजनैः पुष्पचापोऽङ्गनाभि‍–
र्गोपैस्तु प्राकृतात्मा दिवि कुलिशभृता विश्वकायोऽप्रमेयः।
क्रुद्धः कंसेन कालो भयचकितदृशा योगिभिर्ध्येयमूर्ति‍–
र्दृष्टो रङ्गावतारे हरिरमरगणानन्दकृत्पातु युष्मान्॥ १०३
(स्रग्धरा)

संविष्टो मणिविष्टरेऽङ्कतलमध्यासीनलक्ष्मीमुखे
कस्तूरीतिलकं मुदा विरचयन्हर्षात्कुचौ संस्पृशन्।
अन्योन्यस्मितचन्द्रिकाकिसलयैराराधयन्मन्मथं
गोपीगोपपरीवृतो यदुपतिः पायाज्जगन्मोहनः॥ १०४
(शार्दूलविक्रीडितम्)

आकृष्टे वसनाञ्चले कुवलयश्यामा त्रपाधःकृता
दृष्टिः संवलिता रुचा कुचयुगे स्वर्णप्रभे श्रीमति।
बालः कश्चन चूतपल्लव इति प्रान्तस्मितास्यश्रियं
श्लिष्यंस्तामथ रुक्मिणीं नतमुखीं कृष्णस्स पुष्णातु नः॥ १०५
(शार्दूलविक्रीडितम्)

उर्व्यां कोऽपि महीधरो लघुतरो दोर्भ्यां धृतो लीलया
तेन त्वं दिवि भूतले च सततं गोवर्धनोद्धारकः।
त्वां त्रैलोक्यधरं वहामि कुचयोरग्रे न तद्गण्यते
किं वा केशव भाषणेन बहुना पुण्यैर्यशो लभ्यते॥ १०६
(शार्दूलविक्रीडितम्)

सन्ध्यावन्दन भद्रमस्तु भवतो भोः स्नान तुभ्यं नमो
भो देवाः पितरश्च तर्पणविधौ नाहं क्षमः क्षम्यताम्।
यत्र क्वापि निषद्य यादवकुलोत्तंसस्य कंसद्विषः
स्मारं स्मारमघं हरामि तदलं मन्ये किमन्येन मे॥ १०७
(शार्दूलविक्रीडितम्)

हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते
हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव।
हे रामानुज हे जगत्त्रयगुरो हे पुण्डरीकाक्ष मां
हे गोपीजननाथ पालय परं जानामि न त्वां विना॥ १०८
(शार्दूलविक्रीडितम्)

कस्तूरीतिलकं ललाटफलके वक्षस्थले कौस्तुभं
नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणम्।
सर्वाङ्गे हरिचन्दनं च कलयन्कण्ठे च मुक्तावलिं
गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः॥ १०९
(शार्दूलविक्रीडितम्)

कालिन्दीबहुलप्रवाहरभसं संस्तम्भयंस्तत्क्षणात्
शैलान्विद्रवयन्मृगान्विवशयन्गोबृन्दमानन्दयन्।
गोपान्संभ्रमयन्मुनीन्मुकुलयन्सप्तस्वरान् जृम्भय‍–
न्नोंकारार्थमुदीरयन्विजयते वंशीनिनादः शिशोः॥ ११०
(शार्दूलविक्रीडितम्)

इति श्रीकृष्णकर्णामृते द्वितीयाश्वासः समाप्तः॥

तृतीयाश्वासः सम्पाद्यताम्

अस्ति स्वस्त्ययनं समस्तजगतामभ्यस्तलक्ष्मीस्तनं
वस्तु ध्वस्तरजस्तमोभिरनिशं न्यस्तं पुरस्तादिव।
हस्तोदस्तगिरीन्द्रमस्तकतरुप्रस्तारविस्तारित–
स्रस्तस्वस्तरुसूनसंस्तरलसत्प्रस्ताविराधास्तुतम्॥ १
(शार्दूलविक्रीडितम्)

राधाराधितविभ्रमाद्भुतरसं लालित्यरत्नाकरं
साधारण्यपदव्यतीतसहजस्मेराननाम्भोरुहम्।
आलम्बे हरिनीलगर्वगुरुतां सर्वस्वनिर्वापणं
बालं वैणविकं विमुग्धमधुरं मूर्धाभिषिक्तं महः॥ २
(शार्दूलविक्रीडितम्)

करिणामलङ्घ्यगतिवैभवं भजे
करुणावलम्बितकिशोरविग्रहम्।
यमिनामनारतविहारि मानसे
यमुनावनान्तरसिकं परं महः॥ ३
(मञ्जुभाषिणी)

अतन्त्रितत्रिजगदपि व्रजाङ्गना–
नियन्त्रितं विपुलविलोचनाज्ञया।
समन्ततः सरसतरं विजृम्भतां
निरन्तरं मम हृदये परं महः॥ ४
(रुचिरा)

कंदर्पप्रतिमल्लकान्तिविभवं कादम्बिनीबान्धवं
वृन्दारण्यविलासिनीव्यसनिनं वेषेण भूषामयम्।
मन्दस्मेरमुखाम्बुजं मधुरिमव्यामृष्टबिम्बाधरं
वन्दे कंदलितार्द्रयौवनवनं कैशोरकं शार्ङ्गिणः॥ ५
(शार्दूलविक्रीडितम्)

आमुक्तमानुषममुक्तनिजानुभाव–
मारूढविग्रहमगूढविदग्धलीलम्।
आमृष्टयौवनममृष्टकिशोरभाव–
माद्यं महः किमपि माद्यति मानसे मे॥ ६
(वसन्ततिलका)

ते ते भावाः सकलजगतीलोभनीयप्रभावा
नानातृष्णासुहृदि हृदि मे काममाविर्भवन्तु।
लीलावेणुक्वणितलसितस्मेरवक्त्रारविन्दा–
न्नाहं जाने मधुरमपरं नन्दपुण्याम्बुपूरात्॥ ७
(मन्दाक्रान्ता)

सुकृतिभिरादृते सरसवेणुनिनादसुधा–
रसलहरीविहारनिरवग्रहकर्णपुटे।
व्रजवरसुन्दरीमुखसरोरुहसारसिके
महसि कदा नु मज्जति मदीयमिदं हृदयम्॥ ८
(कोकिलका)

तृष्णातुरे चेतसि जृम्भमाणे
मुष्णन्मुहुर्मोहमहान्धकारम्।
पुष्णातु नः पुण्यदयैकसिन्धोः
कृष्णस्य कारुण्यकटाक्षकेलिः॥ ९
(इन्द्रवज्रा)

निखिलनिगममौलिलालितं
पदकमलं परमस्य तेजसः।
व्रजभुवि बहुमन्महेतरां
सरसकरीषविशेषरूषितम्॥ १०
(अपरवत्रम्)

उदारमृदुलस्मितव्यतिकराभिरामाननं
मुदा मुहुरुदीर्णया मुनिमनोऽम्बुजाम्रेडितम्।
मदालसविलोचनव्रजवधूमुखास्वादितं
कदा नु कमलेक्षणं कमपि बालमालोकये॥ ११
(पृथ्वी)

व्रजजनमदयोषिल्लोचनोच्छिष्टशेषी–
कृतमपि चपलाभ्यां लोचनाभ्यामुभाभ्याम्।
सकृदपि परिपातुं ते वयं पारयामः
कुवलयदलनीलं कान्तिपूरं कदा नु॥ १२
(मालिनी)

घोषयोषिदनुगीतयौवनं
कोमलस्तनितवेणुनिस्वनम्।
सारभूतमभिरामसंपदां
धाम तामरसलोचनं भजे॥ १३
(रथोद्धता)

लीलया ललितयावलम्बितं
मूलगेहमिव मूर्तिसंपदाम्।
नीलनीरदविकासविभ्रमं
बालमेव वयमाद्रियामहे॥ १४
(रथोद्धता)

वन्दे मुरारेश्चरणारविन्द–
द्वन्द्वं दयादर्शितशैशवस्य।
वन्दारुबृन्दारकबृन्दमौलि–
मन्दारमालाविनिमर्दभीरु॥ १५
(इन्द्रवज्रा)

यस्मिन्नृत्यति यस्य शेखरभरैः क्रौञ्चद्विषश्चन्द्रकी
यस्मिन्दृप्यति यस्य घोषसुरभिं जिघ्रन्वृषो धूर्जटेः।
यस्मिन्सज्जति यस्य विभ्रमगतिं वाञ्छन्हरेः सिन्धुर–
स्तद्बृन्दावनकल्पकद्रुमवनं तं वा किशोरं भजे॥ १६
(शार्दूलविक्रीडितम्)

अरुणाधरामृतविशेषितस्मितं
वरुणालयानुगतवर्णवैभवम्।
तरुणारविन्ददलदीर्घलोचनं
करुणामयं कमपि बालमाश्रये॥ १७
(मञ्जुभाषिणी)

लावण्यवीचीरचिताङ्गभूषां
भूषापदारोपितपुण्यबर्हाम्।
कारुण्यधारालकटाक्षमालां
बालां भजे वल्लववंशलक्ष्मीम्॥ १८
(इन्द्रवज्रा)

मधुरैकरसं वपुर्विभोस्त–
न्मथुरावीथिचरं भजामहे।
नगरीमृगशाबलोचनानां
नयनेन्दीवरवर्षवर्षितम्॥ १९
(त्रिष्टुप्)

पर्याकुलेन नयनान्तविजृम्भितेन
वक्त्रेण कोमलमदस्मितविभ्रमेण।
मन्द्रेण मञ्जुलतरेण च जल्पितेन
नन्दस्य हन्त तनयो हृदयं धुनोति॥ २०
(वसन्ततिलका)

कंदर्पकण्डूलकटाक्षबन्दी–
रिन्दीवराक्षीरभिलष्यमाणान्।
मन्दस्मिताधारमुखारविन्दान्
वन्दामहे वल्लवधूर्तपादान्॥ २१
(इन्द्रवज्रा)

लीलाटोपकटाक्षनिर्भरपरिष्वङ्गप्रसङ्गाधिक–
प्रीते गीतिविभागसङ्गरलसद्वेणुप्रणादामृते।
राधालोचनलालितस्य ललितस्मेरे मुरारेर्मुदा
माधुर्यैकरसे मुखेन्दुकमले मग्नं मदीयं मनः॥ २२
(शार्दूलविक्रीडितम्)

शरणागतवज्रपञ्जरे
शरणे शार्ङ्गधरस्य वैभवे।
कृपया धृतगोपविग्रहे
कियदन्यन्मृगयामहे वयम्॥ २३
(वियोगिनी)

जगत्त्रयैकान्तमनोज्ञभूमि–
श्चेतस्यजस्रं मम संनिधत्ताम्।
रामासमास्वादितसौकुमार्यं
राधास्तनाभोगरसज्ञमोजः॥ २४
(उपजाति)

वयमेते विश्वसिमः
करुणाकरकीर्तिकिंवदन्त्याङ्गे।
अपि च विभो तव ललिते
चपलतरा मतिरियं बाल्ये॥ २५
(आर्या)

वत्सपालचरः कोऽपि
वत्सः श्रीवत्सलाञ्छनः।
उत्सवाय कदा भावी–
त्युत्सुके मम लोचने॥ *
(अनुष्टुप्श्लोकम्)

मधुरिमभरिते मनोभिरामे
मृदुलतरस्मितमुद्रिताननेन्दौ।
त्रिभुवननयनैकलोभनीये
महसि वयं व्रजभाजि लालसाः स्मः॥ २६
(पुष्पिताग्रा)

मुखारविन्दे मकरन्दबिन्दु–
निष्यन्दलीलामुरलीनिनादे।
व्रजाङ्गनापाङ्गतरङ्गभृङ्ग–
संग्रामभूमौ तव लालसाः स्मः॥ २७
(उपजाति)

आताम्रायतलोचनांशुलहरीलीलासुधाप्यायितै–
र्गीताम्रेडितदिव्यकेलिभरितैः स्फीतं व्रजस्त्रीजनैः।
स्वेदाम्भःकणभूषितेन किमपि स्मेरेण वक्त्रेन्दुना
पादाम्भोजमृदुप्रचारसुभगं पश्यामि दृश्यं महः॥ २८
(शार्दूलविक्रीडितम्)

पाणौ वेणुः प्रकृतिसुकुमाराकृतौ बाल्यलक्ष्मीः
पार्श्वे बालाः प्रणयसरसालोकितापाङ्गलीलाः।
मौलौ बर्हं मधुरवदनाम्भोरुहे मौग्ध्यमुद्रे–
त्यार्द्राकारं किमपि कितवं ज्योतिरन्वेषयामः॥ २९
(मन्दाक्रान्ता)

आरूढवेणुतरुणाधरविभ्रमेण
माधुर्यशालिवदनाम्बुजमुद्वहन्ती।
कैशोरके वयसि कापि च कान्तियष्टि–
रालोक्यतां किमनया वनदेवता वः॥ ३०
(वसन्ततिलका)

अनन्यसाधारणकान्तिकान्त–
माक्रान्तगोपीनयनारविन्दम्।
पुंसः पुराणस्य नवं विलासं
पुण्येन पूर्णेन विलोकयिष्ये॥ ३१
(उपजाति)

साष्टाङ्गपातमभिवन्द्य समस्तभावैः
सर्वान्सुरेन्द्रनिकरानिदमेव याचे।
मन्दस्मितार्द्रमधुराननचन्द्रबिम्बे
नन्दस्य पुण्यनिचये मम भक्तिरस्तु॥ ३२
(वसन्ततिलका)

एषु प्रवाहेषु स एव मन्ये
क्षणोऽपि गण्यः पुरुषायुषेषु।
आस्वाद्यते यत्र कयापि वृत्त्या
नीलस्य बालस्य निजं चरित्रम्॥ ३३
(उपजाति)

निसर्गसरसाधरं निजदयार्द्रदिव्येक्षणं
मनोज्ञमुखपङ्कजं मधुरसार्द्रमन्दस्मितम्।
रसज्ञहृदयास्पदं रमितवल्लवीलोचनं
पुनः पुनरुपास्महे भुवनलोभनीयं महः॥ ३४
(पृथ्वी)

स कोऽपि बालः सरसीरुहाक्षः
सा च व्रजस्त्रीजनपादधूलिः।
मुहुस्तदेतद्युगलं मदीये
मोमुह्यमानोऽपि मनस्युदेतु॥ ३५
(उपजाति)

मयि प्रयाणाभिमुखे च वल्लवी–
स्तनद्वयीदुर्ललित: स बालकः।
शनैः शनैः श्रावितवेणुनिस्वनो
विलासवेषेण पुरः प्रतीयताम्॥ ३६
(वंशस्थविला)

अतिभूमिमभूमिमेव वा
वचसां वासितवल्लवीस्तनम्।
मनसामपरं रसायनं
मधुराद्वैतमुपास्महे महः॥ ३७
(वियोगिनी)

जननान्तरेऽपि जगदेकमण्डने
कमनीयधाम्नि कमलायतेक्षणे।
व्रजसुन्दरीजनविलोचनामृते
चपलानि सन्तु सकलेन्द्रियाणि मे॥ ३८
(कलहंस)

मुनिश्रेणीवन्द्यं मदभरलसद्वल्लववधू–
स्तनश्रोणीबिम्बस्तिमितनयनाम्भोजसुभगम्।
पुनः श्लाघाभूमिं पुलकितगिरां नैगमगिरां
घनश्यामं वन्दे किमपि महनीयाकृति महः॥ ३९
(शिखरिणी)

अनुचुम्बतामपि चलेन चेतसा
मनुजाकृतेर्मधुरिमाश्रियं विभोः।
अयि देव कृष्ण दयितेति जल्पता–
मपि नो भवेयुरपि नाम तादृशः॥ ४०
(मञ्जुभाषिणी)

किशोरवेषेण कृशोदरीदृशां
विशेषदृश्येन विशाललोचनम्।
यशोदया लब्धयशोनवाम्बुधे–
र्निशामये नीलनिशाकरं कदा॥ ४१
(वंशस्थविला)

प्रकृतिरवतु नो विलासलक्ष्म्याः
प्रकृतिजडं प्रणतापराधवीथ्याम्।
सुकृतिकृतपदं किशोरभावे
सुकृतिकृतप्रणिधानपात्रमोजः॥ ४२
(पुष्पिताग्रा)

अपहसितसुधामदावलेपै–
रधिकमनोहरमार्द्रमन्दहासैः।
व्रजयुवतिविलोचनावलेह्यं
रमयतु धाम रमावरोधनं नः॥ ४३
(पुष्पिताग्रा)

अङ्कूरितस्मेरदशाविशेषै–
रश्रान्तहर्षामृतवर्षमक्ष्णाम्।
संक्रीडतां चेतसि गोपकन्या–
धन्यस्तनस्वस्त्ययनं महो नः॥ ४४
(इन्द्रवज्रा)

मृगमदपङ्कसङ्करविशेषितवन्यमहा–
गिरितटगण्डगैरिकघनद्रवविद्रुमितम्।
अजितभुजान्तरं भजत गोपवधूपृथुल–
स्तनकलशस्थलीघुसृणमर्दनकर्दमितम्॥ ४५
(कोकिलका)

आमूलपल्लवितलीलमपाङ्गजालै–
रासिञ्चती भुवनमादृतगोपवेषा।
बाल्याकृतिर्मृदुलमुग्धमुखेन्दुबिम्बा
माधुर्यसिद्धिरवतान्मधुविद्विषो नः॥ ४६
(वसन्ततिलका)

विरणन्मणिनूपुरं व्रजे
चरणाम्भोजमुपास्व शार्ङ्गिणः।
सरसे सरसि श्रियाश्रितं
कमलं वा कलहंसनादितम्॥ ४७
(वियोगिनी)

शरणमशरणानां शारदाम्भोजनेत्रं
निरवधिमधुरिम्णा नीलवेषेण रम्यम्।
स्मरशरपरतन्त्रस्मेरनेत्राम्बुजाभि–
र्व्रजयुवतिभिरव्याद्ब्रह्म संवेष्टितं नः॥ ४८
(मालिनी)

सुव्यक्तकान्तिभरसौरभदिव्यगात्र–
मव्यक्तयौवनपरीतकिशोरभावम्।
गव्यानुपालनविधावनुशिष्टमव्या–
दव्याजरम्यमखिलेश्वरवैभवं नः॥ ४९
(वसन्ततिलका)

अनुगतममरीणामम्बरालम्बिनीनां
नयनमधुरिमश्रीनर्मनिर्माणसीम्नाम्।
व्रजयुवतिविलासव्यापृतापाङ्गमव्यात्
त्रिभुवनसुकुमारं देवकैशोरकं नः॥ ५०
(मालिनी)

आपादमाचूडमतिप्रसक्तै–
रापीयमाना यमिनां मनोभिः।
गोपीजनज्ञातरसावताद्वो
गोपालभूपालकुमारमूर्तिः॥ ५१
(इन्द्रवज्रा)

दिष्ट्या वृन्दावनमृगदृशां विप्रयोगाकुलानां
प्रत्यासन्नं प्रणयचपलापाङ्गवीचीतरङ्गैः।
लक्ष्मीलीलाकुवलयदलश्यामलं धामकामा–
न्पुष्णीयाद्वः पुलकमुकुलाभोगभूषाविशेषम्॥ ५२
(मन्द्राक्रान्ता)

जयति गुहशिखीन्द्रपिञ्छमौलिः
सुरगिरिगैरिककल्पिताङ्गरागः।
सुरयुवतिविकीर्णसूनवर्ष–
स्नपितविभूषितकुन्तलः कुमारः॥ ५३
(पुष्पिताग्रा)

मधुरमन्दशुचिस्मितमञ्जुलं
वदनमङ्गजमङ्गजवेल्लितम्।
विजयतां व्रजबालवधूजन–
स्तनतटीविलुठन्नयनं विभोः॥ ५४
(कलहंस)

अलसविलसन्मुग्धस्निग्धस्मितं व्रजसुन्दरी–
मदनकदनस्विन्नं धन्यं महद्वदनाम्बुजम्।
तरुणमरुणज्योत्स्नाकार्त्स्न्यस्मितस्नपिताधरं
जयति विजयश्रेणीमेणीदृशां मदयन्महः॥ ५५
(हरिणी)

राधाकेलिकटाक्षवीक्षितमहावक्षःस्थलीमण्डना
जीयासुः पुलकाङ्कुरास्त्रिभुवनास्वादीयसस्तेजसः।
क्रीडान्तप्रतिसुप्तदुग्धतनयामुग्धावबोधक्षण–
त्रासारूढदृढोपगूहगहना: साम्राज्यसान्द्रश्रियः॥ ५६
(शार्दूलविक्रीडितम्)

स्मितस्नुतसुधाधरा मदशिखण्डिबर्हाङ्किता
विशालनयनाम्बुजा व्रजविलासिनीवासिताः।
मनोज्ञमुखपङ्कजा मधुरवेणुनादद्रवा
जयन्ति मम चेतसश्चिरमुपासिता वासनाः॥ ५७
(पृथ्वी)

जीयादसौ शिखिशिखण्डकृतावतंसा
सांसिद्धिकी सरसकान्तिसुधासमृद्धिः।
यद्बिन्दुलेशकणीकापरिणामभाग्यात्
सौभाग्यसीमपदमञ्चति पञ्चबाणः॥ ५८
(वसन्ततिलका)

आयामेन दृशोर्विशालतरयोरक्षय्यमार्द्रस्मित–
च्छायाधर्षितशारदेन्दुललितं चापल्यमात्रं शिशोः।
आयासानपरान्विधूय रसिकैरास्वाद्यमानं मुहु–
र्जीयादुन्मदवल्लवीकुचभराधारं किशोरं महः॥ ५९
(शार्दूलविक्रीडितम्)

स्कन्धावारपदं व्रजः कतिपये गोपास्सहायादयः
स्कन्धालम्बिनि वत्सदाम्नि धनदा गोपाङ्गनास्स्वाङ्गनाः।
शृङ्गारा गिरिगैरिकं शिव शिव श्रीमन्ति बर्हाणि वा
शृङ्गग्राहिकया तथापि तदिदं प्राहुस्त्रिलोकेश्वरम्॥ ६०
(शार्दूलविक्रीडितम्)

श्रीमद्बर्हिशिखण्डमण्डनजुषे श्यामाभिरामत्विषे
लावण्यैकरसावसिक्तवपुषे लक्ष्मीसरःप्रावृषे।
लीलाकृष्टरसज्ञधर्ममनसे लीलामृतस्रोतसे
के वा न स्पृहयन्ति हन्त महसे गोपीजनप्रेयसे॥ ६१
(शार्दूलविक्रीडितम्)

आपाटलाधरमधीरविलोलनेत्र–
मामोदनिर्भरितमद्भुतकान्तिपूरम्।
आविस्मितामृतमनुस्मृतिलोभनीय–
मामुद्रिताननमहो मधुरं मुरारेः॥ ६२
(वसन्ततिलका)

जागृहि जागृहि चेतो
न चिराय कृतार्थता भवतः।
अनुभूयतामिदमिदं
पुरः स्थितं पूर्णनिर्वाणम्॥ ६३
(आर्या)

चरणयोररुणं करुणार्द्रयोः
कचभरे बहुलं विपुलं दृशोः।
वपुषि मञ्जुलमञ्जनमेचके
वयसि बालमहो मधुरं महः॥ ६४
(द्रुतविलम्बितम्)

मालाबर्हमनोज्ञकुन्तलभरां वन्यप्रसूनोक्षितां
शैलेयद्रवकॢप्तचित्रतिलकां शश्वन्मनोहारिणीम्
लीलावेणुरवामृतैकरसिकां लावण्यलक्ष्मीमयीं
बालां बालतमालनीलवपुषं वन्दे परां देवताम्॥ ६५
(शार्दूलविक्रीडितम्)

गुरु मृदुपदे गूढं गुल्फे घनं जघनस्थले
नलिनमुदरे वीरं बाह्वोर्विशालमुरःस्थले।
मधुरमधरे मुग्धं वक्त्रे विशालविलोचने
बहु कचभरे वन्यं वेषे मनोज्ञमहो महः॥ ६६
(हरिणी)

जिहानं जिहानं नु जानेन मौग्ध्यं
दुहानं दुहानं सुधां वेणुनादैः।
लिहानं लिहानं सुदीर्घैरपाङ्गै–
र्महानन्दसर्वस्वमेकं नमेत्तम्॥ ६७
(भुजङ्गप्रयातम्)

लसद्बर्हापीडं ललितललितस्मेरवदनं
भ्रमत्क्रीडापाङ्गं प्रणतजनतानिर्वृतिपदम्।
नवाम्भोदश्यामं निजमधुरिमाभोगभरितं
परं देवं वन्दे परिमिलितकैशोरकरसम्॥ ६८
(शिखरिणी)

सारस्यसामग्र्यमिवाननेन
माधुर्यचातुर्यमिव स्मितेन।
तारुण्यकारुण्यमिवेक्षणेन
चापल्यसाफल्यमिदं दृशोर्मे ॥ ६९
(इन्द्रवज्रा)

यत्र वा तत्र वा देव
यदि विश्वसिमस्त्वयि।
निर्वाणमपि दुर्वारम्–
अर्वाचीनानि किं पुनः॥ *
(अनुष्टुप्श्लोकम्)

रागान्धगोपीजनवन्दिताभ्यां
योगीन्द्रभृङ्गेन्द्रनिषेविताभ्याम्।
आताम्रपङ्केरुहविभ्रमाभ्यां
स्वामिन् पदाभ्यामयमञ्जलिस्ते ॥ ७०
(इन्द्रवज्रा)

अर्धानुलापान्व्रजसुन्दरीणा–
मकृत्रिमाणां च सरस्वतीनाम्।
आर्द्राशयेन श्रवणाञ्चलेन
संभावयन्तं तरुणं गृणीमः॥ ७१
(उपजाति)

मनसि मम संनिधत्तां
मधुरमुखा मन्थरापाङ्गा।
करकलितललितवंशा
कापि किशोरी कृपालहरी॥ ७२
(उपगीति)

रक्षन्तु नः शिक्षितपाशुपाल्या
बालावृता बर्हिशिखावतंसाः।
प्राणप्रियप्रस्तुतवेणुगीताः
शीता दृशोः शीतलगोपकन्याः॥ ७३
(इन्द्रवज्रा)

स्मितस्तबकिताधरं शिशिरवेणुनादामृतं
मुहुस्तरललोचनं मदकटाक्षमालाकुलम्।
उरस्तटविलीनया कमलया समालिङ्गितं
भुव:स्थलमुपागतं भुवनदैवतं पातु नः॥ ७४
(पृथ्वी)

नयनाम्बुजे भजत कामदुघं
हृदयाम्बुजे किमपि कारुणिकम्।
चरणाम्बुजे मुनिकुलैकधनं
वदनाम्बुजे व्रजवधूविभवम्॥ ७५
(प्रमिताक्षरा)

निर्वासनं हन्त रसान्तराणां
निर्वाणसाम्राज्यमिवावतीर्णम्।
अव्याजमाधुर्यमहानिधान–
मव्याद्व्रजानामधिदैवतं नः ॥ ७६
(इन्द्रवज्रा)

खेलतां मनसि खेचराङ्गना–
माननीयमृदुवेणुनि:स्वनैः।
कालमेघकलहोद्वहं महः
कानने किमपि नः कृपास्पदं॥ ७७
(रथोद्धता)

गोपीनामभिमतगीतवेषहर्षा–
दापीनस्तनभरनिर्भरोपगूढम्।
केलीनामवतु रसैरुपास्यमानं
कालिन्दीपुलिनचरं परं महो नः॥ ७८
(प्रहर्षिणी)

एणीशाबविलोचनाभिरलसश्रोणीभरप्रौढिभि–
र्वेणीभूतरसक्रमाभिरभित: श्रेणीकृताभिर्वृताः।
पाणी नाम विनोदयन्रतिपतेस्तूणीशयैः सायकै–
र्वाणीनामपदं परं व्रजजनक्षोणीपतिः पातु नः॥ ७९
(शार्दूलविक्रीडितम्)

कालिन्दीपुलिने तमालनिबिडच्छाये पुरःसंचर–
त्तोये तोयजपत्रपात्रनिहितं दध्यन्नमश्नाति यः।
वामे पाणितले निधाय मधुरं वेणुं विषाणं कटि–
प्रान्ते गाश्च विलोकयन्प्रतिकलं तं बालमालोकये॥ ८०
(शार्दूलविक्रीडितम्)

यद्गोपीवदनेन्दुमण्डनमभूत्कस्तूरिकापत्रकं
यल्लक्ष्मीकुचशातकुंभकलशे व्याकोचमिन्दीवरम्।
यन्निर्वाणनिधानसाधनविधौ सिद्धाञ्जनं योगिनां
तन्नः श्यामलमाविरस्तु हृदये कृष्णाभिधानं महः॥ ८१
(शार्दूलविक्रीडितम्)

फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम्।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं
गोविन्दं कलवेणुनादनिरतं दिव्याङ्गभूषं भजे॥ ८२
(शार्दूलविक्रीडितम्)

यन्नाभीसरसीरुहान्तरपुटे भृङ्गायमानो विधि–
र्यद्वक्षः कमलाविलाससदनं यच्चक्षुषी चेन्द्विनौ।
यत्पादाब्जविनिःसृता सुरनदी शम्भोः शिरोभूषणं
यन्नामस्मरणं धुनोति दुरितं पायात् स नः केशवः॥ *
(शार्दूलविक्रीडितम्)

रक्षन्तु त्वामसितजलजैरञ्जलिः पादमूले
मीना नाभीसरसि हृदये मारबाणा मुरारेः।
हाराः कण्ठे हरिमणिमया वक्त्रपद्मे द्विरेफाः
पिञ्छाचूडास्चिकुरनिचये घोषयोषित्कटाक्षाः॥ ८३
(मन्दाक्रान्ता)

दधिमथननिनादैस्त्यक्तनिद्रः प्रभाते
निभृतपदमगारं वल्लवीनां प्रविष्टः।
मुखकमलसमीरैराशु निर्वाप्य दीपान्
कबलितनवनीतः पातु गोपालबालः॥ ८४
(मालिनी)

प्रातः स्मरामि दधिघोषविधूतनिद्रं
निद्रावसानरमणीयमुखारविन्दम्।
हृद्यानवद्यवपुषं नयनाभिराम–
मुन्निद्रपद्मनयनं नवनीतचोरम्॥ ८५
(वसन्ततिलका)

फुल्लहल्लकवतंसकोज्ज्वल–
द्गल्लमागमगवीगवेषितम्।
वल्लवीचिकुरवासिताङ्गुली–
पल्लवं कमपि वल्लवं भजे॥ ८६
(रथोद्धता)

स्तेयं हरेर्हरति यन्नवनीतचौर्यं
जारत्वमस्य गुरुतल्पकृतापराधम्।
हत्यां दशाननहतिर्मधुपानगोष्ठीं
यत्पूतनास्तनपयः स पुनातु कृष्णः॥ ८७
(वसन्ततिलका)

मार मारम मदीयमानसे
माधवैकनिलये यदृच्छया।
हे रमारमण वार्यतामसौ
कः सहेत निजवेश्मलङ्घनम्॥ ८८
(रथोद्धता)

आकुञ्चितं जानु करं च वामं
न्यस्यावनौ दक्षिणहस्तपद्मे।
आलोकयन्तं नवनीतखण्डं
बालं भजे कृष्णमुपानताङ्गम्॥ ८९
(इन्द्रवज्रा)

मन्दारमूले मदनाभिरामं
बिम्बाधरापूरितवेणुनादम्।
गोगोपगोपीजनमध्यसंस्थं
गोपं भजे गोकुलपूर्णचन्द्रम्॥ ९०
(इन्द्रवज्रा)

जानुभ्यामभिधावन्तं
बाहुभ्यामपि सुन्दरम्।
सकुण्डलालकं बालं
गोपालं चिन्तयेदुषः॥ ९१
(अनुष्टुप्श्लोकम्)

विहाय कोदण्डशरौ मुहूर्तं
गृहाण पाणौ मणिचारुवेणुम्।
मयूरबर्हं च निजोत्तमाङ्गे
सीतापते राघव रामचन्द्र॥ ९२
(उपजाति)

अयं क्षीराम्भोधेः पतिरिति गवां पालक इति
श्रितोऽस्माभिः क्षीरोपनयनधिया गोपतनयः।
अनेन प्रत्यूहो व्यरचि सततं येन जननी–
स्तनादप्यस्माकं सकृदपि पयो दुर्लभमभूत्॥ ९३
(शिखरिणी)

हस्तमाक्षिप्य यातोऽसि
बलात्कृष्ण किमद्भुतम्।
हृदयाद्यदि निर्यासि
पौरुषं गणयामि ते॥ ९४
(अनुष्टुप्श्लोकम्)

तमसि रविरिवोद्यन्मज्जतामम्बुराशौ
प्लव इव तृषितानां स्वादुवर्षीव मेघः।
निधिरिव निधनानां दीर्घतीव्रामयानां
भिषगिव कुशलं नो दातुमायातु शौरिः॥ ९५
(मालिनी)

कोदण्डं मसृणं सुगन्धि विशिखं चक्राब्जपाशाङ्कुशं
हैमीं वेणुलतां करैश्च दधतं सिन्दूरपुञ्जारुणम्।
कंदर्पाधिकसुन्दरं स्मितमुखं गोपाङ्गनावेष्टितं
गोपालं मदनाधिपं तमभजं त्रैलोक्यरक्षामणिम्॥ ९६
(शार्दूलविक्रीडितम्)

सायङ्काले वनान्ते कुसुमितसमये सैकते चन्द्रिकायां
त्रैलोक्याकर्षणाङ्गं सुरनरगणिकामोहनापाङ्गमूर्तिम्।
सेव्यं शृङ्गारभावैर्नवरसभरितैर्गोपकन्यासहस्रै–
र्वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम्॥ ९७
(स्रग्धरा)

कदम्बमूले क्रीडन्तं
वृन्दावननिवेशितम्।
पद्मासनस्थितं वन्दे
वेणुं गायन्तमच्युतम्॥ *
(अनुष्टुप्श्लोकम्)

बालं नीलाम्बुदाभं नवमणिविलसत्किङ्किणीजालबद्ध–
श्रोणीजङ्घान्तयुग्मं विपुलरुरुनखप्रोल्लसत्कण्ठभूषम्।
फुल्लाम्भोजाभवक्त्रं हतशकटमरुत्पूतनाद्यं प्रसन्नं
गोविन्दं वन्दितेन्द्राद्यमरवरमजं पूजयेद्वासरादौ॥ ९८
(स्रग्धरा)

वन्द्यं देवैर्मुकुन्दं विकसितकुरुविन्दाभमिन्दीवराक्षं
गोपीगोबृन्दवीतं जितरिपुनिवहं कुन्दमन्दारहासम्।
नीलग्रीवाग्र्यपिञ्छाकलनसुविलसत्कुन्तलं भानुमन्तं
देवं पीताम्बराढ्यं यज यज दिनशस्तं रमायै मुकुन्दम्॥ ९९
(स्रग्धरा)

चक्रान्तध्वस्तवैरिव्रजमजितमपास्तावनीभारमाद्यै–
रावीतं नारदाद्यैर्मुनिभिरभिनुतं तत्वनिर्णीतिहेतोः।
मन्त्री तं निर्मलाङ्गं निरुपमरुचिरं चिन्तयेन्नीलभासं
सायं विश्वोदयस्थित्यपहरणपदं मुक्तिदं वासुदेवम्॥ १००
(स्रग्धरा)

कोदण्डमैक्षवमखण्डमिषुं च पौष्पं
चक्राब्जपाशसृणिकाञ्चनवंशनालम्।
विभ्राणमष्टविधबाहुभिरर्कवर्णं
ध्यायेद्धरिं मदनगोपविलासवेषम्॥ १०१
(वसन्ततिलका)

अङ्गुल्या कः कवाटं प्रहरति कुटिले माधवः किं वसन्तो
नो चक्री किं कुलालो न हि धरणिधरः किं द्विजिह्वः फणीन्द्रः।
नाहं घोराहिमर्दी किमसि खगपतिर्नो हरिः किं कपीन्द्रः
इत्येवं गोपकन्याप्रतिवचनजितः पातु वश्चक्रपाणिः॥ *
(स्रग्धरा)

राधामोहनमन्दिरादुपगतश्चन्द्रावलीमूचिवान्
राधे क्षेममिहेस्ति तस्य वचनं श्रुत्वाऽह चन्द्रावली।
कंस क्षेममये विमुग्धहृदये कंसः क्व दृष्टस्त्वया
राधा क्वेति विलज्जितो नतमुखः स्मेरो हरिः पातु वः॥ *
(शार्दूलविक्रीडितम्)

या प्रीतिर्विदुरार्पिते मुररिपो कुन्त्यर्पिते यादृशी
या गोवर्धनमूर्ध्नि या च पृथुके स्तन्ये यशोदार्पिते।
भारद्वाजसमर्पिते शबरिकादत्तेऽधरे योषितां
या प्रीतिर्मुनिपत्निभक्तिरचितेऽप्यत्रापि तां तां कुरु॥ १०२
(शार्दूलविक्रीडितम्)

कृष्णानुस्मरणादेव
पापसङ्घातपञ्चरः।
शतधा मोघमायाति
गिरिर्वज्रहतो यथा॥ *
(अनुष्टुप्श्लोकम्)

यस्यात्मभूतस्य गुरोः प्रसादा–
दहं विमुक्तोऽस्मि शरीरबन्धात्।
सर्वोपदेष्टुः पुरुषोत्तमस्य
तस्यांघ्रिपद्मं प्रणतोऽस्मि नित्यम्॥ *
(उपजाति)

इति श्रीकृष्णकर्णामृते तृतीयाश्वासः समाप्तः॥

इति श्रीकृष्णकर्णामृतं समाप्तम्॥


सम्बद्धानुबन्धाः सम्पाद्यताम्

  1. श्रीवेङ्कटेशसुप्रभातम्
  2. श्रीवेङ्कटेशस्तोत्रम्
  3. श्रीवेङ्कटेशप्रपत्तिः
  4. श्रीवेङ्कटेशमङ्गलाशासनम्
  5. श्रीकामाक्षीसुप्रभातम्
  6. श्रीकाशीविश्वनाथसुप्रभातम्
  7. श्रीविष्णुसहस्रनामस्तोत्रम्‌
"https://sa.wikisource.org/w/index.php?title=श्रीकृष्णकर्णामृतम्&oldid=337359" इत्यस्माद् प्रतिप्राप्तम्